* श्री १०८ ईश्वर मठ पुस्तकालय, सुजु भवन, So शारीरकमीमांसा ॥ सूत्रभाष्यम् ॥ श्रीमच्छंकरभगवत्पादैः विरचितम् । यु ष्मदस्मत्प्रत्ययगोचरयोर्विष- यविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभा- वयोरितरेतरभावानुपपत्तौ सिद्धायाम्, तद्धर्माणामपि सुतरामितरेतरभावानु- पपत्तिः - इत्यतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगो- चरस्य विषयस्य तद्धर्माणां चाध्यासः तद्विपर्ययेण विषय- s. W. I. 1 सूत्रभाष्ये [ पा. १. णस्तद्धर्माणां च विषयेऽध्यासो मिथ्येति भवितुं युक्तम् । तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्माश्वाध्यस्येतरे- तराविवेकेन अत्यन्तविविक्तयोर्धर्मधर्मिणोः मिथ्याज्ञाननि- मित्तः सत्यानृते मिथुनीकृत्य ' अहमिदम् ' ' ममेदम्' इति नैसर्गिकोऽयं लोकव्यवहारः ॥ आह—कोऽयमध्यासो नामेति । उच्यते - स्मृतिरूपः परत्र पूर्वदृष्टावभासः । तं केचित् अन्यत्रान्यधर्माध्यास इति वदन्ति । केचित्तु यत्र यदध्यासः तद्विवेकाग्रहनिबन्धनो भ्र- म इति । अन्ये तु यत्र यदध्यासः तस्यैव विपरीतधर्मत्व- कल्पनामाचक्षते । सर्वथापि तु अन्यस्यान्यधर्मावभासतां न व्यभिचरति । तथा च लोकेऽनुभव:- शुक्तिका हि रजतवदवभासते, एकश्चन्द्रः सद्वितीयवदिति ॥ । कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणा- म् ? सर्वो हि पुरोऽवस्थित एव विषये विषयान्तरमध्यस्यति ; युष्मत्प्रत्ययापेतस्य च प्रत्यगात्मनः अविषयत्वं ब्रवीषि । उच्यते—- न तावदयमेकान्तेनाविषयः, अस्मत्प्रत्ययविष- यत्वात् अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः ; न चायमस्ति नियम:- पुरोऽवस्थित एव विषये विषयान्तरमध्यसितव्य- मिति ; अप्रत्यक्षेऽपि ह्याकाशे बाला: तलमलिनतादि अध्य- 9 सू. १.] प्रथमोऽध्यायः । स्यन्ति ; एवमविरुद्धः प्रत्यगात्मन्यपि अनात्माध्यासः ॥ , तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते । तद्विवेकेन च वस्तुस्वरूपावधारणं विद्यामाहुः । तत्रैवं सति, यत्र यदध्यासः, तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि स न संबध्यते । तमेतमविद्याख्यमात्मानात्मनोरितरेतरा- ध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिकाः प्रवृत्ताः सर्वाणि च शास्त्राणि विधिप्रतिषेधमोक्षपरा- णि । कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति, उच्यते— देहेन्द्रियादिषु अहंममाभि- मानरहितस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः । न हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः संभवति । न चाधि- ष्ठानमन्तरेण इन्द्रियाणां व्यापारः संभवति । न चानध्य- स्तात्मभावेन देहेन कश्चिद्व्याप्रियते । न चैतस्मिन् सर्वस्मि न्नसति असङ्गस्यात्मनः प्रमातृत्वमुपपद्यते । न च प्रमातृत्व- मन्तरेण प्रमाणप्रवृत्तिरस्ति । तस्मादविद्यावद्विषयाण्येव प्रत्य- क्षादीनि प्रमाणानि शास्त्राणि चेति । पश्वादिभिश्वाविशेषात् । यथा हि पश्वादयः शब्दादिभिः श्रोत्रादीनां संबन्धे सति शब्दादिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते, अनुकूले च प्रवर्तन्ते ; यथा दण्डोद्यतकरं पुरुषमभिमुखमुपलभ्य 'मां सूत्रभाष्ये [ पा. १. हन्तुमयमिच्छति' इति पलायितुमारभन्ते, हरित तृणपूर्ण - पाणिमुपलभ्य तं प्रति अभिमुखीभवन्ति; एवं पुरुषा अपि व्युत्पन्नचित्ताः क्रूरदृष्टीनाक्रोशतः खड्गोद्यतकरान्वलवत उप- लभ्य ततो निवर्तन्ते, तद्विपरीतान्प्रति अभिमुखीभवन्ति । अतः समानः पश्वादिभिः पुरुषाणां प्रमाणप्रमेयव्यवहारः । पश्वादीनां च प्रसिद्ध एव अविवेकपूर्वकः प्रत्यक्षादिव्यवहारः । तत्सामान्यदर्शनाद्वयुत्पत्तिमतामपि पुरुषाणां प्रत्यक्षादिव्यव- हारस्तत्काल: समान इति निश्चीयते । शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः परलोकसंबन्धम- धिक्रियते, तथापि न वेदान्तवेद्यमशनायाद्यतीतमपेतब्रह्मक्ष- त्रादिभेदमसंसार्यात्मतत्त्वमधिकारेऽपेक्ष्यते, अनुपयोगात् अ- धिकारविरोधाञ्च । प्राक् च तथाभूतात्मविज्ञानात् प्रवर्तमा- नं शास्त्रमविद्यावद्विषयत्वं नातिवर्तते । तथा हि- 'ब्राह्मणो यजेत ' इत्यादीनि शास्त्राण्यात्मनि वर्णाश्रमवयोवस्थादिवि- शेषाध्यासमाश्रित्य प्रवर्तन्ते । अध्यासो नाम अतस्मिंस्तद्बुद्धि- रित्यवोचाम । तद्यथा— पुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यति ; तथा देहधर्मान् 'स्थूलोऽहं कृशोऽहं गौरोऽहं तिष्ठामि ग- च्छामि लङ्घयामि च' इति ; तथेन्द्रियधर्मान् - 'मूक: काण: सू. १.] प्रथमोऽध्यायः । क्लीबो वधिरोऽन्धोऽहम्' इति ; तथान्तःकरणधर्मान् कामसं- कल्पविचिकित्साध्यवसायादीन् । एवमहंप्रत्ययिनमशेषस्वप्र- चारसाक्षिणि प्रत्यगात्मन्यध्यस्य तं च प्रत्यगात्मानं सर्वसाक्षि- णं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यति । एवमयमनादिरन- न्तो नैसर्गिकोऽध्यासो मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रव- र्तकः सर्वलोकप्रत्यक्षः । अस्यानर्थहेतोः प्रहाणाय आत्मैकत्व- विद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते । यथा चायमर्थः सर्वेषां वेदान्तानाम्, तथा वयमस्यां शारीरकमीमांसायां प्रद- र्शयिष्यामः । वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्ये- दमादिमं सूत्रम् — अथातो ब्रह्मजिज्ञासा ॥ १ ॥ अत्र अथशब्दः आनन्तर्यार्थः परिगृह्यते ; नाधिकारार्थः, ब्रह्मजिज्ञासाया अनधिकार्यत्वात् ; मङ्गलस्य च वाक्यार्थे १. जिज्ञासा- समन्वयाभावात् ; अर्थान्तरप्रयुक्त एव धिकरणम् । ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति; पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात् । सति च आनन्तर्यार्थत्वे, यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमे- नापेक्षते, एवं ब्रह्मजिज्ञासापि यत्पूर्ववृत्तं नियमेनापेक्षते तद्वक्तव्यम् । स्वाध्यायाध्ययनानन्तर्ये तु समानम् । नन्विह सूत्रभाष्ये [पा. १. कर्मावबोधानन्तर्य विशेष: ; न; धर्मजिज्ञासायाः प्रागपि अधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः । यथा च हृदयाद्यव- दानानामानन्तर्यनियम:, क्रमस्य विवक्षितत्वात्, न तथेह क्रमो विवक्षितः; शेषशेषित्वे अधिकृताधिकारे वा प्रमाणा- भावात् धर्मब्रह्मजिज्ञासयोः । फलजिज्ञास्यभेदाच्च । अभ्युद- यफलं धर्मज्ञानम्, तच्चानुष्ठानापेक्षम् ; निःश्रेयसफलं तु ब्रह्मज्ञानम्, न चानुष्ठानान्तरापेक्षम् ; भव्यश्च धर्मो जिज्ञा- स्यो न ज्ञानकालेऽस्ति, पुरुषव्यापारतन्त्रत्वात्; इह तु भूतं ब्रह्म जिज्ञास्यं नित्यवृत्तत्वान्न पुरुषव्यापारतन्त्रम् । चोदना- प्रवृत्तिभेदाच्च । या हि चोदना धर्मस्य लक्षणम्, सा स्वविषये नियुञ्जानैव पुरुषमवबोधयति ; ब्रह्मचोदना तु. पुरुषमववोध- यत्येव केवलम् ; अवबोधस्य चोदनाजन्यत्वान्न पुरुषोऽव- बोधे नियुज्यते—–—–—यथा अक्षार्थसंनिकर्षेणार्थावबोधे, तद्वत् । तस्मात्किमपि वक्तव्यम्, यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति । उच्यते — नित्यानित्यवस्तुविवेकः, इहामुत्रार्थ भोगवि- रागः, शमदमादिसाधनसंपत्, मुमुक्षुत्वं च । तेषु हि सत्सु, प्रागपि धर्मजिज्ञासाया ऊर्ध्वं च शक्यते ब्रह्म जिज्ञासितुं । " ज्ञातुं च; न विपर्यये । तस्मात् अथशब्देन यथोक्तसाधन- संपत्त्यानन्तर्यमुपदिश्यते ॥ सू. १.] प्रथमोऽध्यायः । अतः शब्दः हेत्वर्थः । यस्माद्वेद एव अग्निहोत्रादीनां श्रेयः- साधनानामनित्यफलतां दर्शयति-- ' तद्यथेह कर्मचितो लो- कः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते' इत्यादिः ; तथा ब्रह्मज्ञानादपि परं पुरुषार्थं दर्शयति — 'ब्रह्मविदानो- ति परम्' इत्यादि: ; तस्मात् यथोक्तसाधनसंपत्त्यनन्तरं ब्र- ह्मजिज्ञासा कर्तव्या ॥ ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा । ब्रह्म च वक्ष्यमाणलक्ष- णम् ' जन्माद्यस्य यत:' इति । अत एवं न ब्रह्मशब्दस्य जा- त्याद्यर्थान्तरमाशङ्कितव्यम् । ब्रह्मण इति कर्मणि षष्ठी, न शे- षे ; जिज्ञास्यापेक्षत्वाज्जिज्ञासायाः, जिज्ञास्यान्तरानिर्देशाच्च । ननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं न विरुध्य- ते, संबन्धसामान्यस्य विशेषनिष्ठत्वात्; एवमपि प्रत्यक्षं ब्र- ह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पय- तो व्यर्थः प्रयासः स्यात् । न व्यर्थः, ब्रह्माश्रिताशेषविचारप्र- तिज्ञानार्थत्वादिति चेत्, न; प्रधानपरिग्रहे तदपेक्षितानामप्य- र्थाक्षिप्तत्वात् । ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात्प्रधानम् । तस्मि- प्रधाने जिज्ञासाकर्मणि परिगृहीते, यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं न भवति, तान्यर्थाक्षिप्तान्येवेति न पृथक्सूत्रयित- व्यानि । यथा ' राजासौ गच्छति' इत्युक्ते सपरिवारस्य राज्ञो सूत्रभाष्ये [पा. १. " गमनमुक्तं भवति, तद्वत् । श्रुत्यनुगमाच्च । 'यतो वा इमानि भूतानि जायन्ते' इत्याद्याः श्रुतय: ' तद्विजिज्ञासस्व तद्ब्रह्म इति प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्ति । तव · कर्मणिषष्ठीपरिग्रहे सूत्रेणानुगतं भवति । तस्माद्ब्रह्मण इति कर्मणि षष्ठी ॥ ज्ञातुमिच्छा जिज्ञासा । अवगतिपर्यन्तं ज्ञानं सन्वाच्या- या इच्छायाः कर्म, फलविषयत्वादिच्छायाः । ज्ञानेन हि प्रमा- णेनावगन्तुमिष्टं ब्रह्म । ब्रह्मावगतिर्हि पुरुषार्थः, निःशेषसंसा- .रवीजा विद्याद्यनर्थनिबर्हणात् । तस्माद्ब्रह्म जिज्ञासितव्यम् ॥ तत्पुनर्ब्रह्म प्रसिद्धमप्रसिद्धं वा स्यात्; यदि प्रसिद्धं न जिज्ञासितव्यम् । अथाप्रसिद्धं नैव शक्यं जिज्ञासितुमिति । उच्यते— अस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम् । