自覺 園 ईश्व 籃 श्री १०८ ईश्वर पुस्तकालय, सुमुसु भवन, ब MEMORIAL EDITION काशी OF THE WORKS OF SRI, SANKARACHARYA. C * THE WORKS OF श्री १०८ ईश्वर मठ पुस्तकालय, सुमुक्षु भवन, अस्सा, काशी · Sri Sankaracharya SRI " - VANI VILAS -EDITION. THE WORKS OF SRI SANKARACHARYA VOLUME 18 SRI VANI VILAS PRESS SRIRANGAM- WA AAAA TO HIS HOLINESS SRI JAGADGURU SRI SACHCHIDANANDA SIVABHINAVA NRISIMHA BHARATI SWAMI WHO ADORNS THE THRONE OF THE SRINGERI MUTT AS THE WORTHY REPRESENTATIVE OF THE GREAT SANKARACHARYA AND THAN WHOM IT IS IMPOSSIBLE TO COME ACROSS A HOLIER PERSONAGE, A TRUER MAHATMA, A NOBLER SAINT AND A MORE RIGOROUS ASCETIC, THIS EDITION IS MOST RESPECTFULLY INSCRIBED AS A TOKEN OF UNBOUNDED ADMIRATION BY THE HUMBLEST OF ALL HIS DISCIPLES T. K. BALASUBRAHMANYAM. नानाजन्मसु संचितेन तपसा पूतेन चित्तात्मना मित्रेण प्रतिबोधितेन कुतुकात्सर्वाः कृतीः शांकरीः । संमुद्र्य प्रथमं जगद्गुरुपदे भक्त्या मयाद्यार्पिताः स्वीकृत्योपहृतिं करोतु गुरुराड् धन्यं तथेमं जनम् ॥ श्रीमच्छंकरदेशि केन्द्र रचितान्सर्वान्प्रबन्धान्मुदा तत्प्रीत्यै परिशोध्य पुस्तकचयैः संमुझ साकं बुधैः । तच्छात्रप्रवरालिमध्यविलसच्छ्रीदेशिकेन्द्रेषु ता- कृस्वाद्योपहृतिं सभक्तिविनयं नूनं कृतार्थोऽस्म्यहम् ॥ सौम्याब्दमाघार्जुनपक्षराजत्सूर्याङ्कतिथ्याश्रित सोमबारे । श्रीशंकरार्यप्रतिमाप्रतिष्ठाकाले मयैषोपहृतिर्व्यधायि ॥ श्रीशंकरकृतिमाला गुरुवरतुष्ट्यै समर्पिता मोदात् । बालादिपदभाजा सुब्रह्मण्येन भक्तिनम्रेण ॥ ४ ॥ CONTENTS. PAGE. VISHNU STOTRAS 1 MISCELLANEOUS STOTRAS 70 LALITA TRISATISTOTRA BHASHYA 161 DY : ॥ विषयाः ॥ विष्णुस्तोत्राणि संकीर्णस्तोत्राणि ... ललितात्रिशतीस्तोत्रभाष्यम् : .. पृष्ठम् १ ७० १६१ STOTRAS. Vol. 2 CA SAITCIC स्क्रू ३६० ॥ स्तोत्राणि ॥ द्वितीयो भागः * श्री १०८ ईश्वर मठ Ek पुस्तकालय, ,की · सुमुख भवन, अस्सी का ॥ श्रीः ॥ ॥ विषयानुक्रमणिका 11 -20*88++ पृष्ठम् १ ३ ११ १३ १८ २२ ३६ ३९ ४२ ४५ ५६ ५९ ६२ ७० % : : : : : : : : : : : : : : : : : : : : : : : : : : : : : हनुमत्पश्चरत्नम् श्रीरामभुजंगप्रयातस्तोत्रम लक्ष्मीनृसिंहपञ्चरत्नम् लक्ष्मीनृसिंहकरुणारसस्तोत्रम् श्रीविष्णुभुजंगप्रयातस्तोत्रम् विष्णुपादादिकेशान्तस्तोत्रम् ... पाण्डुरङ्गाष्टकम् अच्युताष्टकम् कृष्णाष्टकम् हरिस्तुति: गोविन्दाष्टकम् भगवन्मानसपूजा... मोहमुद्गरः ... कनकधारास्तोत्रम्.. अन्नपूर्णाष्टकम् s sii O ७५ मीनाक्षी पञ्चरत्नम्... मीनाक्षीस्तोत्रम् [ २ ] दक्षिणामूर्तिस्तोत्रम् कालभैरवाष्टकम् ....... नर्मदाष्टकम् ... ... यमुनाष्टकम् ... यमुनाष्टकम् गङ्गाष्टकम् ... मणिकर्णिकाष्टकम् निर्गुणमानसपूजा... प्रातःस्मरणस्तोत्रम् जगन्नाथाष्टकम् ... ७९ ... 604 ८१ ८४ : : ८९ ... ... ९२ : : :: ९५ ९८ १०१ ... ... १०४ १०७ : ... ११२ ... : ... ११४ ... .... ... ११७ 100 ... ११९ ** ... १२२ ... ... ... १३० ... १३४ .१३७ ... ... १४० ... १४३ षट्पदीस्तोत्रम् भ्रमराम्बाष्टकम् ... शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् द्वादशलिङ्गस्तोत्रम् अर्धनारीश्वरस्तोत्रम् शारदा भुजंगप्रयाताष्टकम् गुर्वष्टकम् काशीपञ्चकम् i ॥ श्रीमहाविष्णुः ॥ ॥ श्रीः ॥ ॥ हनुमत्पञ्चरत्नम् ॥ वीताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम् । सीतापतिदूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ १ ॥ तरुणारुणमुखकमलं करुणारसपूरपूरितापाङ्गम् । संजीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥ २ ॥ शम्बरवैरिशरातिग- मम्बुजदलविपुललोचनोदारम् । कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठमेकमवलम्बे ॥ ३ ॥ दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः । दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ ४ ॥ वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृक्षम् । दीनजनावनदीक्षं पवनतपःपाकपुञ्जमद्राक्षम् ॥ ५ ॥ एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् । चिरमिह निखिलान्भोगा- न्भुङ्क्त्वा श्रीरामभक्तिभाग्भवति ॥ ६ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ हनुमत्पञ्चरत्नं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ श्रीरामभुजंगप्रयातस्तोत्रम् ॥ विशुद्धं परं सच्चिदानन्दरूपं गुणाधारमाधारहीनं वरेण्यम् । महान्तं विभान्तं गुहान्तं गुणान्तं सुखान्तं स्वयं धाम रामं प्रपद्ये ॥ १ ॥ शिवं नित्यमेकं विभुं तारकाख्यं सुखाकारमाकारशून्यं सुमान्यम् । महेशं कलेशं सुरेशं परेशं नरेशं निरीशं महीशं प्रपद्ये ॥ २ ॥ यदावर्णयत्कर्णमूलेऽन्तकाले शिवो राम रामेति रामेति काश्याम् । तदेकं परं तारकब्रह्मरूपं भजेऽहं भजेऽहं भजेऽहं भजेऽहम् ॥ ३ ॥ महारत्नपीठे शुभे कल्पमूले सुखासीनमादित्यकोटिप्रकाशम् । सदा जानकीलक्ष्मणोपेतमेकं सदा रामचन्द्रं भजेऽहं भजेऽहम् ॥ ४ ॥ क्वणद्रत्नमञ्जीरपादारविन्दं लसन्मेखलाचारुपीताम्बराढ्यम् । महारत्नहारोल्लसत्कौस्तुभाङ्गं नदच्चञ्चरीमञ्जरीलोलमालम् ॥ ५ ॥ लसच्चन्द्रिकास्मेरशोणाधराभं समुद्यत्पतङ्गेन्दुकोटिप्रकाशम् । नमद्ब्रह्मरुद्रादिकोटीररत्न- स्फुरत्कान्तिनीराजनाराधिताङ्घ्रिम् ॥ ६ ॥ पुरः प्राञ्जलीनाञ्जनेयादिभक्ता- न्स्वचिन्मुद्रया भद्रया बोधयन्तम् । भजेऽहं भजेऽहं सदा रामचन्द्रं त्वदन्यं न मन्ये न मन्ये न मन्ये ॥ ७ ॥ यदा मत्समीपं कृतान्तः समेत्य प्रचण्डप्रकोपैर्भटैर्भीषयेन्माम् । तदाविष्करोषि त्वदीयं स्वरूपं सदापत्प्रणाशं सकोदण्डबाणम् ॥ ८ ॥ निजे मानसे मन्दिरे संनिधेहि प्रसीद प्रसीद प्रभो रामचन्द्र । ससौमित्रिणा कैकयीनन्दनेन स्वशक्त्यानुभक्त्या च संसेव्यमान ॥ ९ ॥ स्वभक्ताग्रगण्यैः कपीशैर्महीशै- रनीकैरनेकैश्च राम प्रसीद । नमस्ते नमोऽस्त्वीश राम प्रसीद प्रशाधि प्रशाधि प्रकाशं प्रभो माम् ॥ १० ॥ त्वमेवासि दैवं परं मे यदेकं सुचैतन्यमेतत्त्वदन्यं न मन्ये । यतोऽभूदमेयं वियद्वायुतेजो- जलोर्व्यादिकार्यं चरं चाचरं च ॥ ११ ॥ नमः सच्चिदानन्दरूपाय तस्मै नमो देवदेवाय रामाय तुभ्यम् । नमो जानकीजीवितेशाय तुभ्यं नमः पुण्डरीकायताक्षाय तुभ्यम् ॥ १२ ॥ नमो भक्तियुक्तानुरक्ताय तुभ्यं नमः पुण्यपुञ्जैकलभ्याय तुभ्यम् । नमो वेदवेद्याय चाद्याय पुंसे नमः सुन्दरायेन्दिरावल्लभाय ॥ १३ ॥ नमो विश्वकर्त्रे नमो विश्वहर्त्रे नमो विश्वभोक्रे नमो विश्वमात्रे । नमो विश्वनेत्रे नमो विश्वजेत्रे नमो विश्वपित्रे नमो विश्वमात्रे ॥ १४ ॥ नमस्ते नमस्ते समस्तप्रपञ्च- प्रभोगप्रयोगप्रमाणप्रवीण । मदीयं मनस्त्वत्पदद्वन्द्वसेवां विधातुं प्रवृत्तं सुचैतन्यसिद्ध्यै ॥ १५ ॥ शिलापि त्वदङ्घ्रिक्षमासङ्गिरेणु- प्रसादाद्धि चैतन्यमाधत्त राम । नरस्त्वत्पदद्वन्द्वसेवाविधाना- त्सुचैतन्यमेतीति किं चित्रमत्र ॥ १६ ॥ पवित्रं चरित्रं विचित्रं त्वदीयं नरा ये स्मरन्त्यन्वहं रामचन्द्र । भवन्तं भवान्तं भरन्तं भजन्तो लभन्ते कृतान्तं न पश्यन्त्यतोऽन्ते ॥ १७ ॥ स पुण्यः स गण्यः शरण्यो ममायं नरो वेद यो देवचूडामणिं त्वाम् । सदाकारमेकं चिदानन्दरूपं मनोवागगम्यं परं धाम राम ॥ १८ ॥ प्रचण्डप्रतापप्रभावाभिभूत- प्रभूतारिवीर प्रभो रामचन्द्र । बलं ते कथं वर्ण्यतेऽतीव बाल्ये यतोऽखण्डि चण्डीशकोदण्डदण्डम् ॥ १९ ॥ दशग्रीवमुग्रं सपुत्रं समित्रं सरिद्दुर्गमध्यस्थरक्षोगणेशम् । भवन्तं विना राम वीरो नरो वा- सुरो वामरो वा जयेत्कस्त्रिलोक्याम् ॥ २० ॥ सदा राम रामेति रामामृतं ते सदाराममानन्दनिष्यन्दकन्दम् । पिबन्तं नमन्तं सुदन्तं हसन्तं हनूमन्तमन्तर्भजे तं नितान्तम् ॥ २१ ॥ सदा राम रामेति रामामृतं ते सदाराममानन्दनिष्यन्दकन्दम् । पिबन्नन्वहं नन्वहं नैव मृत्यो- र्बिभेमि प्रसादादसादात्तवैव ॥ २२ ॥ असीतासमेतैरकोदण्डभूषै- रसौमित्रिवन्द्यैरचण्डप्रतापैः । अलङ्केशकालैरसुग्रीवमित्रै- ररामाभिधेयैरलं दैवतैर्नः ॥ २३ ॥ अवीरासनस्थैरचिन्मुद्रिकाढ्यै- रभक्ताञ्जनेयादितत्त्वप्रकाशैः । अमन्दारमूलैरमन्दारमालै- ररामाभिधेयैरलं दैवतैर्नः ॥ २४ ॥ असिन्धुप्रकोपैरवन्द्यप्रतापै- रबन्धुप्रयाणैरमन्दस्मिताढ्यैः । अदण्डप्रवासैरखण्डप्रबोधै- ररामाभिधेयैरलं दैवतैर्नः ॥ २५ ॥ हरे राम सीतापते रावणारे खरारे मुरारेऽसुरारे परेति । लपन्तं नयन्तं सदाकालमेवं समालोकयालोकयाशेषबन्धो ॥ २६ ॥ नमस्ते सुमित्रासुपुत्राभिवन्द्य नमस्ते सदा कैकयीनन्दनेड्य । नमस्ते सदा वानराधीशवन्द्य नमस्ते नमस्ते सदा रामचन्द्र ॥ २७ ॥ प्रसीद प्रसीद प्रचण्डप्रताप प्रसीद प्रसीद प्रचण्डारिकाल । प्रसीद प्रसीद प्रपन्नानुकम्पिन् प्रसीद प्रसीद प्रभो रामचन्द्र ॥ २८ ॥ भुजङ्गप्रयातं परं वेदसारं मुदा रामचन्द्रस्य भक्त्या च नित्यम् । पठन्सन्ततं चिन्तयन्स्वान्तरङ्गे स एव स्वयं रामचन्द्रः स धन्यः ॥ २९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीरामभुजङ्गप्रयातस्तोत्रम् संपूर्णम् ॥ ॥ श्रीः ॥ ॥ लक्ष्मीनृसिंहपञ्चरत्नम् ॥ त्वत्प्रभुजीवप्रियमिच्छसि चेन्नररिपूजां कुरु सततं प्रतिबिम्बालंकृतिधृतिकुशलो बिम्बालंकृतिमातनुते । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ शुक्तौ रजतप्रतिभा जाता कटकाद्यर्थसमर्था चे- द्दुःखमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात् । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरोः गन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेऽस्मिन् । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ३ ॥ स्रक्चन्दनवनितादीन्विषयान्सुखदान्मत्वा तत्र विहरसे गन्धफलीसदृशा ननु तेऽमी भोगानन्तरदुःखकृतः स्युः । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥४॥ तव हितमेकं वचनं वक्ष्ये शृणु सुखकामो यदि सततं स्वप्ने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वदिति । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ लक्ष्मीनृसिंहपञ्चरत्नं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ लक्ष्मीनृसिंहकरुणारसस्तोत्रम् ॥ श्रीमत्पयोनिधिनिकेतनचक्रपाणे भोगीन्द्रभोगमणिराजितपुण्यमूर्ते । योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १ ॥ ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटि- संघट्टिताङ्घ्रिकमलामलकान्तिकान्त । लक्ष्मीलसत्कुचसरोरुहराजहंस लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २ ॥ संसारदावदहनाकरभीकरोरु- ज्वालावलीभिरतिदग्धतनूरुहस्य । त्वत्पादपद्मसरसीरुहमागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ३ ॥ संसारजालपतितस्य जगन्निवास सर्वेन्द्रियार्थबडिशाग्रझषोपमस्य । प्रोत्कम्पितप्रचुरतालुकमस्तकस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ४ ॥ संसारकूपमतिघोरमागमगाधमूलं संप्राप्य दुःखशतसर्पसमाकुलस्य । दीनस्य देव कृपया पदमागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ५ ॥ संसारभीकरकरीन्द्रकराभिघात- निष्पीड्यमानवपुषः सकलार्तिनाश । प्राणप्रयाणभवभीतिसमाकुलस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ६ ॥ संसारसर्पविषदिग्धमहोग्रतीव्र- दंष्ट्राग्रकोटिपरिदष्टविनष्टमूर्तेः । नागारिवाहन सुधाब्धिनिवास शौरे लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ७ ॥ संसारवृक्षमघबीजमनन्तकर्म- शाखायुतं करणपत्रमनङ्गपुष्पम् । आरुह्य दु:खफलितं चकितं दयालो लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ८ ॥ संसारसागरविशालकरालकाल- नक्रग्रहग्रसितनिग्रहविग्रहस्य । व्यग्रस्य रागनिचयोर्मिनिपीडितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ९ ॥ संसारसागरनिमज्जनमुह्यमानं दीनं विलोकय विभो करुणानिधे माम् । प्रह्लादखेदपरिहारपरावतार लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १० ॥ संसारघोरगहने चरतो मुरारे मारोग्रभीकरमृगप्रचुरार्दितस्य । आर्तस्य मत्सरनिदाघसुदुःखितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ११ ॥ बद्ध्वा गले यमभटा बहु तर्जयन्तः कर्षन्ति यत्र भवपाशशतैर्युतं माम् । एकाकिनं परवशं चकितं दयालो लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १२ ॥ लक्ष्मीपते कमलनाभ सुरेश विष्णो यज्ञेश यज्ञ मधुसूदन विश्वरूप । ब्रह्मण्य केशव जनार्दन वासुदेव लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १३ ॥ एकेन चक्रमपरेण करेण शङ्ख- मन्येन सिन्धुतनयामवलम्ब्य तिष्ठन् । वामेतरेण वरदाभयपद्मचिह्नं लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १४ ॥ अन्धस्य मे हृतविवेकमहाधनस्य चोरैर्महाबलिभिरिन्द्रियनामधेयैः । मोहान्धकारकुहरे विनिपातितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १५ ॥ प्रह्लादनारदपराशरपुण्डरीक- व्यासादिभागवतपुंगवहृन्निवास । भक्तानुरुक्तपरिपालनपारिजात लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १६ ॥ लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन स्तोत्रं कृतं शुभकरं भुवि शंकरेण । ये तत्पठन्ति मनुजा हरिभक्तियुक्ता- स्ते यान्ति तत्पदसरोजमखण्डरूपम् ॥ १७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ लक्ष्मीनृसिंहकरुणारसस्तोत्रं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ श्रीविष्णुभुजंगप्रयातस्तोत्रम् ॥ चिदंशं विभुं निर्मलं निर्विकल्पं निरीहं निराकारमोंकारगम्यम् । गुणातीतमव्यक्तमेकं तुरीयं परं ब्रह्म यं वेद तस्मै नमस्ते ॥ १ ॥ विशुद्धं शिवं शान्तमाद्यन्तशून्यं जगज्जीवनं ज्योतिरानन्दरूपम् । अदिग्देशकालव्यवच्छेदनीयं त्रयी वक्ति यं वेद तस्मै नमस्तैस्ते ॥ २ ॥ महायोगपीठे परिभ्राजमाने धरण्यादितत्त्वात्मके शक्तियुक्ते । गुणास्करे वह्निबिम्बार्धमध्ये समासीनमोंकर्णिकेऽष्टाक्षराब्जे ॥ ३ ॥ समानोदितानेकसूर्येन्दुकोटि- प्रभापूरतुल्यद्युतिं दुर्निरीक्षम् । न शीतं न चोष्णं सुवर्णावदात- प्रसन्नं सदानन्दसंवित्स्वरूपम् ॥ ४ ॥ सुनासापुटं सुन्दरभ्रूललाटं किरीटोचिताकुञ्चितस्निग्धकेशम् । स्फुरत्पुण्डरीकाभिरामायताक्षं समुत्फुल्लरत्नप्रसूनावतंसम् ॥ ५ ॥ लसत्कुण्डलामृष्टगण्डस्थलान्तं जपारागचोराधरं चारुहासम् । अलिव्याकुलामोदिमन्दारमालं महोरस्फुरत्कौस्तुभोदारहारम् ॥ ६ ॥ सुरत्नाङ्गदैरन्वितं बाहुदण्डै- श्चतुर्भिश्चलत्कङ्कणालंकृताग्रैः । उदारोदरालंकृतं पीतवस्त्रं पदद्वन्द्वनिर्धूतपद्माभिरामम् ॥ ७ ॥ स्वभक्तेषु संदर्शिताकारमेवं सदा भावयन्संनिरुद्धेन्द्रियाश्वः । दुरापं नरो याति संसारपारं परस्मै परेभ्योऽपि तस्मै नमस्ते ॥ ८ ॥ श्रिया शातकुम्भद्युतिस्निग्धकान्त्या धरण्या च दूर्वादलश्यामलाङ्ग्या । कलत्रद्वयेनामुना तोषिताय त्रिलोकीगृहस्थाय विष्णो नमस्ते ॥ ९ ॥ शरीरं कलत्रं सुतं बन्धुवर्गं वयस्यं धनं सद्म भृत्यं भुवं च । समस्तं परित्यज्य हा कष्टमेको गमिष्यामि दुःखेन दूरं किलाहम् ॥ १० ॥ जरेयं पिशाचीव हा जीवतो मे वसामत्ति रक्तं च मांसं बलं च । अहो देव सीदामि दीनानुकम्पि- न्किमद्यापि इन्त त्वयोदासितव्यम् ॥ ११ ॥ कफव्याहतोष्णोल्बणश्वासवेग- व्यथाविष्फुरत्सर्वमर्मास्थिबन्धाम् । विचिन्त्याहमन्त्यामसंख्यामवस्थां बिभेमि प्रभो किं करोमि प्रसीद ॥ १२ ॥ लपन्नच्युतानन्त गोविन्द विष्णो मुरारे हरे नाथ नारायणेति । यथानुस्मरिष्यामि भक्त्या भवन्तं तथा मे दयाशील देव प्रसीद ॥ १३ ॥ भुजंगप्रयातं पठेद्यस्तु भक्त्या समाधाय चित्ते भवन्तं मुरारे । स मोहं विहायाशु युष्मत्प्रसादा- त्समाश्रित्य योगं व्रजत्यच्युतं त्वाम् ॥ १४ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीविष्णुभुजंगप्रयातस्तोत्रं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ विष्णुपादादिकेशान्तस्तोत्रम् ॥ लक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालं नीलाद्रेस्तुङ्गशृङ्गस्थितमिव रजनीनाथबिम्बं विभाति । पायान्नः पाञ्चजन्यः स दितिसुतकुलत्रासनैः पूरयन्स्वै- र्निध्वानैर्नीरदौघध्वनिपरिभवदैरम्बरं कम्बुराजः ॥ १ ॥ आहुर्यस्य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतं ध्वान्तस्यैकान्तमन्तं यदपि च परमं सर्वधाम्नां च धाम । चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं शश्वन्नो विश्ववन्द्यं वितरतु विपुलं शर्म घर्मांशुशोभम् ॥ अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्ते- रस्मान्विस्मेरनेत्रत्रिदशनुतिवचःसाधुकारैः सुतारः । सर्वं संहर्तुमिच्छोररिकुलभुवनं स्फारविष्फारनादः संयत्कल्पान्तसिन्धौ शरसलिलघटावार्मुचः कार्मुकस्य ॥ जीमूतश्यामभासा मुहुरपि भगवद्बाहुना मोहयन्ती युद्धेषूद्धूयमाना झटिति तटिदिवालक्ष्यते यस्य मूर्तिः । सोऽसिस्त्रासाकुलाक्षत्रिदशरिपुवपुःशोणितास्वादतृप्तो नित्यानन्दाय भूयान्मधुमथनमनोनन्दनो नन्दको नः ॥ कम्राकारा मुरारेः करकमलतलेनानुरागाद्गृहीता सम्यग्वृत्ता स्थिताग्रे सपदि न सहते दर्शनं या परेषाम् । राजन्ती दैत्यजीवासवमदमुदिता लोहितालेपनार्द्रा कामं दीप्तांशुकान्ता प्रदिशतु दयितेवास्य कौमोदकी नः ॥ यो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपो ग्रं संचिन्त्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतन्ति । चञ्चच्चण्डोरुतुण्डत्रुटितफणिवसारक्तपङ्काङ्कितास्यं वन्दे छन्दोमयं तं खगपतिममलस्वर्णवर्णं सुपर्णम् ॥ ६ ॥ विष्णोर्विश्वेश्वरस्य प्रवरशयनकृत्सर्वलोकैकधर्ता सोऽनन्तः सर्वभूतः पृथुविमलयशाः सर्ववेदैश्च वेद्यः । पाता विश्वस्य शश्वत्सकलसुररिपुध्वंसनः पापहन्ता सर्वज्ञः सर्वसाक्षी सकलविषभयात्पातु भोगीश्वरो नः ॥ वाग्भूगौर्यादिभेदैर्विदुरिह मुनयो यां यदीयैश्च पुंसां कारुण्यार्द्रैः कटाक्षैः सकृदपि पतितैः संपदः स्युः समग्राः । कुन्देन्दुस्वच्छमन्दस्मितमधुरमुखाम्भोरुहां सुन्दराङ्गीं वन्दे वन्द्यामशेषैरपि मुरभिदुरोमन्दिरामिन्दिरां ताम् ॥ या सूते सत्त्वजालं सकलमपि सदा संनिधानेन पुंसो धत्ते या तत्त्वयोगाच्चरमचरमिदं भूतये भूतजातम् । धात्रीं स्थात्रीं जनित्रीं प्रकृतिमविकृतिं विश्वशक्तिं विधात्रीं विष्णोर्विश्वात्मनस्तां विपुलगुणमयीं प्राणनाथां प्रणौमि ॥ येभ्योऽसूयद्भिरुच्चैः सपदि पदमुरु त्यज्यते दैत्यवर्गै- र्येभ्यो धर्तुं च मूर्ध्ना स्पृहयति सततं सर्वगीर्वाणवर्गः । नित्यं निर्मूलयेयुर्निचिततरममी भक्तिनिघ्नात्मनां नः पद्माक्षस्याङ्घ्रिपद्मद्वयतलनिलयाः पांसवः पापपङ्कम् ॥ रेखा लेखादिवन्द्याश्चरणतलगताश्चक्रमत्स्यादिरूपाः स्निग्धाः सूक्ष्माः सुजाता मृदुललिततरक्षौमसूत्रायमाणाः । दद्युर्नो मङ्गलानि भ्रमरभरजुषा कोमलेनाब्धिजायाः कम्रेणाम्रेड्यमानाः किसलयमृदुना पाणिना चक्रपाणेः ॥ यस्मादाक्रामतो द्यां गरुडमणिशिलाकेतुदण्डायमाना- दाश्च्योतन्ती बभासे सुरसरिदमला वैजयन्तीव कान्ता । भूमिष्ठो यस्तथान्यो भुवनगृहबृहत्स्तम्भशोभां दधौ नः पातामेतौ पयोजोदरललिततलौ पङ्कजाक्षस्य पादौ ॥ आक्रामद्भयां त्रिलोकीमसुरसुरपती तत्क्षणादेव नीतौ याभ्यां वैरोचनीन्द्रौ युगपदपि विपत्संपदोरेकधाम । ताभ्यां ताम्रोदराभ्यां मुहुरहमजितस्याञ्चिताभ्यामुभाभ्यां प्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगतः पादपङ्केरुहाभ्याम् ॥ येभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानां साहस्री चापि संख्या प्रकटमभिहिता सर्ववेदेषु येषाम् । प्राप्ता विश्वंभरा यैरतिवितततनोर्विश्वमूर्तेर्विराजो विष्णोस्तेभ्यो महद्भ्यः सततमपि नमोऽस्त्वङ्घ्रिपङ्केरुहेभ्यः ॥ विष्णोः पादद्वयाग्रे विमलनखमणिभ्राजिता राजते या राजीवस्येव रम्या हिमजलकणिकालंकृताग्रा दलाली । अस्माकं विस्मयार्हाण्यखिलजनमनःप्रार्थनीया हि सेयं दद्यादाद्यानवद्या ततिरतिरुचिरा मङ्गलान्यङ्गुलीनाम् ॥ यस्यां दृष्ट्वामलायां प्रतिकृतिममराः संभवन्त्यानमन्तः सेन्द्राः सान्द्रीकृतेर्ष्यास्त्वपरसुरकुलाशङ्कयातङ्कवन्तः । सा सद्यः सातिरेकां सकलसुखकरीं संपदं साधयेन्न- श्चञ्चच्चार्वंशुचक्रा चरणनलिनयोश्चक्रपाणेर्नखाली॥ पादाम्भोजन्मसेवासमवनतसुरव्रातभास्वत्किरीट- प्रत्युप्तोच्चावचाश्मप्रवरकरगणैश्चित्रितं यद्विभाति । नम्राङ्गानां हरेर्नो हरिदुपलमहाकूर्मसौन्दर्यहारि- च्छायं श्रेयःप्रदायि प्रपदयुगमिदं प्रापयेत्पापमन्तम् ॥ श्रीमत्यौ चारुवृत्ते करपरिमलनानन्दहृष्टे रमायाः सौन्दर्याढ्येन्द्रनीलोपलरचितमहादण्डयोः कान्तिचोरे । सूरीन्द्रैः स्तूयमाने सुरकुलसुखदे सूदितारातिसंघे जङ्घे नारायणीये मुहुरपि जयतामस्मदंहो हरन्त्यौ ॥ सम्यक्साह्यं विधातुं सममिव सततं जङ्घयोः खिन्नयोर्ये भारीभूतोरुदण्डद्वयभरणकृतोत्तम्भभावं भजेते । चित्तादर्शं निधातुं महितमिव सतां ते समुद्रायमाने वृत्ताकारे विधत्तां हृदि मुदमजितस्यानिशं जानुनी नः ॥ देवो भीतिं विधातुः सपदि विदधतौ कैटभाख्यं मधुं चा- प्यारोप्यारूढगर्वावधिजलधि ययोरादिदैत्यौ जघान । वृत्तावन्योन्यतुल्यौ चतुरमुपचयं विभ्रतावभ्रनीला- वूरू चारू हरेस्तौ मुदमतिशयिनीं मानसे नो विधत्ताम् ॥ पीतेन द्योतते यच्चतुरपरिहितेनाम्बरेणात्युदारं जातालंकारयोगं जलमिव जलधेर्वाडबाग्निप्रभाभिः । एतत्पातित्यदान्नो जघनमतिघनादेनसो माननीयं सातत्येनैव चेतोविषयमवतरत्पातु पीताम्बरस्य ॥ २१ ॥ यस्या दाम्ना त्रिधाम्नो जघनकलितया भ्राजतेऽङ्गं यथाब्धे- र्मध्यस्थो मन्दराद्रिर्भुजगपतिमहाभोगसंनद्धमध्यः । काञ्ची सा काञ्चनाभा मणिवरकिरणैरुल्लसद्भिः प्रदीप्ता कल्यां कल्याणदात्री मम मतिमनिशं कम्ररूपा करोतु ॥ उन्नम्नं कम्रमुच्चैरुपचितमुदभूद्यत्र पत्रैर्विचित्रैः पूर्वं गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् । यस्मिन्नीलाश्मनीलैस्तरलरुचिजलैः पूरिते केलिबुद्ध्या नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय ॥ पातालं यस्य नालं वलयमपि दिशां पत्रपङ्क्तीर्नगेन्द्रा- न्विद्वांसः केसरालीर्विदुरिह विपुलां कर्णिकां स्वर्णशैलम् । भूयाद्गायत्स्वयंभूमधुकरभवनं भूमयं कामदं नो नालीकं नाभिपद्माकरभवमुरु तन्नागशय्यस्य शौरेः ॥ आदौ कल्पस्य यस्मात्प्रभवति विततं विश्वमेतद्विकल्पैः कल्पान्ते यस्य चान्तः प्रविशति सकलं स्थावरं जङ्गमं च । अत्यन्ताचिन्त्यमूर्तेश्चिरतरमजितस्यान्तरिक्षस्वरूपे तस्मिन्नस्माकमन्तःकरणमतिमुदा क्रीडतात्क्रोडभागे ॥ कान्त्यम्भःपूरपूर्णे लसदसितवलीभङ्गभास्वत्तरङ्गे गम्भीराकारनाभीचतुरतरमहावर्तशोभिन्युदारे । क्रीडत्वानद्धहेमोदरनहनमहाबाडवाग्निप्रभाढ्ये कामं दामोदरीयोदरसलिलनिधौ चित्तमत्स्यश्चिरं नः ॥ नाभीनालीकमूलादधिकपरिमलोन्मोहितानामलीनां माला नीलेव यान्ती स्फुरति रुचिमती वक्त्रपद्मोन्मुखी या । रम्या सा रोमराजिर्महितरुचिकरी मध्यभागस्य विष्णो- श्चित्तस्था मा विरंसीच्चिरतरमुचितां साधयन्ती श्रीश्रियं नः ॥ संस्तीर्णं कौस्तुभांशुप्रसरकिसलयैर्मुग्धमुक्ताफलाढ्यं श्रीवत्सोल्लासि फुल्लप्रतिनववनमालाङ्कि राजद्भुजान्तम् । वक्षः श्रीवृक्षकान्तं मधुकरनिकरश्यामलं शार्ङ्गपाणेः संसाराध्वश्रमार्तैरुपवनमिव यत्सेवितं तत्प्रपद्ये ॥ २८ ॥ कान्तं वक्षो नितान्तं विदधदिव गलं कालिमा कालशत्रो- रिन्दोर्बिम्बं यथाङ्को मधुप इव तरोर्मञ्जरीं राजते यः । श्रीमान्नित्यं विधेयादविरलमिलितः कौस्तुभश्रीप्रतानैः श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैः श्रियं नः ॥ संभूयाम्भोधिमध्यात्सपदि सहजया यः श्रिया संनिधत्ते नीले नारायणोरःस्थलगगनतले हारतारोपसेव्ये । आशाः सर्वाः प्रकाशा विदधदपिदधच्चात्मभासान्यतेजां- स्याश्चर्यस्याकरो नो द्युमणिरिव मणिः कौस्तुभः सोऽस्तु भूत्यै । या वायावानुकूल्यात्सरति मणिरुचा भासमाना समाना साकं साकम्पमंसे वसति विदधती वासुभद्रं सुभद्रम् । सारं सारङ्गसंघैर्मुखरितकुसुमा मेचकान्ता च कान्ता माला मालालितास्मान्न विरमतु सुखैर्योजयन्ती जयन्ती ॥ हारस्योरुप्रभाभिः प्रतिनववनमालांशुभिः प्रांशुरूपैः श्रीभिश्चाप्यङ्गदानां कबलितरुचि यन्निष्कभाभिश्च भाति । बाहुल्येनैव बद्धाञ्जलिपुटमजितस्याभियाचामहे त- द्बन्धार्तिं बाधतां नो बहुविहतिकरीं बन्धुरं बाहुमूलम् ॥ विश्वत्राणैकदीक्षास्तदनुगुणगुणक्षत्रनिर्माणदक्षाः कर्तारो दुर्निरूपस्फुटगुणयशसां कर्मणामद्भुतानाम् । शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशङ्खौ सहस्रं बिभ्राणाः शस्त्रजालं मम दधतु हरेर्बाहवो मोहहानिम् ॥ कण्ठाकल्पोद्गतैर्यः कनकमयलसत्कुण्डलोत्थैरुदारै- रुद्योतैः कौस्तुभस्याप्युरुभिरुपचितश्चित्रवर्णो विभाति । कण्ठाश्लेषे रमायाः करवलयपदैर्मुद्रिते भद्ररूपे वैकुण्ठीयेऽत्र कण्ठे वसतु मम मतिः कुण्ठभावं विहाय ॥ पद्मानन्दप्रदाता परिलसदरुणश्रीपरीताग्रभागः काले काले च कम्बुप्रवरशशधरापूरणे यः प्रवीणः । वक्त्राकाशान्तरस्थस्तिरयति नितरां दन्ततारौघशोभां श्रीभर्तुर्दन्तवासोद्युमणिरघतमोनाशनायास्त्वसौ नः ॥ नित्यं स्नेहातिरेकान्निजकमितुरलं विप्रयोगाक्षमा या वक्त्रेन्दोरन्तराले कृतवसतिरिवाभाति नक्षत्रराजिः । लक्ष्मीकान्तस्य कान्ताकृतिरतिविलसन्मुग्धमुक्तावलिश्री- र्दन्ताली संततं सा नतिनुतिनिरतानक्षतान्रक्षतान्नः ॥ ब्रह्मन्ब्रह्मण्यजिह्मां मतिमपि कुरुषे देव संभावये त्वां शंभो शक्र त्रिलोकीमवसि किममरैर्नारदाद्याः सुखं वः । इत्थं सेवावनम्रं सुरमुनिनिकरं वीक्ष्य विष्णोः प्रसन्न- स्यास्येन्दोरास्रवन्ती वरवचनसुधाह्लादयेन्मानसं नः ॥ कर्णस्थस्वर्णकम्रोज्ज्वलमकरमहाकुण्डलप्रोतदीप्य- न्माणिक्यश्रीप्रतानैः परिमिलितमलिश्यामलं कोमलं यत् । प्रोद्यत्सूर्यांशुराजन्मरकतमुकुराकारचोरं मुरारे- र्गाढामागामिनीं नः शमयतु विपदं गण्डयोर्मण्डलं तत् ॥ वक्त्राम्भोजे लसन्तं मुहुरधरमणिं पक्वबिम्बाभिरामं दृष्ट्वा द्रष्टुं शुकस्य स्फुटमवतरतस्तुण्डदण्डायते यः । घोणः शोणीकृतात्मा श्रवणयुगलसत्कुण्डलोस्रैर्मुरारैःरेः प्राणाख्यस्यानिलस्य प्रसरणसरणिः प्राणदानाय नः स्यात् ॥ दिक्कालौ वेदयन्तौ जगति मुहुरिमौ संचरन्तौ रवीन्दू त्रैलोक्यालोकदीपावभिदधति ययोरेव रूपं मुनीन्द्राः । अस्मानब्जप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे पातामाताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे ॥४०॥ पातात्पातालपातात्पतगपतिगतेर्भ्रूयुगं भुग्नमध्यं येनेषच्चालितेन स्वपदनियमिताः सासुरा देवसंघाः । नृत्यल्लालाटरङ्गे रजनिकरतनोरर्धखण्डावदाते कालव्यालद्वयं वा विलसति समया वालिकामातरं नः ॥ लक्ष्माकारालकालिस्फुरदलिकशशाङ्कार्धसंदर्शमील- न्नेत्राम्भोजप्रबोधोत्सुकनिभृततरालीनभृङ्गच्छटाभे । लक्ष्मीनाथस्य लक्ष्यीकृतविबुधगणापाङ्गबाणासनार्ध- च्छाये नो भूरिभूतिप्रसवकुशलते भ्रूलते पालयेताम् ॥ रूक्षस्मारेक्षुचापच्युतशरनिकरक्षीणलक्ष्मीकटाक्ष- प्रोत्फुल्लत्पद्ममालाविलसितमहितस्फाटिकैशानलिङ्गम् । भूयाद्भूयो विभूत्यै मम भुवनपतेर्भूलताद्वन्द्वमध्या- दुत्थं तत्पुण्ड्रमूर्ध्वं जनिमरणतमःखण्डनं मण्डनं च ॥ पीठीभूतालकान्तं कृतमकुटमहादेवलिङ्गप्रतिष्ठे लालाटे नाट्यरङ्गे विकटतरतटे कैटभारेश्चिराय । प्रोद्धाट्यैवात्मतन्द्रीप्रकटपटकुटीं प्रस्फुरन्ती स्फुटाङ्गं पट्वीयं भावनाख्यां चटुलमतिनटी नाटिकां नाटयेन्नः ॥ मालालीवालिधाम्नः कुवलयकलिता श्रीपतेः कुन्तलाली कालिन्द्यारुह्य मूर्ध्नो गलति हरशिरःस्वर्धुनीस्पर्धया नु । राहुर्वा याति वक्त्रं सकलशशिकलाभ्रान्तिलोलान्तरात्मा लोकैरालोक्यते या प्रदिशतु सततं साखिलं मङ्गलं नः ॥ सुप्ताकाराः प्रसुप्ते भगवति विबुधैरप्यदृष्टस्वरूपा व्याप्तव्योमान्तरालास्तरलमणिरुचा रञ्जिताः स्पष्टभासः । देहच्छायोद्गमाभा रिपुवपुरगरुप्लोषरोषाग्निधूम्याः केशाः केशिद्विषो नो विदधतु विपुलक्लेशपाशप्रणाशम् ॥ यत्र प्रत्युप्तरत्नप्रवरपरिलसद्भूरिरोचिष्प्रतान- स्फूर्त्यां मूर्तिर्मुरारेर्द्युमणिशतचितव्योमवद्दुर्निरीक्ष्या । कुर्वत्पारेपयोधि ज्वलदकृशशिखाभास्वदौर्वाग्निशङ्कां शश्वन्नः शर्म दिश्यात्कलिकलुषतमःपाटनं तत्किरीटम् ॥ भ्रान्त्वा भ्रान्त्वा यदन्तस्त्रिभुवनगुरुरप्यब्दकोटीरनेकाः गन्तुं नान्तं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात् । उन्मज्जन्नूर्जितश्रीस्त्रिभुवनमपरं निर्ममे तत्सदृक्षं देहाम्भोधिः स देयान्निरवधिरमृतं दैत्यविद्वेषिणो नः ॥ मत्स्यः कूर्मो वराहो नरहरिणपतिर्वामनो जामदग्न्यः काकुत्स्थः कंसघाती मनसिजविजयी यश्च कल्किर्भविष्यन् । विष्णोरंशावतारा भुवनहितकरा धर्मसंस्थापनार्थाः पायासुर्मां त एते गुरुतरकरुणाभारखिन्नाशया ये ॥ ४९॥ यस्माद्वाचो निवृत्ताः सममपि मनसा लक्षणामीक्षमाणाः स्वार्थालाभात्परार्थव्यपगमकथनश्लाघिनो वेदवादाः । नित्यानन्दं स्वसंविन्निरवधिविमलस्वान्तसंक्रान्तबिम्ब- च्छायापत्यापि नित्यं सुखयति यमिनो यत्तदव्यान्महो नः ॥ आपादादा च शीर्षाद्वपुरिदमनघं वैष्णवं यः स्वचित्ते धत्ते नित्यं निरस्ताखिलकलिकलुषे संततान्तःप्रमोदम् । जुह्वज्जिह्वाकृशानौ हरिचरितहविःस्तोत्रमन्त्रानुपाठै- स्तत्पादाम्भोरुहाभ्यां सततमपि नमस्कुर्महे निर्मलाभ्याम् ॥ मोदात्पादादिकेशस्तुतिमितिरचितां कीर्तयित्वा त्रिधाम्नः पादाब्जद्वन्द्वसेवासमयनतमतिर्मस्तकेनानमेद्यः । उन्मुच्यैवात्मनैनोनिचयकवचकं पञ्चतामेत्य भानो- र्बिम्बान्तर्गोचरं स प्रविशति परमानन्दमात्मस्वरूपम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ विष्णुपादादिकेशान्तस्तोत्रं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ पाण्डुरङ्गाष्टकम् ॥ महायोगपीठे तटे भीमरथ्या वरं पुण्डरीकाय दातुं मुनीन्द्रैः । समागत्य तिष्ठन्तमानन्दकन्दं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ १ ॥ तटिद्वाससं नीलमेघावभासं रमामन्दिरं सुन्दरं चित्प्रकाशम् । वरं त्विष्टकायां समन्यस्तपादं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ २ ॥ प्रमाणं भवाब्धेरिदं मामकानां नितम्बः कराभ्यां धृतो येन तस्मात् । विधातुर्वसत्यै धृतो नाभिकोशः परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ३ ॥ स्फुरत्कौस्तुभालंकृतं कण्ठदेशे श्रिया जुष्टकेयूरकं श्रीनिवासम् । शिवं शन्तमीड्यं वरं लोकपालं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ४ ॥ शरच्चन्द्रबिम्बाननं चारुहासं लसत्कुण्डलाक्रान्तगण्डस्थलान्तम् । जपारागबिम्बाधरं कञ्जनेत्रं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ५ ॥ किरीटोज्ज्वलत्सर्वदिक्प्रान्तभागं सुरैरर्चितं दिव्यरत्नैरनर्घैः । त्रिभङ्गाकृतिं बर्हमाल्यावतंसं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ६ ॥ विभुं वेणुनादं चरन्तं दुरन्तं स्वयं लीलया गोपवेषं दधानम् । गवां बृन्दकानन्ददं चारुहासं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ७ ॥ अजं रुक्मिणीप्राणसंजीवनं तं परं धाम कैवल्यमेकं तुरीयम् । प्रसन्नं प्रपन्नार्तिहं देवदेवं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ८ ॥ स्तवं पाण्डुरङ्गस्य वै पुण्यदं ये पठन्त्येकचित्तेन भक्त्या च नित्यम् । भवाम्भोनिधिं ते वितीर्त्वान्तकाले हरेरालयं शाश्वतं प्राप्नुवन्ति ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ पाण्डुरङ्गाष्टकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ अच्युताष्टकम् ॥ अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ॥ १ ॥ अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् । इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं संदधे ॥ २ ॥ विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मणीरागिणे जानकीजानये । वल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ॥ ३ ॥ कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे । अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥ ४ ॥ राक्षसक्षोभितः सीतया शोभितो दण्डकारण्यभूपुण्यताकारणम् । लक्ष्मणेनान्वितो वानरैः सेवितो ऽगस्त्यसंपूजितो राघवः पातु माम् ॥ ५ ॥ धेनुकारिष्टहानिष्टकृद्द्वेषिणां केशिहा कंसहृद्वंशिकावादकः । पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु मां सर्वदा ॥ ६ ॥ विद्युदुद्योतवत्प्रस्फुरद्वाससं प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् । वन्यया मालया शोभितोरःस्थलं लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥ ७ ॥ कुञ्चितैः कुन्तलैर्भ्राजमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयोः । हारकेयूरकं कङ्कणप्रोज्ज्वलं किंकिणीमञ्जुलं श्यामलं तं भजे ॥ ८ ॥ अच्युतस्याष्टकं यः पठेंठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् । वृत्ततः सुन्दरं वेद्यविश्वंभरं तस्य वश्यो हरिर्जायते सत्वरम् ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ अच्युताष्टकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ कृष्णाष्टकम् ॥ श्रियाश्लिष्टो विष्णुः स्थिरचरगुरुर्वेदविषयो धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः । गदी शङ्खी चक्री विमलवनमाली स्थिररुचिः शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ १ ॥ यतः सर्वं जातं वियदनिलमुख्यं जगदिदं स्थितौ निःशेषं योऽवति निजसुखांशेन मधुहा । लये सर्वं स्वस्मिन्हरति कलया यस्तु स विभुः शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥२॥ असूनायम्यादौ यमनियममुख्यैः सुकरणै- र्निरुद्ध्येदं चित्तं हृदि विलयमानीय सकलम् । यमीड्यं पश्यन्ति प्रवरमतयो मायिनमसौ शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ पृथिव्यां तिष्ठन्यो यमयति महीं वेद न धरा यमित्यादौ वेदो वदति जगतामीशममलम् । नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ महेन्द्रादिर्देवो जयति दितिजान्यस्य बलतो न कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते । बलारातेर्गर्वं परिहरति योऽसौ विजयिनः शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ विना यस्य ध्यानं व्रजति पशुतां सूकरमुखां विना यस्य ज्ञानं जनिमृतिभयं याति जनता । विना यस्य स्मृत्या कृमिशतजनिं याति स विभुः शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ६ ॥ नरातङ्कोट्टङ्कः शरणशरणो भ्रान्तिहरणो घनश्यामो वामो व्रजशिशुवयस्योऽर्जुनसखः । स्वयंभूर्भूतानां जनक उचिताचारसुखदः शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥७॥ यदा धर्मग्लानिर्भवति जगतां क्षोभकरणी तदा लोकस्वामी प्रकटितवपुः सेतुधृदजः । सतां धाता स्वच्छो निगमगणगीतो व्रजपतिः शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ कृष्णाष्टकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ हरिस्तुतिः ॥ स्तोष्ये भक्त्या विष्णुमनादिं जगदादिं यस्मिन्नेतत्संसृतिचक्रं भ्रमतीत्थम् । यस्मिन्दृष्टे नश्यति तत्संसृतिचक्रं तं संसारध्वान्तविनाशं हरिमीडे ॥ १ ॥ यस्यैकांशादित्थमशेषं जगदेत- त्प्रादुर्भूतं येन पिनद्धं पुनरित्थम् । येन व्याप्तं येन विबुद्धं सुखदुःखै- स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २ ॥ सर्वज्ञो यो यश्च हि सर्वः सकलो यो यश्चानन्दोऽनन्तगुणो यो गुणधामा । यश्चाव्यक्तो व्यस्तसमस्तः सदसद्य- स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ३ ॥ यस्मादन्यन्नास्त्यपि नैवं परमार्थं दृश्यादन्यो निर्विषयज्ञानमयत्वात् । ज्ञातृज्ञानज्ञेयविहीनोऽपि सदा ज्ञ- स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ४ ॥ आचार्येभ्यो लब्धसुसूक्ष्माच्युततत्त्वा वैराग्येणाभ्यासबलाच्चैव द्रढिम्ना । भक्त्यैकाग्र्यध्यानपरा यं विदुरीशं तं संसारध्वान्तविनाशं हरिमीडे ॥ ५ ॥ प्राणानायम्योमिति चित्तं हृदि रुध्वा नान्यत्स्मृत्वा तत्पुनरत्रैव विलाप्य । क्षीणे चित्ते भादृशिरस्मीति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥ ६ ॥ यं ब्रह्माख्यं देवमनन्यं परिपूर्णं हृत्स्थं भक्तैर्लभ्यमजं सूक्ष्ममतर्क्यम् । ध्यात्वात्मस्थं ब्रह्मविदो यं विदुरीशं तं संसारध्वान्तविनाशं हरिमीडे ॥ ७ ॥ मालातीतं स्वात्मविकासात्मविबोधं ज्ञेयातीतं ज्ञानमयं हृद्युपलभ्य । भावग्राह्यानन्दमनन्यं च विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥ ८ ॥ यद्यद्वेद्यं वस्तुसतत्त्वं विषयाख्यं तत्तद्ब्रह्मैवेति विदित्वा तदहं च । ध्यायन्त्येवं यं सनकाद्या मुनयोऽजं तं संसारध्वान्तविनाशं हरिमीडे ॥ ९ ॥ यद्यद्वेद्यं तत्तदहं नेति विहाय स्वात्मज्योतिर्ज्ञानमयानन्दमवाप्य । तस्मिन्नस्मीत्यात्मविदो यं विदुरीशं तं संसारध्वान्तविनाशं हरिमीडे ॥ १० ॥ हित्वाहित्वा दृश्यमशेषं सविकल्पं मत्वा शिष्टं भादृशिमात्रं गगनाभम् । त्यक्त्वा देहं यं प्रविशन्त्यच्युतभक्ता- स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ११ ॥ सर्वत्रास्ते सर्वशरीरी न च सर्वः सर्वं वेत्त्येवेह न यं वेत्ति च सर्वः । सर्वत्रान्तर्यामितयेत्थं यमयन्य- स्तं संसारध्वान्तविनाशं हरिमीडे ॥ १२ ॥ सर्वं दृष्ट्वा स्वात्मनि युक्त्या जगदेत- दृष्ट्वात्मानं चैवमजं सर्वजनेषु । सर्वात्मैकोऽस्मीति विदुर्यं जनहृत्स्थं तं संसारध्वान्तविनाशं हरिमीडे ॥ १३ ॥ सर्वत्रैकः पश्यति जिघ्रत्यथ भुङ्क्ते स्प्रष्टा श्रोता बुध्यति चेत्याहुरिमं यम् । साक्षी चास्ते कर्तृषु पश्यन्निति चान्ये तं संसारध्वान्तविनाशं हरिमीडे ॥ १४ ॥ पश्यञ्शृण्वन्नत्र विजानन्रसयन्सं- जिघ्रद्बिभ्रद्देहमिमं जीवतयेत्थम् । इत्यात्मानं यं विदुरीशं विषयज्ञं तं संसारध्वान्तविनाशं हरिमीडे ॥ १५ ॥ जाग्रद्दृष्ट्वा स्थूलपदार्थानथ मायां दृष्ट्वा स्वप्नेऽथापि सुषुप्तौ सुखनिद्राम् । इत्यात्मानं वीक्ष्य मुदास्ते च तुरीये तं संसारध्वान्तविनाशं हरिमीडे ॥ १६ ॥ पश्यन्शुद्धोऽप्यक्षर एको गुणभेदा- न्नानाकारान्स्फाटिकवद्भाति विचित्रः । भिन्नश्छिन्नश्चायमजः कर्मफलैर्य- स्तं संसारध्वान्तविनाशं हरिमीडे ॥ १७ ॥ ब्रह्मा विष्णू रुद्रहुताशौ रविचन्द्रा- विन्द्रो वायुर्यज्ञ इतीत्थं परिकल्प्य । एकं सन्तं यं बहुधाहुर्मतिभेदा- त्तं संसारध्वान्तविनाशं हरिमीडे ॥ १८ ॥ सत्यं ज्ञानं शुद्धमनन्तं व्यतिरिक्तं शान्तं गूढं निष्कलमानन्दमनन्यम् । इत्याहादौ यं वरुणोऽसौ भृगवेऽजं तं संसारध्वान्तविनाशं हरिमीडे ॥ १९ ॥ कोशानेतान्पञ्च रसादीनतिहाय ब्रह्मास्मीति स्वात्मनि निश्चित्य दृशिस्थम् । पित्रा शिष्टो वेद भृगुर्यं यजुरन्ते तं संसारध्वान्तविनाशं हरिमीडे ॥ २० ॥ येनाविष्टो यस्य च शक्त्या यदधीनः क्षेत्रज्ञोऽयं कारयिता जन्तुषु कर्तुः । कर्ता भोक्तात्मात्र हि यच्छक्त्यधिरूढ- स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २१ ॥ सृष्ट्वा सर्वं स्वात्मतयैवेत्थमतर्क्यं व्याप्याथान्तः कृत्स्नमिदं सृष्टमशेषम् । सच्च त्यच्चाभूत्परमात्मा स य एक- स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २२ ॥ वेदान्तैश्चाध्यात्मिकशास्त्रैश्च पुराणैः शास्त्रैश्चान्यैः सात्त्वततन्त्रैश्च यमीशम् । दृष्ट्वाथान्तश्चेतसि बुद्ध्वा विविशुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥ २३ ॥ श्रद्धाभक्तिध्यानशमाद्यैर्यतमानै- र्ज्ञातुं शक्यो देव इहैवाशु य ईशः । दुर्विज्ञेयो जन्मशतैश्चापि विना तै- स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २४ ॥ यस्यातर्क्यं स्वात्मविभूतेः परमार्थं सर्वं खल्वित्यत्र निरुक्तं श्रुतिविद्भिः । तज्जातित्वादब्धितरङ्गाभमभिन्नं तं संसारध्वान्तविनाशं हरिमीडे ॥ २५ ॥ दृष्ट्वा गीतास्वक्षरतत्त्वं विधिनाजं भक्त्या गुर्व्या लभ्य हृदिस्थं दृशिमात्रम् । ध्यात्वा तस्मिन्नस्म्यहमित्यव विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥ २६ ॥ क्षेत्रज्ञत्वं प्राप्य विभुः पञ्चमुखैर्यो भुङ्क्तेऽजस्रं भोग्यपदार्थान्प्रकृतिस्थः । क्षेत्रे क्षेत्रेऽप्स्विन्दुवदेको बहुधास्ते तं संसारध्वान्तविनाशं हरिमीडे ॥ २७ ॥ युक्त्यालोड्य व्यासवचांस्यत्र हि लभ्यः क्षेत्रक्षेत्रज्ञान्तरविद्भिः पुरुषाख्यः । योऽहं सोऽसौ सोऽस्म्यहमेवेति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥ २८ ॥ एकीकृत्यानेकशरीरस्थमिमं ज्ञं यं विज्ञायेहैव स एवाशु भवन्ति । यस्मिल्ँलीना नेह पुनर्जन्म लभन्ते तं संसारध्वान्तविनाशं हरिमीडे ॥ २९ ॥ द्वन्द्वैकत्वं यच्च मधुब्राह्मणवाक्यैः कृत्वा शक्रोपासनमासाद्य विभूत्या । योऽसौ सोऽहं सोऽस्म्यहमेवेति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥ ३० ॥ योऽयं देहे चेष्टयितान्तःकरणस्थः सूर्ये चासौ तापयिता सोऽस्म्यहमेव । इत्यात्मैक्योपासनया यं विदुरीशं तं संसारध्वान्तविनाशं हरिमीडे ॥ ३१ ॥ विज्ञानांशो यस्य सतः शक्त्यधिरूढो बुद्धिर्बुध्यत्यत्र बहिर्बोध्यपदार्थान् । नैवान्तःस्थं बुध्यति यं बोधयितारं तं संसारध्वान्तविनाशं हरिमीडे ॥ ३२ ॥ कोऽयं देहे देव इतीत्थं सुविचार्य ज्ञाता श्रोता मन्तयिता चैष हि देवः । इत्यालोच्य ज्ञांश इहास्मीति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥ ३३ ॥ को ह्येवान्यादात्मनि न स्यादयमेष ह्येवानन्दः प्राणिति चापानिति चेति । इत्यस्तित्वं वक्त्युपपत्त्या श्रुतिरेषा तं संसारध्वान्तविनाशं हरिमीडे ॥ ३४ ॥ प्राणो वाहं वाक्छ्रवणादीनि मनो वा बुद्धिर्वाहं व्यस्त उताहोऽपि समस्तः । इत्यालोच्य ज्ञप्तिरिहास्मीति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥ ३५ ॥ नाहं प्राणो नैव शरीरं न मनोऽहं नाहं बुद्धिर्नाहमहंकारधियौ च । योऽत्र ज्ञांशः सोऽस्म्यहमेवेति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥ ३६ ॥ सत्तामात्रं केवलविज्ञानमजं स- त्सूक्ष्मं नित्यं तत्त्वमसीत्यात्मसुताय । साम्नामन्ते प्राह पिता यं विभुमाद्यं तं संसारध्वान्तविनाशं हरिमीडे ॥ ३७ ॥ मूर्तामूर्ते पूर्वमपोह्याथ समाधौ दृश्यं सर्वं नेति च नेतीति विहाय । चैतन्यांशे स्वात्मनि सन्तं च विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥ ३८ ॥ ओतं प्रोतं यत्र च सर्वं गगनान्तं योऽस्थूलानण्वादिषु सिद्धोऽक्षरसंज्ञः । ज्ञातातोऽन्यो नेत्युपलभ्यो न च वेद्य- स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ३९ ॥ तावत्सर्वं सत्यमिवाभाति यदेत- द्यावत्सोऽस्मीत्यात्मनि यो ज्ञो न हि दृष्टः । दृष्टे यस्मिन्सर्वमसत्यं भवतीदं तं संसारध्वान्तविनाशं हरिमीडे ॥ ४० ॥ रागामुक्तं लोहयुतं हेम यथाग्नौ योगाष्टाङ्गैरुज्ज्वलितज्ञानमयाग्नौ । दग्ध्वात्मानं ज्ञं परिशिष्टं च विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥ ४१ ॥ यं विज्ञानज्योतिषमाद्यं सुविभान्तं हृद्यर्केन्द्वग्न्योकसमीड्यं तटिदाभम् । भक्त्याराध्येहैव विशन्त्यात्मनि सन्तं तं संसारध्वान्तविनाशं हरिमीडे ॥ ४२ ॥ पायाद्भक्तं स्वात्मनि सन्तं पुरुषं यो भक्त्या स्तौतीत्याङ्गिरमं विष्णुरिमं माम् । इत्यात्मानं स्वात्मनि संहृत्य सदैक- स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ४३ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ हरिस्तुतिः संपूर्णा ॥ ॥ श्रीः ॥ ॥ गोविन्दाष्टकम् ॥ सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् । मायाकल्पितनानाकारमनाकारं भुवनाकारं क्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥ १ ॥ मृत्स्नामत्सीहेति यशोदाताडनशैशवसंत्रासं व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् । लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकं लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ॥ २ ॥ त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं कैवल्यं नवनीताहारमनाहारं भुवनाहारम् । वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासं शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम् ॥ ३ ॥ गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालं गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् । गोभिर्निगदितगोविन्दस्फुटनामानं बहुनामानं गोधीगोचरदूरं प्रणमत गोविन्दं परमानन्दम् ॥ ४ ॥ गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभं शश्वद्गोखुरनिर्धूतोद्गतधूलीधूसरसौभाग्यम् । श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावं चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम् ॥ स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारुढं व्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तं ताः । निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तःस्थं सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् ॥ ६ ॥ कान्तं कारणकारणमादिमनादिं कालघनाभासं कालिन्दीगतकालियशिरसि सुनृत्यन्तं मुहुरत्यन्तम् । कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ॥ ७ ॥ वृन्दावनभुवि बृन्दारकगणबृन्दाराधितवन्द्याया कुन्दाभामलमन्दस्मेरसुधानन्दं सुमहानन्दम् । वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं नन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम् ॥८॥ गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यो गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति । गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो गोविन्दं परमानन्दामृतमन्तस्थं स तमभ्येति ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ गोविन्दाष्टकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ भगवन्मानसपूजा ॥ हृदम्भोजे कृष्णः सजलजलदश्यामलतनुः सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् । शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां वहन्ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥ पयोम्भोधेर्द्वीपान्मम हृदयमायाहि भगव- न्मणिव्रातभ्राजत्कनकवरपीठं भज हरे । सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलै- गृहाणेदं दूर्वाफलजलवदर्घ्यं मुररिपो ॥ २ ॥ त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽतिशिशिरं भजस्वेमं पञ्चामृतफलरसाप्लावमघहन् । सुनद्याः कालिन्द्या अपि कनककुम्भस्थितमिदं जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥ तटिद्वर्णे वस्त्रे भज विजयकान्ताधिहरण प्रलम्बारिभ्रातर्मृदुलमुपवीतं कुरु गले । ललाटे पाटीरं मृगमदयुतं धारय हरे गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ ४ ॥ दशाङ्गं धूपं सद्वरद चरणाग्रेऽर्पितमिदं मुखं दीपेनेन्दुप्रभविरजसं देव कलये । इमौ पाणी वाणीपतिनुत सकर्पूररजसा विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥ ५ ॥ सदा तृप्तान्नं षड्रसवदखिलव्यञ्जनयुतं सुवर्णामत्रे गोघृतचषकयुक्ते स्थितमिदम् । यशोदासूनो तत्परमदययाशान सखिभिः प्रसादं वाञ्छद्भिः सह तदनु नीरं पिब विभो ॥ ६ ॥ सचूर्णं ताम्बूलं मुखशुचिकरं भक्षय हरे फलं स्वादु प्रीत्या परिमलवदास्वादय चिरम् । सपर्यापर्याप्त्यै कनकमणिजातं स्थितमिदं प्रदीपैरारार्तिं जलधितनयाश्लिष्ट रचये ॥ ७ ॥ विजातीयैः पुष्पैरतिसुरभिभिर्बिल्वतुलसी- युतैश्चेमं पुष्पाञ्जलिमजित ते मूर्ध्नि निदधे । तव प्रादक्षिण्यक्रमणमघविध्वंसि रचितं चतुर्वारं विष्णो जनिपथगतेश्चान्तविदुषा ॥ ८ ॥ नमस्कारोऽष्टाङ्गः सकलदुरितध्वंसनपटुः कृतं नृत्यं गीतं स्तुनिरपि रमाकान्त त इयम् । तव प्रीत्यै भूयादहमपि च दासस्तव विभो कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥ सदा सेव्यः कृष्णः सजलघननीलः करतले दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् । कदाचित्कान्तानां कुचकलशपत्रालिरचना- समासक्तः स्निग्धैः सह शिशुविहारं विरचयन् ॥१०॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ भगवन्मानसपूजा संपूर्णा ॥ ॥ श्रीः ॥ ॥ मोहमुद्गरः ॥ भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढमते । संप्राप्ते संनिहिते काले न हि न हि रक्षति डुकृञ्करणे ॥ १ ॥ मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् । यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ २ ॥ नारीस्तनभरनाभीदेशं दृष्ट्वा मा गा मोहावेशम् । एतन्मांसवसादिविकारं मनसि विचिन्तय वारं वारम् ॥ ३ ॥ नलिनीदलगतजलमतितरलं तद्वज्जीवितमतिशयचपलम् । विद्धि व्याध्यभिमानप्रस्तं लोकं शोकहतं च समस्तम् ॥ ४ ॥ यावद्वित्तोपार्जनसक्त- स्तावन्निजपरिवारो रक्तः । पश्चाज्जीवति जर्जरदेहे वार्त्तां कोऽपि न पृच्छति गेहे ॥ ५ ॥ यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे । गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ॥ ६ ॥ बालस्तावत्क्रीडासक्त- स्तरुणस्तावत्तरुणीसक्तः । वृद्धस्तावच्चिन्तासक्तः परे ब्रह्मणि कोऽपि न सक्तः ॥ ७ ॥ का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः । कस्य त्वं कः कुत आयात- स्तत्त्वं चिन्तय यदिदं भ्रान्तः ॥ ८ ॥ सत्सङ्गत्वे निःसङ्गत्वं निःसङ्गत्वे निर्मोहत्वम् । निर्मोहत्वे निश्चलितत्वं निश्चलितत्वे जीवन्मुक्तिः ॥ ९ ॥ वयसि गते कः कामविकारः शुष्के नीरे कः कासारः । क्षीणे वित्ते कः परिवारो ज्ञाते तत्त्वे कः संसारः ॥ १० ॥ मा कुरु धनजनयौवनगर्वं हरति निमेषात्कालः सर्वम् । मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११ ॥ दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः । कालः क्रीडति गच्छत्यायु- स्तदपि न मुञ्चत्याशावायुः ॥ १२ ॥ का ते कान्ताधनगतचिन्ता वातुल किं तव नास्ति नियन्ता । त्रिजगति सज्जनसंगतिरेका भवति भवार्णवतरणे नौका ॥ १३ ॥ जटिली मुण्डी लुश्चितकेशः काषायाम्बरबहुकृतवेषः । पश्यन्नपि च न पश्यति मूढो ह्युदरनिमित्तं बहुकृतवेषः ॥ १४ ॥ अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥ १५ ॥ अग्रे वह्निः पृष्ठे भानू रात्रौ चुबुकसमर्पितजानुः । करतलभिक्षस्तरुतलवास- स्तदपि न मुंचत्याशापाशः ॥ १६ ॥ कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् । ज्ञानविहीनः सर्वमतेन मुक्तिं न भजति जन्मशतेन ॥ १७ ॥ सुरमन्दिरतरुमूलनिवासः शय्या भूतलमजिनं वासः । सर्वपरिग्रहभोगत्यागः कस्य सुखं न करोति विरागः ॥ १८ ॥ योगरतो वा भोगरतो वा संगरतो वा संगविहीनः । यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव ॥ १९ ॥ भगवद्गीता किंचिदधीता गङ्गाजललवकणिका पीता । सकृदपि येन मुरारिसमर्चा क्रियते तस्य यमेन न चर्चा ॥ २० ॥ पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् । इह संसारे बहुदुस्तारे कृपयापारे पाहि मुरारे ॥ २१ ॥ रध्याकर्पटविरचितकन्थः पुण्यापुण्यविवर्जितपन्थः । योगी योगनियोजितचित्तो रमते बालोन्मत्तवदेव ॥ २२ ॥ कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः । इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम् ॥ २३ ॥ त्वयि मयि चान्यत्रैको विष्णु- र्व्यर्थं कुप्यसि मय्यसहिष्णुः । सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम् ॥ २४ ॥ शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ । भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ २५ ॥ कामं क्रोधं लोभं मोहं त्यक्त्वात्मानं भावय कोऽहम् । आत्मज्ञानविहीना मूढा- स्ते पच्यन्ते नरकनिगूढाः ॥ २६ ॥ गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्रम् । नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय च वित्तम् ॥ २७ ॥ सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः । यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ॥ २८ ॥ अर्थमनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यम् । पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥ २९ ॥ प्राणायामं प्रत्याहारं नित्यानित्यविवेकविचारम् । जाप्यसमेतसमाधिविधानं कुर्ववधानं महदवधानम् ॥ ३० ॥ गुरुचरणाम्बुजनिर्भरभक्तः संसारादचिराद्भव मुक्तः । सेन्द्रियमानसनियमादेवं द्रक्ष्यसि निजहृदयस्थं देवम् ॥ ३१ ॥ इति मोहमुद्गरः संपूर्णः ॥ ॥ श्रीः ॥ ॥ कनकधारास्तोत्रम् ॥ अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ १ ॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि । मालादृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसंभवायाः ॥ २ ॥ विश्वामरेन्द्रपदविभ्रमदानदक्ष- मानन्दहेतुरधिकं मुरविद्विषोऽपि । ईषन्निषीदतु मयि क्षणमीक्षणार्द्ध- मिन्दीवरोदरसहोदरमिन्दिरायाः ॥ ३ ॥ आमीलिताक्षमधिगम्य मुदा मुकुन्द- मानन्दकन्दमनिमेषमनङ्गतन्त्रम् । आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजंगशयाङ्गनायाः ॥ ४ ॥ बाह्वन्तरे मधुजितः श्रितकौस्तुभेया हारावलीव हरिनीलमयी विभाति । कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयायाः ॥ ५ ॥ कालाम्बुदालिललितोरसि कैटभारे- र्धाराधरे स्फुरति यत्तटिदङ्गनेव । मातुः समस्तजगतां महनीयमूर्ति- र्भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ६ । प्राप्तं पदं प्रथमतः खलु यत्प्रभावा- न्माङ्गल्यभाजि मधुमाथिनि मन्मथेन । मय्यापतेत्तदिह मन्थरमीक्षणार्धं मन्दालसं च मकरालयकन्यकायाः ॥ ७ ॥ दद्याद्दयानुपवनो द्रविणाम्बुधरा- मस्मिन्न किंचन विहंगशिशौ विषण्णे । दुष्कर्मधर्ममपनीय चिराय दूरं नारायणप्रणयिनीनयनाम्बुवाहः ॥ ८ ॥ इष्टाविशिष्टमतयोऽपि यया दयार्द्र- दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते । दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ९ ॥ गीर्देवतेति गरुडध्वजसुन्दरीति शाकंभरीति शशिशेखरवल्लभेति । सृष्टिस्थितिप्रलयकेलिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १० ॥ श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणार्णवायै । शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११ ॥ नमोऽस्तु नालीकनिभाननायै नमोऽस्तु दुग्धोदधिजन्मभूम्यै । नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै ॥ १२ ॥ संपत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षि । त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये ॥ १३ ॥ यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसंपदः । संतनोति वचनाङ्गमानसै- स्त्वां मुरारिहृदयेश्वरीं भजे ॥ १४ ॥ सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १५ ॥ दिघ्वस्तिभिः कनककुम्भमुखावसृष्टः स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् । प्रातर्नमामि जगतां जननीमशेष- लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १६ ॥ कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैरपाङ्गैः । अवलोकय मामकिंचनानां प्रथमं पात्रमकृत्रिमं दयायाः ॥ १७ ॥ स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम् । गुणाधिका गुरुतरभाग्यभाजिनो भवन्ति ते भुवि बुधभाविताशयाः ॥ १८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ कनकधारास्तोत्रं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ अन्नपूर्णाष्टकम् ॥ नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलदोषपावनकरी प्रत्यक्षमाहेश्वरी । प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ १ ॥ नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी मुक्ताहारविडम्बमानविलसद्वक्षोजकुम्भान्तरी । काश्मीरागरुवासिताङ्गरुचिरे काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ २ ॥ योगानन्दकरी रिपुक्षयकरी धर्मैकनिष्ठाकरी चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी । सर्वैश्वर्यकरी तपःफलकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ३ ॥ कैलासाचलकन्दरालयकरी गौरी ह्युमाशांकरी कौमारी निगमार्थगोचरकरी ह्योंकारबीजाक्षरी । मोक्षद्वारकवाटपाटनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ४ ॥ दृश्यादृश्यविभूतिवाहनकरी ब्रह्माण्डभाण्डोदरी लीलानाटकसूत्रखेलनकरी विज्ञानदीपाङ्कुरी । श्रीविश्वेशमनःप्रसादनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ५ ॥ आदिक्षान्तसमस्तवर्णनकरी शंभुप्रिया शांकरी काश्मीरत्रिपुरेश्वरी त्रिनयनी विश्वेश्वरी शर्वरी । स्वर्गद्वारकवाटपाटनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ६ ॥ उर्वीसर्वजनेश्वरी जयकरी माता कृपासागरी नारीनीलसमानकुन्तलधरी नित्यान्नदानेश्वरी साक्षान्मोक्षकरी सदा शुभकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ७ ॥ देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुन्दरी वामा स्वादुपयोधरा प्रियकरी सौभाग्यमाहेश्वरी । भक्ताभीष्टकरी सदा शुभकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ८ ॥ चन्द्रार्कानलकोटिकोटिसदृशी चन्द्रांशुबिम्बाधरी चन्द्रार्काग्निसमानकुण्डलधरी चन्द्रार्कवर्णेश्वरी । मालापुस्तकपाशसाङ्कुशधरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ९ ॥ क्षत्रत्राणकरी महाभयहरी माता कृपासागरी सर्वानन्दकरी सदा शिवकरी विश्वेश्वरी श्रीधरी । दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ १० ॥ अन्नपूर्णे सदापूर्ण शंकरप्राणवल्लभे । ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति ॥ ११ ॥ माता च पार्वतीदेवी पिता देवो महेश्वरः । बान्धवाः शिवभक्ताश्च स्वदेशो भुवनत्रयम् ॥ १२ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ अन्नपूर्णाष्टकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ मीनाक्षीपञ्चरत्नम् ॥ उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां विम्बोष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालंकृताम् । विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्त्वस्वरूपां शिवां मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभां शिञ्जन्नूपुरकिंकिणीमणिधरां पद्मप्रभाभासुराम् । सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ श्रीविद्यां शिववामभागनिलयां ह्रींकारमन्त्रोज्ज्वलां श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायकीम् । श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ श्रीमत्सुन्दरनायकीं भयहरां ज्ञानप्रदां निर्मलां श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् । वीणावेणुमृदङ्गवाद्यरसिकां नानाविधाडम्बिकां मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ नानायोगिमुनीन्द्रहृन्निवसतीं नानार्थसिद्धिप्रदां नानापुष्पविराजिताङ्घ्रियुगलां नारायणेनार्चिताम् । नादब्रह्ममयीं परात्परतरां नानार्थतत्त्वात्मिकां मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ ॥ मीनाक्षीपञ्चरत्नं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ मीनाक्षीस्तोत्रम् ॥ श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते श्रीनाथादिगुरुस्वरूपविभवे चिन्तामणीपीठिके । श्रीवाणीगिरिजानुताङ्घ्रिकिमले श्रीशांभवि श्रीशिवे मध्याह्ने मलयध्वजाधिपसुते मां पाहि मीनाम्बिके ॥१॥ चक्रस्थेऽचपले चराचरजगन्नाथे जगत्पूजिते आर्तालीवरदे नताभयकरे वक्षोजभारान्विते । विद्ये वेदकलापमौलिविदिते विद्युल्लताविग्रहे मातः पूर्णसुधारसार्द्रहृदये मां पाहि मीनाम्बिके ॥ २ ॥ कोटीराङ्गदरत्नकुण्डलधरे कोदण्डबाणाञ्चिते कोकाकारकुचद्वयोपरिलसत्प्रालम्बहाराञ्चिते । शिञ्जन्नूपुरपादसारसमणीश्रीपादुकालंकृते मद्दारिद्र्यभुजंगगारुडखगे मां पाहि मीनाम्बिके ॥ ३ ॥ ब्रह्मेशाच्युतगीयमानचरिते प्रेतासनान्तस्थिते पाशोदङ्कुशचापबाणकलिते बालेन्दुचूडाञ्चिते । बाले बालकुरङ्गलोलनयने बालार्ककोट्युज्ज्वले मुद्राराधितदैवते मुनिसुते मां पाहि मीनाम्बिके ॥ ४ ॥ गन्धर्वामरयक्षपन्नगनुते गङ्गाधरालिङ्गिते गायत्रीगरुडासने कमलजे सुश्यामले सुस्थिते । खातीते खलदारुपावकशिखे खद्योतकोट्युज्ज्वले मन्त्राराधितदैवते मुनिसुते मां पाहि मीनाम्बिके ॥ ५ ॥ नादे नारदतुम्बुराद्यविनुते नादान्तनादात्मिके नित्ये नीललतात्मिके निरुपमे नीवारशूकोपमे । कान्ते कामकले कदम्बनिलये कामेश्वराङ्कस्थिते मद्विद्ये मदभीष्टकल्पलतिके मां पाहि मीनाम्बिके ॥ ६ ॥ वीणानादनिमीलितार्धनयने विस्रस्तचूलीभरे ताम्बूलारुणपल्लवाधरयुते ताटङ्कहारान्विते । श्यामे चन्द्रकलावतंसकलिते कस्तूरिकाफालिके पूर्णे पूर्णकलाभिरामवदने मां पाहि मीनाम्बिके ॥ ७ ॥ शब्दब्रह्ममयी चराचरमयी ज्योतिर्मयी वाङ्मयी नित्यानन्दमयी निरञ्जनमयी तत्त्वंमयी चिन्मयी । तत्त्वातीतमयी परात्परमयी मायामयी श्रीमयी सर्वैश्वर्यमयी सदाशिवमयी मां पाहि मीनाम्बिके ॥८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मीनाक्षीस्तोत्रं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ दक्षिणामूर्तिस्तोत्रम् । उपासकानां यदुपासनीय- मुपात्तवासं वटशास्त्रिमूले । तद्धाम दाक्षिण्यजुषा स्वमूर्त्या जागर्तु चित्ते मम बोधरूपम् ॥ १ ॥ अद्राक्षमक्षीणदयानिधान- माचार्यमाद्यं वटमूलभागे । मौनेन मन्दस्मितभूषितेन महर्षिलोकस्य तमो नुदन्तम् ॥ २ ॥ विद्राविताशेषतमोगणेन मुद्राविशेषेण मुहुर्मुनीनाम् । निरस्य मायां दयया विधत्ते देवो महांस्तत्त्वमसीति बोधम् ॥ ३ ॥ अपारकारुण्यसुधातरङ्गै- रपाङ्गपातैरवलोकयन्तम् । कठोरसंसारनिदाघतप्ता- न्मुनीनहं नौमि गुरुं गुरूणाम् ॥ ४ ॥ ममाद्यदेवो वटमूलवासी कृपाविशेषात्कृतसंनिधानः । ओंकाररूपामुपदिश्य विद्या- माविद्यकध्वान्तमपाकरोतु ॥ ५ ॥ कलाभिरिन्दोरिव कल्पिताङ्गं मुक्ताकलापैरिव बद्धमूर्तिम् । आलोकये देशिकमप्रमेय- मनाद्यविद्यातिमिरप्रभातम् ॥ ६ ॥ स्वदक्षजानुस्थितवामपादं पादोदरालंकृतयोगपट्टम् । अपस्मृतेराहितपादमङ्गे प्रणौमि देवं प्रणिधानवन्तम् ॥ ७ ॥ तत्वार्थमन्तेवसतामृषीणां युवापि यः सन्नुपदेष्टुमीष्टे । प्रणौमि तं प्राक्तनपुण्यजालै- राचार्यमाश्चर्यगुणाधिवासम् ॥ ८ ॥ एकेन मुद्रां परशुं करेण करेण चान्येन मृगं दधानः । स्वजानुविन्यस्तकरः पुरस्ता- दाचार्यचूडामणिराविरस्तु ॥ ९ ॥ आलेपवन्तं मदनाङ्गभूत्या शार्दूलकृत्त्या परिधानवन्तम् । आलोकये कंचन देशिकेन्द्र- मज्ञानवाराकरबाडबाग्निम् ॥ १० ॥ चारुस्थितं सोमकलावतंसं वीणाधरं व्यक्तजटाकलापम् । उपासते केचन योगिनस्त्व- मुपात्तनादानुभवप्रमोदम् ॥ ११ ॥ उपासते यं मुनयः शुकाद्या निराशिषो निर्ममताधिवासाः । तं दक्षिणामूर्तितनुं महेश- मुपास्महे मोहमहार्तिशान्त्यै ॥ १२ ॥ कान्त्या निन्दितकुन्दकंदलवपुर्न्यग्रोधमूले वस- न्कारुण्यामृतवारिभिर्मुनिजनं संभावयन्वीक्षितैः । मोहध्वान्तविभेदनं विरचयन्बोधेन तत्तादृशा देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥ १३ ॥ अगौरनेत्रैरललाटनेत्रै- रशान्तवेषैरभुजंगभूषैः । अबोधमुद्रैरनपास्तनिद्रै- रपूरकामैरमरैरलं नः ॥ १४ ॥ दैवतानि कति सन्ति चावनौ नैव तानि मनसो मतानि मे । दीक्षितं जडधियामनुग्रहे दक्षिणाभिमुखमेव दैवतम् ॥ १५ ॥ मुदिताय मुग्धशशिनावतंसिने भसितावलेपरमणीयमूर्तये । जगदिन्द्रजालरचनापटीयसे महसे नमोऽस्तु वटमूलवासिने ॥ १६ ॥ व्यालम्बिनीभिः परितो जटाभिः कलावशेषेण कलाधरेण । पश्यल्ललाटेन मुखेन्दुना च प्रकाशसे चेतसि निर्मलानाम् ॥ १७ ॥ उपासकानां त्वमुमासहायः पूर्णेन्दुभावं प्रकटीकरोषि । यदद्य ते दर्शनमात्रतो मे द्रवत्यहो मानसचन्द्रकान्तः ॥ १८ ॥ यस्ते प्रसन्नामनुसंदधानो मूर्तिं मुदा मुग्धशशाङ्कमौलेः । ऐश्वर्यमायुर्लभते च विद्या- मन्ते च वेदान्तमहारहस्यम् ॥ १९ ॥ इति दक्षिणामूर्तिस्तोत्रं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ कालभैरवाष्टकम् ॥ देवराजसेव्यमानपावनाङ्घ्रिपङ्कजं व्यालयज्ञसूत्रबिन्दुशेखरं कृपाकरम् । नारदादियोगिवृन्दवन्दितं दिगम्बरं काशिकापुराधिनाथकालभैरवं भजे ॥ १ ॥ भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् । कालकालमम्बुजाक्षमक्षशूमक्षरं काशिकापुराधिनाथकालभैरवं भजे ॥ २ ॥ शूलटङ्कपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम् । भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशिकापुराधिनाथकालभैरवं भजे ॥ ३ ॥ भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं भक्तवत्सलं स्थिरं समस्तलोकविग्रहम् । निक्कणन्मनोज्ञहेमकिङ्किणीलसत्कटिं काशिकापुराधिनाथकालभैरवं भजे ॥ ४ ॥ धर्मसेतुपालकं त्वधर्ममार्गनाशकं कर्मपाशमोचकं सुशर्मदायकं विभुम् । स्वर्णवर्णकेशपाशशोभिताङ्गनिर्मलं काशिकापुराधिनाथकालभैरवं भजे ॥ ५ ॥ रत्नपादुकाप्रभाभिरामपादयुग्मकं नित्यमद्वितीयमिष्टदैवतं निरञ्जनम् । मृत्युदर्पनाशनं करालदंष्ट्रभूषणं काशिकापुराधिनाथकालभैरवं भजे ॥ ६ ॥ अट्टहासभिन्नपद्मजाण्डकोशसंततिं दृष्टिपातनष्टपापजालमुप्रशासनम् । अष्टसिद्धिदायकं कपालमालिकाधरं काशिकापुराधिनाथकालभैरवं भजे ॥ ७ ॥ भूतसङ्घनायकं विशालकीर्तिदायकं काशिवासिलोकपुण्यपापशोधकं विभुम् । नीतिमार्गकोविदं पुरातनं जगत्पतिं काशिकापुराधिनाथकालभैरवं भजे ॥ ८ ॥ कालभैरवाष्टकं पठन्ति ये मनोहरं ज्ञानमुक्तिसाधकं विचित्रपुण्यवर्धनम् । शोकमोहलोभदैन्यकोपतापनाशनं ते प्रयान्ति कालभैरवाद्विसंनिधिं ध्रुवम् ॥ ९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ कालभैरवाष्टकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ नर्मदाष्टकम् ॥ सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं द्विषत्सु पापजातजातकादिवारिसंयुतम् । कृतान्तदूतकालभूतभीतिहारिवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १ ॥ त्वदम्बुलीनदीनमीनदिव्यसंप्रदायकं कलौ मलौघभारहारिसर्वतीर्थनायकम् । सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ २ ॥ महागभीरनीरपूरपापधूतभूतलं ध्वनत्समस्तपातकारिदारितापदाचलम् । जगल्लये महाभये मृकण्डुसूनुहर्म्यदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ३ ॥ गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा मृकण्डुसूनुशौनकासुरारिसेवितं सदा । पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ४ ॥ अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् । वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ५॥ सनत्कुमारनाचिकेतकश्यपात्रिषट्पदै- र्धृतं स्वकीयमानसेषु नारदादिषट्पदैः । रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ६ ॥ अलक्षलक्षलक्षपापलक्षसारसायुधं ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् । विरिञ्चिविष्णुशंकरस्वकीयधामवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ७ ॥ अहो धृतं स्वनं श्रुतं महेशिकेशजातटे किरातसूतबाडबेषु पण्डिते शठे नटे । दुरन्तपापतापहारि सर्वजन्तुशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ८ ॥ इदं तु नर्मदाष्ठकं त्रिकालमेव ये सदा पठन्ति ते निरन्तरं न यन्ति दुर्गतिं कदा । सुलभ्यदेहदुर्लभं महेशधामगौरवं पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥ ९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ नर्मदाष्टकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ यमुनाष्टकम् ॥ मुरारिकायकालिमाललामवारिधारिणी तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी । मनोनुकूलकूलकुञ्जपुञ्जधूतदुर्मदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ १ ॥ मलापहारिवारिपूरिभूरिमण्डितामृता भृशं प्रवातकप्रपञ्चनातिपण्डितानिशा । सुनन्दनन्दिनाङ्गसङ्गरागरञ्जिता हिता धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ २ ॥ लसत्तरङ्गसङ्गधूतभूतजातपातका नवीनमाधुरीधुरीणभक्तिजातचातका । तटान्तवासदासहंससंवृताह्निकामदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ३ ॥ विहाररासखेदभेदधीरतीरमारुता गता गिरामगोचरे यदीयनीरचारुता । प्रवाहसाहचर्यपूतमेदिनीनदीनदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ४ ॥ तरङ्गसङ्गसैकतान्तरातितं सदासिता शरन्निशाकरांशुमञ्जुमञ्जरी सभाजिता । भवार्चनाप्रचारुणाम्बुनाधुना विशारदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ५ ॥ जलान्तकेलिकारिचारुराधिकाङ्गरागिणी स्वभर्तुरन्यदुर्लभाङ्गताङ्गतांशभागिनी स्वदत्तसुप्तसप्तसिन्धुभेदिनातिकोविदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ६॥ जलच्युताच्युताङ्गरागलम्पटालिशालिनी विलोलराधिकाकचान्तचम्पकालिमालिनी । सदावगाहनावतीर्णभर्तृभृत्यनारदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ७ ॥ सदैव नन्दिनन्दकेलिशालिकुजमञ्जुला तटोत्थफुल्लमल्लिकाकदम्बरेणुसूज्ज्वला । जलावगाहिनां नृणां भवाब्धिसिन्धुपारदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ यमुनाष्टकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ यमुनाष्टकम् ॥ कृपापारावारां तपनतनयां तापशमनीं मुरारिप्रेयस्यां भवभयदवां भक्तिवरदाम् । वियज्ज्वालोन्मुक्तां श्रियमपि सुखाप्तेः परिदिनं सदा धीरो नूनं भजति यमुनां नित्यफलदाम् ॥ १ ॥ मधुवनचारिणि भास्करवाहिनि जाह्नविसङ्गिनि सिन्धुसुते मधुरिपुभूषणि माधवतोषिणि गोकुलभीतिविनाशकृते । जगदघमोचिनि मानसदायिनि केशवकेलिनिदानगते जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥ अयि मधुरे मधुमोदविलासिनि शैलविदारिणि वेगपरे परिजनपालिनि दुष्टनिषूदिनि वाञ्छितकामविलासधरे । व्रजपुरवासिजनार्जितपातकहारिणि विश्वजनोद्धरिके जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥ अतिविपदाम्बुधिमग्नजनं भवतापशताकुलमानसकं गतिमतिहीनमशेषभयाकुलमागतपादसरोजयुगम् । ऋणभयभीतिमनिष्कृतिपातककोटिशतायुतपुञ्जतरं जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥ नवजलदद्युतिकोटिलसत्तनुहेमभयाभररजितके तडिदवहेलिपदाञ्चलचञ्चलशोभितपीतसुचेलधरे । मणिमयभूषणचित्रपटासनरञ्जितगञ्जितभानुकरे जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥ शुभपुलिने मधुमत्तयदूद्भवरासमहोत्सवकेलिभरे उच्चकुलाचलराजितमौक्तिकहारमयाभररोदसिके । नवमणिकोटिकभास्करकञ्चुकिशोभिततारकहारयुते जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥ करिवरमौक्तिकनासिकभूषणवातचमत्कृतचञ्चलके मुखकमलामलसौरभचञ्चलमत्तमधुव्रतलोचनिके । मणिगणकुण्डललोलपरिस्फुरदाकुलगण्डयुगामलके जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥ कलरवनूपुरहेममयाचितपादसरोरुहसारुणिके धिमिधिमिधिमिधिमितालविनोदितमानसमञ्जुलपादगते । तव पदपङ्कजमाश्रितमानवचित्तसदाखिलतापहरे जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥ भवोत्तापाम्भोधौ निपतितजनो दुर्गतियुतो यदि स्तौति प्रातः प्रतिदिनमनन्याश्रयतया । हयाह्रेषैः कामं करकुसुमपुञ्जे रविसुतां सदा भोक्ता भोगान्मरणसमये याति हरिताम् ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ यमुनाष्टकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ गङ्गाष्टकम् ॥ भगवति भवलीलामौलिमाले तवाम्भः- कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति । अमरनगरनारीचामरप्राहिणीनां विगतकलिकलङ्कातङ्कमङ्के लुठन्ति ॥ १ ॥ ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात्स्खलन्ती । क्षोणीपृष्ठे लुठन्ती दुरितचयचमूनिर्भरं भर्त्सयन्ती पाथोधिं पूरयन्ती सुरनगरसरित्पावनी नः पुनातु ॥२॥ मज्जन्मातङ्गकुम्भच्युतमदमदिरामोदमत्तालिजालं स्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम् । सायं प्रातर्मुनीनां कुशकुसुमचयैश्छिन्नतीरस्थनीरं पायान्नो गाङ्गमम्भः करिकरमकराक्रान्तरंहस्तरङ्गम् ॥ आदावादिपितामहस्य नियमव्यापारपात्रे जलं पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् । भूयः शंभुजटाविभूषणमणिर्जह्नोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी पातु माम् ॥ शैलेन्द्रादवतारिणी निजजले मज्जज्जनोत्तारिणी पारावारविहारिणी भवभयश्रेणीसमुत्सारिणी । शेषाङ्गैरनुकारिणी हरशिरोवल्लीदलाकारिणी काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ॥५॥ कुतो वीची वीचिस्तव यदि गता लोचनपथं त्वमापीता पीताम्बरपुरनिवासं वितरसि । त्वदुत्सङ्गे गङ्गे पतति यदि कायस्तनुभृतां तदा मातः शान्तक्रतवपदलाभोऽप्यतिलघुः ॥ ६ ॥ भगवति तव तीरे नीरमात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराधयामि । सकलकलुषभङ्गे स्वर्गसोपानसङ्गे तरलतरतरङ्गे देवि गङ्गे प्रसीद ॥ ७ ॥ मातर्जाह्नवि शंभुसङ्गमिलिते मौलौ निधायाञ्जलिं त्वन्तीरे वपुषोऽवसानसमये नारायणाङ्घ्रिद्यम् । सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे भूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥ ८ ॥ गङ्गाष्टकमिदं पुण्यं यः पठेत्प्रयतो नरः । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ गङ्गाष्टकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ मणिकर्णिकाष्टकम् ॥ त्वत्तीरे मणिकर्णिके हरिहरौ सायुज्यमुक्तिप्रदौ वादन्तौ कुरुतः परस्परमुभौ जन्तोः प्रयाणोत्सवे । मद्रूपो मनुजोऽयमस्तु हरिणा प्रोक्तः शिवस्तत्क्षणा- त्तन्मध्याद्भृगुलाञ्छनो गरुडगः पीताम्बरो निर्गतः ॥ इन्द्राद्यास्त्रिदशाः पतन्ति नियतं भोगक्षये ये पुन- र्जायन्ते मनुजास्ततोपि पशवः कीटाः पतङ्गादयः । ये मातर्मणिकर्णिके तव जले मज्जन्ति निष्कल्मषाः सायुज्येऽपि किरीटकौस्तुभधरा नारायणाः स्युर्नराः ॥ काशी धन्यतमा विमुक्तनगरी सालंकृता गङ्गया तत्रेयं मणिकर्णिका सुखकरी मुक्तिर्हि तत्किंकरी । स्वर्लोकस्तुलितः सहैव विबुधैः काश्या समं ब्रह्मणा काशी क्षोणितले स्थिता गुरुतरा स्वर्गे लघुत्वं गतः ॥ गङ्गातीरमनुत्तमं हि सकलं तत्रापि काश्युत्तमा तस्यां सा मणिकर्णिकोत्तमतमा यत्रेश्वरो मुक्तिदः । देवानामपि दुर्लभं स्थलमिदं पापौघनाशक्षमं पूर्वोपार्जितपुण्यपुञ्चगमकं पुण्यैर्जनैः प्राप्यते ॥ ४ ॥ दुःखाम्भोधिगतो हि जन्तुनिवहस्तेषां कथं निष्कृतिः ज्ञात्वा तद्धि विरिञ्चिना विरचिता वाराणसी शर्मदा । लोकाःस्वर्गसुखास्ततोऽपि लघवो भोगान्तपातप्रदाः काशी मुक्तिपुरी सदा शिवकरी धर्मार्थमोक्षप्रदा ॥ ५ ॥ एको वेणुधरो धराधरधरः श्रीवत्सभूषाधरः योऽप्येकः किल शंकरो विषधरो गङ्गाधरो माधवः । ये मातर्मणिकर्णिके तव जले मज्जन्ति ते मानवाः रुद्रा वा हरयो भवन्ति बहवस्तेषां बहुत्वं कथम् ॥ ६ ॥ त्वत्तीरे मरणं तु मङ्गलकरं देवैरपि श्लाघ्यते शक्रस्तं मनुजं सहस्रनयनैर्द्रष्टुं सदा तत्परः । आयान्तं सविता सहस्रकिरणैः प्रत्युद्गतोऽभूत्सदा पुण्योऽसौ वृषगोऽथवा गरुडगः किं मन्दिरं यास्यति ॥ मध्याह्ने मणिकर्णिकास्नपनजं पुण्यं न वक्तुं क्षमः स्वीयैरब्धशतैश्चतुर्मुखधरो वेदार्थदीक्षागुरुः । योगाभ्यासबलेन चन्द्रशिखरस्तत्पुण्यपारंगत- स्त्वत्तीरे प्रकरोति सुप्तपुरुषं नारायणं वा शिवम् ॥ ८ ॥ कृच्छ्रैः कोटिशतैः स्वपापनिधनं यच्चाश्वमेधैः फलं तत्सर्वं मणिकर्णिकास्नपनजे पुण्ये प्रविष्टं भवेत् । स्नात्वा स्तोत्रमिदं नरः पठति चेत्संसारपाथोनिधिं तीर्त्वा पल्वलवत्प्रयाति सदनं तेजोमयं ब्रह्मणः ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मणिकर्णिकाष्टकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ निर्गुणमानसपूजा ॥ शिष्य उवाच---- अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि । स्थितेऽद्वितीयभावेऽपि कथं पूजा विधीयते ॥ १ ॥ पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् । स्वच्छस्य पाद्यमंर्घ्यं च शुद्धस्याचमनं कुतः ॥ २ ॥ निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च । अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥ ३ ॥ निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च । निर्विशेषस्य का भूषा कोऽलंकारो निराकृतेः ॥ ४ ॥ निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ ५ । विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्पते । स्वयंप्रकाशचिद्रूपो योऽसावर्कादिभासकः ॥ ६ ॥ गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः । प्रदक्षिणमनन्तस्य प्रमाणोऽद्वयवस्तुनः ॥ ७ ॥ वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते । अन्तर्बहिः संस्थितस्योद्वासनविधिः कुतः ॥ ८ ॥ स्यो should be स्य उ for meter ? श्रीगुरुरुवाच---- आराधयामि मणिसंनिभमात्मलिङ्गं मायापुरीहृदयपङ्कजसंनिविष्टम् । श्रद्धानदीविमलचित्तजलाभिषेकै- र्नित्यं समाधिकुसुमैरपुनर्भवाय ॥ ९ ॥ अयमेकोऽवशिष्टोऽस्मीत्येवमावाहयेच्छिवम् । आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम् ॥ १० ॥ पुण्यपापरजःसङ्गो मम नास्तीति वेदनम् । पाद्यं समर्पयेद्विद्वान्सर्वकल्मषनाशनम् ॥ ११ ॥ अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम् । विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम् ॥ १२ ॥ ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम् । पिवन्तीन्द्रादय इति ध्यानमाचमनं मतम् ॥ १३ ॥ ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः । अच्छेद्योऽयमिति ध्यानमभिषेचनमात्मनः ॥ १४ ॥ निरावरणचैतन्यं प्रकाशोऽस्मीति चिन्तनम् । आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ १५ ॥ त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् । इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥ १६ ॥ अनेकवासनामिश्रप्रपञ्चोऽयं धृतो मया । नान्येनेत्यनुसंधानमात्मनश्चन्दनं भवेत् ॥ १७ ॥ रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः । आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ १८ ॥ ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः । बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम् ॥ १९ ॥ समस्तवासनात्यागं धूपं तस्य विचिन्तयेत् । ज्योतिर्मयात्मविज्ञानं दीपं संदर्शयेद्बुधः ॥ २० ॥ नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम् । पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम् ॥ २१ ॥ अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा । विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत् ॥ २२ ॥ रागादिगुणशून्यस्य शिवस्य परमात्मनः । सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम् ॥ २३ ॥ अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम् । आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥ २४ ॥ विविधब्रह्मसंदृष्टिर्मालिकाभिरलंकृतम् । पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत् ॥ २५ ॥ परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे । कूटस्थाचलरूपोऽहमिति ध्यानं प्रदक्षिणम् ॥ २६ ॥ विश्ववन्द्योऽहमेवास्मि नास्ति वन्द्यो मदन्यतः इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम् ॥ २७ ॥ आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम् ॥ २८ ॥ श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम् । मननं त्वात्मलिङ्गस्य मन्तव्याभावचिन्तनम् ॥ २९ ॥ ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः । समस्तभ्रान्तिविक्षेपराहित्येनात्मनिष्ठता ॥ ३० ॥ समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः ॥ तत्रैव ब्रह्मणि सदा चित्तविश्रान्तिरिष्यते ॥ ३१ ॥ एवं वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम् । कुर्वन्ना मरणं वापि क्षणं वा सुसमाहितः ॥ ३२ ॥ सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत् । विधूयांज्ञानदुःखौघं मोक्षानन्दं समश्नुते ॥ ३३ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ निर्गुणमानसपूजा संपूर्णा ॥ ॥ श्रीः ॥ ॥ प्रातःस्मरणस्तोत्रम् ॥ प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं सच्चित्सुखं परमहंसगतिं तुरीयम् । यस्तु प्रजागरसुषुप्तमवैति नित्यं तद्ब्रह्म निष्कलमहं न च भूतसङ्घः ॥ १ ॥ प्रातर्भजामि मनसां वचसामगम्यं वाचो विभान्ति निखिला यदनुग्रहेण । यत्रेति नेति वचनैर्निगमा अवोचं- स्तं देवदेवमजमच्युतमाहुरग्र्यम् ॥ २ ॥ प्रातर्नमामि तमसः परमर्कवर्णं पूर्णं सनातनपदं पुरुषोत्तमाख्यम् । यस्मिन्निदं जगदशेषमशेषमूर्तौ रज्ज्वां भुजंगम इव प्रतिभासितं वै ॥ ३ ॥ श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् । प्रातःकाले पठेद्यस्तु स गच्छेत्परमं पदम् ॥ ४ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रातःस्मरणस्तोत्रं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ जगन्नाथाष्टकम् ॥ कदाचित्कालिन्दीतटविपिनसंगीतकवरो मुदा गोपीनारीवदनकमलास्वादमधुपः । रमाशंभुब्रह्मामरपतिगणेशार्चितपदो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ १ ॥ भुजे सव्ये वेणुं शिरसि शिखिपिञ्छं कटितटे दुकूलं नेत्रान्ते सहचरकटाक्षं विदधत्ते । सदा श्रीमद्वृन्दावनवसतिलीलापरिचयो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ २ ॥ महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे वसन्प्रासादान्तः सहजबलभद्रेण बलिना । सुभद्रामध्यस्थः सकलसुरसेवावसरदो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ३॥ कृपापारावारः सजलजलदश्रेणिरुचिरो रमावाणीसोमस्फुरदमलपद्मोद्भवमुखैः । सुरेन्द्रैराराध्यः श्रुतिगणशिखागीतचरितो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ४ ॥ रथारूढो गच्छन्पथि मिलितभूदेवपटलैः स्तुतिप्रादुर्भावं प्रतिपदमुपाकर्ण्य सदयः । दयासिन्धुर्बन्धुः सकलजगतां सिन्धुसुतया जगन्नाथः स्वामी नयनपथगामी भवतु मे॥ ५॥ परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो निवासी नीलाद्रौ निहितचरणोऽनन्तशिरसि । रसानन्दो राधासरसवपुरालिङ्गनसुखो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ६ ॥ न वै प्रार्थ्यं राज्यं न च कनकता भोगविभवे न याचेऽहं रम्यां निखिलजनकाम्यां वरवधूम् । सदा काले काले प्रमथपतिना गीतचरितो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ७ ॥ हर त्वं संसारं द्रुततरमसारं सुरपते हर त्वं पापानां विततिमपरां यादवपते । अहो दीनानाथं निहितमचलं पातुमनिशं जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ जगन्नाथाष्टकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ षट्पदीस्तोत्रम् ॥ अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् । भूतदयां विस्तारय तारय संसारसागरतः ॥ १ ॥ दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे । श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे ॥ २ ॥ सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम् । सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥ ३ ॥ उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे । दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ॥ ४ ॥ मत्स्यादिभिरवतारै- रवतारवतावता सदा वसुधाम् । परमेश्वर परिपाल्यो भवता भवतापभीतोऽहम् ॥ ५ ॥ दामोदर गुणमन्दिर सुन्दरवदनारविन्द गोविन्द । भवजलधिमथनमन्दर परमं दरमपनय त्वं मे ॥ ६ ॥ नारायण करुणामय शरणं करवाणि तावकौ चरणौ। इति षट्पदी मदीये वदनसरोजे सदा वसतु ॥ ७ ॥ इति षट्पदीस्तोत्रं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ भ्रमराम्बाष्टकम् ॥ चाञ्चल्यारुणलोचनाञ्चितकृपाचन्द्रार्कचूडामणिं चारुस्मेरमुखां चराचरजगत्संरक्षणीं तत्पदाम् । चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १ ॥ कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं कर्पूरद्रवमिश्रचूर्णखदिरामोदोल्लसद्वीटिकाम् । लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ २ ॥ राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां राजीवप्रभवादिदेवमकुटै राजत्पदाम्भोरुहाम् । राजीवायतमन्दमण्डितकुचां राजाधिराजेश्वरीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ३ ॥ षट्तारां गणदीपिकां शिवसतीं षड्वैरिवर्गापहां षट्चक्रान्तरसंस्थितां वरसुधां षड्योगिनीवेष्टिताम् । षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ४ ॥ श्रीनाथादृतपालितत्रिभुवनां श्रीचक्रसंचारिणीं ज्ञानासक्तमनोजयौवनलसद्गन्धर्वकन्यादृताम् । दीनानामतिवेलभाग्यजननीं दिव्याम्बरालंकृतां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ५ ॥ लावण्याधिकभूषिताङ्गलतिकां लाक्षालसद्रागिणीं सेवायातसमस्तदेववनितां सीमन्तभूषान्विताम् । भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ६ ॥ धन्यां सोमविभावनीयचरितां धाराधरश्यामलां मुन्याराधनमेधिनीं सुमवतां मुक्तिप्रदानव्रताम् । कन्यापूजनसुप्रसन्नहृदयां काञ्चीलसन्मध्यमां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ७ ॥ कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थितां कृष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम् । कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ८ ॥ गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां गम्भीरां गजगामिनीं गिरिसुतां गन्धाक्षतालंकृताम् । गङ्गागौतमगर्गसंनुतपदां गां गौतमीं गोमतीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ भ्रमराम्बाष्टकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् ॥ श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय । नामशेषितानमद्भवान्धवे नमः शिवाय पामरेतरप्रधानबन्धवे नमः शिवाय ॥ १ ॥ कालभीतविप्रवालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय । मूलकारणाय कालकाल ते नमः शिवाय पालयाधुना दयालवाल ते नमः शिवाय ॥ २ ॥ इष्टवस्तुमुख्यदानहेतवे नमः शिवाय दुष्टदैत्यवंशधूमकेतवे नमः शिवाय । सृष्टिरक्षणाय धर्मसेतवे नमः शिवाय अष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय ॥ ३ ॥ आपदद्रिभेदटङ्कहस्त ते नमः शिवाय पापहारिदिव्यसिन्धुमस्त ते नमः शिवाय । पापदारिणे लसन्नमस्तते नमः शिवाय शापदोषखण्डनप्रशस्त ते नमः शिवाय ॥ ४ ॥ व्योमकेश दिव्यभव्यरूप ते नमः शिवाय हेममेदिनीधरेन्द्रचाप ते नमः शिवाय । नाममात्रदग्धसर्वपाप ते नमः शिवाय कामनैकतानहृद्दुराप ते नमः शिवाय ॥ ५ ॥ ब्रह्ममस्तकावलीनिबद्ध ते नमः शिवाय जिह्मगेन्द्रकुण्डलप्रसिद्ध ते नमः शिवाय । ब्रह्मणे प्रणीतवेदपद्धते नमः शिवाय जिंहकालदेहदत्तपद्धते नमः शिवाय ॥ ६ ॥ कामनाशनाय शुद्धकर्मणे नमः शिवाय सामगानजायमानशर्मणे नमः शिवाय । हेमकान्तिचाकचक्यवर्मणे नमः शिवाय सामजासुराङ्गलव्धचर्मणे नमः शिवाय ॥ ७ ॥ जन्ममृत्युघोरदुःखहारिणे नमः शिवाय चिन्मयैकरूपदेहधारिणे नमः शिवाय । मन्मनोरथावपूर्तिकारिणे नमः शिवाय सन्मनोगताय कामवैरिणे नमः शिवाय ॥ ८ ॥ यक्षराजबन्धवे दयालवे नमः शिवाय दक्षपाणिशोभिकाञ्चनालवे नमः शिवाय । पक्षिराजवाहहृच्छयालवे नमः शिवाय अक्षिफाल वेदपूततालवे नमः शिवाय ॥ ९ ॥ दक्षहस्तनिष्ठजातवेदसे नमः शिवाय अक्षरात्मने नमद्बिडौजसे नमः शिवाय । दीक्षितप्रकाशितात्मतेजसे नमः शिवाय उक्षराजवाह ते सतां गते नमः शिवाय ॥ १० ॥ राजताचलेन्द्रसानुवासिने नमः शिवाय राजमाननित्यमन्दहासिने नमः शिवाय । राजकोरकावतंसभासिने नमः शिवाय राजराजमित्रताप्रकाशिने नमः शिवाय ॥ ११ ॥ दीनमानवालिकामधेनवे नमः शिवाय सूनबाणदाहकृत्कृशानवे नमः शिवाय । स्वानुरागभक्तरत्नसानवे नमः शिवाय दानवान्धकारचण्डभानवे नमः शिवाय ॥ १२ ॥ सर्वमङ्गलाकुचाप्रशायिने नमः शिवाय सर्वदेवतागणातिशायिने नमः शिवाय पूर्वदेवनाशसंविधायिने नमः शिवाय सर्वमन्मनोजभङ्गदायिने नमः शिवाय ॥ १३ ॥ स्तोकभक्तितोऽपि भक्तपोषिणे नमः शिवाय माकरन्दसारवर्षिभाषिणे नमः शिवाय । एकबिल्वदानतोऽपि तोषिणे नमः शिवाय नैकजन्मपापजालशोषिणे नमः शिवाय ॥ १४ ॥ सर्वजीवरक्षणैकशीलिने नमः शिवाय पार्वतीप्रियाय भक्तपालिने नमः शिवाय । दुर्विदग्धदैत्यसैन्यदारिणे नमः शिवाय शर्वरीशधारिणे कपालिने नमः शिवाय ॥ १५ ॥ पाहि मामुमामनोज्ञदेह ते नमः शिवाय देहि मे वरं सिताद्रिगेह ते नमः शिवाय । मोहितर्षिकामिनीसमूह ते नमः शिवाय स्वेहितप्रसन्न कामदोह ते नमः शिवाय ॥ १६ ॥ मङ्गलप्रदाय गोतुरंग ते नमः शिवाय गङ्गया तरङ्गितोत्तमाङ्ग ते नमः शिवाय । सङ्गरप्रवृत्तवैरिभङ्ग ते नमः शिवाय अङ्गजारये करेकुरङ्ग ते नमः शिवाय ॥ १७ ॥ ईहितक्षणप्रदानहेतवे नमः शिवाय आहिताग्निपालकोक्षकेतवे नमः शिवाय । देहकान्तिधूतरौप्यधातवे नमः शिवाय गेहदुःखपुञ्जधूमकेतवे नमः शिवाय ॥ १८ ॥ त्र्यक्ष दीनसत्कृपाकटाक्ष ते नमः शिवाय दक्षसप्ततन्तुनाशदक्ष ते नमः शिवाय । ऋक्षराजभानुपावकाक्ष ते नमः शिवाय रक्ष मां प्रपन्नमात्ररक्ष ते नमः शिवाय ॥ १९ ॥ न्यङ्कुपाणये शिवंकराय ते नमः शिवाय संकटाव्धितीर्णकिंकराय ते नमः शिवाय । पङ्कभीषिताभयंकराय ते नमः शिवाय पङ्कजाननाय शंकराय ते नमः शिवाय ॥ २० ॥ कर्मपाशनाश नीलकण्ठ ते नमः शिवाय शर्मदाय नर्यभस्मकण्ठ ते नमः शिवाय । निर्ममर्षिसेवितोपकण्ठ ते नमः शिवाय कुर्महे नतीर्नमद्विकुण्ठ ते नमः शिवाय ॥ २१ ॥ विष्टपाधिपाय नम्रविष्णवे नमः शिवाय शिष्टविप्रहृद्गुहाचरिष्णवे नमः शिवाय । इष्टवस्तुनित्यतुष्टजिष्णवे नमः शिवाय कष्टनाशनाय लोकजिष्णवे नमः शिवाय ॥ २२ ॥ अप्रमेयदिव्यसुप्रभाव ते नमः शिवाय सत्प्रपन्नरक्षणस्वभाव ते नमः शिवाय । स्वप्रकाश निस्तुलानुभाव ते नमः शिवाय विप्रडिम्भदर्शितार्द्रभाव ते नमः शिवाय ॥ २३ ॥ सेवकाय मे मृड प्रसीद ते नमः शिवाय भावलभ्य तावकप्रसाद ते नमः शिवाय । पावकाक्ष देवपूज्यपाद ते नमः शिवाय तावकाङ्घ्रिभक्तदत्तमोद ते नमः शिवाय ॥ २४ ॥ भुक्तिमुक्तिदिव्यभोगदायिने नमः शिवाय शक्तिकल्पितप्रपञ्चभागिने नमः शिवाय । भक्तसंकटापहारयोगिने नमः शिवाय युक्तसन्मनःसरोजयोगिने नमः शिवाय ॥ २५ ॥ अन्तकान्तकाय पापहारिणे नमः शिवाय शान्तमायदन्तिचर्मधारिणे नमः शिवाय । संतताश्रितव्यथाविदारिणे नमः शिवाय जन्तुजातनित्यसौख्यकारिणे नमः शिवाय ॥ २६ ॥ शूलिने नमो नमः कपालिने नमः शिवाय पालिने विरिञ्चितुण्डमालिने नमः शिवाय । लीलिने विशेषरुण्डमालिने नमः शिवाय शीलिने नमः प्रपुण्यशालिने नमः शिवाय ॥ २७॥ शिवपञ्चाक्षरमुद्रां चतुष्पदोल्लासपद्यमणिघटिताम् । नक्षत्रमालिकामिह दधदुपकण्ठं नरो भवेत्सोमः ॥ २८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवपञ्चाक्षरनक्षत्रमालास्तोत्रं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ द्वादशलिङ्गस्तोत्रम् ॥ सौराष्ट्रदेशे वसुधावकाशे ज्योतिर्मयं चन्द्रकलावतंसम् । भक्तिप्रदानाय कृतावतारं तं सोमनाथं शरणं प्रपद्ये ॥ १ ॥ श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गेऽपि सदा वसन्तम् । तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ॥ २ ॥ अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् । अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहं सुरेशम् ॥ ३ ॥ कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय । सदैव मान्धातृपुरे वसन्त- मोंकारमीशं शिवमेकमीढेडे ॥ ४ ॥ पूर्वोत्तरे पारलिकाभिधाने सदाशिवं तं गिरिजासमेतम् । सुरासुराराधितपादपद्मं श्रीवैद्यनाथं सततं नमामि ॥ ५ ॥ आमर्दसंज्ञे नगरे च रम्ये विभूषिताङ्गं विविधैश्च भोगैः । सद्भुक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ ६ ॥ सानन्दमानन्दवने वसन्त- मानन्दकन्दं हतपापवृन्दम् । वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ ७ ॥ यो डाकिनीशाकिनिकासमाजे निषेव्यमाणः पिशिताशनैश्च । सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ॥ ८ ॥ श्रीताम्रपर्णीजलराशियोगे निबद्ध्य सेतुं निशि बिल्वपत्रैः । श्रीरामचन्द्रेण समर्चितं तं रामेश्वराख्यं सततं नमामि ॥ ९ ॥ सिंहाद्रिपार्श्वेऽपि तटे रमन्तं गोदावरीतीरपवित्रदेशे । यद्दर्शनात्पातकजातनाशः प्रजायते त्र्यम्बकमीशमीडे ॥ १० ॥ हिमाद्रिपार्श्वेऽपि तटे रमन्तं संपूज्यमानं सततं मुनीन्द्रैः । सुरासुरैर्यक्षमहोरगाद्यैः केदारसंज्ञं शिवमीशमीडे ॥ ११ ॥ एलापुरीरम्यशिवालयेऽस्मि - न्समुल्लसन्तं त्रिजगद्वरेण्यम् । वन्दे महोदारतरस्वभावं सदाशिवं तं धिषणेश्वराख्यम् ॥ १२ ॥ एतानि लिङ्गानि सदैव मर्त्याः प्रातः पठन्तोऽमलमानसाश्च । ते पुत्रपौत्रैश्च धनैरुदारैः सत्कीर्तिभाजः सुखिनो भवन्ति ॥ १३ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ द्वादशलिङ्गस्तोत्रं संपूर्णम् । ॥ श्रीः ॥ ॥ अर्धनारीश्वरस्तोत्रम् ॥ चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ १ ॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ २ ॥ झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय । हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ ३ । विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय । समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ ४ ॥ मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ ५ ॥ अम्भोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ ६ ॥ प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय । जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥ ७ ॥ प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय । शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥ ८ ॥ एतत्पठेदष्ठकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी । प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ अर्धनारीश्वरस्तोत्रम्त्रं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ शारदाभुजंगप्रयाताष्टकम् ॥ सुवक्षोजकुम्भां सुधापूर्णकुम्भां प्रसादावलम्बां प्रपुण्यावलम्बाम् । सदास्येन्दुबिम्बां सदानोष्ठबिम्बां भजे शारदाम्बामजस्रं मदम्बाम् ॥ १ ॥ कटाक्षे दयार्द्रां करे ज्ञानमुद्रां कलाभिर्विनिद्रां कलापैः सुभद्राम् । पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रां भजे शारदाम्बामजस्रं मदम्बाम् ॥ २ ॥ ललामाङ्कफालां लसद्गानलोलां स्वभक्तैकपालां यशःश्रीकपोलाम् । करे त्वक्षमालां कनत्प्रत्नलोलां भजे शारदाम्बामजस्रं मदम्बाम् ॥ ३ ॥ सुसीमन्तवेणीं दृशा निर्जितैणों रमत्कीरवाणीं नमद्वज्रपाणीम् । सुधामन्थरास्यां मुदा चिन्त्यवेणीं भजे शारदाम्बामजस्रं मदम्बाम् ॥ ४ ॥ सुशान्तां सुदेहां दृगन्ते कचान्तां लसत्सल्लताङ्गीमनन्तामचिन्त्याम् । स्मरेत्तापसैः सङ्गपूर्वस्थितां तां भजे शारदाम्बामजस्रं मदम्बाम् ॥ ५ ॥ कुरङ्गे तुरंगे मृगेन्द्रे खगेन्द्रे मराले मदेभे महोक्षेऽधिरूढाम् । महत्यां नवम्यां सदा सामरूपां भजे शारदाम्बामजस्रं मदम्बाम् ॥ ६ ॥ ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गीं भजे मानसाम्भोजसुभ्रान्तभृङ्गीम् । निजस्तोत्रसंगीतनृत्यप्रभाङ्गीं भजे शारदाम्बामजस्रं मदम्बाम् ॥ ७ ॥ भवाम्भोजनेत्राजसंपूज्यमानां लसन्मन्दहासप्रभावक्त्रचिह्नाम् । चलच्चञ्चलाचारुताटङ्कुकर्णां भजे शारदाम्बामजस्रं मदम्बाम् ॥ ८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारदाभुजंगप्रयाताष्टकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ गुर्वष्टकम् ॥ शरीरं सुरूपं तथा वा कलत्रं यशश्चारु चित्रं धनं मेरुतुल्यम् । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ १ ॥ कलत्रं धनं पुत्रपौत्रादि सर्वं गृहं बान्धवाः सर्वमेतद्धि जातम् । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ २ ॥ षडङ्गादिवेदो मुखे शास्त्रविद्या कवित्वादि गद्यं सुपद्यं करोति । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ ३ ॥ विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवृत्तेषु मत्तो न चान्यः । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ ४ ॥ श्रमामण्डले भूपभूपालबृन्दैः सदा सेवितं यस्य पादारविन्दम् । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ ५ ॥ यशो मे गतं दिक्षु दानप्रतापा- ज्जगद्वस्तु सर्वं करे यत्प्रसादात् । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ ६ ॥ न भोगे न योगे न वा वाजिराजौ न कान्तामुखे नैव वित्तेषु चित्तम् । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ ७ ॥ अरण्ये न वा स्वस्य गेहे न कार्ये न देहे मनो वर्तते मे त्वनर्घ्ये । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ ८ ॥ गुरोरष्टकं यः पठेत्पुण्यदेही यतिर्भूपतिर्ब्रह्मचारी च गेही । लभेद्वाञ्छितार्थं पदं ब्रह्मसंज्ञं गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ गुर्वष्टकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ काशीपञ्चकम् ॥ मनो निवृत्तिः परमोपशान्तिः सा तीर्थवर्या मणिकर्णिका च । ज्ञानप्रवाहा विमलादिगङ्गा सा काशिकाहं निजबोधरूपा ॥ १ ॥ यस्यामिदं कल्पितमिन्द्रजालं चराचरं भाति मनोविलासम् । सच्चित्सुखैका परमात्मरूपा सा काशिकाहं निजबोधरूपा ॥ २ ॥ कोशेषु पञ्चस्वधिराजमाना बुद्धिर्भवानी प्रतिदेहगेहम् । साक्षी शिवः सर्वगतोऽन्तरात्मा सा काशिकाहं निजबोधरूपा ॥ ३ ॥ काश्यां हि काशते काशी काशी सर्वप्रकाशिका । सा काशी विदिता येन तेन प्राप्ता हि काशिका ॥ ४ ॥ काशीक्षेत्रं शरीरं त्रिभुवनजननी व्यापिनी ज्ञानगङ्गा भक्तिः श्रद्धा गयेयं निजगुरुचरणध्यानयोगः प्रयागः । विश्वेशोऽयं तुरीयं सकलजनमनः साक्षिभूतोऽन्तरात्मा देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ काशीपञ्चकं संपूर्णम् ॥ श्लोकानुक्रमणिका S. S. II. 10 ॥ eft: 11 ॥ श्लोकानुक्रमणिका ॥ पृष्ठम् पृष्ठम् अ अनादिकल्प १०८ अखण्डे सच्चिदानन्दे १०७ अनेकवासनामिश्र १०९ अगौरनेत्रैः ८७ अन्तकान्तकाय १२८ अग्रे वह्निः ६६ अन्धस्य मे हृतविवेक १६ अङ्गं गलितं ६५ अन्नपूर्णे सदापूर्णे ७७ अङ्गं हरेः पुलक ७० अपारकारुण्य ८५ अच्युतं केशवं रामं ३९ अप्रमेयदिव्य १२७ अच्युतं केशवं सत्य ३९ अम्भोधरश्यामल - १३५ अच्युतस्याष्टकं यः ४१ अयमेकोऽवशिष्टो १०८ अजं रुक्मिणीप्राण ३८ अयि मधुरे .९८ अज्ञानध्वान्त ११० अरण्ये न वा स्वस्य १४२ अज्ञानोच्छिष्टकरस्य ११० अर्थमन ६९ अट्टहासभिन्न ९० अलक्षलक्ष ९३ अतिविपदाम्बुधि. ९९ अलक्ष्यलक्ष ९३ अद्राक्षमक्षीण ८४ अवन्तिकायां १०३ १४८ अविनयमपनय अवीरासनस्थै • ० अव्यान्निर्घात श्लोकानुक्रमणिका । पृष्ठम् ११७. आहुर्यस्य स्वरूपं २२ इदं तु नर्मदाष्टकं पृष्ठम् २२ ९४ असिन्धुप्रकोपै ० ९ इन्द्राद्यास्त्रिदशाः १०४ असीतासमेतै • ८ इष्टवस्तुमुख्य १२२ अस्नायम्यादौ ४२ इष्टाविशिष्टमतयो • ७२ अहो धृतं स्वनं ९४ आ ई ईश्वरो गुरुरात्मेति १०९ आकृतिसाम्याच्छाल्म • ११ हितक्षणप्रदान १२६ आक्रामद्भयां त्रिलोकी २५ उ आचार्येभ्यो लब्ध ४६ उद्धृतनग ११८ आत्मनः सत्क्रिया ११० उद्यद्भानुसहस्र ७९ आदावादिपितामहस्य १०२ उन्नम्रं कम्रमुच्चै० २७ आदिक्षान्त ७६ उपासकानां त्व० ८८ आदौ कल्पस्य २८ उपासकानां य० ८४ आपदद्रिभेद १२३ उपासते यं ८७ आपादादा च शीर्षात् ३४ उर्वीसर्वजनेश्वरी ७६ आमर्दसंज्ञे १३१ ए आमीलिताक्ष • ७१ एकीकृत्यानेक ५२ आराधयामि १०८ एकेन चक्रमपरेण १६ आलेपवन्तं ८६ एकेन मुद्रां ८६ श्लोकानुक्रमणिका । १४९ एको वेणुघरो एतत्पठेदष्टकमिष्टदं पृष्ठम् १०५ कलाभिरिन्दो० पृष्ठम् ८५ १३६ कस्तूरिकाकुङ्कम १.३४ एतत्पवनसुतस्य २ कस्तूरी तिलका ० ११९ एतानि लिङ्गानि १३३ कस्त्वं कोऽहं ६७ एलापुरीरम्य १३३ का ते कान्ता क० ૬૪ एवं वेदान्त • १११ का ते कान्ताध० ६५ ओ कान्तं कारणकारणं ५७ ओतं प्रोतं ५४ कान्तं वक्षो नितान्तं २९ कान्त्यम्भःपूरपूर्णे २८ कटाक्षे दयार्द्रा १३७ कान्त्या निन्दित ८७ कण्ठाकल्पोद्गतैर्यः ३० कामं क्रोध ६८ कदाचित्कालिन्दी ११.४ कामनाशनाय १२३ कफव्याहतोष्ण २१ कालभीतविप्र १२२· कमले कमलाक्ष ७४ कालभैरवाष्टकं ९१ कम्राकारा २३ कालाम्बुदालिललितो • ७.१ करिवरमौक्तिक ९९ कावेरिकानर्मदयोः १३१ कर्णस्थस्वर्णकम्रो० ३१ काशीक्षेत्रं शरीरं १४४ कर्पूरागरुकुङ्कुमा० १२१ काशी धन्यतमा.. १०४ कर्मपाशनाश १२७ काश्यां हि काशते १४४ कलत्रं धनं १४० किरीटोज्ज्वलत्सर्व . ३७ कलरवनूपुर १०० कुञ्चितैः कुन्तलैः १५० श्लोकानुक्रमणिकाः । पृष्ठम् पृष्ठम् कुतो वीची १०२ गन्धर्वामर ८२ कुरङ्गे तुरंगे १३८ गायत्रीं गरुडध्वजां १२१ कुरुते गङ्गा ६६ गीयते श्रुतिभिः १०८ कृच्छ्रः कोटिशतैः १०६ गीर्देवतेति ७२ कृपापारावारः ११५ गुरुचरणाम्बुज ६९ कृपापारावारां ९८ गुरोरष्टकं यः १४२ कृष्ण गोविन्द हे ४० गेयं गीतानाम ६८ कैलासाचल ७६ गोपालं प्रभुलीला ५७ कोटीराङ्गदरत्न ८१ गोपीमण्डलगोष्ठी ५७ कोऽयं देहे देव ५३ गोविन्दाष्टकमेतत् ५८ कोशानेतान्पञ्च ५० कोशेषु पञ्चस्वधि० १४३ चक्रस्थेऽचपले ८१ को ह्येवान्यादात्मनि ५३ चन्द्रार्कानल ७७ ४ चाञ्चल्यारुण ११९ क्षत्रत्राणकरी. ७७ चाम्पेयगौरा १३४ क्षमामण्डले १४१ चारुस्थितं सोम ८६ क्षेत्रज्ञत्वं प्राप्य ५१ चिदंशे विभुं १८ ग ज गङ्गातीरमनुत्तमं १०५ जटिली मुण्डी ६५ गङ्गाष्टकमिदं पुण्यं १०.