॥ श्रीः ॥ ॥ प्रबोधसुधाकरः ॥ देहनिन्दाप्रकरणम् । नित्यानन्दैकरसं सच्चिन्मात्रं स्वयंज्योतिः । पुरुषोत्तममजमीशं वन्दे श्रीयादवाधीशम् ॥ १ ॥ यं वर्णयितुं साक्षाच्छ्रुतिरपि मूकेव मौनमाचरति । सोऽस्माकं मनुजानां किं वाचां गोचरो भवति ॥ २ ॥ यद्यप्येवं विदितं तथापि परिभाषितो भवेदेव । अध्यात्मशास्त्रसारैर्हरिचिन्तनकीर्तनाभ्यासैः ॥ ३ ॥ कॢप्तैर्बहुभिरुपायैरभ्यासज्ञानभक्त्याद्यैः पुंसो विना विरागं मुक्तेरधिकारिता न स्यात् ॥ ४ ॥ वैराग्यमात्मबोधो भक्तिश्चेति त्रयं गदितम् । मुक्तेः साधनमादौ तत्र विरागो वितृष्णता प्रोक्ता ॥ ५ ॥ सा चाहंममताभ्यां प्रच्छन्ना सर्वदेहेषु । तत्राहंता देहे ममता भार्यादिविषयेषु ॥ ६ ॥ देहः किमात्मकोऽयं कः संबन्धोऽस्य वा विषयैः । एवं विचार्यमाणेऽहंताममते निवर्तेते ॥ ७ ॥ स्त्रीपुंसोः संयोगात्संपाते शुक्रशोणितयोः । प्रविशञ्जीवः शनकैः स्वकर्मणा देहमाधत्ते ॥ ८ ॥ मातृगुरूदरदर्यां कफमूत्रपुरीषपूर्णायाम् । जठराग्निज्वालाभिर्नवमासं पच्यते जन्तुः ॥ ९ ॥ दैवात्प्रसूतिसमये शिशुस्तिरश्चीनतां यदा याति । शस्त्रैर्विखण्ड्य स तदा बहिरिह निष्कास्यतेऽतिबलात् ॥ १० ॥ अथवा यन्त्रच्छिद्राद्यदा तु निःसार्यते प्रबलैः । प्रसवसमीरैश्च तदा यः क्लेशः सोऽप्यनिर्वाच्यः ॥ ११ ॥ आधिव्याधिवियोगात्मीयविपत्कलहदीर्घदारिद्र्यैः । जन्मानन्तरमपि यः क्लेशः किं शक्यते वक्तुम् ॥ १२ ॥ नरपशुविहंगतिर्यग्योनीनां चतुरशीतिलक्षाणाम् । कर्मनिबद्धो जीवः परिभ्रमन्यातना भुङ्क्ते ॥ १३ ॥ चरमस्तत्र नृदेहस्तत्रोज्जन्मान्वयोत्पत्तिः । स्वकुलाचारविचारः श्रुतिप्रचारश्च तत्रापि ॥ १४ ॥ आत्मानात्मविवेको नो देहस्य च विनाशिताज्ञानम् । एवं सति स्वमायुः प्राज्ञैरपि नीयते मिथ्या ॥ १५ ॥ आयुःक्षणलवमात्रं न लभ्यते हेमकोटिभिः क्वापि । तच्चेद्गच्छति सर्वं मृषा ततः काधिका हानिः ॥ १६ ॥ नरदेहातिक्रमणात्प्राप्तौ पश्वादिदेहानाम् । स्वतनोरप्यज्ञाने परमार्थस्यात्र का वार्ता ॥ १७ ॥ सततं प्रवाह्यमानैर्वृषभैरश्वैः खरैर्गजैर्महिषैः । हा कष्टं क्षुत्क्षामैः श्रान्तैर्नो शक्यते वक्तुम् ॥ १८ ॥ रुधिरत्रिधातुमज्जामेदोमांसास्थिसंहतिर्देहः । स बहिस्त्वचा पिनद्धस्तस्मान्नो भक्ष्यते काकैः ॥ १९ ॥ नासाग्राद्वदनाद्वा कफं मलं पायुतो विसृजन् । स्वयमेवैति जुगुप्सामन्तः प्रसृतं च नो वेत्ति ॥ २० ॥ पथि पतितमस्थि दृष्ट्वा स्पर्शभयादन्यमार्गतो याति । नो पश्यति निजदेहं चास्थिसहस्रावृतं परितः ॥ २१ ॥ केशावधि नखराग्रादिदमन्तः पूतिगन्धसंपूर्णम् । बहिरपि चागरुचन्दनकर्पूराद्यैर्विलेपयति ॥ २२ ॥ यत्नादस्य पिधत्ते स्वाभाविकदोषसंघातम् । औपाधिकगुणनिवहं प्रकाशयञ्श्लाघते मूढः ॥ २३ ॥ क्षतमुत्पन्नं देहे यदि न प्रक्षाल्यते त्रिदिनम् । तत्रोत्पतन्ति बहवः क्रिमयो दुर्गन्धसंकीर्णाः ॥ २४ ॥ यो देहः सुप्तोऽभूत्सुपुष्पशय्योपशोभिते तल्पे । संप्रति स रज्जुकाष्ठैर्नियन्त्रितः क्षिप्यते वह्नौ ॥ २५ ॥ सिंहासनोपविष्टं दृष्ट्वा यं मुदमवाप लोकोऽयम् । तं कालाकृष्टतनुं विलोक्य नेत्रे निमीलयति ॥ २६ ॥ एवंविधोऽतिमलिनो देहो यत्सत्तया चलति । तं विस्मृत्य परेशं वहत्यहंतामनित्येऽस्मिन् ॥ २७ ॥ वात्मा सच्चिद्रूपः क्व मांसरुधिरास्थिनिर्मितो देहः । इति यो लज्जति धीमानितरशरीरं स किं मनुते ॥ २८ ॥ विषयनिन्दाप्रकरणम् । मूढः कुरुते विषयजकर्दमसंमार्जनं मिथ्या । दुरदृष्टवृष्टिविरसो देहो गेहं पतत्येव ॥ २९ ॥ प्रबोधसुधाकरः । भार्या रूपविहीना मनसः क्षोभाय जायते पुंसाम् । अत्यन्तं रूपाढ्या सा परपुरुषैर्वशीक्रियते ॥ ३० ॥ यः कश्चित्परपुरुषो मित्रं भृत्योऽथवा भिक्षुः । पश्यति हि साभिलाषं विलक्षणोदाररूपवतीम् ॥ ३१ ॥ यं कंचित्पुरुषवरं स्वभर्तुरतिसुन्दरं दृष्ट्ा । मृगयति किं न मृगाक्षी मनसेव परस्त्रियं पुरुषः ॥ ३२ ॥ एवं सुरूपनार्या भर्ता कोपात्प्रतिक्षणं क्षीणः । नो लभते सुखलेशं बलिमिव बलिभुग्बहुष्वेकः ॥ ३३ । वनिता नितान्तमज्ञा स्वाज्ञामुल्लङ्घय वर्तते यदि सा । शत्रोरप्यधिकतरा पराभिलाषिण्यसौ किमुत ॥ ३४ ॥ लोको नापुत्रस्यास्तीति श्रुत्यास्य कः प्रभाषितो लोकः । मुक्ति: संसरणं वा तदन्यलोकोऽथवा नाद्यः ॥ ३५ ॥ सर्वेऽपि पुत्रभाजस्तन्मुक्तौ संसृतिर्भवति । श्रवणादयोऽप्युपाया मृषा भवेयुस्तृतीयेऽपि ॥ ३६ ॥ तत्प्राप्त्युपायसत्त्वाद्दितीयपक्षेऽप्यपुत्रस्य । पुत्रेष्टयादिकयागप्रवृत्तये वेदवादोऽयम् ॥ ३७ ॥ प्रबोधसुधाकरः । नानाशरीरकष्टैर्धनव्ययैः साध्यते पुत्रः । उत्पन्नमात्रपुत्रे जीवितचिन्ता गरीयसी तस्य ॥ ३८ ॥ जीवन्नपि किं मूर्खः प्राज्ञः किं वा सुशीलभाग्भविता । जार चौरः पिशुनः पतितो द्यूतप्रियः क्रूरः ॥ ३५ ॥ पितृमातृबन्धुघाती मनसः खेदाय जायते पुत्रः । चिन्तयति तात निधनं पुत्रो द्रव्याद्यधीशताहेतोः ॥ ४२ ॥ सर्वगुणैरुपपन्नः पुत्रः कस्यापि कुत्रचिद्भवति । सोऽल्पायू रुग्णो वा ह्यनपत्यो वा तथापि वेदाय ॥४१ ॥ पुत्रात्सद्गतिरिति चेत्तदपि प्रायोऽस्ति युक्यमहम् । इत्थं शरीरकष्टैर्दुःखं संप्रार्थ्यते मूढैः ॥ ४२ ॥ पितृमातृबन्धुभगिनीपितृव्यजामातृमुख्यानाम । मार्गस्थानामिव युतिरने कयोनिभ्रमात्क्षणिका ॥ ४३ ॥ दैवं यावद्विपुलं यावत्प्रचुरः परोपकारश्च । तावत्सर्वे सुहृदो व्यत्ययतः शत्रवः सर्वे ॥ ४४ ॥ अनन्ति चेदनुदिनं वन्दिन इव वर्णयन्ति संतृप्ताः । तचेद्द्द्दृित्रदिनान्तरमभिनिन्दन्तः प्रकुप्यन्ति ॥ ४५ ॥ प्रबोधसुधाकरः । दुर्भरजठरनिमित्तं समुपार्जयितुं प्रवर्तते चित्तम् । लक्षावधि बहुवित्तं तथाप्यलभ्यं कपर्दिकामात्रम् ॥ ४६ ॥ लब्धश्चेदधिकोऽर्थः पत्न्यादीनां भवेत्स्वार्थः । नृपचौरतोऽप्यनर्थस्तस्माद्दव्योद्यमो व्यर्थः ॥ ४७ ॥ R66n अन्यायमर्थभाजं पश्यति भूपोऽध्वगामिनं चौरः । 10 पिशुनो व्यसनप्राप्तिं दायादानां गणः कलहम् ॥ ४८ ॥ पातकभरैरनेकैरर्थं समुपार्जयन्ति राजानः । अश्वमतङ्गजहेतोः प्रतिक्षणं नाश्यते सोऽर्थः ॥ ४९ ॥ राज्यान्तराभिगमनाद्रणभङ्गान्मन्त्रिभृत्यदोषाद्वा । विषशस्त्रगुप्तघातान्मग्नाश्चिन्तार्णवे भूपाः ॥ ५० ॥ मनोनिन्दाप्रकरणम् । 5263 हसति कदाचिद्रौति भ्रान्तं सद्दश दिशो भ्रमति । हृष्टं कदापि रुष्टं शिष्टं दुष्टं च निन्दति स्तौति ॥ ५१ ॥ कमपि द्वेष्टि सरोषं ह्यात्मानं लाघते कदाचिदपि । चित्तं पिशाचमभवद्राक्षस्या तृष्णया व्याप्तम् ॥ ५२ ॥ प्रबोधसुधाकरः । दम्भाभिमानलोभैः कामक्रोधोरुमत्सरश्वतः । आकृष्यते समन्ताच्छुभिरिव पतितास्थिवन्मार्गे ॥ ५३ ॥ तस्माच्छुद्धविरागो मनोऽभिलषितं त्यजेदर्थम् । तदनभिलषितं कुर्यान्निर्व्यापारं ततो भवति ॥ ५४ ॥ विषयनिग्रहप्रकरणम् । संसृतिपारावारे ह्यगाधविषयोदकेन संपूर्णे । नृशरीरमम्बुतरणं कर्मसमीरैरितस्ततश्चलति ॥ ५५ ॥ छिद्रैर्नवभिरुपेतं जीवा नौकापतिर्महानलसः । छिद्राणामनिरोधाज्जलपरिपूर्ण पतत्यधः सततम ॥ ५६ ॥ छिद्राणां तु निरोधात्सुखेन पारं परं याति । तस्मादिन्द्रियनिग्रहमृते न कचित्तरत्यनृतम् ॥ ५७ ॥ पश्यति परस्य युवतिं सकाममपि तन्मनोरथं कुरुते । ज्ञात्वैव तदप्राप्तिं व्यर्थ मनुजोऽतिपापभाग्भवति ॥ ५८ । पिशुनैः प्रकाममुदितां परस्य निन्दां शृणोति कर्णाभ्याम् तेन परः किं म्रियते व्यर्थ मनुजोऽतिपापभाग्भवति ॥५९॥ प्रबोधसुधाकरः । अनृतं परापवादं रसना वदति प्रतिक्षणं तेन । परहानिर्लब्धिः का व्यर्थे मनुजोऽतिपापभाग्भवति ॥६०॥ विषयेन्द्रिययोर्योगे निमेषसमयेन यत्सुखं भवति । विषये नष्टे दुःखं यावज्जीवं च तत्तयोर्मध्ये ॥ ६१ ॥ हेयमुपादेयं वा प्रविचार्य सुनिश्चितं तस्मात् । अल्पसुखस्य त्यागाद्नल्पदुःखं जहाति सुधीः ॥ ६२ ॥ धीवरदत्तमहामिषमश्नन्वॆसारिणो म्रियते । तद्वद्विषयान्भुञ्जन्कालाकृष्टो नरः पतति ॥ ६३ ॥ उरगग्रस्तार्धतनुर्भेकोऽश्नातीह मक्षिकाः शतशः । एवं गतायुरपि सन्विषयान्समुपार्जयत्यन्धः ॥ ६४॥ मनोनिग्रहप्रकरणम् । स्वीयोद्गमतोयवहा सागरमुपयाति नीचमार्गेण । सा चेदुद्गम एव स्थिरा सती किं न याति वार्धित्वम् ॥ एवं मनः स्वहेतुं विचारयत्सुस्थिरं भवेदन्तः । न बहिर्वोदेति तदा किं नात्मत्वं स्वयं याति ॥ ६६ ॥ प्रबोधसुधाकरः । वर्षास्वम्भःप्रचयात्कूपे गुरुनिर्झरे पयः क्षारम् । ग्रीष्मेणैव तु शुष्के माधुर्य भजति तत्राम्भः ॥ ६७ ॥ तद्वद्विषयोद्रिक्तं तमः प्रधानं मनः कलुषम् । तस्मिन्विरागशुष्के शनकैराविर्भवेत्सत्त्वम् ॥ ६८ ॥ यं विषयमपि षित्वा धावति बाह्येन्द्रियद्वारा । ताप्राप्तौ खिद्यति तथा यथा स्वं गतं किंचित् ॥ ६९ ॥ नगनगरदुर्गदुर्गमसरितः परितः परिभ्रमचेतः । यदि नो लभते विषयं विषयन्त्रितमिव खिन्नमायाति ॥ तुम्बीफलं जलान्तर्बलाद्धः क्षिप्तमप्युपैत्यूर्ध्वम् । तद्वन्मनः स्वरूपे निहितं यत्नाद्बहिर्याति ॥ ७१ ॥ इह वा पूर्वभवे वा स्वकर्मणैवार्जितं फलं यद्यत् । शुभमशुभं वा तत्तद्भोगोऽप्यप्रार्थितो भवति ॥ ७२ ॥ चेतः पशुमशुभपथं प्रधावमानं निराकर्तुम् । वैराग्यमेकमुचितं गलकाष्ठं निर्मितं धात्रा ॥ ७३ ॥ निद्रावसरे यत्सुखमेतत्किं विषयजं यस्मात् । न हि चेन्द्रियप्रदेशावस्थानं चेतसो निद्रा ॥ ७४ ॥ प्रबोधसुधाकरः । अद्वारतुङ्गकुड्ये गृहेऽवरुद्धो यथा व्याघ्रः । बहुनिर्गमप्रयत्नैः श्रान्तस्तिष्ठति पतञ्श्वसंश्च तथा ॥ ७५ ॥ सर्वेन्द्रियावरोधादुद्योगशतैरनिर्गमं वीक्ष्य । शान्तं तिष्ठति चेतो निरुद्यमत्वं तदा याति ॥ ७६ ॥ प्राणस्पन्दनिरोधात्सत्सङ्गाद्वासनात्यागात् । हरिचरणभक्तियोगान्मनः स्ववेगं जहाति शनैः ॥ ७७ ॥ वैराग्यप्रकरणम् । परगृहगृहिणीपुत्रद्रविणानामागमे विनाशे वा । कथितौ हर्षविषादौ किं वा स्यातां क्षणं स्थातुः ॥ ७८ ॥ दैवात्स्थितं गतं वा यं कंचिद्विषयमीड्यमल्पं वा । नो तुष्यन्न च सीदन्वीक्ष्य गृहेष्वतिथिवन्निवसेत् ॥ ७९ ॥ ममताभिमानशून्यो विषयेषु पराङ्मुखः पुरुषः । तिष्ठन्नपि निजसदने न बाध्यते कर्मभिः कापि ॥ ८० ॥ कुत्राप्यरण्यदेशे सुनीलतृणवालुकोपचिते । शीतलतरुतलभूमौ सुखं शयानस्य पुरुषस्य ॥ ८१ ॥ प्रबोधसुधाकरः । तरवः पत्रफलाढ्याः सुगन्धशीतानिलाः परितः । कलकूजितवरविहगाः सरितो मित्राणि किं न स्युः ॥ वैराग्यभाग्यभाजः प्रसन्नमनसो निराशस्य । अप्रार्थितफलभोक्तुः पुंसो जन्मनि कृतार्थतेह स्यात् ॥ द्रव्यं पल्लवतश्च्युतं यदि भवेत्कापि प्रमादात्तदा शोकायाथ तदर्पितं श्रुतवते तोषाय च श्रेयसे । स्वातन्त्र्याद्विषयाः प्रयान्ति यदमी शोकाय ते स्युश्चिरं संत्यक्ताः स्वयमेव चेत्सुखमयं निःश्रेयसं तन्वते ॥ ८४ ॥ विस्मृत्यात्मनिवासमुत्कटभवाटव्यां चिरं पर्यट- न्संतापत्रयदीर्घदावदहनज्वालावलीव्याकुल: । वल्गन्फल्गुषु सुप्रदीप्तनयनश्वेतः कुरङ्गो बला- दाशापाशवशीकृतोऽपि विषयव्याघ्रैर्मृषा हन्यते ॥ ८५ ॥ आत्मसिद्धिप्रकरणम् । उत्पन्नेऽपि विरागे विना प्रबोधं सुखं न स्यात् । स भवेद्गुरूपदेशात्तस्माद्गुरुमाश्रयेत्प्रथमम् ॥ ८६ ॥ प्रबोधसुधाकरः । यद्यपि जलधेरुदकं यद्यपि वा प्रेरकोऽनिलस्तत्र । तदपि पिपासाकुलितः प्रतीक्षते चातको मेघम् ॥ ८७ ॥ त्रेधा प्रतीतिरुक्ता शास्त्राद्गुरुतस्तथात्मनस्तत्र । । शास्त्रप्रतीतिरादौ यद्वन्मधुरो गुडोऽस्तीति ॥ ८८ ॥ अग्रे गुरुप्रतीतिर्दूराद्गुडदर्शनं यद्वत् । आत्मप्रतीतिरस्माद्गुडभक्षणजं सुखं यद्वत् ॥ ८९ ॥ रसगन्धरूपशब्दस्पर्शा अन्ये पदार्थाच । कस्मादनुभूयन्ते नो देहान्नेन्द्रियग्रामात् ॥ ९० ॥ मृतदेहेन्द्रियवर्गों यतो न जानाति दाहजं दुःखम् । प्राणश्चेन्निद्रायां तस्करबाधां स किं वेत्ति ॥ ९१ ॥ मनसो यदि वा विषयस्तद्युगपत्किं न जानाति । तस्य पराधीनत्वाद्यतः प्रमादस्य कस्त्राता ॥ ९२ ॥ गाढध्वान्तगृहान्ततः क्षितितले दीपं निधायोज्ज्वलं पञ्चच्छिद्रमधोमुखं हि कलशं तस्योपरि स्थापयेत् । तद्वाह्ये परितोऽनुरन्ध्रममलां वीणां च कस्तूरिकां सद्रत्नं व्यजनं न्यसेच्च. कलशच्छिद्राध्वनिर्गच्छताम् ॥९३॥ प्रबोधसुधाकरः । तेजोंशेन पृथक्पदार्थनिवज्ञानं हि यज्जायते तद्रन्यैः कलशेन वा किमु मृदो भाण्डेन तैलेन वा । किं सूत्रेण न चैतदस्ति रुचिरं प्रत्यक्ष वाधादतो दीपज्योतिरिहैकमेव शरणं देहे तथात्मा स्थितः ॥ ९४ ॥ मायासिद्धिप्रकरणम् । चिन्मात्रः परमात्मा ह्यपश्यदात्मानमात्मतया । अभवत्सोऽहंनामा तस्मादासीद्भिदो मूलम् ॥ ९५ ॥ द्वेधैव भाति तस्मात्पतिश्च पत्नी च तौ भवतां वै । तस्मादयमाकाशस्त्रिधैव परिपूर्यते सततम् ॥ ९६ ॥ सोऽयमपीक्षां चक्रे ततो मनुष्या अजायन्त । इत्युपनिषदः प्राहुर्दयितां प्रति याज्ञवल्क्योक्त्या ॥ ९७ ॥ चिरमानन्दानुभवात्सुषुप्तिरिव काप्यवस्थाभूत । परमात्मनस्तु तस्मात्स्वप्नवदेवोत्थिता माया ॥ ९८ ॥ सदसद्विलक्षणासौ परमात्मसदाश्रयानादिः । सा च गुणत्रयरूपा सूते सचराचरं विश्वम् ॥ ९९ ॥ माया तावददृश्या दृश्यं कार्य कथं जनयेत् । तन्तुभिरदृश्यरूपैः पटोऽल दृश्यः कथं भवति ॥ १०० ॥ प्रबोधसुधाकरः । स्वप्ने सुरतानुभवाच्छुक्रद्रावो यथा शुभे वसने । अनृतं रतं प्रबोधे वसनोपतिर्भवेत्सत्या ॥ १०१ ॥ स्वप्ने पुरुषः सत्यो योषिदसत्या तयोर्युतिश्च मृषा । शुक्रद्रावः सत्यस्तद्वत्प्रकृतेऽपि संभवति ॥ १०२ ॥ एवमदृश्या माया तत्कार्य जगदिदं दृश्यम् । माया तावदियं स्याद्या स्वविनाशेन हर्षदा भवति ॥ १०३ ॥ रजनीवातिदुरन्ता न लक्ष्यतेऽत्र स्वभावोऽस्याः । सौदामिनीव नश्यति मुनिभिः संप्रेक्ष्यमाणैव ॥ १०४ ॥ माया ब्रह्मोपगताविद्या जीवाश्रया प्रोक्ता । चिदचिद्रन्थिश्चेतस्तदक्षयं ज्ञेयमा मोक्षात् ॥ १०५ ॥ घटमठकुड्यैरावृतमाकाशं तत्तदाह्वयं भवति । तद्वदविद्यावृतमिह चैतन्यं जीव इत्युक्तः ॥ १०६ ॥ ननु कथमावरणं स्यादज्ञानं ब्रह्मणो विशुद्धस्य । सूर्यस्येव तमिस्रं रात्रिभवं स्वप्रकाशस्य ॥ १०७ ॥ दिनकरकिरणोत्पन्नैर्मेघैराच्छाद्यते यथा सूर्यः । न खलु दिनस्य दिनत्वं तैर्विकृतैः सान्द्रसंघातैः ॥ १०८॥ P. 111. 2 प्रबोधसुधाकरः । अज्ञानेन तथात्मा शुद्धोऽपि च्छाद्यते सुचिरम् । न परं तु लोकसिद्धा प्राणिषु तच्चेतनाशक्तिः ॥ १०९ ॥ लिङ्गदेहादिनिरूपणप्रकरणम् । स्थूलशरीरस्यान्तर्लिङ्गशरीरं च तस्यान्तः । कारणमस्याप्यन्तस्ततो महाकारणं तुर्यम् ॥ ११० ॥ स्थूलं निरूपितं प्रागधुना सूक्ष्मादितो ब्रूमः । अङ्गुष्ठमात्रः पुरुषः श्रुतिरिति यत्प्राह तत्सूक्ष्मम् ॥ १११ ॥ सूक्ष्माणि महाभूतान्यसवः पञ्चेन्द्रियाणि पश्चैव । षोडशमन्तःकरणं तत्संघातो हि लिङ्गतनुः ॥ ११२ ॥ तत्कारणं स्मृतं यत्तस्यान्तर्वासनाजालम् । तस्य प्रवृत्तिहेतुर्बुद्धयाश्रयमत्र तु स्यात् ॥ ११३ ॥ तत्सारभूतबुद्धा यत्प्रतिफलितं तु शुद्धचैतन्यम् । जीवः स उक्त आद्यैर्योऽहमिति स्फूर्तिद्वपुषि ॥ ११४ ॥ चरतरतरङ्गसङ्गात्प्रतिबिम्बं भास्करस्य च चलं स्यात् । अस्ति तथा चलता चैतन्ये चित्तचावल्यात् ॥ ११५ ॥ प्रबोधसुधाकरः । नन्वर्कप्रतिबिम्बः सलिलादिषु यः स चावभासयति । किमितरपदार्थनिवहं प्रतिबिम्बोऽप्यात्मनस्तद्वत् ॥ ११६ ॥ प्रतिफलितं यत्तेजः सवितुः कांस्यादिपात्रेषु । तदनुप्रविष्टमन्तर्गृहमन्यार्थान्प्रकाशयति ॥ ११७ ॥ चित्प्रतिबिम्बस्तद्वद्धिषु यो जीवतां प्राप्तः । नेवादीन्द्रियमार्गैर्बहिरर्थान्सोऽवभासयति ॥ ११८ ॥ अद्वैतप्रकरणम् । तदिदं य एवमार्यो वेद ब्रह्माहमस्मीति । स इदं सर्वे च स्यात्तस्य हि देवाश्च नेशते भूत्या ॥ ११९ ॥ येषां स भवत्यात्मा योऽन्यामथ देवतामुपास्ते यः । अहमन्योऽसावन्यश्चेत्थं यो वेद पशुवत्सः ॥ १२० ॥ इत्युपनिषदामुक्तिस्तथा श्रुतिर्भगवदुक्तिश्च । ज्ञानी त्वात्मैवेयं मतिर्ममेत्यत्र युक्तिरपि ॥ १२१ ॥ ऋजु वक्रं वा काष्ठं हुताशदग्धं सद्भितां याति । तत्किं हस्तग्राह्यं ऋजुवत्राकारसत्त्वेऽपि ॥ १२२ ॥ प्रबोधसुधाकर । एवं य आत्मनिष्ठो ह्यात्माकारश्च जायते पुरुषः । देहीव दृश्यतेऽसौ परं त्वसौ केवलो ह्यात्मा ॥ १२३ ॥ प्रतिफलति भानुरेकोऽनेकशरावोदकेषु यथा । तद्वदसौ परमात्मा ह्येोऽनेकेषु देहेषु ॥ १२४ ॥ दैवादेकशरावे भग्ने किंवा विलीयते सूर्यः । प्रतिबिम्बचञ्चलत्वादर्कः किं चञ्चलो भवति ॥ १२५ ॥ स्वव्यापारं कुरुते यथैकसवितुः प्रकाशेन । तद्वच्चराचरमिदं ह्येकात्मसत्तया चलति ॥ १२६ ॥ येनोदकेन कदलीचम्पकजात्यादयः प्रवर्धन्ते । मूलकपलाण्डुलशुनास्तेनैवैते विभिन्नरसगन्धाः ॥ १२७ ॥ एको हि सूत्रधारः काष्ठप्रकृतीरनेकशो युगपत् । स्तम्भाग्रपट्टिकायां नर्तयतीह प्रगूढतया ॥ १२८ ॥ गुडखण्डशर्कराद्या भिन्नाः स्युर्विकृतयो यथैकेोः । केयूरकङ्कणाया यथैकहेनो भिदाच पृथक् ॥ १२९ ॥ एवं पृथक्स्वभावं पृथगाकारं पृथग्वृत्ति । जगदुञ्चावचमुश्चैरेकेनैवात्मना चलति ॥ १३० ॥ प्रबोधसुधाकरः । स्कन्धधृतसिद्धमन्नं यावन्नाश्नाति मार्गगस्तावत् । स्पर्शभक्षुत्पीडे तस्मिन्भुक्ते न ते भवतः ॥ १३१ ॥ मानुषमतङ्गमहिषश्वसूकरादिष्वनुस्यूतम् । .२१ यः पश्यति जगदीशं स एव भुङ्क्तेऽद्वयानन्दम ॥ १३२ ॥ कर्तृत्वभोक्तृत्व प्रकरणम् । यद्वत्सूर्येऽभ्युदिते स्वव्यवहारं जनः कुरुते । तं न करोति विवस्वान्न कारयति तद्वदात्मापि ॥ १३३ ॥ लोहे हुतभुग्व्याप्ते लोहान्तरताड्यमानेऽपि । तस्यान्तर्गतवह्नेः किं स्यान्निर्घातजं दुःखम ॥ १३४ ॥ निष्ठुरकुठारघातैः काष्ठे संछेद्यमानेऽपि । अन्तर्वर्ती वह्निः किं घातैश्छेद्यते तद्वत् ॥ १३५ ॥ तनुसंबन्धाज्जातैः सुखदुःखैलिप्यते नात्मा । ब्रूते श्रुतिरपि भूयोऽनश्नन्नन्योऽभिचाकशीत्यादि ॥ १३६ ॥ निशि वेश्मनि प्रदीपे दीप्यति चौरस्तु वित्तमपहरति । ईरयति वारयति वा तं दीपः किं तथात्मापि ॥ १३७ ॥ प्रबोधसुधाकरः । गेहान्ते दैववशात्कस्मिंश्चित्समुदिते विपन्ने वा । दीपस्तुष्यत्यथवा विद्यति किं तद्वदात्मापि ॥ १३८ ॥ स्वप्रकाशनाप्रकरणम् । रविचन्द्रवह्निदीपप्रमुखाः स्वपरप्रकाशाः स्युः । यद्यपि तथाप्यमभिः प्रकाश्यते क्वापि नैवात्मा ॥ १३९ ॥ चक्षुद्वरैिव स्यात्परात्मना भानमेतेषाम् । यद्वा तेऽपि पदार्था न ज्ञायन्तेऽथ केवलालोकात् ॥१४०॥ तत्राप्यक्षिद्वारा सहायभूतो न चेदात्मा । नो चेत्सत्यालोके पश्यत्यन्धः कथं नार्थान् ॥ १४१ ॥ सत्यात्मन्यपि किं नो ज्ञानं तच्चेन्द्रियान्तरेण स्यात् । अन्धे प्रतिबन्धे करसंबन्धे पदार्थभानं हि ॥ १४२ ॥ जानाति येन सर्वे केन च तं वा विजानीयात् । इत्युपनिषदामुक्तिर्बध्यत आत्मात्मना तस्मात् ॥ १४३ ॥ नादानुसंधानप्रकरणम् । यावत्क्षणं क्षणार्ध स्वरूपपरिचिन्तनं क्रियते । तावद्दक्षिणकर्णे त्वनाहतः श्रूयते शब्दः ॥ १४४ ॥ प्रबोधसुधाकरः । सिद्धयारम्भस्थिरताविश्रमविश्वासबीजशुद्धीनाम् । उपलक्षणं हि मनसः परमं नादानुसंधानम् ॥ १४५ ॥ भेरीमृदङ्गशङ्खाद्याहतनादे मनः क्षणं रमते । २३ किं पुनरनाहतेऽस्मिन्मधुमधुरेऽखण्डिते स्वच्छे ॥ १४६ ॥ चित्तं विषयोपरमाद्यथा यथा याति नैश्वल्यम् । वेणोरिव दीर्घतरस्तथा तथा श्रूयते नादः ॥ १४७ ॥ नादाभ्यन्तर्वर्ति ज्योतिर्यद्वर्तते हि चिरम् । तव मनो लीनं चेन्न पुनः संसारबन्धाय ॥ १४८ ॥ परमानन्दानुभवात्सुचिरं नादानुसंधानात् । श्रेष्ठश्चित्तलयोऽयं सत्स्वन्यलयेष्वनेकेषु ॥ १४९ ॥ मनोलयप्रकरणम् । संसारतापतप्तं नानायोनिभ्रमात्परिश्रान्तम् । लब्ध्वा परमानन्दं न चलति चेतः कदा क्वापि ॥ १५० ॥ अद्वैतानन्दभरात्किमिदं कोऽहं च कस्याहम् । इति मन्थरतां यातं यदा तदा मूर्छितं चेतः ॥ १५१ ॥ प्रबोधसुधाकरः । चिरतरमात्मानुभवादात्माकारं प्रजायते चेतः । सरिदिव सागरयाता समुद्रभावं प्रयात्युचैः ॥ १५२ ॥ आत्मन्यनुप्रविष्टं चित्तं नापेक्षते पुनर्विषयान् । क्षीरादुद्धृतमाज्यं यथा पुनः क्षीरतां न यातीह ॥ १५३ ॥ दृष्टौ द्रष्टरि दृश्ये यदनुस्यूतं च मानमात्रं स्यात् । तत्रोपक्षीणं चेच्चित्तं तन्मूर्छितं भवति ॥ १५४ ॥ याति स्वसंमुखत्वं दृङ्मात्रं वा यदा तदा भवति । दृश्यद्रष्टृविभेदो ह्यसंमुखेऽस्मिन्न तद्भवति ॥ १५५ ॥ एकस्मिन्दृड्यात्रे त्रेधा द्रष्टादिकं हि समुदेति । विविधे तस्मिँल्लीने यावं शिष्यते पश्चात् ॥ दर्पणतः प्राक्पश्चादस्ति मुखं प्रतिमुखं तदाभाति । आदर्शेऽपि च नष्टे मुखमस्ति मुखे तथैवात्मा ॥ १५७ ॥ प्रबोधप्रकरणम् । माधुर्य गुडपिण्डे यत्तत्तस्यांशकेऽणुमात्रेऽपि । एवं न पृथग्भावो गुडत्वमधुरत्वयोरस्ति ॥ १५८ ॥ प्रबोधसुधाकरः । अथवा न भिन्नभावः कर्पूरामोदयोरेवम् । आत्मस्वरूपमनसां पुंसां जगदात्मतां याति ॥ १५९ ॥ यद्भावानुभवः स्यान्निद्रादौ जागरस्यान्ते । २५ अन्तः स चेत्स्थिरः स्याल्लभते हि तदाद्वयानन्दम् ॥ १६०॥ अतिगम्भीरेऽपारे ज्ञानचिदानन्दसागरे स्फारे । कर्मसमीरणतरला जीवतरङ्गावलिः स्फुरति ॥ १६१ ॥ खरतरकरैः प्रदीप्तेऽभ्युदिते चैतन्यतिग्मांशौ । स्फुरति मृषैव समन्तादनेकविधजीवमृगतृष्णा ॥ १६२ ॥ अन्तरदृष्टे यस्मिञ्जगदिदमारात्परिस्फुरति । दृष्टे यस्मिन्सकृदपि विलीयते क्वाप्यसद्रूपम् ॥ १६३ ॥ बाह्याभ्यन्तरपूर्णः परमानन्दार्णवे निमग्नो यः । चिरमाप्लुत इव कलशो महाहदे जह्नुतनयायाः ॥ १६४॥ पूर्णात्पूर्णतरे परात्परतरेऽप्यज्ञातपारे हरौ संविस्फारसुधार्णवे विरहिते वीचीतरङ्गादिभिः । भास्वत्कोटिविकासितोज्ज्वलदिगाकाशप्रकाशे परे स्वानन्दैकरसे निमग्नमनसां न त्वं न चाहं जगत् ॥ प्रबोधसुधाकरः । द्विधाभक्तिप्रकरणम् । चित्ते सत्त्वोत्पत्तौ तटिदिव बोधोदयो भवति । तव स स्थिरः स्याद्यदि चित्तं शुद्धिमुपयाति ॥ १६६ ॥ शुद्धयति हि नान्तरात्मा कृष्णपदाम्भोजभक्तिमृते । वसनमिव क्षारोदैर्भक्त्या प्रक्षाल्यते चेतः ॥ १६७ ॥ यद्वत्समलादर्शे सुचिरं भस्मादिना शुद्धे । प्रतिफलति वक्त्रमुच्चैः शुद्धे चित्ते तथा ज्ञानम् ॥ १६८ ॥ जानन्तु तत्र बीजं हरिभक्त्या ज्ञानिनो ये मूर्त चैवामूर्त द्वे एव ब्रह्मणो रूपे । १६९ ॥ स्युः । इत्युपनिषत्तयोर्वा द्वौ भक्तो भगवदुपदिष्टौ । क्लेशादक्केशाद्वा मुक्तिः स्यादेतयोर्मध्ये ॥ १७० ॥ स्थूला सूक्ष्मा चेति द्वेधा हरिभक्तिरुद्दिष्टा । प्रारम्भे स्थूला स्यात्सूक्ष्मा तस्याः सकाशाच्च ॥ १७१ ॥ स्वाश्रमधर्माचरणं कृष्णप्रतिमार्चनोत्सवो नित्यम् । विविधोपचार करणैर्हरिदासैः संगमः शश्वत् ॥ १७२ ॥ प्रबोधसुधाकरः । कृष्णकथा संश्रवणे महोत्सवः सत्यवादश्च । परयुवतौ द्रविणे वा परापवादे पराङ्मुखता ॥ १७३ ॥ प्राम्यकथासुद्वेगः सुतीर्थगमनेषु तात्पर्यम् । यदुपतिकथावियोगे व्यर्थं गतमायुरिति चिन्ता ॥ १७४ ॥ एवं कुर्वति भक्तिं कृष्णकथानुग्रहोत्पन्ना । समुदेति सूक्ष्मभक्तिर्यस्या हरिरन्तराविशति ॥ १७५ ॥ स्मृतिसत्पुराणवाक्यैर्यथाश्रुतायां हरेर्मूर्ती । मानसपूजाभ्यासो विजननिवासेऽपि तात्पर्यम् ॥ १७६ ॥ सत्यं समस्तजन्तुषु कृष्णस्यावस्थितेर्ज्ञानम् । अद्रोहो भूतगणे ततस्तु भूतानुकम्पा स्यात् ॥ १७७ ॥ प्रमितयदृच्छालाभे संतुष्टिर्दारपुत्रादौ । ममताशून्यत्वमतो निरहंकारत्वमक्रोधः ॥ १७८ ॥ मृदुभाषिता प्रसादो निजनिन्दायां स्तुतौ समता । सुखदुःखशीतलोष्णद्वन्द्वसहिष्णुत्वमापदो न भयम् ॥ निद्राहारविहारष्वनादरः सङ्गराहित्यम् । वचने चानवकाशः कृष्णस्मरणेन शाश्वती शान्तिः ॥ प्रबोधसुधाकरः । केनापि गीयमाने हरिगीते वेणुनादे वा । आनन्दाविर्भावो युगपत्स्याद्धृष्टसात्त्विकोद्रेकः ॥ १८१ ॥ तस्मिन्ननुभवति मनः प्रगृह्यमाणं परात्मसुखम् । स्थिरतां याते तस्मिन्याति मदोन्मत्तदन्तिदशाम् ॥ १८२ ॥ जन्तुषु भगवद्भावं भगवति भूतानि पश्यति क्रमशः । एतादृशी दशा तदैव हरिदासवर्यः स्यात् ॥ १८३ ॥ ध्यानविधिप्रकरणम् । यमुनातटनिकट स्थित वृन्दावनकानने महारम्ये । कल्पद्रुमतलभूमौ चरणं चरणोपरि स्थापय ॥ १८४ ॥ तिष्ठन्तं घननीलं स्वतेजसा भासयन्तमिह विश्वम् । पीताम्बरपरिधानं चन्दनकर्पूरलिप्तसर्वाङ्गम् ॥ १८५ ॥ आकर्णपूर्णनेत्रं कुण्डलयुगमण्डितश्रवणम् । मन्दस्मितमुखकमलं सुकौस्तुभोदारमणिहारम् ॥ १८६ ॥ वलयाङ्गुलीयकाद्यानुज्ज्वलयन्तं स्वलंकारान् । गलविलुलितवनमालं स्वतेजसापास्तकलिकालम् ॥ १८७ ॥ प्रबोधसुधाकरः । गुजारवालिकलितं गुञ्जापुञ्जान्विते शिरसि । २९. भुञ्जानं सह गोपैः कुञ्जान्तरवर्तिनं हरिं स्मरत ॥ १८८ ॥ मन्दारपुष्पवासितमन्दानिलसेवितं परानन्दम् । मन्दाकिनीयुतपदं नमत महानन्ददं महापुरुषम् ॥ सुरभीकृतदिग्वलयं सुरभिशतैरावृतं सदा परितः । सुरभीतिक्षपणमहासुरभीमं यादवं नमत ॥ १९० ॥ कंदर्पकोटिसुभगं वाञ्छितफलदं दयार्णवं कृष्णम् । त्यक्त्वा कमन्यविषयं नेत्रयुगं द्रष्टुमुत्सहते । १९१ ॥ पुण्यतमामतिसुरसां मनोऽभिरामां हरेः कथां त्यक्त्वा । श्रोतुं श्रवणद्वन्द्वं ग्राम्यं कथमादरं भवति ॥ १९२ ॥ दौर्भाग्यमिन्द्रियाणां कृष्णे विषये हि शाश्वतिके । क्षणिकेषु पापकरणेष्वपि सज्जन्ते यदन्यविषयेषु ॥ १९३ ॥ सगुणनिर्गुणयोरैक्यप्रकरणम् । श्रुतिभिर्महापुराणैः सगुणगुणातीतयोरैक्यम् । यत्प्रोक्तं गूढतया तदहं वक्ष्येऽतिविशदार्थम् ॥ १९४॥ प्रबोधसुधाकरः । भूतंप्वन्तर्यामी ज्ञानमय: सच्चिदानन्दः । प्रकृतेः परः परात्मा यदुकुलतिलकः स एवायम् ॥। १९५ ॥ ननु सगुणो दृश्यतनुस्तथैकदेशाधिवासञ्च । स कथं भवेत्परात्मा प्राकृतवद्रागरोषयुतः ॥ १९६ ॥ इतर दृश्यपदार्था लक्ष्यन्तेऽनेन चक्षुषा सर्वे । भगवाननया दृष्ट्या न लक्ष्यते ज्ञानदृग्गम्यः ॥ १९७ ॥ यद्विश्वरूपदर्शनसमये पार्थाय दत्तवान्भगवान् । दिव्यं चक्षुस्तस्माददृश्यता युज्यते नृहरौ ॥ १९८ ॥ साक्षाद्यथैकदेशे वर्तुलमुपलभ्यते रवेर्बिम्बम् । विश्वं प्रकाशयति तत्सर्वैः सर्वत्र दृश्यते युगपत् ॥ १९९॥ यद्यपि साकारोऽयं तथैकदेशी विभाति यदुनाथः । सर्वगतः सर्वात्मा तथाप्ययं सच्चिदानन्दः ॥ २०० ॥ एको भगवान्रेमे युगपद्गोपीष्वनेकासु । अथवा विदेहजनकश्रुतदेवभूदेवयोर्हरिर्युगपत् ॥ २०१ ॥ अथवा कृष्णाकारां स्वचमूं दुर्योधनोऽपश्यत् । तस्माद्व्यापक आत्मा भगवान्हरिरीश्वरः कृष्णः ॥ २०२ ॥ प्रबोधसुधाकरः । वक्षसि यदा जघान श्रीवत्सः श्रीपतेः स किं द्वेष्यः । भक्तानामसुराणामन्येषां वा फलं सदृशम् ॥ २०३ ॥ तस्मान्न कोऽपि शत्रुर्नो मित्रं नाप्युदासीनः । नृहरिः सन्मार्गस्थः सफलः शाखीव यदुनाथः ॥ २०४ ॥ लोहशलाकानिवहैः स्पर्शाश्मनि भिद्यमानेऽपि । स्वर्णत्वमेति लौहं द्वेषादपि विद्विषां तथा प्राप्तिः ॥ २०५ ॥ नन्वात्मनः सकाशादुत्पन्ना जीवसंततिश्चेयम् । जगतः प्रियतर आत्मा तत्प्रकृते नैव संभवति ॥ २०६ ॥ वत्साहरणावसरे पृथग्वयोरूपवासनाभूषान् । हरिरजमोहं कर्तुं सवत्सगोपान्विनिर्ममे स्वस्मात् ॥ २०७॥ अग्नेर्यथा स्फुलिङ्गाः क्षुद्रास्तु व्युच्चरन्तीति । श्रुत्यर्थ दर्शयितुं स्वतनोरतनोत्स जीवसंदोहम् ॥ २०८ ॥ यमुनातीरनिकुजे कदाचिदपि वत्सकांश्च चारयति । कृष्णे तथार्यगोपेषु च वरगोष्ठेषु चारयत्स्वारात् ॥ २०९॥ वत्सं निरीक्ष्य दूराद्गावः स्नेहेन संभ्रान्ताः । तदभिमुखं धावन्त्यः प्रययुगपैश्च दुर्वाराः ॥ २१० ॥ प्रबोधसुधाकरः । प्रम्रवभरेण भूयः स्रुतस्तनाः प्राप्य पूर्ववद्वत्सान् । पृथुरसनया लिहन्त्यस्तर्णकवत्यः प्रपाययन्प्रमुदा ॥ २१२ ॥ गोपा अपि निजबालाञ्जगृहुर्मूर्धानमाघ्राय । इत्थमलौकिक लाभस्तेषां तत्र क्षणं ववृधे ॥ २१२ ॥ गोपा वत्साश्चान्या पूर्व कृष्णात्मका ह्यभवन । तेनात्मनः प्रियत्वं दर्शितमेतेषु कृष्णेन ॥ २१३ ॥ प्रेयः पुत्राद्वित्तात्प्रेयोऽन्यस्माच्च सर्वस्मात् । अन्तरतरं यदात्मेत्युपनिषदः सत्यताभिहिता ॥ २१४ ॥ नवच्चावचभूतेष्वात्मा सम एव वर्ततेऽथ हरिः । दुर्योधनेऽर्जुने वा तरतमभावं कथं नु गतवान्सः ॥ २१५ ॥ बधिरान्धपङ्गुमूका दीर्घाः खर्वा: सरूपाश्च । सर्वे विधिना दृष्टाः सवत्सगोपाश्चतुर्भुजास्तेन ॥ २१६ ॥ भूतसमत्वं नृहरेः समो हि मशकेन नागेन । लोकैः समस्त्रिभिर्वेत्युपनिषदा भाषितः साक्षात् ॥ २१७ ॥ आत्मा तावदभोक्ता तथैव ननु वासुदेवश्चेत् । नानाकैतवयत्रैः पररमणीभिः कथं रमते ॥ २१८ ॥ प्रबोधसुधाकरः । सुन्दरमभिनवरूपं कृष्णं दृष्ट्वा विमोहिता गोप्यः । तमभिलषन्त्यो मनसा कामाद्विरहव्यथां प्रापुः ॥ २१९ ॥ गच्छन्त्यस्तिष्ठन्त्यो गृहकृत्यपराश्च भुञ्जानाः । कृष्णं विनान्यविषयं समक्षमपि जातु नाविन्दन् ॥ २२०॥ दुःसहविरह भ्रान्त्या स्वपतीन्ददृशुस्तरून्नरांश्च पशून् । हरिरयमिति सुप्रीताः सरभसमालिङ्गन्यांचक्रुः ॥ २२१ ॥ कापि च कृष्णायन्ती कस्याश्चित्पूतनायन्त्याः । अपिबत्स्तनमिति साक्षाव्यासो नारायणः प्राह ॥ २२२ ॥ तस्मान्निजनिजयितान्कृष्णाकारान्वृजस्त्रियो वीक्ष्य । स्वपरनृपतिपत्नीनामन्तर्यामी हरिः साक्षात् ॥ २२३ ॥ परमार्थतो विचारे गुडतन्मधुरत्वदृष्टान्तात् । नश्वरमपि नरदेहं परमात्माकारतां याति ॥ २२४ ॥ किं पुनरनन्तशक्तेर्लीलावपुरीश्वरस्येह । कर्माण्यलौकिकानि स्वमायया विदधतो नृहरेः ॥ २२५ ॥ मृद्भक्षणेन कुपितां विकसितवदनां स्वमातरं वक्रे । विश्वमदर्शयदखिलं किं पुनरथ विश्वरूपोऽसौ ॥ २२६ ॥ S. P. III. 3 प्रबोधसुधाकरः । आनुग्रहिकप्रकरणम् । विषविषमस्तनयुगलं पाययितुं पूतना गृहं प्राप्ता । तस्याः पृथुभाग्याया आसीत्कृष्णार्पणो देहः ॥ २२७ ॥ अनयत्पृथुतरशकटं निजनिकटं वा कृतापराधमपि । कण्ठाश्लेषविशेषादवधीद्वाल्येऽसुरं कृष्णः ॥ २२८ ॥ यमलार्जुनौ तरू उन्मूल्योलूखलगतश्चिरं खिन्नौ । रिङ्गनङ्गणभूमौ स्वमालयं प्रापयन्नृहरिः ॥ २२९ ॥ नित्यं त्रिदशद्वेषी येन च मृत्योर्वशीकृतः केशी । काकः कोऽपि वराको बकोऽप्यशोकं गतो लोकम् ॥ गोगोपीगोपानां निकरमहिं पीडयन्तमतिवेगात् । अनघमघासुरमकरोत्पृथुतरमुरगेश्वरं भगवान् ॥ २३१ ॥ पीत्वारण्यहुताशनमसह्यतत्तेजसो हेतोः । दग्धान्मुग्धानखिलाञ्जुगोप गोपान्कृपासिन्धुः ॥ २३२ ॥ पातुं गोकुलमाकुलमशनितद्विर्षणैः कृष्णः । असहाय एकहस्ते गोवर्धनमुद्दधारोत्रैः ॥ २३३ ॥ प्रबोधसुधाकरः । वासोलोभाकलितं धावद्रजकं शिलातलैर्हत्वा । विस्मृत्य तदपराधं विकुण्ठवासोऽर्पितस्तस्मै ॥ २३४ ॥ त्रेधा वक्रशरीरामतिलम्बोष्ठीं स्खलद्वपुर्वचनात् । स्रक्चन्दनपरितोषात्कुब्जामृज्वाननामकरोत् ॥ २३५ ॥ निहतः पपात हरिणा हरिचरणायेण कुवलयापीडः । तुङ्गोन्मत्तमतङ्गः पतङ्गवद्दीपकस्याग्रे ॥ २३६ ॥ युद्धमिषात्सह रङ्गे श्रीरङ्गेनाङ्गसंगमं प्राप्य । मुष्टिकचाणूराख्यौ ययतुर्निःश्रेयसं सपदि ॥। २३७ ॥ देहकृतादपराधाद्वैकुण्ठोत्कण्ठितान्तरात्मानम् । यदुवरकुलावतंसः कंसं विध्वंसयामास ॥ २३८ ॥ हरिसंदर्शनयोगात्पृथुरणतीर्थे निमज्जते तस्मै । भगवान्नु प्रददाद्यः सद्यःञ्चैद्याय सायुज्यम् ॥ २३९ ॥ मीनादिभिरवतारैर्निहताः सुरविद्विषो बहवः । नीतास्ते निजरूपं तत्र च मोक्ष का वार्ता ॥ २४० ॥ ये यदुनन्दननिहतास्ते तु न भूयः पुनर्भवं प्रापुः । तस्मादवताराणामन्तर्यामी प्रवर्तकः कृष्णः ॥ २४१ ॥ प्रबोधसुधाकरः । ब्रह्माण्डानि बहूनि पङ्कजभवान्प्रत्यण्डमत्यद्भुता- न्गोपान्वत्सयुतानदर्शयदजं विष्णूनशेषांश्च यः । शंभुर्यच्चरणोदकं स्वशिरसा धत्ते च मूर्तित्रया- कृष्णो वै पृथगस्ति कोऽप्यविकृतः सच्चिन्मयो नीलिमा ॥ कृपापात्रं यस्य त्रिपुररिपुरम्भोजवसतिः सुता जह्नोः पूता चरणनख निर्णेजनजलम् । प्रदानं वा यस्य त्रिभुवनपतित्वं विभुरपि निदानं सोऽस्माकं जयति कुलदेवो यदुपतिः ॥ २४३ ॥ मायाहस्तेऽर्पयित्वा भरणकृतिकृते मोहमूलोद्भवं मां मातः कृष्णाभिधाने चिरसमयमुदासीनभावं गतासि । कारुण्यैकाधिवासे सकृदपि वदनं नेक्षसे त्वं मदीयं तत्सर्वज्ञे न कर्तुं प्रभवसि भवती किं नु मूलस्य शान्तिम् ॥ उदासीनः स्तब्धः सततमगुणः सङ्गरहितो भवांस्तातः कातः परमिह भवेज्जीवनगतिः । अकस्मादस्माकं यदि न कुरुते स्नेहमथ त- द्वसस्व स्वीयान्तर्विमलजढरेऽस्मिन्पुनरपि ॥ २४५ ॥ प्रबोधसुधाकरः । लोकाधीशे त्वयीशे किमिति भवभवा वेदना स्वाश्रितानां ३७. संकोचः पङ्कजानां किमिह समुदिते मण्डले चण्डरश्मेः । भोगः पूर्वार्जितानां भवति भुवि नृणां कर्मणां चेदवश्यं तन्मे दृष्टैर्नृपुष्टैर्ननु दनुजनृपैरूर्जितं निर्जितं ते ॥ २४६ ॥ नित्यानन्दसुधानिधेरधिगतः सनीलमेघः सता- मौत्कण्ठ्यप्रबलप्रभञ्जनभरैराकर्षितो वर्षति । विज्ञानामृतमद्भुतं निजवचो धाराभिरारादिदं चेतश्चातक चेन्न वाञ्छति मृषाकान्तोऽसि सुप्तोऽसि किम् ॥ चेतश्चञ्चलतां विहाय पुरतः संधाय कोटिद्वयं तत्रैकत्र निधेहि सर्वविषयानन्यत्र च श्रीपतिम् । विश्रान्तिर्हितमप्यहो क नु तयोर्मध्ये तदालोच्यतां युक्त्या वानुभवेन यत्र परमानन्दश्च तत्सेव्यताम् ॥२४८॥ पुत्रान्पौत्रमथ स्त्रियोऽन्ययुवतीर्वित्तान्यथोऽन्यद्धनं भोज्यादिष्वपि तारतम्यवशतो नालं समुत्कण्ठया । नैतादृग्यदुनायके समुदिते चेतस्यनन्ते विभौ सान्द्रानन्दसुधार्णवे विहरति स्वैरं यतो निर्भयम् ॥ २४९ ॥ प्रबोधसुधाकरः । काम्योपासनयार्थयन्त्यनुदिनं किंचित्फलं सेप्सितं किंचित्स्वर्गमथापवर्गमपरैर्योगादियज्ञादिभिः । अस्माकं यदुनन्दनाङ्घ्रियुगलध्यानावधानार्थिनां किं लोकेन दमेन किं नृपतिना स्वर्गापवर्गैश्च किम् ॥ २५०॥ आश्रितमात्रं पुरुषं स्वाभिमुखं कर्षति श्रीशः । लोहमपि चुम्बकाश्मा संमुखमात्रं जडं यद्वत् ॥ २५१ ॥ अयमुत्तमोऽयमधमो जात्या रूपेण संपदा वयसा । यो वेत्थं न वेत्ति भगवाननुग्रहावसरे ॥ २५२ ॥ अन्तःस्थभावभोक्ता ततोऽन्तरात्मा महामेघः । खदिरश्चम्पक इव वा प्रवर्षणं किं विचारयति ॥ २५३ ॥ प्रबोधसुधाकरः । यद्यपि सर्वत्र समस्तथापि नृहरिस्तथाप्येते । भक्ताः परमानन्दे रमन्ति सदयावलोकेन ॥ २५४ ॥ सुतरामनन्यशरणाः क्षीराद्याहारमन्तरा यद्वत् । केवलया स्नेहदृशा कच्छपतनयाः प्रजीवन्ति ॥ २५५ ॥ यद्यपि गगनं शून्यं तथापि जलदामृतांशुरूपेण । चातकचकोरनाम्नोर्दृढभावात्पूरयत्याशाम् ॥ २५६ ॥ तद्वद्भजतां पुंसां दृग्वाङ्मनसामगोचरोऽपि हरिः । कृपया फलत्यकस्मात्सत्यानन्दामृतेन विपुलेन ॥ २५७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द- भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रबोधसुधाकरः समाप्तः ॥ ॥ श्रीः ॥ ॥ स्वात्मप्रकाशिका ॥ जगत्कारणमज्ञानमेकमेव चिदन्वितम् । एक एव मनः साक्षी जानात्येवं जगत्त्रयम् ॥ १ ॥ विवेकयुक्तबुद्ध्याहं जानाम्यात्मानमद्वयम् । तथापि बन्धमोक्षादिव्यवहारः प्रतीयते ॥ २ ॥ विवर्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा । इति संशयपाशेन बद्धोऽहं छिन्द्धि संशयम् ॥ ३॥ एवं शिष्यवचः श्रुत्वा गुरुराहोत्तरं स्फुटम् । नाज्ञानं न च बुद्धिश्च न जगन्न च साक्षिता ॥ ४ ॥ बन्धमोक्षादयः सर्वे कृताः सत्येऽद्वये त्वयि । भातीत्युक्ते जगत्सर्वं सद्रूपं ब्रह्म तद्भवेत् ॥ ५ ॥ सर्पादौ रज्जुसत्तेव ब्रह्मसत्तैव केवलम् । प्रपञ्चाधाररूपेण वर्तते तज्जगन्न हि ॥ ६ ॥ यथेक्षुमभिसंव्याप्य शर्करा वर्तते तथा । आश्चर्यब्रह्मरूपेण त्वं व्याप्तोऽसि जगत्त्रयम् ॥ ७ ॥ मरुभूमौ जलं सर्वं मरुभूमात्रमेव तत् । जगत्त्रयमिदं सर्वं चिन्मात्रं सुविचारतः ॥ ८ ॥ ब्रह्मादिस्तम्बपर्यन्ताः प्राणिनस्त्वयि कल्पिताः । बुद्बुदादितरङ्गान्ता विकाराः सागरे यथा ॥ ९ ॥ तरङ्गत्वं ध्रुवं सिन्धुर्न वाञ्छति यथा तथा । विषयानन्दवाञ्छा ते महदानन्दरूपतः ॥ १० ॥ पिष्टं व्याप्य गुडं यद्वन्माधुर्यं न हि वाञ्छति । पूर्णानन्दो जगद्वयाप्य तदानन्दं न वाञ्छति ॥ ११ ॥ दारिद्र्याशा यथा नास्ति संपन्नस्य तथा तव । ब्रह्मानन्दनिमग्नस्य विषयाशा न संभवेत् ॥ १२ ॥ विषं दृष्ट्वामृतं दृष्ट्वा विषं त्यजति बुद्धिमान् । आत्मानमपि दृष्ट्वा त्वं त्यजानात्मानमादरात् ॥ १३ ॥ घटावभासको भानुर्घटनाशे न नश्यति । देहावभासकः साक्षी देहनाशे न नश्यति ॥ १४ ॥ निराकारं जगत्सर्वं निर्मलं सच्चिदात्मकम् । द्वैताभावात्कथं कस्माद्भयं पूर्णस्य मे वद ॥ १५ ॥ ब्रह्मादिकं जगत्सर्वं त्वय्यानन्दे प्रकल्पितम् । त्वय्येव लीनं हि जगत्त्वं कथं लीयसे वद ॥ १६ ॥ necessary for meter, added based on comparison with other copies न हि प्रपञ्चो न हि भूतजातं न चेन्द्रियं प्राणगणो न देहः । न बुद्धिचित्तं न मनो न कर्ता ब्रह्मैव सत्यं परमात्मरूपम् ॥ १७ ॥ सर्वं सुखं विद्धि सुदुःखनाशा- त्सर्वं च सद्रूपमसत्यनाशात् । चिद्रूपमेव प्रतिभानयुक्तं तस्मादखण्डं परमात्मरूपम् ॥ १८ ॥ चिदेव देहस्तु चिदेव लोका- श्चिदेव भूतानि चिदिन्द्रियाणि । कर्ता चिदन्तःकरणं चिदेव चिदेव सत्यं परमार्थरूपम् ॥ १९ ॥ न मे बन्धो न मे मुक्तिर्न मे शास्त्रं न मे गुरुः । मायामात्रविलासो हि मायातीतोऽहमद्वयः ॥ २० ॥ राज्यं करोतु विज्ञानी भिक्षामटतु निर्भयः । दोषैर्न लिप्यते शुद्धः पद्मपत्रमिवाम्भसा ॥ २१ । पुण्यानि पापकर्माणि स्वप्नगानि न जाग्रति । एवं जाग्रत्पुण्यपापकर्माणि न हि मे प्रभोः ॥ २२ ॥ कायः करोतु कर्माणि वृथा वागुच्यतामिह । राज्यं ध्यायतु वा बुद्धिः पूर्णस्य मम का क्षतिः ॥ २३ ॥ प्राणाश्चरन्तु तद्धर्मैः कामैर्वा हन्यतां मनः । आनन्दामृतपूर्णस्य मम दुःखं कथं भवेत् ॥ २४ ॥ आनन्दाम्बुधिमग्नोऽसौ देही तत्र न दृश्यते । लवणं जलमध्यस्थं यथा तत्र लयं गतम् ॥ २५ ॥ इन्द्रियाणि मनः प्राणा अहंकारः परस्परम् । जाड्यसंगतिमुत्सृज्य मग्ना मयि चिदर्णवे ॥ २६ ॥ आत्मानमञ्जसा वेद्मि त्वज्ञानं प्रपलायितम् । कर्तृत्वमद्य मे नष्टं कर्तव्यं वापि न क्वचित् ॥ २७ ॥ चिदमृतसुखराशौ चित्तफेनं विलीनं क्षयमधिगत एव वृत्तिचञ्चत्तरङ्गः । स्तिमितसुखसमुद्रो निर्विचेष्टः सुपूर्णः कथमिह मम दुःखं सर्वदैकोऽहमस्मि ॥ २८ ॥ आनन्दरूपोऽहमखण्डबोधः परात्परोऽहं घनचित्प्रकाशः । मेघा यथा व्योम न च स्पृशन्ति संसारदुःखानि न मां स्पृशन्ति ॥ २९ ॥ अस्थिमांसपुरीषान्त्रचर्मलोमसमन्वितः । अन्नादः स्थूलदेहः स्यादतोऽहं शुद्धचिद्धनः ॥ ३० ॥ स्थूलदेहाश्रिता एते स्थूलाद्भिन्नस्य मे न हि । लिङ्गं जडात्मकं नाहं चित्स्वरूपोऽहमद्वयः ॥ ३१ ॥ क्षुत्पिपासान्ध्यबाधिर्यकामक्रोधादयोऽखिलाः । लिङ्गदेहाश्रिता ह्येते नैवालिङ्गस्य मे विभोः ॥ ३२ ॥ अनाद्यज्ञानमेवात्र कारणं देहमुच्यते । नाहं कारणदेहोऽपि स्वप्रकाशो निरञ्जनः ॥ ३३ ॥ जडत्वप्रियमोदत्वधर्माः कारणदेहगाः । न सन्ति मम नित्यस्य निर्विकारस्वरूपिणः ॥ ३४ ॥ जीवाद्भिन्नः परेशोऽस्ति परेशत्वं कुतस्तव । इत्यज्ञजनसंवादो विचारः क्रियतेऽधुना ॥ ३५ ॥ अधिष्ठानं चिदाभासो बुद्धिरेतत्रयं यदा । अज्ञानादेकवद्भाति जीव इत्युच्यते तदा ॥ ३६ ॥ अधिष्ठानं न जीवः स्यात्प्रत्येकं निर्विकारतः । अवस्तुत्वाच्चिदाभासो नास्ति तस्य च जीवता ॥ ३७ ॥ प्रत्येकं जीवता नास्ति बुद्धेरपि जडत्वतः । जीव आभासकूटस्थबुद्धित्रयमतो भवेत् ॥ ३८ ॥ मायाभासी विशुद्धात्मा त्रयमेतन्महेश्वरः । मायाभासोऽप्यवस्तुत्वात्प्रत्येकं नेश्वरो भवेत् ॥ ३९ ॥ पूर्णत्वान्निर्विकारत्वाद्विशुद्धत्वान्महेश्वरः । जडत्वहेतोर्मायायामीश्वरत्वं नु दुर्घटम् ॥ ४० ॥ तस्मादेतत्त्रयं मिथ्या तदर्थो नेश्वरो भवेत् । इति जीवेश्वरौ भातः स्वाज्ञानान्न हि वस्तुतः ॥ ४१ ॥ घटाकाशमठाकाशौ महाकाशे प्रकल्पितौ । एवं मयि चिदाकाशे जीवेशौ परिकल्पितौ ॥ ४२ ॥ मायातत्कार्यविलये नेश्वरत्वं च जीवता । ततः शुद्धचिदेवाहं चिद्व्योमनिरुपाधितः ॥ ४३ ॥ सत्यचिद्घनमनन्तमद्वयं सर्वदृश्यरहितं निरामयम् । यत्पदं विमलमद्वयं शिवं तत्सदाहमिति मौनमाश्रये ॥ ४४ ॥ पूर्णमद्वयमखण्डचेतनं विश्वभेदकलनादिवर्जितम् । अद्वितीयपरसंविदंशकं तत्सदाहमिति मौनमाश्रये ॥ ४५ ॥ जन्ममृत्युसुखदुःखवर्जितं जातिनीतिकुलगोत्रदूरगम् । चिद्विवर्तजगतोऽस्य कारणं तत्सदाहमिति मौनमाश्रये ॥ ४६ ॥ उलूकस्य यथा भानावन्धकारः प्रतीयते । स्वप्रकाशे परानन्दे तमो मूढस्य भासते ॥ ४७ । यथा दृष्टिनिरोधार्तो सूर्यो नास्तीति मन्यते । तथाज्ञानावृतो देही ब्रह्म नास्तीति मन्यते ॥ ४८ ॥ यथामृतं विषाद्भिन्नं विषदोषैर्न लिप्यते । न स्पृशामि जडाद्भिन्नो जडदोषान्प्रकाशयन् ॥ ४९ ॥ स्वल्पापि दीपकणिका बहुलं नाशयेत्तमः । स्वल्पोऽपि बोधो महतीमविद्यां शमयेत्तथा ॥ ५० ॥ चिद्रूपत्वान्न मे जाड्यं सत्यत्वान्नानृतं मम । आनन्दत्वान्न मे दुःखमज्ञानाद्भाति तत्त्रयम् ॥ ५१ ॥ कालत्रये यथा सर्पो रज्जौ नास्ति तथा मयि । अहंकारादि देहान्तं जगन्नास्त्यहमद्वयः ॥ ५२ । भानौ तमःप्रकाशत्वान्नाङ्गीकुर्वन्ति सज्जनाः । तमस्तत्कार्यसाक्षीति भ्रान्तबुद्धिरहो मयि ॥ ५३ ॥ यथा शीतं जलं वह्निसंबन्धादुष्णवद्भवेत् । बुद्धितादात्म्यसंबन्धात्कर्तृत्वं वस्तुतो न हि ॥ ५४ ॥ जलबिन्दुभिराकाशं न सिक्तं न च शुध्यति । तथा गङ्गाजलेनायं न शुद्धो नित्यशुद्धतः ॥ ५५ ॥ वृक्षोत्पन्नफलैर्वृक्षो यथा तृप्तिं न गच्छति । मय्यध्यस्तान्नपानाद्यैस्तथा तृप्तिर्न विद्यते ॥ ५६ ॥ स्थाणौ प्रकल्पितश्चोरः स स्थाणुत्वं न बाधते । स्वस्मिन्कल्पितजीवश्च स्वं बाधितुमशक्यते ॥ ५७ ॥ अज्ञाने बुद्धिविलये निद्रा सा भण्यते बुधैः । विलीनाज्ञानतत्कार्ये मयि निद्रा कथं भवेत् ॥ ५८ ॥ बुद्धेः पूर्णविकासोऽयं जागरः परिकीर्त्यते । विकारादिविहीनत्वाज्जागरो मे न विद्यते ॥ ५९ ॥ सूक्ष्मनाडीषु संचारो बुद्धेः स्वप्नः प्रजायते । संचारधर्मरहिते स्वप्नो नास्ति तथा मयि ॥ ६० ॥ परिपूर्णस्य नित्यस्य शुद्धस्य ज्योतिषो मम । आगन्तुकमलाभावात्किं स्नानेन प्रयोजनम् ॥ ६१ ॥ देशाभावात्क्व गन्तव्यं स्थानाभावात्क्व वा स्थितिः । पूर्णे मयि स्थानदेशौ कल्पितावहमद्वयः ॥ ६२ ॥ प्राणसंचारसंशोषात्पिपासा जायते खलु । शोषणानर्हचिद्रूपे मय्येषा जायते कथम् ॥ ६३ ॥ नाडीषु पीड्यमानासु वाय्वग्निभ्यां भवेत्क्षुधा । तयोः पीडनहेतुत्वात्संविद्रूपे कथं मयि ॥ ६४ ॥ शरीरस्थितिशैथिल्यं श्वेतलोमसमन्वितम् । जरा भवति सा नास्ति निरंशे मयि सर्वगे ॥ ६५ ॥ योषित्क्रीडा सुखस्यान्तर्गर्वाढ्यं यौवनं किल । आत्मानन्दे परे पूर्णे मयि नास्ति हि यौवनम् ॥ ६६॥ मूढबुद्धिपरिव्याप्तं दुःखानामालयं सदा । बाल्यं कोपनशीलान्तं न मे सुखजलाम्बुधेः ॥ ६७ ॥ एवं तत्त्वविचाराब्धौ निमग्नानां सदा नृणाम् । परमाद्वैतविज्ञानमपरोक्षं न संशयः ॥ ६८ ॥ इति श्रीमत्परमहसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्य- पादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ स्वात्मप्रकाशिका संपूर्णा ॥ ॥ श्रीः ॥ ॥ मनीषापञ्चकम् ॥ जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते या ब्रह्मादिपिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी । सैवाहं न च दृश्यवस्त्विति दृढप्रज्ञापि यस्यास्ति चे- च्चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं सर्वं चैतदविद्यया त्रिगुणया शेषं मया कल्पितम् । इत्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मले चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरो- र्नित्यं ब्रह्म निरन्तरं विसृशता निर्व्याजशान्तात्मना । भूतं भाति च दुष्कृतं प्रदहता संविन्मये पावके प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ॥ ३ ॥ या तिर्यङ्नरदेवताभिरहमित्यन्तः स्फुटा गृह्यते यद्भासा हृदयाक्षदेहविषया भान्ति स्वतोऽचेतनाः । तां भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावय- न्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ॥ ४॥ यत्सौख्याम्बुधिलेशलेशत इमे शक्रादयो निर्वृता यच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिर्निर्वृतः । यस्मिन्नित्यसुखाम्बुधौ गलितधीर्ब्रह्मैव न ब्रह्मवि- द्यः कश्चित्स सुरेन्द्रवन्दितपदो नूनं मनीषा मम ॥ ५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छकरभगवतः कृतौ मनीषापञ्चकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ अद्वैतपञ्चरत्नम् ॥ नाहं देहो नेन्द्रियाण्यन्तरङ्गो नाहंकारः प्राणवर्गो न बुद्धिः । दारापत्यक्षेत्रवित्तादिदूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥ १ ॥ रज्ज्वज्ञानाद्भाति रज्जौ यथाहिः स्वात्माज्ञानादात्मनो जीवभावः । आप्तोक्त्याहिभ्रान्तिनाशे स रज्जु- र्जीवो नाहं देशिकोक्त्या शिवोऽहम् ॥ २ ॥ आभातीदं विश्वमात्मन्यसत्यं सत्यज्ञानानन्दरूपे विमोहात् । निद्रामोहात्स्वप्नवत्तन्न सत्यं शुद्धः पूर्णो नित्य एकः शिवोऽहं ॥ ३ ॥ नाहं जातो न प्रवृद्धो न नष्टो देहस्योक्ताः प्राकृताः सर्वधर्माः । कर्तृत्वादिश्चिन्मयस्यास्ति नाहं- कारस्यैव ह्यात्मनो मे शिवोऽहम् ॥ ४ ॥ मत्तो नान्यत्किंचिदत्रास्ति विश्वं सत्यं बाह्यं वस्तु मायोपकॢप्तम् । आदर्शान्तर्भासमानस्य तुल्यं । मय्यद्वैते भाति तस्माच्छिवोऽहम् ॥ ५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ अद्वैतपञ्चरत्नं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ निर्वाणषट्कम् ॥ मनोबुद्ध्यहंकारचित्तानि नाहं न कर्णे न जिह्वा न च घ्राणनेत्रे । न च व्योम भूमिर्न तेजो न वायु- श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ १ ॥ न च प्राणसंज्ञो न वै पञ्चवायु- र्न वा सप्तधातुर्न वा पञ्चकोशः । न वाक्पाणिपादौ न चोपस्थपायू चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ २ ॥ न मे द्वेषरागौ न मे लोभमोहौ मदो नैव मे नैव मात्सर्यभावः । न धर्मो न चार्थो न कामो न मोक्ष- श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ३ ॥ न पुण्यं न पापं न सौख्यं न दुःखं न मन्त्रो न तीर्थं न वेदा न यज्ञाः । अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ४ ॥ न मृत्युर्न शङ्का न मे जातिभेदः पिता नैव मे नैव माता च जन्म । न बन्धुर्न मित्रं गुरुर्नैव शिष्य- श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ५ ॥ अहं निर्विकल्पो निराकाररूपो विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् । न चासंगतं नैव मुक्तिर्न बन्ध- श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ६ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ निर्वाणषट्कं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ अद्वैतानुभूतिः ॥ अहमानन्दसत्यादिलक्षणः केवलः शिवः । सदानन्दादिरूपं यत्तेनाहमचलोऽद्वयः ॥ १ ॥ अक्षिदोषाद्यथैकोऽपि द्वयवद्भाति चन्द्रमाः । एकोऽप्यात्मा तथा भाति द्वयवन्मायया मृषा ॥ २ ॥ अक्षिदोषविहीनानामेक एव यथा शशी । मायादोषविहीनानामात्मैवैकस्तथा सदा ॥ ३ ॥ द्वित्वं भात्यक्षिदोषेण चन्द्रे स्वे मायया जगत् । द्वित्वं मृषा यथा चन्द्रे मृषा द्वैतं तथात्मनि ॥ ४॥ आत्मनः कार्यमाकाशो विनात्मानं न संभवेत् । कार्यस्य पूर्णता सिद्धा किं पुनः पूर्णतात्मनः ॥ ५ ॥ कार्यभूतो यथाकाश एक एव न हि द्विधा । हेतुभूतस्तथात्मायमेक एव विजानतः ॥ ६ ॥ एकोऽपि द्वयवद्भाति यथाकाश उपाधितः । एकोऽपि द्वयवत्पूर्णस्तथात्मायमुपाधितः ॥ ७ ॥ कारणोपाधिचैतन्यं कार्यसंस्थाच्चितोऽधिकम् । न घटाभ्रान्मृदाकाशः कुत्रचिन्नाधिको भवेत् ॥ ८ ॥ निर्गतोपाधिराकाश एक एव यथा भवेत् । एक एव तथात्मायं निर्गतोपाधिकः सदा ॥ ९ ॥ आकाशादन्य आकाश आकाशस्य यथा न हि । एकत्वादात्मनो नान्य आत्मा सिध्यति चात्मनः ॥ १० ॥ मेघयोगाद्यथा नीरं करकाकारतामियात् । मायायोगात्तथैवात्मा प्रपञ्चाकारतामियात् ॥ ११ ॥ वर्षोपल इवाभाति नीरमेवाभ्रयोगतः । वर्षोपलविनाशेन नीरनाशो यथा न हि ॥ १२ ॥ आत्मैवायं तथा भाति मायायोगात्प्रपञ्चवत् । प्रपञ्चस्य विनाशेन स्वात्मनाशो न हि क्वचित् ॥ १३ ॥ जलादन्य इवाभाति जलोत्थो बुद्बुदो यथा । तथात्मनः पृथगिव प्रपञ्चोऽयमनेकधा ॥ १४ ॥ यथा बुद्बुदनाशेन जलनाशो न कर्हिचित् । तथा प्रपञ्चनाशेन नाशः स्यादात्मनो न हि ॥ १५ ॥ अहिनिर्ल्वयनीजातः शुच्यादिर्नाहिमाप्नुयात् । तथा स्थूलादिसंभूतः शुच्यादिर्नाप्नुयादिमम् ॥ १६ ॥ त्यक्तां त्वचमहिर्यद्वदात्मत्वेन न मन्यते । आत्मत्वेन सदा ज्ञानी त्यक्तदेहत्रयं तथा ॥ १७ ॥ अहिनिर्ल्वयनीनाशादहेर्नाशो यथा न हि । देहवयविनाशेन नात्मनाशस्तथा भवेत् ॥ १८ । तक्रादिलवणोपेतमज्ञैर्लवणवद्यथा । आत्मा स्थूलादिसंयुक्तो दृष्यते स्थूलकादिवत् ॥ १९ ॥ अयःकाष्ठादिकं यद्वद्वह्निवद्वह्नियोगतः । भाति स्थूलादिकं सर्वमात्मवत्स्वात्मयोगतः ॥ २० ॥ दाहको नैव दाह्यं स्याद्दाह्यं तद्वन्न दाहकः । नैवात्मायमनात्मा स्यादनात्मायं न चात्मकः ॥ २१ ॥ प्रमेयादित्रयं सार्थं भानुना घटकुड्यवत् । येन भाति स एवाहं प्रमेयादिविलक्षणः ॥ २२ ॥ भानुस्फुरणतो यद्वत्स्फुरतीव घटादिकम् । स्फुरतीव प्रमेयादिरात्मस्फुरणतस्तथा ॥ २३ ॥ पिष्टादिगुलसंपर्काद्गुलवत्प्रीतिमान्यथा । आत्मयोगात्प्रमेयादिरात्मवत्प्रीतिमान्भवेत् ॥ २४ ॥ घटनीरान्नपिष्टानामुष्णत्वं वह्नियोगतः । वह्निं विना कथं तेषामुष्णता स्याद्यथा क्वचित् ॥ २५ ॥ भूतभौतिकदेहानां स्फूर्तिता स्वात्मयोगतः । विनात्मानं कथं तेषां स्फूर्तिता स्यात्तथा क्वचित् ॥ २६ ॥ नानाविधेषु कुम्भेषु वसत्येकं नभो यथा । नानाविधेषु देहेषु तद्वदेको वसाम्यहम् ॥ २७ ॥ नानाविधत्वं कुम्भानां न यात्येव यथा नभः । नानाविधत्वं देहानां तद्वदेव नयाम्यहम् ॥ २८ ॥ यथा घटेषु नष्टेषु घटाकाशो न नश्यति । तथा देहेषु नष्टेषु नैव नश्यामि सर्वगः ॥ २९ ॥ उत्तमादीनि पुष्पाणि वर्तन्ते सूत्रके यथा । उत्तमाद्यास्तथा देहा वर्तन्ते मयि सर्वदा ॥ ३० ॥ यथा न संस्पृशेत्सूत्रं पुष्पाणामुत्तमादिता । तथा नैकं सर्वगं मां देहानामुत्तमादिता ॥ ३१ ॥ पुष्पेषु तेषु नष्टेषु यद्वत्सूत्रं न नश्यति । तथा देहेषु नष्टेषु नैव नश्याम्यहं सदा ॥ ३२ ॥ पर्यङ्करज्जुरन्ध्रेषु नानेवैकापि सूर्यभा । एकोऽप्यनेकवद्भाति तथा क्षेत्रेषु सर्वगः ॥ ३३ ॥ रज्जुरन्ध्रस्थदोषादि सूर्यभां न स्पृशेद्यथा । तथा क्षेत्रस्थदोषादि सर्वगं मां न संस्पृशेत् ॥ ३४ ॥ तद्रज्जुरन्ध्रनाशेषु नैव नश्यति सूर्यभा । तथा क्षेत्रविनाशेषु नैव नश्यामि सर्वगः ॥ ३५ ॥ देहो नाहं प्रदृश्यत्वाद्भौतिकत्वान्न चेन्द्रियम् । प्राणो नाहमनेकत्वान्मनो नाहं चलत्वतः ॥ ३६ ॥ बुद्धिर्नाहं विकारित्वात्तमो नाहं जडत्वतः । देहेन्द्रियादिकं नाहं विनाशित्वाद्घटादिवत् ॥ ३७ ॥ देहेन्द्रियप्राणमनोबुद्ध्यज्ञानानि भासयन् । अहंकारं तथा भामि चैतेषामभिमानिनम् ॥ ३८ ॥ सर्वं जगदिदं नाहं विषयत्वादिदंधियः । अहं नाहं सुषुप्त्यादौ अहमः साक्षितः सदा ॥ ३९ । सुप्तौ यथा निर्विकारस्तथावस्थाद्वयेऽपि च । द्वयोर्मात्राभियोगेन विकारीव विभाम्यहम् ॥ ४० ॥ उपाधिनीलरक्ताद्यैः स्फटिको नैव लिप्यते । तथात्मा कोशजैः सर्वैः कामाद्यैर्नैव लिप्यते ॥ ४१ ॥ फालेन भ्राम्यमाणेन भ्रमतीव यथा मही । अगोऽप्यात्मा विमूढेन चलतीव प्रदृश्यते ॥ ४२ ॥ देहत्रयमिदं नित्यमात्मत्वेनाभिमन्यते । यावत्तावदयं मूढो नानायोनिषु जायते ॥ ४३ ॥ निद्रादेहजदुःखादि जाग्रद्देहं न संस्पृशेत् । जाग्रद्देहजदुःखादिस्तथात्मानं न संस्पृशेत् ॥ ४४ ॥ जाग्रद्देहवदाभाति निद्रादेहस्तु निद्रया । निद्रादेहविनाशेन जाग्रद्देहो न नश्यति ॥ ४५ ॥ तथायमात्मवद्भाति जाग्रद्देहस्तु जागरात् । जाग्रद्देहविनाशेन नात्मा नश्यति कर्हिचित् ॥ ४६ ॥ हित्वायं स्वाप्निकं देहं जाग्रद्देहमपेक्षते । जाग्रद्देहप्रबुद्धोऽयं हित्वात्मानं यथा तथा ॥ ४७ ॥ स्वप्नभोगे यथैवेच्छा प्रबुद्धस्य न विद्यते । असत्स्वर्गादिके भोगे नैवेच्छा ज्ञानिनस्तथा ॥ ४८ ॥ भोक्त्रा बहिर्यथा भोग्यः सर्पो दृषदि कल्पितः । रूपशीलादयश्चात्मभोगा भोग्यवरूपकाः ॥ ४९ ॥ ज्ञस्य नास्त्येव संसारो यद्वदज्ञस्य कर्मिणः । जानतो नैव भीर्यद्वद्रज्जुसर्पमजानतः ॥ ५० ॥ सैन्धवस्य घनो यद्वज्जलयोगाज्जलं भवेत् । स्वात्मयोगात्तथा बुद्धिरात्मैव ब्रह्मवेदिनः ॥ ५१ ॥ तोयाश्रयेषु सर्वेषु भानुरेकोऽप्यनेकवत् । एकोऽप्यात्मा तथा भाति सर्वक्षेत्रेष्वनेकवत् ॥ ५२ ॥ भानोरन्य इवाभाति जलभानुर्जले यथा । आत्मनोऽन्य इवाभासो भाति बुद्धौ तथात्मनः ॥ ५३ ॥ बिम्बं विना यथा नीरे प्रतिबिम्बो भवेत्कथम् । विनात्मानं तथा बुद्धौ चिदाभासो भवेत्कथम् ॥ ५४ ॥ प्रतिबिम्बचलत्वाद्या यथा बिम्बस्य कर्हिचित् । न भवेयुस्तथाभासकर्तृत्वाद्यास्तु नात्मनः ॥ ५५ ॥ जले शैत्यादिकं यद्वज्जलभानुं न संस्पृशेत् । बुद्धेः कर्मादिकं तद्वच्चिदाभासं न संस्पृशेत् ॥ ५६ ॥ बुद्धेः कर्तृत्वभोक्तृत्वदुःखित्वाद्यैस्तु संयुतः । चिदाभासो विकारीव शरावस्थाम्बुभानुवत् ॥ ५७ ॥ शरावस्थोदके नष्टे तत्स्थो भानुर्विनष्टवत् । बुद्धेर्लये तथा सुप्तौ नष्टवत्प्रतिभात्ययम् ॥ ५८ ॥ जलस्थार्कं जलं चोर्मिं भासयन्भाति भास्करः । आत्माभासं धियं बुद्धेः कर्तृत्वादीनयं तथा ॥ ५९ ॥ मेघावभासको भानुर्मेघच्छन्नोऽवभासते । मोहावभासकस्तद्वन्मोहच्छन्नो विभात्ययम् ॥ ६० ॥ भास्यं मेघादिकं भानुर्भासयन्प्रतिभासते । तथा स्थूलादिकं भास्यं भासयन्प्रतिभात्ययम् ॥ ६१ ॥ सर्वप्रकाशको भानुः प्रकाश्यैर्नैव दूष्यते । सर्वप्रकाशको ह्यात्मा सर्वैस्तद्वन्न दूष्यते ॥ ६२ ॥ मुकुरस्थं मुखं यद्वन्मुखवत्प्रथते मृषा । बुद्धिस्थाभासकस्तद्वदात्मवत्प्रथते मृषा ॥ ६३ ॥ मुकुरस्थस्य नाशेन मुखनाशो भवेत्कथम् । बुद्धिस्थाभासनाशेन नाशो नैवात्मनः क्वचित् ॥ ६४ ॥ ताम्रकल्पितदेवादिस्ताम्रादन्य इव स्फुरेत् । प्रतिभास्यादिरूपेण तथात्मोत्थमिदं जगत् ॥ ६५ ॥ ईशजीवात्मवद्भाति यथैकमपि ताम्रकम् । एकोऽप्यात्मा तथैवायमीशजीवादिवन्मृषा ॥ ६६ ॥ यथेश्वरादिनाशेन ताम्रनाशो न विद्यते । तथेश्वरादिनाशेन नाशो नैवात्मनः सदा ॥ ६७ ॥ अध्यस्तो रज्जुसर्पोऽयं सत्यवद्रज्जुसत्तया । तथा जगदिदं भाति सत्यवत्स्वात्मसत्तया ॥ ६८ ॥ अध्यस्ताहेरभावेन रज्जुरेवावशिष्यते । तथा जगदभावेन सदात्मैवावशिष्यते ॥ ६९ ॥ स्फटिके रक्तता यद्वदुपाधेर्नीलताम्बरे । यथा जगदिदं भाति तथा सत्यमिवाद्वये ॥ ७० ॥ स्फटिके रक्तता मिथ्या मृषा खे नीलता यथा तथा जगदिदं मिथ्या एकस्मिन्नद्वये मयि ॥ ७१ ॥ जीवेश्वरादिभावेन भेदं पश्यति मूढधीः । निर्भेदे निर्विशेषेऽस्मिन्कथं भेदो भवेद्ध्रुवम् ॥ ७२ ॥ लिङ्गस्य धारणादेव शिवोऽयं जीवतां व्रजेत् । लिङ्गनाशे शिवस्यास्य जीवतावेशता कुतः ॥ ७३ ॥ शिव एव सदा जीवो जीव एव सदा शिवः । वेत्त्यैक्यमनयोर्यस्तु स आत्मज्ञो न चेतरः ॥ ७४ ॥ क्षीरयोगाद्यथा नीरं क्षीरवद्दृश्यते मृषा । आत्मयोगादनात्मायमात्मवद्दृश्यते तथा ॥ ७५ ॥ नीरात्क्षीरं पृथक्कृत्य हंसो भवति नान्यथा । स्थूलादेः स्वं पृथक्कृत्य मुक्तो भवति नान्यथा ॥ ७६ ॥ क्षीरनीरविवेकज्ञो हंस एव न चेतरः । आत्मानात्मविवेकज्ञो यतिरेव न चेतरः ॥ ७७ ॥ अध्यस्तचोरजः स्थाणोर्विकारः स्यान्न हि क्वचित् । नात्मनो निर्विकारस्य विकारो विश्वजस्तथा ॥ ७८ ॥ ज्ञाते स्थाणौ कुतश्चोरचोराभावे भयं कुतः । ज्ञाते स्वस्मिन्कुतो विश्वं विश्वाभावे कुतोऽखिलम् ॥ ७९ ॥ गुणवृत्तित्रयं भाति परस्परविलक्षणम् । सत्यात्मलक्षणे यस्मिन्स एवाहं निरंशकः ॥ ८० ॥ देहत्रयमिदं भाति यस्मिन्ब्रह्मणि सत्यवत् । तदेवाहं परं ब्रह्म देहत्रयविलक्षणः ॥ ८१ । जाग्रदादित्रयं यस्मिन्प्रत्यगात्मनि सत्यवत् । स एवाहं परं ब्रह्म जाग्रदादिविलक्षणः ॥ ८२ ॥ विश्वादिकत्रयं यस्मिन्परमात्मनि सत्यवत् । स एव परमात्माहं विश्वादिकविलक्षणः ॥ ८३ ॥ विराडादित्रयं भाति यस्मिन्साक्षिणि सत्यवत् । स एव सच्चिदानन्दलक्षणोऽहं स्वयंप्रभः ॥ ८४ ॥ इति श्रीमत्परमंहसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ अद्वैतानुभूतिः संपूर्णा ॥ ॥ श्रीः ॥ ॥ ब्रह्मानुचिन्तनम् ॥ अहमेव परं ब्रह्म वासुदेवाख्यमव्ययम् । इति स्यान्निश्चितो मुक्तो बद्ध एवान्यथा भवेत् ॥ १ ॥ अहमेव परं ब्रह्म निश्चितं चित्त चिन्त्यताम् । चिद्रूपत्वादसङ्गत्वादवाध्यत्वात्प्रयत्नतः ॥ २ ॥ अहमेव परं ब्रह्म न चाहं ब्रह्मणः पृथक् । इत्येवं समुपासीत ब्राह्मणो ब्रह्मणि स्थितः ॥ ३ ॥ सर्वोपाधिविनिर्मुक्तं चैतन्यं च निरन्तरम् । तद्ब्रह्माहमिति ज्ञात्वा कथं वर्णाश्रमी भवेत् ॥ ४ ॥ अहं ब्रह्मास्मि यो वेद स सर्वं भवति त्विदम् । नाभूत्या ईशते देवास्तेषामात्मा भवेद्धि सः ॥ ५ ॥ अन्योऽसावहमन्योऽस्मीत्युपास्ते योऽन्यदेवताम् । न स वेद नरो ब्रह्म स देवानां यथा पशुः ॥ ६ ॥ अहमात्मा न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् । सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् ॥ ७ ॥ आत्मानं सततं ब्रह्म संभाव्य विहरन्ति ये । न तेषां दुष्कृतं किंचिद्दुष्कृतोत्था न चापदः ॥ ८ ॥ आत्मानं सततं ब्रह्म संभाव्य विहरेत्सुखम् । क्षणं ब्रह्माहमस्मीति यः कुर्यादात्मचिन्तनम् ॥ ९ ॥ तन्महापातकं हन्ति तमः सूर्योदयो यथा । अज्ञानाद्ब्रह्मणो जातमाकाशं बुद्बुदोपमम् ॥ १० ॥ आकाशाद्वायुरुत्पन्नो वायोस्तेजस्ततः पयः । अद्भ्यश्च पृथिवी जाता ततो व्रीहियवादिकम् ॥ ११ ॥ पृथिव्यप्सु पयो वह्नौ वह्निर्वायौ नभस्यसौ । नभोऽप्यव्याकृते तच्च शुद्धे शुद्धोऽस्म्यहं हरिः ॥ १२ ॥ अहं विष्णुरहं विष्णुरहं विष्णुरहं हरिः । कर्तृभोक्त्रादिकं सर्वं तदविद्योत्थमेव च ॥ १३ ॥ अच्युतोऽहमनन्तोऽहं गोविन्दोऽहमहं हरिः । आनन्दोऽहमशेषोऽहमजोऽहममृतोऽस्म्यहम् ॥ १४ ॥ नित्योऽहं निर्विकल्पोऽहं निराकारोऽहमव्ययः । सच्चिदानन्दरूपोऽहं पञ्चकोशातिगोऽस्म्यहम् ॥ १५ ॥ अकर्ताहमभोक्ताहमसङ्गः परमेश्वरः । सदा मत्संनिधानेन चेष्टते सर्वमिन्द्रियम् ॥ १६ ॥ आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन । स्वभावनिर्मलः शुद्धः स एवाहं न संशयः ॥ १७ ॥ ब्रह्मैवाहं न संसारी मुक्तोऽहमिति भावयेत् । अशक्नुवन्भावयितुं वाक्यमेतत्सदाभ्यसेत् ॥ १८ ॥ यदभ्यासेन तद्भावो भवेद्भ्रमरकीटवत् । अत्रापहाय संदेहमभ्यसेत्कृतनिश्चयः ॥ १९ ॥ ध्यानयोगेन मासैकाद्ब्रह्महत्यां व्यपोहति । संवत्सरं सदाभ्यासात्सिद्ध्यष्टकमवाप्नुयात् ॥ २० ॥ यावज्जीवं सदाभ्यासाज्जीवन्मुक्तो भवेद्यतिः । नाहं देहो न च प्राणो नेन्द्रियाणि तथैव च ॥ २१ ॥ न मनोऽहं न बुद्धिश्च नैव चित्तमहंकृतिः । नाहं पृथ्वी न सलिलं न च वह्निस्तथानिलः ॥ २२ ॥ न चाकाशो न शब्दश्च न च स्पर्शस्तथा रसः । नाहं गन्धो न रूपं च न मायाहं न संसृतिः ॥ २३ ॥ सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः । मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ॥ २४ ॥ मयि सर्वं लयं याति तद्ब्रह्मास्म्यहमद्वयम् । सर्वज्ञोऽहमनन्तोऽहं सर्वेशः सर्वशक्तिमान् ॥ २५ ॥ आनन्दः सत्यबोधोऽहमिति ब्रह्मानुचिन्तनम् । अयं प्रपञ्चो मिथ्यैव सत्यं ब्रह्माहमव्ययम् ॥ २६ ॥ अत्र प्रमाणं वेदान्ता गुरवोऽनुभवस्तथा । ब्रह्मैवाहं न संसारी न चाहं ब्रह्मणः पृथक् ॥ २७ ॥ नाहं देहो न मे देहः केवलोऽहं सनातनः । एकमेवाद्वितीयं वै ब्रह्मणो नेह किंचन ॥ २८ ॥ हृदयकमलमध्ये दीपवद्वेदसारं प्रणवमयमतर्क्यं योगिभिर्ध्यानगम्यम् । हरिगुरुशिवयोगं सर्वभूतस्थमेकं सकृदपि मनसा वै चिन्तयेद्यः स मुक्तः ॥ २९ ॥ ॥ श्रीः ॥ प्रश्नोत्तर- रत्नमालिका ॥ कः खलु नालंक्रियते दृष्टादृष्टार्थसाधनपटीयान् । अमुया कण्ठस्थितया प्रश्नोत्तररत्नमालिकया ॥ १ ॥ भगवन्किमुपादेयं गुरुवचनं हेयमपि च किमकार्यम् । को गुरुरधिगततत्त्वः शिष्यहितायोद्यतः सततम् ॥ २ ॥ त्वरितं किं कर्तव्यं विदुषां संसारसंततिच्छेदः । किं मोक्षतरोर्बीजं सम्यक्ज्ञानं क्रियासिद्धम् ॥ ३ ॥ कः पध्यतरो धर्मः कः शुचिरिह यस्य मानसं शुद्धम् । कः पण्डितो विवेकी किं विषमवधीरणा गुरुषु ॥ ४ ॥ किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव । किं मनुजेष्विष्टतमं स्वपरहितायोद्यतं जन्म ॥ ५ ॥ मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः । का भववल्ली तृष्णा को वैरी यस्त्वनुद्योगः ॥ ६ ॥ कस्माद्भयमिह मरणा- दन्धादिह को विशिष्यते रागी । कः शूरो यो ललना- लोचनबाणैर्न च व्यधितः ॥ ७ ॥ पातुं कर्णाञ्जलिभिः किममृतमिह युज्यते सदुपदेशः । किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥ ८ ॥ किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन । किं दुःखमसंतोषः किं लाघवमधमतो याच्ञा ॥ ९ ॥ किं जीवितमनवद्यं किं जाड्यं पाठतोऽप्यनभ्यासः । को जागर्ति विवेकी का निद्रा मूढता जन्तोः ॥ १० ॥ नलिनीदलगतजलव- त्तरलं किं यौवनं धनं चायुः । कथय पुनः के शशिनः किरणसमाः सज्जना एव ॥ ११ ॥ को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या । किं सत्यं भूतहितं प्रियं च किं प्राणिनामसवः ॥ १२ ॥ कोऽनर्थफलो मानः का सुखदा साधुजनमैत्री । सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागी ॥ १३ ॥ किं मरणं मूर्खत्वं किं चानर्घं यदवसरे दत्तम् । आमरणात्किं शल्यं प्रच्छन्नं यत्कृतं पापम् ॥ १४ ॥ कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने । अवधीरणा क्व कार्या खलपरयोषित्परधनेषु ॥ १५ ॥ काहर्निशमनुचिन्त्या संसारासारता न तु प्रमदा । का प्रेयसी विधेया करुणा दीनेषु सज्जने मैत्री ॥ १६ ॥ कण्ठगतैरप्यसुभिः कस्य ह्यात्मा न शक्यते जेतुम् । मूर्खस्य शङ्कितस्य च विषादिनो वा कृतघ्नस्य ॥ १७ ॥ कः साधुः सद्वृत्तः कमधममाचक्षते त्वसद्वृत्तम् । केन जितं जगदेत- त्सत्यतितिक्षावता पुंसा ॥ १८ ॥ कस्मै नमांसि देवाः कुर्वन्ति दयाप्रधानाय । कस्मादुद्वेगः स्या- त्संसारारण्यतः सुधियः ॥ १९ ॥ कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य । क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाढ्ये ॥ २० ॥ कोऽन्धो योऽकार्यरतः को बधिरो यो हितानि न शृणोति । को मूको यः काले प्रियाणि वक्तुं न जानाति ॥ २१ ॥ किं दानमनाकाङ्क्ष किं मित्रं यो निवारयति पापात् । कोऽलंकारः शीलं किं वाचां मण्डनं सत्यम् ॥ २२ ॥ विद्युद्विलसितचपलं किं दुर्जनसंगतिर्युवतयश्च । कुलशीलनिष्प्रकम्पाः के कलिकालेऽपि सज्जना एव ॥ २३ ॥ चिन्तामणिरिव दुर्लभ- मिह किं कथयामि तच्चतुर्भद्रम् । किं तद्वदन्ति भूयो विधूततमसो विशेषेण ॥ २४ ॥ दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम् । वित्तं त्यागसमेतं दुर्लभमेतच्चतुर्भद्रम् ॥ २५ ॥ किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्तमौदार्यम् । कः पूज्यो विद्वद्भिः स्वभावतः सर्वदा विनीतो यः ॥ २६ ॥ कः कुलकमलदिनेशः सति गुणविभवेऽपि यो नम्रः । कस्य वशे जगदेत- त्प्रियहितवचनस्य धर्मनिरतस्य ॥। २७ ॥ विद्वन्मनोहरा का सत्कविता बोधवनिता च । कं न स्पृशति विपत्तिः प्रवृद्धवचनानुवर्तिनं दान्तम् ॥ २८ ॥ कस्मै स्पृहयति कमला त्वनलसचित्ताय नीतिवृत्ताय । त्यजति च कं सहसा द्विज- गुरुसुरनिन्दाकरं च सालस्यम् ॥ २९ ॥ कुत्र विधेयो वासः सज्जननिकटेऽथवा काश्याम् । कः परिहार्यो देशः पिशुनयुतो लुब्धभूपश्च ॥ ३० ॥ केनाशोच्यः पुरुषः प्रणतकलत्रेण धीरविभवेन इह भुवने कः शोच्यः सत्यपि विभवे न यो दाता ॥ ३१ ॥ किं लघुताया मूलं प्राकृतपुरुषेषु या याच्ञा । रामादपि कः शूरः स्मरशरनिहतो न यश्चलति ॥ ३२ ॥ किमहर्निशमनुचिन्त्यं भगवच्चरणं न संसारः । चक्षुष्मन्तोऽप्यन्धाः के स्युर्ये नास्तिका मनुजाः ॥ ३३ ॥ कः पङ्गुरिह प्रथितो व्रजति च यो वार्धके तीर्थम् । किं तीर्थमपि च मुख्यं चित्तमलं यन्निवर्तयति ॥ ३४ ॥ किं स्मर्तव्यं पुरुषै- र्हरिनाम सदा न यावनी भाषा । को हि न वाच्यः सुधिया परदोषश्चानृतं तद्वत् ॥ ३५ ॥ किं संपाद्यं मनुजै- र्विद्या वित्तं बलं यशः पुण्यम् । कः सर्वगुणविनाशी लोभः शत्रुश्च कः कामः ॥ ३६ ॥ का च सभा परिहार्या हीना या वृद्धसचिवेन । इह कुत्रावहितः स्या- न्मनुजः किल राजसेवायाम् ॥ ३७ ॥ प्राणादपि को रम्यः कुलधर्मः साधुसङ्गश्च । का संरक्ष्या कीर्तिः पतिव्रता नैजबुद्धिश्च ॥ ३८ ॥ का कल्पलता लोके सच्छिष्यायार्पिता विद्या । कोऽक्षयवटवृक्षः स्या- द्विधिवत्सत्पात्रदत्तदानं यत् ॥ ३९ ॥ किं शस्त्रं सर्वेषां युक्तिर्माता च का धेनुः । किं नु बलं यद्धैर्यं को मृत्युर्यदवधानरहितत्वम् ॥ ४० ॥ कुत्र विषं दुष्टजने किमिहाशौचं भवेदृणं नॄणाम् । किमभयमिह वैराग्यं भयमपि किं वित्तमेव सर्वेषाम् ॥ ४१ ॥ का दुर्लभा नराणां हरिभक्तिः पातकं च किं हिंसा । को हि भगवत्प्रियः स्या- द्योऽन्यं नोद्वेजयेदनुद्विग्नः ॥ ४२ ॥ कस्मात्सिद्धिस्तपसो बुद्धिः क्व नु भूसुरे कुतो बुद्धिः । वृद्धोपसेवया के वृद्धा ये धर्मतत्त्वज्ञाः ॥ ४३ ॥ संभावितस्य मरणा- दधिकं किं दुर्यशो भवति । लोके सुखी भवेत्को धनवान्धनमपि च किं यतश्रेष्ठम् ॥ ४४ ॥ सर्वसुखानां बीजं किं पुण्यं दुःखमपि कुतः पापात् । कस्यैश्वर्यं यः किल शंकरमाराधयेद्भक्त्या ॥ ४५ ॥ को वर्धते विनीतः को वा हीयेत यो दृप्तः । को न प्रत्येतव्यो ब्रूते यश्चानृतं शश्वत् ॥ ४६ ॥ कुत्रानृतेऽप्यपापं यच्चोक्तं धर्मरक्षार्थम् । को धर्मोऽभिमतो यः शिष्टानां निजकुलीनानाम् ॥ ४७ ॥ साधुबलं किं दैवं कः साधुः सर्वदा तुष्टः । दैवं किं यत्सुकृतं कः सुकृती श्लाध्यते च यः सद्भिः ॥ ४८ ॥ गृहमेधिनश्च मित्रं किं भार्या को गृही च यो यजते । को यज्ञो यः श्रुत्या विहितः श्रेयस्करो नॄणाम् ॥ ४९ ॥ कस्य क्रिया हि सफला यः पुनराचारवाञ्शिष्टः । कः शिष्टो यो वेद- प्रमाणवान्को हतः क्रियाभ्रष्टः ॥ ५० ॥ को धन्यः संन्यासी को मान्यः पण्डितः साधुः । कः सेव्यो यो दाता को दाता योऽर्थितृप्तिमातनुते ॥ किं भाग्यं देहवता- मारोग्यं कः फली कृषिकृत् । कस्य न पापं जपतः कः पूर्णो यः प्रजावान्स्यात् ॥ ५२ ॥ किं दुष्करं नराणां यन्मनसो निग्रहः सततम् । को ब्रह्मचर्यवान्स्या- द्यश्चास्खलितोर्ध्वरेतस्कः ॥ ५३ ॥ का च परदेवतोक्ता चिच्छक्तिः को जगत्भर्ता । सूर्यः सर्वेषां को जीवनहेतुः स पर्जन्यः ॥ ५४ ॥ कः शूरो यो भीत- त्राता त्राता च कः स गुरुः । को हि जगद्गुरुरुक्तः शंभुर्ज्ञानं कुतः शिवादेव ॥ ५५ ॥ मुक्तिं लभेत कस्मा- द्मुकुन्दभक्तेर्मुकुन्दः कः । यस्तारयेदविद्यां का चाविद्या यदात्मनोऽस्फूर्तिः ॥ ५६ ॥ कस्य न शोको यः स्या- दक्रोधः किं सुखं तुष्टिः । को राजा रञ्जनकृ- त्कश्च श्वा नीचसेवको यः स्यात् ॥ ५७ ॥ को मायी परमेशः क इन्द्रजालायते प्रपञ्चोऽयम् । क: स्वप्रनिभो जाग्र- द्व्यवहारः सत्यमपि च किं ब्रह्म ॥ ५८ ॥ किं मिथ्या यद्विद्या- नाश्यं तुच्छं तु शशविषाणादि । का चानिर्वचनीया माया किं कल्पितं द्वैतम् ॥ ५९ ॥ किं पारमार्थिकं स्या- दद्वैतं चाज्ञता कुतोऽनादिः । वपुषश्च पोषकं किं प्रारब्धं चान्नदायि किं चायुः ॥ ६० ॥ को ब्राह्मणैरुपास्यो गायत्र्यर्काग्निगोचरः शंभुः । गायत्र्यामादित्ये चाग्नौ शंभौ च किं नु तत्तत्वम् ॥ ६१ ॥ प्रत्यक्षदेवता का माता पूज्यो गुरुश्च कस्तातः । कः सर्वदेवतात्मा विद्याकर्मान्वितो विप्रः ॥ ६२ ॥ कश्च कुलक्षयहेतुः संतापः सज्जनेषु योऽकारि । केषाममोघवचनं ये च पुनः सत्यमौनशमशीलाः ॥ ६३ ॥ किं जन्म विषयसङ्गः किमुत्तरं जन्म पुत्रः स्यात् । कोऽपरिहार्यो मृत्युः कुत्र पदं विन्यसेच्च दृक्पूते ॥ ६४ ॥ पात्रं किमन्नदाने क्षुधितं कोऽर्च्यो हि भगवदवतारः । कश्च भगवान्महेशः शंकरनारायणात्मकः ॥ ६५ ॥ फलमपि भगवद्भक्तेः किं तल्लोकस्वरूपसाक्षात्त्वम् । मोक्षश्च को ह्यविद्या- स्तमयः कः सर्ववेदभूरथ चोम् ॥ ६६ ॥ इत्येषा कण्ठस्था प्रश्नोत्तररत्नमालिका येषाम् । ते मुक्ताभरणा इव विमलाश्चाभान्ति सत्समाजेषु ॥ ६७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रश्नोत्तररत्नमालिका संपूर्णा ॥ ॥ श्रीः ॥ ॥ सदाचारानुसंधानम् ॥ सच्चिदानन्दकन्दाय जगदङ्कुरहेतवे । सदोदिताय पूर्णाय नमोऽनन्ताय विष्णवे ॥ १ ॥ सर्ववेदान्तसिद्धान्तैर्ग्रथितं निर्मलं शिवम् । सदाचारं प्रवक्ष्यामि योगिनां ज्ञानसिद्धये ॥ २ ॥ प्रातः स्मरामि देवस्य सवितुर्भर्ग आत्मनः । वरेण्यं तद्धियो यो नश्चिदानन्दे प्रचोदयात् ॥ ३ ॥ अन्वयव्यतिरेकाभ्यां जाग्रत्स्वप्नसुषुप्तिषु । यदेकं केवलं ज्ञानं तदेवास्मि परं बृहत् ॥ ४ ॥ ज्ञानाज्ञानविलासोऽयं ज्ञानाज्ज्ञाने च शाम्यति । ज्ञानाज्ञाने परित्यज्य ज्ञानमेवावशिष्यते ॥ ५ ॥ अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । असङ्गोऽहमिति ज्ञात्वा शौचमेतत्प्रचक्षते ॥ ६ ॥ मन्मनो मीनवन्नित्यं क्रीडत्यानन्दवारिधौ । सुस्नातस्तेन पूतात्मा सम्यग्विज्ञानवारिणा ॥ ७ ॥ अथाघमर्षणं कुर्यात्प्राणापाननिरोधतः । मनः पूर्णे समाधाय मग्नकुम्भो यथार्णवे ॥ ८ ॥ लयविक्षेपयोः संधौ मनस्तत्र निरामिषम् । स संधिः साधितो येन स मुक्तो नात्र संशयः ॥ ९ ॥ सर्वत्र प्राणिनां देहे जपो भवति सर्वदा । हंसः सोऽहमिति ज्ञात्वा सर्वबन्धैर्विमुच्यते ॥ १० ॥ तर्पणं स्वसुखेनैव स्वेन्द्रियाणां प्रतर्पणम् । मनसा मन आलोक्य स्वयमात्मा प्रकाशते ॥ ११ ॥ आत्मनि स्वप्रकाशाग्नौ चित्तमेकाहुतिं क्षिपेत् । अग्निहोत्री स विज्ञेयश्चेतरा नामधारकाः ॥ १२ ॥ देहो देवालयः प्रोक्तो देही देवो निरञ्जनः । अर्चितः सर्वभावेन स्वानुभूत्या विराजते ॥ १३ ॥ मौनं स्वाध्ययनं ध्यानं ध्येयं ब्रह्मानुचिन्तनम् । ज्ञानेनेति तयोः सम्यङ्निषेधात्तत्त्वदर्शनम् ॥ १४ ॥ अतीतानागतं किंचिन्न स्मरामि न चिन्तये । रागद्वेषं विना प्राप्तं भुञ्जाम्यत्र शुभाशुभम् ॥ १५ ॥ देहाभ्यासो हि संन्यासो नैव काषायवाससा । नाहं देहोऽहमात्मेति निश्चयो न्यासलक्षणम् ॥ १६॥ अभयं सर्वभूतानां दानमाहुर्मनीषिणः । निजानन्दे स्पृहा नान्ये वैराग्यस्यावधिर्मता ॥ १७ ॥ वेदान्तश्रवणं कुर्यान्मननं चोपपत्तिभिः । योगेनाभ्यसनं नित्यं ततो दर्शनमात्मनः ॥ १८ ॥ शब्दशक्तेरचिन्त्यत्वाच्छब्दादेवापरोक्षधीः । प्रसुप्तः पुरुषो यद्वच्छब्देनैवावबुद्ध्यते ॥ १९ ॥ आत्मानात्मविवेकेन ज्ञानं भवति निश्चलम् । गुरुणा बोधितः शिष्यः शब्दब्रह्मातिवर्तते ॥ २० ॥ न त्वं देहो नेन्द्रियाणि न प्राणो न मनो न धीः । विकारित्वाद्विनाशित्वाद्दृश्यत्वाच्च घटो यथा ॥ २१ ॥ विशुद्धं केवलं ज्ञानं निर्विशेषं निरञ्जनम् । यदेकं परमानन्दं तत्त्वमस्यद्वयं परम् ॥ २२ ॥ शब्दस्याद्यन्तयोः सिद्धं मनसोऽपि तथैव च । मध्ये साक्षितया नित्यं तदेव त्वं भ्रमं जहि ॥ २३ ॥ स्थूलवैराजयोरैक्यं सूक्ष्महैरण्यगर्भयोः । अज्ञानमाययोरैक्यं प्रत्यग्विज्ञानपूर्णयोः ॥ २४ ॥ चिन्मात्रैकरसे विष्णौ ब्रह्मात्मैक्यस्वरूपके । भ्रमेणैव जगज्जातं रज्ज्वां सर्पभ्रमो यथा ॥ २५ ॥ तार्किकाणां तु जीवेशौ वाच्यावेतौ विदुर्बुधाः । लक्ष्यौ च सांख्ययोगाभ्यां वेदान्तैरैक्यता तयोः ॥ कार्यकारणवाच्यांशौ जीवेशौ यौ जहच्च तौ । अजहच्च तयोर्लक्ष्यौ चिदंशावेकरूपिणौ ॥। २७ ॥ कर्मशास्त्रे कुतो ज्ञानं तर्के नैवास्ति निश्चयः । सांख्ययोगौ भिदापन्नौ शाब्दिकाः शब्दतत्पराः ॥ अन्ये पाषण्डिनः सर्वे ज्ञानवार्तासुदुर्लभाः । एकं वेदान्तविज्ञानं स्वानुभूत्या विराजते ॥ २९ ॥ अहं ममेत्ययं बन्धो ममाहं नेति मुक्तता । बन्धमोक्षौ गुणैर्भाति गुणाः प्रकृतिसंभवाः ॥ ३० ॥ ज्ञानमेकं सदा भाति सर्वावस्थासु निर्मलम् । मन्दभाग्या न जानन्ति स्वरूपं केवलं बृहत् ॥ ३१ ॥ संकल्पसाक्षि यज्ज्ञानं सर्वलोकैकजीवनम् । तदेवास्मीति यो वेद स मुक्तो नात्र संशयः ॥ ३२ ॥ प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा । यस्य भासावभासन्ते मानं ज्ञानाय तस्य किम् ॥ ३३ ॥ अर्थाकारा भवेद्वृत्तिः फलेनार्थः प्रकाशते । अर्थज्ञानं विजानाति स एवार्थः प्रकाशते ॥ ३४ ॥ वृत्तिव्याप्यत्वमेवास्तु फलव्याप्तिः कथं भवेत् । स्वप्रकाशस्वरूपत्वात्सिद्धत्वाच्च चिदात्मनः ॥ ३५ ॥ चित्तं चैतन्यमात्रेण संयोगाच्चेतना भवेत् । अर्थादर्थान्तरे वृत्तिर्गन्तुं चलति चान्तरे ॥ ३६ ॥ निराधारा निर्विकारा या दशा सोन्मनी स्मृता । चित्तं चिदिति जानीयात्तकाररहितं यदा ॥ ३७ ॥ तकारो विषयाध्यासो जपारागो यथा मणौ । ज्ञेयवस्तु परित्यागाज्ज्ञानं तिष्ठति केवलम् ॥ ३८ ॥ त्रिपुटी क्षीणतामेति ब्रह्मनिर्वाणमृच्छति । मनोमात्रमिदं सर्वं तन्मनो ज्ञानमात्रकम् ॥ ३९ ॥ अज्ञानं भ्रम इत्याहुर्विज्ञानं परमं पदम् । अज्ञानं चान्यथाज्ञानं मायामेतां वदन्ति ते ॥ ४० ॥ ईश्वरं मायिनं विद्यान्मायातीतं निरञ्जनम् । सदानन्दे चिदाकाशे मायामेघस्तटिन्मनः ॥ ४१ ॥ अहंता गर्जनं तत्र धारासारा हि वृत्तयः । महामोहान्धकारेऽस्मिन्देवो वर्षति लीलया ॥ ४२ ॥ तस्या वृष्टेर्विरामाय प्रबोधैकसमीरणः । ज्ञानं दृग्दृश्ययोर्भावं विज्ञानं दृश्यशून्यता ॥ ४३ ॥ एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं तज्ज्ञानं ज्ञानमुच्यते ॥ ४४ ॥ विज्ञानं चोभयोरैक्यं क्षेत्रज्ञपरमात्मनोः । परोक्षं शास्त्रजं ज्ञानं विज्ञानं चात्मदर्शनम् ॥ ४५ ॥ आत्मनो ब्रह्मणः सम्यगुपाधिद्वयवर्जितम् । त्वमर्थविषयं ज्ञानं विज्ञानं तत्पदाश्रयम् ॥ ४६ ॥ पदयोरैक्यबोधस्तु ज्ञानविज्ञानसंज्ञितम् । आत्मानात्मविवेकस्य ज्ञानमाहुर्मनीषिणः ॥ ४७ ॥ अज्ञानं चान्यथा लोके विज्ञानं तन्मयं जगत् । अन्वयव्यतिरेकाभ्यां सर्वत्रैकं प्रपश्यति ॥ ४८ ॥ यत्तत्तु वृत्तिजं ज्ञानं विज्ञानं ज्ञानमात्रकम् । अज्ञानध्वंसकं ज्ञानं विज्ञानं चोभयात्मकम् ॥ ४९ ॥ ज्ञानविज्ञाननिष्ठोऽयं तत्सद्ब्रह्मणि चार्पणम् । भोक्ता सत्त्वगुणः शुद्धो भोगानां साधनं रजः ॥ ५० ॥ भोग्यं तमोगुणः प्राहुरात्मा चैषां प्रकाशकः ब्रह्माध्ययनसंयुक्तो ब्रह्मचर्यारतः सदा ॥ ५१ ॥ सर्वं ब्रह्मेति यो वेद ब्रह्मचारी स उच्यते । गृहस्थो गुणमध्यस्थः शरीरं गृहमुच्यते ॥ ५२ ॥ गुणाः कुर्वन्ति कर्माणि नाहं कर्तेति बुद्धिमान् । किमुग्रैश्च तपोभिश्च यस्य ज्ञानमयं तपः ॥ ५३ ॥ हर्षामर्षविनिर्मुक्तो वानप्रस्थः स उच्यते । स गृही यो गृहातीतः शरीरं गृहमुच्यते ॥ ५४ ॥ सदाचारमिमं नित्यं योऽनुसंदधते बुधः । संसारसागराच्छीघ्रं स मुक्तो नात्र संशयः ॥ ५५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ सदाचारानुसंधानं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ योगतारावली ॥ वन्दे गुरूणां चरणारविन्दे संदर्शितस्वात्मसुखावबोधे । जनस्य ये जाङ्गलिकायमाने संसारहालाहलमोहशान्त्यै ॥ १ ॥ सदाशिवोक्तानि सपादलक्ष- लयावधानानि वसन्ति लोके । नादानुसंधानसमाधिमेकं मन्यामहे मान्यतमं लयानाम् ॥ २ ॥ सरेचपूरैरनिलस्य कुम्भैः सर्वासु नाडीषु विशोधितासु । अनाहताख्यो बहुभिः प्रकारै- रन्तः प्रवर्तेत सदा निनादः ॥ ३ ॥ नादानुसंधान नमोऽस्तु तुभ्यं त्वां साधनं तत्त्वपदस्य जाने । भवत्प्रसादात्पवनेन साकं विलीयते विष्णुपदे मनो मे ॥ ४ ॥ जालन्धरोड्याणनमूलबन्धा- ञ्जल्पन्ति कण्ठोदरपायुमूलान् । बन्धत्रयेऽस्मिन्परिचीयमाने बन्धः कुतो दारुणकालपाशात् ॥ ५ ॥ ओड्याणजालन्धरमूलबन्धै- रुन्निद्रितायामुरगाङ्गनायाम् । प्रत्यङ्मुखत्वात्प्रविशन्सुषुम्नां गमागमौ मुञ्चति गन्धवाहः ॥ ६ ॥ उत्थापिताधारहुताशनोल्कै- राकुञ्चनैः शश्वदपानवायोः । संतापिताच्चन्द्रमसः पतन्तीं पीयूषधारां पिबतीह धन्यः ॥ ७ ॥ बन्धत्रयाभ्यासविपाकजातां विवर्जितां रेचकपूरकाभ्याम् । विशोषयन्तीं विषयप्रवाहं विद्यां भजे केवलकुम्भरूपाम् ॥ ८ ॥ अनाहते चेतसि सावधानै- रभ्यासशूरैरनुभूयमाना । संस्तम्भितश्वासमनःप्रचारा सा जृम्भते केवलकुम्भकश्रीः ॥ ९ ॥ सहस्रशः सन्तु हठेषु कुम्भाः संभाव्यते केवलकुम्भ एव । कुम्भोत्तमे यत्र तु रेचपूरौ प्राणस्य न प्राकृतवैकृताख्यौ ॥ १० ॥ त्रिकूटनाम्नि स्तिमितेऽन्तरङ्गे खे स्तम्भिते केवलकुम्भकेन । प्राणानिलो भानुशशाङ्कनाड्यौ विहाय सद्यो विलयं प्रयाति ॥ ११ ॥ प्रत्याहृतः केवलकुम्भकेन प्रबुद्धकुण्डल्युपभुक्तशेषः । प्राणः प्रतीचीनपथेन मन्दं विलीयते विष्णुपदान्तराले ॥ १२ ॥ निरङ्कुशानां श्वसनोद्गमानां निरोधनैः केवलकुम्भकाख्यैः । उदेति सर्वेन्द्रियवृत्तिशून्यो मरुल्लयः कोऽपि महामतीनाम् ॥ १३ ॥ न दृष्टिलक्ष्याणि न चित्तबन्धो न देशकालौ न च वायुरोधः । न धारणाध्यानपरिश्रमो वा समेधमाने सति राजयोगे ॥ १४ ॥ अशेषदृश्योज्झितदृङ्मयाना- मवस्थितानामिह राजयोगे । न जागरो नापि सुषुप्तिभावो न जीवितं नो मरणं विचित्रम् ॥ १५ ॥ अहंममत्वाद्व्यपहाय सर्वं श्रीराजयोगे स्थिरमानसानाम् । न द्रष्टृता नास्ति च दृश्यभावः सा जृम्भते केवलसंविदेव ॥ १६ ॥ नेत्रे ययोन्मेषनिमेषशून्ये वायुर्यया वर्जितरेचपूरः । मनश्च संकल्पविकल्पशून्यं मनोन्मनी सा मयि संनिधत्ताम् ॥ १७ ॥ चित्तेन्द्रियाणां चिरनिग्रहेण श्वासप्रचारे शमिते यमीन्द्राः । निवातदीपा इव निश्चलाङ्गाः मनोन्मनीमग्नधियो भवन्ति ॥ १८ ॥ उन्मन्यवस्थाधिगमाय विद्वन् उपायमेकं तव निर्दिशामः । पश्यन्नुदासीनतया प्रपञ्चं संकल्पमुन्मूलय सावधानः ॥ १९ ॥ प्रसह्य संकल्पपरंपराणां संभेदने संततसावधानम् । आलम्बनाशादपचीयमानं शनैः शनै: शान्तिमुपैति चेतः ॥ २० ॥ निश्वासलोपैर्निभृतैः शरीरै- र्नेत्राम्बुजैरर्धनिमीलितैश्च । आविर्भवन्तीममनस्कमुद्रा- मालोकयामो मुनिपुंगवानाम् ॥ २१ ॥ अमी यमीन्द्राः सहजामनस्का- दहंममत्वे शिथिलायमाने । मनोतिगं मारुतवृत्तिशून्यं गच्छन्ति भावं गगनावशेषम् ॥ २२ ॥ निवर्तयन्तीं निखिलेन्द्रियाणि प्रवर्तयन्तीं परमात्मयोगम् । संविन्मयीं तां सहजामनस्कां कदा गमिष्यामि गतान्यभावः ॥ २३ ॥ प्रत्यग्विमर्शातिशयेन पुंसां प्राचीनगन्धेषु पलायितेषु । प्रादुर्भवेत्काचिदजाड्यनिद्रा प्रपञ्चचिन्तां परिवर्जयन्ती ॥ २४ ॥ विच्छिन्नसंकल्पविकल्पमूले निःशेषनिर्मूलितकर्मजाले । निरन्तराभ्यासनितान्तभद्रा सा जृम्भते योगिनि योगनिद्रा ॥ २५ ॥ विश्रान्तिमासाद्य तुरीयतल्पे विश्वाद्यवस्थात्रितयोपरिस्थे । संविन्मयीं कामपि सर्वकालं निद्रां सखे निर्विश निर्विकल्पाम् ॥ २६ ॥ प्रकाशमाने परमात्मभानौ नश्यत्यविद्यातिमिरे समस्ते । अहो बुधा निर्मलदृष्टयोऽपि किंचिन्न पश्यन्ति जगत्समग्रम् ॥ २७ ॥ सिद्धिं तथाविधमनोविलयां समाधौ श्रीशैलशृङ्गकुहरेषु कदोपलप्स्ये । गात्रं यदा मम लताः परिवेष्टयन्ति कर्णे यदा विरचयन्ति खगाश्च नीडान् ॥ २८ ॥ विचरतु मतिरेषा निर्विकल्पे समाधौ कुचकलशयुगे वा कृष्णसारेक्षणानाम् । चरतु जडमते वा सज्जनानां मते वा मतिकृतगुणदोषा मां विभुं न स्पृशन्ति ॥ २९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ योगतारावली संपूर्णा ॥ ॥ श्रीः ॥ ॥ उपदेशपञ्चकम् ॥ वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् । पापौघः परिधूयतां भवसुखे दोषोऽनुसंधीयता- मात्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥ सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाधीयतां शान्त्यादिः परिचीयतां दृढतरं कर्माशु संत्यज्यताम् । सद्विद्वानुपसृप्यतां प्रतिदिनं तत्पादुका सेव्यतां ब्रह्मकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ॥ वाक्यार्थश्च विचार्यतां श्रुतिशिरः पक्षः समाश्रीयतां दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसंधीयताम् । ब्रह्मास्मीति विभाव्यतामहरहर्गर्वः परित्यज्यतां देहेऽहंमतिरुज्झ्यतां बुधजनैर्वादः परित्यज्यताम् ॥३॥ क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां स्वाद्वन्नं न तु याच्यतां विधिवशात्प्राप्तेन संतुष्यताम् । शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यता- मौदासीन्यमभीप्स्यतां जनकृपानैष्टुर्यमुत्सृज्यताम् ॥ एकान्ते सुखमास्यतां परतरे चेतः समाधीयतां पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम् । प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यतां प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ उपदेशपञ्चकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ धन्याष्टकम् ॥ तज्ज्ञानं प्रशमकरं यदिन्द्रियाणां तज्ज्ञेयं यदुपनिषत्सुनिश्चितार्थम् । ते धन्या भुवि परमार्थनिश्चितेहाः शेषास्तु भ्रमनिलये परिभ्रमन्तः ॥ १ ॥ आदौ विजित्य विषयान्मदमोहराग- द्वेषादिशत्रुगणमाहृतयोगराज्याः । ज्ञात्वा मतं समनुभूय परात्मविद्या- कान्तासुखं वनगृहे विचरन्ति धन्याः ॥ २ ॥ त्यक्त्वा गृहे रतिमधोगतिहेतुभूता- मात्मेच्छयौपनिषदर्थरसं पिबन्तः । वीतस्पृहा विषयभोगपदे विरक्ता धन्याश्चरन्ति विजनेषु विरक्तसङ्गाः ॥ ३ ॥ त्यक्त्वा ममाहमिति बन्धकरे पदे द्वे मानावमानसदृशाः समदर्शिनश्च । कर्तारमन्यमवगम्य तदर्पितानि कुर्वन्ति कर्मपरिपाकफलानि धन्याः ॥ ४ ॥ त्यक्त्वैषणात्रयमवेक्षितमोक्षमार्गा भैक्षामृतेन परिकल्पितदेहयात्राः । ज्योतिः परात्परतरं परमात्मसंज्ञं धन्या द्विजा रहसि हृद्यवलोकयन्ति ॥ ५ ॥ नासन्न सन्न सदसन्न महन्न चाणु न स्त्री पुमान्न च नपुंसकमेकबीजम् । यैर्ब्रह्म तत्समनुपासितमेकचित्तै- र्धन्या विरेजुरितरे भवपाशबद्धाः ॥ ६ ॥ अज्ञानपङ्कपरिमग्नमपेतसारं दुःखालयं मरणजन्मजरावसक्तम् । संसारबन्धनमनित्यमवेक्ष्य धन्या ज्ञानासिना तदवशीर्य विनिश्चयन्ति ॥ ७ ॥ शान्तैरनन्यमतिभिर्मधुरस्वभावै- रेकत्वनिश्चितमनोभिरपेतमोहैः । साकं वनेषु विदितात्मपदस्वरूपं तद्वस्तु सम्यगनिशं विमृशन्ति धन्याः ॥ ८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ धन्याष्टकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ जीवन्मुक्तानन्दलहरी ॥ पुरे पौरान्पश्यन्नरयुवतिनामाकृतिमया- न्सुवेषान्स्वर्णालंकरणकलितांश्चित्रसदृशान् । स्वयं साक्षाद्दृष्टेत्यपि च कलयंस्तैः सह रम- न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १ । वने वृक्षान्पश्यन्दलफलभरान्नम्रसुशिखा- न्घनच्छायाच्छन्नान्बहुलकलकूजद्द्विजगणान् । भजन्घस्रोरात्रादवनितलकल्पैकशयनो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ २ ॥ कदाचित्प्रासादे क्वचिदपि च सौधेषु धनिनां कदा काले शैले क्वचिदपि च कूलेषु सरिताम् । कुटीरे दान्तानां मुनिजनवराणामपि वस- न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ३ ॥ क्वचिद्बालैः सार्धं करतलगतालैः सहसितैः क्वचित्तारुण्यालंकृतनरवधूभिः सह रमन् । क्वचिद्वृद्धैश्चिन्ताकुलितहृदयैश्चापि विलप- न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ४ ॥ कदाचिद्विद्वद्भिर्विविदिषुभिरत्यन्तनिरतैः कदाचित्काव्यालंकृतिरसरसालैः कविवरैः कदाचित्सत्तर्कैरनुमितिपरैस्तार्किकवरै- र्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ५ ॥ कदा ध्यानाभ्यासैः क्वचिदपि सपर्यां विकसितैः सुगन्धैः सत्पुष्पैः क्वचिदपि दलैरेव विमलः । प्रकुर्वन्देवस्य प्रमुदितमनाः संनतिपरो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ६ ॥ शिवायाः शंभोर्वा क्वचिदपि च विष्णोरपि कदा गणाध्यक्षस्यापि प्रकटितवरस्यापि च कदा । पठन्वै नामालिं नयनरचितानन्दसरितो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ७ ॥ कदा गङ्गाम्भोभिः क्वचिदपि च कूपोत्थसलिलैः क्वचित्कासारोत्थैः क्वचिदपि सदुष्णैश्च शिशिरैः । भजन्स्नानं भूत्या क्वचिदपि च कर्पूरनिभया मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ८ ॥ कदाचिज्जागर्त्यां विषयकरणैः सव्यवहर- न्कदाचित्स्वप्नस्थानपि च विषयानेव च भजन् । कदाचित्सौषुप्तं सुखमनुभवन्नेव सततं मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ९ ॥ कदाप्याशावासाः क्वचिदपि च दिव्याम्बरधरः क्वचित्पञ्चास्योत्थां त्वचमपि दधानः कटितटे । मनस्वी निःसङ्गः सुजनहृदयानन्दजनको मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १२ ॥ कदाचित्सत्त्वस्थः क्वचिदपि रजोवृत्तिसुगत- स्तमोवृत्तिः क्वापि त्रितयरहितः क्वापि च पुनः । कदाचित्संसारी श्रुतिपथविहारी क्वचिदहो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ११ ॥ कदाचिन्मौनस्थः क्वचिदपि च वाग्वादनिरतः कदाचित्सानन्दं हसितरभसस्त्यक्तवचनः । कदाचिल्लोकानां व्यवहृतिसमालोकनपरो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १२ ॥ कदाचिच्छक्तीनां विकचमुखपद्मेषु कमलं क्षिपंस्तासां क्वापि स्वयमपि च गृह्णन्स्वमुखतः । तदद्वैतं रूपं निजपरविहीनं प्रकटय- न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १३ ॥ क्वचिच्छेवैः सार्थं क्वचिदपि च शाक्तैः सह वस- न्कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन् । कदा गाणापत्यैर्गतसकलभेदोऽद्वयतया मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १४ ॥ निराकारं क्वापि क्वचिदपि च साकारममलं निजं शैवं रूपं विविधगुणभेदेन बहुधा । कदाश्चर्यं पश्यन्किमिदमिति हृष्यन्नपि कदा मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १५ ॥ कदाद्वैतं पश्यन्नखिलमपि सत्यं शिवमयं महावाक्यार्थानामवगतिसमभ्यासवशतः । गतद्वैताभासः शिव शिव शिवेत्येव विलप न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १६ ॥ इमां मुक्तावस्थां परमशिवसंस्थां गुरुकृपा- सुधापाङ्गव्याप्यां सहजसुखवाप्यामनुदिनम् । मुहुर्मज्जन्मज्जन्भजति सुकृतैश्चेन्नरवरः सदा त्यागी योगी कविरिति वदन्तीह कवयः ॥ १७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव- त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ जीवन्मुक्तानन्दलहरी संपूर्णा ॥ ॥ श्रीः ॥ ॥ अनात्मश्रीविगर्हणप्रकरणम् ॥ लब्धा विद्या राजमान्या ततः किं प्राप्ता संपत्प्राभवाढ्या ततः किम् । भुक्ता नारी सुन्दराङ्गी तत: किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १ ॥ केयूराद्यैर्भूषितो वा ततः किं कौशेयाद्यैरावृतो वा ततः किम् । तृप्तो मृष्टान्नादिना वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ २ ॥ दृष्टा नाना चारुदेशास्ततः किं पुष्टश्चेष्टा बन्धुवर्गास्ततः किम् । नष्टं दारिद्र्यादिदुःखं ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ३ ॥ स्नातस्तीर्थे जह्रुजादौ ततः किं दानं दत्तं द्व्यष्टसंख्यं ततः किम् । जप्ता मन्त्राः कोटिशो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ४ ॥ गोत्रं सम्यग्भूषितं वा ततः किं गात्रं भस्माच्छादितं वा ततः किम् । रुद्राक्षादिः सद्धृतो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ५ ॥ अन्नैर्विप्रास्तर्पिता वा ततः किं यज्ञैर्देवास्तोषिता वा ततः किम् । कीर्त्या व्याप्ताः सर्वलोकास्ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ६ ॥ कायः क्लिष्टश्चोपवासैस्ततः किं लब्धाः पुत्राः स्वीयपत्न्यास्ततः किम् । प्राणायामः साधितो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ७ ॥ युद्धे शत्रुर्निर्जितो वा ततः किं भूयो मित्रैः पूरितो वा ततः किम् । योगः प्राप्ताः सिद्धयो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ८ ॥ अब्धिः पद्भ्यां लङ्घितो वा ततः किं वायुः कुम्भे स्थापितो वा ततः किम् । मेरुः पाणावुद्धृतो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ९ ॥ क्ष्वेलः पीतो दुग्धवद्वा ततः किं वह्निर्जग्धो लाजवद्वा ततः किम् । प्राप्तश्चारः पक्षिवत्खे ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १० ॥ बद्धाः सम्यक्पावकाद्यास्ततः किं साक्षाद्विद्धा लोहवर्यास्ततः किम् । लब्धो निक्षेपोऽञ्जनाद्यैस्ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ११ ॥ भूपेन्द्रत्वं प्राप्तमुर्व्यां ततः किं देवेन्द्रत्वं संभृतं वा ततः किम् । मुण्डीन्द्रत्वं चोपलब्धं ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १२ ॥ मन्त्रैः सर्वः स्तम्भितो वा ततः किं बाणैर्लक्ष्यो भेदितो वा ततः किम् । कालज्ञानं चापि लब्धं ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १३ ॥ कामातङ्कः खण्डितो वा ततः किं कोपावेशः कुण्ठितो वा ततः किम् । लोभाश्लेषो वर्जितो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १४ ॥ मोहध्वान्तः पेषितो वा ततः किं जातो भूमौ निर्मदो वा ततः किम् । मात्सर्यार्तिर्मीलिता वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १५ ॥ धातुर्लोकः साधितो वा ततः किं विष्णोर्लोको वीक्षितो वा ततः किम् । शंभोर्लोकः शासितो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १६ ॥ यस्येदं हृदये सम्यगनात्मश्रीविगर्हणम् । सदोदेति स एवात्मसाक्षात्कारस्य भाजनम् ॥ १७ ॥ अन्ये तु मायिकजगद्भ्रान्तिव्यामोहमोहिताः । न तेषां जायते क्वापि स्वात्मसाक्षात्कृतिर्भुवि ॥ १८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ अनात्मश्रीविगर्हणप्रकरणं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ स्वरूपानुसंधानाष्टकम् ॥ तपोयज्ञदानादिभिः शुद्धबुद्धि- र्विरक्तो नृपादेः पदे तुच्छबुद्ध्या । परित्यज्य सर्वं यदाप्नोति तत्त्वं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ १ ॥ दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं समाराध्य मत्या विचार्य स्वरूपम् । यदाप्नोति तत्त्वं निदिध्यास्य विद्वा- न्परं ब्रह्म नित्यं तदेवाहमस्मि ॥ २ ॥ यदानन्दरूपं प्रकाशस्वरूपं निरस्तप्रपञ्चं परिच्छेदहीनम् । अहं ब्रह्मवृत्त्यैकगम्यं तुरीयं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ३ ॥ यदज्ञानतो भाति विश्वं समस्तं विनष्टं च सद्यो यदात्मप्रबोधे । मनोवागतीतं विशुद्धं विमुक्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ४ । निषेधे कृते नेति नेतीति वाक्यैः समाधिस्थितानां यदाभाति पूर्णम् । अवस्थात्रयातीतमद्वैतमेकं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ५ ॥ यदानन्दलेशैः समानन्दि विश्वं यदाभाति सत्त्वे तदाभाति सर्वम् । यदालोकने रूपमन्यत्समस्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ६ । अनन्तं विभुं निर्विकल्पं निरीहं शिवं संगहीनं यदोंकारगम्यम् । निराकारमत्युज्ज्वलं मृत्युहीनं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ७ ॥ यदानन्दसिन्धौ निमग्नः पुमान्स्या- दविद्याविलासः समस्तप्रपञ्चः । तदा नः स्फुरत्यद्भुतं यन्निमित्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ८ ॥ स्वरूपानुसंधानरूपां स्तुतिं यः पठेदादराद्भक्तिभावो मनुष्यः । शृणोतीह वा नित्यमुद्युक्तचित्तो भवेद्विष्णुरत्रैव वेदप्रमाणात् ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ स्वरूपानुसंधानाष्टकम् संपूर्णम् ॥ ॥ श्रीः ॥ ॥ यतिपञ्चकम् ॥ वेदान्तवाक्येषु सदा रमन्तो भिक्षान्नमात्रेण च तुष्टिमन्तः । विशोकवन्तः करणैकवन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ १ ॥ मूलं तरोः केवलमाश्रयन्तः पाणिद्वयं भोक्तुममंत्रयन्तः । कन्थामिव श्रीमपि कुत्सयन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ २ ॥ देहादिभावं परिमार्जयन्त आत्मानमात्मन्यवलोकयन्तः । नान्तं न मध्यं न बहिः स्मरन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ ३ ॥ स्वानन्दभावे परितुष्टिमन्तः संशान्तसर्वेन्द्रियदृष्टिमन्तः । अहर्निशं ब्रह्मणि ये रमन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ ४ ॥ पञ्चाक्षरं पावनमुच्चरन्तः पतिं पशूनां हृदि भावयन्तः । भिक्षाशना दिक्षु परिभ्रमन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ ५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ यतिपञ्चकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ हस्तामलकीयभाष्यम् ॥ यस्मिन्ज्ञाते भवेत्सर्वं विज्ञातं परमात्मनि । तं वन्दे नित्यविज्ञानमानन्दमजमव्ययम् ॥ यदज्ञानादभूद्द्वैतं ज्ञाते यस्मिन्निवर्तते । रज्जुसर्पवदत्यन्तं तं वन्दे पुरुषोत्तमम् ॥ यस्योपदेशदीधित्या चिदात्मा नः प्रकाशते । नमः सद्गुरवे तस्मै स्वाविद्याध्वान्तभानवे ॥ इह हि सर्वस्य जन्तोः सुखं मे भूयाद्दुःखं मे मा भूयात् इति स्वरसत एव सुखोपादित्सादुःखजिहासे भवतः । तत्र यः कश्चित् पुण्यातिशयशाली अवश्यंभाविदुःखाविनाभू- तत्वादनित्यत्वाच्च विषयजं सुखं दुःखमेवेति ज्ञात्वा यत्नेन ससाधनात्संसारात्त्यक्तासक्तिरत्यन्तं विरज्यते । विरक्तश्च संसारहानौ यतते । संसारस्य च आत्मस्वरूपापरिज्ञानकृत- त्वात् आत्मज्ञानान्निवृत्तिरिति तं प्रत्यात्मज्ञानमाचार्य उप- दिशति--- निमित्तं मनश्चक्षुरादिप्रवृत्तौ निरस्ताखिलोपाधिराकाशकल्पः । रविर्लोकचेष्टानिमित्तं यथा यः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १ ॥ ननु सर्वत्र ग्रन्थादौ शिष्टानामिष्टदेवतास्तुतिनमस्कारपू- र्विका प्रवृत्तिरुपलब्धा ; अयं च विना स्तुतिनमस्कारौ प्रवर्तमानोऽशिष्टत्वात् अनादरणीयवचनः प्रसज्येतेति चेत्--- न ; स्तुतिनमस्कारयोस्त्रैविध्यात् ; त्रिविधौ हि स्तुतिनमस्का- रौ--- कायिकौ वाचिकौ मानसिकौ चेति । तत्र कायिकवा- चिकयोरभावेऽपि परमशिष्टत्वादाचार्यस्य ग्रन्थस्य अविघ्नेन परिसमाप्तेश्च मानसिकौ स्तुतिनमस्कारावकरोदयमाचार्य इत्यवगम्यते ; यत्किंचिदेतत् । प्रकृतमनुसरामः --- मनश्च चक्षुश्च मनश्चक्षुषी, ते आदिर्येषां तानि मनश्चक्षुरादीनि ; आदिशब्दः प्रत्येकमभिसंबध्यते ; ततश्च अयमर्थो भवति--- मनआदीनां मनोऽहंकारबुद्धिचित्तानां चतुर्णामन्तःकरणा- नाम्, तथा चक्षुरादीनां चक्षुस्त्वक्श्रोत्रजिह्वाम्राणानां पञ्चबु- द्धीन्द्रियाणाम्, एवं वाक्पाणिपादपायूपस्थानां पञ्चकर्मेन्द्रि- याणाम्, प्रवृत्तौ स्वस्वव्यापारे, निमित्तं हेतुः यः, सोऽहमात्मेति संबन्धः । स कीदृश इत्याकाङ्क्षायामाह--- नित्योपलब्धि- रिति । नित्या च असावुपलब्धिश्चेति नित्योपलब्धिः, सा स्वरूपं यस्य स तथोक्तः । रविः आदित्यः यथा येन प्रकारेण प्रकाशकत्वेन लोकानां चेष्टायां स्पन्दने निमित्तं हेतु:, तथैव अधिष्ठातृत्वेन यो निमित्तं सोऽहमात्मेत्यर्थः - इति इयं दृष्टिः आत्मज्ञानोपायत्वेन दर्शिता । परमार्थतस्तु निरस्ताः निराकृताः अखिलाः निरवशेषाः उपाधयो बुद्ध्यादिलक्षणाः यस्य स तथोक्तः । निरस्ताखिलोपाधित्वादेव अयमाकाश- कल्पः आकाशवद्विशुद्ध इत्यर्थः ॥ ननु मनश्चक्षुरादिप्रवृत्तौ किमर्थमधिष्ठाता इष्यते ? स्व- यमेव कस्मान्न प्रवर्तन्ते ? कथं च नित्योपलब्धिस्वरूपत्वम् अधिष्ठातुरिष्यते ? इत्यत आह--- यमग्न्युष्णवन्नित्यबोधस्वरूपं मनश्चक्षुरादीन्यबोधात्मकानि । प्रवर्तन्त आश्रित्य निष्कम्पमेकं स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ २ ॥ यं नित्यबोधस्वरूपमात्मानम् आश्रित्य मनश्चक्षुरादीनि प्रवर्तन्ते, सोऽहमात्मेति संबन्धः । ननु कथं बोधस्य नित्य- त्वम् ? बोधो हि नाम ज्ञानम् ; तच्च इन्द्रियार्थसंनिकर्षा- दिना जायते समुत्पद्यते ; उत्पन्नं च ज्ञानं स्वकार्येण संस्कारेण विरोधिना ज्ञानान्तरेण वा विनश्यति ; अतः उत्पत्तिनाशधर्मवत्त्वात् न नित्यं भवितुमर्हति ; नापि बोधस्वरूपत्वमात्मन उपपद्यते, नित्यत्वादात्मनः, अनित्य- त्वाच्च बोधस्य ; न हि नित्यानित्ययोरेकस्वभावत्वम्, विरोधा- त् इति । अत्रोच्यते --- बोधो हि नाम चैतन्यमभिप्रेतम् ; न च ज्ञानं चैतन्यम्, जन्यज्ञानस्य ज्ञेयत्वेन घटादिवज्ज- डत्वात् । ज्ञेयं हि ज्ञानम्, घटज्ञानं मे जातं पटज्ञानं मे जातमिति साक्षादनुभूयमानत्वात् । अतः तस्य अनित्य- त्वेन अनात्मस्वरूपत्वेऽपि, नित्यबोधस्वरूपत्वम् आत्मन उपपद्यते । ननु आत्मनः चेतनत्वे किं प्रमाणमिति चेत्, जगत्प्रकाश इति ब्रूमः । जगत् प्रकाशत इति सर्वजनसिद्धम्; तत्र ज्ञानादीनां ज्ञेयत्वेन जडत्वात्, आत्मप्रकाशेनैव जगत प्रकाशत इति निश्चितं भवति । आत्मा च स्वपरप्रकाशवान् सवितृप्रकाशवत्--- यथा सविता स्वयं प्रकाशमानो जगदपि प्रकाशयति, तथा आत्मापीति । अस्तु तर्हि चिद्धर्मा पुरुषः, कथमयं चित्स्व- भाव इति; न धर्मधर्मिभावस्य अनुपपत्तेः । तथा हि--- आत्मनश्चैतन्यं भिन्नम् अभिन्नं वा भिन्नाभिन्नं वा । तत्र न तावद्भिन्नम्; भिन्नं चेत्, घटवदात्मधर्मत्वानुपपत्तेः । ननु घट: असंबन्धात् आत्मधर्मो न भवति, चैतन्यं तु आत्मसंबन्धीति युक्तमात्मधर्मत्वम् इत्यपि न संबन्धानुप- पत्तेः । संबन्धो हि तावत् संयोगो वा समवायो वा स्यात्, संबन्धान्तरस्य अत्र असंभवात् । न तावत्संयोगः, तस्य द्रव्य- मात्रधर्मत्वात्, अद्रव्यत्वाच्चैतन्यस्य । नापि समवायः, अन- वस्थापातात् । समवायो हि संबद्धः समवायिनौ संबध्नाति, असंबद्धो वा ? न तावदसंबद्ध:, घटादिवदकिंचित्करत्वात् । संबद्धश्चेत्, संयोगादेरभावेन समवायस्यापि समवायान्तर- मभ्युपगन्तव्यम् । एवं परंपरापेक्षायाम् अनवस्थापात इति यत्किंचिदेतत् । तस्माद्भिन्नत्वपक्षे धर्मधर्मिभावः सर्वथा नोपपद्यते । अभिन्नत्वपक्षे तु बोधस्य आत्मरूपत्वेन सुतरां धर्मधर्मिभावो नास्त्येव । न हि तस्य तदेव धर्मो भवति ; न हि शुक्लं शुक्लस्य धर्मो भवतीति । तस्मात् भिन्नाभिन्नत्व- पक्ष एव अवशिष्यते । स च विरोधान्न युज्यते--- न ह्येक- मेवैकस्मात् भिन्नमभिन्नं च भवितुमर्हति, विरोधात् । अथोच्यते--- प्रत्यक्षसिद्धत्वात् भेदाभेदौ अविरुद्धौ । तथाहि --- गौरियमिति पिण्डाव्यतिरेकेण गोत्वं प्रतीयते ; तदेव पिण्डान्तरे प्रत्यभिज्ञायमानत्वात् भेदेनावगम्यते; अतः प्र- त्यक्षेणैव भेदाभेदयोः प्रतीयमानत्वात् अविरोध इति--- नैत- त्साधु मन्यामहे, प्रत्यक्षस्य अन्यथासिद्धत्वात्--- भिन्नमपि हि वस्तु प्रत्यक्षेण अत्यन्तसंनिधानादिदोषात् अभिन्नवत्प्रतीयते--- यथा दीपज्वाला भिन्नापि कुतश्चित्कारणादभिन्नवत्प्रतिभा- सन्ते, तथा अभिन्नमपि वस्तु भिन्नमिव प्रतिभासते--- यथा एकस्माच्चन्द्राद्द्वितीयश्चन्द्र इति--- अतः प्रत्यक्षस्य अन्यथा- सिद्धत्वात् न तेन प्रत्यक्षेण प्रमाणसिद्धस्य भेदाभेदविरो- धस्य प्रतिक्षेपो युक्त इति । अथैवमुच्यते--- चैतन्यस्य द्वे रूपे स्तः, आत्मस्वरूपता चैतन्यस्वरूपता चेति । तत्र आत्मस्वरू- पतया आत्मनो न भिद्यते ; भिद्यते च चैतन्यस्वरूपतया । अतः उभयरूपाभ्यां भिन्नाभिन्नत्वमविरुद्धमिति--- तदपि न, धर्मधर्मित्वाभावात् । तथा हि--- येन रूपेण तदभिन्नं न तेन रूपेण धर्मत्वम् अभिन्नत्वादवोचाम । येन रूपेण भिन्नम् , तेनापि न धर्मः, भिन्नत्वाद्घटादिवदित्युक्तम् । यच्चोक्तम् उभयरूपाभ्यां भिन्नाभिन्नत्वमिति, तदपि विचारं न सहते । ते रूपे किं चैतन्याद्भिन्ने, अभिन्ने, भिन्नाभिन्ने वा । तत्र न तावद्भिन्ने, भिन्नत्वे घटादिवदकिंचित्करत्वात्; अभिन्नत्वे चैतन्यमात्रमेवेति न ताभ्यां भिन्नाभिन्नत्वम् । भिन्नाभिन्नत्वं च विरोधादेव न युक्तम् । तयोरपि रूपान्तराभ्यां भिन्ना- भिन्नत्वाभ्युपगमे अनवस्थापात इत्यलमतिविस्तरेण । तस्मा- न्नात्मा सर्वथा चिद्धर्मा; किं तर्हि ? चित्स्वरूप एवेति । एतेन सदानन्दयोरपि आत्मस्वरूपत्वं व्याख्यातम् । नित्यश्च आत्मा, सदकारणवत्त्वात् परमाणुवत् ; सन् आत्मा, अहम- स्मीति प्रतीतेः । अकारणवांश्च न हि अस्य कारणं वस्तु प्रत्यक्षादिभिरुपलभ्यते, नापि श्रूयते ; किं तु त्रैलोक्यै- ककारणता हि आत्मनः श्रूयते 'तस्माद्वा एतस्मादा- त्मन आकाशः संभूत:' इत्यादिश्रुतिभ्यः । न त्वात्मनो- ऽपि कारणान्तरम् । अतः सदकारणवस्त्वात् नित्य आत्मेति सिद्धम् । तस्मात् साधूक्तं नित्यबोधस्वरूपमिति । तत्रैव दृष्टान्तमाह--- अग्न्युष्णवदिति । यथा उष्णत्वमग्नेर्न व्य- तिरिच्यते । व्यतिरेके हि कदाचिदग्नेरन्यत्राप्युपलभ्ये- त--- यथा पुरुषाद्दण्डादि ; न चैवमस्ति ; तस्मादग्निस्व- रूपमेव अग्नेरुष्णत्वम् । एवमात्मनोऽपि चैतन्यं स्वरूपमेवे- त्यर्थः। तथा च उक्तम्– 'निरंशत्वाद्विभुत्वाच्च तथानश्वरभा- वत: । ब्रह्मव्योम्नोर्न भेदोऽस्ति चैतन्यं ब्रह्मणोऽधिकम्' इति । यच्चोक्तं मनश्चक्षुरादीनां प्रवृत्तौ किमर्थमधिष्ठाता इष्यते, स्वयमेव कस्मान्न प्रवर्तन्ते इति, तत्राह--- अबोधा- हस्तामलकीयभाष्यम् । " त्मकानीति । हेतुगर्भमिदं विशेषणम् अतश्च अयमर्थः सेत्स्यति - अबोधात्मकत्वात् अचेतनत्वाच्च घटादिवच्चेतनमधि- ष्ठातारमाश्रित्यैव प्रवर्तन्त इति । तदचेतनत्वं चैषां तज्ज्ञे- यत्वात् घटादिवदिति । श्रुतिरपि ' नान्योऽतोऽस्ति द्रष्टा इत्यादिना आत्मव्यतिरिक्तस्य चेतनत्वं प्रतिषेधति । अतो युक्तमुक्तं चेतनमात्मानमाश्रित्य प्रवर्तन्त इति । निष्कम्पं निस्तरङ्गं निःसंशयमित्यर्थः । तथा च श्रुतिः ' भिद्यते हृदयग्रन्थिरिच्छद्यन्ते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे' इति । एकम् अद्वितीयं देवतिर्यमनुष्या- दिशरीरेषु एकम न तु सांख्यादिपरिकल्पितवत् नाना- भूतमित्यर्थः ॥ ' ननु आत्मन एकत्वे सुखदुःखादिव्यवस्था न स्यात् । तथा हि- सर्वशरीरेषु यदि एक आत्मा भवेत् तदा एक- स्मिन् सुखिनि सर्व एव सुखिन: प्रसज्येरन्, सर्वस्य अवि- शेषात् एवमेकस्मिन् दुःखिनि सर्व सर्व एव दुःखिनो भवेयुः ; एवमेकस्मिञ्जानति सर्व एव जानीयुः ; तथैव एकस्मिञ्जायमाने त्रियमाणे वा सर्व एव जायेरन् म्रिये - रन; एवमेकस्मिन्बद्धे मुक्ते वा सर्व एव बद्धथेरन मुच्येरन् इति । न चैवमस्ति । तस्मादेकत्वमात्मनो न भवितुमर्हति हस्तामलकीयभाष्यम् । इत्यत आह- मुखाभासको दर्पणे दृश्यमानो मुखत्वात्पृथक्त्वेन नैवास्ति वस्तु । चिदाभासको धीषु जीवोऽपि तद्व- त्स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ३ ॥ परस्परं च ते मुखाभासका मुखाभामकः मुखप्रतिबिम्ब: दर्पणादौ नानाकारेषु दर्प- णेषु इति यावत् दृश्यमान: मुखत्वान परमार्थत: मुखस्व- रूपत्वात् पृथक्त्वेन भेदेन न विद्यते । यद्यपि मुखाभासको नाम वस्तु नात्येव, तथापि उपाधिभेदात् परमार्थसतो मुखात् भिन्नाः प्रतीयन्ते । तथा च उपाधिगतमलिनत्वादिधर्मैः मलिनत्वादिधर्मकाः प्रती- यन्ते । तद्वत् मुखाभासकवत् चिदाभासकः आत्मनः प्रति- बिम्बो धीषु बुद्धिषु दृश्यमानो जीव इत्युच्यते यः, सो- ऽहमात्मा जीवास्ते उपाधिभेदात् भिन्नाः प्रतिभासन्ते । उपाधिगतसुखदुःखादिभिश्च सुखदुःखादिमन्तश्च प्रतिभा- सन्ते । उपाधयश्च व्यवस्थितरूपा एवेति सुखदुःखादीनामै - कात्म्यपक्षे व्यवस्था युक्तैवेति नायमात्मभेद: शक्यो व्य- वस्थापयितुम् । श्रुतिश्चैकात्म्यमेव प्रतिपादयति — ' एक- हस्तामलकीयभाष्यम् । मेवाद्वितीयं ब्रह्म' इति । आत्मभेदपक्षे तु इयं सुखदु:खा- दिव्यवस्था नोपपद्यते । तथा हि- प्रतिशरीरम् आत्मानो भिन्नाः ते च सर्वे प्रत्येकं सर्वगता इति आत्मभेदवादिनो मन्यन्ते । तत्र सर्वेषां सर्वगतत्वात् सर्वसंनिधौ सुखादिक- मुत्पद्यमानं विशेषहेतोरभावात् कथमेकस्यैव तत् सुखादि- कम्, न सर्वेषाम् इत्यवधारयितुं शक्यते । अथ यत्संब- न्धिना कार्यकरणसंघातेन सुखादिकं जन्यते, तस्यैव तदि- त्यभिधीयते इति; तन्न, कायकरणसंघातस्यापि सर्वात्मसं- निधावुत्पद्यमानस्य विशेषहेतोरभावादेव कथमेकात्म संब- न्धित्वमिति । अथ यत्कर्मवशात्कार्यकरणसंघातस्योत्प- त्तिः, तस्यैव असौ कार्यकरणसंघात इति विशेषहेतुरिति चेत्; न, कर्मणोऽपि सर्वात्मसंनिधावुत्पद्यमानस्य सर्वा- त्मसंबन्धित्वेन तज्जनितकार्यकरणसंघातस्यापि सर्वात्मसं बन्धित्वात् तज्जनितस्य सुखदु:खादेरपि सर्वात्मसंबन्धित्व- मिति सुखादिकस्य नानात्मपक्ष एव न व्यवस्थितिः । पूर्व- पूर्वकार्य करणसंघातस्य कर्मापेक्षायां च अनवस्थादोषः । अ- नादित्वेन अनवस्थादोषपरिहारश्च अन्धपरम्परेति । श्रुतिरपि नानात्मपक्षं प्रतिषेधति - 'नेह नानास्ति किंचन' इति । अत: साधूक्तम् एकमिति ॥ हस्तामलकीयभाष्यम् । नन्वेवं सति आत्मनः सुखदुःखादिसंबन्धाभावात् बन्धो नास्ति ; बन्धाभावाच्च मोक्षाभाव:; बद्धो हि मुच्यते नाबद्ध इति तथा चिदाभासस्यापि बन्धमोक्षौ न विद्येते, अवस्तुत्वात् तस्य बुद्धेरपि विनाशित्वात् बन्धमोक्षयोरभाव:; ततश्च मोक्षशास्त्रमनर्थकमापन्नम् इत्यत आह- -- यथा दर्पणाभाव आभासहानौ मुखं विद्यते कल्पनाहीनमेकम् । तथा धीवियोगे निराभासको यः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ४ ॥ यथा दर्पणाभावे सति आभासस्य मुखप्रतिबिम्बस्य हानौ सत्यां मुखं परमार्थसत् कल्पनाहीनं मिथ्याज्ञानर- हितम एकमेव परं नापरं विद्यते, तथा तेनैव प्रकारेण धी- वियोगे बुद्धेरभावे निराभासको अप्रतिबिम्ब: परमार्थत: सन् एक एव यः, सोऽहमात्मेति योजना । अयमभिप्रायः आत्माज्ञानकृतोऽयं बुद्धयादिप्रपभ्वः । तत्र बुद्ध्यादौ प्रति- बिम्बरूपेण आत्मानमध्यस्य तद्गतसुखदुःखादिकम् आत्म- न्यध्यस्यति । सोऽयमध्यासो बन्धः । आत्मज्ञानेन अज्ञान- हस्तामलकीयभाष्यम् । निवृत्त्या बुद्ध्यादिप्रपञ्चनिवृत्तौ अध्यासनिवृत्तिर्मोक्षः पुनः पारमार्थिक बन्धमोक्षौ अस्य विद्येते इति सर्व . समिति ॥ केचित् बुद्धयादीनामात्मत्वं मन्यन्ते; तान्प्रत्याह- मनश्चक्षुरादेर्वियुक्तः स्वयं यो मनश्चक्षुरादेर्मनश्चक्षुरादिः मनश्चक्षुरादेरगम्यस्वरूपः 1 स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ५ ॥ मनश्चक्षुरादेः मनआदेः चक्षुरादेश्व वियुक्तः पृथग्भूतः सोऽहमात्मेति संबन्ध । मनश्चक्षुराद्युपादानेन तद्न्तर्गतत्व शरीरमपि उपात्तं द्रष्टव्यम् । एतेन शरीरादपि वियुक्त इ लक्ष्यते । तथा च गुरुः- 'बुद्धीन्द्रियशरीरेभ्यो भिन्न आ विभुर्भुव: । नानारूप: प्रतिक्षेत्रमात्मा वृत्तिषु भासते ' इति कथं मनश्चक्षुरादिकस्य प्रकाशकस्य उपरि अयमात्मा प्रका कः, मनआदेः चक्षुरादेः कथं वियुक्तः इत्यत आह — स्व मिति । स्वयं य आत्मा मनश्चक्षुरादेः मनश्चक्षुरादिः मनश्चक्षु. दिकस्य प्रकाशकस्य मनश्चक्षुरादि: प्रकाशक:, प्रकाशकत्व णयोगात् ; अयमर्थः — यथा बाह्यस्य घटादेः प्रकाशको मनः हस्तामलकीयभाष्यम् । , क्षुरादिः ततो व्यतिरिच्यते, तथा आन्तरस्यापि मनश्चक्षु- रादेः प्रकाशकः आत्मा ततो व्यतिरिच्यत इति निश्चीयते । अत एव मनश्चक्षुरादीनाम् अनात्मत्वमिति सिद्धं ज्ञेयाद- न्यो ज्ञाता भवति । ननु आत्मनोऽपि ज्ञेयत्वात् अनात्म- त्वं प्रसज्यते इत्यत आह- मनश्चक्षुरादेरगम्यस्वरूपः प्रका- शस्वभावः । तथा च श्रुति:- 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ' इति ॥ ननु यद्यात्मा मनश्चक्षुरादेरगम्यः, कथं तर्हि अस्य सिद्धि: ? घटपटादयो हि मनश्चक्षुराद्यधीनसिद्धयो दृष्टाः । ततः आत्मनोऽपि तदधीनसिद्धिर्युक्ता । यदा तस्य तदधीना सिद्धिर्न भवति, तदा अस्य सिद्धिरेव न स्यात् शशविषाण- वत् इत्यत आह-- य एको विभाति स्वतः शुद्धचेताः प्रकाशस्वरूपोऽपि नानेव धीषु । शरावोदकस्थो यथा भानुरेकः स. नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ६ ॥ य इति स्वतः सिद्धतामाह । एक: अद्वितीयः विभाति विशेषेण प्रकाशते स्वतः स्वयमेव न परतः शुद्धं निर्मलं S. P. III. 12 हस्तामलकीयभाष्यम् । चितो मनो यस्य सः स्वतः शुद्धचेताः शुद्धचित्तस्य हि आत्मा स्वयमेव स्फुरतीत्यर्थः । अत एव सत्त्वशुद्धयर्थं वेदे - ऽपि वेदानुवचनादयो विहिताः - 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन' इति । घटपटादयश्च जडत्वात् प्रकाशान्तरापेक्षत्वाच्च न प्रकाशन्त इति युक्तम् । आत्मा तु प्रकाशस्वरूपत्वात् प्रकाशान्तरा- नपेक्षः प्रकाशते सवितृवन - यथा सविता स्वप्र- काशः प्रकाशान्तरं नापेक्षते अथ च प्रकाशते, तद्वदात्मा- पीति भावः । एवमुत्पन्नात्मज्ञानो अद्वयो जीवन्मुक्तः स्वयं प्रकाशरूपोऽपि परमार्थतो नानाविधासु धीषु उपाधिषु नानेव भाति य:, सोऽहमात्मेति संबन्ध: । शरावोदकेषु उपाधिषु अवस्थितो भानु: आदित्यः प्रकाशस्वरूपोऽपि एक एव सन् नानेव भाति, तद्वदात्मापीति भावः । ननु कथं जीवन्मुक्त: ? देवांस्तावत् जीवन्नित्युच्यते; तस्य जीवतोऽपि यदि देहाभावो मुक्तिरभिप्रेयते, नासावुपपद्यते, विरोधात् । न हि जीवतो देहाभावः संभवति । अथ सत्यपि देहे भो - गविच्छेदो मुक्तिरिति, तदपि न चतुरश्रम् । सकलभोग- कारणेन्द्रियसंपत्तौ भोगविच्छेदस्य असंभावितत्वात् । मि- ध्याज्ञाननिबन्धनो हि भोग: ; तस्य च संयग्ज्ञानेन निवृ- हस्तामलकीयभाष्यम् । तत्वात् भोगविच्छेद इति चेत्; न बाधितस्यापि मिथ्या- ज्ञानम्य द्विचन्द्रादिज्ञानवन् अनुवृत्त्यभ्युपगमात् । अन्य- था देहवानेव न स्यात् । अत एव विदुषां जनकादीनां राज्यादिकं श्रूयते । श्रुतिरपि देहवतो भोगविच्छेदं प्रति - षेधति - ' न ह वै सशरीरस्य सतः प्रियाप्रिययोरपह- तिरस्ति' इति । तस्मादयुक्ता जीवन्मुक्तिरिति । अत्रोच्यते— जीवतस्तावत् तत्वज्ञानमुत्पद्यते न तु मृतस्य ; शमदमादे: श्रवणमननादेश्व ज्ञानहेतोः मृतस्यासंभवात् । अत एव हि वि- दुषां याज्ञवल्क्यादीनां संन्यासः श्रूयते । न च मृतस्य संन्या- सः श्रूयते संभवति वा । तस्मात् जीवतस्तत्त्वज्ञानमुत्पद्यत इति सिद्धम् । आत्मज्ञानादेव मुक्तिरिति सिद्धा जीवन्मुक्तिः 6 स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति' ' ब्रह्मविदानो- ति परम्' इत्यादिश्रुतिभ्यः । ननु ज्ञानस्य मोक्षफलकत्वे श्रुतिषु सहकार्यन्तरं प्रतीयते इति चेत्, न, ज्ञानमात्रस्य श्रवणात् - 'भिद्यते हृदयग्रन्थिः ' इति ; ' नान्यः पन्था विद्यतेऽयनाय ' इति सहकार्यन्तरप्रतिषेधाच्च । ननु श्रुति- रेव मरणसहकारिणो ज्ञानान्मोक्षं दर्शयति ' तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये ' इति ; न, पूर्वोत्पन्नस्य ज्ञानस्य चिरप्रवृत्तत्वात् मरणकाले तम्य संनिधापयितुम- " हस्तामलकीयभाष्यम् । शक्तेः । तत्कालमेवोत्पन्नात् ज्ञानान्तरान्मुक्तिरिति चेत्, न, 'यदेव भगवान्वेद तदेव मे ब्रूहि' इति ' आचार्यवान्पुरुषो वेद' इत्यादिश्रुतिपर्यालोचनया प्रथमज्ञानादेव मुक्तेः श्रूय- माणत्वात् । एतेन वचनान्तरमनुगृहीतं भवति — जीवन्नेव हि विद्वान हर्षामर्षाभ्यां विमुच्यते इति । न च 6 न ह वै सशरीरस्य सतः प्रियाप्रिययोर पहतिरस्ति' इति श्रुत्यन्तर- विरोधो वाच्यः श्रुत्यन्तरस्य सामान्यविषयत्वात्, अत्र 'विद्वान' इति विशेष निर्देशात् । ' तस्य तावदेव चिरम् ' इति श्रुतिस्त्यक्ता स्यादिति चेत् न, व्यवस्थया उप- पत्तेः । तथा हि- मुक्तिः खलु स्वाभाविकी सर्वेषाम्, न सा ज्ञानेन जन्यते । किं तर्हि ? अविद्यातिमिरतिरोहि- ताया मुक्तेः तिमिरमात्रं निराक्रियते । तच्च प्रथमज्ञानेनैव निराकृतम् । तथापि अविद्याकार्यस्य देहस्य अविनाशात् पुनःपुनः महान्धकारवदुत्सारितमपि तिरस्करोति । तस्य तिरस्कारप्रतिभासस्य देहविच्छेदाद्विच्छेदो भवति । एवं च सति प्राचीनमेव महान्धकारोत्सारणं ज्ञानमात्रनिबन्धनम- वतिष्ठते यथा सूर्योदयेन महातिमिरोत्सारणे कृतेऽपि छत्रा- दिकृतस्य तिमिराभासस्य छत्रादिविगमे विगमः । ततश्व प्राचीनमेव महातिमिरोत्सारणं सूर्योदयमात्रनिबन्धनमव- हस्तामलकीयभाष्यम् । तिष्ठत इति । तस्मान् न ज्ञानान्तरान्मुक्तिः । अपि तु पूर्वोत्पन्नज्ञानादेव मुक्तिरिति सिद्धम् । ननु यदि पारमार्थि- कम् अद्वैतं मिथ्याज्ञानविजृम्भितश्च प्रपञ्च इति श्रुत्य- र्थो अवधारितः, तत्कथं मत्यपि बाधके प्रपञ्चानुवृत्ति: ; न हि सत्येव शुक्तिकाज्ञाने रजतादिप्रपचो अनुवर्तते ; उच्यते-- 'नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्ति ' 'नेह नानास्ति किंचन' इत्यादिवाक्यसहितात तत्त्वमस्यादि- वाक्यात् प्रपञ्चविलयद्वारेण असंदिग्धमबाधितं च अद्वैतज्ञानं तावदुत्पद्यते । न च तत् प्रपञ्चप्रत्ययेन बाध्यत इति युक्तम्, तत्प्रविलयेनैव उत्पत्तेः । यत्पुनरुक्तं कथं प्रपञ्चप्र- त्ययानुवृत्तिरिति, अत्रोच्यते — द्विविधं हि बाधकं भवति- यथा सत्येव मिध्याज्ञानहेतुभूते पित्तादौ जाग्रत्येव पीतः शङ्खः इति ज्ञाने निमित्तान्तरात् नायं पीत इति मिथ्या- ज्ञानकारणापगमे, वा यथा मन्दालोकप्रभवस्य शुक्तिकार - जतज्ञानस्य महत्यालोके नेदं रजतमिति ज्ञानम्, तद्वदिहापि पीतः शङ्ख इति ज्ञानबाधकवत् सत्येव मिध्याज्ञाने हेतुभूते शरीरे प्रपञ्चप्रत्ययस्य बाधकमद्वैतज्ञानमुत्पद्यते । अत एव स्वकारणाद्वाधितमपि प्रपञ्चज्ञानं पीतशङ्खज्ञानवत् पुनः पुनः जायत इति । ननु देहस्यापि प्रपश्वान्तर्गतत्वात् उच्छित्तिरेव हस्तामलकीय भाष्यम् । 6 प्रसज्यते इति चेत् न, प्रारब्धकर्मवशात अनुवृत्तेः । कर्म- णश्च कुलालचक्रभ्रमणवत्संस्कारादनुवृत्तिरिति सिद्धा जीव - मुक्तिरिति । कर्मसंस्कारक्षयश्च देहपाते सति सर्वस्यैव प्रप- प्रत्ययस्यापि प्रविलयः । कर्मान्तराणां च ज्ञानेन क्षपि- तत्वात् देहान्तरानुत्पत्तिरिति परममुक्ति: । एवं च सति ज्ञानमात्रान्मुक्तिरिति प्रतिपादनादेव कर्मणो मुक्तिहेतुत्वम- पास्तं वेदितव्यम् । तथा हि-न तावत्केवलात्कर्मणो मुक्ति- श्रवणम् । नापि तत एव ज्ञानसहितात्, अश्रुतेरेव । ननु ' तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च' इति विद्याकर्मणोः सहभाव: श्रूयते ; सत्यम्, संसारविषयं तच्छ्रवणं न मुक्ति- विषयम् इति । ' यावज्जीवमग्निहोत्रं जुहोति' इत्यादि- चोदनाप्राप्तानां नित्यनैमित्तिककर्मणां ज्ञानस्य च अर्थात्स - मुच्चय इति चेत्; न, विनियोजक प्रमाणाभावात् । ' तमेतं विनियोजकप्रमाणाभावात् । वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा - नाशकेन' इत्यत्र तृतीयाश्रुतिः विनियोजिका इति चेत्; न विविदिषासंबन्धात् कर्मणां ज्ञानार्थत्वप्रतीते: मोक्षा- र्थत्वं नावगम्यते इति । किं च, न हि ज्ञानम् अज्ञान- निवृत्तौ उपकारकमपेक्षते, उत्पन्नादेव तस्मात् अज्ञाननिवृ- त्तेरवश्यंभावात् । तथा च श्रुतिः- ' तमेव विदित्वाति- - हस्तामलकीयभाष्यम् । मृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इति । अपि च यदि कर्मफलं मोक्षो भवेत्, तदा अनित्यत्वं प्रसज्यते घटादि - वत्स्वर्गादिवच्चेति । अमुमेवार्थे श्रुतिरप्याह - तद्यथेह कर्म- चितो लोकः श्रीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते ' इति । 'अग्निहोत्रादि तु तत्कार्यायैव' इति सूत्रकारेण परम्परया कर्मणां मुक्तिहेतुत्वमभिहितं प्रयाजादिवत् । अतः ज्ञानार्थत्वेन कर्मणामुपयोगोऽस्त्येव । ज्ञानोत्पत्तेस्तु परं कर्म - णामुपयोगाभावेऽपि लोकसंग्रहार्थमनुष्ठानं कर्तव्यमेवेति सर्वे समञ्जसम् ॥ ननु कथम् एक एव आत्मा युगपत् अनेकां बुद्धिम् अधितिष्ठति ? न ह्येक एव अश्वसादी युगपदने कानश्वान- धितिष्ठन्नुपलभ्यते । क्रमेण त्वधिष्ठानं युक्तम् । तच्चेह नास्ति ; युगपदेव सर्वबुद्धीनां स्वव्यापारे प्रवृत्तिदर्शनात् । अनधि- ष्ठितानां च प्रवृत्त्यसंभवाच्च । अतः नैक आत्मा इत्यत आह- यथानेकचक्षुःप्रकाशो रविर्न क्रमेण प्रकाशीकरोति प्रकाश्यम् । अनेक धियो यस्तथैकप्रबोधः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ७ ॥ हस्तामलकीय भाष्यम् । यथा येन प्रकाशकत्वप्रकारेण रविः आदित्यः एक एव अनेकेषां चक्षुषां प्रकाशको युगपदेव अनेकानि चक्षूंषि अ- धितिष्ठति न च क्रमेण एकैकस्मै चक्षुषे प्रकाश्यं प्रकाशी- करोति, तथा तेनैव प्रकारेण एकश्वासौ प्रबोधच एकप्रबो- धः सः अधिष्ठाता अनेका धियो बुद्धीः युगपदधितिष्ठति न क्रमेणैकस्यै धियै प्रकाश्यं प्रकाशीकरोति यः सोऽहमा- मेति संबन्धः ॥ नन्वस्तु तर्हि रविरेव बुद्धीनां प्रेरक : अधिष्ठाता, किमा- त्माभ्युपगमेन ? तथा च श्रुतिः - ' धियो यो नः प्रचो - दयात्' इति, अत आह— विवस्वत्प्रभातं यथारूपमक्षं प्रगृह्णाति नाभातमेवं विवस्त्रान् । यदाभात आभासयत्यक्षमेकः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ८ ॥ विस्वता सूर्येण प्रभातं प्रकाशितं रूपं यथा येन प्रकारेण अक्षं चक्षुः प्रगृह्णाति प्रकर्षेण जानाति, नाभातं न अप्रकाशि- तम्, अन्धकारे घटाद्यनुपलम्भात् एवं विवस्वानपि एक : तथा तेनैव प्रकारेण यदाभातः येनाधितिष्ठितः सन् आभास - हस्तामलकीयभाष्यम् । यति अधितिष्ठति अक्षं यथा विवस्वान् अधिष्ठाता, तथा विव- स्वतोऽप्यधिष्ठाता यः, सोऽहमात्मेति संबन्धः । स चाहंबुद्धी- नामधिष्ठाता ; श्रुत्या तु चक्षुरधिष्ठातृत्वमभिप्रेत्य विवस्वतो बुद्धिप्रेरकत्वमभिहितम् । यस्माद्विवस्वदधिष्ठितं चक्षुः बुद्धि- वृद्धिमुत्पादयति ; अधिष्ठातुरात्मनो वा स्वरूपमभिप्रेत्योक्त: ; तथा च ' सूर्य आत्मा जगतस्तस्थुषश्च' इति । नन्वपि तर्हि प्रकाशान्तरेणैव अधिष्ठातव्यम्, न तस्य स्वप्रकाश- त्वात् । ' नान्यदतोऽस्ति द्रष्टा' इति च श्रुत्या तदितरप्रति- बेधाच ॥ किंच- - यथा सूर्य एकोsस्वनेकच लासु स्थिरास्वप्यनन्वग्विभाव्यस्वरूपः । चलासु प्रभिन्नासु धीष्वेवमेकः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ९ ॥ यथा येन प्रकारेण आदित्यः एकः अप्सु वारिषु चलासु स्थिरासु च अनेकोऽपि नानापि एकः सन् प्रतिभासते अनन्वग्विभाव्यस्वरूपः अनु पश्चात् अञ्चति गच्छतीति अन्वक् न अन्वक् अनन्वक् अननुगत इति यावत् । हस्तामलकीयभाष्यम् । यद्वा अनन्वक्त्वेन विभाव्यं स्वरूपं यस्य स तथोक्तः । एवं बहुव्रीहिसमासं कृत्वा पश्चात् नञ्समासः । ततश्चायम- र्थो भवति — न वारिषु रविरनुगतो भवति । किं तर्हि तथैव नभसि देदीप्यमानो भ्रान्त्या वारिषु दृश्यत इत्यर्थ: । एवं एक आत्मा चलासु प्रभिन्नासु नानाभूतासु धीषु बुद्धिषु अनेकः सन् अनन्वग्विभाव्यस्वरूपो न बुद्धीरनुगतो भवति । किं तर्हि, पृथगेव देदीप्यते यः सोऽहमात्मेत्यर्थः ॥ किं च- घनच्छन्नदृष्टिर्घनच्छन्नमर्क यथा निष्प्रभं मन्यते चातिमूढः । तथा बद्धवद्भाति यो मूढदृष्टेः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १० ॥ घनेन मेघेन छन्ना तिरोहिता दृष्टि: दर्शनं यस्य सः घनच्छन्नदृष्टि : ट: पुरुष: घनच्छन्नम् अर्कम् आदित्यं यथा येन घनच्छन्नत्वप्रकारेण मन्यते जानाति निष्प्रभं प्रभारहितम् अप्रकाशस्वभावमिति यावत् । मूढो मन्यते घनच्छन्नदृष्टि- त्वात् प्रकाशस्वभावमपि रविम् अप्रकाशम् पश्यतीत्याह- अतिमूढ इति । अतिमूर्खत्वात् स्वात्मनो दृष्टिविघात- हस्तामलकीयभाष्यम् । मगणयन् सूर्यमेव अप्रकाशं मन्यते । पादपूरणे चकारः । तथा तेन प्रकारेण अविद्याच्छन्नदृष्टि : बुद्धिमात्मत्वेन गृही- त्वा तद्गतदुःखादिकम् आत्मन्यध्यारोप्य बद्ध इव आभा- ति यः मूढदृष्टेः सोऽहमात्मेति संबन्धः ॥ किं च- समस्तेषु वस्तुष्वनुस्यूतमेकं समस्तानि वस्तूनि यं न स्पृशन्ति । वियद्वत्सदा शुद्धमच्छस्वरूपः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ११ ॥ समस्तेषु निरवशेषेषु प्रपञ्चात्मकेषु सदात्मना अनुस्यू- तम् अनुगतं सर्वतो व्याप्तम् एकं हि नाना समस्तानि व- स्तूनि प्रपञ्चात्मकानि यं सद्रूपं न स्पृशन्ति । कुत: ? विय द्वत् आकाशमिव सदा सर्वदा शुद्धं निर्मलं रागादिदोषरहि- तम् अच्छस्वरूपम् अमृतरूपं यत् परं ब्रह्म सोऽहमात्मेति संबन्धः ॥ व्युत्पादितमर्थमुपसंहरति- उपाधौ यथा भेदता सन्मणीनां तथा भेदता बुद्धिभेदेषु तेऽपि । १८६ हस्तामलकीयभाष्यम् । यथा चन्द्रिकाणां जले चञ्चलत्वं तथा चञ्चलत्वं तवापीह विष्णो ॥ १२ ॥ उपाधौ सति उपाधिभेदसंबन्धे सति यथा भेदता भेद एव भेदता, स्वार्थे तल, सन्मणीनां विशुद्धमणीनां स्फटिकादीनां लोहितकृष्णादिभेदेन भेदता भेदः । तथा बुद्धिभेदेषु नानाबुद्धिषु ते तवापि नानात्वं हे विष्णो पर- मार्थतस्तु तव भेदो नास्त्येव बुद्धयुपाधिकृतस्तु विद्यत इत्यर्थः । यथा चन्द्रिकाणां चन्द्रा एव चन्द्रिकाः, स्वार्थे कप्रत्ययः, निर्मलितानां जले प्रतिबिम्बितस्वरूपेण दृश्य- मानानां जलस्य चञ्चलत्वात् चभ्वलत्वम् औपाधिकं न पारमार्थिकम्, तथा बुद्धीनां चञ्चलत्वात् तवापि चञ्चल- त्वमौपाधिकं न पारमार्थिकमित्यर्थः । इह बुद्धिषु हे विष्णो व्यापनशील ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ हस्तामलकीयभाष्यं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ पञ्चीकरणम् ॥ अथातः परमहंसानां समाधिविधिं व्याख्यास्यामः ॥ सच्छब्दवाच्यमविद्याशबलं ब्रह्म । ब्रह्मणोऽव्यक्तम् । अ- व्यक्तान्महत् । महतोऽहंकारः । अहंकारात्पञ्चतन्मात्राणि । पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि । पञ्चमहाभूतेभ्योऽखिलं जगत् ॥ पञ्चानां भूतानामेकैकं द्विधा विभज्य स्वार्धभागं विहा- यार्धभागं चतुर्धा विभज्येतरेषु योजिते पञ्चीकरणं माया- रूपदर्शनमध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते ॥ ओं पञ्चीकृतपञ्चमहाभूतानि तत्कार्यं सर्वं विराडित्यु- च्यते । एतत्स्थूलशरीरमात्मनः । इन्द्रियैरर्थोपलब्धिर्जागरि- तम् । एतदुभयाभिमान्यात्मा विश्वः । एतत्रयमकारः ॥ अपञ्चीकृतपञ्चमहाभूतानि पञ्चतन्मात्राणि, तत्कार्यं च पञ्चप्राणाः दशेन्द्रियाणि मनो बुद्धिश्चेति सप्तदशकं लिङ्गं भौतिकं हिरण्यगर्भ इत्युच्यते । एतत्सूक्ष्मशरीरमात्मनः । करणेषूपसंहृतेषु जागरितसंस्कारजः प्रत्ययः सविषयः स्वप्न इत्युच्यते । तदुभयाभिमान्यात्मा तैजसः । एतत्रयमुकारः ॥ शरीरद्वयकारणमात्माज्ञानं साभासमव्याकृतमित्युच्यते । एतत्कारणशरीरमात्मनः । तच्च न सत् , नासत् । नापि सदसत् । न भिन्नम् , नाभिन्नम् , नापि भिन्नाभिन्नं कुत- श्चित् । न निरवयवम् , न सावयवम् , नोभयम् । किं तु केवलब्रह्मैकत्वज्ञानापनोद्यम् । सर्वप्रकारज्ञानोपसंहारे बुद्धेः कारणात्मनावस्थानं सुषुप्तिः । तदुभयाभिमान्यात्मा प्राज्ञः । एतत्रयं मकारः ॥ अकार उकारे, उकारो मकारे, मकार ओंकारेऽहम्येव ॥ अहमात्मा साक्षी केवलश्चिन्मात्रस्वरूपः, नाज्ञानम् , नापि तत्कार्यम् । किं तु नित्यशुद्धबुद्धमुक्तसत्यस्वभावं पर- मानन्दाद्वयं प्रत्यग्भूतचैतन्यं ब्रह्मैवाहमस्मीत्यभेदेनावस्थानं समाधिः । 'तत्त्वमसि' 'ब्रह्माहमस्मि' 'प्रज्ञानमानन्दं ब्रह्म' 'अयमात्मा ब्रह्म' इत्यादिश्रुतिभ्यः ॥ इति पञ्ची- करणं भवति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ पथ्चीकरणं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ तत्त्वोपदेशः ॥ तत्त्वंपदार्थशुद्ध्यर्थं गुरुः शिष्यं वचोऽब्रवीत् । वाक्ये तत्त्वमसीत्यत्र त्वंपदार्थं विवेचय ॥ १ ॥ न त्वं देहोऽसि दृश्यत्वादुपजात्यादिमत्त्वतः । भौतिकत्वादशुद्धत्वादनित्यत्वात्तथैव च ॥ २ ॥ अदृश्यो रूपहीनस्त्वं जातिहीनोऽप्यभौतिकः । शुद्धनित्योऽसि दृग्रूपो घटो यद्वन्न दृग्भवेत् ॥ ३ ॥ न भवानिन्द्रियाण्येषां करणत्वेन या श्रुतिः । प्रेरकस्त्वं पृथक्तेभ्यो न कर्ता करणं भवेत् ॥ ४ ॥ नानैतान्येकरूपस्त्वं भिन्नस्तेभ्यः कुतः शृणु । न चैकेन्द्रियरूपस्त्वं सर्वत्राहंप्रतीतितः ॥ ५ ॥ न तेषां समुदायोऽसि तेषामन्यतमस्य च । विनाशेऽप्यात्मधीस्तावदस्ति स्यान्नैवमन्यथा ॥ ६ ॥ प्रत्येकमपि तान्यात्मा नैव तत्र नयं शृणु । नानास्वामिकदेहोऽयं नश्येद्भिन्नमताश्रयः ॥ ७ ॥ नानात्माभिमतं नैव विरुद्धविषयत्वतः । स्वाम्यैक्ये तु व्यवस्था स्यादेकपार्थिवदेशवत् ॥ ८ ॥ न मनस्त्वं न वा प्राणो जडत्वादेव चैतयोः । गतमन्यत्र मे चित्तमित्यन्यत्वानुभूतितः ॥ ९ ॥ क्षुत्तृड्भ्यां पीडितः प्राणो ममायं चेति भेदतः । तयोर्द्रष्टा पृथक्ताभ्यां घटद्रष्टा घटाद्यथा ॥ १० ॥ सुप्तौ लीनास्ति या बोधे सर्वं व्याप्नोति देहकम् । चिच्छायया च संबद्धा न सा बुद्धिर्भवान्द्विज ॥ ११ ॥ नानारूपवती बोधे सुप्तौ लीनातिचञ्चला । यतो दृगेकरूपस्त्वं पृथक्तस्य प्रकाशकः ॥ १२ ॥ सुप्तौ देहाद्यभावेऽपि साक्षी तेषां भवान्यतः । स्वानुभूतिस्वरूपत्वान्नान्यस्तम्यास्ति भासकः ॥ १३ ॥ प्रमाणं बोधयन्तं तं बोधं मानेन ये जनाः । बुभुत्स्यन्ते त एधोभिर्दग्धुं वाञ्छन्ति पावकम् ॥ १४ ॥ विश्वमात्मानुभवति तेनासौ नानुभूयते । विश्व प्रकाशयत्यात्मा तेनासौ न प्रकाश्यते ॥ १५ ॥ ईदृशं तादृशं नैतन्न परोक्षं सदेव यत् । तद्ब्रह्म त्वं न देहादिदृश्यरूपोऽसि सर्वदृक् ॥ १६ ॥ इदंत्वेनैव यद्भाति सर्वं तच्च निषिध्यते । अवाच्यतत्त्वमनिदं न वेद्यं स्वप्रकाशतः ॥ १७ ॥ सत्यं ज्ञानमनन्तं च ब्रह्मलक्षणमुच्यते । सत्यत्वाज्ज्ञानरूपत्वादनन्तत्वात्त्वमेव हि ॥ १८ ॥ सति देहाद्युपाधौ स्याज्जीवस्तस्य नियामकः । ईश्वरः शक्त्युपाधित्वाद्द्वयोर्बाधे स्वयंप्रभः ॥ १९ ॥ अपेक्ष्यतेऽखिलैर्मानैर्न यन्मानमपेक्षते । वेदवाक्यं प्रमाणं तद्ब्रह्मात्मावगतौ मतम् ॥ २० ॥ अतो हि तत्त्वमस्यादिवेदवाक्यं प्रमाणतः । ब्रह्मणोऽस्ति यया युक्त्या सास्माभिः संप्रकीर्त्यते ॥ २१ ॥ शोधिते त्वंपदार्थे हि तत्त्वमस्यादि चिन्तितम् । संभवेन्नान्यथा तम्माच्छोधनं कृतमादितः ॥ २२ ॥ देहेन्द्रियादिधर्मान्यः स्वात्मन्यारोपयन्मृषा । कर्तृत्वाद्यभिमानी च वाच्यार्थस्त्वंपदस्य सः ॥ २३ ॥ देहेन्द्रियादिसाक्षी यस्तेभ्यो भाति विलक्षणः । स्वयं बोधस्वरूपत्वाल्लक्ष्यार्थस्त्वंपदस्य सः ॥ २४ ॥ वेदान्तवाक्यसंवेद्यविश्वातीताक्षराद्वयम् । विशुद्धं यत्स्वसंवेद्यं लक्ष्यार्थस्तत्पदस्य सः ॥ २५ ॥ सामानाधिकरण्यं हि पदयोस्तत्व मोर्द्वयोः । संबन्धस्तेन वेदान्तैर्ब्रह्मैक्यं प्रतिपाद्यते ॥ २६ ॥ भिन्नप्रवृत्तिहेतुत्वे पदयोरेकवस्तुनि । वृत्तित्वं यत्तथैवैक्यं विभक्त्यन्तकयोस्तयोः ॥ २७ ॥ सामानाधिकरण्यं तत्संप्रदायिभिरीरितम् । तथा पदार्थयोरेव विशेषणविशेष्यता ॥ २८ ॥ अयं सः सोऽयमितिवत्संबन्धो भवति द्वयोः । प्रत्यक्त्वं सद्वितीयत्वं परोक्षत्वं च पूर्णता ॥ २९ ॥ परस्परविरुद्धं स्यात्ततो भवति लक्षणा । लक्ष्यलक्षणसंबन्धः पदार्थप्रत्यगात्मनोः ॥ ३० ॥ मानान्तरोपरोधाच्च मुख्यार्थस्यापरिग्रहे । मुख्यार्थस्याविनाभूते प्रवृत्तिर्लक्षणोच्यते ॥ ३१ ॥ त्रिविधा लक्षणा ज्ञेया जहत्यजहती तथा । अन्योभयात्मिका ज्ञेया तत्राद्या नैव संभवेत् ॥ ३२ ॥ वाच्यार्थमखिलं त्यक्त्वा वृत्तिः स्याद्या तदन्विते । गङ्गायां घोष इतिवज्जहती लक्षणा हि सा ॥ ३३ ॥ वाच्यार्थस्यैकदेशस्य प्रकृते त्याग इष्यते । जहती संभवेन्नैव संप्रदायविरोधत ॥ ३४ ॥ वाच्यार्थमपरित्यज्य वृत्तिरन्यार्थके तु या । कथितेयमजहती शोणोऽयं धावतीतिवत् ॥ ३५ ॥ न संभवति साप्यत्र वाच्यार्थेऽतिविरोधतः । विरोधांशपरित्यागो दृश्यते प्रकृते यतः ॥ ३६ ॥ वाच्यार्थस्यैकदेशं च परित्यज्यैकदेशकम् । या बोधयति सा ज्ञेया तृतीया भागलक्षणा ॥ ३७ ॥ सोऽयं विप्र इदं वाक्यं बोधयत्यादितस्तथा । तत्कालत्वविशिष्टं च तथैतत्कालसंयुतम् ॥ ३८ ॥ अतस्तयोर्विरुद्धं तत्तत्कालत्वादिधर्मकम् । त्यक्त्वा वाक्यं यथा विप्रपिण्डं बोधयतीरितम् ॥ ३९ ॥ तथैव प्रकृते तत्त्वमसीत्यत्र श्रुतौ शृणु । प्रत्यक्त्वादीन्परित्यज्य जीवधर्मांस्त्वमःपदात् ॥ ४० ॥ सर्वज्ञत्वपरोक्षादीन्परित्यज्य ततःपदात् । शुद्धं कूटस्थमद्वैतं बोधयत्यादरात्परम् ॥ ४१ ॥ तत्त्वमोः पदयोरैक्यमेव तत्त्वमसीत्यलम् । इत्थमैक्यावबोधेन सम्यग्ज्ञानं दृढं नयैः ॥ ४२ ॥ अहं ब्रह्मेति विज्ञानं यस्य शोकं तरत्यसौ । आत्मा प्रकाशमानोऽपि महावाक्यैस्तथैकता ॥ ४३ ॥ तत्त्वमोर्बोध्यतेऽथापि पौर्वापर्यानुसारतः । तथापि शक्यते नैव श्रीगुरोः करुणां विना ॥ ४४ ॥ अपरोक्षयितुं लोके मूढैः पण्डितमानिभिः । अन्तःकरणसंशुद्धौ स्वयं ज्ञानं प्रकाशते ॥ ४५ ॥ वेदवाक्यैरतः किं स्याद्गुरुणेति न सांप्रतम् । आचार्यवान्पुरुषो हि वेदेत्येवं श्रुतिर्जगौ ॥ ४६ ॥ अनादाविह संसारे बोधको गुरुरेव हि । अतो ब्रह्मात्मवस्त्वैक्यं ज्ञात्वा दृश्यमसत्तया ॥ ४७ ॥ अद्वैते ब्रह्मणि स्थेयं प्रत्यब्रह्मात्मना सदा । तत्प्रत्यक्षात्परिज्ञातमद्वैतब्रह्मचिह्ननम् ॥ ४८ ॥ प्रतिपाद्यं तदेवात्र वेदान्तैर्न द्वयं जडम् । सुखरूपं चिदद्वैतं दुःखरूपमसज्जडम् ॥ ४९ ॥ वेदान्तैस्तद्द्वयं सम्यङ्निर्णीतं वस्तुतो नयात् । अद्वैतमेव सत्यं त्वं विद्धि द्वैतमसत्सदा ॥ ५० ॥ शुद्धे कथमशुद्धः स्यादृश्यं मायामयं ततः । शुक्तौ रूप्यं मृषा यद्वत्तथा विश्व परात्मनि ॥ ५१ ॥ विद्यते न स्वतः सत्त्वं नासतः सत्त्वमस्ति वा । बाध्यत्वान्नैव सद्द्वैतं नासत्प्रत्यक्षभानतः ॥ ५२ ॥ सदसन्न विरुद्धत्वादतोऽनिर्वाच्यमेव तत् । यः पूर्वमेक एवासीत्सृष्ट्वा पश्चादिदं जगत् ॥ ५३ ॥ प्रविष्टो जीवरूपेण स एवात्मा भवान्परः । सच्चिदानन्द एव त्वं विस्मृत्यात्मतया परम् ॥ ५४ ॥ जीवभावमनुप्राप्तः स एवात्मासि बोधतः । अद्वयानन्दचिन्मात्रः शुद्धः साम्राज्यमागतः ॥ ५५ ॥ कर्तृत्वादीनि यान्यासंस्त्वयि ब्रह्माद्वये परे । तानीदानीं विचार्य त्वं किंस्वरूपाणि वस्तुतः ॥ ५६ ॥ अत्रैव शृणु वृत्तान्तमपूर्वं श्रुतिभाषितम् । कश्चिद्गान्धारदेशीयो महारत्नविभूषितः ॥ ५७ ॥ स्वगृहे स्वाङ्गणे सुप्तः प्रमत्तः सन्कदाचन । रात्रौ चौरः समागत्य भूषणानां प्रलोभितः ॥ ५८ ॥ बद्ध्वा देशान्तरं चौरैर्नीतः सन्गहने वने । भूषणान्यपहृत्यापि बद्धाक्षकरपादकः ॥ ५९ ॥ निक्षिप्तो विपिनेऽतीव कुशकण्टकवृश्चिकैः । व्यालव्याघ्रादिभिश्चैव संकुले तरुसंकटे ॥ ६० ॥ व्यालादिदुष्टसत्वेभ्यो महारण्ये भयातुरः । शिलाकण्टकदर्भाद्यैर्देहस्य प्रतिकूलकैः ॥ ६१ ॥ क्रियमाणे विलुठने विशीर्णाङ्गोऽसमर्थकः । क्षुत्तृडातपवाय्वग्न्यादिभिस्तप्तोऽतितापकैः ॥ ६२ ॥ बन्धमुक्तौ तथा देशप्राप्तावेव सुदुःखधीः । ददृशे कंचिदाक्रोशन्नैकं तत्रैव तस्थिवान् ॥ ६३ ॥ तथा रागादिभिर्वर्गैः शत्रुभिर्दुःखदायिभिः । चौरैर्देहाभिमानाद्यैः स्वानन्दधनहारिभिः ॥ ६४ ॥ ब्रह्मानन्दे प्रमत्तः स्वाज्ञाननिद्रावशीकृतः । बद्धस्त्वं बन्धनैर्भोगतृष्णाज्वरादिभिर्दृढम् ॥ ६५ ॥ अद्वयानन्दरूपात्त्वां प्रच्याव्यातीव धूर्तकैः । दूरनीतोऽसि देहेषु संसारारण्यभूमिषु ॥ ६६ ॥ सर्वदुःखनिदानेषु शरीरादित्रयेषु च । नानायोनिषु कर्मान्धवासनानिर्मितासु च ॥ ६७ ॥ प्रवेशितोऽसि सृष्टोऽसि बद्धः स्वानन्ददृष्टितः । अनादिकालमारभ्य दुःखं चानुभवन्सदा ॥ ६८ ॥ जन्ममृत्युजरादोषनरकादिपरम्पराम् । निरन्तरं विषण्णोऽनुभवन्नत्यन्तशोकवान् ॥ ६९ ॥ अविद्याभूतबन्धस्य निवृत्तौ दुःखदस्य च । स्वरूपानन्दसंप्राप्तौ सत्योपायं न लब्धवान् ॥ ७० ॥ यथा गान्धारदेशीयश्चिरं देवाद्दयालुभिः । कैश्चित्पान्थैः परिप्राप्तैर्मुक्तदृष्ट्यादिबन्धनः ॥ ७१ ॥ सः स्वस्थैरुपदिष्टश्च पण्डितो निश्चितात्मकः । ग्रामाद्ग्रामान्तरं गच्छेन्मेधावी मार्गतत्परः ॥ ७२ ॥ गत्वा गान्धारदेशं स स्वगृहं प्राप्य पूर्ववत् । बान्धवैः संपरिष्वक्तः सुखी भूत्वा स्थितोऽभवत् ॥ ७३ ॥ त्वमप्येवमनेकेषु दुःखदायिषु जन्मसु । भ्रान्तो दैवाच्छुभे मार्गे जातश्रद्धः सुकर्मकृत् ॥ ७४ ॥ वर्णाश्रमाचारपरोऽवाप्तपुण्यमहोदयः । ईश्वरानुग्रहाल्लब्धो ब्रह्मविद्गुरुसत्तमः ॥ ७५ ॥ विधिवत्कृतसंन्यासो विवेकादियुतः सुधीः । प्राप्तो ब्रह्मोपदेशोऽद्य वैराग्याभ्यासतः परम् ॥ ७६ ॥ पण्डितस्तत्र मेधावी युक्त्या वस्तु विचारयन् । निदिध्यासनसंपन्नः प्राप्तो हि त्वं परं पदम् ॥ ७७ ॥ अतो ब्रह्मात्मविज्ञानमुपदिष्टं यथाविधि । मयाचार्येण ते धीर सम्यक्तत्र प्रयत्नवान् ॥ ७८ ॥ भूत्वा विमुक्तबन्धस्त्वं छिन्नद्वैतात्मसंशयः । निर्द्वन्द्वो निःस्पृहो भूत्वा विचरस्व यथासुखम् ॥ ७९ ॥ वस्तुतो निष्प्रपञ्चोऽसि नित्यमुक्तः स्वभावतः । न ते बन्धविमोक्षौ स्तः कल्पितौ तौ यतस्त्वयि ॥ ८० ॥ न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ८१ ॥ श्रुतिसिद्धान्तसारोऽयं तथैव त्वं स्वया धिया । संविचार्य निदिध्यास्य निजानन्दात्मकं परम् ॥ ८२ ॥ साक्षात्कृत्वा परिच्छिन्नाद्वैतब्रह्माक्षरं स्वयम् । जीवन्नेव विनिर्मुक्तो विश्रान्तः शान्तिमाश्रय ॥ ८३ ॥ विचारणीया वेदान्ता वन्दनीयो गुरुः सदा । गुरूणां वचनं पथ्यं दर्शनं सेवनं नृणाम् ॥ ८४ ॥ गुरुर्ब्रह्म स्वयं साक्षात्सेव्यो वन्द्यो मुमुक्षुभिः । नोद्वेजनीय एवायं कृतज्ञेन विवेकिना ॥ ८५ ॥ यावदायुस्त्वया वन्द्यो वेदान्तो गुरुरीश्वरः । मनसा कर्मणा वाचा श्रुतिरेवैष निश्चयः ॥ ८६ ॥ भावाद्वैतं सदा कुर्यात्क्रियाद्वैतं न कर्हिचित् । अद्वैतं त्रिषु लोकेषु नाद्वैतं गुरुणा सह ॥ ८७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ तत्त्वोपदेशः संपूर्णः ॥ ॥ श्रीः ॥ ॥ एकश्लोकी ॥ किं ज्योतिस्तव भानुमानहनि मे रात्रौ प्रदीपादिकं स्यादेवं रविदीपदर्शनविधौ किं ज्योतिराख्याहि मे । चक्षुस्तस्य निमीलनादिसमये किं धीर्धियो दर्शने किं तत्राहमतो भवान्परमकं ज्योतिस्तदस्मि प्रभो ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ एकश्लोकी संपूर्णा ॥ ॥ श्रीः ॥ ॥ मायापञ्चकम् ॥ निरुपमनित्यनिरंशकेऽप्यखण्डे मयि चिति सर्वविकल्पनादिशून्ये । घटयति जगदीशजीवभेदं त्वघटितघटनापटीयसी माया ॥ १ ॥ श्रुतिशतनिगमान्तशोधकान- प्यहह धनादिनिदर्शनेन सद्यः । कलुषयति चतुष्पदाद्यभिन्ना- नघटितघटनापटीयसी माया ॥ २ ॥ सुखचिदखण्डविबोधमद्वितीयं वियदनलादिविनिर्मिते नियोज्य । भ्रमयति भवसागरे नितान्तं त्वघटितघटनापटीयसी माया ॥ ३ ॥ अपगतगुणवर्णजातिभेदे सुखचिति विप्रविडाद्यहंकृतिं च । स्फुटयति सुतदारगेहमोहं त्वघटितघटनापटीयसी माया ॥ ४ ॥ विधिहरिहरविभेदमप्यखण्डे बत विरचय्य बुधानपि प्रकामम् । भ्रमयति हरिहरभेदभावा- नघटितघटनापटीयसी मया ॥ ५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मायापञ्चकं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ प्रौढानुभूतिः ॥ प्रौढप्रौढनिजानुभूतिगलितद्वैतेन्द्रजालो गुरु- र्गूढं गूढमघौघदुष्टकुधियां स्पष्टं सुधीशालिनाम् । स्वान्ते सम्यगिहानुभूतमपि सच्छिष्यावबोधाय त- त्सत्यं संस्मृतवान्समस्तजगतां नैजं निजालोकनात् ॥ द्वैतं मय्यखिलं समुत्थितमिदं मिथ्या मनःकल्पितं तोयं तोयविवर्जिते मरुतले भ्रान्त्यैव सिद्धं न हि । यद्येवं खलु दृश्यमेतदखिलं नाहं न वा तन्मम प्रौढानन्दचिदेकसन्मयवपुः शुद्धोऽस्म्यखण्डोऽस्म्यहम् ॥ देहो नाहमचेतनोऽयमनिशं कुड्यादिवन्निश्चितो नाहं प्राणमयोऽपि वा दृतिधृतो वायुर्यथा निश्चितः । सोऽहं नापि मनोमयः कपिचलः कार्पण्यदुष्टो न वा बुद्धिर्बुद्धकुवृत्तिकेव कुहना नाज्ञानमन्धंतमः ॥ ३ ॥ नाहं खादिरपि स्फुटं मरुतलभ्राजत्पयःसाम्यत- स्तेभ्यो नित्यविलक्षणोऽखिलदृशिः सौरप्रकाशो यथा । दृश्यैः सङ्गविवर्जितो गगनवत्संपूर्णरूपोऽस्म्यहं वस्तुस्थित्यनुरोधतस्त्वहमिदं वीच्यादि सिन्धुर्यथा ॥ ४ ॥ निर्द्वैतोऽस्म्यहमस्मि निर्मलचिदाकाशोऽस्मि पूर्णोऽस्म्यहं निर्देहोऽस्मि निरिन्द्रियोऽस्मि नितरां निष्प्राणवर्गोऽस्म्यहम् । निर्मुक्ताशुभमानसोऽस्मि विगलद्विज्ञानकोशोऽस्म्यहं निर्मायोऽस्मि निरन्तरोऽस्मि विपुलप्रौढप्रकाशोऽस्म्यहम् ॥ मत्तोऽन्यन्न हि किंचिदस्ति यदि चिद्भास्यं ततस्तन्मृषा गुञ्जावह्निवदेव सर्वकलनाधिष्ठानभूतोऽस्म्यहम् । सर्वस्यापि दृगस्म्यहं समरसः शान्तोऽस्म्यपापोऽस्म्यहं पूर्णोऽस्मि द्वयवर्जितोऽस्मि विपुलाकाशोऽस्मि नित्योऽस्म्यहम् ॥ मय्यस्मिन्परमार्थके श्रुतिशिरोवेद्ये स्वतो भासने का वा विप्रतिपत्तिरेतदखिलं भात्येव यत्संनिधेः । सौरालोकवशात्प्रतीतमखिलं पश्यन्न तस्मिञ्जनः संदिग्धोऽस्त्यत एव केवलशिवः कोऽपि प्रकाशोऽस्म्यहम् ॥ नित्यस्फूर्तिमयोऽस्मि निर्मलसदाकाशोऽस्मि शान्तोऽस्म्यहं नित्यानन्दमयोऽस्मि निर्गतमहामोहान्धकारोऽस्म्यहम् । विज्ञातं परमार्थतत्त्वमखिलं नैजं निरस्ताशुभं मुक्तप्राप्यमपास्तभेदकलनाकैवल्यसंज्ञोऽस्म्यहम् ॥ ८ ॥ स्वाप्नद्वैतवदेव जाग्रतमपि द्वैतं मनोमात्रकं मिथ्येत्येव विहाय सच्चिदमलस्वान्तैकरूपोऽस्म्यहम् । यद्वा वेद्यमशेषमेतदनिशं मद्रूपमेवेत्यपि ज्ञात्वा त्यक्तमरुन्महोदधिरिव प्रौढो गभीरोऽस्म्यहम् ॥ गन्तव्यं किमिहास्ति सर्वपरिपूर्णस्याप्यखण्डाकृतेः कर्तव्यं किमिहास्ति निष्क्रियतनोर्मोक्षैकरूपस्य मे । निद्वैतस्य न हेयमन्यदपि वा नो वाप्युपेयान्तरं शान्तोऽद्यास्मि विमुक्ततोयविमलो मेघो यथा निर्मलः ॥ किं नः प्राप्तमितः पुरा किमधुना लब्धं विचारादिना यस्मात्तत्सुखरूपमेव सततं जाज्वल्यमानोऽस्म्यहम् । किं वापेक्ष्यमिहापि मय्यतितरां मिथ्याविचारादिकं द्वैताद्वैतविवर्जिते समरसे मौनं परं संमतम् ॥ ११ ॥ श्रोतव्यं च किमस्ति पूर्णसुदृशो मिथ्यापरोक्षस्य मे मन्तव्यं च न मेऽस्ति किंचिदपि वा निःसंशयज्योतिषः । ध्यातृध्येयविभेदहानिवपुषो न ध्येयमस्त्येव मे सर्वात्मैकमहारसस्य सततं नो वा समाधिर्मम ॥ १२ ॥ आत्मानात्मविवेचनापि मम नो विद्वत्कृता रोचते- ऽनात्मा नास्ति यदस्ति गोचरवपुः को वा विवेक्तुं क्षमी । मिथ्यावादविचारचिन्तनमहो कुर्वन्त्यदृष्टात्मका भ्रान्ता एव न पारगा दृढधियस्तूष्णीं शिलावत्स्थिताः ॥ वस्तुस्थित्यनुरोधतस्त्वहमहो कश्चित्पदार्थो न चा- प्येवं कोऽपि विभामि संततदृशी वाड्यानसागोचरः । निष्पापोऽस्म्यभयोऽस्म्यहं विगतदुःशङ्काकलङ्कोऽस्म्यहं संशान्तानुपमानशीतलमहःप्रौढप्रकाशोऽस्म्यहम् ॥ १४॥ योऽहं पूर्वमितः प्रशान्तकलनाशुद्धोऽस्मि बुद्धोऽस्म्यहं यस्मान्मत्त इदं समुत्थितमभूदेतन्मया धार्यते । मय्येव प्रलयं प्रयाति निरधिष्ठानाय तस्मै सदा सत्यानन्दचिदात्मकाय विपुलप्रज्ञाय मह्यं नमः ॥ १५ ॥ सत्ताचित्सुखरूपमस्ति सततं नाहं च न त्वं मृषा नेदं वापि जगत्प्रदृष्टमखिलं नास्तीति जानीहि भो यत्प्रोक्तं करुणावशात्त्वयि मया तत्सत्यमेतत्स्फुटं श्रद्धत्स्वानघ शुद्धबुद्धिरसि चेन्मात्रास्तु ते संशयः ॥ स्वारस्यैकसुबोधचारुमनसे प्रौढानुभूतिस्त्वियं दातव्या न तु मोहदुग्धकुधिये दुष्टान्तरङ्गाय च । येयं रम्यविदर्पितोत्तमशिरः प्राप्ता चकास्ति स्वयं सा चेन्मर्कटहस्तदेशपतिता किं राजते केतकी ॥ १७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रौढानुभूतिः संपूर्णा ॥ ॥ श्रीः ॥ ॥ ब्रह्मज्ञानावलीमाला ॥ सकृच्छ्रवणमात्रेण ब्रह्मज्ञानं यतो भवेत् । ब्रह्मज्ञानावलीमाला सर्वेषां मोक्षसिद्धये ॥ १ ॥ असङ्गोऽहमसङ्गोऽहमसङ्गोऽहं पुनः पुनः । सच्चिदानन्दरूपोऽहमहमेवाहमव्ययः ॥ २ ॥ नित्यशुद्धविमुक्तोऽहं निराकारोऽहमव्ययः । भूमानन्दस्वरूपोऽहमहमेवाहमव्ययः ॥ ३ ॥ नित्योऽहं निरवद्योऽहं निराकारोऽहमच्युतः । परमानन्दरूपोऽहमहमेवाहमव्ययः ॥ ४ ॥ शुद्धचैतन्यरूपोऽहमात्मारामोऽहमेव च । अखण्डानन्दरूपोऽहमहमेवाहमव्ययः ॥ ५ ॥ प्रत्यक्चैतन्यरूपोऽहं शान्तोऽहं प्रकृतेः परः । शाश्वतानन्दरूपोऽहमहमेवाहमव्ययः ॥ ६ ॥ तत्त्वातीतः परात्माहं मध्यातीतः परः शिवः । मायातीतः परंज्योतिरहमेवाहमव्ययः ॥ ७ ॥ नानारूपव्यतीतोऽहं चिदाकारोऽहमच्युतः । सुखरूपस्वरूपोऽहमहमेवाहमव्ययः ॥ ८ ॥ मायातत्कार्यदेहादि मम नास्त्येव सर्वदा । स्वप्रकाशैकरूपोऽहमहमेवाहमव्ययः ॥ ९ ॥ गुणत्रयव्यतीतोऽहं ब्रह्मादीनां च साक्ष्यहम् । अनन्तानन्तरूपोऽहमहमेवाहमव्ययः ॥ १० ॥ अन्तर्यामिस्वरूपोऽहं कूटस्थः सर्वगोऽस्म्यहम् । परमात्मस्वरूपोऽहमहमेवाहमव्ययः ॥ ११ ॥ निष्कलोऽहं निष्क्रियोऽहं सर्वात्माद्यः सनातनः । अपरोक्षस्वरूपोऽहमहमेवाहमव्ययः ॥ १२ ॥ द्वन्द्वादिसाक्षिरूपोऽहमचलोऽहं सनातनः । सर्वसाक्षिस्वरूपोऽहमहमेवाहमव्ययः ॥ १३ ॥ प्रज्ञानघन एवाहं विज्ञानघन एव च । अकर्ताहमभोक्ताहमहमेवाहमव्ययः ॥ १४ ॥ निराधारस्वरूपोऽहं सर्वाधारोऽहमेव च । आप्तकामस्वरूपोऽहमहमेवाहमव्ययः ॥ १५ ॥ तापत्रयविनिर्मुक्तो देहत्रयविलक्षणः । अवस्थात्रयसाक्ष्यम्मि चाहमेवाहमव्ययः ॥ १६ ॥ दृग्दृश्यौ द्वौ पदार्थौ स्तः परस्परविलक्षणौ । दृग्ब्रह्म दृश्यं मायेति सर्ववेदान्तडिण्डिमः ॥ १७ ॥ अहं साक्षीति यो विद्याद्विविच्यैवं पुनः पुनः । स एव मुक्तः सो विद्वानिति वेदान्तडिण्डिमः ॥ १८ ॥ घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च । तद्वद्ब्रह्म जगत्सर्वमिति वेदान्तडिण्डिमः ॥ १९ ॥ ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः । अनेन वेद्यं सच्छास्त्रमिति वेदान्तडिण्डिमः ॥ २० ॥ अन्तर्ज्योतिर्बहिर्ज्योतिः प्रत्यग्ज्योतिः परात्परः । ज्योतिर्ज्योतिः स्वयंज्योतिरात्मज्योतिः शिवोऽस्म्यहम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ ब्रह्मज्ञानावलीमाला संपूर्णा ॥ ॥ श्रीः ॥ ॥ लघुवाक्यवृत्तिः ॥ स्थूलो मांसमयो देहो सूक्ष्मः स्याद्वासनामयः । ज्ञानकर्मेन्द्रियैः सार्धं धीप्राणौ तच्छरीरगौ ॥ १ ॥ अज्ञानं कारणं साक्षी बोधस्तेषां विभासकः । बोधाभासो बुद्धिगतः कर्ता स्यात्पुण्यपापयोः ॥ २ ॥ स एव संसरेत्कर्म- वशाल्लोकद्वये सदा । बोधाभासाच्छुद्धबोधं विविच्यादतियत्नतः ॥ ३ ॥ जागरस्वप्नयोरेव बोधाभासविडम्बना । सुप्तौ तु तल्लये बोधः शुद्धो जाड्यं प्रकाशयेत् ॥ ४ ॥ जागरेऽपि धियस्तूष्णीं- भावः शुद्धेन भास्यते । धीव्यापाराश्च चिद्भास्या- श्चिदाभासेन संयुताः ॥ ५ ॥ वह्नितप्तजलं ताप- युक्तं देहस्य तापकम् । चिद्भास्या धीस्तदाभास- युक्तान्यं भासयेत्तथा ॥ ६ ॥ रूपादौ गुणदोषादि- विकल्प्रा बुद्धिगाः क्रियाः । ताः क्रिया विषयैः सार्धं भासयन्ती चितिर्मता ॥ ७ ॥ रूपाच्च गुणदोषाभ्यां विविक्ता केवला चितिः । सैवानुवर्तते रूप- रसादीनां विकल्पने ॥ ८ ॥ क्षणे क्षणेऽन्यथाभूता धीविकल्पाश्चितिर्न तु । मुक्तासु सूत्रवद्बुद्धि- विकल्पेषु चितिस्तथा ॥ ९ ॥ मुक्ताभिरावृतं सूत्रं मुक्तयोर्मध्य ईक्ष्यते । तथा वृत्तिविकल्पैश्चि- त्स्पष्टा मध्ये विकल्पयोः ॥ १० ॥ नष्टे पूर्वविकल्पे तु यावदन्यस्य नोदयः । निर्विकल्पकचैतन्यं स्पष्टं तावद्विभासते ॥ ११ ॥ एकद्वित्रिक्षणेष्वेवं विकल्पस्य निरोधनम् । क्रमेणाभ्यस्यतां यत्ना- द्ब्रह्मानुभवकाङ्क्षिभिः ॥ १२ ॥ सविकल्पकजीवोऽयं ब्रह्म तन्निर्विकल्पकम् । अहं ब्रह्मेति वाक्येन सोऽयमर्थोऽभिधीयते ॥ १३ ॥ सविकल्पकचिद्योऽहं ब्रह्मैकं निर्विकल्पकम् । स्वतःसिद्धा विकल्पास्ते निरोद्धव्याः प्रयत्नतः ॥ १४ ॥ शक्यः सर्वनिरोधेन समाधिर्योगिनां प्रियः । तदशक्तौ क्षणं रुद्ध्वा श्रद्धालुर्ब्रह्मतात्मनः ॥ १५ ॥ श्रद्धालुर्ब्रह्मतां स्वस्य चिन्तयेद्बुद्धिवृत्तिभिः । वाक्यवृत्त्या यथाशक्ति ज्ञात्वाद्धाभ्यम्यतां सदा ॥ १६ ॥ तच्चिन्तनं तत्कथन- मन्योन्यं तत्प्रबोधनम् । एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः ॥ १७ ॥ देहात्मधीवद्ब्रह्मात्म- धदार्ढ्ये कृतकृत्यता । यदा तदायं म्रियतां मुक्तोऽसौ नात्र संशयः ॥ १८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छकरभगवतः कृतौ लघुवाक्यवृत्तिः संपूर्णा ॥ ॥ श्रीः ॥ ॥ निर्वाणमञ्जरी ॥ अहं नामरो नैव मर्त्यो न दैत्यो न गन्धर्वयक्षः पिशाचप्रभेदः । पुमान्नैव न स्त्री तथा नैव षण्डः प्रकृष्टः प्रकाशस्वरूपः शिवोऽहम् ॥ १ ॥ अहं नैव बालो युवा नैव वृद्धो न वर्णी न च ब्रह्मचारी गृहस्थः । वनस्थोऽपि नाहं न संन्यस्तधर्मा जगज्जन्मनाशैकहेतुः शिवोऽहम् ॥ २ ॥ अहं नैव मेयस्तिरोभूतमाया तथैवेक्षितुं मां पृथङ्नास्त्युपायः । समाश्लिष्टकायत्रयोऽप्यद्वितीयः सदातीन्द्रियः सर्वरूपः शिवोऽहम् ॥ ३ ॥ अहं नैव मन्ता न गन्ता न वक्ता न कर्ता न भोक्ता न मुक्ताश्रमस्थः । यथाहं मनोवृत्तिभेदस्वरूप- स्तथा सर्ववृत्तिप्रदीपः शिवोऽहम् ॥ ४ ॥ न मे लोकयात्राप्रवाहप्रवृत्ति- र्न मे बन्धबुद्ध्या दुरीहानिवृत्तिः । प्रवृत्तिर्निवृत्त्यास्य चित्तस्य वृत्ति- र्यतस्त्वन्वहं तत्स्वरूपः शिवोऽहम् ॥ ५ ॥ निदानं यदज्ञानकार्यस्य कार्यं विना यस्य सत्त्वं स्वतो नैव भाति । यदाद्यन्तमध्यान्तरालान्तराल- प्रकाशात्मकं स्यात्तदेवाहमस्मि ॥ ६ ॥ यतोऽहं न बुद्धिर्न मे कार्यसिद्धि- र्यतो नाहमङ्गं न मे लिङ्गभङ्गम् । हृदाकाशवर्ती गताङ्गत्रयार्तिः सदा सच्चिदानन्दमूर्तिः शिवोऽहम् ॥ ७ ॥ यदासीद्विलासाद्विकारं जगद्य- द्विकाराश्रयं नाद्वितीयत्वतः स्यात् । मनोबुद्धिचित्ताहमाकारवृत्ति- प्रवृत्तिर्यतः स्यात्तदेवाहमस्मि ॥ ८ ॥ यदन्तर्बहिर्व्यापकं नित्यशुद्धं यदेकं सदा सच्चिदानन्दकन्दम् । यतः स्थूलसूक्ष्मप्रपञ्चस्य भानं यतस्तत्प्रसूतिस्तदेवाहमस्मि ॥ ९ ॥ यदर्केन्दुविद्युत्प्रभाजालमाला- विलासास्पदं यत्स्वभेदादिशून्यम् । समस्तं जगद्यस्य पादात्मकं स्था- द्यतः शक्तिभानं तदेवाहमस्मि ॥ १० ॥ यतः कालमृत्युर्बिभेति प्रकामं यतश्चित्तबुद्धीन्द्रियाणां विलासः । हरिब्रह्मरुद्रेन्द्रचन्द्रादिनाम- प्रकाशो यतः स्यात्तदेवाहमस्मि ॥ ११ ॥ यदाकाशवत्सर्वगं शान्तरूपं परं ज्योतिराकारशून्यं वरेण्यम् । यदाद्यन्तशून्यं परं शंकराख्यं यदन्तर्विभाव्यं तदेवाहमस्मि ॥ १२ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ निर्वाणमञ्जरी संपूर्णा ॥