॥ श्रीः ॥ ॥ अपरोक्षानुभूतिः ॥ श्रीहरिं परमानन्दमुपदेष्टारमीश्वरम् । व्यापकं सर्वलोकानां कारणं तं नमाम्यहम् ॥ १ ॥ अपरोक्षानुभूतिर्वै प्रोच्यते मोक्षसिद्धये । सद्भिरेषा प्रयत्नेन वीक्षणीया मुहुर्मुहुः ॥ २ ॥ स्ववर्णाश्रमधर्मेण तपसा हरितोषणात् । साधनं प्रभवेत्पुंसां वैराग्यादिचतुष्टयम् ॥ ३ ॥ ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु । यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥ ४ ॥ नित्यमात्मस्वरूपं हि दृश्यं तद्विपरीतगम् । एवं यो निश्चयः सम्यग्विवेको वस्तुनः स वै ॥ ५ ॥ सदैव वासनात्यागः शमोऽयमिति शब्दितः । निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते ॥ ६ ॥ विषयेभ्यः परावृत्तिः परमोपरतिर्हि सा । सहनं सर्वदुःखानां तितिक्षा सा शुभा मता ॥ ७ ॥ निगमाचार्यवाक्येषु भक्तिः श्रद्धेति विश्रुता । चित्तैकाग्र्यं तु सल्लक्ष्ये समाधानमिति स्मृतम् ॥ ८ ॥ संसारबन्धनिर्मुक्तिः कथं स्यान्मे दयानिधे । इति या सुदृढा बुद्धिर्वक्तव्या सा मुमुक्षुता ॥ ९ ॥ उक्तसाधनयुक्तेन विचारः पुरुषेण हि । कर्तव्यो ज्ञानसिद्ध्यर्थमात्मनः शुभमिच्छता ॥ १० ॥ नोत्पद्यते विना ज्ञानं विचारेणान्यसाधनैः । यथा पदार्थभानं हि प्रकाशेन विना क्वचित् ॥ ११ ॥ कोऽहं कथमिदं जातं को वा कर्तास्य विद्यते । उपादानं किमस्तीह विचारः सोऽयमीदृशः ॥ १२ ॥ नाहं भूतगणो देहो नाहं चाक्षगणस्तथा । एतद्विलक्षणः कश्चिद्विचारः सोऽयमीदृशः ॥ १३॥ अज्ञानप्रभवं सर्वं ज्ञानेन प्रविलीयते । संकल्पो विविधः कर्ता विचारः सोऽयमीदृशः ॥ १४ ॥ एतयोर्यदुपादानमेकं सूक्ष्मं सदव्ययम् । यथैव मृद्घटादीनां विचारः सोऽयमीदृशः ॥ १५ ॥ अहमेकोऽपि सूक्ष्मश्च ज्ञाता साक्षी सदव्ययः । तदहं नात्र संदेहो विचारः सोऽयमीदृशः ॥ १६ ॥ आत्मा विनिष्कलो ह्येको देहो बहुभिरावृतः । तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १७ ॥ आत्मा नियामकश्चान्तर्देहो नियम्यबाह्यकः । तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १८ ॥ आत्मा ज्ञानमयः पुण्यो देहो मांसमयोऽशुचिः । तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १९ ॥ आत्मा प्रकाशकः स्वच्छो देहस्तामस उच्यते । तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ २० ॥ आत्मा नित्यो हि सद्रूपो देहोऽनित्यो ह्यसन्मयः । तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ २१ ॥ आत्मनस्तत्प्रकाशत्वं यत्पदार्थावभासनम् । नाग्न्यादिदीप्तिवद्दीप्तिर्भवत्यान्ध्यं यतो निशि ॥ २२ ॥ देहोऽहमित्ययं मूढो मत्वा तिष्ठत्यहो जनः । ममायमित्यपि ज्ञात्वा घटद्रष्टेव सर्वदा ॥ २३ । ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २४ ॥ निर्विकारो निराकारो निरवद्योऽहमव्ययः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २५ ॥ निरामयो निराभासो निर्विकल्पोऽहमाततः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २६ ॥ निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहमच्युतः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ ॥ २७ ॥ निर्मलो निश्चलोऽनन्तः शुद्धोऽहमजरोऽमरः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २८ ॥ स्वदेहं शोभनं त्यक्त्वा पुरुषाख्यं च संमतम् । किं मूर्ख शून्यमात्मानं देहातीतं करोषि भो ॥ २९ ॥ स्वात्मानं शृणु मूर्ख त्वं श्रुत्या युक्त्या च पूरुषम् । देहातीतं सदाकारं सुदुर्दर्शं भवादृशाम् ॥ ३० ॥ अहंशब्देन विख्यात एक एव स्थितः परः । स्थूलत्वान्नैकतां प्राप्तः कथं स्याद्देहकः पुमान् ॥ ३१ ॥ अहं द्रष्टृतया सिद्धो देहो दृश्यतया स्थितः । ममायमिति निर्देशात्कथं स्याद्देहकः पुमान् ॥ ३२ ॥ अहं विकारहीनस्तु देहो नित्यं विकारवान् । इति प्रतीयते साक्षात्कथं स्याद्देहकः पुमान् ॥ ३३ ॥ यस्मात्परमिति श्रुत्या तथा पुरुषलक्षणम् । विनिर्णीतं विशुद्धेन कथं स्याद्देहकः पुमान् ॥ ३४ ॥ सर्वं पुरुष एवेति सूक्ते पुरुषसंज्ञिते । अप्युच्यते यतः श्रुत्या कथं स्याद्देहकः पुमान् ॥ ३५ ॥ असङ्गः पुरुषः प्रोक्तो बृहदारण्यकेऽपि च । अनन्तमलसंसृष्टः कथं स्याद्देहकः पुमान् ॥ ३६ ॥ तत्रैव च समाख्यातः स्वयंज्योतिर्हि पूरुषः । जडः परप्रकाश्योऽयं कथं स्याद्देहकः पुमान् ॥ ३७ ॥ प्रोक्तोऽपि कर्मकाण्डेन ह्यात्मा देहाद्विलक्षणः । नित्यश्च तत्फलं भुङ्क्ते देहपातादनन्तरम् ॥ ३८ ॥ लिङ्गं चानेकसंयुक्तं चलं दृश्यं विकारि च । अव्यापकमसद्रूपं तत्कथं स्यात्पुमानयम् ॥ ३९ ॥ एवं देहद्वयादन्य आत्मा पुरुष ईश्वरः । सर्वात्मा सर्वरूपश्च सर्वातीतोऽहमव्ययः ॥ ४० ॥ इत्यात्मदेहभानेन प्रपञ्चस्यैव सत्यता । यथोक्ता तर्कशास्त्रेण ततः किं पुरुषार्थता ॥ ४१ ॥ इत्यात्मदेहभेदेन देहात्मत्वं निवारितम् । इदानीं देहभेदस्य ह्यसत्त्वं स्फुटमुच्यते ॥ ४२ ॥ चैतन्यस्यैकरूपत्वाद्भेदो युक्तो न कर्हिचित् । जीवत्वं च मृषा ज्ञेयं रज्ज्वां सर्पग्रहो यथा ॥ ४३ ॥ रज्ज्वज्ञानात्क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी । भाति तद्वच्चितिः साक्षाद्विश्वाकारेण केवला ॥ ४४ ॥ उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न विद्यते । तस्मात्सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् ॥ ४५ ॥ व्याप्यव्यापकता मिथ्या सर्वमात्मेति शासनात् । इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः ॥ ४६ ॥ श्रुत्या निवारितं नूनं नानात्वं स्वमुखेन हि । कथं भासो भवेदन्यः स्थिते चाद्वयकारणे ॥ ४७ ॥ दोषोऽपि विहितः श्रुत्या मृत्योर्मृत्युं स गच्छति । इह पश्यति नानात्वं मायया वञ्चितो नरः ॥ ४८ ॥ ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः । तस्मादेतानि ब्रह्मैव भवन्तीत्यवधारयेत् ॥ ४९ ॥ ब्रह्मैव सर्वनामानि रूपाणि विविधानि च । कर्माण्यपि समग्राणि विभर्तीति श्रुतिर्जगौ ॥ ५० ॥ सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतम् । ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत् ॥ ५१ ॥ स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः । योऽवतिष्ठति मूढात्मा भयं तस्याभिभाषितम् ॥ ५२ ॥ यत्राज्ञानाद्भवेद्द्वैतमितरस्तत्र पश्यति । आत्मत्वेन यदा सर्वं नेतरस्तत्र चाण्वपि ॥ ५३॥ यस्मिन्सर्वाणि भूतानि ह्यात्मत्वेन विजानतः । न वै तस्य भवेन्मोहो न च शोकोऽद्वितीयतः ॥ ५४ ॥ अयमात्मा हि ब्रह्मैव सर्वात्मकतया स्थितः । इति निर्धारितं श्रुत्या बृहदारण्यसंस्थया ॥ ५५ ॥ अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् । असद्रूपो यथा स्वप्न उत्तरक्षणबाधतः ॥ ५६ ॥ स्वप्नो जागरणेऽलीकः स्वप्नेऽपि न हि जागरः । द्वयमेव लये नास्ति लयोऽपि ह्युभयोर्न च ॥ ५७ ॥ वयमेवं भवेन्मिथ्या गुणत्रयविनिर्मितम् । अस्य द्रष्टा गुणातीतो नित्यो ह्येकचिदात्मकः ॥ ५८ ॥ यद्वन्मृदि घटभ्रान्तिं शुक्तौ वा रजतस्थितिम् । तद्वद्ब्रह्मणि जीवत्वं भ्रान्त्या पश्यति न स्वतः ॥ ५९ ॥ यथा मृदि घटो नाम कनके कुण्डलाभिधा । शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे ॥ ६० ॥ यथैव व्योनि नीलत्वं यथा नीरं मरुस्थले । पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि ॥ ६१ ॥ यथैव शून्ये वेतालो गन्धर्वाणां पुरं यथा । यथाकाशे द्विचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः ॥ ६२ ॥ यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् । पात्ररूपेण ताम्रं हि ब्रह्माण्डौघैस्तथात्मता ॥ ६३॥ घटनाम्ना यथा पृथ्वी पटनाम्ना हि तन्तवः । जगन्नाम्ना चिदाभाति ज्ञेयं तत्तदभावतः ॥ ६४ ॥ सर्वोऽपि व्यवहारस्तु ब्रह्मणा क्रियते जनैः । अज्ञानान्न विजानन्ति मृदेव हि घटादिकम् ॥ ६५ ॥ कार्यकारणता नित्यमास्ते घटमृदोर्यथा । तथैव श्रुतियुक्तिभ्यां प्रपञ्चब्रह्मणोरिह ॥ ६६ ॥ गृह्यमाणे घटे यद्वन्मृत्तिका भाति वै बलात् । वीक्ष्यमाणे प्रपञ्चेऽपि ब्रहैवाभाति भासुरम् ॥ ६७ ॥ सदैवात्मा विशुद्धोऽपि ह्यशुद्धो भाति वै सदा । यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम् ॥ ६८ ॥ यथैव मृन्मयः कुम्भस्तद्वद्देहोऽपि चिन्मयः । आत्मानात्मविभागोऽयं मुधैव क्रियते बुधैः ॥ ६९ ॥ सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका । विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥ ७० ॥ घटत्वेन यथा पृथ्वी पदत्वेनैव तन्तवः । विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥ ७१ ॥ कनकं कुण्डलत्वेन तरङ्गत्वेन वै जलम् । विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥ ७२ ॥ पुरुषत्वेन वै स्थाणुर्जलत्वेन मरीचिका । विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥ ७३ ॥ गृहत्वेनैव काष्ठानि खड्गत्वेनैव लोहता । विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥ ७४ ॥ यथा वृक्षविपर्यासो जलाद्भवति कस्यचित् । तद्वदात्मनि हेहत्वं पश्यत्यज्ञानयोगतः ॥ ६५ ॥ पोतेन गच्छतः पुंसः सर्वं भातीव चञ्चलम् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७६ ॥ पीतत्वं हि यथा शुभ्रे दोषाद्भवति कस्यचित् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७७ ॥ चक्षुर्भ्यां भ्रमशीलाभ्यां सर्वं भाति भ्रमात्मकम् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७८ ॥ अलातं भ्रमणेनैव वर्तुलं भाति सूर्यवत् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७९ ॥ महत्त्वे सर्ववस्तूनामणुत्वं ह्यतिदूरतः । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८० ॥ सूक्ष्मत्वे सर्ववस्तूनां स्थूलत्वं चोपनेत्रतः । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८१ ॥ काचभूमौ जलत्वं वा जलभूमौ हि काचता । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८२ ॥ यद्वदग्नौ मणित्वं हि मणौ वा वह्निता पुमान् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८३ ॥ अभ्रेषु सत्सु धावत्सु धावन्निव यथा शशी । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८४ ॥ यथैव दिग्विपर्यासो मोहाद्भवति कस्यचित् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८५ ॥ यथा शशी जले भाति चञ्चलत्वेन कस्यचित् । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८६ ॥ एवमात्मनि नज्ञाते देहाध्यासो हि जायते । स एवात्मा परिज्ञातो लीयते च परात्मनि ॥ ८७ ॥ सर्वमात्मतया ज्ञातं जगत्स्थावरजङ्गमम् । अभावात्सर्वभावानां देहानां चात्मता कुतः ॥ ८८ ॥ आत्मानं सततं जानन्कालं नय महामते । प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमर्हसि ॥ ८९ ॥ उत्पन्नेऽप्यात्मविज्ञाने प्रारब्धं नैव मुञ्चति । इति यच्छ्रूयते शास्त्रात्तन्निराक्रियतेऽधुना ॥ ९० ॥ तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते । देहादीनामसत्यत्वाद्यथा स्वप्नः प्रबोधतः ॥ ९१ ॥ कर्म जन्मान्तरकृतं प्रारब्धमिति कीर्तितम् । तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित् ॥ ९२ ॥ स्वप्नदेहो यथाभ्यस्तस्तथैवायं हि देहकः । अध्यस्तस्य कुतो जन्म जन्माभावे स्थितिः कुतः ॥ ९३ ॥ उपादानं प्रपञ्चस्य मृद्भाण्डस्येव कथ्यते । अज्ञानं चैव वेदान्तैस्तस्मिन्नष्टे क्व विश्वता ॥ ९४ ॥ यथा रज्जुं परित्यज्य सर्पं गृह्णाति वै भ्रमात् । तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः ॥ ९५ ॥ रज्जुरूपे परिज्ञाते सर्पभ्रान्तिर्न तिष्ठति । अधिष्ठाने तथा ज्ञाते प्रपञ्चः शून्यतां व्रजेत् ॥ ९६ ॥ देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कुतः । अज्ञानिजनबोधार्थं प्रारब्धं वक्ति वै श्रुतिः ॥ ९७ ॥ क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे । बहुत्वं तन्निषेधार्थं श्रुत्या गीतं च वै स्फुटम् ॥ ९८ ॥ उच्यतेऽज्ञैर्बलाच्चैतत्तदानर्थद्वयागमः । वेदान्तमतहानं च यतो ज्ञानमिति श्रुतिः ॥ ९९ ॥ त्रिपञ्चाङ्गान्यथो वक्ष्ये पूर्वोक्तस्यैव सिद्धये । तैश्च सर्वैः सदा कार्यं निदिध्यासनमेव तु ॥ १०० ॥ नित्याभ्यासादृते प्राप्तिर्न भवेत्सच्चिदात्मनः । तस्माद्ब्रह्म निदिध्यासेज्जिज्ञासुः श्रेयसे चिरम् ॥ १०१ ॥ यमो हि नियमस्त्यागो मौनं देशश्च कालतः । आसनं मूलबन्धश्च देहसाम्यं च दृक्स्थितिः ॥ १०२ ॥ प्राणसंयमनं चैव प्रत्याहारश्च धारणा । आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् ॥ १०३ ॥ सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः । यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥ १०४ ॥ सजातीयप्रवाहश्च विजातीयतिरस्कृतिः । नियमो हि परानन्दो नियमात्क्रियते बुधैः ॥ १०५ ॥ त्यागः प्रपञ्चरूपस्य चिदात्मत्वावलोकनात् । त्यागो हि महतां पूज्यः सद्यो मोक्षमयो यतः ॥ १०६ ॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा बुधः ॥ १०७ ॥ वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते । प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः ॥ १०८ ॥ इति वा तद्भवेन्मौनं सतां सहजसंज्ञितम् । गिरा मौनं तु बालानां प्रयुक्तं ब्रह्मवादिभिः ॥ १०९ ॥ आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते । येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥ ११० ॥ कलनात्सर्वभूतानां ब्रह्मादीनां निमेषतः । कालशब्देन निर्दिष्टो ह्यखण्डानन्द अद्वयः ॥ १११ ॥ सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् । आसनं तद्विजानीयान्नेतरत्सुखनाशनम् ॥ ११२ ॥ सिद्धं यत्सर्वभूतादि विश्वाधिष्ठानमव्ययम् । यस्मिन्सिद्धाः समाविष्टास्तद्वै सिद्धासनं विदुः ॥ ११३ ॥ यन्मूलं सर्वभूतानां यन्मूलं चित्तबन्धनम् । मूलबन्धः सदा सेव्यो योगोऽसौ राजयोगिनाम् ॥ ११४ ॥ अङ्गानां समतां विद्यात्समे ब्रह्मणि लीयते । नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् ॥ ११५ ॥ दृष्टिं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् । सा दृष्टिः परमोदारा न नासाग्रावलोकनी ॥ ११६ ॥ द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत् । दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकनी ॥ ११७ ॥ चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् । निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ॥ ११८ ॥ निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः । ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः ॥ ११९ ॥ ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः । अयं चापि प्रबुद्धानामज्ञानां प्राणपीडनम् ॥ १२० ॥ विषयेष्वात्मतां दृष्ट्वा मनसश्चिति मज्जनम् । प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः ॥ १२१ ॥ यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् । मनसो धारणायैव धारणा सा परा मता ॥ १२२ ॥ ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः । ध्यानशब्देन विख्याता परमानन्ददायिनी ॥ १२३ ॥ निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः । वृत्तिविस्मरणं सम्यक्समाधिर्ज्ञानसंज्ञकः ॥ १२४ ॥ एवं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् । वश्यो यावत्क्षणात्पुंसः प्रयुक्तः स भेवत्स्वयम् ॥। १२५ ॥ ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् । तत्स्वरूपं न चैकस्य विषयो मनसो गिराम् ॥ १२६ ॥ समाधौ क्रियमाणे तु विघ्ना आयान्ति वै बलात् । अनुसंधानराहित्यमालस्यं भोगलालसम् ॥ १२७ ॥ लयस्तमश्च विक्षेपो रसास्वादश्च शून्यता । एवं यद्विघ्नबाहुल्यं त्याज्यं ब्रह्मविदा शनैः ॥ १२८ ॥ भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता । ब्रह्मवृत्त्या हि पूर्णत्वं तथा पूर्णत्वमभ्यसेत् ॥ १२९ ॥ ये हि वृत्तिं जहत्येनां ब्रह्माख्यां पावनीं पराम् । वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ॥ १३० ॥ ये हि वृत्तिं विजानन्ति ये ज्ञात्वा वर्धयन्त्यपि । ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये ॥ १३१ ॥ येषां वृत्तिः समावृद्धा परिपक्वा च सा पुनः । ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः ॥ १३२ ॥ कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः । तेऽप्यज्ञानितमा नूनं पुनरायान्ति यान्ति च ॥ १३३ ॥ निमेषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना । यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः ॥ १३४ ॥ कार्ये कारणतायाता कारणे न हि कार्यता । कारणत्वं स्वतो गच्छेत्कार्याभावे विचारतः ॥ १३५ ॥ अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरः । द्रष्टव्यं मृद्घटेनैव दृष्टान्तेन पुनः पुनः ॥ १३६ ॥ अनेनैव प्रकारेण वृत्तिर्ब्रह्मात्मिका भवेत् । उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥ १३७ ॥ कारणं व्यतिरेकेण पुमानादौ विलोकयेत् । अन्वयेन पुनस्तद्धि कार्ये नित्यं प्रपश्यति ॥ १३८ ॥ कार्ये हि कारणं पश्येत्पश्चात्कार्यं विसर्जयेत् । कारणत्वं स्वतो नश्येदवशिष्टं भवेन्मुनिः ॥ १३९ ॥ भावितं तीव्रवेगेण वस्तु यन्निश्चयात्मना । पुमांस्तद्धि भवेच्छीघ्रं ज्ञेयं भ्रमरकीटवत् ॥ १४० ॥ अदृश्यं भावरूपं च सर्वमेतच्चिदात्मकम् । सावधानतया नित्यं स्वात्मानं भावयेद्बुधः ॥ १४१ ॥ दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् । विद्वान्नित्यसुखे तिष्ठेद्धिया चिद्रसपूर्णया ॥ १४२ ॥ एभिरङ्गैः समायुक्तो राजयोग उदाहृतः । किंचित्पक्वकषायाणां हठयोगेन संयुतः ॥ १४३ ॥ परिपक्वं मनो येषां केवलोऽयं च सिद्धिदः । गुरुदैवतभक्तानां सर्वेषां सुलभो जवात् ॥ १४४ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ अपरोक्षानुभूतिः समाप्ता ॥ ॥ श्रीः ॥ ॥ वाक्यवृत्तिः ॥ सर्गस्थितिप्रलयहेतुमचिन्त्यशक्तिं विश्वेश्वरं विदितविश्वमनन्तमूर्तिम् । निर्मुक्तबन्धनमपारसुखाम्बुराशिं श्रीवल्लभं विमलबोधघनं नमामि ॥ १ ॥ यस्य प्रसादादहमेव विष्णु- र्मय्येव सर्वं परिकल्पितं च । इत्थं विजानामि सदात्मरूपं तस्याङ्घ्रिपद्मं प्रणतोऽस्मि नित्यम् ॥ २ ॥ तापत्रयार्कसंतप्तः कश्चिदुद्विग्नमानसः । शमादिसाधनैर्युक्तः सद्गुरुं परिपृच्छति ॥ ३ ॥ अनायासेन येनास्मान्मुच्येय भवबन्धनात् । तन्मे संक्षिप्य भगवन्केवलं कृपया वद ॥ ४ ॥ साध्वी ते वचनव्यक्तिः प्रतिभाति वदामि ते । इदं तदिति विस्पष्टं सावधानमनाः शृणु ॥ ५ ॥ तत्त्वमस्यादिवाक्योत्थं यज्जीवपरमात्मनोः । तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनम् ॥ ६ ॥ को जीवः कः परश्चात्मा तादात्म्यं वा कथं तयोः । तत्त्वमस्यादिवाक्यं वा कथं तत्प्रतिपादयेत् ॥ ७ ॥ अत्र ब्रूमः समाधानं कोऽन्यो जीवस्त्वमेव हि । यस्त्वं पृच्छसि मां कोऽहं ब्रह्मैवासि न संशयः ॥ ८ ॥ पदार्थमेव जानामि नाद्यापि भगवन्स्फुटम् । अहं ब्रह्मेति वाक्यार्थं प्रतिपद्ये कथं वद ॥ ९ ॥ सत्यमाह भवानत्र विगानं नैव विद्यते । हेतुः पदार्थबोधो हि वाक्यार्थावगतेरिह ॥ १० ॥ अन्तःकरणतद्वृत्तिसाक्षी चैतन्यविग्रहः । आनन्दरूपः सत्यः सन्किं नात्मानं प्रपद्यसे ॥ ११ ॥ सत्यानन्दस्वरूपं धीसाक्षिणं ज्ञानविग्रहम् । चिन्तयात्मतया नित्यं त्यक्त्वा देहादिगां धियम् ॥ १२ ॥ रूपादिमान्यतः पिण्डस्ततो नात्मा घटादिवत् । वियदादिमहाभूतविकारत्वाच्च कुम्भवत् ॥ १३ ॥ अनात्मा यदि पिण्डोऽयमुक्तहेतुबलान्मतः । करामलकवत्साक्षादात्मानं प्रतिपादय ॥ १४॥ घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा । देहद्रष्टा तथा देहो नाहमित्यवधारय ॥ १५ । एवमिन्द्रियदृङ् नाहमिन्द्रियाणीति निश्चिनु । मनो बुद्धिस्तथा प्राणो नाहमित्यवधारय ॥ १६॥ संघातोऽपि तथा नाहमिति दृश्यविलक्षणम् । द्रष्टारमनुमानेन निपुणं संप्रधारय ॥ १७ ॥ देहेन्द्रियादयो भावा हानादिव्यापृतिक्षमाः । यस्य संनिधिमात्रेण सोऽहमित्यवधारय ॥ १८ ॥ अनापन्नविकारः सन्नयस्कान्तवदेव यः । बुद्ध्यादींश्चालयेत्प्रत्यक्सोऽहमित्यवधारय ॥ १९ ॥ अजडात्मवदाभान्ति यत्सांनिध्याज्जडा अपि । देहेन्द्रियमनःप्राणाः सोऽहमित्यवधारय ॥ २० ॥ अगमन्मे मनोऽन्यत्र सांप्रतं च स्थिरीकृतम् । एवं यो वेद धीवृत्तिं सोऽहमित्यवधारय ॥ २१ ॥ स्वप्नजागरिते सुप्तिं भावाभावौ धियां तथा । यो वेत्यविक्रियः साक्षात्सोऽहमित्यवधारय ॥ २२ ॥ घटावभासको दीपो घटादन्यो यथेष्यते । देहावभासको देही तथाहं बोधविग्रहः ॥ २३ ॥ पुत्रवित्तादयो भावा यस्य शेषतया प्रियाः । द्रष्टा सर्वप्रियतमः सोऽहमित्यवधारय ॥ २४ ॥ परप्रेमास्पदतया मा न भूवमहं सदा । भूयासमिति यो द्रष्टा सोऽहमित्यवधारय ॥ २५ ॥ यः साक्षिलक्षणो बोधस्त्वंपदार्थः स उच्यते । साक्षित्वमपि बोद्धृत्वमविकारितयात्मनः ॥ २६ ॥ देहेन्द्रियमनःप्राणाहंकृतिभ्यो विलक्षणः । प्रोज्झिताशेषषड्भावविकारस्त्वंपदाभिधः ॥ २७ ॥ त्वमर्थमेवं निश्चित्य तदर्थं चिन्तयेत्पुनः । अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन च ॥ २८ ॥ निरस्ताशेषसंसारदोषोऽस्थूलादिलक्षणः । अदृश्यत्वादिगुणकः पराकृततमोमलः ॥ २९ । निरस्तातिशयानन्दः सत्यः प्रज्ञानविग्रहः । सत्तास्वलक्षणः पूर्णः परमात्मेति गीयते ॥ ३० ॥ सर्वज्ञत्वं परेशत्वं तथा संपूर्णशक्तिता । वेदैः समर्थ्यते यस्य तद्ब्रह्मेत्यवधारय ॥ ३१ ॥ यज्ज्ञानात्सर्वविज्ञानं श्रुतिषु प्रतिपादितम् । मृदाद्यनेकदृष्टान्तैस्तद्ब्रह्मेत्यवधारय ॥ ३२ ॥ यदानन्त्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगौ । तत्कार्यत्वं प्रपञ्चस्य तद्ब्रह्मेत्यवधारय ॥ ३३ ॥ विजिज्ञास्यतया यश्च वेदान्तेषु मुमुक्षुभिः । समर्थ्यतेऽतियत्नेन तद्ब्रह्मेत्यवधारय ॥ ३४ ॥ जीवात्मना प्रवेशश्च नियन्तृत्वं च तान्प्रति । श्रूयते यस्य वेदेषु तद्ब्रह्मेत्यवधारय ॥ ३५ ॥ कर्मणां फलदातृत्वं यस्यैव श्रूयते श्रुतौ । जीवानां हेतुकर्तृत्वं तद्ब्रह्मेत्यवधारय ॥ ३६ ॥ तत्त्वंपदार्थौ निर्णीतौ वाक्यार्थश्चिन्त्यतेऽधुना । तादात्म्यमत्र वाक्यार्थस्तयोरेव पदार्थयोः ॥ ३७ ॥ संसर्गे वा विशिष्टो वा वाक्यार्थो नात्र संमतः । अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥ ३८ ॥ प्रत्यग्बोधो य आभाति सोऽद्वयानन्दलक्षणः । अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः ॥ ३९ ॥ इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदा भवेत् । अब्रह्मत्वं त्वमर्थस्य व्यावर्तेत तदैव हि ॥ ४० ॥ तदर्थस्य च पारोक्ष्यं यद्येवं किं ततः शृणु । पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥ ४१ ॥ तत्त्वमस्यादिवाक्यं च तादात्म्यप्रतिपादने । लक्ष्यौ तत्त्वंपदार्थौ द्वावुपादाय प्रवर्तते ॥ ४२ ॥ हित्वा द्वौ शबलौ वाच्यौ वाक्यं वाक्यार्थबोधने । यथा प्रवर्ततेऽस्माभिस्तथा व्याख्यातमादरात् ॥ ४३ ॥ आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः । अन्तःकरणसंभिन्नबोधः स त्वंपदाभिधः ॥ ४४ ॥ मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः । पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः ॥ ४५ ॥ प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता । विरुध्यते यतस्तस्माल्लक्षणा संप्रवर्तते ॥ ४६ ॥ मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे । मुख्यार्थेनाविनाभूते प्रतीतिर्लक्ष्णोच्यते ॥ ४७ ॥ तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा । सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा ॥ ४८ ॥ अहं ब्रह्मेति वाक्यार्थबोधो यावद्दृढीभवेत् । शमादिसहितस्तावदभ्यस्येच्छ्रवणादिकम् ॥ ४९ ॥ श्रुत्याचार्यप्रसादेन दृढो बोधो यदा भवेत् । निरस्ताशेषसंसारनिदानः पुरुषस्तदा ॥ ५० ॥ विशीर्णकार्यकरणो भूतसूक्ष्मैरनावृतः । विमुक्तकर्मनिगलः सद्य एव विमुच्यते ॥ ५१ ॥ प्रारब्धकर्मवेगेण जीवन्मुक्तो यदा भवेत् । किंचित्कालमनारब्धकर्मबन्धस्य संक्षये ॥ ५२ ॥ निरस्तातिशयानन्दं वैष्णवं परमं पदम् । पुनरावृत्तिरहितं कैवल्यं प्रतिपद्यते ॥ ५३ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ वाक्यवृत्तिः समाप्ता ॥ ॥ श्रीः ॥ ॥ स्वात्मनिरूपणम् ॥ श्रीगुरुचरणद्वन्द्वं वन्देऽहं मथितदुःसहद्वन्द्वम् । भ्रान्तिग्रहोपशान्तिं पांसुमयं यस्य भसितमातनुते ॥ १ ॥ देशिकवरं दयालुं वन्देऽहं निहतनिखिलसंदेहम् । यच्चरणद्वयमद्वयमनुभवमुपदिशति तत्पदस्वार्थम् ॥ २ ॥ संसारदावपावकसंतप्तः सकलसाधनोपेतः । स्वात्मनिरूपणनिपुणैर्वाक्यैः शिष्यः प्रबोध्यते गुरुणा ॥ अस्ति स्वयमित्यस्मिन्नर्थे कस्यास्ति संशयः पुंसः । अत्रापि संशयश्चेत्संशयिता यः स एव भवसि त्वम् ॥ नामिति वेत्ति योऽसौ सत्यं ब्रह्मैव वेत्ति नास्तीति । अहमस्मीति विजानन्ब्रह्मैवासौ स्वयं विजानाति ॥ ५ ॥ ब्रह्म त्वमेव तस्मान्नाहं ब्रह्मेति मोहमात्रमिदम् । मोहेन भवति भेदः क्लेशाः सर्वे भवन्ति तन्मूलाः ॥ ६ ॥ न क्लेशपञ्चकमिदं भजते कृतकोशपञ्चकविवेकः । अत एव पञ्च कोशान्कुशलधियः संततं विचिन्वन्ति ॥ अन्नप्राणमनोमयविज्ञानानन्दपञ्चकोशानाम् । एकैकान्तरभाजां भजति विवेकात्प्रकाशतामात्मा ॥ ८ ॥ वपुरिदमन्नमयाख्यः कोशो नात्मा जडो घटप्रायः । प्रागुत्पत्तेः पश्चात्तदभावस्यापि दृश्यमानत्वात् ॥ ९ ॥ कोशः प्राणमयोऽयं वायुविशेषो वपुष्यवच्छिन्नः । अस्य कथमात्मता स्यात्क्षुत्तृष्णाभ्यामुपेयुषः पीडाम् ॥ कुरुते वपुष्यहंतां गेहादौ यः करोति ममतां च । रागद्वेषविधेयो नासावात्मा मनोमयः कोशः ॥ ११ ॥ सुप्तौ स्वयं विलीना बोधे व्याप्ता कलेबरं सकलम् । विज्ञानशब्दवाच्या चित्प्रतिबिम्बो न बुद्धिरप्यात्मा ॥ सुप्तिगतैः सुखलेशैरभिमनुते यः सुखी भवामीति । आनन्दकोशनामा सोऽहंकारः कथं भवेदात्मा ॥ १३ ॥ यः स्फुरति बिम्बभूतः स भवेदानन्द एव सकलात्मा । प्रागूर्ध्वमपि च सत्त्वादविकारित्वादबाध्यमानत्वात् ॥ अन्नमयादेरस्मादपरं यदि नानुभूयते किंचित् । अनुभवितान्नमयादेरस्तीत्यस्मिन्न कश्चिदपलापः ॥ १५ ॥ स्वयमेवानुभवत्वाद्यद्यप्येतस्य नानुभाव्यत्वम् । सकृदप्यभावशङ्का न भवेद्बोधस्वरूपसत्तायाः ॥ १६ ॥ अनुभवति विश्वमात्मा विश्वेनासौ न चानुभूयेत । न खलु प्रकाश्यतेऽसौ विश्वमशेषं प्रकाशयन्भानुः ॥ तदिदं तादृशमीदृशमेतावत्तावदिति च यन्न भवेत् । ब्रह्म तदित्यवधेयं नो चेद्विषयो भवेत्परोक्षं च ॥ १८ ॥ इदमिदमिति प्रतीते वस्तुनि सर्वत्र बाध्यमानेऽपि । अनिदमबाध्यं तत्त्वं सत्त्वादेतस्य न च परोक्षत्वम् ॥ नावेद्यमपि परोक्षं भवति ब्रह्म स्वयंप्रकाशत्वात् । सत्यं ज्ञानमनन्तं ब्रह्मेत्येतस्य लक्षणं प्रथते ॥ २० ॥ सति कोशशक्त्युपाधौ संभवतस्तस्य जीवतेश्वरते । नो चेत्तयोरभावाद्विगतविशेषं विभाति निजरूपम् ॥ सति सकलदृश्यबाधे न किमप्यस्तीति लोकसिद्धं चेत् । यन्न किमपीति सिद्धं ब्रह्म तदेवेति वेदतः सिद्धम् ॥ २२ ॥ एवं मतिरहितानां तत्त्वमसीत्यादिवाक्यचिन्तनया । प्रतिभात्येष परोक्षवदात्मा प्रत्यक्प्रकाशमानोऽपि ॥ २३ ॥ तस्मात्पदार्थशोधनपूर्वं वाक्यस्य चिन्तयन्नर्थम् । देशिकदयाप्रभावादपरोक्षयति क्षणेन चात्मानम् ॥ २४ ॥ देहेन्द्रियादिधर्मानात्मन्यारोपयन्नभेदेन । कर्तृत्वाद्यभिमानी बोधः स्यात्त्वंपदस्य वाच्योऽर्थः ॥ देहस्य चेन्द्रियाणां साक्षी तेभ्यो विलक्षणत्वेन । प्रतिभाति योऽवबोधः प्रोक्तोऽसौ त्वंपदस्य लक्ष्योऽर्थः ॥ वेदावसानवाचा संवेद्यं सकलजगदुपादानम् । सर्वज्ञताद्युपेतं चैतन्यं तत्पदस्य वाच्योऽर्थः ॥ २७ ॥ विविधोपाधिविमुक्तं विश्वातीतं विशुद्धमद्वैतम् । अक्षरमनुभववेद्यं चैतन्यं तत्पदस्य लक्ष्योऽर्थः ॥ २८ ॥ सामानाधिकरण्यं तदनु विशेषणविशेष्यता चेति । अथ लक्ष्यलक्षकत्वं भवति पदार्थात्मनां च संबन्धः ॥ एकत्र वृत्तिरर्थे शब्दानां भिन्नवृत्तिहेतूनाम् । सामानाधिकरण्यं भवतीत्येवं वदन्ति लाक्षणिकाः ॥ ३० ॥ प्रत्यक्त्वपरोक्षत्वे परिपूर्णत्वं च सद्वितीयत्वम् । इतरेतरं विरुद्धं तत इह भवितव्यमेव लक्षणया ॥ ३१ ॥ मानान्तरोपरोधान्मुख्यार्थस्यापरिग्रहे जाते । मुख्याविनाकृतेऽर्थे या वृत्तिः सैव लक्षणा प्रोक्ता ॥ ३२ ॥ निखिलमपि वाच्यमर्थं त्यक्त्वा वृत्तिस्तदन्वितेऽन्यार्थे । जहतीति लक्षणा स्याद्गङ्गायां घोषवदिह न ग्राह्या ॥ वाच्यार्थमत्यजन्त्या यस्या वृत्तेः प्रवृत्तिरन्यार्थे । इयमजहतीति कथिता शोणो धावतिवदत्र न ग्राह्या ॥ जहदजहतीति सा स्याद्या वाच्यार्थैकदेशमपहाय । बोधयति चैकदेशं सोऽयं द्विज इतिवदाश्रयेदेनाम् ॥ सोऽयं द्विज इति वाक्यं त्यक्त्वा प्रत्यक्परोक्षदेशाद्यम् । द्विजमात्रलक्षकत्वात्कथयत्यैक्यं पदार्थयोरुभयोः ॥ ३६ ॥ तद्वत्तत्त्वमसीति त्यक्त्वा प्रत्यक्परोक्षतादीनि । चिद्वस्तु लक्षयित्वा बोधयति स्पष्टमसिपदेनैक्यम् ॥ इत्थं बोधितमर्थं महता वाक्येन दर्शितैक्येन । अहमित्यपरोक्षयतां वेदो वेदयति वीतशोकत्वम् ॥ ३८ ॥ प्रायः प्रवर्तकत्वं विधिवचसां लोकवेदयोर्दृष्टम् । सिद्धं बोधयतोऽर्थं कथमिव तद्भवति तत्त्वमस्यादेः ॥ विधिरेव न प्रवृत्तिं जनयत्यभिलषितवस्तुबोधोऽपि । राजा याति सुतोऽभूदिति बोधेन प्रवर्तते लोकः ॥। ४० ॥ ऐक्यपरैः श्रुतिवाक्यैरात्मा शश्वत्प्रकाश्यमानोऽपि । देशिकदयाविहीनैरपरोक्षयितुं न शक्यते पुरुषैः ॥ ४१ ॥ विरहितकाम्यनिषिद्धो विहितानुष्ठाननिर्मलस्वान्तः । भजति निजमेव बोधं गुरुणा किमिति त्वया न मन्तव्यम् ॥ कर्मभिरेव न बोधः प्रभवति गुरुणा विना दयानिधिना । आचार्यवान्हि पुरुषो वेदेत्यर्थस्य वेदसिद्धत्वात् ॥ ४३ ॥ वेदोऽनादितया वा यद्वा परमेश्वरप्रणीततया । भवति परमं प्रमाणं बाधो नास्ति स्वतश्च परतो वा ॥ नापेक्षते यदन्यद्यदपेक्षन्तेऽखिलानि मानानि । वाक्यं तन्निगमानां मानं ब्रह्माद्यतीन्द्रियावगतौ ॥ ४५ ॥ मानं प्रबोधयन्तं बोधं मानेन ये बुभुत्सन्ते । एधोभिरेव दहनं दग्धुं वाञ्छन्ति ते महात्मानः ॥ ४६ ॥ वेदोऽनादिरमुष्य व्यञ्जक ईशः स्वयंप्रकाशात्मा । तदभिव्यक्तिमुदीक्ष्य प्रोक्तोऽसौ सूरिभिः प्रमाणमिति ॥ रूपाणामवलोके चक्षुरिवान्यन्न कारणं दृष्टम् । तद्वददृष्टावगतौ वेदवदन्यो न वेदको हेतुः ॥ ४८ ॥ निगमेषु निश्चितार्थं तन्त्रे कश्चिद्यदि प्रकाशयति । तदिदमनुवादमात्रं प्रामाण्यं तस्य सिध्यति न किंचित् ॥ अंशद्वयवति निगमे साधयति द्वैतमेव कोऽप्यंशः । अद्वैतमेव वस्तु प्रतिपादयति प्रसिद्धमपरोंऽशः ॥ ५० ॥ अद्वैतमेव सत्यं तस्मिन्द्वैतं न सत्यमध्यस्तम् । रजतमिव शुक्तिकायां मृगतृष्णायामिवोदकस्फुरणम् ॥ आरोपितं यदि स्यादद्वैतं वस्त्ववस्तुनि द्वैते । तदयुक्तमेव यस्मात्सत्येऽध्यासो भवत्यसत्यानाम् ॥ ५२ ॥ यद्यारोपणमुभयोस्तद्व्यतिरिक्तस्य कस्यचिदभावात् । आरोपणं न शून्ये तस्मादद्वैतसत्यता ग्राह्या ॥ ५३ ॥ प्रत्यक्षाद्यनवगतं श्रुत्या प्रतिपादनीयमद्वैतम् । द्वैतं न प्रतिपाद्यं तस्य स्वत एव लोकसिद्धत्वात् ॥ ५४ ॥ अद्वैतं सुखरूपं दुःसहदुःखं सदा भवेद्द्वैतम् । यत्र प्रयोजनं स्यात्प्रतिपादयति श्रुतिस्तदेवासौ ॥ ५५ ॥ निगमगिरा प्रतिपाद्यं वस्तु यदानन्दरूपमद्वैतम् । स्वाभाविकं स्वरूपं जीवत्वं तस्य केचन ब्रुवते ॥ ५६ ॥ स्वाभाविकं यदि स्याज्जीवत्वं तस्य विशदविज्ञप्तेः । सकृदपि न तद्विनाशं गच्छेदुष्णप्रकाशवद्वह्नेः ॥ ५७ ॥ यद्वदयो रसविद्धं काञ्चनतां याति तद्वदेवासौ । जीवः साधनशक्त्या परतां यातीति केचिदिच्छन्ति ॥ तदिदं भवति न युक्तं गतवति तस्मिंश्चिरेण रसवीर्ये । प्रतिपद्यते प्रणाशं हैमो वर्णोऽप्ययःसमारूढः ॥ ५९ ॥ जीवत्वमपि तथेदं बहुविधसुखदुःखलक्षणोपेतम् । गतमिव साधनशक्त्या प्रतिभात्येव प्रयाति न विनाशम् ॥ तस्मात्स्वतो यदि स्याज्जीवः सततं स एव जीवः स्यात् । एवं यदि परमात्मा परमात्मैवायमिति भवेद्युक्तम् ॥ यदि वा परेण साम्यं जीवश्चेद्भजति साधनबलेन । कालेन तदपि कियता नश्यत्येवेति निश्चितं सकलैः ॥ तस्मात्परं स्वकीयं देहं मोहात्मकं च संसारम् । स्वज्ञानेन ग्रसित्वा पूर्णः स्वयमेव शिष्यते नान्यत् ॥ सत्यं ज्ञानमनन्तं प्रकृतं परमात्मरूपमद्वैतम् । अवबोधयन्ति निखिलाः श्रुतयः स्मृतिभिः समं समस्ताभिः ॥ अद्वैतबोधकानां निखिलानां निगमवाक्यजालानाम् । वाक्यान्तराणि सकलान्यभिधीयन्तेऽस्य शेषभूतानि ॥ यस्मिन्महिरवदुदिते तिमिरवदपयान्ति कर्तृतादीनि । ज्ञानं विरहितभेदं कथमिव तद्भवति तत्त्वमस्यादेः ॥ कर्मप्रकरणनिष्ठं ज्ञानं कर्माङ्गमिष्यते प्राज्ञैः । भिन्नप्रकरणभाजः कर्माङ्गत्वं कथं भवेज्ज्ञप्तेः ॥ ६७ ॥ अधिकारिविषयभेदौ कर्मज्ञानात्मकावुभौ काण्डौ । एवं सति कथमनयोरङ्गाङ्गित्वं परस्परं घटते ॥ ६८ ॥ ज्ञानं कर्मणि न स्याज्ज्ञाने कर्मेदमपि तथा न स्यात् । तत्कथमनयोरुभयोस्तपनतमोवत्समुच्चयो घटते ॥ ६९ ॥ तस्मान्मोहनिवृत्तौ ज्ञानं न सहायमन्यदर्थयते । यद्वद्घनतरतिमिरप्रकरपरिध्वंसने सहस्रांशुः ॥ ७० ॥ ज्ञानं तदेवममलं साक्षी विश्वस्य भवति परमात्मा । संबध्यते न धर्मैः साक्षी तैरेव सच्चिदानन्दः ॥ ७१ ॥ रज्ज्वादेरुरगाद्यैः संबन्धवदस्य दृश्यसंबन्धः । सततमसङ्गोऽयमिति श्रुतिरप्यमुमर्थमेव साधयति ॥ कर्तृ च कर्म च यस्य स्फुरति ब्रह्मैव तन्न जानाति । यस्य न कर्तृ न कर्म स्फुटतरमयमेव वेदितुं क्रमते ॥ कर्तृत्वादिकमेतन्मायाशक्त्या प्रपद्यते निखिलम् । इति केचिदाहुरेषा भ्रान्तिर्ब्रह्मातिरेकतो नान्यत् ॥ ७४ ॥ तस्मिन्ब्रह्मणि विदिते विश्वमशेषं भवेदिदं विदितम् । कारणमृदि विदितायां घटकरकाद्या यथावगम्यन्ते ॥ तदिदं कारणमेकं विगतविशेषं विशुद्धचिद्रूपम् । तस्मात्सदेकरूपान्मायोपहितादभूदिदं विश्वम् ॥ ७६ ॥ कारणमसदिति केचित्कथयन्त्यसतो भवेन्न कारणता । अङ्कुरजननी शक्तिः सति खलु बीजे समीक्ष्यते सकलैः ॥ कारणमसदिति कथयन्वन्ध्यापुत्रेण निर्वहेत्कार्यम् । किं च मृगतृष्णिकाम्भः पीत्वोदन्यां महीयसीं शमयेत् ॥ यस्मान्न सोऽयमसतो वादः संभवति शास्त्रयुक्तिभ्याम् । तस्मात्सदेव तत्त्वं सर्वेषां भवति कारणं जगताम् ॥ ७९ ॥ जगदाकारतयापि प्रथते गुरुशिष्यविग्रहतयापि । ब्रह्माकारतयापि प्रतिभातीदं परात्परं तत्त्वम् ॥ ८० ॥ सत्यं जगदिति भानं संसृतये स्यादपक्वचित्तानाम् । तस्मादसत्यमेतन्निखिलं प्रतिपादयन्ति निगमान्ताः ॥ परिपक्वमानसानां पुरुषवराणां पुरातनैः सुकृतैः । बृह्मैवेदं सर्वं जगदिति भूयः प्रबोधयत्येषः ॥ ८२ ॥ अनवगतकाञ्चनानां भूषणधीरेव भूषणे हैमे । एवमविवेकभाजां जगति जनानां न तात्त्विकी धिषणा ॥ अहमालम्बनसिद्धं कस्य परोक्षं भवेदिदं ब्रह्म । तदपि विचारविहीनैरपरोक्षयितुं न शक्यते मुग्धैः ॥ अहमिदमिति च मतिभ्यां सततं व्यवहरति सर्वलोकोऽपि । प्रथमा प्रतीचि चरमा निवसति वपुरिन्द्रियादिबाह्यार्थे ॥ वपुरिन्द्रियादिविषये याहंबुद्धिर्महत्यसौ भ्रान्तिः । तद्बुद्धिरतस्मिन्नित्यध्यासत्वेन शास्यमानत्वात् ॥ ८६ ॥ तस्मादशेषसाक्षी परमात्मैवाहमर्थ इत्युचितम् । अजडवदेव जडोऽयं सत्संबन्धाद्भवत्यहंकारः ॥ ८७ ॥ तस्मात्सर्वशरीरेष्वहमहमित्येव भासते स्पष्टः । यः प्रत्ययो विशुद्धस्तस्य ब्रह्मैव भवति मुख्योऽर्थः ॥ ८८ ॥ गोशब्दार्थो गोत्वं तदपि व्यक्तिः प्रतीयतेऽर्थतया । अहमर्थः परमात्मा तद्वद्भान्त्या भवत्यहंकारः ॥ ८९ ॥ दग्धृत्वादिकमयसः पावकसङ्गेन भासते यद्वत् । तद्वच्चेतनसङ्गादहमि प्रतिभान्ति कर्तृतादीनि ॥ ९० ॥ देहेन्द्रियादिदृश्यव्यतिरिक्तं विमलमतुलमद्वैतम् । अहमर्थ इति विदित्वा तद्व्यतिरिक्तं न कल्पयेत्किंचित् ॥ यद्वत्सुखदुःखानामवयवभेदादनेकता देहे । तद्वदिहासति भेदेऽप्यनुभववैविध्यमात्मनामेषाम् ॥ ९२ ॥ किमिदं किमस्य रूपं कथमिदमासीदमुष्य को हेतुः । इति न कदापि विचिन्त्यं चिन्त्यं मायेति धीमता विश्वम् ॥ दन्तिनि दारुविकारे दारु तिरोभवति सोऽपि तत्रैव । जगति तथा परमात्मा परमात्मन्यपि जगत्तिरोधत्ते । आत्ममये महति पटे विविधजगच्चित्रमात्मना लिखितम् । स्वयमेव केवलमसौ पश्यन्प्रमुदं प्रयाति परमात्मा ॥ ९५ ॥ चिन्मात्रममलमक्षयमद्वयमानन्दमनुभवारूढम् । ब्रह्मैवास्ति तदन्यन्न किमप्यस्तीति निश्चयो विदुषाम् ॥ व्यवहारस्य दशेयं विद्याविद्येति भेदपरिभाषा । नास्त्येव तत्त्वदृष्ट्या तत्त्वं ब्रह्मैव नान्यदस्त्यस्मात् ॥ ९७ ॥ अस्त्यन्यदिति मतं चेत्तदपि ब्रह्मैतदस्तितारूपम् । व्यतिरिक्तमस्तिताया नास्तितया शून्यमेव तत्सिद्धम् ॥ तत्त्वावबोधशक्त्या सुस्थितया बाधितापि सा माया । आदेहपातमेषामाभात्यात्मानमपि निजं विदुषाम् ॥ ९९ ॥ एष विशेषो विदुषां पश्यन्तोऽपि प्रपञ्चसंसारम् । पृथगात्मनो न किंचित्पश्येयुः सकलनिगमनिर्णीतात् ॥ किं चिन्त्यं किमचिन्त्यं किं कथनीयं किमप्यकथनीयम् । किं कृत्यं किमकृत्यं निखिलं ब्रह्मेति जानतां विदुषाम् ॥ निखिलं दृश्यविशेषं दृग्रूपत्वेन पश्यतां विदुषाम् । बन्धो नापि न मुक्तिर्न परात्मत्वं न चापि जीवत्वम् ॥ असकृदनुचिन्तितानामव्याहततरनिजोपदेशानाम् । प्रामाण्यपरमसीम्नां निगमनमिदमेव निखिलनिगमानाम् ॥ इति बोधितः स गुरुणा शिष्यो हृष्टः प्रणम्य तं पदयोः । स्वानुभवसिद्धमर्थं स्वयमेवान्तर्विचारयामास ॥ १०४ ॥ अजरोऽहमक्षरोऽहं प्राज्ञोऽहं प्रत्यगात्मबोधोऽहम् । परमानन्दमयोऽहं परमशिवोऽहं भवामि परिपूर्णः ॥ आद्योऽहमात्मभाजामात्मानन्दानुभूतिरसिकोऽहम् । आबालगोपमखिलैरहमित्यनुभूयमानमहिमाहम् ॥ १०६ ॥ इहपरसुखविमुखोऽहं निजसुखबोधानुभूतिभरितोऽहम् । इतिमतिदूरतरोऽहं भावेतरसुखनिषक्तचित्तोऽहम् ॥ ईशोऽहमीश्वराणामीर्ष्याद्वेषानुषङ्गरहितोऽहम् । ईक्षणविषयमतीनामीप्सितपुरुषार्थसाधनपरोऽहम् ॥ उदयोऽहमेव जगतामुपनिषदुद्यानकृतविहारोऽहम् । उद्वेलशोकसागरबाडबमुखहव्यवाहनाचिरहम् ॥ १०९ ॥ ऊर्जस्वलनिजविभवैरूर्ध्वमधस्तिर्यगश्नुवानोऽहम् । ऊहापोहविचारैरुररीकृतवत्प्रतीयमानोऽहम् ॥ ११० ॥ ऋषिरहमृष्यगणोऽहं दृष्टिरहं दृश्यमानमहमेव । ऋद्धिरहं वृद्धिरहं तृप्तिरहं तृप्तिदीपदीप्तिरहम् ॥ १११ ॥ एकोऽहमेतदीदृशमेवमितिस्फुरितभेदरहितोऽहम् । एष्टव्योऽहमनीहैरन्तः सुकृतानुभूतिभूतोऽहम् ॥ ११२ ॥ ऐक्यावभासकोऽहं वाक्यपरिज्ञानपावनमतीनाम् । ऐशमहमेव तत्त्वं नैशतमःप्रायमोहमिहिरोऽहम् ॥ ११३ ॥ ओजोऽहमोषधीनामोतप्रोतायमानभुवनोऽहम् । ओंकारसारसोल्लसदात्मसुखामोदमत्तभृङ्गोऽहम् ॥ ११४ ॥ औषधमहमशुभानामौपाधिकधर्मजालरहितोऽहम् । औदार्यातिशयोऽहं विविधचतुर्वर्गवितरणपरोऽहम् ॥ अङ्कुशमहमखिलानां महत्तया मत्तवारणेन्द्राणाम् । अम्बरमिव विमलोऽहं शम्बररिपुजातविकृतिरहितोऽहम् ॥ अस्तविकल्पमतीनामस्खलदुपदेशगम्यमानोऽहम् । अस्थिरसुखविमुखोऽहं सुस्थिरसुखबोधसंपदुचितोऽहम् ॥ करुणारसभरितोऽहं कबलितकमलासनादिलोकोऽहम् । कलुषाकृतिविधुरोऽहं कल्मषसुकृतोपलेपरहितोऽहम् ॥ खानामगोचरोऽहं खातीतोऽहं खपुष्पभवगोऽहम् । खलजनदुरासदोऽहं खण्डज्ञानापनोदनपरोऽहम् ॥ ११९ ॥ गलितद्वैतकथोऽहं देहीभवदखिलमूलहृदयोऽहम् । गन्तव्योऽहमनीहैर्गत्यागतिरहितपूर्णबोधोऽहम् ॥ १२० ॥ घनतरविमोहतिमिरप्रकरप्रध्वंसभानुनिकरोऽहम् । घटिकावासररजनीवत्सरयुगकल्पकालभेदोऽहम् ॥ १२२ ॥ चरदचरदात्मकोऽहं चतुरमतिश्लाघनीयचरितोऽहम् । चपलजनदुर्गमोऽहं चञ्चलभवजलधिपारदेशोऽहम् ॥ छन्दः सिन्धुनिगूढज्ञानसुखास्वादमोदमानोऽहम् । छलपदविहितमतीनां छन्नोऽहं शान्तिमार्गगम्योऽहम् ॥ जलजासनादिगोचरपञ्चमहाभूतमूलभूतोऽहम् । जगदानन्दकरोऽहं जन्मजरामरणरोगरहितोऽहम् ॥ झंकृतिहुंकृतिशिञ्जितबृंहितमुखविविधनादभेदोऽहम् । झटितिघटितात्मवेदनदीपपरिस्फुरितहृदयभवनोऽहम् ॥ ज्ञानमहं ज्ञेयमहं ज्ञाताहं ज्ञानसाधनगणोऽहम् । ज्ञातृज्ञानज्ञेयविनाकृतमस्तित्वमात्रमेवाहम् ॥ १२६ ॥ तत्त्वातीतपदोऽहं तनुरहमस्मीति भावरहितोऽहम् । तामसदुरधिगमोऽहं तत्त्वंपदबोधबोध्यहृदयोऽहम् ॥ दैवतदैत्यनिशाचरमानवतिर्यङ्महीधरादिरहम् । देहेन्द्रियरहितोऽहं दक्षिणपूर्वादिदिग्विभागोऽहम् ॥ धर्माधर्ममयोऽहं धर्माधर्मादिबन्धरहितोऽहम् । धार्मिकजनसुलभोऽहं धन्योऽहं धातुरादिभूतोऽहम् ॥ नामादिविरहितोऽहं नरकस्वर्गापवर्गरहितोऽहम् । नादान्तवेदितोऽहं नानाविधनिखिलनिगमसारोऽहम् ॥ परजीवभेदबाधकपरमार्थज्ञानशुद्धचित्तोऽहम् । प्रकृतिरहं विकृतिरहं परिणतिरहमस्मि भागधेयानाम् ॥ फणधरभूधरवारणविग्रहविधृतप्रपञ्चसारोऽहम् । फालतलोदितलोचनपावकपरिभूतपञ्चबाणोऽहम् ॥ १३२ ॥ बद्धो भवामि नाहं बन्धान्मुक्तस्तथापि नैवाहम् । बोध्यो भवामि नाहं बोधोऽहं नैव बोधको नाहम् ॥ भक्तिरहं भजनमहं भुक्तिरहं भुक्तिमुक्तिरहमेव । भूतानुशासनोऽहं भूतभवद्भव्यमूलभूतोऽहम् ॥ १३४ ॥ मान्योऽहमस्मि महतां मन्दमतीनाममाननीयोऽहम् । मदरागमानमोहितमानसदुर्वासनादुरापोऽहम् ॥ १३५ ॥ यजनयजमानयाजकयागमयोऽहं यमादिरहितोऽहम् । यमवरुणयक्षवासवराक्षसमरुदीशवह्निरूपोऽहम् ॥ १३६ ॥ रक्षाविधानशिक्षावीक्षितलीलावलोकमहिमाहम् । रजनीदिवसविरामस्फुरदनुभूतिप्रमाणसिद्धोऽहम् ॥ लक्षणलक्ष्यमयोऽहं लाक्षणिकोऽहं लयादिरहितोऽहम् । लाभालाभमयोऽहं लब्धव्यानामलभ्यमानोऽहम् ॥ १३८ ॥ वर्णाश्रमरहितोऽहं वर्णमयोऽहं वरेण्यगण्योऽहम् । वाचामगोचरोऽहं वचसामर्थेन गम्यमानोऽहम् ॥ १३९ ॥ शमदमविरहितमनसां शास्त्रशतैरप्यगम्यमानोऽहम् । शरणमहमेव विदुषां शकलीकृतविविधसंशयगणोऽहम् ॥ षड्भावविरहितोऽहं षड्गुणरहितोऽहमहितरहितोऽहम् । षट्कोशविरहितोऽहं षट्त्रिंशत्तत्त्वजालरहितोऽहम् ॥ संवित्सुखात्मकोऽहं समाधिसंकल्पकल्पवृक्षोऽहम् । संसारविरहितोऽहं साक्षात्कारोऽहमात्मविद्यायाः ॥ हव्यमहं कव्यमहं हेयोपादेयभावशून्योऽहम् । हरिरहमस्मि हरोऽहं विधिरहमेवास्मि कारणं तेषाम् ॥ क्षालितकलुषभयोऽहं क्षपितभवक्लेशजालहृदयोऽहम् । क्षान्ताद्यक्षरसुघटितविविधव्यवहारमूलमहमेव ॥ १४४ ॥ बहुभिः किमेभिरुक्तैरहमेवेदं चराचरं विश्वम् । शीकरफेनतरङ्गाः सिन्धोरपराणि न खलु वस्तूनि ॥ शरणं न भवति जननी न पिता न सुता न सोदरा नान्ये । परमं शरणमिदं स्याच्चरणं मम मूर्ध्नि देशिकन्यस्तम् ॥ आस्ते देशिकचरणं निरवधिरास्ते तदीक्षणे करुणा । आस्ते किमपि तदुक्तं किमतः परमस्ति जन्मसाफल्यम् ॥ कारुण्यसारसान्द्राः काङ्क्षितवरदानकल्पकविशेषाः । श्रीगुरुचरणकटाक्षाः शिशिराः शमयन्ति चित्तसंतापम् ॥ कबलितचञ्चलचेतोगुरुतरमण्डूकजातपरितोषा । शेते हृदयगुहायां चिरतरमेकैव चिन्मयी भुजगी ॥ मयि सुखबोधपयोधौ महति ब्रह्माण्डबुद्बुदसहस्रम् । मायामयेन मरुता भूत्वा भूत्वा मुहुस्तिरोधत्ते ॥ १५० ॥ गुरुकरुणयैव नावा प्राक्तनभाग्यानुकूलमारुतया । दुःसहदुःखतरङ्गैस्तुङ्गः संसारसागरस्तीर्णः ॥ १५१ ॥ सति तमसि मोहरूपे विश्वमपश्यं तदेतदित्यखिलम् । उदितवति बोधभानौ किमपि न पश्यामि किं न्विदं चित्रम् ॥ इत्यात्मबोधलाभं मुहुरनुचिन्त्य प्रमोदमानेन । प्रारब्धकर्मणोऽन्ते परं पदं प्राप्यते हि कैवल्यम् ॥ १५३ ॥ मोहान्धकारहरणं संसारोद्वेलसागरोत्तरणम् । स्वात्मनिरूपणमेतत्प्रकरणमन्तर्विचिन्त्यतां सद्भिः ॥ श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ स्वात्मनिरूपणं संपूर्णम् ॥ ॥ श्रीः ॥ ॥ आत्मबोधः ॥ तपोभिः क्षीणपापानां शान्तानां वीतरागिणाम् । मुमुक्षूणामपेक्ष्योऽयमात्मबोधो विधीयते ॥ १ ॥ बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम् । पाकस्य वह्निवज्ज्ञानं विना मोक्षो न सिध्यति ॥ २ ॥ अविरोधितया कर्म नाविद्यां विनिवर्तयेत् । विद्याविद्यां निहन्त्येव तेजस्तिमिरसंघवत् ॥ ३ ॥ अवच्छिन्न इवाज्ञानात्तन्नाशे सति केवलः । स्वयं प्रकाशते ह्यात्मा मेघापायेंऽशुमानिव ॥ ४ ॥ अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्विनिर्मलम् । कृत्वा ज्ञानं स्वयं नश्येज्जलं कतकरेणुवत् ॥ ५॥ संसारः स्वप्नतुल्यो हि रागद्वेषादिसंकुलः । स्वकाले सत्यवद्भाति प्रबोधे सत्यसद्भवेत् ॥ ६ ॥ तावत्सत्यं जगद्भाति शुक्तिकारजतं यथा । यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमद्वयम् ॥ ७ ॥ उपादानेऽखिलाधारे जगन्ति परमेश्वरे । सर्गस्थितिलयान्यान्ति बुद्बुदानीव वारिणि ॥ ८ ॥ सच्चिदात्मन्यनुस्यूते नित्ये विष्णौ प्रकल्पिताः । व्यक्तयो विविधाः सर्वा हाटके कटकादिवत् ॥ ९ ॥ यथाकाशो हृषीकेश नानोपाधिगतो विभुः । तद्भेदाद्भिन्नवद्भाति तन्नाशे केवलो भवेत् ॥ १० ॥ नानोपाधिवशादेव जातिनामाश्रमादयः । आत्मन्यारोपितास्तोये रसवर्णादिभेदवत् ॥ ११ ॥ पञ्चीकृतमहाभूतसंभवं कर्मसंचितम् । शरीरं सुखदुःखानां भोगायतनमुच्यते ॥ १२ ॥ पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥ १३ ॥ अनाद्यविद्यानिर्वाच्या कारणोपाधिरुच्यते । उपाधित्रितयादन्यमात्मानमवधारयेत् ॥ १४ ॥ पञ्चकोशादियोगेन तत्तन्मय इव स्थितः । शुद्धात्मा नीलवस्त्रादियोगेन स्फटिको यथा ॥ १५ ॥ वपुस्तुषादिभिः कोशैर्युक्तं युक्त्यवघाततः । आत्मानमान्तरं शुद्धं विविञ्च्यात्तण्डुलं यथा ॥ १६ ॥ सदा सर्वगतोऽप्यात्मा न सर्ववावभासते । बुद्धावेवावभासेत स्वच्छेषु प्रतिबिम्बवत् ॥ १७ ॥ देहेन्द्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम् । तद्वृत्तिसाक्षिणं विद्यादात्मानं राजवत्सदा ॥ १८ ॥ व्यापृतेष्विन्द्रियेष्वात्मा व्यापारीवाविवेकिनाम् । दृश्यतेऽभ्रेषु धावत्सु धावन्निव यथा शशी ॥ १९॥ आत्मचैतन्यमाश्रित्य देहेन्द्रियमनोधियः । स्वकीयार्थेषु वर्तन्ते सूर्यालोकं यथा जनाः ॥ २० ॥ देहेन्द्रियगुणान्कर्माण्यमले सच्चिदात्मनि । अध्यस्यन्त्यविवेकेन गगने नीलतादिवत् ॥ २१ ॥ अज्ञानान्मानसोपाधेः कर्तृत्वादीनि चात्मनि । कल्प्यन्तेऽम्बुगते चन्द्रे चलनादि यथाम्भसः ॥ २२ ॥ रागेच्छासुखदुःखादि बुद्धौ सत्यां प्रवर्तते । सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः ॥ २३ ॥ प्रकाशोऽर्कस्य तोयस्य शैत्यमग्नेर्यथोष्णता । स्वभावः सच्चिदानन्दनित्यनिर्मलतात्मनः ॥ २४ ॥ आत्मनः सच्चिदंशश्च बुद्धेर्वृत्तिरिति द्वयम् । संयोज्य चाविवेकेन जानामीति प्रवर्तते ॥ २५ ॥ आत्मनो विक्रिया नास्ति बुद्धेर्बोधो न जात्विति । जीवः सर्वमलं ज्ञात्वा ज्ञाता द्रष्टेति मुह्यति ॥ २६ ॥ रज्जुसर्पवदात्मानं जीवं ज्ञात्वा भयं वहेत् । नाहं जीवः परात्मेति ज्ञातश्चेन्निर्भयो भवेत् ॥ २७ ॥ आत्मावभासयत्येको बुद्ध्यादीनीन्द्रियाणि हि । दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभास्यते ॥ २८ ॥ स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः । न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने ॥ २९ ॥ निषिध्य निखिलोपाधीन्नेति नेतीति वाक्यतः । विद्यादैक्यं महावाक्यैर्जीवात्मपरमात्मनोः ॥ ३० ॥ आविद्यकं शरीरादि दृश्यं बुद्बुदवत्क्षरम् । एतद्विलक्षणं विद्यादहं ब्रह्मेति निर्मलम् ॥ ३१ ॥ देहान्यत्वान्न मे जन्मजराकार्श्यलयादयः । शब्दादिविषयैः सङ्गो निरिन्द्रियतया न च ॥ ३२ ॥ अमनस्त्वान्न मे दुःखरागद्वेषभयादयः । अप्राणो ह्यमनाः शुभ्र इत्यादिश्रुतिशासनात् ॥ ३३ ॥ निर्गुणो निष्क्रियो नित्यो निर्विकल्पो निरञ्जनः । निर्विकारो निराकारो नित्यमुक्तोऽस्मि निर्मलः ॥ ३४ ॥ अहमाकाशवत्सर्वं बहिरन्तर्गतोऽच्युतः । सदा सर्वसमः सिद्धो निःसङ्गो निर्मलोऽचलः ॥ ३५ ॥ नित्यशुद्धविमुक्तैकमखण्डानन्दमद्वयम् । सत्यं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत् ॥ ३६ ॥ एवं निरन्तरकृता ब्रह्मैवास्मीति वासना । हरत्यविद्याविक्षेपान्रोगानिव रसायनम् ॥ ३७ ॥ विविक्तदेश आसीनो विरागो विजितेन्द्रियः । भावयेदेकमात्मानं तमनन्तमनन्यधीः ॥ ३८ ॥ आत्मन्येवाखिलं दृश्यं प्रविलाप्य धिया सुधीः । भावयेदेकमात्मानं निर्मलाकाशवत्सदा ॥ ३९ ॥ रूपवर्णादिकं सर्वं विहाय परमार्थवित् । परिपूर्णचिदानन्दस्वरूपेणावतिष्ठते ॥ ४० ॥ ज्ञातृज्ञानज्ञेयभेदः परे नात्मनि विद्यते । चिदानन्दैकरूपत्वाद्दीप्यते स्वयमेव हि ॥ ४१ ॥ एवमात्मारणौ ध्यानमथने सततं कृते । उदितावगतिज्वाला सर्वाज्ञानेन्धनं दहेत् ॥ ४२ ॥ अरुणेनेव बोधेन पूर्वं संतमसे हृते । तत आविर्भवेदात्मा स्वयमेवांशुमानिव ॥ ४३ ॥ आत्मा तु सततं प्राप्तोऽप्यप्राप्तवदविद्यया । तन्नाशे प्राप्तवद्भाति स्वकण्ठाभरणं यथा ॥ ४४ ॥ स्थाणौ पुरुषवद्भ्रान्त्या कृता ब्रह्मणि जीवता । जीवस्य तात्त्विके रूपे तस्मिन्दृष्टे निवर्तते ॥ ४५ ॥ तत्त्वस्वरूपानुभवादुत्पन्नं ज्ञानमञ्जसा । अहं ममेति चाज्ञानं बाधते दिग्भ्रमादिवत् ॥ ४६ ॥ सम्यग्विज्ञानवान्योगी स्वात्मन्येवाखिलं स्थितम् । एकं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा ॥ ४७ ॥ आत्मैवेदं जगत्सर्वमात्मनोऽन्यन्न किंचन । मृदो यद्वद्घटादीनि स्वात्मानं सर्वमीक्षते ॥ ४८ ॥ जीवन्मुक्तस्तु तद्विद्वान्पूर्वोपाधिगुणांस्त्यजेत् । स सच्चिदादिधर्मत्वं भेजे भ्रमरकीटवत् ॥ ४९ ॥ तीर्त्वा महार्णवं हत्वा रागद्वेषादिराक्षसान् । योगी शान्तिसमायुक्त आत्मा रामो विराजते ॥ ५० ॥ बाह्यानित्यसुखासक्तिं हित्वात्मसुखनिर्वृतः । घटस्थदीपवच्छश्वदन्तरेव प्रकाशते ॥ ५१ ॥ उपाधिस्थोऽपि तद्धर्मैरलिप्तो व्योमवन्मुनिः । सर्वविन्मूढवत्तिष्ठेदसक्तो वायुवच्चरेत् ॥ ५२ ॥ उपाधिविलयाद्विष्णौ निर्विशेषं विशेन्मुनिः । जले जलं वियद्व्योम्नि तेजस्तेजसि वा यथा ॥ ५३ ॥ यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् । यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधारयेत् ॥ ५४ ॥ यद्दृष्ट्रा नापरं दृश्यं यद्भूत्वा न पुनर्भवः । यज्ज्ञात्वा नापरं ज्ञेयं तद्ब्रह्मेत्यवधारयेत् ॥ ५५ ॥ तिर्यगूर्ध्वमधः पूर्णं सच्चिदानन्दमद्वयम् । अनन्तं नित्यमेकं यत्तद्ब्रह्मेत्यवधारयेत् ॥ ५६ ॥ अद्वयावृत्तिरूपेण वेदान्तैर्लक्ष्यतेऽव्ययम् । अखण्डानन्दमेकं यत्तद्ब्रह्मेत्यवधारयेत् ॥ ५७ ॥ अखण्डानन्दरूपस्य तस्यानन्दलवाश्रिताः । ब्रह्माद्यास्तारतम्येन भवन्त्यानन्दिनोऽखिलाः ॥ ५८ ॥ तद्युक्तमखिलं वस्तु व्यवहारश्चिदन्वितः । तस्मात्सर्वगतं ब्रह्म क्षीरे सर्पिरिवाखिले ॥ ५९॥ अनण्वस्थूलमह्रस्वमदीर्घमजमव्ययम् । अरूपगुणवर्णाख्यं तद्ब्रह्मेत्यवधारयेत् ॥ ६० ॥ यद्भासा भास्यतेऽर्कादि भास्यैर्यत्तु न भास्यते । येन सर्वमिदं भाति तद्ब्रह्मेत्यवधारयेत् ॥ ६१ ॥ स्वयमन्तर्बहिर्व्याप्य भासयन्नखिलं जगत् । ब्रह्म प्रकाशते वह्निप्रतप्तायसपिण्डवत् ॥ ६२ । जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन्न किंचन । ब्रह्मान्यद्भाति चेन्मिथ्या यथा मरुमरीचिका ॥ ६३ ॥ दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् । तत्त्वज्ञानाच्च तद्ब्रह्म सच्चिदानन्दमद्वयम् ॥ ६४ ॥ सर्वगं सच्चिदानन्दं ज्ञानचक्षुर्निरीक्षते । अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् ॥ ६५ ॥ श्रवणादिभिरुद्दीप्त- ज्ञानाग्निपरितापितः । जीवः सर्वमलान्मुक्तः स्वर्णवद्द्योतते स्वयम् ॥ ६६ ॥ हृदाकाशोदितो ह्यात्मा बोधभानुस्तमोपहृत् । सर्वव्यापी सर्वधारी भाति भासयतेऽखिलम् ॥ ६७ ॥ दिग्देशकालाद्यनपेक्ष्य सर्वगं शीतादिहृन्नित्यसुखं निरञ्जनम् । यः स्वात्मतीर्थं भजते विनिष्क्रियः स सर्ववित्सर्वगतोऽमृतो भवेत् ॥ ६८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव- त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ आत्मबोधः संपूर्णः ॥ ॥ श्रीः ॥ ॥ शतश्लोकी ॥ दृष्टान्तो नैव दृष्टत्रिभुवनजठरे सद्गुरोर्ज्ञानदातुः स्पर्शश्चेत्तत्र कल्प्यः स नयति यदहो स्वर्णतामश्मसारम् । न स्पर्शत्वं तथापि श्रितचरणयुगे सद्गुरुः स्वीयशिष्ये स्वीयं साम्यं विधत्ते भवति निरुपमस्तेन वालौकिकोऽपि ॥ यद्वच्छ्रीखण्डवृक्षप्रसृतपरिमलेनाभितोऽन्येऽपि वृक्षाः शश्वत्सौगन्ध्यभाजोऽप्यतनुतनुभृतां तापमुन्मूलयन्ति । आचार्याल्लब्धबोधा अपि विधिवशतः संनिधौ संस्थितानां त्रेधा तापं च पापं सकरुणहृदयाः स्वोक्तिभिः क्षालयन्ति ॥ आत्मानात्मप्रतीतिः प्रथममभिहिता सत्यमिध्यात्वयोगा- द्द्वेधा ब्रह्मप्रतीतिर्निगमनिगदिता स्वानुभूत्योपपत्त्या । आद्या देहानुबन्धाद्भवति तदपरा सा च सर्वात्मकत्वा- दादौ ब्रह्माहमस्मीत्यनुभव उदिते खल्विदं ब्रह्म पश्चात् ॥ आत्मा चिद्वित्सुखात्मानुभवपरिचितः सर्वदेहादियन्ता सत्येवं मूढबुद्धिर्भजति ननु जनोऽनित्यदेहात्मबुद्धिम् । बाह्योऽस्थिस्नायुमज्जापलरुधिरवसाचर्ममेदोयुगन्त- र्विण्मूत्रश्लेष्मपूर्णं स्वपरवपुरहो संविदित्वापि भूयः ॥ ४ ॥ देहस्त्रीपुत्रमित्रानुचरहयवृषास्तोषहेतुर्ममेत्थं सर्वे स्वायुर्नन्ति प्रथितमलममी मांसमीमांसयेह । एते जीवन्ति येन व्यवहृतिपटवो येन सौभाग्यभाज- स्तं प्राणाधीशमन्तर्गतममृतममुं नैव मीमांसयन्ति ॥ ५ ॥ कश्चित्कीटः कथंचित्पटुमतिरभितः कण्टकानां कुटीरं कुर्वंस्तेनैव साकं व्यवहृतिविधये चेष्टते यावदायुः । तद्वज्जीवोऽपि नानाचरितसमुदितैः कर्मभिः स्थूलदेहं निर्माायात्रैव तिष्ठन्ननुदिनममुना साकमभ्येति भूमौ ॥ ६ ॥ स्वीकुर्वन्व्याघ्रवेषं स्वजठरभृतये भीषयन्यश्च मुग्धा- न्मत्वा व्याघ्रोऽहमित्थं स नरपशुमुखान्बाधते किं नु सत्त्वान् । मत्वा स्त्रीवेषधारी स्त्र्यहमिति कुरुते किं नटो भर्तुरिच्छां तद्वच्छारीर आत्मा पृथगनुभवतो देहतो यत्स साक्षी ॥ ७ ॥ स्वं बालं रोदमानं चिरतरसमयं शान्तिमानेतुमग्रे द्राक्षं खार्जूरमात्रं सुकदलमथवा योजयत्यम्बिकास्य । तद्वच्चेतोऽतिमूढं बहुजननभवान्मौढ्यसंस्कारयोगा- द्बोधोपायैरनेकैरवशमुपनिषद्बोधयामास सम्यक् ॥ ८ ॥ यत्प्रीत्या प्रीतिमात्रं तनुयुवतितनूजार्थमुख्यं स तस्मा- त्प्रेयानात्माथ शोकास्पदमितरदतः प्रेय एतत्कथं स्यात् । भार्याद्यं जीवितार्थी वितरति च वपुः स्वात्मनः श्रेय इच्छं- स्तस्मादात्मानमेव प्रियमधिकमुपासीत विद्वान्न चान्यत् ॥ यस्माद्यावत्प्रियं स्यादिह हि विषयतस्तावदस्मिन्प्रियत्वं यावद्दुःखं च यस्माद्भवति खलु ततस्तावदेवाप्रियत्वम् । नैकस्मिन्सर्वकालेऽस्त्युभयमपि कदाप्यप्रियोऽपि प्रियः स्या- त्प्रेयानप्यप्रियो वा सततमपि ततः प्रेय आत्माख्यवस्तु ॥ श्रेयः प्रेयश्च लोके द्विविधमभिहितं काम्यमात्यन्तिकं च काम्यं दुःखैकबीजं क्षणलवविरसं तच्चिकीर्षन्ति मन्दाः । ब्रह्मैवात्यन्तिकं यन्निरतिशयसुखस्यास्पदं संश्रयन्ते तत्त्वज्ञास्तच्च काठोपनिषदभिहितं षड्विधायां च वल्ल्याम् ॥ आत्माम्भोधेस्तरङ्गोऽस्म्यहमिति गमने भावयन्नासनस्थः संवित्सूत्रानुविद्धो मणिरहमिति वास्मीन्द्रियार्थप्रतीतौ । दृष्टोऽस्म्यात्मावलोकादिति शयनविधौ मग्न आनन्द सिन्धा- वन्तर्निष्ठो मुमुक्षुः स खलु तनुभृतां यो नयत्येवमायुः ॥ वैराजव्यष्टिरूपं जगदखिलमिदं नामरूपात्मकं स्या- दन्तःस्थप्राणमुख्यात्प्रचलति च पुनर्वेत्ति सर्वान्पदार्थान् । नायं कर्ता न भोक्ता सवितृवदिति यो ज्ञानविज्ञानपूर्णः साक्षादित्थं विजानन्व्यवहरति परात्मानुसंधानपूर्वम् ॥ नैर्वेद्यं ज्ञानगर्भं द्विविधमभिहितं तत्र वैराग्यमाद्यं प्रायो दुःखावलोकाद्भवति गृहसुहृत्पुत्रवित्तैषणादेः । अन्यज्ज्ञानोपदेशाद्यदुदितविषये वान्तवद्धेयता स्या- त्प्रव्रज्यापि द्विधा स्यान्नियमितमनसां देहतो गेहतश्च ॥ यः कश्चित्सौख्यहेतोस्त्रिजगति यतते नैव दुःखस्य हेतो- र्देहेऽहंता तदुत्था स्वविषयममता चेति दुःखास्पदे द्वे । जानन्रोगाभिघाताद्यनुभवति यतो नित्यदेहात्मबुद्धि- र्भार्यापुत्रार्थनाशे विपदमथ परामेति नारातिनाशे ॥ १५ ॥ तिष्ठन्गेहे गृहेशोऽप्यतिथिरिव निजं धाम गन्तुं चिकीर्षु- र्देहस्थं दुःखसौख्यं न भजति सहसा निर्ममत्वाभिमानः । आयात्रायास्यतीदं जलदपटलवद्यातृ यास्यत्यवश्यं देहाद्यं सर्वमेवं प्रविदितविशयो यश्च तिष्ठत्ययत्नः ॥ १६ ॥ शक्त्या निर्मोकतः स्वाद्वहिरहिरिव यः प्रव्रजन्स्वीयगेहा- च्छायां मार्गद्रुमोत्थां पथिक इव मनाक्संश्रयेद्देहसंस्थाम् । क्षुत्पर्याप्तं तरुभ्यः पतितफलमयं प्रार्थयेद्भैक्षमन्नं स्वात्मारामं प्रवेष्टुं स खलु सुखमयं प्रव्रजेद्देहतोऽपि ॥ कामो बुद्धावुदेति प्रथममिह मनस्युद्दिशत्यर्थजातं तद्गृह्णातीन्द्रियास्यैस्तदनधिगमतः क्रोध आविर्भवेच्च । प्राप्तावर्थस्य संरक्षणमतिरुदितो लोभ एतत्त्रयं स्या- त्सर्वेषां पातहेतुस्तदिह मतिमता त्याज्यमध्यात्मयोगान् ॥ दानं ब्रह्मार्पणं यत्क्रियत इह नृभिः स्यात्क्षमाक्रोधसंज्ञा श्रद्धास्तिक्यं च सत्यं सदिति परमतः सेतुसंज्ञं चतुष्कम् । तत्स्याद्बन्धाय जन्तोरिति चतुर इमान्दानपूर्वैश्चतुर्भि- स्तीर्त्वा श्रेयोऽमृतं च श्रयत इह नरः स्वर्गतिं ज्योतिराप्तिम् ॥ शतश्लोकी । अन्नं देवातिथिभ्योऽर्पितममृतमिदं चान्यथा मोघमन्नं वात्मार्थं विधत्ते तदिह निगदितं मृत्युरूपं हि तय । लोकेऽसौ केवलाघो भवति तनुभृतां केवलादी च यः स्या- त्यक्ा प्राणाग्निहोत्रं विधिवदनुदिनं योऽश्रुते सोऽपि मर्त्यः ॥ लोके भोजः स एवार्पयति गृहगतायार्थिनेऽन्नं कृशाय यस्तस्मै पूर्णमन्नं भवति मखविधौ जायतेऽजातशत्रुः । सख्ये नान्नार्थिने योऽर्पयति न स सखा सेवमानाय नित्यं संसक्तायान्नमस्माद्विमुख इव परावृत्तिमिच्छेत्कदर्यात् ॥ । स्वाज्ञानज्ञानहेतू जगदुदयलयौ सर्वसाधारणौ स्तो जीवेष्वा स्वर्णगर्भ श्रुतय इति जगुहूयते स्वप्रबोधे । विश्वं ब्रह्मण्यबोधे जगति पुनरिदं हूयते ब्रह्म यद्व- च्छुक्त रौप्यं च रौप्येऽधिकरणमथवा हूयतेऽन्योन्यमोहात् ॥ तुच्छत्वान्नासदासीद्गगनकुसुमवद्भेदकं नो सदासी- किं त्वाभ्यामन्यदासीद्वयवहृतिगतिसन्नास लोकस्तदानीम् । किं त्वर्वागेव शुक्तौ रजतवदपरो नो विराड् व्योमपूर्वः शर्मण्यात्मन्यथैतत्कुहकसलिलवत्किं भवेदावरीवः ॥ २३ ॥ शतश्लोकी । बन्धो जन्मात्ययात्मा यदि न पुनरभूत्तर्हि मोक्षोऽपि नासी- द्वात्रिंदिनं वा न भवति तरणौ किं तु हग्दोष एषः । अप्राणं शुद्धमेकं समभवदथ तन्मायया कर्तृसंज्ञ तस्मादन्यच्च नासीत्परिवृतमजया जीवभूतं तदेव ॥ २४ ॥ प्रागासीद्भावरूपं तम इति तमसा गूढमस्मादतयै क्षीरान्तर्यद्वदम्भो जनिरिह जगतो नामरूपात्मकस्य । कामाद्धातुः सिसृक्षोरनुगतजगतः कर्मभिः संप्रवृत्ता- ★तोरूपैर्मनोभिः प्रथममनुगतैः संततैः कार्यमाणैः ॥२५॥ चत्वारोऽस्याः कपर्दा युवतिरथ भवेन्नूतना नित्यमेषा माया वा पेशला स्यादघटनघटनापाटवं याति यस्मात् । स्यादारम्भे घृतास्या श्रुतिभववयुनान्येवमाच्छादयन्ती तस्यामेतौ सुपर्णाविव परपुरुषौ तिष्ठतोऽर्थप्रतीत्या ॥२६॥ एकस्तत्त्रास्त्यसङ्गस्तदनु तदपरोऽज्ञानसिन्धुं प्रविष्टो विस्मृत्यात्मस्वरूपं स विविधजगदाकारमाभासमैक्षत । बुद्धयान्तर्यावदैक्षद्विसृजति तमजा सोऽपि तामेवमेक- स्तावद्विप्रास्तमेकं कथमपि बहुधा कल्पयन्ति स्ववाग्भिः ॥ शतश्लोकी । नायाति प्रत्यगात्मा प्रजननसमये नैव यात्यन्तकाले यत्सोऽखण्डोऽस्ति लैङ्गं मन इह विशति प्रव्रजत्यूर्ध्वमर्वाक् । तत्काश्यै स्थूलतां वा न भजति वपुषः किंतु संस्कारजाते तेजोमात्रा गृहीत्वा व्रजति पुनरिहायाति तैस्तैः सहैव ॥ आसीत्पूर्वं सुबन्धुर्भृशमवनिसुरो यः पुरोधाः सनाते- ब्रह्मयात्कुटाभिचारात्स खलु मृतिमितस्तन्मनोऽगात्कृतान्तम् । तद्भाता श्रौतमन्त्रैः पुनरन्यदिति प्राह सूक्तेन वेद- स्तस्मादात्माभियुक्तं व्रजति ननु मनः कर्हिचिन्नान्तरात्मा ॥ eat florम्प आत्मा प्रचलति मनसा धावमानेन तस्मि स्तिष्ठन्नग्रेऽथ पश्चान्न हि तमनुगतं जानते चक्षुराद्याः । यद्वत्पाथस्तरङ्गैः प्रचलति परितो धावमानैस्तदन्तः प्राक्पश्चादस्ति तेषां पवनसमुदितैस्तैः प्रशान्तैर्यथावत् ॥ एकाक्यासीत्स पूर्व मृगयति विषयानानुपूर्व्यान्तरात्मा जाया मे स्यात्प्रजा वा धनमुपकरणं कर्म कुर्वस्तदर्थम् । शैः प्राणावशेषैर्महदपि मनुते नान्यदस्माद्गरीय- स्त्वेकालाभेऽप्यकृत्स्नो मृत इव विरमत्येकहान्याकृतार्थः ॥ शतश्लोकी । नासीत्पूर्व न पश्चादनुदिनकराच्छादको वारिवाहो ७७ दृश्यः किं त्वन्तरासौ स्थगयति स दृशं पश्यतो नार्कबिम्बम् । नो चेदेवं विनार्क जलधरपटलं भासते तर्हि कस्मा- तद्वद्विश्वं पिधत्ते दृशमथ न परं भासकं चालकं स्वम् ॥ भुञ्जानः स्वप्नराज्यं ससकलविभवो जागरं प्राप्य भूयो राज्यभ्रष्टोऽहमित्थं न भजति विषमं तन्मृषा मन्यमानः । स्वप्ने कुर्वन्नगम्यागमनमुखमघं तेन न प्रत्यवायी तद्वज्जाग्रद्दशायां व्यवहृतिमखिलां स्वप्नवद्विस्मरेचेत् ॥ ३३ स्वप्नावस्थानुभूतं शुभमथ विषमं तन्मृषा जागरे स्या- ज्जात्यां स्थूल देहव्यवहृतिविषयं तन्मृषा स्वापकाले । इत्थं मिध्यात्वसिद्धावनिशमुभयथा सज्जते तत्र मूढः सत्ये तद्भासकेऽस्मिन्निह हि कुत इदं तन्न विद्मो वयं हि ॥ जीवन्तं जाग्रतीह स्वजनमथ मृतं स्वप्रकाले निरीक्ष्य निर्वेदं यात्यकस्मान्मृतममृतममुं वीक्ष्य हर्षे प्रयाति । स्मृत्वाप्येतस्य जन्तोर्निधनमसुयुतिं भाषते तेन साकं सत्येवं भाति भूयोऽल्पकसमयवशात्सत्यता वा मुषात्वम् ॥ शतलीकी । स्वानस्त्रीसङ्गसौख्यादपि भृशमसतो या च रेतश्च्युतिः स्या- त्सा दृश्या तद्वदेतत्स्फुरति जगदसत्कारणं सत्यकल्पम् । स्वप्ने सत्यः पुमान्स्याद्युवतिरिह मृषैवानयोः संयुतिश्च प्रातः शुक्रेण वस्त्रोपतिरिति यतः कल्पना मूलमेतत ॥ पश्यन्त्या राममस्य प्रतिदिवसममी जन्तवः स्वापकाले पश्यत्येनं न कश्चित्करणगणमृते मायया क्रीडमानम् । जाप्रत्यर्थव्रजानामथ च तनुभृतां भासकं चालकं वा नो जानीते सुषुप्तौ परमसुखमयं कश्चिदाश्चर्यमेतत् ॥ स्व मन्त्रोपदेशः श्रवणपरिचितः सत्य एष प्रबोधे स्वानादेव प्रसादादभिलषितफलं सत्यतां प्रातरेति । सत्यप्राप्तिस्त्वसत्यादपि भवति तथा किं च तत्स्वप्रकाशं येनेदं भाति सर्वे चरमचरमथोच्चावचं दृश्यजातम् ॥३८॥ मध्यप्राणं सुषुप्तौ स्वजनिमनुविशन्त्यग्निसूर्यादयोऽमी वागाद्या: प्राणवायुं तदिह निगदिता ग्लानिरेषां न वायोः । वेभ्यो दृश्यावभासो भ्रम इति विदितः शुक्तिकारौप्यकल्पः प्राणायामव्रतं तच्छ्रुतिशिरसि मतं स्वात्मलब्धौ न चान्यत् ॥ शतश्लोकी । नोऽकस्मादाद्रमेधः स्पृशति च दहनः किं तु शुष्कं निदाघा- दाद्रे चेतोऽनुबन्धैः कृतसुकृतमपि स्वोक्तकर्मप्रजार्थैः । तद्वज्ज्ञानाग्निरेतत्स्पृशति न सहसा किं तु वैराग्यशुष्कं तस्माच्छुद्धो विरागः प्रथममभिहितस्तेन विज्ञानसिद्धिः ॥ यत्किंचिन्नामरूपात्मकमिदमसदेवोदितं भाति भूमौ येनानेकप्रकारैर्व्यवहरति जगद्येन तेनेश्वरेण । तद्वत्प्रच्छादनीयं निभृतरशनया यद्वद्वेष द्विजिह्व- स्तेन त्यक्तेन भोज्यं सुखमनतिशयं मा गृधोऽन्यद्धनाद्यम् ॥ जीवन्मुक्तिर्मुमुक्षो: प्रथममथ ततो मुक्तिरात्यन्तिकी च तेऽभ्यासज्ञानयोगाद्गुरुचरणकृपा पाङ्गसङ्गेन लब्धात् । अभ्यासोऽपि द्विधा स्यादधिकरणवश । दैहिको मानसश्च शारीरस्त्वासनाद्यो परतिरपरो ज्ञानयोगः पुरोक्तः ॥ सर्वानुन्मूल्य कामान्हृदि कृतनिलयान्क्षिप्तशङ्कनिवोचे- दर्यदेहाभिमानस्त्यजति चपलतामात्मदत्तावधानः । यात्यूर्ध्वस्थानमुञ्चैः कृतसुकृतभरो नाडिकाभिर्विचित्रं नीलश्वेतारुणाभिः स्रवदमृतभरं गृह्यमाणात्मसौख्यः ॥ शतश्लोकी । प्रापश्यद्विश्वमात्मेत्ययमिह पुरुषः शोकमोहाद्यतीतः शुक्रं ब्रह्माध्यगच्छत्स खलु सकलवित्सर्वसिद्धयास्पदं हि. विस्मृत्य स्थूलसूक्ष्मप्रभृतिवपुरसौ सर्वसंकल्पशून्यो जीवन्मुक्तस्तुरीयं पदमधिगतवान्पुण्यपापैर्विहीनः ॥ ४४ ॥ यः सत्त्वाकारवृत्तौ प्रतिफलति युवा देहमात्रावृतोऽपि तद्धर्मैर्बात्यवाद्धर्घादिभिरनुपहतः प्राण आविर्बभूव । श्रेयान्साध्यस्तमेतं सुनिपुणमतयः सत्यसंकल्पभाजो ह्यभ्यासाद्देवयन्तः परिणतमनसा साकमूर्ध्वं नयन्ति ॥ प्रायोऽकामोsस्तकामो निरतिशय सुखायात्मकामस्तदासौ तत्प्राप्तावाप्तकामः स्थितचरमदशस्तस्य देहावसाने । प्राणा नैवोत्क्रमन्ति क्रमविरतिमिताः स्वस्वहेतौ तदानीं कार्य जीवो विलीनो लवणमिव जलेऽखण्ड आत्मैव पश्चात् ॥ पिण्डीभूतं यदन्तर्जलनिधिसलिलं याति तत्सैन्धवाख्यं भूयः प्रक्षिप्तमस्मिन्विलयमुपगतं नामरूपे जहाति । प्राज्ञस्तद्वत्परात्मन्यथ भजति लयं तस्य चेतो हिमांशौ arrat चक्षुरर्के पयसि पुनरसृप्रेतसी दिक्षु कर्णौ ॥ ४७ ॥ शतश्लोकी । श्रीरान्तर्यद्वदाज्यं मधुरिमविदितं तत्पृथग्भूतमस्मा- द्भूतेषु ब्रह्म तद्वद्व्यवहृतिविदितं श्रान्तविश्रान्तिबीजम् । यं लब्ध्वा लाभमन्यं तृणमिव मनुते यत्र नोदेति भीति : सान्द्रानन्दं यदन्तः स्फुरति तदमृतं विद्धयतो ह्यन्यदार्तम् ॥ ओतः प्रोतश्च तन्तुष्विह विततपटचित्रवर्णेषु चित्र- स्तस्मिजिज्ञास्यमाने ननु भवति पटः सूत्रमात्रावशेषः । तद्वद्विश्वं विचित्रं नगनगरनरग्रामपश्वादिरूपं प्रोतं वैराजरूपे स वियति तदपि ब्रह्मणि प्रोतमोतम् ॥ रूपं रूपं प्रतीदं प्रतिफलनवशात्प्रातिरूप्यं प्रपेदे को द्रष्टा द्वितीयो भवति च सलिले सर्वतोऽनन्तरूपः । इन्द्रो मायाभिरास्ते श्रुतिरिति वदति व्यापकं ब्रह्म तस्मा- ज्जीवत्वं यात्यकस्मादतिविमलतरे बिम्बितं बुद्धयुपाधौ ॥ तज्ज्ञाः पश्यन्ति बुद्धया परमबलवतो माययाक्तं पतङ्ग बुद्धावन्तः समुद्रे प्रतिफलितमरीच्यास्पदं वेधसस्तम् । यादृग्यावानुपाधिः प्रतिफलति तथा ब्रह्म तस्मिन्यथास्यं प्राप्तादर्शानुरूपं प्रतिफलति यथावस्थितं सत्सदैव ॥ ५१ ॥ S. P. II. 6 शतश्लोकी । को भानुस्तदस्थः प्रतिफलनवशाद्यस्त्वनेकोदकान्त- नात्वं यात्युपाधिस्थितिगतिसमतां चापि तद्वत्परात्मा । भूतेषूच्चावचेषु प्रतिफलित इवाभाति तावत्स्वभावा- वच्छिन्नो यः परं तु स्फुटमनुपहतो भाति तावत्स्वभावैः ॥ यद्वत्पीयूष रश्मौ दिनकरकिरणैर्विम्बितैरेति सान्द्रं : नाशं नैशं तमिस्रं गृहगतमथवा मूर्छितैः कांस्यपात्रे । तद्वद्बुद्धौ परात्मद्युतिभिरनुपदं विम्बिताभिः समन्ता- झासन्ते हीन्द्रियास्यप्रसृतिभिरनिशं रूपमुख्याः पदार्थाः ॥ पूर्णात्मानात्मभेदात्त्रिविधमिह परं बुद्धयवच्छिन्नमन्य- तत्रैवाभासमात्रं गगनमिव जले त्रिप्रकारं विभाति । अम्भोवच्छिन्नमस्मिन्प्रतिफलितमतः पाथसोऽन्तर्बहिश्च पूर्णावच्छिन्नयोगे व्रजति लयमविद्या स्वकार्यैः सहैव ॥ दृश्यन्ते दारुनार्यो युगपदगणिता: स्तम्भसूत्रप्रयुक्ताः संगीतं दर्शयन्त्यो व्यवहृतिमपरां लोक सिद्धां च सर्वाम् । सर्वत्रानुप्रविष्टादभिनवविभवाद्यावदर्थानुबन्धा- तद्वत्सूत्रात्मसंज्ञाद्व्यवहरति जगद्भूर्भुवः स्वर्महान्तम् ॥ ५५ ॥ शतश्लोकी । तत्सत्यं यत्रिकालेष्वनुपहतमदः प्राणदिग्व्योममुख्यं यस्मिन्विश्रान्तमास्ते तदिह निगदितं ब्रह्म सत्यस्य सत्यम् । नास्त्यन्यत्किंच यद्वत्परमधिकमतो नाम सत्यस्य सत्यं सच्च त्यच्चेति मूर्ताद्युपहितमवरं सत्यमस्यापि सत्यम ॥ यत्किंचिद्भात्यसत्यं व्यवहृतिविषये रौप्यसर्पाम्बुमुख्यं तद्वै सत्याश्रयेणेत्ययमिह नियमः सावधिर्लोक सिद्धः । तद्वै सत्यस्य सत्ये जगदखिलमिदं ब्रह्मणि प्राविरासी- न्मिथ्याभूतं प्रतीतं भवति खलु यतस्तच्च सत्यं वदन्ति ॥ यत्राकाशावकाशः कलयति च कलामात्रतां यत्र कालो यत्रैवाशावसानं बृहदिह हि विराट्पूर्वमर्वागिवास्ते । सूत्रं यत्राविरासीन्महदपि महतस्तद्धि पूर्णाच्च पूर्ण संपूर्णादर्णवादेरपि भवति यथा पूर्णमेकार्णवाम्भः ॥ ५८ ॥ अन्तः सर्वौषधीनां पृथगमितरसैर्गन्धवीर्यैर्विपाकै- रेकं पाथोदपाथः परिणमति यथा तद्वदेवान्तरात्मा । नानाभूतस्वभावैर्वहति वसुमती येन विश्वं पयोदो वर्षायुताशः पचति दहति वा येन सर्वान्तरोऽसौ ॥ शतश्लोकी । भूतेष्वात्मानमात्मन्यनुगतमखिलं भूतजातं प्रपश्ये- त्प्रायः पाथस्तरङ्गान्वयवदथ चिरं सर्वमात्मैव पश्येत् । एकं ब्रह्माद्वितीयं श्रुतिशिरसि मतं नेह नानास्ति किंचि- मृत्योराप्नोति मृत्युं स इह जगदिदं यस्तु नानेव पश्येत् ॥ प्राक्पश्चादस्ति कुम्भाद्गगनमिदमिति प्रत्यये सत्यपीदं कुम्भोत्पत्तावुदेति प्रलयमुपगते नश्यतीत्यन्यदेशम् । नीते कुम्भेन साकं व्रजति भजति वा तत्प्रमाणानुकारा- वित्थं मिथ्याप्रतीतिः स्फुरति तनुभृतां विश्वतस्तद्वदात्मा ॥ यावान्पिण्डो गुडस्य स्फुरति मधुरिमैवास्ति सर्वोऽपि तावा- न्यावान्कर्पूरपिण्डः परिणमति सदामोद एवात्र तावान । विश्वं यावद्विभाति द्रुमनगनगरारामचैत्याभिरामं तावचैतन्यमेकं प्रविकसति यतोऽन्ते तदात्मावशेषम् ॥ वाद्यान्नादानुभूतिर्यदपि तदपि सा नूनमाघातगम्या वाद्याघातध्वनीनां न पृथगनुभवः किं तु तत्साहचर्यात् । मायोपादानमेतत्सहचरितमिव ब्रह्मणाभाति तद्व- तस्मिन्प्रत्यप्रतीते न किमपि विषयीभावमाप्नोति यस्मात् ॥ शतश्लोकी । दृष्टः साक्षादिदानीमिह खलु जगतामीश्वरः संविदात्मा विज्ञातः स्थाणुरेको गगनवदद्भितः सर्वभूतान्तरात्मा । दृष्टं ब्रह्मातिरिक्तं सकलमिद्मसद्रूपमाभासमात्रं शुद्धं ब्रह्माहमस्मीत्यविरतमधुनात्रैव तिष्ठेदनीहः ॥ ६४ ॥ इन्द्रेन्द्राण्योः प्रकामं सुरतसुखजुषोः स्याद्रतान्तः सुषुप्ति- स्तस्यामानन्दसान्द्रं पदमतिगहनं यत्स आनन्दकोशः । तस्मिन्नो वेद किंचिन्निरतिशयसुखाभ्यन्तरे लीयमानो दुःखी स्याद्बोधितः सन्निति कुशलमतिर्बोधयेन्नैव सुप्तम् ॥ सर्वे नन्दन्ति जीवा अधिगतयशसा गृहृता चक्षुरादी- नन्तः सर्वोपकर्त्रा बहिरपि च सुषुप्तौ यथा तुल्य संस्थाः । एतेषां किल्बिषस्पृग्जठरभृतिकृते यो बहिर्वृत्तिरास्ते त्वक्चक्षुः श्रोत्रनासारसनवशमितो याति शोकं च मोहम् ॥ जात्यामन्तरात्मा विषयसुखकृतेऽनेकयत्नान्विधास्य- श्राम्यत्सर्वेन्द्रियौघोऽधिगतमपि सुखं विस्मरन्याति निद्राम् । विश्रामाय स्वरूपे त्वतितरसुलभं तेन चातीन्द्रियं हि सुखं सर्वोत्तमं स्यात् परिणतिविरसादिन्द्रियोत्थात्सुखाच ॥ शतश्लोकी । पक्षावभ्यस्य पक्षी जनयति मरुतं तेन यात्युञ्चदेशं लब्ध्वा वायुं महान्तं श्रममपनयति स्वीयपक्षौ प्रसार्य । दुःसंकल्पैर्विकल्पैर्विषयमनु कदर्थीकृतं चित्तमेत- त्खिन्नं विश्रामहेतोः स्वपिति चिरमहो हस्तपादान्प्रसार्य ॥ आलिष्यात्मानमात्मा न किमपि सहसैवान्तरं वेद बाह्यं यद्वत्कामी विदेशात्सदनमुपगतो गाढमाश्लिष्य कान्ताम् । यात्यस्तं तत्र लोकव्यवहृतिरखिला पुण्यपापानुबन्धः शोको मोहो भयं वा समविषममिदं न स्मरत्येव किंचित् ॥ अल्पानल्पप्रपञ्चप्रलय उपरतिश्वेन्द्रियाणां सुखाप्ति- जीवन्मुक्तौ सुषुप्तौ त्रितयमपि समं किं तु तत्रास्ति भेदः । प्राक्संस्कारात्प्रसुप्तः पुनरपि च परावृत्तिमेति प्रबुद्धो नश्यत्संस्कारजातो न स किल पुनरावर्तते यश्च मुक्तः ॥ आनन्दान्यश्च सर्वाननुभवति नृपः सर्वसंपत्समृद्ध- स्तस्यानन्दः स एकः स खलु शतगुणः सन्प्रदिष्टः पितॄणाम् । आदेवब्रह्मलोकं शतशतगुणितास्ते यदन्तर्गताः स्यु- ब्रह्मानन्दः स एकोऽस्त्यथ विषयसुखान्यस्य मात्रा भवन्ति ॥ शतश्लोकी । यत्रानन्दाच मोदाः प्रमुद इति मुदश्वासते सर्व एते यत्राप्ताः सर्वकामाः स्युरखिलविरमात्केवलीभाव आस्ते । मां तत्रानन्दसान्द्रे कृधि चिरममृतं सोम पीयूषपूर्णा धारामिन्द्राय देहीत्यपि निगमगिरो भ्रूयुगान्तर्गताय ॥ आत्माकम्पः सुखात्मा स्फुरति तद्परा त्वन्यथैव स्फुरन्ती स्थैर्य वा चञ्चलत्वं मनसि परिणतिं याति तत्रत्यमस्मिन । चाञ्चल्यं दुःखहेतुर्मनस इदमहो यावदिष्टार्थलब्धि- स्तस्यां यावत्स्थिरत्वं मनसि विषयजं स्यात्सुखं तावदेव ॥ यद्वत्सौख्यं रतान्ते निमिषमिह मनस्येकताने रसे स्या- स्थैर्य यावत्सुषुप्तौ सुखमनतिशयं तावदेवाथ मुक्तौ । नित्यानन्दः प्रशान्ते हृदि तदिह सुखस्थैर्ययोः साहचर्य नित्यानन्दस्य मात्रा विषयसुखमिदं युज्यते तेन वक्तुम् ॥ श्रान्तं स्वान्तं स बाह्यव्यवहृतिभिरिदं ताः समाकृष्य सर्वा- स्तत्तत्संस्कारयुक्तं द्युपरमति परावृत्तमिच्छन्निदानम् । स्वाप्नान्संस्कारजातप्रजनितविषयान्स्वाप्रदेहेऽनुभूता- न्प्रोज्झ्यान्तः प्रत्यगात्मप्रवणमिदमगाद्भूरि विश्राममस्मिन् ॥ शतश्लोकी । स्वप्ने भोगः सुखादेर्भवति ननु कुतः साधने मूर्छमाने स्वाप्नं देहान्तरं तद्व्यवहृतिकुशलं नव्यमुत्पद्यते चेत् । तत्सामय्या अभावात्कुत इदमुदितं तद्धि सांकल्पिकं चे- कि स्वतन्ते वपुषि निपतिते दृश्यते शुक्रमोक्षः ॥ भीत्या रोदित्यनेन प्रवदति हसति श्लाघते नूनमस्मा- स्वप्रेऽप्यङ्गेऽनुबन्धं त्यजति न सहसा मूर्छितेऽप्यन्तरात्मा । पूर्व ये नुभूतास्तनुयुवतिह्यव्याघ्रदेशादयोऽर्था- स्तत्संस्कारस्वरूपान्सृजति पुनरमूश्रित्य संस्कारदेहम ॥ संधौ जात्सुषुप्त्योरनुभवविदिता स्वाप्न्यवस्था द्वितीया तत्रात्मज्योतिरास्ते पुरुष इह समाकृष्य सर्वेन्द्रियाणि । संवेश्य स्थूलदेहं समुचितशयने स्वीयभासान्तरात्मा पश्यन्संस्काररूपानभिमतविषयान्याति कुत्रापि तद्वत् ॥ रक्षन्प्राणैः कुलायं निजशयनगतं श्वासमात्रावशेषै- र्मा भूत्तत्प्रेतकल्पाकृतिकमिति पुनः सारमेयादिभक्ष्यम् । स्वप्रे स्वीयप्रभावात्सृजति हयरथान्निन्नगाः पल्वलानि क्रीडास्थानान्यनेकान्यपि सुहृदवलापुत्रमित्रानुकारान ॥ शतश्लोकी । मातङ्गव्याघ्रदस्युद्विषदुरगकपीन्कुत्रचित्प्रेयसीभिः ८९ कन्नास्ते सन्वा विहरति कुहचिन्मृष्टमभाति चान्नम् । म्लेच्छत्वं प्राप्तवानस्म्यहमिति कुह चिच्छङ्कितः स्वीयलोका- दस्ते व्याघ्रादिभीत्या प्रचलति कुह चिद्रोदिति ग्रस्यमानः ॥ यो यो दृग्गोचरोऽर्थो भवति स स तदा तद्द्वतात्मस्वरूपा- विज्ञानोत्पद्यमानः स्फुरति ननु यथा शुक्तिकाज्ञानहेतुः । रौप्याभासो मृषैव स्फुरति च किरणाज्ञानतोऽम्भो भुजङ्गो रज्ज्वज्ञानान्निमेषं सुखभयकृदतो दृष्टिसृष्टं किलेदम् ॥ मायाध्यासाश्रयेण प्रविततमखिलं यन्मया तेन मत्स्था- न्येतान्येतेषु नाहं यदपि हि रजतं भाति शुक्तौ न रौप्ये । शुक्त्यंशस्तेन भूतान्यपि मयि न वसन्तीति विष्वग्विनेता प्रहास्मादृश्यजातं सकलमपि मृषैवेन्द्रजालोपमेयम् ॥ हेतुः कर्मैव लोके सुखतदितरयोरेवमज्ञोऽविदित्वा मित्रं वा शत्रुरित्थं व्यवहरति मृषा याज्ञवल्क्यार्तभागौ । यत्कर्मैवोचतुः प्राग्जनकनृपगृहे चक्रतुस्तत्प्रशंसां वंशोत्तंसो यदूनामिति वदति न कोऽप्यत्र तिष्ठत्यकर्मा ॥ शतश्लोकी । वृक्षच्छेदे कुठारः प्रभवति यदपि प्राणिनोद्यस्तथापि प्रायोऽन्नं तृप्तिहेतुस्तदपि निगदितं कारणं भोक्तृयत्नः । प्राचीनं कर्म तद्वद्विषमसमफलप्राप्तिहेतुस्तथापि स्वातन्त्र्यं नश्वरेऽस्मिन्न हि खलु घटते प्रेरकोऽस्यान्तरात्मा ॥ स्मृत्या लोकेषु वर्णाश्रमविहितमदो नित्यकाम्यादि कर्म सर्व ब्रह्मार्पणं स्यादिति निगमगिरः संगिरन्तेऽतिरम्यम । यन्नासानेत्रजिह्वाकरचरणशिरः श्रोत्रसंतर्पणेन तुष्येङ्गीव साक्षात्तरुरिव सकलो मूलसंतर्पणेन ॥ ८५ ॥ यः प्रत्यात्मानभिज्ञः श्रुतिविदपि तथाकर्मकृत्कर्मणोऽस्य नाशः स्यादल्पभोगात्पुनरवतरणे दुःखभोगो महीयान । आत्माभिज्ञस्य लिप्सोरपि भवति महाञ्शाश्वतः सिद्धिभोगो ह्यात्मा तस्मादुपास्यः खलु तदधिगमे सर्वसौख्यान्यलिप्सोः ॥ सूर्याद्यैरर्थभानं न हि भवति पुनः केवलैर्नात्र चित्रं सूर्यात्सूर्यप्रतीतिर्न भवति सहसा नापि चन्द्रस्य चन्द्रात् । अरमेश्व किं तु स्फुरति रविमुखं चक्षुषश्चित्प्रयुक्ता- दात्मज्योतिस्ततोऽयं पुरुष इह महो देवतानां च चित्रम् ॥ शतश्लोकी । प्राणेनाम्भसि भूयः पिबति पुनरसावन्नमश्नाति तत्र तत्पाकं जाठरोऽग्निस्तदुपहितबलो द्राक्छनैर्वा करोति । व्यानः सर्वाङ्गनाडीष्वथ नयति रसं प्राणसंतर्पणार्थ निःसारं प्रतिगन्धं त्यजति बहिरयं देहतोऽपानसंज्ञः ॥८८॥ व्यापारं देहसंम्थः प्रतिवपुरखिलं पञ्चवृत्त्यात्मकोऽसौ प्राणः सर्वेन्द्रियाणामधिपतिरनिशं सत्तया निर्विवादम् । यस्येत्थं चिनस्य स्फुटमिह कुरुते सोऽस्मि सर्वस्य साक्षी प्राणस्थ प्राण एषोऽप्यखिलतनुभृतां चक्षुषश्चक्षुरेषः ॥ ८९ ॥ यं भान्तं चिद्धनैकं क्षितिजलपवनादित्यचन्द्रादयो ये भासा तस्यैव चानु प्रविरलगतयो भान्ति तस्मिन्वसन्ति । विद्युत्पुञ्जोऽग्निसंघोऽप्युडुगणविततिर्भासयेत्किं परेशं ज्योतिः शान्तं ह्यनन्तं कविमजममरं शाश्वतं जन्मशून्यम् ॥ तद्ब्रह्मवाहमस्मीत्यनुभव उदितो यस्य कस्यापि चेद्वै पुंसः श्रीसद्गुरूणामतुलितकरुणा पूर्णपीयूषदृष्टया । जीवन्मुक्तः स एव भ्रमविधुरमना निर्गतेऽनाद्युपाधौ नित्यानन्दैकधाम प्रविशति परमं नष्टसंदेहवृत्तिः ॥ ९९ ॥ शतश्लोकी । नो देहो नेन्द्रियाणि क्षरमतिचपलं नो मनो नैव बुद्धिः प्राणो नैवाहमस्मीत्यखिलजडमिदं वस्तुजातं कथं स्याम् । नाहंकारो न दारा गृहसुतसुजन क्षेत्रवित्तादि दूरं साक्षी चित्प्रत्यगात्मा निखिलजगदधिष्ठानभूतः शिवोऽहम ॥ दृश्यं यद्रूपमेतद्भवति च विशदं नीलपीताद्यनेकं सर्वस्यैतस्य दृग्वै स्फुरदनुभवतो लोचनं चैकरूपम् । तदृश्यं मानसं दृक्परिणतविषयाकारधीवृत्तयोऽपि दृश्या दृग्रूप एव प्रभुरिह स तथा दृश्यते नैव साक्षी ॥ रज्ज्वज्ञानाद्भुजङ्गस्तदुपरि सहसा भाति मन्दान्धकारे स्वात्माज्ञानात्तथासौ भृशमसुखमभूदात्मनो जीवभावः । आप्तोक्त्याहिभ्रमान्ते स च खलु विदिता रज्जुरेका तथा कूटस्थो नैव जीवो निजगुरुवचसा साक्षिभूतः शिवोऽहम ॥ किं ज्योतिस्ते वदस्वाहनि रविरिह मे चन्द्रदीपादि रात्रौ स्यादेवं भानुदीपादिकपरिकलने किं तव ज्योतिरस्ति । चक्षुस्तन्मीलने किं भवति च सुतरां धीर्धियः किं प्रकाशे तत्रैवाहं ततस्त्वं तदसि परमकं ज्योतिरस्मि प्रभोऽहम ॥ शतश्लोकी । कंचित्कालं स्थितः कौ पुनरिह भजते नैव देहादिसंघं यावत्प्रारब्धभोगं कथमपि स सुखं चेष्टतेऽसङ्गबुद्धधा । निर्द्वन्द्वो नित्यशुद्धो विगलितममताहंकृतिर्नित्यतृप्तो ब्रह्मानन्दस्वरूपः स्थिरमतिरचलो निर्गताशेषमोहः ॥ जीवात्मब्रह्मभेदं दलयति सहसा यत्प्रकाशैकरूपं विज्ञानं तच्च बुद्धौ समुदितमतुलं यख पुंसः पवित्रम् । माया तेनैव तस्य क्षयमुपगमिता संसृतेः कारणं या नासा कायकर्ती पुनरपि भविता नैव विज्ञानमावात् ॥ विश्व नेति प्रमाणाद्विगलितजगदाकारभानस्त्यजेद्वै पीत्वा यद्वत्फलाम्भस्त्यजति च सुतरां तत्फलं सौरभाव्यम् । सम्यक्सच्चिद्धनैकामृतसुखकबलास्वादपूर्णो हृदासौ ज्ञात्वा निःसारमेवं जगदखिलमिदं स्वप्रभः शान्तचित्तः ॥ क्षीयन्ते चास्य कर्माण्यपि खलु हृदयग्रन्थिरुद्भिद्यते वै च्छिद्यन्ते संशया ये जनिमृतिफलदा दृष्टमात्रे परेशे । तस्मिंश्चिन्मात्ररूपे गुणमलरहिते तत्त्वमस्यादिलक्ष्ये कूटस्थे प्रत्यगात्मन्यखिलविधिमनोगोचरे ब्रह्मणीशे ॥ शतश्लोकी । आदौ मध्ये तथान्ते जनिमृतिफलदं कर्ममूलं विशालं ज्ञात्वा संसारवृक्षं भ्रममद मुदिताशोक तानेकपत्रम् । कामक्रोधादिशाखं सुतपशुवनिताकन्यकापक्षिसंघ छित्वासङ्गासिनैनं पटुमतिरभितश्चिन्तयेद्वासुदेवम ॥ १०० ॥ जातं मय्येव सर्वं पुनरपि मयि तत्संस्थितं चैव विश्व सर्व मय्येव यति प्रविलयमिति तद्ब्रह्म चैवाहमस्मि । यस्य स्मृत्या च यज्ञाद्यखिलशुभविधौ सुप्रयातीह कार्य न्यूनं संपूर्णतां वै तमहमतिमुदैवाच्युतं संनतोऽस्मि ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगव- पूज्यपादशिष्यस्य श्रीमच्छंकर भगवतः कृतौ शतश्लोकी समाप्ता ॥ ॥ श्रीः ॥ ॥ दशश्लोकी ॥ न भूमिर्न तोयं न तेजो न वायु- र्न खं नेन्द्रियं वा न तेषां समूहः । अनेकान्तिकत्वात्सुषुप्त्येकसिद्ध- स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ १ ॥ न वर्णा न वर्णाश्रमाचारधर्मा न मे धारणाध्यानयोगादयोऽपि । अनात्माश्रयाहं ममाध्यासहाना- त्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ २ ॥ न माता पिता वा न देवा न लोका न वेदा न यज्ञा न तीर्थं ब्रुवन्ति । सुषुप्तौ निरस्तातिशून्यात्मकत्वा- त्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ३ ॥ न सांख्यं न शैवं न तत्पाञ्चरात्रं न जैनं न मीमांसकादेर्मतं वा । विशिष्टानुभूत्या विशुद्धात्मकत्वा- तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ४ ॥ न चोर्ध्वं न चाधो न चान्तर्न बाह्यं न मध्यं न तिर्यङ् न पूर्वापरा दिक् । वियद्व्यापकत्वादखण्डैकरूप- स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ५ ॥ न शुक्लं न कृष्णं न रक्तं न पीतं न कुब्जं न पीनं न ह्रस्वं न दीर्घम् । अरूपं तथा ज्योतिराकारकत्वा- त्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ६ ॥ न शास्ता न शास्त्रं न शिष्यो न शिक्षा न च त्वं न चाहं न चायं प्रपञ्चः । स्वरूपावबोधो विकल्पासहिष्णु- स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ७ ॥ न जाग्रन्न मे स्वप्नको वा सुषुप्ति- र्न विश्वो न वा तैजसः प्राज्ञको वा । अविद्यात्मकत्वात्त्रयाणां तुरीय- स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ८ ॥ अपि व्यापकत्वाद्धि तत्त्वप्रयोगा- त्स्वतः सिद्धभावादनन्याश्रयत्वात् । जगत्तुच्छमेतत्समस्तं तदन्य- त्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ९ ॥ न चैकं तदन्यद्द्वितीयं कुतः स्था- न वा केवलत्वं न चाकेवलत्वम् । न शून्यं न चाशून्यमद्वैतकत्वा- त्कथं सर्ववेदान्तसिद्धं ब्रवीमि ॥ १० ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द- भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ दशश्लोकी समाप्ता ॥ ॥ श्रीः ॥ सर्ववेदान्तसिद्धान्त- सारसंग्रहः ॥ अखण्डानन्दसंबोधो वन्दनाद्यस्य जायते । गोविन्दं तमहं वन्दे चिदानन्दतनुं गुरुम् ॥ १ ॥ अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् । आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ २ ॥ यदालम्बो दरं हन्ति सतां प्रत्यूहसंभवम् । तदालम्बे दयालम्बं लम्बोदरपदाम्बुजम् ॥ ३ ॥ वेदान्तशास्त्रसिद्धान्तसारसंग्रह उच्यते । प्रेक्षावतां मुमुक्षूणां सुखबोधोपपत्तये ॥ ४ ॥ अस्य शास्त्रानुसारित्वादनुबन्धचतुष्टयम् । यदेव मूलं शास्त्रस्य निर्दिष्टं तदिहोच्यते ॥ ५ ॥ अधिकारी च विषयः संबन्धश्च प्रयोजनम् । शास्त्रारम्भफलं प्राहुरनुबन्धचतुष्टयम् ॥ ६॥ चतुर्भिः साधनैः सम्यक्संपन्नो युक्तिदक्षिणः । मेधावी पुरुषो विद्वानधिकार्यत्र संमतः ॥ ७ ॥ विषयः शुद्धचैतन्यं जीवब्रह्मैक्यलक्षणम् । यत्रैव दृश्यते सर्ववेदान्तानां समन्वयः ॥ ८ ॥ एतदैक्यप्रमेयस्य प्रमाणस्यापि च श्रुतेः । संबन्धः कथ्यते सद्भिर्बोध्यबोधकलक्षणः ॥ ९॥ ब्रह्मात्मैकत्वविज्ञानं सन्तः प्राहुः प्रयोजनम् । येन निःशेषसंसारबन्धात्सद्यः प्रमुच्यते ॥ १० ॥ प्रयोजनं संप्रवृत्तेः कारणं फललक्षणम् । प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥ ११ ॥ साधनचतुष्टयसंपत्तिर्यस्यास्ति धीमतः पुंसः । तस्यैवैतत्फलसिद्धिर्नान्यस्य किंचिदूनस्य ॥ १२ ॥ चत्वारि साधनान्यत्र वदन्ति परमर्षयः । मुक्तिर्येषां तु सद्भावे नाभावे सिध्यति ध्रुवम् ॥ १३ ॥ आद्यं नित्यानित्यवस्तुविवेकः साधनं मतम् । इहामुत्रार्थफलभोगविरागो द्वितीयकम् ॥ १४ ॥ शमादिषट्कसंपत्तिस्तृतीयं साधनं मतम् । तुरीयं तु मुमुक्षुत्वं साधनं शास्त्रसंमतम् ॥ १५ ॥ ब्रह्मैव नित्यमन्यत्तु ह्यनित्यमिति वेदनम् । सोऽयं नित्यानित्यवस्तुविवेक इति कथ्यते ॥ १६ ॥ मृदादिकारणं नित्यं त्रिषु कालेषु दर्शनात् । घटाद्यनित्यं तत्कार्यं यतस्तन्नाश ईक्ष्यते ॥ १७ ॥ तथैवैतज्जगत्सर्वमनित्यं ब्रह्मकार्यतः । तत्कारणं परं ब्रह्म भवेन्नित्यं मृदादिवत् ॥ १८ ॥ सर्गं वक्त्यस्य तस्माद्वा एतस्मादित्यपि श्रुतिः । सकाशाद्ब्रह्मणस्तस्मादनित्यत्वे न संशयः ॥ १९॥ सर्वस्यानित्यत्वे सावयवत्वेन सर्वतः सिद्धे । वैकुण्ठादिषु नित्यत्वमतिर्भ्रम एव मूढबुद्धीनाम् ॥ २० ॥ अनित्यत्वं च नित्यत्वमेवं यच्छ्रुतियुक्तिभिः । विवेचनं नित्यानित्यविवेक इति कथ्यते ॥ २१ ॥ ऐहिकामुष्मिकार्थेषु ह्यनित्यत्वेन निश्चयात् । नैःस्पृह्यं तुच्छबुध्या यत्तद्वैराग्यमितीर्यते ॥ २२ ॥ नित्यानित्यपदार्थविवेकात्पुरुषस्य जायते सद्यः । स्रक्चन्दनवनितादौ सर्वत्रानित्यवस्तुनि विरक्तिः ॥ २३ ॥ काकस्य विष्ठावदसह्यबुद्धि- र्भोग्येषु सा तीव्रविरक्तिरिष्यते । विरक्तितीव्रत्वनिदानमाहु- र्भोग्येषु दोषेक्षणमेव सन्तः ॥ २४ ॥ प्रदृश्यते वस्तुनि यत्र दोषो न तत्र पुंसोऽस्ति पुनः प्रवृत्तिः । अन्तर्महारोगवतीं विजान- न्को नाम वेश्यामपि रूपिणीं व्रजेत् ॥ २५ ॥ अत्रापि चान्यत्र च विद्यमान- पदार्थसंमर्शनमेव कार्यम् । यथाप्रकारार्थगुणाभिमर्शनं संदर्शयत्येव तदीयदोषम् ॥ २६ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । कुक्षौ स्वमातुर्मलमूत्रमध्ये स्थितिं तदा विक्रिमिदंशनं च । तदीयकौक्षेयवह्निदाहं विचार्य को वा विरतिं न याति ॥ २७ ॥ स्वकीयविण्मूत्रविसर्जनं त- चोत्तानगत्या शयनं तदा यत् । बालग्रहाद्याहतिभाक्च शैशवं विचार्य को वा विरतिं न याति ॥ २८ ॥ स्वीयैः परैस्ताडनमज्ञभाव- मत्यन्तचापल्यमसत्क्रियां च । कुमारभावे प्रतिषिद्धवृत्ति विचार्य को वा विरतिं न याति ॥ २९ ॥ मदोद्धतिं मान्यतिरस्कृतिं चं कामातुरत्वं समयातिलङ्घनम् । तां तां युवत्योदितदुष्टचेष्टां विचार्य को वा विरतिं न याति ॥ ३० ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । विरूपतां सर्वजनादवज्ञां सर्वत्र दैन्यं निजबुद्धिहैन्यम् । वृद्धत्वसंभावितदुर्दशां तां विचार्य को वा विरतिं न याति ॥ ३१ ॥ पित्तज्वरार्शः क्षयगुल्मशूल- श्लेष्मादिरोगोदिततीत्रदुःखम् । दुर्गन्धमस्वास्थ्यमनूनचिन्तां विचार्य को वा विरतिं न याति ॥ ३२ ॥ यमावलोको दितभीतिकम्प- भर्मव्यथेोच्छ्रासगतीश्च वेदनाम् । प्राणप्रयाणे परिदृश्यमानां विचार्य को वा विरतिं न याति ॥ ३३ ॥ अङ्गारनद्यां तपने च कुम्भी- पाकेऽपि वीच्यामसिपत्रकानने । दूतैर्यमस्य क्रियमाणबाधां विचार्य को वा विरतिं न याति ॥ ३४ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । पुण्यक्षये पुण्यकृतो नभःस्थै- र्निपात्यमानान्शिथिलीकृताङ्गान् । नक्षत्ररूपेण दिवश्च्युतांस्ता- विचार्य को वा विरतिं न याति ॥ ३५ ॥ वाय्वर्कवह्नीन्द्रमुखान्सुरेन्द्रा- नीशोप्रभीत्या प्रथितान्तरङ्गान् । विपक्षलोकैः परिदूयमाना- विचार्य को वा विरतिं न याति ॥ ३६ ॥ श्रुत्या निरुक्तं सुखतारतम्यं ब्रह्मान्तमारभ्य महीमहेशम् । औपाधिकं तत्तु न वास्तवं चे - दालोच्य को वा विरतिं न याति ॥ ३७ ॥ सालोक्यसामीप्यसरूपतादि- भेदस्तु सत्कर्मविशेषसिद्धः । न कर्मसिद्धस्य तु नित्यतेति विचार्य को वा विरतिं न याति ॥ ३८ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । यत्रास्ति लोके गतितारतम्यं उच्चावचत्वान्वितमत्र तत्कृतम् । यह तद्वत्खलु दुःखमस्ती- त्यालोच्य को वा विरतिं न याति ॥ ३९ ॥ को नाम लोके पुरुषो विवेकी विनश्वरे तुच्छसुखे गृहादौ । कुर्यातिं नित्यमवेक्षमाणो वृथैव मोहान्प्रियमाणजन्तून् ॥ ४० ॥ सुखं किमस्त्यत्र विचार्यमाणे गृप वा योषिति वा पदार्थे । मायातमोऽन्धीकृतचक्षुषो ये तएव मुह्यन्ति विवेकशून्याः ॥ ४१ ॥ अविचारितरमणीयं सर्वमुदुम्बर फलोपमं भोग्यम् । अज्ञानामुपभोग्यं न तु तज्ज्ञानां योषिति वा पदार्थे ॥ ४२ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । पितोये सुषिरं कुलीरो हातुं शक्तो म्रियते विमोहात् । यथा तथा गेहसुखानुषक्तो विनाशमायाति नरो भ्रमेण ॥ ४३ ॥ कोश क्रिमिस्तन्तुभिरात्मदेह- मावेष्टय चावेष्टय च गुप्तिमिच्छन् । स्वयं विनिर्गन्तुमशक्त एव संस्ततस्तदन्ते म्रियते च लग्नः ॥ ४४ ॥ यथा तथा पुत्रकलत्रमित्र- स्नेहानुबन्धैथितो गृहस्थ: । कदापि वा तान्परिमुच्य गेहा- इन्तुं न शक्तो म्रियते मुधैव ॥ ४५ ॥ कारागृहस्याथ च को विशेषः प्रदृश्यते साध विचार्यमाणे । मुक्तेः प्रतीपत्वमिहापि पुंसः कान्तासुखाभ्युत्थितमोहपाशैः ॥ ४६ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । गृहपृहा पादनिबद्धशृङ्खला कान्तासुताशा पटुकण्ठपाशः । शीर्षे पतद्भूर्यशनिर्हि साक्षा- प्राणान्तहेतुः प्रबला धनाशा ॥ ४७ ॥ आशापाशशतेन पाशितपदो नोत्थातुमेव क्षमः कामक्रोधमदादिभिः प्रतिभटैः संरक्ष्यमाणोऽनिशम् । संमोहावरणेन गोपनवतः संसारकारागृहा- निर्गन्तुं त्रिविधेषणापरवशः कः शक्नुयाद्रागिषु ॥ कामान्धकारेण निरुद्धदृष्टि- र्मुह्यत्यसत्यप्यबलास्वरूपे । न ह्यन्दृष्टेरसतः सतो वा सुखत्वदुः खत्वविचारणास्ति ॥ ४९ ॥ श्लेष्मोद्गार मुखं स्रवन्मलवती नासाश्रमल्लोचनं स्वेदस्रावि मलाभिपूर्णमभितो दुर्गन्धदुष्टं वपुः । अन्यद्वक्तुमशक्यमेव मनसा मन्तुं कचिन्नार्हति स्त्रीरूपं कथमीदृशं सुमनसां पात्रीभवेन्नेत्रयोः ॥ ५० ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । दूरादवेक्ष्याग्निशिखां पतङ्गो रम्यत्वबुद्धया विनिपत्य नश्यति । यथा तथा नष्टदृगेष सूक्ष्मं कथं निरीक्षेत विमुक्तिमार्गम् ॥ ५१ ॥ कामेन कान्तां परिगृह्य तद्व- ज्जनोऽप्ययं नश्यति नष्टदृष्टिः । मांसास्थिमज्जा मलमूत्रपात्रं स्त्रियं स्वयं रम्यतयैव पश्यति ॥ ५२ । काम एव यमः साक्षात्कान्ता वैतरणी नदी । विवेकिनां मुमुक्षूणां निलयस्तु यमालयः ॥ ५३ ॥ मालये वापि गृहेऽपि नो नृणां तापत्रय क्लेशनिवृत्तिरस्ति । किंचित्समालोक्य तु तद्विरामं सुखात्मना पश्यति मूढलोकः ॥ ५४ ॥ यमस्य कामस्य च तारतम्यं विचार्यमाणे महदस्ति लोके । S. P. II. 8 ११.३ ११४ सर्ववेदान्तसिद्धान्तसारसंग्रहः । हितं करोत्यस्य यमोsप्रियः स- न्कामस्त्वनर्थं कुरुते प्रियः सन् ॥ ५५ ॥ मोsसतामेव करोत्यनर्थ सतां तु सौख्यं कुरुते हितः सन् । कामः सतामेव गतिं निरुन्ध- न्करोत्यनर्थं ह्यसतां नु का कथा ॥ ५६ ॥ विश्वस्य वृद्धिं स्वयमेव कांक्ष- प्रवर्तकं कामिजनं ससर्ज । तेनैव लोकः परिमुह्यमानः प्रवर्धते चन्द्रमसेव चाब्धिः ॥ ५७ ॥ कामो नाम महागमयिता स्थित्वान्तरङ्गे स्वयं स्त्रीपुंसावितरेतराङ्गकगुणैर्हासैश्च भावैः स्फुटम् । अन्योन्यं परिमोह्य नैजतमसा प्रेमानुबन्धेन तौ बद्ध्वा भ्रामयति प्रपञ्चरचनां संवर्धयन्ब्रह्महा ॥ ५८ ॥ अतोऽन्तरङ्गस्थितकामवेगा- गोग्ये प्रवृत्तिः स्वत एव सिद्धा । सर्ववेदान्तसिद्धान्तसारसंग्रहः । ११५ सर्वस्य जन्तोर्ध्रुवमन्यथा चे- दबोधितार्थेषु कथं प्रवृत्तिः ॥ ५९ ॥ तेनैव सर्वजन्तूनां कामना बलवत्तरा । जीर्यत्यपि च देहेऽस्मिन्कामना नैव जीर्यते ॥ ६० ॥ अवेक्ष्य विषये दोषं बुद्धियुक्तो विचक्षणः । कामपाशेन यो मुक्तः स मुक्तेः पथिगोचरः ॥ ६१ ॥ कामस्य विजयोपायं सूक्ष्मं वक्ष्याम्यहं सताम् । संकल्पस्य परित्याग उपायः सुलभो मतः ॥ ६२ ॥ श्रुते दृष्टेऽपि वा भोग्ये यस्मिन्कस्मिंश्च वस्तुनि । समीचीनत्वधीत्यागात्कामो नोदेति कर्हिचित् ॥ ६३ ॥ कामस्य बीजं संकल्पः संकल्पादेव जायते । बीजे नष्टेऽङ्कुर इव तस्मिन्नष्ठे विनश्यति ॥ ६४ ॥ न कोऽपि सम्यक्त्वधिया विनैव भोग्यं नरः कामयितुं समर्थः । ११६ सर्ववेदान्तसिद्धान्तसारसंग्रहः । यतस्ततः कामजयेच्छुरेतां सम्यक्त्वबुद्धिं विषये निहन्यात् ॥ ६५ ॥ भोग्ये नरः कामजयेच्छुरेतां सुखत्वबुद्धिं विषये निहन्यात् । यावत्सुखत्वभ्रमधीः पदार्थे तावन्न जेतुं प्रभवेद्धि कामम् ॥ ६६ ॥ संकल्पानुदये हेतुर्यथाभूतार्थदर्शनम् । अनर्थचिन्तनं चाभ्यां नावकाशोऽस्य विद्यते ॥ ६७ ॥ रत्न यदि शिलाबुद्धिर्जायते वा भयं ततः । समीचीनत्वधति नोपादेयत्वधीरपि ॥ ६८ ॥ यथार्थदर्शनं वस्तुन्यनर्थस्यापि चिन्तनम् । संकल्पस्यापि कामस्य तद्वधोपाय इष्यते ॥ ६९ ॥ धनं भयनिबन्धनं सततदुःखसंवर्धनं प्रचण्डतरकर्दनं स्फुटितबन्धुसंवर्धनम् । विशिष्टगुणबाधनं कृपणधीसमाराधनं न मुक्तिगतिसाधनं भवति नापि हृच्छोधनम् ॥ ७० ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । राज्ञो भयं चोरभयं प्रमादा- द्भयं तथा ज्ञातिभयं च वस्तुतः । धनं भयग्रस्तमनर्थमूलं यतः सतां नैव सुखाय कल्पते ॥ ७१ ॥ आर्जने रक्षणे दाने व्यये वापि च वस्तुतः । दुःखमेव सदा नृणां न धनं सुखसाधनम् ॥ ७२ ॥ सतामपि पदार्थ लाभाल्लोभः प्रवर्धते । विवेको लुप्यते लोभात्तस्मिँहप्ते विनश्यति ॥ ७३ ॥ दहत्यलाभे निःस्वत्वं लाभे लोभो दहत्यमुम् । तस्मात्संतापकं वित्तं कस्य सौख्यं प्रयच्छति ॥ भोगेन मत्तता जन्तोर्दानेन पुनरुद्भवः । वृधैवोभयथा वित्तं नास्त्येव गतिरन्यथा ॥ ७५ ॥ धनेन मदवृद्धिः स्यान्मदेन स्मृतिनाशनम् । स्मृतिनाशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ७६ ॥ १.१७ सर्ववेदान्तसिद्धान्तसारसंग्रहः । सुखयति धनमेवेत्यन्तराशापिशाच्या दृढतरमुपगूढो मूढलोको जडात्मा । निवसति तदुपान्ते संततं प्रेक्षमाणो व्रजति तदपि पश्चात्प्राणमेतस्य हृत्वा ॥ ७७ ॥ संपन्नोऽन्धवदेव किंचिदपरं नो वीक्षते चक्षुषा सद्भिर्वजितमार्ग एव चरति प्रोत्सारितो बालिशैः । तस्मिन्नेव मुहुः स्खलन्प्रतिपदं गत्वान्धकूपे पत- त्यस्यान्धत्वनिवर्तकौषधमिदं दारिद्रयमेवाञ्जनम ॥७८॥ लोभः क्रोधव डम्भश्च मदो मत्सर एव च । वर्धते वित्तसंप्राप्तया कथं तचित्तशोधनम् ॥ ७९ ॥ अलाभाद्द्द्दिगुणं दुःखं वित्तस्य व्ययसंभवे । ततोऽपि त्रिगुणं दुःखं दुर्व्यये विदुषामपि ॥ ८० ॥ नित्याहितेन वित्तेन भयचिन्तानपायिना । चित्तस्वास्थ्यं कुतो जन्तो- र्गृहस्थेनाहिना यथा ॥ ८१ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । ११९ कान्तारे विजने वने जनपदे सेतौ निरीतौ च वा चोरैर्वापि तथेतरैर्नरवरैर्युक्तो वियुक्तोऽपि वा । निःस्वः स्वस्थतया सुखेन वसति ह्याद्रीयमाणो जनैः किमात्येव धनी सदाकुलमतिर्भीतश्च पुत्रादपि ॥ ८२ ॥ तस्मादर्थस्य निदानमर्थः पुमर्थसिद्धिर्न भवत्यनेन । ततो वनान्ते निवसन्ति सन्तः संन्यस्य सर्वे प्रतिकूलमर्थम् ॥ ८३ ॥ श्रद्धाभक्तिमतीं सतीं गुणवतीं पुत्राञ्श्रुतान्संमता- नक्षय्यं वसुधानुभोगविभवैः श्रीसुन्दरं मन्दिरम् । सर्व श्वरमित्यवेत्य कवयः श्रुत्युक्तिभिर्युक्तिभिः संन्यस्यन्त्यपरे तु तत्सुखमिति भ्राम्यन्ति दुःखार्णवे ॥ सुखमिति मलराशौ ये रमन्तेऽत्र गेहे क्रिमय इव कलत्रक्षेत्र पुत्रानुषक्त्या । सुरपद इव तेषां नैव मोक्षप्रसङ्ग- स्त्वपि तु निरयगर्भावासदुःखप्रवाहः ॥ ८५ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । येषामाशा निराशा स्या- दारापत्यधनादिषु । तेषां सिध्यति नान्येषां मोक्षाशाभिमुखी गतिः ॥ ८६ ॥ सत्कर्मक्षयपाप्मनां श्रुतिमतां सिद्धात्मनां धीमतां नित्यानित्यपदार्थशोधनमिदं युक्त्या मुहुः कुर्वताम् । तस्मादुत्थमहाविरक्त्य सिमतां मोक्षैककाङ्क्षावतां धन्यानां सुलभं स्त्रियादिविषयेष्वाशालताच्छेदनम् ॥ संसारमृत्योर्बलिनः प्रवेष्टुं द्वाराणि तु त्रीणि महान्ति लोके । कान्ता च जिह्वा कनकं च तानि रुणद्धि यस्तस्य भयं न मृत्योः ॥ ८८ ॥ मुक्तिश्रीनगरस्य दुर्जयतरं द्वारं यदस्त्यादिमं तस्य द्वे अररे धनं च युवती ताभ्यां पिनद्धं दृढम् । कामाख्यार्गलदारुणा बलवता द्वारं तदेतत्रयं धीरो यस्तु भिनत्ति सोऽर्हति सुखं भोक्तुं विमुक्तिश्रियः ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । १२१ आरूढस्य विवेकाचं तीव्रवैराग्यखड्गिनः । : तितिक्षावर्मयुक्तस्य प्रतियोगी न दृश्यते ॥ ९० ॥ विवेकजां तीव्रविरक्तिमेव मुक्तेर्निदानं निगदन्ति सन्तः । तस्माद्विवेकी विरतिं मुमुक्षुः संपादयेत्तां प्रथमं प्रयत्नात् ॥ पुमानजातनिर्वेदो देहबन्धं जिहासितुम् । न हि शक्नोति निर्वेदो बन्धभेदो महानसौ ॥ ९२ ॥ वैराग्यरहिता एव यमालय इवालये । क्लिन्ति त्रिविधैस्तापैर्मोहिता अपि पण्डिताः ॥ ९३ ॥ शमो दमस्तितिक्षोपरतिः श्रद्धा ततः परम् । समाधानमिति प्रोक्तं षडेवैते शमादयः ॥ ९४ ॥ एकवृत्यैव मनसः स्वलक्ष्ये नियतस्थितिः । शम इत्युच्यते सद्भिः शमलक्षणवेदिभिः ॥ ९५ ॥ उत्तमो मध्यमचैव जघन्य इति च त्रिधा । निरूपितो विपश्विद्भिः तत्तलक्षणवेदिभिः ॥ ९६ ॥ स्वविकारं परित्यज्य वस्तुमात्रतया स्थितिः । मनसः सोत्तमा शान्तिर्ब्रह्मनिर्वाणलक्षणा ॥ ९७ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । प्रत्यक्प्रत्ययसंतानप्रवाहकरणं धियः । यदेषा मध्यमा शान्तिः शुद्धसत्वैकलक्षणा ॥ ९८ ॥ विषयव्यावृतिं त्यक्त्वा श्रवणैकमनस्थितिः । मनसश्वेतरा शान्तिर्मिश्रसत्त्वैकलक्षणा ॥ ९९ । प्राच्योदीच्याङ्गसद्भावे शमः सिध्यति नान्यथा । तीव्रा विरक्ति: प्राच्याङ्गमुदीच्या दमादयः ॥ १०० ॥ कामः क्रोधश्व लोभश्च मदो मोहश्च मत्सरः । न जिताः षडिमे येन तस्य शान्तिर्न सिध्यति ॥ १०१ ॥ शब्दादिविषयेभ्यो यो विषवन्न निवर्तते । तीव्रमोक्षेच्छया भिक्षोस्तस्य शान्तिर्न सिध्यति ॥ १०२ ॥ येन नाराधितो देवो यस्य नो गुर्वनुग्रहः । न वश्यं हृदयं यस्य तस्य शान्तिर्न सिध्यति ॥ १०३ ॥ मनःप्रसादसिद्धयर्थं साधनं श्रूयतां बुधैः । मनः प्रसादो यत्सत्त्वे यदभावे न सिध्यति ॥ १०४ ॥ ब्रह्मचर्यमहिंसा च दया भूतेष्ववक्रता । विषयेष्वतिवैतृष्ण्यं शौचं दम्भविवर्जनम् ॥ १०५ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । सत्यं निर्ममता स्थैर्यमभिमानविसर्जनम् । ईश्वरध्यानपरता ब्रह्मविद्भिः सहस्थितिः ॥ १०६ ॥ ज्ञानशास्त्रैकपरता समता सुखदुःखयो: । मानानासक्तिरेकान्तशीलता च मुमुक्षुता ॥ १०७ ॥ यस्यैतद्विद्य सर्वं तस्य चित्तं प्रसीदति । न तद्धर्मशून्य प्रकारान्तरकोटिभिः ॥ १०८ ॥ स्मरणं दर्शनं स्त्रीणां गुणकर्मानुकीर्तनम् । समीचीनत्वधीस्तासु प्रीतिः संभाषणं मिथः ॥ १०९ ॥ सहवासश्च संसर्गोऽष्टधा मैथुनं विदुः । एतद्विलक्षणं ब्रह्मचर्यं चित्तप्रसादकम् ॥ ११० ॥ अहिंसा वाङ्मनः कायैः प्राणिमात्राप्रपीडनम् । स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा ॥ १११ ॥ अकम्पा दया सैव प्रोक्ता वेदान्तवेदिभिः । करणत्रितयेष्वेकरूपतावक्रता मता ॥ ११२ ॥ ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु । यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥ ११३॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । बाह्यमाभ्यन्तरं चेति द्विविधं शौचमुच्यते । मृज्जलाभ्यां कृतं शौचं बाह्यं शारीरकं स्मृतम् ॥ ११४ ॥ अज्ञानदूरीकरणं मानसं शौचमान्तरम् । अन्तः ः शौचे स्थिते सम्यग्वाह्यं नावश्यकं नृणाम् ॥ ११५ ॥ ध्यानपूजादिकं लोके द्रष्टर्येव करोति यः । पारमार्थिकधीहीनः स दम्भाचार उच्यते ॥ ११६ ॥ पुंसस्तथानाचरणमदम्भित्वं विदुर्बुधाः । यत्स्वेन दृष्टं सम्यक्च श्रुतं तस्यैव भाषणम् ॥ ११७ ॥ सत्यमित्युच्यते ब्रह्म सत्यमित्यभिभाषणम् । देहादिषु स्वकीयत्वदृढबुद्धिविसर्जनम् ॥ ११८ ॥ निर्ममत्वं स्मृतं येन कैवल्यं लभते बुधः । गुरुवेदान्तवचनैर्निश्चितार्थे दृढ स्थितिः ॥ ११९ ॥ तदेकवृत्त्या तत्स्थैर्य नैवल्यं न तु वर्ष्मणः । विद्यैश्वर्यतपोरूपकुलवर्णाश्रमादिभिः ॥ १२० ॥ संजाताहं कृतित्यागस्त्वभिमानविसर्जनम् । त्रिभिच करणैः सम्यग्हित्वा वैषयिकीं क्रियाम् ॥ १२१ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । १२५. स्वात्मक चिन्तनं यत्तदीश्वरध्यानमीरितम् । छायेव सर्वदा वासो ब्रह्मविद्भिः सह स्थितिः ॥ १२२ ॥ यद्यदुक्तं ज्ञानशास्त्रे श्रवणादिकमेषु यः । निरतः कर्मधीहीनः ज्ञाननिष्ठः स एव हि ॥ १२३ ॥ धनकान्ताज्वरादीनां प्राप्तकाले सुखादिभिः । विकारहीनतैव स्यात्सुखदुःखसमानता ॥ १२४ ॥ श्रेष्ठ पूज्यं विदित्वा मां मानयन्तु जना भुवि । इत्यासक्त्या विहीनत्वं मानानासक्तिरुच्यते ॥ १२५ ॥ सचिन्तनस्य संबाधो विन्नोऽयं निर्जने ततः । स्थेयमित्येक एवास्ति चेत्सैवैकान्तशीलता ॥ १२६ ॥ संसारबन्धनिर्मुक्तिः कदा झटिति मे भवेत् । इति या सुदृढा बुद्धिरीरिता सा मुमुक्षुता ॥ १२७ ॥ ब्रह्मचर्यादिभिर्धर्मैर्बुद्धेर्दोषनिवृत्तये । दण्डनं दम इत्याहुर्दमशब्दार्थकोविदाः ॥ १२८ ॥ तत्तद्वृत्तिनिरोधेन बाह्येन्द्रियविनिग्रहः । योगिनो दम इत्याहुर्मनसः शान्तिसाधनम् ॥ १२९ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । इन्द्रियेष्विन्द्रियार्थेषु प्रवृत्तेषु यदृच्छया । अनुधावति तान्येव मनो वायुमिवानलः ॥ १३० ॥ इन्द्रियेषु निरुद्धेषु त्यक्त्वा वेगं मनः स्वयम् । सत्त्वभावमुपादत्ते प्रसादस्तेन जायते ॥ १३१ ॥ प्रसन्ने सति चित्तेऽस्य मुक्तिः सिध्यति नान्यथा । मनः प्रसादस्य निदानमेव निरोधनं यत्सकलेन्द्रियाणाम् । बाह्येन्द्रिये साधु निरुध्यमाने बाह्यार्थभोगो मनसो वियुज्यते ॥ १३२ ॥ तेन स्वदौष्टयं परिमुच्य चित्तं शनैः शनैः शान्तिमुपाददाति । चित्तस्य बाह्यार्थविमोक्षमेव मोक्षं विदुर्मोक्षणलक्षणज्ञाः ॥ १३३ ॥ दमं विना साधु मनःप्रसाद- हेतुं न विद्मः सुकरं मुमुक्षोः । सर्ववेदान्तसिद्धान्तसारसंग्रहः । दमेन चित्तं निजदोषजातं विसृज्य शान्ति समुपैति शीघ्रम् ॥ १३४ ॥ प्राणायामाद्भवति मनसो निश्चलत्वं प्रसादो यस्याप्यस्य प्रतिनियतदिग्देशकालाद्यवेक्ष्य । सम्यग्दृष्टया क्वचिदपि तया नो दमो हन्यते त- त्कुर्याद्धीमान्दममनलसश्चित्तशान्त्यै प्रयत्नात् ॥ सर्वेन्द्रियाणां गतिनिग्रहेण भोग्येषु दोषाद्यवमर्शनेन । ईशप्रसादाच्च गुरोः प्रसादा- च्छान्तिं समायात्यचिरेण चित्तम् ॥ १३६ ॥ आध्यात्मिकादि यद्दुःखं प्राप्तं प्रारब्धवेगतः । अचिन्तया तत्सहनं तितिक्षेति निगद्यते ॥ १३७ ॥ रक्षा तितिक्षासदृशी मुमुक्षो- र्न विद्यतेऽसौ पविना न भिद्यते । यामेव धीराः कवचीव विघ्ना- सर्वास्तृणीकृत्य जयन्ति मायाम् ॥ १३८ ॥ १२.८ सर्ववेदान्तसिद्धान्तसारसंग्रहः । क्षमावतामेव हि योगसिद्धिः स्वाराज्यलक्ष्मी सुखभोगसिद्धि: । क्षमाविहीना निपतन्ति वित्रै- वतैर्हताः पर्णचया इव द्रुमात् ॥ १३९ ॥ तितिक्ष्या तपो दानं यज्ञस्तीर्थं व्रतं श्रुतम । भूतिः स्वर्गेऽपवर्गश्च प्राप्यते तत्तदर्थिभिः ॥ १४० ॥ ब्रह्मचर्यमहिंसा च साधूनामप्यगर्हणम् । पराक्षेपादिसहनं तितिक्षेोरेव सिध्यति ॥ १४१ ॥ साधनेष्वपि सर्वेषु तितिक्षोत्तमसाधनम् । यत्र विघ्नाः पलायन्ते दैविका अपि भौतिकाः ॥ १४२ ॥ तितिक्षोरेव विघ्नेभ्यस्त्वनिवर्तितचेतसः । सिध्यन्ति सिद्धयः सर्वा अणिमाद्याः समृद्धयः ॥ १४३ ॥ तस्मान्मुमुक्षोरधिका तितिक्षा संपादनीयेप्सितकार्यसिद्धये । सर्ववेदान्तसिद्धान्तसारसंग्रहः । तीव्रा मुमुक्षा च महत्युपेक्षा चोभे तितिक्षा सहकारि कारणम् ॥ १४४ ॥ तत्तत्कालसमागतामयततेः शान्यै प्रवृत्तो यदि १२९ स्यात्तत्तत्परिहारकौषधरतस्तच्चिन्तने तत्परः । तद्भिक्षुः श्रवणादिधर्मरहितो भूत्वा मृतश्चेत्ततः किं सिद्धं फलमाप्नुयादुभयथा भ्रष्टो भवेत्स्वार्थतः ॥ योगमभ्यस्यतो भिक्षोर्योगाच्चलितचेतसः । प्राप्य पुण्यकृताँल्लोकानित्यादि प्राह केशवः ॥ १४६ ॥ न तु कृत्वैव संन्यासं तूष्णीमेव मृतस्य हि । पुण्यलोकगतिं ब्रूते भगवान्यासमात्रतः ॥ १४७ । न च संन्यसनादेव सिद्धिं समधिगच्छति । इत्यनुष्ठेय संत्यागात्सिद्ध्यभावमुवाच च ॥ १४८ ॥ तस्मात्तितिक्षया सोढा तत्तद्दुःखमुपागतम् । कुर्याच्छक्त्यनुरूपेण श्रवणादि शनैः शनैः ॥ १४९॥ प्रयोजनं तितिक्षायाः साधितायाः प्रयत्नतः । प्राप्तदुःखासहिष्णुत्वे न किंचिदपि दृश्यते ॥ १५० ॥ S. P. II. 9 सर्ववेदान्तसिद्धान्तसारसंग्रहः । साधनत्वेन दृष्टानां सर्वेषामपि कर्मणाम् । विधिना यः परित्यागः स संन्यासः सतां मतः ॥ १५१ ॥ उपरमयति कर्माणीत्युपरतिशब्देन कथ्यते न्यासः । न्यासेन हि सर्वेषां श्रुत्या प्रोक्तो विकर्मणां त्यागः ॥ १५२॥ कर्मणा साध्यमानस्यानित्यत्वं श्रूयते यतः । कर्मणानेन किं नित्यफलेप्सोः परमार्थिनः ॥ १५३ ॥ उत्पाद्याप्यं संस्कार्य विकार्य परिगण्यते । चतुर्विधं कर्मसाध्यं फलं नान्यदितः परम् ॥ १५४ ॥ नैतदन्यतरं ब्रह्म कदा भवितुमर्हति । स्वतः सिद्धं सर्वदाप्तं शुद्धं निर्मलमक्रियम् ॥ १५५ ॥ न चास्य कविज्जनितेत्यागमेन निषिध्यते । कारणं ब्रह्म तत्तस्माद्ब्रह्म नोत्पाद्यमिष्यते ॥ १५६ ॥ अत्राप्ययोस्तु भेदवेदाप्त्रा चाप्यमवाप्यते । आप्तस्वरूपमेवैतद्ब्रह्म नाप्यं कदाचन ॥ १५७ ॥ मलिनस्यैव संस्कारो दर्पणादेरिहष्यते । व्योमवन्नित्यशुद्धस्य ब्रह्मणो नैव संस्क्रिया ॥ १५८ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । केन दुष्टेन युज्येत वस्तु निर्मलमक्रियम् । योगादागतं दोष संस्कारो विनिवर्तयेत् ॥ १५९ ॥ निर्गुणस्य गुणाधानमपि नैवोपपद्यते । केवलो निर्गुणश्चेति नैर्गुण्यं श्रूयते यतः ॥ १६० ॥ सावयवस्य क्षीरादेर्वस्तुनः परिणामिनः । येन केन विकारित्वं स्यान्नो निष्कर्मवस्तुनः ॥ १६१ ॥ निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । इत्येव वस्तुनस्तत्त्वं श्रुतियुक्तिव्यवस्थितम् ॥ १६२ ॥ तस्मान्न कर्मसाध्यत्वं ब्रह्मणोऽस्ति कुतश्चन । कर्मसाध्यं त्वनित्यं हि ब्रह्म नित्यं सनातनम् ॥ १६३ ॥ देहादिः क्षीयते लोको यथैवं कर्मणा चितः । तथैवामुष्मिको लोको संचितः पुण्यकर्मणा ॥ १६४ ॥ कृतकत्वमनित्यत्वे हेतुर्जागर्ति सर्वदा । तस्मादनित्ये स्वर्गादौ पण्डितः को न मुह्यति ॥ १६५ ॥ जगतोस्तु नित्यत्वं सर्वेषामपि संगतम् । जगद्धेतुत्वमस्यैव वावदीति श्रुतिर्मुहुः ॥ १६६ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । ऐतदात्म्यमिदं सर्वं तत्सत्यमिति च श्रुतिः । अस्यैव नित्यतां ब्रूते जगद्धेतोः सतः स्फुटम् ॥ १६७ ॥ न कर्मणा न प्रजया धनेनेति स्वयं श्रुतिः । कर्मणो मोक्षहेतुत्वं साक्षादेव निषेधति ॥ १६८ ॥ प्रत्यग्ब्रह्मविचारपूर्वमुभयोरेकत्वबोधाद्विना कैवल्यं पुरुषस्य सिध्यति परब्रह्मात्मतालक्षणम् । न स्नानैरपि कीर्तनैरपि जपैन कृच्छ्रचान्द्रायणै- न वाप्यध्वरयज्ञदाननिगमैन मन्त्रतन्त्रैरपि ॥ १६९ ॥ ज्ञानादेव तु कैवल्यमिति श्रुत्या निगद्यते । ज्ञानस्य मुक्तिहेतुत्वमन्यव्यावृत्तिपूर्वकम् ॥ १७० ॥ विवेकिनो विरक्तस्य ब्रह्मनित्यत्ववेदिनः । तद्भावेच्छोरनित्यार्थे तत्सामग्र्ये कुतोऽरतिः ॥ १७१ ॥ तस्मादनित्ये स्वर्गादौ साधनत्वेन चोदितम् । नित्यं नैमित्तिकं चापि सर्वे कर्म ससाधनम् ॥ १७२ ॥ मुमुक्षुणा परित्याज्यं ब्रह्मभावमभीप्सुना । मुमुक्षोरपि कर्मास्तु श्रवणं चापि साधनम् ॥ १७३ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । हस्तवयमेतस्य स्वकार्य साधयिष्यति । यथा विजृम्भते दीपो ऋजूकरणकर्मणा ॥ १७४ ॥ तथा श्रवणजो बोधः पुंसो विहितकर्मणा । अतः सापेक्षितं ज्ञानमथवापि समुच्चयम् ॥ १७५ ॥ मोक्षस्य साधनमिति वदन्ति ब्रह्मवादिनः । मुमुक्षोर्युज्यते त्यागः कथं विहितकर्मणः ॥ १७६ । इति शङ्का न कर्तव्या मूढवत्पण्डितोत्तमैः । कर्मणः : फलमन्यत्तु श्रवणस्य फलं पृथक् ॥ १७७ । वैलक्षण्यं च सामग्र्योश्चोभयत्राधिकारिणोः । कामी कर्मण्यधिकृतो निष्कामी श्रवणे मतः ॥ १७८ ॥ अर्थी समर्थ इत्यादि लक्षणं कर्मिणो मतम् । परीक्ष्य लोकानित्यादि लक्षणं मोक्षकाङ्क्षिणः ॥ १७९ ॥ मोक्षाधिकारी संन्यासी गृहस्थः किल कर्मणि । कर्मणः साधनं भार्यास्रुक्नुवादिपरिग्रहः ॥ १८० ॥ नैवान्य साधनापेक्षा शुश्रूषोस्तु गुरुं विना । उपर्युपकारो वर्धते कर्मणा भृशम् ॥ १८१ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । अहंकारस्य विच्छित्ति: श्रवणेन प्रतिक्षणम् । प्रवर्तकं कर्मशास्त्रं ज्ञानशाखं निवर्तकम् ॥ १८२ ॥ इत्यादिवैपरीत्यं तत्साधने चाधिकारिणोः । द्वयोः परस्परापेक्षा विद्यते न कदाचन ॥ १८३ ॥ सामग्र्योचो भयोस्तद्वदुभयत्राधिकारिणोः । ऊर्ध्वं नयति विज्ञानमधः प्रापयति क्रिया ॥ १८४ ॥ कथमन्योन्यसापेक्षा कथं वापि समुच्चयः । यथाग्नेस्तृणकूटस्य तेजसस्तिमिरस्य च ॥ १८५ ॥ सहयोगो न घटते तथैव ज्ञानकर्मणोः । किमूपकुर्याज्ज्ञानस्य कर्मस्वप्रतियोगिनः ॥ यस्य संनिधिमात्रेण स्वयं न स्फूर्तिमृच्छति ॥। १८६ ॥ कोटीन्धनाद्रिज्वलितोऽपि वह्निरर्कस्य नार्हत्युपकर्तुमीषत् । यथा तथा कर्मसहस्रकोटिर्ज्ञानस्य किं नु स्वयमेव लीयते ॥ एककयौ हस्तौ कर्मण्यधिकृतावुभौ । सहयोगस्तयोर्युक्तो न तथा ज्ञानकर्मणोः ॥ १८८ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । १३५ कत्र कर्तुमक वाप्यन्यथा कर्म शक्यते । न तथा वस्तुनो ज्ञानं कर्तृतन्त्रं कदाचन ॥ १८९ ॥ यथा वस्तु तथा ज्ञानं प्रमाणेन विजायते । नापेक्षते च यकिंचित्कर्म वा युक्तिकौशलम् ॥ १९० ॥ ज्ञानस्य वस्तुतन्त्रत्वे संशयाद्युदयः कथम् । अतो न वास्तवं ज्ञानमिति नो शङ्कयतां बुधैः ॥ १९१ ॥ प्रमाणासौष्ठववृतं संशयादि न वास्तवम् । श्रुतिप्रमाणसुष्ठुत्वे ज्ञानं भवति वास्तवम् ॥ १९२ ॥ वस्तु तावत्परं ब्रह्म नित्यं सत्यं ध्रुवं विभु । श्रुतिप्रमाणे तज्ज्ञानं स्यादेव निरपेक्षकम् ॥ १९३ ॥ रूपज्ञानं यथा सम्यग्दृष्टौ सत्यां भवेत्तथा । श्रुतिप्रमाणे सत्येव ज्ञानं भवति वास्तवम् ॥ १९४ ॥ न कर्म यत्किंचिदपेक्षते हि रूपोपलब्धौ पुरुषस्य चक्षुः । ज्ञानं तथैव श्रवणादिजन्यं वस्तुप्रकाशे निरपेक्षमेव ॥ कर्तृतन्त्रं भवेत्कर्म कर्मतन्त्रं शुभाशुभम् । प्रमाणतन्त्र विज्ञानं मायातन्त्रमिदं जगत् ॥ १९६ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । विद्यां चाविद्यां चेति सहोक्तिरियमुपकृता सद्भिः । सत्कर्मोपासनयोर्न त्वात्मज्ञानकर्मणोः कापि ॥ १९७ ॥ नित्यानित्यपदार्थबोधरहितो यश्वोभयत्र स्रुगा- दार्थानामनुभूतिलग्नहृदयो निर्विण्णबुद्धिर्जनः । तस्यैवास्य जडस्य कर्म विहितं श्रुत्या विरज्याभितो मोक्षेच्छोर्न विधीयते तु परमानन्दार्थिनो धीमतः ॥ १९८ ॥ मोक्षेच्छया यदहरेव विरज्यतेऽसौ श्रुत्या न्यासस्तदैव विहितो विदुषो मुमुक्षोः । तयैव परया च ततः सुधीभिः प्रामाणिकोऽयमिति चेतसि निश्चितव्यः ॥। १९९ ॥ स्वापरोक्षस्य वेदादेः साधनत्वं निषेधति । नाहं वेदैर्न तपसेत्यादिना भगवानपि ॥ २०० ॥ प्रवृत्तिश्च निवृत्तिश्च द्वे एते श्रुतिगोचरे । प्रवृत्त्या बध्यते जन्तुर्निवृत्त्या तु विमुच्यते ॥ २०१ ॥ यन्न स्वबन्धोऽभिमतो मूढस्यापि कचित्ततः । निवृत्तिः कर्मसंन्यासः कर्तव्यो मोक्षकाङ्क्षिभिः ॥ २०२॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । न ज्ञानकर्मणोर्यस्मात्सहयोगस्तु युज्यते । तस्मात्त्याज्यं प्रयत्नेन कर्म ज्ञानेच्छुना ध्रुवम् ॥ २०३ ॥ इष्टसाधनताबुद्ध्या गृहीतस्यापि वस्तुनः । विज्ञाय फल्गुतां पश्चात्कः पुनस्तत्प्रतीक्षते ॥ २०४ ॥ उपरतिशब्दार्थो ह्युपरमणं पूर्वदृष्टवृत्तिभ्यः । सोऽयं मुख्यो गौणश्चेति च वृत्त्या द्विरूपतां धत्ते ॥२०५॥ वृत्तेर्दृश्यपरित्यागो मुख्यार्थ इति कथ्यते । गौणार्थ: कर्मसंन्यासः श्रुतेरङ्गतया मतः ॥ २०६ ॥ पुंसः प्रधानसिद्धयर्थमङ्गस्याश्रयणं ध्रुवम् । कर्तव्यमङ्गहीनं चेत्प्रधानं नैव सिध्यति ॥ २०७ ॥ संन्यसेत्सुविरक्तः सन्निहामुत्रार्थतः सुखात् । अविरक्तस्य संन्यासो निष्फलोऽयाज्ययागवत् ॥ २०८ ॥ संन्यस्य तु यतिः कुर्यान्न पूर्वविषयस्मृतिम् । तां तां तत्स्मरणे तस्य जुगुप्सा जायते यतः ॥ २०९ ॥ गुरुवेदान्तवाक्येषु बुद्धिर्या निश्चयात्मिका । सत्यमित्येव सा श्रद्धा निदानं मुक्तिसिद्धये ॥ २१० ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । श्रद्धावतामेव सतां पुमर्थः समीरितः सिध्यति नेतरेषाम् । उक्तं सुसूक्ष्मं परमार्थतत्त्वं श्रद्धत्स्व सोम्येति च वक्ति वेदः । २११ ॥ श्रद्धाविहीनस्य तु न प्रवृत्तिः प्रवृत्तिशून्यस्य न साध्यसिद्धि: । अश्रद्धयैवाभिहताञ्च सर्वे मज्जन्ति संसारमहासमुद्रे ॥ २१२ ॥ देवे च वेदे च गुरौ च मन्त्रे तीर्थे महात्मन्यपि भेषजे च । श्रद्धा भवत्यस्य यथा यथान्त- स्तथा तथा सिद्धिरुदेति पुंसाम् ॥ २१३ ॥ अस्तीत्येवोपलब्धव्यं वस्तुसद्भावनिश्चयात् । सद्भावनिश्चयस्तस्य श्रद्धया शास्त्रसिद्धया ॥ २१४ ॥ तस्माच्छ्रद्धा सुसंपाद्या गुरुवेदान्तवाक्ययोः । मुमुक्षोः श्रद्दधानस्य फलं सिध्यति नान्यथा ॥ २१५ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । यथार्थवादिता पुंसां श्रद्धाजननकारणम् । वेदस्येश्वरवाक्यत्वाद्यथार्थत्वे न संशयः ॥ २१६ ॥ मुक्तस्येश्वररूपत्वाद्गुरोर्वागपि तादृशी । तस्मात्तद्वाक्ययोः श्रद्धा सतां सिध्यति धीमताम् ॥ २१७ ॥ श्रुत्युक्तार्थावगाहाय विदुषा ज्ञेयवस्तुनि । चित्तस्य सम्यगाधानं समाधानमितीर्यते ॥ २१८ ॥ चित्तस्य साध्यैकपरत्वमेव पुमर्थसिद्धेर्नियमेन कारणम् । नैवान्यथा सिध्यति साध्यमीष- न्मनः प्रमादे विफलः प्रयत्नः ॥ २१९ ॥ चित्तं च दृष्टिं करणं तथान्य- देकत्र बघ्नाति हि लक्ष्यभेत्ता । किंचित्प्रमादे सति लक्ष्यभेत्तु- afroयोगो विफलो यथा तथा ॥ २२० ॥ सिद्धेश्वित्तसमाधानमसाधारणकारणम् । यतस्ततो मुमुक्षूणां भवितव्यं सदामुना ॥ २२१ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । अत्यन्ततीव्रवैराग्यं फललिप्सा महत्तरा । तदेतदुभयं विद्यात्समाधानस्य कारणम् ॥ २२२ ॥ बहिरङ्गं श्रुतिः प्राह ब्रह्मचर्यादिमुक्तये । शमादिषट्कमेवैतदन्तरङ्गं विदुर्बुधाः ॥ २२३ ॥ अन्तरङ्गं हि बलवद्बहिरङ्गाद्यतस्ततः । शमादिषट्कं जिज्ञासोरवश्यं भाव्यमान्तरम् ॥ २२४ ॥ अन्तरङ्गविहीनस्य कृतश्रवणकोटयः । न फलन्ति यथा योद्धुरधीरस्यास्त्रसंपदः ॥ २२५ ॥ ब्रह्मात्मैकत्वविज्ञानाद्यद्विद्वान्मोक्तुमिच्छति । संसारपाशबन्धं तन्मुमुक्षुत्वं निगद्यते ॥ २२६ ॥ साधनानां तु सर्वेषां मुमुक्षा मूलकारणम् । अनिच्छोरप्रवृत्तस्य क्व श्रुतिः क्व नु तत्फलम् ॥ २२७ ॥ तीव्र मध्यममन्दातिमन्दभेदाश्चतुर्विधाः । मुमुक्षा तत्प्रकारोऽपि कीर्त्यते श्रूयतां बुधैः ॥ २२८ ॥ तापैस्त्रिभिर्नित्यमनेकरूपैः संतप्यमानो क्षुभितान्तरात्मा । परिग्रहं सर्वमनर्थबुद्धया जहाति सा तीव्रतरा मुमुक्षा ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । तापत्रयं तीव्रमवेक्ष्य वस्तु दृष्ट्वा कलत्रं तनयान्विहातुम् । मध्ये द्वयोर्लोडनमात्मनो य- सैषा मता माध्यमिकी मुमुक्षा ॥ २३० ॥ मोक्षस्य कालोऽस्ति किमद्य मे त्वरा भुक्त्वैव भोगान्कृतसर्वकार्यः । मक्त्यै यतिष्येऽहमथेति बुद्धि- रेषैव मन्दा कथिता मुमुक्षा ॥ २३१ ॥ मार्गे प्रयातुर्मणिलाभवन्मे लभेत मोक्षो यदि तर्हि धन्यः । इत्याशया मूढधियां मतिर्या सैषातिमन्दाभिमता मुमुक्षा ॥ २३२ ॥ जन्मानेकसहस्रेषु तपसाराधितेश्वरः । तेन निःशेषनिर्धूतहृदयस्थितकल्मषः ॥ २३३ ॥ शास्त्रविद्गुणदोषज्ञो भोग्यमात्रे विनिस्पृहः । नित्यानित्यपदार्थज्ञो मुक्तिकामो दृढव्रतः ॥ २३४ ॥ सर्ववेदान्तसिद्धान्त सारसंग्रहः । निष्टप्रग्निना पात्रमुद्वास्य त्वरया यथा । जहाति गेहं तद्वच्च तीव्रमोक्षेच्छया द्विजः ॥ २३५ ॥ स एव सद्यस्तरति संसृतिं गुर्वनुग्रहात् । यस्तु तीव्रमुमुक्षुः स्यात्स जीवन्नेव मुच्यते ॥ २३६ ॥ जन्मान्तरे मध्यमस्तु तदन्यस्तु युगान्तरे । चतुर्थः कल्पकोट्यां वा नैव बन्धाद्विमुच्यते ॥ २३७ ॥ सृजन्म जन्तोरतिदुर्लभं विदु- स्ततोऽपि पुंस्त्वं च ततो विवेकः । लब्ध्वा तदेतत्रितयं महात्मा यतेत मुक्त्यै सहसा विरक्तः ॥ २३८ ॥ पुत्रमित्रकलत्रादिसुखं जन्मनि जन्मनि । मर्त्यत्वं पुरुषत्वं च विवेकश्च न लभ्यते ॥ २३९ ॥ लब्ध्वा सुदुर्लभतरं नरजन्म जन्तु- स्तत्रापि पौरुषमतः सदसद्विवेकम् । संप्राप्य चैहिक सुखाभिरतो यदि स्था- द्विक्तस्य जन्म कुमतेः पुरुषाधमस्य ॥ २४० ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । खादते मोदते नित्यं शुनकः सूकरः खरः । तेषामेषां विशेषः को वृत्तिर्येषां तु तैः समा ॥ २४१ ॥ यावन्नाश्रयते रोगो यावन्नाक्रमते जरा । यावन्न धीर्विपर्येति यावन्मृत्युं न पश्यति ॥ २४२ ॥ तावदेव नरः स्वस्थः सारग्रहणतत्परः । विवेकी प्रयतेताशु भवबन्धविमुक्तये ॥ २४३ ॥ देवर्षिपितृमर्त्यर्णबन्धमुक्तास्तु कोटिशः । भवबन्धविमुक्तस्तु यः कश्चिद्ब्रह्मवित्तमः ॥ २४४ ॥ अन्तर्बन्धेन बद्धस्य किं बहिर्बन्धमोचनैः । तदन्तर्बन्धमुक्त्यर्थं क्रियतां कृतिभिः कृतिः ॥ २४५ ॥ कृतिपर्यवसानैव मता तीव्रमुमुक्षुता । अन्या तु रञ्जनामात्रा यत्र नो दृश्यते कृतिः ॥ २४६ ॥ गेहादिसर्वमपहाय लघुत्वबुद्धधा सौख्येच्छया स्वपतिनानलमाविविक्षोः । कान्ताजनस्य नियता सुदृढा त्वरा या सैषा फलान्तगमने करणं मुमुक्षोः ॥ २४७ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । नित्यानित्यविवेकच देहक्षणिकतामतिः । मृत्योर्भीतिश्च तापश्च मुमुक्षावृद्धिकारणम् ॥ २४८ ॥ शिरो विवेकस्त्वत्यन्तं वैराग्यं वपुरुच्यते । शमादयः षडङ्गानि मोक्षेच्छा प्राण इष्यते ॥ २४९ ॥ ईदृशाङ्गसमायुक्तो जिज्ञासुर्युक्तिकोविदः । शूरो मृत्युं निहन्त्येव सम्यग्ज्ञानासिना ध्रुवम् ॥ २५० ॥ उक्तसाधनसंपन्नो जिज्ञासुर्यतिरात्मनः । जिज्ञासायै गुरुं गच्छेत्समित्पाणिर्नयोज्ज्वलः ॥ २५१ ॥ श्रोत्रियो ब्रह्मनिष्ठो यः प्रशान्तः समदर्शनः । निर्ममो निरहंकारो निर्द्वन्द्वो निष्परिग्रहः ॥ २५२ ॥ अनपेक्षः शुचिर्दक्षः करुणामृतसागरः । एवंलक्षणसंपन्नः स गुरुर्ब्रह्मवित्तमः । उपासाद्यः प्रयत्नेन जिझासो: स्वार्थसिद्धये ॥ २५३ ॥ जन्मानेकशतैः सदादरयुजा भक्त्या समाराधितो भक्तैर्वैदिकलक्षणेन विधिना संतुष्ट ईशः स्वयम् । सर्ववेदान्तसिद्धान्तसारसंग्रहः । साक्षाच्छ्रीगुरुरूपमेत्य कृपया दृग्गोचरः सन्प्रभुः तत्त्वं साधु विबोध्य तारयति तान्संसारदुःखार्णवात् ॥ अविद्याहृदयग्रन्थिविमोक्षोऽपि भवेद्यतः । तमेव गुरुरित्याहुर्गुरुशब्दार्थवेदिनः ॥ २५५ ॥ शिव एव गुरुः साक्षात् गुरुरेव शिवः स्वयम् । उभयोरन्तरं किंचिन्न द्रष्टव्यं मुमुक्षुभिः ॥ २५६ ॥ बन्धमुक्तं ब्रह्मनिष्ठं कृतकृत्यं भजेद्गुरुम् । यस्य प्रसादात्संसारसागरो गोष्पदायते ॥ २५७ ॥ शुश्रूषया सदा भक्त्या प्रणामैर्विनयोक्तिभिः । प्रसन्नं गुरुमासाद्य प्रष्टव्यं ज्ञेयमात्मनः ॥ २५८ ॥ भगवन्करुणासिन्धो भवसिन्धोर्भवांस्तरिः । यमाश्रित्याश्रमेणैव परं पारं गता बुधाः ॥ २५९ ॥ जन्मान्तरकृतानन्तपुण्यकर्मफलोदयः । अद्य संनिहितो यस्मात्त्वत्कृपापात्रमस्म्यहम् ॥ २६० ॥ संप्रीतिमक्ष्णोर्वदनप्रसाद- मानन्दमन्तःकरणस्य सद्यः । S. P. II. 10 १४६ सर्ववेदान्तसिद्धान्तसारसंग्रहः । विलोकनं ब्रह्मविदस्तनोति छिनत्ति मोहं सुगतिं व्यनक्ति ॥ २६१ ॥ हुताशनानां शशिनामिनाना- मप्यर्बुदं वापि न यन्निहन्तुम् । शक्नोति तद्धान्तमनन्तमान्तरं हन्त्यात्मवेत्ता सकृदीक्षणेन ॥ २६२ ॥ दुष्पारे भवसागरे जनिमृतिव्याध्यादिदुः खोत्कटे घोरे पुत्रकलत्रमित्रबहुलग्राहाकरे भीकरे । कर्मोत्तुङ्गतरङ्गभङ्गनिकरैराकृष्यमाणो मुहुः यातायातगतिभ्रमेण शरणं किंचिन्न पश्याम्यहम् ॥ केन वा पुण्यशेषेण तव पादाम्बुजद्वयम् । दृष्टवानस्मि मामार्त मृत्योस्त्राहि दद्यादृशा ॥ २६४ ॥ वदन्तमेवं तं शिष्यं दृष्ट्यैव दयया गुरुः । दद्यादभयमेतस्मै मा भैष्टेति मुहुर्मुहुः ॥ २६५ ॥ विद्वन्मृत्युभयं जहीहि भवतो नास्त्येव मृत्युः क्वचि- नित्यस्य द्वयवर्जितस्य परमानन्दात्मनो ब्रह्मणः । सर्ववेदान्तसिद्धान्तसारसंग्रहः । भ्रान्त्या किंचिदवेक्ष्य भीतमनसा मिध्या त्वया कथ्यते मां त्राहीति हि सुप्तवत्प्रलपनं शून्यात्मकं ते मृषा ॥ २६६ ॥ निद्रागाढतमोवृतः किल जनः स्वप्ने भुजङ्गादिना ग्रस्तं स्वं समवेक्ष्य यत्प्रलपति त्रासाद्धतोऽस्मीत्यलम् । आप्तेन प्रतिबोधितः करतलेनाताड्य पृष्टः स्वयं किंचिन्नेति वदत्यमुष्य वचनं स्यात्तत्किमर्थं वद ॥ २६७ ॥ रजस्तु तत्त्वमवेक्ष्य गृहीतसर्प- भावः पुमानयमहिर्वसतीति मोहात् । आक्रोशति प्रतिबिभेति च कम्पते त- न्मिथ्यैव नात्र भुजगोऽस्ति विचार्यमाणे ॥ २६८ ॥ तद्वत्त्वयाप्यात्मन उक्तमेत- ज्जन्माप्ययव्याधिजरादिदुःखम् । मृषैव सर्व भ्रमकल्पितं ते सम्यग्वचार्यात्मनि मुञ्च भीतिम् ॥ २६९ ॥ भवाननात्मनो धर्मानात्मन्यारोप्य शोचति । तदज्ञानकृतं सर्वं भयं त्यक्त्वा सुखी भव ॥ २७० ॥ शिष्य :- सर्ववेदान्तसिद्धान्तसारसंग्रहः । श्रीमद्भिरुक्तं सकलं मृषेति दृष्टान्त एव ह्युपपद्यते तत् । दान्तिके नैव भवादिदुःखं प्रत्यक्षतः सर्वजनप्रसिद्धम् ॥ २७१ ॥ प्रत्यक्षेणानुभूतार्थः कथं मिध्यात्वमर्हति । चक्षुषो विषयं कुम्भं कथं मिथ्या करोम्यहम् ॥ २७२ ॥ विद्यमानस्य मिध्यात्वं कथं नु घटते प्रभो । प्रत्यक्षं खलु सर्वेषां प्रमाणं प्रस्फुटार्थकम् ॥ २७३ ॥ मर्त्यस्य मम जन्मादिदुःखभाजोऽल्पजीविनः । ब्रह्मत्वमपि नित्यत्वं परमानन्दता कथम् ॥ २७४ ॥ क आत्मा कस्त्वनात्मा च किमु लक्षणमेतयोः । आत्मन्यनात्मधर्माणामारोपः क्रियते कथम् ॥ २७५ ॥ किमज्ञानं तदुत्पन्नभयत्यागोऽपि वा कथम् । किमु ज्ञानं तदुत्पन्नसुखप्राप्तिश्च वा कथम् ॥ २७६ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । सर्वमेतद्यथापूर्व करामलकवत्स्फुटम् । प्रतिपादय मे स्वामिन् श्रीगुरो करुणानिधे ॥ २७७ ॥ श्रीगुरुः- धन्यः कृतार्थस्त्वमहो विवेक: शिवप्रसादस्तव विद्यते महान् । विसृज्य तु प्राकृतलोकमार्ग ब्रह्मावगन्तुं यतसे यतस्त्वम् ॥ २७८ ॥ शिवप्रसादेन विना न सिद्धि: शिवप्रसादेन विना न बुद्धिः । शिवप्रसादेन विना न युक्ति: शिवप्रसादेन विना न मुक्तिः ॥ २७९ ॥ यस्य प्रसादेन विमुक्तसङ्गाः शुकादयः संसृतिबन्धमुक्ताः । तस्य प्रसादो बहुजन्मलभ्यो भक्त्यैकगम्यो भवमुक्तिहेतुः ॥ २८० ॥ विवेको जन्तूनां प्रभवति जनिष्वेव बहुषु प्रसादादेवैशाद्बहुसुकृत पाकोदयवशात् । १५० सर्ववेदान्तसिद्धान्तसारसंग्रहः । यतस्तस्मादेव त्वमपि परमार्थावगमने कृतारम्भः पुंसामिदमिह विवेकस्य तु फलं ॥२८१ ॥ मर्त्यत्वसिद्धेरपि पुंस्त्वसिद्धे- विप्रत्वसिद्धेश्व विवेकसिद्धेः । वदन्ति मुख्यं फलमेव मोक्षं व्यर्थ समस्तं यदि चेन्न मोक्षः ॥ २८२ ॥ प्रश्नः समीचीनतरस्तवायं यदात्मतत्त्वावगमे प्रवृत्तिः । ततस्तवैतत्सकलं समूलं निवेदयिष्यामि मुदा शृणुष्व ॥ २८३ ॥ मर्त्यत्वं त्वयि कल्पितं भ्रमवशात्तेनैव जन्मादयः तत्संभावितमेव दुःखमपि ते नो वस्तुतस्तन्मृषा । निद्रा मोहवशादुपागतसुखं दुःखं च किं नु त्वया सत्यत्वेन विलोकितं क्वचिदपि ब्रूहि प्रबोधागमे ॥ २८४ ॥ नाशेषलो कैरनुभूयमानः प्रत्यक्षतोऽयं संकलप्रपञ्चः । सर्ववेदान्तसिद्धान्तसारसंग्रहः । कथं मृषा स्यादिति शङ्कनीयं विचारशून्येन विमुह्यता त्वया ॥ २८५ ॥ दिवान्धदृष्टेस्तु दिवान्धकारः प्रत्यक्षसिद्धोऽपि स किं यथार्थः । तद्वद्भूमेणावगतः पदार्थो भ्रान्तस्य सत्यः सुमतेर्मृषैव ॥ २८६ ॥ घटोऽयमित्यत्र घटाभिधानः प्रत्यक्षतः कश्चिदुदेति दृष्टेः । विचार्यमाणे स तु नास्ति तत्र मृदस्ति तद्भावविलक्षणा सा ॥ २८७ ॥ प्रादेशमात्रः परिदृश्यतेऽर्कः शास्त्रेण संदर्शितलक्षयोजनः । मानान्तरेण कचिदेति बाधां प्रत्यक्षमप्यत्र हि न व्यवस्था ॥ २८८ ॥ तस्मात्त्वयीदं भ्रमतः प्रतीतं मृषैव नो सत्यमवेहि साक्षात् । १५२ सर्ववेदान्तसिद्धान्तसारसंग्रहः । ब्रह्म त्वमेवासि सुखस्वरूपं त्वत्तो न भिन्नं विचिनुष्व बुद्धौ ॥ २८९ ॥ लोकान्तरे वात्र गुहान्तरे वा तीर्थान्तरे कर्मपरम्परान्तरे । शास्त्रान्तरे नास्त्यनुपश्यतामिह स्वयं परं ब्रह्म विचार्यमाणे ॥ २९० ॥ तत्त्वमात्मस्थमज्ञात्वा मूढः शास्त्रेषु पश्यति । गोपः कक्षगतं छागं यथा कूपेषु दुर्मतिः ॥ २९१ ॥ स्वमात्मानं परं मत्वा परमात्मानमन्यथा । विमृग्यते पुनः स्वात्मा बहि: कोशेषु पण्डितैः ॥ २९२ ॥ विस्मृत्य वस्तुनस्तत्त्वमध्यारोप्य च वस्तुनि । अवस्तुतां च तद्धर्मान्मुधा शोचति नान्यथा ॥ २९३ ॥ आत्मानात्मविवेकं ते वक्ष्यामि शृणु सादरम् । यस्य श्रवणमात्रेण मुच्यतेऽनात्मबन्धनात् ॥ २९४ ॥ इत्युक्त्वाभिमुखीकृत्य शिष्यं करुणया गुरुः । अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्चयन् ॥ २९५ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । सम्यक्प्रबोधयत्तत्त्वं शास्त्रदृष्टेन वर्त्मना । सर्वेषामुपकाराय तत्प्रकारोऽत्र दर्श्यते ॥ २९६ ॥ वस्तुन्यवस्त्वारोपो यः सोऽध्यारोप इतीर्यते । असर्पभूते रज्ज्वादौ सर्पत्वारोपणं यथा ॥ २९७ ॥ वस्तु तावत्परं ब्रह्म सत्यज्ञानादिलक्षणम् । इदमारोपितं यत्र भाति खे नीलतादिवत् ॥ २९८ ॥ तत्कारणं यदज्ञानं सकार्य सद्विलक्षणम् । अवस्त्वित्युच्यते सद्भिर्यस्य बाधा प्रदृश्यते ॥ २९९ ॥ अवस्तु तत्प्रमाणैर्यद्वाध्यते शुक्तिरौप्यवत् । न बाध्यते यत्तद्वस्तु त्रिषु कालेषु शुक्तिवत् ॥ ३०० ॥ शुक्तेर्बाधा न खल्वस्ति रजतस्य यथा तथा । अवस्तुसंज्ञितं यत्तज्जगदध्यासकारणम् ॥ ३०१ ॥ सदसद्भयामनिर्वाच्यमज्ञानं त्रिगुणात्मकम् । वस्तु तत्त्वावबोधैकबाध्यं तद्भावलक्षणम् ॥ ३०२ ॥ मिथ्यासंबन्धतस्तत्र ब्रह्मण्याश्रित्य तिष्ठति । मणौ शक्तिर्यथा तद्वनैतदाश्रयदूषकम् ॥ ३०३ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । सद्भावे लिङ्गमेतस्य कार्यमेतच्चराचरम् । मानं श्रुतिः स्मृतिश्चाज्ञोऽहमित्यनुभवोऽपि च ॥ ३०४ ॥ अज्ञानं प्रकृति: शक्तिरविद्येति निगद्यते । तदेतत्सन्न भवति नासद्वा शुक्तिरौप्यवत् ॥ ३०५ । तो भिन्नभिन्नं वा न दीपस्य प्रभा यथा । न सावयवमन्यद्वा बीजस्याङ्कुरवत्क्वचित् ॥ ३०६ ॥ अत एतदनिर्वाच्यमित्येव कवयो विदुः । समष्टिव्यष्टिरूपेण द्विधाज्ञानं निगद्यते ॥ ३०७ ॥ नानात्वेन प्रतीतानामज्ञानानामभेदतः । एकत्वेन समष्टिः स्याद्भूरुहाणां वनं यथा ॥ ३०८ ॥ इयं समष्टिरुत्कृष्टा सत्त्वांशोत्कर्षतः पुरा । मायेति कथ्यते तज्ज्ञैः शुद्धसत्त्वैकलक्षणा ॥ ३०९ ॥ मायोपहितचैतन्यं साभासं सत्त्वबृंहितम् । सर्वज्ञत्वादिगुणकं सृष्टिस्थित्यन्तकारणम् ॥ ३१० ॥ अव्याकृतं तदव्यक्तमीश इत्यपि गीयते । सर्वशक्तिगुणोपेतः सर्वज्ञानावभासकः ॥ ३११ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । १५५ स्वतन्त्रः सत्यसंकल्पः सत्यकामः स ईश्वरः । तस्यैतस्य महाविष्णोर्महाशक्तेर्महीयसः ॥ ३१२ ॥ सर्वज्ञत्वेश्वरत्वादिकारणत्वान्मनीषिणः । कारणं वपुरित्याहुः समष्टिं सत्त्वबृंहितम् ॥ ३१३ ॥ आनन्दप्रचुरत्वेन साधकत्वेन कोशवत् । सैषानन्दमयः कोश इतीशस्य निगद्यते ॥ ३१४ ॥ सर्वोपर महेतुत्वात्सुषुप्तिस्थानमिष्यते । प्राकृतः प्रलयो यत्र श्राव्यते श्रुतिभिर्मुहुः ॥ ३१५ ॥ अज्ञानं व्यष्ट्यभिप्रायादनेकत्वेन भिद्यते । अज्ञानवृत्तयो नाना तत्तद्गुणविलक्षणाः ॥ ३१६ ॥ वनस्य व्यष्ट्यभिप्रायारुहा इत्यनेकता । यथा तथैवाज्ञानस्य व्यष्टितः स्यादेनकता ॥ ३१७ ॥ व्यष्टिर्मलिनसत्वैषा रजसा तमसा युता । ततो निकृष्टा भवति योपाधिः प्रत्यगात्मनः ॥ ३१८ ॥ चैतन्यं व्यष्ट्यवच्छिन्नं प्रत्यगात्मेति गीयते । साभासं व्यष्ट्युपहितं सत्तादात्म्येन तद्गुणैः ॥ ३१९ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । अभिभूतः स एवात्मा जीव इत्यभिधीयते । किंचिज्ज्ञत्वानीश्वरत्वसंसारित्वादिधर्मवान् ॥ ३२० ॥ अस्य व्यष्टिरहंकारकारणत्वेन कारणम् । वपुस्तत्राभिमान्यात्मा प्राज्ञ इत्युच्यते बुधैः ॥ ३२१ ॥ प्राज्ञत्वमस्यैकाज्ञानभासकत्वेन संमतम् । व्यष्टेर्निकृष्टत्वेनास्य नानेकाज्ञानभासकम् ॥ ३२२ ॥ स्वरूपाच्छादकत्वेनाप्यानन्दप्रचुरत्वतः । कारणं वपुरानन्दमयः कोश इतीर्यते ॥ ३२३ ॥ अस्यावस्था सुषुप्तिः स्याद्यवानन्दः प्रकृष्यते । एषोऽहं सुखमवाप्यं न तु किंचिदवेदिषम् ॥ ३२४ ॥ इत्यानन्दसमुत्कर्षः प्रबुद्धेषु प्रदृश्यते । समष्टेरपि च व्यष्टेरुभयोर्वनवृक्षवत् ॥ ३२५ ॥ अभेद एव नो भेदो जात्येकत्वेन वस्तुत: । अभेद एव ज्ञातव्यस्तथेशप्राज्ञयोरपि ॥ ३२६ ॥ सत्युपाध्योरभिन्नत्वे व भेदस्तद्विशिष्टयोः । एकीभावे तरङ्गाब्ध्योः को भेदः प्रतिबिम्बयोः ॥ ३२७ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । १५७ अज्ञानतदवच्छिन्नाभासयोरुभयोरपि । आधारं शुद्धचैतन्यं यत्तत्तुर्यमितीर्यते ॥ ३२८ ॥ एतदेवाविविक्तं सदुपाधिभ्यां च तद्गुणैः । महावाक्यस्य वाच्यार्थो विविक्तं लक्ष्य इष्यते ॥ ३२९ ॥ अनन्तशक्तिसंपन्नो मायोपाधिक ईश्वरः । ईक्षामात्रेण सृजति विश्वमेतच्चराचरम् ॥ ३३० ॥ अद्वितीयस्वमात्रोऽसौ निरुपादान ईश्वरः । स्वयमेव कथं सर्वं सृजतीति न शङ्कयताम् ॥ ३३१ ॥ निमित्तमप्युपादानं स्वयमेव भवन्प्रभुः । चराचरात्मकं विश्वं सृजत्यवति लुम्पति ॥ ३३२ ॥ स्वप्राधान्येन जगतो निमित्तमपि कारणम । उपादानं ततोपाधिप्राधान्येन भवत्ययम् ॥ ३३३ ॥ यथालूता निमित्तं च स्वप्रधानतया भवेत् । स्वशरीरप्रधानत्वेनोपादानं तथेश्वरः ॥ ३३४ ॥ तमः प्रधानप्रकृतिविशिष्टात्परमात्मनः । अभूत्सकाशादाकाशमाकाशाद्वायुरुच्यते ॥ ३३५ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । वायोरग्निस्तथैवाग्नेरापोऽद्भयः पृथिवी क्रमात् । शक्तेस्तमःप्रधानत्वं तत्कार्ये जाड्यदर्शनात् ॥ ३३६ ॥ आरम्भन्ते कार्यगुणान्ये कारणगुणा हि ते । एतानि सूक्ष्मभूतानि भूतमात्रा अपि क्रमात् ॥ ३३७ ॥ एतेभ्यः सूक्ष्मभूतेभ्यः सूक्ष्मदेहा भवन्त्यपि । स्थूलान्यपि च भूतानि चान्योन्यांशविमेलनात् ॥ ३३८ ॥ अपञ्चीकृतभूतेभ्यो जातं सप्तदशाङ्गकम । संसारकारणं लिङ्गमात्मनो भोगसाधनम् ॥ ३३९ ॥ श्रोत्रादिपञ्चकं चैव वागादीनां च पञ्चकम् । प्राणादिपञ्चकं बुद्धिमनसी लिङ्गमुच्यते ॥ ३४० ॥ श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च जातानि । आकाशादीनां सत्त्वांशेभ्यो धीन्द्रियाण्यनुक्रमतः ॥ ३४१॥ आकाशादिगताः पञ्च सात्त्विकांशाः परस्परम् । मिलित्वैवान्तःकरणमभवत्सर्वकारणम् ॥ ३४२ ॥ प्रकाशकत्वादेतेषां सात्त्विकांशत्वमिष्यते । प्रकाशकत्वं सत्त्वस्य स्वच्छत्वेन यतस्ततः ॥ ३४३ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । तदन्तःकरणं वृत्तिभेदेन स्याच्चतुर्विधम् । मनो बुद्धिरहंकारश्चित्तं चेति तदुच्यते ॥ ३४४ ॥ संकल्पान्मन इत्याहुर्बुद्धिरर्थस्य निश्चयात् । अभिमानादहंकारश्चित्तमर्थस्य चिन्तनात् ॥ ३४५ ॥ मनस्यपि च बुद्धौ च चित्ताहंकारयोः क्रमात् । अन्तर्भावोऽत्र बोद्धव्यो लिङ्गलक्षणसिद्धये ॥ ३४६ ॥ चिन्तनं च मनोधर्मः संकल्पादिर्यथा तथा । अन्तर्भावो मनस्यैव सम्यक्चित्तस्य सिध्यति ॥ ३४७ ॥ देहादावहमित्येव भावो दृढतरो धियः । दृश्यतेऽहंकृतेस्तस्मादन्तर्भावोऽत्र युज्यते ॥ ३४८ ॥ तस्मादेव तु बुद्धेः कर्तृत्वं तदितरस्य करणत्वम् । सिध्यत्यात्मन उभयाद्विद्यात्संसारकारणं मोहात् ॥ ३४९ ॥ विज्ञानमयकोशः स्यात् बुद्धिर्ज्ञानेन्द्रियैः सह । । विज्ञानप्रचुरत्वेनाप्याच्छादकतयात्मनः ॥ ३५० ॥ विज्ञानमय कोशोऽयमिति विद्वद्भिरुच्यते । अयं महानहंकारवृत्तिमान्कर्तृलक्षणः ॥ सर्वसंसारनिर्वोढा विज्ञानमयशब्दभाक् ॥ ३५१ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । अहं ममेत्येव सदाभिमानं देहेन्द्रियादौ कुरुते गृहादौ । जीवाभिमानः पुरुषोऽयमेव कर्ता च भोक्ता च सुखी च दुःखी ॥ ३५२ ॥ स्ववासनाप्रेरित एव नित्यं करोति कर्मोभयलक्षणं च । भुङ्क्ते तदुत्पन्नफलं विशिष्टं सुखं च दुःखं च परत्र चात्र ॥ ३५३ ॥ नानायोनिसहस्रेषु जायमानो मुहुर्मुहुः । म्रियमाणो भ्रमत्येष जीवः संसारमण्डले ॥ ३५४ ॥ मनो मनोमयः कोशो भवेज्ज्ञानेन्द्रियैः सह । प्राचुर्य मनसो यत्र दृश्यतेऽसौ मनोमयः ॥ ३५५ । चिन्ताविषादहर्षाद्याः [: कामाद्या अस्य वृत्तयः । मनुते मनसैवैष फलं कामयते बहिः । यतते कुरुते भुङ्क्ते तन्मनः सर्वकारणम् ॥ ३५६ । मनो मुष्य प्रवणस्य हेतु- रन्तर्बहिश्चार्थमनेन वेत्ति । सर्ववेदान्तसिद्धान्तसारसंग्रहः । १६१ शृणोति जित्यमुनैव चेक्षते वक्ति स्पृशत्यत्ति करोति सर्वम् ॥ ३५७ ॥ बन्धश्च मोक्षो मनसैव पुंसा- मर्थोऽप्यनर्थोऽप्यमुनैव सिध्यति । शुद्धेन मोक्षो मलिनेन बन्धो विवेकतोऽर्थोऽप्यविवेकतोऽन्यः ॥ ३५८ ॥ रजस्तमोभ्यां मलिनं त्वशुद्ध- मज्ञानजं सत्त्वगुणेन रिक्तम् । मनस्तमोदोषसमन्वितत्वा- ज्जडत्वमोहालसताप्रमादैः । तिरस्कृतं सन्न तु वेत्ति वास्तवं पदार्थतत्त्वं ह्युपलभ्यमानम् ॥ ३५९ ॥ रजोदोषैर्युक्तं यदि भवति विक्षेपकगुणैः प्रतीपैः कामाद्यैरनिशमभिभूतं व्यथयति । कथंचित्सूक्ष्मार्थावगतिमदपि भ्राम्यति भृशं मनोदीपो यद्वत्प्रबलमरुता ध्वस्तमहिमा ॥ ३६० ॥ S. P. II. 11 सर्ववेदान्तसिद्धान्तसारसंग्रहः । ततो मुमुक्षुर्भवबन्धमुक्त्यै रजस्तमोभ्यां च तदीयकायैः । वियोज्य चित्तं परिशुद्धसत्त्वं प्रियं प्रयत्नेन सदैव कुर्यात् ॥ ३६१ ॥ गर्भावासजनिप्रणाशनजराव्याध्यादिषु प्राणिनां यदुःखं परिदृश्यते च नरके तचिन्तयित्वा मुहुः । दोषानेव विलोक्य सर्वविषयेष्वाशां विमुच्याभित- चित्तग्रन्थिविमोचनाय सुमतिः सत्त्वं समालम्बताम् ॥ मेषु निरतो यस्तु नियमेषु च यत्नतः । विवेकिनस्तस्य चित्तं प्रसादमधिगच्छति ॥ ३६३ ॥ आसुरी संपदं त्यक्त्वा भजेद्यो दैवसंपदम् । मोक्षैककाङ्क्षया नित्यं तस्य चित्तं प्रसीदति ॥ ३६४ ॥ परद्रव्यपरद्रोहपरनिन्दापरस्त्रियः । नालम्बते मनो यस्य तस्य चित्तं प्रसीदति ॥ ३६५ ॥ आत्मवत्सर्वभूतेषु यः समत्वेन पश्यति । सुखं दुःखं विवेकेन तस्य चित्तं प्रसीदति ॥ ३६६ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । अत्यन्तं श्रद्धया भक्त्या गुरुमीश्वरमात्मनि । यो भजत्यनिशं क्षान्तस्तस्य चित्तं प्रसीदति ॥ ३६७ ॥ शिष्टान्नमीशानमार्यसेवां तीर्थाटनं स्वाश्रमधर्मनिष्ठाम् । यमानुषक्ति नियमानुवृत्तिं चित्तप्रसादाय वदन्ति तज्ज्ञाः ॥ ३६८ ॥ कद्वाम्ललवणात्युष्णतीक्ष्णरूक्षविधायिनाम् । पूतिपर्युषितादीनां त्यागः सत्त्वाय कल्पते ॥ ३६९ ॥ श्रुत्या सत्त्वपुराणानां सेवया सत्त्ववस्तुनः । अनुवृत्त्या च साधूनां सत्त्ववृत्तिः प्रजायते ॥ ३७० ॥ यस्य चित्तं निर्विषयं हृदयं यस्य शीतलम् । तस्य मित्रं जगत्सर्वं तस्य मुक्तिः करस्थिता ॥ ३७१ ॥ हित परिमितभोजी नित्यमेकान्तसेवी सकृदुचितहितोक्तिः स्वल्पनिद्राविहारः । अनुनियमनशीलो यो भजत्युक्तकाले स लभत इह शीघ्रं साधु चित्तप्रसादम् ॥ ३७२ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । चित्तप्रसादेन विनावगन्तुं बन्धं न शक्नोति परात्मतत्त्वम् । तत्वावगत्या तु विना विमुक्ति- र्न सिध्यति ब्रह्मसहस्रकोटिषु ॥ ३७३ ॥ मनःप्रसादः पुरुषस्य बन्धो मनः प्रसादो भवबन्धमुक्तिः । मनः प्रसादाधिगमाय तस्मा- न्मनोनिरासं विदधीत विद्वान् ॥ ३७४ ॥ पञ्चानामेव भूतानां रजोंशेभ्योऽभवन् क्रमात् । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्यनु ॥ ३७५ ॥ समस्तेभ्यो रजोंशेभ्यो व्योमादीनां क्रियात्मकाः । प्राणादयः समुत्पन्नाः पञ्चाप्यान्तरवायवः ॥ ३७६ ॥ प्राणः प्राग्गमनेन स्यादपानोऽवाग्गमनेन च । व्यानस्तु विष्वग्गमनादुत्क्रान्त्योदान इष्यते ॥ ३७७ ॥ अशितान्नरसादीनां समीकरणधर्मतः । समान इत्यभिप्रेतो वायुर्यस्तेषु पञ्चमः ॥ ३७८ । सर्ववेदान्तसिद्धान्तसारसंग्रहः । १६५ क्रियैव दिश्यते प्राय: प्राणकर्मेन्द्रियेष्वलम् । ततस्तेषां रजोंशेभ्यो जनिरङ्गीकृता बुधैः ॥ ३७९ ॥ राजसीं तु क्रियाशक्ति तमः शक्तिं जडात्मिकाम् । प्रकाशरूपिणीं सत्त्वशक्तिं प्राहुर्महर्षयः ॥ ३८० ॥ एते प्राणादयः पञ्च पञ्चकर्मेन्द्रियैः सह । भवेत्प्राणमयः कोशः स्थूलो येनैव चेष्टते ॥ ३८१ ॥ निष्पाद्यते कर्म पुण्यं वा पापमेव वा । वागादिभिश्च वपुषा तत्प्राणमयकर्तृकम् ॥ ३८२ ॥ वायुनोचालितो वृक्षो नानारूपेण चेष्टते । तस्मिन्विनिश्चले सोऽपि निश्चलः स्याद्यथा तथा ॥ ३८३ ॥ प्राणकर्मेन्द्रियैर्देहः प्रेर्यमाणः प्रवर्तते । नानाक्रियासु सर्वत्र विहिताविहितादिषु ॥ ३८४ ॥ कोशत्रयं मिलित्वैतद्वपुः स्यात्सूक्ष्ममात्मनः । अतिसूक्ष्मतया लीनस्यात्मनो गमकत्वतः ॥ ३८५ ॥ लिङ्गमित्युच्यते स्थूलापेक्षया सूक्ष्ममिष्यते । सर्व लिङ्गवपुजतमेकधीविषयत्वतः ॥ ३८६ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । समष्टिः स्यात्तरुगण: सामान्येनं वनं यथा । एतत्समष्ट्युपहितं चैतन्यं सफलं जगुः ॥ ३८७ ॥ हिरण्यगर्भः सूत्रात्मा प्राण इत्यपि पण्डिता: । हिरण्मये बुद्धिगर्भे प्रचकास्ति हिरण्यवत् ॥ ३८८ ॥ हिरण्यगर्भ इत्यस्य व्यपदेशस्ततो मतः । समस्तलिङ्गदेहेषु सूत्रवन्मणिपङ्क्तिषु । व्याप्य स्थितत्वात्सूत्रात्मा प्राणनात्प्राण उच्यते ॥ ३८९ ॥ नैकधीविषयत्वेन लिङ्गं व्यष्टिर्भवत्यथ । यदेतद्व्यष्ट्युपहितं चिदाभाससमन्वितम् ॥ ३९० ॥ चैतन्यं तेजस इति निगदन्ति मनीषिणः । तेजोमयान्तःकरणोपाधित्वेनैष तैजसः ॥ ३९१ ॥ स्थूलात्सूक्ष्मतया व्यष्टिरस्य सूक्ष्मवपुर्मतम् । अस्य जागरसंस्कारमयत्वाद्वपुरुच्यते ॥ ३९२ ॥ स्वप्ने जागरकालीनवासनापरिकल्पितान् । तैजसो विषयान्मुके सूक्ष्मार्थान्सूक्ष्मवृत्तिभिः ॥ ३९३ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । समष्टेरपि च व्यष्टेः सामान्येनैव पूर्ववत् । अभेद एव ज्ञातव्यो जात्यैकत्वे कुतो भिदा ॥ ३९४ ॥ द्वयोपाध्योरेकत्वे तयोरप्यभिमानिनोः । सूत्रात्मनस्तैजसस्याप्यभेदः पूर्ववन्मतः ॥ ३९५ ॥ एवं सूक्ष्मप्रपञ्चस्य प्रकार : शास्त्रसंमतः । अथ स्थूलप्रपञ्चस्य प्रकारः कथ्यते शृणु तान्येव सूक्ष्मभूतानि व्योमादीनि परस्परम् । ३९६ ॥ पञ्चीकृतानि स्थूलानि भवन्ति श्रृणु तत्क्रमम् ॥ ३९७ ॥ खादीनां भूतमेकैकं सममेव द्विधा द्विधा । विभज्य भागं तत्रायं त्यक्त्वा भागं द्वितीयकम् ॥ ६९८ ॥ चतुर्धा सुविभज्याथ तमेकैकं विनिक्षिपेत् । चतुर्णा प्रथमे भागे क्रमेण स्वार्धमन्तरा ॥ ३९९ ॥ ततो व्योमादिभूतानां भागाः पञ्च भवन्ति ते । स्वस्वार्धभागेनान्येभ्यः प्राप्तं भागचतुष्टयम् ॥ ४०० ॥ संयोज्य स्थूलतां यान्ति व्योमादीनि यथाक्रमम् । अमुष्य पश्चीकरणस्याप्रामाण्यं न शकयताम् ॥ ४०१ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । उपलक्षणमस्यापि तत्रिवृत्करणश्रुतिः । पञ्चानामपि भूतानां श्रूयतेऽन्यत्र संभवः ॥ ४०२ ॥ ततः प्रामाणिकं पञ्चीकरणं मन्यतां बुधैः । प्रत्यक्षादिविरोधः स्यादन्यथा क्रियते यदि ॥ ४०३ ॥ आकाशवायोर्धर्मस्तु वह्नयादावुपलभ्यते । यथा तथाकाशवाय्वोर्नाग्न्यादेर्धर्म ईक्ष्यते ॥ ४०४ ॥ अतोऽप्रामाणिकमिति न किंचिदपि चिन्त्यताम् । खांशव्याप्तिश्च खव्याप्तिर्विद्यते पावकादिषु ॥ ४०५ ॥ तेनोपलभ्यते शब्दः कारणस्यातिरेकतः । तथा नभस्वतो धर्मोऽप्यग्न्यादावुपलभ्यते ॥ ४०६ ॥ न तथा विद्यते व्याप्तिर्वह्नयादेः खनभस्वतोः । सूक्ष्मत्वादंशकव्याप्तेस्तद्धर्मो नोपलभ्यते ॥ ४०७ ॥ कारणस्यानुरूपेण कार्य सर्वत्र दृश्यते । तस्मात्प्रामाण्यमेष्टव्यं बुधैः पञ्चीकृतेरपि ॥ ४०८ ॥ अनेनोद्भूतगुणकं भूतं वक्ष्येऽवधारय । शब्दैकगुणमाकाशं शब्दस्पर्शगुणोऽनिलः ॥ ४०९ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । तेजः शब्दस्पर्शरूपैर्गुणवत्कारणं क्रमात् । आपश्चतुर्गुणः शब्दस्पर्शरूपरसैः क्रमात् ॥ ४१० ॥ एतैश्चतुर्भिर्गन्धेन सह पञ्चगुणा मही । आकाशांशतया श्रोत्रं शब्दं गृह्णाति तद्गुणम् ॥ ४११ ॥ त्वमारुतांशकतया स्पर्श गृह्णाति तद्गुणम् । तेजोशकतया चक्षू रूपं गृह्णाति तद्गुणम् ॥ ४१२ ॥ अबंशकतया जिह्वा रसं गृह्णाति तद्गुणम् । भूम्यंशकतया घ्राणं गन्धं गृह्णाति तद्गुणम् ॥ ४१३ ॥ करोति खांशकतया वाक्शब्दोच्चारणक्रियाम् । वाय्वंशकतया पादौ गमनादिक्रियापरौ ॥ ४१४ ॥ तेजोशकतया पाणी वह्नयाद्यर्चनतत्परौ । जलांशकतयोपस्थो रेतोमूत्रविसर्गकृत् ॥ ४१५ ॥ भूम्यंशकतया पायुः कठिनं मलमुत्सृजेत् । श्रोत्रस्य दैवतं दिवस्यात्त्वचो वायुर्द्दशो रविः ॥ ४१६ ॥ जिह्वाया वरुणो दैवं प्राणस्य त्वश्विनावुभौ । वाचोऽग्निर्हस्तयोरिन्द्रः पादयोस्तु त्रिविक्रमः ॥ ४१७ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । पायोर्मृत्युरुपस्थस्य त्वधिदैवं प्रजापतिः । मनसो दैवतं चन्द्रो बुद्धेर्देवं बृहस्पतिः ॥ ४१८ ॥ रुद्रस्त्वहंकृतेदैवं क्षेत्रज्ञश्चित्तदैवतम् । दिगाद्या देवताः सर्वाः खादिसत्त्वांशसंभवाः ॥ ४१९ ॥ संमिता इन्द्रियस्थानेष्विन्द्रियाणां समन्ततः । निगृह्णन्त्यनुगृह्णन्ति प्राणिकर्मानुरूपतः ॥ ४२० ॥ शरीरकरणग्रामा प्राणामधिदेवताः । पञ्चैते हेतवः प्रोक्ता निष्पत्तौ सर्वकर्मणाम् ॥ ४२१ ॥ कर्मानुरूपेण गुणोदयो भवे- गुणानुरूपेण मनःप्रवृत्तिः । मनोनुवृत्तैरुभयात्मकेन्द्रियै- निवर्त्यते पुण्यमपुण्यमत्र ॥ ४२२ ॥ करोति विज्ञानमयोऽभिमानं कर्ताहमेवेति तदात्मना स्थितः । आत्मा तु साक्षी न करोति किंचि- न्न कारयत्येव तटस्थवत्सदा ॥। ४२३ । सर्ववेदान्तसिद्धान्तसारसंग्रहः । द्रष्टा श्रोता वक्ता कर्ता भोक्ता भवत्यहंकारः । स्वयमेतद्विकृतीनां साक्षी निर्लेप एवात्मा ॥ ४२४ ॥ आत्मनः साक्षिमात्रत्वं न कर्तृत्वं न भोक्तृता । रविवत्प्राणिभिर्लोके क्रियमाणेषु कर्मसु ॥ ४२५ ॥ नार्क: कुरुते कर्म न कारयति जन्तवः । स्वस्वभावानुरोधेन वर्तन्ते स्वस्वकर्मसु ॥ ४२६ ॥ तथैव प्रत्यगात्मापि रविवन्निष्क्रियात्मना । उदासीनतयैवास्ते देहादीनां प्रवृत्तिषु ॥ ४२७ ॥ अज्ञात्वैवं परं तत्त्वं मायामोहितचेतसः । स्वात्मन्यारोपयन्त्येतत्कर्तृत्वाद्यन्यगोचरम् ॥ ४२८ ॥ आत्मस्वरूपमविचार्य विमूढबुद्धि- रारोपयत्यखिलमेतद्नात्मकार्यम् । स्वात्मन्यसङ्गचितिनिष्क्रिय एव चन्द्रे दूरस्थमेघकृतधावनवद्भमेण ॥ ४२९ ॥ आत्मानात्मविवेकं स्फुटतरमग्रे निवेदयिष्यामः । इमाकर्णय विद्वन् जगदुत्पत्तिप्रकारमावृत्त्या ॥ ४३० ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । पञ्चीकृतेभ्यः खादिभ्यो भूतेभ्यस्त्वीक्षयेशितुः । समुत्पन्नमिदं स्थूलं ब्रह्माण्डं सचराचरम् ॥ ४३१ ॥ ब्रह्माद्योषधयः सर्वा वायुतेजोम्बुभूमयः । सर्वेषामप्यभूदन्नं चतुर्विधशरीरिणाम् ॥ ४३२ ॥ केचिन्मारुतभोजनाः खलु परे चन्द्रार्कतेजोशना : केचित्तोयकणाशिनोऽपरिमिताः केचित्तु मृद्भक्षकाः केचित्पर्णशिलातृणादनपराः केचित्तु मांसाशिनः 'केचिद्रीहियवान्न भोजनपरा जीवन्त्यमी जन्तवः ॥ जरायुजाण्डजस्वेदजोद्भिज्जाद्याश्चतुर्विधाः । स्वस्वकर्मानुरूपेण जातास्तिष्ठन्ति जन्तवः ॥ ४३४ ॥ यत्र जाता जरायुभ्यस्ते नराद्या जरायुजाः । अण्डजास्ते स्युरण्डेभ्यो जाता ये विहगादयः ॥ ४३५ ॥ स्वेदाज्जाताः स्वेदजास्ते यूका लक्षादयोऽपि च । भूमिमुद्भिद्य ये जाता उद्भिज्जास्ते द्रुमादय: ॥ ४३६ ॥ इदं स्थूलवपुर्जातं भौतिकं च चतुर्विधम् । सामान्येन समष्टिः खादेकधीविषयत्वतः ॥ ४३७ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । एतत्समष्ट्यवच्छिन्नं चैतन्यं फलसंयुतम् । प्राहुर्वैश्वानर इति विराडिति च वैदिकाः ॥ ४३८ ॥ वैश्वानरो विश्वरेष्वात्मत्वेनाभिमानतः । विराट् स्याद्विविधत्वेन स्वयमेव विराजनात् ॥ ४३९ ॥ चतुर्विधं भूतजातं तत्तज्जातिविशेषतः । नैकधीविषयत्वेन पूर्ववद्व्यष्टिरिष्यते ॥ ४४० ॥ साभासं व्यष्ट्युपहितं तत्तादात्म्यमुपागतम् । चैतन्यं विश्व इत्याहुर्वेदान्तनयकोविदाः ॥ ४४१ ॥ विश्वोऽस्मिन्स्थूलदेहेऽत्र स्वाभिमानेन तिष्ठति । यतस्ततो विश्व इति नाम्ना सार्थो भवत्ययम् ॥ ४४२ ॥ व्यष्टिरेषास्य विश्वस्य भवति स्थूलविग्रहः । उच्यतेऽन्नविकारित्वात्कोशोऽन्नमय इत्ययम् ॥ ४४३ ॥ देहोऽयं पितृभुक्तान्नविकाराच्छुक्कशोणितात् । जातः प्रवर्धतेऽनेन तदभावे विनश्यति ॥ ४४४ ॥ तस्मादन्नविकारित्वेनायमन्नमयो मतः । आच्छादकत्वादेतस्याप्यसेः कोशवदात्मनः ॥ ४४५ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । आत्मनः स्थूलभोगाना- तदायतनं विदुः । शब्दादिविषयान्भुङ्क्ते स्थूलान्स्थूलात्मनि स्थितः ॥ ४४६ ॥ बहिरात्मा ततः स्थूलभोगायतनमुच्यते । इन्द्रियैरुपनीतानां शब्दादीनामयं स्वयंम् । देहेन्द्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः ॥ ४४७ ॥ एकादशद्वारवतीह देहे सौधे महाराज इवाक्षवर्गैः । संसेव्यमानो विषयोपभोगा- नुपाधिसंस्थो बुभुजेऽयमात्मा ॥ ४४८ ॥ ज्ञानेन्द्रियाणि निजदैवतचोदितानि कर्मेन्द्रियाण्यपि तथा मनआदिकानि । स्वस्वप्रयोजनविधौ नियतानि सन्ति यत्नेन किंकरजना इव तं भजन्ते ॥ ४४९ ॥ योपभुङ्क्ते विषयान्स्थूलानेष महामतिः । अहं ममेति सैषास्यावस्था जाग्रदितीर्यते ॥ ४५० ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । १७५ एतत्समष्टिव्यष्टयोचोभयोरप्यभिमानिनोः । तद्विश्ववैश्वानरयोरभेदः पूर्ववन्मतः ॥ ४५१ । स्थूलसूक्ष्मकारणाख्याः प्रपञ्चा ये निरूपिताः । ते सर्वेऽपि मिलित्वैकः प्रपञ्चोऽपि महान्भवेत् ॥ ४५२ ॥ महाप्रपञ्चावच्छिन्नं विश्वप्राज्ञादिलक्षणम् । विराडादीशपर्यन्तं चैतन्यं चैकमेव तत् ॥ ४५३ ॥ यदनाद्यन्तमव्यक्तं चैतन्यमजमक्षरम् । महाप्रपञ्चेन सहाविविक्तं सदयोऽग्निवत् ॥ ४५४ ॥ तत्सर्वं खल्विदं ब्रह्मेत्यस्य वाक्यस्य पण्डितैः । वाच्यार्थ इति निर्णीतं विविक्तं लक्ष्य इत्यपि ॥ ४५५ ॥ स्थूलाद्यज्ञानपर्यन्तं कार्यकारणलक्षणम् । दृश्यं सर्वमनात्मेति विजानीहि विचक्षण ॥ ४५६ ॥ अन्तःकरणतद्वृत्तिद्रष्टृ नित्यमविक्रियम् । चैतन्यं यत्तदात्मेति बुद्धया बुध्यस्व सूक्ष्मया ॥ ४५७ ॥ एष प्रत्यक्स्वप्रकाशो निरंशो- सङ्गः शुद्धः सर्वदैकस्वभावः । १७६ सर्ववेदान्तसिद्धान्तसारसंग्रहः । नित्याखण्डानन्दरूपो निरीह : साक्षी चेता केवलो निर्गुणश्च ॥ ४५८ ॥ नैव प्रत्यग्जायते वर्धते नो किंचिन्नापक्षीयते नैव नाशम् । आत्मा नित्यः शाश्वतोऽयं पुराणो नासौ हन्यो हन्यमाने शरीरे ॥ ४५९ ॥ जन्मास्तित्वविवृद्धयः परिणतिश्वापक्षतिर्नाशनं दृश्यस्यैव भवन्ति षङ्गिकृतयो नानाविधा व्याधयः । स्थूलत्वादि च नीलताद्यपि मितिर्वर्णाश्रमादिप्रथा दृश्यन्ते वपुषो न चात्मन इमे तद्विक्रियासाक्षिणः ॥ अस्मिन्नात्मन्यनात्मत्वमनात्मन्यात्मतां पुनः । विपरीततयाध्यस्य संसरन्ति विमोहतः ॥ ४६१ ॥ भ्रान्त्या मनुष्योऽहमहं द्विजोऽहं तज्ज्ञोऽहमज्ञोऽहमतीव पापी । भ्रष्टोऽस्मि शिष्टोऽस्मि सुखी च दुःखी - त्येवं विमुह्यात्मनि कल्पयन्ति ॥ ४६२ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । १.७७ अनात्मनो जन्मजरामृतिक्षुधा- तृष्णासुखक्लेशमयादिधर्मान् । विपर्ययेण तथाविधेऽस्मि - नारोपयन्त्यात्मनि बुद्धिदोषात् ॥ ४६३ ॥ भ्रान्त्या यत्र यदध्यासस्तत्कृतेन गुणेन वा । दोषेणाप्यणुमात्रेण स न संबध्यते क्वचित् ॥ ४६४ ॥ किं मरुन्मृगतृष्णाम्बुपूरेणार्द्रत्वमृच्छति । दृष्टिसंस्थितपीतेन शङ्खः पीतायते किमु ॥ ४६५ ॥ बालकल्पितनैल्येन व्योम किं मलिनायते । शिष्य :- प्रत्यगात्मन्यविषयेऽनात्माध्यासः कथं प्रभो ॥। ४६६ ॥ पुरा दृष्टे हि विषयेऽध्यस्यन्ति विषयान्तरम् । तद्दृष्टं शुक्तिरज्ज्वादौ सादृश्याद्यनुबन्धतः ॥ ४६७ ॥ परत्र पूर्वदृष्टस्यावभासः स्मृतिलक्षणः । अध्यासः स कथं स्वामिन् भवेदात्मन्यगोचरे ॥ ४६८ ॥ नानुभूतः कदाप्यात्माननुभूतस्य वस्तुनः । सादृश्यं सिध्यति कथमनात्मनि विलक्षणे ॥ ४६९ ॥ S. P. II. 12 -१७८ सर्ववेदान्तसिद्धान्तसारसंग्रहः । अनात्मन्यात्मताध्यासः कथमेष समागतः । निवृत्तिः कथमेतस्य केनोपायेन सिध्यति ॥ ४७० ॥ उपाधियोग उभयोः सम एवेशजीवयोः । जीवस्यैव कथं बन्धो नेवरस्यास्ति तत्कथम् ॥ ४७१ ॥ एतत्सर्वं दाष्टा करामलकवत्स्फुटम । प्रतिपादय सर्वज्ञ श्रीगुरो करुणानिधे ॥। ४७२ ॥ श्रीगुरुः- न सावयव एकस्य नात्मा विषय इष्यते । अस्यास्मत्प्रत्ययार्थत्वादपरोक्षाच सर्वशः ॥ ४७३ ॥ प्रसिद्धिरात्मनोऽस्त्येव न कस्यापि च दृश्यते । प्रत्ययो नाहमस्मीति न ह्यस्ति प्रत्यगात्मनि ॥ ४७४ ॥ न कस्यापि स्वसद्भावे प्रमाणमभिकाङ्क्ष्यते । प्रमाणानां च प्रामाण्यं यन्मूलं किं तु बोधयेत् ॥ ४७५ ॥ मायाकार्यैस्तिरोभूतो नैष आत्मानुभूयते । मेघवृन्देर्यथा भानुस्तथाय महमादिभिः ॥ ४७६ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । १७९ पुरस्थ एव विषये वस्तुन्यध्यस्यतामिति । नियमो न कृतः सद्भिर्भ्रान्तिरेवात्र कारणम् ॥ ४७७ ॥ दुगाद्यविषये व्योनि नीलतादि यथाबुधाः । अध्यस्यन्ति तथैवास्मिन्नात्मन्यपि मतिभ्रमान् ॥ ४७८ ॥ अनात्मन्यात्मताध्यासे न सादृश्यमपेक्षते । पीतोऽयं शङ्ख इत्यादौ सादृश्यं किमपेक्षितम् ॥ ४७९ ॥ निरुपाधिभ्रमेष्वस्मिन्नैवापेक्षा प्रदृश्यते । सोपाधिष्वेव तद्दृष्टं रज्जुसर्पभ्रमादिषु ॥ ४८० ॥ तथापि किंचिद्रक्ष्यामि सादृश्यं शृणु तत्परः । अत्यन्तनिर्मल: : सूक्ष्म आत्मायमतिभास्वरः ॥ ४८१ ॥ बुद्धिस्तथैव सत्त्वात्मा साभासा भास्वरामला । सांनिध्यादात्मवद्भाति सूर्यवत्स्फटिको यथा ॥ ४८२ ॥ आत्माभासं ततो बुद्धिर्बुद्धयाभासं ततो मनः । अक्षाणि मनआभासान्यक्षाभासमिदं वपुः । अत एवात्मताबुद्धिर्देहाक्षादावनात्मनि ॥ ४८३ ॥ मूढानां प्रतिबिम्बादौ बालानामिव दृश्यते । सादृश्यं विद्यते बुद्धावात्मनोऽध्यासकारणम् ॥ ४८४ ॥ अनात्मन्यमित्येव योऽयमध्यास ईरितः । स्यादुत्तरोत्तराध्यासे पूर्वपूर्वस्तु कारणम् ॥ ४८५ ॥ सुप्तिमूर्छोत्थितेष्वेव दृष्टः संसारलक्षणः । अनादिरेषाविद्यातः संस्कारोऽपि च तादृशः ॥ ४८६ ॥ अध्यासबाधागमनस्य कारणं शृणु प्रवक्ष्यामि समाहितात्मा । यस्मादिदं प्राप्तमनर्थजातं जन्माप्ययव्याधिजरादिदुःखम् ॥ ४८७ ॥ आत्मोपाधेरविद्याया अस्ति शक्तिद्वयं महत् । विक्षेप आवृतिश्चेति याभ्यां संसार आत्मनः ॥ ४८८ ॥ आवृतिस्तमसः शक्तिस्तद्ध्यावरणकारणम् । मूलाविद्येति सा प्रोक्ता यया संमोहितं जगत् ॥ ४८९ ॥ विवेकवानप्यतियौक्तिकोऽपि श्रुतात्मतत्त्वोऽपि च पण्डितोऽपि । शक्त्या यया संवृतबोधदृष्टि- रात्मानमात्मस्थमिमं न वेद ॥ ४९० ॥ विक्षेपनाम्नी रजसस्तु शक्तिः प्रवृत्तिहेतुः पुरुषस्य नित्यम् । स्थूलादिलिङ्गान्तमशेषमेत- द्यया सदात्मन्यसदेव सूयते ॥ ४९१ ॥ निद्रा यथा पुरुषमप्रमत्तं समावृणोतीयमपि प्रतीचम् । तथावृणोत्यावृतिशक्तिरन्त- र्विक्षेपशक्तिं परिजृम्भयन्ती ॥ ४९२ ॥ शक्त्या महत्यावरणाभिधानया समावृते सत्यमलस्वरूपे । पुमाननात्मन्यहमेष एवे- त्यात्मत्वबुद्धिं विदधाति मोहात् ॥ ४९३ ॥ यथा प्रसुप्तिप्रतिभासदेहे स्वात्मत्वधीरेष तथा ह्यनात्मनः । जन्माप्ययक्षुद्भयतृट्छ्रमादी- नारोपयत्यात्मनि तस्य धर्मान ॥ ४९४ ॥ विक्षेपशक्त्या परिचोद्यमानः करोति कर्माण्युभयात्मकानि । भुञ्जान एतत्फलमप्युपात्तं परिभ्रमत्येव भवाम्बुराशौ ॥ ४९५ ॥ अध्यासदोषात्समुपागतोऽयं संसारबन्धः प्रबलप्रतीचः । यद्योगतः क्लिश्यति गर्भवास- जन्माप्ययक्लेशभयैरजस्रम् ॥ ४९६ ॥ अध्यासो नाम खल्वेष वस्तुनो योऽन्यथाग्रहः । स्वाभाविकभ्रान्तिमूलं संसृतेरादिकारणम् ॥ ४९७ ॥ सर्वानर्थस्य तद्बीजं योऽन्यथाग्रह आत्मनः । ततः संसारसंपातः संततक्लेशलक्षणः ॥ ४९८ ॥ अभ्यासादेव संसारो नष्टेऽध्यासे न दृश्यते । तदेतदुभयं स्पष्टं पश्य त्वं बद्धमुक्तयोः ॥ ४९९ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । बद्धं प्रवृत्तितो विद्धि मुक्तं विद्धि निवृत्तितः । प्रवृत्तिरेव संसारो निवृत्तिर्मुक्तिरिष्यते ॥ ५०० ॥ आत्मनः सोऽयमध्यासो मिथ्याज्ञानपुरःसरः । असत्कल्पोऽपि संसारं तनुते रज्जुसर्पवत् ॥ ६०१ ॥ उपाधियोगसाम्येऽपि जीववत्परमात्मनः । उपाधिभेदान्नो बन्धस्तत्कार्यमपि किंचन ॥ ५०२ ॥ अस्योपाधिः शुद्धसत्त्वप्रधाना माया यत्र त्वस्य नास्त्यल्पभावः । सत्त्वस्यैवोत्कृष्टता तेन बन्धो नो विक्षेपस्तत्कृतो लेशमात्रः ॥ ५०३ ॥ सर्वज्ञोऽप्रतिबद्धबोधविभवस्तेनैव देवः स्वयं मायां स्वामवलम्ब्य निश्चलतया स्वच्छन्दवृत्तिः प्रभुः । सृष्टिस्थित्यदनप्रवेशयमनव्यापारमात्रेच्छया कुर्वन्क्रीडति तद्रजस्तम उभे संस्तभ्य शक्त्या स्वया ॥ तस्मादावृतिविक्षेपौ किंचित्कर्तुं न शक्नुतः । स्वयमेव स्वतन्त्रोऽसौ तत्प्रवृत्तिनिरोधयोः ॥ ५०५ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । तमेव साधीकर्मेति श्रुतिर्वक्ति महेशितुः । निग्रहानुग्रहे शक्तिरावृतिक्षेपयोर्यतः ॥ ५०६ ॥ रजसस्तमसश्चैव प्राबल्यं सत्त्वहानतः । जीवोपाध तथा जीवे तत्कार्य बलवत्तरम् ॥ ५०७ ॥ तेन बन्धोऽस्य जीवस्य संसारोऽपि च तत्कृतः । . संप्राप्तः सर्वदा यत्र दुःखं भूयः स ईक्षते ॥ ५०८ ॥ एतस्य संसृतेर्हेतुरध्यासोऽर्थविपर्ययः । अध्यासमूलमज्ञानमाहुरावृतिलक्षणम् ॥ ५०९ ॥ अज्ञानस्य निवृत्तिस्तु ज्ञानेनैव न कर्मणा । अविरोधितया कर्म नैवाज्ञानस्य बाधकम् ॥ ५१० ॥ कर्मणा जायते जन्तुः कर्मणैव प्रलीयते । कर्मणः कार्यमेवैषा जन्ममृत्युपरम्परा ॥ ५११ ॥ नैतस्मात्कर्मणः कार्यमन्यदस्ति विलक्षणम् । अज्ञानकार्य तत्कर्म यतोऽज्ञानेन वर्धते ॥ ५१२ ॥ न वर्धते तेन नाशस्तस्य न सिध्यति । येन यस्य सहावस्था निरोधाय न कल्पते ॥ ५१३ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । नाशकत्वं तदुभयोः को नु कल्पयितुं क्षमः । सर्व कर्माविरोध्येव सदाज्ञानस्य सर्वदा ॥ ५१४ ॥ ततोऽज्ञानस्य विच्छित्तिः कर्मणा नैव सिध्यति । यस्य प्रध्वस्तजनको यत्संयोगोऽस्ति तत्क्षणे ॥। ५१५ ॥ तयोरेव विरोधित्वं युक्तं भिन्नस्वभावयोः । तमःप्रकाशयोर्यद्वत्परस्परविरोधिता ॥ ५१६ ॥ अज्ञानज्ञानयोस्तद्वदुभयोरेव दृश्यते । न ज्ञानेन विना नाशस्तस्य केनापि सिध्यति ॥ ५१७ ॥ तस्मादज्ञानविच्छित्त्यै ज्ञानं संपादयेत्सुधीः । आत्मानात्मविवेकेन ज्ञानं सिध्यति नान्यथा ॥ ५१८ ॥ युक्त्यात्मानात्मनोस्तस्मात्करणीयं विवेचनम् । अनात्मन्यात्मताबुद्धिग्रन्थिर्येन विदीर्यते ॥ ५१९ ॥ आत्मानात्मविवेकार्थं विवादोऽयं निरूप्यते । येनात्मानात्मनोस्तत्त्वं विविक्तं प्रस्फुटायते ॥ ५२० ॥ मूढा अश्रुतवेदान्ताः स्वयं पण्डितमानिनः । ईशप्रसादरहिताः सद्गुरोश्च बहिर्मुखाः ॥ ५२१ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । विवदन्ति प्रकारं तं शृणु वक्ष्यामि सादरम् । अत्यन्तपामरः कश्चित्पुत्र आत्मेति मन्यते ॥ ५२२ ॥ आत्मनीव स्वपुत्रेऽपि प्रबलप्रीतिदर्शनात् । पुत्रे तु पुष्टे पुष्टोऽहं नष्टे नष्टोऽहमित्यतः ॥ ५२३ ॥ अनुभूतिबलाच्चापि युक्तितोऽपि श्रुतेरपि । आत्मा वै पुत्रनामासीत्येवं च वदति श्रुतिः ॥ ५२४ ॥ दीपाद्दीपो यथा तद्वत्पितुः पुत्रः प्रजायते । पितुर्गुणानां तनये बीजाङ्कुरवदीक्षणात् ॥ ५२५ ॥ अतोऽयं पुत्र आत्मेति मन्यते भ्रान्तिमत्तमः । तन्मतं दूषयत्यन्यः पुत्र आत्मा कथं त्विति ॥ ५२६ ॥ प्रीतिमात्रात्कथं पुत्र आत्मा भवितुमर्हति । अन्यत्रापीक्ष्यते प्रीतिः क्षेत्रपात्रधनादिषु ॥ ५२७ ॥ पुत्राद्विशिष्टा देहेऽस्मिन्प्राणिनां प्रीतिरिष्यते । प्रदीप्ते भवने पुत्रं त्यक्त्वा जन्तुः पलायते ॥ ५२८ ॥ तं विक्रीणाति देहार्थं प्रतिकूलं निहन्ति च । म्मादात्मा तु तनयो न भवेच्च कदाचन ॥ ५२९ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । गुणरूपादिसादृश्यं दीपवन्न सुते पितुः । अव्यङ्गाज्जायते व्यङ्गः सुगुणादपि दुर्गुणः ॥ ५३० ॥ आभासमावास्ताः सर्वा युक्तयोऽप्युक्तयोऽपि च । पुत्रस्य पितृव सर्वकार्येषु वस्तुषु ॥ ५३१ ॥ स्वामित्वद्योतनायास्मिन्नात्मत्वमुपचर्यते । श्रुत्या तु मुख्यया वृत्त्या पुत्र आत्मेति नोच्यते ॥ ५३२ ॥ औपचारिकमात्मत्वं पुत्रे तस्मान्न मुख्यतः । अहंपदप्रत्ययार्थो देह एव न चेतरः ॥ ५३३ ॥ प्रत्यक्षः सर्वजन्तूनां देहोऽहमिति निश्चयः । एष पुरुषोऽन्नरसमय इत्यपि च श्रुतिः ॥ ५३४ ॥ पुरुषत्वं वदत्यस्य स्वात्मा हि पुरुषस्ततः । आत्मायं देह एवेति चार्वाकेण विनिश्चितम् ॥ ५३५ ॥ तन्मतं दूषयत्यन्योऽसहमान: पृथग्जनः । देह आत्मा कथं नु स्यात्परतन्त्रो ह्यचेतनः ॥ ५३६ ॥ इन्द्रियैश्चाल्यमानोऽयं चेष्टते न स्वतः क्वचित् । आश्रयश्चक्षुरादीनां गृहवद्गृहमेधिनाम् ॥ ५३७ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । बाल्यादिनानावस्थावाञ्शुक्कशोणितसंभवः । अतः कदापि देहस्य नात्मत्वमुपपद्यते ॥ ५३८ ॥ बधिरोऽहं च काणोऽहं मूक इत्यनुभूतितः । इन्द्रियाणि भवन्त्यात्मा येषामस्त्यर्थवेदनम् ॥ ५३९ ॥ इन्द्रियाणां चेतनत्वं देहे प्राणाः प्रजापतिम् । एतमेत्येत्यूचुरिति श्रुत्यैव प्रतिपाद्यते ॥ ५४० ॥ यतस्तस्मादिन्द्रियाणां युक्तमात्मत्वमित्यमुम् । निश्चयं दूषयत्यन्योऽसहमान: पृथग्जनः ॥ ५४१ ॥ इन्द्रियाणि कथं त्वात्मा करणानि कुठारवत् । करणस्य कुठारादेश्चेतनत्वं न हीयते ॥ ५४२ ॥ श्रुत्याधिदेवतामेवेन्द्रियेषूपचर्यते । न तु साक्षादिन्द्रियाणां चेतनत्वमुदीर्यते ॥ ५४३ ॥ अचेतनस्य दीपादेरथीभासकता यथा । तथैव चक्षुरादीनां जडानामपि सिध्यति ॥ ५४४ ॥ इन्द्रियाणां चेष्टविता प्राणोऽयं पञ्चवृत्तिकः । सर्वावस्थास्ववस्थावान्सोऽयमात्मत्वमर्हति । अहं क्षुधावांस्तृष्णावानित्याद्यनुभवादपि ॥ ५४५ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । श्रुत्यान्योऽन्तर आत्मा प्राणमय इतीर्यते यस्मात् । तस्मात्प्राणस्यात्मत्वं युक्तं नो करणसंज्ञानां कापि ॥ ५४६ ॥ इति निश्चयमेतस्य दूषयत्यपरो जडः । भवत्यात्मा कथं प्राणो वायुरेवैष आन्तरः ॥ ५४७ ॥ बहिर्यात्यन्तरायाति भस्त्रिकावायुवन्मुहुः । न हितं वाहितं वा स्वमन्यद्वा वेद किंचन ॥ ५४८ ॥ जडस्वभावश्चपलः कर्मयुक्तञ्च सर्वदा । प्राणस्य भानं मनसि स्थिते सुप्ते न दृश्यते ॥ ५४९ ॥ मनस्तु सर्व जानाति सर्ववेदनकारणम् । यत्तस्मान्मन एवात्मा प्राणस्तु न कदाचन ॥ ५५० ॥ संकल्पवानहं चिन्तावानहं च विकल्पवान् । इत्याद्यनुभवादन्योऽन्तर आत्मा मनोमयः ॥ ५५१ ॥ इत्यादिश्रुतिसद्भावाद्युक्ता मनस आत्मता । इति निश्चयमेतस्य दूषयत्यपरो जडः ॥ ५५२ ॥ कथं मनस आत्मत्वं करणस्य दृगादिवत् । कर्तृप्रयोज्यं करणं न स्वयं तु प्रवर्तते ॥ ५५३ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । करणप्रयोक्ता यः कर्ता तस्यैवात्मत्वमर्हति । आत्मा स्वतन्त्रः पुरुषो न प्रयोज्यः कदाचन ॥ ५५४ ॥ अहं कर्तास्म्यहं भोक्ता सुखीत्यनुभवादपि । बुद्धिरात्मा भवत्येव बुद्धिधर्मो ह्यहंकृतिः ॥ ५५५ ॥ अन्योऽन्तर आत्मा विज्ञानमय इति वदति निगमः । मनसोऽपि च भिन्नं विज्ञानमयं कर्तृरूपमात्मानम ॥ विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च । इत्यस्य कर्तृता श्रुत्या मुखतः प्रतिपाद्यते । तस्माद्युक्तात्मता बुद्धेरिति बौद्धेन निश्चितम् ॥ ५५७ ॥ प्राभाकरस्तार्किकश्च तावुभावप्यमर्षया । तनिश्चयं दूषयतो बुद्धिरात्मा कथं न्विति ॥ ५५८ ॥ बुद्धेरज्ञानकार्यत्वाद्विनाशित्वात्प्रतिक्षणम् । बुद्धयादीनां च सर्वेषामज्ञाने लयदर्शनात् ॥ ५५९ ॥ अज्ञोऽहमित्यनुभवादास्त्रीबालादिगोचरात् । भवत्यज्ञानमेवात्मा न तु बुद्धिः कदाचन ॥ ५६० ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । विज्ञानमयादन्यं त्वानन्दमयं परं तथात्मानम् । अन्योऽन्तर आत्मानन्दमय इति वदति वेदोऽपि ॥ ५६१॥ दुःखप्रत्ययशून्यत्वादानन्दमयता मता । अज्ञाने सकलं सुप्तौ बुद्धयादि प्रविलीयते ॥ ५६२ ॥ दुःखिनोऽपि सुषुप्तौ त्वानन्दमयता ततः । सुप्त किंचिन्न जानामीत्यनुभूतिश्च दृश्यते ॥ ५६३ ॥ यत एवमतो युक्ता ज्ञानस्यात्मता ध्रुवम् । इति तन्निश्वयं भाट्टा दूषयन्ति स्वयुक्तिभिः ॥ ५६४ ॥ कथमज्ञानमेवात्मा ज्ञानं चाप्युपलभ्यते । ज्ञानाभावे कथं विद्युरज्ञोऽहमिति चाज्ञताम् । अस्वाप्तं सुखमेवाहं न जानाम्यत्र किंचन ॥ ५६५ ॥ इत्यज्ञानमपि ज्ञानं प्रबुद्धेषु प्रदृश्यते । प्रज्ञानघन एवानन्दमय इत्यपि श्रुतिः ॥ ५६६ ॥ प्रब्रवीत्युभयात्मत्वमात्मनः स्वयमेव सा । आत्मातश्चिज्जडतनुः खद्योत इव संमतः ॥ ५६७ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । न केवलज्ञानमयो घटकुड्यादिवज्जडः । इति निश्चयमेतेषां दूषयत्यपरो जडः ॥ ५६८ ॥ ज्ञानाज्ञानमयस्त्वात्मा कथं भवितुमर्हति । परस्परविरुद्धत्वात्तेजस्तिमिरवत्तयोः ॥ ५६९॥ सामानाधिकरण्यं वा संयोगो वा समाश्रयः । तमःप्रकाशवज्ज्ञानाज्ञानयोर्न हि सिध्यति ॥ ५७० ॥ अज्ञानमपि विज्ञानं बुद्धिर्वापि च तद्गणाः । सुषुप्तौ नोपलभ्यन्ते यत्किंचिदपि वापरम् ॥ ५७१ ॥ मात्रादिलक्षणं किं नु शून्यमेवोपलभ्यते । सुषुप्तौ नान्यदस्त्येव नाहमप्यासमित्यनु ॥ ५७२ ॥ सुप्तोत्थितजनैः सर्वैः शून्यमेवानुस्मर्यते । यत्ततः शून्यमेवात्मा न ज्ञानाज्ञानलक्षणः ॥ ५७३ ॥ वेदेनाप्यसदेवेदमग्र आसीदिति स्फुटम् । निरुच्यते यतस्तस्माच्छ्रन्यस्यैवात्मता मता ॥ ५७४ ॥ असन्नेव घटः पूर्व जायमानः प्रदृश्यते । न हि कुम्भः पुरैवान्तः स्थित्वोदेति बहिर्मुखः ॥ ५७५ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । यत्तस्मादसतः सर्वे सदिदं समजायत । ततः सर्वात्मना शून्यस्यैवात्मत्वं समर्हति ॥ ५७६ ॥ इत्येवं पण्डितंमन्यैः परस्परविरोधिभिः । तत्तन्मतानुरूपाल्पश्रुतियुक्त्यनुभूतिभिः ॥ ५७७ ॥ निर्णीतमतजातानि खण्डितान्येव पण्डितैः । श्रुतिभिश्चाप्यनुभवैर्बाधकैः प्रतिवादिनाम् ॥ ५७८ ॥ यतस्तस्मात्तु पुत्रादेः शून्यान्तस्य विशेषतः । सुसाधितमनात्मत्वं श्रुतियुक्त्यनुभूतिभिः ॥ ५७९ ॥ न हि प्रमाणान्तरबाधतस्य याथार्थ्यमङ्गीक्रियते महद्भिः । पुत्रादिशून्यान्तमनात्मतत्त्व- शिष्य :- मित्येव विस्पष्टमतः सुजातम् ॥ ५८० ॥ सुषुप्तिकाले सकले विलीने शून्यं विना नान्यदिहोपलभ्यते । शून्यं त्वनात्मा न ततः परः को- ऽप्यात्माभिधानस्त्वनुभूयतेऽर्थः ॥ ५८१ ॥ s. P. II. 13 सर्ववेदान्तसिद्धान्तसारसंग्रहः । यद्यस्ति चात्मा किमु नोपलभ्यते सुप्तौ यथा तिष्ठति किं प्रमाणम् । किंलक्षणोऽसौ स कथं न बाध्य प्रबाध्यमानेष्वमादिषु स्वयम् ॥ ५८२ ॥ एतत्संशयजातं मे हृदयग्रन्थिलक्षणम् । छिन्धि युक्तिमहाखङ्गधारया कृपया गुरो ॥ ५८३ ॥ श्रीगुरु:- अतिसूक्ष्मतर: प्रश्नस्तवायं सदृशो मतः । सूक्ष्मार्थदर्शनं सूक्ष्मबुद्धिष्वेव प्रदृश्यते ॥ ५८४ । शृणु वक्ष्यामि सकलं यद्यत्पृष्टं त्वयाधुना । रहस्यं परमं सूक्ष्मं ज्ञातव्यं च मुमुक्षुभिः ॥ ५८५ ॥ बुद्धयादि सकलं सुप्तावनुलीनं स्वकारणे । अव्यक्ते वटवीजे तिष्ठत्यविकृतात्मना ॥ ५८६ ॥ तिष्ठत्येव स्वरूपेण न तु शून्यायते जगत् । कचिदङ्कुररूपेण कचिद्वीजात्मना वटः । कार्यकारणरूपेण यथा तिष्ठत्यदस्तथा ॥ ५८७ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । अव्याकृतात्मनावस्थां जगतो वदति श्रुतिः । सुषुत्यादिषु तद्भेदं तर्ह्यव्याकृतमित्यसौ । ५८८ ॥ इममर्थमविज्ञाय निर्णीतं श्रुतियुक्तिभिः । जगतो दर्शनं शून्यमिति प्राहुरतद्विदः ॥ ५८९ ॥ नासतः सत उत्पत्तिः श्रूयते न च दृश्यते । उदेति नरशृङ्गात्किं खपुष्पात्किं भविष्यति ॥ ५९० ॥ प्रभवति न हि कुम्भोऽविद्यमानो मृद- प्रभवतु सिकताया वायदा वारिणो वा । न हि भवति च ताभ्यां सर्वथा कापि तस्मा- द्यत उदयति योऽर्थोऽस्त्यत्र तस्य स्वभाव: ॥ ५९१ ॥ अन्यथा विपरीतं स्यात्कार्यकारणलक्षणम् । नियतं सर्वशास्त्रेषु सर्वलोकेषु सर्वतः ॥ ५९२ ॥ कथमसतः सज्जायेतेति श्रत्या निषिध्यते तस्मात् । असतः सज्जननं नो घटते मिथ्यैव शून्यशब्दार्थः ॥ अव्यक्त शब्दिते प्राज्ञे सत्यात्मन्यत्र जाग्रति । कथं सिध्यति शून्यत्वं तस्य भ्रान्तशिरोमणे ॥ ५९४ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । सुषुप्तौ शून्यमेवेति केन पुंसा तवेरितम् । हेतुनानुमितं केन कथं ज्ञातं त्वयोच्यताम् ॥ ५९५ ॥ इति पृष्टो मूढतमो वदिष्यति किमुत्तरम् । नैवानुरूपकं लिङ्गं वक्ता वा नास्ति कश्चन । सुषुप्तिस्थितशून्यस्य बोद्धा कोऽन्वात्मनः परः ॥ ५९६ ॥ स्वेनानुभूतं स्वयमेव वक्ति स्वप्तिकाले स्थितशून्यभावम । तत्र स्वसत्तामनवेक्ष्य मूढः स्वस्थापि शून्यत्वमयं ब्रवीति ॥ ५९७ ॥ अवेद्यमानः स्वयमन्यलोकैः सौषुप्तिकं धर्ममवैति साक्षान् । बुद्धाद्यभावस्य च योऽत्र बोद्धा स एष आत्मा खलु निर्विकारः ॥ ५९८ ॥ यस्येदं सकलं विभाति महसा तस्य स्वयंज्योतिषः सूर्यस्येव किमस्ति भासकमिह प्रज्ञादि सर्व जडम् । नर्कस्य विभासकं क्षितितले दृष्टं तथैवात्मनो नान्यः कोऽप्यनुभासकोऽनुभविता नातः परः कश्चन ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । येनानुभूयते सर्व जाग्रत्स्वप्नसुषुप्तिषु । विज्ञातारमिमं को नु कथं वेदितुमर्हति ॥ ६०० ॥ सर्वस्य दाहको वह्निर्वर्नान्योऽस्ति दाहकः । यथा तथात्मनो ज्ञातुर्ज्ञाता कोऽपि न दृश्यते ॥ ६०१ ॥ उपलभ्येत केनायं ह्युपलब्धा स्वयं ततः । उपलब्ध्यन्तराभावान्नायमात्मोपलभ्यते ॥ ६०२ ॥ बुद्धयादिवेद्यविलयादयमेक एव सुप्तौ न पश्यति शृणोति न वेत्ति किंचित् । सौषुप्तिकस्य तमसः स्वयमेव साक्षी भूत्वात्र तिष्ठति सुखेन च निर्विकल्पः ॥ ६०३ ॥ सुषुप्तावात्मसद्भावे प्रमाणं पण्डितोत्तमाः । विदुः स्वप्रत्यभिज्ञानमाबालवृद्धसंगतम् ॥ ६०४ ॥ प्रत्यभिज्ञायमानत्वाल्लिङ्गमात्रानुमापकम् । स्मर्यमाणस्य सद्भावः सुखमस्वाप्समित्ययम् ॥ ६०५ ॥ पुरानुभूतो नो चेत्तु स्मृतेरनुदयो भवेत् । इत्यादितर्कयुक्तिश्च सद्भावे मानमात्मनः ॥ ६०६ । सर्ववेदान्तसिद्धान्तसारसंग्रहः । यत्रात्मनोऽकामयितृत्वबुद्धि: स्वप्नानपेक्षापि च तत्सुषुप्तम् । इत्यात्मसद्भाव उदीर्यतेऽत्र श्रुत्यापि तस्माच्छ्रुतिरत्र मानम् ॥ ६०७ ॥ अकामयितृता स्वनादर्शनं घटते कथम् । अविद्यमानस्य तत आत्मास्तित्वं प्रतीयते ॥ ६०८ ॥ एतैः प्रमाणैरस्तीति ज्ञातः साक्षितया बुधैः । आत्मायं केवलः शुद्धः सच्चिदानन्दलक्षणः ॥ ६०९ ॥ सत्त्वचित्त्वानन्दतादिलक्षणं प्रत्यगात्मनः । कालत्रयेऽप्यबाध्यत्वं सत्यं नित्यस्वरूपतः ॥ ६१० ॥ शुद्धचैतन्यरूपत्वं चित्त्वं ज्ञानस्वरूपतः । अखण्डसुखरूपत्वादानन्दत्वमितीयते ॥ ६११ ॥ अनुस्यूतात्मनः सत्ता जाग्रत्स्वप्नसुषुप्तिषु । अहमस्मीत्यतो नित्यो भवत्यात्मायमव्ययः ॥ ६१२ ॥ सर्वदाप्यासमित्येवाभिन्नप्रत्यय ईक्ष्यते । कदापि नासमित्यस्मादात्मनो नित्यता मता ॥ ६१३ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । आयातासु गतासु शैशवमुखावस्थासु जाग्रन्मुखा- स्वन्यास्वप्यखिलासु वृत्तिषु धियो दुष्टास्वदुष्टास्वपि । गङ्गाभङ्गपरम्परासु जलवत्सत्तानुवृत्तात्मन- स्तिष्ठत्येव सदा स्थिराहमहमित्येकात्मता साक्षिणः ॥ प्रतिपदमहमादयो विभिन्नाः क्षणपरिणामितया विकारिणस्ते । न परिणतिरमुष्य निष्कलत्वा- दयविकार्यत एव नित्य आत्मा ॥ ६१५ ॥ यः स्वप्नमद्राक्षमहं सुखं यो- स्वासं स एवास्म्यथ जागरूकः । इत्येवमच्छिन्नतयानुभूयते सत्तात्मनो नास्ति हि संशयोऽत्र ॥ ६१६ ॥ श्रुत्युक्ताः षोडशकलाश्चिदाभासस्य नात्मनः । निष्कलत्वान्नास्य लयस्तस्मान्नित्यत्वमात्मनः ॥ ६१७ ॥ जडप्रकाशकः सूर्यः प्रकाशात्मैव नो जडः । बुद्धयादिभासकस्तस्माच्चित्स्वरूपस्तथा मतः ॥ ६१८ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । कुड्यादेस्तु जडस्य नैव घटते भानं स्वतः सर्वदा सूर्यादिप्रभया विना क्वचिदपि प्रत्यक्षमेतत्तथा । बुद्धयादेरपि न स्वतोऽस्त्यणुरपि स्फूर्तिर्विनैवात्मना सोऽयं केवलचिन्मयश्रुतिमतो भानुर्यथा रुङ्मयः ॥ ६१९ ॥ . स्वभासने वान्यपदार्थभासने नार्कः प्रकाशान्तरमीषदिच्छति । स्वबोधने वाप्यहमादिबोधने तथैव चिद्धातुरयं परात्मा ॥ ६२० ॥ अन्य प्रकाशं न किमप्यपेक्ष्य यतोऽयमाभाति निजात्मनैव । ततः स्वयंज्योतिरयं चिदात्मा न ह्यात्मभाने परदीप्त्यपेक्षा ॥ ६२१ ॥ यं न प्रकाशयति किंचिदिनोऽपि चन्द्रः नो विद्युतः किमुत वह्निरयं मिताभ' । यं भान्तमेतमनुभाति जगत्समस्तं सोऽयं स्वयं स्फुरति सर्वदशासु चात्मा ॥ ६२२ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । आत्मनः सुखरूपत्वादानन्दत्वं स्वलक्षणम् । परप्रेमास्पदत्वेन सुखरूपत्वमात्मनः ॥ ६२३ । सुखहेतुषु सर्वेषां प्रीतिः सावधिरीक्ष्यते । कदापि नावधिः प्रीतेः स्वात्मनि प्राणिनां क्वचित् ॥ क्षीणेन्द्रियस्य जीर्णस्य संप्राप्तात्क्रमणस्य वा । २०१ अस्ति जीवितुमेवाशा स्वात्मा प्रियतमो यतः ॥ ६२५ ॥ आत्मातः परमप्रेमास्पदः सर्वशरीरिणाम् । यस्य शेषतया सर्वमुपादेयत्वमृच्छति ॥ ६२६ ॥ एष एव प्रियतमः पुत्रादपि धनादपि । अन्यस्मादपि सर्वस्मादात्मायं परमान्तरः ॥ ६२७ ॥ प्रयत्वेन मतं यत्तु तत्सदा नाप्रियं नृणाम् । विपत्तावपि संपत्तौ यथात्मा न तथापरः ॥ ६२८ ॥ आत्मा खलु प्रियतमोऽसुभृतां यदर्था भार्यात्मजाप्तगृहवित्तमुखाः पदार्थाः । वाणिज्यकर्षणगवावनराजसेवा- भैषज्यकप्रभृतयो विविधाः क्रियाश्च ॥ ६२९ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । प्रवृत्तिश्च निवृत्तिश्च यच्च यावच्च चेष्टितम् । आत्मार्थमेव नान्यार्थ नातः प्रियतमः परः ॥ ६३० ॥ शिष्य :- तस्मादात्मा केवलानन्दरूपो यः सर्वस्माद्वस्तुनः प्रेष्ठ उक्तः । यो वा अस्मान्मन्यतेऽन्यं प्रियं यं सोऽयं तस्माच्छोकमेवानुभुङ्क्ते ॥ ६३१ ॥ अपरः क्रियते प्रश्नो मयायं क्षम्यतां प्रभो । अज्ञवागपराधाय कल्पते न महात्मनाम् ॥ ६३२ ॥ आत्मान्यः सुखमन्यच्च नात्मनः सुखरूपता । आत्मनः सुखमाशास्यं यतते सकलो जनः ॥ ६३३ ॥ आत्मनः सुखरूपत्वे प्रयत्नः किमु देहिनाम् । एष मे संशयः स्वामिन् कृपयैव निरखताम् ॥ ६३४ ॥ श्रीगुरुः- आनन्दरूपमात्मानमज्ञात्वैव पृथग्जनः । बहिः सुखाय यतते न तु कश्चिद्विदन्बुधः ॥ ६३५ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । अज्ञात्वैव हि निक्षेप भिक्षामटति दुर्मतिः । स्ववेश्मनि निधिं ज्ञात्वा को नु भिक्षामत्सुधीः ॥ ६३६ ॥ स्थूलं च सूक्ष्मं च वपुः स्वभावतो दुःखात्मकं स्वात्मतया गृहीत्वा । विस्मृत्य च स्वं सुखरूपमात्मनः दुःखप्रदेभ्यः सुखमज्ञ इच्छति ॥ ६३७ ॥ न हि दुःखप्रदं वस्तु सुखं दातुं सर्महति । किं विषं पिबतो जन्तोरमृतत्वं प्रयच्छति ॥ ६३८ ॥ आत्मान्यः सुखमन्यच्चेत्येवं निश्चित्य पामरः । बहिः सुखाय यतते सत्यमेव न संशयः ॥ ६३९ ॥ इष्टस्य वस्तुनो ध्यानदर्शनाद्युपभुक्तिषु । २०३ प्रतीयते य आनन्दः सर्वेषामिह देहिनाम् ॥ ६४० ॥ स वस्तुधर्मो नो यस्मान्मनस्येवोपलभ्यते । वस्तुधर्मस्य मनसि कथं स्यादुपलम्भनम् ॥ ६४१ ॥ " सर्ववेदान्तसिद्धान्तसारसंग्रहः । अन्यत्र त्वन्यधर्माणामुपलम्भो न दृश्यते । तस्मान्न वस्तुधर्मोऽयमानन्दस्तु कदाचन ॥ ६४२ ॥ नाप्येष धर्मो मनसोऽसत्यर्थे तददर्शनात् । अति व्यञ्जके व्यङ्गयं नोदेतीति न मन्यताम् ॥६४३॥ सत्यर्थेऽपि च नोदेति ह्यानन्दस्तूक्तलक्षणः । सत्यपि व्यके व्यङ्गयानुदयो नैव संमतः ॥ ६४४ ॥ दुरदृष्टादिकं नात्र प्रतिबन्धः प्रकल्प्यताम् । प्रियस्य वस्तुनो लाभे दुरदृष्टं न सिध्यति ॥ ६४५ ॥ तस्मान्न मानसो धर्मो निर्गुणत्वान्न चात्मनः । किं तु पुण्यस्य सांनिध्यादिष्टस्यापि च वस्तुनः ॥ ६४६ ॥ सत्त्वप्रधाने चित्तेऽस्मिंस्त्वात्मैव प्रतिबिम्बति । आनन्दलक्षणः स्वच्छे पयसीव सुधाकरः ॥ ६४७ ॥ सोऽयमाभास आनन्दचित्ते यः प्रतिबिम्बित: । पुण्योत्कर्षापकर्षाभ्यां भवत्युच्चावचः स्वयम् ॥ ६४८ ॥ सार्वभौमादिब्रह्मान्तं श्रुत्या यः प्रतिपादितः । स क्षयिष्णुः सातिशयः प्रक्षीणे कारणे लयम् ॥ ६४९ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । यात्येष विषयानन्दो यस्तु पुण्यैकसाधनः । ये तु वैषयिकानन्दं भुञ्जते पुण्यकारिणः ॥ ६५० ॥ दुःखं च भोगकालेऽपि तेषामन्ते महत्तरम् । सुखं विषयसंपृक्तं विषसंपृक्तभक्तवत् ॥ ६५१ ॥ भोगकालेऽपि भोगान्तं दुःखमेव प्रयच्छति । सुखमुच्चावचत्वेन क्षयिष्णुत्वभयेन च ॥ ६५२ ॥ भोगकाले भवेन्नृणां ब्रह्मादिपदभाजिनाम् । राजस्थानप्रविष्टानां तारतम्यं मतं यथा ॥ ६५३ ॥ तथैव दुःखं जन्तूनां ब्रह्मादिपदभाजिनाम् । न काङ्क्षणीयं विदुषा तस्माद्वैषयिकं सुखम् ॥ ६५४ ॥ यो बिम्बभूत आनन्दः स आत्मानन्दलक्षणः । शाश्वतो निर्द्वयः पूर्णो नित्य एकोऽपि निर्भयः ॥ ६५५ ॥ लक्ष्यते प्रतिबिम्बेनाभासानन्देन बिम्बवत् । प्रतिबिम्ब बिम्बमूलो विना बिम्बं न सिध्यति ॥ ६५६ ॥ तो म् आनन्द: प्रतिबिम्बेन लक्ष्यते । युक्त्यैव पण्डितजनैर्न कदाप्यनुभूयते ॥ ६५७ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । अविद्याकार्यकरणसंघातेषु पुरोदितः । आत्मा जाग्रत्यपि स्वप्ने न भवत्येष गोचरः ॥ ६५८ ॥ स्थूलस्यापि च सूक्ष्मस्य दुःखरूपस्य वर्ष्मणः । लये सुषुप्तौ स्फुरति प्रत्यगानन्दलक्षणः ॥ ६५९ । न ह्यत्र विषयः कश्चिन्नापि बुद्धयादि किंचन । आत्मैव केवलानन्दमात्रस्तिष्ठति निर्द्वयः ॥ ६६० ॥ प्रत्यभिज्ञायते सर्वैरेष सुप्तोत्थितैर्जनैः । सुखमात्रतया नात्र संशयं कर्तुमर्हसि ॥ ६६१ ॥ त्वयापि प्रत्यभिज्ञातं सुखमात्रत्वमात्मनः । सुषुप्तादुत्थितवता सुखमस्वाप्सामित्यनु ॥ ६६२ ॥ दुःखाभावः सुखमिति यदुक्तं पूर्ववादिना । अनाघ्रातोपनिषदा तदसारं मृषा वचः ॥ ६६३ ॥ दुःखाभावस्तु लोष्टादौ विद्यते नानुभूयते । सुखलेशोऽपि सर्वेषां प्रत्यक्षं तदिदं खलु ॥ ६६४ ॥ सदयं ह्येष एवेति प्रस्तुत्य वदति श्रुतिः । सद्धनोऽयं चिद्धनोऽयमानन्दघन इत्यपि ॥ ६६५ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । २०७ आनन्दघनतामस्य स्वरूपं प्रत्यगात्मनः । धन्यैर्महात्मभिर्धीरैर्ब्रह्मविद्भिः सदुत्तमैः ॥ ६६६. ॥ अपरोक्षतयैवात्मा समाधावनुभूयते । केवलानन्दमात्रत्वेनैवमत्र न संशयः ॥ ६६७ ॥ स्वस्वोपाध्यनुरूपेण ब्रह्माद्याः सर्वजन्तवः । उपजीवन्त्यमुष्येव मात्रामानन्दलक्षणाम् ॥ ६६८ ॥ आस्वाद्यते यो भक्ष्येषु सुखकृन्मधुरो रसः । स गुडस्यैव नो तेषां माधुर्य विद्यते कचित् ॥ ६६९ ॥ तद्वद्विषयसांनिध्यादानन्दो यः प्रतीयते । बिम्बानन्दांशविस्फूर्तिरेवासौ न जडात्मनाम् ॥ ६७० ॥ यस्य कस्यापि योगेन यत्र कुत्रापि दृश्यते । आनन्दः स परस्यैव ब्रह्मणः स्फूर्तिलक्षणः ॥ ६७१ ॥ यथा कुवलयोल्लासश्चन्द्रस्यैव प्रसादतः । तथानन्दोदयोऽप्येषां स्फुरणादेव वस्तुनः ॥ ६७२ ॥ सत्त्वं चित्त्वं तथानन्दस्वरूपं परमात्मनः । निर्गुणस्य गुणायोगाद्गुणास्तु न भवन्ति ते ॥ ६७३ । सर्ववेदान्तसिद्धान्तसारसंग्रहः । विशेषणं तु व्यावृत्त्यै भवेद्द्रव्यान्तरे सति । परमात्माद्वितीयोऽयं प्रपञ्चस्य मृषात्वतः ॥ ६७४ ॥ वस्त्वन्तरस्याभावेन न व्यावृत्त्यः कदाचन । haat निर्गुणश्चेति निर्गुणत्वं निरुच्यते ॥ ६७५ ॥ श्रुत्यैव न ततस्तेषां गुणत्वमुपपद्यते । उष्णत्वं च प्रकाशश्च यथा वह्नेस्तथात्मनः ॥ ६७६ ॥ सत्त्वचित्त्वानन्दतादि स्वरूपमिति निश्चितम् । अत एव सजातीयविजातीयादिलक्षण: ॥ ६७७ ॥ भेदो न विद्यते वस्तुन्यद्वितीये परात्मनि । प्रपञ्चस्यापवादेन विजातीयकृता भिदा ॥ ६७८ ॥ नेष्यते तत्प्रकारं ते वक्ष्यामि शृणु सादरम् । अहेर्गुणविवर्तस्य गुणमात्रस्य वस्तुतः ॥ ६७९ ॥ विवर्तस्यास्य जगतः सन्मात्रत्वेन दर्शनम् । अपवाद इति प्राहुरद्वैत ब्रह्मदर्शिनः ॥ ६८० ॥ व्युत्क्रमेण तदुत्पत्तेर्द्रष्टव्यं सूक्ष्मबुद्धिभिः । प्रतीतस्यास्य जगतः सन्मात्रत्वं सुयुक्तिभिः ॥ ६८१ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । चतुर्विधं स्थूलशरीरजातं तद्भोज्यमन्नादि तदाश्रयादि । ब्रह्माण्डमेतत्सकलं स्थविष्ठ- मीक्षेत पञ्चीकृतभूतमात्रम् ॥ ६८२ ॥ यत्कार्यरूपेण यदीक्ष्यते त- तन्मात्रमेवात्र विचार्यमाणे । मृत्कार्यभूतं कलशादि सम्य- विचारितं सन्न मृदो विभिद्यते ॥ ६८३ ॥ अन्तर्बहिश्चापि मृदेव दृश्यते मृदो न भिन्नं कलशादि किंचन । ग्रीवादिमद्यत्कलशं तदित्थं न वाच्यमेतच्च मृदेव नान्यत् ॥ ६८४ ॥ स्वरूपतस्तत्कलशादिनाम्ना मृदेव मूढैरभिधीयते ततः । नानो हि भेदो न तु वस्तुभेदः दृश्यते तत्र विचार्यमाणे ॥ ६८५ ॥ s. P. II. 14 २०९. सर्ववेदान्तसिद्धान्तसारसंग्रहः । तस्माद्धि कार्य न कदापि भिन्नं स्वकारणादस्ति यतस्ततोऽङ्ग । यद्भौतिकं सर्वमिदं तथैव तद्भूतमात्रं न ततोऽपि भिन्नम् ॥ ६८६ ॥ तच्चापि पञ्चीकृतभूतजातं शब्दादिभिः स्वस्वगुणैश्च सार्धम् । वपूंषि सूक्ष्माणि च सर्वमेत- द्भवत्यपञ्चीकृतभूतमात्रम् ॥ ६८७ ॥ तदप्यपञ्चीकृतभूतजातं रजस्तमः सत्त्वगुणैश्च सार्धम् । अव्यक्तमात्रं भवति स्वरूपतः साभासमव्यक्तमिदं स्वयं च ॥ ६८८ ॥ आधारभूतं यदखण्डमाद्यं शुद्धं परं ब्रह्म सदैकरूपम् । सन्मात्रमेवास्त्यथ नो विकल्पः सतः परं केवलमेवं वस्तु ॥ ६८९ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । २११ एकश्चन्द्रः सद्वितीयो यथा स्या- दृष्टेर्दोषादेव पुंसस्तथैकम् । ब्रह्मास्त्येतद्बुद्धिदोषेण नाना दोषे नष्टे भाति वस्त्वेकमेव ॥ ६९० ॥ रज्जो: स्वरूपाधिगमे न सर्पधी रज्ज्वां विलीना तु यथा तथैव । ब्रह्मावगत्या तु जगत्प्रतीति- स्तत्रैव लीना तु सह भ्रमेण ॥। ६९१ ॥ भ्रान्त्योदितद्वैतमतिप्रशान्त्या सदैकमेवास्ति सदाद्वितीयम् । ततो विजातीयकृतोऽत्र भेदो न विद्यते ब्रह्मणि निर्विकल्पे ॥ ६९२ ॥ यदास्त्युपाधिस्तदभिन्न आत्मा तदा सजातीय इवावभाति । स्वप्रार्थतस्तस्य मृषात्मकत्वा- तदप्रतीतौ स्वयमेष आत्मा । २१२ सर्ववेदान्तसिद्धान्तसारसंग्रहः । ब्रह्मैक्यतामेति पृथङ् न भाति ततः सजातीयकृतो न भेदः ॥ ६९३ ॥ arra area महाकाशो यथा तथा । उपाध्यभावे त्वात्मैप स्वयं ब्रह्मैव केवलम् ॥ ६९४ ॥ पूर्ण एव सदाकाशी घटे सत्यप्यसत्यपि । नित्यपूर्णस्य नभसो विच्छेदः केन सिध्यति ॥ ६९५ ॥ अच्छिन्नरिछन्नवद्भाति पामराणां घटादिना । ग्रामक्षेत्राद्यवधिभिर्भिन्नेव वसुधा यथा ॥ ६९६ ॥ तथैव परमं ब्रह्म महतां च महत्तमम् । परिच्छिन्नमिवाभाति भ्रान्त्या कल्पितवस्तुना ॥ ६९७ ॥ तस्माद्ब्रह्मात्मनोर्भेदः कल्पितो न तु वास्तव: । अत एव मुहुः श्रुत्याप्येकत्वं प्रतिपाद्यते ॥ ६९८ ॥ ब्रह्मात्मनोस्तत्त्वमसीत्यद्वयत्वोपपत्तये प्रत्यक्षादिविरोधेन वाच्ययोर्नोपयुज्यते । तत्त्वंपदार्थयोरैक्यं लक्ष्ययोरेव सिध्यति ॥ ६९९ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । शिष्य :- स्यात्तत्त्वंपदयोः स्वामिन्नर्थः कतिविधो मतः । पदयोः को नु वाच्यार्थो लक्ष्यार्थ उभयोश्च कः ॥ ७०० ॥ वाच्यैकत्वविवक्षायां विरोधः कः प्रतीयते । लक्ष्यार्थयोरभिन्नत्वे स कथं विनिवर्तते ॥ ७०१ ॥ एकत्वकथने का वा लक्षणात्रोररीकृता । एतत्सर्वं करुणया सम्यक्त्वं प्रतिपादय ॥ ७०२ ॥ श्रीगुरुः- शृणुष्वावहितो विद्वन् अद्य ते फलितं तपः । वाक्यार्थ श्रुतिमात्रेण सम्यग्ज्ञानं भविष्यति ॥ ७०३ ॥ यावन्न तत्त्वंपदयोरर्थः सम्यग्विचार्यते । तावदेव नृणां बन्धो मृत्युसंसारलक्षणः ॥ ७०४ ॥ अवस्था सच्चिदानन्दाखण्डेकर सरूपिणी । मोक्षः सिध्यति वाक्यार्था परोक्षज्ञानतः सताम् ॥ ७०५ ॥ वाक्यार्थ एव ज्ञातव्यो मुमुक्षोर्भवमुक्तये । तस्मादवहितो भूत्वा शृणु वक्ष्ये समासतः ॥ ७०६ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । अर्था बहुविधाः प्रोक्ता वाक्यानां पण्डितोत्तमैः । वाच्यलक्ष्यादिभेदेन प्रस्तुतं श्रूयतां त्वया ॥ ७०७ ॥ arre daura विद्यते यत्पदत्रयम । तत्रादौ विद्यमानस्य तत्पदस्य निगद्यते ॥ ७०८ ॥ शास्त्रार्थकोविदैरर्थो वाच्यो लक्ष्य इति द्विधा । वाच्यार्थ ते प्रवक्ष्यामि पण्डितैर्य उदीरितः । ७०९ ॥ समष्टिरूपमज्ञानं साभासं सत्त्वबृंहितम् । वियदादिविराडन्तं स्वकार्येण समन्वितम् ॥ ७१० ॥ चैतन्यं तदवच्छिन्नं सत्यज्ञानादिलक्षणम । सर्वज्ञत्वेश्वरत्वान्तर्यामित्वादिगुणैर्युतम् ॥ ७११ ॥ जगत्स्रष्टृत्वपातृत्वसंहर्तृत्वादिधर्मकम् । सर्वात्मना भासमानं यदमेयं गुणैश्च तत् ॥ ७१२ ॥ अव्यक्तमपरं ब्रह्म वाच्यार्थ इति कथ्यते । नीलमुत्पलमित्यत्र यथा वाक्यार्थसंगतिः ॥ ७१३ ॥ तथा तत्त्वमसीत्यत्र नास्ति वाक्यार्थसंगतिः । पटाद्वावर्तते नील उत्पलेन विशेषितः ॥ ७१४ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । शौक्ल्याद्वयावर्तते नीलेनोत्पलं तु विशेषितम् । इत्थमन्योन्यभेदस्य व्यावर्तकतया तयोः ॥ ७१५ ॥ विशेषणविशेष्यत्वसंसर्गस्येतरस्य वा । वाक्यार्थत्वे प्रमाणान्तरविरोधो न विद्यते ॥ ७१६ ॥ अतः संगच्छते सम्यग्वाक्यार्थो बाधवर्जितः । एवं तत्त्वमसीत्यत्र वाक्यार्थो न समञ्जसः ॥ ७१७ ॥ तदर्थस्य परोक्षत्वादिविशिष्टचितेरपि । त्वमर्थस्यापरोक्षत्वादिविशिष्ट चितेरपि ॥ ७१८ ॥ तथैवान्योन्यभेदस्य व्यावर्तकतया तयोः । विशेषणविशेष्यस्य संसर्गस्येतरस्य वा ॥ ७१९ ॥ वाक्यार्थत्वे विरोधोऽस्ति प्रत्यक्षादिकृतस्ततः । संगच्छते न वाक्यार्थस्तद्विरोधं च वच्मि ते ॥ ७२० ॥ सर्वेशत्वस्वतन्त्रत्वसर्वज्ञत्वादिभिर्गुणैः । सर्वोत्तमः : सत्यकामः सत्यसंकल्प ईश्वरः ॥ ७२१ ॥ तत्पदार्थस्त्वमर्थस्तु किंचिज्ज्ञो दुःखजीवनः । संसार्ययं तद्गतिको जीवः प्राकृतलक्षणः ॥ ७२२ ॥ २१-६ सर्ववेदान्तसिद्धान्तसारसंग्रहः । कथमेकत्वमनयोर्घटते विपरीतयोः । प्रत्यक्षेण विरोधोऽयमुभयोरुपलभ्यते ॥ ७२३ ॥ विरुद्धधर्माक्रान्तत्वात्परस्परविलक्षणौ । जीवेशौ वह्नितुहिनाविव शब्दार्थतोऽपि च ॥ ७२४ ॥ प्रत्यक्षादिविरोधः स्यादित्यैक्ये तयोः परित्यक्ते । श्रुतिवचनविरोधो भवति महान्स्मृतिवचनविरोधश्च ॥ श्रुत्याप्येकत्वमनयोस्तात्पर्येण निगद्यते । मुहुस्तत्त्वमसीत्यस्मादङ्गीकार्य श्रुतेर्वचः ॥ ७२६ ॥ वाक्यार्थत्वे विशिष्टस्य संसर्गस्य च वा पुनः । अयथार्थतया सोऽयं वाक्यार्थो न मतः श्रुतेः ॥ ७२७ ॥ अखण्डैकरसत्वेन वाक्यार्थः श्रुतिसंमतः । स्थूलसूक्ष्मप्रपञ्चस्य सन्मात्रत्वं पुनः पुनः ॥ ७२८ ॥ दर्शयित्वा सुषुप्तौ तद्ब्रह्माभिन्नत्वमात्मनः । उपपाद्य सदैकत्वं प्रदर्शयितुमिच्छया ॥ ७२९ ॥ ऐतदात्म्यमिदं सर्वमित्युक्त्यैव सदात्मनोः । ब्रवीति श्रुतिरेकत्वं ब्रह्मणोऽद्वैतसिद्धये ॥ ७३० ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । २१७ सति प्रपञ्चे जीवे वाद्वैतत्वं ब्रह्मणः कुतः । अतस्तयोरखण्डत्वमेकत्वं श्रुतिसंमतम् ॥ ७३१ ॥ विरुद्धांशपरित्यागात्प्रत्यक्षादिर्न बाधते । अविरुद्धांशग्रहणान्न श्रुत्यापि विरुध्यते ॥ ७३२ ॥ लक्षणा ह्युपगन्तव्या ततो वाक्यार्थसिद्धये । वाच्यार्थानुपपत्त्यैव लक्षणाभ्युपगम्यते ॥ ७३३ ॥ संबन्धानुपपत्त्या च लक्षणेति जगुर्बुधाः । गङ्गायां घोष इत्यादौ या जहल्लक्षणा मता ॥ ७३४ ॥ न सा तत्त्वमसीत्यत्र वाक्य एषा प्रवर्तते । गङ्गाया अपि घोषस्याधाराधेयत्वलक्षणम् ॥ ७३५ ॥ सर्वो विरुद्धवाक्यार्थस्तत्र प्रत्यक्षतस्ततः । गङ्गासंबन्धवत्तीरे लक्षणा संप्रवर्तते ॥ ७३६ ॥ तथा तत्त्वमसीत्यव चैतन्यैकत्वलक्षणे । विवक्षिते तु वाक्यार्थेऽपरोक्षत्वादिलक्षणः ॥ ७३७ ॥ विरुध्यते भागमात्रो न तु सर्वो विरुध्यते । तस्माज्जहल्लक्षणायाः प्रवृत्तिर्नात्र युज्यते ॥ ७३८ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । वायार्थ तु सर्वस्य त्यागे न फलमीक्ष्यते । नालिकेर फलस्येव कठिनत्वधिया नृणाम् ॥ ७३९ ॥ गङ्गापदं यथा स्वार्थं त्यक्त्वा लक्षयते तटम् । तत्पदं त्वंपदं वापि त्यक्त्वा स्वार्थ यथाखिलम् ॥ ७४० ॥ तदर्थं वा त्वमर्थं वा यदि लक्ष्यति स्वयम् । तदा जहल्लक्षणायाः प्रवृत्तिरुपपद्यते ॥ ७४१ ॥ न शङ्कनीयमित्यायैर्ज्ञातार्थे न हि लक्षणा । तत्पदं त्वंपदं वापि श्रूयते च प्रतीयते ॥ ७४२ ॥ तदर्थे च कथं तत्र संप्रवर्तेत लक्षणा । अत्र शोणो धावतीति वाक्यवन्न प्रवर्तते ॥ ७४३ ॥ अजहल्लक्षणा वापि सा जहल्लक्षणा यथा । गुणस्य गमनं लोके विरुद्धं द्रव्यमन्तरा ॥ ७४४ ॥ अतस्तमपरित्यज्य तद्गुणाश्रयलक्षणः । लक्ष्यादिलक्ष्यते तत्र लक्षणासौ प्रवर्तते ॥ ७४५ ॥ वाक्ये तत्त्वमसीत्यत्र ब्रह्मात्मैकत्वबोधके । परोक्षत्वापरोक्षत्वादिविशिष्टचितोर्द्वयोः ॥ ७४६ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । एकत्वरूपवाक्यार्थो विरुद्धांशाविवर्जनात् । न सिध्यति यतस्तस्मान्नाजहल्लक्षणा मता ॥ ७४७ ॥ तत्पदं त्वंपदं चापि स्वकीयार्थविरोधिनम् । अंशं सम्यक्परित्यज्य स्वाविरुद्धांशसंयुतम् ॥ ७४८ ॥ तदर्थं वा त्वमर्थ वा सम्यग्लक्ष्यतः स्वयम् । भागलक्षणया साध्यं किमस्तीति न शङ्कयताम् ॥ ७४९ ॥ अविरुद्धं पदार्थान्तरांशं स्वांशं च तत्कथम् । एकं पदं लक्षणया संलक्षयितुमर्हति ॥ ७५० ॥ पदान्तरेण सिद्धायां पदार्थप्रमितौ स्वतः । तदर्थप्रत्ययापेक्षा पुनर्लक्षणया कुतः ॥ ७५१ ॥ तस्मात्तत्त्वमसीत्यत्र लक्षणा भागलक्षणा । वाक्यार्थसत्त्वखण्डैकरसतासिद्धये मता ॥ ७५२ ॥ भागं विरुद्धं संत्यज्याविरोधो लक्ष्यते यदा । सा भागलक्षणेत्याहुर्लक्षणज्ञा विचक्षणाः ॥ ७५३ ॥ सोऽयं देवदत्त इति वाक्यं वाक्यार्थ एव वा । देवदत्तैक्यरूपस्ववाक्यार्थानवबोधकम् ॥ ७५४ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । देशकालादिवैशिष्ट्यं विरुद्धांशं निरस्य च । अविरुद्धं देवदत्तदेहमात्रं स्वलक्षणम् ॥ ७५५ ॥ भागलक्षणया सम्यग्लक्ष्यत्यनया यथा । तथा सत्य वाक्यं वाक्यार्थ एव वा ॥ ७५६ ॥ परोक्षत्वापरोक्षत्वादिविशिष्टचितोर्द्वयोः । एकत्वरूपवाक्यार्थविरुद्धांशमुपस्थितम् ॥ ७५७ ॥ परोक्षत्वापरोक्षत्वसर्वज्ञत्वादिलक्षणम् । बुद्धयादिस्थूलपर्यन्तमाविद्यकमनात्मकम् ॥ ७५८ ॥ परित्यज्य विरुद्धांशं शुद्धचैतन्यलक्षणम् । वस्तु केवलसन्मात्रं निर्विकल्पं निरञ्जनम ॥ ७५९ ॥ लक्षयत्यनया सम्यग्भागलक्षणया ततः । सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम ॥ ७६० ॥ निर्विशेषं निराभासमतादृशमनीदृशम् । अनिर्देश्यमनाद्यन्तमनन्तं शान्तमच्युतम् । अप्रतर्क्यमविज्ञेयं निर्गुणं ब्रह्म शिष्यते । ७६१ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । उपाधिवैशिष्टयकृतो विरोधो ब्रह्मात्मनोरेकतयाधिगत्या । उपाधिवैशिष्ट्रय उदस्यमाने न यस्ति विरोध एतयोः ॥ ७६२ ॥ तयोरुपाधिश्व विशिष्टता च तद्धर्मभावत्वं च विलक्षणत्वम् । भ्रान्त्या कृतं सर्वमिदं मृषैव स्वप्नार्थवज्जाग्रति नैव सत्यम् ॥ ७६३ ॥ निद्रासूतशरीरधर्मसुखदुःखादिप्रपञ्चोऽपि वा जीवेशादिभिदापि वा न च ऋतं कर्तुं कचिच्छक्यते । मायाकल्पितदेशकालजगदीशादिभ्रमस्तादृशः को भेदोऽस्त्यनयोर्द्वयोस्तु कतमः सत्योऽन्यतः को भवेत् ॥ न स्वप्नजागरणयोरुभयोर्विशेषः ired fear भ्रमजैर्विकल्पैः । यदृष्टदर्शनमुखैरत एव मिथ्या स्वप्न यथा ननु तथैव हि जागरोऽपि ॥ ७६५ । सर्ववेदान्तसिद्धान्तसारसंग्रहः । अविद्याकार्यस्तुल्यौ द्वावपि स्वप्नजागरौ । दृष्टदर्शनदृश्यादिकल्पनोभयतः समा । ७६६ ॥ अभाव उभयोः सुप्तौ सर्वैरप्यनुभूयते । न कचिदनयोर्भेदस्तस्मान्मिथ्यात्वमर्हतः ॥ ७६७ ॥ भ्रान्त्या ब्रह्मणि भेदोऽयं सजातीयादिलक्षणः । कालत्रयेऽपि हे विद्वन् वस्तुतो नैव कश्चन ॥ ७६८ ॥ यत्र नान्यत्पश्यतीति श्रुतिद्वैतं निषेधति । कल्पितस्य भ्रमाद्भूम्नि मिथ्यात्वावगमाय तत् ॥ ७६९ ॥ यतस्ततो ब्रह्म सदाद्वितीयं विकल्पशून्यं निरुपाधि निर्मलम् । निरन्तरानन्दघनं निरीहं निरास्पदं केवलमेकमेव ॥ ७७० ॥ नैवास्ति काचन भिदा न गुणप्रतीति- न वाक्प्रवृत्तिरपि वा न मनः प्रवृत्तिः । यत्केवलं परमशान्तमनन्तमाद्य- मानन्दमात्रमवभाति सदद्वितीयम् ॥ ७७१ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । २२३ यद्विदं परमं सत्यं तत्त्वं सच्चित्सुखात्मकम् । अजरामरणं नित्यं सत्यमेतद्वचो मम ॥ ७७२ ॥ न हि त्वं देहोऽसावसुरपि च वाप्यक्षनिकरो मनो वा बुद्धिर्वा क्वचिदपि तथाहंकृतिरपि । न चैषां संघातस्त्वम् भवति विद्वन् शृणु परं यदेतेषां साक्षी स्फुरणममलं तत्त्वमसिं हि ॥७७३॥ यज्जायते वस्तु तदेव वर्धते तदेव मृत्युं समुपैति काले । जन्मैव तेनास्ति तथैव मृत्यु- र्नास्त्येव नित्यस्य विभोरजस्य ॥ ७७४ ॥ य एष देहो जनितः स एव समेधते नश्यति कर्मयोगात् । त्वमेतदीयास्वखिलास्वववस्था- स्ववस्थितः साक्ष्यसि बोधमात्रः ॥ ७७५ ॥ यत्स्वप्रकाशमखिलात्मकमासुषुप्ते- रेकात्मनाहमहमित्यवभाति नित्यम् । २२४ सर्ववेदान्तसिद्धान्तसारसंग्रहः । बुद्धेः समस्तविकृतेरविकारि बोद्ध मा केवलबोधमात्रम् ॥ ७७६ ॥ स्वात्मन्यनस्तमय संविदि कल्पितस्य व्योमादिसर्वजगतः प्रददाति सत्ताम । स्फूर्ति स्वकीयमहसा वितनोति साक्षा- तत्वमा केवलबोधमात्रम् ॥ ७७७ ॥ सम्यक्समाधिनिरतैर्विमलान्तरङ्गे साक्षादवेक्ष्य निजतत्त्वमपारसौख्यम् । संतुष्यते परमहंसकुलैरजस्रं यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७८ । अन्तर्बहिः स्वयमखण्डितमेकरूप- मारोपितार्थवदुदति मूढबुद्धेः । मृत्स्नादिवद्विगतविक्रियमात्मवेद्यं यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७९ ॥ श्रुत्युक्तमव्ययमनन्तमनादिमध्य- मव्यक्तमक्षरमनाश्रयमप्रमेयम् । सर्ववेदान्तसिद्धान्तसारसंग्रहः । आनन्दसगुनमनामयमद्वितीयं यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७८० ॥ शरीरतद्योगतदीयधर्मा- यारोपणं भ्रान्तिवशात्त्वयीदम् । न वस्तुतः किंचिदतस्त्वजस्त्वं मृत्योर्भयं क्वास्ति तवासि पूर्ण: ॥ ७८१ ॥ यद्यद्दृष्टं भ्रान्तिमत्या स्वदृष्टया तत्तत्सम्यग्वस्तुदृष्ट्या त्वमेव । त्वत्तो नान्यद्वस्तु किंचित्तु लोके कस्माद्भीतिस्ते भवेदद्वयस्य ॥ ७८२ ॥ पश्यतस्त्वहमेवेदं सर्वमित्यात्मनाखिलम् । भयं स्याद्विदुषः कस्मात्स्वस्मान्न भयमिष्यते ॥ ७८३ ॥ तस्मात्त्वमभयं नित्यं केवलानन्दलक्षणम् । निष्कलं निष्क्रियं शान्तं ब्रह्मवासि सदाद्वयम् ॥ ७८४ ॥ ज्ञातृज्ञानज्ञेयविहीनं ज्ञातुरभिन्नं ज्ञानमखण्डम् । ज्ञेयाज्ञेयत्वादिविमुक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८५ ॥ २.२६ सर्ववेदान्तसिद्धान्तसारसंग्रहः । अन्तःप्रज्ञत्वादिविकल्पैरस्पृष्टं यत्तदृशिमात्रम् । सत्तामात्रं समरसमेकं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥७८६ । । सर्वाकारं सर्वमसर्व सर्वनिषेधावधिभूतं यत् । सत्यं शाश्वतमेकमनन्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥८॥ नित्यानन्दाखण्डैकरसं निष्कलमक्रियमस्तविकारम । प्रत्यगभिन्नं परमव्यक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८८ ॥ त्वं प्रत्यस्ताशेषविशेष व्योमवान्तर्बहिरपि पूर्णम । ब्रह्मानन्दं परमद्वैतं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८९ ॥ वामहं ब्रह्म निर्गुणं निर्विकल्पकम । इत्येवाखण्डया वृत्त्या तिष्ठ ब्रह्मणि निष्क्रिये ॥ ७९० ॥ अखण्डामेवैतां घटितपरमानन्दलहरीं परिध्वस्तद्वैतप्रमिति ममलां वृत्तिमनिशम् । अमुञ्चानः स्वात्मन्यनुपमसुखे ब्रह्मणि परे रमस्व प्रारब्धं क्षपय सुखवृत्त्या त्वमनया ॥ ब्रह्मानन्दरसास्वादतत्परेणैव चेतसा । समाधिनिष्ठितो भूत्वा तिष्ठ विद्वन्सदा मुने ॥ ७९२ ॥ शिष्य :- सर्ववेदान्तसिद्धान्तसारसंग्रहः । २२७ अखण्डाख्या वृत्तिरेषा वाक्यार्थश्रुतिमात्रतः । श्रोतुः संजायते किं वा क्रियान्तरमपेक्षते ॥ ७९३ ॥ समाधिः कः कतिविधस्तत्सिद्धेः किमु साधनम् । समाधेरन्तरायाः के सर्वमेतन्निरूप्यताम् ॥ ७९४ ॥ श्रीगुरु :- मुख्यगौणादिभेदेन विद्यन्तेऽत्राधिकारिणः । तेषां प्रज्ञानुसारेणाखण्डा वृत्तिरुदेष्यते ॥ ७९५ ॥ श्रद्धाभक्तिपुरःसरेण विहितेनैवेश्वरं कर्मणा संतोष्यार्जिततत्प्रसादमहिमा जन्मान्तरेष्वेव यः । नित्यानित्यविवेकतीत्रविरविन्यासादिभिः साधनै- र्युक्तः सः श्रवणे सतामभिमतो मुख्याधिकारी द्विजः ॥ अध्यारोपापवादक्रममनुसरता देशिकेनात्र वेत्रा वाक्यार्थे बोध्यमाने सति सपदि सतः शुद्धबुद्धेरमुष्य । नित्यानन्दाद्वितीयं निरुपमममलं यत्परं तत्त्वमेकं तद्ब्रह्मैवाहमस्मीत्युदयति परमाखण्डताकारवृत्तिः ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । अखण्डाकारवृत्तिः सा चिदाभाससमन्विता । आत्माभिन्नं परं ब्रह्म विषयीकृत्य केवलम् ॥ ७९८ ॥ बाधते तद्गताज्ञानं यदावरणलक्षणम् । अखण्डाकारया वृत्त्या त्वज्ञाने बाधिते सति ॥ ७९९ ॥ तत्कार्यं सकलं तेन समं भवति बाधितम् । तन्तुदाहे तु तत्कार्यपटदाहो यथा तथा ॥ ८०० ॥ तस्य कार्यतया जीववृत्तिर्भवति बाधिता । उपप्रभा यथा सूर्य प्रकाशयितुमक्षमा ॥ ८०१ ॥ तद्वदेव चिदाभासचैतन्यं वृत्तिसंस्थितम् । स्वप्रकाशं परं ब्रह्म प्रकाशयितुमक्षमम् ॥ ८०२ ॥ प्रचण्डातपमध्यस्थदीपवन्नष्टदीधितिः । तत्तेजसाभिभूतं सल्लीनोपाधितया ततः ॥ ८०३ ॥ बिम्बभूतपरब्रह्ममात्रं भवति केवलम् । यथापनीते त्वादर्शे प्रतिबिम्बमुखं स्वयम् ॥ ८०४ ॥ मुखमात्रं भवेत्तद्वदेतच्चोपाधिसंक्षयात् । घटाज्ञाने यथा वृत्त्या व्याप्तया बाधिते सति ॥ ८०५ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । घटं विस्फुरयत्येष चिदाभासः स्वतेजसा । न तथा स्वप्रभे ब्रह्मण्याभास उपयुज्यते ॥ ८०६ ॥ अत एव मतं वृत्तिव्याप्यत्वं वस्तुनः सताम् । न फलव्याप्यता तेन न विरोधः परस्परम् ॥। ८०७ ॥ श्रुत्योदितस्ततो ब्रह्म ज्ञेयं बुद्धधैव सूक्ष्मया । प्रज्ञामान्द्यं भवेद्येषां तेषां न श्रुतिमात्रतः ॥ ८०८ ॥ स्यादखण्डाकारवृत्तिर्विना तु मननादिना । श्रवणान्मननाद्धधानात्तात्पर्येण निरन्तरम् ॥ ८०९ ॥ बुद्धेः सूक्ष्मत्वमायाति ततो वस्तूपलभ्यते । मन्दप्रज्ञावतां तस्मात्करणीयं पुनः पुनः ॥ ८१० ॥ श्रवणं मननं ध्यानं सम्यग्वस्तूपलब्धये । सर्ववेदान्तवाक्यानां षभिर्लिङ्गैः सदद्वये ॥ ८११ ॥ परे ब्रह्मणि तात्पर्यनिश्चयं श्रवणं विदुः । श्रुतस्यैवाद्वितीयस्य वस्तुनः प्रत्यगात्मनः ॥ ८१२ ॥ वेदान्तवाक्यानुगुणयुक्तिभिस्त्वनुचिन्तनम् । मननं तच्छ्रुतार्थस्य साक्षात्करणकारणम ॥ ८१३ ॥ . सर्ववेदान्तसिद्धान्तसारसंग्रहः । विजातीयशरीरादिप्रत्ययत्यागपूर्वकम् । सजातीयात्मवृत्तीनां प्रवाहकरणं यथा ॥ ८१४ ॥ तैलधारावच्छिन्नवृत्त्या तयानमिष्यते । तावत्कालं प्रयत्नेन कर्तव्यं श्रवणं सदा ॥ ८१५ ॥ प्रमाणसंशयो यावत्स्वबुद्धेर्न निवर्तते । प्रमेयसंशयो यावत्तावत्तु श्रुतियुक्तिभिः ॥ ८१६ ॥ आत्मयाथार्थ्यांनिश्चित्त्यै कर्तव्यं मननं मुहुः । विपरीतात्मधीर्यावन्न विनश्यति चेतसि । तावन्निरन्तरं ध्यानं कर्तव्यं मोक्षमिच्छता ॥ ८१७ ॥ यावन्न तर्केण निरासितोऽपि दृश्य प्रपञ्चस्त्वपरोक्षबोधात् । विलीयते तावदमुष्य भिक्षो- यनादि सम्यक्करणीयमेव ॥ ८१८ ॥ सविकल्पो निर्विकल्प इति द्वेधा निगद्यते । समाधिः सविकल्पस्य लक्षणं वच्मि तच्छृणु ॥ ८१९ ॥ ज्ञात्राद्यविलयेनैव ज्ञेये ब्रह्मणि केवले । तदाकाराकारितया चित्तवृत्तेरवस्थितिः ॥ ८२० ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । सद्भिः : स एव विज्ञेयः समाधिः सविकल्पकः । मृद एवावमानेऽपि मृण्मयद्विपभानवत् ॥ ८२१ ॥ सन्मात्रवस्तुभानेऽपि त्रिपुटी भाति सन्मयी । समाधिरत एवायं सविकल्प इतीर्यते ॥ ८२२ ॥ ज्ञात्रादिभावमुत्सृज्य ज्ञेयमात्रस्थितिर्हढा । मनसो निर्विकल्पः स्यात्समाधिर्योगसंज्ञितः ॥ ८२३ ॥ जले निक्षिप्लवणं जलमात्रतया स्थितम् । पृथङ् न भाति किं न्वम्भ एकमेवावभासते ॥ ८२४ ॥ यथा तथैव सा वृत्तिर्ब्रह्ममात्रतया स्थिता । पृथङ् न भाति ब्रह्मैवाद्वितीयमवभासते ॥ ८२५ ॥ ज्ञात्रादिकल्पनाभावान्मतोऽयं निर्विकल्पकः । वृत्तेः सद्भावबाधाभ्यामुभयोर्भेद इष्यते ॥ ८२६ ॥ समाधि सुप्तयोर्ज्ञानं चाज्ञानं सुप्तयात्र नेष्यते । सविकल्पो निर्विकल्पः समाधिर्द्वाविमौ हृदि ॥ ८२७ ॥ मुमुक्षोर्यत्नतः कार्यौ विपरीतनिवृत्तये । कृते ऽस्मिन्विपरीताया भावनाया निवर्तनम् ॥ ८२८ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । ज्ञानस्याप्रतिबद्धत्वं सदानन्दश्च सिध्यति । दृश्यानुविद्धः शब्दानुविद्धश्चेति द्विधा मतः ॥ ८२९ ॥ सविकल्पस्तयोर्यत्तल्लक्षणं वच्मि तच्छृणु । कामादिप्रत्ययैश्यैः संसर्गो यत्र दृश्यते ॥ ८३० ॥ सोऽयं दृश्यानुविद्धः स्यात्समाधिः सविकल्पकः । अहंममेदमित्यादिकामक्रोधादिवृत्तयः ॥ ८३१ ॥ दृश्यन्ते येन संदृष्टा दृश्याः स्युरह्मादयः । कामादिसर्ववृत्तीनां द्रष्टारमविकारिणम् ॥ ८३२ ॥ साक्षिणं स्वं विजानीयाद्यस्ताः पश्यति निष्क्रियः । कामादीनामहं साक्षी दृश्यन्ते ते मया ततः ॥ ८३३ ॥ इति साक्षितयात्मानं जानात्यात्मनि साक्षिणम् । दृश्यं कामादि सकलं स्वात्मन्येव विलापयेत् ॥ ८३४ ॥ नाहं देहो नाप्यसुनीक्षवर्गो नाहंकारो नो मनो नापि बुद्धि: । अन्तस्तेषां चापि तद्विक्रियाणां साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३५ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । २३३ वाचः साक्षी प्राणवृत्तेश्व साक्षी बुद्धेः साक्षी बुद्धिवृत्तेश्व साक्षी । चक्षुः श्रोत्रादीन्द्रियाणां च साक्षी साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३६ ॥ नाहं स्थूलो नापि सूक्ष्मो न दीर्घो नाहं बालो नो युवा नापि वृद्धः नाहं काणो नापि मूको न षण्डः साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३७ ॥ नारम्यागन्ता नापि गन्ता न हन्ता नाहं कर्ता न प्रयोक्ता न वक्ता । नाहं भोक्ता नो सुखी नैव दुःखी साक्षी नित्यः प्रत्यगेवास्मि ॥ ८३८ ॥ नाह योगी नो वियोगी न रागी नाहं क्रोधी नैव कामी न लोभी । नाहं बद्धो नापि युक्तो न मुक्त: साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३९ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः नान्तः प्रज्ञो नो बहिः प्रज्ञको वा नैव प्रज्ञो नापि चाप्रज्ञ एषः । नाहं श्रोता नापि मन्ता न बोद्धा साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८४० ॥ न मेऽस्ति देहेन्द्रियबुद्धियोगो न पुण्यलेशोऽपि न पापलेशः । क्षुधापिपासादिषडूर्मिदूर: सदा विमुक्तोऽस्मि चिदेव केवलः ॥ ८४१ ॥ अपाणिपादोऽहमवागचक्षुषी प्राण एवास्म्यमना ह्यबुद्धिः । व्योमेव पूर्णोऽस्मि विनिर्मलोऽस्मि सदैकरूपोऽस्मि चिदेव केवलः ॥ ८४२ ॥ इति स्वमात्मानमवेक्षमाणः प्रतीतदृश्यं प्रविलापयन्सदा । जहाति विद्वान्विपरीतभावं स्वाभाविकं भ्रान्तिवशात्प्रतीतम् ॥। ८४३ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । विपरीतात्मतास्फूर्तिरेव मुक्तिरितीर्यते । सदा समाहितस्यैव सैषा सिध्यति नान्यथा ॥। ८४४ ॥ न वेषभाषाभिरमुष्य मुक्तिर्या केवलखण्डचिदात्मना स्थितिः । तत्सिद्धये स्वात्मनि सर्वदा स्थितो जह्यादहंतां ममतामुपाधौ ॥। ८४५ ॥ स्वात्मतत्त्वं समालम्ब्य कुर्यात्प्रकृतिनाशनम् । तेनैव मुक्तो भवति नान्यथा कर्मकोटिभिः ॥ ८४६ ॥ ज्ञात्वा देवं सर्वपाशापहानि: क्षीणैः क्लेशैर्जन्ममृत्युप्रहानिः । इत्येवैषा वैदिकी वाब्रवीति शत्यां जन्ममृत्युप्रहानिम् ॥। ८४७ ॥ भूयो जन्माद्यप्रसक्तिर्विमुक्ति: शत्यां भाति जन्माद्यभावः । शत्या हेतुरात्मैकनिष्ठा तस्मात्कार्या ह्यात्मनिष्ठा मुमुक्षोः ॥ ८४८ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । क्लेशाः स्युर्वासना एव जन्तोर्जन्मादिकारणम् । ज्ञाननिष्ठाग्निना दाहे तासां नो जन्महेतुता ॥ ८४९ ॥ बीजान्यग्निप्रदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा कुशैर्नात्मा संपद्यते पुनः ॥ ८५० ॥ तस्मान्मुमुक्षोः कर्तव्या ज्ञाननिष्ठा प्रयत्नतः । निःशेषवासनाक्षयै विपरीत निवृत्तये ॥ ८५१ ॥ ज्ञाननिष्ठातत्परस्य नैव कर्मोपयुज्यते । कर्मणो ज्ञाननिष्ठाया न सिध्यति सहस्थितिः ॥ ८५२ ॥ परस्परविरुद्धत्वात्तयोभिन्न स्वभावयोः । कर्तृत्वभावनापूर्व कर्म ज्ञानं विलक्षणम् ॥ ८५३ ॥ देहात्मबुद्धेर्विच्छियै ज्ञानं कर्म विवृद्धये । अज्ञानमूलकं कर्म ज्ञानं तूभयनाशकं ॥। ८५४ ॥ ज्ञानेन कर्मणो योगः कथं सिध्यति वैरिणा । सहयोगो न घटते यथा तिमिरतेजसोः ॥ ८५५ ॥ निमेषोन्मेषयोर्वापि तथैव ज्ञानकर्मणोः । प्रतीचीं पश्यतः पुंसां कुतः प्राचीविलोकनम् । प्रत्यक्प्रवणचित्तस्य कुतः कर्मणि योग्यता ॥ ८५६ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । २३७ ज्ञानैकनिष्ठानिरतस्य भिक्षो- नैवावकाशोऽस्ति हि कर्मतन्त्रे । तदेव कर्मास्य तदेव संध्या तदेव सर्व न ततोऽन्यदस्ति ॥ ८५७ ॥ बुद्धिकल्पितमालिन्यक्षालनं स्नानमात्मनः । तेनैव शुद्धिरेतस्य न मृदा न जलेन च ॥ ८५८ ॥ स्वस्वरूपे मनःस्थानमनुष्ठानं तदिष्यते । करणत्रयसाध्यं यत्तन्मृषा तदसत्यतः ॥ ८५९ ॥ विनिषिध्याखिलं दृश्यं स्वस्वरूपेण या स्थितिः । सा संध्या तदनुष्ठानं तद्दानं तद्धि भोजनम् ॥ ८६० ॥ विज्ञातपरमार्थानां शुद्धसत्त्वात्मनां सताम् । यतीनां किमनुष्ठानं स्वानुसंधिं विनापरम् ॥ ८६१ ॥ तस्मात्क्रियान्तरं त्यक्त्वा ज्ञाननिष्ठापरो यतिः । सदात्मनिष्ठया तिष्ठेन्निश्चलस्तत्परायणः ॥ ८६२ ॥ कर्तव्यं स्वोचितं कर्म योगमारोदुमिच्छता । आरोहणं कुर्वतस्तु कर्म नारोहणं मतम् ॥ ८६३ ॥ सर्ववेदान्तसिद्धान्तमारसंग्रहः । योगं समारोहति यो मुमुक्षुः क्रियान्तरं तस्य न युक्तमीषत् । क्रियान्तरासक्तमनाः पतत्यसौ तालद्रुमारोहणकर्तृवद्ध्रुवम् ॥ ८६४ ॥ योगारूढस्य सिद्धस्य कृतकृत्यस्य धीमतः । aria frag: का कथा तत्र कर्मणाम । दृश्यानुविद्धः कथितः समाधिः सविकल्पकः । ८६५ ॥ शुद्धोऽहं बुद्धोऽहं प्रत्यग्रूपेण नित्यसिद्धोऽहम् । शान्तोऽहमनन्तोऽहं सततपरानन्दसिन्धुरेवाहम् ॥८६६॥ आयोऽहमनाद्योऽहं वाङ्मनसा साध्यवस्तुमात्रोऽहम् । निगमवचोवेद्योऽहमनवद्याखण्ड बोधरूपोऽहम ॥ ८६७ ॥ विदिताविदितान्योऽहं मायातत्कार्यलेशशून्योऽहम । केवलहगात्मकोऽहं संविन्मात्रः सकृद्विभातोऽहम् ॥ ८६८॥ अपरोऽहमनपरोऽहं बहिरन्तश्चापि पूर्ण एवाहम् । अजरोऽहमक्षरोऽहं नित्यानन्दोऽहमद्वितीयोऽहम् ॥८६९ ॥ प्रत्यगभिन्नमखण्डं सत्यज्ञानादिलक्षणं शुद्धम । श्रुत्यवगम्यं तथ्यं ब्रह्मैवाहं परं ज्योतिः ॥ ८७० ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । २३९ एवं सन्मावगाहिन्या वृत्त्या तन्मात्रगाहकैः । शब्दैः समर्पितं वस्तु भावयेन्निश्चलो यतिः ॥ ८७१ ॥ कामादिदृश्यप्रविलापपूर्वकं शुद्धोऽहमित्यादिकशब्दमिश्रः । दृश्येव निष्ठस्य य एष भावः शब्दानुविद्धः कथितः समाधिः ॥ ८७२ ॥ दृश्यस्यापि च साक्षित्वात्समुल्लेखनमात्मनि निवर्तकमनोवस्था निर्विकल्प इतीर्यते ॥। ८७३ ॥ सविकल्पसमाधिं यो दीर्घकालं निरन्तरम् । संस्कारपूर्वकं कुर्यान्निर्विकल्पोऽस्य सिध्यति ॥। ८७४ ॥ निर्विकल्पक समाधिनिष्ठया तिष्ठतो भवति नित्यता ध्रुवम् । उद्भवाद्यपगतिर्निरर्गला नित्यनिश्चलनिरन्तनिर्वृतिः ॥ ८७५ ॥ विद्वानहमिदमिति वा किंचि- द्वाह्याभ्यन्तरवेदनशून्यः । २४० सर्ववेदान्तसिद्धान्तसारसंग्रहः । स्वानन्दामृत सिन्धुनिमग्न- स्तूष्णीमास्ते कश्चिदनन्यः ॥ ८७६ ॥ निर्विकल्पं परं ब्रह्म यत्तस्मिन्नेव निष्ठिताः । एते धन्या एव मुक्ता जीवन्तोऽपि बहिर्हशाम ॥ ८७७ ॥ यथा समाधित्रितयं यत्नेन क्रियते हृदि । तथैव बाह्यदेशेऽपि कार्य द्वैतनिवृत्तये ॥ ८७८ ॥ तत्प्रकारं प्रवक्ष्यामि निशामय समासतः । अधिष्ठानं परं ब्रह्म सच्चिदानन्दलक्षणम् ॥। ८७९ ॥ तत्राध्यस्तमिदं भाति नामरूपात्मकं जगत् । सत्त्वं चित्त्वं तथानन्दरूपं यद्ब्रह्मणस्त्रयम् ॥ ८८० ॥ अध्यस्तजगतो रूपं नामरूपमिदं द्वयम् । एतानि सच्चिदानन्दनामरूपाणि पञ्च च ॥ ८८१ ॥ एकीकृत्योच्यते मूखैरिदं विश्वमिति भ्रमात् । शैत्यं श्वेतं रसं द्राव्यं तरङ्ग इति नाम च ॥ ८८२ ॥ एकीकृत्य तरङ्गोऽयमिति निर्दिश्यते यथा । आरोपिते नामरूपे उपेक्ष्य ब्रह्मणः सतः ॥ ८८३ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः :.1 स्वरूपमात्रग्रहणं समाधिर्बाह्य आदिमः । सच्चिदानन्दरूपस्य सकाशाद्ब्रह्मणो यतिः ॥ ८८४ ॥ नामरूपे पृथक्कृत्वा ब्रह्मण्येव विलापयन । अधिष्ठानं परं ब्रह्म सच्चिदानन्दमद्वयम् । यत्तदेवाहमित्येव निश्चितात्मा भवेद्ध्रुवम् ॥ ८८५ ॥ इयं भूर्न सन्नापि तोयं न तेजो न वायुर्न खं नापि तत्कार्यजातम् । यदेषामधिष्ठानभूतं विशुद्धं सदेकं परं सत्तदेवाहमस्मि ॥ ८८६ ॥ न शब्दो न रूपं न च स्पर्शको वा तथा नो रसो नापि गन्धो न चान्यः । यदेषामधिष्ठानभूतं विशुद्धं सदेकं परं सत्तदेवाहमस्मि ॥। ८८७ ॥ न सद्द्रव्यजातं गुणा न क्रिया वा न जातिर्विशेषो न चान्यः कदापि । S. P. II. 16 २४२ सर्ववेदान्तसिद्धान्तसारसंग्रहः । यदेषामधिष्ठानभूतं विशुद्धं सदेकं परं सत्तदेवाहमस्मि ॥ ८८८ ॥ न देहो न चाक्षाणि न प्राणवायु- मनो नापि बुद्धिर्न चित्तं ह्यहंधीः । यदेषामधिष्ठानभूतं विशुद्धं सदेकं परं सत्तदेवाहमस्मि ॥ ८८९ ॥ न देशो न कालो न दिग्वापि सत्स्या- न वस्त्वन्तरं स्थूलसूक्ष्मादिरूपम् । यदेषामधिष्ठानभूतं विशुद्धं सदेकं परं सत्तदेवाहमस्मि ॥ ८९० ॥ एतद्दृश्यं नामरूपात्मकं यो- ऽधिष्ठानं तद्ब्रह्म सत्यं सदेति । गच्छंस्तिष्ठन्वा शयानोऽपि नित्यं कुर्याद्विद्वान्बाह्यदृश्यानुविद्धम् ॥ ८९१ ॥ अध्यस्त नामरूपादिप्रविलापेन निर्मलम् । अद्वैतं परमानन्दं ब्रह्मैवास्मीति भावयेत् ॥ ८९२ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । निर्विकारं निराकारं निरञ्जनमनामयम् । आद्यन्तरहितं पूर्ण ब्रह्मैवाहं न संशयः ॥ ८९३ ॥ निष्कलङ्कं निरातङ्कं त्रिविधच्छेदवर्जितम् । आनन्दमक्षरं मुक्तं ब्रह्मैवास्मीति भावयेत् ॥ ८९४ ॥ निर्विशेषं निराभासं नित्यमुक्तमविक्रियम् । प्रज्ञानैकरसं सत्यं ब्रह्मैवास्मीति भावयेत् ॥ ८९५ ॥ शुद्धं बुद्धं तत्त्वसिद्धं परं प्रत्यगखण्डितम् । स्वप्रकाशं पराकाशं ब्रह्मैवास्मीति भावयेत् ॥ ८९६ ॥ सुसूक्ष्ममस्तितामात्रं निर्विकल्पं महत्तमम् । केवलं परमाद्वैतं ब्रह्मैवास्मीति भावयेत् ॥ ८९७ ॥ इत्येवं निर्विकारादिशब्दमात्रसमर्पितम् । ध्यायतः केवलं वस्तु लक्ष्ये चित्तं प्रतिष्ठति ॥ ८९८ ॥ ब्रह्मानन्दरसावेशादेकीभूय तदात्मना । वृत्तेर्या निश्वावस्था स समाधिरकल्पकः ॥ उत्थाने वाप्यनुत्थानेऽप्यप्रमत्तो जितेन्द्रियः । समाधिषट्कं कुर्वीत सर्वदा प्रयतो यतिः ॥ ९०० ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः विपरीतार्थ धीर्यावन्न निःशेषं निवर्तते । स्वरूपस्फुरणं यावन्न प्रसिध्यत्यनिर्गलम् । तावत्समाधिषट्केन नयेत्कालं निरन्तरम् ॥ ९०१ ॥ न प्रमादोऽत्र कर्तव्यो विदुषा मोक्षमिच्छता । प्रमादे जृम्भते माया सूर्यापाये तमो यथा ॥ ९०२ ॥ स्वानुभूतिं परित्यज्य न तिष्ठन्ति क्षणं बुधाः स्वानुभूतौ प्रमादो यः स मृत्युर्न यमः सताम् ॥ अस्मिन्समाधौ कुरुते प्रयासं यस्तस्य नैवास्ति पुनर्विकल्पः । सर्वात्मभावोऽप्यमुनैव सिध्ये- त्सर्वात्मभावः खलु केवलत्वम् ॥ ९०४ ॥ सर्वात्मभावो विदुषो ब्रह्मविद्याफलं विदुः । जीवन्मुक्तस्य तस्यैव स्वानन्दानुभवः फलम् ॥ योऽहं ममेत्याद्यसदात्मगाहको ग्रन्थिर्लयं याति स वासनामयः । सर्ववेदान्तसिद्धान्तसारसंग्रहः । २४५ समाधिना नश्यति कर्मबन्धो ब्रह्मात्मबोधोऽप्रतिबन्ध इष्यते ॥ ९०६ ॥ एष निष्कण्टकः पन्था मुक्तेर्ब्रह्मात्मना स्थितेः । शुद्धात्मनां मुमुक्षूणां यत्सदेकत्वदर्शनम् ॥ ९०७ ॥ तस्मात्त्वं चाप्यप्रमत्तः समाधी- कृत्वा ग्रन्धि साधु निर्दद्य युक्तः । नित्यं ब्रह्मानन्दपीयूषसिन्धौ मज्जन्त्रीडन्मोदमानो रमस्व ॥ ९०८ ॥ निर्विकल्पसमाधियों वृत्तिनैश्चल्यलक्षणा । तमेव योग इत्याहुर्योगशास्त्रार्थकोविदाः ॥ ९०९ ॥ अष्टावङ्गानि योगस्य यमो नियम आसनम् । प्राणायामस्तथा प्रत्याहारश्चापि च धारणा ॥ ९९० ॥ ध्यानं समाधिरित्येव निगदन्ति मनीषिणः । सर्व ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः ॥ ९११ ॥ यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः । सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ॥ ९१२ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । नियमो हि परानन्दो नियमात्क्रियते बुधैः । सुखेनैव भवेद्यस्मिन्नजत्रं ब्रह्मचिन्तनम् ॥ ९९३ ॥ आसनं तद्विजानीयादितरत्सुखनाशनम् । चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ॥ ९९४ ॥ निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते । निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः ॥ ९१५ ॥ ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः । ततस्तद्वृत्तिनैश्वल्यं कुम्भकः प्राणसंयमः ॥ ९१६ ॥ अयं चापि प्रबुद्धानामज्ञानां प्राणपीडनम् । विषयेष्वात्मतां त्यक्त्वा मनसश्चितिमज्जनम् ॥ ९९७ ॥ प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः । यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ॥ ९९८ ॥ मनसो धारणं चैव धारणा सा परा मता । ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ॥ ध्यानशब्देन विख्याता परमानन्ददायिनी । निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ॥ ९२० ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । वृत्तिविस्मरणं सम्यक्समाधिर्ध्यानसंज्ञिकः । समाधौ क्रियमाणे तु विघ्ना ह्यायान्ति वै बलात् ॥९२१॥ अनुसंधानराहित्यमालस्यं भोगलालसम् । भयं तमश्च विक्षेपस्तेजस्पन्दश्च शून्यता ॥ ९२२ ॥ एवं यद्विघ्नबाहुल्यं त्याज्यं तद्ब्रह्मविज्जनैः । विनानेतान्परित्यक्त्वा प्रमादरहितो वशी । समाधिनिष्ठया ब्रह्म साक्षाद्भवितुमर्हसि ॥ ९२३ ॥ इति गुरुवचनाच्छ्रुतिप्रमाणा- त्परमवगम्य स्वतत्त्वमात्मयुक्त्या । प्रशमितकरणः समाहितात्मा कचि - दचलाकृतिरात्मनिष्ठितोऽभूत् ॥ ९२४ ॥ बहुकालं समाधाय स्वस्वरूपे तु मानसम् । उत्थाय परमानन्दाद्गुरुमेत्य पुनर्मुदा ॥ ९२५ ॥ प्रमाणपूर्वकं धीमान्सगद्गदमुवाच ह । नमो नमस्ते गुरवे नित्यानन्दस्वरूपिणे ॥ ९२६ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । मुक्तसङ्गाय शान्ताय त्यक्ताहंताय ते नमः । दधाने नमो भूने महिम्नः पारमस्य ते । नैवास्ति यत्कटाक्षेण ब्रह्मैवाभवमद्वयम् ॥ ९२७ ॥ किं करोमि क गच्छामि किं गृह्णामि त्यजामि किम् । यन्मया पूरितं विश्वं महाकल्पाम्बुना यथा ॥ ९२८ ॥ मयि सुखबोधपयोधौ महति ब्रह्माण्डबुद्बुदसहस्रम् । मायामयेन मरुता भूत्वा भूत्वा पुनस्तिरोधत्ते ॥ नित्यानन्दस्वरूपोऽहमात्माहं त्वदनुग्रहात् । पूर्णोऽनवद्योऽहं केवलोऽहं च सद्गुरो ॥ ९३० ॥ अकर्ताहमभोक्ताहमविकारोऽहमक्रियः । आनन्दघन एवाहमसङ्गोऽहं सदाशिव: ॥ ९३१ ॥ त्वत्कटाक्षवरचान्द्रचन्द्रिकापातधूतभवतापजः श्रमः । प्राप्तवानहमखण्डवैभवानन्दमात्मपदमक्षयं क्षणात् ॥ छायया स्पृष्टमुष्णं वा शीतं वा दुष्टु सुष्ठु वा । न स्पृशत्येव यत्किंचित्पुरुषं तद्विलक्षणम् ॥ ९३३ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । न साक्षिणं साक्ष्यधर्मा न स्पृशन्ति विलक्षणम् । अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥ ९३४ ॥ वेर्यथा कर्मणि साक्षिभावो वह्नेर्यथा वायसि दाहकत्वम् । रज्जोर्यथारोपितवस्तुसङ्ग- स्तथैव कूटस्थ चिदात्मनो मे ॥ ९३५ ॥ इत्युक्त्वा स गुरुं स्तुत्वा प्रश्रयेण कृतानतिः । मुमुक्षोरुपकाराय प्रष्टव्यांशमपृच्छत ॥ ९३६ ॥ जीवन्मुक्तस्य भगवन्ननुभूतेश्च लक्षणम् । विदेहमुक्तस्य च मे कृपया ब्रूहि तत्त्वतः ॥ ९३७ ॥ श्रीगुरुः-- वक्ष्ये तुभ्यं ज्ञानभूमिकाया लक्षणमादितः । ज्ञाते यस्मिंस्त्वया सर्व ज्ञातं स्यात्पृष्टमद्य यत् ॥ ९३८ ॥ ज्ञानभूमिः शुभेच्छा स्यात्प्रथमा समुदीरिता । विचारणा द्वितीया तु तृतीया तनुमानसी ॥ ९३९ ॥ सत्त्वापत्तिचतुर्थी स्यात्ततोऽसंसक्तिनामिका । पदार्थाभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥ ९४० ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । स्थितः किं मूढ एवास्मि प्रेक्ष्योऽहं शास्त्रसज्जनैः । वैराग्यपूर्वमिच्छेति शुभेच्छा चोच्यते बुधैः ॥ ९४१ ॥ शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥ ९४२ ॥ विचारणाशुभेच्छाभ्यामिन्द्रियार्थेष्वरक्तता । यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥ ९४३ ॥ भूमिकात्रितयाभ्यासाञ्चित्तेऽर्थविरतेर्वशात् । सत्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥ ९४४ ॥ दशाचतुष्टयाभ्यासादसंसर्गफला तु या । रूढसत्त्वचमत्कारा प्रोक्तासंसक्तिनामिका ॥ ९४५ ॥ भूमिकापञ्चकाभ्यासात्स्वात्मारामतया भृशम् । आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ॥ ९४६ ॥ परप्रयुक्तेन चिरप्रयत्नेनावबोधनम् । पदार्थाभावना नाम षष्ठी भवति भूमिका ॥ ९४७ ॥ षड्भूमिकाचिराभ्यासाद्भेदस्यानुपलम्भनात् । यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥ ९४८ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । इदं ममेति सर्वेषु दृश्यभावेष्वभावना । जाप्रज्जादिति प्राहुर्महान्तो ब्रह्मवित्तमाः ॥ ९४९ ॥ विदित्वा सच्चिदानन्दे मयि दृश्यपरम्पराम् । नामरूपपरित्यागो जाग्रत्स्वप्रः समीर्यते ॥ ९५० ॥ परिपूर्णचिदाकाशे मयि बोधात्मतां विना । न किंचिदन्यदस्तीति जाग्रत्सुप्तिः समीर्यते ॥ ९५१ ॥ मूलाज्ञानविनाशेन कारणाभासचेष्टितैः । बन्धो न मेऽतिस्वल्पोऽपि स्वप्नजादितीर्यते ॥ ९५२ ॥ कारणाज्ञाननाशाद्य द्द्रष्टृदर्शनदृश्यता । न कार्यमस्ति तज्ज्ञानं स्वप्नस्वप्नः समीर्यते ॥ ९५३ ॥ अतिसूक्ष्मविमर्शेन स्वधीवृत्तिरचञ्चला । विलीयते यदा बोधे स्वप्नसुप्तिरितीर्यते ॥ ९५४ ॥ चिन्मयाकारमतयो धीवृत्तिप्रसरैर्गतः । आनन्दानुभवो विद्वन् सुप्तिजादितीर्यते ॥ ९५५ ॥ वृत्तौ चिरानुभूतान्तरानन्दानुभवस्थितौ । समात्मतां यो यात्येष सुप्तिस्वप्न इतीर्यते ॥ ९५६ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । दृश्यधीवृत्तिरेतस्य केवली भावभावना । परं बोधैकतावाप्तिः सुप्तिसुप्तिरितीर्यते ॥ ९५७ ॥ परब्रह्मवाभाति निर्विकारैकरूपिणी । सर्वावस्थासु धारैका तुर्याख्या परिकीर्तिता ॥ ९५८ ॥ इत्यवस्थासमुल्लासं विमृशन्मुच्यते सुखी । शुभेच्छादित्रयं भूमिभेदाभेदयुतं स्मृतम् ॥ ९५९ ॥ यथावद्भेदबुद्धयेदं जगज्जादितीर्यते । अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते ॥ ९६० ॥ पश्यन्ति स्वप्रवल्लोकं तुर्यभूमिसुयोगतः । पञ्चमी भूमिमारुह्य सुषुप्तिपदनामिकाम् ॥ ९६१ ॥ शान्ताशेषविशेषांश स्तिष्ठेद द्वैत मात्रके । अन्तर्मुखतया नित्यं षष्ठीं भूमिमुपाश्रितः ॥ ९६२ ॥ परिश्रान्ततया गाढनिद्रालुरिव लक्ष्यते । कुर्वन्नभ्यासमेतस्यां भूम्यां सम्यग्विवासनः ॥ ९६३ ॥ तुर्यावस्थां सप्तभूमिं क्रमात्प्राप्नोति योगिराद् । विदेहमुक्तिरेवात्र तुर्यातीतदशोच्यते ॥ ९६४ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः ! यत्र नासन्न सच्चापि नाहं नाप्यनहंकृतिः । केवलं क्षीणमनन आस्तेऽद्वैतेऽतिनिर्भयः ॥ ९६५ ॥ अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे । अन्त: पूर्णो बहिः पूर्णः पूर्णकुम्भ इवार्णवे ॥ ९६६ ॥ यथास्थितमिदं सर्व व्यवहारवतोऽपि च । अस्तं गतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥ ९६७ ॥ नोदेति नास्तमायाति सुखदुःखे मनः प्रभा । यथाप्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते ॥ ९६८ ॥ यो जागर्त्ति सुषुप्तिस्थो यस्य जान्न विद्यते । यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥ रागद्वेषभयादीनामनुरूपं चरन्नपि । योऽन्तर्व्योमवदत्यच्छः स जीवन्मुक्त उच्यते ॥ यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । कुर्वतोऽकुर्वतो वापिस जीवन्मुक्त उच्यते ॥ ९७१ ॥ यः समस्तार्थजालेषु व्यवहार्यपि शीतलः । परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ ९७२ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । द्वैतवर्जितचिन्मात्रे पदे परमपावने । अक्षुब्धचित्तविश्रान्तः स जीवन्मुक्त उच्यते ॥ ९७३ ॥ इदं जगदयं सोऽयं दृश्यजातमवास्तवम् । यस्य चित्तेन स्फुरति स जीवन्मुक्त उच्यते चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः । ९७४ ॥ आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ ९७५ ॥ देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् । ब्रह्मामिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ९७६ ॥ यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः । परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ९७७ ॥ अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्वयः । चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ॥ ९७८ ॥ जीवन्मुक्तिपदं त्यक्त्वा स्वदेहे कालसात्कृते । विशत्यदेह मुक्तित्वं पवनोऽस्पन्दतामिव ॥ ९७९ ॥ ततस्तत्संबभूवासौ यद्विरामप्यगोचरम् । यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां च यत् ॥ ९८० ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । २५५ विज्ञानं विज्ञानविदां मलानां च मलात्मकम । पुरुष: सांख्यदृष्टीनामीश्वरो योगवादिनाम् ॥ ९८१ ॥ शिवः शैवागमस्थानां काल: कालैकवादिनाम् । यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम । यत्सर्वं सर्वगं वस्तु तत्तत्त्वं तदसौ स्थितः ॥ ९८२ ॥ ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते । चिन्मात्रेव यस्तिष्ठेद्विदेहो मुक्त एव सः ॥ ९८३ ॥ यस्य प्रपञ्चभानं न ब्रह्माकारमपीह न । अतीतातीतभावो यो विदेहो मुक्त एव सः ॥ ९८४ ॥ चित्तवृत्तेरतीतो यश्चित्तवृत्त्यावभासकः । चित्तवृत्तिविहीनो यो विदेहो मुक्त एव सः ॥ ९८५ ॥ जीवात्मेति परमात्मेति सर्वचिन्ताविवर्जितः । सर्वसंकल्पहीनात्मा विदेहो मुक्त एव सः ॥ ९८६ ॥ ओंकारवाच्यहीनात्मा सर्ववाच्यविवर्जितः । अवस्थात्रयहीनात्मा विदेहो मुक्त एव सः ॥ ९८७ ॥ अहिनिवयनीसर्पनिर्मोको जीववर्जितः । वल्मीके पतितस्तिष्ठेत्तं सर्पो नाभिमन्यते ॥ ९८८ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । एवं स्थूलं च सूक्ष्मं च शरीरं नाभिमन्यते । प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके ॥ नेति नेतीत्यरूपत्वादशरीरो भवत्ययम् । विश्वश्व तैजसश्चैव प्राज्ञश्चेति च ते त्रयम् ॥ ९९० ॥ विराट् हिरण्यगर्भश्च ईश्वरश्चेति च ते त्रयम् । ब्रह्माण्डं चैव पिण्डाण्डं लोका भूरादयः क्रमात् ॥ स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि । तूष्णीमेव ततस्तूष्णीं तूष्णीं सत्यं न किंचन ॥ ९९२ ॥ कालभेदं वस्तुभेदं देशभेदं स्वभेदकम् । किंचिद्भेदं न तस्यास्ति किंचिद्वापि न विद्यते ॥ जीवेश्वरेति वाक्ये च वेदशास्त्रेष्वहं त्विति । इदं चैतन्यमेवेत्यहं चैतन्यमित्यपि ॥ ९९४ ॥ इति निश्चयशून्यो यो विदेहो मुक्त एव सः । ब्रह्मैव विद्यते साक्षद्वस्तुतोऽवस्तुतोऽपि च ॥ तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखात्मकम् । शान्तं च तदतीतं च परं ब्रह्म तदुच्यते ॥ ९९६ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि । नाविद्यास्तीह नो माया शान्तं ब्रह्मैव तद्विना ॥ ९९७ ॥ प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम् ॥ ९९८ ॥ यावद्यावच्च सद्बुद्धे स्वयं संत्यज्यतेऽखिलम् । तावत्तावत्परानन्दः परमात्मैव शिष्यते ॥ ९९९ ॥ यत्र यत्र मृतो ज्ञानी परमाक्षरवित्सदा । परे ब्रह्मणि लीयेत न तस्योत्क्रान्तिरिष्यते ॥ १००० ॥ यद्यत्स्वाभिमतं वस्तु तत्त्यजन्मोक्षमश्नुते । असंकल्पेन शस्त्रेण छिन्नं चित्तमिदं यदा ॥ १००१ ॥ सर्व सर्वगतं शान्तं ब्रह्म संपद्यते तदा । इति श्रुत्वा गुरोर्वाक्यं शिष्यस्तु छिन्नसंशयः ॥ १००२ ॥ ज्ञातज्ञेयः संप्रणम्य सद्रुरोश्चरणाम्बुजम् । स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ॥ १००३ ॥ गुरुरेष सदानन्द सिन्धौ निर्मग्नमानसः । पावयन्वसुधां सर्वा विचचार निरुत्तरः ॥ १००४ ॥ S. P. II. 17 इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् । निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ॥ १००५ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहनामकः । ग्रन्थोऽयं हृदयग्रन्थिविच्छिन्त्यै रचितः सताम् ॥ १००६ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द- भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ सर्ववेदान्तसिद्धान्तसारसंग्रहः संपूर्णः ॥