३. जन्ममृत्युघोर १२४ गतं तदैव ९३ जरेयं पिशाचीव २० श्लोकानुक्रमणिका । १५१ पृष्ठम् पृष्ठम् जलच्युताच्युता • ९६ त्वदम्बुलीन ९२ जलान्तकेलि ९६ त्वमाचामोपेन्द्र ५९" ष्ट्वा स्थूल ४९ त्वमेवासि दैवं परं . जीमूतश्यामभासा २३ त्वयि मयि चा० ६८ ज्वलत्कान्तिवह्निं १३८ द झ दद्याद्दयानुपवनो ७२ झणत्वणत्कङ्कण तद्विर्ण वस्त्रे १३४ दशग्रीवमुग्रं ८ त दशानं धूपं ६० ·६० दक्षहस्तनिष्ठ १२४ तटिद्वाससं नील ३६. दामोदर गुणमन्दिर ११८ तत्त्वार्थमन्तेवस • ८६ दिक्कालौ वेदयन्तौ ३२ तरङ्गसङ्ग ९६ दिव्वस्तिभिः ७४ तरुणारुणमुखकमलं १ दिनयामिन्यौ ६५ तव हितमेकं वचनं १२ दिव्यधुनीमकरन्दे ११७ तावत्सर्वं सत्यं ५५. दीनमानवालि० १२५ त्रिगुणात्माशेष १०९ दुःखाम्भोधिगतो १०५ त्रैविष्टपरिपुवीरघ्नं ५६ दूरीकृतसीतार्तिः २ त्र्यक्ष दीनसत्कृपा ० १२६ हृदयादृश्य ० ७६ त्वत्तीरे मणिकर्णिके १०४ दृष्टा गीतास्वक्षरतत्त्वं ५१ त्वत्तीरे मरणं १०५ देवराजसेव्यमान ८९ त्वत्प्रभुजीवप्रिय० ११ देवी सर्वविचित्र وفا १५२ श्लोकानुक्रमणिका । पृष्ठम् पृष्ठम् देवो भीतिं विधातुः २७ नादे नारद • ८२ . दैवतानि क ८७ नानायोगमुनीन्द्र ८० धर्मसेतुपालकं द्वन्द्वैकत्वं यच्च धन्यां सोमविभावनीय धेनुकारिष्टहा • ध्यातव्याभाव ५२ नानारत्नविचित्र ७५ ध नाभीनालीकमूलात् २८ १२० नारायण करुणामय ११८ ९० नारीस्तनभर ६२ ० ४० नाहं प्राणो नैव ५४. निजे मानसे मन्दिरे न नित्यं स्नेहातिरेकात् ३१ न भोगे न योगे नमः सच्चिदानन्द १४१ नित्यानन्दक ७५. निरञ्जनस्य किं १०७ नमस्कारोऽष्टाङ्ग ६१ निरावरणचैतन्यं १०९ नमस्ते नमस्ते ६ निर्मलस्य कुतः १०७ नमस्ते सुमित्रासुपुत्रा० निर्लेपस्य कुतो १०७ नमो भक्तियुक्तानुरक्ताय ६ नैवेद्यमात्म लिङ्गस्य १०९ नमो विश्वकर्त्रे ६ न्यङ्कुपाणये १२७ नमोऽस्तु नालीक ७३ प ४३ पद्मानन्दप्रदाता. ३० नलिनीदलगत ६३ पोम्भोधेद्वपात् ५९ नंवेजलदद्युति ९९ परब्रह्मापीडः ११५ प्रार्थ्य ११५ परिभ्रमन्ति ब्रह्मा० ११० श्लोकानुक्रमणिका । १५३ पवित्रं चरित्रं पश्यत्रशुद्धोऽप्यक्षर पश्यञ्शृण्वन्नत्र पातात्पातालपातात् पृष्ठम् ७ पृष्ठम् प्रह्लादनारदपराशर १७ ४९ प्राणानायम्यो मिति ४६ ४८. प्राणायामं ६९ ३२ प्राणो वाहं वाक् ५३. पातालं यस्य नालं २८ प्रातः स्मरामि ११२ पादाम्भोजन्मसेवा २६ प्रातर्नमामि ११२ पायाद्भक्तं स्वात्मनि ५५ प्रातर्भजामि ११२ पाहि मामुमामनोज १२६ प्राप्तं पदं प्रथमतः ७१. पीठीभूतालकान्तं ३३ ब पीतेन द्योतते २७ बद्धा गले यमभटा १६. पुण्यपापरजः सङ्गो १०८ बालस्तावत् ६३ पुनरपि जननं ६७ ब्राह्नन्तरे मधुजितः ७१. पुरः प्राञ्जलीनाञ्जनेया० ४ बृन्दावनभुवि ५८ पूर्णस्यावाहनं १०७ ब्रह्मन्ब्रह्मण्यजिह्मां ३१. पूर्वोत्तरे पालिका • १३१ ब्रह्ममस्तकावली १२३- पृथिव्यां तिष्ठन्यो ४३ ब्रह्माण्डं खण्डयन्ती १०१ प्रचण्डप्रतापप्रभावा० ७ ब्रह्मानन्दजलेनैव १०९. प्रदीप्तरत्नोज्ज्वल १३६ ब्रह्मानन्दाब्धि १०८ प्रपञ्चसृष्टयुन्मुख १३५ ब्रह्मा विष्णू रुद्र ४९ प्रमाणं भवान्धे ० ३६ ब्रह्मेन्द्ररुद्रमरुदर्क १३ प्रसीद प्रसीद प्रचण्ड १० ब्रझेशाच्युत ८२. - १५४ श्लोकानुक्रमणिका । पृष्ठम् पृष्ठम् भ मध्याह्ने मणि० १०६ भगवति तव १०२ मनोनिवृत्तिः १४३. भगवति भवलीला १०१ मन्दारमाला १३५ भगवद्गीता ६७ ममाद्यदेवो ८५- भज गोविन्दं ६२ मलापहारि ९५ भवाम्भोजनेत्रा • १३९ महागभीर ९२ भवोत्तापाम्भोधौ १०० महाम्भोधेस्तीरे ११४ भानुकोटिभास्वरं ८९ महायोगपीठे तटे ३६ भुक्तिमुक्तिदायकं ९० महायोगपीठे परि० १८ भुक्तिमुक्ति दिव्य १९८ महारत्नपीठे ४ भुजंगप्रयातं पठे० २१ महेन्द्रादिदेवो ४३ भुजंगप्रयातं परं १० मा कुरु धनजन ६४ भुजे सव्ये वेणुं ११४ मातर्जाह्नव १०३ भूतसङ्घनायकं ९१ माता च पार्वती भूत्वा भूत्वा यदन्त • ३४ मात्रातीतं स्वात्म म मालालीवालिधाम्नः मङ्गलप्रदाय १२६ मजन्मातङ्ग १०१. मुक्ताहारलसत्कि • मुग्धा मुहुर्विदधती ० ७९ ७० मत्स्यः कुर्मो वराहो ३४ मत्स्यादिभिरवतारैः ११८ : मधुवनचारिणि ९८ मुदिताय मुग्ध० मुरारिकाय कालिमा मूढ जहीहि 5 2 3 5 0 V ~ ७८ ४७ ३३ ८८ ९५ ६२ श्लोकानुक्रमणिका । १५५ पृष्ठम् पृष्ठम् मूर्ता मूर्ते पूर्व • मृत्स्ना मत्सीदेति मोदात्पादादिकेश ५४ यस्यात स्वात्म • ५१. ५६ यस्या दाम्ना २७ ३५ यस्यामिदं कल्पित • १४३ य यस्यैकांशादित्थ • ४५. यं ब्रह्माख्यं ४६ यावत्पवनो ६३ यं विज्ञानज्योतिषं . ५५ यावद्वित्तोपार्जन • ६३. यक्षराजबन्धवे १२४ या वायावानुकूल्यात् २९ यतः सर्व जातं ४२ या सूते सत्त्वजालं २४. यत्कटाक्षसमुपासना ० ७३ युक्त्यालोड्य व्यास ५२ यत्र प्रत्युतरत्न ३३ येनाविष्टो यस्य ५० यदा धर्मग्लानिः ४४ येभ्यो वर्णश्चतुर्थः २५ यदा मत्समीपं ५ येभ्योऽसूयद्भिरुच्चैः २४ यदावर्णयत्कर्णमूले ३ योगरतो वा ६६ यद्यद्वेद्यं तत्तदहं ४७ योगानन्दकरी ७५ यद्यद्वेद्यं वस्तु ४७ यो डाकिनीशाकिनि ० १३२ यशो मे गतं १४१ योऽयं देहे चेष्टयिता • ५२ यस्ते प्रसन्ना ० ८८ यो विश्वप्राणभूत • २३ यस्मादन्यन्नास्त्यपि ४६ र : यस्मादाक्रामतो द्यां २५ रजः सत्त्वतमो० १०९ यस्माद्वाचो निवृत्ताः ३४ रत्नपादुकाप्रभा ०. ९० यस्यां दृष्ट्वामलायां २६ रथारूढो ११५ १५६ श्लोकानुक्रमणिका । पृष्ठम् पृष्ठम् रथ्याकर्पट ६७ वयसि गते ६४ रागादिगुणशून्यस्य ११० वाग्भूगौर्यादिभेदैः २४ रागामुक्तं ५५ राजताचलेन्द्र १२४ वानरनिकराध्यक्षं विजातीयैः पुष्पैः ६१ राजन्मत्तमराल राक्षसक्षोभितः रेखा लेखादिवन्द्याः ल ११९ विज्ञानांशो यस्य ५३ C ४० विदेशेषु मान्यः १४१ ३२ विद्युदुद्योतवत्प्र ० ४० २४ विद्राविताशेष ८४ विना यस्य ध्यानं ४३ लक्ष्माकारालकालि ० ३२ विभुं वेणुनादं ३७ लक्ष्मीनृसिंहचरणाब्ज १७ विविधब्रह्म ११० लक्ष्मीपते कमलनाथ १६ विशालनीलोत्पल १३५ लक्ष्मी भर्तुर्भुजाये २२ विशुद्धं परं सच्चिदा• लपन्नच्युतानन्त २१ विशुद्धं शिवं १८ लसच्चन्द्रिकास्मेर ४ विश्वत्राणैकदीक्षा० ३० लसत्कुण्डलामृष्ट १९ विश्ववन्द्योऽह • ११० लसत्तरङ्ग ९५ विश्वानन्दयितुः १०७ ललामाङ्कफालां लावण्याधिक १३७ विश्वामरेन्द्र ७० १२० विष्णवे जिष्णवे ३९ विष्णोः पादद्वया २५ वक्त्राम्भोजे लसन्तं ३१ विष्णोर्विश्वश्वरस्य २३ श्लोकानुक्रमणिका । १५७ पृष्ठम् पृष्ठम् विष्ठपाधिपाय १२७ शूलिने नमो नमः १२८ विहाररासखेद ९.६ शैलेन्द्रादवतारिणी. १०२ वीणानादनिमीलिता ० ८२ श्रद्धाभक्तिध्यान ५१ वीताखिलविषयेच्छं १ श्रवणं तस्य देवस्य ११० वेदवाचामवेद्यस्य १०८ श्रिया शातकुम्भद्युति २० वेदान्तैश्वाध्यात्मिक ५० श्रियाश्लिष्ट विष्णुः ४२ व्यालम्बिनीभिः ८८ श्री ताम्रपर्णी १३२ व्योमकेश दिव्य १२३ श्रीनाथादृत १२० श श्रीमत्पयोनिधिनिकेतन १३ शत्रौ मित्रे ६८ श्रीमत्यौ चारुवृत्ते २६ शब्दब्रह्ममय ८३ श्रीमत्सुन्दरनायकीं ८० शम्बरवैरिशरातिग • १ श्रीमदात्मने १२२ शरच्चन्द्रबिम्बाननं ३७ श्रीविद्यां शिववाम ० ७९ शरीरं कलत्रं २० श्रीविद्ये शिववाम ० ८१ शरीरं सुरूपं १४० श्रीशैलशृङ्गे १३० शिलापि त्वदङ्घ्रिक्षमा ७ श्रुत्यै नमोऽस्तु ७२ शिवं नित्यमेकं ३ लोकत्रयमिदं ११३ शिवपञ्चाक्षरमुद्रां १२९ घ शुक्तौ रजतप्रतिमा ११ षट्तारां गणदीपिकां १२० शुभपुलिने ९९ षडङ्गादिवेदो १४० शूलटङ्कपाश ८९ स .१५८ श्लोकानुक्रमणिका । पृष्ठम् पृष्ठम् संपत्कराणि सकले ० .७३ सदा सेव्यः कृष्णः ६१ संमूयाम्भोधिमध्यात् २९ सदैव नन्दिनन्द ० ९७ संसारकूपमतिघोर १४ सनत्कुमार ९३ संसारघोर गहने १५ स पुण्यः स गण्यः ७ संसारजालपतितस्य १४ सबिन्दुसिन्धु ९२ संसारदावदहना • १३ समस्तवासनात्यागं १०९ संसारभीकरकरीन्द्र १४ समाधिरात्मनो १११ संसारवृक्षमखबीज १५ समानोदितानेक १९ संसारसर्पविषदिग्ध १४ सम्यक्साह्यं २६ संसारसागरनिमजन १५ सरसिजनिलये ७३ संसारसागरविशाल १५ सर्व दृष्ट्वा स्वात्मनि ४८ संस्तीर्ण कौस्तुभांशु २९ सर्वजीवरक्षणैक १२५ संचूर्ण ताम्बूलं ६० सर्वज्ञो यो यश्च ४५ सत्तामात्रं केवल ५४ सर्वत्रास्ते सर्वशरीरी ४८ सत्यं ज्ञानं शुद्धं ४९ सर्वत्रैकः पश्यति ४८ सत्यं ज्ञानमनन्तं ५६ सर्वदुर्वासनाजालं १११ सत्यपि भेदापगमे ११७ सर्वमङ्गलाकुचा ० १२५ सत्सङ्गत्वे ६४ सानन्दमानन्दवने १३१ सदां तृप्तान्नं ६० सिंहाद्रिपार्श्वेऽपि १३२ सदा राम.. .....पिबन्त • ८ सुखतः क्रियते ६९ सदा राम......पिबन्न • ८ सुनासापुटं सुन्दर ० १९ श्लोकानुक्रमणिका । १५९ सुप्ताकाराः प्रसुते सुरत्नाङ्गदैरन्वितं पृष्ठम् ३३ स्नानव्याकुलयोषित् १९ स्फुरत्कौस्तुभालंकृतं पृष्ठम् ५७ ३७ सुरमन्दिरतरु ६६ स्रक्चन्दनवनितादीन् १२ सुवक्षोजकुम्भां १३७ स्वदक्षजानु • ८५. सुशान्तां सुदेहां १३८ स्वभक्ताग्रगण्यैः सुसीमन्तवेणीं १३८ स्वभक्तेषु संदर्शिताकार २० सृष्ट्वा सर्व स्वात्म • ५० ह सेवकाय १२८ हर त्वं संसारं ११६ सौराष्ट्रदेशे १३० हरे राम सीतापते ९ स्तवं पाण्डुरङ्गस्य ३८ हारस्योरुप्रभाभिः ३० स्तुवन्ति ये ७४ हित्वा हित्वा ४७. स्तोकभक्तितोऽपि १२५ हिमाद्रिप्रार्श्वेऽपि १३२. स्तोष्ये भक्त्या ४५ हृदम्भोजे कृष्णः ५९. ॥ T: ॥ ललितात्रिशतीभाष्यम श्रीमच्छंकर भगवत्पूज्यपादैः विरचितम् । ॥ श्रीः॥ ॥ ललितात्रिशतीभाष्यम् ॥ वन्दे विघ्नेश्वरं देवं सर्वसिद्धिप्रदायिनम् । वामाङ्कारूढवामाक्षीकरपल्लवपूजितम् ॥ १ ॥ पाशाङ्कुशेक्षुसुमराजितपञ्चशाखां पाटल्यशालिसुषुमाञ्चितगालवल्लीम् । प्राचीनवाक्स्तुतपदां परदेवतां त्वां पञ्चायुधार्चितपदां प्रणमामि देवीम् ॥ २ ॥ लोपामुद्रापतिं नत्वा हयग्रीवमपीश्वरम् । श्रीविद्याराजसंसिद्धिकारिपंकजवीक्षणम् ॥ ३ ॥ विस्तारितां बहुविधां बहुभिः कृतां च टीकां विलोकयितुमक्षमतां जनानाम् । तत्रत्यसर्वपदयोगविवेकभानुं तुष्ट्यै करोमि ललितापदभक्तियोगात् ॥ ४ ॥ अगस्त्य उवाच --- हयग्रीव दयासिन्धो भगवन् शिष्यवत्सल । त्वत्तः श्रुतमशेषेण श्रोतव्यं यद्यदस्ति तत् ॥ रहस्यनामसाहस्रमपि त्वत्तः श्रुतं मया । इतः परं मे नास्त्येव श्रोतव्यमिति निश्चयः ॥ तथापि मम चित्तस्य पर्याप्तिर्नैव जायते । कार्त्स्न्यार्थः प्राप्य इत्येव शोचयिष्याम्यहं प्रभो ॥ किमिदं कारणं ब्रूहि ज्ञातव्यांशोऽस्ति वा पुनः । अस्ति चेन्मम तद्रूहि ब्रूहीत्युक्त्वा प्रणम्य तम् ॥ सूत उवाच --- समाललम्बे तत्पादयुगलं कलशोद्भवः । हयाननो भीतभीतः किमिदं किमिदं त्विति ॥ मुञ्च मुञ्चेति तं चोक्त्वा चिन्ताक्रान्तो बभूव सः । चिरं विचार्य निश्चिन्वन्वक्तव्यं न मयेत्यसौ ॥ तूष्णीं स्थितः स्मरन्नाज्ञां ललिताम्बाकृतां पुरा । प्रणम्य विप्रं स मुनिस्तत्पादावत्यजन्स्थितः ॥ ७ ॥ वर्षत्रयावधि तथा गुरुशिष्यौ तथा स्थितौ । तच्छृण्वन्तश्च पश्यन्तः सर्वे लोकाः सुविस्मिताः ॥ ततः श्रीललितादेवी कामेश्वरसमन्विता । प्रादुर्भूय हयग्रीवं रहस्येवमचोदयत् ॥ ९ ॥ श्रीदेव्युवाच--- अश्वाननावयोः प्रीतिः शास्त्रविश्वासिनि त्वयि । राज्यं देयं शिरो देयं न देया षोडशाक्षरी ॥ १० ॥ स्वमातृजारवद्गोप्या विद्यैषेत्यागमा जगुः । ततोऽतिगोपनीया मे सर्वपूर्तिकरी स्तुतिः ॥ मया कामेश्वरेणापि कृता संगोपिता भृशम् । मदाज्ञया वचो देव्यश्चक्रुर्नामसहस्रकम् ॥ १२॥ आवाभ्यां कथिता मुख्या सर्वपूर्तिकरी स्तुतिः । सर्वक्रियाणां वैकल्यपूर्तिर्यज्जपतो भवेत् ॥ १३ ॥ सर्वपूर्तिकरं तस्मादिदं नाम कृतं मया । तद्ब्रूहि त्वमगस्त्याय पात्रमेव न संशयः ॥ १४॥ पत्न्यस्य लोपामुद्राख्या मामुपास्तेऽतिभक्तितः । अयं च नितरां भक्तस्तस्मादस्य वदस्व तत् ॥ अमुञ्चमानस्त्वत्पादौ वर्षत्रयमसौ स्थितः । एतज्ज्ञातुमतो भक्त्या हीदमेव निदर्शनम् ॥ चित्तपर्याप्तिरेतस्य नान्यथा संभविष्यति । सर्वपूर्तिकरं तस्मादनुज्ञातो मया वद ॥ १७ ॥ सूत उवाच--- इत्युक्त्वान्तरधादम्बा कामेश्वरसमन्विता । अथोत्थाप्य हयग्रीवः पाणिभ्यां कुम्भसंभवम् ॥ संस्थाप्य निकटे वाचमुवाच भृशविस्मितः । हयग्रीव उवाच --- कृतार्थोऽसि कृतार्थोऽसि कृतार्थोऽसि घटोद्भव ॥ त्वत्समो ललिताभक्तो नास्ति नास्ति जगत्त्रये । येनागस्त्य स्वयं देवी तव वक्तव्यमन्वशात् ॥ सच्छिष्येण त्वया चाहं द्रष्टवानस्मि तां शिवाम् । यतन्ते दर्शनार्थाय ब्रह्मविष्ण्वीशपूर्वकाः ॥ अतः परं ते वक्ष्यामि सर्वपूर्तिकरं स्तवम् । यस्य स्मरणमात्रेण पर्याप्तिस्ते भवेद्धृदि ॥ २२ ॥ रहस्यनामसाहस्रादपि गुह्यतमं मुने । आवश्यकं ततोऽप्येतल्ललितां समुपासितुम् ॥ तदहं संप्रवक्ष्यामि ललिताम्बानुशासनात् । श्रीमत्पञ्चदशाक्षर्याः कादिवर्णान्क्रमान्मुने ॥ पृथग्विंशतिनामानि कथितानि घटोद्भव । आहत्य नाम्नां त्रिशती सर्वसंपूर्तिकारिणी ॥ रहस्यातिरहस्यैषा गोपनीया प्रयत्नतः । तां श्रृणुष्व महाभाग सावधानेन चेतसा ॥ केवलं नामबुद्धिस्ते न कार्या तेषु कुम्भज । मन्त्रात्मकत्वमेतेषां नाम्नां नामात्मतापि च ॥ तस्मादेकाग्रमनसा श्रोतव्यं च त्वया सदा । सूत उवाच --- इत्युक्त्वा तं हयग्रीवः प्रोचे नामशतत्रयम् ॥ बहुकालं सुभक्तिमहिम्ना गुरुपादाम्बुजमवलम्ब्य स्थिताय कुम्भयोनिमुनये शिवदंपतिकृतनामशतत्रयोक्त्या प्रेरितो हय- ग्रीव उवाच --- ककाररूपा कल्याणी कल्याणगुणशालिनी । कल्याणशैलनिलया कमनीया कलावती ॥ ककाररूपेति । ककारः कवर्णः रूपं ज्ञापकविशेषणं यस्याः सा, कादिविद्याविग्रहेत्यर्थः । अथवा ककारः रूपं वाचकं येषां ते ककाररूपाः हिरण्यगर्भः उदकम् उत्तमाङ्गं सुखादयश्च । हिरण्यगर्भनिष्ठजगद्धारकजगत्कर्तृत्वादिगुण- वत्त्वं ककारस्य व्यञ्जनादिमवर्णत्वेन वर्तत इति तद्वाच्य- तया तथा । उदकनिष्ठान्नादिद्वारा जगत्संजीवनहेतुत्वमपि ककारस्य विद्याग्रिमवर्णतयास्तीति तद्रूपा वा । सर्वेषां प्राणिनां शिरस्यमृतमस्तीति योगमार्गेण कुण्डलिनीगमने तत्रत्यतत्प्रवाहाप्लुतयोगिनामीश्वरसाम्यं जायत इति योगशा- स्त्रेषु प्रसिद्धम् । तद्वत् कवर्णः मन्त्रादिमभागस्थः तत्पु- रश्चर्यापरायणानां शिवभावमेव यच्छतीति वा तद्रूपेत्यर्थः, 'कं ब्रह्म खं ब्रह्म' इति श्रुतेः । दहराकाशस्य सुखस्वरूप- त्वेन परमप्रेमास्पदतया अभिलाषविषयत्ववत् ककारोऽप्य- तिप्रीतिविषयमूलमन्त्रादिमाक्षरतया अभ्यर्हितत्वाद्वा तद्रूपे- त्यर्थः ॥ ॐ ककाररूपायै नमः ॥ कल्याणी । कल्याणानि सुखानि । युवसार्वभौमानन्दा- दारभ्य ब्रह्मानन्दपर्यन्तं तैत्तिरीयकादौ प्रतिपादितानि । तत्तदुपाधिभेदेष्ववच्छिन्नस्वरूपतया तानि कल्याणशब्दवा- च्यानि, 'एतस्यैवानन्दस्य अन्यानि भूतानि मात्रामुपजी- वन्ति' इति श्रुतेः । समष्टिव्यष्टिवत्त्वमुपहितस्वरूपेण संभ- वतीति मतुप्समासोपपत्तिः । तथा च राहोः शिर इतिवत् समासान्तर्गतषष्ठ्यर्थभेदस्याविवक्षिततया आनन्दैकविग्रहव- तीत्यर्थः; 'विज्ञानमानन्दं ब्रह्म' इति श्रुत्युक्तब्रह्मस्वरूपल- क्षणवतीयर्थः ॥ ॐ कल्याण्यै नमः ॥ कल्याणगुणशालिनी । कल्याणाः सुखकर्तारः ये गुणाः सत्यकामसत्यसंकल्पसर्वाधिपत्यसर्वेशानत्ववामनीत्वसंयद्वाम- त्वादयः, ते अस्याः शालयन्त इति, तथा एनां शोभयन्ती- ति वा, तैः शल्यत इति वा कल्याणगुणशालिनी । तथा च कल्याणाश्च ते गुणाश्च कल्याणगुणाः शालयन्त्येनामिति ललितात्रिशतीभाष्यम् । कल्याणगुणशालिनी ; अस्मिन समासे देवतायाः पराधीन- गुणवस्त्वं स्वत: शुद्धचैतन्यत्वं च स्फुरितम् । कल्याणगुणैः शाल्यत इत्यत्र गुणवत्त्वमात्रं देवतायाः द्योत्यते । तस्थौपा- धिकत्वं वैदिकमपि स्तुतौ तदप्रकटनं न दोषाय । यदि गुणानामारोपितत्वेन तत्संकीर्तनस्य भेदबुद्धिसमये तत्कृपा- प्राप्तिहेतुत्वेनावश्यकत्वम्, तथापि तदपवादपुरःसरं शुद्ध- चैतन्याभेदध्यानरूपमुख्यभजनं मुख्यमेवेति संपादयितुं स्व- गुरूपदिष्टमार्गेण सुकरमेवेति नातिविस्तार्यते ॥ ॐ कल्या- णगुणशालिन्यै नमः । , कल्याणशैलनिलया । शिलानां विकारः शैलः शिलाघन इत्यर्थः, कल्याणं सुखमेव शैलः घनीभूत इत्यर्थः तस्मिन् कल्याणशैले स्वस्वरूपे आनन्दघने निलयति तिष्ठतीति कल्याणशैलनिलया, 'स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नीति होवाच' इति श्रुतेः, देवदत्तः स्वस्मिन्नेव स्वयं वर्तते इति लौकिकप्रयोगाच्च, देवतायाः स्वस्वरूपे वावस्थानं युज्यत इति । कल्याणमेव शैलवत् घनीभूतं कल्याणशैल: आनन्दमयकोशः कल्याणशैलो निलयः यस्याः सा इति बहु- व्रीहिसमासः न विरुद्ध:, ' ब्रह्म पुच्छं प्रतिष्ठा' इति उक्त- श्रुतिप्रामाण्यात् । अथवा कल्याणशैलः महानेरुः निलयं गृहं ललितात्रिशतीभाष्यम् । यस्याः सा तथा; सुमेरुमध्य शृङ्गस्थेत्यर्थः ॥ ॐ कल्या- णशैलनिलयायै नमः ॥ कमनीया । परमानन्दस्वरूपत्वेन परमप्रेमास्पदा, 'को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् ' इति श्रुतेः । सुखस्य मनोहरत्वेन सर्वेप्साविषयत्ववत् मायावृता- नां सुखप्रापकत्वेन स्वस्वेष्टदेवतासु प्रीत्यतिशयेन तत्पूजादौ प्रवर्ततां तत्फलदानेन मनोहरत्वाद्वा कमनीया । ज्ञानिनामा- नन्दघनीभावात्मकसुन्दरमूर्तिमत्तया वा कमनीया ॥ ॐ कमनीयायै नमः ॥ कलावती । कला: शिरः पाण्याद्यवयवाः, चतुःषष्टिकला: विद्यारूपा वा, चन्द्रकला वा, भक्तध्यानाय अस्याः सन्ती- ति कलावती ॥ ॐ कलावत्यै नमः ॥ कमलाक्षी कल्मषघ्नी करुणामृतसागरा । कदम्बकाननावासा कदम्बकुसुमप्रिया ॥ कमलानी । कमले इव अक्षिणी यस्या: सा तथा । कमलाया: लक्ष्म्या: अक्षिशब्देन तन्निमित्तकं ज्ञानं लक्ष्यते विषयतासंबन्धेन तद्वतीति वा । कमलाया: ऐहिकामुष्मि- कश्रियः हेतुभूते अक्षिणी यस्याः सा- इति स्वकीयेक्षणमा- ललितात्रिशतीभाष्यम् । वेण महदैश्वर्यप्रापिकेति भावः ॥ ॐ कमलाक्ष्यै नमः ॥ कल्मषन्नी । कल्मषाणि पापानि हन्ति नाशयतीति क- ल्मषघ्नी, 'अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि' इति भग- वद्वचनात् । अथवा वेदान्तमहावाक्यजन्य साक्षात्काररूप- ब्रह्मविद्या 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा' इति स्मृते:, ' न स पाप५ श्लोक५ शृणोति' इति श्रुतेश्च ॥ ॐ कल्मषघ्न्यै नमः ॥ करुणामृतसागरा । करुणया कृपया जातं यदमृतं मोक्षरूपं तस्य सागर इव सागरा । यथा अमृतसमुद्रः स्वयममृतस्वरूपः सन् अन्यानपि लोकान् अमृतपायिमेघाद्विमुक्तामृतेन संजी- वयति, तथा 'ब्रह्म वेद ब्रह्मैव भवति ' ' ब्रह्मविदाप्नोति परम् ' इत्यादिश्रुत्या स्वयममृतस्वरूपा सती । 'लभते च तत: कामान्मयैव विहितान्हितान' इति भगवद्वचनेन तत्तदधि- कारिकृतकर्मोपासनादिफलस्य देवताप्रापणीयस्य संप्राप्तौ त- त्तदधिकारिणां तत्तत्फलं स्थितमिति संभाव्यत इति सागरो- पमा । अमृतवत्सर्वसंजीवनी करुणामृतस्य अभिन्नाश्रयत्वात् सागरा ; करुणा च भक्तविषयकपरिपाल्यताबुद्धिः । यद्वा, करुणया कृपया अमृताः शाश्वतकीर्तिमत्त्वेन ब्रह्मादिलोकं गताः सागराः सगरराजवंश्याः यस्या: सा तथा ; यद्वा, ललितात्रिशतीभाष्यम् । करुणया दयया हेतुना अमृताय प्राप्तः सागरः समुद्रो यया सा भागीरथी; करुणामृतसागरा ॥ ॐ करुणामृतसाग- रायै नमः ॥ कदम्बकाननावासा । कदम्बनामक कल्पवृक्षयुक्तं यत्का- ननं वनं तत्रावासो गृहं यस्याः सा तथा ॥ ॐ कदम्बकान- नावासायै नमः ॥ कदम्बकुसुमप्रिया । कदम्बानां कुसुमानि कदम्बकुसुमानि तेषु प्रिया प्रीतिमतीति यावत् । यद्यपि प्रियशब्दः प्रीतिवि- षयवाचक:, तथापि कुसुमजन्यप्रीतेरभावेन तद्विषयतायाः वक्तुमशक्यत्वात् तथोक्तम् ॥ ॐ कदम्बकुसुमप्रियायै नमः ॥ कंदर्पविद्या कंदर्पजनकापाङ्गवीक्षणा । कर्पूरवीटी सौरभ्यकल्लोलितककुटा ॥ ३ । कंदर्पविद्या । कंदर्पस्य विद्या तन्निष्ठप्रत्यग्ब्रह्मैक्यज्ञान- मित्यर्थः । अथवा विद्याप्रापकत्वात्तद्दृष्टमूलमन्त्रवर्णसमुदायो विद्येत्युच्यते वेदवाक्येषु उपनिषत्पदवत् । तद्वाच्यार्थत्वात् तथा देवी सूच्यते ॥ ॐ कंदर्पविद्यायै नमः ॥ कंदर्पजनकापाङ्गवीक्षणा । अपाङ्गाभ्यां वीक्षणमपाङ्गवी- क्षणम्, ईषद्दर्शनमिति यावत् । कंदर्पस्य जनकं अपाङ्ग- ललितात्रिशतीभाष्यम् । वीक्षणं यस्याः सा । अनेन नाम्ना येषां जडानामपि कुरू- पिणां जनानां उपरि सकृदीषद्वीक्षणमभिजायते, ते कंदर्प- वद्रूपयौवनसामर्थ्यलक्ष्मी भाजो भवन्तीति ध्वनितम् । यद्वा कंदर्पस्य जनकः श्रीनारायणः सः यस्या: अपाङ्गवीक्षणे ईषद्भूवल्लिचलने वर्तते, यस्याः आज्ञामात्रवश्यतया महा- विष्णु: जगद्रक्षादिकार्यं करोतीति सा तथा इति । अथवा, कंदर्पजनका महालक्ष्मीः यस्याः अपाङ्गवीक्षणे प्रेर्यतया व- र्तते सा तथा । कंदर्पस्य मन्मथस्य जनका: उत्पादका: स्रक्चन्दनादिभोग्यविषयाः ते यस्याः अपाङ्गवीक्षणात् भ- वन्ति सा तथा । अथवा, चन्द्रस्य वामनेत्रतया अपाङ्ग- वीक्षणं चन्द्रिकोच्यते । कंदर्पजनकं अपाङ्गवीक्षणं यस्याः सा तथा । कंदर्पजनकाशब्देन लक्ष्मीनिवासकमलं ल- क्ष्यते, तद्वत् अपाङ्गं कमलाक्षीत्यर्थः तन्निरूपितवीक्षणं लोकसंजीवनं यस्याः सा तथा ॥ ॐ कंदर्पजनकापाङ्ग- वीक्षणायै नमः ॥ कर्पूरवीटी सौरभ्य कल्लोलितककुप्पटा । कर्पूरयुक्ताश्च ताः वीटयश्च ताम्बूलकबलानि तासां सौरभ्यं सौगन्ध्यं तैः कल्लोलितानि अमकृत्परिमलितानि ककुभां दिशां तटानि प्रदेशाः यस्याः सा । मुखवासितपरिमलेन जगन्मात्रं सुर- ललितात्रिशतीभाष्यम् । भीकृतमिति स्वरूपातिशयोक्तिः अस्मिन्नानि व्यज्यते ; महा- राजभोगवतीत्यर्थः । ॐ कर्पूरवीटीसौरभ्य कल्लोलितककुस- टायै नमः ॥ कलिदोषहरा कंजलोचना कम्रविग्रहा । कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा ॥ ४ ॥ कलिदोषहरा । कलेः निन्द्याः जायमानानां पुरुषाणां जन्ममात्रेण ये दोषाः पापानि आयान्ति, तान दृष्टा श्रुता कीर्तिता संस्तुता पूजिता ध्याता सती हरतीति तथा । कले: अन्योन्यवादिनां कलहात्तत्तन्मताभिनिवेशवशाज्जायमाना ये दोषाः परब्रह्मविषये अस्तित्वनास्तित्वदेहादिव्यतिरिक्तत्वभि- न्नत्वाभिन्नत्वगुणित्वादिसाधकयुक्त्याभासतदनुगुणसंमत्याभा- सश्रुतितात्पर्यविघटनान्यथाकरण दुराग्रह जन्य कामक्रोधपरुष - परवशक्रियमाणनिन्दासहनादिरूपा बहुविधा दोषाः, तान- द्वैतब्रह्मज्ञानसाधनमुक्तिरूपेण हरतीति कलिदोषहरा ॥ ॐ कलिदोषहरायै नमः ॥ कंजलोचना । केभ्यः जायन्त इति कंजानि, कंजशब्दे- न अरविन्दनीलोत्पलानि लक्ष्यन्ते तद्वल्लोचने यस्याः सा तथा । अथवा कंजं ब्रह्माण्डम् । 'अयं पूर्वमपः सृष्ट्वा तासु वीर्यम- ललितात्रिशतीभाष्यम् । पासृजत् तदण्डमभवद्धैमम्' इति वचनात् कंजानि अनेक- कोटिब्रह्माण्डानि लोचनयो: लोचनकृतवीक्षणात् यस्याः सा तथा, 'सेयं देवतैक्षत' इति श्रुतेः ॥ ॐ कंजलोच- नायै नमः ॥ 'आ- कम्रविग्रहा । कम्रः अतिमनोज्ञः, गाम्भीर्यधैर्यमाधुर्यादि- बहुगुणोदितत्वात्, विग्रहः मूर्तिः यस्याः सा तथा, नन्दरूपममृतं यद्विभाति' इति श्रुतेः । आनन्दस्वरूपत्वाद्वा कम्रविग्रहा ; ललितारूपेत्यर्थः ॥ ॐ कम्रविग्रहायै नमः ॥ कर्मादिसाक्षिणी । कर्म आदिर्येषां तानि कर्मादीनि उपासनायोगश्रवणमनननिदिध्यासनानि । तेषां साक्षिणी अ- संबन्धी द्रष्ट्री, 'साक्षी चेता' इति श्रुतेः । अथवा कर्मा- दय: साक्षिभूताः जीवनिष्ठाः तदनाश्रयतया आत्मदर्शन- साधनानि सृज्यमानजगदुपादानभूतानि यस्याः सा तथा ॥ ॐ कर्मादिसाक्षिण्यै नमः ॥ कारयित्री कारयितृत्वं नाम कुर्वित्याज्ञापयितृत्वं जाय- मानकार्यगोचरकृत्युत्पत्तिहेतुकर्मोद्बोधकत्वरूप लिङ्लोट्तव्य - प्रत्ययानां धर्मः विधिनिष्ठभावनेत्युच्यते । तेषां शब्दा- त्मकतया जडानां तथात्वासंभवात्तदधिष्ठानचैतन्यरूपतया ललितात्रिशतीभाष्यम् । 'सर्वे वेदा यत्रैकं भवन्ति' इति श्रुत्या वेदस्यात्माभेदेन स्व- प्रकाशकतया अर्थप्रकाशनद्वारा प्रामाण्यविधीनामपि वेदैक- देशतया प्रेरणरूपत्वात् तदधिष्ठानचैतन्यात्मनाकारयतीति तथा, 'एष ह्येव साधु कर्म कारयति' इति श्रुतेः ॥ ॐ कारयित्र्यै नमः ॥ कर्मफलप्रदा । कृतानां कर्मणां कालान्तरभाविफलप्र- दाने अदृष्टं कारणमित्यनीश्वरमीमांसकादिमतम् ; तन्न । जडानां सूक्ष्माणामदृष्टानां चेतनधर्मकर्मफलप्रदानसामर्थ्या- योगात् कृतानां कर्मणां फलावश्यंभावे 'कर्माध्यक्ष:' इति श्रुते:, 'मयैव विहितान्हितान्' इति स्मृतेश्व, 'फलमत उप- पत्ते:' इति न्यायाच्च परदेवता कर्मफलप्रदा ॥ ॐ कर्म- फलप्रदायै नमः ॥ एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः । एतत्तदित्यनिर्देश्या चैकानन्दचिदाकृतिः । एकाररूपा । एकारः रूपं मन्त्रद्वितीयावयवसंज्ञापकं यस्याः सा तथा ॥ ॐ एकाररूपायै नमः ॥ एकाक्षरी । एकं मुख्यम् ईश्वरोपाधित्वेन । न क्षरति आत्मज्ञानेन विनामुक्तेः न नश्यतीति अक्षरं कूटस्थशब्दवाच्यं ति वा । 6 ललितात्रिशतीभाष्यम् । माया । तत्प्रतिविम्ब निष्ठ सर्वज्ञत्वाद्याधायकविशेषणत्वेन अ- स्या अस्तीति एकाक्षरी । एकम् अक्षरं सर्वप्रकृतित्वात्परा- परब्रह्मप्रतीकतया तदुपासनया तदुभयप्राप्तिसाधनत्वेन शब्द- ब्रह्मरूपलक्षितलक्षकशब्दः प्रणवः अस्या अस्तीति वा । एक: अखण्डैकचैतन्यरूपः अश्नरः अनश्वरः अविनाशी परमेश्वरः अर्धशरीरत्वेन अस्यामस्तीति वा । एकान्यक्ष- राणि मायाबीजादीनि तदुपासनाप्रतीकत्वेन अस्याः सन्ती- अथ परा यया तदक्षरमधिगम्यते ' इति श्रुते: अखण्डाकारवृत्तिप्रतिफलनयोग्य चैतन्यरूपतया तद्वृत्तिव्याप्ति- मात्रेण अक्षरपदलक्ष्यचैतन्यं विषयतासंबन्धेन अस्या अस्तीत एकाक्षरी । चकारः निर्गुणब्रह्मणोऽपि सगुणब्रह्म विशेषणसद्भा- वसमुच्चयपरः सर्वत्वापि द्रष्टव्य: । ' सञ्चिन्मयः शिवः सा- क्षात्तस्यानन्दमयी शिवा' इति वचनेन, 'स्त्रीरूपां चिन्त- येद्देवीं पुंरूपामथवेश्वरीं । अथवा निष्कलं ध्यायेत्सच्चिदान- न्दविप्रहाम्' इति स्मृत्या च, ' त्वं स्त्री त्वं पुमान्' इति श्वेताश्वतरोपनिषदि उपाधिकृतनानारूपसंभवोक्तेश्च । अत एव 'सेयं देवतैक्षत' इत्यादौ ' तत्सत्यं स आत्मा' इत्यन्ते च श्रुतौ स्त्रीलिङ्गान्तदेवतादिपदानां तत्सत्यमिति नपुंसका- तस्य स आत्मेति पुंल्लिङ्गात्मशब्दस्य एकार्थत्वम् अविवक्षि- ललितात्रिशतीभाष्यम् । तोपाधिमत्तया तत्त्वंपदलक्ष्यार्थस्यैकत्वात् । तस्मात् तत्त्वं- पदलक्ष्यार्थे सर्वेऽपि गुणा वर्णितुं संभवन्तीति हय- प्रीवेण अस्यां त्रिशत्यां बहवः चकाराः उपात्ताः । तेन वयं सर्वेषां सर्वत्र न पार्थक्येन प्रयोजनान्तरं पश्यामः ॥ ॐ एकाक्षर्यै नमः ॥ एकानेकाक्षराकृतिः । एकम् ईश्वरप्रतिबिम्बोपाधितया शु- द्धसत्त्वप्रधानम् अभ्रमज्ञानम् । अनेकानि मलिन सत्त्वप्रधान- तया जीवोपाधिभूतान्यक्षराणि अज्ञानानि, 'माया चाविद्या च स्वयमेव भवति' इति श्रुतेः । एकं चानेकानि च एकानेका नि तानि च अक्षराणि च तानि तथा 'मायां तु प्रकृतिम्' इति श्रुतेः । तेष्वाकृतयः प्रतिविम्बान्यवच्छिन्नानि वा चैतन्यानि घटस्थोदकावच्छिन्नप्रतिबिम्विताकाशवद्यस्याः सा तथा । अथवा एकानि च प्रणवाद्यानि अनेकानि च अकारादि- क्षकारान्तानि अक्षराणि वर्णाः आकृतिः स्वरूपं यस्याः सा, मातृकास्वरूपत्वेन वा । ' अकारादिक्षकारान्ता मा- तृकेत्यभिधीयते ' इति वचनात् । अथवा एच कश्च एकार- ककारौ तौ चेतराण्यनेकाक्षराणि च सर्वे मिलित्वा पञ्चदः शवर्णात्मिका मूलविद्या आकृतिः स्वरूपं यस्याः सा । साक्षि- तया एकीभूता अनेकाक्षरेषु अनेकाज्ञानेषु आकृति: स्वरूपं S. U. VII. 12 १७८ ललितात्रिशतीभाष्यम् । शोधिततत्त्वंपदार्थसामरस्यात्मकं यस्याः सा तथा ॥ ॐ एकानेकाक्षराकृतये नमः ॥ एतत्तदित्यनिर्देश्या । एतत् एतत्कालेऽपि इयत्तापरिच्छे- दवद्वस्तु तत् परोक्षमनिश्चितस्वरूपम् । एतच्च तच्च एतत्तत् । इतिकारः इत्थंभावे तृतीयार्थे । तथा च एतत्त्वतन्त्त्वाभ्यामि- त्यर्थः । एतत्तदित्यनेन निर्देष्टुं निर्वक्तुं योग्या निर्देश्या सा न भवतीति अनिर्देश्या । लोके सविशेषो हि पदार्थः परोक्षत्वापरोक्षत्वादिधर्मविशेषेण तद्गतेन निर्वक्तुं शक्यः । शब्दप्रवृत्तिनिमित्तजातिगुणक्रियाषष्ठ्यर्थानां यत्र संबन्धो नास्ति, ' अशब्दमस्पर्शमरूपमव्ययम्', 'निर्गुणं निष्क- लम्' इत्यादिश्रुत्या, तादृग्वस्तु केन करणेन केन वा वचनेन निर्देष्टुं शक्यम् । 'यद्वाचानभ्युदितम्' इति श्रुतेः । अत: एतत्तदित्यनिर्देश्या वाङ्मनसातीतेत्यर्थः । अथवा, एतत् प्रत्यक्षादिप्रमाणसिद्धं कार्य पश्चाद्भावि । तत् परोक्षत्वादि- विशिष्टं पूर्वकालसंबन्धि व्यवहितं कारणमुच्यते । इति- शब्दः उभयत्र संबन्धनीयः । कार्यमिति कारणमित्यपि शुद्धचैतन्यरूपा अनिर्देश्या, कार्यत्वकारणत्वघटकोपाधिवि- रहितत्वेन कार्यकारणभावाभावे तद्वाचकशब्दैर्विषयीकर्तुमश- क्यत्वात् । अथवा, एतत् अपरोक्षतया अहमिति प्रती- ललितात्रिशतीभाष्यम् । यमानं जीवचैतन्यं त्वंपदवाच्यार्थः । तत् परोक्षतया प्रती- यमानमीश्वरचैतन्यं तत्पदवाच्यार्थः । इति-शब्द: एव- कारार्थः । तथा च वादिभेदसिद्धान्तः अनूदितः । सां- ख्यमते प्रकृतिर्जगत्कर्त्री, जीवो नानाचेतनः भोक्ता इत्यतः ईश्वर एव नास्तीत्यङ्गीकृतम् । भागवतमते तु 'गुणी सर्ववित्' इति श्रुतेः नित्यगुणविशिष्टात् परमेश्वराद्विष्णो- जवानामुत्पत्तिविनाशवत्त्वेन अनित्यत्वात् स एव भगवान् पारमार्थिकः एक इत्यङ्गीकृतम् । तदुभयवादिसिद्धान्त- स्य औपनिषदमते निरस्तत्वात् तदुभयविधया अनिर्दे- परमार्थसच्चिदानन्दरूपतया छान्दोग्यगतदेवता- श्या शब्दार्थस्य प्रतिपादनादिति भावः अथवा, तटस्थे- श्वरवादिकाणादादिसिद्धान्तवत् व्यवस्थित भेदवज्जीवेश्वररू- पतया अनिर्देश्या । भेदव्यवस्थाया एव साधितुमश- क्यत्वादिति एतत्तदित्यनिर्देश्या ॥ ॐ एतत्तदित्यनिर्दे- श्यायै नमः ॥ एकानन्दचिदाकृतिः । एका मुख्या मोक्षरूपत्वेन प्रापि- त्सिता । आनन्दः सुखम् । चित् चैतन्यं प्रकाशज्ञानम् । आनन्दश्चासौ चिच्च आनन्दचित् एका चासावानन्दचिश्च एकानन्दचित् आकृतिः स्वरूपं यस्याः सा । सच्चिदानन्द- ललितात्रिशतीभाष्यम् । 9 6 'आनन्दो ब्रह्मरूपलक्षणवतीत्यर्थः । ' विज्ञानमानन्दं ब्रह्म ब्रह्मेति व्यजानात्' इति श्रुते: ' आनन्दादयः प्रधानस्य' इति न्यायाच्च दीप्तिस्वरूपप्रकाशात्मकपरमानन्दस्वरूपस्य जीव- न्मुक्त्यवस्थायां परमात्मज्ञानवत् पुरुषानुभवरूपप्रत्यक्षप्रमा- णगोचरत्वमस्या इति वा तथा । अथवा, एकेषां आनुभा- विकानां योगिनामानन्दसाक्षात्काररूपा आकृति: निरावर- णप्रकाशरूपा यस्याः सा तथा । अथवा, आनन्द: शिवा, चित् परमेश्वरः, एके मूर्तिभेदरहिते आनन्दचितौ आकृति - र्यस्याः सा तथा ॥ ॐ एकानन्दचिदाकृतये नमः ॥ एवमित्यागमाबोध्या चैकभक्तिमदर्चिता । एकाग्रचित्तनिर्ध्याता चैषणारहिताहता । एवमित्यागमाबोध्या । ननु आनन्दशब्दस्य लक्षणया " आनन्दमयो वाच्यः । य एको जालवानीशत ईशनीभिः इति श्रुत्युक्तैकत्वमपि जीवे सिध्यति । तथा च एकश्चासा- वानन्दश्च तस्य चित् अधिष्ठानप्रकाशकचैतन्यमाकृतिः यस्याः सेति विग्रहः संभवति । ' ब्रह्म पुच्छं प्रतिष्ठा' इति तत्प्रका- शकचैतन्यस्य पुच्छशब्देन परामर्शात् । एवं च सति प्रका- शकनित्यत्वस्य प्रकाश्यनित्यत्वापेक्षत्वात् । 'सत्यं ज्ञानम- ललितात्रिशतीभाष्यम् । नन्तं ब्रह्म' इत्यादिब्रह्मस्वरूपलक्षणवाक्येषु वाच्यार्थप्राधा- न्येन विधिमुखेनैव ब्रह्मप्रतिपादने अतद्व्यावृत्तिरूपनिषेधमु- खेन लक्षणार्थप्राधान्येन ब्रह्मस्वरूपलक्षणप्रतिपादनायोगेन तत्त्वमसिवाक्ये वैशिष्टयं वाक्यार्थः संभवतीति चेत्, नेत्या- ह—एवमित्यागमाबोध्येति । एवंविशिष्टतया - इति प्रत्यश्न- सिद्धत्वेन आगमैर्वेदै: ज्ञापनीया न भवति । आनन्द- शब्दस्यानन्दमात्रवाचकस्य तत्प्रचुरे संभावितेषदुःखे जीवे लक्षणायां त्रयो दोषाः । पारमार्थिकभिन्नसत्ताकवस्त्व- न्तराभावेन तत्त्वंपदवाच्यार्थनिष्ठविशेषणद्वयस्य अन्योन्य- विरोधवत्तया तमः प्रकाशवद्वैशिष्टयायोगे अखण्डार्थो वा- क्यार्थः संपद्यते । तथा च स्वरूपलक्षणवाक्येषु वाच्यार्थस्य ' अतोऽन्यदार्तम्' इति श्रुत्या मिध्यात्वप्रतिपादनात् निषेध- मुखेनैव अतद्व्यावृत्तिस्वरूपप्रतिपादनेन लक्षणवाक्यानि सम- ञ्जसानि भवन्तीति भावः ॥ ॐ एवमित्यागमाबोध्यायै नमः ॥ एकभक्तिमदर्द्धिता । एकस्मिन्नभेदे जीवब्रह्मणोः भक्तिः भजनीयत्वबुद्धिः तत्परिजिज्ञासा येषां सन्ति, तैरचिता पूजिता इत्येतदुपलक्षणं स्तुता ध्याता नमस्कृतेत्येवमादी- नाम्, 'यन्मनसा ध्यायति तद्वाचा वदति तत्कर्मणा करोति ' ललितात्रिशतीभाष्यम् । इति श्रुतेः मानसिक व्यापारपूर्वकानि हि इतरेन्द्रिय- कर्माणि भवन्तीत्यभिप्रायः । अथवा, अस्मिन् संसारमण्डले तत्स्वरूपपरिज्ञातारः ये केचन, तेषां भजनीयत्वाध्यवसायो भक्तिः तदेकप्रवणता सगुणब्रह्मविषया अष्टविधा, तैरेकभ- क्तिमद्भिरर्चिता अन्तर्यागबहिर्यागमहायागप्रकारैः पूजिता इत्यर्थः ॥ ॐ एकभक्तिमदर्चितायै नमः ॥ एकाग्रचित्तनिर्ध्याता । एकम् ऐक्यरूपम् अग्रम् आ- लम्बनं विषयः विजातीयप्रत्ययतिरस्कारपूर्वक सजातीयवृत्ति- काभिः निरन्तरत्र्याप्तिविषयीकृतचैतन्यं यस्य तत्तादृशं चि- त्तमन्तःकरणं येषां तैः । यमनियमासनप्राणायामप्रत्याहा- रधारणाध्यानसमाधीनां परिपाकातिशयेन पश्चात्संपद्यमाना- संप्रज्ञातसमाधेः त्रिविधा भूमिका — ऋतंभरा प्रज्ञालोका, प्रशान्तवाहिता चेति । ऋतं यथाभूतं सच्चिदानन्दलक्षणं ब्रह्म भरति वृत्तिव्याप्त्या विषयीकरोतीति प्रथमा तथा, 'आत्मन्येव वशं नयेत्' इति भगवद्वचनात् । प्रज्ञालोका । प्रज्ञायां अखण्डाकारवृत्तौ नित्यनिरन्तराभ्यासेन परिपाकं नीतायां ब्रह्मविषयिण्यां आवरणाभिभवं कुर्वन्त्यां सत्याम्, 6 प्रज्ञा प्रतिष्ठा' इत्यादिश्रुतेः, प्रज्ञायाः ब्रह्मस्वरूपाया: आलोक: अभिव्यक्तिः साक्षात्कारः यस्यां संपद्यते सा का- ललितात्रिशतीभाष्यम् । रणविज्ञानम् । यस्मिन्विज्ञाते सर्वमिदं विज्ञातं भवतीत्येक- विज्ञानेन सर्वविज्ञानरूपम् । प्रारब्धवशात्तदा चित्तं तदध्य- स्तं सर्वजगद्रष्टुमिच्छति यदि, तदानीं चैतन्य प्रकाशेनैव प्रकाशितं जगत्स्वाप्नपदार्थवदशेषं भासते । इदं च भरद्वाजा- - दीनामस्तीति पुराणादिप्रमाणवेद्यमस्माकम् । तथा च तस्यां भूमिकायां निरुद्धसामर्थ्य सदन्तःकरणं साकारस्वरूपं नि- र्वासनं यदा नश्यति, तदा प्रशान्तवाहिता भवति । वह: प्रवाह: संततवृत्तिः धारा अस्य अस्तीति वाही, वाहिनो भावः वाहिता प्रशान्ता च सा वाहिता च प्रशान्तवाहिता । अथवा, प्रशान्तः वाहः अस्य अस्तीति प्रशान्तवाही । प्रशान्तवाहिनो भावः प्रशान्तवाहिता, 'मनसो वृत्तिशून्यस्य ब्रह्माकारतया स्थितिः । असंप्रज्ञातनामेति समाधिर्योगिनां प्रिय:' इति वचनात्, 'प्रशान्तमनसं ह्येनम्' इति भगव- द्वचनात्, 'पृथ्व्यप्तेजोऽनिलखे समुत्थिते पश्चात्मके योग- गुणे प्रवृत्ते । न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्' इति श्रुत्या उक्तलक्षण साधनपरिपाकव- शाद्भवति । तैर्निर्ध्याता, ध्यानस्य निर्गतत्वात् । भेदास्फूत ध्यानविषयो न भवति ध्यातुः स्वरूपमेव प्रकाशते, 'ब्रह्म- वेद ब्रह्मैव भवति' इति श्रुतेः । निध्याता इति पाठे नितरां १८४ ललितात्रिशतीभाष्यम् । श्रवणमनननिदिध्यासनेन साक्षात्कृता इत्यर्थः ॥ ॐ एका- ग्रचित्तनिर्ध्यातायै नमः ॥ एषणारहितादृता । एषणा इच्छा । सा त्रिविधा । एत- लोकजयाय पुत्रैषणा । पितृलोकजयसाधनकर्मसंपादनाय वित्तैषणा । उपासनादिना जयसाधनं देवलोकः, तस्मिन्ने- षणा लोकैषणा । आभिः रहितैः अनाकृष्टचित्तै:, 'ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्ये चरन्ति' इति श्रुतेः । एषणारहिता ये परमहंस- परिव्राजकाः संन्यासिनः तैः आदरेण अतिशय प्रेम्णा स्वस्व- रूपेण आदृता अङ्गीकृता निरन्तरध्यानेन साक्षात्कृता सती मोक्षरूपतया प्राप्तेत्यर्थः ॥ ॐ एषणारहितादृतायै नमः ॥ एलासुगन्धिचिकुरा चैनः कूटविनाशिनी । एकभोगा चैकरसा चैकैश्वर्यप्रदायिनी ॥ ७ ॥ एला सुगन्धिचिकुरा । एलावदिति दृष्टान्तप्रदर्शनं सौग- न्ध्यमात्रसद्भावप्रदर्शनेनाकल्पित दिव्य परिमलसद्भावे हेतुः ; न तु प्राकृतत्वदर्शनपरम्, ब्रह्मणः स्वाधीनमायत्वात् । तद्व- त्सुगन्ध इति साजात्यमानं व्यज्यते, गुणमात्रादानेन सर्वत्र पदार्थान्तरस्य दृष्टान्तीकरणात् । सुगन्धा येषां ललितात्रिशतीभाष्यम् । सन्तीति सुगन्धिनः तादृशाः चिकुरा: कुन्तलाः यस्याः सा तथा । स्वभावसिद्धदिव्यपरिमलशा लिसर्वाङ्गसौरभ्य- वती, चिकुरपदस्य उपलक्षणत्वादिति भावः ॥ ॐ एला- सुगन्धिचिकुरायै नमः ॥ एनः कूटविनाशिनी । एनसां पापानां कूटं समुदायः । आगामिसंचितप्रारब्धभेदेन समष्टिरूपेण दृढतरं तत्त्वज्ञा- नेन विना अन्यस्य भोगमात्रस्य तद्विनाशकत्वावगमात् तेषां च कल्पकोटिकालं क्रमिकभोगप्रदानं विनोपायान्त- रेण क्षयेप्सूनामात्मब्रह्माभेदज्ञानविषयतया चैतन्यं नाशय- तीति तथा । एवंविदि पापं कर्म न लिप्यते ' अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशत:' इत्यादिश्रुते:, ' अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि' इति स्मृतेश्च । अथवा एनांसि च तत्कारणीभूतं कूटं कपटवचनाभिधानं च त- त्कारणं मायां च नाशयतीति तथा ॥ ॐ एनः कूटविना- शिन्यै नमः ॥ एकभोगा । एकेन कामेश्वरेण साकं भोगः भुक्तिः । भोगः स्वस्वरूपानन्दानुभवः यस्याः सा तथा । अथवा, एकस्य अ- ज्ञानतत्कार्यस्य कार्यकारणरूपेण अभिन्नस्य तदधिष्ठानतया स्वसत्ताधायकत्वेन भोगः परिपालनं यस्याः सा । प्रपभ्वो- ललितात्रिशतीभाष्यम् । त्पत्तिस्थितिनाशहेतुमायोपाधिकचैतन्यमित्यर्थः । 'एकाकी न रमते ततः पतिश्च पत्नीश्चाभवताम्' इति पुरुषविधब्राह्मणवच- नात्, दंपत्योरैच्छिकभेदकत्वावगमेन परमार्थत: एतत्स्वरूप - स्यैकचैतन्यरूपतावगमात्, तदुभयभोगस्यापि एकभोगत्वात् तद्वतीति वा ॥ ॐ एकभोगायै नमः ॥ एकरसा । एक: अभिन्न: रसः सामरस्यं यस्याः सा, 'रस५ ह्येवायं लब्ध्वानन्दी भवति' इति श्रुतेः । एक: नव- रसेषु मुख्यः शृङ्गाररस यस्याः सा तथा । अथवा, एकेन परमेश्वरेण अस्यां क्रियमाणः प्रीत्यतिशयरूपः रसः एतद्वि- षयकः यखाः सा । अथवा. एकस्मिन्नेव स्वभर्तरि रस: निरतिशयप्रीति: अनुरागसंज्ञा यस्याः सा । अथवा, षडूसेषु मुख्य: मधुररसः प्रियत्वेन यस्याः सा, सत्त्वगुणप्रधान- मायोपाधिकचैतन्यस्वरूपत्वात् । 'रस्याः स्निग्धा स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ' इति भगवद्वचनात् ॥ ॐ एकरसायै नमः ॥ एकैश्वर्यप्रदायिनी । ईष्टे प्रेरयति अन्तर्यामित्वेन सर्वा- णीति ईश्वरः । ' यः सर्वेषु भूतेषु तिष्ठन्यः सर्वाणि भूता- न्यन्तरो यमयति' इति श्रुतेः । तत्प्रेर्यमाणानां जीवानां भूतशब्दवाच्यानां अज्ञानतत्कार्यान्तःकरणोपहितप्रतिबिम्ब- ललितात्रिशतीभाष्यम् । चैतन्यरूपाणां जाग्रदाद्यवस्थाभिमानिनां अखण्डब्रह्मसाक्षा- त्कारवेलायाम् अभेदानुभवात्, 'तत्त्वमसि' इति श्रुतेश्व 'ए- कमेवाद्वितीयम्' इति विशेषितत्वाच्च, एकश्वासावीश्वरश्व ए केश्वरः तस्य भावः तदैक्यं तत् प्रददातीति तथा । बहुषु वि- द्याधनवत्सु तेष्वेको विद्याधनवानित्युक्ते, तत्रत्यजननिष्ठविद्या- भावे तदतिशयप्रतीतिवत् एकं च निरतिशयमणिमादिकमैश्व- ये निःश्रेयसं प्रददातीति वा । यद्वा एकं मानुषं सर्वोत्कृष्टं सार्वभौमत्वादिलचणमभ्युदयसामान्यमैश्वर्यं प्रददातीति वा तथा ॥ ॐ एकैश्वर्यप्रदायिन्यै नमः ॥ एकातपत्त्रसाम्राज्यप्रदा चैकान्तपूजिता । एधमानप्रभा चैजदनेकजगदीश्वरी ॥ ८ ॥ एकातपत्रसाम्राज्यप्रदा । आतपात आ समन्तात् अध्या- त्माधिदैवताधिभूतानि आ-शब्दार्थः । तेभ्यो जाता: तापा: आतपा: । तपन्ति शोषयन्तीति तपा:, आतपेभ्यः त्रायति रक्षतीति आतपत्रं सर्वसंसारदुःखोपशमात्मकमात्मज्ञानम् । यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि' इति भगवद्वचनात् । अखिलदुःखनिदानाज्ञाननिवर्तकं एकं लक्षणया अभिन्नब्रह्म- विषयकमित्यर्थः । एकं च तत् आतपत्रं च अखण्डाकार- ज्ञानम्, तेन जायमानं यत्साम्राज्यं सम्राजो भावः सर्वोत्तम- ललितात्रिशतीभाष्यम् । त्वं तत्प्रददातीति । अथवा, एकातपत्रसाम्राज्यं चक्रवर्तित्वं तत्प्रददातीति वा ॥ ॐ एकातपत्रसाम्राज्यप्रदायै नमः ॥ एकान्तपूजिता । एकस्य अद्वितीयस्य शोधितत्वं पदार्थ- स्य अन्ते उपाधौ हृदि परिच्छेदकत्वात् पूजिता अहमित्य- परोक्षीकृता. ' यत्साक्षादपरोक्षाद्ब्रह्म' इति श्रुते: । एकस्य ब्रह्मण: अन्ते उप पूजिता द् गत्यवसानार्थयोरिति धातुपा- ठात् उपनिषद्ब्रह्ममात्रतया पर्यवस्यतीत्यर्थः । एकान्तपूजि - तेति नाम्नोपनिषदित्यर्थः । अथवा, एकान्ते 'गुहानिवाता - श्रयेण प्रयोजयेत्' इति श्रुतेः एकान्तस्थले ध्यानादिना योगिभिर्विषयीकृतेत्यर्थः । अथवा, कामेश्वरेण एकान्ते स्त्री- लिङ्गे पूजिता । संप्रदायप्रवृत्त्यर्थमादौ ईश्वरेण वहिर्यागक- मेण आदिमसाधनेन सर्गाद्यकाले पूजादिना संतोषितत्वात् भूतार्थव्यपदेशः । एकान्ते सर्वप्रविलापनसमये पूजिता ध्यानादिना संपादिता साक्षत्कृतेत्यर्थः । ' कश्चिद्धीरः प्रत्य- गात्मानमैशदावृत्तचक्षुरमृतत्वमिच्छन्' इति श्रुतेरिति वा ॥ ॐ एकान्तपूजितायै नमः ॥ एधमानप्रभा । एधमाना विवर्धमाना सर्वातिशायिनी प्रभा कान्तिर्यस्याः सा, ' तमेव भान्तमनुभाति सर्वे तस्य भासा सर्वमिदं विभाति' इति श्रुतेः । ॐ एधमानप्रभायै नमः ॥ ललितात्रिशतीभाष्यम् । एजदनेकजगदीश्वरी । एजन्ति कम्पमानानि चेष्टमाना- नि प्राणवन्ति जीवन्ति अनेकानि नानोपाधिकानि जगन्ति जङ्गमानि विचरत्प्राणिन इत्यर्थः । ईष्टे प्रेरयतीति ईश्वरी । स्थावराणां सुखदुःखप्राप्तिपरिहारोपायानभिज्ञत्वेऽपि स्वजी- तत्राप्यस्तीति वनहेतुभूतोदकपानादिप्रवृत्तिदर्शनाश्चेष्टावत्त्वं जगच्छन्दो निर्विशेषप्रपञ्चमात्रपरो वक्तव्यः, अन्यथा 'सर्वे- षु भूतेषु' इति श्रुतौ चरप्राणिमात्रपरत्वे संकोचापत्तेः । अस- ति विरोधे सामान्यवाचकस्य शब्दस्य विशेषलक्षणाङ्गीका- रस्य न्याय्यत्वान् । अन्यथा ब्रह्मणः प्रपञ्चमात्रोत्पत्त्यादिहे - तुत्वं संकुचितं भवेत् । अत एव आकरे एजत्पदं उपात्तम् । यथाकथंचित् क्रियाश्रयत्वेन प्राणवत्त्वमात्रस्य समष्टिहिर- ण्यगर्भाश्रयत्वेन सर्वेषां प्रेर्यत्वं संभवतीति भावः ॥ ॐ एज- दनेकजगदीश्वर्यै नमः ॥ एकवीरादिसंसेव्या चैकप्राभवशालिनी । ईकाररूपा चेशित्री चेप्सितार्थप्रदायिनी ॥ ९ ॥ एकवीरादिसंसेव्या । एक: अनितरसाधारण: वीरः पुरश्चर्यादिना कृतमन्त्रदेवतासाक्षात्कारलब्धपुरुषार्थः पुमान् विजयप्राप्ताभ्युदयशाली । राजराजनिष्ठधैर्यगाम्भीर्यादिगुण- वत्त्वेन तत्तद्देवतोपासकाः पुरुषाः वीरा इत्युच्यन्ते । यासां ललितात्रिशतीभाष्यम् । शक्तीनामादयो यषां प्राणिकोटीनां ता एकवीरादयः तासां कदम्बैः संसेव्या संसेवितुं योग्या । यदा ईश्वरी भक्तान- नुगृह्णाति सगुणविग्रहवती स्यात् तदा अनेक परिवारदेवताप- रिसेविता मन्त्रदेवतात्वेनोपासनीयेत्यर्थः । अथवा, एकवीरा रेणुका, तदादयः शक्तय: श्यामलाप्रमुखाः, ताभिस्तत्काल- प्रपञ्चे स्वस्वपीठे स्थिताः सत्यः उपासकानामभीष्टवरप्रदा- त्र्यो दृश्यन्ते । ता अस्याः परिसेवकत्वेन स्वयमभीष्टवर- कामाः इत्यस्याः प्रकृताया महिमातिशयोक्तिः ॥ ॐ एक- वीरादिसंसेव्यायै नमः ॥ एकप्राभवशालिनी । प्रभोर्भावः प्राभवं रक्षकत्वं एक- मनितरसाधारणं च तत्प्राभवं च तच्छालक इति तथा । अथवा, प्राभवस्य सापेक्षकधर्मत्वादेकपदस्य चानन्यगामित्वा- र्थस्य सामानाधिकरण्येन स्वारस्येन पर्यालोच्यमानेन अय- मर्थः सूच्यते । प्राभवं च नियम्यलोकोद्भवं विना अनुपपद्य- मानं तदन्तर्गततत्कार्यमर्थापत्त्या सिध्यति । तथा च वटबीजव- स्त्वन्तर्गतपश्चाद्भाविकार्यवत्कूटस्थचैतन्यमिति भावः । अथवा, प्राभवं नामेश्वरत्वं तदाक्लृप्तनियम्यजगच्चोपलक्षणविधया य- स्यैकस्याखण्डचैतन्यस्य तदेकप्राभवम् । 'पादोऽस्य सर्वा भू- तानि' 'एकांशेन स्थितो जगत्' इति श्रुतिस्मृतिभ्यां भूतपूर्व - ललितात्रिशतीभाष्यम् । गत्या प्राभवोपलक्षितमेकं सच्चिञ्चैतन्यरूपं शालते आविष्करो- ति तथा । अथवा एकं च तत् प्राभवं च एकप्राभवं मुख्य- सार्वभौमत्वमिति यावत् । प्रभुत्वपरंपरायाः सविशेषायाः कुत्रचित् पर्यवसानावश्यंभावे 'एष सर्वेश्वर एष भूताधिप- तिरेष भूतपाल:' इति श्रुत्या अन्तर्यामितया साक्षात्कृ- त्युत्पादकत्वयुक्त्या च इतरवागाद्यवयवप्रेरणातिशयानां प- र्याप्तिरत्त्रैवास्तीत्यभिप्रायः । तथा च निरङ्कुशस्वतन्त्रज- गत्कारणत्वरूपतटस्थलक्षणलक्षितवेदान्तसमन्वयविषयीभूता अखण्डसच्चिदानन्दस्वरूपा परदेवता अवश्यं स्वस्वरूपेणैव ध्यातव्येति निष्कृष्टार्थः । ॐ एकप्राभवशालिन्यै नमः ॥ ईकाररूपा । ईकारः रूपं तृतीयावयवः यद्वाचकमन्त्रस्य यस्याः सा तथा ॥ ॐ ईकाररूपायै नमः ॥ ईशित्री । इच्छति ईष्टे इति ईशित्री सर्वप्रेरिका इत्यर्थः ॥ ॐ ईशित्र्यै नमः ॥ ईप्सितार्थप्रदायिनी । अर्थ्यन्ते प्रार्थ्यन्ते इत्यर्था: अभ्यु- दयनिःश्रेयसरूपाः, आप्तुं गन्तुं प्राप्तुं इच्छाविषयीभूताः ईप्सिताः, ते च ते अर्थाश्चेति कर्मधारयः, ईप्सितार्थान् प्रददातीति तथा । केवलकर्मणामदृष्टद्वारा कालान्तरभावि- ललितात्रिशतीभाष्यम् । फलदातृत्वमचेतनत्वान्नोपपद्यते । तादृशानां कस्मिन्नप्यर्थे सामर्थ्यादर्शनात् । चेतनाधिष्ठितानां तु कर्मणां भृत्यक- तपराक्रमादितुष्टराजवत्तदाराधितपरमेश्वरः कर्माध्यक्षः, इति श्रुत्या सर्वज्ञस्य तत्तदधिकारिकृतपुण्यापुण्यानुरूपतया फल- प्रदाने समर्थस्य सत्त्वकल्पने तदन्यस्य चेतनस्य जीवादेस्तत्र सामर्थ्यविरहात् स एव तत्तदनुगुणविषयेच्छोत्पादनेन तत्साधनानुष्ठापयिता सन् तत्फलकामनां पूरयतीत्यनीश्व- रमीमांसकमतनिरासो द्रष्टव्यः । अथवा, ईप्सिता जिज्ञा- सिता, तथा च स्वस्वरूपप्रतिपादकवेदान्तश्रवणमनननिदि- ध्यासनविषयीकृता सती अर्थं प्रार्थ्यमानं सर्वाभ्यर्हितमो- क्षरूपं पुरुषार्थं प्रददातीति तथा ॥ ॐ ईप्सितार्थप्रदा- यिन्यै नमः ॥ ईदृगित्यविनिर्देश्या चेश्वरत्वविधायिनी । ईशानादिब्रह्ममयी चेशित्वाद्यष्टसिद्धिदा ॥ ईदृगित्यविनिर्देश्या । ईदृक् एतल्लक्षणलक्षित एतादृश- परिमाण एवंस्वरूपः एतादृशधर्मवानिति प्रत्यक्षसिद्धार्थो विनिर्देष्टुं शक्यते । ' यच्चक्षुषा न पश्यति' इत्यादिश्रुत्या सर्वेन्द्रियगोचरत्वनिराकरणात् विनिर्देश्या न भवति । औ- पनिषदानां मते तु उपनिषदां वेदैकदेशत्वेन इतरंप्रमाणा- । ललितात्रिशतीभाष्यम् । नपेक्षतया अज्ञातार्थज्ञापकत्वेन प्रामाण्यमुररीकृतम् । इद- मेव एतादृगेवेति प्रत्यक्षसिद्धार्थज्ञापने तासामनुवादकत्वेन सापेक्षत्वरूपमप्रामाण्यं प्रसज्येतेत्यभिप्रायः । ॐ ईदृगि- त्यविनिर्देश्यायै नमः ॥ ईश्वरत्वविधायिनी । ईश्वरस्य भावः तस्यैक्यं विदधाति, आवरणविक्षेपशक्तिमदज्ञाननिवर्तकाखण्डाकारचैतन्यस्वरूपा सती भेदबुद्धिमात्र संपादितैश्वर्यैक्यायोगभ्रमं निवर्तयती- त्यर्थः ; 'स्वेन रूपेणाभिनिष्पद्यते ' इति श्रुतेः । अथवा, ईश्वरत्वं नाम नानादेश विद्याधनोत्कर्षादिमत्त्वं तत्तत्प्राणिनि- काय पुण्यप्रारब्धानुसारेण कर्मफलं प्रयच्छतीति वा । ॐ ईश्वरत्वविधायिन्यै नमः ॥ ' ईशानादिब्रह्ममयी । ईशानतत्पुरुषाघोरवामदेवसद्योजाता- ख्यानि पञ्च ब्रह्माणि तानि मयं स्वरूपमस्या अस्तीति सा तथा । अथवा, ईशानः आदिर्येषां ते तथा अधिकारिपुरुषाः विष्णुत्रह्मेन्द्रादय:, तेषामपि तत्तन्नामरूपविशिष्टानाम् अहंबु- द्धिमताम् अन्तर्यामिस्वरूपेण बुद्धिप्रेरकसच्चिदानन्दस्वरूप- परब्रह्मानन्दप्रकाशात्मना स्फुरतीति तथा । ॐ ईशानादि- ब्रह्ममय्यै नमः ॥ ईशित्वाद्यष्टसिद्धिदा । ईशित्वमादिर्यासां तास्तथा । 'अ- 8. U. VII. 13 ललितात्रिशतीभाष्यम् । णिमा महिमा लघ्वी गरिमा प्राप्तिरीशिता । प्राकाम्यं च वशित्वं च यत्र कामा: परागताः' इति वचनात् । ताः सिद्धीरष्टौ ददातीति तथा । अणिमा क्षणमात्रेण अतिसू- क्ष्मभावः । महिमा महतो भावः । लघ्वी लाघवं । गरिमा गुरोर्भाव:, जडतरपर्वतादिवत् भारवशेनाप्रकम्पित्वमित्य- र्थः । क्षणमात्रेण विराडाकृतिमत्त्वं प्राप्तिः । हस्तेन चन्द्र- मण्डलादिस्पर्श : ईशिता, इन्द्रादीनामपि प्रेरकता । प्रा- काम्यं अप्रतिहतकामनावत्त्वम्, वाञ्छितार्थफलप्राप्तिरित्यर्थः । वशित्वं सर्वलोकवशीकरणसामर्थ्यम् । यत्र कामाः परा- काम्यन्त इति कामाः विषयाः यत्र यस्मिन् ऐश्वर्ये सति परागताः बहिर्भूता भवन्ति ; विषयाणामनुभवाभावे - ऽपि तज्जन्यसुखवत्त्वं आप्तकामत्वमित्यर्थः । एता: अष्ट- सिद्धयः । ॐ ईशित्वाद्यष्टसिद्धिदायै नमः ॥ गताः, ईक्षित्रीक्षणसृष्टाण्डकोटिरीश्वरवल्लभा । ईडिता चेश्वरार्घाङ्गशरीरेशाधिदेवता ॥ ईक्षित्री । उदासीनद्रष्ट्री साक्षिणी असंगोदासीनज्ञानस्व- रूपेत्यर्थः, 'साक्षी चेता' इति श्रुतेः, 'आविः संनिहितं गुहायाम्' इति श्रुतेः । ॐ ईक्षित्र्यै नमः ॥ ललितात्रिशतीभाष्यम् । ईक्षणसृष्टाण्डकोटि: । अण्डानां ब्रह्माण्डानां कोटयः असंख्याताः, भूतभाविकालभेदेन बहुवचनं कोटिशब्दस्य, अनादित्वात् संसारमण्डलस्य, ईक्षणेन भाविकार्यालोचनेन सृष्टाः अण्डकोटयो यया सा तथा ; ' तदैक्षत बहु स्यां प्र- जायेयेति' ' स ईक्षांचक्रे ' 'आत्मा वा इदमेकमग्र आ- सीत् नान्यत्किंचन मिषत् स ईक्षत लोकान्नु सृजा इति स इमाल्लोकानसृजत' इत्यादिश्रुतेः, बाह्यकारणमनपेक्ष्य ऊर्ण- नाभ्यादिदृष्टान्तप्रदर्शनेन चेतनस्याभिन्ननिमित्तोपादानप्र- दर्शनयुक्तेः, 'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्' इत्यादे- श्वेति भावः । ॐ ईक्षणसृष्टाण्डकोटये नमः ॥ ईश्वरवल्लभा । ईश्वरः कामेश्वरः वल्लभः पतिः यस्याः सा तथा । ईश्वराणां ब्रह्मविष्णुरुद्रादीनां तत्तन्निष्ठमहिमो- त्कर्षरूपेण प्रीत्यतिशयविषयत्वेन अभ्यर्हितेत्यर्थो वा । ॐ ईश्वरवल्लभायै नमः ॥ ईडिता । ईड-स्तुताविति धातुपाठात् स्तुतिभिः विषयी - कृता, वेदान्तैरिति शेषः ; ' एष नित्यो महिमा ब्राह्मणस्य ' इत्यादिश्रुतेः । ॐ ईडितायै नमः ॥ स्य ईश्वरार्धाङ्गशरीरा । ईश्वरस्य सच्चिदानन्दात्मकस्य शिव- च तत् अङ्गं च अर्धाङ्गम् । आनन्दखरूपता शरीरं अर्ध ललितात्रिशतीभाष्यम् । शरीरवत्स्वरूप लक्षणं यस्याः सा तथा । ' सञ्चिन्मयः शिवः साक्षात्तस्यानन्दमयी शिवा' इति स्मृतेः । अथवा, ईश्वर- स्यार्धाङ्गं वामभागः शरीरं मूर्तिर्यस्याः सा । अथवा, ईश्वरस्य हकारस्य अर्धाङ्गं शक्तिबीजं शरीरं मन्त्रात्मिका मूर्तिर्यस्या: सा तथा । ॐ ईश्वरार्धाङ्गशरीरायै नमः ॥ ईशाधिदेवता । ईशस्येत्युपलक्षणं जीवस्यापि, ईशस्य तत्पदवाच्यार्थस्य मायोपाधिकस्य विशिष्टस्य अधि उपरि विशेषणद्वयस्य परित्यागे देवता द्योतमाना कूटस्थ चिन्मात्रशो- धिततत्त्वंपदार्थरूपेत्यर्थः । अथवा, ईशः कामेश्वर: अधि- देवता पूज्या यस्याः सा तथा । परमपतिव्रतेत्यर्थः ॥ ॐ ईशाधिदेवतायै नमः ॥ ईश्वरप्रेरणकरी चेशताण्डवसाक्षिणी । ईश्वरोत्सङ्गनिलया चेतिबाधाविनाशिनी ॥ ईश्वरप्रेरणकरी । ईश्वरस्य बिम्बचैतन्यस्य स्वरूपा सती जगत्सर्जनादिकार्यप्रेरयित्री प्रेरणकरी आज्ञापकेत्यर्थः । इच्छाज्ञानक्रियाशक्त्यावरणविक्षेपशक्तिप्रतिफलितचित्स्वरूपा भाविकार्यानुकूलप्रारब्धाध्यक्ष परमेश्वरेक्षणनामधेयप्रकाशात्मि का भवतीति भाव: । ईश्वरप्रेरणं तदाज्ञामनुल्लङ्घनेन क- ललितात्रिशतीभाष्यम् । रोतीति वा, तदीयभार्यात्वेन नितरां तद्वश्येति यावत् ॥ ॐ ईश्वरप्रेरणकर्यै नमः ॥ ; ईशताण्डवसाक्षिणी । ईशस्य तत्पदवाच्यार्थस्य ताण्डवं नर्तनवदप्रयत्नसंपाद्यं लीलामात्रमित्यर्थः, जगत्सर्जनादिरूपा क्रिया चलनरूपकर्मत्वसामान्यात्; तस्य साक्षिणी असं- सर्गप्रकाशरूपिणीत्यर्थः ' असंगो न हि सज्जते ' इति श्रुतेः । अथवा, ईशताण्डवस्य परमेश्वरनृत्यनाट्याभिव्यञ्जितचतुःष- ष्टिकलोपदेशस्य साक्षिणी । तदुक्तम्- ' नर्तनाद्धि परेशस्य । 'चतुःषष्टिकलाजनि:' इति प्रदोषस्तोत्रे ईशताण्डवनर्तनवर्णन- मतिस्फुटमिति नेह् लिख्यते ॥ ॐ ईशताण्डवसाक्षिण्यै नमः ॥ ईश्वरोत्संगनिलया । ईश्वरस्य स्वभर्तुः उत्संग: ऊरू तौ निलयः यस्याः सा तथा ॥ ॐ ईश्वरोत्संगनिलयायै नमः ॥ ईतिबाधाविनाशिनी । ईतिबाधा दैवाद्युपद्रवः; क्षुद्र- जन्तुपीडा वा ; तां विनाशयतीति तथा ॥ ॐ ईतिबाधा- विनाशिन्यै नमः ॥ ईहाविरहिता चेशशक्तिरीषत्स्मितानना । लकाररूपा ललिता लक्ष्मीवाणीनिषेविता । ललितात्रिशतीभाष्यम् । ईहाविरहिता । अप्राप्तप्राप्तिं प्रति इच्छा ईहा, तया विरहिता; आप्तकामत्वात् तद्विरहितेत्यर्थः ॥ ॐ ईहावि- रहितायै नमः ॥ 1. ईशशक्ति: । ईशस्य शक्तिः सर्वज्ञत्वादिस्वरूप सामर्थ्यं य- स्या: सा तथा, 'देवात्मशक्तिम्' इति श्रुतेः ॥ ॐ ईशशक्तये नमः ॥ ईषत्स्मितानना । ईषत् स्मितं मन्दहास: यस्य तत् तथा, `तादृगाननं यस्याः सा तथा; पर्याप्तकामत्वेन सर्वदा प्रसन्न- मुखीत्यर्थः । दुःखास्पर्शिपरमानन्दरूपतया वा तथा ॥ ॐ ईषत्स्मिताननायै नमः ॥ लकाररूपा । रूप्यत इति रूपं मन्त्रस्य चतुर्थवर्णत्वेन ज्ञापकं यस्याः सा तथा ॥ ॐ लकाररूपायै नमः ॥ ललिता 'ललितं त्रिषु सुन्दरम्' इति वचनात् अ- त्यन्तसौन्दर्यवतीत्यर्थः । अनुपमसौन्दर्या वा ॥ ॐ ललि- तायै नमः ॥ लक्ष्मीवाणीनिषेविता । लक्ष्मी रमा सर्वैश्वर्यशक्तिः ; वाणी सरस्वती सर्वज्ञानशक्तिः, ताभ्यां नितरां अकृत्रिमप्रेम्णा अनन्यभूता सती सेविता । सेवानाम उन्मीलिताज्ञाप्रतीक्षा, तद्वत्त्वादित्यर्थः ॥ ॐ लक्ष्मीवाणीनिषेवितायै नमः ॥ ललितात्रिशतीभाष्यम् । लाकिनी ललनारूपा लसद्दाडिमपाटला । ललन्तिकालसत्फाला ललाटनयनार्चिता ॥ लाकिनी । कं सुखम्, ' कं ब्रह्म इति श्रुते: ; तन्न भवतीत्यकं ब्रह्मभिन्नतया प्रतीयमानं दुःखात्मकं जगत् अकम्; लीयत इति लम्, उपलक्षणमुत्पत्त्यादेः ; लमक- मस्यास्तीति लाकिनी; अनृतजडदुःखरूपजगत्कारणतद्व्यावृ- त्तस्वरूपब्रह्मभूता इत्यर्थः ॥ ॐ लाकिन्यै नमः ॥ ललनारूपा । रूप्यते ज्ञाप्यते अनेनेति रूपं ज्ञापकं तया- प्यलिङ्गं चिह्नमिति वा, ललनानां स्त्रीणां रूपं वेष: आभर- णाद्यलंकारो वा आकृतिर्वा यस्या: सा तथा, ललना: स्त्रियः रूपाणि भूतयः यस्याः सा तथा ; 'लिङ्गाङ्कितमिदं पश्य जगदेतद्भगाङ्कितम्' इति पुराणवचनात् ॥ नांरूपायै नमः ॥ مد लल- लसद्दाडिमपाटला । दाडिमशब्देन विकसितं तत्पुष्पं लक्ष्यते ; लसत् सद्यो विकसनप्रकाशं च तद्दाडिमं च ; इदं उपलक्षणं बन्धूकादीनाम् ; तद्वत्पाटला श्वेतमिश्ररक्तवर्ण- प्रधानमूर्तिमतीत्यर्थः ; 'श्वेतरक्तं तु पाटलम्' इति वचनात् । ॐ लसद्दाडिमपाटलायै नमः ॥ ललितात्रिशतीभाष्यम् । ललन्तिकालसत्फाला । ललन्तिकया परित: मुक्ताफल- खचितनवरत्नमध्यया ललाटमध्यदेशभूषया, इदमुपलक्षणं ललाटपट्टादीनाम्, लसत् फालं यस्याः सा तथा ॥ ॐ ललन्तिकालसत्फालायै नमः ॥ ललाटनयनार्चिता । ललाटे नयनं येषां ते ; अत्र लला- टशब्देन भ्रूमध्यं लक्ष्यते ; नयनशब्देन ज्ञानमपि ; तथा चोर्ध्वदृष्टिभिः खेचरीमुद्रया विलीनचित्तैः असिवरुणयोर्म- ध्यदेशाभिधानाविमुक्तकृतपरमेश्वराराधनपरपुरुषप्राप्यत्वाभि- धायकात्रिप्रश्नोत्तरजाबालश्रुतिगतयाज्ञवल्क्योत्तरवाक्यनिर्दि- ष्टभूमिकाजयसिद्धिमत्पुरुषैः अर्चिता साक्षात्कृतेत्यर्थः । अथ- वा, तृतीयनेत्रवता शिवेन तत्स्वरूप रुद्रैर्वा पूजितेत्यर्थः । ललाटनयनार्चितायै नमः ॥ लक्षणोज्ज्वलदिव्याङ्गी लक्षकोट्यण्डनायिका । लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनुः ॥ लक्षणोज्ज्वलदित्र्यांङ्गी । दीप्यते प्रकाशत इति दिव्यं लक्षणैः स्वरूपतटस्थनामकैः उज्ज्वलं शोभितं शुद्धम् अङ्गं स्वरूपं विग्रहो वा । घृताकठिन्यन्यायेन ' तदात्मानं स्वय- मकुरुत ' इति श्रुतेः सच्चिदानन्दघनीभूतजीवात्मको विग्रहो ललितात्रिशतीभाष्यम् । यस्याः सा तथा । अथवा, सामुद्रिकशास्त्रोक्तदिव्यलक्षणे- रुज्ज्वलानि संपूर्णानि दिव्यानि यानि अङ्गान्यवयवाः शिरः- पाण्यादयः अस्याः सन्तीति वा तथा ॥ ॐ लक्षणोज्ज्वल- दिव्याङ्गयै नमः ॥ लक्ष कोट्यण्डनायिका । लक्षानि च कोट्यश्च असंख्या- तापरिमितानीत्यर्थः ; संसारस्यानादित्वेन भूतभविष्यदा- दिभेदेन बहुसंख्यावस्त्वमण्डानाम् ; तानि च तान्यण्डानि च हिरण्यगर्भविराडूपाणि समष्टिव्यष्ट्रयात्मना विश्वतैजसोपा- धिभूतानि ; तेषाम् अधिष्ठानविम्बचैतन्यात्मना नयति स्वस- त्तामापादयतीति नायिका ॥ ॐ लक्षकोट्यण्डनायिकायै नमः ॥ लक्ष्यार्था । लक्षणया शोधनया जहदजहल्लक्षणया वा प्रतिपाद्यते वेदान्तमहावाक्यानां योऽर्थः तत्स्वरूपा । अथ- वा, योगशास्त्रप्रसिद्धवहिरन्त रूर्ध्वाधः प्रदेशविशेषरूप भूमिका- सु स्वस्वमनोवाञ्छाविषयविशेषणत्वेन निर्गुणत्वेन वा मनो- विलयरूपहठराजयोगादिसाधनपरिपाकवशेन साक्षात्कृतं चै- तन्यं लक्ष्य इत्युच्यते ; अर्ध्यते याच्यते गुरुं प्रति इति अर्थ : ; लक्ष्यो योऽर्थः चित्स्वरूपपरमानन्दरूपः सोऽपि सैवेति तथा ; 'ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्त- ललितात्रिशतीभाष्यम् । रेण' इति श्रुतेः ॥ ॐ लक्ष्यार्थायै नमः ॥ लक्षणागम्या । लक्षणानाम शक्यार्थे वाचकस्य पदस्य अन्वयाद्यनुपपत्त्या तत्संबन्धिपदार्थान्तरज्ञानहेतु: शक्य- संबन्धादिपदजन्यपदार्थान्तरज्ञानहेतुः शब्दवृत्तिरित्युच्यते ; तस्या वाच्यवाचकतत्संबन्धादि भेदज्ञानपूर्विकायाः परिच्छि- नसावयवपदार्थसंबन्धज्ञानहेतोः केवलचिन्मात्रे निरुपाधि- के वस्तुनि षष्ठीजात्यादीनां लक्ष्यतावच्छेदकधर्माणामभावे प्रवृत्त्ययोगात् तया अगम्या ; गन्तुं ज्ञातुं योग्यं गम्यं तन्न भवतीत्यगम्या । वेदान्तमते जहदजहल्लक्षणया विशेषण- मात्रपरित्यागस्य अन्योन्यतादात्म्यानुपपत्त्या बोधितत्वात् तदर्थं सा अवश्यमङ्गीकर्तव्या । विशेष्यस्य ज्ञानस्वरूप- त्वेन नित्यतया लक्षणाजन्यत्वात् तदर्थं सा न अपेक्ष्यत इति भाव: I तथा च प्रकृताया देवतायाः शुद्धचैत- न्यमात्रस्वरूपतया स्वयं प्रकाशत्वेन लक्षणागोचरत्वात् लक्षणागम्येति नाम युक्तमिति भाव: ॥ लक्षणा- गम्यायै नमः ॥ लब्धकामा । लब्धाः काम्यन्त इति कामा: ऐहिकामु- ष्मिक सुख साधनानि, लक्षणया तत्तज्जन्यसुखानि वा तथाभूताः कामा: यया सा तथा; पर्याप्रकामेत्यर्थः ; ललितात्रिशतीभाष्यम् । 'पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामा: ' इति श्रुतेः ॥ ॐ लब्धकामायै नमः ॥ लतातनुः । लता इव लताः कल्पादिवल्लयः सकलपुरु- पार्थप्रदत्वेन जगति प्रसिद्धाः ; ता इव सुकुमारत्वाद्याश्रया तनुः मूर्ति: यस्याः सा तथा ॥ ॐ लतातनवे नमः ॥ ललामराजदलिका लम्बिमुक्तालताश्चिता । लम्बोदरप्रसूर्लभ्या लज्जाढ्या लयवर्जिता ॥ ललामराजदलिका । ललाम्ना कस्तूरीतिलकेन कस्तूरी- पत्रेण वा राजत् विभ्राजत् परमशोभि अलिकं ललाटं यस्याः सा तथा ॥ ॐ ललामराजदलिकायै नमः ॥ लम्बिमुक्तालताश्चिता । लम्बिन्य: लम्बमानाः अधः प्रसृताः मुक्तालता: हारा: मुक्ताफलानि वा यस्याः सा तथा । नवरत्नखचित सुवर्णमुक्तागुच्छैः सर्वाङ्गेषु प्रलम्ब- मानैः ललाटपर्यन्तं लम्बमानकिरीटप्रथम भागललाटपट्टना- 'साग्रताटङ्काधः कर्णदेशकण्ठ प्रदेशहस्त चतुष्टयाङ्गदसमानप्रदेश- कूर्पासपरित: पद का प्रदेशकटिनिबद्धकाञ्च्यादिषु परिलम्बमा- नैरित्यर्थः ॥ ॐ लम्बिमुक्तालताश्चितायै नमः ॥ ललितात्रिशतीभाष्यम् । लम्बोदरप्रसूः । लम्बोदरस्य महागणेशस्य प्रसूः जन- यित्नी मातेत्यर्थ: । लम्बोदरं प्रसूत इति वा ॥ ॐ लम्बो- दरप्रसवे नमः ॥ लभ्या। संसारदशायामावारकाज्ञानेन स्फुटमप्रकाशमा- ना सती श्रवणादिसंस्कृतान्त: करणवृत्तावखण्डाकारज्ञानभू- मिकायां प्रतिफलितस्वरूपेण विस्मृतकण्ठगतकनकभूषणवत् प्राप्तप्राप्तिरूपतया लब्धुं योग्येति तथा ॥ ॐ लभ्यायै नमः ॥ लज्जाढ्या । लज्जया, उपलक्षणमन्तःकरणधर्माणां सर्वे- षाम्, आढ्या तद्वत्त्वेन आकारवतीत्यर्थः । तिरोधानादिना अन्तर्हिता सती वरादि प्रयच्छतीति लज्जाढ्या भवतीति च उपचर्यते ॥ ॐ लज्जाढ्यायै नमः ॥ लयवर्जिता । ' अविनाशी वा अरेऽयमात्मा अनुच्छि- त्तिधर्मा' इत्यादिश्रुतेः, लयो विनाश: ; तेन रहिता वर्जितेत्यर्थः । इदमुपलक्षणं षड्भावविकाराणाम्, 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादिश्रुतेः । ॐ लयवर्जितायै नमः ॥ ह्रींकाररूपा ह्रींकार निलया ह्रींपदप्रिया । ह्रींकारबीजा ह्रींकारमन्त्रा हूँ कारलक्षणा । ललितात्रिशतीभाष्यम् । ह्रींकाररूपा । ह्रींकार : रूप्यते निरूप्यते निर्देश्यत इति रूपं मन्त्रपञ्चमावयवः यस्याः सा तथा । ॐ ह्रींकार- रूपायै नमः ॥ ह्रींकारनिलया । हीमक्षरं निलयः गृहवदवच्छेदकं यस्याः सा तथा । स्वीयवाचकत्वारोपितवाच्यतावच्छेदकधर्माव- च्छिन्नतादिसंपादनेन गृहवर्तिपुरुषवत् व्यावृत्तस्वरूपेण ज्ञा- पकं भवति । अन्यथा, नाम्नो वाच्यार्थे प्रवृत्त्ययोगादिति भावः । ॐ ह्रींकारनिलयायै नमः ॥ पद्यते ह्रींपदप्रिया । पद्यते गम्यते ज्ञायते अनेनेति पदम् ; गम्यते प्राप्यत इति वा पदम् ; ह्रींकारस्य मन्त्रावयवतया तद्देवताप्रकाशकत्वेन तस्यां शक्तत्वात् — 'शक्तं पदम् ' इति तल्लक्षणत्वात् तथा प्रथमं व्याख्यानम् । इकाररेफेकारानुस्वारा- णां वर्णानां समष्टिस्वरूपेण समुदायात्मकत्वात् ' वर्णसमुदाय: पदम्' इत्यपि पदलक्षणवत्त्वमस्य घटते । पुरश्चर्यावतां स्वदेव- तासाक्षात्कारद्वारा सकलपुरुषार्थप्रापकत्वात् द्वितीयव्याख्यानं तथा कृतम् । तस्मिन् प्रिया प्रीतिमतीत्यर्थः ॥ ॐ ह्रींपदमि- यायै नमः ॥ ह्रींकारबीजा । ह्रींकार एव बीजं स्ववाचकमन्त्रभागः, ' ज्ञापकं देवतानां यत् बीजमक्षरमुच्यते ' इति वचनात् ह्रीं- ललितात्रिशतीभाष्यम् । कारस्य मायाप्रकाशकत्वेन, वटधानादिः स्वनिष्ठवृक्षाभिव्य- ञ्जकत्वेन कारणतया यथा बीजमित्युच्यते - सत्कार्यवादिना- मव्यक्तनामरूपकारणं बीजम्, अभिव्यक्तनामरूपात्मकं पश्चा- द्भावि कार्यमित्यङ्गीकारः ; सकलकारणसमवधाने विशेषनाम- :; रूपवत्तया कारणस्याभिव्यक्तिरुत्पत्तिः ; तथा चोक्तवीजस्य मायावच्छिन्न चैतन्याभिव्यञ्जकत्वेनापि बीजत्वम्; तादृशं ह्रीँकारबीजं यस्याः सा तथा ॥ ॐ ह्रींकारबीजायै नमः ॥ ह्रींकारमन्त्रा । ह्रींकारस्य मननात् त्रायते रक्षति वाच्य- वाचकयोरभेदादिति तथा । ह्रींकारघटितो मन्त्रो वा यस्याः सा इति वा तथा ॥ ॐ ह्रींकारमन्त्रायै नमः ॥ ह्रींकारलक्षणा । हकारः शिवः, आकाशबीजत्वादाकाश- वन्निर्लेप: ; रेफः वह्निबीजं कार्योत्पादसंनिहितशक्तिमदी- श्वरवाचकम् ; तथा च हकारयुक्तरेफः शुद्धचैतन्यमेव कारणतावच्छिन्नम् - इति वदति । ईकारः मन्मथबीजं तत्कारणलक्षकतया स्थितिहेतु विष्णुरूपचैतन्यमभिदधाति । अनुस्वारस्तस्मिन्नेव पदार्थे अभिन्ननिमित्तोपादाने लयं वक्ति । तथा च हीमित्युक्ते जगदुत्पत्तिस्थितिलयकारणं चैतन्यं शक्त्या वाच्यार्थः प्रतीयते । तस्यैवोपाधिपरित्यागरूपलक्षणं यस्याः सा तथा । ह्रींकारः लक्षणं तटस्थलक्षणं यस्याः ललितात्रिशतीभाष्यम् । सेति वा तथा ॥ ॐ ह्रीँकारलक्षणायै नमः ॥ ह्रींकारजपसुप्रीता ह्रींमती हींविभूषणा । ह्रींशीला ह्रींपदाराध्या ह्रींगर्भा ह्रींपदाभिधा ॥ ह्रींकार जप सुप्रीता । ह्रींकारस्य जप: ह्रींकारजप:, तेन सुप्रीता ॥ ॐ ह्रींकारजपसुप्रीतायै नमः ॥ ह्रींमती । वाचकत्वेन लक्षकत्वेन वा लक्ष्यपदार्थरूपेण वा वाच्यवाचकयोरभेदेन वा अस्या अस्तीति ह्रींमती ॥ ॐ ह्रींमत्यै नमः ॥ ह्रींविभूषणा । केवलजडमायावाचकः ह्रींकार:, तथा हि- हकारः श्वेतवाचकः, रेफः रोहितार्थकः, ईकार: नीला- र्थक: ; तथा च विशिष्टस्य शुक्लरक्तनीलवत्पदार्थवाचक- तया सत्त्वरजस्तमोगुणवत्प्रकृतिवाचकत्वेन परिच्छिन्नानृत- जडदुःखस्वरूपवाच्यार्थकतया प्रकाशराहित्येन अनुपादेय- तायां सत्यां तदवच्छिन्नस्वप्रकाश चैतन्याकारतया विशिष्टा- र्थस्य आपादमस्तकभूषित तरुणीवदानन्दस्वरूपतया तद्वाच- कहींपदस्य अष्टैश्वर्यसिद्धिप्रदानशक्त्याधायकतया शोभायमा- नं भूषणवत् 'कुण्डली पुरुष:' इत्यत्र कुण्डलस्योपलक्षणतया इतरसजातीयादिव्यावर्तकत्वम्, तथास्यापि बीजस्येतरव्या- वृत्तवाच्यार्थगोचरप्रमाजनकत्वेन भूषणवत् यस्याः सा " ललितात्रिशतीभाष्यम् । तथा ॥ ॐ ह्रींविभूषणायै नमः ॥ हशीला । हीमित्यनेन तद्वाच्यार्थाः ब्रह्मविष्णुरुद्रा: लक्ष्यन्ते, तेषां शीलं स्वभाव: पारमार्थिकं रूपं सच्चिदान- न्दात्मकता यस्याः सा तथा ; तन्निष्ठधर्माः सत्त्वरजस्तमो- गुणादयो वा यस्याः सा तथा ; 'शीलं स्वभावे धर्मे च ' इति वचनात् ॥ ॐ ह्रीँशीलायै नमः ॥ ह्रींपदाराध्या । ह्रींपदेन एकाक्षरबीजमन्त्रेण आराधितुं योग्या तथा । 'ह्रींकारेणैव संसिद्धो भुक्तिं मुक्तिं च विन्द ति' इति भुवनेश्वरीकल्पवचनादिति यावत् ॥ ॐ ह्रींप- दाराध्यायै नमः ॥ ह्रींगर्भा । ह्रींशब्दार्थाः सगुणमूर्तयस्तिस्रः गर्भे स्वस्व- रूपे सशक्तिकाः अविनाभावसंबन्धेन यस्याः सा तथा, 'मम योनिर्महद्ब्रह्म तस्मिन् गर्भे दधाम्यहम्' इति वचनात् ॥ ॐ गर्भायै नमः ॥ ह्रींपदाभिधा । ह्रींकारः अभिधा नाम यस्याः सा तथा । समष्टिरूपाया: समष्टिशब्दवाच्यत्वनियमादित्यभिसंधिः ॥ ॐ ह्रींपदाभिधायै नमः ॥ ह्रींकारवाच्या ह्रींकारपूज्या ह्रींकारपीठिका । ह्रींकारवेद्या ह्रींकारचिन्त्या ह्रीं ह्रींशरीरिणी ॥ ललितात्रिशतीभाष्यम् । ह्रींकारवाच्या । मायोपाधिकब्रह्मणि कल्पितधर्मेण शब्दप्रवृत्युपपत्तेः हृींपदस्य वाच्या रूढयेत्यर्थः ॥ ॐ ह्रीं - कारवाच्यायै नमः ॥ ह्रींकारपूज्या । 'मूलमन्त्रेण पूजयेत्' इति पूजाङ्गत्वेन मू- लमनोर्विनियोग: श्रूयते । मूलमनुश्च देवतायाः स्वकं नामेति वचनात् । अन्तर्मुखानामेव मन्त्रशास्त्रेषु तन्नाम्ना व्युत्पन्नत्वा- त् । ह्रींकारं नमोऽन्तमुच्चार्य यथागुरुसंप्रदायं श्रीचक्रादौ मूलदेवता पूजनीयेत्यागमरहस्यात् ह्रींवीजेनैव पूजयितुं यो- ग्या । अतिप्रियबीजनामत्वादित्यभिप्राय: ॥ ॐ ह्रींकार- पूज्यायै नमः ॥ ह्रींकारपीठिका । अत्र पीठशब्दः आधारलक्षकः । वा- च्यार्थो हि वाचकशब्दस्य सत्ताप्रदत्वेन आधारो भवति । मन्त्रदेवतयोरभेदेऽपि अर्थनिष्ठमहिनः तद्वाचकपदेऽदृश्यमा- नत्वात् कल्पितभेदं संपाद्येदमुच्यते । हूकारस्य पीठिका वृत्तिस्थानं शक्त्या गोचरतया विषयीभूतेत्यर्थः ॥ ॐ ह्रींका- रपीठिकायै नमः ॥ ह्रींकारवेद्या। स्वरूपतः निर्गुणब्रह्मतया अज्ञानविषयत्वा- श्रयत्वाभ्यामप्राप्तपुरुषार्थरूपतया संसारदशायां प्रतीयमान- त्वात् गुरूपसदनश्रवणादिरूपविध्यप्रामाण्यनिरासाय लक्ष- S. U. VII. 14 ललितात्रिशती भाष्यम् । णया शुद्धस्वरूपपरमानन्दतया प्रेप्सितत्वात् श्रवणादिजन्य- वृत्तिव्याप्यत्वरूपवेदनाविषयत्वम् । 'ब्रह्मण्यज्ञाननाशाय वृत्ति- व्याप्तिरितीर्यते ' ' मामेव ये प्रपद्यन्ते मायामेताम्' इत्यादि- वचनात् भगवताप्यङ्गीकृतमिति । ह्रींकारेण गुरुमुखोद्भूतेन वेद्या वेदितुं योग्या । तत्स्वरूपपरिज्ञानद्वारा तत्प्राप्तिरूपपु- रुषार्थहेतुत्वादिति तात्पर्यम् ॥ ॐ ह्रींकारवेद्यायै नमः ॥ ह्रींकारचिन्त्या । अस्य बीजस्य पञ्चप्रणवान्तर्गतत्वेन ॐकारभेदे ब्रह्मप्रतीकत्वाविशेषात् । प्रणवे यथा परापरत्र- ह्मोपासनहेतुवदस्मिन वा प्रतीके तद्भवतीति विकल्पः । यदा भक्तिपार्थक्येन मन्त्रविशेषेषु भवतीति योगवेदमार्गरहस्यं न वादजल्पाद्यवकाशः । ह्रींकारे उभयविधब्रह्मस्वरूपतया चि- न्तितुं योग्या । ध्यानस्य साक्षात्कारं प्रत्यारादुपकारकत्वेन ध्यातव्येत्यर्थः । ॐ ह्रींकारचिन्त्यायै नमः ॥ ह्रीं । हृञ् हरणे इति धातुपाठात् समस्तविद्यैश्वर्यप्रदा- नादिशक्त्यारोपाधिष्ठानत्वे सत्यपवादावशेषितपरमानन्दरूप - मुक्तिरित्यर्थः ॥ ॐ ह्रीं नमः ॥ ह्रींशरीरिणी । मूलमन्त्रात्मिकेति यावत् हीमेव शरीरं मूर्तिरस्या अस्तीति ह्रींशरीरिणी ॥ ॐ ह्रींशरीरिण्यै नमः ॥ ललितात्रिशतीभाष्यम् । हकाररूपा हलधृक्पूजिता हरिणेक्षणा । हरप्रिया हराराध्या हरिब्रह्मेन्द्रवन्दिता ॥ हकाररूपा । हकारः रूपं षष्ठावयवः यस्याः सा ; मूलविद्या वाच्यार्थवाचकं यस्याः सा ; तथा ॥ ॐ हकार- रूपायै नमः ॥ हलधृक्पूजिता । हलं युगं धरति इति हलधृक् बल- रामः तेन पूजिता ध्यानादिभिराराधितेत्यर्थः ॥ ॐ इ- लधृक्पूजितायै नमः ॥ हरिणेक्षणा । हरिण्याः एण्या: ईक्षणमिव ईक्षणं यस्याः सा तथा ; अतिसंतोषेण कातराक्षीति भावः । सर्वत्र स- र्वदा सर्वद्रष्ट्रीति वा । भक्तेष्वादरहेतुदर्शनवतीति भावः ॥ ॐ हरिणेक्षणायै नमः ॥ हरप्रिया । हरस्य प्रिया शिववल्लभेत्यर्थः । हरः प्रियो यस्याः सा इति वा ॥ ॐ हरप्रियायै नमः ॥ हराराध्या । हरेण स्वभर्त्रा आराधितुं योग्या, केवलस- श्चिदानन्दस्वरूपत्वात् ॥ ॐ हराराध्यायै नमः ॥ हरिब्रह्मेन्द्रवन्दिता । हरि: रमेशः । ब्रह्मा वाणीशः । ललितात्रिशतीभाष्यम् । इन्द्रो देवेशः उपलक्षणं सर्वदेवभेदानाम् । तैर्वन्दिता नम- स्कृता ॥ ॐ हरिब्रह्मेन्द्रवन्दितायै नमः ॥ हयारूढासेविताङ्घ्रिर्हयमेधसमर्चिता । हर्यक्षवाहना हंसवाहना हतदानवा ॥ यारूढासेविताङ्घ्रिः । हयारूढानाम अश्वमात्रसेनानी. शक्तिः वश्यकरी । तया सेवितौ अङ्की यस्या: सा तथा ॥ ॐ हयारूढासेवितायै नमः ॥ हयमेधसमर्चिता । हयमेधेन अश्वमेधेन समचिता पू- जिता । पुरुषत्वादिप्राप्त्यै इलादिभिरित्यर्थः । ॐ हयमेध- समर्चितायै नमः ॥ हर्यक्षवाहना । वाहयतीति वाहनम्, हर्यक्षः केसरी वाहनं यस्याः सा तथा । महालक्ष्मीरूपदुर्गेत्यर्थः ॥ ॐ हर्यक्षवा- हनायै नमः ॥ । हंसवाहना । हन्ति गच्छतीति हंसः सूर्यः प्राणो वा, वाहनवत् आधारभूतप्रतीकमित्यर्थः ; अभिव्यक्तिस्थानमिति यावत्, 'म यश्चायं पुरुषे । यश्चासावादित्ये । स एक:' इति श्रुतेः । अथवा, हंसवाहना ब्राह्मीरूपेणेत्यर्थः ॥ ॐ हंस- वाहनायै नमः ॥ ललितात्रिशतीभाष्यम् । हतदानवा । हताः दानवाः अनेकप्रकारशक्तिरूपधरया भण्डासुरादयः यया सा तथा ॥ ॐ हतदानवायै नमः ॥ हत्यादिपापशमनी हरिदश्वादिसेविता । हस्तिकुम्भोत्तुङ्गकुचा हस्तिकृत्तिप्रियाङ्गना ॥ इत्यादिपापशमनी । हत्या ब्रह्महत्या आदिर्येषां तानि तथा पापानि शमयतीति तथा, 'हरिहरति पापानि ' इति वचनात् ॥ ॐ हत्यादिपापशमन्यै नमः ॥ हरिदश्वादिसेविता । हरित् हरिद्वर्णः मरकत इव अश्वो यस्येन्द्रस्य स तथा आदिर्येषां दिक्पतीनां तैः सेविता चर- णारविन्दसंनिधिं किंकरतयाश्रितेत्यर्थः ॥ ॐ हरिदश्वा- दिसेवितायै नमः ॥ इस्तिकुम्भोत्तुङ्गकुचा । हस्तः अस्यास्तीति हस्ती, तम्य कुम्भौ तद्वदुन्नतौ कुचौ सान्द्रौ यस्याः सा तथा ॥ ॐ हृ- स्तिकुम्भोचुङ्गकुचायै नमः ॥ हस्तिकृत्तिप्रियाङ्गना । हस्तिनः कृत्तौ चर्मणि प्रियः प्रीतिमान् शिवः, तस्याङ्गना भामिनीत्यर्थः ॥ ॐ हस्तिक- त्तिप्रियाङ्गनायै नमः ॥ ललितात्रिशतीभाष्यम् । हरिद्राकुङ्कुमादिग्धा हर्यश्वाद्यमरार्चिता । हरिकेश सखी हादिविद्या हालामदोल्लसा ॥ हरिद्राकुङ्कुमादिग्धा । हरिद्राकुङ्कुमाभ्यां उपलक्षणं कस्तू- रीपत्रादीनाम् । दिग्धा लिप्तेत्यर्थः ॥ ॐ हरिद्राकुङ्कुमादि- धायै नमः ॥ हर्यश्वाद्यमराचिता । हर्यश्वः सुरेशः आदिर्येषाम् अम- राणां तैरता किंकरतया नियामकत्वेन पूजितेत्यर्थः ॥ ॐ हर्यश्वाद्यमरार्चितायै नमः ॥ हरिकेश सखी । हरयः हरिद्वर्णाः केशाः शिरोरुहाः यस्थ, 'हिरण्यश्मश्रुर्हिरण्यकेश:' इति श्रुतेः । तस्य सखी प्रयोज- नमनपेक्ष्योपकारिणीत्यर्थः । यद्वा वर्णेन नीलेन हरिणा विष्णु- ना समाः केशाः अस्य सन्तीति सर्वाङ्गसुन्दरनित्ययौवनचि- द्रूपसहितकामेश्वरः, तस्य सखी ॥ ॐ हरिकेशसख्यै नमः ॥ हादिविया । लोपामुद्रोपासितमनुरूपेत्यर्थः ॥ ॐ हादि- विद्यायै नमः ॥ हाला मदालसा । हालायाः अमृतमथनोद्भूतवारुण्याः मदेन उल्लासेन अलसा आरक्तनेत्रान्तरोमाश्वादिचिह्नवती- त्यर्थः ॥ ॐ हालामदालसायै नमः ॥ ललितात्रिशतीभाष्यम् । सकाररूपा सर्वज्ञा सर्वेशी सर्वमङ्गला । सर्वकर्त्री सर्वभत्र सर्वहन्त्री सनातना ॥ सकाररूपा । द्वितीयखण्डद्वितीयावयवत्वेन ज्ञापकं य- स्याः सा तथा ॥ ॐ सकाररूपायै नमः ॥ सर्वज्ञा । अलुप्तनित्यज्ञानस्वरूपेण सामान्यरूपेण सर्व जानातीति सर्वज्ञा, 'यः सर्वज्ञः सर्ववित्' इति श्रुतेः ॥ ॐ सर्वज्ञायै नमः ॥ सर्वेशी । सर्वस्य कार्यस्य अन्तर्यामिरूपेण ईष्टे प्रेरयती- ति तथा ॥ ॐ सर्वेश्यै नमः ॥ सर्वमङ्गला । सर्वप्रकारेण शुद्धविशिष्टचैतन्यरूपेण मन्त्र- ला परमानन्दस्वरूपा । अत्र बहुव्रीहेरविवक्षितत्वात् विव- क्षितायां वा सुन्दरकायो राजेत्यादिवत् समासार्थः । अथवा, सर्वेषां मङ्गलं यस्याः सा तथा । सर्वैः प्रकारैः ध्यानकीर्त- नपूजानमस्काराद्यर्चनभक्तिजन्य कैङ्कर्यैः जडानामपि मङ्गलं सुखं यस्याः जायते सा तथा । सर्वेषामात्मरूपतया प्रतीय- मानं मङ्गलं सुखस्वरूपं यस्याः सेति वा । सर्वशब्दवाच्यः सर्वकारणं शिवः, तस्य मङ्गलं सुखं यस्याः जायते मा तथा, ' सञ्चिन्मयः शिवः साक्षात्तस्यानन्दमयी शिवा' इति व- ललितात्रिशतीमाप्यम् । चनात् । अथवा, मङ्गलशब्देन मङ्गलहेतुभूताः खियो लक्ष्यन्ते । सर्वेषां प्राणिनां मङ्गलं मङ्गलसाधनभूता: योषाः स्वाभिन्नसच्चिदानन्दवत्वेन यस्याः सा तथा ; ' एतस्यैवान- न्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतेरित्यर्थः । ' अशुभानि निराचट्टे तनोति शुभसंततिम् । स्मृतिमात्रेण यत्पुंसां ब्रह्म तन्मङ्गलं विदुः । अतिकल्याणरूपत्वान् नित्य- कल्याणसंश्रयात् । स्मर्तॄणां वरदत्वाच्च ब्रह्म तन्मङ्गलं विदुः ' इत्यादिवचनान् ॥ ॐ सर्वमङ्गलायै नमः ॥ सर्वत्र । सर्व समस्तं स्वशक्त्या मायारूपया करो- i : तीन्ति तथा, 'ईशत ईशनीभिः इति श्रुतेः ॥ ॐ सर्व क नमः ॥ • सर्वत्र 1 सर्व विभर्तीति तथा, एष विवृतिरेषां लोकानाम् इति श्रुतेः ॥ ॐ सर्वभयै नमः ॥ सहन्त्री । म हरतीति तथा । एभिर्नामत्रयैः 'यतो इत्यादि श्रुत्युक्ततटस्थळक्षणत्रयमभिहितमिति बेदित- त्र्यम् । ॐ सर्वहन्त्र्यै नमः ॥ सनातना । अजो नित्यः शाश्वतोऽयं पुराण:' इति श्रुतेः नित्यसिद्धस्वत्वपेत्यर्थः ॥ ॐ सनातनायै नमः ॥ ललितात्रिशतीभाष्यम् । सर्वानवद्या सर्वाङ्गसुन्दरी सर्वसाक्षिणी सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी ॥ सर्वानवद्या । सर्वैर्ज्ञानैश्वर्यादिगुणैरनवद्या । अवद्यानाम विद्यया हीना जडप्रकृतिः मिथ्या बाध्यमानत्वात् । तद्विलक्षणा सत्यज्ञानानन्दरूपत्वादनवद्या । सर्वेषां सर्वाभीष्टप्रापकत्वेन स्तुत्या वा ॥ ॐ सर्वानवद्यायै नमः ॥ सर्वाङ्गसुन्दरी । सर्वाणि च तानि अङ्गानि च अवयवाः शिरः पाण्यादय: ; तेष्वन्यूनातिरिक्तभाववत्वात् यथासामुद्रि- कलक्षणं तद्वत्वेन सर्वाङ्गसुन्दरी । अथवा, सर्वेषामङ्गेषु शरीरेषु ब्रह्मस्वरूपतया अत्यन्तप्रेमविषयत्वेन सुन्दरपदार्थ - वदविनाभाववाञ्छाविषयत्वात् तथा ॥ ॐ सर्वाङ्गसुन्दर्यै नमः ॥ सर्वसाक्षिणी । सर्वेषां जडानां कार्याणां स्फूर्त्याधायक- त्वेन प्रकाशकर्त्री तथा । सर्व साक्षादीक्षत इति वा तथा ॥ ॐ सर्वसाक्षिण्यै नमः ॥ सर्वात्मिका । सर्वेषामात्मस्वरूपत्वात् । ' यच्चाप्नोति यदा- दत्ते यचान्ति विषयानिह । यच्चास्य संततो भावस्तस्मादात्मेति गीयते' इति वचनात्तथा ॥ ॐ सर्वात्मिकायै नमः ॥ 1 ललितात्रिशतीभाष्यम् । सर्वसौख्यदात्री । सुखिन: भावः सौख्यम्, सर्वाणि च तानि प्रियमोदप्रमोदानन्दशब्दवाच्यानि । इष्टदर्शनजन्यं सुखं प्रियं । तल्लाभजन्यं मोदः । तदनुभवजन्यं प्रमोदः । आनन्दः समष्टि: । जीव: भोक्ता । तानि ददातीति तथा । सर्वप्रकारैः स्मरणादिभिः सौख्यं ददातीति वा । सर्वेषा- मात्रह्मस्तम्बपर्यन्तानां यथाकर्मोपासनं प्रत्यक्षेण दृश्यमानं ज्ञानैश्वर्यादिसहितं सुखं ददातीति वा तथा। 'एष ह्येवानन्द- याति' इति श्रुतेः ॥ ॐ सर्वसौख्यदात्र्यै नमः ॥ सर्वविमोहिनी । सर्वान विमोहयतीति अन्यथा प्राय- तीति वा तथा । ' अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्त- व:' ' अनृतेन हि प्रत्यूढा:' इति श्रुतिस्मृतिभ्यां अज्ञाना- वरणशक्तिकार्य मोहनादिसत्ताप्रकाशादिप्रधानाधिष्ठानत्वेन उपचारात् सर्वे मोहयतीत्युच्यते । अयो दहतीतिवत् ॥ ॐ सर्वविमोहिन्यै नमः ॥ सर्वाधारा सर्वगता सर्वावगुणवर्जिता ! सर्वारुणा सर्वमाता सर्वभूषणभूषिता ॥ सर्वाधारा । सर्वस्याधारा ' ब्रह्म पुच्छं प्रतिष्ठा' इति श्रुतेः । सर्वेषां हृदयानि आधारः अभिव्यक्तिस्थानं उपासनाय ललितात्रिशतीभाष्यम् । यस्याः सेति तथा ॥ ॐ सर्वाधारायै नमः ॥ सर्वगता । सर्वे गच्छतीति तथा । 'अनेन जीवेनात्म- नानुप्रविश्य ' इति श्रुतेः ॥ ॐ सर्वगतायै नमः ॥ सर्वावगुणवर्जिता । अवमानहेतवश्च ते गुणाश्च तथा ; आध्यात्मिकसंबन्धेन आरोपिताः सत्त्वादय: समष्टौ, अन्त:- करणधर्माः कामादयः व्यष्टौ ; सर्वे च ते अवगुणाश्च तथा । सर्वान्तर्यामित्वेन सर्वानुस्यूतत्वेऽपि तत्तदुपाधिनिष्ठोत्तमाधम- धर्मैः न संबध्यते— घटादिनिष्ठाकाशवत् कोशान्तर्गतखड्गव- द्वा ; 'सूर्यो यथा सर्वलोकस्य चक्षुः न लिप्यते चाक्षुषैर्बाह्य- दोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः' इति श्रुतेः ॥ ॐ सर्वावगुणवर्जितायै नमः ॥ 'असौ यस्ता- सर्वारुणा । सर्वेष्वङ्गेष्वरुणा आरक्तवती, म्रो अरुण:' इति श्रुतेः ॥ ॐ सर्वारुणायै नमः ॥ सर्वमाता । सर्वेण कार्येण मीयते अनुमीयते ऽभेदेनेति तथा । तथा हि — इदं जगत् ब्रह्माभिन्नं तत्सत्तास्फूर्तिनिय- तसत्ताप्रकाशज्ञानविषयत्वात् ; यत् यन्नियतसत्ताप्रकाशवान् यथा तन्तुकार्य: पट इति । सर्वान् मिनोति स्वाभेदेन जानातीति तथा ॥ ॐ सर्वमात्रे नमः ॥ स तदभिन्न:- - ' ललितात्रिशतीभाष्यम् । सर्वभूषणभूषिता । सर्वात्मकत्वेन ये ये प्राणिन: यानि यानि भूषणालंकारभोजनादीनि भोग्यवस्तून्यात्मार्थं संपा- दयन्ति तेषां सर्वेषां प्रत्यक्तया तैः सर्वैर्भूषिता उपकृतेत्यर्थः ; आत्मनस्तु कामाय सर्वे प्रियं भवति' इति श्रुतेः । अथवा, सर्वदेवात्मकत्वेन सर्वभक्तजनस्य स्वस्वेष्टदेवताप्रीत्यर्थ भूष- णभूषितत्वेन तथा । अथवा, सर्वैर्भक्तजनैः तत्तदवयवेषु भूषणैरारोपिता ; स्वस्याः महाराज्ञीत्वेन असंगोदासीनस्व- भावत्वादिति भावः । यद्वा, सर्वदेशकाललोकेषु भूषणैः तव तत्र भवैः उच्चावचैर्भूषणैरारोपिता ; हस्त्यश्वादिदेहोपा- धिका सती तत्तदीयालंकारादिषु जुगुप्सारहितेत्यर्थः । भूष- यन्ति सर्वोत्तमत्वेन प्रतिपादयन्तीति भूषणानि वेदान्तम- हावाक्यानि ; सर्वैः समस्तैः गतिसामान्यात् एकतात्पर्येण भूषिता लक्षणया पर्यवसिता समन्विता वेत्यर्थः ॥ सर्वभूषणभूषितायै नमः । ॐ ककारार्था कालही कामेशी कामितार्थदा । कामसंजीवनी कल्या कठिनस्तनमण्डला ॥ : ककारार्था । 'कं ब्रह्म' इति श्रुत्या ककारस्य ब्रह्मार्थक- त्वेन तद्व्यतिरिक्तस्यातदर्थस्य बाधितत्वात् ॥ ॐ ककारा- थायै नमः ॥ ललितात्रिशतीभाष्यम् । " कालहन्त्री । अजपारूपेण प्राणापाननामकचन्द्रसूर्यनि- यमने पुरुषाणां नियमित परिमितायुः स्वरूपैकविंशतिषट्श- ताधिकसहस्रसंख्याकनिर्गमनरूपेण क्षपयन्ति अवशेषायुषो युगकल्पाद्यविशिष्टस्य वृद्धौ पुनः संयमने तथा तथा वृद्धौ संयुञ्जानस्य सर्वप्राणेन्द्रियस्य वृत्तिलये मनोन्मन्यवस्था नि- ष्पद्यते । तथा च श्रुतिः - ' पृथिव्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते । न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम' इति ' अध्यात्मयोगा- धिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति' इति च । तथा च तदानीमाविर्भूतब्रह्मस्वरूपेण 'ततः संवत्सरो- ऽजायत' इति श्रुत्या क्रियाशक्त्यात्मककालोत्पत्तिश्रवणात् तस्मिन् ब्रह्मण्येव लये कालं हन्ति नाशयतीति तथा नामनिर्वचनं युक्तं वक्तुमिति भावः ॥ ॐ कालहन्त्र्यै नमः ॥ ' कामेशी । कामानां भोग्यपदार्थानां यथादृष्टं ईष्टे प्रेरयतीति तथा ॥ ॐ कामेश्यै नमः ॥ कामितार्थदा । कामितानर्थान् ददातीति तथा, ' आप्त- काम:' इति श्रुतेः । संसारदशायामावृतानन्दस्य अनाप्तवद- वभासमानस्य आत्यन्तिकसुखात्मिका मुक्तिर्मे स्यादिति का - ललितात्रिशतीभाष्यम् । म्यमानत्वादात्मन: कामितत्वम् । कामितश्चासावर्थश्चेति तस्यैव ज्ञानस्यावरणाभिभावकत्वेन प्राप्तप्राप्तिरूपतया तं ददाति प्रय- च्छतीति प्रकाशस्वरूपेण अनुभावयतीत्यर्थः ॥ ॐ कामि- तार्थदायै नमः ॥ कामसंजीवनी । कामं मन्मथं परमेश्वरनेत्राग्निविप्लुष्टं भण्डासुरात्मना अनेककालदेवलोकविपक्षं कामशास्त्रप्रयोग- समये रतिदेवीप्रार्थन समीचीनतदीयपूर्वकायं तपश्चर्यादिप- रिपाकफलभूतं करुणारसपूरितापाङ्गावलोकनेन संजीवयति सप्राणं कृत्वा तस्मै वरादि प्रयच्छति तेन तं हर्षयतीति तथा ॥ ॐ कामसंजीवन्यै नमः ॥ कल्या । कलयितुं ध्यातुं योग्या । अथवा, सर्वोत्तमदेव- त्वेन ध्यातुं योग्या कल्या । कले: कामधेनुत्वेन यथा वा- ञ्छितार्थकारणम् ॥ ॐ कल्यायै नमः ॥ कठिनस्तनमण्डला । स्तनयोः मण्डले आदिमभागौ सा- न्तः प्रदेशौ कठिने अप्रकम्पे अतिस्थिरे वा यस्याः तथा ॥ ॐ कठिनस्तनमण्डलायै नमः ॥ करभोरुः कलानाथमुखी कचजिताम्बुदा । कटाक्षस्यन्दिकरुणा कपालिप्राणनायिका ॥ ललितात्रिशतीभाष्यम् । ' मणि- करभोरुः । करभ इव ऊरू यस्याः सा तथा । बन्धादाकनिष्ठं करस्य करभो बहि:' इति प्रमाणादिति भा- वः ॥ ॐ करभोरवे नमः ॥ कलानाथमुखी । कलाः चतुःषष्टिकलाः नाथयति प्रेर- यतीति कलानाथः, 'निश्वसितमेतदृग्वेदो यजुर्वेद: साम- वेद:' इत्यादिश्रुतेः, 'शास्त्रयोनित्वात्' इति न्यायाच्च । तादृशमुखं वदनं यस्याः सेति तथा । कलानाथश्चन्द्र इव मुखं यस्याः सेति वा ॥ ॐ कलानाथमुख्यै नमः ॥ कचजिताम्बुदा । कचेन केशभारेण कबरेण वेत्यर्थः । जिताः अधरीकृता: अम्बुदा मेघा यया सा तथा ; मेघम- ण्डलापेक्षया ऊर्ध्वगामिशिरोरुहभारा व्योमकेशीति भावः । अथवा, केशवृत्ति नीलरूपेण सादृश्यासहत्वेन धिक्कृताः मेघाः यया सा तथा ॥ ॐ कचजिताम्बुदायै नमः ॥ कटाक्षस्यन्दिकरुणा । यद्यपि दीनेषु परिपाल्यता बुद्धि- देवानां महतां करुणेत्युच्यते, तथापि तस्याः आन्तरत्वेन अज्ञायमानतया तेषु भक्त्यतिशयेन प्रवृत्त्यर्थ सेवादौ तद्वत्ता- ज्ञानस्यावश्यकफलप्रदानादिहेतुतया निश्चयेन तदनुरूपकसा- त्त्विकवीक्षणस्मेर संभाषणादिसत्त्वं तत्रावश्यं भवतीति का - र्यसत्त्वप्रसञ्जितकारणसत्त्ववत्त्वात्, करुणायाः नवरसेष्व- ललितात्रिशतीभाष्यम् । -न्तर्भावात्, रसशब्दस्य मधुरादौ रूढत्वात् तेषामनिर्वचनी- यत्वेऽपि अनुभवगोचरतायामिक्ष्वादिसारद्रव्य पदार्थनिष्ठत्वो- पलब्धेः तत्संबन्धवशात् परंपरया द्रवद्रव्यवृत्तिस्यन्दनरूप- क्रियाश्रयत्वमुपचर्यते । तथा च कटाक्षस्यन्दिनी करुणा परिपाल्यताबुद्धिरूपा यस्याः सा तथा ॥ ॐ कटाक्षस्य- न्दिकरुणायै नमः ॥ कपालिप्राणनायिका । कपालमस्य अस्तीति कपाली आन- न्दभैरवः, तम्य प्राणनायिका प्राणस्येत्युपलक्षणं पञ्चानाम । नायिका अधिष्ठानत्वेन प्रेरका । न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ' इति श्रुतेः । तस्यापि हृदयान्तर्वर्तिपरमेश्वररूपेति यावत् । प्राणवल्लभेति वा ; प्रियेति भाव: । ॐ कपालिप्राणना- यिकायै नमः ॥ कारुण्यविग्रहा कान्ता कान्तिधूतजपावलिः । कलालापा कम्बुकण्ठी करनिर्जितपल्लवा ॥ कारुण्यविग्रहा । कारुण्यं पूर्वोक्तकृपा, करुणस्य भावः, तत् विग्रहः मूर्तिर्यस्याः सेति तथा । कारुण्यस्या- न्तःकरणपरिणामबुद्धिरूपत्वेन नेत्रान्तवीक्षासस्मितभाषादि- नानुमीयमानत्वेऽपि साक्षात्तज्जन्यमनोवाञ्छितवरप्रदाना- ललितात्रिशतीभाष्यम् । दीनां शरीरावयवविशेषजन्यतया कारुण्यं विग्रहो यस्या: सेति समासोपपत्तिः । मायोपाधिकस्य ब्रह्मण: जगत्सृष्टथ- नुकरणहेतुभूतस्वेच्छामात्रनिमित्तककर्मानधीनसच्चिदानन्दघ - नीभूतात्मकभक्तानुग्राहकविग्रहवत्तां विना देवताया: बुद्धा- वनारोपेण सगुणोपासनमनुपपद्यमानं स्यात् ; तदर्थं देवताधिकरणे मन्त्रप्रकाशिता देवा: 'वज्रहस्त: पुर- न्दर: ' इत्यादिस्वत:प्रमाणवेदवाक्यवशात् बाधकाभावे विग्रहवन्तः अङ्गीकर्तव्या इति प्रतिष्ठापितम् । तथा 'बहु शोभमानामुमां हैमवतीम्' इति केनोपनिषद्भाष्ये हैमानि हेमविकाराणि भूषणानि यखा: सेति वा तथा, हिमवतः अपत्यं स्त्रीति च तथेति परदेवतायाः दिव्यविग्रहवत्त्वं प्रति- ष्ठापितम् । तथा च महानुभावानां स्वप्रकाशचैतन्यरूपाणा- मेवंभूतानां सर्वात्मना सर्वोत्तमानां मूर्तित्रयदेवानां ध्याना- द्युपकाराय तादृशमूर्तिमत्त्वम् अस्तीति न किंचिदनीश्व- रवादप्रसङ्गावकाश इति आस्तां विस्तरः ॥ कारु- ण्यविग्रहायै नमः ॥ ॐ कान्ता । ' कन दीप्तौ' इति धातोः अत्यन्तमनोहरत मे- त्यर्थः । मदनगोपालविग्रहा वा । ' कदाचिदाद्या ललिता पुं- रूपा कृष्णविप्रहा । वंशनादविनोदेन करोति विवशं जगत् ' S. U. VII. 15 ललितात्रिशतीभाष्यम् । इति त्रिपुरतापनीये ॥ ॐ कान्तायै नमः ॥ , । कान्तिधूतजपावलिः । जपानां जपापुष्पाणाम्, उपलक्षणम् अन्येषामारक्तवर्णानाम् भावलिः पङ्किः दृष्टान्तत्वेन कविभि रुत्प्रेक्षिता । कान्त्या अप्राकृतस्वच्छपरमानन्दचिद्भासा धूता: परित्यक्ताः प्राकृतत्वेन अल्पकान्तिमत्तया उपमायोग्यतया यया सा ; 'न हि महान्तो नीचैरुपमीयन्ते ' इति न्याया- दिति भाव: ॥ ॐ कान्तिधूतजपावल्यै नमः ॥ कलालापा । कला: चतुःषष्टिकलाः आलापो व्यावहा- रिकशब्दः यस्याः सा तथा, ' वेदशास्त्रमयी वाणी यस्या: सा परदेवता' इति वचनात् । कलः अव्यक्तमधुरः सप्रयो- जन: आलाप: संलापो यस्था: सेति वा तथा ; भारती तथा' इति महापुरुषसामुद्रिकवचनात् ॥ ॐ कलालापायै नमः ॥ ' अव्यक्ता कम्बुकण्ठी । कम्बुशब्देन अत्र शङ्खनिष्ठरेखात्रयं लक्ष्य- ते । तद्वान्कण्ठो यस्याः सेति तथा गुणनामेदम् ॥ ॐ कम्बुकण्ठ्यै नमः ॥ करनिर्जितपल्लवा । करशब्देन करतलं लक्ष्यते । पल- वशब्देन तन्निष्ठपाटल्यं स्निग्धता लक्षणया इत्यर्थः । तथा ललितात्रिशतीभाष्यम् । च अन्योन्यगुणयोर्जयपराजये, अर्थात्तद्वतोरपि तौ सिद्धावि- ति तन्नामोपपत्ति: । ' विवाहश्च विवादश्च समयोरेव शोभते' इति वचनात् करतले तत्साम्यध्वनिरनेन नाम्ना कृतः । करेण निर्जिताः पल्लवाः यस्याः सा तथा ॥ ॐ करनिर्जित- पल्लवायै नमः ॥ कल्पवल्लीसमभुजा कस्तूरीतिलकाश्चिता । हकारार्था हंसगतिहटकाभरणोज्ज्वला ॥ कल्पवल्लीसमभुजा । यथा दिव्यवृक्षाः नन्दनोद्याने प्र- सिद्धाः तथा तदलंकाराय वल्ल्यादयोऽपि, कल्पयन्ति संपा- दयन्तीति कल्पा : ; कल्पाश्च ता वल्ल्यश्च व्रतत्यः, ताभि: समा: भुजा: हस्ता: यस्याः सा तथा । कविसंप्रदायप्राध्या स्त्रीभुजानां वल्लीसाम्योक्तिरिति मन्तव्यम् । अत्र समपद- स्वारस्येन तेषामपि तदवच्छिन्न चैतन्यद्वारा यथाप्रारब्धं चे- तनवल्लोकवाञ्छितफलकर्तृत्वमिति ध्वनितम् । 'एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च' इति श्रुतेः, ' तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम्' इति स्मृतौ च भगवता स्वकीय सच्चिदानन्दस्वरूपावस्थितिरेवोक्ता । अत एव परदेवीभुजानां नैव साम्योक्तिरिति शङ्का निरस्ता वेदि २२८ ललितात्रिशतीभाष्यम् । तव्या, औपाधिकचैतन्येन तथाभूतचैतन्यस्य साम्योपपत्तेः ॥ ॐ कल्पवल्लीसमभुजायै नमः ॥ कस्तूरीतिलकाचिता । कस्तूरीतिलकेन ललाटदेश संस्था- पितबिन्द्वाकारमृगनाभिना अश्चिता चिह्निता अलंकृतेत्यर्थः ॥ ॐ कस्तूरीतिलकाञ्चितायै नमः ॥ हकारार्था । हकारस्य आकाशबीजस्य अर्था, अर्थः स्व- रूपचैतन्यम् आकाशविग्रहेत्यर्थः, 'आकाशो ह वै नाम ना- मरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म' इति श्रुतेः ॥ ॐ ढकारार्थायै नमः ॥ हंसगति: । हन्ति गच्छतीति हंसः प्राणः आदित्यो वा । इंसस्य प्राणस्य गतिः गमनागमने लक्षणया तज्जाप्याजपा- मन्त्ररूपा यस्याः सा तथा, 'हकारेण बहिर्याति सकारेण पुनर्विशेत्' इति वचनात् । यद्वा, तदभिमानिदेवतारूपा- प्रीषोमात्मकसूर्यचन्द्रगती अहोरात्रात्मककालस्वरूपाया: य- स्या: सा । अथवा, हन्ति देहाद्देहान्तरं गच्छति स्वक- र्मवशेनेति हंसो जीवः, तस्य गतिः प्राप्यस्थानं मुक्ति- रित्यर्थः ; 'ब्रह्मविदाप्नोति परम्' 'यद्गत्वा न निवर्तन्ते ' इति श्रुतिस्मृतिवचनात् । अथवा, हन्ति स्वकार्यभूतं जगत्प्रविशतीति हंसः । ' हंसस्तु परमेश्वर:' इति नृसिंहता- ललितात्रिशतीभाष्यम् । पनीये । गम्यते प्राप्यते शरणत्वेन प्रपद्यते चतुर्विधभक्तैरि- ति गतिः । हंसश्चासौ गतिश्चेति सामानाधिकरण्यसमासः, 'हसः शुचिषत्' इति श्रुतेः । आहोस्वित्, हंसस्य ब्रह्मवाह- नस्य गतिरिव गमनं यस्याः सा तथा । उताहो, हंसशब्देन नामैकदेशेन इंसकं पादकटकमुच्यते ; गम्यते अनेनेति गतिः चरणम् ; हंसयुक्ते गती पादारविन्दे यस्याः सा तथा यद्वा, हंसशब्देन नित्यानित्यसारासारजडाजडादिव- स्तुविवेकसमर्थाः, हन्ति गच्छन्ति प्रतिग्रामं प्रतिदेशम् इति हंसाः परिव्राजकाः चतुर्थाश्रमिणः निष्कामा: ; तेषां गतिः गम्यते ज्ञायते साक्षात्क्रियत इति गति: ; ' संन्यासयो - गाद्यतय: शुद्धसत्वा:' इति श्रुतेः । ' ये पूर्व देवा ऋषयश्च तद्विदुः ते तन्मया अमृता वै बभूवुः' इति श्रुतेः । जीवन्मु- क्तपुरुषानुभूयमानपरमानन्दमुक्तिस्वरूपेत्यर्थः ॥ ॐ हंस- गत्यै नमः ॥ हाटकाभरणोज्ज्वला । हाटकस्य सुवर्णस्य कार्याणि च तानि आभरणानि च हाटकाभरणानि तैरुज्ज्वला तथा, प्रकाशिता अलंकृतेत्यर्थः । हाटकस्य सुवर्णरूपब्रह्माण्डस्य आभरणवदुज्ज्वला प्रकाशकरी सत्तास्फूर्तिकरीत्यर्थः । यद्वा, तस्मिन्नाभरणैः मङ्गलसूत्रादिभिः सनाथस्त्रीमण्डल स्वरूपैरु- कलितात्रिशतीभाष्यम् । ज्ज्वलतीति । आहोस्वित्, कार्यकारणद्वयरूपवसुदानेन वसु- स्वरूपेण वा उज्ज्वलति प्रकाशत इति तथा, 'वसुरन्तरिक्ष- सत्' इति श्रुतेः ॥ ॐ हाटकाभरणोज्ज्वलायै नमः ॥ हारहारिकुचाभोगा हाकिनी हल्यवर्जिता । हरित्पतिसमाराध्या हठात्कारहतासुरा ॥ हारहारिकुचाभोगा । हरस्य परमेश्वरस्य इमे संबन्धिन: द्वारा: ईश्वरत्वाप्तकामत्वनित्यतृप्तत्वादयो गुणाः; तान् हरति तद्विपरीताविद्याद्याधानेन उत्सादयतीति हारहारी, कु- चयोराभोगः पर्यन्तभूमि: यस्याः सा तथा । परमेश्वरस्य तद्विषयकवाञ्छया तदेकसक्तमनस्त्वेन तत्कारणीभूताविद्या- वशवृत्तित्वेन वशीकृतमायत्व स्वरूपेश्वरत्वसमानाधिकरणा- प्तकामत्वादयः अपहृताः, जीवेश्वरयोरेकल तेषां तद्गुणा- नां च सामानाधिकरण्यायोगादित्यर्थः । तथा च ईश्वरस्य मदिष्टसाधनमित्यन्यत्र पदार्थे बुद्धिमत्त्वस्यैव बहुभवनरूपत- या तस्य जगदाकारत्वाधायका - इत्यधिकगुणोत्प्रेक्षाविषयत्वेन भोगस्यातिशयोक्तिरिति द्रष्टव्यम् । अथवा, हारान् मुक्तास्र- ज: हरति आदत्ते इति हारहारी कुचाभोगो यस्याः सेति तथा षट्प्रकारेण मुक्ताहारेण यथोचितकालं भूषितवतीति भावः ॥ ॐ हारहारिकुचाभोगायै नमः ॥ ललितात्रिशतीभाष्यम् । हाकिनी । हाकयति जन्ममरणयोः छेदयतीति हा- किनी, 'हाक् च्छेदे' इति धातुपाठात् ॥ ॐ हाकिन्यै नमः ॥ हल्यवर्जिता । इलसंबन्धि हल्यं कृष्यादिद्वारा जनक- त्वम्, तद्वर्जिता, कामादिविहीनशुद्धचैतन्यस्वरूपत्वात् । हल्यं कपट: मित्रेष्वप्यन्यथा स्वान्तःकरणाविष्कृतिः तेन व- र्जिता । अविद्याविरहिततत्त्वं पदलक्ष्यार्थभूतत्वादिति यावत् ॥ ॐ हृल्यवर्जितायै नमः ॥ हरित्पतिसमाराध्या । हरितां दिशां पतयः महेन्द्रादयः, तैः सम्यक् श्रद्धाभक्तिपूर्वकम् आराधितुं योग्या । तद्विपक्ष- निबईणेनेष्टप्रापकदैवतत्वादित्यभिसंधिः ॥ ॐ हरित्पतिस- माराध्यायै नमः ॥ हठात्कारहतासुरा । हठात्कारेण अतिशीघ्रतया हताः पराभूता: असुरा: असुरपक्षा महिषादयो यया सा तथा ; समबलयोः किल लोके सामाद्युपायः बलाबलविचारणा च भवति । प्रबलस्य तु दुर्बलेषु वैरिषु सिंहस्य मेषेष्विव तदयोगेन अतित्वरयाविचारेणैव देवलोकसुखप्रदा - इति ना- मार्थविचारणायामितरेषु कैमुतिकन्यायेन तत्कारणत्वं ध्व- नितमिति योजनीयम् ॥ ॐ हठात्कारहतासुरायै नमः ॥ ललितात्रिशतीभाष्यम् । हर्षप्रदा हविर्भोक्त्री हार्दसंतमसापहा । हल्लीसलास्यसंतुष्टा हंसमन्त्रार्थरूपिणी ॥ हर्षप्रदा । हर्षः आनन्दकारकः मुखविकासादिकार्योन्नेयः स्वात्मसंभावनेतरपरिभवनिमित्तचित्तवृत्तिविशेषः, कार्यस्य कारणाविनाभावितया तत्प्रदानं तद्धेतोरप्याक्षिपतीति सुख- प्रदेत्यर्थः । प्रददातीति प्रदा । अथवा, हर्ष धनयौवनादि - सुखं पुत्रबन्धुवर्गादिरूपेण परिहृत्य प्रकर्षेण द्यति खण्ड- यतीति वा तथा ॥ ॐ हर्षप्रदायै नमः ॥ हविर्भोक्त्री । 'स ब्रह्मा स शिवः स हरिः सेन्द्रः सो- ऽक्षर: परम: स्वराट्' इति श्रुतेः वसुरुद्रादित्याकारेण हवींषि यजमानेन अग्नौ प्रक्षिप्तानि स्वाहामुखेन भुङ्क्त इति तथा । यद्वा हवींषि कालान्तरभाविफलानि अदृष्टात्मना सूक्ष्मरू- पाणि तत्तद्यजमानजीवगतानि भूतसूक्ष्माभिधानानि समष्टि- व्यष्टथात्मनेश्वरजीवोपाधिभूतानि मायाविद्याशब्दितानि मु- क्तिपर्यन्तं भुनक्ति पालयतीति वा तथा । अन्यथा संसा- रस्यानादित्वाभावेन आदिमशरीराद्युत्पत्तौ अङ्गीक्रियमाणा- याम् प्रपञ्चस्याकस्मिकत्वमकृताभ्यागमप्रसङ्गश्च स्यादिति भावः ॥ ॐ हविर्भोक्त्र्यै नमः ॥ ललितात्रिशतीभाष्यम् । हार्दसंतमसापहा । हृदयावच्छिन्नः हार्दः, 'यो वेद नि- हितं गुहायाम्' इति श्रुतेः । अस्मिन् यत्संतमसं आवारक- त्वात् 'तम आसीत्' इति श्रुत्या च आत्मविषयकं तदाश्रय- मज्ञानम् अनर्थकरम् अव्याकृताकाशमित्युच्यते, महावाक्य- श्रवणजन्यधीवृत्तिप्रतिफलिताकारेणापहन्तीति सा तथा । नाहं ब्रह्मास्मि संसारी ब्रह्म नास्ति न भाति च - इत्यज्ञानस्य सोऽहं ब्रह्मास्मि सच्चिदानन्दलक्षणः इति एकाकारवृत्तिबा- ध्यत्वनियमेन बाधाधिष्ठानम् 'नेह नाना' इति श्रुतिसिद्ध- ब्रह्मरूपेति यावत् ॥ ॐ हार्दसंतमसापहायै नमः ॥ हल्लीसलास्यसंतुष्टा । हल्लीसै: चित्रदण्डैः कुमारिकाभिः एकतालादियुक्तगीतपूर्वकं यल्लास्यं नर्तनं तस्मिन् संतुष्टा प्रीतिमतीत्यर्थः । 'नारीणां मण्डली नृत्यं बुधा हल्लीसकं विदु:' इति हारावलीकोशात् मण्डलाकार नृत्य संतुष्टेत्यर्थः ॥ ॐ हल्लीसलास्यसंतुष्टायै नमः ॥ हंसमन्त्रार्थरूपिणी । हंसैः परमहंसैः उपास्यो यो मन्त्रः प्रणवः तस्य शास्त्रवोधिततत्त्वार्थरूपिणी । वाच्यलक्ष्यार्थस्व- रूपेण ज्ञायमानेत्यर्थः । अथवा, हंसमन्त्रः अजपा । हंकार- सकारौ शोधिततत्त्वंपदार्थों, हुंकारस्य परोक्षवाचिनः सकार- स्य तादृशस्य च भागत्यागलक्षणया निष्प्रपञ्चनित्यशुद्धमु- २३४ ललितात्रिशतीभाष्यम् । तबुद्धसच्चिदानन्दस्वरूपेत्यर्थः ॥ ॐ हंसमन्त्रार्थरूपिण्यै नमः ॥ हानोपादाननिर्मुक्ता हर्षिणी हरिसोदरी । हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता ॥ हानोपादाननिर्मुक्ता । अनिष्टसाधने हानं परित्यागक्रि- या । इष्टसाधने उपादानं स्वीकारक्रिया । परिजिहीर्षा आदित्सा वा । 'अप्राणो ह्यमनाः शुभ्रः 96 अकायम्' 'अ- शरीरं वाव सन्तं न प्रियाप्रिये स्पृशत:' इति बहुश्रुतेः अशरीरस्य ब्रह्मणोऽन्तःकरणादिधर्माणामसंभवात् ताभ्यां निर्मुक्ता निःसङ्गेत्यर्थः, 'विमुक्तश्च विमुच्यते ' इति श्रुतेः ॥ ॐ हानोपादाननिर्मुक्तायै नमः ॥ हर्षिणी । ' एष ह्येवानन्दयाति' इति श्रुतेः हर्षयति संतोषयतीति तथा ॥ ॐ हर्षिण्यै नमः ॥ हरिसोदरी । हरिणा कृष्णेन समानं एकं उदरम् उत् ईषत् अरं भेदकं अवच्छेदकमित्यर्थः । उचैररं कूटो वा अत्यल्पमि - ध्याभूतमायोपाधिकचैतन्यावस्थाविशेषरूपा । ' अपरेयमि- तस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत्' 'देवात्मशक्तिं स्वगुणैर्निगूढाम्' इत्या- ललितात्रिशतीभाष्यम् । दिस्मृतिश्रुतिभ्याम् ईश्वरस्य रूपभेदवत्त्वावगमादिति मन्त- व्यम् ॥ ॐ हरिसोदर्यै नमः ॥ हाहाहूहूमुखस्तुत्या । हाहाहूहूनामकगन्धर्वै मुख्यौ येषां जनानां तैस्तथा । स्तुत्या गुणिनिष्ठगुणाभिधानं स्तुतिः । तदाश्रयत्वेन प्रतिपादनीयेत्यर्थः ॥ ॐ हाहाहूहूमुखस्तु- त्यायै नमः ॥ हानिवृद्धिविवर्जिता । अवयवोपचयरूपा वृद्धिः ; तदप- चयरूपा हानिः ; ताभ्यां वर्जिता, 'न कर्मणा वर्धते नो कनीयान्' इति श्रुतेः । उपलक्षणम् ; षड्भावविकाराणां शरीरधर्मत्वेन कर्मनिमित्तत्वादीश्वरे तदभावेन निर्विकारे- त्यर्थः । ॐ हानिवृद्धिविवर्जितायै नमः ॥ हय्यङ्गवीनहृदया हरिगोपारुणांशुका । लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥ हय्यङ्गवीनहृदया । हय्यङ्गवीनवत् नवनीतसदृश विरल- मृद्ववयवपरिणामद्रवत्वसादृश्ययोगिहृदयकृपारसरूपपरिणा- मवतीति सा तथा। हृदयाभावेऽपि सर्वात्मकतया तद्वत्त्वम् । ईक्षणादिवन्मायापरिणामरूपा दया वा हृदयशब्देन उच्यते । अवागमना:' इति श्रुत्या सर्वनिषेधात् ॥ ॐ हय्यङ्गवी- नहृदयायै नमः ॥ ' ललितात्रिशतीभाष्यम् । हरिगोपारुणांशुका । हरिगोपः इन्द्रगोपः आर्द्रामघा- नक्षत्रे वर्षासूद्भवाः अष्टपादाः रक्तवर्णाः मृद्वङ्गाः कीटवि- शेषाः 5 तथा शोणमंशुकं अम्बरम्, स्वार्थे कप्रत्ययः, किरणानि वा यस्याः सा तथा ॥ ॐ हरिगोपारुणांशु- कायै नमः ॥ लकाराख्या । लकारयुक्तः मूलमन्त्रः आख्या वाचक- शब्द: यस्याः सा तथा । लकारस्य शक्रबीजस्य वार्थः, 'सेन्द्र:' इति श्रुतेः । लकारयुक्तस्य मायाबीजस्य वा स्त- ब्धमायेत्यर्थः ॥ ॐ लकाराख्यायै नमः ॥ लतापूज्या । लवन्ति विनमन्ति अत्यन्तनम्रा भवन्तीति लता: परमपतिव्रता: अरुन्धत्यादयः स्त्रियः ; ताभिः स्थिरमा- ङ्गल्याय स्वेष्टदेवतात्वेन पूज्या पूजनीया । तदुक्तम्– 'समा- राध्य महेशानीं भुक्तिं मुक्तिं च विन्दति' इति । अथवा, केदारादिगौरीविशेषमूर्ती लताभिः उपलक्षणं वन्यपूजोपकरणैः पूज्या अलंकृता । शवरी वा वनदुर्गा वेति भावः ॥ लतापूज्यायै नमः ॥ ॐ लयस्थित्युद्भवेश्वरी । वैपरीत्येन विशेषणं योज्यम् । उद्भ- वतीत्युद्भवः कार्यात्मना अभिव्यक्तिः । स्थिति: ज्ञानविषय- तायोग्यकालावच्छेदः अनुभवसत्तावत्त्वमिति यावत् । लयः ललितात्रिशतीभाष्यम् । उत्पन्नकार्यस्य कारणात्मना अवस्थितिः वाचारम्भणयोग्यते- त्यर्थः । तासां क्रियाणाम् अचेतनकार्यत्वायोगेन घटादिकार्ये चेतनस्य निमित्ततादर्शनात् एकतटस्थेश्वरत्वं वा, गोपुरादौ नानाचेतनदर्शनात्तादृशनानेश्वरत्वं वेति विशये, 'यतो वा इ- मानि भूतानि जायन्ते ' इति श्रुतौ ' यत:' इत्येकवचनपञ्च- म्या नानात्वतटस्थत्वे ; 'जनिकर्तुः प्रकृति:' इति सूत्रम् । जनि- कर्तुः कार्यस्य प्रकृतिरुपादानमपादानसंज्ञा स्यात् । ' अपादाने पञ्चमी' इति शासनात् अभिन्ननिमित्तोपादनत्वमीश्वरत्वमिति सिद्धान्तः । तटस्थलक्षणमेतत् ; ज्ञायमानस्य ब्रह्मण: लक्षण- प्रमाणयोः अवश्यवाच्यत्वादित्यभिप्रायः । आदौ लयशब्दो- पादानेन अनादित्वं प्रपञ्चस्य सूचितम् । जगत इति शब्द- पूरणेन नाम योजनीयम् । तथा च जगतः लयश्च स्थितिश्च उद्भवश्च तेषामीश्वरी । कूटस्थचैतन्यमात्रसच्चिदानन्दाधायक- तया विवर्तकारणमित्यर्थः ॥ ॐ लयस्थित्युद्भवेश्वर्यै नमः ॥ लास्यदर्शनसंतुष्टा लाभालाभविवर्जिता । लङ्घ्येतराज्ञा लावण्यशालिनी लघुसिद्धिदा ॥ लास्यदर्शन संतुष्टा । यथा राजा संपूर्णकाम: प्रयोजनम- ललितात्रिशतीभाष्यम् । नुद्दिश्यापि मृगयादिलीलाविशेषान् पश्यति बालकादिनृत्यं वा, तथा अज्ञानाम् इष्टानिष्टमिश्रोदासीनपदार्थचतुष्टयानु- भवजन्यहर्षशोकादिसंभवन्मदोद्रेकशोकातिरेकहेतुकविहिता- दिकरणाकरणरूपचरणाद्यङ्गपरिस्पन्दरूपनानाविधप्राणिकाय- निकायजन्य लास्यदर्शनेन अनुद्दिश्यापि प्रयोजनं संतुष्टा त- तत्कर्मानुसारेण फलप्रापकेश्वरतया सर्वसमानत्वात्, 'नाद- त्ते कस्यचित्पापं न चैव सुकृतं विभुः' इति भगवद्वचनात् । लास्यं देवतादिवारवनितादिभिः क्रियमाणं तालगीतयुक्तं नृत्यं तद्दर्शनेन संतुष्टा । तदीयफलप्रदानोन्मुखकृपारसवती- त्यर्थः ॥ ॐ लास्यदर्शनसंतुष्टायै नमः ॥ लाभालाभविवर्जिता । अप्राप्तप्राप्तिर्लाभ:; कृतेऽपि यत्ने तदप्राप्तिरलाभः, ताभ्यां विवर्जिता, पर्याप्तकामत्वेन नित्यतृ- तत्वात्, 'न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन' इति भगवद्वचनात् ॥ ॐ लाभालाभविवर्जितायै नमः ॥ लङ्घ्येतराज्ञा । इतरेषां जीवभ्रान्तिकल्पितानां गुणमूर्त्या - दीनाम् उपासनाविधिरूपा वा, कर्मविधिरूपा वा आज्ञा प्रेरणा लध्या अविषयीकृता यया सा तथा । शुद्धचैतन्यस्य विशि- ष्टक्रियाद्यात्मकत्वाभावेन विध्यविषयत्वादिति यावत् । अथ- वा, किंकरीत्वाभावेन इतरेषां देवतानाम् आज्ञा प्रेरणा लध्या ललितात्रिशतीभाष्यम् । उपेक्षणीया यया सा तथा, 'सर्वस्याधिपतिः सर्वस्येशानः ' इति श्रुतेः । ईश्वरस्य सर्वनियन्तृत्वेन स्वेतरानियम्यत्वादिति ज्ञातव्यम् ॥ ॐ लङ्घ्येतराज्ञायै नमः ॥ लावण्यशालिनी । लावण्यं सौन्दर्य परमानन्दस्वरूपतया अतिशयप्रीतिविषयत्वं शालत इति तथा । सर्वावयवसाधा- रणसुन्दर भाववतीति वा ॥ ॐ लावण्यशालिन्यै नमः ॥ लघुसिद्धिदा । लघुना उपायेन सिद्धिं वाञ्छितार्थप्राप्तिं ददातीति तथा; लघुशब्दः लक्षणया लघिमासिद्धिपरः । तथा च लघिमाद्यष्टैश्वर्यप्रदेति वा । अथवा, लघूनां अत्य- न्ताल्पज्ञानभाग्यशरीररूपचरणवतामप्यतिनिकृष्टानां तिर्य- गादीनामपि सिद्धिं मुक्तियोग्यताहेतुज्ञानादिसाधनसंपत्ति तत्कार्यमहिमातिशयोन्नेयां ददातीति सा तथा ॥ ॐ लघु- सिद्धिदायै नमः ॥ लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता । लभ्येतरा लब्धभक्तिसुलभा लाङ्गलायुधा ॥ लाक्षारससवर्णाभा । लाक्षारसेन लाक्षाद्रवेण समानो वर्णो यस्याः सा तथाभूता शोभा कान्तिर्यस्याः सा तथा । अतिपाटलविग्रहप्रभेत्यर्थः ॥ ॐ लाक्षारससवर्णा- भायै नमः ॥ ललितात्रिशतीभाष्यम् । लक्ष्मणाग्रजपूजिता । अग्रे जायेते इत्यग्रजौ रामभरतौ लक्ष्मणस्यापि ज्येष्ठभूतरामाचारानुकारित्वेन चतुर्भिरपि दा- शरथिभिः पूजितेत्यर्थः । रामस्य शिवलिङ्गप्रतिष्ठाता - इति नामवत्त्वान्यथानुपपत्त्या शिवदंपतिपूजकत्वेन तदितरेषां तद्वं- शस्त्रीपुरुषाणां तत्सिद्धिरिति ध्वनितोऽर्थः ॥ ॐ लक्ष्मणाग्र- जपूजितायै नमः ॥ लभ्येतरा । लभ्यानि लब्धव्यानि कर्मोपासनाविशेषाणां फलत्वेन साध्यानि भव्यानीत्यर्थः । तेभ्य इतरा विलक्षणा । ' तत्सत्यं स आत्मा' ' नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तमात्मस्थम्' इति 'यत्साक्षाद- परोक्षाद्ब्रह्म' इत्यादिभिः श्रुतिभिः आत्मनः नित्यप्राप्तस्वरूप- त्वेन प्राप्तप्राप्तव्यरूपतया मोक्षरूपत्वेन चतुर्विधक्रियाफलत्वा- भावादिति मन्तव्यम् । अथवा, इतराणि धर्मार्थकामरूपत्रि- वर्गरूपाणि फलानि लब्धव्यानि प्राप्तव्यानि यस्याः सका- शादिति सा तथा उक्तश्रुतेः ॥ ॐ लभ्येतरायै नमः ॥ लब्धभक्तिसुलभा । भक्तिः सामान्यविशेषाकारेण द्वि- विधा । तत्राद्या आर्तजिज्ञास्वर्थार्थिभिः यैर्लब्धा तत्तत्फलो- द्देशेन समयविशेषे विच्छिद्य विच्छिद्य प्राप्ता तेषां सुलभा तत्तत्प्रारब्धानुसारेण फलदानोन्मुखस्वात्मरूपतया संनिहित- ललितात्रिशतीभाष्यम् । त्वात् । द्वितीया भक्तिस्तु ब्रह्मसाक्षात्कारवता पुरुषेण येनैकभ- क्तितया लब्धा, 'एकभक्तिर्विशिष्यते' इति स्मृते:, तस्य सु- लभा, स्वात्मरूपतया सदा ज्ञायमानत्वात् । 'ज्ञानी त्वात्मैव मे मतम्' इति गीतासु । अथवा, लब्धा प्राप्ता सत्यपि कण्ठ- गतचामीकरवत् लब्धभक्तीनां सुलभा सुखेनानायासेन कष्टेन विना साध्यतया लाभः प्राप्तिर्यस्याः सा तथा, 'भक्त्या मामभिजानाति' इति स्मृतेः ॥ ॐ लब्धभक्ति सुलभायै नमः ॥ लाङ्गलायुधा १ शेषरूपतया हलायुधेत्यर्थः, 'अनन्त- श्वास्मि नागानाम्' इति श्रीभगवद्वचनात् ॥ ॐ धायै नमः ॥ लाङ्गलायु- लग्नचामरहस्तश्रीशारदापरिवीजिता । लज्जापदसमाराध्या लंपटा लकुलेश्वरी । लग्नचामरहस्तश्रीशारदापरिवीजिता । लग्नौ करसंबद्धौ धृतावित्यर्थः ; लग्नौ चामरौ ययोस्तौ तादृशौ हस्तौ ययोस्ते श्रीश्च महालक्ष्मी: शारदा च ते ताभ्यां वीजिता परिवी- जिता । अनादिकालादारभ्य परिचर्यया वीज्यमानेत्यर्थः ॥ ॐ लग्नचामरहस्तश्रीशारदापरिवीजितायै नमः ॥ S. C. VII. 16 आश्रयः ; ललितात्रिशतीभाष्यम् । लज्जापदसमाराध्या । लज्जानाम अन्तःकरणधर्म : जुगु- साहेतुः गूहनसाधनम्, उपलक्षणं मनोधर्माणाम्, तस्य पदम् कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृ- तिर्हीर्धीर्भीरित्येतत्सर्वं मन एव' इति श्रुतेः । तस्मिन् समा- राध्या चिन्तनीयेत्यर्थः ' य आत्मनि तिष्ठन्नन्तरो यमयति ' 'गुहाहितं गह्वरेष्ठं पुराणम' 'तमात्मस्थं येऽनुपश्यन्ति धीरा:' इत्यादिश्रुतिभ्य: । अथवा, लज्जापदं जीवचक्रम्, तस्मिन् तदधिष्ठानानन्दाभिव्यक्तिहेतुतया बहिर्यागक्रमेण पू- जनीयेत्यर्थः ॥ ॐ लज्जापदसमाराध्यायै नमः ॥ लंपटा । लमिति पृथ्वीवाचकबीजेन तदुपलक्षितं जगल्ल- क्ष्यते ; पटशब्देन आवारकत्वधर्मवत्तया अविद्या लक्ष्यते ; लम: जगतः पटः कारणीभूता अविद्या यस्याः सा तथा ; ' मायिनं तु महेश्वरम् ' ' य एको जालवान्' इति श्रुतेः । 'अज्ञानेनावृतं ज्ञानम्' इति स्मृतेश्च । अथवा, लम्पटो नाम तन्द्री आलस्यम्, कर्मोपासनाबाहुल्येऽपि प्रतिबन्धकभूयस्त्वे शीघ्रतया परमेश्वरस्य फलदानोन्मुखतायां राजादिवच्चिर- विलम्बितसेवाफलदानवैमुख्ये तद्वत्तोपचारात् ; लम्पटो यस्याः सा तथा । अथवा, लम्पटादीनामन्तःकरणधर्माणामध्यास- वशेन तदवच्छिन्ने चैतन्ये सत्त्वरजस्तम: कार्याणामुपलब्धे- ललितात्रिशतीभाप्यम् । स्तद्वत्त्वं वा ॥ ॐ लंपटायै नमः ॥ लकुलेश्वरी । कुः पृथिव्युपलक्षितजगत् लीयते अस्मि- न्निति कुलम्, मायोपाधिकचैतन्यम्, प्रलयाधिष्ठानम् । ' यत्प्रयन्त्यभिसंविशन्ति' इति श्रुतेः । लीयमानं कुलं लकुलं निरुपाधिकमित्यर्थः । तच्च सा ईश्वरी च सा तथा । अथवा, लकुलं स्थानविशेषः स्वाधिष्ठानं मणिपूरकं वा; तस्येश्वरी, विष्णुरुद्रात्मिकेत्यर्थः ; भूतसृष्टिश्रुतौ पृथिव्या उदके तस्य तेजसि तस्य परमात्मनि लयश्रवणात् । ' सदायतनाः सत्प्र- तिष्ठा:' इति । तस्येश्वरी विभूतिविशेषो वा ॥ ॐ लकुले- श्वर्यै नमः ॥ लब्धमाना लब्धरसा लब्धसंपत्समुन्नतिः । कारिणीच ह्रींकारी ह्रीं मध्या ह्रींशिखामणिः ॥ लब्धमाना । सर्वैः प्राणिभिः लब्धः मान: अध्यस्त हंंका- रः ; — अभिमानात्मकस्तद्वदहंकारः प्रकीर्त्यते ' इति स्मरणात् । अध्यासेनाहंकाराधिष्ठानेत्यर्थः । अथवा, 'मान पूजायाम्' इति स्मरणात् यैर्यैः प्राणिभिः विद्यैश्वर्यकुल सौन्दर्यातिशयादि- वशात् पूजा लभ्यते सुखहेतुः सा तदन्तर्यामिणा पूर्वमेव लब्धा, पूजादिजन्योपकारस्य सुखादेः स्वस्वरूपतया लब्ध- ललितात्रिशतीभाष्यम् । त्वात् । यद्वा मान: परिमाणः अणुमहद्दीर्घस्वभेदेन प्रसि- द्ध: । 'स वा एष महानज आत्मा महान् प्रभुर्वै पुरुष: ' 'अण्ोरणीयान् महतो महीयान्' इत्यादिवेदवाक्यैर्जलसूर्या- दिवदुपाधिधर्माणामुपहिते गजस्तम्भमत्कुणसर्पादौ प्रतीयमा नत्वात्, लब्ध: मान: परिमाणः उपहिततया जगतः यया सा तथा ॥ ॐ लब्धमानायै नमः ॥ लब्धरसा । 'रसो वै स:' इति श्रुतेः रसवत् रस्यते संबध्यत इति अत्यन्तप्रीतिविषय: आनन्दः, सः स्वस्वरूप- त्वेन लब्धो यया सा तथा । शृङ्गाररसो वा ; तद्व्यञ्जकम- ङ्गलाभरणपुष्पालंकारवत्त्वादिति भावः । शुद्धसत्त्वप्रधान- मायोपाधिकतया, ' रखाः स्निग्धा स्थिरा हृद्या आहारा: सात्त्विकप्रियाः' इति गीतावचनात् नैवेद्यादौ कट्वाम्ललव- णादीनां देवादिविषये निषेधाश्च प्रीतिविषयत्वेन मधुररसो लब्धो ययेति वा तथा ॥ ॐ लब्धरसायै नमः ॥ लब्धसंपत्समुन्नति: । लब्धाः स्वस्वरूपतया स्वत: सि- द्धाः या: संपदः सत्यकामत्वादय: सच्चिदानन्दादयो वा ताभिः समुन्नति: सर्वोत्कृष्टता यस्याः सेति तथा ब्रह्मण: मायामात्रोपाधिना अभिव्यज्यमानाः गुणाः कर्मानुद्भूतत्वा- ललितात्रिशतीभाष्यम् । ' दनाकस्मिकाः सन्तः सर्वोत्कृष्टभावं ब्रह्मण: ज्ञापयन्ति । 'तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतं । पतिं पतीनां परमं पुरस्ताद्विदाम देवं भुवनेशमीड्यम्' सत्यकामः सत्यसंकल्प: ' ' एष सर्वेश्वर एष. सर्वज्ञ एषो - ऽन्तर्याम्येष योनिः सर्वस्य' इति ' गतिर्भर्ता प्रभुः साक्षी ' इत्यादिश्रुतिस्मृतिशतेभ्यः एष नित्यो महिमा ब्राह्मणस्य ' इति प्रसिद्धनित्योत्कर्षवत्त्वं ब्रह्मस्वरूपमेवेति नात्र विचारणीयं किंचिदस्तीत्यभिप्रायः । ॐ लब्धसंपत्समुन्नत्यै नमः ॥ ह्रींकारिणी । ह्रींकारः द्वितीयखण्डसमाप्त्यवयवत्तया वा- च्यवाचकसंबन्धेन अस्या अस्तीति तथा ॥ ॐ ह्रींका- रिण्यै नमः ॥ ह्रींकाराया । अब ह्रींकारशब्देन तत्कार्यभूताः वेदा:, तेषामप्यर्थतया कारणतया वा आया आदौ भवा पूर्वभा- वीत्यर्थः । शब्दस्य अर्थविषयत्वेन प्रवृत्तेः शक्तिग्रहादौ काव्यादिकृतौ च अर्थज्ञानपूर्वकशब्द प्रयोगदर्शनादर्थस्य पूर्व- भावित्वमुक्तमिति भावः ॥ ॐ ह्रींकाराद्यायै नमः ॥ ह्रींमध्या । अस्य बीजस्य जगदभिन्ननिमित्तोपादानभूत- मायाविशिष्टचैतन्यवाचकतया तत्प्रतीकत्वेन तन्निष्ठयावद्गुण- वत्त्वं तदुपासनातिशयमहिम्नाभिव्यज्यते । अन्यथा मन्त्रपुर- ललितात्रिशतीभाष्यम् । श्वर्यास्विष्टसिद्ध्यभावप्रसङ्गः स्यात् । अव्यवहितपूर्वनाम्नान- भिव्यक्तस्त्ररूपस्यापि शब्दजालस्य एतद्बीजमात्रात्मनैवाङ्क- रितबीजार्थवत्तया पूर्व भावित्वमुक्तम् । इदानीमभिव्यक्ता- त्मकस्वार्थकतया विवर्तवादमाश्रित्य वाचारम्भणाकारेण ना- मरूपद्वयवत्त्वमुच्यते । ह्रींकारबीजार्थ: तेन शब्देन लक्ष्यते । मध्ये व्यवहारकाले ह्रीं यस्याः सा तथा । घटादिषु वस्तुषु सच्चिदानन्दप्रतीत्या व्यवहारकालेऽपि प्रपश्वकारणं ब्रह्मानु- स्यूततया भासमानं जगत्कारणमिति सिद्धान्तः । अनेनाचे- तनपरिणामारम्भादिवादा: निष्प्रमाणतया युक्त्याद्याभासक- त्वेन निरस्ताः वेदितव्याः ॥ ॐ ह्रींमध्यायै नमः ॥ ह्रींशिखामणिः । लोके यथा चूडामणिः सर्वाङ्गरचिता- भरणापेक्षया तद्विजातीय प्रकाशसत्ताद्याश्रयवान् उत्तमाङ्ग- स्थानविशेषे स्थापितः महदैश्वर्यादि तद्वतः पुरुषस्य ज्ञाप- यति, तथा सर्वशब्दजालतद्वाच्यार्थ भूतचिज्जड संबन्धरूप- प्रपञ्चवाचकातिसूक्ष्महीं वर्णात्मक श्रीविद्या राजवीजस्य सत्य- ज्ञानानन्दात्मकलक्ष्यार्थभूता सती हींबीजजापकानां सर्वार्थ- प्रदानेन पारमैश्वर्य व्यञ्जयतीति गुणयोगकृतनामेदम् । तथा च हीम: शिखामणिः परमतात्पर्येण ज्ञापयतीत्यर्थः ॥ ॐ हींशिखामणये नमः ॥ ललितात्रिशतीभाष्यम् । ह्रींकारकुण्डाग्निशिखा हींकारशशिचन्द्रिका । ह्रींकार भास्कररुचिह्नकाराम्भोदचञ्चला ॥ ह्रींकारकुण्डाग्निशिखा । ह्रींकार एव कुण्डं वाच्यवाच- कसंबन्धेन परब्रह्मावच्छेदकतया आहवनीयादिसदृशम्, त- स्याग्निशिखा, 'उद्दीप्तेऽग्नौ जुहोति ' - इति प्रमाणेन 'आ- हवनीये जुहोति' - इति विधिवाक्यावगत होमाधारतायाः केवलाहवनीयस्यायोग्यतया साग्निज्वालस्य होमाधारतायां ज्ञायमानायामदृष्टद्वारा स्वर्गसंबन्धेन स्वार्थकतया तज्ज्ञा- पकवेदवाक्यस्यापि पुरुषार्थ संबन्धित्वमाहवनीयनिष्ठ होमा- धिकरणदीप्ताग्निज्वालास्वाधारभूतकुण्डसार्थक्य संपादकेवाभा- ति । तथा स्ववाचकबीजस्यापि 'मन्त्रैरुपासीत' इति त्रि- धिगतदेवतोपासनकरणानां मन्त्राणामपि स्ववाचकतया सा- र्थक्यसंपादनात्तथोच्यते ॥ ॐ ह्रींकारकुण्डाग्निशिखायै नमः ॥ ह्रींकारशशिचन्द्रिका । ह्रींकार एव शशी चन्द्रः तस्य स्वरूपाभेदभूतप्रकाशचैतन्यं चन्द्रिकापदेनोपमीयते । यथा चन्द्रस्वरूपभूतामृतप्रसारभूता ज्योत्स्ना देवादिसर्वलोकानां संजीवकतयोपकरोति, तथा दृढतरभक्तिपरवशपुरुषधौरेया- ललितात्रिशतीभाष्यम् । दीनां ह्रींकारस्वाच्यार्थतया तदभिन्नत्वेऽपि जगद्विवर्तकारण- तया सच्चिदानन्दाधायकत्वेन संजीवयतीति भावः ॥ ॐ ह्रींकारशशिचन्द्रिकायै नमः ॥ ह्रींकारभास्कररुचिः । भासः कान्तीः करोति प्रसारयति लोकोपकारायेति तथा सूर्य:, तस्य रुचि: प्रचण्डभानुः । यथा लोके सूर्य: वर्षास्वतिगाढतरस्रवदुदकधारासंव्याप्तदि- गन्तरासु दिवा विद्यमानोऽपि सूर्य: साक्षादयमिति चाक्षुष- ज्ञानगोचरो न भवति, तदभावे शिष्टानां भोजनादिसंजीव- कव्यवहाराभावेन तदुपायासिद्धयाप्रसन्नमनांसि भवन्ति, तथा ज्ञानमार्गानधिकारिणां मोक्षमार्गोपायभूताविदितदेवता- रूपह्रींकाराणां जनानां बहुतरपुण्यमहिम्ना महावातेनेव मेघा- वलौ दूरीकृतायां चण्डभानुरिव सुखसाधनं गुरुकृपापाङ्गाव- लोकनरूपदीक्षावशेन प्रतिबन्धकदुरितापगमे परदेवतारूपं हूकार : पुरश्चर्यया साक्षाद्वाच्यार्थापरोक्षज्ञानहेतुर्भवति । चिरकालनैरन्तर्यभावनाप्रकर्षेण तस्मिन्नभिमुखे सति तल्ल- क्ष्यार्थरूपपरमानन्दचित्कला स्वयमेवाभिव्यक्ता सत्यानन्दा- नुभवामृतेन सुखयतीति तथोच्यते ॥ ॐ ह्रींकारभास्कर- रुचये नमः ॥ ह्रींकाराम्भोदचञ्चला । अम्भांसि अमृतानि ददतीत्य- ललितात्रिशतीभाष्यम् । . म्भोदा:, ह्रींकारोऽपि कामवर्षत्वेन तैरुपमीयते । तेषु चञ्च- ला विद्युल्लता विद्यमाना तदभिन्नप्रकाशमाना सती वर्षोद- कद्वारा सस्याद्युत्पादकत्वं यथा व्यनक्ति तथा ह्रींकारवाच्य- तया तदभिन्नापि तत्स्वरूपविचारणायां शुद्धलक्ष्यार्थस्वरूपा सत्यपि अनिर्वचनीयस्ववाचक मन्त्रप्रकाशितदेवतात्वेन स्वा- भीष्ट पुरुषार्थप्राप्तिहेतुभूतेत्यभिसंधिः ॥ ॐ ह्रींकाराम्भोद- चञ्चलायै नमः ॥ ह्रींकारकन्दाङ्कुरिका ह्रींकारैकपरायणा । ह्रींकार दीर्घिकाहंसी ह्रींकारोद्यानकेकिनी ॥ ह्रींकारकन्दाङ्कुरिका । ह्रींकार एवं कन्दम् दृढतरबीज- भावः तस्य अङ्करिका आदिप्रसवः नूतनाभिव्यक्तिरित्यर्थः । यथा लोके अङ्कुरादिकं कन्दादिनिष्ठोत्पादकशक्तिमनभिभू- यैव स्वयं स्कन्धशाखापत्रपुष्पफलाद्यात्मना यथा विवर्तमा- नं तत्सामर्थ्यप्रकटनकारणं भवति, तथा ह्रींकारस्य वेदैकदे- शत्वेन इतरप्रमाणानपेक्षतया स्ववाच्यार्थज्ञापनेन स्वत: प्रा- माण्ये स्थितेऽपि तज्जन्यज्ञानविषयतावच्छेदकधर्मरूपनाना- प्रकारजगत्परिणामहेतुत्वसाधका घटित घटनापटीय सीमायोपा- धिकत्वेन तदर्थद्वयरूपा सती तन्मात्रप्रमाणवेद्येत्यर्थः ॥ ॐ ललितात्रिशतीभाष्यम् । ह्रींकारकन्दाङ्कुरिकायै नमः ॥ ह्रींकारैकपरायणा । ह्रींकार एव एकं अनितरसाधारणं- चतुर्विधपुरुषार्थसाधकतया परम् अयनं ज्ञापकं प्रमाणं यस्याः सा तथा । अस्य बीजस्य वाच्यार्थो माया, सा निर- धिष्ठाना न सिध्यतीति तदाश्रयत्वविषयत्वाभ्यां तद्रहितं तेन ज्ञाप्यत इति भाव: ॥ ॐ ह्रींकारैकपरायणायै नमः ॥ ह्रींकारदीर्घिकाहंसी । ह्रींकार एव दीर्घिका राजोद्यान- वनक्रीडावापी । संसारकाननसंचारिलोकविश्रान्तिकारण- त्वेन ह्रींकारः तयोपमीयते, 'आराममस्य पश्यन्ति न तं पश्यति कश्चन' इति श्रुतेः । आ समन्ताद्रमत्यस्मिन् इत्या- रामः अथवा जगत् । तत्रोपासनादिना परमानन्दप्रापक- तया वा ह्रींकारः उपमीयते । तस्मिन् हंसी स्त्रीहंसः । यथा लोके सारासारविवेकिहंस्या आधारसुवर्णकमलादिमती वापि - का महाराज संबन्धिनी विज्ञाप्यते, तद्वद्वाच्यार्थरूपतया प्रका- शमाना सती स्वसंबन्धिबीजस्य सुखोत्पादकत्व मोक्षहेतुत्वं द्योतयतीत्यभिप्रायः । ॐ ह्रींकारदीर्घिकास्यै नमः ॥ हंकारोद्यानकेकिनी । ह्रींकार एव उद्यानवत् फलानुभा- वकत्वात् तथोच्यते तस्य केकिनी मयूरी । यथा लोके ललितात्रिशतीभाष्यम् । बहुषु पक्षिषु आरण्यकेषु सत्स्वपि तस्याः रूपध्वनिभ्यां सुखतया दर्शनश्रवणादिजन्य प्रमोदसाधकतया उद्यानालंक- रिष्णुत्वम्, तथा ह्रींकाररूपदेवताध्वनेः सच्चिदानन्दरूपत- द्वाच्यार्थस्य च परमपुरुषार्थसाधकत्वेन अविशिष्टत्वेऽपि त्र- ह्मविष्णुरुद्रादिमूर्तिषु उद्यानतरुवल्लिकक्षगुल्मादिवदुत्तमनीच- देवतिर्यङ्मनुष्यादिषु च मयूरीव स्वेच्छया सर्वव्यापकत्वेन तदात्मरूपतया शरीरेन्द्रियप्राणाद्याधारपरमप्रेमास्पदपरमा- नन्दरूप प्रत्यग्गोचरावृत्तिव्याप्यत यैतद्बीजप्रकाश्या भवती- त्यर्थः । ॐ ह्रींकारोद्यानकेकिन्यै नमः । ह्रींकारारण्यहरिणी ह्रींकारावालवल्लरी । ह्रींकारपञ्जरशुकी ह्रींकाराङ्गणदीपिका ॥ ह्रींकारारण्यहरिणी । ह्रींकारवाच्यार्थैकदेशभूतमायावि- द्यातत्कार्याणां बन्धरूपतया गहने व्याघ्रादीनामिव भयहे तूनां सद्भावेन दुष्प्रवेशत्वरूपधर्मसाम्येन ह्रींकारस्य अरण्यो- पमितत्वम् । तथा च अरण्यमिव ह्रींकार इति सर्वत्रोपमा - नोत्तरपदसमासः । तत्रैवं सति यथारण्यगतपुरुषस्य शीघ्रं दृष्टिपथं गता हरिणी एणी व्याघ्राद्यभावनिश्चयेन तदधिगम- फलप्राप्तिसाधनतामवगमयति धीरपुरुषस्य, तथा निरन्तरभ- ललितात्रिशतीभाष्यम् । क्तिभजनपरप्राणिलोकस्य उपासनापरिपाकमहिना अपरोक्षी- कृताज्ञाननिवृत्तिपूर्वकं भयापकरणेनानन्दं प्रापयतीति तयो - पमितेति भावः । 'तमेव विदित्वातिमृत्युमेति' इति श्रुतेः ॥ ॐ ह्रींकारारण्यहरिण्यै नमः ॥ ह्रींकारावालवल्लरी । ह्रींकारमन्त्रवाचकतानिरूपितवा- च्यतानामक संबन्धावच्छिन्न परदेवतास्वरूपत्वेन तदुपासना- विषय फलदानसमर्था सती आवालमात्रप्ररोहद्विवृद्धवल्लयों- पमीयते । तथा च तत्संबन्धितया ह्रींकारः जपादिना आ- वाल इव सर्वदा संरक्षणीय इति तात्पर्यार्थः परिनिष्पन्न इति यावत् ॥ ॐ ह्रींकारावालवल्लयै नमः ॥ ह्रींकारपञ्जरशुकी । मन्दाधिकारिणामप्युपासनाकारण- साधारणपार्वतीप्रतीकतया ह्रींकारस्य बालका दिलालनविषय- त्वधर्मपुरस्कारेण पञ्जरोपमा । तथा च तत्रत्यशुकीव संला- पादिना मनुष्यादिचित्तरश्ञ्जिनी । एवं तत्तददृष्टानुसारेण फ- लदात्री सती तयोपमितेति द्रष्टव्यम् । ह्रींकारः पञ्जरमिव तस्य शुकी तत्सार्थक्यकारिणीत्यभिप्राय: ॥ ॐ ह्रींकारप- अरशुक्यै नमः ॥ ह्रींकाराङ्गणदीपिका । अङ्गणवत् सर्वसाधारण विश्रान्ति- स्थानतया ह्रींकारस्य तदुपमा तस्य दीपिका । यथाङ्गणारो- ललितात्रिशतीभाष्यम् । पितदीपः बाह्याभ्यन्तरवस्तुजातं प्रकाशयन् तत्रत्यलोकाना - मन्धकारादिनिवर्तनपूर्वकमभीष्टव्यवहारहेतुतया सर्वान् ला घयति स्वयमपि तैः संरक्ष्यते, तथा ह्रींकारबीजार्थश्रवणम- नननिदिध्यासननिरन्तराभ्यासादपरोक्षीकृतस्वयंप्रकाशानन्द- रूपा सती स्वसेवकान् सर्वोत्कर्षयतीति तदुपमिता सती तथोच्यते ॥ ॐ ह्रींकाराङ्गणदीपिकायै नमः ॥ ह्रींकारकन्दरासिंही ह्रींकाराम्भोजभृङ्गिका । ह्रींकार सुमनोमाध्वी ह्रींकारतरुमञ्जरी ॥ ह्रींकारकन्दरासिंही । पर्वतशिखाप्रवर्तिगुहा कन्दरा द- रीत्यर्थः । वेदमौलिपठितहींकारस्य ग्राम्यविषयलिप्सुप्राणि- प्रवेशयोग्यताविकलतया कन्दरोपमा । तत्र यथा सिंही स्वेतरक्षुद्रमृगप्रवेशभयहेतुसटादिस्वव्याप्यचिह्नानुमिता तस्या: स्वाश्रयमात्नतां धीरस्य तत्परिसरनखनिर्घातमुक्ताफलादि- प्राप्तिं च नयति, तथा मन्दभक्तितन्द्रीबुभुक्षादिकलुषित- परिच्छिन्नाभिमानदेवतान्तरप्रतिपादकवीजतया स्वदेवतैक- भावं कामितार्थे च प्रापयतीति सिंधुपमिता सती तथो- च्यते ॥ ॐ ह्रींकारकन्दरासिंयै नमः ॥ ह्रींकाराम्भोजभृङ्गिका । ड्रींकारस्य अष्टैश्वर्यात्मकपुरुषा- ललितात्रिशतीभाष्यम् । र्थसाधकनानाशक्तिमत्तया नानाप्रकारवर्णान्तरघटितत्वेन प- रागपरिमलादिमत्कमलोपमितत्वमिति योजनीयम् । कमले यथा मधुमात्रसारग्राहिणी भृङ्गी रमते सर्वपुष्परसमधुपा- नस्वाभाव्येन सर्वसमापि मध्वाधिक्य विविदिषया प्रभूतम- धुवत्त्वेन च तस्मिन्नेव विशिष्यासक्तिमती, तथा सर्वमन्त्र- बीजवाच्यदेवतात्मना सर्वानुगतापि ह्रींकारस्य विशिष्टगुण- वत्त्वेन सर्वोपादानसगुणब्रह्मप्रतिपादकतया तदीयस्वरूपत- टस्थलक्षणवत्त्वेन तदभिन्नस्वरूपतया सर्वशब्दजालप्रकृति- त्वेन च रूढ्या लक्षणया वा तत्संबन्धिनी सती तदुपास- कानां तदधिष्ठानतया च तैर्लक्ष्यत इति भृङ्ग्युपमया व- र्णितेति तात्पर्यम् ॥ ॐ ह्रींकाराम्भोजभृङ्गिकायै नमः ॥ ह्रींकारसुमनोमाध्वी । ह्रींकारस्य वाञ्छितफलप्रदानसा- धकतया सुमनःसादृश्यम् । अथवा, पुष्पाणि व्यवहारसमये बहुसावधानतया व्यवहर्तव्यानि परममार्दवाधिकरणत्वेन बहु- मान्यत्वात्, तथा ह्रींकारोऽप्युपासनवेलायां परब्रह्मवाचकत्वेन प्रयत्नपूर्वकमेकाग्रमनसा देवताभिन्नत्वेन ध्यातव्य इति निय- मसंपादनार्थे पुष्पोपममिति विभावनीयम् । तथा च वा- य्वादिना शुष्काणि पुष्पाणि निर्मधुत्वेन फलान्यजनयित्वा परिपतन्ति फलजनकशक्तेरभावेन; तदितराणि तु तद्वत्वेन ललितात्रिशतीभाष्यम् । तज्जनकानि लोके दृष्टानि; पुष्परसश्च पृथिवीकारणभूतोदक- तन्मात्रस्वरूपमधुररसात्मकत्वात् पुष्पाणां फलजनकशक्तिज्ञा- पको भवति ; तथा ह्रींकारस्यापि सर्वजनकताशक्याधायकत- दधिष्ठान सच्चिदानन्दपरब्रह्मस्वरूपा सती तन्मन्त्रप्राप्त्या यथोक्तफळ हेतुतया तदर्थरूपेण तद्वृत्तिर्भवतीति माध्वीसमा- नधर्मवत्त्वमस्या उपपद्यत इति विवेचनीयमिति यावत् ॥ ॐ ह्रींकारसुमनोमाध्व्यै नमः ॥ ह्रींकारतरुमञ्जरी । फलार्थिनः स्वारूढजनान् पतनादि- भ्यः प्रतिबन्धकेभ्यस्तारयति पारं प्रापयति फललाभेन सं- तोषयतीति तरुः । ह्रींकारस्य कल्पादितरुर्दृष्टान्तीकृतः । प्रेक्षावतां संवादिप्रवृत्तिजनकत्वेन शाखोपशाखाप्रगता पुष्प- मञ्जरी फलकारणयोग्यतां ज्ञापयतीव पुरुषार्थार्थिनां असं- शयप्रवर्तकत्वेन प्रत्यक्स्वरूपा सती गुरूपदिष्टमन्त्रदेवतात्म- कतया मन्त्रोपासनायामभिमुखीकरणेन पुरुषार्थान् प्राप- यतीति मञ्जरीसादृश्यं प्राप्तं परदेवताया इति विवेचनी- यम् ॥ ॐ ह्रींकारतरुमञ्जर्यै नमः ॥ सकाराख्या समरसा सकलागमसंस्तुता । सर्ववेदान्ततात्पर्यभूमिः सदसदाश्रया ॥ सकाराख्या । सकारयुक्ता श्रीविद्यानामिका आख्या ललितात्रिशतीभाष्यम् । वाचकशब्दः यस्याः सा तथा । ॐ सकाराख्यायै नमः ॥ समरसा । समः एकः रस: मधुरादिरसवगुडपिण्डादा- वेकरूपेण कार्ये व्यवस्थितेत्यर्थः । अथवा, संसारदशायां सर्वज्ञत्वकिंचिज्ज्ञत्वादिविशेषणभेदेन भिन्नरसवत् भिन्नस्वभा- ववत् प्रतीयमानयोरीश्वरजीवयोर्वेदान्तश्रवणादिना जन्या- खण्डाकारवृत्तिव्याप्त्या अहं ब्रह्मास्मि इत्यभेदानुभवदशा- यामेकरूपतया साक्षात्क्रियते इति सा तथोच्यते, 'रसो वै स:' इति श्रुतेः, रसशब्दार्थः परब्रह्म समः अभिन्नं यस्याः सा तथा । तैत्तिरीयोपनिषत्प्रतिपाद्येत्यर्थः ॥ ॐ समरसायै नमः ॥ सकलागमसंस्तुता । आ समन्तात् गमयन्तीति आगमा:, सकलपदार्थगोचरसविकल्पक प्रमाजनकवेदा इत्यर्थः । सकलै- रन्यूना नतिरेकेणेतिहासपुराणसहितयावदङ्गोपाङ्गरहस्यादियो- गित्वं सकलशब्दार्थः । तैः संस्तुता सम्यक् नातः परं किंचि- दस्तीति निश्चयपूर्वकं स्तुता गुणिनिष्ठगुणाभिधानविषयतया तदुपजीवकेत्यर्थः । सर्वार्थप्रकाशकवेदानां सर्वज्ञत्वेदं पर्येण तदीयस्तुतिविषयतया शुद्धचैतन्यात्मकतया मोक्षकारणीभू- तज्ञानस्वरूपत्वेन जिज्ञास्येति ध्वनितोऽर्थः ॥ ॐ सकला- गमसंस्तुतायै नमः ॥ 'ललितात्रिशतीभाष्यम् । सर्ववेदान्ततात्पर्यभूमिः । वेदानामन्तः अवसानं तत्त्वम- स्यादिमहावाक्यानि, तेषां तात्पर्यं समन्वयः सामानाधिक- रण्यमित्यर्थः । तस्य भूमिः विषयः ज्ञाप्यमिति यावत् । ' उपक्रमोपसंहारावभ्यासांऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्ग तात्पर्यनिर्णये' इति वचनोक्ततात्पर्यनिर्णायकप्रमा- णबलेनातीन्द्रियधर्मादिगोचरवाक्यवत् सर्वेषां वेदान्ता- नामुपासनाज्ञानविधिं विनाकर्मशेषतया अज्ञातज्ञापकत्वेन शंसनादेव शास्त्रशब्दवाच्यानामद्वैते ब्रह्मणि गतिसामान्येन कर्मोपासनाकाण्डद्वयार्थोपकार्यत्वेन मोक्षहेतुज्ञानजनकत्वेन पर्यवसानमिति तात्पर्यविषयता अखण्डचैतन्यस्येति सि- द्धान्तार्थ इत्यभिसंधिः । 'सामानाधिकरण्यं च विशेषण- विशेष्यता । लक्ष्यलक्षणभावश्च पदार्थप्रत्यगात्मनाम् ' इति न्यायेन संबन्धत्रयेण अखण्डार्थं वेदान्ताः बोधयन्तीति ' तत्तु समन्वयात्' इत्यधिकरणे प्रतिष्ठापितमित्यलमतिवि- स्तरेण ॥ ॐ सर्ववेदान्ततात्पर्यभूमये नमः ॥ सदसदाश्रया । अपरोक्षतया सन्निति प्रतीतिविषयतया व्यवह्रियमाणं सत्कार्य रूपादिवत्तया व्यावहारिकसत्ताश्रयं पृथिव्यप्तेजोभूतत्रयं सदित्युच्यते । असत् सद्भिन्नतया परो- क्षज्ञानगोचरं वाय्वाकाशादि तत्कार्य च रूपादिभिन्नगुणाश्र- S. U. VII. 17 ललितात्रिशतीभाष्यम् । यमुच्यत इत्यर्थः । तयोराश्रया उपादानत्वेन तदधिष्ठानभूते- त्यर्थः । आरोपितस्याधिष्ठानसत्तातिरिक्तसत्ताशून्यतया सत्ता- स्फूर्तिप्रदत्वेन सर्वदा तदनुस्यूतेति ध्येयम् ॥ ॐ सदसदा- श्रयायै नमः ॥ सकला सच्चिदानन्दा साध्या सद्गतिदायिनी । सनकादिमुनिध्येया सदाशिव कुटुम्बिनी ॥ सकला । आरोपितकलाभिः उपासनार्थं कल्पिताभिः जाबालिना सत्यकामं प्रत्युक्तषोडशकलायुक्तपुरुषोपासनप्रति- पादकच्छान्दोग्यवचनरीत्या कलाशब्दितावयवैः सह वर्तते इति सा तथा । चतुःषष्टिचन्द्रकलाभ्यां वा सहिता । अथवा, कलाशब्दः सुखादिकान्तिवचन: तया सहितेति वा ॥ ॐ सकलायै नमः ॥ सच्चिदानन्दा । सच्चासौ चिश्च सच्चित् सञ्चिच्चासौ आन- न्दश्च ; कालत्रयाबाध्यत्वं सत्त्वम्, स्वेतरप्रकाशाप्रकाश्यत्वं चित्त्वम्, परमप्रेमास्पदत्वमानन्दत्वम्, 'सत्यं ज्ञानमनन्तम्' 'विज्ञानमानन्दम्' 'सदेव सोम्येदमग्र आसीत् ' ' प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म' ' आनन्दो ब्रह्मेति व्यजानात् ' ' 'आ- नन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन' इत्यादिश्रुतिभ्यः । ललितात्रिशतीभाष्यम् । ते स्वरूपं यस्याः सा तथोक्ता । वेदान्तशास्त्रोक्तब्रह्मस्वरूप- लक्षणलक्षितेत्यर्थः ॥ ॐ सच्चिदानन्दायै नमः ॥ ॥ साध्या । कर्मोपासनादिभिः महावाक्यश्रवणजन्यब्रह्म- विद्यात्वेन साधनचतुष्टयसंपन्नाधिकारिणा अपरोक्षतया साधितुं प्राप्तुमर्हा, फलस्वरूपत्वादित्यर्थः । साध्वीति वा पाठे साधोः स्त्री, सत्त्वगुणसंपन्नत्वात् साधुः; सकल- विद्यापारगत्वे सति सदाचारसंपन्नः देवीसंपत्तिमानित्य- र्थः । तदेकनिष्ठा परमपतिव्रता सती स्त्रीणां पातिव्रत्य संप्रदा- यप्रवर्तकेति यावत् ॥ ॐ साध्यायै नमः ॥ सद्गतिदायिनी । समीचीना पुनरावृत्तिरहिता सुखमात्र- रूपा गतिः, गम्यते ज्ञायते प्राप्यते इति वा गतिः । यत् ज्ञायते तदेव गतिः, तदन्यस्याज्ञातत्वात् गतित्वानुपपत्तेः । ज्ञाते फले इच्छया तत्साधनेषु पुरुषः प्रवर्तते ; न त्व- ज्ञातफलसाधने - इत्यन्वयव्यतिरेकाभ्याम्, 'ब्रह्मविदाप्नोति परम् ' ' ब्रह्म वेद ब्रह्मैव भवति' 'ये पूर्व देवा ऋषयश्च तद्विदुः ते तन्मया अमृता वै बभूवुः' इत्यादिश्रुत्या च परदेवतास्वरूपमेव मुक्तिस्वरूपतया सद्गतिः । तदावार- काज्ञानाभिभवेन स्वरूपानन्दमभिव्यञ्जयतीति दायिनी । अभेदेऽपि गतिदानयोः कर्मकर्तृप्रयोगः उपपद्यते । ' तदा- ललितात्रिशतीभाष्यम् । त्मानँ स्वयमकुरुत' इत्यादिवदित्यर्थः । सतीं वा सत्त्वगु- णयुक्तां देवयानादिगतिं वा ददातीति सा तथा ॥ ॐ सद्ग- तिदायिन्यै नमः ॥ सनकादिमुनिध्येया । मननशीलाः मुनयः, मननशब्देन लक्षणया तत्साक्षात्कारवन्त इत्यर्थः, ब्रह्मण: मानसिकपुत्राः ज्ञानवैराग्यादिबहुलाः मोक्षमार्गप्रवर्तकाः; सनकः आदिः येषां ते मुनयः सनन्दनसनातन सनत्कुमारप्रमुखाः निरै- षणा: निश्चिन्ता: ; तैर्येया अत्यादरेण स्वात्माभेदज्ञानेन स- र्वदा विषयीकृतेत्यर्थः ; 'त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि' ' क्षेत्रज्ञं चापि मां विद्धि' 'आत्मानं चेद्वि- जानीयादहमस्मीति पूरुषः ' ' अथ योऽन्यां देवतामुपास्ते- ऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः ' ' मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इत्यादिश्रुतिस्मृति- शतेभ्यः ॥ ॐ सनकादिमुनिध्येयायै नमः ॥ सदाशिवकुटुम्बिनी । सदाशिव: कुटुम्बम् अस्या अस्तीति तथा ॥ ॐ सदाशिवकुटुम्बिन्यै नमः ॥ सकलाधिष्ठानरूपा सत्यरूपा समाकृतिः । सर्वप्रपञ्चनिर्मात्री समानाधिकवर्जिता ॥ ललितात्रिशतीभाष्यम् । सकलाधिष्ठानरूपा । 'अथात आदेशो नेति नेति' 'नेह नानास्ति किंचन' इत्यादिनिषेधश्रुतिभ्यः प्रतिपन्ना । 'सर्वं खल्विदं ब्रह्म " इत्यादिबाधायां सामानाधिकरण्य- मवगम्यते । कार्यस्य कारणाभेदज्ञानं बाधा । तद्भिन्नता- ज्ञानस्य भ्रमरूपत्वात् । तथा च श्रुतिनिषेधस्यावध्यपेक्षायां प्रकृत्यादीनामपि तत्त्वज्ञानेन निवृत्तौ भूतपूर्वगत्या सर्वाधि- ष्ठानत्वेन अनुभूयते इति भावः ॥ ॐ सकलाधिष्ठान- रूपायै नमः ॥ सत्यरूपा । सत्यं जडानृतपरिच्छिन्न व्यावृत्तत्वं सच्चिदान- न्दरूपं यस्याः सा तथा । परिणामवादमाश्रित्य सत् अपरोक्ष- ज्ञानयोग्यानि पृथिव्यप्तेजांसि, त्यत्तु परोक्षज्ञानविषयाः नि- त्यानुमेया इत्यर्थ:, ' सञ्च्च त्यच्चाभवत्' इति श्रुतेः । सत्यं रूपं यस्याः सा तथा ॥ ॐ सत्यरूपायै नमः ॥ समाकृतिः । समा अभिन्ना सच्चिदानन्दरूपैकरसा आ- कृति: मूर्तिः स्वरूपं यस्याः सा तथोक्ता । समा अन्यूना - नतिरिक्ता यथाशास्त्रप्रमाणं मूर्तिर्विग्रहो यस्याः सेति वा । समा सदाशिवेन गुणसौन्दर्यबलवीर्ययशोगाम्भीर्यधैर्येङ्गि- तादिपरिज्ञान सर्वज्ञत्वादिबहुलधर्मविशेषैः मूर्तिर्यस्याः सेति वा 1 चतुर्विधभूतग्रामेषु तत्तत्प्रारब्धानुसारेण समा ललितात्रिशतीभाष्यम् । तत्र तत्र निवासयोग्या मूर्तिर्यस्याः सेति वा । कर्माध्यक्ष- तया तत्तत्फलविशेषदानेषु समा पक्षपातरहिता मूर्तिर्यस्या: सा । समा बाल्यस्थविरत्वादिभावविकारवर्जिता एक- प्रकारा नित्ययौवनशालिनी मूर्तिर्यस्याः सा । ' समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्' ' अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्ट:' इति स्मृतिश्रुतिभ्यामे- करूपत्वावगमादित्याशयः । ॐ समाकृतये नमः ॥ सर्वप्रपञ्चनिर्मात्री । संसारस्यानादितया मोक्षस्थायित्वेन च भूतभविष्यद्वर्तमानगत्या सर्वशब्दवाच्यत्वं प्रपञ्चस्य ; प्रप- ञ्च्यते विस्तार्यते विवर्तत इति प्रपञ्चः, • एकं बीजं बहुधा यः करोति' इति श्रुतेः । तस्य निर्मात्री निर्माणमभिव्यक्ति: तन्निमित्ततया तत्तत्कर्तृत्वमुपचर्यते, देवदत्तः पचतीतिवत् ॥ ॐ सर्वप्रपञ्च निर्मात्र्यै नमः ॥ समानाधिकवर्जिता । कुलशीलजातिगुणादिभिः तुल्यः समानः, तैः श्रेयानधिकः, तैर्वर्जिता । 'न तस्य प्रति- मास्ति ' ' विश्वाधिको रुद्रो महर्षि:' इति श्रुतेः, 'सर्वाधि- पत्यं कुरुते महात्मा' इति 'एकमेवाद्वितीयम् ' न त्वत्स- मोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रये' इत्यादि श्रुतिस्मृति- भ्यां चेति भावः । एतद्दृष्ट्या संमाननीयः समान: पूजनी - ललितात्रिशतीभाष्यम् । योऽधिकः तहूयेन वर्जिता । ' एकमेवाद्वितीयं ब्रह्म' इत्यादि- श्रुतेरिति वार्थः ॥ ॐ समानाधिकवर्जितायै नमः ॥ सर्वोत्तुङ्गा संगहीना सगुणा सकलेश्वरी । ककारिणी काव्यलोला कामेश्वरमनोहरा ॥ सर्वोत्तुङ्गा । कार्यापेक्ष्या कारणस्याधिकत्वात् सर्वा- पेक्षया उत्तुङ्गा उन्नता, ' पादोऽस्य विश्वा भूतानि । त्रिपा- दस्यामृतं दिवि' इति श्रुते: ॥ ॐ सर्वोत्तुङ्गायै नमः ॥ संगहीना । निरवयवत्वेन निष्कारणत्वेन वा निर्गुणत्वेन वा निराश्रयत्वेन वा नित्यशुद्धबुद्धमुक्तस्वरूपत्वेन संबन्धर - हिता वा ; 'असंगो न हि सज्जते ' ' न चास्य कश्चिज्जनिता न चाधिपः' इत्यादिश्रुतेरित्याशयः ॥ ॐ संगहीनायै नमः ॥ सगुणा । समाः एकप्रकाराः गुणाः सत्यकामत्वादयः य- स्याः सा तथा । 'गुणी सर्वविद्य: ' ' सत्यकामः सत्यसंक- ' इत्यादिश्रुतेः । त्रिमूर्तिस्वरूपतया सत्त्वरजस्तमोगुणैः सह वर्तते इति वा तथा ॥ ॐ सगुणायै नमः । ल्पः सकलेष्टदा । इच्छाविषयभूतानि इष्टानि काम्यानीत्य- र्थः ; सकलानि च तानीत्यभेदसमासः ; अन्यथा जीवादि- ललितात्रिशतीभाष्यम् । वत् कस्मिंश्चिद्विषये असामर्थ्यशङ्का स्यात् । एकस्य पदार्थस्य बहूनामिच्छाविषयत्वदर्शनात्, एकत्र कामनायामपि तत्स- इभावित्वेन सर्वप्रापकत्वोक्तौ परदेवतायाः बहुफलप्रदातृत्वेन अत्यन्तविश्वसनीयतया अतिशयप्रतिभानाश्चेत्यर्थः । अथवा, परिच्छिन्नपरिमितभाग्यवत्प्राणिनः सर्वस्य सर्वत्र इच्छाया- मपि, यानि सर्वाणि स्वबुद्धधा शास्त्राविरोधेनेष्टानि एषित- व्यानि वाञ्छितव्यानि, तान्येव प्रयच्छति ददाति ; न तद- धिकानि, लोकेच्छायाः बहुप्रकारत्वेन दुष्पूरणीयत्वादिति भावः । सर्वेषां प्राणिनामिष्टया इज्यया पूजया विषयीकृता, यज्ञेन वा समाराधिता तस्य फलप्रदेत्यर्थः । ' अहं च स- र्वयज्ञानां भोक्ता च प्रभुरेव च ' एष ह्येव साधु कर्म का- रयति यमेभ्यो लोकेभ्य उन्निनीषति' इति स्मृतिश्रुतिभ्यां परमेश्वरार्पणबुद्धया क्रियमाणस्यैव कर्मण: शुभफलत्वात् मुक्तिहेतुत्वेन, काम्यफलार्थिनां जन्ममरणादिबन्धकत्वेन स्व- ल्पफलतया अनादरणीयत्वादित्यर्थः । अथवा, कलाभि: अ- वयवैः तरतमभावैरित्यर्थः । तैः सहितानि इष्टानि फ- लानि मनुष्यानन्दादिब्रह्मानन्दपर्यन्तानि फलानि आनन्द- स्वरूपाणि ददातीति तथा ॥ ॐ सकलेष्टदायै नमः ॥ , ककारिणी । तृतीयखण्डद्वितीयवर्णरूपः ककारावयवः ललितात्रिशतीभाष्यम् । वाचकः अस्या अस्तीति तथा । ॐ ककारिण्यै नमः ॥ काव्यलोला । वाल्मीकिवेदव्यासादिकृतेषु काव्येषु लो- ला, वाच्यलक्ष्यार्थभेदेन तव संबद्धेत्यर्थः । अथवा, कवि- भिः कृतेषु स्तुतिविशेषेषु प्रीतिमतीत्यर्थः । ॐ काव्यलो- लायै नमः ! कामेश्वरमनोहरा । कामेश्वरस्य मनः हरतीति तथा । ॐ कामेश्वरमनोहरायै नमः ॥ कामेश्वरप्राणनाडी कामेशोत्सङ्गवासिनी । कामेश्वरालिङ्गिताङ्गी कामेश्वरसुखप्रदा ॥ कामेश्वरप्राणनाडी । कामेश्वरस्य प्राणनाडी यथा नाड्या प्राणः संचरति सा तथा, जीवनाडीत्यर्थ: । 'इडया तु बहि- र्याति' इति लयखण्डवचनात् । लोके विशस्यमाने पशौ हृदयं पुण्डरीकाकारं मांसखण्डात्मकान्तः सुषिराष्टदलोपेतमङ्गुष्ठप- रिमाणसुषिरयुताघोभागकर्णिकामध्यं दृश्यते, तस्याः कर्णिका- या: केसरायमानाः एकशतं नाडीनामङ्कुराः तद्वेष्टनपुरीतन्नाम- कनाडी सुषिरविन्यस्तमूला: भवन्ति । तत्र सुषुम्नानामकनाडी मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तं गता । तस्यां षट् चक्राणि मूलाधारादीनि तत्तन्मातृकावर्णसहितयोगशास्त्रोक्तदलसंयु- । ललितात्रिशतीभाष्यम् । तानि संनद्धानि वर्तन्ते । तस्या मूले पृथ्वीदेवता बिसतन्तुत- नीयसी कुण्डलिन्यधोमुखावरणशक्तिर्निद्राति । तस्याः दक्षि- भागे इलानामनाडी भ्रूमध्यपर्यन्तं प्रसृता । वामे पिङ्गला तथा । तथा च जाग्रदवस्थायां नेत्रयोः दंपत्यात्मना श्रुतिप्रतिपादितः, स्वप्ने मनउपाधिकः, सुषुप्तावज्ञानोपाधि- कः ; जाग्रति स्थूलशरीराभिमानी विश्व इत्युच्यते, स्वप्ने सू- क्ष्माभिमानी तैजसः, सुषुप्तौ कारणाभिमानी प्राज्ञः । सुपु- प्तौ कारणात्मना स्थितानि स्थूलसूक्ष्मशरीरजन्यभोगसाधन- प्रारब्धकर्मवशेन पुरीतद्वारा नाडीमार्गेण तत्तद्गोलकानि प्रवि- शन्ति इन्द्रियाणि । तदुपरमप्रारब्धोद्बोधे आन्दोलिकायां वि- द्यमानो राजा गृहान्तरे सोपानमार्गद्वारा प्रासादे विहृत्य त- दवच्छिन्नान्तःपुरपर्यङ्के शयान इव नाडीद्वारा पुरीतत्प्रविश्य तदवच्छिन्नहृदयोपाधिकं परमात्मानं यदा प्रविशति तदा सुप्त इत्युच्यते । लिङ्गशरीरं कारणात्मना लीयते । तदा प्राणा- दिवायवः प्रलीनवृत्तयः सन्तः आयुः स्वरूपेण शरीरं रक्षन्ति । तथा च भाविजाप्रत्स्वप्रभोगानुकूल कर्मानुबन्धप्राणधारणं सु- षुप्तौ सोपाधिकचैतन्यस्यैव दृश्यते । तत्सत्तया च नाडीनां प्राणसंचारयोग्यतापि । एवं च सति न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपा- 6 ललितात्रिशतीभाष्यम् । श्रितौ' इति श्रुत्या 'जीव प्राणधारणे' इति धातुपाठाच्च प्राण- नाडीशब्दस्य लक्षणया परमात्मैवोच्यते । कामेश्वरस्यैवं प्रारब्धकर्मजन्यशरीरमात्राभावेऽपि घृतकाठिन्यन्यायेन मूर्ति- मत्तया तदन्तर्यामिसंभावनया एतन्नाम । कामेश्वरस्य प्राण- नाडी तदधिष्ठानचैतन्यमिति फलितोऽर्थः ॥ ॐ कामेश्वर- प्राणनाड्यै नमः ॥ कामेशोत्संगवासिनी । कामेशस्य उत्संगे वामाङ्के वसती- ति तथा । ' अनेकमन्मथाकारकामेशोत्संगवासिनी' इति ललितातापनीये ॥ ॐ कामेशोत्संगवासिन्यै नमः ॥ कामेश्वरालिङ्गिताङ्गी । तेन आलिङ्गितम् अङ्गीकृतम् अङ्गं यस्याः सा तथा ॥ ॐ कामेश्वरालिङ्गितायै नमः ॥ कामेश्वरसुखप्रदा । कामेश्वराय सुखं प्रददातीति वा । कामेश्वरस्य यत्सुखं ब्रह्मस्वरूपसच्चिदानन्दसाक्षात्कारात्म- कम्, 'देवो भूत्वा देवानप्येति' इति श्रुत्युक्तन्यायात् स्व- कीयभक्तानां कामेश्वराभेदरूपं सच्चिदानन्दघनात्मकं मोक्षं ददातीत्यर्थः ॥ ॐ कामेश्वरसुखप्रदायै नमः ॥ कामेश्वरप्रणयिनी कामेश्वरविलासिनी । कामेश्वरतपः सिद्धिः कामेश्वरमनःप्रिया ॥ ललितात्रिशतीभाष्यम् । कामेश्वरप्रणयिनी । कामेश्वरस्य स्वस्वरूपे परमानन्दघने या प्रीतिः तद्विषयभूतेत्यर्थः ॥ ॐ कामेश्वरप्रणयिन्यै नमः ॥ कामेश्वरविलासिनी । कामेश्वरस्य विलासः कार्यात्मना विवर्तोऽस्या अस्तीति तथा ॥ ॐ कामेश्वरविलासिन्यै नमः ॥ कामेश्वरतपः सिद्धिः । कामेश्वरस्य तपः जगदालोचना- त्मकम्, सिध्यत्यनयेति सिद्धि:, तपसः साधनभूतेत्यर्थः । स्त्रीपुरुषात्मना कल्पितभेदवशात् जगत्सर्जनसाधनभूतेत्यर्थः ॥ ॐ कामेश्वरतपःसिद्धयै नमः ॥ कामेश्वरमनःप्रिया । मनसः प्रिया तथा, निरवधिक- प्रेमास्पदेत्यर्थः ॥ ॐ कामेश्वरमनःप्रियायै नमः ॥ कामेश्वरप्राणनाथा कामेश्वरविमोहिनी । कामेश्वरब्रह्मविद्या कामेश्वरगृहेश्वरी ॥ कामेश्वरप्राणनाथा । कामेश्वरस्य प्राणः हिरण्यगर्भः तं नाथयति पालयतीति तथा । कामेश्वरः प्राणनाथो वल्लभो यस्याः सेति वा तथा ॥ ॐ कामेश्वरप्राणनाथायै नमः ॥ कामेश्वरविमोहिनी । विमोहयति स्वयं भिन्नविग्रहवती ललितात्रिशतीभाष्यम् । सती आवां दंपती — इति द्विप्रकारकज्ञानवन्तं करोतीति सा तथा । अभेदज्ञानवतः तद्विपरीतज्ञानवत्त्वं मोहः तत्करोती- ति सा तथा । अथवा, मोहो नाम बुद्धेरेकालम्बनतया तद- न्याविषयकत्वम्, परमेश्वरस्य स्वस्वरूपपरदेवतापरमानन्द- साक्षात्कारेण स्थाणुवन्निश्चलतया उपचारेण मोहवत्तया तदि- तरप्रपञ्चाकारकृत्याद्याश्रयतादर्शनेन मोहयतीत्युपचारनाम । मोहयतीवेत्यर्थः । अन्तःपुरगतं राजानं स्त्रियासक्तमितिव- दित्यर्थः ॥ ॐ कामेश्वरविमोहिन्यै नमः ॥ कामेश्वरब्रह्मविद्या । कामेश्वरस्य तत्त्वंपदार्थ साक्षात्कार- भूतेत्यर्थः, 'य: साक्षादपरोक्षाद्ब्रह्म' इति श्रुतेः ॥ ॐ कामेश्वरब्रह्मविद्यायै नमः ॥ कामेश्वरगृहेश्वरी । गृह्यत इति ग्रहः सर्वज्ञानम् तस्य ईश्व- री विषयाधिष्ठानभूतत्वेन नियामिकेत्यर्थः । अथवा, 'गृहिणी गृहमुच्यते ' इति न्यायात् कामेश्वरः गृहेश्वर: स्वस्या: अ- धिपतिः अस्या अस्तीति सा तथा ॥ कामेश्वरगृहेश्वर्यै नमः ॥ कामेश्वराह्लादकरी कामेश्वर महेश्वरी । कामेश्वरी कामकोटिनिलया काङ्क्षितार्थदा ॥ कामेश्वराहादकरी । आह्लादः तृप्तिजन्यसुखं परमेश्वरस्य २७० ललितात्रिशतीभाष्यम् । नित्यतृप्तत्वरूपा शक्तिः, परदेवतात्मकतया तं करोतीति तथा ॥ ॐ कामेश्वराहादकर्यै नमः ॥ कामेश्वरमहेश्वरी । महती च सा ईश्वरी निरुपाधिकैश्व- र्यवती, 'महाप्रभुर्वै पुरुष:' इति श्रुतेः । कामेश्वरस्य मह- दैश्वर्यम् अस्याः अस्तीति तथा ; भगवतीत्यर्थः । ' ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा' ' तमीश्वराणां परमं महेश्वरम्' इति श्रुतेः ॥ ॐ कामेश्वरमहेश्वर्यै नमः ॥ कामेश्वरी । मन्मथोपासितकादिविद्यारूपेत्यर्थः ॥ ॐ कामेश्वर्यै नमः ॥ कामकोटिनिलया । षण्णवतिपीठेषु मध्ये कामकोटि : श्रीचक्रमित्यर्थः । निलयं गृहं यस्याः सा तथा ॥ का- मकोटिनिलयायै नमः ॥ काङ्क्षितार्थदा । काङ्क्षितान् काङ्क्षाविषयीभूतान्; प्राप्तस- जातीयेच्छा काङ्क्षा; तद्गोचरान् पदार्थान् ददातीति तथा काङ्क्षिता सती उपास्यदेवता मे प्रसन्ना भूयादितीच्छया चिरकालोपासिता सती पुरुषार्थान् अप्रार्थयमानस्यापि स्वयमेव ददातीत्यर्थः ॥ ॐ काङ्क्षित्तार्थदायै नमः ॥ ललितात्रिशतीभाष्यम् । लकारिणी लब्धरूपा लब्धधीर्लब्धवाञ्छिता । लब्धपापमनोदूरा लब्धाहंकारदुर्गमा ॥ लकारिणी तृतीयखण्डतृतीयवर्णत्वेन वाचकतया अस्या अस्तीति सा तथा ॥ ॐ ऌकारिण्यै नमः ॥ लब्धरूपा । रूप्यते ज्ञाप्यते एभिरिति रूपाणि लक्षणा- नि स्वरूपतटस्थभेदेन सगुणनिर्गुणपराणि, लब्धानि यया सा तथा । रूप्यते ज्ञाप्यत इति रूपम् अर्थः, उपलक्षणं नाम्नो- ऽपि, लब्धे नामरूपे यया सा तथा । आदौ स्वयं मायोपा- धिना शब्दार्थभावमापद्य पश्चात् व्याकरणमकरोदिति भा- वः ॥ ॐ लब्धरूपायै नमः ॥ लब्धधीः । निश्चयात्मिकाः सविकल्पनामकाः अन्त:कर- णवृत्तयो धियः, ता उपाधित्वेन प्रतिबिम्बाधिष्ठानत्वेन लब्धा यया सा तथा । वृत्त्यारूढं चैतन्यं ज्ञानमिति वा, चैतन्य- व्याप्ता वृत्तिर्वेति वेदान्तसिद्धान्तः । जडानां विषयाणां ग्रहणे तादृशीनां वृत्तीनां असामर्थ्ये जगदान्ध्यप्रसङ्गेन स्वरूपचै- तन्यमन्तःकरणाद्युपहितं फलचैतन्यतया प्रकाशयति । तथा च 'ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरिष्यते ' इति न्यायेन लब्धा धीः तत्त्वमस्यादिमहावाक्यश्रवणजन्यवृत्तिव्याप्तिर्यया ललितात्रिशतीभाष्यम् । सेत्यर्थः । अथवा, धी- शब्देन सर्वज्ञत्वादिकमुच्यते ; तत् लब्धं ययेति वा, ' यः सर्वज्ञः सर्ववित्' इति श्रुतेः ॥ ॐ लब्धधिये नमः ॥ लब्धवाञ्छिता । वाञ्छाया विषयीभूतं वाञ्छितम् इष्टफ- लमित्यर्थः । लब्धं पूर्वमेव प्राप्तं तद्ययेति तथा । आप्तकामेति यावन् ॥ ॐ लब्धवाञ्छितायै नमः ॥ । । लब्धपापमनोदूरा । पापप्रधानानि च तानि मनांसि च पापमनांसि लब्धानि पापमनांसि यैस्ते सदा पापचिन्तका इत्यर्थः । तेषां दूरा अवेद्येत्यर्थः, 'अन्यत्र धर्मादन्यत्राध- मदन्यत्रास्मात्कृताकृतात्' इति श्रुतेः । ' तमेतं वेदानुवच- नेन ब्राह्मणा विविदिषन्ति ' इति श्रुत्या विहितानां तत्तद्वर्णा- श्रमधर्माणामीश्वरार्पणबुद्ध्या क्रियमाणानामात्मज्ञानसाधन- तया श्रूयमाणत्वात् तदन्येषां दुःखप्राप्तिसाधनत्वेन पापवा- सनाप्रधानत्वेन दुरधिगमेत्यर्थः ॥ ॐ लब्धपापमनोदू- राय नमः ॥ लब्धाहंकार दुर्गमा । अहंकारोऽभिमानः उपलक्षणं त- त्कार्याणामासुरसंपत्तिविशेषाणाम् । लब्धः अहंकार : राजस- तामसात्मकः यैस्ते दुःखेनाप्यधिकप्रयत्नेन क्रियमाणसाध- नकलापेन अधिगन्तुं ज्ञातुमशक्या । सत्त्वगुणाभावे देहे- ललितात्रिशतीभाष्यम् २७३. न्द्रियादौ सुखप्रकाशांव्याप्तौ मनः स्थैर्याभावेन रजसः प्रवर्त- कस्य विक्षेपकस्य तमसश्चावरणप्रधानस्य विवेकज्ञानप्रतिब- न्धकस्य निद्रालस्यादिसमुद्भवस्य कार्येण जामित्वादिरूपेण श्रेयोमार्गसाधनानुष्ठाने गुरुवेदयोः श्रद्धाक्षये बाह्यविषयसं- पादनव्यग्रे मनसि लाभालाभहेतुकहर्षशोकजन्यरागद्वेषपर- तन्त्रे अनात्मज्ञासुरसंपत्तिमतां चित्ते न भातीत्याशयः । प्रत्युत जननमरणप्रवाहरूप संसारमेवानुभवन्ति, 'तानहं द्विषतः क्रूरान्' इति भगवद्वचनात् । अतो निरभिमानपुरु- पेण स्वाभीष्टलाभाय चित्ते सदा चिन्तनीयेत्यर्थः 1 ' यतयः शुद्धसत्त्वाः' इत्यादिप्रमाणेभ्य इति द्रष्टव्यम् ॥ ॐ लब्धा- इंकारदुर्गमायै नमः ॥ लब्धशक्तिर्लब्धदेहा लब्धैश्वर्यसमुन्नतिः । लब्धवृद्धिर्लब्धलीला लब्धयौवनशालिनी ॥ लब्धशक्तिः । लब्धा शक्तिः सकलसामर्थ्यहेतुभूता मा- यात्मिका यया सा तथा, 'ते ध्यानयोगानुगता अपश्यन् देवात्मशक्ति स्वगुणैर्निगूढाम्' इति श्रुतेः ॥ ॐ लब्धश- क्त्यै नमः ॥ लब्धदेहाः । लब्धः देह: विग्रहः यया सा तथा । स्वे- S. U. VII. 18 ललितात्रिशतीभाष्यम् । च्छावलम्बितमूर्तिः घृतकाठिन्यन्यायेन जीवत्वाभावेन कर्मा- धीनत्वाभावात् । तथा च सति अध्यस्तमायाशक्तेः भेदक- स्वस्वाभाव्येन 'पतिश्च पत्नी चाभवताम्' इति श्रुत्या च दंपतिमूर्तिमती बभूवेत्यभिप्रायः । ॐ लब्धदेहायै नमः ॥ लब्धैश्वर्यसमुन्नति: । ऐश्वर्याणां समुन्नति: आधिक्यं प- र्यवसानमित्यर्थः ; लब्धा ऐश्वर्यसमुन्नतिः यया सा तथा, ' तमीश्वराणां परमं महेश्वरम्' इति श्रुतेः, 'नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप इति स्मृतेश्च । 'सर्वे- श्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य' इति श्रुतौ निरुपाधिकमहदैश्वर्यसंपत्तेः तदुपासकानामगस्त्यादि- महर्षीणां दर्शनात् तदीयमहदैश्वर्यस्य निरवधिकत्वमिति किमु वक्तव्यमिति ज्ञायते इत्यभिप्राय: ॥ ॐ लब्धैश्वर्य- सम्मुन्नत्यै नमः ॥ लब्धवृद्धिः । वृद्धिर्नाम व्याप्तिः परिपूर्णतेत्यर्थः ; अव- यवोपचयात्मका न, तस्याः कर्मजन्यत्वेन विनाशहेतुत्वात् ; 'स वा एष महानज आत्मा न वर्धते कर्मणा' इति श्रुतिवचनात्; 'निष्क्रियं निष्कलम्' इति अवयवमावनि- बेधाच्च ; तथा च लब्धा वृद्धिः सर्वव्यापकता स्वस्वरूपैव सती उपाधिभिर्जन्यैस्तदाश्रयभूतैः अभिव्यज्यते । न ललितात्रिशतीभाष्यम् । त्वविद्यमानारोपिता इति निष्कर्षार्थः ॥ ॐ लब्धवृद्धयै नमः ॥ लब्धलीला । लीला: अन्यप्रयोजनार्थव्यापाराः स्वहर्ष- मात्रहेतुका वा तत्तत्कालोचित शृङ्गारादिनवरसाङ्गीकारसमये तदुचितभङ्गीविशेषा वा लब्धा यया सा तथा ॥ ॐ लब्ध- लीलायै नमः ॥ लब्धयौवनशालिनी । अस्तित्वजननवर्धनभावविकारा- वस्था बाल्यम्; परिणाम: अपक्षयो नाश: उत्तरावस्था जरा, देहाभावेन तदुभयनिषेधे अर्थाद्यौवनम् यौति गच्छतीति युवा दृढबलवीर्यः, तस्य भावः यौवनं तदुभ- यवयोऽवस्थाराहित्येनैकस्वरूपता ; तल्लब्धं प्राप्तं यौवनं यया सा तथा ; ' अजरोऽमृतोऽभयो ब्रह्म' इति श्रुतेः सर्वदा एकप्रकारस्वरूपवतीति भावः ॥ ॐ लब्धयौवनशालिन्यै नमः ॥ लब्धातिशय सर्वाङ्गसौन्दर्या लब्धविभ्रमा । लब्धरागा लब्धपतिर्लब्धनानागमस्थितिः ॥ लब्धातिशयसर्वाङ्गसौन्दर्या । सुन्दरो रुचिरः तस्य भाव: सौन्दर्यम्, अवयवानां सर्वेषां सौन्दर्यमतिशायि सर्वाङ्गेषु सर्वावयवेषु लब्धं यया सा तथा; यथाशास्त्रोक्ता- ललितात्रिशतीभाष्यम् ।. वयवविन्यासविशेषत्वेन सर्वमनोहरमूर्तिवतीत्यर्थ: : ; ; "न तस्य प्रतिमास्ति' इति श्रुतेः ॥ ॐ लब्धातिशयसर्वाङ्गसौ- न्दर्यायै नमः ॥ लब्धविभ्रमा । विभ्रमो बालक्रीडा लब्धा यया सा तथा; सर्वात्मकतया सर्वकर्तृत्वादिति भावः ॥ ॐ लब्ध- विभ्रमायै नमः ॥ लब्धरागा । लब्धः सजातीयो रागः कामः, 'सोऽका- मयत' इति श्रुत्या जगत्सर्जनस्य कामनापूर्वकत्वप्रतिपाद- लब्धो रागो यया सा तथा इत्यर्थः ॥ ॐ लब्धरा- गायै नमः ॥ नात् ; 'लब्धपतिः । लब्धः स्वेच्छयैव स्वयंवरे पतिः कामेश्वरो यया सा तथा ॥ ॐ लब्धपतये नमः ॥ लब्धनानागमस्थितिः । आ समन्तात् नानाप्रकारैः कर्मों- पासनाज्ञानकाण्डतदङ्गत्वादिभिः गमयन्ति स्वार्थान् प्रका- शयन्तीत्यागमा: वेदा: नाना अनेकशाखाप्रभिन्न सामादयः तेषां स्थिति: परिपालनं लब्धा यया सा तथा । नानां- गमस्थितिः वेदचतुष्टयोक्तमर्यादा काण्डत्रयविषया लब्धा यया सेति वा । संसारस्यानादित्वेन निरपेक्षप्रमाणभूतान: वेदान्' सर्वे वेदा यतैकं भवन्ति' इति श्रुतेः स्वस्वरूपभूतानः ललितात्रिशतीभाष्यम् । महाप्रलये संरक्ष्य सर्गादौ जायमानहिरण्यगर्भस्यान्यूनानति- रेकेण तानेव प्रतिभासयति स्वयं दंपती भूत्वा तदुक्तधर्मा- ननुष्ठाय परेषामप्यनुष्ठापयतीति च । 'वेदशास्त्रे ममैवाज्ञे वर्त एव च कर्मणि । यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रि- तः । उत्सीदेयुरिमे लोका न कुर्या कर्म चेदहम्' इत्यादि- भगवद्वचनादिति द्रष्टव्यम् ॥ ॐ लब्धनानागमस्थित्यै नमः ॥ लब्धभोगा लब्धसुखा लब्धहर्षाभिपूजिता । ह्रींकारमूर्तिकार सौधशृङ्गकपोतिका ॥ ५४ ॥ लब्धभोगा । भोगः सुखमात्रानुभवः दुःखानुभवे उच्य - माने जीवाविशेषप्रसङ्गात् । लब्धः भोगः यया सा तथा । 'जीववत् क्रमिकस्वेष्टपदार्थानुभवानन्तरकालीनं सुखं न भव- ति, स्वस्या आनन्दरूपत्वेन सिद्धस्वरूपत्वात् साधनभूत- भोगोऽप्येतद्विषये सिद्ध इत्युपचर्यते इति लब्धभोगेत्युं- च्यते ॥ ॐ लब्धभोगायै नमः ॥ . लब्धसुखा । लब्धं सुखं अनुकूलवेदनीयं स्वस्वरूपभूतं सुखं तत्साधनं च धर्मः यया सा तथा !! खायै नमः ॥ ॐ लब्धसु- ललितात्रिशतीभाष्यम् । लब्धहर्षाभिपूरिता । लब्धः यो हर्षः तृप्तिनिमित्तकचि- तोल्लासविशेष: मुखप्रसादशरीर पुष्टयादिकार्योन्नेयः जगत्यां स्वाभीष्टपदार्थानुभवादिजन्य: संतोष इति प्रसिद्धः ; तेनाभि- पूरिता अभितः समन्तादन्यूनानतिरेकेणाविच्छिन्नरूपतया पूरिता भरिता । तद्विपरीतदुःखाद्यनुत्पादेन तन्मात्रसमाश्रया नित्यप्रसन्नमुखीत्यर्थः ॥ ॐ लब्धहर्षाभिपूरितायै नमः ॥ ह्रींकारमूर्तिः । वाच्यवाचकताभेदसंबन्धेन ड्रींकार : मूर्ति: विग्रहो यस्याः सा तथा ॥ ॐ ह्रींकारमूर्त्यै नमः ॥ ह्रींकारसौधष्टङ्गकपोतिका । सुधामयं सौधम्, सुधा- विकारः अट्टालिकेत्यर्थः ; तस्य शृङ्गं शिखरं चन्द्रशालादि- भिन्युपरिभागः ; निरुपाधिकविश्रान्तिजन्यसुखानुभवहेतु- ;; तया ह्रींकारस्य सौधोपमा ; तत्र हकारस्य श्वेतवर्णतया अट्टालिकसादृश्यम् ; रेफस्य लोहितरूपतया इष्टकादिकृता- घोभित्त्युप्रमा; इकारोपरि ईकारस्य शृङ्गोपमा, ऊर्ध्वगत्व- साम्यात् ; तदुपरितनबिन्दुः सर्वप्रकृतिभूतशब्दार्थात्मक- तया तदवयवत्वेन विचित्रस्वरूपोऽपि सूक्ष्मतया अपवरक- गतकपोतकान्तेव जागरूक: दृश्यत इति तदर्थत्वेन परदे - वतोपमानशब्देनाभिधीयत इति भावः ॥ ॐ ह्रींकारसौष- शृङ्गकपोतिकायै नमः ॥ ललितात्रिशतीभाष्यम् । ह्रींकारदुग्धाब्धिसुधा ह्रींकार कमलेन्दिरा । ह्रींकारमणिदीपार्चिहींकारतरुशारिका ॥ हूकारदुग्धाब्धिसुधा । दोहान्निष्पन्नं दुग्धम् । स्तनग- तस्य पयसः स्वीयतापादनहस्तक्रियाविशेपो दोहः । उपल- क्षणं चोषणादीनाम्, तथा च प्रदीपालंकारः सिद्धः, अनन्तो- दकप्रसारितनिम्नभूप्रदेश: अब्धिरुच्यते । आपः धीयन्ते अस्मिन्निति तथा । तस्मिन् संजीवकत्वं धर्मः । डिम्भक- संजीवने स्तन्यादौ दर्शनात् । ह्रींकारस्यापि हकारयुक्ततया श्वेतवर्णत्वादमृतहेतोश्च तत्सादृश्यम् । तस्य सुधेव सुधा तदभिव्यक्तत्वाविशेषात्तत्सेवकानां नित्यत्वे सति बहुविधम- हिमशालितया दर्शनादिति भावः ॥ ॐ ह्रींकारदुग्धाब्धि- सुधायै नमः ॥ ह्रींकार कमलेन्दिरा । ह्रींकारबीजस्य विचित्रवर्णतया पर- मप्रीतिविषयतया च कमलोपमा । तस्य वाच्यार्थतया तदु- परितनत्वेन सर्वपुरुषार्थ प्रदातृत्वाच्च कमलशब्देनाभिधीयते । तस्या: पद्मालयत्वात् ह्रींकारकमलस्य इन्दिरा तदधीनब्रह्म- विद्येत्यर्थः ॥ ॐ ह्रींकारकमलेन्दिरायै नमः ॥ ड्रींकारमणिदीपार्चि: । आधिदैविकाद्युपद्रवानभिभूतत्वे ललितात्रिशतीभाष्यम् । सति चिरकालावस्थायित्वं मणिदीपसादृश्यम् ह्रींकारस्य । तस्य प्रकाश: अनितरसाधारणमहातिशयवत्त्वेन अनर्घत्व- मावेदयति । तदुपासकस्य निरवधिक महत्त्वापादकहींकार- वाच्यतया तत्प्रकाशकेत्यर्थः । तथा च निरन्तरतमो ऽपाकर- णेन स्वेष्टपदार्थापादनेन च सुखयतीति फलितोऽर्थः ॥ ॐ हीँकारमणिदीपार्चिषे नमः ॥ ह्रींकारतरुशारिका । तारयति फलार्थिन: स्वारूढान् पतनादेः रक्षतीति तरुः, तस्य शारिका पिङ्गतुण्डनेत्रचरणा शारिका अभ्यासातिशयेन मनुष्य भाषायामपि भाषते । 'भूतभविष्यद्वर्तमानलोकयात्रापरिज्ञात्री सती शुभाशुभफल- प्राप्तिं च स्वभाषया वदति । अस्य बीजस्य वाच्यार्थतया तत्संबन्धिनी सती वेदवाचा सर्व प्रकाशयतीत्यर्थः ॥ ॐ ह्रींकारतरुशारिकायै नमः ॥ ह्रींकारपेटकमणिहूकारादर्शविम्बिता । ह्रींकारकोशासिलता ह्रींकारास्थाननर्तकी ॥ कारपेटकमणिः । गूहनसाधनतया ह्रींकारः पेटकेन दृष्टान्तीक्रियते । तस्य मणिः वैडूर्यमित्यर्थः । यथा हीरा- दिमणिः पेटकादौ गोपितोऽपि स्वकान्त्या बाह्याभ्यन्तरं तस्य ललितात्रिशतीभाष्यम् । प्रकाशयन्नितरपेटकेभ्यः तं व्यावर्तयति, तथेदमपि वीजं स्ववाचकतयेतरवर्णेभ्यः निरतिशयमहिम्ना भेदयतीति भावः ॥ ॐ ह्रींकारपेटकमणये नमः ॥ ह्रींकारादर्शविम्बिता । अस्य बीजस्य इतरप्रमाणानपेक्ष- वेदान्तर्गततया निर्दोषत्वादादर्शसाम्यम् । तस्मिन् विम्बिता प्रतिबिम्बिता, मायाप्रतिविम्बचैतन्यस्यैव जगत्कारणतया सर्वत्र दर्पणे मुखमिव प्रतिफलतीति तात्पर्यार्थः ॥ ॐ ह्रींकारादर्शविम्वितायै नमः ॥ ह्रींकारकोशासिलता । ह्रींकार एव कोश: तस्यासिलता अतिदीर्घखड्गमित्यर्थः । सर्ववैर्यादिजन्यदुःखनिवर्तकत्वमसि - लताया इव परदेवताया अपि । तथात्वेन वहि: प्रकटनायो - ग्यतासादृश्येन आच्छादकापेक्षया ह्रींकारस्य वाचकशब्द- तया अर्थावारकत्वौपम्यादसिकोशतुल्यता । तथा च ह्रींकार- कोशे विद्यमाना असिलतेव दुःखनिवारकत्वे सति भक्ताभय- करीति भावः । सर्वेषामायुधविशेषाणाम् असिपदमुपलक्ष- णम् । 'महद्भयं वज्रमुद्यतम् ' ' भीषास्माद्वातः पवते' इत्या- दिश्रुतेः । ॐ ह्रींकारकोशासिलतायै नमः ॥ " ह्रींकारास्थाननर्तकी । ह्रींकार एव आस्थानं सभामण्डपः सर्वाश्रयत्वात् । तस्य नर्तकी नटनसंबन्धभूसंयोगचरणवि- ललितात्रिशतीभाष्यम् । न्यासोपलक्षिततालानुसारिहस्ताद्यङ्गचेष्टा नर्तनम्, तत्कर्त्री नर्तकी । ह्रींकारवाच्यार्थतया मायादिसंबन्धा संबन्धनिमित्त- कविचित्रतरकार्योत्पादनव्यापारानुकारविकार्यविकारिस्वरूप- वत्तया द्रष्टृलोकमनोवृत्तिभेदेन तीव्रमन्दमन्दतरप्रीतिरूपभ- क्तिविषयतयाभिव्यक्तानभिव्यक्तेष्टफलसाधनतया स्वकीयपु- व्यादितारतम्येन बुद्धिशुद्धिभेदात्प्रतिभातीत्यर्थः ॥ ॐ ह्रीं - कारास्थाननर्तक्यै नमः ॥ ह्रींकारशुक्तिकामुक्तामणिह्रींकारबोधिता । हाँकारमय सौवर्णस्तम्भविद्रुमपुत्रिका ॥ ह्रींकारशुक्तिकामुक्तामणि: । ह्रींकार एव शुक्तिका नील- पृष्ठत्रिकोणाकारा, तस्या: मुक्तिकेव मुक्ताफलमिवाभिव्यज्य- माना — यथा स्वाती महानक्षत्रे सर्वदेशेषु मेघसंघात्पतज्जल- बिन्दुः शुक्तिकान्तः पतितः समुद्रदेशविशेषे मुक्ताकारेण परिणमते, तथा सत्त्वरजस्तमो गुणात्मकहीं बीजावच्छेदेन म- नोहरवाचामगोचरसुन्दरतर परदेवतामूर्त्या सर्वगतमपि चै- तन्यं विशिष्याभिव्यज्यते । तथा च मौक्तिकार्थिनां शुक्त्यु- पादानवत् परदेवतासाक्षात्कारेप्सूनां ह्रींकारोपादानमाव- श्यकमिति भावः ॥ ॐ ह्रींकारशुक्तिकामुक्तामणये नमः ॥ ललितात्रिशतीभाष्यम् । ह्रींकारबोधिता । सिद्धे पदार्थे इन्द्रियादिसंबन्धे सति स्वत एव ज्ञानोत्पत्तिदर्शनान्न ज्ञाने विधिरपेक्षितः, क्रियाफ- लत्वाभावात् । तर्हि नित्यापरोक्षधर्मादिज्ञानवत् शुद्धब्रह्मा- भेदः वेदैकदेशह्रींकारेणैव बोध्यते, अज्ञातज्ञापकत्वेन वेदस्य स्वतः प्रामाण्याभ्युपगमात्, परचैतन्यस्य च ज्ञायमानस्य परमानन्दरूपतया पुरुषार्थरूपत्वात् । अतः ह्रींकारेणैव मू- लमन्त्रात्मना बोधिता ज्ञापिता । हकाररेफेकाराणां व्यस्तत्व- दशायां भिन्नभिन्नार्थकानां मेलने ह्रींकारात्मना परिणामे सच्चिदानन्दस्वरूपश्रीतिपुरसुन्दर्याः तदर्थत्वेन अद्वैतस्वरूप- तया प्रतिभानात् । 'नान्योऽतोऽस्ति द्रष्टा' ' इदं सर्व 96 यदयमात्मा एक एव तु भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्' इत्यादिश्रुतेः । आत्मा वा अरे दृष्टव्यः ' तद्विजिज्ञासस्व' 'आत्मानं पश्येत्' इत्यादिलिङ्लोट्तव्य प्रत्ययानामर्द्दतार्थकतया न वि- धित्वमिति सिद्धान्तः ॥ ॐ ह्रींकारबोधितायै नमः ॥ ह्रींकारमयसौवर्णस्तम्भविद्रुमपुत्रिका । पिङ्गलपृथ्वीरेणुः सुवर्णमित्युच्यते । अनुच्छिद्यमान द्रवत्वस्य नैमित्तिकत्वेऽपि तैजसान्तरे प्रदीपप्रभादावदर्शनात् । पदार्थान्तरसंयोगे रज- तादिवदतितेजः संयोगात् भस्मभावापत्तेश्च हीरमणौ लोहले- ललितात्रिशतीभाष्यम् । ख्यत्वाभाववत्त्वेऽपि पार्थिवत्ववदत्र पार्थिवत्वे बाधाभावात् । द्रवत्वस्योदुकस्वभावत्वेन तत्कार्यपृथिव्यामपि उपलम्भोपप- त्तेश्च । तद्विकारः, सौवर्णश्चासौ स्तम्भश्च । सौवर्णस्तम्भस्य नवरत्नमण्डपभारवाहित्वे सति तदभिन्नत्वेन तदलंकारभूतत्व- स्येव साधर्म्यस्य ह्रींकारेऽपि जगदाश्रयत्वे सति तत्कारणत्वे सति तदन्तर्भूतत्वे सति परमानन्दजनकत्वस्य सत्त्वेन ह्रींका- रमय इत्यभेदोपचारः प्रदीपालंकारद्योतनार्थ इति ज्ञातव्यम् । ह्रींकारे उपमेये मयशब्देनोपमानाभेदकल्पनात् । तस्मिन्त्रि- चित्रपिङ्गप्रधानरूपे तत्संबन्धितया विद्रुमपुत्रिकेव प्रतीय- माना विद्रुमेन प्रवालेन कृता पुत्रिका सालभञ्जिका । सौव- र्णस्तम्भशब्दः उपलक्षणं भित्त्यादीनाम, प्रायस्त्वदर्शनात् तदु- पादानं स्वतः मनोज्ञस्य स्तम्भस्यातिशयदर्शनीयतायै । दुर्ल- भतरप्रवालपुत्रिका स्तम्भमण्टपं तत्स्वामिनं तद्देशं च प्रकृ- ष्टीकरोति तथा श्रीपरदेवतापि रूढ्यैतद्बीजार्थतया तदव- च्छिन्ना सती तदादीन् सर्वान् भूषयति सफलीकरोतीत्यर्थः ॥ ॐ ह्रींकारमयसौवर्णस्तम्भविद्रुमपुत्रिकायै नमः ॥ ह्रींकारवेदोपनिषद्धींकाराध्वरदक्षिणा । ह्रींकारनन्दनारामनवकल्पकवल्लरी ॥ ८७ ॥ ललितात्रिशतीभाष्यम् । ह्रींकारवेदोपनिषत् । वेद्यन्ते ज्ञायन्ते सर्वे पदार्था अनेनेति वेद: । जात्येकवचनम् । ह्रींकार एव वेद: । ज्ञापकत्वाविशेषात् । तस्य उपनिषद्वेदान्तभाग: लक्ष्यार्थो वा, तत् ब्रह्मोपनिषत्परमिति श्रुतेः । कर्मोपासनाज्ञानका- ण्डभेदेन चत्वारोऽपि वेदा: विप्रकारा: । ' तमेतं वेदानुव- चनेन ब्राह्मणा विविदिषन्ति' इति वाक्येन ज्ञानसाधनतया कर्मोपासनयो: विनियुक्तत्वात्, 'अन्धंतमः प्रविशन्ति ये- ऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रता:' इति श्रुत्या तदुभयोः संसारफलकत्वेन निन्दितत्वाच्च, 'आत्मानं चेद्विजानीयादयमस्मीति पुरुषः । किमिच्छन् क- स्य कामाय शरीरमनुसंज्वरेत्' ' आत्मकाम आप्तकाम : ' इत्यादिश्रुतिभ्यः अद्वैतज्ञानोत्पादक वेद भागस्योपनिषच्छब्द- वाच्यस्य मोक्षफलकत्वेन फलप्रतिपादनात्तदुभयप्रतिपादक- वेदभागापेक्षया श्रेष्ठत्वम्, लोके साधनापेक्षया फलस्य श्रेष्ठत्वे- नोत्तमत्वप्रसिद्धेः । तथा च पूर्वकाण्डद्वयार्थस्य जन्यतया तत्प्रतिपादकवेदभागस्योपनिषच्छेषत्ववत् ड्रींकारस्यापि पर- देवताप्रकाशकत्वेन तच्छेषत्वात्तस्याः प्राधान्यमुक्तमिति द्रष्ट- व्यम् । वेदान्तेषूपनिषच्छब्दः तज्जन्यतारूपशक्यसंबन्धेन प्र.. वर्तते । मुख्यया वृत्त्या तु ब्रह्मविद्यायामेव । तथा हि-उप- ललितात्रिशतीभाष्यम् । शब्दः समीपदेशार्थकः । ब्रह्मण्यध्यस्तमायासमीपदेशकः तत्पदार्थप्रतिबिम्बितमविद्योपाधिकचैतन्यं जीवशब्दवाच्यमुप- शब्दार्थः : लक्षणया प्रतिपाद्यते । नि-शब्दः षद् इति पदस्य विशेषणम् । सत् इति पदं सदनगत्यवसादनेषु भवति । तथा च उपशब्दवाच्यो जीवः अविद्यां निहत्य त्यक्त्वा ब्रह्मस्वरूपेण निषीदति वर्तत इति उपनिषदित्येकोऽर्थः । जीवः ब्रह्म स्वरूपत्वेन निगच्छति जानातीत्यन्योऽर्थः । जी- वः ब्रह्मस्वरूपेण अवसीदति परिसमाप्नोतीति तृतीयोऽर्थः । एवमुपनिषच्छब्दस्य ब्रह्मविद्यावाचकत्वेन प्रसिद्धस्य तद्वाच- कवेदभागे लक्षणवत्त्वेऽप्युपनिषच्छब्दवाच्यो भवति । तथा च ह्रींकार एव वेद: तस्य उपनिषत्प्रधानभूता ब्रह्मविद्ये- त्यर्थः । ॐ ह्रींकारवेदोपनिषदे नमः ॥ ह्रींकाराध्वरदक्षिणा । ह्रींकार एव अध्वरः यज्ञ: तस्य दक्षिणा समाप्तिसाधनम्, दक्षिणायां दत्तायां यज्ञसमाप्ति- दर्शनात् । ह्रींकारस्यापि जप: यजनात्मकतया अध्वानं राति गच्छतीत्यध्वरः मार्गसाधक इत्यर्थः । दक्षिणापदं फलवाचि ऋत्विग्व्यापाराणां दक्षिणाफलत्वदर्शनात् । ह्रीं- काराध्वरस्य ह्रीँकारजपयज्ञस्य दक्षिणा फलसाधनीभूतपुरु- षार्थरूपा । अथवा ह्रींकाराध्वरस्य दक्षिणा पत्नी, 'मखस्य ललितात्रिशतीभाष्यम् । पतित्वसर्वदेवोत्तमत्व सकल सुन्दरतमत्वगुणा इव विष्णोः ह्रीं- कारार्णवविद्योतमानहींकारदेवतोपासकस्यापि नारायणाभेदेन श्रीकान्तत्वादिधर्माः स्वत एव सिध्यन्तीति कौस्तुभपदेन ध्व- नितमिति द्रष्टव्यम् ॥ ॐ ह्रींकारार्णवकौस्तुभायै नमः ॥ ह्रींकारमन्त्रसर्वस्वा । सर्वाणि च तानि स्वानि च धना- नि अणिमाद्यष्टैश्वर्यजनकत्वादीनि तानि तथा । ह्रींकारघटि- तो ह्रींकारो वा तेषां सर्वस्वा सकलसंपत् सर्वार्थसाधकश- क्तिरित्यर्थः ॥ ॐ ह्रींकारमन्त्रसर्वस्वायै नमः ॥ ह्रींकारपरसौख्यदा । ह्रींकारपरा : ह्रींकारमन्त्रजपपराः ह्रींकारघटितश्रीविद्याजपपरा वा । तेषां सौख्यं चतुर्विधपुरु- षार्थप्राप्तिजन्यानन्दः तद्ददातीति तथा । ह्रींकाराणां व्यष्टि- रूपेण वाच्यार्थनां त्रिमूर्तीनां परं सौख्यं सामरस्यसुखं एकी- भावानन्दं ददातीति वार्थः । 'यत्र नान्यत्पश्यति नान्य- च्छृणोति नान्यद्विजानाति स भूमा । यत्रान्यत्पश्यत्यन्य- च्छृणोत्यन्यद्विजानाति तदल्पम् ' ' नाल्पे सुखमस्ति ' इति, 'आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन' इति 'यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्ये ऽनिरुक्तेऽनिलयने ऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति', 'विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्' इत्यादिबहुश्रुतिभ्यः अखण्डसच्चिदा- S. U. VII. 19 ललितात्रिशतीभाष्यम् । नन्दब्रह्मस्वरूपतया सैव फलं भवति, अन्यज्ञानादन्यफल- प्राप्तेरयोगात् । ब्रह्म वेद ब्रह्मैव भवति' ' तरति शोकमा - त्मवित्', 'येन मामुपयान्ति ते । तेषामहं समुद्धर्ता मृत्यु- संसारसागरात् ' ' ब्रह्मैव सन् ब्रह्माप्येति' इत्यादिश्रुतिस्मृ- तिशतेभ्यः स्वस्वरूपप्राप्तेरेव पुरुषार्थस्य प्रदातृत्वं सिद्धम् ॥ ॐ ह्रींकारपरसौख्यदायै नमः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव- त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीललितात्रिशतीभाष्यम् संपूर्णम् ॥ इत्येवं ते मयाख्यातं देव्या नामशतत्रयम् । रहस्यातिरहस्यत्वाद्गोपनीयं त्वया मुने ॥ शिववर्णानि नामानि श्रीदेव्या कथितानि हि । शक्त्यक्षराणि नामानि कामेशकथितानि च ॥ उभयाक्षरनामानि ह्युभाभ्यां कथितानि वै । तदन्यैर्ग्रथितं स्तोत्रमेतस्य सदृशं किमु ॥ ३ ॥ नानेन सदृशं स्तोत्रं श्रीदेवीप्रीतिदायकम् । लोकत्रयेऽपि कल्याणं संभवेन्नात्र संशयः ॥ ललितात्रिशतीभाष्यम् । इति हयमुखगीतं स्तोत्रराजं निशम्य प्रगलितकलुषोऽभूच्चित्तपर्याप्तिमेत्य । निजगुरुमथ नत्वा कुम्भजन्मा तदुक्तं पुनरधिकरहस्यं ज्ञातुमेवं जगाद ॥ ५ ॥ अगस्त्य उवाच - अश्वानन महाभाग रहस्यमपि मे वद । शिववर्णानि कान्यत्र शक्तिवर्णानि कानि हि ॥ उभयोरपि वर्णानि कानि वा वद देशिक । इति पृष्टः कुम्भजेन हयग्रीवोऽवदत्पुनः ॥ ७ ॥ तव गोष्यं किमस्तीह साक्षादम्बानुशासनात् । इदं त्वतिरहस्यं ते वक्ष्यामि शृणु कुम्भज ॥ एतद्विज्ञानमात्रेण श्रीविद्या सिद्धिदा भवेत् । कलयं हृदयं चैव शैवो भागः प्रकीर्तितः ॥ ९ ॥ शक्त्यक्षराणि शेषाणि हींकार उभयात्मकः । एवं विभागमज्ञात्वा ये विद्याजपशालिनः ॥ ललितात्रिशतीभाष्यम् । न तेषां सिद्धिदा विद्या कल्पकोटिशतैरपि । चतुर्भिः शिवचक्रैश्च शक्तिचत्रैश्च पञ्चभिः ॥ नवचक्रैश्च संसिद्धं श्रीचक्रं शिवयोर्वपुः । त्रिकोणमष्टकोणं च दशकोणद्वयं तथा ॥ १२ ॥ चतुर्दशारं चैतानि शक्तिचक्राणि पञ्च च । बिन्दुश्चाष्टदलं पद्मं पद्मं षोडशपत्त्रकम् ॥ १३ ॥ चतुरश्रं च चत्वारि शिवचक्राण्यनुक्रमात् । त्रिकोणे बैन्दवं श्लिष्टं अष्टारेष्टदलाम्बुजम् ॥ दशारयोः षोडशारं भूगृहं भुवनाश्रके । शैवानामपि शाक्तानां चक्राणां च परस्परम् ॥ अविनाभावसंबन्धं यो जानाति स चक्रवित् । त्रिकोणरूपिणी शक्तिर्बिन्दुरूपपरः शिवः ॥ अविनाभावसंबन्धं तस्माद्विन्दुत्रिकोणयोः । एवं विभागमज्ञात्वा श्रीचक्रं यः समर्चयेत् ॥ ललितात्रिशतीभाष्यम् । न तत्फलमवाप्नोति ललिताम्बा न तुष्यति । ये च जानन्ति लोकेऽस्मिन्श्रीविद्याचक्रवेदिनः ॥ सामान्यवेदिनः सर्वे विशेषज्ञोऽतिदुर्लभः । स्वयंविद्याविशेषज्ञो विशेषज्ञं समर्चयेत् ॥ १९॥ तस्मै देयं ततो ग्राह्यमशक्तस्तस्य दापयेत् । अन्धंनमः प्रविशन्ति येऽविद्यां ममुपासते ॥ इति श्रुतिरपाहैतानविद्योपासकान्पुनः । विद्यान्योपासकानेव निन्दत्यारुणिकी श्रुतिः ॥ अश्रुता सश्रुतासश्च यज्वानो येऽप्ययज्वनः । स्वर्यन्तो नापेक्षन्ते इन्द्रमग्निं च ये विदुः ॥ सिकता इव संयन्ति रश्मिभिः समुदीरिताः । अस्माल्लोकादमुष्माच्चेत्याह चारण्यकश्रुतिः ॥ यस्य नो पश्चिमं जन्म यदि वा शंकरः स्वयम् । तेनैव लभ्यते विद्या श्रीमत्पश्चदशाक्षरी ॥ ललितात्रिशतीभाष्यम् । इति मन्त्रेषु बहुधा विद्याया महिमोच्यते । मोक्षैकहेतुविद्या तु श्रीविद्या नात्र संशयः ॥ न शिल्पादिज्ञानयुक्ते विद्रच्छन्दः प्रयुज्यते । मोक्षैकहेतुविद्या सा श्रीविद्यैव न संशयः ॥ तस्माद्विद्याविदेवात्र विद्वान्विद्वानितीर्यते । स्वयं विद्याविदे दद्यात्ख्यापयेत्तद्गुणान्सुधीः ॥ स्वयंविद्यारहस्यज्ञो विद्यामाहात्म्यवेद्यपि । विद्याविदं नार्चयेच्चेत्को वा तं पूजयेज्जनः ॥२८॥ प्रसङ्गादिदमुक्तं ते प्रकृतं शृणु कुम्भज । यः कीर्तयेत्सकृद्भक्त्या दिव्यनामशतत्रयम् ॥ तस्य पुण्यमहं वक्ष्ये शृणु त्वं कुम्भसंभव । रहस्यनामसाहस्रपाठे यत्फलमीरितम् ॥ ३० ॥ तत्फलं कोटिगुणितमेकनामजपाद्भवेत् । कामेश्वरीकामेशाभ्यां कृतं नामशतत्रयम् ॥ ललितात्रिशतीभाष्यम् । नान्येन तुलयेदेतत्स्तोत्रेणान्यकृतेन च । श्रियः परम्परा यस्य भावि वा चोत्तरोत्तरम् ॥ तेनैव लभ्यते चैतत्पश्चाच्छ्रेयः परीक्षयेत् । अस्या नाम्नां त्रिशत्यास्तु महिमा केन वर्ण्यते ॥ या स्वयं शिवयोर्वक्रपद्माभ्यां परिनिःसृता । नित्यं षोडशसंख्याकान्विप्रानादौ तु भोजयेत् ॥ अभ्यक्तांस्तिलतैलेन स्नातानुष्णेन वारिणा । अभ्यर्च्य गन्धपुष्पाद्यैः कामेश्वर्यादिनामभिः ॥ सूपापूपैः शर्कराद्यैः पायसैः फलसंयुतैः । विद्याविदो विशेषेण भोजयेत्षोडश द्विजान् ॥ एवं नित्यार्चनं कुर्यादादौ ब्राह्मणभोजनम् । त्रिशतीनामभिः पश्चाद्राह्मणान्क्रमशोऽर्चयेत् ॥ तैलाभ्यङ्गादिकं दत्वा विभवे सति भक्तितः । शुक्लप्रतिपदारभ्य पौर्णमास्यवधि क्रमात् ॥ ललितात्रिशतीभाष्यम् । दिवसे दिवसे विप्रा भोज्या विंशतिसंख्यया । दशभिः पञ्चभिर्वापि त्रिभिरेकेन वा दिनैः ॥ त्रिंशत्षष्टिः शतंविप्राः संभोज्यास्त्रिशतं क्रमात् एवं यः कुरुते भक्त्या जन्ममध्ये सकृन्नरः ॥ तस्यैव सफलं जन्म मुक्तिस्तस्य करे स्थिरा । रहस्यनामसाहस्रभोजनेऽप्येवमेव हि ॥ ४१ ॥ आदौ नित्यबलिं कुर्यात्पश्चाद्राह्मणभोजनम् । रहस्यनामसाहस्रमहिमा यो मयोदितः ॥ ४२ ॥ सशीकराणुरत्रैकनाम्नो महिमवारिधेः । वाग्देवीरचिते नामसाहस्रे यद्यदीरितम् ॥४३॥ तत्फलं कोटिगुणितं नाम्नोऽप्येकस्य कीर्तनात् । एतदन्यैर्जपैः स्तोत्रैरर्चनैर्यत्फलं भवेत् ॥ ४४ ॥ तत्फलं कोटिगुणितं भवेन्नामशतत्रयात् । वाग्देवीरचितास्तोत्रे तादृशो महिमा यदि ॥ ललितात्रिशतीभाष्यम् । साक्षात्कामेशका मेशीकृतेऽस्मिन्गृह्यतामिति । सकृत्संकीर्तनादेव नाम्नामस्मिन्शतत्रये ॥४६॥ भवेच्चित्तस्य पर्याप्तिर्न्यनमन्यानपेक्षिणी । न ज्ञातव्यमितोऽप्यन्यन्न जप्तव्यं च कुम्भज ॥ यद्यत्साध्यतमं कार्य तत्तदर्थमिदं जपेत् । तत्तत्फलमवाप्नोति पश्चात्कार्य परीक्षयेत् ॥ ये ये प्रयोगास्तन्त्रेषु तैस्तैर्यत्साध्यते फलम् । तत्सर्व सिध्यति क्षिप्रं नामविशतकीर्तनात् ॥ आयुष्करं पुष्टिकरं पुत्रदं वश्यकारकम् । विद्याप्रदं कीर्तिकरं सुकवित्वप्रदायकम् ॥५०॥ सर्वसंपत्प्रदं सर्वभोगदं सर्वसौख्यदम् । सर्वाभीष्टप्रदं चैव देव्या नामशतत्रयम् ॥५१॥ एतज्जपपरो भूयान्नान्यदिच्छेत्कदाचन । एतत्कीर्तनसंतुष्टा श्रीदेवी ललिताम्बिका ॥ ललितात्रिशतीभाष्यम् । भक्तस्य यद्यदिष्टं खात्तत्तत्पूरयते ध्रुवम् । तस्मात्कुम्भोद्भव भुने कीर्तय त्वमिदं सदा ॥ नापरं किंचिदपि ते बोद्धव्यं नावशिष्यते । इति ते कथितं स्तोत्रं ललिताप्रीतिदायकम् ॥ नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन । न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ॥ यो ब्रूयात्रिशतीं नाम्नां तस्यानर्थो महान्भवेत् । इत्याज्ञा शांकरी प्रोक्ता तस्माद्गोप्यमिदं त्वया ॥ ललिताप्रेरितेनैव मयोक्तं स्तोत्रमुत्तमम् । रहस्यनामसाहस्रादपि गोप्यमिदं मुने ॥ ५७ ॥ एवमुक्त्वा हयग्रीवः कुम्भजं तापसोत्तमम् । स्तोत्रेणानेन ललितां स्तुत्वा त्रिपुरसुन्दरीम् ॥ आनन्दलहरीमग्नमानसः समवर्तत ॥ ५९ ॥ इति श्रीललितात्रिशतीस्तोत्रं संपूर्णम् ॥ ललितात्रिशती नामानुक्रमणिका 11 eft: !! ॥ नामानुक्रमणिका ॥ पृष्ठम् पृष्ठम् ईकाररूपा १९१ ईश्वरवल्लभा १९५ ईक्षणसृष्टाण्डकोटिः १९५ ईश्वरार्धाङ्गशरीरा १९५ ईक्षित्री १९४ ईश्वरोत्संगनिलया १९७ ईडिता १९५ ईषत्स्मितानना १९८ ईतिबाधाविनाशिनी १९७ ईहाविरहिता १९८ गित्य विनिर्देश्या १९२ एकप्राभवशालिनी १९० ईप्सितार्थप्रदायिनी १९१ एकभक्तिमदर्चिता १८१ ईशताण्डवसाक्षिणी १९७ एकभोगा १८५ ईशशक्तिः १९८ एकरसा १८६ ईशाधिदेवता १९६ एकवीरादिसंसेव्या १८९ ईशानादिब्रह्ममयी १९३ एकाक्षरी १७५ ईशित्री १९१ एकाग्रचित्तनिर्ध्याता १८२ ईशित्वाद्यष्टसिद्धिदा १९३ एकातपत्रसाम्राज्यप्रदा १८७ ईश्वरत्वविधायिनी १९३ एकानन्दचिदाकृतिः १७९ ईश्वरप्रेरणकरी १९६ एकानेकाक्षराकृतिः १७७ ३०२ ललितात्रिशती- पृष्ठम् पृष्ठम् एकान्तपूजिता १८८ कपालिप्राणनायिका २२४ एकाररूपा १७५ कमनीया १६९ एकैश्वर्यप्रदायिनी १८६ कमलाक्षी १६९ एजदनेकजगदीश्वरी १८९ कम्बुकण्ठी २२६ एतत्तदित्यनिर्देश्या १७८ कम्रविग्रहा १७४ एधमानप्रभा १८८ करनिर्जितपल्लवा २२६ एनःकूटविनाशिनी १८५ करभोरुः २२३ एलासुगन्धिचिकुरा १८४ करुणामृतसागरा १७० एवमित्यागमाबोध्या १८० कर्पूरवीटीसौरभ्यकल्लोलि० १७२ एषणारहिताहता १८४ कर्मफलप्रदा १७५ कंजलोचना १७३ कर्मादिसाक्षिणी १७४ कंदर्पजनकापाङ्गवीक्षणा १७१ कलानाथमुखी २२३ कंदर्पविद्या १७१ कलावती १६९ ककाररूपा १६६ कलालापा २२६ ककारार्था २२० कलिदोषहरा १७३ ककारिणी २६४ कल्पवल्लीसमभुजा २२७ कचजिताम्बुदा २२३ कल्मषघ्नी १७० कटाक्षस्यन्दिकरुणा २२३ कल्याणगुणशालिनी १६७ कठिनस्तनमण्डला २२२ कल्याणशैलनिलया १६८ कदम्बकाननावासा १७१ कल्याणी १६७ कदम्बकुसुमप्रिया १७१ कल्या २२२ नामानुक्रमणिका । ३०३ पृष्ठम् पृष्ठम् कस्तूरी तिलकाञ्चिता २२८ कामेश्वरालिङ्गिताङ्गी २६७ काङ्क्षितार्थदा २७० कामेश्वराह्लादकरी २६९ कान्ता २२५ कामेश्वरी २७० कान्तिधूत जपावलिः २२६ कारयित्री १७४ कामकोटिनिलया २७० कारुण्यविग्रहा २२४ कामसंजीवनी २२२ कालहन्त्री २२१ कामितार्थदा २२१ काव्यलोला २६५ कामेशी २२१ लंपटा २४२ कामेशोत्संगवासिनी २६७ लकाररूपा १९८ कामेश्वरगृहेश्वरी २६९ लकाराख्या २३६ कामेश्वरतपः सिद्धिः २६८ लकारिणी २७१ कामेश्वरप्रणयिनी २६८ लकुलेश्वरी २४३ कामेश्वरप्राणनाडी २६५ लक्ष कोट्यण्डनायिका २०१ कामेश्वरप्राणनाथा २६८ लक्षणागम्या २०२ कामेश्वर ब्रह्मविद्या २६९ लक्षणोज्ज्वलदिव्याङ्गी २०० कामेश्वरमनोहरा २६५ लक्ष्मणाग्रजपूजिता २४० कामेश्वरमनःप्रिया २६८ लक्ष्मीवाणीनिषेविता १९८ कामेश्वर महेश्वरी २७० लक्ष्यार्था २०१ कामेश्वरविमोहिनी २६८ लग्नचामरहस्तश्रीशार ० २४१ कामेश्वरविलासिनी २६८ लघुसिद्धिदा २३९ कामेश्वरसुखप्रदा २६७ लङ्घयेतराज्ञा २३८ ३०४ ललितात्रिशती- पृष्ठम् पृष्ठम् लजाढ्या २०४ लब्धशक्तिः २७३ लज्जापदसमाराध्या २४२ लब्ध संपत्समुन्नतिः २४४ लतातनुः २०३ लब्धसुखा २७७ लतापूज्या २३६ लब्धहर्षाभिपूरिता २७८ लब्धकामा २०२ लब्धातिशय सर्वाङ्गसौन्दर्या २७५ लब्धदेहा २७३ लब्धाहंकारदुर्गमा २७२ लब्धधीः २७१ लब्धैश्वर्यसमुन्नतिः २७४ लब्धनानागमस्थिति: २७६ लभ्या २०४ लब्धपतिः २७६ लभ्येतरा २४० लब्धपापमनोदूरा २७२ लम्बिमुक्तालताञ्चिता २०३ लब्धभक्तिसुलभा २४० लम्बोदरप्रसूः २०४ लब्धभोगा २७७ लयवर्जिता २०४ लब्धमाना २४३ लयस्थित्युद्भवेश्वरी २३६ लब्धयौवनशालिनी २७५ ललनारूपा १९९ लब्धरसा २४४ ललन्तिकालसत्फाला २०० लब्धरागा २७६ ललाटनयनार्चिता २०० लब्धरूपा २७१ ललामराजदलिका २०३ लब्धलीला २७५ ललिता १९८ लब्धवाञ्छिता २७२ लसद्दाडिमपाटला १९९ लब्धविभ्रमा २७६ लाकिनी १९९ लब्धवृद्धिः २७४ लाक्षारससवर्णाभा २३९ नामानुक्रमणिका । ३०५ पृष्ठम् पृष्ठम् लाङ्गलायुधा २४१ समानाधिकवर्जिता २६२ लाभालाभविवर्जिता २३८ सर्वकल २१६ लावण्यशालिनी २३९ २१९ लास्यदर्शन संतुष्टा २३७ सर्वज्ञा २१५ संगीना २६३ सर्वप्रपञ्चनिर्मात्री २६२ सकला २५८ सर्वभर्ती २१६ सकलागमसंस्तुता २५६ सर्वभूषणभूषिता २२० सकलाधिष्ठानरूपा २६१ सर्वमङ्गला २१५ सकष्टदा २६३ सर्वमाता २१९ सकाररूपा २१५ सर्वविमोहिनी २१८ सकाराख्या २५५ सर्ववेदान्ततात्पर्यभूमिः २५७ सगुणा २६३ सर्वसाक्षिणी २१७ सच्चिदानन्दा २५८ सर्वसौख्यदात्री २१८ सत्यरूपा २६१ सर्वहन्त्री २१६ सदसदाश्रया २५७ सर्वाङ्गसुन्दरी २१७ सदाशिव कुटुम्बिनी २६० सर्वात्मिका २१७ सद्गतिदायिनी २५९ सर्वाधारा २१८ सनकादिमुनिध्येया २६० सर्वानवद्या २१७ सनातना २१६ सर्वारुणा २१९ समरसा २५६ सर्वावगुणवर्जिता २१९ समाकृतिः २६१ सर्वेशी २१५ S. U. VII. 20 ३०६ ललितात्रिशती- पृष्ठम् पृष्ठम् सर्वोङ्गा २६३ हरिब्रह्मेन्द्रवन्दिता २११ साध्या २५९ हरिसोदरी २३४ हंसगतिः २२८ हर्यक्षवाहना २१२ हंसमन्त्रार्थरूपिणी २३३ हर्यश्वाद्यमराचिंता २१४ हंसवाहना २१२ हर्षप्रदा २३२ हकाररूपा हंकारार्था २११ हर्षिणी २३४ २२८ हलधृक्पूजिता २११ हठात्कारहतासुरा २३१ हल्यवर्जिता २३१ हतदानवा २१३ हल्लीसलास्य संतुष्टा २३३ हत्यादिपापशमनी २१३ हविर्भोत्री २३२ हयमेधसमर्चिता २१२ हस्तिकुम्भोत्तुङ्गकुचा २१३ ईयारूढासेविताङ्घ्रिः २१२ हस्तिकृत्तिप्रियाङ्गना २१३ हय्यङ्गवीनहृदया २३५ हाकिनी २३१. हरप्रिया २११ हाटकाभरणोज्ज्वला २२९. हराराध्या २११ हादिविद्या २१४ हरिकेशसखी २१४ हानिवृद्धिविवर्जिता २३५ हरिगोपारुणांशुका २३६ हानोपादाननिर्मुक्ता २३४ हरिणेक्षणा २११. हारहारिकुचाभोगा २३० हरित्पतिसमाराध्या २३१ हार्दसंतमसापहा २३३ हरिदश्वादिसेविता २१३ हालामदालसा हरिद्राकुङ्कुमादिग्धा २१४ हाहाहूहूमुखस्तुत्या २१४ २३५ नामनुक्रमणिका । ३०७ पृष्ठम् पृष्ठम् ह्रीं २१० ड्रींकारभास्कररुचिः . २४८ ह्रींकारकमलेन्दिरा २७९ हूँ कारमणिदीपार्चिः २७९ ह्रींकारकन्दरासिंही २५३ ड्राकारमन्त्रसर्वस्वा २८९ ह्रींकारकन्दाङ्कुरिका २४९ कारमन्त्रा २०६ ह्रींकारकुण्डाग्निशिखा २४७ ह्रींकारमयसौवर्णस्तम्भवि० २८३ ह्रींकारकोशासिलता २८१ ह्रींकारमूर्तिः २७८ ह्रींकारचिन्त्या २१० ह्रींकाररूपा २०५ ह्रींकारजपसुप्रीता २०७ ड्रींकारलक्षणा २०६ ह्रींकारतरुमञ्जरी २५५ कारवाच्या २०९ हूँ कारतरुशारिका २८० ड्रींकारवेदोपनिषत् २८५ ह्रींकारदीर्घिकाहंसी २५० ड्राकारवेद्या ह्रींकारदुग्धाब्धिसुधा २७९ ह्रींकारशशिचन्द्रिका ह्रींकारनन्दनारामनवक० २८७ ड्रींकारशुक्तिकामुक्तामणिः २८२ २०९ २४७ ह्रींकारनिलया २०५ ड्रींकारसुमनोमाध्वी २५४ ह्रींकारपञ्जरशुकी २५२ ड्राकारखैौधशृङ्गकपोतिका २७८ ह्रींकारपरसौख्यदा २८९ ह्रींकारहिमवद्गङ्गा २८८ ह्रींकारपूज्या २०९ हाकाराङ्गणदीपिका २५२ ह्रींकारपीठिका २०९ ड्रींकारादर्शबिम्बिता २८१ हूकारपेटकमणिः २८० ड्रींकाराद्या २४५ ड्रींकारबीजा २०५ हाकाराध्वरदक्षिणा २८६ ह्रींकारबोधिता २८३ ह्रींकारार्णवकौस्तुभा २८८ ३०८ ललितात्रिशती- पृष्ठम् पृष्ठम् ड्रींकाराम्भोजभृङ्गिका २५३ ह्रीपदप्रिया २०५ ड्रींकाराम्भोदचञ्चला २४८ ड्रॉपदाभिधा २०८ हूँ कारारण्यहरिणी २५१ हूपदाराध्या २०८ ड्रींकारावालवल्लरी २५२ ह्रींमती २०७ होकारास्थाननर्तकी २८१ ह्रीमध्या २४५ ह्रींकारिणी २४५ ह्रींविभूषणा २०७ हकारैकपरायणा २५० ह्रींशरीरिणी २१० हूँ कारोद्यानकेकिनी २५० हींशिखामणिः २४६ हूँ गर्भा २०८ ह्रींशीला २०८ MEMORIAL EDITION OF THE WORKS OF SRI SANKARACHARYA. AM