॥ श्रीः ॥ ॥ गणेशपञ्चरत्नम् ॥ मुदा करात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १ ॥ नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २ ॥ समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥ अकिंचनार्तिमार्जनं चिरंतनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् । प्रपञ्चनाशभीषणं धनंजयादिभूषणं कपोलदानवारणं भजे पुराणवारणम् ॥ ४ ॥ नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम् अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् । हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि संततम् ॥ ५ ॥ महागणेशपञ्चरत्नमादरेण योऽन्वहं प्रजल्पति प्रभातके हृदि स्मरन्गणेश्वरम् । अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥ ६ ॥ ॥ श्रीः॥ ॥ गणेशभुजंगम् ॥ रणत्क्षुद्रघण्टानिनादाभिरामं चलत्ताण्डवोद्दण्डवत्पद्मतालम् । लसत्तुन्दिलाङ्गोपरिव्यालहारं गणाधीशमीशानसूनुं तमीडे ॥ १ ॥ ध्वनिध्वंसवीणालयोल्लासिवक्त्रं स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् । गलद्दर्पसौगन्ध्यलोलालिमालं गणाधीशमीशानसूनुं तमीडे ॥। २ ॥ प्रकाशज्जपारक्तरत्नप्रसून- प्रवालप्रभातारुणज्योतिरेकम् । प्रलम्बोदरं वक्रतुण्डैकदन्तं गणाधीशमीशानसूनुं तमीडे ॥ ३ ॥ विचित्रस्फुरद्रत्नमालाकिरीटं किरीटोल्लसच्चन्द्ररेखाविभूषम् । विभूषैकभूषं भवध्वंसहेतुं गणाधीशमीशानसूनुं तमीडे ॥ ४ ॥ उदञ्चद्भुजावल्लरीदृश्यमूलो- च्चलद्भ्रूलताविभ्रमभ्राजदक्षम् । मरुत्सुन्दरीचामरैः सेव्यमानं गणाधीशमीशानसूनुं तमीडे ॥ ५ ॥ स्फुरन्निष्ठुरालोलपिङ्गाक्षितारं कृपाकोमलोदारलीलावतारम् । कलाबिन्दुगं गीयते योगिवर्यै- र्गणाधीशमीशानसूनुं तमीडे ॥ ६ ॥ यमेकाक्षरं निर्मलं निर्विकल्पं गुणातीतमानन्दमाकारशून्यम् । परं पारमोंकारमाम्नायगर्भं वदन्ति प्रगल्भं पुराणं तमीडे ॥ ७ ॥ चिदानन्दसान्द्राय शान्ताय तुभ्यं नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् । नमोऽनन्तलीलाय कैवल्यभासे नमो विश्वबीज प्रसीदेशसूनो ॥ ८ ॥ इमं सुस्तवं प्रातरुत्थाय भक्त्या पठेद्यस्तु मर्त्यो लभेत्सर्वकामान् । गणेशप्रसादेन सिध्यन्ति वाचो गणेशे विभौ दुर्लभं किं प्रसन्ने ॥ ९ ॥ ॥ श्रीः ॥ ॥ सुब्रह्मण्यभुजंगम् ॥ सदा बालरूपापि विघ्नाद्रिहन्त्री महादन्तिवक्त्रापि पञ्चास्यमान्या । विधीन्द्रादिमृग्या गणेशाभिधा मे विधत्तां श्रियं कापि कल्याणमूर्तिः ॥ १ ॥ न जानामि शब्दं न जानामि चार्थं न जानामि पद्यं न जानामि गद्यम् । चिदेका षडास्या हृदि द्योतते मे मुखान्निःसरन्ते गिरश्चापि चित्रम् ॥ २ ॥ मयूराधिरूढं महावाक्यगूढं मनोहारिदेहं महच्चित्तगेहम् । महीदेवदेवं महावेदभावं महादेवबालं भजे लोकपालम् ॥ ३ ॥ यदा संनिधानं गता मानवा मे भवाम्भोधिपारं गतास्ते तदैव । इति व्यञ्जयन्सिन्धुतीरे य आस्ते तमीडे पवित्रं पराशक्तिपुत्रम् ॥ ४ ॥ यथाब्धेस्तरङ्गा लयं यान्ति तुङ्गा- स्तथैवापदः संनिधौ सेवतां मे । इतीवोर्मिपङ्क्तीर्नृणां दर्शयन्तं सदा भावये हृत्सरोजे गुहं तम् ॥ ५ ॥ गिरौ मन्निवासे नरा येऽधिरूढा- स्तदा पर्वते राजते तेऽधिरूढाः । इतीव ब्रुवन्गन्धशैलाधिरूढः स देवो मुदे मे सदा षण्मुखोऽस्तु ॥ ६ ॥ महाम्भोधितीरे महापापचोरे मुनीन्द्रानुकूले सुगन्धाख्यशैले । गुहायां वसन्तं स्वभासा लसन्तं जनार्तिं हरन्तं श्रयामो गुहं तम् ॥ ७ ॥ लसत्स्वर्णगेहे नृणां कामदोहे सुमस्तोमसंछन्नमाणिक्यमञ्चे । समुद्यत्सहस्रार्कतुल्यप्रकाशं सदा भावये कार्तिकेयं सुरेशम् ॥ ८ ॥ रणद्धंसके मञ्जुलेऽत्यन्तशोणे मनोहारिलावण्यपीयूषपूर्णे । मनः षट्पदो मे भवक्लेशतप्तः सदा मोदतां स्कन्द ते पादपद्मे ॥ ९ ॥ सुवर्णाभदिव्याम्बरैर्भासमानां क्वणत्किङ्किणीमेखलाशोभमानाम् । लसद्धेमपट्टेन विद्योतमानां कटिं भावये स्कन्द ते दीप्यमानाम् ॥ १० ॥ पुलिन्देशकन्याघनाभोगतुङ्ग- स्तनालिङ्गनासक्तकाश्मीररागम् । नमस्याम्यहं तारकारे तवोरः स्वभक्तावने सर्वदा सानुरागम् ॥ ११ ॥ विधौ कॢप्तदण्डान्स्वलीलाधृताण्डा- न्निरस्तेभशुण्डाद्विषत्कालदण्डान् । हतेन्द्रारिषण्डाञ्जगत्त्राणशौण्डा- न्सदा ते प्रचण्डाश्रये बाहुदण्डान् ॥ १२ ॥ सदा शारदाः षण्मृगाङ्का यदि स्युः समुद्यन्त एव स्थिताश्चेत्समन्तात् । सदा पूर्णबिम्बाः कलङ्कैश्च हीना- स्तदा त्वन्मुखानां ब्रुवे स्कन्द साम्यम् ॥ १३ ॥ स्फुरन्मन्दहासैः सहंसानि चञ्च- त्कटाक्षावलीभृङ्गसंघोज्ज्वलानि । सुधास्यन्दिबिम्बाधराणीशसूनो तवालोकये षण्मुखाम्भोरुहाणि ॥ १४ ॥ विशालेषु कर्णान्तदीर्घेष्वजस्रं दयास्यन्दिषु द्वादशस्वीक्षणेषु । मयीषत्कटाक्षः सकृत्पातितश्चे- द्भवेत्ते दयाशील का नाम हानिः ॥ १५ ॥ सुताङ्गोद्भवो मेऽसि जीवेति षड्धा जपन्मन्त्रमीशो मुदा जिघ्रते यान् । जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः ॥ १६॥ स्फुरद्रत्नकेयूरहाराभिराम- श्चलत्कुण्डलश्रीलसद्गण्डभागः । कटौ पीतवासाः करे चारुशक्तिः पुरस्तान्ममास्तां पुरारेस्तनूजः ॥ १७ ॥ इहायाहि वत्सेति हस्तान्प्रसार्या- ह्वयत्यादराच्छंकरे मातुरङ्कात् । समुत्पत्य तातं श्रयन्तं कुमारं हराश्लिष्टगात्रं भजे बालमूर्तिम् ॥ १८ ॥ कुमारेशसूनो गुह स्कन्द सेना- पते शक्तिपाणे मयूराधिरूढ । पुलिन्दात्मजाकान्त भक्तार्तिहारिन् प्रभो तारकारे सदा रक्ष मां त्वम् ॥ १९ ॥ प्रशान्तेन्द्रिये नष्टसंज्ञे विचेष्टे कफोद्गारिवक्त्रे भयोत्कम्पिगात्रे। प्रयाणोन्मुखे मय्यनाथे तदानीं द्रुतं मे दयालो भवाग्रे गुह त्वम् ॥ २० ॥ कृतान्तस्य दूतेषु चण्डेषु कोपा- द्दह च्छिन्द्धि भिन्द्धीति मां तर्जयत्सु । मयूरं समारुह्य मा भैरिति त्वं पुरः शक्तिपाणिर्ममायाहि शीघ्रम् ॥ २१ ॥ प्रणम्यासकृत्पादयोस्ते पतित्वा प्रसाद्य प्रभो प्रार्थयेऽनेकवारम् । न वक्तुं क्षमोऽहं तदानीं कृपाब्धे न कार्यान्तकाले मनागप्युपेक्षा ॥ २२ ॥ सहस्राण्डभोक्ता त्वया शूरनामा हतस्तारकः सिंहवक्त्रश्च दैत्यः । ममान्तर्हृदिस्थं मनःक्लेशमेकं न हंसि प्रभो किं करोमि क्व यामि ॥ २३ ॥ अहं सर्वदा दुःखभारावसन्नो भवान्दीनबन्धुस्त्वदन्यं न याचे । भवद्भक्तिरोधं सदा कॢप्तबाधं ममाधिं द्रुतं नाशयोमासुत त्वम् ॥ २४ ॥ अपस्मारकुष्ठक्षयार्शः प्रमेह- ज्वरोन्मादगुल्मादिरोगा महान्तः । पिशाचाश्च सर्वे भवत्पत्रभूतिं विलोक्य क्षणात्तारकारे द्रवन्ते ॥ २५ ॥ दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्ति- र्मुखे मे पवित्रं सदा तच्चरित्रम् । करे तस्य कृत्यं वपुस्तस्य भृत्यं गुहे सन्तु लीना ममाशेषभावाः ॥ २६ ॥ मुनीनामुताहो नृणां भक्तिभाजा- मभीष्टप्रदाः सन्ति सर्वत्र देवाः । नृणामन्त्यजानामपि स्वार्थदाने गुहाद्देवमन्यं न जाने न जाने ॥ २७ ॥ कलत्रं सुता बन्धुवर्गः पशुर्वा नरो वाथ नारी गृहे ये मदीयाः । यजन्तो नमन्तः स्तुवन्तो भवन्तं स्मरन्तश्च ते सन्तु सर्वे कुमार ॥ २८ ॥ मृगाः पक्षिणो दंशका ये च दुष्टा- स्तथा व्याधयो बाधका ये मदङ्गे । भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे विनश्यन्तु ते चूर्णितक्रौञ्चशैल ॥ २९ ॥ जनित्री पिता च स्वपुत्रापराधं सहेते न किं देवसेनाधिनाथ । अहं चातिबालो भवान् लोकतातः क्षमस्वापराधं समस्तं महेश ॥ ३० ॥ नमः केकिने शक्तये चापि तुभ्यं नमश्छाग तुभ्यं नमः कुक्कुटाय । नमः सिन्धवे सिन्धुदेशाय तुभ्यं पुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु ॥ ३१ ॥ जयानन्दभूमञ्जयापारधाम- ञ्जयामोघकीर्ते जयानन्दमूर्ते । जयानन्दसिन्धो जयाशेषबन्धो जय त्वं सदा मुक्तिदानेशसूनो ॥ ३२ ॥ भुजङ्गाख्यवृत्तेन कॢप्तं स्तवं यः पठेद्भक्तियुक्तो गुहं संप्रणम्य । स पुत्रान्कलत्रं धनं दीर्घमायु- र्लभेत्स्कन्दसायुज्यमन्ते नरः सः ॥ ३३ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्री सुब्रह्मण्यभुजंगं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ शिवभुजंगम् ॥ गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्राणशौण्डम् । कनद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १ ॥ अनाद्यन्तमाद्यं परं तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयम् । हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महःशैवमीडे ॥ २ ॥ स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं मनोहारिसर्वाङ्गरत्नोरुभूषम् । जटाहीन्दुगङ्गास्थिशम्याकमौलिं पराशक्तिमित्रं नुमः पञ्चवक्त्रम् ॥ ३ ॥ शिवेशानतत्पुरुषाघोरवामा- दिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः । अनौपम्य षत्त्रिंशतं तत्त्वविद्या- मतीतं परं त्वां कथं वेत्ति को वा ॥ ४ ॥ प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणिश्रीमहःश्याममर्धम् । गुणस्यूतमेतद्वपुः शैवमन्तः स्मरामि स्मरापत्तिसंपत्तिहेतोः ॥ ५ ॥ स्वसेवासमायातदेवासुरेन्द्रा- नमन्मौलिमन्दारमालाभिषक्तम् । नमस्यामि शंभो पदाम्भोरुहं ते भवाम्भोधिपोतं भवानीविभाव्यम् ॥ ६ ॥ जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् । महःस्तोममूर्ते समस्तैकबन्धो नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७ ॥ विरूपाक्ष विश्वेश विश्वादिदेव त्रयीमूल शंभो शिव त्र्यम्बक त्वम् । प्रसीद स्मर त्राहि पश्यावमुक्त्यै क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ॥ ८ ॥ महादेव देवेश देवादिदेव स्मरारे पुरारे मारे हरेति । ब्रुवाणः स्मरिष्यामि भक्त्या भवन्तं ततो मे दयाशील देव प्रसीद ॥ ९ ॥ त्वदन्यः शरण्यः प्रपन्नस्य नेति प्रसीद स्मरन्नेव हन्यास्तु दैन्यम् । न चेत्ते भवेद्भक्तवात्सल्यहानि- स्ततो मे दयालो सदा संनिधेहि ॥ १० ॥ अयं दानकालस्त्वहं दानपात्रं भवानेव दाता त्वदन्यं न याचे । भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शंभो कृतार्थोऽस्मि तस्मात् ॥ ११ ॥ पशुं वेत्सि चेन्मां तमेवाधिरूढः कलङ्कीति वा मूर्ध्नि धत्से तमेव । द्विजिह्नः पुनः सोऽपि ते कण्ठभूषा त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥ १२ ॥ न शक्नोमि कर्तुं परद्रोहलेशं कथं प्रीयसे त्वं न जाने गिरीश । तथाहि प्रसन्नोऽसि कस्यापि कान्ता- सुतद्रोहिणो वा पितृद्रोहिणो वा ॥ १३ ॥ स्तुतिं ध्यानमर्चां यथावद्विधातुं भजन्नप्यजानन्महेशावलम्बे । त्रसन्तं सुतं त्रातुमग्रे मृकण्डो- र्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ १४ ॥ शिरोदृष्टिहृद्रोगशूलप्रमेह- ज्वरार्शोजरायक्ष्महिक्काविषार्तान् । त्वमाद्यो भिषग्भेषजं भस्म शंभो त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ १५ ॥ दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम् । भवान्प्राणिनामन्तरात्मासि शंभो ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ॥ १६ ॥ त्वदक्ष्णोः कटाक्षः पतेत्त्र्यक्ष यत्र क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते । किरीटस्फुरच्चामरच्छत्रमाला- कलाचीगजक्षौमभूषाविशेषैः ॥ १७ ॥ भवान्यै भवायापि मात्रे च पित्रे मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने । शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै शिवायाम्बिकायै नमस्त्र्यम्बकाय ॥ १८ ॥ भवद्गौरवं मल्लघुत्वं विदित्वा प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् । शिवात्मानुभावस्तुतावक्षमोऽहं स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥ १९ ॥ यदा कर्णरन्ध्रं व्रजेत्कालवाह- द्विषत्कण्ठघण्टाघणात्कारनादः । वृषाधीशमारुह्य देवौपवाह्यं तदा वत्स मा भीरिति प्रीणय त्वम् ॥ २० ॥ यदा दारुणाभाषणा भीषणा मे भविष्यन्त्युपान्ते कृतान्तस्य दूताः । तदा मन्मनस्त्वत्पदाम्भोरुहस्थं कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥ २१ ॥ यदा दुर्निवारव्यथोऽहं शयानो लुठन्निःश्वसन्निःसृताव्यक्तवाणिः । तदा जह्नुजहुकन्याजलालंकृतं ते जटामण्डलं मन्मनोमन्दिरं स्यात् ॥ २२ ॥ यदा पुत्रमित्रादयो मत्सकाशे रुदन्त्यस्य हा कीदृशीयं दशेति । तदा देवदेवेश गौरीश शंभो नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥ २३ ॥ यदा पश्यतां मामसौ वेत्ति नास्मा- नयं श्वास एवेति वाचो भवेयुः । तदा भूतिभूषं भुजंगावनद्धं पुरारे भवन्तं स्फुटं भावयेयम् ॥ २४ ॥ यदा यातनादेहसंदेहवाही भवेदात्मदेहे न मोहो महान्मे । तदा काशशीतांशुसंकाशमीश स्मरारे वपुस्ते नमस्ते स्मराणि ॥ २५ ॥ यदापारमच्छायमस्थानमद्भि- र्जनैर्वा विहीनं गमिष्यामि मार्गम् । तदा तं निरुन्धन्कृतान्तस्य मार्गं महादेव मह्यं मनोज्ञं प्रयच्छ ॥ २६ ॥ यदा रौरवादि स्मरन्नेव भीत्या व्रजाम्यत्र मोहं महादेव घोरम् । तदा मामहो नाथ कस्तारयिष्य- त्यनाथं पराधीनमर्धेन्दुमौले ॥ २७ ॥ यदा श्वेतपत्रायतालङ्घ्यशक्तेः कृतान्ताद्भयं भक्तवात्सल्यभावात् । तदा पाहि मां पार्वतीवल्लभान्यं न पश्यामि पातारमेतादृशं मे ॥ २८ ॥ इदानीमिदानीं मृतिर्मे भवित्री- त्यहो संततं चिन्तया पीडितोऽस्मि । कथं नाम मा भून्मृतौ भीतिरेषा नमस्ते गतीनां गते नीलकण्ठ ॥ २९ ॥ अमर्यादमेवाहमाबालवृद्धं हरन्तं कृतान्तं समीक्ष्यास्मि भीतः । मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादा- द्भवानीपते निर्भयोऽहं भवानि ॥ ३० ॥ जराजन्मगर्भाधिवासादिदुःखा- न्यसह्यानि जह्यां जगन्नाथ देव । भवन्तं विना मे गतिर्नैव शंभो दयालो न जागर्ति किं वा दया ते ॥ ३१ ॥ शिवायेति शब्दो नमःपूर्व एष स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची । महेशान मा गान्मनस्तो वचस्तः सदा मह्यमेतत्प्रदानं प्रयच्छ ॥ ३२ ॥ त्वमप्यम्ब मां पश्य शीतांशुमौलि- प्रिये भेषजं त्वं भवव्याधिशान्तौ । बहुक्लेशभाजं पदाम्भोजपोते भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥ ३३ ॥ अनुद्यल्ललाटाक्षिवह्निप्ररोहै- रवामस्फुरच्चारुवामोरुशोभैः । अनङ्गभ्रमद्भोगिभूषाविशेषै- रचन्द्रार्धचूडैरलं दैवतैर्नः ॥ ३४ ॥ अकण्ठेकलङ्कादनङ्गेभुजङ्गा- दपाणौकपालादफालेनलाक्षात् । अमौळौशशाङ्कादवामेकलत्रा- दहं देवमन्यं न मन्ये न मन्ये ॥ ३५ ॥ महादेव शंभो गिरीश त्रिशूलिं- स्त्वयीदं समस्तं विभातीति यस्मात् । शिवादन्यथा दैवतं नाभिजाने शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३६ ॥ यतोऽजायतेदं प्रपञ्चं विचित्रं स्थितिं याति यस्मिन्यदेकान्तमन्ते । स कर्मादिहीनः स्वयंज्योतिरात्मा शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३७ ॥ किरीटे निशेशो ललाटे हुताशो भुजे भोगिराजो गले कालिमा च । तनौ कामिनी यस्य तत्तुल्यदेवं न जाने न जाने न जाने न जाने ॥ ३८ ॥ अनेन स्तवेनादरादम्बिकेशं परां भक्तिमासाद्य यं ये नमन्ति । मृतौ निर्भयास्ते जनास्तं भजन्ते हृदम्भोजमध्ये सदासीनमीशम् ॥ ३९ ॥ भुजंगप्रियाकल्पशंभो मयैवं भुजंगप्रयातेन वृत्तेन कॢप्तम् । नरः स्तोत्रमेतत्पठित्वोरुभक्त्या सुपुत्रायुरारोग्यमैश्वर्यमेति ॥ ४० ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवभुजंगं संपूर्णम् ॥ ॥ शिवानन्दलहरी ॥ कलाभ्यां चूडालंकृतशशिकलाभ्यां निजतपः- फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे । शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन- र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ १॥ गलन्ती शंभो त्वच्चरितसरितः किल्बिषरजो दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम् । दिशन्ती संसारभ्रमणपरितापोपशमनं वसन्ती मच्चेतोह्रदभुवि शिवानन्दलहरी ॥ २ ॥ त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं जटाभारोदारं चलदुरगहारं मृगधरम् । महादेवं देवं मयि सदयभावं पशुपतिं चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे ॥ ३ ॥ सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् । हरिब्रह्मादीनामपि निकटभाजामसुलभं चिरं याचे शंभो शिव तव पदाम्भोजभजनम् ॥ ४ ॥ स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ पुराणे मन्त्रे वा स्तुतिनदनहास्येष्वचतुरः । कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो ॥ ५ ॥ घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचलः पटो वा तन्तुर्वा परिहरति किं घोरशमनम् । वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा पदाम्भोजं शंभोर्भज परमसौख्यं व्रज सुधीः ॥ ६ ॥ मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ । तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे परग्रन्थान्कैर्वा परमशिव जाने परमतः ॥ ७ ॥ यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि- र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् । तथा देवभ्रान्त्या भजति भवदन्यं जडजनो महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ ८ ॥ गभीरे कासारे विशति विजने घोरविपिने विशाले शैले च भ्रमति कुसुमार्थं जडमतिः । समप्येकं चेतःसरसिजमुमानाथ भवते सुखेनावस्थातुं जन इह न जानाति किमहो ॥ ९॥ नरत्वं देवत्वं नगवनमृगत्वं मशकता पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् । सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी- विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ १० ॥ वटुर्वा गेही वा यतिरपि जटी वा तदितरो नरो वा यः कश्चिद्भवतु भव किं तेन भवति । यदीयं हृत्पद्मं यदि भवदधीनं पशुपते तदीयस्त्वं शंभो भवसि भवभारं च वहसि ॥ ११ ॥ गुहायां गेहे वा बहिरपि वने वाद्रिशिखरे जले वा वह्नौ वा वसतु वसतेः किं वद फलम् । सदा यस्यैवान्तःकरणमपि शंभो तव पदे स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥ असारे संसारे निजभजनदूरे जडधिया भ्रमन्तं मामन्धं परमकृपया पातुमुचितम् । मदन्यः को दीनस्तव कृपणरक्षातिनिपुण- स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥ १३ ॥ प्रभुत्वं दीनानां खलु परमबन्धुः पशुपते प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः । त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥ १४ ॥ उपेक्षा नो चेत्किं न हरसि भवद्ध्यानविमुखां दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् । शिरस्तद्वैधात्रं ननखलु सुवृत्तं पशुपते कथं वा निर्यत्नं करनखमुखेनैव लुलितम् ॥ १५ ॥ विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर- श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् । विचारः को वा मां विशद कृपया पाति शिव ते कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥ १६ ॥ फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो प्रसन्नेऽपि स्वामिन् भवदमलपादाब्जयुगलम् । कथं पश्येयं मां स्थगयति नमः संभ्रमजुषां निलिम्पानां श्रेणिर्निजकनकमाणिक्यमकुटैः ॥ १७ ॥ त्वमेको लोकानां परमफलदो दिव्यपदवीं वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः । कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती कदा वा मद्रक्षां वहसि करुणापूरितदृशा ॥ १८ ॥ दुराशाभूयिष्ठे दुरधिपगृहद्वारघटके दुरन्ते संसारे दुरितनिलये दुःखजनके । मदायासं किं न व्यपनयसि कस्योपकृतये वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥ १९॥ सदा मोहाटव्यां चरति युवतीनां कुचगिरौ नटत्याशाशाखास्वटति झटिति स्वैरमभितः । कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलं दृढं भक्त्या बद्धा शिव भवदधीनं कुरु विभो ॥ २० ॥ धृतिस्तम्भाधारां दृढगुणनिबद्धां सगमनां विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम् । स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो ॥ २१ ॥ प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे प्रवेशोद्युक्तः सम्भ्रमति बहुधा तस्करपते । इमं चेतश्चोरं कथमिह सहे शंकर विभो तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ २२ ॥ करोमि त्वत्पूजां सपदि सुखदो मे भव विभो विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति । पुनश्च त्वां द्रष्टुं दिवि भुवि वहन्पक्षिमृगता- मदृष्ट्वा तत्खेदं कथमिह सहे शंकर विभो ॥ २३ ॥ कदा वा कैलासे कनकमणिसौधे सह गणै- र्वसञ्शंभोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः । विभो साम्ब स्वामिन्परमशिव पाहीति निगद- न्विधातॄणां कल्पान्क्षणमिव विनेष्यामि सुखतः ॥ २४॥ स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां गणानां केलीभिर्मदकलमहोक्षस्य ककुदि । स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् ॥ २५ ॥ कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलं गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् । समाश्लिष्याघ्राय स्फुटजलजगन्धान्परिमला- नलभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥ २६ ॥ करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ गृहस्थे स्वर्भूजामरसुरभिचिन्तामणिगणे । शिरःस्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ॥ २७ ॥ सारूप्यं तव पूजने शिव महादेवेति संकीर्तने सामीप्यं शिवभक्तिधुर्यजनतासांगत्यसंभाषणे । सालोक्यं च चराचरात्मकतनुध्याने भवानीपते सायुज्यं मम सिद्धमत्र भवति स्वामिन्कृतार्थोऽस्म्यहम् ॥ त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो । वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां शंभो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ २९ ॥ वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता गन्धे गन्धवहात्मतान्नपचने बर्हिर्मुखाध्यक्षता । पात्रे काञ्चनगर्भतास्ति मयि चेद्बालेन्दुचूडामणे शुश्रूषां करवाणि ते पशुपते स्वामिंस्त्रिलोकीगुरो ॥ नालं वा परमोपकारकमिदं त्वेकं पशूनां पते पश्यन्कुक्षिगतांश्चराचरगणान्बाह्यस्थितान्रक्षितुम् । सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥ ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया दृष्टः किं च करे धृतः करतले किं पक्वजम्बूफलम् । जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः किं ते नीलमणिर्विभूषणमयं शंभो महात्मन्वद ॥ ३२ ॥ नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् । स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा ॥ किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव- द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते । बृश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥ योगक्षेमधुरंधरस्य सकलश्रेयःप्रदोद्योगिनो दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः । सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया शंभो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् ॥ भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः- कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम् । सत्त्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वह- न्पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥ आम्नायाम्बुधिमादरेण सुमनःसंघाः समुद्यन्मनो मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः । सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतां नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥ ३७ ॥ प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचकः । चेतः पुष्करलक्षितो भवति चेदानन्दपाथोनिधिः प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥ धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृतः । ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥ ३९ ॥ धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै- रानीतैश्व सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः । हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते दुर्भिक्षान्मम सेवकस्य भगवन्विश्वेश भीतिः कुतः ॥ पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युंजय स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने । जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः ॥ ४१ ॥ गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण- स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः । विद्या वस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥ ४२ ॥ मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे । वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय- स्तान्हत्वा मृगयाविनोदरुचितालाभं च संप्राप्स्यसि ॥ करलग्नमृगः करीन्द्रभङ्गो घनशार्दूलविखण्डनोऽस्तजन्तुः । गिरिशो विशदाकृतिश्च चेतः- कुहरे पञ्चमुखोऽस्ति मे कुतो भीः ॥ ४४ ॥ छन्दःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते । चेतःपक्षिशिखामणे त्यज वृथासंचारमन्यैरलं नित्यं शंकरपादपद्मयुगलीनीडे विहारं कुरु ॥ ४५ ॥ आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै- राधौतेऽपि च पद्मरागललिते हंसव्रजैराश्रिते । नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे ॥ शुंभुध्यानवसन्तसङ्गिनि हृदारामेऽघजीर्णच्छदाः स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः । दीप्यन्ते गुणकोरका जपवचःपुष्पाणि सद्वासना ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥ ४७ ॥ नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं स्वच्छं सद्दिजसेवितं कलुषहृत्सद्वासनाविष्कृतम् । शुंभुध्यानसरोवरं ब्रज मनोहंसावतंस स्थिरं किं क्षुद्राश्रयपल्वल भ्रमणसंजातश्रमं प्राप्स्यसि ॥ ४८ ॥ आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता स्थैयों पनमुपेत्य भक्तिलतिका शाखोपशाखान्विता । उच्चैर्मानसकायमान पटलीमाक्रम्य निष्कल्मषा नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता ॥ ४९ ॥ संध्यारम्भविजृम्भितं श्रुतिशिरःस्थानान्तराधिष्ठितं सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितम् । भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम् ॥५०॥ भृङ्गीच्छानटनोत्कटः करिमदग्राही स्फुरन्माधवा- ह्लादो नादयुतो महासितवपुः पश्चेषुणा चादृतः । सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो- राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः ॥ ५१ ॥ कारुण्यामृतवर्षिणं घनविपद्ग्रीष्मच्छिदाकर्मठं विद्यासह्यफलोदयाय सुमनःसंसेव्यमिच्छाकृतिम् । नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं शंभो वाञ्छति नीलकंधर सदा त्वां मे मनश्चातकः ॥ आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता- नुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते । श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥ ५३ ॥ संध्या घर्मदिनात्ययो हरिकराघातप्रभूतानक- ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला । भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे ॥ ५४ ॥ आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते विद्यानन्दमयात्मने त्रिजगतः संरक्षणोद्योगिने । ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने सम्यक्ताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥ नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे सत्यायादिकुटुम्बिने मुनिमनःप्रत्यक्षचिन्मूर्तये । मायासृष्टजगत्त्रयाय सकलाम्नायान्तसंचारिणे सायंताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥ ५६ ॥ नित्यं स्वोदरपूरणाय सकलानुद्दिश्य वित्ताशया व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो । मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर- स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् ॥ एको वारिजबान्धवः क्षितिनभोव्याप्तं तमोमण्डलं भित्त्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः । वेद्यः किं न भवस्यहो घनतरं कीदृग्भवेन्मत्तम- स्तत्सर्वं व्यपनीय मे पशुपते साक्षात्प्रसन्नो भव ॥ ५८ ॥ हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा । चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ॥ ५९ ॥ रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो भीतः स्वस्थगृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकम् । दीपं संतमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा चेतः सर्वभयापहं व्रज सुखं शंभोः पदाम्भोरुहम् ॥ अङ्कोलं निजबीजसंततिरयस्कान्तोपलं सूचिका साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् । प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥ ६१ ॥ आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं वाचाशङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः । रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना- पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥ ६२ ॥ मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते । किंचिद्भक्षितमांसशेषकबलं नव्योपहारायते भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥ ६३ ॥ वक्षस्ताडनमन्तकस्य कठिनापस्मारसंमर्दनं भूभृत्पर्यटनं नमत्सुरशिरः कोटीरसंघर्षणम् । कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य किं वोचितं मच्चेतोमणिपादुकाविहरणं शंभो सदाङ्गीकुरु ॥ ६४ ॥ वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते । दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥ ६५ ॥ क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जना यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् । शंभो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥ ६६ ॥ बहुविधपरितोषबाष्पपूर- स्फुटपुलकाङ्कितचारुभोगभूमिम् । चिरपदफलकाङ्क्षिसेव्यमानां परमसदाशिवभावनां प्रपद्ये ॥ ६७ ॥ अमितमुदमृतं मुहुर्दुहन्तीं विमलभवत्पदगोष्ठमावसन्तीम् । सदय पशुपते सुपुण्यपाकां मम परिपालय भक्तिधेनुमेकाम् ॥ ६८ ॥ जडता पशुता कलङ्किता कुटिलचरत्वं च नास्ति मयि देव । अस्ति यदि राजमौले भवदाभरणस्य नास्मि किं पात्रम् ॥ ६९ ॥ अरहसि रहसि स्वतन्त्रबुद्ध्या वरिवसितुं सुलभः प्रसन्नमूर्तिः । अगणितफलदायकः प्रभुर्मे जगदधिको हृदि राजशेखरोऽस्ति ॥ ७० ॥ आरूढभक्तिगुणकुञ्चितभावचाप- युक्तैः शिवस्मरणबाणगणैरभोधैः । निर्जित्य किल्बिषरिपून्विजयी सुधीन्द्रः सानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥ ७१ ॥ ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेश भित्त्वा महाबलिभिरीश्वरनाममन्त्रैः । दिव्याश्रितं भुजगभूषणमुद्वहन्ति ये पादपद्ममिह ते शिव ते कृतार्थाः ॥ ७२ ॥ भूदारतामुदवहद्यदपेक्षया श्री- भूदार एव किमतः सुमते लभस्व । केदारमाकलितमुक्तिमहौषधीनां पादारविन्दभजनं परमेश्वरस्य ॥ ७३ ॥ आशापाशक्लेशदुर्वासनादि- भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः । आशाशाटीकस्य पादारविन्दं चेतःपेटीं वासितां मे तनोतु ॥ ७४ ॥ कल्याणिनं सरसचित्रगतिं सवेगं सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् । चेतस्तुरङ्गमधिरुह्य चर स्मरारे नेतः समस्तजगतां वृषभाधिरूढ ॥ ७५ ॥ भक्तिर्महेशपदपुष्करमावसन्ती कादम्बिनीव कुरुते परितोषवर्षम् । संपूरितो भवति यस्य मनस्तटाक- स्तज्जन्मसस्यमखिलं सफलं च नान्यत् ॥ ७६ ॥ बुद्धिः स्थिरा भवितुमीश्वरपादपद्म- सक्ता वधूर्विरहिणीव सदा स्मरन्ती । सद्भावनास्मरणदर्शनकीर्तनादि संमोहितेव शिवमन्त्रजपेन विन्त्ते ॥ ७७ ॥ सदुपचारविधिष्वनुबोधितां सविनयां सुहृदं समुपाश्रिताम् । मम समुद्धर बुद्धिमिमां प्रभो वरगुणेन नवोढवधूमिव ॥ ७८ ॥ नित्यं योगिमनःसरोजदलसंचारक्षमस्त्वत्क्रमः शंभो तेन कथं कठोरयमराड्वक्षः कवाटक्षतिः । अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय- त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥ ७९ ॥ एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म- द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः । नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु प्रायः सत्सु शिलातलेषु नटनं शंभो किमर्थं तव ॥ कंचित्कालमुमामहेश भवतः पादारविन्दार्चनैः कंचिद्ध्यानसमाधिभिश्व नतिभिः कंचित्कथाकर्णनैः । कंचित्कंचिदवेक्षणैश्च नुतिभिः कंचिद्दशामीदृशीं यः प्राप्नोति मुदा त्वदर्पितमना जीवन्स मुक्तः खलु ॥ बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ । त्वत्पादे नयनार्पणं च कृतवांस्त्वद्देहभागो हरिः पूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्योऽधिकः ॥ जननमृतियुतानां सेवया देवतानां न भवति सुखलेशः संशयो नास्ति तत्र । अजनिममृतरूपं साम्बमीशं भजन्ते य इह परमसौख्यं ते हि धन्या लभन्ते ॥ ८३ ॥ शिव तव परिचर्यासंनिधानाय गौर्या भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये । सकलभुवनबन्धो सच्चिदानन्दसिन्धो सदय हृदयगेहे सर्वदा संवस त्वम् ॥ ८४ ॥ जलधिमथनदक्षो नैव पातालभेदी न च वनमृगयायां नैव लुब्धः प्रवीणः । अशनकुसुमभूषावस्त्रमुख्यां सपर्यां कथय कथमहं ते कल्पयानीन्दुमौले ॥ ८५ ॥ पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् । जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभो न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥८६॥ अशनं गरलं फणी कलापो वसनं चर्म च वाहनं महोक्षः । मम दास्यसि किं किमस्ति शंभो तव पादाम्बुजभक्तिमेव देहि ॥ ८७ ॥ यदा कृताम्भोनिधिसेतुबन्धनः करस्थलाधःकृतपर्वताधिपः । भवानि ते लङ्घितपद्मसंभव- स्तदा शिवार्चस्तवभावनक्षमः ॥ ८८ ॥ नतिभिर्नुतिभिस्त्वमीश पूजा- विधिभिर्ध्यानसमाधिभिर्न तुष्टः । धनुषा मुसलेन चाश्मभिर्वा वद ते प्रीतिकरं तथा करोमि ॥ ८९ ॥ वचसा चरितं वदामि शंभो- रहमुद्योगविधासु तेऽप्रसक्तः । मनसाकृतिमीश्वरस्य सेवे शिरसा चैव सदाशिवं नमामि ॥ ९० ॥ आद्याविद्या हृद्गता निर्गतासी- द्विद्या हृद्या हृद्गता त्वत्प्रसादात् । सेवे नित्यं श्रीकरं त्वत्पदाब्जं भावे मुक्तेर्भाजनं राजमौले ॥ ९१ ॥ दूरीकृतानि दुरितानि दुरक्षराणि दौर्भाग्यदुःखदुरहंकृतिदुर्वचांसि । सारं त्वदीयचरितं नितरां पिबन्तं गौरीश मामिह समुद्धर सत्कटाक्षैः ॥ ९२ ॥ सोमकलाधरमौलौ कोमलघनकंधरे महामहसि । स्वामिनि गिरिजानाथे मामकहृदयं निरन्तरं रमताम् ॥ ९३ ॥ सा रसना ते नयने तावेव करौ स एव कृतकृत्यः । या ये यौ यो भर्गं वदतीक्षेते सदार्चितः स्मरति ॥ ९४ ॥ अतिमृदुलौ मम चरणा- वतिकठिनं ते मनो भवानीश । इति विचिकित्सां संत्यज शिव कथमासीद्गिरौ तथा वेशः ॥ ९५ ॥ धैर्याङ्कशेन निभृतं रभसादाकृष्य भक्तिशृङ्खलया । पुरहर चरणालाने हृदयमदेभं बधान चिद्यन्त्रैः ॥ ९६ ॥ प्रचरत्यभितः प्रगल्भवृत्त्या मदवानेष मनःकरी गरीयान् । परिगृह्य नयेन भक्तिरज्ज्वा परम स्थाणु पदं दृढं नयामुम् ॥ ९७ ॥ सर्वालंकारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् । उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण ॥ इदं ते युक्तं वा परमशिव कारुण्यजलधे गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया । हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ कथं शंभो स्वामिन्कथय मम वेद्योऽसि पुरतः ॥ ९९ ॥ स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः स्तुत्यानां गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः । माहात्म्याग्रिविचारणप्रकरणे धानातुषस्तोमव- द्धूतास्त्वां विदुरुत्तमोत्तमफलं शंभो भवत्सेवकाः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवानन्दलहरी संपूर्णा ॥ ॥ श्रीः ॥ शिवपादादिकेशान्त- वर्णनस्तोत्रम् ॥ कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज- क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः । तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी कैलासः शर्वनिर्वृत्यभिजनकपदः सर्वदा पर्वतेन्द्रः ॥ १ ॥ यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः । मौर्वी दर्वीकराणामपि च परिवृढः पूस्त्रयी सा च लक्ष्यं सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥ आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः । क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्व- न्घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥ कालारातेः कराग्रे कृतवसतिरुरः शाणशातो रिपूणां काले काले कुलाद्विप्रवरतनयया कल्पितस्नेहलेपः । पायान्नः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तं शूलः श्रीपादसेवाभजनरसजुषां पालनैकान्तशीलः ॥४॥ देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार- प्रस्तारानत्युदारान्पिपठिषुरिव यो नित्यमत्यादरेण । आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदं सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥ कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः कण्ठारावैरकुण्ठैरपि भरितजगच्चक्रवालान्तरालः । चण्डः प्रोद्दण्डशृङ्गः ककुदकबलितोत्तुङ्गकैलासशृङ्गः कण्ठेकालस्य वाहः शमयतु शमलं शाश्वतः शाक्वरेन्द्रः ॥ निर्यद्दानाम्बुधारापरिमलतरलीभूतरोलम्बपाली- झंकारैः शंकराद्रेः शिखरशतदरीः पूरयन्भूरिघोषैः । शार्वः सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ता शर्वाण्याः पूर्वसूनुः स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ॥ यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यवीर्यैकमत्या- द्यन्नानि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते । भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौञ्चशैलः संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥ ८ ॥ आरूढः प्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गं चेलं नीलं वसानः करतलविलसत्काण्डकोदण्डदण्डः । रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता कुर्वन्नाखेटलीलां परिलसतु मनःकानने मामकीने ॥ ९ ॥ अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै- र्बिम्बेनेन्दोश्च कम्बोरुपरि विलसता विद्रुमेणोत्पलाभ्याम् । अम्भोदेनापि संभावितमुपजनिताडम्बरं शम्बरारेः शंभोः संभोगयोग्यं किमपि धनमिदं संभवेत्संपदे नः ॥ वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासा- न्वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान् । एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे शोणान्प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलेः ॥ नृत्तारम्भेषु हस्ताहतमुरजधिमिद्धिंकृतैरत्युदारै- श्चित्तानन्दं विधत्ते सदसि भगवतः संततं यः स नन्दी । चण्डीशाद्यास्तथान्ये चतुरगुणगणप्रीणितस्वामिसत्का- रोत्कर्षोद्यत्प्रसादाः प्रमथपरिबृढाः पान्तु संतोषिणो नः ॥ मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं प्रत्युप्तानर्धररत्नैर्दिशि दिशि भवनैः कल्पितैर्दिक्पतीनाम् । उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं हृद्यं हृद्यस्तु नित्यं मम भुवनपतेर्धाम सोमार्धमौलेः ॥ स्तम्भैर्जम्भारिरत्नप्रवरविरचितैः संभृतोपान्तभागं शुम्भत्सोपानमार्गं शुचिमणिनिचयैर्गुम्भितानल्पशिल्पम् । कुम्भैः संपूर्णशोभं शिरसि सुघटितैः शातकुम्भैरपङ्कैः शंभोः संभावनीयं सकलमुनिजनैः स्वस्तिदं स्यात्सदो नः ॥ न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो हृयः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा । वासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्रीः पीठः पीडाभरं नः शमयतु शिवयोः स्वैरसंवासयोग्यः ॥ आसीनस्याधिपीठं त्रिजगदधिपतेरङ्घ्रिपीठानुषक्तौ पाथोजाभोगभाजी परिमृदुलतलोल्लासिपद्मादिरेखौ । पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर- श्रेणीशोणायमानोन्नतनखदशकोद्भासमानौ समानौ ॥ यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु- र्लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे । शंभोः संभावनीये पदकमलसमासङ्गतस्तुङ्गशोभे माङ्गल्यं नः समग्रं सकलसुखकरे नूपुरे पूरयेताम् ॥ अङ्गे शृङ्गारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयाते शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमग्रे किमेतत् । शङ्कामित्थं नतानाममरपरिषदामन्तरङ्कूरयत्त- त्संघातं चारु जङ्घायुगमखिलपतेरंहसां संहरेन्नः ॥ १८ ॥ जानुद्वन्द्वेन मीनध्वजनृवरसमुद्रोपमानेन साकं राजन्तौ राजरम्भाकरिकरकनकस्तम्भसंभावनीयौ । ऊरू गौरीकराम्भोरुहसरससमामर्दनानन्दभाजौ चारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मान्तरे नः ॥ आमुक्तानर्धरत्नप्रकरकरपरिष्वक्तकल्याणकाञ्ची- दाम्ना बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टाम्बरेण । संवीते शैलकन्यासुचरितपरिपाकायमाणे नितम्बे नित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनः सोममौलेः ॥ संध्याकालानुरज्यद्दिनकरसरुचाकालधौतेन गाढं व्यानद्धः स्निग्धमुग्धः सरसमुदरबन्धेन वीतोपमेन । उद्दीप्रैः स्वप्रकाशैरुपचितमहिमा मन्मथारेरुदारो मध्यो मिध्यार्थसध्र्यङ्मम दिशतु सदा संगतिं मङ्गलानाम् ॥ नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता- दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती । श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामं सा मा सोमार्धमौलेः सुखयतु सततं रोमवल्लीमतल्ली ॥ आश्लेषेष्वद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क- व्यासङ्गादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम् । दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः ॥ वामाङ्के विस्फुरन्त्या करतलविलसच्चारुरक्तोत्पलायाः कान्ताया वामवक्षोरुहभरशिखरोन्मर्दनव्यग्रमेकम् । अन्यांस्त्रीनप्युदारान्वरपरशुमृगालंकृतानिन्दुमौले- र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥ २४ ॥ संभ्रान्तायाः शिवायाः पतिविलयभिया सर्वलोकोपतापा- त्संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्याम् । मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मा सोऽयं सर्वापदां नः शमयतु निचयं नीलकण्ठस्य कण्ठः ॥ हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री- रुद्द्योतन्त्या नितान्तं धवलधवलया मिश्रितो दन्तकान्त्या । मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमानः सद्योजातस्य दद्यादधरमणिरसौ संपदां संचयं नः ॥ कर्णालंकारनानामणिनिकररुचां संचयैरञ्चितायां वर्णायां स्वर्णपद्मोदरपरिविलसत्कर्णिकासंनिभायाम् । पद्धत्यां प्राणवायोः प्रणतजनहृदम्भोजवासस्य शंभो- र्नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम् ॥ अत्यन्तं भासमाने रुचिरतररुचां संगमात्सन्मणीना- मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने । भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बे भक्तालीभालसज्जज्जनिमरणलिपेः कुण्डलेः कुण्डले ते ॥ याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां येषामाहुः स्वरूपं जगति मुनिवरा देवतानां त्रयीं ताम् । रुद्राणीवक्त्रपङ्केरुहसततविहारोत्सुकेन्दिन्दिरेभ्य- स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये श्रीक्षणस्येक्षणेभ्यः ॥ वामं वामाङ्कगाया वदनसरसिजे व्यावलद्वल्लभाया व्यानश्रेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम् । भूयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणे दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः ॥ ३० ॥ यस्मिन्नर्धेन्दुमुग्धद्युतिनिचयतिरस्कारनिस्तन्द्रकान्तौ काश्मीरक्षोदसंकल्पितमिव रुचिरं चित्रकं भाति नेत्रम् । तस्मिन्नुल्लीलचिल्लीनटवरतरुणीलास्यरङ्गायमाणे कालारेः फालदेशे विहरतु हृदयं वीतचिन्तान्तरं नः ॥ स्वामिन्गङ्गामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्तीं धन्यां कन्यां खरांशोः शिरसि वहति किं न्वेष कारुण्यशाली । इत्थं शङ्कां जनानां जनयदतिघनं कैशिकं कालमेघ- च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसे नः ॥ शृङ्गाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैः सूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृङ्गम् । तुङ्गं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रशृङ्गं संघं नः संकटानां विघटयतु सदा काङ्कटीकं किरीटम् ॥ वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा- दुत्तंसत्वं प्रयातः सुलभतरघृणास्यन्दिनञ्चन्द्रमौलेः । तत्सेवन्तां जनौघाः शिवमिति निजयावस्थयैव ब्रुवाणं वन्दे देवस्य शंभोर्मुकुटसुघटितं मुग्धपीयूषभानुम् ॥ कान्त्या संफुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराज- न्वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृतिं पादभाजाम् । सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमानः पुरारेः श्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥ ३५ ॥ दिव्या कल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां रुद्राणीसत्सखीनां मदतरलकटाक्षाञ्चलैरञ्चितानाम् । उद्वेल्लद्बाहुवल्लीविलसनसमये चामरान्दोलनीना- मुद्भूतः कङ्कणालीवलयकलकलो वारयेदापदो नः ॥ स्वर्गौकः सुन्दरीणां सुललितवपुषां स्वामिसेवापराणां वल्गद्भूषाणि वक्राम्बुजपरिविगलन्मुग्धगीतामृतानि । नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक- प्रत्युद्यत्प्रीतिमाद्यत्प्रमथनटनटीदत्तसंभावनानि ॥ ३७ ॥ स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा- स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् । नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं गानं वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः ॥ चेतो जातप्रमोदं संपदि विदधती प्राणिनां वाणिनीनां पाणिद्वन्द्वाग्रजाग्रत्सुललितरणितस्वर्णतालानुकूला । स्वीयारावेण पाथोधररवपटुना नादयन्ती मयूरीं मायूरी मन्दभावं मणिमुरजभवा मार्जना मार्जयेन्नः ॥ देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यः साध्येभ्यश्चारणेभ्यो मनुजपशुपतज्जातिकीटादिकेभ्यः । श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्यः सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥ ध्यायन्नित्थं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात् । संपज्जातं समग्रं सदसि बहुमतिं सर्वलोकप्रियत्वं संप्राप्यायुःशतान्ते पदमयति परब्रह्मणो मन्मथारेः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवपादादिकेशान्तवर्णनस्तोत्रम् संपूर्णम् ॥ । श्रीः ॥ शिवकेशादिपादान्त- वर्णनस्तोत्रम् ॥ देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य- त्प्रांशुस्तम्बाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः । दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता घोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः ॥ कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम् । अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य- ज्जाह्नव्याभं मृडानीकमितुरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम् ॥ क्रुध्यद्गौरीप्रसादानतिसमयपदाङ्गुष्ठसंक्रान्तलाक्षा- बिन्दुस्पर्धि स्मरारेः स्फटिकमणिदृषन्मग्नमाणिक्यशोभम् । मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मास्तकं स्ता- दस्तोकापत्तिकृत्त्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि ॥ भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरुग्बिम्बयोः स्निग्धवर्णो दैत्यौघध्वंसशंसी स्फुट इव परिवेषावशेषो विभाति । सर्गस्थित्यन्तवृत्तिर्मयि समुपगतेतीव निर्वृत्तगर्वं शर्वाणीभर्तुरुच्चैर्युगलमथ दधद्विभ्रमं तद्भ्रुवोर्वः ॥ ४ ॥ युग्मे रुक्माब्जपिङ्गे ग्रह इव पिहिते द्राग्ययोः प्राग्दुहित्रा शैलस्य ध्वान्तनीलाम्बररचितबृहत्कञ्चकोऽभूत्प्रपञ्चः । ते त्रैनेत्रे पवित्रे त्रिदशवरघटामित्रजैत्रोग्रशस्त्रे नेत्रे नेत्रे भवेतां द्रुतमिह भवतामिन्द्रियाश्वान्नियन्तुम् ॥ चण्डीवक्त्रार्पणेच्छोस्तदनु भगवतः पाण्डुरुक्पाण्डुगण्ड- प्रोद्यत्कण्डूं विनेतुं वितनुत इव ये रत्नकोणैर्विघृष्टिम् । चण्डार्चिर्मण्डलाभे सततनतजनध्वान्तखण्डातिशौण्डे चण्डीशे ते श्रिये स्तामधिकमवनताखण्डले कुण्डले वः ॥ खट्वाङ्गोदप्रपाणेः स्फुटविकटपुटो वक्त्ररन्ध्रप्रवेश- प्रेप्सूदञ्चत्फणोरुश्वसदतिधवलाहीन्द्रशङ्कां दधानः । युष्माकं कम्रवक्त्राम्बुरुहपरिलसत्कर्णिकाकारशोभः शश्वत्त्राणाय भूयादलमतिविमलोत्तुङ्गकोणः स घोणः ॥ क्रुध्यत्यद्धा ययोः स्वां तनुमतिलसतोर्बिम्बितां लक्षयन्ती भर्त्रे स्पर्धातिनिघ्ना मुहुरितरवधूशङ्कया शैलकन्या । युष्मांस्तौ शश्वदुच्चैरबहुलदशमीशर्वरीशातिशुभ्रा- वव्यास्तां दिव्यसिन्धोः कमितुरवनमल्लोकपालौ कपोलौ ॥ यो भासा भात्युपान्तस्थित इव निभृतं कौस्तुभो द्रष्टुमिच्छ- न्सोत्थस्नेहान्नितान्तं गलगतगरलं पत्युरुच्चैः पशूनाम् । प्रोद्यत्प्रेम्णा यमार्द्रा पिबति गिरिसुता संपदः सातिरेका लोकाः शोणीकृतान्ता यदधरमहसा सोऽधरो वो विधत्ताम् ॥ अत्यर्थं राजते या वदनशशधरादुद्गलच्चारुवाणी- पीयूषाम्भः प्रवाहप्रसरपरिलसत्फेनबिन्द्वावलीव । देयात्सा दन्तपङ्क्तिश्चिरमिह दनुदायाददौवारिकस्य द्युत्या दीप्तेन्दुकुन्दच्छविरमलतरप्रोन्नताम्रा मुदं वः ॥ न्यक्कुर्वन्नुर्वराभृन्निभघनसमयोद्धुष्टमेघौघघोषं स्फूर्जद्वार्ध्युत्थितोरुध्वनितमपि परब्रह्मभूतो गभीरः । सुव्यक्तो व्यक्तमूर्तेः प्रकटितकरणः प्राणनाथस्य सत्याः प्रीत्या वः संविदध्यात्फलविकलमलं जन्म नादः स नादः ॥ भासा यस्य त्रिलोकी लसति परिलसत्फेनबिन्द्वर्णवान्त- र्व्यामग्नेवातिगौरस्तुलितसुरसरिद्वारिपूरप्रसारः । पीनात्मा दन्तभाभिर्भृशमहहहकारातिभीमः सदेष्टां पुष्टां तुष्टिं कृषीष्ट स्फुटमिह भवतामट्टहासोऽष्टमूर्तेः ॥ सद्योजाताख्यमाप्यं यदुविमलमुदग्वर्ति यद्वामदेवं नाम्ना हेम्ना सदृक्षं जलदनिभमघोराह्वयं दक्षिणं यत् । यद्वालार्कप्रभं तत्पुरुषनिगदितं पूर्वमीशानसंज्ञं यद्दिव्यं तानि शंभोर्भवदभिलषितं पञ्च दद्युर्मुखानि ॥ आत्मप्रेम्णो भवान्या स्वयमिव रचिताः सादरं सांवनन्या मष्या तिस्रः सुनीलाञ्जननिभगररेखाः समाभान्ति यस्याम् । आकल्पानल्पभासा भृशरुचिरतरा कम्बुकल्पाम्बिकायाः पत्युः सात्यन्तमन्तर्विलसतु सततं मन्थरा कंधरा वः ॥ वक्त्रेन्दोर्दन्तलक्ष्म्याश्चिरमधरमहाकौस्तुभस्याप्युपान्ते सोत्थानां प्रार्थयन्यः स्थितिमचलभुवे वारयन्त्यै निवेशम् । प्रायुङ्क्तेवाशिषो यः प्रतिपदममृतत्वे स्थितः कालशत्रोः कालं कुर्वन्गलं वो हृदयमयमलं क्षालयेत्कालकूटः ॥ प्रौढप्रेमाकुलाया दृढतरपरिरम्भेषु पर्वेन्दुमुख्याः पार्वत्याश्चारुचामीकरवलयपदैरङ्कितं कान्तिशालि । रङ्गन्नागाङ्गदाढ्यं सततमविहितं कर्म निर्मूलयेत्त- द्दोर्मूलं निर्मलं यद्धृदि दुरितमपास्यार्जितं धूर्जटेर्वः ॥ कण्ठाश्लेषार्थमाप्ता दिव इव कमितुः स्वर्गसिन्धोः प्रवाहाः क्रान्त्यै संसारसिन्धोः स्फटिकमणिमहासंक्रमाकारदीर्घाः । तिर्यग्विष्कम्भभूतास्त्रिभुवनवसतेर्भिन्नदैत्येभदेहा बाहा वस्ता हरस्य द्रुतमिह निवहानंहसां संहरन्तु ॥ वक्षो दक्षद्विषोऽलं स्मरभरविनमद्दक्षजाक्षीणवक्षो- जान्तर्निक्षिप्तशुम्भन्मलयजमिलितोद्भासि भस्मोक्षितं यत् । क्षिप्रं तद्रूक्षचक्षुः श्रुतिगणफणरत्नौघभाभीक्ष्णशोभं युष्माकं शश्वदेनः स्फटिकमणिशिलामण्डलाभं क्षिणोतु ॥ मुक्तामुक्ते विचित्राकुलवलिलहरीजालशालिन्यवाञ्च- न्नाभ्यावर्ते विलोलद्भुजगवरयुते कालशत्रोर्विशाले युष्मच्चित्तत्रिधामा प्रतिनवरुचिरे मन्दिरे कान्तिलक्ष्म्याः शेतां शीतांशुगौरे चिरतरमुदरक्षीरसिन्धौ सलीलम् ॥ वैयाघ्नी यत्र कृत्तिः स्फुरति हिमगिरेर्विस्तृतोपत्यकान्तः सान्द्रावश्यायमिश्रा परित इव वृता नीलजीमूतमाला । आबद्धाहीन्द्रकाञ्चीगुणमतिपृथुलं शैलजाक्रीडभूमि- स्तद्वो निःश्रेयसे स्याज्जघनमतिघनं बालशीतांशुमौलेः ॥ पुष्टावष्टम्भभूतौ पृथुतरजघनस्यापि नित्यं त्रिलोक्याः सम्यग्वृत्तौ सुरेन्द्रद्विरदवरकरोदारकान्तिं दधानौ । सारावूरू पुरारेः प्रसभमरिघटाघस्मरौ भस्मशुभ्रौ भक्तैरत्यार्द्रचित्तैरधिकमवनतौ वाञ्छितं वो विधत्ताम् ॥ आनन्दायेन्दुकान्तोपलरचितसमुद्रायिते ये मुनीनां चित्तादर्शं निधातुं विदधति चरणे ताण्डवाकुञ्चनानि । काञ्चीभोगीन्द्रमूर्ध्नां प्रतिमुहुरुपधानायमाने क्षणं ते कान्ते स्तामन्तकारेद्युतिविजितसुधाभानुनी जानुनी वः ॥ मञ्जीरीभूतभोगिप्रवरगणफणामण्डलान्तर्नितान्त- व्यादीर्घानर्घरत्नद्युतिकिसलयिते स्तूयमाने द्युसद्भिः । बिभ्रत्यौ विभ्रमं वः स्फटिकमणिबृहद्दण्डवद्भासिते ये जङ्घे शङ्खेन्दुशुभ्रे भृशमिह भवतां मानसे शूलपाणेः ॥ अस्तोकस्तोमशस्त्रैरपचितिममलां भूरिभावोपहारैः कुर्वद्भिः सर्वदोच्चैः सततमभिवृतौ ब्रह्मविद्देवलाद्यैः । सम्यक्संपूज्यमानाविह हृदि सरसीवानिशं युष्मदीये शर्वस्य क्रीडतां तौ प्रपदवरबृहत्कच्छपावच्छभासौ ॥ याः स्वस्यैकांशपातादतिबलहगलद्रक्तवक्त्रं प्रणुन्न- प्राणं प्राक्रोशयन्प्राङ् निजमचलवरं चालयन्तं दशास्यम् । पादाङ्गुल्यो दिशन्तु द्रुतमयुगदृशः कल्मषप्लोषकल्याः कल्याणं फुल्लमाल्यप्रकरविलसिता वः प्रणद्धाहिवल्ल्यः ॥ प्रह्वप्राचीनबर्हिः प्रमुखसुरवरप्रस्फुरन्मौलिसक्त- ज्यायोरत्नोत्करोस्रैरविरतममला भूरिनीराजिता या । प्रोदग्राग्रा प्रदेयात्ततिरिव रुचिरा तारकाणां नितान्तं नीलग्रीवस्य पादाम्बुरुहविलसिता सा नखाली सुखं वः ॥ सत्याः सत्याननेन्दावपि सविधगते ये विकासं दधाते स्वान्ते स्वां ते लभन्ते श्रियमिह सरसीवामरा ये दधानाः । लोलं लोलम्बकानां कुलमिव सुधियां सेवते ये सदा स्तां भूत्यै भूत्यैणपाणेर्विमलतररुचस्ते पदाम्भोरुहे वः ॥ २७ ॥ येषां रागादिदोषाक्षतमति यतयो यान्ति मुक्तिं प्रसादा- द्ये वा नम्रात्ममूर्तिद्युसदृषिपरिषन्मूर्ध्नि शेषायमाणाः । श्रीकण्ठस्यारुणोद्यच्चरणसरसिजप्रोत्थितास्ते भवाख्या- त्पारावाराच्चिरं वो दुरितहतिकृतस्तारयेयुः परागाः ॥ भूम्ना यस्यास्तसीम्ना भुवनमनुसृतं यत्परं धाम धाम्नां साम्नामाम्नायतत्वं यदपि च परमं यद्गुणातीतमाद्यम् । यच्चांहोहन्निरीहं गहनमिति मुहुः प्राहुरुच्चैर्महान्तो माहेशं तन्महो मे महितमहरहर्मोहरोहं निहन्तु ॥ २९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवकेशादिपादान्तवर्णनस्तोत्रम् संपूर्णम् ॥ ॥ श्रीः ॥ ॥ वेदसारशिवस्तोत्रम् ॥ पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् । जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम् ॥ १ ॥ महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम् । विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥ २ ॥ गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरूपम् । भवं भास्वरं भस्मना भूषिताङ्गं भवानीकलत्रं भजे पञ्चवक्त्रम् ॥ ३ ॥ शिवाकान्त शंभो शशाङ्कार्धमौले महेशान शूलिञ्जटाजूटधारिन् । त्वमेको जगद्व्यापको विश्वरूपः प्रसीद प्रसीद प्रभो पूर्णरूप ॥ ४ ॥ परात्मानमेकं जगद्बीजमाद्यं निरीहं निराकारमोंकारवेद्यम् । यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वम् ॥ ५ ॥ न भूमिर्न चापो न वह्निर्न वायु- र्न चाकाशमास्ते न तन्द्रा न निद्रा । न चोष्णं न शीतं न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ॥ ६ ॥ अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम् । तुरीयं तमःपारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनम् ॥ ७ ॥ नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते । नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥ ८ ॥ प्रभो शूलपाणे विभो विश्वनाथ महादेव शंभो महेश त्रिनेत्र । शिवाकान्त शान्त स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्यः ॥ ९ ॥ शंभो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन् । काशीपते करुणया जगदेतदेक- स्त्वं हंसि पासि विदधासि महेश्वरोऽसि ॥ १०॥ त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्मृड विश्वनाथ । त्वय्येव गच्छति लयं जगदेतदीश लिङ्गात्मके हर चराचर विश्वरूपिन् ॥ ११ ॥ ॥ श्रीः ॥ शिवापराध- क्षमापणस्तोत्रम् ॥ आदौ कर्म प्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः । यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥ बाल्ये दुःखातिरेकान्मललुलितवपुः स्तन्यपाने पिपासु- र्नो शक्तश्चेन्द्रियेभ्यो भव मलजनिता जन्तवो मां तुदन्ति । नानारोगातिदुःखाद्रुदितपरवशः शंकरं न स्मरामि क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥ प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसंधौ दष्टो नष्टो विवेकः सुतधनयुवतिस्वादसौख्ये निषण्णः । शैवे चिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥ वार्धक्ये चेन्द्रियाणां विकलगतिमतश्चाधिदैवादितापैः प्राप्तै रोगैर्वियोगैर्व्यसनकृशतनोर्ज्ञप्तिहीनं च दीनम् । मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥ स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं पूजार्थं वा कदाचिद्बहुतरगहनेऽखण्डबिल्वीदलं वा । नानीता पद्ममाला सरसि विकसिता गन्धपुष्पैस्त्वदर्थं क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥ दुग्धैर्मध्वाज्ययुक्तैर्दधिगुडसहितैः स्नापितं नैव लिङ्गं नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः । धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥ नो शक्यं स्मार्तकर्म प्रतिपदगहने प्रत्यवायाकुलाढ्ये श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गानुसारे । तत्वेऽज्ञाते विचारे श्रवणमननयोः किं निदिध्यासितव्यं क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥ ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो हव्यं ते लक्षसंख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः । नो तप्तं गाङ्गतीरे व्रतजपनियमै रुद्रजाप्यं न जप्तं क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥ नग्नो निःसंगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो नासाग्रन्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् । उन्मन्यावस्थया त्वां विगतगतिमतिः शंकरं न स्मरामि क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥ स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुम्भिते सूक्ष्ममार्गे शान्ते स्वान्ते प्रलीने प्रकटितविभवे दिव्यरूपे शिवाख्ये । लिङ्गाग्रे ब्रह्मवाक्ये सकलतनुगतं शंकरं न स्मरामि क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥ हृद्यं वेदान्तवेद्यं हृदयसरसिजे दीप्तमुद्यत्प्रकाशं सत्यं शान्तस्वरूपं सकलमुनिमनःपद्मषण्डैकवेद्यम् । जाग्रत्स्वप्ने सुषुप्तौ त्रिगुणविरहितं शंकरं न स्मरामि क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥ चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शंकरे सर्पैर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे । दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे मोक्षार्थं कुरु चित्तवृत्तिममलामन्यैस्तु किं कर्मभिः ॥ किं यानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् । ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः स्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम् ॥ १३ पौरोहित्यं रजनिचरितं ग्रामणीत्वं नियोगो माठापत्यं ह्यनृतवचनं साक्षिवादः परान्नम् । ब्रह्मद्वेषः खलजनरतिः प्राणिनां निर्दयत्वं मा भूदेवं मम पशुपते जन्मजन्मान्तरेषु ॥ १४ ॥ आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः । लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं तस्मान्मां शरणागतं करुणया त्वं रक्ष रक्षाधुना ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री गोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवापराधक्षमापणस्तोत्रं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ सुवर्णमालास्तुतिः ॥ अथ कथमपि मद्रसनां त्वद्गुण- लेशैर्विशोधयामि विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ १ ॥ आखण्डलमदखण्डनपण्डित तण्डुप्रिय चण्डीश विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ २ ॥ इभचर्माम्बर शम्बररिपुवपु- रपहरणोज्ज्वलनयन विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ३ ॥ ईश गिरीश नरेश परेश म- हेश बिलेशयभूषण भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ४ ॥ उमया दिव्यसुमङ्गलविग्रह- यालिङ्गितवामाङ्ग विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ५ ॥ ऊरीकुरु मामज्ञमनाथं दूरीकुरु मे दुरितं भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ६ ॥ ऋषिवरमानसहंस चराचर- जननस्थितिलयकारण भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ७ ॥ ऋक्षाधीशकिरीट महोक्षा- रूढ विधृतरुद्राक्ष विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ८ ॥ ऌवर्णद्वन्द्वमवृन्तसुकुसुममि- वाङ्घ्रौ तवार्पयामि विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ९ ॥ एकं सदिति श्रुत्या त्वमेव सदसीत्युपास्महे मृड भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ १० ॥ ऐक्यं निजभक्तेभ्यो वितरसि विश्वंभरोऽत्र साक्षी भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ११ ॥ ओमिति तव निर्देष्ट्री माया- स्माकं मृडोपकर्त्री भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ १२ ॥ औदास्यं स्फुटयति विषयेषु दि- गम्बरता च तवैव विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ १३ ॥ अन्तःकरणविशुद्धिं भक्ति च त्वयि सतीं प्रदेहि विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ १४ ॥ अस्तोपाधिसमस्तव्यस्तै रूपैर्जगन्मयोऽसि विभो साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ १५ ॥ करुणावरुणालय मयि दास उ- दासस्तवोचितो न हि भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ १६ ॥ खलसहवासं विघटय घटय स- तामेव सङ्गमनिशं भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ १७ ॥ गरलं जगदुपकृतये गिलितं भवता समोऽस्ति कोऽत्र विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ १८ ॥ घनसारगौरगात्र प्रचुरज- टाजूटबद्धगङ्ग विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ १९ ॥ ज्ञप्तिः सर्वशरीरेष्वखण्डि- ता या विभाति सा त्वं भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ २० ॥ चपलं मम हृदयकपिं विषय- द्रुचरं दृढं बधान विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ २१ ॥ छाया स्थाणोरपि तव तापं नमतां हरत्यहो शिव भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ २२ ॥ जय कैलासनिवास प्रमथग- णाधीश भूसुरार्चित भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ २३ ॥ झणुतकझङ्किणुझणुतत्किटतक- शब्दैर्नटसि महानट भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ २४ ॥ ज्ञानं विक्षेपावृतिरहितं कुरु मे गुरुस्त्वमेव विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ २५ ॥ टङ्कारस्तव धनुषो दलयति हृदयं द्विषामशनिरिव भो साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ २६ ॥ ठाकृतिरिव तव माया बहिर- न्तः शून्यरूपिणी खलु भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ २७ ॥ डम्बरमम्बुरुहामपि दलय- त्यनघं त्वदङ्घ्रियुगलं भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ २८ ॥ ढक्काक्षसूत्रशूलद्रुहिणक- रोटीसमुल्लसत्कर भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ २९ ॥ णाकारगर्भिणी चेच्छुभदा ते शरगतिर्नृणामिह भो साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ३० ॥ तव मन्वतिसंजपतः सद्य- स्तरति नरो हि भवाब्धि भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ३१ ॥ धूत्कारस्तस्य मुखे भूया- त्ते नाम नास्ति यस्य विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ३२ ॥ दयनीयश्च दयालुः कोऽस्ति म- दन्यस्त्वदन्य इह वद भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ३३ ॥ धर्मस्थापनदक्ष त्र्यक्ष गु- रो दक्षयज्ञशिक्षक भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ३४ ॥ ननु ताडितोऽसि धनुषा लुब्धधि- या त्वं पुरा नरेण विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ३५ ॥ परिमातुं तव मूर्तिं नालम- जस्तत्परात्परोऽसि विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ३६ ॥ फलमिह नृतया जनुषस्त्वत्पद- सेवा सनातनेश विभो। साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ३७ ॥ बलमारोग्यं चायुस्त्वद्गुण- रुचितां चिरं प्रदेहि विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ३८ ॥ भगवन्भर्ग भयापह भूतप- ते भूतिभूषिताङ्ग विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ३९ ॥ महिमा तव न हि माति श्रुतिषु हि- मानीधरात्मजाधव भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ४० ॥ यमनियमादिभिरङ्गैर्यमिनो हृदये भजन्ति स त्वं भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ४१ ॥ रज्जावहिरिव शुक्तौ रजतमि- व त्वयि जगन्ति भान्ति विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ४२ ॥ लब्ध्वा भवत्प्रसादाच्चक्रं विधुरवति लोकमखिलं भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ४३ ॥ वसुधातद्धरतच्छयरथमौ- र्वीशर पराकृतासुर भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ४४ ॥ शर्व देव सर्वोत्तम सर्वद दुर्वृत्तगर्वहरण विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ४५ ॥ षड्रिपुषडूर्मिषड्विकारहर सन्मुख षण्मुखजनक विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ४६ ॥ सत्यं ज्ञानमनन्तं ब्रह्मे- त्येतल्लक्षणलक्षित भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ४७ ॥ हाहाहूहूमुखसुरगायक- गीतापदानपद्य विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ४८ ॥ ळादिर्न हि प्रयोगस्तदन्त- मिह मङ्गळं सदास्तु विभो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ४९ ॥ क्षणमिव दिवसान्नेष्यति त्वत्पद- सेवाक्षणोत्सुकः शिव भो । साम्ब सदाशिव शंभो शंकर शरणं मे तव चरणयुगम् ॥ ५० ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ सुवर्णमालास्तुतिः संपूर्णा ॥ ॥ श्रीः ॥ ॥ दशश्लोकीस्तुतिः ॥ साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन संतारिताः । साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ॥ विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्ताः स्वयं यं शंभुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः । स्वस्वस्थाननियोजिताः सुमनसः स्वस्था बभूवुस्तत- स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ २ ॥ क्षोणी यस्य रथो रथाङ्गयुगलं चन्द्रार्कबिम्बद्वयं कोदण्डः कनकाचलो हरिरभूद्बाणो विधिः सारथिः । तूणीरो जलधियाः श्रुतिचयो मौर्वी भुजंगाधिप- स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ३ ॥ येनापादितमङ्गजाङ्गभसितं दिव्याङ्गरागैः समं येन स्वीकृतमब्जसंभवशिरः सौवर्णपात्रैः समम् । येनाङ्गीकृतमच्युतस्य नयनं पूजारविन्दैः समं तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ४ ॥ गोविन्दादधिकं न दैवतमिति प्रोच्चार्य हस्तावुभा- वुद्धृत्याथ शिवस्य संनिधिगतो व्यासो मुनीनां वरः । यस्य स्तम्भितपाणिरानतिकृता नन्दीश्वरेणाभव- त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ५ ॥ आकाशश्चिकुरायते दशदिशाभोगो दुकूलायते शीतांशुः प्रसवायते स्थिरतरानन्दः स्वरूपायते । वेदान्त निलयायते सुविनयो यस्य स्वभावायते तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ६ ॥ विष्णुर्यस्य सहस्रनामनियमादम्भोरुहाण्यर्चय- न्नेकोनोपचितेषु नेत्रकमलं नैजं पदाब्जद्वये । संपूज्यासुरसंहतिं दिविलयंस्त्रैलोक्यपालोऽभव- त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ७ ॥ शौरिं सत्यगिरं वराहवपुषं पादाम्बुजादर्शने चक्रे यो दयया समस्तजगतां नाथं शिरोदर्शने । मिथ्यावाचमपूज्यमेव सततं इंसस्वरूपं विधिं तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ८ ॥ यस्यासन्धरणीजलाग्निपवनव्योमार्कचन्द्रादयो विख्यातास्तनवोऽष्टधा परिणता नान्यत्ततो वर्तते । ओंकारार्थविवेचनी श्रुतिरियं चाचष्ट तुर्यं शिवं तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ९ ॥ विष्णुब्रह्मसुराधिपप्रभृतयः सर्वेऽपि देवा यदा संभूताज्जलधेर्विषात्परिभवं प्राप्तास्तदा सत्वरम् । तानार्ताञ्शरणागतानिति सुरान्योऽरक्षदर्घक्षणा- त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ १० ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री गोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ दशश्लोकीस्तुतिः संपूर्णा ॥ ॥ श्रीः॥ दक्षिणामूर्ति- वर्णमालास्तोत्रम् ॥ ॐ मित्येतद्यस्य बुधैर्नाम गृहीतं यद्भासेदं भाति समस्तं वियदादि । यस्याज्ञातः स्वस्वपदस्था विधिमुख्या- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १ ॥ नम्राङ्गाणां भक्तिमतां यः पुरुषार्था- न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः । पादाम्भोजाधस्तनितापस्मृतिमीशं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २ ॥ मोहध्वस्त्यै वैणिकवैयासिकमुख्याः संविन्मुद्रापुस्तकवीणाक्षगुणान्यम् । हस्ताम्भोजैर्बिभ्रतमाराधितवन्त- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ३ ॥ भद्रारूढं भद्रदमाराधयितॄणां भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति । आदित्या यं वाञ्छितसिद्ध्यै करुणाब्धिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ४ ॥ गर्भान्तःस्थाः प्राणिन एते भवपाश- च्छेदे दक्षं निश्चितवन्तः शरणं यम् । आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ५ ॥ चक्रं धन्याः संसृतिवार्धेरतिमात्रा- द्भीताः सन्तः पूर्णशशाङ्कद्युति यस्य । सेवन्तेऽध्यासीनमनन्तं वटमूलं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ६ ॥ तेजः स्तोमैरङ्गदसंघट्टितभास्व- न्माणिक्योत्यैर्भासितविश्वो रुचिरैर्यः । तेजोमूर्तिं खानिलतेजःप्रमुखाब्धिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ७ ॥ दध्याज्यादिद्रव्यककर्माण्यखिलानि त्यक्त्वा काङ्क्षां कर्मफलेष्वत्र करोति । यज्जिज्ञासां रूपफलार्थी क्षितिदेव- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ८ ॥ क्षिप्रं लोके यं भजमानः पृथुपुण्यः प्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः प्रत्यग्भूतं ब्रह्म परं सन्रमते य- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ९ ॥ णानेत्येवं यन्मनुमध्यस्थितवर्णा- न्भक्ताः काले वर्णगृहीत्यै प्रजपन्तः । मोदन्ते संप्राप्तसमस्तश्रुतितन्त्रा- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १० ॥ मूर्तिश्छायानिर्जितमन्दाकिनिकुन्द- प्रालेयाम्भोराशिसुधाभूतिसुरेभा । यस्याभ्राभा हासविधौ दक्षशिरोधि- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ११ ॥ तप्तस्वर्णच्छायजटाजूटकटाह- प्रोद्यद्वीचीवल्लिविराजत्सुरसिन्धुम् । नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १२ ॥ येन ज्ञातेनैव समस्तं विदितं स्या- द्यस्मादन्यद्वस्तु जगत्यां शशशृङ्गम् । यं प्राप्तानां नास्ति परं प्राप्यमनादिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १३ ॥ मत्तो मारो यस्य ललाटाक्षिभवाग्नि- स्फूर्जत्कालप्रोषितभस्मीकृतदेहः । तद्भस्मासीद्यस्य सुजातः पटवास- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १४ ॥ ह्यम्भोराशौ संसृतिरूपे लुठतां त- त्पारं गन्तुं यत्पदभक्तिर्दृढनौका । सर्वाराध्यं सर्वगमानन्दपयोधिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १५ ॥ मेधावी स्यादिन्दुवतंसं धृतवीणं कर्पूराभं पुस्तकहस्तं कमलाक्षम् । चित्ते ध्यायन्यस्य वपुर्द्राङ्निमिषार्धं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १६ ॥ धाम्नां धाम प्रौढरुचीनां परमं य- त्सूर्यादीनां यस्य स हेतुर्जगदादेः । एतावान्यो यस्य न सर्वेश्वरमीड्यं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १७ ॥ प्रत्याहारप्राणनिरोधादिसमर्थै- र्भक्तैर्दान्तैः संयतचित्तैर्यतमानैः । स्वात्मत्वेन ज्ञायत एव त्वरया य- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १८ ॥ ज्ञांशीभूतान्प्राणिन एतान्फलदाता चित्तान्तःस्थः प्रेरयति स्वे सकलेsपि । कृत्ये देवः प्राक्तनकर्मानुसरः सं- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १९ ॥ प्रज्ञामात्रं प्रापितसंबिन्निजभक्तं प्राणाक्षादेः प्रेरयितारं प्रणवार्थम् । प्राहुः प्राज्ञा यं विदितानुश्रवतत्त्वा- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २० ॥ यस्याज्ञानादेव नृणां संसृतिबोधो यस्य ज्ञानादेव विमोक्षो भवतीति । स्पष्टं ब्रूते वेदशिरो देशिकमाद्यं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २१ ॥ छन्नेऽविद्यारूपपटेनैव च विश्वं यत्राध्यस्तं जीवपरेशत्वमपीदम् । भानोर्भानुष्वम्बुवदस्ताखिलभेदं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २२ ॥ स्वापस्वप्नौ जाग्रदवस्थापि न यत्र प्राणश्चेतः सर्वगतो यः सकलात्मा । कूटस्थो यः केवलसच्चित्सुखरूप- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २३ ॥ हा हेत्येवं विस्मयमीयुर्मुनिमुख्या ज्ञाते यस्मिन्स्वात्मतयानात्मविमोहः । प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २४ ॥ यैषा रम्यैर्मत्तमयूराभिधवृत्तै- रादौ कॢप्ता यन्मनुवर्णैर्मुनिभङ्गी । तामेवैतां दक्षिणवक्त्रः कृपयासा- वूरीकुर्याद्देशिकसम्राट् परमात्मा ॥ २५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीदक्षिणामूर्तिवर्णमालास्तोत्रं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ श्रीदक्षिणामूर्त्यष्टकम् ॥ विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया । यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १ ॥ बीजस्यान्तरिवाङ्करो जगदिदं प्रानिर्विकल्पं पुन- र्मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् । मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ २ ॥ यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् । यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ३ ॥ नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते । जानामीति तमेव भान्तमनुभात्येतत्समस्तं जग- त्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ४॥ देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः । मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ५ ॥ राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादना- त्सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् । प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ६ ॥ बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा । स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ७ ॥ विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः । स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामित- स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ८ ॥ भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमा- नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् । नान्यत्किंचन विद्यते विमृशतां यस्मात्परस्माद्विभो- स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ९ ॥ सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात् । सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः सिध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहृतम् ॥ १० ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीदक्षिणामूर्त्यष्टकम् संपूर्णम् ॥ ॥ श्रीः॥ श्रीमृत्युंजयमानसिक- पूजास्तोत्रम् ॥ कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम् । गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरं कण्ठालंकृतशेषभूषणममुं मृत्युंजयं भावये ॥ १ ॥ आगत्य मृत्युंजय चन्द्रमौले व्याघ्राजिनालंकृत शूलपाणे । स्वभक्तसंरक्षणकामधेनो प्रसीद विश्वेश्वर पार्वतीश ॥ २ ॥ भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालंकृते सौधे धूपसुवासिते मणिमये माणिक्यदीपाञ्चिते । ब्रह्मेन्द्रामरयोगिपुंगवगणैर्युक्ते च कल्पद्रुमैः श्रीमृत्युंजय सुस्थिरो भव विभो माणिक्यसिंहासने ॥ मन्दारमल्लीकरवीरमाधवी- पुंनागनीलोत्पलचम्पकान्वितैः । कर्पूरपाटीरसुवासितैर्जलै- राधत्स्व मृत्युंजय पाद्यमुत्तमम् ॥ ४ ॥ सुगन्धपुष्पप्रकरैः सुवासितै- र्वियन्नदीशीतलवारिभिः शुभैः । त्रिलोकनाथार्तिहरार्घ्यमादरा- द्गृहाण मृत्युंजय सर्ववन्दित ॥ ५ ॥ हिमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः । मृत्युंजय महादेव शुद्धाचमनमाचर ॥ ६ ॥ गुडदधिसहितं मधुप्रकीर्णं सुघृतसमन्वितधेनुदुग्धयुक्तम् । शुभकर मधुपर्कमाहर त्वं त्रिनयन मृत्युहर त्रिलोकवन्द्य ॥ ७ ॥ पञ्चास्त्र शान्त पञ्चास्य पञ्चपातकसंहर । पञ्चामृतस्नानमिदं कुरु मृत्युंजय प्रभो ॥ ८ ॥ जगत्त्रयीख्यात समस्ततीर्थ- समाहृतैः कल्मषहारिभिश्च । स्नानं सुतोयैः समुदाचर त्वं मृत्युंजयानन्तगुणाभिराम ॥ ९ ॥ आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात् । मार्जयामि जटाभारं शिव मृत्युंजय प्रभो ॥ १० ॥ नानाहेमविचित्राणि चीरचीनाम्बराणि च । विविधानि च दिव्यानि मृत्युंजय सुधारय ॥ ११॥ विशुद्धमुक्ताफलजालरम्यं मनोहरं काञ्चनहेमसूत्रम् । यज्ञोपवीतं परमं पवित्र- माधत्स्व मृत्युंजय भक्तिगम्य ॥ १२ ॥ श्रीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं कालेयेन हिमाम्बुना विरचितं मन्दारसंवासितम् । दिव्यं देवमनोहरं मणिमये पात्रे समारोपितं सर्वाङ्गेषु विलेपयामि सततं मृत्युंजय श्रीविभो ॥ अक्षतैर्धवलैर्दिव्यैः सम्यक्तिलसमन्वितैः । मृत्युंजय महादेव पूजयामि वृषध्वज ॥ १४ ॥ चम्पकपङ्कजकुरवक- कुन्दैः करवीरमल्लिकाकुसुमैः । विस्तारय निजमकुटं मृत्युंजय पुण्डरीकनयनाप्त ॥ १५ ॥ माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे । पादौ सत्पद्मसदृशौ मृत्युंजय निवेशय ॥ १६ ॥ माणिक्यकेयूरकिरीटहारैः काञ्चीमणिस्थापितकुण्डलैश्च । मञ्जीरमुख्याभरणैर्मनोज्ञै- रङ्गानि मृत्युंजय भूषयामि ॥ १७ ॥ गजवदनस्कन्दधृते- नातिस्वच्छेन चामरयुगेन । गलदलकाननपद्मं मृत्युंजय भावयामि हृत्पद्मे ॥ १८ ॥ मुक्तातपत्रं शशिकोटिशुभ्रं शुभप्रदं काञ्चनदण्डयुक्तम् । माणिक्यसंस्थापितहेमकुम्भं सुरेश मृत्युंजय तेऽर्पयामि ॥ १९ ॥ मणिमुकुरे निष्पटले त्रिजगद्गाढान्धकारसप्ताश्वे । कंदर्पकोटिसदृशं मृत्युंजय पश्य वदनमात्मीयम् ॥ २० ॥ कर्पूरचूर्णं कपिलाज्यपूतं दास्यामि कालेयसमन्वितैश्च । समुद्भवं पावनगन्धधूपितं मृत्युंजयाङ्गं परिकल्पयामि ॥ २१ ॥ वर्तित्रयोपेतमखण्डदीप्त्या तमोहरं बाह्यमथान्तरं च । ११० श्रीमृत्युंजयमान सिकपूजास्तोत्रम् । साज्यं समस्तामरवर्गहृद्यं सुरेश मृत्युंजय वंशदीपम् ॥ २२ ॥ राजानं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितं हिगूजीरकसन्मरीचिमिलितैः शाकैरनेकैः शुभैः । शाकं सम्यगपूपसूपसहितं सद्योघृतेनाप्लुतं श्रीमृत्युंजय पार्वतीप्रिय विभो सापोशनं भुज्यताम् ॥ कुश्माण्डवार्ताकपटोलिकानां फलानि रम्याणि च कारवल्ल्या । सुपाकयुक्तानि ससौरभाणि श्रीकण्ठ मृत्युंजय भक्षयेश ॥ २४ ॥ शीतलं मधुरं स्वच्छं पावनं वासितं लघु । मध्ये स्वीकुरु पानीयं शिव मृत्युंजय प्रभो ॥ २५ ॥ शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम् । कदलीफलसंमिश्रं भुज्यतां मृत्युसंहर ॥ २६ ॥ केवलमतिमाधुर्यं दुग्धैः स्निग्धैश्च शर्करामिलितैः । एलामरीचिमिलितं मृत्युंजय देव भुङ्क्ष्व परमान्नम् ॥ २७ ॥ रम्भाचूतकपित्थकण्टकफलैर्द्राक्षारसस्वादुम- त्खर्जूरैर्मधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः । कर्पूरेण सुवासितैर्गुडजलैर्माधुर्ययुक्तैर्विभो श्रीमृत्युंजय पूरय त्रिभुवनाधारं विशालोदरम् ॥ मनोज्ञरम्भावनखण्डखण्डिता- न्रुचिप्रदान्सर्षपजीरकांश्च । ससौरभान्सैन्धवसेवितांश्च गृहाण मृत्युंजय लोकवन्द्य ॥ २९ ॥ हिङ्गूजीरकसहितं विमलामलकं कपित्थमतिमधुरम् । बिसखण्डाल्ँलवणयुता- न्मृत्युंजय तेऽर्पयामि जगदीश ॥ ३० ॥ एलाशुण्ठीसहीतं दध्यन्नं चारुहेमपात्रस्थम् । अमृतप्रतिनिधिमाढ्यं मृत्युंजय भुज्यतां त्रिलोकेश ॥ ३१ ॥ जम्बीरनीराञ्चितशृङ्गबेरं मनोहरानम्लशलादुखण्डान् । मृदूपदंशान्सहसोपभुङ्क्ष्व मृत्युंजय श्रीकरुणासमुद्र ॥ ३२ ॥ नागररामठयुक्तं सुललितजम्बीरनीरसंपूर्णम् । मथितं सैन्धवसहितं पिब हर मृत्युंजय ऋतुध्वंसिन् ॥ ३३ ॥ मन्दारहेमाम्बुजगन्धयुक्तै- र्मन्दाकिनीनिर्मलपुण्यतोयैः । गृहाण मृत्युंजय पूर्णकाम श्रीमत्परापोशनमभ्रकेश ॥ ३४ ॥ गगनधुनीविमलजलै- र्मृत्युंजय पद्मरागपात्रगतैः । मृगमदचन्दनपूर्णं प्रक्षालय चारु हस्तपदयुग्मम् ॥ ३५ ॥ पुंनागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः । मृत्युंजय महादेव पुनराचमनं कुरु ॥ ३६ ॥ मौक्तिकचूर्णसमेतै- र्मृगमदवनसारवासितैः पूगैः । पर्णैः स्वर्णसमानै- र्मृत्युंजय तेऽर्पयामि ताम्बूलम् ॥ ३७ ॥ नीराजनं निर्मलदीप्तिमद्भि- र्दीपाङ्कुरैरुज्ज्वलमुच्छ्रितैश्च । घण्टानिनादेन समर्पयामि मृत्युंजयाय त्रिपुरान्तकाय ॥ ३८ ॥ विरिञ्चिमुख्यामरबृन्दवन्दिते सरोजमत्स्याङ्कितचक्रचिह्निते । ददामि मृत्युंजय पादपङ्कजे फणीन्द्रभूषे पुनरर्घ्यमीश्वर ॥ ३९ ॥ पुंनागनीलोत्पलकुन्दजाजी- मन्दारमल्लीकरवीरपङ्कजैः । पुष्पाञ्जलिं बिल्वदलैस्तुलस्या मृत्युंजयाङ्घ्रौ विनिवेशयामि ॥ ४० ॥ पदे पदे सर्वतमोनिकृन्तनं पदे पदे सर्वशुभप्रदायकम् । प्रदक्षिणं भक्तियुतेन चेतसा करोमि मृत्युंजय रक्ष रक्ष माम् ॥ ४१ ॥ नमो गौरीशाय स्फटिकधवलाङ्गाय च नमो नमो लोकेशाय स्तुतविबुधलोकाय च नमः । नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो नमः फालाक्षाय स्मरमदविनाशाय च नमः ॥ ४२ ॥ संसारे जनितापरोगसहिते तापत्रयाक्रन्दिते नित्यं पुत्रकलत्रवित्तविलसत्पाशैर्निबद्धं दृढम् । गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभो श्रीमृत्युंजय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥ सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरे कौशेयेन मनोहरेण धवलेनाच्छादिते सर्वशः । कर्पूराश्चितदीपदीप्तिमिलिते रम्योपधानद्वये पार्वत्याः करपद्मलालितपदं मृत्युंजयं भावये ॥४४॥ चतुश्चत्वारिंशद्विलसदुपचारैरभिमतै- र्मनः पद्मे भक्त्या बहिरपि च पूजां शुभकरीम् । करोति प्रत्यूषे निशि दिवसमध्येऽपि च पुमा- न्प्रयाति श्रीमृत्युंजयपदमनेकाद्भुतपदम् ॥ ४५ ॥ प्रातर्लिङ्गमुमापतेरहरहः संदर्शनात्स्वर्गदं मध्याह्ने हयमेधतुल्यफलदं सायंतने मोक्षदम् । भानोरस्तमये प्रदोषसमये पञ्चाक्षराराधनं तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम् ॥४६॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमृत्युंजयमानसिकपूजास्तोत्रं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ शिवनामावल्यष्टकम् ॥ हे चन्द्रचूड मदनान्तक शूलपाणे स्थाणो गिरीश गिरिजेश महेश शंभो । भूतेश भीतभयसूदन मामनाथं संसारदुःखगहनाज्जगदीश रक्ष ॥ १ ॥ हे पार्वतीहृदयवल्लभ चन्द्रमौले भूताधिप प्रमथनाथ गिरीशचाप । हे वामदेव भव रुद्र पिनाकपाणे संसारदुःखगहनाज्जगदीश रक्ष ॥ २ ॥ हे नीलकण्ठ वृषभध्वज पञ्चवक्त्र लोकेश शेषवलय प्रमथेश शर्व । हे धूर्जटे पशुपते गिरिजापते मां संसारदुःखगहनाज्जगदीश रक्ष ॥ ३ ॥ हे विश्वनाथ शिव शंकर देवदेव- गङ्गाधर प्रमथनायक नन्दिकेश । बाणेश्वरान्धकरिपो हर लोकनाथ संसारदुःखगहनाज्जगदीश रक्ष ॥ ४ ॥ वाराणसीपुरपते मणिकर्णिकेश वीरेश दक्षमखकाल विभो गणेश । सर्वज्ञ सर्वहृदयैकनिवास नाथ संसारदुःखगहनाज्जगदीश रक्ष ॥ ५ ॥ श्रीमन्महेश्वर कृपामय हे दयालो हे व्योमकेश शितिकण्ठ गणाधिनाथ । भस्माङ्गराग नृकपालकलापमाल संसारदुःखगहनाज्जगदीश रक्षः ॥ ६ ॥ कैलासशैलविनिवास वृषाकपे हे मृत्युंजय त्रिनयन त्रिजगन्निवास । नारायणप्रिय मदापह शक्तिनाथ संसारदुःखगहनाज्जगदीश रक्ष ॥ ७ ॥ विश्वेश विश्वभवनाशक विश्वरूप विश्वात्मक त्रिभुवनैकगुणाधिकेश । हे विश्वनाथ करुणामय दीनबन्धो संसारदुःखगहनाज्जगदीश रक्ष ॥ ८ ॥ गौरीविलासभवनाय महेश्वराय पञ्चाननाय शरणागतकल्पकाय । शर्वाय सर्वजगतामधिपाय तस्मै दारिद्र्यदुःखदहनाय नमः शिवाय ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवनामावल्यष्टकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ शिवपञ्चाक्षरस्तोत्रम् ॥ नागेन्द्रहाराय विलोचनाय भस्माङ्गरागाय महेश्वराय । नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय ॥ १ ॥ मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय । मन्दारमुख्यबहुपुष्पसुपूजिताय तस्मै मकारमहिताय नमः शिवाय ॥ २ ॥ शिवाय गौरीवदनाब्जवृन्द- सूर्याय दक्षाध्वरनाशकाय । श्रीनीलकण्ठाय वृषध्वजाय तस्मै शिकाराय नमः शिवाय ॥ ३ ॥ वसिष्ठकुम्भोद्भवगौतमार्य- मुनीन्द्रदेवार्चितशेखराय । चन्द्रार्कवैश्वानरलोचनाय तस्मै वकाराय नमः शिवाय ॥ ४ ॥ यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय । दिव्याय देवाय दिगम्बराय तस्मै यकाराय नमः शिवाय ॥ ५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवपञ्चाक्षरस्तोत्रं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ उमामहेश्वरस्तोत्रम् ॥ नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्यां । नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ १ ॥ नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ २ ॥ नमः शिवाभ्यां वृषवाहनाभ्यां विरिञ्विविष्ण्विन्द्रसुपूजिताभ्याम् । विभूतिपाटीरविलेपनाभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ ३ ॥ नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम् जम्भारिमुख्यैरभिवन्दिताभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ ४ ॥ नमः शिवाभ्यां परमौषधाभ्यां पश्चाक्षरीपञ्जररञ्जिताभ्याम् । प्रपञ्चसृष्टिस्थितिसंहृताभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ ५ ॥ नमः शिवाभ्यामतिसुन्दराभ्या- मत्यन्तमासक्तहृदम्बुजाभ्याम् । अशेषलोकैकहितंकराभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ ६ ॥ नमः शिवाभ्यां कलिनाशनाभ्यां कङ्कालकल्याणवपुर्धराभ्याम् । कैलासशैलस्थितदेवताभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ ७ ॥ नमः शिवाभ्यामशुभापहाभ्या- मशेषलोकैकविशेषिताभ्याम् । अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ ८ ॥ नमः शिवाभ्यां रथवाहनाभ्यां रवीन्दुवैश्वानरलोचनाभ्याम् । राकाशशाङ्काभमुखाम्बुजाभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ ९ ॥ नमः शिवाभ्यां जटिलंधराभ्यां जरामृतिभ्यां च विवर्जिताभ्याम् । जनार्दनाब्जोद्भवपूजिताभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ १० ॥ नमः शिवाभ्यां विषमेक्षणाभ्यां बिल्वच्छदामल्लिकदामभृद्भ्याम् । शोभावतीशान्तवतीश्वराभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ ११ ॥ नमः शिवाभ्यां पशुपालकाभ्यां जगत्त्रयीरक्षणबद्धहृद्भ्याम् । समस्तदेवासुरपूजिताभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ १२ ॥ स्तोत्रं त्रिसंध्यं शिवपार्वतीभ्यां भक्त्या पठेद्द्वादशकं नरो यः । स सर्वसौभाग्यफलानि भुङ्क्ते शतायुरन्ते शिवलोकमेति ॥ १३ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ उमामहेश्वरस्तोत्रं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ सौन्दर्यलहरी ॥ शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि । अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १ ॥ तनीयांसं पांसुं तव चरणपङ्केरुहभवं विरिञ्चिः संचिन्वन्विरचयति लोकानविकलम् । वहत्येनं शौरिः कथमपि सहस्रेण शिरसां हरः संक्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥ २ ॥ अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी । दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति ॥ ३ ॥ त्वदन्यः पाणिभ्यामभयवरदो दैवतगण- स्त्वमेका नैवासि प्रकटितवराभीत्यभिनया । भयात्त्रातुं दातुं फलमपि च वाञ्छासमधिकं शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४ ॥ हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् । स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ ५ ॥ धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखा वसन्तः सामन्तो मलयमरुदायोधनरथः । तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपा- मपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥ ६ ॥ क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना । धनुर्बाणान्पाशं सृणिमपि दधाना करतलैः पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ ७ ॥ सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे । शिवाकारे मध्ये परमशिवपर्यङ्कनिलयां भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ ८ ॥ महीं मूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि । मनोऽपि भ्रूमध्ये सकलमपि भित्त्वा कुलपथं सहस्रारे पद्म सह रहसि पत्या विहरसे ॥। ९ ॥ सुधाधारासारैश्चरणयुगलान्तर्विगलितैः प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः । अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १० ॥ चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि प्रभिन्नाभिः शंभोर्नवभिरपि मूलप्रकृतिभिः । चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय- त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥ ११ ॥ त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः । यदालोकौत्सुक्यादमरललना यान्ति मनसा तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् ॥ १२ ॥ नरं वर्षीयांसं नयनविरसं नर्मसु जडं तवापाङ्गालोके पतितमनुधावन्ति शतशः । गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया हठात्त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥ १३ । क्षितौ षट्पञ्चाशद्द्विसमधिकपञ्चाशदुदके हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले । दिवि द्विःषट्त्रिंशन्मनसि च चतुःषष्टिरिति ये मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥ १४ ॥ शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां वरत्रासत्राणस्फटिकघटिकापुस्तककराम् । सकृन्न त्वा नत्वा कथमिव सतां संनिदधते मधुक्षीरद्राक्षामधुरिमधुरीणाः फणितयः ॥ १५ ॥ कवीन्द्राणां चेतःकमलवनबालातपरुचिं भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् । विरिञ्चिप्रेयस्यास्तरुणतरशृङ्गारलहरी- गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥ १६ ॥ सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभि- र्वशिन्याद्याभिस्त्वां सह जननि संचिन्तयति यः । स कर्ता काव्यानां भवति महतां भङ्गिरुचिभि- र्वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७ ॥ तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभि- र्दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः । भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ १८ ॥ मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् । स सद्यः संक्षोभं नयति वनिता इत्यतिलघु त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ १९ ॥ किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः । स सर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वरप्लुष्टान्दृष्ट्या सुखयति सुधाधारसिरया ॥ २० ॥ तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं निषण्णां षण्णामप्युपरि कमलानां तव कलाम् । महापद्माटव्यां मृदितमलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ २१ ॥ भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा- मिति स्तोतुं वाञ्छन्कथयति भवानि त्वमिति यः । तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् ॥ २२ ॥ त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा शरीरार्धं शंभोरपरमपि शङ्के हृतमभूत् । यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ २३ ॥ जगत्सूते धाता हरिरवति रुद्रः क्षपयते तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति । सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव- स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥ २४ ॥ त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत्पूजा पूजा तव चरणयोर्या विरचिता । तथाहि त्वत्पादोद्वहनमणिपीठस्य निकटे स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ २५ ॥ विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम् । वितन्द्री माहेन्द्री विततिरपि संमीलितदृशा महासंहारेऽस्मिन्विहरति सति त्वत्पतिरसौ ॥ २६ ॥ जपो जल्पः शिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः । प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥ २७॥ सुधामन्यास्वाद्य प्रतिभयजरामृत्युहरिणीं विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः । करालं यत्क्ष्वेलं कबलितवतः कालकलना न शंभोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥ २८ ॥ किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोटीरे स्खलसि जहि जम्भारिमकुटम् । प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥ २९ ॥ स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो निषेव्ये नित्ये त्वामहमिति सदा भावयति यः । किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो महासंवर्ताग्निर्विरचयति नीराजनविधिम् ॥ ३० ॥ चतुःषष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः । पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना- स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥ ३१ ॥ शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः स्मरो हंसः शक्रस्तदनु च परामारहरयः । अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ ३२ ॥ स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो- र्निधायैके नित्ये निरवधिमहाभोगरसिकाः । भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलयाः शिवानौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥ ३३ ॥ शरीरं त्वं शंभोः शशिमिहिरवक्षोरुहयुगं तवात्मानं मन्ये भगवति नवात्मानमनघम् । अतः शेषः शेषीत्ययमुभयसाधारणतया स्थितः संबन्धो वां समरसपरानन्दपरयोः ॥ ३४ ॥ मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् । त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा चिदानन्दाकारं शिवयुवति भावेन विभूषे ॥ ३५ ॥ तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं परं शंभुं वन्दे परिमिलितपार्श्वं परचिता । यमाराध्यन्भक्त्या रविशशिशुचीनामविषये निरालोकेऽलोके निवसति हि भालोकभुवने ॥ ३६ ॥ विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं शिवं सेवे देवीमपि शिवसमानव्यवसिताम् । ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे- र्विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७ ॥ समुन्मीलत्संवित्कमलमकरन्दैकरसिकं भजे हंसद्वन्द्वं किमपि महतां मानसचरम् । यदालापादष्टादशगुणितविद्यापरिणति- र्यदादत्ते दोषाद्गुणमखिलमद्भ्यः पय इव ॥ ३८ ॥ तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं तमीडे संवर्तं जननि महतीं तां च समयाम् । यदालोके लोकान्दहति महति क्रोधकलिते दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ ३९ ॥ तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् । तव श्यामं मेघं कमपि मणिपूरैकशरणं निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥ ४० ॥ तवाधारे मूले सह समयया लास्यपरया नवात्मानं मन्ये नवरसमहाताण्डवनटम् । उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ ४१ ॥ गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रवटितं किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः । स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ ४२ ॥ धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे । यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो वसन्त्यस्मिन्मन्ये वलमथनवाटीविटपिनाम् ॥ ४३ ॥ तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी- परीवाहः स्रोतःसरणिरिव सीमन्तसरणिः । वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर- द्विषां वृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् ॥ ४४ ॥ अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् । दरस्मेरे यस्मिन्दशनरुचिकिञ्जल्करुचिरे सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥ ४५ ॥ ललाटं लावण्यद्युतिविमलमाभाति तव य- द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् । विपर्यासन्यासादुभयमपि संभूय च मिथः सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ ४६ ॥ भ्रुवौ भुग्ने किंचिद्भुवनभयभङ्गव्यसनिनि त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् । धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ ४७ ॥ अहः सूते सव्यं तव नयनमर्कात्मकतया त्रियामां वामं ते सृजति रजनीनायकतया । तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम् ॥ ४८ ॥ विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः कृपाधाराधारा किमपि मधुराभोगवतिका । अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥ ४९ ॥ कवीनां संदर्भस्तबकमकरन्दैकरसिकं कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् । अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला- वसूयासंसर्गादलिकनयनं किंचिदरुणम् ॥ ५० ॥ शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा सरोषा गङ्गायां गिरिशचरिते विस्मयवती । हराहिभ्यो भीता सरसिरुहसौभाग्यजननी सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥ ५१ ॥ गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले । इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥ ५२ ॥ विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते । पुनः स्रष्टुं देवान्द्रुहिणहरिरुद्रानुपरता- न्रजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ ५३ ॥ पवित्रीकर्तुं नः पशुपतिपराधीनहृदये दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः । नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥ ५४ ॥ निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती तवेत्याहुः सन्तो धरणिधरराजन्यतनये । त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः ॥ ५५ ॥ तवापर्णे कर्णेजपनयनपैशुन्यचकिता निलीयन्ते तोये नियतमनिमेषाः शफरिका: । इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६ ॥ दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा दवीयांसं दीनं स्नपय कृपया मामपि शिवे । अनेनायं धन्यो भवति न च ते हानिरियता वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७ ॥ अरालं ते पालीयुगलमगराजन्यतनये न केषामाधत्ते कुसुमशरकोदण्डकुतुकम् । तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलस- न्नपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥ ५८ ॥ स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं चतुश्चक्रं मन्ये तव सुखमिदं मन्मथरथम् । यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९ ॥ सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् । चमत्कारश्लाघाचलितशिरसः कुण्डलगणो झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६० ॥ असौ नासावंशस्तुहिनगिरिवंशध्वजपटि त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् । वहुत्यन्तर्मुक्ताः शिशिरकरनिश्वासगलितं समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ ६१ ॥ प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचेः प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता । न बिम्बं तद्बिम्बप्रतिफलनरागादरुणितं तुलामध्यारोढुं कथमिव विलज्जेत कलया ॥ ६२ ॥ स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां चकोराणामासीदतिरसतया चञ्चुजडिमा । अतस्ते शीतांशोरमृतलहरीमाम्लरुचयः पिबन्ति स्वच्छन्दं निशिनिशि भृशं काञ्जिकधिया ॥ सौन्दर्यलहरी । अविश्रान्तं पत्युर्गुणगणकथाब्रेडनजपा जपापुष्पच्छाया तव जननि जिह्वा जयति सा । यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४ ॥ रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभि- निवृत्तैश्चण्डांश त्रिपुरहर निर्माल्यविमुखैः । विशाखेन्द्रोपेन्द्रैः शशिविशद कर्पूरशकला विलीयन्ते मातस्तव वदनताम्बूलकबलाः ॥ ६५ ॥ विपञ्च्या गायन्ती विविधमपदानं पशुपते- स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने । तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥ ६६ ॥ कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया गिरीशेनोदस्तं मुहुरधरपानाकुलतया । करग्राह्यं शंभोर्मुखमुकुरवृन्तं गिरिसुते कथंकारं ब्रूमस्तव चुबुकमौपम्यरहितम् ॥ ६७ ॥ सौन्दर्यलहरी । भुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् । स्वत: श्वेता कालागुरुबहुलजम्बाल मलिना मृणालीलालित्यं वहति यद्घो हारलतिका ॥ ६८ ॥ गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः । विराजन्ते नानाविधमधुररागाकरभुवां त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ ६९ ॥ मृणालीमृद्धीनां तव भुजलतानां चतसृणां चतुर्भिः सौन्दर्य सरसिजभवः स्तौति वदनैः । नखेभ्यः संत्रस्यन्प्रथममथनादन्धकरिपो- : चतुर्णी शीर्षाणां सममभयहस्तार्पणधिया ॥ ७० ॥ नखानामुद्योतैर्नवनलिनरागं विहसतां कराणां ते कान्ति कथय कथयामः कथमुमे । कयाचिद्वा साम्यं भजतु कलया हन्त कमलं यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणम् ॥ ७१ ॥ सौन्दर्यलहरी । समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं तवेदं नः खेदं हरतु सततं प्रस्तुतमुखम् । यदालोक्याशङ्काकुलितहृदयो हासजनक : स्वकुम्भौ हेरम्बः परिमृशति हस्तन झडिति ॥ ७२ ॥ अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ न संदेहस्पन्दो नगपतिपता के मनसि नः । पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ कुमाराद्यापि द्विरदवदनक्रौञ्चदलनौ ॥ ७३ । वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः समारब्धां मुक्तामणिभिरमलां हारलतिकाम । कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ ७४ ॥ तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयः पारावार: परिवहति सारस्वतमिव । दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव य- aarti प्रौढानामनि कमनीयः कवयिता ॥ ७५ ॥ सौन्दर्यलहरी । हरक्रोधज्वालावलिभिरवलीढेन वपुषा गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः । समुत्तस्थौ तस्मादचलतनये धूमलतिका जनस्तां जानीते तव जननि रोमावलिरिति ॥ ७६ ॥ यदेतत्कालिन्दीतनुतरतरङ्गाकृति शिवे कुशे मध्ये किंचिज्जननि तव यद्भाति सुधियाम । विमर्दादन्योन्यं कुचकलशयोरन्तरगतं तनूभूतं व्योम प्रविशदिव नाभि कुहरिणीम् ॥ ७७ ॥ स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता- कलावालं कुण्डं कुसुमशरतेजो हुतभुजः । रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते बिलद्वारं सिद्धेगिरिशनयनानां विजयते ॥ ७८ ॥ निसर्गक्षीणस्य स्तनतटभरेण कुमजुषो नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव । चिरं ते मध्यस्थ त्रुटिततटिनीतीरतरुणा समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥ ७९ ॥ सौन्दर्यलहरी । कुचौ सद्यः स्विद्यत्तटघटित कूर्पासभिदुरौ कषन्तौ दोर्मूले कनककलशाभौ कलयता । तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥ ८० ॥ गुरुत्वं विस्तारं क्षितिधरपति: पार्वति निजा- नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे । अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं नितम्बप्राग्भार: स्थगयति लघुत्वं नयति च ॥ ८१ ॥ करीन्द्राणां शुण्डान्कनककदलीकाण्डपटली- मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवति । सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते विधिज्ञे जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥ ८२ ॥ पराजेतुं रुद्रं द्विगुणशरगभ गिरिसुते निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत । यद दृश्यन्ते दशशरफला: पादयुगली- "नखाग्रच्छद्मानः सुरमकुटशाणैक निशिताः ॥ ८३ ॥ S. S. 10 सौन्दर्यलहरी । श्रुतीनां मूर्धानो दधति तव यौ शेखर तया ममाप्येतौ मातः शिरसि दयया धेहि चरणौ । ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ ८४ ॥ नमोवाकं ब्रूमो नयनरमणीयाय पदयो- स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते । असूयत्यत्यन्तं यदभिहननाय स्पृहयते पशूनामीशानः प्रमदवनकङ्केलितरवे ॥ ८५ ॥ मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं ललाटे भर्तारं चरणकमले ताडयति ते 1 चिरादन्तःशल्यं दहनकृतमुन्मूलितवता तुलाकोटिकाणैः किलकिलितमीशानरिपुणा ॥ ८६ ॥ हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ निशायां निद्राणं निशि चरमभागे च विशदौ । वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां सरोजं त्वत्पादौ जननि जयतश्चित्तमिह किम् ॥ ८७ ॥ सौन्दर्यलहरी । पदं ते कीर्तीनां प्रपदमपदं देवि विपदां कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् । कथं वा बाहुभ्यामुपयमनकाले पुरभिदा यदादाय न्यस्तं दृषदि दद्यमानेन मनसा ॥ ८८ ॥ नखैर्ना स्त्रीणां करकमलसंकोचशशिभि- स्तरुणां दिव्यानां हसत इव ते चण्डि चरणौ फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥ ८९ ॥ ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी- ममन्दं सौन्दर्यप्रकरमकरन्दं विकिरति । तवास्मिन्मन्दारस्तबक सुभगे यातु चरणे निमज्जन्मज्जीवः करणचरणः षट्चरणताम् ॥ ९० ॥ पदन्यासक्रीडापरिचयमिवारब्धुमनसः स्खलन्तस्ते खेलं भवनकलहंसा न जहति । अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित- च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ ९१. ॥ सौन्दर्यलहरी । गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः शिवः स्वच्छच्छायाघटितकपटप्रच्छदपट: । त्वदीयानां भासां प्रतिफलनरागारुणतया ' शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ ९२ ॥ अराला केशेषु प्रकृतिसरला मन्दहसिते शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे । भृशं तन्वी मध्ये पृथुरुर सिजारोहविषये जगत्रातुं शंभोर्जयति करुणा काचिदरुणा ॥ ९३ ॥ कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् । अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं विधिर्भूयो भूयो निबिडयति नूनं तव कृते ॥ ९४ ॥ पुरारातेरन्तःपुरमसि ततस्त्वश्चरणयोः सपर्यामर्यादा तरलकरणानामसुलभा । तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥ ९५ ॥ सौन्दर्यलहरी । कलत्रं वैधात्रं कतिकति भजन्ते न कवयः श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः । महादेवं हित्वा तव सति सतीनामचरमे कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥ ९६ ॥ गिरामाहुदेवीं द्रुहिणगृहिणीमागमविदो हरे: पत्नीं पद्मां हरसहचरीमद्रितनयाम् । तुरीया कापि त्वं दुरधिगमनि: सीममहिमा महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ ९७ ॥ कदा काले मातः कथय कलितालक्तकरसं पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् । प्रकृत्या मूकानामपि च कविताकारणतया कदा धत्ते वाणीमुखकमलताम्बूलरसताम् ॥ ९८ ॥ सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा । चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥ ९९ ॥ सौन्दर्यलहरी । प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना । स्वकीयैरम्भोभिः सलिलनिधि सौहित्यकरणं त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् ॥१००॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ सौन्दर्यलहरी संपूर्णा ॥ ॥ श्रीः ॥ ॥ देवीभुजंगस्तोत्रम् ॥ विरिञ्च्यादिभिः पञ्चभिर्लोकपालैः समूढे महानन्दपीठे निषण्णम् । धनुर्बाणपाशाङ्कुशप्रोतहस्तं महस्त्रैपुरं शंकराद्वैतमव्यात् ॥ १ ॥ यदन्नादिभिः पञ्चभिः कोशजालैः शिरःपक्षपुच्छात्मकैरन्तरन्तः । निगूढे महायोगपीठे निषण्णं पुरारेरथान्तःपुरं नौमि नित्यम् ॥ २ ॥ विरिञ्चादिरूपैः प्रपञ्चे विहृत्य स्वतन्त्रा यदा स्वात्मविश्रान्तिरेषा । तदा मानमातृप्रमेयातिरिक्तं परानन्दमीडे भवानि त्वदीयम् ॥ ३ ॥ विनोदाय चैतन्यमेकं विभज्य द्विधा देवि जीवः शिवश्चेति नाम्ना । शिवस्यापि जीवत्वमापादयन्ती पुनर्जीवमेनं शिवं वा करोषि ॥ ४ ॥ समाकुञ्च्य मूलं हृदि न्यस्य वायुं मनो भ्रूबिलं प्रापयित्वा निवृत्ताः । ततः सच्चिदानन्दरूपे पदे ते भवन्त्यम्ब जीवाः शिवत्वेन केचित् ॥ ५ ॥ शरीरेऽतिकष्टे रिपौ पुत्रवर्गे सदाभीतिमूले कलत्रे धने वा । न कश्चिद्विरज्यत्यो देवि चित्रं कथं त्वत्कटाक्षं विना तत्त्वबोधः ॥ ६ ॥ शरीरे धनेऽपत्यवर्गे कलत्रे विरक्तस्य सद्देशिकादिष्टबुद्धेः । यदाकस्मिकं ज्योतिरानन्दरूपं समाधौ भवेत्तत्त्वमस्यम्ब सत्यम् ॥ ७ ॥ मृषान्यो मृषान्यः परो मिश्रमेनं परः प्राकृतं चापरो बुद्धिमात्रम् । प्रपञ्चं मिमीते मुनीनां गणोऽयं तदेतत्त्वमेवेति न त्वां जहीमः ॥ ८ ॥ निवृत्तिः प्रतिष्ठा च विद्या च शान्ति- स्तथा शान्त्यतीतेति पञ्चीकृताभिः । कलाभिः परे पञ्चविंशात्मिकाभि- स्त्वमेकैव सेव्या शिवाभिन्नरूपा ॥ ९ ॥ अगाधेऽत्र संसारपङ्के निमग्नं कलत्रादिभारेण खिन्नं नितान्तम् । महामोहपाशौघबद्धं चिरान्मां समुद्धर्तुमम्ब त्वमेकैव शक्ता ॥ १० ॥ समारभ्य मूलं गतो ब्रह्मचक्रं भवद्दिव्यचक्रेश्वरीधामभाजः । महासिद्धिसंघातकल्पद्रुमाभा- नवाप्याम्ब नादानुपास्ते च योगी ॥ ११ ॥ गणेशैर्ग्रहैरम्ब नक्षत्रपङ्क्त्या तथा योगिनीराशिपीठैरभिन्नम् । महाकालमात्मानमामृश्य लोकं विधत्से कृतिं वा स्थितिं वा महेशि ॥ १२ ॥ लसत्तारहारामतिस्वच्छचेलां वहन्तीं करे पुस्तकं चाक्षमालाम् । शरच्चन्द्रकोटिप्रभाभासुरां त्वां सकृद्भावयन्भारतीवल्लभः स्यात् ॥ १३ ॥ समुद्यत्सहस्रार्कबिम्बाभवक्त्रां स्वभासैव सिन्दूरिताजाण्डकोटिम् । धनुर्बाणपाशाङ्कुशान्धारयन्तीं स्मरन्तः स्मरं वापि संमोहयेयुः ॥ १४ ॥ मणिस्यूतताटङ्कशोणास्यबिम्बां हरित्पट्टवस्त्रां त्वगुल्लासिभूषाम् । हृदा भावयंस्तप्तहेमप्रभां त्वां श्रियो नाशयत्यम्ब चाञ्चल्यभावम् ॥ १५ ॥ महामन्त्रराजान्तबीजं पराख्यं स्वतो न्यस्तबिन्दु स्वयं न्यस्तहार्दम् । भवद्वक्त्रवक्षोजगुह्याभिधानं स्वरूपं सकृद्भावयेत्स त्वमेव १६ ॥ तथान्ये विकल्पेषु निर्विण्णचित्ता- स्तदेकं समाधाय बिन्दुत्रयं ते । परानन्दसंधानसिन्धौ निमग्नाः पुनर्गर्भरन्ध्रं न पश्यन्ति धीराः ॥ १७ ॥ त्वदुन्मेषलीलानुबन्धाधिकारा- विरिञ्च्यादिकांस्त्वद्गुणाम्भोधिबिन्दून् । भजन्तस्तितीर्षन्ति संसारसिन्धुं शिवे तावकीना सुसंभावनेयम् ॥ १८ ॥ कदा वा भवत्पादपोतेन तूर्णं भवाम्भोधिमुत्तीर्य पूर्णान्तरङ्गः । निमज्जन्तमेनं दुराशाविषाब्धौ समालोक्य लोकं कथं पर्युदासे ॥ १९ ॥ कदा वा हृषीकाणि साम्यं भजेयुः कदा वा न शत्रुर्न मित्रं भवानि । कदा वा दुराशाविषूचीविलोपः कदा वा मनो मे समूलं विनश्येत् ॥ २० ॥ मोवाकमाशास्महे देवि युष्म- त्पदाम्भोजयुग्माय तिग्माय गौरि । विरिञ्च्यादिभास्वत्किरीटप्रतोली- प्रदीपायमानप्रभाभास्वराय ॥ २१ ॥ कचे चन्द्ररेखं कुचे तारहारं करे स्वादुचापं शरे षट्पदौघम् । स्मरामि स्मरारेरभिप्रायमेकं मदाघूर्णनेत्रं मदीयं निधानम् ॥ २२ ॥ शरेष्वेव नासा धनुष्वेव जिह्वा जपापाटले लोचने ते स्वरूपे । त्वगेषा भवच्चन्द्रखण्डे श्रवो मे गुणे ते मनोवृत्तिरम्ब त्वयि स्यात् ॥ २३ ॥ जगत्कर्मधीरान्वचोधूतकीरान् कुचन्यस्तहारान्कृपासिन्धुपूरान् । भवाम्भोधिपारान्महापापदूरान् भजे वेदसाराञ्शिवप्रेमदारान् ॥ २४ ॥ सुधासिन्धुसारे चिदानन्दनीरे समुत्फुल्लनीपे सुरत्नान्तरीपे । मणिव्यूहसाले स्थिते हैमशाले मनोजारिवामे निषण्णं मनो मे ॥ २५ ॥ दृगन्ते विलोला सुगन्धीषुमाला प्रपञ्चेन्द्रजाला विपत्सिन्धुकूला । मुनिस्वान्तशाला नमल्लोकपाला हृदि प्रेमलीलामृतस्वादुलीला ॥ २६ ॥ जगज्जालमेतत्त्वयैवाम्ब सृष्टं त्वमेवाद्य यासीन्द्रियैरर्थजालम् । त्वमेकैव कर्त्री त्वमेकैव भोक्त्री न मे पुण्यपापे न मे बन्धमोक्षौ ॥ २७ ॥ इति प्रेमभारेण किञ्चिन्मयोक्तं न बुध्यैव तत्त्वं मदीयं त्वदीयम् । विनोदाय बालस्य मौर्ख्यं हि मात- स्तदेतत्प्रलापस्तुतिं मे गृहाण ॥ २८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ देवीभुजंगस्तोत्रम् संपूर्णम् ॥ ॥ श्रीः ॥ ॥ आनन्दलहरी ॥ भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि । न षड्भिः सेनानीर्दशशतमुखैरप्यहिपति- स्तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १ ॥ घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदै- र्विशिष्यानाख्येयो भवति रसनामात्रविषयः । तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः कथंकारं ब्रूमः सकलनिगमागोचरगुणे ॥ २ ॥ मुखे ते ताम्बूलं नयनयुगले कज्जलकला ललाटे काश्मीरं विलसति गले मौक्तिकलता । स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ॥ ३ ॥ विराजन्मन्दारद्रुमकुसुमहारस्तनतटी- नदद्वीणानादश्रवणविलसत्कुण्डलगुणा । नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती सती शंभोरम्भोरुहचटुलचक्षुर्विजयते ॥ ४ ॥ नवीनार्कभ्राजन्मणिकनकभूषापरिकरै- र्वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा । तटित्पीता पीताम्बरललितमञ्जीरसुभगा ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥ ५ ॥ हिमाद्रेः संभूता सुललितकरैः पल्लवयुता सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः । कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका ॥ ६ ॥ सपर्णामाकीर्णां कतिपयगुणैः सादरमिह श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति । अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ ७ ॥ विधात्री धर्माणां त्वमसि सकलाम्नायजननी त्वमर्थानां मूलं धनदनमनीयाङ्घ्रिकमले । त्वमादिः कामानां जननि कृतकन्दर्पविजये सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी ॥ ८ ॥ प्रभूता भक्तिस्ते यदपि न ममालोलमनस- स्त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना । पयोदः पानीयं दिशति मधुरं चातकमुखे भृशं शङ्के कैर्वा विधिभिरनुनीता मम मतिः ॥ ९ ॥ कृपापाङ्गालोकं वितर तरसा साधुचरिते न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते । न चेदिष्टं दद्यादनुपदमहो कल्पलतिका विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ॥ १०॥ महान्तं विश्वासं तव चरणपङ्केरुहयुगे निधायान्यन्नैवाश्रितमिह मया दैवतमुमे । तथापि त्वच्चेतो यदि मयि न जायेत सदयं निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ११ ॥ अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं यथा रथ्यापाथः शुचि भवति गङ्गौघमिलितम् । तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि त्वयि प्रेम्णा सक्तं कथमिव न जायेत विमलम् ॥ १२ ॥ त्वदन्यस्मादिच्छाविषयफललाभे न नियम- स्त्वमज्ञानामिच्छाधिकमपि समर्था वितरणे । इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मन- स्त्वदासक्तं नक्तंदिवमुचितमीशानि कुरु तत् ॥ १३ ॥ स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल- त्वदाकारं चञ्चच्छशधरकलासौधशिखरम् । मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते तवागारं रम्यं त्रिभुवनमहाराजगृहिणि ॥ १४ ॥ निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः कुटुम्बं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः । महेशः प्राणेशस्तदवनिधराधीशतनये न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ॥ १५ ॥ वृषो वृद्धो यानं विषमशनमाशा निवसनं श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः । समग्रा सामग्री जगति विदितैव स्मररिपो- र्यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ १६ ॥ अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः । दधौ कण्ठे हालाहलमखिलभूगोलकृपया भवत्याः संगत्याः फलमिति च कल्याणि कलये ॥ १७ ॥ त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया भियैवासीद्गङ्गा जलमयतनुः शैलतनये । तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया प्रतिष्ठामातन्वन्निजशिरसि वासेन गिरिशः ॥ १८ ॥ विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण- प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम् । समादाय स्रष्टा चलितपदपांसून्निजकरैः समाधत्ते सृष्टिं विबुधपुरपङ्केरुहदृशाम् ॥ १९ ॥ वसन्ते सानन्दे कुसुमितलताभिः परिवृते स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे । सखीभिः खेलन्तीं मलयपवनान्दोलितजले स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति ॥ २० ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ आनन्दलहरी संपूर्णा ॥ ॥ श्रीः ॥ ॥ त्रिपुरसुन्दरीवेदपादस्तोत्रम् ॥ वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया । यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात् ॥ १ ॥ अकिंचित्करकर्मभ्यः प्रत्याहृत्य कृपावशात् । सुब्रह्मण्यः स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात् ॥ २ ॥ strange meter here अकारादिक्षकारान्तवर्णावयवशालिनी । वीणापुस्तकहस्ताव्यात्प्रणो देवी सरस्वती ॥ ३ ॥ या वर्णपदवाक्यार्थगद्यपद्यस्वरूपिणी । वाचि नर्तयतु क्षिप्रं मेघां देवी सरस्वती ॥ ४ ॥ उपास्यमाना विप्रेन्द्रः सन्ध्यासु च तिसृष्वपि । सद्यः प्रसीद मे मातः सन्ध्याविद्ये सरस्वती ॥ ५ ॥ मन्दा निन्दालोलुपाहं स्वभावा- देतत्स्तोत्रं पूर्यते किं मयेति । मा ते भीतिर्हे मते त्वादृशाना- मेषा नेत्री राधसा सूनृतानाम् ॥ ६ ॥ तरङ्गभ्रुकुटीकोटिभङ्ग्या तर्जयते जराम् । सुधामयाय शुभ्राय सिन्धूनां पतये नमः ॥ ७ ॥ तस्य मध्ये मणिद्वीपः कल्पकारामभूषितः । अस्तु मे ललितावासः स्वस्तिदा अभयंकरः ॥ ८ ॥ कदम्बमञ्जरीनिर्यद्वारुणीपारणोन्मदैः । द्विरेफैर्वर्णनीयाय वनानां पतये नमः ॥ ९ ॥ तत्र वप्रावली लीला गगनोर्लङ्घिगोपुरम् । मातः कौतूहलं दद्यात्सꣳहार्यं नगरं तव ॥ १० ॥ मकरन्दझरीमज्जन्मिलिन्दकुलसंकुलाम् । महापद्माटवीं वन्दे यशसा संपरीवृताम् ॥ ११ ॥ तत्रैव चिन्तामणिधोरणार्चिभि- र्विनिर्मितं रोपितरत्नशृङ्गम् । भजे भवानीभवनावतंस- मादित्यवर्णं तमसः परस्तात् ॥ १२ ॥ मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते । तत्र पश्यामि बुद्ध्या तदक्षरे परमे व्योमन् ॥ १३॥ पञ्चब्रह्ममयो मञ्चस्तत्र यो बिन्दुमध्यगः । तव कामेशि वासोऽयमायुष्मन्तं करोतु माम् ॥ १४ ॥ नानारत्नगुलुच्छालीकान्तिकिम्मीलितोदरम् । विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशम् ॥ १५ ॥ पर्यङ्कल्पोपरि दर्शनीयं सवाणचापाङ्कुशपाशपाणिम् । अशेषभूषारमणीयमीडे त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥ १६ ॥ जटारुणं चन्द्रकलाललामं उद्वेललावण्यकलाभिरामम् । कामेश्वरं कामशरासनाङ्कं समस्तसाक्षिं तमसः परस्तात् ॥ १७ ॥ तत्र कामेशवामाङ्के खेलन्तीमलिकुन्तलाम् । सच्चिदानन्दलहरीं महालक्ष्मीमुपास्महे ॥ १८ ॥ चारुगोरोचनापङ्कजम्बालितघनस्तनीम् । नमामि त्वामहं लोकमातरं पद्ममालिनीम् ॥ १९ ॥ शिवे नमन्निर्जरकुञ्जरासुर- प्रतोलिकामौलिमरीचिवीचिभिः । इदं तव क्षालनजातसौभगं चरणं नो लोके सुधितां दधातु ॥ २० ॥ कल्पस्यादौ कारणेशानपि त्री- न्स्रष्टुं देवि त्रीन्गुणानादधानाम् । सेवे नित्यं श्रेयसे भूयसे त्वा- मजामेकां लोहितशुक्लकृष्णाम् ॥ २२ ॥ केशोद्भूतैरद्भुतामोदपूरै- राशाबृन्दं सान्द्रमापूरयन्तीम् । त्वामानम्य त्वत्प्रसादात्स्वयंभू- रस्मान्मायी सृजते विश्वमेतत् ॥ २२ ॥ त्रिपुरसुन्दरीवेदपादस्तोत्रम् । अर्धोन्मीलयौवनोद्दामदप दिव्याकल्पैरर्पयन्तीं मयूखान् । देवि ध्यात्वा त्वां पुरा कैटभारि - विश्वं बिभर्ति भुवनस्य नाभिः ॥ २३ ॥ कल्हार श्रीमञ्जरीपुञ्जरीतिं धिक्कुर्वन्तीमम्ब ते पाटलिम्ना । मूर्ति ध्यात्वा शाश्वतीं भूतिमाय- निन्द्रो राजा जगतो य ईशे ॥ २४ ॥ देवतान्तरमन्त्रौघजप श्रीफलभूतया । जापकस्तव देव्यन्ते विद्यया विन्दतेऽमृतम् ॥ २५ ॥ पुंस्कोकिलकलक्काणको मलाला पशालिनि । भद्राणि कुरु मे मातर्दुरितानि परासुव ॥ २६ ॥ अन्तेवासिन्नस्ति चेत्ते मुमुक्षा वक्ष्ये युक्तिं मुक्तसर्वेषणः सन् । सद्यः साक्षात्सुन्दरीं ज्ञप्तिरूपां श्रद्धाभक्तिध्यानयोगादवेहि ॥ २७ ॥ त्रिपुरसुन्दरीवेदपादस्तोत्रम् । षोढान्यासादिदेवैश्व सेविता चक्रमध्यगा । कामेशमहिषी भूयः षोडशी शर्म यच्छतु ॥ २८ ॥ शान्तो दान्तो देशिकेन्द्रं प्रणम्य तस्यादेशात्तारकं मन्त्रतत्त्वम् । जानीते चेदम्ब धन्यः समानं नातः परं वेदितव्यं हि किंचित् ॥ २९ ॥ त्वमेव कारणं कार्य क्रिया ज्ञानं त्वमेव च । त्वामम्ब न विना किंचित्त्वयि सर्वं प्रतिष्ठितम् ॥ ३० ॥ परागमद्रीन्द्रसुते तवाङ्घ्रि- सरोजयोरम्ब दधामि मूर्ध्ना । अलंकृतं वेदवधूशिरोभि- तो जातो भुवनानि विश्वा ॥ ३१ ॥ दुष्टान्दैत्यान्हन्तुकामां महर्षी- शिष्टानन्यान्पातुकामां कराब्जैः । अष्टाभिस्त्वां सायुधैर्भासमानां दुर्गा देवी शरणमहं प्रपद्ये ॥ ३२ ॥ त्रिपुरसुन्दरीवेदपादस्तोत्रम् । १७१ देवि सर्वानवद्याङ्गि त्वामनादृत्य ये क्रियाः । कुर्वन्ति निष्फलास्तेषामदुग्धा इव धेनवः ॥ ३३॥ नाहं मन्ये दैवतं मान्यमन्य- त्वत्पादाब्जादम्बिके कुम्भजाद्या: । ये ध्यातारो भक्तिसंशुद्धचित्ताः परामृतात्परिमुच्यन्ति सर्वे ॥ ३४ ॥ कुर्वाणोऽपि दुरारम्भांस्तव नामानि शांभवि । प्रपन्नेति मायान्तमति मृत्युं तराम्यहम् ॥ ३५ ॥ कल्याणि त्वं कुन्दहासप्रकाशै- रन्तर्ध्वान्तं नाशयन्ती क्षणेन । हन्तास्माकं ध्यायतां त्वत्पदाब्ज- मुञ्चतिष्ठ महते सौभगाय ॥ ३६ ॥ तितीर्षया भवाम्भोधेर्हयग्रीवादयः पुरा । अप्रमत्ता भवत्पूजां सुविद्वाँसो वितेनिरे ॥ ३७॥ मद्रश्या ये दुराचारा ये च सन्मार्गगामिनः । भवत्याः कृपया सर्वे सुवर्यन्तु यजमानाः ॥ ३८॥ त्रिपुरसुन्दरीवेदपादस्तोत्रम् । श्रीचक्रस्थां शाश्वतैश्वर्यदात्री पौण्ड्रं चापं पुष्पबाणान्दधानाम् । बन्धूकाभां भावयामि त्रिनेत्रां तामभिवर्णी तपसा ज्वलन्तीम् ॥ ३९ ॥ भवानि तव पादाब्ज निर्णेजनपवित्रताः । भवामय प्रशान्त्यै त्वामपो याचामि भेषजम ॥ ४० ॥ चिदानन्दसुधाम्भोधेस्तवानन्दवोऽस्ति यः । कारणेशैस्त्रिभिः साकं तद्विश्वमुपजीवति ॥ ४१ ॥ नो वा यानैव पूर्वादिकृत्यै- न वा जप्येन महद्भिस्तपोभिः । नो वा योगैः क्लेशकृद्भिः सुमेधा निचाय्येमां शान्तिमत्यन्तमेति ॥ ४२ ॥ प्रातः पाहि महाविद्ये मध्याह्ने तु मृडप्रिये । सायं पाहि जगद्वन्द्ये पुनर्न: पाहि विश्वतः ॥ ४३ ॥ बन्धूकाभैर्भानुभिर्भासयन्ती विश्वं शश्वत्तुङ्गपीनस्तनार्धा । त्रिपुरसुन्दरीवेदपादस्तोत्रम् । लावण्याब्धेः सुन्दरि त्वं प्रसादा- दायुः प्रजा रयिमस्मासु धेहि ॥ ४४ ॥ कर्णाकर्णय मे तत्त्वं या चिच्छक्तिरितीर्यते । त्रिर्वदामि मुमुक्षूणां सा काष्ठा सा परा गतिः ॥ ४५ ॥ वाग्देवीति त्वां वदन्त्यम्ब केचि - लक्ष्मी गौरीत्येवमन्ये ऽप्युशन्ति । शश्वन्मातः प्रत्यगद्वैतरूपां शंसन्ति केचिन्निविदो जनाः ॥ ४६ ॥ ललितेति सुधापूरमाधुरी चोरमम्बिके । तव नामास्ति यत्तेन जिह्वा मे मधुमत्तमा ॥ ४७ ॥ ये संपन्नाः साधनैस्तैश्चतुर्भिः शुश्रूषाभिर्देशिकं प्रीणयन्ति । सम्यग्विद्वाञ्शुद्धसत्त्वान्तराणां तेषामेवैतां ब्रह्मविद्यां वदेत ॥ ४८ ॥ अभिचारादिभिः कृत्यां य: प्रेरयति मय्यमे । तव हुंकारसंत्रस्ता प्रत्यक्कर्तारमृच्छतु ॥ ४९ ॥ त्रिपुरसुन्दरीवेदपादस्तोत्रम् । जगत्पवित्रि मामिकामपाहराशु दुर्जराम । प्रसीद मे दयाने प्रशस्तिमम्ब न: स्कृधि ॥ ५० ॥ कदम्बारुणमम्बाया रूपं चिन्तय चित्त मे । मुञ्च पापीयसीं निष्ठां मा गृधः कस्य स्विद्धनम् ॥ ५१ ॥ भण्डभण्डनलीलायां रक्तचन्दनपङ्किलः । अङ्कुशस्तव तं हन्याद्यश्च नो द्वेषते जनः ॥ ५२ ॥ रे रे चित्तत्वं वृधा शोकसिन्धौ मज्जस्यन्तर्वच्म्युपायं विमुक्त्यै । देव्याः पादौ पूजयै काक्ष रेण तत्ते पदं संग्रहेण ब्रवीम्योम ॥ ५३ ॥ चञ्चद्बालातपज्योत्स्नाकलामण्डलशालिने । ऐक्षवाय नमो मातर्बाहुभ्यां तव धन्वने ॥ ५४ ॥ तामेवाद्यां ब्रह्मविद्यामुपासे मूर्तेर्वेदैः स्तूयमानां भवानीम् । हन्त स्वात्मत्वेन यां मुक्तिकामो मत्वा धीरो हर्षशोकौ जहाति ॥ ५५ ॥ त्रिपुरसुन्दरीवेदपादस्तोत्रम् । शरणं करवाण्यम्ब चरणं तव सुन्दरि । शपे त्वत्पादुकाभ्यां मे नान्यः पन्था अयनाय ॥ ५६ ॥ रत्नच्छत्रैश्चामरैर्दर्पणाद्यै- शान सर्वदोपाचरन्त्यः । योगिन्योऽन्याः शक्तयश्चाणिमाद्या यूयं पात : स्वस्तिभिः सदा नः ॥ ५७ ॥ दरिद्रं मां विजानीहि सर्वज्ञासि यतः शिवे । दूरीकृत्याशु दुरितमथा नो वर्धया रयिम् ॥ ५८ ॥ महेश्वरि महामन्त्रकूटत्रयकलेबरे । कादिविद्याक्षर श्रेणिमुशन्तस्त्वा हवामहे ॥ ५९ ॥ मूलाधारादूर्ध्वमन्तश्चरन्तीं भित्त्वा ग्रन्थीन्मूर्ध्नि निर्यत्सुधार्द्राम् । पश्यन्तस्त्वां ये च तृप्तिं लभन्ते तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ६० ॥ मह्यं द्रुह्यन्ति ये मातस्त्वद्ध्यानासक्तचेतसे । ताम्ब सायकैरेभिरव ब्रह्मद्विषो जहि ॥ ६१ ॥ त्रिपुरसुन्दरीवेदपादस्तोत्रम् । त्वद्भक्तानामम्ब शान्तैषणानां ब्रह्मिष्ठानां दृष्टिपातेन पूतः । पापीयानप्यावृतः स्वर्वधूभिः शोकातिगो मोदते स्वर्गलोके ॥ ६२ ॥ सन्तु विद्या जगत्यस्मिन्संसारभ्रमहेतवः । rast त्वां या विद्वान्विद्ययामृतमश्नुते ॥ ६३ ॥ विद्वन्मुख्यैर्विद्रुमाभं विशाल- श्रोणीशिजन्मेखलाकिङ्किणीकम् । चन्द्रोत्तंसं चिन्मयं वस्तु किंचि - द्विद्धि त्वमेतन्निहितं गुहायाम् ॥ ६४ ॥ न विस्मरामि चिन्मूर्तिमिक्षुकोदण्डशालिनीम् । मुनयः सनकप्रेष्ठास्तामाहुः परमां गतिम् ॥। ६५ ॥ चक्षुः प्रेङ्खत्प्रेमकारुण्यधारां हंसज्योत्स्नापूर हृष्यश्चको राम् । यामाश्लिष्यन्मोदते देवदेवः सा नो देवी सुहवा शर्म यच्छतु ॥ ६६ ॥ त्रिपुरसुन्दरीवेदपादस्तोत्रम् । मुञ्च वञ्चकतां चित्त पामरं चापि दैवतम् । गृहाण पद्मम्बाया एतदालम्बनं परम् ॥ ६७ ॥ का मे भीति: का क्षति: किं दुरापं कामेशाङ्कात्तुङ्गपर्यङ्कसंस्थाम् । तत्त्वातीतामच्युतानन्ददात्री देवीमहं निरृतिं वन्दमानः ॥ ६८ ॥ चिन्तामणिमयोत्तंसकान्तिकञ्चुकितानने । ललिते त्वां सन्नत्वा न बिभेति कुतश्चन ॥ ६९ ॥ तारुण्योत्तुङ्गितकुचे लावण्योल्लासितेक्षणे । तवाज्ञयैव कामाद्या मास्मान्प्रापन्नरातयः ॥ ७० ॥ आकर्णाकृष्टकामास्त्रसंजातं तापमम्ब मे । आचामतु कटाक्षस्ते पर्जन्यो वृष्टिमानिव ॥ ७१ ॥ कुर्वे गर्वेणापचारानपारा- न्यद्यप्यम्ब त्वत्पदाब्जं तथापि । मन्ये धन्ये देवि विद्यावलम्बं मातेव पुत्रं विभृतास्वेनम् ॥ ७२ ॥ S. S. 12 त्रिपुरसुन्दरीवेदपाद स्तोत्रम् । यथोपास्तिक्षतिर्न स्यात्तव चक्रस्य सुन्दरि । कृपया कुरु कल्याणि तथा मे स्वस्तिरायुषी ॥ ७३ । चक्रं सेवे तारकं सर्वसिध्यै श्रीमन्मातः सिद्धयश्वाणिमाद्याः । नित्या मुद्रा शक्तयश्चाङ्गदेव्यो यस्मिन्देवा अधि विधे निषेदुः ॥ ७४ ॥ सुकुमारे सुखाकारे सुनेत्र सूक्ष्ममध्यमे । सुप्रसन्ना भव शिवे सुमृडीका सरस्वती ॥ ७५ ॥ विद्युल्लीकन्दली कल्पयन्तीं मूर्ति स्फूर्त्या पङ्कजं धारयन्तीम् । ध्यायन्हि त्वां जायते सार्वभौमो विश्वा आशाः प्रतना: संजयञ्जयन् ॥ ७६ ॥ अविज्ञाय परां शक्तिमात्मभूतां महेश्वरीम् । अहो पतन्ति निरयेष्वेके चात्मनो जनाः ॥ ७७ ॥ सिन्दूराभैः सुन्दरैरंशुवृन्दै - लक्षालक्ष्म्यां मज्जयन्ती जगन्ति । त्रिपुरसुन्दरीवेदपादस्तोत्रम् । हेरम्बम्ब त्वां हृदा लम्बते य- स्तस्मै विशः स्वयमेवानमन्ते ॥ ७८ ॥ तव तत्त्वं विमृशतां प्रत्यगद्वैतलक्षणम् । चिदानन्दघनादन्यन्नेह नानास्ति किंचन ॥ ७९ ॥ कण्ठात्कुण्डलिनीं नीत्वा सहस्रारं शिवे तव । न पुनर्जायते गर्भे सुमेधा अमृतोक्षितः ॥ ८० ॥ त्वत्पादुकानुसंधानप्राप्त सर्वात्मतादृशि । पूर्णाहंकृतिमत्यस्मिन्न कर्म लिप्यते नरे ॥ ८१ ॥ तवानुग्रहनिर्भिन्नहृदयग्रन्थिरद्रिजे । १७९ स्वात्मत्वेन जगन्मत्वा ततो न विजुगुप्सते ॥ ८२ ॥ कदा वसुदोपेते त्रिकोणनवकान्विते । आवाहयामि चक्रे त्वां सूर्याभां श्रियमैश्वरीम् ॥ ८३ ॥ ह्रीमित्येकं तावकं वाचकार्ण जिह्वा देवि जागर्ति किंचित् । को वायं स्यात्कामकामस्त्रिलोक्यां सर्वेऽस्मै देवा बलिमावहन्ति ॥ ८४ ॥ त्रिपुरसुन्दरीवेदपादस्तोत्रम् । नाकस्त्रीणां किन्नरीणां नृपाणा- aaraर्षी चेतसा चिन्तनीयम् । त्वत्पाणिस्थं कुङ्कुमाभं शिवे यं द्विष्मस्तस्मिन्प्रति मुच्चामि पाशम् ॥ ८५ ॥ नूनं सिंहासनेश्वर्यास्तवाज्ञां शिरसा वहन् । भयेन पवमानोऽयं सर्वा दिशो ऽनुविधावति ॥ ८६ ॥ त्रिकलाढ्यां बिहृल्लेखां द्विहंसस्वरभूषिताम् । यो जपत्यम् ते विद्यां सोऽक्षरः परमः स्वराट् ॥ ८७ ॥ दारिद्र्य देव मनोऽपि शश्व- द्वाचा याचे नाहमम्ब त्वदन्यम् । तस्मादस्मद्वाञ्छितं पूरयैत- दुषा सा नक्ता सुदुघेव धेनुः ॥ ८८ ॥ यो वा यद्यत्कामनाकृष्टचित्तः स्तुत्वोपास्ते देवि ते चक्रविद्याम् । कल्याणानामालयः कालयोगा- तं तं लोकं जयते तांश्च कामान् ॥ ८९ ॥ त्रिपुरसुन्दरीवेदपादस्तोत्रम् । साधकः सततं कुर्यादैक्यं श्रीचक्रदेहयोः । तथा देव्यात्मनोरैक्यमेतावदनुशासनम् ॥ ९० ॥ हस्ताम्भोजप्रोल्लसच्चामराभ्यां श्रीवाणीभ्यां पार्श्वयोर्वीज्यमानाम् । श्रीसंम्राज्ञि त्वां सदालोकयेयं सदा सद्भिः सेव्यमानां निगूढाम् ॥ ९१ ॥ इष्टानिष्टप्राप्तिविच्छित्तिहेतुः स्तोतुं वाचां क्लप्तिरित्येव मन्ये । त्वद्रूपं हि स्वानुभूत्यैकवेद्यं न चक्षुषा गृह्यते नापि वाचा ॥ ९२ ॥ हरस्वरैश्वतुर्वर्गपदं मन्त्रं सबिन्दुकम् । देव्या जपत विप्रेन्द्रा अन्या वाचो विमुञ्चथ ॥ ९३ ॥ यस्ते राकाचन्द्रबिम्बासनस्थां पीयूषाब्धि कल्पयन्तीं मयूखैः । मूर्ति भक्त्या ध्यायते हृत्सरोजे न तस्य रोगो न जरा न मृत्युः ॥ ९४ ॥ तुभ्यं मातर्योऽञ्जलिं मूर्ध्नि धत्ते मौलिश्रेण्या भूभुजस्तं नमन्ति । यः स्तौति त्वामम्ब चिद्वल्लिवाचा तं धीरासः कवय उन्नयन्ति ॥ ९५ ॥ वैरिञ्चोघैर्विष्णुरुद्रेन्द्रबृन्दै- र्दुर्गाकालीभैरवीशक्तिसंघैः । यन्त्रेशि त्वं वर्तसे स्तूयमाना न तत्र सूर्यो भाति न चन्द्रतारकम् ॥ ९६ ॥ भूत्यै भवानि त्वां वन्दे सुराः शतमखादयः । त्वामानम्य समृद्धाः स्युरायो धामानि दिव्यानि ॥ ९७ ॥ पुष्पवत्पुल्लताटङ्कां प्रातरादित्यपाटलाम् । यस्त्वामन्तः स्मरत्यम्ब तस्य देवा असन्वशे ॥ ९८ ॥ वश्ये विद्रुमसंकाशां विद्यायां विशदप्रभाम् । त्वामम्ब भावयेद्भूत्यै सुवर्णां हेममालिनीम् ॥ ९९ ॥ त्रिपुरसुन्दरीवेदपादस्तोत्रं । वामाङ्कस्थामीशितुर्दीप्यमानां भूषावृन्दैरिन्दुरेखावतंसाम् । यस्त्वां पश्यन्संततं नैव तृप्तः तस्मै च देवि वषस्तु तुभ्यम् ॥ १०० ॥ नवनीपवनीवासलालसोत्तरमानसे । शृङ्गारदेवते मातः श्रियं वासय मे कुले ॥ १०१ ॥ भक्त्याभक्त्या वापि पद्यावसान- श्रुत्या स्तुत्या चैतया स्तौति यस्त्वाम् तस्य क्षिप्रं त्वत्प्रसादेन मात: सत्याः सन्तु यजमानस्य कामाः ॥ १०२ ॥ बालिशेन मया प्रोक्तमपि वात्सल्यशालिनोः । आनन्दमादिदंपत्योरिमा वर्धन्तु वाङ्गिरः ॥ १०३ ॥ माधुरी सौरभावास चापसायकधारिणीम् । देवीं ध्यायन्पठेदेतत्सर्वकामार्थसिद्धये ॥ १०४ ॥ त्रिपुरसुन्दरीवेदपादस्तोत्रम् । स्तोत्रमेतत्प्रजपतस्तव त्रिपुरसुन्दरि । अनुद्वीक्ष्य भयाद्दूरं मृत्युर्धावति पञ्चमः ॥ १०५ ॥ यः पठति स्तुतिमेतां विद्यावन्तं तमम्ब धनवन्तम् । देव स्वतं वर्चस्वन्तं मनुष्येषु ॥ १०६ ॥ ये शृण्वन्ति स्तुतिमिमां तव देव्यनसूयकाः । तेभ्यो देहि श्रियं विद्यामुद्व उत्तनूबलम ॥ १०७ ॥ त्वामेवाहं स्तौमि नित्यं प्रणौमि श्रीविद्येशां वच्मि संचिन्तयामि । अध्यास्ते या विश्वमाता विराजो हृत्पुण्डरीकं विरजं विशुद्धम ॥ १०८ ॥ शंकरेण रचितं स्तवोत्तमं यः पठेज्जगति भक्तिमान्नरः । तस्य सिद्धिरतुला भवेद्ध्रुवा सुन्दरी च सततं प्रसीदति ॥ १०९ ॥ यत्रैव यत्रैव मनो मदीयं तत्रैव तत्रैव तव स्वरूपम् । यत्रैव यतैव शिरो मदीयं तत्रैव तत्रैव पदद्वयं ते ॥ ११० ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री गोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ त्रिपुरसुन्दरीवेदपादस्तोत्रं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ॥ मम न भजनशक्तिः पादयोस्ते न भक्ति- र्न च विषयविरक्तिर्ध्यानयोगे न सक्तिः । इति मनसि सदाहं चिन्तयन्नाद्यशक्ते रुचिरवचनपुष्पैरर्चनं संचिनोमि ॥ १ ॥ व्याप्तं हाटकविग्रहैर्जलचरैरारूढदेवव्रजैः पोतैराकुलितान्तरं मणिधरैर्भूमीधरैर्भूषितम् । आरक्तामृतसिन्धुमुद्धरचलद्वीचीचयव्याकुल- व्योमानं परिचिन्त्य संततमहो चेतः कृतार्थीभव ॥ २ ॥ तस्मिन्नुज्ज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वतः । उच्चैःशृङ्गनिषण्णदिव्यवनिताबृन्दाननप्रोल्लस- द्गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्महे ॥ ३ ॥ जातीचम्पकपाटलादिसुमनःसौरभ्यसंभावितं ह्रींकारध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम् । आविर्भूतसुगन्धिचन्दनवनं दृष्टिप्रियं नन्दनं चञ्चच्चञ्चलचञ्चरीकचटुलं चेतश्चिरं चिन्तय ॥ ४ ॥ परिपतितपरागैः पाटलक्षोणिभागो विकसितकुसुमोच्चैः पीतचन्द्रार्करश्मिः । अलिशुकपिकराजीकूजितैः श्रोत्रहारी स्फुरतु हृदि मदीये नूनमुद्यानराजः ॥ ५ ॥ रम्यद्वारपुरप्रचारतमसां संहारकारिप्रभ स्फूर्जत्तोरणभारहारकमहाविस्तारहारद्युते । क्षोणीमण्डलहेमहारविलसत्संसारपारप्रद प्रोद्यद्भक्तमनोविहार कनकप्राकार तुभ्यं नमः ॥ ६ ॥ उद्यत्कान्तिकलापकल्पितनभःस्फूर्जद्वितानप्रभः सत्कृष्णागरुधूपवासितवियत्काष्ठान्तरे विश्रुतः । सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं सोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम् ॥ ७ ॥ क्वापि प्रोद्भटपद्मरागकिरणव्रातेन संध्यायितं कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम् । मध्यालम्बिविशालमौक्तिकरुचा ज्योत्स्नायितं कुत्रचि- न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम् ॥ उत्तुङ्गालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला- न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशङ्कया । नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मद्युते- र्वल्गावल्गितहस्तमस्तशिखरं कष्टैरितः प्राप्यते ॥ ९ ॥ मणिसदनसमुद्यत्कान्तिधारानुरक्ते वियति चरमसंध्याशङ्किनो भानुरथ्याः । शिथिलितगतकुप्यत्सूतहुंकारनादैः कथमपि मणिगेहादुच्चकैरुच्चलन्ति ॥ १० ॥ भक्त्या किं नु समर्पितानि बहुधा रत्नानि पाथोधिना किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् । आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते शंभौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः ॥ विदूरमुक्तवाहनैर्विनम्रमौलिमण्डलै- र्निबद्धहस्तसंपुटैः प्रयत्नसंयतेन्द्रियैः । विरिञ्चिविष्णुशंकरादिभिर्मुदा तवाम्बिके प्रतीक्ष्यमाणनिर्गमो विभाति रत्नमण्डपः ॥ १२ ॥ ध्वनन्मृदङ्गकाहलः प्रगीतकिंनरीगणः प्रनृत्तदिव्यकन्यकः प्रवृत्तमङ्गलक्रमः । प्रकृष्टसेवकव्रजः प्रहृष्टभक्तमण्डलो मुदे ममास्तु संततं त्वदीयरत्नमण्डपः ॥ १३ ॥ प्रवेशनिर्गमाकुलैः स्वकृत्यरक्तमानसै- र्बहिः स्थितामरावलीविधीयमानभक्तिभिः । विचित्रवस्त्रभूषणैरुपेतमङ्गनाजनैः सदा करोतु मङ्गलं ममेह रत्नमण्डपः ॥ १४ ॥ सुवर्णरत्नभूषितैर्विचित्रवस्त्रधारिभि- र्गृहीतहेमयष्टिभिर्निरुद्धसर्वदैवतैः । असंख्यसुन्दरीजनैः पुरस्थितैरधिष्ठितो मदीयमेतु मानसं त्वदीयतुङ्गतोरणः ॥ १५ ॥ इन्द्रादींश्च दिगीश्वरान्सहपरीवारानथो सायुधा- न्योषिद्रूपधरान्स्वदिक्षु निहितान्संचिन्त्य हृत्पङ्कजे । शङ्के श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मर- न्कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे ॥ गायन्तीः कलवीणयातिमधुरं हुंकारमातन्वती- र्द्वाराभ्यासकृतस्थितीरिह सरस्वत्यादिकाः पूजयन् । द्वारे नौमि मदोन्मदं सुरगणाधीशं मदेनोन्मदां मातङ्गीमसिताम्बरां परिलसन्मुक्ताविभूषां भजे ॥ १७ ॥ कस्तूरिकाश्यामलकोमलाङ्गीं कादम्बरीपानमदालसाङ्गीम् । वामस्तनालिङ्गितरत्नवीणां मातङ्गकन्यां मनसा स्मरामि ॥ १८ ॥ विकीर्णचिकुरोत्करे विगलिताम्बराडम्बरे मदाकुलितलोचने विमलभूषणोद्भासिनि । तिरस्करिणि तावकं चरणपङ्कजं चिन्तय- न्करोमि पशुमण्डलीमलिकमोहदुग्धाशयाम् ॥ १९ ॥ प्रमत्तवारुणीरसैर्विघूर्णमानलोचनाः प्रचण्डदैत्यसूदनाः प्रविष्टभक्तमानसाः । उपोढकज्जलच्छविच्छटाविराजिविग्रहाः कपालशूलधारिणीः स्तुवे त्वदीयदूतिकाः ॥ २० ॥ स्फूर्जन्नव्ययवाङ्कुरोपलसिताभोगैः पुरः स्थापितै- र्दीपोद्भासिशरावशोभितमुखैः कुम्भैर्नवैः शोभिना । स्वर्णाबद्धविचित्ररत्नपटलीचञ्चत्कपाटश्रिया युक्तं द्वारचतुष्टयेन गिरिजे वन्दे मणीमन्दिरम् ॥ २१ ॥ आस्तीर्णारुणकम्बलासनयुतं पुष्पोपहारान्वितं दीप्तानेकमणिप्रदीपसुभगं राजद्वितानोत्तमम् । धूपोद्गारिसुगन्धिसंभ्रममिलद्भृङ्गावलीगुञ्जितं कल्याणं वितनोतु मेऽनवरतं श्रीमण्डपाभ्यन्तरम् ॥२२॥ कनकरचिते पञ्चप्रेतासनेन विराजिते मणिगणचिते रक्तश्वेताम्बरास्तरणोत्तमे । कुसुमसुरभौ तल्पे दिव्योपधानसुखावहे हृदयकमले प्रादुर्भूतां भजे परदेवताम् ॥ २३ ॥ सर्वाङ्गस्थितिरम्यरूपरुचिरां प्रातः समभ्युत्थितां जृम्भामञ्जुमुखाम्बुजां मधुमदव्याघूर्णदक्षित्रयाम् । सेवायातसमस्तसंनिधिसखीः संमानयन्तीं दृशा संपश्यन्परदेवतां परमहो मन्ये कृतार्थं जनुः ॥ २४ ॥ उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुज्जृम्भिते भक्तैर्भूमिविलग्नमौलिभिरलं दण्डप्रणामे कृते । नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितां प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम् ॥ पाद्यं ते परिकल्पयामि पदयोरर्घ्यं तथा हस्तयोः सौधीभिर्मधुपर्कमम्ब मधुरं धाराभिरास्वादय । तोयेनाचमनं विधेहि शुचिना गाङ्गेन मत्कल्पितं साष्टाङ्गं प्रणिपातमीशदयिते दृष्ट्या कृतार्थी कुरु ॥ मातः पश्य मुखाम्बुजं सुविमले दत्ते मया दर्पणे देवि स्वीकुरु दन्तधावनमिदं गङ्गाजलेनान्वितम् । सुप्रक्षालितमाननं विरचयन्स्निग्धाम्बरप्रोञ्छनं द्रागङ्गीकुरु तत्त्वमम्ब मधुरं ताम्बूलमास्वादय ॥ २७ ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । १९३ निधेहि मणिपादुकोपरि पदाम्बुजं मज्जना- लयं व्रज शनैः सखीकृतकराम्बुजालम्बनम् । महेश करुणानिधे तव हगन्तपातोत्सुका- न्विलोकय मनागमूनुभयसंस्थितान्दैवतान् ॥ २८ ॥ हेमरत्न रणेन वेष्टितं विस्तृतारुणवितानशोभितम् । सज्ज सर्वपरिचारिकाजनं पश्य मज्जनगृहं मनो मम ॥ २९ ॥ कनककलशजालस्फाटिकस्नानपीठा- पकरणविशालं गन्धमत्तालिमालम् । स्फुरदरुणवितानं मञ्जुगन्धर्वगानं परमशिवमहेले मज्जनागारमेहि ॥ ३० ॥ पीनोत्तुङ्गपयोधराः परिलसत्संपूर्णचन्द्रानना रत्नस्वर्णविनिर्मिताः परिलसत्सूक्ष्माम्बरप्रावृताः । मनानघटस्तथा मृदुपटीरुद्वर्तनं कौसुमं तैलं कङ्कतिकां करेषु दधतीर्वन्देऽम्ब ते दासिकाः ॥ S. S. 13 त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । तत्र स्फाटिक पीठमेत्य शनकैरुत्तारितालंकृति- र्नीचैरुज्झितकको परिहित रक्तोत्तरीयाम्बरा । वेणीबन्धमपास्य कङ्कतिकया केशप्रसादं मना- कुर्वाणा परदेवता भगवती चित्ते मम द्योतताम् ॥ अभ्यङ्गं गिरिजे गृहाण मृदुना तैलेन संपादितं काश्मीरैरगरुद्रवैर्मलयजैरुद्वर्तनं कारय । गीते किंनरकामिनीभिरभितो वाद्ये मुदा वादिते नृत्यन्तमिह पश्य देव पुरतो दिव्याङ्गनामण्डलीम् ॥ कृतपरिकरबन्धास्तुङ्गपीनस्तनाढ्या मणिनिबद्धा हेमकुम्भीर्दधानाः । सुरभिसलिलनिर्यगन्धलुब्धालिमाला: सविनयमुपतस्थुः सर्वतः स्नानदास्यः ॥ ३४ ॥ उद्गन्धैरगरुद्रवैः सुरभिणा कस्तूरिकावारिणा स्फूर्जरसौरभयक्षकर्दमजलैः काश्मीरनीरैरपि । पुष्पाम्भोभिरशेषतीर्थ सलिलै : कर्पूरपाथोभरैः स्नानं ते परिकल्पयामि गिरिजे भक्त्या तदङ्गीकुरु ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । प्रत्यङ्गं परिमार्जयामि शुचिना वत्रेण संप्रोञ्छनं कुर्वे केशकलापमायततरं धूपोत्तमैर्धूपितम् । आलीबृन्दविनिर्मितां यवनिकामास्थाप्य रत्नप्रभं भक्तत्राणपरे महेशगृहिणि स्नानाम्बरं मुच्यताम् ॥ ३६ ॥ पीतं ते परिकल्पयामि निबिडं चण्डातकं चण्डिके सूक्ष्मं स्निग्धमुरीकुरुष्व वसनं सिन्दूरपूरप्रभम् । मुक्तारत्नविचित्रहेमरचना चारुप्रभाभास्वरं नीलं कञ्चुकमर्पयामि गिरिशप्राणप्रिये सुन्दरि ॥ विलुलितचिकुरेण च्छादितांसप्रदेशे मणिनिकरविराजत्पादुकान्यस्तपादे । सुललितमवलम्ब्य द्राक्सखीमंस देशे गिरिशगृहिणि भूषामण्टपाय प्रयाहि ३८ ॥ लसत्कनककुट्टिमस्फुरदमन्दमुक्तावली - समुल्लसितकान्तिभिः कलितशक्रचापव्रजे । महाभरणमण्डपे निहित हेमसिंहासनं सखीजनसमावृतं समधितिष्ठ कात्यायनि ॥ ३९ ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । स्निग्धं कङ्कतिकामुखेन शनकैः संशोध्य केशोत्करं सीमन्तं विरचय्य चारु विमलं सिन्दूररेखान्वितम । मुक्ताभिर्प्रथितालकां मणिचितैः सौवर्णसूत्रैः स्फुटं प्रान्ते मौक्तिक गुच्छकोपलतिकां प्रश्नामि वेणीमिमाम् ॥ विलम्बिवेणीभुजगोत्तमाङ्ग- स्फुरन्मणिभ्रान्तिमुपानयन्तम् । स्वरोचिषोल्लासितकेशपाशं महेशि चूडामणिमर्पयामि ॥ ४१ ॥ त्वामाश्रयद्भिः कबरीतमित्रै- बन्दीकृतं द्रागिव भानुबिम्बम् । मृडानि चूडामणिमादधानं वन्दामहे तावकमुत्तमाङ्गम् ॥ ४२ ॥ स्वमध्यनद्धहाटकस्फुरन्मणिप्रभाकुलं विलम्बिमौक्तिकच्छटाविराजितं समन्ततः । निबद्धलक्षचक्षुषा भवेन भूरि भावितं समर्पयामि भास्वरं भवानि फालभूषणम् ॥ ४३ ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । मीनाम्भोरुहखञ्जरीटसुषमा विस्तारविस्मारके कुर्वाणे किल कामवैरिमनसः कंदर्पवाणप्रभाम् । माध्वीपानमदारुणेऽतिचपले दीर्घे गम्भोरुहे देवि स्वर्णशलाकयोर्जितमिदं दिव्याञ्जनं दीयताम् ॥ मध्यस्थारुणरत्नकान्तिरुचिरां मुक्तामुगोद्भासितां दैवाद्भार्गवजीवमध्यगरवेर्लक्ष्मीमधः कुर्वतीम् । उत्सिक्ताधर बिम्बकान्तिविसरै भौमीभवन्मौक्तिकां मद्दत्तामुररीकुरुष्व गिरिजे नासाविभूषामिमाम् ॥ ४५ ॥ उडुकृतपरिवेषस्पर्धया शीतभानो- रिव विरचितदेहद्वन्द्वमादित्य बिम्बम् । अरुणमणिसमुद्यत्प्रान्तविभ्राजिमुक्तं अवसि परिनिधेहि स्वर्णताटङ्कयुग्मम् ॥ ४६ ॥ मरकतवरपद्मरागहीरो- त्थितगुलिकात्रितयावनद्धमध्यम् । विततविमलमौक्तिकं च कण्ठाभरणमिदं गिरिजे समर्पयामि ॥ ४७॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । नानादेशसमुत्थितैर्मणिगणप्रोद्यत्प्रभामण्डल- व्याप्तैराभरणैर्विराजितगलां मुक्ताच्छटालंकृताम् । मध्यस्थारुणरत्नकान्तिरुचिरां प्रान्तस्थमुक्ताफल- वातामम्ब चतुष्किकां परशिवे वक्षःस्थले स्थापय ॥ अन्योन्यं प्लावयन्ती सततपरिचलत्कान्तिकल्लोलजालैः कुर्वाणा मज्जदन्तःकरणविमलतां शोभितेव त्रिवेणी । मुक्ताभिः पद्मरागैर्मरकतमणिभिर्निर्मिता दीप्यमानै- नित्यं हारत्रयी ते परशिवरसिके चेतसि द्योततां नः ॥ करसरसिजनाले विस्फुरत्कान्तिजाले विलसदमलशोभे चञ्चदीशाक्षिलोभे । विविधमणिमयूखोद्भासितं देवि दुर्गे कनककटकयुग्मं बाहुयुग्मे निधेहि ॥ ५० ॥ व्यालम्बमानसितपट्टकगुच्छशोभि स्फूर्जन्मणीघटितहारविरोचमानम् । मातर्महेशमहिले तव बाहुमूले केयूरकद्वयमिदं विनिवेशयामि ॥ ५१ ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । . १९९ विततनिजमयूखैर्निर्मितामिन्द्रनीलै- विजितकमलनालालीनमत्तालिमालाम् । मणिगणखचिताभ्यां कङ्कणाभ्यामुपेतां कलय वलयराजीं हस्तमूले महेश ॥ ५२ ॥ नीलपट्टमृदुगुच्छशोभिता- बद्धनैकमणिजालमञ्जुलाम् । अर्पयामि वलयात्पुरःसरे विस्फुरत्कनकतैतृपालिकाम् ॥ ५३ ॥ आलवालमिव पुष्पधन्वना बालविद्रुमलतासु निर्मितम् । अङ्गुलीषु विनिधीयतां शनै- रङ्गुलीयकमिदं मदर्पितम् ॥ ५४ ॥ विजितहरमनोभूमत्तमातङ्गकुम्भ- स्थलविलुलित कूजत्किङ्किणीजालतुल्याम् । अविरतकलनादैरीशचेतो हरन्तीं विविधमणिनिबद्धां मेखलामर्पयामि ॥ ५५ ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । व्यालम्बमानवरमौक्तिकगुच्छशोभि विभ्राजिहाटकपुटद्वयरोचमानम् । ना विनिर्मितमनेकमणिप्रबन्धं नीवीनिबन्धनगुणं विनिवेदयामि ॥ ५६ ॥ विनिहतनवलाक्षापङ्कबालातपौधे मरकतमणिराजीममञ्जीरवोषे । अरुणमणिसमुद्यत्कान्तिधारा विचित्र- स्तव चरणसरोजे हंसकः प्रीतिमेतु ॥ ५७ ॥ निबद्धशितिपट्टकप्रवरगुच्छसंशोभितां कलक्कणितमञ्जुलां गिरिशचित्तसंमोहनीम् । अमन्दमणिमण्डलीविमलकान्तिकिम्मीरितां निधेहि पदपङ्कजे कनकघुघुरूमम्बिके ॥ ५८ ॥ विस्फुरत्सहजरागरञ्जिते शिञ्जितेन कलितां सखीजनैः । पद्मरागमणिनूपुरद्वयी - मर्पयामि तव पादपङ्कजे ॥ ५९ ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । २०१ पदाम्बुजमुपासितुं परिगतेन शीतांशुना कृतां तनुपरम्परामिव दिनान्तरागारुणाम् । महेश नवयावकद्रवभरेण शोणीकृतां नमामि नखमण्डली चरणपङ्कजस्थां तव ॥ ६० ॥ आरक्तश्वेतपीतस्फुरदुरुकुसुमैश्चित्रितां पट्टसूत्र- र्देवस्त्रीभिः प्रयत्नादगरुसमुदितैर्धूपितां दिव्यधूपैः । उद्यगन्धान्धपुष्पंधयनिवहसमारब्धझांकारगीतां चञ्चत्कहारमालां पर शिवरसिके कण्ठपीठेऽर्पयामि ॥ गृहाण परमामृतं कनकपात्र संस्थापितं समर्पय मुखाम्बुजे विमलवीटिकामम्बिके । विलोकय मुखाम्बुजं मुकुरमण्डले निर्मले निधेहि मणिपादुकोपरि पदाम्बुजं सुन्दरि ॥ ६२ ॥ आलम्ब्य स्वसखीं करेण शनकैः सिंहासनादुत्थिता कूजन्मन्दमरालमञ्जुलगतिप्रोल्लासिभूषाम्बरा । आनन्दप्रतिपादकैरुपनिषद्वाक्यैः स्तुता वेधसा चित्ते स्थिरतामुपैतु गिरिजा यान्ती सभामण्डपम् ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । चलन्त्यामम्बायां प्रचलति समस्ते परिजने सवेगं संयाते कनकलतिकालंकृति भरे । समन्तादुत्तालस्फुरितपदसंपातजनितै- झणत्कारैस्तारैझणझणितमासीन्मणिगृहम् ॥ ६४ ॥ चञ्चद्वेत्रकराभिरङ्गविलसद्भूषाम्बराभिः पुरो- यान्तीभिः परिचारिकाभिरमरवाते समुत्सारिते । रुद्धे निर्जरसुन्दरीभिरभितः कक्षान्तरे निर्गतं वन्दे नन्दितशंभु निर्मलचिदानन्दैकरूपं महः ॥ ६५ ॥ वेधाः पादतले पतत्ययमसौ विष्णुर्नमत्यप्रतः शंभुदेहि गञ्चलं सुरपतिं दूरस्थमालोकय । इत्येवं परिचारिकाभिरुदिते संमाननां कुर्वती हरद्वन्द्वेन यथोचितं भगवती भूयाद्विभूत्यै मम ॥ ६६ ॥ मन्दं चारणसुन्दरीभिरभितो यान्तीभिरुत्कण्ठया नामोच्चारणपूर्वकं प्रतिदिशं प्रत्येकमावेदितान् । वेगादङ्क्षिपथं गतान्सुरगणानालोकयन्ती शनै- दित्सन्ती चरणाम्बुजं पथि जगत्पायान्महेशप्रिया ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । २०३ अग्रे केचन पार्श्वयोः कतिपये पृष्ठे परे प्रस्थिता आकाशे समवस्थिताः कतिपये दिक्षु स्थिताश्चापरे । संमद शनकैरपास्य पुरतो दण्डप्रणामान्मुहुः कुर्वाणाः कतिचित्सुरा गिरिसुते दृक्पातमिच्छन्ति ते ॥ अग्रे गायति किंनरी कलपदं गन्धर्वकान्ताः शनै- रातोद्यानि च वादयन्ति मधुरं सव्यापसव्यस्थिताः । कूजन्नूपुरनादमञ्जु पुरतो नृत्यन्ति दिव्याङ्गना गच्छन्तः परितः स्तुवन्ति निगमस्तुत्या विरिञ्च्यादयः ॥ कस्मैचित्सुचिरादुपासितमहामन्त्रौघसिद्धिं क्रमा- देकस्मै भवनिःस्पृहाय परमानन्दस्वरूपां गतिम् । अन्यस्मै विषयानुरक्तमनसे दीनाय दुःखापहं द्रव्यं द्वारसमाश्रिताय ददतीं वन्दामहे सुन्दरीम् ॥ ७० ॥ नम्रीभूय कृताञ्जलिप्रकटितप्रेमप्रसन्नानने मन्दं गच्छति संनिधौ सविनयात्सोत्कण्ठमोघत्रये । नानामत्रगणं तदर्थमखिलं तत्साधनं तत्फलं व्याचक्षाणमुद्ग्रकान्ति कलये यत्किंचिदाद्यं महः ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । तव दहनसदृक्षैरीक्षणैरेव चक्षु- निखिल पशुजनानां भीषयद्भीषणास्यम् । कृतवसति परेशप्रेयसि द्वारि नित्यं शरभमिथुनमुचैर्भक्तियुक्तो नतोऽस्मि ॥ ७२ ॥ कल्पान्ते सरसैकदासमुदिताने कार्कतुल्यप्रभां रत्नस्तम्भनिबद्धकाञ्चनगुणस्फूर्जद्वितानोत्तमाम् । कर्पूरागरुगर्भवर्तिकलिकाप्राप्त प्रदीपावलीं श्रीचक्राकृतिमुल्लसन्मणिगणां वन्दामहे वेदिकाम् ॥ स्वस्थानस्थित देवतागणवृते बिन्दौ मुदा स्थापितं नानारत्नविराजिहेमविलसत्कान्तिच्छटादुर्दिनम् । चञ्चत्कामतूलिकासनयुतं कामेश्वराधिष्ठितं नित्यानन्दनिदानमम्ब सततं वन्दे च सिंहासनम् ॥ वदद्भिरभितो मुदा जय जयेति बृन्दारकैः कृताञ्जलिपरम्परा विदधती कृतार्थी दृशा । अमन्दमणिमण्डलीखचितहेमसिंहासनं सखीजनसमावृतं समधितिष्ठ दाक्षायणि ॥ ७५ ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । २०५ कर्पूरादिकवस्तुजातमखिलं सौवर्णभृङ्गारकं ताम्बूलस्य करण्डकं मणिमयं चैलाञ्चलं दर्पणम् । विस्फूर्जन्मणिपादुके च दधती: सिंहासनस्याभित- स्तिष्ठन्तीः परिचारिकास्तव सदा वन्दामहे सुन्दरि ॥ त्वमलवपुरुद्यत्कान्तिकल्लोलजालैः स्फुटमिव दधतीभिर्बाहुविक्षेपलीलाम् । मुहुरपि च विधूते चामरग्राहिणीभिः सितकरकरशुभ्रे चामरे चालयामि ॥ ७७ ॥ प्रान्तस्फुरद्विमलमौक्तिकगुच्छजालं चञ्चन्महामणिविचित्रित हेमदण्डम् । उद्यत्सहस्रकरमण्डलचारु हेम- च्छत्रं महेशमहिले विनिवेशयामि ॥ ७८ ॥ उद्यत्तावकदेहकान्तिपटलीसिन्दूरपूरप्रभा- शोणीभूतमुदप्रलोहितमणिच्छेदानुकारिच्छवि । दूरादादर निर्मिताञ्जलिपुटैरालोक्यमानं सुर- व्यूहैः काञ्चनमातपत्रमतुलं वन्दामहे सुन्दरम ॥ . त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । संतुष्टां परमामृतेन विलसत्कामेश्वराङ्कस्थितां पुष्पौघैरभिपूजितां भगवतीं त्वां वन्दमाना मुदा । स्फूर्जत्तावकदेहरश्मिकलनाप्राप्तस्वरूपाभिदाः श्रीचक्रावरणस्थिताः सविनयं वन्दामहे देवताः ॥ आधारशक्त्यादिकमाकलय्य मध्ये समस्ताधिकयोगिनीं च । मित्रेशनाथादिकमत्र नाथ- चतुष्टयं शैलसुते नतोऽस्मि ॥ ८१ ॥ त्रिपुरासुधार्णवासन- मारभ्य त्रिपुरमालिनी यावत् । आवरणाष्टक संस्थित- मासनषट्कं नमामि परमेशि ॥ ८२ ॥ ईशाने गणपं स्मरामि विचरद्विघ्नान्धकारच्छिदं वायव्ये वटुकं च कज्जलरुचिं व्यालोपवीतान्वितम् । नैर्ऋत्ये महिषासुरप्रमथिनीं दुर्गा च संपूजय- नाग्नेयेऽखिलभक्तरक्षणपरं क्षेत्राधिनाथं भजे ॥ ८३ ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । २०७ उड्यानजालंधरकामरूप- पीठानिमान्पूर्ण गिरिप्रसक्तान् । त्रिकोणदक्षाग्रिमसव्यभाग- मध्यस्थितान्सिद्धिकरान्नमामि ॥ ८४ ॥ लोकेशः पृथिवीपतिर्निगदितो विष्णुर्जलानां प्रभु- स्तेजोनाथ उमापतिश्च मरुतामीशस्तथा चेश्वरः । आकाशाधिपतिः सदाशिव इति प्रेताभिधामागता- नेतांश्चक्रवहिः स्थितान्सुरगणान्वन्दामहे सादरम् ॥ तारानाथकलाप्रवेशनिगमव्याजागता सुप्रथं त्रैलोक्ये तिथिषु प्रवर्तितकलाकाष्ठादिकालक्रमम् । रत्नालंकृतिचित्रवस्त्रललितं कामेश्वरी पूर्वकं नित्याषोडशकं नमामि लसितं चक्रात्मनोरन्तरे ॥ हृदि भावितदैवतं प्रयत्ना- भ्युपदेशानुगृहीतभक्तसंघम् । स्वगुरुक्रमसंज्ञचक्रराज- स्थितमोघत्रयमानतोऽस्मि मूर्ध्ना ॥ ८७ ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । हृदयमथ शिरः शिखाखिलाद्ये कवचमथो नयनत्रयं च देवि । मुनिजनपरिचिन्तितं तथाखं स्फुरतु सदा हृदये षडङ्गमेतत् ॥ ८८ ॥ त्रैलोक्यमोहनमिति प्रथिते तु चक्रे चञ्चद्विभूषणगणत्रिपुराधिवासे । रेखाये स्थितवतीरणिमादिसिद्धी- मुद्रा नमामि सततं प्रकटाभिधास्ताः ॥ ८९ ॥ सर्वाशापरिपूरके वसुदलद्वन्द्वेन विभ्राजिते विस्फूर्जत्रिपुरेश्वरीनिवसतौ चक्रे स्थिता नित्यशः । कामाकर्षणिकादयो मणिगणभ्राजिष्णुदिव्याम्बरा योगिन्यः प्रदिशन्तु काङ्क्षितफलं विख्यातगुप्ताभिधाः ॥ महेश वसुभिर्दलैर्लसति सर्वसंक्षोभणे विभूषणगणस्फुरत्रिपुरसुन्दरीसद्मनि । अनङ्गकुसुमादयो विविधभूषणोद्भासिता दिशन्तु मम काङ्क्षितं तनुतराश्च गुप्ताभिधाः ॥ ९१ ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । २०९ लसद्युगदृशारके स्फुरति सर्वसौभाग्यदे शुभाभरणभूषितत्रिपुरवासिनीमन्दिरे । स्थिता दधतु मङ्गलं सुभगसर्वसंक्षोभिणी- मुखाः सकलसिद्धयो विदितसंप्रदायाभिधाः ॥९२॥ बहिर्दशारे सर्वार्थसाधके त्रिपुराश्रयाः । कुलकौलाभिधाः पान्तु सर्वसिद्धिप्रदायिकाः ॥ ९३ ॥ अन्तःशोभिदशारकेऽतिललिते सर्वादिरक्षा करे मालिन्या त्रिपुराद्यया विरचितावासे स्थितं नित्यशः । नानारत्नविभूषणं मणिगणभ्राजिष्णु दिव्याम्बरं सर्वज्ञादिकशक्तिवृन्दमनिशं वन्दे निगर्भाभिधम् ॥९४॥ सर्वरोगहरेऽष्टारे त्रिपुरासिद्धयान्विते । रहस्ययोगिनीर्नित्यं वशिन्याद्या नमाम्यहम् ॥ ९५ ॥ चूताशोकविकासिकेतकरज: प्रोद्भासिनीलाम्बुज- प्रस्फूर्जन्नवमल्लिकासमुदितैः पुष्पैः शरान्निर्मितान् । रम्यं पुष्पशरासनं सुललितं पाशं तथा चाङ्कशं वन्दे तावकमायुधं परशिवे चक्रान्तराले स्थितम् ॥ ९६ ॥ S. S. 14 त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । त्रिकोण उदितप्रभे जगति सर्वसिद्धिप्रदे ते त्रिपुरयाम्बया स्थितवती च कामेश्वरी । तनोतु मम मङ्गलं सकलशर्म वज्रेश्वरी करोतु भगमालिनी स्फुरतु मामके चेतसि ॥ ९७ ॥ सर्वानन्दमये समस्तजगतामाकाङ्क्षिते बैन्दवे भैरव्या त्रिपुराद्यया विरचितावासे स्थिता सुन्दरी । आनन्दो सितेक्षणा मणिगणभ्राजिष्णुभूषाम्बरा विस्फूर्जद्वदना परापररहः सा पातु मां योगिनी ॥ ९८ ॥ उल्लसत्कनककान्तिभासुरं सौरभस्फुरणवासिताम्बरम् । दूरतः परिहृतं मधुत्रतै- रर्पयामि तव देवि चम्पकम् ॥ ९९ ॥ वैरमुद्धतमपास्य शंभुना मस्त विनिहितं कलाच्छलात् । गन्धलुब्धमधुपाश्रितं सदा केतकीकुसुममर्पयामि ते ॥ १०० ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । २११ चूर्णीकृतं द्रागिव पद्मजेन त्वदाननस्पर्धि सुधांशुबिम्बम् । समर्पयामि स्फुटमञ्जलिस्थं विकासिजातीकुसुमोत्करं ते ॥ १०१ ॥ अगरबद्दलधूपाजस्र सौरभ्यरम्यां मरकतमणिराजीराजिहारिस्रगाभाम् । दिशि विदिशि विसर्पगन्धलुब्धालिमालां वकुलकुसुममालां कण्ठपीठेऽर्पयामि ॥ १०२ ॥ ईकारोर्ध्वगबिन्दुराननमधोबिन्दुद्वयं च स्तनौ त्रैलोक्ये गुरुगम्यमेतदखिलं हार्द च रेखात्मकम् । इत्थं कामकलात्मिकां भगवतीमन्तः समाराधय- नानन्दाम्बुधिमज्जने प्रलभतामानन्दथुं सज्जनः ॥ १०३ ॥ धूपं तेऽगरुसंभवं भगवति प्रोल्लासिगन्धोद्धुरं दीपं चैव निवेदयामि महसा हार्दान्धकारच्छिदम् । रत्नस्वर्णविनिर्मितेषु परितः पात्रेषु संस्थापितं नैवेद्यं विनिवेदयामि परमानन्दात्मिके सुन्दरि ॥ १०४ ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । जातीको रकतुल्यमोदनमिदं सौवर्णपात्रे स्थितं शुद्धान्नं शुचि मुद्द्रमाषचणकोद्भूतास्तथा सूपकाः । प्राज्यं माहिषमाज्यमुत्तममिदं हैयंगवीनं पृथ- पात्रेषु प्रतिपादितं परशिवे तत्सर्वमङ्गीकुरु ॥ १०५ ॥ शिम्बीसूरणशाकबिम्ब बृहती कूश्माण्डकोशातकी- वृन्ताकानि पटोलकानि मृदुना संसाधितान्यग्निना । संपन्नानि च वेसवारविसरैर्दिव्यानि भक्त्या कृता- न्यग्रे ते विनिवेदयामि गिरिजे सौवर्णपात्रत्रजे ॥ १०६ ॥ निम्बूकार्द्रकचूत कन्दकदलीकौशातकी कर्कटी- धात्रीबिल्वकरीरकैर्विरचितान्यानन्दचिद्विग्रहे । राजीभिः कटुतैलसैन्धवहरिद्राभिः स्थितान्पातये संधानानि निवेदयामि गिरिजे भूरिप्रकाराणि ते । सितयाञ्चितलडुकव्रजा- मृदुपूपान्मृदुलाश्च पूरिका: । परमान्नमिदं च पार्वति प्रणयेन प्रतिपादयामि ते ॥ १०८ ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । २१३ दुग्धमेतदनले सुसाधितं चन्द्रमण्डलनिभं तथा दधि । फाणितं शिखरिणीं सितासितां सर्वमम्ब विनिवेदयामि ते ॥ १०९ ॥ अग्रे ते विनिवेद्य सर्वममितं नैवेद्यमङ्गीकृतं ज्ञात्वा तत्त्वचतुष्टयं प्रथमतो मन्ये सुतृप्तां ततः । देवीं त्वां परिशिष्टमम्ब कनकामत्रेषु संस्थापितं शक्तिभ्यः समुपाहारामि सकलं देवेशि शंभुप्रिये ॥ वामेन स्वर्णपात्रीमनुपमपरमान्नेन पूर्णी दधाना- मन्येन स्वर्णदव निजजनहृदयाभीष्टदां धारयन्तीम् । सिन्दूरारक्तवस्त्रां विविधमणिलसद्भूषणां मेचकाङ्क्षी तिष्ठन्तीमप्रतस्ते मधुमदमुदितामन्नपूर्णा नमामि ॥ पङ्कयोपविष्टान्परितस्तु चक्रं शक्त्या स्वयालिङ्गितवामभागान् । सर्वोपचारैः परिपूज्य भक्त्या तवाम्बिके पारिषदान्नमामि ॥ ११२ ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । परमामृतमत्तसुन्दरी- गणमध्यस्थितमर्कभासुरम् । परमामृतघूर्णितेक्षणं किमपि ज्योतिरुपास्महे परम् ॥ ११३ ॥ दृश्यते तव मुखाम्बुजं शिवे श्रूयते स्फुटमनाहतध्वनिः । अर्चने तव गिरामगोचरे न प्रयाति विषयान्तरं मनः ॥ ११४ ॥ त्वन्मुखाम्बुजविलोकनोल्लस- त्प्रेमनिश्चलविलोचनद्वयम् । उन्मनीमुपगतां सभामिमां भावयामि परमेशि तावकीम् ॥ ११५ ॥ चक्षुः पश्यतु नेह किंचन परं घ्राणं न वा जिघ्रतु श्रोत्रं हन्त शृणोतु न त्वगपि न स्पर्श समालम्बताम् । जिह्वा वेत्तु न वा रसं मम परं युष्मत्स्वरूपामृते नित्यानन्दविघूर्णमाननयने नित्यं मनो मज्जतु ॥ ११६॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । २१५ यस्त्वां पश्यति पार्वति प्रतिदिनं ध्यानेन तेजोमयीं मन्ये सुन्दरि तत्त्वमेतदखिलं वेदेषु निष्ठां गतम् । यस्तस्मिन् समये तवार्चनविधावानन्दसान्द्राशयो यातोऽहं तदभिन्नतां परशिवे सोऽयं प्रसादस्तव ॥ गणाधिनाथं वटुकं च योगिनी : क्षेत्राधिनाथं च विदिक्चतुष्टये । सर्वोपचारै: परिपूज्य भक्तितो निवेदयामो बलिमुक्तयुक्तिभिः ॥ ११८ ॥ वीणामुपान्ते खलु वादयन्त्यै निवेद्य शेषं खलु सौवर्णभृङ्गारविनिर्गतेन शेषिका 1 जलेन शुद्धाचमनं विधेहि ॥ ११९ ॥ ताम्बूलं विनिवेदयामि विलसत्कर्पूरकस्तूरिका- जातीपूगलवङ्गचूर्णखदिरैर्भक्त्या समुल्लासितम् । स्फूर्जनसमुद्रकप्रणिहितं सौवर्णपात्रे स्थितै- दीपैरुज्ज्वलमन्नचूर्णरचितैरारार्तिकं गृह्यताम् ॥ १२० ॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । काचिद्रायति किंनरी कलपदं वाद्यं दधानोर्वशी रम्भा नृत्यति केलिमञ्जुलपदं मातः पुरस्तात्तव । कृत्यं प्रोज्झ्य सुरस्त्रियो मधुमदव्याघूर्णमानेक्षणं नित्यानन्दसुधाम्बुधिं तव मुखं पश्यन्ति हृष्यन्ति च ॥ ताम्बूलोद्भासिवक्त्रैस्त्वदमलवदनालोकनोल्लासिनेत्रै- स्थैः शक्तिसंघैः परिहृतविषयासङ्गमाकर्ण्यमानम् । गीतज्ञाभिः प्रकामं मधुरसमधुरं वादितं किंनरीभि- वीणाझंकारनादं कलय पर शिवानन्दसंधानहेतोः ॥ अर्चाविधौ ज्ञानलवोऽपि दूरे दूरे तदापादकवस्तुजातम् । प्रदक्षिणीकृत्य ततोऽर्चनं ते पञ्चोपचारात्मकमर्पयामि ॥ १२३ ॥ यथेप्सितमनोगत प्रकटितोपचाराचितां निजावरणदेवतागणवृतां सुरेशस्थिताम् । कृताञ्जलिपुटो मुहुः कलित भूमिरष्टाङ्गकै- नमामि भगवत्यहं त्रिपुरसुन्दरि त्राहि माम् ॥ १२४ ॥ विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते संनिधिं प्राप्तं मामिह कांदिशीकमधुना मातर्न दूरीकुरु । चित्तं त्वत्पदभावने व्यभिचरेद्दृग्वाक्च मे जातु चे- त्तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति ॥ काहं मन्दमतिः क्व चेदमखिलैरेकान्तभक्तैः स्तुतं ध्यातं देवि तथापि ते स्वमनसा श्रीपादुकापूजनम् । कादाचित्कमदीयचिन्तनविधौ संतुष्टया शर्मदं स्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने ॥ नित्यार्चनमिदं चित्ते भाव्यमानं सदा मया । निबद्धं विविधैः पद्यैरनुगृह्णातु सुन्दरी ॥ १२७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ त्रिपुरसुन्दरीमानसपूजास्तोत्रं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ॥ उषसि मागधमङ्गलगायनै- र्झटिति जागृहि जागृहि जागृहि । अतिकृपार्द्रकटाक्षनिरीक्षणै- र्जगदिदं जगदम्ब सुखीकुरु ॥ १ ॥ कनकमयवितर्दिशोभमानं दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् । मणिमयमण्टपमध्यमेहि मात- र्मयि कृपयाशु समर्चनं ग्रहीतुम् ॥ २ ॥ कनककलशशोभमानशीर्षं जलधरलम्बि समुल्लसत्पताकम् । भगवति तव संनिवासहेतो- र्मणिमयमन्दिरमेतदर्पयामि ॥ ३ ॥ तपनीयमयी सुतूलिका कमनीया मृदुलोत्तरच्छदा । नवरत्नविभूषिता मया शिबिकेयं जगदम्ब तेऽर्पिता ॥ ४ ॥ कनकमयवितर्दिस्थापिते तूलिकाढ्ये विविधकुसुमकीर्णे कोटिबालार्कवर्णे । भगवति रमणीये रत्नसिंहासनेऽस्मि - न्नुपविश पदयुग्मं हेमपीठे निधाय ॥ ५ ॥ मणिमौक्तिकनिर्मितं महान्तं कनकस्तम्भचतुष्टयेन युक्तम् । कमनीयतमं भवानि तुभ्यं नवमुल्लोचमहं समर्पयामि ॥ ६ ॥ दूर्वया सरसिजान्वितविष्णु- क्रान्तया च सहितं कुसुमाढ्यम् । पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः ॥ ७ ॥ गन्धपुष्पयवसर्षपदूर्वा- संयुतं तिलकुशाक्षतमिश्रम् । हेमपात्रनिहितं सह रत्नै- रर्घ्यमेतदुररीकुरु मातः ॥ ८ ॥ जलजद्युतिना करेण जाती- फलतक्कोललवङ्गगन्धयुक्तैः । अमृतैरमृतैरिवातिशीतै- र्भगवत्याचमनं विधीयताम् ॥ ९ ॥ निहितं कनकस्य संपुटे पिहितं रत्नपिधानकेन यत् । तदिदं जगदम्ब तेऽर्पितं मधुपर्कं जननि प्रगृह्यताम् ॥ १० ॥ एतच्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं न्यस्तं रत्नमये सुवर्णचषकें भृङ्गैर्भ्रमद्भिर्वृतम् । सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं ते मया केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते ॥ ११ ॥ मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः । केशानामलकैर्विशोध्य विशदान्कस्तूरिकादञ्चितैः स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः ॥१२॥ दधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः । स्नपयामि तवाहमादरा- ज्जननि त्वां पुनरुष्णवारिभिः ॥ १३ ॥ एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकै- र्मणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः । मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादा- त्स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् । मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १५ ॥ नवरत्नमये मयार्पिते कमनीये तपनीयपादुके । सविलासमिदं पदद्वयं कृपया देवि तयोर्निधीयताम् ॥ १६ ॥ बहुभिरगरुधूपैः सादरं धूपयित्वा भगवति तव केशान्कङ्कतैर्मार्जयित्वा । सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ १७ ॥ सौवीराञ्जनमिदमम्ब चक्षुषोस्ते विन्यस्तं कनकशलाकया मया यत् । तन्न्यूनं मलिनमपि त्वदक्षिसङ्गात् ब्रह्मेन्द्राद्यभिलषणीयतामियाय ॥ १८ ॥ मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले । केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा- त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ १९ ॥ धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् । मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः कट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥२०॥ मातः फालतले तवातिविमले काश्मीरकस्तूरिका- कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः । वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं पादौ चन्दनलेपनादिभिरहं संपूजयामि क्रमात् ॥ २१ ॥ रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः । अखण्डितैर्देव यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा ॥ २२ ॥ जननि चम्पकतैलमिदं पुरो मृगमदोपयुतं पटवासकम् । सुरभिगन्धमिदं च चतुः समं सपदि सर्वमिदं परिगृह्यताम् ॥ २३ ॥ सीमन्ते ते भगवति मया सादरं न्यस्तमेत- त्सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति । बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ती- रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥ २४ ॥ मन्दारकुन्दकरवीरलवङ्गपुष्पै- स्त्वां देवि संततमहं परिपूजयामि । जातीजपावकुलचम्पककेतकादि- नानाविधानि कुसुमानि च तेऽर्पयामि ॥ २५ ॥ मालतीवकुलहेमपुष्पिका- काञ्चनारकरवीरकैतकैः । कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदम्ब ते वपुः ॥ २६ ॥ पारिजातशतपत्रपाटलै- र्मल्लिकावकुलचम्पकादिभिः । अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः ॥ २७ ॥ लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः । श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि- र्धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ २८ ॥ रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिषा लोडितै- र्दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः । आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥ मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसंतानिकाः सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः । एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यर्चयन् ॥ सापूपसूपदधिदुग्धसिताघृतानि सुस्वादुभक्तपरमान्नपुरःसराणि । शाकोल्लसन्मरिचिजीरकबाहिकानि भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥ ३१ ॥ श्रीरमेतदिदमुत्तमोत्तमं प्राज्यमाज्यमिदमुज्ज्वलं मधु । मातरेतदमृतोपमं पयः संभ्रमेण परिपीयतां मुहुः ॥ ३२ ॥ उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे । कर्पूरमिश्रेण सकुङ्कमेन हस्तौ समुद्वर्तय चन्दनेन ॥ ३३ ॥ अतिशीतमुशीरवासितं तपनीये कलशे निवेशितम् । पटपूतमिदं जितामृतं शुचि गङ्गाजलमम्ब पीयताम् ॥ ३४ ॥ जम्ब्वाम्ररम्भाफलसंयुतानि द्राक्षाफलाक्षौद्रसमन्वितानि । सनारिकेलानि सदाडिमानि फलानि ते देवि समर्पयामि ॥ ३५ ॥ कूश्माण्डकोशातकिसंयुतानि जम्बीरनारङ्गसमन्वितानि । सबीजपूराणि सबादराणि फलानि ते देवि समर्पयामि ॥ ३६ ॥ कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैः सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः । मातः कैतकपत्त्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु ॥ ३७ ॥ एलालवङ्गादिसमन्वितानि तक्कोलकर्पूरविमिश्रितानि । ताम्बूलवल्लीदलसंयुतानि पूगानि ते देवि समर्पयामि ॥ ३८ ॥ ताम्बूलनिर्जितसुतप्तसुवर्णवर्णं स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् । सौवर्णपात्रनिहितं खदिरेण सार्धं ताम्बूलमम्ब वदनाम्बुरुहे गृहाण ॥ ३९ ॥ महति कनकपात्रे स्थापयित्वा विशालान् डमरुसदृशरूपान्बद्धगोधूमदीपान् । बहुघृतमथ तेषु न्यस्य दीपान्प्रकृष्टा- न्भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥ ४० ॥ सविनयमथ दत्वा जानुयुग्मं धरण्यां सपदि शिरसि धृत्वा पात्रमारार्तिकस्य । मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥ ४१ ॥ अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः । मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ ४२ ॥ मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम् । भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् ॥ शरदिन्दुमरीचिगौरवर्णै- र्मणिमुक्ताविलसत्सुवर्णदण्डैः । जगदम्ब विचित्रचामरैस्त्वा- महमानन्दभरेण वीजयामि ॥ ४४ ॥ मार्ताण्डमण्डलनिभो जगदम्ब योऽयं भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते । पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय- मस्मिन्विलोकय विलोलविलोचने त्वम् ॥ ४५ ॥ इन्द्रादयो नतिनतैर्मकुटप्रदीपै- र्नीराजयन्ति सततं तव पादपीठम् । तस्मादहं तव समस्तशरीरमेत- न्नीराजयामि जगदम्ब सहस्रदीपैः ॥ ४६ ॥ प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः कनकमयविभूषः स्निग्धगम्भीरघोषः । भगवति कलितोऽयं वाहनार्थं मया ते तुरगशतसमेतो वायुवेगस्तुरंगः ॥ ४७ ॥ मधुकरवृतकुम्भन्यस्तसिन्दूररेणुः कनककलितघण्टाकिङ्किणीशोभिकण्ठः । श्रवणयुगलचञ्चच्चामरो मेघतुल्यो जननि तव मुदे स्यान्मत्तमातङ्ग एषः ॥ ४८ ॥ द्रुततरतुरगैर्विराजमानं मणिमयचक्रचतुष्टयेन युक्तम् । कनकमयममुं वितानवन्तं भगवति ते हि रथं समर्पयामि ॥ ४९ ॥ हयगजरथपत्तिशोभमानं दिशि दिशि दुन्दुभिमेघनादयुक्तम् । अतिबहु चतुरङ्गसैन्यमेत- द्भगवति भक्तिभरेण तेऽर्पयामि ॥ ५० ॥ परिघीकृतसप्तसागरं बहुसंपत्सहितं मयाम्ब ते विपुलम् । प्रबलं धरणीतलाभिधं दृढदुर्गं निखिलं समर्पयामि ॥ ५१ ॥ शतपत्रयुतैः स्वभावशीतै- रतिसौरभ्ययुतैः परागपीतैः । भ्रमरीमुखरीकृतैरनन्तै- र्व्यजनैस्त्वां जगदम्ब वीजयामि ॥ ५२ ॥ भ्रमरलुलितलोलकुन्तलाली- विगलितमाल्यविकीर्णरङ्गभूमिः । इयमतिरुचिरा नटी नटन्ती तव हृदये मुदमातनोतु मातः ॥ ५३ ॥ मुखनयनविलासलोलवेणी- विलसितनिर्जितलोलभृङ्गमालाः । युवजनसुखकारिचारुलीला भगवति ते पुरतो नटन्ति बालाः ॥ ५४ ॥ भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः । अनुपमितसुवेषा वारयोषा नटन्ति परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु ॥ ५५ ॥ डमरुडिण्डिमजर्झरझल्लरी- मृदुरवद्रगडद्द्रगडादयः । झटिति झाङ्कृतझाङ्कृतझाङ्कृतै- र्बहुदयं हृदयं सुखयन्तु ते ॥ ५६ ॥ विपञ्चीषु सप्तस्वरान्वादयन्त्य- स्तव द्वारि गायन्ति गन्धर्वकन्याः । क्षणं सावधानेन चित्तेन मातः समाकर्णय त्वं मया प्रार्थितासि ॥ ५७ ॥ अभिनयकमनीयैर्नर्तनैर्नर्तकीनां क्षणमपि रमयित्वा चेत एतत्त्वदीयम् । स्वयमहमतिचित्रैर्नृत्तवादित्रगीतै- र्भगवति भवदीयं मानसं रञ्जयामि ॥ ५८ ॥ तव देवि गुणानुवर्णने चतुरा नो चतुराननादयः । तदिहैकमुखेषु जन्तुषु स्तवनं कस्तव कर्तुमीश्वरः ॥ ५९ ॥ पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति । तत्सर्वपापक्षयहेतुभूतं प्रदक्षिणं ते परितः करोमि ॥ ६० ॥ रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् । अशेषबृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥ चरणनलिनयुग्मं पङ्कजैः पूजयित्वा कनककमलमालां कण्ठदेशेऽर्पयित्वा । शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि हर्षं तनोतु ॥ ६२ ॥ अथ मणिमयमञ्चकाभिरामे कनकमयवितानराजमाने । प्रसरदगरुधूपधूपितेऽस्मि- न्भगवति भवनेऽस्तु ते निवासः ॥ ६३ ॥ एतस्मिन्मणिखचिते सुवर्णपीठे त्रैलोक्याभयवरदौ निधाय हस्तौ । विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मि - न्पर्यङ्के कनकमये निषीद मातः ॥ ६४ । तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः । अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम् ॥ ६५ ॥ अथ मातरुशीरवासितं निजताम्बूलरसेन रञ्जितम् । तपनीयमये हि पट्टके मुखगण्डूषजलं विधीयताम् ॥ ६६ ॥ क्षणमथ जगदम्ब मञ्चकेऽस्मि- न्मृदुतलतूलिकया विराजमाने । अतिरहसि मुदा शिवेन सार्धं सुखशयनं कुरु तत्र मां स्मरन्ती ॥ ६७ ॥ मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्ता- मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् । नानालंकारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥ एषा भक्त्या तव विरचिता या मया देवि पूजा स्वीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमस्व । न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ६९ ॥ पूजामिमां यः पठति प्रभाते मध्याह्नकाले यदि वा प्रदोषे । धर्मार्थकामान्पुरुषोऽभ्युपैति देहावसाने शिवभावमेति ॥ ७० ॥ पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः । पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति ॥ ७१ ॥ प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत् । वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत् ॥ ७२ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री गोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ देवीचतुःषष्ट्युपचारपूजास्तोत्रं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ त्रिपुरसुन्दर्यष्टकम् ॥ कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं नितम्बजितभूधरां सुरनितम्बिनीसेविताम् । नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ १ ॥ कदम्बवनवासिनीं कनकवल्लकीधारिणीं महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् । दयाविभवकारिणीं विशदरोचनाचारिणीं त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ २ । कदम्बवनशालया कुचभरोल्लसन्मालया कुचोपमितशैलया गुरुकृपालसद्वेलया । मदारुणकपोलया मधुरगीतवाचालया कयापि घननीलया कवचिता वयं लीलया ॥ ३ ॥ कदम्बवनमध्यगां कनकमण्डलोपस्थितां षडम्बुरुहवासिनीं सततसिद्धसौदामिनीम् । विडम्बितजपारुचिं विकचचन्द्रचूडामणिं त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ४ ॥ कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम् । मदारुणविलोचनां मनसिजारिसंमोहिनीं मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५ ॥ स्मरेत्प्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरां गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलाम् । घनस्तनभरोन्नतां गलितचूलिकां श्यामलां त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ६ ॥ सकुङ्कुमविलेपनामलकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् । अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ ७ ॥ पुरंदरपुरन्ध्रिकाचिकुरबन्धसैरन्ध्रिकां पितामहपतिव्रतापटुपटीरचर्चारताम् । मुकुन्दरमणीमणीलसदलंक्रियाकारिणीं भजामि भुवनाम्बिकां सुरवधूटिकाचेटिकाम् ॥ ८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ त्रिपुरसुन्दर्यष्टकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ ललितापञ्चरत्नम् ॥ प्रातः स्मरामि ललितावदनारविन्दं बिम्बाधरं पृथुलमौक्तिकशोभिनासम् । आकर्णदीर्घनयनं मणिकुण्डलाढ्यं मन्दस्मितं मृगमदोज्ज्वलफालदेशम् ॥ १ ॥ प्रातर्भजामि ललिताभुजकल्पवल्लीं रक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् । माणिक्यहेमवलयाङ्गदशोभमानां पुण्ड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ॥ २ ॥ प्रातर्नमामि ललिताचरणारविन्दं भक्तेष्टदाननिरतं भवसिन्धुपोतम् । पद्मासनादिसुरनायकपूजनीयं पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥ ३ ॥ प्रातः स्तुवे परशिवां ललितां भवानीं त्रय्यन्तवेद्यविभवां करुणानवद्याम् । विश्वस्य सृष्टिविलयस्थितिहेतुभूतां विद्येश्वरीं निगमवाङ्मनसातिदूराम् ॥ ४ ॥ प्रातर्वदामि ललिते तव पुण्यनाम कामेश्वरीति कमलेति महेश्वरीति । श्रीशाम्भवीति जगतां जननी परेति वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ ५ ॥ यः श्लोकपञ्चकमिदं ललिताम्बिकायाः सौभाग्यदं सुललितं पठति प्रभाते । तस्मै ददाति ललिता झटिति प्रसन्ना विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥ ६ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ ललितापञ्चरत्नं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ कल्याणवृष्टिस्तवः ॥ कल्याणवृष्टिभिरिवामृतपूरिताभि- र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः । सेवाभिरम्ब तव पादसरोजमूले नाकारि किं मनसि भाग्यवतां जनानाम् ॥ १ ॥ एतावदेव जननि स्पृहणीयमास्ते त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे । सांनिध्यमुद्यदरुणायुतसोदरस्य त्वद्विग्रहस्य परया सुधयाप्लुतस्य ॥ २ ॥ ईशत्वनामकलुषाः कति वा न सन्ति ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः । एकः स एव जननि स्थिरसिद्धिरास्ते यः पादयोस्तव सकृत्प्रणतिं करोति ॥ ३ ॥ लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनं कारुण्यकन्दलितकान्तिभरं कटाक्षम् । कंदर्पकोटिसुभगास्त्वयि भक्तिभाजः संमोहयन्ति तरुणीर्भुवनत्रयेऽपि ॥ ४ ॥ ह्रींकारमेव तव नाम गृणन्ति वेदा मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे । त्वत्संस्मृतौ यमभटाभिभवं विहाय दीव्यन्ति नन्दनवने सह लोकपालैः ॥ ५ ॥ हन्तुः पुरामधिगलं परिपीयमानः क्रूरः कथं न भविता गरलस्य वेगः । नाश्वासनाय यदि मातरिदं तवार्धं देहस्य शश्वदमृताप्लुतशीतलस्य ॥ ६ ॥ सर्वज्ञतां सदसि वाक्पटुतां प्रसूते देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः । किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं द्वे चामरे च महतीं वसुधां ददाति ॥ ७ ॥ कल्पद्रुमैरभिमतप्रतिपादनेषु कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः । आलोकय त्रिपुरसुन्दरि मामनाथं त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम् ॥ ८ ॥ हन्तेतरेष्वपि मनांसि निधाय चान्ये भक्तिं वहन्ति किल पामरदैवतेषु । त्वामेव देवि मनसा समनुस्मरामि त्वामेव नौमि शरणं जननि त्वमेव ॥ ९ ॥ लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणाना- मालोकय त्रिपुरसुन्दरि मां कदाचित् । नूनं मया तु सदृशः करुणैकपात्रं जातो जनिष्यति जनो न च जायते वा ॥ १० ॥ ह्रींहीमिति प्रतिदिनं जपतां तवाख्यां किं नाम दुर्लभमिह त्रिपुराधिवासे । मालाकिरीटमदवारणमाननीया तान्सेवते वसुमती स्वयमेव लक्ष्मीः ॥ ११ ॥ संपत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदाननिरतानि सरोरुहाक्षि । त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु नान्यम् ॥ १२ ॥ कल्पोपसंहृतिषु कल्पितताण्डवस्य देवस्य खण्डपरशोः परभैरवस्य । पाशाङ्कुशैक्षवशरासनपुष्पबाणा सा साक्षिणी विजयते तव मूर्तिरेका ॥ १३ ॥ लग्नं सदा भवतु मातरिदं तवार्धं तेजः परं बहुलकुङ्कुमपङ्कशोणम् । भास्वत्किरीटममृतांशुकलावतंसं मध्ये त्रिकोणनिलयं परमामृतार्द्रम् ॥ १४ ॥ ह्रींकारमेव तव नाम तदेव रूपं त्वन्नाम दुर्लभमिह त्रिपुरे गृणन्ति । त्वत्तेजसा परिणतं वियदादिभूतं सौख्यं तनोति सरसीरुहसंभवादेः ॥ १५ ॥ ह्रींकारत्रयसंपुटेन महता मन्त्रेण संदीपितं स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् । तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥ १६ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ कल्याणवृष्टिस्तवः संपूर्णः ॥ ॥ श्रीः ॥ ॥ नवरत्नमालिका ॥ हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं कारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम् । कालकालफणिपाशबाणधनुरङ्कुशामरुणमेखलां फालभूतिलकलोचनां मनसि भावयामि परदेवताम् ॥ १॥ गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम् । मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरीं इन्दिरारमणसोदरीं मनसि भावयामि परदेवताम् ॥ २ ॥ स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलां हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम् । वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकां मारवैरिसहचारिणीं मनसि भावयामि परदेवताम् ॥ ३॥ भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां वारिराशिमणिमेखलावलयवह्नि मण्डलशरीरिणीम् । वारिसारवहकुण्डलां गगनशेखरीं च परमात्मिकां चारुचन्द्ररविलोचनां मनसि भावयामि परदेवताम् ॥४॥ कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस- त्पुण्डरीकमुखभेदिनीं च तरुणचण्डभानुतदिडुज्ज्वलां । मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं मण्डलान्तमणिदीपिकां मनसि भावयामि परदेवताम् ॥ source text badly breaks meter! Consulted with secondary sources for correction. वारणाननमयूरवाहमुखदाहवारणपयोधरां चारणादिसुरसुन्दरीचिकुरशेखरीकृतपदाम्बुजाम् । कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां वारणान्तमुखपारणां मनसि भावयामि परदेवताम् ॥ पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम् । पद्मसंभवसदाशिवान्तमयपश्चरत्नपदपीठिकां पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदेवताम् ॥ आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणीं आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम् । मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदेवताम् ॥ कालिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनीं चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम् । वालिकामधुरगण्डमण्डलमनोहराननसरोरुहां कालिकामखिलनायिकां मनसि भावयामि परदेवताम् ॥ नित्यमेव नियमेन जल्पतां भुक्तिमुक्तिफलदामभीष्टदाम् । शंकरेण रचितां सदा जपे- न्नामरत्ननवरत्नमालिकाम् ॥ १० ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ नवरत्नमालिका संपूर्णा ॥ ॥ श्रीः ॥ ॥ मन्त्रमातृकापुष्पमालास्तवः ॥ कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि- द्वीपे कल्पकवाटिकापरिवृते कादम्बवाट्युज्ज्वले । रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमे चिन्तारत्नविनिर्मितं जननि ते सिंहासनं भावये ॥ १ ॥ एणाङ्कानलभानुमण्डललसच्छ्रीचक्रमध्ये स्थितां बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् । चापं वाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां तां त्वां चन्द्रकलावतंसमकुटां चारुस्मितां भावये ॥ २ ॥ ईशानादिपदं शिवैकफलदं रत्नासनं ते शुभं पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः । शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं कारुण्यामृतवारिधे तदखिलं संतुष्टये कल्पताम् ॥ ३ ॥ लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे प्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः । गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मन्त्रितैः स्नानं देवि धिया मयैतदखिलं संतुष्टये कल्पताम् ॥ ४ ॥ ह्रींकाराङ्कितमन्त्रलक्षिततनो हेमाचलात्संचितै रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् । मुक्तासंततियज्ञसूत्रममलं सौवर्णतन्तूद्भवं दत्तं देवि धिया मयैतदखिलं संतुष्टये कल्पताम् ॥ ५ ॥ हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां हिन्दोलद्युतिहीरपूरिततरे हेमाङ्गदे कङ्कणे । मञ्जीरौ मणिकुण्डले मकुटमप्यर्धेन्दुचूडामणिं नासामौक्तिकमङ्गुलीयकटकौ काञ्चीमपि स्वीकुरु ॥ ६ ॥ सर्वाङ्गे घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं कस्तूरीतिलकं च फालफलके गोरोचनापत्रकम् । गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥ ७ ॥ कह्लारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहै- र्जातीचम्पकमालतीवकुलकैर्मन्दारकुन्दादिभिः । केतक्या करवीरकैर्बहुविधैः कॢप्ताः स्रजो मालिका: संकल्पेन समर्पयामि वरदे संतुष्टये गृह्यताम् ॥ ८ ॥ हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलै- र्यैर्भृङ्गावलिनीलकुन्तलभरैर्बध्नासि तस्याशयम् । तानीमानि तवाम्ब कोमलतराण्यामोदलीलागृहा- ण्यामोदाय दशाङ्गगुग्गुलुघृतैर्धूपैरहं धूपये ॥ ९ ॥ लक्ष्मीमुज्ज्वलयामि रत्ननिवहोद्भास्वत्तरे मन्दिरे मालारूपविलम्बितैर्मणिमयस्तम्भेषु संभावितैः । चित्रैर्हाटकपुत्रिकाकरधृतैर्गव्यैर्घृतैर्वर्धितै- र्दिव्यैर्दीपगणैर्धिया गिरिसुते संतुष्टये कल्पताम् ॥ ह्रींकारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा । दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं माषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥ ११ ॥ सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलै: पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः । मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैः पूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥ १२॥ कन्याभिः कमनीयकान्तिभिरलंकारामलारार्तिका पात्रे मौक्तिकचित्रपङ्क्तिविलसत्कर्पूरदीपालिभिः । तत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहं मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥ लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसा- दिन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती । वीणामेणविलोचनाः सुमनसां नृत्यन्ति तद्रागव- द्भावैराङ्गिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥ ह्रींकारत्रयसंपुटेन मनुनोपास्ये त्रयीमौलिभि- र्वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके । सल्लापाः स्तुतयः प्रदक्षिणशतं संचार एवास्तु ते संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥ श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा संध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः । चित्ताम्भोरुहमण्टपे गिरिसुता नृत्तं विधत्ते रसा- द्वाणी वक्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥ १६ ॥ इति गिरिवरपुत्रीपादराजीवभूषा भुवनममलयन्ती सूक्तिसौरभ्यसारैः । शिवपदमकरन्दस्यन्दिनीयं निबद्धा मदयतु कविभृङ्गान्मातृकापुष्पमाला ॥ १७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मन्त्रमातृकापुष्पमालास्तवः संपूर्णः ॥ ॥ श्रीः ॥ ॥ गौरीदशकम् ॥ लीलालब्धस्थापितलुप्ताखिललोकां लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् । बालादित्यश्रेणिसमानद्युतिपुञ्जां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १ ॥ प्रत्याहारध्यानसमाधिस्थितिभाजां नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् । सत्यज्ञानानन्दमयीं तां तनुरूपां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ २ ॥ चन्द्रापीडानन्दितमन्दस्मितवक्त्रां चन्द्रापीडालंकृतनीलालकभाराम् । इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ३ ॥ आदिक्षान्तामक्षरमूर्त्या विलसन्तीं भूते भूते भूतकदम्बप्रसवित्रीम् । शब्दब्रह्मानन्दमयीं तां तटिदाभां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ४ ॥ मूलाधारादुत्थितवीथ्या विधिरन्ध्रं सौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम् । येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ५ ॥ नित्यः शुद्धो निष्कल एको जगदीशः साक्षी यस्याः सर्गविधौ संहरणे च । विश्वत्राणक्रीडनलोलां शिवपत्नीं गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ६ ॥ यस्याः कुक्षौ लीनमखण्डं जगदण्डं भूयो भूयः प्रादुरभूदुत्थितमेव । पत्या सार्धं तां रजताद्रौ विहरन्तीं गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ७ ॥ यस्यामोतं प्रोतमशेषं मणिमाला- सूत्रे यद्वत्क्वापि चरं चाप्यचरं च । तामध्यात्मज्ञानपदव्या गमनीयां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ८ ॥ नानाकारैः शक्तिकदम्बैर्भुवनानि व्याप्य स्वैरं क्रीडति येयं स्वयमेका । कल्याणीं तां कल्पलतामानतिभाजां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ९ ॥ आशापाशक्लेशविनाशं विदधानां पादाम्भोजध्यानपराणां पुरुषाणाम् । ईशामीशार्धाङ्गहरां तामभिरामां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १० ॥ प्रातःकाले भावविशुद्धः प्रणिधाना- द्भक्त्या नित्यं जल्पति गौरीदशकं यः । वाचां सिद्धिं संपदमग्र्यां शिवभक्तिं तस्यावश्यं पर्वतपुत्री विधाति ॥ ११ ॥ ॥ श्रीः ॥ ॥ भवानीभुजंगम् ॥ षडाधारपङ्केरुहान्तर्विराज- त्सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् । सुधामण्डलं द्रावयन्तीं पिबन्तीं सुधामूर्तिमीडे चिदानन्दरूपाम् ॥ १ ॥ ज्वलत्कोटिबालार्कभासारुणाङ्गीं सुलावण्यशृङ्गारशोभाभिरामाम् । महापद्मकिञ्जल्कमध्ये विराज- त्त्रिकोणे निषण्णां भजे श्रीभवानीम् ॥ २ ॥ कणत्किङ्किणीनूपुरोद्भासिरत्न- प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् । अजेशाच्युताद्यैः सुरैः सेव्यमानं महादेवि मन्मूर्ध्नि ते भावयामि ॥ ३ ॥ सुशोणाम्बराबद्धनीवीविराज- न्महारत्नकाञ्चीकलापं नितम्बम् । स्फुरद्दक्षिणावर्तनाभिं च तिस्रो वलीरम्ब ते रोमराजिं भजेऽहम् ॥ ४ ॥ लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो- पमश्रि स्तनद्वन्द्वमम्बाम्बुजाक्षि । भजे दुग्धपूर्णाभिरामं तवेदं महाहारदीप्तं सदा प्रस्तुतास्यम् ॥ ५ ॥ शिरीषप्रसूनोल्लसद्बाहुदण्डै- र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च । चलत्कङ्कणोदारकेयूरभूषो- ज्ज्वलद्भिर्लसन्तीं भजे श्रीभवानीम् ॥ ६ ॥ शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा- धरस्मेरवक्त्रारविन्दां सुशान्ताम् । सुरत्नावलीहारताटङ्कशोभां महासुप्रसन्नां भजे श्रीभवानीम् ॥ ७ ॥ सुनासापुटं सुन्दरभ्रूललाटं तवौष्ठश्रियं दानदक्षं कटाक्षम् । ललाटे लसद्गन्धकस्तूरिभूषं स्फुरच्छ्रीमुखाम्भोजमीडेऽहमम्ब ॥ ८ ॥ चलत्कुन्तलान्तर्भ्रमद्भृङ्गबृन्दं वनस्निग्धधम्मिल्लभूषोज्ज्वलं ते । स्फुरन्मौलिमाणिक्यबद्धेन्दुरेखा- विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९ ॥ इति श्रीभवानि स्वरूपं तवेदं प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् । स्फुरत्वम्ब डिम्भस्य मे हृत्सरोजे सदा वाङ्मयं सर्वतेजोमयं च ॥ १० ॥ गणेशाभिमुख्याखिलैः शक्तिबृन्दै- र्वृतां वै स्फुरच्चक्रराजोल्लसन्तीम् । परां राजराजेश्वरि त्रैपुरि त्वां शिवाङ्कोपरिस्थां शिवां भावयामि ॥ ११ ॥ त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप- स्त्वमाकाशभूवायवस्त्वं महत्त्वम् । त्वदन्यो न कश्चित्प्रपञ्चोऽस्ति सर्वं त्वमानन्दसंवित्स्वरूपां भजेऽहम् ॥ १२ ॥ श्रुतीनामगम्ये सुवेदागमज्ञा महिम्नो न जानन्ति पारं तवाम्ब । स्तुतिं कर्तुमिच्छामि ते त्वं भवानि क्षमस्वेदमत्र प्रमुग्धः किलाहम् ॥ १३ ॥ गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव त्वमेवासि माता पिता च त्वमेव । त्वमेवासि विद्या त्वमेवासि बन्धु- गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ १४ ॥ शरण्ये वरेण्ये सुकारुण्यमूर्ते हिरण्योदराद्यैरगण्ये सुपुण्ये । भवारण्यभीतेश्च मां पाहि भद्रे नमस्ते नमस्ते नमस्ते भवानि ॥ १५ ॥ इतीमां महच्छ्रीभवानीभुजंगं स्तुतिं यः पठेद्भक्तियुक्तश्च तस्मै । स्वकीयं पदं शाश्वतं वेदसारं श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १६ ॥ भवानी भवानी भवानी त्रिवार- मुदारं मुदा सर्वदा ये जपन्ति । न शोकं न मोहं न पापं न भीतिः कदाचित्कथंचित्कुतश्चिज्जनानाम् ॥ १७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ भवानीभुजंगं संपूर्णम् ॥