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते, बृंहतेर्धातोरर्थानुगमात् । सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः । सर्वो ह्यात्मास्तित्वं प्रत्येति, न 'नाहमस्मि' इति । यदि हि नात्मास्तित्वप्रसिद्धिः स्यात्, सर्वो लोक: ' नाहमस्मि' इति प्रतीयात् । आत्मा च ब्रह्म । यदि तर्हि लोके ब्रह्म आत्मत्वेन प्रसिद्धमस्ति, ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम्; न; तद्विशेषं सू. २.] प्रथमोऽध्यायः । प्रति विप्रतिपत्तेः । देहमात्रं चैतन्यविशिष्टमालेति प्राकृता जना लौकायतिकाश्च प्रतिपन्नाः । इन्द्रियाण्येव चेतनान्या- त्मेत्यपरे । मन इत्यन्ये । विज्ञानमात्रं क्षणिकमित्येके । शून्यमित्यपरे । अस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपरे । भोक्तैव केवलं न कर्तेत्येके । अस्ति तद्व्यति- रिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित् । आत्मा स भोक्तुरित्यपरे । एवं बहवो विप्रतिपन्ना युक्तिवाक्यतदा- भाससमाश्रयाः सन्तः । तत्राविचार्य यत्किंचित्प्रतिपद्यमानो निःश्रेयसात्प्रतिहन्येत, अनर्थे चेयात् । तस्माद्ब्रह्मजिज्ञांसो- पन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयते ॥ ब्रह्म जिज्ञासितव्यमित्युक्तम् । किंलक्षणं पुनस्तद्ब्रह्मेत्यत आह भगवान्सूत्रकारः- जन्माद्यस्य यतः ॥ २ ॥ • जन्म उत्पत्ति: आदिः अस्य – इति तद्गुणसंविज्ञानो बहुव्रीहिः । जन्मस्थितिभङ्गं समासार्थः । जन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं च । श्रुतिनि- २. जन्माद्य- धिकरणम् । र्देशस्तावत्- 'यतो वा इमानि भूतानि सूत्रभाष्ये [ पा. १. जायन्ते' इति, अस्मिन्वाक्ये जन्मस्थितिप्रलयानां क्रमदर्शनात् । वस्तुवृत्तमपि — जन्मना लब्धसत्ताकस्य धर्मिणः स्थिति- प्रलयसंभवात् । अस्येति प्रत्यक्षादिसंनिधापितस्य धर्मिण इदमा निर्देश: । षष्ठी जन्मादिधर्मसंबन्धार्था । यत इति कारणनि- र्देशः । अस्य जगतो नामरूपाभ्यां व्याकृतस्य अनेककर्तृभो- क्तृसंयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मन- साप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात्सर्व- शक्तेः कारणाद्भवति, तद्ब्रह्मेति वाक्यशेषः । अन्येषामपि भा- वविकाराणां त्रिष्वेवान्तर्भाव इति जन्मस्थितिनाशानामिह ग्रहणम् । यास्कपरिपठितानां तु 'जायतेऽस्ति' इत्यादीनां ग्रहणे तेषां जगतः स्थितिकाले संभाव्यमानत्वान्मूलकारणादुत्पत्ति- स्थितिनाशा जगतो न गृहीताः स्युरित्याशङ्कयेत; तन्मा शङ्कि; इति या उत्पत्तिर्ब्रह्मणः कारणात्, तत्रैव स्थितिः प्रलयश्च, गृह्यन्ते । न च यथोक्तविशेषणस्य जगतो यथोक्तविशेषणमीश्वरं मुक्त्वा, अन्यतः प्रधानादचेतनात् अणुभ्यो वा अभावाद्वा सं- सारिणो वा उत्पत्त्यादि संभावयितुं शक्यम् । न च स्वभा- वतः, विशिष्टदेशकालनिमित्तानामिहोपादानात् । एतदेवानु- मानं संसारिव्यतिरिक्तेश्वरास्तित्वादिसाधनं मन्यन्ते ईश्वर- कारणवादिनः ॥ सू. २.] प्रथमोऽध्यायः । ११. नन्विहापि तदेवोपन्यस्तं जन्मादिसूत्रे ; न; वेदान्तवा - क्यकुसुमग्रथनार्थत्वात्सूत्राणाम् । वेदान्तवाक्यानि हि सूत्र - रुदाहृत्य विचार्यन्ते । वाक्यार्थविचारणाध्यवसाननिर्वृत्ता हि ब्रह्मावगतिः, नानुमानादिप्रमाणान्तरनिर्वृत्ता । सु वेदान्तवाक्येषु जगतो जन्मादिकारणवादिषु, तदर्थग्रहणदा- यय अनुमानमपि वेदान्तवाक्याविरोधि प्रमाणं भवत्, न निवार्यते, श्रुत्यैव च सहायत्वेन तर्कस्याप्यभ्युपेतत्वात् । तथा हि — 'श्रोतव्यो मन्तव्यः' इति श्रुतिः 'पण्डितो मेधावी गन्धारानेवोपसंपद्येतैवमेवेहाचार्यवान्पुरुषो वेद' इति च पुरुषबुद्धिसाहाय्यमात्मनो दर्शयति । न धर्मजिज्ञसा- यामिव श्रुत्यादय एव प्रमाणं ब्रह्मजिज्ञासायाम् । किंतु श्रु- त्यादयोऽनुभवादयश्च यथासंभवमिह प्रमाणम्, अनुभवावसा- नत्वाद्भूतवस्तुविषयत्वाच्च ब्रह्मज्ञानस्य । कर्तव्ये हि विषये नानुभवापेक्षास्तीति श्रुत्यादीनामेव प्रामाण्यं स्यात्, पुरुषाधी- नात्मलाभत्वाच्च कर्तव्यस्य । कर्तुमकर्तुमन्यथा वा कर्तुं श- क्यं लौकिकं वैदिकं च कर्म; यथा अश्वेन गच्छति, पद्भथा- म्, अन्यथा वा, न वा गच्छतीति । तथा 'अतिरात्रे षोड- शिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति ' ' उदिते जुहोति, अनुदिते जुहोति' इति । विधिप्रतिषेधाश्च अत्र अर्थवन्तः सूत्रभाष्ये • [पा. १. स्युः, विकल्पोत्सर्गापवादाश्च । न तु वस्तु 'एवम् नैवम्' 'अस्ति, नास्ति' इति वा विकल्प्यते । विकल्पनास्तु पुरुष- बुद्धधपेक्षाः । न वस्तुयाथात्म्यज्ञानं पुरुषबुद्धयपेक्षम् । किं तर्हि वस्तुतन्त्रमेव तत् । न हि स्थाणावेकस्मिन् 'स्थाणुर्वा, पुरुषोऽन्यो वा' इति तत्त्वज्ञानं भवति । तत्र ' पुरुषोऽन्यो वा ' इति मिथ्याज्ञानम् । 'स्थाणुरेव' इति तत्त्वज्ञानम्, वस्तुत- न्त्रत्वात् । एवं भूतवस्तुविषयाणां प्रामाण्यं वस्तुतन्त्रम् । तत्रैवं सति ब्रह्मज्ञानमपि वस्तुतन्त्रमेव, भूतवस्तुविषयत्वात् । ननु भूतवस्तुविषयत्वे ब्रह्मण: प्रमाणान्तरविषयत्वमेवेति वेदा- न्तवाक्यविचारणा अनर्थिकैव प्राप्ता ; न; इन्द्रियाविषयत्वेन संबन्धाग्रहणात् । स्वभावतो विषयविषयाणीन्द्रियाणि, न ब्रह्म- विषयाणि । सति हीन्द्रियविषयत्वे ब्रह्मणः, इदं ब्रह्मणा सं- बद्धं कार्यमिति गृह्येत । कार्यमात्रमेव तु गृह्यमाणम् — किं ब्रह्मणा संबद्धम् ? किमन्येन केनचिद्वा संबद्धम् ? -- इति न शक्यं निश्चेतुम् । तस्माज्जन्मादिसूत्रं नानुमानोपन्यासार्थम्, किं तर्हि वेदान्तवाक्यप्रदर्शनार्थम् । किं पुनस्तद्वेदान्तवाक्यं यत् सूत्रेणेह लिलक्षयिषितम् । 'भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति' इत्युपक्रम्याह- ' यतो वा इमानि भूतानि जायन्ते । येन जातानि जीव- सू. ३.] प्रथमोऽध्यायः । न्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति । ' तस्य च निर्णयवाक्यम् —'आनन्दाद्धयेव खल्विमानि भूता- नि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्य- भिसंविशन्ति' इति । अन्यान्यप्येवंजातीयकानि वाक्यानि नित्यशुद्धबुद्धमुक्तस्वभावसर्वज्ञस्वरूपकारण विषयाणि उदाह- र्तव्यानि ॥ जगत्कारणत्वप्रदर्शनेन सर्वज्ञं ब्रह्मेत्युपक्षिप्तम्, तदेव द्रढयन्नाह- शास्त्रयोनित्वात् ॥ ३ ॥ महत ऋग्वेदादेः शास्त्रस्य अनेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म । १. शास्त्रयो- न हीदृशस्य शास्त्रस्य ऋग्वेदादिलक्षणस्य नित्वाधि- सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः संभवो- करणम् । ऽस्ति । यद्यद्विस्तरार्थे शास्त्रं यस्मात्पुरुष- विशेषात्संभवति, यथा व्याकरणादि पाणिन्यादेः ज्ञेयैकदे-: शार्थमपि, स ततोऽप्यधिकतरविज्ञान इति प्रसिद्धं लोके । किमु वक्तव्यम् — अनेकशाखाभेदभिन्नस्य देवतिर्यखानुष्य- वर्णाश्रमादिप्रविभागहेतोः ऋग्वेदाद्याख्यस्य सर्वज्ञानाकरस्य अप्रयत्नेनैव लीलान्यायेन पुरुषनिःश्वासवत् यस्मान्महतो सूत्रभाष्ये [पा. १. भूतात् योनेः संभवः— 'अस्य महतो भूतस्य निःश्वसितमे- तत् यदृग्वेद:' इत्यादिश्रुतेः — तस्य महतो भूतस्य निर- तिशयं सर्वज्ञत्वं सर्वशक्तिमत्त्वं चेति ॥ अथवा यथोक्तमृग्वेदादिशास्त्रं योनिः कारणं प्रमाणमस्य ब्रह्मणो यथावत्स्वरूपाधिगमे । शास्त्रादेव प्रमाणात् जगतो ज- न्मादिकारणं ब्रह्माधिगम्यत इत्यभिप्रायः । शास्त्रमुदाहृतं पूर्वसूत्रे - 'यतो वा इमानि भूतानि जायन्ते ' इत्यादि । किमर्थं तर्हीदं सूत्रम्, यावता पूर्वसूत्रेणैव एवंजातीयकं शास्त्र- मुदाहरता शास्त्रयोनित्वं ब्रह्मणो दर्शितम् । उच्यते-- तत्र सूत्राक्षरेण स्पष्टं शास्त्रस्यानुपादानाज्जन्मादिसूत्रेण केवल- मनुमानमुपन्यस्तमित्याशङ्कयेत ; तामाशङ्कां निवर्तयितुमिदं सूत्रं प्रववृते — 'शास्त्रयोनित्वात्' इति ॥ कथं पुनर्ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते, यावता 'आम्ना- यस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्' इति क्रियापरत्वं शास्त्रस्य ं प्रदर्शितम् । अतो वेदान्तानामानर्थक्यम्, अक्रि- यार्थत्वात्; कर्तृदेवतादिप्रकाशनार्थत्वेन वा क्रियाविधिशेष- त्वम्, उपासनादिक्रियान्तरविधानार्थत्वं वा । न हि परि- निष्ठितवस्तुस्वरूपप्रतिपादनं संभवति ; प्रत्यक्षादिविषयत्वा- ● सू ४.] प्रथमोऽध्यायः । त्परिनिष्ठितवस्तुनः, तत्प्रतिपादने च हेयोपादेयरहिते पुरुषा- र्थाभावात् । अत एव ' सोऽरोदीत्' इत्येवमादीनामानर्थक्यं मा भूदिति ' विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः ' इति स्तावकत्वेनार्थवत्वमुक्तम् । मन्त्राणां च ' इषे त्वा' इ- त्यादीनां क्रियातत्साधनाभिधायकत्वेन कर्मसमवायित्वमुक्तम् । अतो न क्वचिदपि वेदवाक्यानां विधिसंस्पर्शमन्तरेणार्थवत्ता दृष्टा उपपन्ना वा । न च परिनिष्ठिते वस्तुस्वरूपे विधि: सं- भवति, क्रियाविषयत्वाद्विधेः तस्मात्कर्मापेक्षितकर्तृदेवतादि- स्वरूपप्रकाशनेन क्रियाविधिशेषत्वं वेदान्तानाम् । अथ प्रकरणान्तरभयान्नैतदभ्युपगम्यते, तथापि स्ववाक्यगतोपा- सनादिकर्मपरत्वम् । तस्मान्न ब्रह्मणः शास्त्रयोनित्वमिति प्राप्ते, उच्यते-- तत्तु समन्वयात् ॥ ४॥ तु-शब्दः पूर्वपक्षव्यावृत्त्यर्थः । तद्ब्रह्म सर्वज्ञं सर्वशक्ति ज- गदुत्पत्तिस्थितिलयकारणं वेदान्तशास्त्रादवगम्यते । कथम् ? ४. समन्वया समन्वयात् । सर्वेषु हि वेदान्तेषु वाक्या- । धिकरणम् । नि तात्पर्येणैतस्यार्थस्य प्रतिपादकत्वेन स- मनुगतानि । 'सदेव सोम्येदमग्र आसीत् ' 'एकमेवाद्विती- यम्' 'आत्मा वा इदमेक एवाम आसीत् ' ' तदेतद्ब्रह्मापूर्व- सूत्रभाष्ये [ पा. १. ' ' व्र- मनपरमनन्तरमबाह्यम्' ' अयमात्मा ब्रह्म सर्वानुभूः मैबेदममृतं पुरस्तात्' इत्यादीनि । न च तद्गतानां पदानां ब्रह्मस्वरूपविषये निश्चिते समन्वयेऽवगम्यमाने अर्थान्तरकल्प- ना युक्ता, श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् । न च तेषां कर्तृदेव- तादिस्वरूपप्रतिपादनपरता अवसीयते, 'तत्केन कं पश्येत्' इत्यादिक्रियाकारकफलनिराकरणश्रुतेः । न च परिनिष्ठितवस्तु- स्वरूपत्वेऽपि प्रत्यक्षादिविषयत्वं ब्रह्मणः, 'तत्त्वमसि' इति ब्रह्मात्मभावस्य शास्त्रमन्तरेणानवगम्यमानत्वात् । यत्तु हेयो- पादेयरहितत्वादुपदेशानर्थक्यमिति, नैष दोषः ; हेयोपादेयशू- न्यब्रह्मात्मतावगमादेव सर्वक्लेशप्रहाणात्पुरुषार्थसिद्धेः । देवता- दिप्रतिपादनपरस्य तु स्ववाक्यगतोपासनार्थत्वेऽपि न कश्चिद्वि- रोधः । न तु तथा ब्रह्मण उपासनाविधिशेषत्वं संभवति, एकत्वे हेयोपादेयशून्यतया क्रियाकारकादिद्वैतविज्ञानोपमर्दोपपत्तेः । न हि ब्रह्मैकत्वविज्ञानेनान्मथितस्य द्वैतविज्ञानस्य पुनः संभवो- ऽस्ति येनोपासनाविधिशेषत्वं ब्रह्मणः प्रतिपाद्येत । यद्यप्यन्यत्र वेदवाक्यानां विधिसंस्पर्शमन्तरेण प्रमाणत्वं न दृष्टम्, तथाप्यात्मविज्ञानस्य फलपर्यन्तत्वान्न तद्विषयस्य शास्त्रस्य ग्रामाण्यं शक्यं प्रत्याख्यातुम् । न चानुमानगम्यं शास्त्र- प्रामाण्यम्, येनान्यत्र दृष्टं निदर्शनमपेक्ष्येत । तस्मात्सिद्धं सू ४.] प्रथमोऽध्यायः । १७ ब्रह्मणः· शास्त्रप्रमाणकत्वम् ॥ - अत्रापरे प्रत्यवतिष्ठन्ते — यद्यपि शास्त्रप्रमाणकं ब्रह्म, तथापि प्रतिपत्तिविधिविषयतयैव शास्त्रेण ब्रह्म समर्प्यते ; यथा यूपाहवनीयादीन्यलौकिकान्यपि विधिशेषतया शास्त्रेण समर्प्यन्ते, तद्वत् । कुत एतत् ? प्रवृत्तिनिवृत्तिप्रयोजनपरत्वा- च्छास्त्रस्य । तथा हि शास्त्रतात्पर्यविदामनुक्रमणम् — 'दृष्टो हि तस्यार्थः कर्मावबोधनं नाम' इति ; 'चोदनेति क्रियायाः प्रबर्तकं वचनम्' 'तस्य ज्ञानमुपदेश: ' ' तद्भूतानां क्रियार्थेन समाम्नाय:' 'आन्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् ' इति च । अतः पुरुषं कचिद्विषयविशेषे प्रवर्तयत्कुतश्चिद्विष- यविशेषान्निवर्तयञ्चार्थवच्छास्त्रम् । तच्छेषतया चान्यदुपयु- क्तम् । तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यात् । सति च विधिपरत्वे, यथा स्वर्गादिकामस्याग्निहोत्रादिसाधनं वि- धीयते, एवममृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम् । नन्विह जिज्ञास्यवैलक्षण्यमुक्तम् — कर्मकाण्डे भव्यो धर्मो जिज्ञास्यः, इह तु भूतं नित्यनिर्वृत्तं ब्रह्म जिज्ञास्यमिति ; तत्र धर्मज्ञानफलादनुष्ठानसापेक्षाद्विलक्षणं ब्रह्मज्ञानफलं भवि- तुमर्हति । नात्येवं भवितुम्, कार्यविधिप्रयुक्तस्यैव ब्रह्मण: प्रतिपाद्यमानत्वात् । 'आत्मा वा अरे द्रष्टव्यः 'य आत्मा- S. W. 1. 2 , सूत्रभाष्ये [पा. १. पहतपाप्मा....सोऽन्वेष्टव्यः स विजिज्ञासितव्यः ' ' आत्म- त्येवोपासीत' 'आत्मानमेव लोकमुपासीत ' ' ब्रह्म वेद ब्रह्म- व भवति' इत्यादिषु विधानेषु सत्सु, 'कोऽसावात्मा ? ' ' किं तद्ब्रह्म ?' इत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उप- युक्ता:— नित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्यशुद्धबुद्धमु- क्तस्वभावो विज्ञानमानन्दं ब्रह्म इत्येवमादयः । तदुपास- नाञ्च शास्त्रदृष्टोऽदृष्टो मोक्षः फलं भविष्यति । कर्तव्यविध्य- ननुप्रवेशे तु वस्तुमात्रकथने हानोपादानासंभवात् 'सप्तद्वीपा वसुमती' 'राजासौ गच्छति' इत्यादिवाक्यवद्वेदान्तवाक्या- नामानर्थक्यमेव स्यात् । ननु वस्तुमात्रकथनेऽपि 'रज्जुरि- यम्, नायं सर्प:' इत्यादौ भ्रान्तिजनितभीतिनिवर्तनेनार्थवत्त्वं दृष्टम् ; तथेहाप्यसंसार्यात्मवस्तुकथनेन संसारित्वभ्रान्तिनि- वर्तनेनार्थवत्त्वं स्यात् । स्यादेतदेवम्, यदि रज्जुस्वरूपश्रवण- मात्रेणेव सर्पभ्रान्ति:, संसारित्वभ्रान्तिर्ब्रह्मस्वरूपश्रवणमात्रेण निवर्तेत ; न तु निवर्तते ; श्रुतब्रह्मणोऽपि यथापूर्वे सुखदुः- खादिसंसारिधर्मदर्शनात्, 'श्रोतव्यो मन्तव्यो निदिध्या- सितव्य:' इति च श्रवणोत्तरकालयोर्मनननिदिध्यासनयो- विधिदर्शनात् । तस्मात्प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमा- णकं ब्रह्माभ्युपगन्तव्यमिति ॥ सू. ४.] प्रथमोऽध्यायः । अन्त्राभिधीयते— न; कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात् । शारीरं वाचिकं मानसं च कर्म श्रुतिस्मृतिसिद्धं धर्माख्यम्, यद्विषया जिज्ञासा 'अथातो धर्मजिज्ञासा' इति सूत्रिता । अधर्मोऽपि हिंसादिः प्रतिषेधचोदनालक्षणत्वाजिज्ञास्यः परि- हाराय । तयोश्चोदनालक्ष्णयोरर्थानर्थयोर्धर्माधर्मयोः फले प्रत्यक्षं सुखदुःखे शरीरवाङ्मनोभिरेवोपभुज्यमाने विषये- न्द्रियसंयोगजन्ये ब्रह्मादिषु स्थावरान्तेषु प्रसिद्धे । मनुष्य- त्वादारभ्य ब्रह्मान्तेषु देहवत्सु सुखतारतम्यमनुश्रूयते । ततश्च तद्धेतोर्धर्मस्यापि तारतम्यं गम्यते । धर्मतारतम्यादधि- कारितारतम्यम् । प्रसिद्धं चार्थित्वसामर्थ्यविद्वत्तादिकृतमधि- ! कारितारतम्यम् । तथा च यागाद्यनुष्ठायिनामेव विद्यासमा- धिविशेषादुत्तरेण पथा गमनम्, केवलैरिष्टापूर्तदत्तसाधनै- धूमादिक्रमेण दक्षिणेन पथा गमनम्, तत्रापि सुखतार- तम्यम्, तत्साधनतारम्यं च शास्त्रात् 'यावत्संपातमुषित्वा' इत्यस्माद्गम्यते । तथा मनुष्यादिषु स्थावरान्तेषु सुखलवश्वो- दनालक्षणधर्मसाध्य एवेति गम्यते तारतम्येंन वर्तमानः । तथोर्ध्वगतेष्वधोगतेषु च देहवत्सु दुःखतारतम्यदर्शनात्तद्धेतो- रधर्मस्य प्रतिषेधचोदनालक्षणस्य तदनुष्ठायिनां च तारतम्यं गम्यते । एवमविद्यादिदोषवतां धर्माधर्मतारतम्यनिमित्तं शरी- सूत्रभाष्ये [ पा. १. ' रोपादानपूर्वकं सुखदुःखतारतम्यमनित्यं संसाररूपं श्रुतिस्मृ- तिन्यायप्रसिद्धम् । तथा च श्रुतिः 'न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति' इति यथावर्णितं संसाररूपमनु- वदति । 'अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत:' इति प्रियाप्रियस्पर्शनप्रतिषेधाश्ञ्चोदनालक्षणधर्मकार्यत्वं मोक्षाख्य- स्याशरीरत्वस्य प्रतिषिध्यत इति गम्यते । धर्मकार्यत्वे हि प्रियाप्रियस्पर्शनप्रतिषेधो नोपपद्येत । अशरीरत्वमेव धर्मका - र्यमिति चेत्, न ; तस्य स्वाभाविकत्वात् – 'अशरीर‍ शरी- रेषु अनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ' ' अप्राणो ह्यमनाः शुभ्रः 'असङ्गो ह्ययं पुरुष: ' इत्यादिश्रुतिभ्यः । अत एवानुष्ठेयकर्मफलविलक्षणं मोक्षाख्य- मशरीरत्वं नित्यमिति सिद्धम् । तत्र किंचित्परिणामिनित्यं. स्यात्, यस्मिन्विक्रियमाणेऽपि तदेवेदमिति बुद्धिर्न विहन्यते ; यथा पृथिव्यादि जगन्नित्यत्ववादिनाम्, यथा वा सांख्यानां गुणाः । इदं तु पारमार्थिकं कूटस्थनित्यं व्योमवत्सर्वव्यापि सर्वविक्रियारहितं नित्यतृप्तं निरवयवं स्वयंज्योतिः स्वभावम्, यत्र धर्माधर्मौ सह कार्येण कालत्रयं च नोपावर्तेते; तदेतद्- शरीरत्वं मोक्षाख्यम्— 'अन्यत्र धर्मादन्यत्राधर्मादन्यत्रा- स्मात्कृताकृतात् । अन्यत्र भूताञ्च भव्याच्च' इत्यादिश्रुति- सू. ४.] प्रथमोऽध्यायः । भ्यः । अतस्तद्ब्रह्म, यस्येयं जिज्ञासा प्रस्तुता । तद्यदि कर्त- त्र्यशेषत्वेनोपदिश्येत, तेन च कर्तव्येन साध्यश्चेन्मोक्षोऽभ्यु- पगम्येत, अनित्य एव स्यात् । तत्रैवं सति यथोक्तकर्मफले- ष्वेव तारतम्यावस्थितेष्वनित्येषु कश्चिदतिशयो मोक्ष इति प्रसज्येत । नित्यश्च मोक्षः सर्वैर्मोक्षवादिभिरभ्युपगम्यते । अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्तः । अपि च 'ब्रह्म वेद ब्रह्मैव भवति' 'क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे' 'आनन्दं ब्रह्मणो विद्वान्न विभेति कुतश्चन' 'अभयं वै जनक प्राप्तोऽसि ' ' तदात्मानमेवावेदहं ब्रह्मास्मीति, तस्मात्तत्सर्वमभवत्' ' तत्र को मोहः कः शोक एकत्वमनु- पश्यतः' इत्येवमाद्याः श्रुतयो ब्रह्मविद्यानन्तरमेव मोक्षं दर्श- यन्त्यो मध्ये कार्यान्तरं वारयन्ति । तथा 'तद्वैतत्पश्य- नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च' इति ब्रह्म- दर्शनसर्वात्मभावयोर्मध्ये कर्तव्यान्तरवारणायोदाहार्यम्- यथा ' तिष्ठन्गायति' इति तिष्ठतिगायत्योर्मध्ये तत्कर्तृकं कार्यान्तरं नास्तीति गम्यते । ' त्वं हि नः पिता यो- ऽस्माकमविद्यायाः परं पारं तारयसि ' ' श्रुतं ह्येव मे भग- वद्दृशेभ्यस्तरति शोकमात्मविदिति; सोऽहं भगवः शोचामि, तं मा भगवाञ्छोकस्य पारं तारयतु' 'तस्मै मृदितकषायाय सूत्रभाष्ये [पा. १. तमसः पारं दर्शयति भगवान्सनात्कुमारः' इति चैवमाद्या: श्रुतयो मोक्षप्रतिबन्धनिवृत्तिमात्रमेवात्मज्ञानस्य फलं दर्श- यन्ति । तथा च आचार्यप्रणीतं न्यायोपबृंहितं सूत्रम् — 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्त- रापायादपवर्ग:' इति । मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञा- नाद्भवति । न चेदं ब्रह्मात्मैकत्वविज्ञानं संपद्रूपम् — यथा 'अनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव स तेन लोकं जयति' इति । न चाध्यासरूपम् — यथा 'मनो ब्रह्मेत्युपा- सीत ' ' आदित्यो ब्रह्मेत्यादेश:' इति च मनआदित्यादिपु ब्रह्मदृष्टथध्यासः । नापि विशिष्टक्रियायोगनिमित्तम् ' वायुर्वाव संवर्ग : ' ' प्राणो बाव संवर्ग:' इतिवत् । नाप्याज्यावेक्षणादि- कर्मवत्कर्माङ्गसंस्काररूपम् । संपदादिरूपे हि ब्रह्मात्मैकत्ववि - ज्ञानेऽभ्युपगम्यमाने, 'तत्त्वमसि' ' अहं ब्रह्मास्मि' ' अय- मात्मा ब्रह्म' इत्येवमादीनां वाक्यानां ब्रह्मात्मैकत्ववस्तुप्रति- पादनपरः पदसमन्वयः पीड्येत । 'भिद्यते हृदयग्रन्थिश्छि- द्यन्ते सर्वसंशयाः' इति चैवमादीन्यविद्यानिवृत्तिफलश्रव- णान्युपरुध्येरन् । 'ब्रह्म वेद ब्रह्मैव भवति' इति चैवमादीनि तद्भावापत्तिवचनानि संपदादिरूपत्वे न सामञ्जस्येनोपपद्ये- रन् । तस्मान्न संपदादिरूपं ब्रह्मात्मैकत्वविज्ञानम् । अतो सू. ४.] प्रथमोऽध्यायः । न पुरुषव्यापारतन्त्रा ब्रह्मविद्या । किं तर्हि, प्रत्यक्षादि- प्रमाणविषयवस्तुज्ञानवद्वस्तुतन्त्रैव । एवंभूतस्य ब्रह्मणस्तज्ज्ञा- नस्य च न कयाचिद्युक्त्या शक्यः कार्यानुप्रवेशः कल्पयि- तुम्। न च विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मण:- 'अन्यदेव तद्विदितादथो अविदितादधि' इति विदिक्रि- याकर्मत्वप्रतिषेधात्, 'येनेदं सर्वे विजानाति तं केन विजा- नीयात्' इति च । तथोपास्तिक्रियाकर्मत्वप्रतिषेधोऽपि भ- वति — 'यद्वाचानभ्युदितं येन वागभ्युद्यते' इत्यविषयत्वं ब्रह्मण उपन्यस्य, 'तदेव ब्रह्म त्वं विद्धि, नेदं यदिदमुपासते' इति । अविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरिति चेत्, न; अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य । न हि शास्त्रमि - दंतया विषयभूतं ब्रह्म प्रतिपिपादयिषति । किं तर्हि, प्रत्य- गात्मत्वेनाविषयतया प्रतिपादयत् अविद्याकल्पितं वेद्यवेदि- तृवेदनादिभेदमपनयति । तथा च शास्त्रम् — 'यस्यामतं तस्य मतं मतं यस्य न वेढ़ स: । अविज्ञातं . विजानतां विज्ञातमविजानताम्' 'न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेः श्रोतारं शृणुया न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं वि- जानीया:' इति चैवमादि । अतोऽविद्याकल्पितसंसारित्वनि- वर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणान्न मोक्षस्यानित्यत्वदोषः । सूत्रभाष्ये [पा. १. यस्य तूत्पाद्यो मोक्षः, तस्य मानसं वाचिकं कायिकं वा कार्यमपेक्षत इति युक्तम् । तथा विकार्यत्वे च । तयोः पक्षयोर्मोक्षस्य ध्रुवमनित्यत्वम् । न हि दध्यादि विकार्यम् उत्पाद्यं वा घटादि नित्यं दृष्टुं लोके । न च आप्यत्वेनापि कार्यापेक्षा, स्वात्मस्वरूपत्वे सत्यनाप्यत्वात् ; स्वरूपव्यतिरि- क्तत्वेऽपि ब्रह्मणो नाप्यत्वम्, सर्वगतत्वेन नित्या प्तस्वरूप- त्वात्सर्वेण ब्रह्मण आकाशस्येव । नापि संस्कार्यो मोक्षः, येन व्यापारमपेक्षेत । संस्कारो हि नाम संस्कार्यस्य गुणाधा- नेन वा स्यात्, दोषापनयनेन वा । न तावद्गुणाधानेन संभवति, अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य । नापि दो- षापनयनेन, नित्यशुद्धब्रह्मस्वरूपत्वान्मोक्षस्य । स्वामधर्म एव सन् तिरोभूतो मोक्षः क्रिययात्मनि संस्क्रियमाणेऽभिव्य- ज्यते—यथा आदर्शे निघर्षणक्रियया संस्क्रियमाणे भास्वरत्वं धर्म इति चेत्, न; क्रियाश्रयत्वानुपपत्तेरात्मनः । यदाश्रया क्रिया, तमविकुर्वती नैवात्मानं लभते । यद्यात्मा स्वाश्रयक्रिय- या विक्रियेत, अनित्यत्वमात्मनः प्रसज्येत । ' अविकार्योऽय- मुच्यते ' इति चैवमादीनि वाक्यानि बाध्येरन् । तच्चानिष्टम् । तस्मान्न स्वाश्रया क्रिया आत्मनः संभवति । अन्याश्रया- यास्तु क्रियाया अविषयत्वान्न तयात्मा संस्क्रियते । ननु सू. ४.] प्रथमोऽध्यायः । देहाश्रयया स्नानाचमनयज्ञोपवीतधारणादिकया क्रियया देही संस्क्रियमाणो दृष्टः, न ; देहादिसंहतस्यैवाविद्यागृहीतस्यात्मनः संस्क्रियमाणत्वात् । प्रत्यक्षं हि स्नानाचमनादेर्देहसमवायि- त्वम् । तया देहाश्रयया तत्संहत एव कश्विदविद्ययात्मत्वेन परिगृहीतः संस्क्रियत इति युक्तम् । यथा देहाश्रयचिकित्सा- निमित्तेन धातुसाम्येन तत्संहतस्य तदभिमानिन आरोग्य- फलम्, 'अहमरोग :' इति यत्र बुद्धिरुत्पद्यते — एवं स्नाना- चमनयज्ञोपवीतधारणादिकया 'अहं शुद्धः संस्कृत:' इति यत्र बुद्धिरुत्पद्यते स संस्क्रियते । स च देहेन संहत एव । तेनैव अहंकर्त्रा अहंप्रत्ययविषयेण प्रत्ययिना सर्वा: क्रिया निर्वर्त्यन्ते । तत्फलं च स एवाश्नाति, ' तयोरन्य: पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति' इति मन्त्रवर्णात्- " आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' इति च । तथा ' एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्मा- ध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च' इति, स पर्यागाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्' इति, च - एतौ मन्त्रावनाधेयातिशयतां नित्यशुद्धतां च ब्रह्मणो दर्शयतः । ब्रह्मभावश्च मोक्षः । तस्मान्न संस्कार्योऽपि मोक्षः । अतोऽन्यन्मोक्षं प्रति क्रियानुप्रवेशद्वारं न शक्यं 1 सूत्रभाष्ये [पा. १. । केनचिद्दर्शयितुम् । तस्माज्ज्ञानमेकं मुक्त्वा क्रियाया गन्ध- मात्रस्याप्यनुप्रवेश इह नोपपद्यते । ननु ज्ञानं नाम मानसी क्रिया, न; वैलक्षण्यात् । क्रिया हि नाम सा, यत्र वस्तु- स्वरूपनिरपेक्षैव चोद्यते, पुरुषचित्तव्यापाराधीना च यथा - 'यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्याये- द्वषट् करिष्यन्' इति, 'संध्यां मनसा ध्यायेत्' इति चैव- मादिषु । ध्यानं चिन्तनं यद्यपि मानसम्, तथापि पुरुषेण कर्तुमकर्तुमन्यथा वा कर्तुं शक्यम्, पुरुषतन्त्रत्वात् । ज्ञानं तु प्रमाणजन्यम् । प्रमाणं च यथाभूतवस्तुविषयम् । अतो ज्ञानं कर्तुमकर्तुमन्यथा वा कर्तुम् न शक्यम् । केवलं वस्तुत- न्त्रमेव तत् ; न चोदनातन्त्रम्, नापि पुरुषतन्त्रम् ; तस्मा- न्मानसत्वेऽपि ज्ञानस्य महद्वैलक्षण्यम् । यथा च ' पुरुषो वाव गौतमाग्निः ' ' योषा वाव गौतमाग्निः' इत्यत्र योषि- त्पुरुषयोरग्निबुद्धिर्मानसी भवति केवलचोदनाजन्यत्वात्तु क्रियैव सा पुरुषतन्त्रा च ; या तु प्रसिद्धेऽग्नावग्निबुद्धि:, न सा चोदनातन्त्रा ; नापि पुरुषतन्त्रा ; किं तर्हि, प्रत्यक्षवि - षयवस्तुतन्त्रैवेति ज्ञानमेवैतत्; न क्रिया — एवं सर्वप्र- माणविषयवस्तुषु वेदितव्यम् । तत्रैवं सति यथाभूतब्रह्मात्म- विषयमपि ज्ञानं न चोदनातन्त्रम् । तद्विषये लिङादयः ; सू. ४.] प्रथमोऽध्यायः । । ?- श्रूयमाणा अपि अनियोज्यविषयत्वात्कुण्ठीभवन्ति उपला- दिषु प्रयुक्तक्षुरतैक्ष्ण्यादिवत्, अहेयानुपादेयवस्तुविषयत्वात् । किमर्थानि तर्हि ' आत्मा वा अरे द्रष्टव्यः श्रोतव्यः' इत्या- दीनि विधिच्छायानि वचनानि ? - स्वाभाविकप्रवृत्तिवि- षयविमुखीकरणार्थानीति ब्रूमः । यो हि बहिर्मुखः प्रवर्तते पुरुष : ' इष्टं मे भूयादनिष्टं मा भूत्' इति, न च तत्रात्य- न्तिकं पुरुषार्थं लभते, तमात्यन्तिकपुरुषार्थवाञ्छिनं स्वाभा- विकात्कार्यकरणसंघातप्रवृत्तिगोचराद्विमुखीकृत्य प्रत्यगात्मत्रो- तस्तया प्रवर्तयन्ति 'आत्मा वा अरे द्रष्टव्यः' इत्यादीनि ; तस्यात्मान्वेषणाय प्रवृत्तस्याहेयमनुपादेयं चात्मतत्त्वमुपदिश्य- ते—' इदं सर्वे यदयमात्मा' ' यत्र त्वस्य सर्वमात्मैवाभूत्त- त्केन कं पश्येत्... केन कं विजानीयात् ' ' विज्ञातारमरे केन विजानीयात् ' ' अयमात्मा ब्रह्म' इत्यादिभिः । यदप्यकर्त- व्यप्रधानमात्मज्ञानं हानायोपादानाय वा न भवतीति, तत्त- थैवेत्यभ्युपगम्यते । अलंकारो ह्ययमस्माकम् — यद्ब्रह्मात्मा- वगतौ सत्यां सर्वकर्तव्यताहानिः कृतकृत्यता चेति । तथा च श्रुतिः - 'आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्' इति, 'एतडुढा बुद्धिमान्स्यात्कृतकृत्यश्च भारत' इति च स्मृतिः । तस्मान्न सूत्रभाष्ये प्रतिपत्तिविधिशेषतया ब्रह्मण: समर्पणम् ॥ , [ पा. १. यदपि केचिदाहुः -- प्रवृत्तिनिवृत्तिविधितच्छेषव्यतिरेकेण केवलवस्तुवादी वेदभागो नास्तीति तन्न; औपनिषद्स्य पुरुष- स्यानन्यशेषत्वात् योऽसावुपनिषत्स्वेवाधिगतः पुरुषोऽसंसारी ब्रह्मस्वरूपः उत्पाद्यादिचतुर्विधद्रव्यविलक्षण: स्वप्रकरणस्थो - ऽनन्यशेषः, नासौ नास्तीति नाधिगम्यत इति वा शक्यं व- दितुम् ; ' स एष नेति नेत्यात्मा' इत्यात्मशब्दात् आत्मनश्च प्रत्याख्यातुमशक्यत्वात्, य एव निराकर्ता तस्यैवात्मत्वात् । नन्वात्मा अहंप्रत्ययविषयत्वादुपनिषत्स्वेव विज्ञायत इत्यनुपप- नम्; न, तत्साक्षित्वेन प्रत्युक्तत्वात् । न ह्यंप्रत्ययविषयक- र्तृव्यतिरेकेण तत्साक्षी सर्वभूतस्थः सम एकः कूटस्थनित्यः पुरुषो विधिकाण्डे तर्कसमये वा केनचिदधिगतः सर्वस्या- त्मा । अतः स न केनचित्प्रत्याख्यातुं शक्यः, विधिशेषत्वं वा नेतुम् - आत्मत्वादेव च सर्वेषाम् - न हेयो नाप्युपादेयः । सर्वे हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति ; पुरुषो हि वि- नाशहेत्वभावादविनाशी ; विक्रियाहेत्वभावाच्च कूटस्थनित्यः ; अत एव नित्यशुद्धबुद्धमुक्तस्वभावः; तस्मात् 'पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ' ' तं त्वौपनिषदं पुरुषं प्र- च्छामि' इति चौपनिषदत्वविशेषणं पुरुषस्योपनिषत्सु प्रा- । सू. ४.] प्रथमोऽध्यायः । धान्येन प्रकाश्यमानत्वे उपपद्यते । अतो भूतवस्तुपरो वेद- भागो नास्तीति वचनं साहसमात्रम् ॥ यदपि शास्त्रतात्पर्यविदामनुक्रमणम् -'दृष्टो हि तस्यार्थः कर्मावबोधनम्' इत्येवमादि, तत् धर्मजिज्ञासाविषयत्वाद्विधि- प्रतिषेधशास्त्राभिप्रायं द्रष्टव्यम् । अपि च 'आम्नायस्य क्रियार्थ- त्वादानर्थक्यमतदर्थानाम्' इत्येतदेकान्तेनाभ्युपगच्छतां भू- तोपदेशानामानर्थक्यप्रसङ्गः । प्रवृत्तिनिवृत्तिव्यतिरेकेण भूतं चेद्वस्तूपदिशति भव्यार्थत्वेन, कूटस्थनित्यं भूतं नोपदिशतीति को हेतुः । न हि भूतमुपदिश्यमानं क्रिया भवति । अक्रि- यात्वेऽपि भूतस्य क्रियासाधनत्वात्क्रियार्थ एव भूतोपदेश इति चेत्, नैष दोष: ; क्रियार्थत्वेऽपि क्रियानिर्वर्तनशक्ति- मद्वस्तूपदिष्टमेव ; क्रियार्थत्वं तु प्रयोजनं तस्य; न चैता - वता वस्त्वनुपदिष्टं भवति । यदि नामोपदिष्टं किं तव तेन स्यादिति, उच्यते-- अनवगतात्मवस्तूपदेशश्च तथैव भवितुमर्हति ; तदवगत्या मिथ्याज्ञानस्य संसारहेतोर्निवृत्तिः प्रयोजनं क्रियत इत्यविशिष्टमर्थवत्त्वं क्रियासाधनवस्तूप- देशेन । अपि च 'ब्राह्मणो न हन्तव्यः' इति चैवमाद्या निवृत्तिरुपदिश्यते । न च सा क्रिया । नापि क्रियासाध- नम् । अक्रियार्थानामुपदेशोऽनर्थकश्चेत्, 'ब्राह्मणो न हन्त - सूत्रभाष्ये [पा. १. व्यः' इत्यादिनिवृत्त्युपदेशानामानर्थक्यं प्राप्तम् । तच्चानिष्टम् । न च स्वभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रिया- र्थत्वं कल्पयितुम्, हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण । नत्रश्चैष स्वभावः, यत्स्वसंबन्धिनोऽभावं बोधयतीति । अभावबुद्धिश्चौदासीन्ये कारणम् । सा च दग्धेन्धनाग्नि- वत्स्वयमेवोपशाम्यति । तस्मात्प्रसक्तक्रियानिवृस्यौदासीन्य- मेव ' ब्राह्मणो न हन्तव्यः' इत्यादिषु प्रतिषेधार्थ मन्यामहे, अन्यत्र प्रजापतिव्रतादिभ्यः । तस्मात्पुरुषार्थानुपयोग्युपा- .ख्यानादिभूतार्थवादविषयमानर्थक्याभिधानं द्रष्टव्यम् ॥ यदप्युक्तम्— कर्तव्यविध्यनुप्रवेशमन्तरेण वस्तुमात्रमु- च्यमानमनर्थकं स्यात् 'सप्तद्वीपा वसुमती' इत्यादिवदिति, तत्परिहृतम् ; 'रज्जुरियम्, नायं सर्प:' इति वस्तुमात्रकथ- नेऽपि प्रयोजनस्य दृष्टत्वात् । ननु श्रुतब्रह्मणोऽपि यथापूर्व संसारित्वदर्शनान्न रज्जुस्वरूपकथनवदर्थवत्त्वमित्युक्तम् ; अ- त्रोच्यते — नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वं शक्यं दर्शयितुम्, वेदप्रमाणजनितब्रह्मात्मभावविरोधात् । न हि शरीराद्यात्माभिमानिनो दुःखभयादिमत्त्वं दृष्टमिति, तस्यैव वेदप्रमाणजनितब्रह्मात्मावगमे तदभिमाननिवृत्तौ तदेव मि- याज्ञाननिमित्तं दुःखभयादिमत्त्वं भवतीति शक्यं कल्प- सू. ४.] प्रथमोऽध्यायः । यितुम् । न हि धनिनो गृहस्थस्य धनाभिमानिनो धनापहा- रनिमित्तं दुःखं दृष्टमिति, तस्यैव प्रब्रजितस्य धनाभिमान- रहितस्य तदेव धनापहारनिमित्तं दुःखं भवति । न च कुण्डलिनः कुण्डलित्वाभिमाननिमित्तं सुखं दृष्टमिति तस्यैव कुण्डलवियुक्तस्य कुण्डलित्वाभिमानरहितस्य तदेव कुण्डलि- त्वाभिमाननिमित्तं सुखं भवति । तदुक्तं श्रुत्या- 'अश- रीरं वाव सन्तं न प्रियाप्रिये स्पृशत:' इति । शरीरे पतिते- ऽशरीरत्वं स्यात्, न जीवत इति चेत्, न; सशरीरत्वस्य मिथ्याज्ञाननिमित्तत्वात् । न ह्यात्मनः शरीरात्माभिमानल- क्षणं मिथ्याज्ञानं मुक्त्वा अन्यतः सशरीरत्वं शक्यं कल्प- यितुम् । नित्यमशरीरत्वमकर्मनिमित्तत्वादित्यवोचाम । त- त्कृतधर्माधर्मनिमित्तं सशरीरत्वमिति चेत्, न; शरीरसंबन्ध- स्यासिद्धत्वात् धर्माधर्मयोरात्मकृतत्वासिद्धेः, शरीरसंबन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसङ्गात् ; अन्धपरम्प- रैषा अनादित्वकल्पना, क्रियासमवायाभावाच्चात्मन: कर्तृत्वा- नुपपत्तेः । संनिधानमात्रेण राजप्रभृतीनां दृष्टं कर्तृत्वमिति चेत्, न; धनदानाद्युपार्जितभृत्यसंबन्धित्वात्तेषां कर्तृत्वो- पपत्तेः; न त्वात्मनो धनदानादिवच्छरीरादिभिः स्वस्वामिभा- वसंबन्धनिमित्तं किंचिच्छक्यं कल्पयितुम् । मिथ्याभिमानस्तु सूत्रभाष्ये [पा. १. - प्रत्यक्षः संबन्धहेतुः । एतेन यजमानत्वमात्मनो व्याख्यातम् । अबाहुः– देहादिव्यतिरिक्तस्यात्मनः आत्मीये देहादावहमभि- मानो गौणः, न मिथ्येति चेत्, न ; प्रसिद्धवस्तुभेदस्य गौणत्व- मुख्यत्वप्रसिद्धेः । यस्य हि प्रसिद्धो वस्तुभेदः यथा केस- रादिमानाकृतिविशेषोऽन्वयव्यतिरेकाभ्यां सिंहशब्द प्रत्ययभाङ् मुख्योऽन्यः सिद्धः, ततश्चान्यः पुरुषः प्रायिकैः क्रौर्यशौर्या - दिभिः सिंहगुणैः संपन्न: सिद्ध:, तस्य तस्मिन्पुरुषे सिंहशब्द- प्रत्ययौ गौणौ भवतः; नाप्रसिद्धवस्तुभेदस्य । तस्य त्वन्यत्रान्य- शब्दप्रत्ययौ भ्रान्तिनिमित्तावेव भवतः, न गौणौ ; यथा मन्दा- न्धकारे स्थाणुरयमित्यगृह्यमाणविशेषे पुरुषशब्दप्रत्ययौ स्था- णुविषयौ, यथा वा शुक्तिकायामकस्माद्रजतमिदमिति निश्चितौ शब्दप्रत्ययौ, तद्वद्देहादिसंघाते, अहम् इति निरुपचारेण शब्द- प्रत्ययावात्मानात्माविवेकेनोत्पद्यमानौ कथं गौणौ शक्यौ वदि- तुम् । आत्मानात्मविवेकिनामपि पण्डितानामजाविपालाना- मिवाविविक्तौ शब्दप्रत्ययौ भवतः । तस्माद्देहादिव्यतिरिक्ता- त्मास्तित्ववादिनां देहादावप्रत्ययो मिथ्यैव, न गौणः । तस्मान्मिथ्याप्रत्ययनिमित्तत्वात्सशरीरत्वस्य, सिद्धं जीवतो- ऽपि विदुषोऽशरीरत्वम् । तथा च ब्रह्मविद्विषया श्रुति:- 'तद्यथाहिनियनी वल्मीके मृता प्रत्यस्ता शयीतैवमे- सू. ४.] प्रथमोऽध्यायः । वेद৺शरीरं शेते अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव' इति ; ' सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव सवागवागिव सम- ना अमना इव सप्राणोऽप्राण इव' इति च । स्मृतिरपि - ' स्थितप्रज्ञस्य का भाषा' इत्याद्या स्थितप्रज्ञस्य लक्षणान्याच- क्षाणा विदुषः सर्वप्रवृत्त्यसंबन्धं दर्शयति । तस्मान्नावगत- ब्रह्मात्मभावस्य यथापूर्व संसारित्वम् । यस्य तु यथापूर्व संसारित्वं नासाववगतब्रह्मात्मभाव इत्यनवद्यम् ॥ यत्पुनरुक्तं श्रवणात्पराचीनयोर्मनननिदिध्यासनयोर्दर्शना- द्विधिशेषत्वं ब्रह्मणः, न स्वरूपपर्यवसायित्वमिति, तन्न ; नव- णवदवगत्यर्थत्वान्मनननिदिध्यासनयोः । यदि ह्यवगतं ब्रह्मा- न्यत्व विनियुज्येत, भवेत्तदा विधिशेषत्वम् ; न तु तदस्ति, मनननिदिध्यासनयोरपि श्रवणवदवगत्यर्थत्वात् । तस्मान्न प्रतिपत्तिविधिविषयतया शास्त्रप्रमाणकत्वं ब्रह्मणः संभव- तीत्यतः स्वतन्त्रमेव ब्रह्म शास्त्रप्रमाणकं वेदान्तवाक्यसम- न्वयादिति सिद्धम् । एवं च सति ' अथातो ब्रह्मजिज्ञासा' इति तद्विषय: पृथक् शास्त्रारम्भ उपपद्यते । प्रतिपत्तिवि- धिपरत्वे हि 'अथातो धर्मजिज्ञासा' इत्येवारब्धत्वान्न पृथक् शास्त्रमारभ्येत ; आरभ्यमाणं चैवमारभ्येत — अथातः परि- शिष्टधर्मजिज्ञासेति, 'अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा' S. W. 1. 3 - सूत्रभाष्ये [पा. १. इतिवत् । ब्रह्मात्मैक्यावगतिस्त्वप्रतिज्ञातेति तदर्थों युक्तः 'अथातो ब्रह्मजिज्ञासा' इति । तस्मात् शास्त्रारम्भ:- - अहं ब्रह्मास्मीत्येतदवसाना एव सर्वे विधयः सर्वाणि चेत- राणि प्रमाणानि । न ह्ययानुपादेया द्वैतात्मावगतौ सत्याम्, निर्विषयाण्यप्रमातृकाणि च प्रमाणानि भवितुमर्हन्तीति । अपि चाहु:-- 'गौणमिथ्यात्मनोऽसत्वे पुत्रदेहादिबाधनात् । स- ब्रह्मात्माहमित्येवं बोधे कार्यं कथं भवेत् ॥ अन्वेष्टव्यात्म- विज्ञानात्प्राक्प्रमातृत्वमात्मनः । अन्विष्टः स्यात्प्रमातैव पा- प्मदोषादिवर्जितः ॥ देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात्' इति ॥ एवं तावद्वेदान्तवाक्यानां ब्रह्मात्मावगतिप्रयोजनानां ब्र- ह्मात्मनि तात्पर्येण समन्वितानामन्तरेणापि कार्यानुप्रवेशं ब्रह्मणि पर्यवसानमुक्तम् । ब्रह्म च सर्वज्ञं सर्वशक्ति जगदु- त्पत्तिस्थितिलयकारणमित्युक्तम् । सांख्यादयस्तु परिनिष्ठितं वस्तु प्रमाणान्तरगम्यमेवेति मन्यमानाः प्रधानादीनि कार- णान्तराण्यनुमिमानास्तत्परतयैव वेदान्तवाक्यानि योजय- न्ति । सर्वेष्वेव वेदान्तवाक्येषु सृष्टिविषयेष्वनुमानेनैव कार्येण कारणं लिलक्षयिषितम् । प्रधानपुरुषसंयोगा नित्यानुमेया इति सांख्या मन्यन्ते । काणादास्त्वेतेभ्य एव वाक्येभ्य सू. ४.] प्रथमोऽध्यायः । ईश्वरं निमित्तकारणमनुमिमते, अणूंश्च समवायिकारणम् । एवमन्येऽपि तार्किका वाक्याभासयुक्त्याभासावष्टम्भाः पूर्व- पक्षवादिन इहोत्तिष्ठन्ते । तत्र पदवाक्यप्रमाणज्ञेनाचार्येण वेदान्तवाक्यानां ब्रह्मात्मावगतिपरत्वप्रदर्शनाय वाक्याभा- सयुक्त्याभासप्रतिपत्तयः पूर्वपक्षीकृत्य निराक्रियन्ते ॥ तत्र सांख्या: प्रधानं त्रिगुणमचेतनं स्वतन्त्रं जगत्कारण- मिति मन्यमाना आहु:-- यानि वेदान्तवाक्यानि सर्वज्ञस्य सर्वशक्तेर्ब्रह्मणो जगत्कारणत्वं प्रदर्शयन्तीत्यवोचः, तानि प्रधानकारणपक्षेऽपि योजयितुं शक्यन्ते । सर्वशक्तित्वं ताव- त्प्रधानस्यापि स्वविकारविषयमुपपद्यते । एवं सर्वज्ञत्वमप्युप- पद्यते ; कथम् ? यत्त्वं ज्ञानं मन्यसे, स सत्त्वधर्म:, 'सत्त्वात्सं- जायते ज्ञानम्' इति स्मृतेः । तेन च सत्त्वधर्मेण ज्ञानेन कार्य- करणवन्तः पुरुषाः सर्वज्ञा योगिनः प्रसिद्धाः । सत्त्वस्य ह निरतिशयोत्कर्षे सर्वज्ञत्वं प्रसिद्धम् । न केवलस्य अकार्य- करणस्य पुरुषस्योपलब्धिमात्रस्य सर्वज्ञत्वं किंचिज्ज्ञत्वं वा कल्पयितुं शक्यम् । त्रिगुणत्वात्तु प्रधानस्य सर्वज्ञानकार- णभूतं सत्त्वं प्रधानावस्थायामपि विद्यत इति प्रधानस्या- चेतनस्यैव सतः सर्वज्ञत्वमुपचर्यते वेदान्तवाक्येषु । अवश्यं च त्वयापि सर्वज्ञं ब्रह्मेत्यभ्युपगच्छता सर्वज्ञानशक्तिमत्त्वेनैव . सूत्रभाष्ये [पा. १. सर्वज्ञत्वमभ्युपगन्तव्यम् । न हि सर्वदा सर्वविषयं ज्ञानं कुर्व - देव ब्रह्म वर्तते । तथाहि — ज्ञानस्य नित्यत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यं ब्रह्मणो हीयेत; अथानित्यं तदिति ज्ञानक्रियाया उपरमे उपरमेतापि ब्रह्म, तदा सर्वज्ञानशक्तिमत्त्वेनैव सर्व- ज्ञत्वमापतति । अपि च प्रागुत्पत्तेः सर्वकारकशून्यं ब्रह्मेष्यते . त्वया । न च ज्ञानसाधनानां शरीरेन्द्रियादीनामभावे ज्ञानो- त्पत्तिः कस्यचिदुपपन्ना । अपि च प्रधानस्यानेकात्मकस्य परिणामसंभवात्कारणत्वोपपत्तिर्मृदादिवत् नासंहतस्यैका- त्मकस्य ब्रह्मणः ;— इत्येवं प्राप्ते, इदं सूत्रमारभ्यते- I ईक्षतेर्नाशब्दम् ॥ ५ ॥ न सांख्यपरिकल्पितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेष्वाश्रयितुम् । अशब्दं हि तत् । कथमशब्द- ५. ईक्षत्यधि- त्वम् ? ईश्ते: ईक्षितृत्वश्रवणात्कारणस्य । करणम् । कथम् ? एवं हि श्रूयते— ' सदेव सो- म्येदमग्र आसीदेकमेवाद्वितीयम्' इत्युपक्रम्य ' तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत' इति । तत्र इदंशब्दवा- त्र्यं नामरूपव्याकृतं जगत् प्रागुत्पत्तेः सदात्मनावधार्य, तस्यैव प्रकृतस्य सच्छब्दवाच्यस्येक्षणपूर्वकं तेजःप्रभृतेः स्रष्टृत्वं दर्शयति । तथान्यत्र -- ' आत्मा वा इदमेक एवाश्र सू. ५.] प्रथमोऽध्यायः । आसीत् । नान्यत्किंचन मिषत् । स ईक्षत लोकान्नु सृजा इति । स इमाल्लोकानसृजत' इतीक्षापूर्विकामेव सृष्टिमा - चष्टे । कचिच्च षोडशकलं पुरुषं प्रस्तुत्याह — स ईक्षां- चक्रे, स प्राणमसृजत' इति । ईक्षतेरिति च धात्वर्थनिर्दे- शोऽभिप्रेतः, यजतेरितिवत्, न धातुनिर्देशः । तेन ' यः स- र्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूप- मन्नं च जायते' इत्येवमादीन्यपि सर्वज्ञेश्वरकारणपराणि वाक्यान्युदाहर्तव्यानि ॥ यत्क्तं सत्त्वधर्मेण ज्ञानेन सर्वज्ञं प्रधानं भविष्यतीति, तन्नोपपद्यते । न हि प्रधानावस्थायां गुणसाम्यात्सत्त्वधर्मो ज्ञानं संभवति । ननूक्तं सर्वज्ञानशक्तिमत्त्वेन सर्वज्ञं भवि- ष्यतीति ; तदपि नोपपद्यते । यदि गुणसाम्ये सति सत्त्वव्यपाश्रयां ज्ञानशक्तिमाश्रित्य सर्वज्ञं प्रधानमुच्येत, कामं रजस्तमोव्यपाश्रयामपि ज्ञानप्रतिबन्धकशक्तिमाश्रित्य किंचिज्ज्ञमुच्येत । अपि च नासांक्षिका सत्त्ववृत्ति- र्जानातिना अभिधीयते । न चाचेतनस्य प्रधानस्य साक्षि- त्वमस्ति । तस्मादंनुपपन्नं प्रधानस्य सर्वज्ञत्वम् । योगिनां तु चेतनत्वात्सत्त्वोत्कर्षनिमित्तं सर्वज्ञत्वमुपपन्नमित्यनुदाहरणम् । अथ पुनः साक्षिनिमित्तमीक्षितृत्वं प्रधानस्यापि कल्प्येत, सूत्रभाष्ये [ पा. १ . यथाग्निनिमित्तमयःपिण्डादेर्दग्धृत्वम् ; तथा सति यन्निमि- त्तमीक्षितृत्वं प्रधानस्य, तदेव सर्वज्ञं ब्रह्म मुख्यं जगतः कारणमिति युक्तम् । यत्पुनरुक्तं ब्रह्मणोऽपि न मुख्यं सर्वज्ञत्वमुपपद्यते, नित्यज्ञानक्रियत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यासंभवादिति ; अत्रोच्यते— इदं तावद्भवान्प्र- ष्टव्यः——- कथं नित्यज्ञान क्रियत्वे सर्वज्ञत्वहानिरिति । यस्य हि सर्वविषयावभासनक्षमं ज्ञानं नित्यमस्ति, सोऽस- र्वज्ञ इति विप्रतिषिद्धम् । अनित्यत्वे हि ज्ञानस्य, कदाचि - जानाति कदाचिन्न जानातीत्य सर्वज्ञत्वमपि स्यात् । नासौ ज्ञाननित्यत्वे दोषोऽस्ति । ज्ञाननित्यत्वे ज्ञानविषयः स्वात- न्यव्यपदेशो नोपपद्यते इति चेत्, न; प्रततौष्ण्यप्रकाशेऽपि सवितरि ' दहति ' ' प्रकाशयति ' इति स्वातन्त्र्यव्यपदेशदर्श- नात् । ननु सवितुर्दाह्यप्रकाश्यसंयोगे सति ' दहति ' ' प्रकाशयति' इति व्यपदेशः स्यात् ; न तु ब्रह्मणः प्रागु- त्पत्तेर्ज्ञानकर्मसंयोगोऽस्तीति विषमो दृष्टान्तः । न; अस- त्यपि कर्मणि 'सविता प्रकाशते' इति कर्तृत्वव्यपदेशदर्श- नात्, एवमसत्यपि ज्ञानकर्मणि ब्रह्मण: ' तदैक्षत' इति कर्तृ- त्वव्यपदेशोपपत्तेर्न वैषम्यम् । कर्मापेक्षायां तु ब्रह्मणि ईक्षि- तृत्वश्रुतयः सुतरामुपपन्नाः । किं पुनस्तत्कर्म, यत्प्रागुत्पत्ते- सू. ५. ] प्रथमोऽध्यायः । रीश्वरज्ञानस्य विषयों भवतीति — तत्त्वान्यत्वाभ्यामनिर्व- चनीये नामरूपे अव्याकृते व्याचिकीर्षिते इति ब्रूमः । यत्प्रसादाद्धि योगिनामप्यतीतानागतविषयं प्रत्यक्षं ज्ञानमि- च्छन्ति योगशास्त्रविदः, किमु वक्तव्यं तस्य नित्यसिद्धस्ये- श्वरस्य सृष्टिस्थितिसंहृतिविषयं नित्यज्ञानं भवतीति । यद- प्युक्तं प्रागुत्पत्तेर्ब्रह्मणः शरीरादिसंबन्धमन्तरेणेक्षितृत्वमनुप- पन्नमिति, न तच्चोद्यमवतरति ; सवितृप्रकाशवद्ब्रह्मणो ज्ञान- स्वरूपनित्यत्वे ज्ञानसाधनापेक्षानुपपत्तेः । अपि चाविद्यादि- मतः संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यात् ; न ज्ञान- प्रतिबन्धकारणरहितस्येश्वरस्य । मन्त्रौ चेमावीश्वरस्य शरी- राद्यनपेक्षतामनावरणज्ञानतां च दर्शयतः - 'न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ' इति । 'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्ण: । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहु- रग्र्यं पुरुषं महान्तम्' इति च । ननु नास्ति तव ज्ञानप्र- तिबन्धकारणरहितेश्वरादन्यः संसारी – 'नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति विज्ञाता' इत्यादिश्रुतेः; तत्र किमिद- मुच्यते— संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः, नेश्वरस्ये- सूत्रभाष्ये [ पा. १. ति ? अत्रोच्यते— सत्यं नेश्वरादन्यः संसारी; तथापि देहादि- संघातोपाधिसंबन्ध इष्यत एव घटकरकगिरिगुहाद्युपाधि- संबन्ध इव व्योम्नः ; तत्कृतश्च शब्दप्रत्ययव्यवहारो लोकस्य दृष्टः — 'घटच्छिद्रम्' 'करकच्छिद्रम्' इत्यादिः, आ- काशाव्यतिरेकेऽपि ; तत्कृता चाकाशे घटाकाशादिभेदमि- थ्याबुद्धिर्दृष्टा ; तथेहापि देहादिसंघातोपाधिसंबन्धाविवेक- कृतेश्वरसंसारिभेदमिथ्याबुद्धिः । दृश्यते चात्मन एव सतो देहादिसंघातेऽनात्मन्यात्मत्वाभिनिवेशो मिथ्याबुद्धिमात्रेण पूर्वपूर्वेण । सति चैवं संसारित्वे देहाद्यपेक्षमीक्षितृत्वमुपपन्नं संसारिणः । यदप्युक्तं प्रधानस्यानेकात्मकत्वान्मृदादिवत्का- रणत्वोपपत्तिर्नासंहतस्य ब्रह्मण इति, तत्प्रधानस्याशब्दत्वे- नैव प्रत्युक्तम् । यथा तु तर्केणापि ब्रह्मण एव कारणत्वं निर्वोढुं शक्यते, न प्रधानादीनाम्, तथा प्रपञ्चयिष्यति 'न विलक्षणत्वादस्य - ' इत्येवमादिना ॥ अत्राह — यदुक्तं नाचेतनं प्रधानं जगत्कारणमीक्षितृ- त्वश्रवणादिति, तदन्यथाप्युपपद्यते ; अचेतनेऽपि चेतनव- दुपचारदर्शनात् । यथा प्रत्यासन्नपतनतां नद्याः कूलस्या- लक्ष्य ' कूलं पिपतिषति' इत्यचेतनेऽपि कूले चेतनवदुप- चारो दृष्टः, तद्वदचेतनेऽपि प्रधाने प्रत्यासन्नसर्गे चेतनवदुप- सू. ६.] प्रथमोऽध्यायः । चारो भविष्यति ' तदैक्षत' इति । यथा लोके कश्चिच्श्चेतनः स्नात्वा भुक्त्वा चापराह्ने 'ग्रामं रथेन गमिष्यामि ' इती- क्षित्वा अनन्तरं तथैव नियमेन प्रवर्तते, तथा प्रधानमपि महदाद्याकारेण नियमेन प्रवर्तते; तस्माच्चेतनवदुपचर्यते । कस्मात्पुनः कारणात् विहाय मुख्यमीक्षितृत्वम् औपचारिकं कल्प्यते ? ' तत्तेज ऐक्षत' 'ता आप ऐक्षन्त' इति चाचेतनयोरप्यप्तेजसोश्चेतनवदुपचारदर्शनात्; तस्मात्सत्क- र्तृकमपीक्षणमौपचारिकमिति गम्यते, उपचारप्राये वचनात् ; -- इत्येवं प्राप्ते, इदं सूत्रमारभ्यते— . गौणश्चेन्नात्मशब्दात् ॥ ६ ॥ यदुक्तं प्रधानमचेतनं सच्छब्दवाच्यं तस्मिन्नौपचारिकमी- क्षितृत्वम् अप्तेजसोरिवेति, तदसत् । कस्मात् ? आत्मशब्दात् ; 'सदेव सोम्येदमग्र आसीत्' इत्युपक्रम्य, ' तदैक्षत' ' तत्ते- जोऽसृजत' इति च तेजोबन्नानां सृष्टिमुक्त्वा, तदेव प्रकृतं सदीक्षित तानि च तेजोबन्नानि देवताशब्देन परामृश्याह- 'सेयं देवतैक्षत' ' हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्म- नानुप्रविश्य नामरूपे व्याकरवाणि ' इति । तत्र यदि प्रधान- मचेतनं गुणवृत्त्येक्षितृ कल्प्येत, तदेव प्रकृतत्वात् 'सेयं देवता' इति परामृश्येत ; न तदा देवता जीवमात्मशब्देनाभिदध्यात् । सूत्रभाष्ये [पा. १. जीवो हि नाम चेतनः शरीराध्यक्षः प्राणानां धारयिता, त- त्प्रसिद्धेर्निर्वचनाच्च । स कथमचेतनस्य प्रधानस्यात्मा भवेत् । आत्मा हि नाम स्वरूपम् । नाचेतनस्य प्रधानस्य चे- तनो जीवः स्वरूपं भवितुमर्हति । अथ तु चेतनं ब्रह्म मु- ख्यमीक्षितृ परिगृह्येत, तस्य जीवविषय आत्मशब्दप्रयोग उपपद्यते । तथा ' स य एषोऽणिमैतदात्म्यमिद सर्वे त- त्सत्य৺स आत्मा तत्त्वमसि श्वेतकेतो' इत्यत्र 'स आत्मा' इति प्रकृतं सदणिमानमात्मानमात्मशब्देनोपदिश्य, 'तत्त्व- मसि श्वेतकेतो' इति चेतनस्य श्वेतकेतोरात्मत्वेनोपदिशति । अप्प्रेजसोस्तु – विषयत्वादचेतनत्वम्, नामरूपव्याकरणादौ च प्रयोज्यत्वेनैव निर्देशात्, न चात्मशब्दवत्किंचिन्मुख्यत्वे कारणमस्तीति — युक्तं कूलवद्गौणत्वमीक्षितृत्वस्य । तयोरपि सदधिष्ठितत्वापेक्षमेवेक्षितृत्वम् । सतस्त्वात्मशब्दान्न गौण- मीक्षितृत्वमित्युक्तम् ॥ अथोच्येत — अचेतनेऽपि प्रधाने भवत्यात्मशब्द:, आ- त्मनः सर्वार्थकारित्वात्; यथा राज्ञः सर्वार्थकारिणि भृत्ये भवत्यात्मशब्द: ' ममात्मा भद्रसेन:' इति । प्रधानं हि पुरुषस्यात्मनो भोगापवर्गों कुर्वदुपकरोति, राज्ञ इव भृत्यः संधिविग्रहादिषु वर्तमानः । अथवैक एवात्मशब्दश्चेतनाचे- सू. ७.] प्रथमोऽध्यायः । तनविषयो भविष्यति, 'भूतात्मा' 'इन्द्रियात्मा' इति च प्रयोगदर्शनात्; यथैक एव ज्योतिः शब्दः क्रतुज्वलन- विषयः । तत्र कुत एतदात्मशब्दादीक्षतेरंगौणत्वमित्यत उ- त्तरं पठति- - तन्निष्ठस्य मोक्षोपदेशात् ॥ ७ ॥ न प्रधानमचेतनमात्मशब्दालम्बनं भवितुमर्हति ; 'स आत्मा' इति प्रकृतं सदणिमानमादाय, 'तत्त्वमसि श्वेत- केतो' इति चेतनस्य श्वेतकेतोर्मोक्षयितव्यस्य तन्निष्ठामुप- दिश्य, ' आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये' इति मोक्षोपदेशात् । यदि ह्यचेतनं प्रधानं सच्छब्दवाच्यम् ' तत् असि' इति प्राहयेत् मुमुक्षं चेतनं सन्तमचेतनोऽसीति, तदा विपरीतवादि शास्त्रं पुरुष- म्यानर्थायेत्यप्रमाणं स्यात् । न तु निर्दोषमिदं शास्त्रमप्रमाणं कल्पयितुं युक्तम् । यदि चाज्ञस्य सतो मुमुक्षोरचेतनमनात्मा- नमात्मेत्युपदिशेत्प्रमाणभूतं शास्त्रम्, स श्रद्दधानतया अन्ध- गोलाङ्गूलन्यायेन तदात्मदृष्टिं न परित्यजेत् तद्व्यतिरिक्तं चात्मानं न प्रतिपद्येत; तथा सति पुरुषार्थाद्विहन्येत, अनर्थं वा ऋच्छेत् । तस्माद्यथा स्वर्गाद्यर्थिनोऽग्निहोत्रादि- साधनं यथाभूतमुपदिशति, तथा मुमुक्षोरपि 'स आत्मा सूत्रभाष्ये [ पा. १. तत्त्वमसि श्वेतकेतो' इति यथाभूतमेवात्मानमुपदिशतीति युक्तम् । एवं च सति तप्तपरशुग्रहणमोक्षदृष्टान्तेन सत्या - भिसंधस्य मोक्षोपदेश उपपद्यते । अन्यथा ह्यमुख्ये सदा- त्मतत्त्वोपदेशे, 'अहमुक्थमस्मीति विद्यात्' इतिवत्संपन्मा- वमिदमनित्यफलं स्यात्; तत्व मोक्षोपदेशो नोपपद्येत । तस्मान्न सदणिमन्यात्मशब्दस्य गौणत्वम् । भृत्ये तु स्वामि- भृत्यभेदस्य प्रत्यक्षत्वादुपपन्नो गौण आत्मशब्द: ' ममात्मा भद्रसेन:' इति । अपि च क्वचिद्रौणः शब्दो दृष्ट इति नैतावता शब्दप्रमाणकेऽर्थे गौणीकल्पना न्याय्या, सर्व- त्रानाश्वासप्रसङ्गात् । यत्क्तं चेतनाचेतनयोः साधारण आ- स्मशब्द:, क्रतुज्वलनयोरिव ज्योतिः शब्द इति, तन्न ; अने- कार्थत्वस्यान्याय्यत्वात् । तस्माच्चेतनविषय एव मुख्य आत्म- शब्दश्चेतनत्वोपचाराद्भूतादिषु प्रयुज्यते - 'भूतात्मा' ' इ- न्द्रियात्मा' इति च । साधारणत्वेऽप्यात्मशब्दस्य न प्रक- रणमुपपदं वा किंचिन्निश्चायकमन्तरेणान्यतरवृत्तिता निर्धा- रयितुं शक्यते । न चात्राचेतनस्य निश्चायकं किंचित्कार- णमस्ति । प्रकृतं तु सदीक्षितृ संनिहितश्च चेतनः श्वेतकेतुः । न हि चेतनस्य श्वेतकेतोरचेतन आत्मा संभवतीत्यवोचाम । तस्माच्चेतनविषय इहात्मशब्द इति निश्चीयते । ज्योति: श- सू. ८.] प्रथमोऽध्यायः । ब्दोऽपि लौकिकेन प्रयोगेण ज्वलन एव रूढः, अर्थवादक- ल्पितेन तु ज्वलनसादृश्येन ऋतौ प्रवृत्त इत्यदृष्टान्तः । अथवा पूर्वसूत्र एवात्मशब्दं निरस्तसमस्तगौणत्वसाधारण- त्वाशङ्कतया व्याख्याय, ततः स्वतन्त्र एव प्रधानकारणनिरा- करणहेतुर्व्याख्येयः — ' तन्निष्ठस्य मोक्षोपदेशात्' इति । तस्मान्नाचेतनं प्रधानं सच्छब्दवाच्यम् ॥ कुतश्च न प्रधानं सच्छब्दवाच्यम :- हेयत्वावचनाच्च ॥ ८ ॥ यद्यनात्मैव प्रधानं सच्छब्दवाच्यम, 'स आत्मा तत्त्वम- सि' इतीहोपदिष्टं स्यात्; स तदुपदेशश्रवणादनात्मज्ञतया त- निष्ठो मा भूदिति, मुख्यमात्मानमुपदिदिक्षु शास्त्रं तस्य हेयत्वं ब्रूयात् । यथारुन्धतीं दिदर्शयिषुस्तत्समीपस्थां स्थूलां ताराम- मुख्यां प्रथममरुन्धतीति प्राहयित्वा तां प्रत्याख्याय, पश्चाद- रुन्धतीमेव ग्राहयति ; तद्वन्नायमात्मेति ब्रूयात् । न चैवम- बोचत्। सन्मात्रात्मावगतिनिष्ठैव हि षष्ठप्रपाठके परिसमाप्ति- र्दृश्यते । च-शब्दः प्रतिज्ञाविरोधाभ्युच्चयप्रदर्शनार्थः । सत्यपि हेयत्ववचने प्रतिज्ञाविरोधः प्रसज्येत । कारणविज्ञानाद्धि स- । विज्ञातमिति प्रतिज्ञातम् - ' उत तमादेशमप्राक्ष्यो येना- . सूत्रभाष्ये. [ पा. १. श्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति ; कथं नु भगवः स आदेशो भवतीति; यथा सोम्यैकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ' ' एवं सोम्य स आदेशो भव- ति' इति वाक्योपक्रमे श्रवणात् । न च सच्छब्दवाच्ये प्र- धाने भोग्यवर्गकारणे हेयत्वेनाहेयत्वेन वा विज्ञाते भोक्तृव - र्गो विज्ञातो भवति, अप्रधानविकारत्वाद्भोक्तृवर्गस्य । तस्मा- न्न प्रधानं सच्छब्दवाच्यम् ॥ कुतश्च न प्रधानं संच्छब्दवाच्यम् ?- ॥ - स्वाप्ययात् ॥ ९ ॥ तदेव सच्छब्दवाच्यं कारणं प्रकृत्य श्रूयते—' यत्रैतत्पु- रुषः स्वपिति नाम, सता सोम्य तदा संपन्नो भवति ; स्व- मपीतो भवति ; तस्मादेनं स्वपितीत्याचक्षते ; स्वं ह्यपीतो भ- वति' इति । एषा श्रुति: स्वपितीत्येतत्पुरुषस्य लोकप्रसिद्धं नाम निर्वक्ति । स्वशब्देनेहात्मोच्यते । यः प्रकृतः सच्छव्द- वाच्यस्तमपीतो भवत्यपिगतो भवतीत्यर्थः । अपिपूर्वस्यैतेर्ल- यार्थत्वं प्रसिद्धम्, प्रभवाप्ययावित्युत्पत्तिप्रलययोः प्रयोगद- र्शनात् । मनःप्रचारोपाधिविशेषसंबन्धादिन्द्रियार्थान्गृहंस्त- सू. १०.] प्रथमोऽध्यायः । द्विशेषापन्नो जीवो जागर्ति ; तद्वासनाविशिष्टः स्वप्नान्पश्य- न्मनः शब्दवाच्यो भवति स उपाधिद्वयोपरमे सुषुप्तावस्था- ; यामुपाधिकृतविशेषाभावात्स्वात्मनि प्रलीन इवेति 'स्वं ह्यपी - तो भवति' इत्युच्यते । यथा हृदयशब्दनिर्वचनं श्रुत्या द- शितम् —'स वा एष आत्मा हृदि, तस्यैतदेव निरुक्तम्- हृद्ययमिति ; तस्माद्धृदयमिति'; यथा वाशनायोदन्याशब्द- प्रवृत्तिमूलं दर्शयति श्रुतिः - ' आप एव तदशितं नयन्ते ' 'तेज एव तत्पीतं नयते ' इति च ; ' एवं स्वमात्मानं सच्छब्द- वाच्यमपीतो भवति' इतीममर्थ स्वपितिनामनिर्वचनेन दर्श- यति । न च चेतन आत्मा अचेतनं प्रधानं स्वरूपत्वेन प्रतिप- द्येत । यदि पुनः प्रधानमेवात्मीयत्वात्स्वशब्देनैवाच्येत, एव- मपि चेतनोऽचेतनमप्येतीति विरुद्धमापद्येत । श्रुत्यन्तरं च- 'प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम्' इति सुषुप्तावस्थायां चेतने अप्ययं दर्शयति । अतो यस्मिन्न- प्ययः सर्वेषां चेतनानां तच्चेतनं सच्छब्दवाच्यं जगतः कारणं स्यात्, नाचेतनं प्रधानम् ॥ कुतश्च न प्रधानं जगतः कारणम् ?- गतिसामान्यात् ॥ १० ॥ यदि तार्किकसमय इव वेदान्तेष्वपि भिन्ना कारणावग- सूत्रभाष्ये [पा. १. गतिरभविष्यत्, क्वचिश्चेतनं ब्रह्म जगतः कारणम्, कचि- दचेतनं प्रधानम्, क्वचिदन्यदेवेति ; ततः कदाचित्प्रधान- कारणवादानुरोधेनापीक्षत्यादिश्रवणमकल्पयिष्यत् । न त्वे- तदस्ति । समानैव हि सर्वेषु वेदान्तेषु चेतनकारणाव- गतिः । 'यथाग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रति- ष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोका:' इति, ' तस्माद्वा एतस्मा- दात्मन आकाशः संभूतः ' इति, 'आत्मन एवेदं सर्वम्' इति, 'आत्मन एष प्राणो जायते' इति च आत्मन: कारणत्वं दर्श- यन्ति सर्वे वेदान्ताः । आत्मशब्दश्च चेतनवचन इत्यवोचाम । महञ्च प्रामाण्यकारणमेतत् यद्वेदान्तवाक्यानां चेतनकार - णत्वे समानगतित्वम्, चक्षुरादीनामिव रूपादिषु । अतो . गतिसमान्यात्सर्वज्ञं ब्रह्म जगतः कारणम् ॥ कुतश्च सर्वज्ञं ब्रह्म जगतः कारणम् ? - श्रुतत्वाच्च ॥ ११ ॥ स्वशब्देनैव च सर्वज्ञ ईश्वरो जगतः कारणमिति श्रूयते, श्वेताश्वतराणां मन्त्रोपनिषदि सर्वज्ञमीश्वरं प्रकृत्य - 'स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः ' सू. ११.] प्रथमोऽध्यायः । नाचेतनं प्रधा- इति । तस्मात्सर्वज्ञं ब्रह्म जगतः कारणम्, नमन्यद्वेति सिद्धम् ॥ " 'जन्माद्यस्य यत:' इत्यारभ्य 'श्रुतत्वाच्च' इत्येतदन्तैः सूखैर्यान्युदाहृतानि वेदान्तवाक्यानि तेषां सर्वज्ञः सर्वशक्ति- रीश्वरो जगतो जन्मस्थितिप्रलयकारणमित्येतस्यार्थस्य प्रति- पादकत्वं न्यायपूर्वकं प्रतिपादितम् । गतिसामान्योपन्या- सेन च सर्वे वेदान्ताश्चेतनकारणवादिन इति व्याख्यातम् । अत: परस्य ग्रन्थस्य किमुत्थानमिति, उच्यते— द्विरूपं हि ब्रह्मावगम्यते— नामरूपविकारभेदोपाधिविशिष्टम्, तद्विप- रीतं च सर्वोपाधिविवर्जितम् । 'यत्र हि द्वैतमिव भवति तदि- तर इतरं पश्यति, यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा ; अथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तद- ल्पम् ; यो वै भूमा तदमृतम् ; अथ यदल्पं तन्मर्त्यम् ' सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते ' ' निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । अमृतस्य परं सेतुं दग्धेन्धनमिवानलम् ' ' नेति नेति' ' अस्थूलमनण्व- ह्रस्वमदीर्घम्' इति, 'न्यूनमन्यत्स्थानं संपूर्णमन्यत्' इति चैवं सहस्रशो विद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति " S. W. I. 4 सूत्रभाष्ये [पा. १. वेदान्तवाक्यानि । तत्राविद्यावस्थायां ब्रह्मण उपास्योपासका- दिलक्षणः सर्वो व्यवहारः । तत्र कानिचिद्ब्रह्मण उपासनान्य- भ्युदयार्थानि कानिचित्क्रममुक्त्यर्थानि कानिचित्कर्मसमृ- द्धद्यर्थानि । तेषां गुणविशेषोपाधिभेदेन भेदः । एक एव तु पर आत्मेश्वरस्तैस्तैर्गुणविशेषैर्विशिष्ट उपास्यो यद्यपि भवति, तथापि यथागुणोपासनमेव फलानि भिद्यन्ते ; ' तं यथा यथोपासते तदेव भवति' इति श्रुतेः, 'यथाक्रतुरस्मिलोके पुरुषो भवति, तथेतः प्रेत्य भवति' इति च; स्मृतेश्च- ' यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम । तं तमेवैति कौन्तेय सदा तद्भावभावित:' इति । यद्यप्येक आत्मा सर्व- भूतेषु स्थावरजङ्गमेषु गूढः, तथापि चित्तोपाधिविशेषतारत- म्यादात्मनः कूटस्थनित्यस्यैकरूपस्याप्युत्तरोत्तरमाविष्कृतस्य तारतम्यमैश्वर्यशक्तिविशेषैः श्रूयते — ' तस्य य आत्मान- माविस्तरां वेद' इत्यत्र ; स्मृतावपि -- ' यद्यद्विभूतिमत्स- त्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽशसं- भवम् ' इति यत्र यत्र विभूत्याद्यतिशयः, स स ईश्वर इत्यु- पास्यतया चोद्यते । एवमिहाप्यादित्यमण्डले हिरण्मयः पुरुषः सर्वपाप्मोदयलिङ्गात्पर एवेति वक्ष्यति । एवम् ' आकाशस्तल्लिङ्गात्' इत्यादिषु द्रष्टव्यम् । एवं सद्योमुक्ति- - सू. १२.] प्रथमोऽध्यायः । कारणमप्यात्मज्ञानमुपाधिविशेषद्वारेणोपदिश्यमानमप्यविव- क्षितोपाधिसंबन्धविशेषं परापरविषयत्वेन संदिह्यमानं वाक्य- गतिपर्यालोचनया निर्णेतव्यं भवति — यथेहैव तावत् ' आ- नन्दमयोऽभ्यासात्' इति । एवमेकमपि ब्रह्मापेक्षितोपाधि- संबन्धं निरस्तोपाधिसंबन्धं चोपास्यत्वेन ज्ञेयत्वेन च वेदा- न्तेषूपदिश्यत इति प्रदर्शयितुं परो ग्रन्थ आरभ्यते । यच्च ' गतिसामान्यात्' इत्यचेतनकारणनिराकरणमुक्तम्, तदपि वाक्यान्तराणि ब्रह्मविषयाणि व्याचक्षाणेन ब्रह्मविपरीतका- रणनिषेधेन प्रपञ्च्यते- आनन्दमयोऽभ्यासात् ॥ १२ ॥ तैत्तिरीयके अन्नमयं प्राणमयं मनोमयं विज्ञानमयं चानु- क्रम्याम्नायते— 'तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर ६. आनन्दमया- धिकरणम् । आत्मानन्दमय:' इति । तत्र संशय:- - किमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते, ' यत्प्रकृतम् 'सत्यं ज्ञानमनन्तं ब्रह्म' इति, किं वान्नमयादिवद्ध- ह्मणोऽर्थान्तरमिति । किं तावत्प्राप्तम् ? ब्रह्मणोऽर्थान्तरममु- ख्य आत्मानन्दमयः स्यात् । कस्मात् ? अन्नमयाद्यमुख्या- त्मप्रवाहपतितत्वात्। अथापि स्यात्सर्वान्तरत्वादानन्दमयों मु- सूत्रभाष्ये [ पा. १. ख्य एवात्मेति ; न स्यात्प्रियाद्यवयवयोगाच्छारीरत्व श्रवणाञ्च । मुख्यश्वेदात्मा स्यान्न प्रियादिसंस्पर्शः स्यात् । इह तु 'तस्य प्रियमेव शिर:' इत्यादि श्रूयते । शारीरत्वं च श्रूय- ते — ' तस्यैष एव शारीर आत्मा यः पूर्वस्य' इति । तस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्द- मय इत्यर्थः । न च सशरीरस्य सतः प्रियाप्रियसंस्पर्शो वार- यितुं शक्यः । तस्मात्संसार्येवानन्दमय आत्मेत्येवं प्राप्ते, इद- मुच्यते— 'आनन्दमयोऽभ्यासात्' । पर एवात्मानन्दमयो भवि- तुमर्हति । कुत: ? अभ्यासात् । परस्मिन्नेव ह्यात्मन्यान- न्दशब्दो बहुकृत्वोऽभ्यस्यते । आनन्दमयं प्रस्तुत्य 'रसो वै स:' इति तस्यैव रसत्वमुक्त्वा, उच्यते— ' रस ह्येवायं लब्ध्वानन्दीभवति । को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति' 'सै- षानन्दस्य मीमासा भवति' 'एतमानन्दमयमात्मानमुप- संक्रामति' ' आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन' इति ; 'आनन्दो ब्रह्मेति व्यजानात्' इति च । श्रुत्यन्तरे च 'विज्ञानमानन्दं ब्रह्म' इति ब्रह्मण्येवानन्दशब्दो दृष्टः । ए- वमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्यभ्यासादानन्दमय आत्मा सू. १३.] प्रथमोऽध्यायः । ब्रह्मेति गम्यते । यत्तूक्तमन्नमयाद्यमुख्यात्मप्रवाहपतितत्वादा- नन्दमयस्याप्यमुख्यत्वमिति, नासौ दोष:, आनन्दमयस्य स - र्वान्तरत्वात् । मुख्यमेव ह्यात्मानमुपदिदिक्षु शास्त्रं लोकबु- द्धिमनुसरत्, अन्नमयं शरीरमनात्मानमत्यन्तमूढानामात्म- त्वेन प्रसिद्धमनूद्य मूषानिषिक्तद्रुतताम्रादिप्रतिमावत्ततोऽन्तरं ततोऽन्तरमित्येवं पूर्वेण पूर्वेण समानमुत्तरमुत्तरमनात्मानमा- त्मेति प्राहयत्, प्रतिपत्तिसौकर्यापेक्षया सर्वान्तरं मुख्यमान- न्दमयमात्मानमुपदिदेशेति ष्टितरम् । यथारुन्धतीदर्शने बह्वीष्वपि तारास्वमुख्यास्वरुन्धतीषु दर्शितासु, या अन्त्या प्रदर्श्यते सा मुख्यैवारुन्धती भवति; एवमिहाप्यानन्दमयस्य सर्वान्तरत्वान्मुख्यमात्मत्वम् । यत्तु ब्रूषे, प्रियादीनां शिरस्त्वा- दिकल्पनानुपपन्ना मुख्यस्यात्मन इति — अतीतानन्तरोपाधि- जनिता सा ; न स्वाभाविकीत्यदोषः । शारीरत्वमप्यानन्दम- यस्यान्नमयादिशरीरपरम्परया प्रदर्श्यमानत्वात् ; न पुनः सा- क्षादेव शारीरत्वं संसारिवत् । तस्मादानन्दमयः पर एवा- त्मा ॥ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १३ ॥ अत्नाह— नानन्दमयः पर आत्मा भवितुमर्हति ; क- स्मात् ? विकारशब्दात्; प्रकृतिवचनादयमन्यः शब्दो वि- सूत्रभाष्ये [पा. १. कारवचनः समधिगत: ' आनन्दमय:' इति, मयटो विका- रार्थत्वात्; तस्मादन्नमयादिशब्दवद्विकारविषय एवायमानन्द- मयशब्द इति चेत्, न; प्राचुर्यार्थेऽपि मयटः स्मरणात् । ' तत्प्रकृतवचने मयट्' इति हि प्रचुरतायामपि मयट् स्मर्यते; यथा 'अन्नमयो यज्ञः' इत्यन्नप्रचुर उच्यते, एव- मानन्दप्रचुरं ब्रह्मानन्दमयमुच्यते । आनन्दप्रचुरत्वं च ब्रह्मणो मनुष्यत्वादारभ्योत्तरस्मिन्नुत्तरस्मिन्स्थाने शतगुण आनन्द इत्युक्त्वा ब्रह्मानन्दस्य निरतिशयत्वावधारणात् । तस्मात्प्राचुर्यार्थे मयट् ॥ तद्धेतुव्यपदेशाच्च ॥ १४ ॥ इतश्च प्राचुर्यार्थे मयट् ; यस्मादानन्दहेतुत्वं ब्रह्मणो व्यपदिशति श्रुतिः — ' एष ह्येवानन्दयाति' इति — आन- न्दयतीत्यर्थः । यो ह्यन्यानानन्दयति स प्रचुरानन्द इति प्रसिद्धं भवति ; यथा लोके योऽन्येषां धनिकत्वमापादयति स प्रचुरधन इति गम्यते, तद्वत् । तस्मात्प्राचुर्यार्थेऽपि मयटः संभवादानन्दमयः पर एवात्मा ॥ मात्रवर्णिकमेव च गीयते ॥ १५ ॥ इतश्चानन्दमयः पर एवात्मा; यस्मात् 'ब्रह्मविदाप्नोति प्रथमोऽध्यायः । सू. १६. ] परम् ' इत्युपक्रम्य, 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यस्मिन्मन्त्रे यत् ब्रह्म प्रकृतं सत्यज्ञानानन्तविशेषणैर्निर्धारितम्, यस्मादा- काशादिक्रमेण स्थावरजङ्गमानि भूतान्यजायन्त, यच्च भूता- नि सृष्ट्वा तान्यनुप्रविश्य गुहायामवस्थितं सर्वान्तरम्, यस्य विज्ञानाय 'अन्योऽन्तर आत्मा' 'अन्योऽन्तर आत्मा' इति प्रक्रान्तम्, तन्मान्त्रवर्णिकमेव ब्रह्मेह गीयते— 'अन्योऽन्तर आत्मानन्दमय:' इति । मन्त्रब्राह्मणयोश्चैकार्थत्वं युक्तम्, अविरोधात् । अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्याताम् । न चान्नमयादिभ्य इवानन्दमयादन्योऽन्तर आत्माभिधीयते । एतन्निष्ठेव च भार्गवी वारुणी विद्या- 'आनन्दो ब्रह्मेति व्यजानात्' इति । तस्मादानन्दमयः पर एवात्मा ॥ नेतरोऽनुपपत्तेः ॥ १६ ॥ इतश्चानन्दमयः पर एवात्मा, नेतरः; इतर ईश्वरादन्यः संसारी जीव इत्यर्थः । न जीव आनन्दमयशब्देनाभिधीयते ; कस्मात् ? अनुपपत्तेः । आनन्दमयं हि प्रकृत्य श्रूयते— 'सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इद ँ सर्वमसृजत । यदिदं किंच' इति । तत्र प्राक्शरीराद्युत्पत्तेरभिध्यानम्, सृज्यमानानां च विका- ५६ . सूत्रभाष्ये [पा. १. राणां स्रष्टुरव्यतिरेकः, सर्वविकारसृष्टिश्च न परस्मादात्मनो- ऽन्यत्रोपपद्यते ॥ भेदव्यपदेशाच्च ॥ १७ ॥ इतश्च नानन्दमयः संसारी; यस्मादानन्दमयाधिकारे 'रसो वै सः । रस৺ ह्येवायं लब्ध्वानन्दी भवति' इति जीवान- न्दमयौ भेदेन व्यपदिशति । न हि लब्धैव लब्धव्यो भवति । कथं तर्हि 'आत्मान्वेष्टव्यः ' 'आत्मलाभान्न परं विद्यते ' इति श्रुतिस्मृती, यावता न लब्धैव लब्धव्यो भवतीत्यु- क्तम् ? बाढम्— तथाप्यात्मनोऽप्रच्युतात्मभावस्यैव सतस्त- त्त्वानवबोधनिमित्तो मिथ्यैव देहादिष्वनात्मसु आत्मत्व- निश्चयो लौकिको दृष्टः । तेन देहादिभूतस्यात्मनोऽपि आत्मा — अनन्विष्टः 'अन्वेष्टव्यः', अलब्धः 'लब्धव्यः', अश्रुतः ' श्रोतव्यः', अमतः ' मन्तव्यः', अविज्ञातः 'विज्ञा- तव्य: ' — इत्यादिभेदव्यपदेश उपपद्यते । प्रतिषिध्यत एव तु परमार्थतः सर्वज्ञात्परमेश्वरादन्यो द्रष्टा श्रोता वा 'नान्यो- ऽतोऽस्ति द्रष्टा' इत्यादिना । परमेश्वरस्तु अविद्याकल्पिता- च्छारीरात्कर्तुर्भोक्तुः विज्ञानात्माख्यात् अन्यः ; यथा माया- विनश्चर्मखड्गधरात्सूत्रेणाकाशमधिरोहतः स एव मायावी परमार्थरूपो भूमिष्ठोऽन्य: ; यथा वा घटाकाशादुपाधिपरि- सू. १९.] प्रथमोऽध्यायः । च्छिन्नादनुपाधिपरिच्छिन्न आकाशोऽन्यः । ईदृशं च विज्ञा- नात्मपरमात्मभेदमाश्रित्य 'नेतरोऽनुपपत्तेः ' ' भेदव्यपदे- शाञ्च' इत्युक्तम् ॥ कामाच्च नानुमानापेक्षा ॥ १८ ॥ आनन्दमयाधिकारे च ' सोऽकामयत बहु स्यां प्रजा- येयेति' इति कामयितृत्वनिर्देशाश्च नानुमानिकमपि सांख्य- परिकल्पितमचेतनं प्रधानमानन्दमयत्वेन कारणत्वेन वा अपेक्षितव्यम् । 'ईक्षतेर्नाशब्दम्' इति निराकृतमपि प्रधानं पूर्वसूत्रोदाहृतां कामयितृत्वश्रुतिमाश्रित्य प्रसङ्गात्पुनर्निराक्रि- यते गतिसामान्यप्रपञ्चनाय ॥ अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥ इतश्च न प्रधाने जीवे वानन्दमयशब्दः ; यस्मादस्मि- न्नानन्दमये प्रकृत आत्मनि, प्रतिबुद्धस्यास्य जीवस्य तद्योगं शास्ति — तदात्मना योगस्तद्योगः, तद्भावापत्ति:, मुक्तिरि- त्यर्थः— तद्योगं शास्ति शास्त्रम् — 'यदा ह्येवैष एतस्मि- न्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति' इति । एतदुक्तं भवति- सूत्रभाष्ये [ पा. १. यदैतस्मिन्नानन्दमयेऽल्पमप्यन्तरमतादात्म्यरूपं पश्यति, तदा संसारभयान्न निवर्तते ; यदा त्वेतस्मिन्नानन्दमये निरन्तरं तादात्म्येन प्रतितिष्ठति, तदा संसारभयान्निवर्तत इति । तच्च परमात्मपरिग्रहे घटते, न प्रधानपरिग्रहे जीवपरिग्रहे वा । तस्मादानन्दमयः परमात्मेति सिद्धम् ॥ इदं त्विह वक्तव्यम् -- 'स वा एष पुरुषोऽन्नरसमयः ' 'तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमय: ' तस्मात् ' अन्योऽन्तर आत्मा मनोमय: ' तस्मात् 'अन्यो- ऽन्तर आत्मा विज्ञानमय:' इति च विकारार्थे मयट् प्रवाहे सति, आनन्दमय एवाकस्मादर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयत इति । मान्त्रवर्णि- कब्रह्माधिकारादिति चेत्, न अन्नमयादीनामपि तर्हि ब्रह्मत्व- प्रसङ्गः । अत्राह — युक्तमन्नमयादीनामब्रह्मत्वम्, तस्मात्तस्मा- दान्तरस्यान्तरस्यान्यस्यान्यस्यात्मन उच्यमानत्वात्; आनन्द- मयात्तु न कश्चिदन्य आन्तर आत्मोच्यते ; तेनानन्दमयस्य ब्रह्मत्वम्, अन्यथा प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गादिति । अत्रो- च्यते — यद्यप्यन्नमयादिभ्य इवानन्दमयात् ' अन्योऽन्तर आत्मा' इति न श्रूयते, तथापि नानन्दमयस्य ब्रह्मत्वम् ; यत आनन्दमयं प्रकृत्य श्रूयते — ' तस्य प्रियमेव शिरः, सू. १९.] प्रथमोऽध्यायः । ५९ · मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा' इति । तत्र यह मन्त्रवर्णे प्रकृतम् 'सत्यं ज्ञानमनन्तं ब्रह्म' इति, तदिह 'ब्रह्म पुच्छं प्रतिष्ठा' इत्युच्यते । तद्विजिज्ञापयिषयैवान्नमयादय आनन्दमय- पर्यन्ताः पञ्च कोशाः कल्प्यन्ते । तत्र कुतः प्रकृतहानाप्र- कृतप्रक्रियाप्रसङ्गः । नन्वानन्दमयस्यावयवत्वेन 'ब्रह्म पुच्छं प्रतिष्ठा' इत्युच्यते, अन्नमयादीनामिव ' इदं पुच्छं प्रतिष्ठा' इत्यादि ; तत्र कथं ब्रह्मणः स्वप्रधानत्वं शक्यं विज्ञातुम् ? प्रकृतत्वादिति ब्रूमः । नन्वानन्दमयावयवत्वेनापि ब्रह्मणि विज्ञायमाने न प्रकृतत्वं हीयते, आनन्दमयस्य ब्रह्मत्वादिति ; अन्नोच्यते— तथा सति तदेव ब्रह्म आनन्दमय आत्मा अवयवी, तदेव च ब्रह्म पुच्छं प्रतिष्ठा अवयव इत्यसामञ्ज- स्यं स्यात्। अन्यतरपरिग्रहे तु, युक्तम् 'ब्रह्म पुच्छं प्रतिष्ठा' इत्यत्रैव ब्रह्मनिर्देश आश्रयितुम्, ब्रह्मशब्दसंयोगात् ; नानन्द- मयवाक्ये, ब्रह्मशब्दसंयोगाभावादिति । अपि च ब्रह्म पुच्छं प्रतिष्ठेत्युक्त्वेदमुच्यते— ' तदप्येष श्लोको भवति । असन्नव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदु:' इति । अस्मिंश्च श्लोकेऽननुकृष्यानन्द- मयं ब्रह्मण एव भावाभाववेदनयोर्गुणदोषा भिधानाद्गम्यते— । सूत्रभाष्ये [पा. १. 'ब्रह्म पुच्छं प्रतिष्ठा' इत्यत्र ब्रह्मण एव स्वप्रधानत्वमिति । न चानन्दमयस्यात्मनो भावाभावाशङ्का युक्ता, प्रियमोदादि- विशिष्टस्यानन्दमयस्य सर्वलोकप्रसिद्धत्वात् । कथं पुनः स्व- प्रधानं सद्ब्रह्म आनन्दमयस्य पुच्छत्वेन निर्दिश्यते— 'ब्रह्म पुच्छं प्रतिष्ठा' इति ? नैष दोषः । पुच्छवत्पुच्छम् प्रतिष्ठा परायणमेकनीडं लौकिकस्यानन्दजातस्य ब्रह्मानन्दः इत्ये- तदनेन विवक्ष्यते, नावयवत्वम्; 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुत्यन्तरात् । अपि चानन्द- मयस्य ब्रह्मत्वे प्रियाद्यवयवत्वेन सविशेषं ब्रह्माभ्युपगन्त- व्यम्; निर्विशेषं तु ब्रह्म वाक्यशेषे श्रूयते, वाङ्मनसयोरगो- चरत्वाभिधानात्— 'यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न विभेति कुतश्चन' इति । अपि चानन्दप्रचुर इत्युक्ते दुःखाल्पीयस्त्वमपि गम्यते प्राचुर्यस्य लोके प्रतियोग्यल्पत्वापेक्षत्वात् । तथा च सति 'यत्न नान्यत्पश्यति, नान्यच्छृणोति, नान्यद्विजानाति, स भूमा' इति भूम्नि ब्रह्मणि तद्व्यतिरिक्ताभावश्रुतिरुपरुध्येत । प्रतिशरीरं च प्रियादिभेदादानन्दमयस्य भिन्नत्वम् ; ब्रह्म तु न प्रतिशरीरं भिद्यते, 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यानन्त्यश्रुतेः ' एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ' ; सू. १९.] प्रथमोऽध्यायः । इति च श्रुत्यन्तरात् । न चानन्दमयाभ्यासः श्रूयते । प्रातिपदिकार्थमात्रमेव हि सर्वत्राभ्यस्यते— 'रसो वै सः । रस ह्येवायं लब्ध्वानन्दी भवति । को ह्येवान्यात्कः प्रा- ण्यात् । यदेष आकाश आनन्दो न स्यात् ' ' सैषानन्दस्य मीमासा भवति' ' आनन्दं ब्रह्मणो विद्वान्न बिभेति कुत- श्चन' इति ' आनन्दो ब्रह्मेति व्यजानात्' इति च । यदि चा- नन्दमयशब्दस्य ब्रह्मविषयत्वं निश्चितं भवेत्, तत उत्तरेष्वा- नन्दमात्रप्रयोगेष्वप्यानन्दमयाभ्यासः कल्प्येत ; न त्वानन्द- मयस्य ब्रह्मत्वमस्ति प्रियशिरस्त्वादिभिर्हेतुभिरित्यवोचाम ; तस्माच्छ्रुत्यन्तरे 'विज्ञानमानन्दं ब्रह्म' इत्यानन्दपदप्रातिप- दिकस्य ब्रह्मणि प्रयोगदर्शनात्, 'यदेष आकाश आनन्दो न स्यात्' इति ब्रह्मविषयः प्रयोगो न त्वानन्दमयाभ्यास इत्यवगन्तव्यम् । यस्त्वयं मयडन्तस्यैवानन्दमयशब्दस्याभ्या- सः 'एतमानन्दमयमात्मानमुपसंक्रामति' इति, न तस्य ब्रह्मविषयत्वमस्ति ; विकारात्मनामेवान्नमयादीनामनात्मना - मुपसंक्रमितव्यानां प्रवाहे पतितत्वात् । नन्वानन्दमयस्योप- संक्रमितव्यस्यान्नमयादिवदब्रह्मत्वे सति नैव विदुषो ब्रह्मप्रा- प्तिः फलं निर्दिष्टं भवेत् । नैष दोषः, आनन्दमयोपसंक्रमण- निर्देशेनैव विदुषः पुच्छप्रतिष्ठाभूतब्रह्मप्राप्तेः फलस्य निर्दिष्ट- सूत्रभाष्ये [ पा. १. त्वात्, ' तदप्येष श्लोको भवति' ' यतो वाचो निवर्तन्ते ' इत्यादिना च प्रपञ्च्यमानत्वात् । या त्वानन्दमयसंनिधाने 'सोऽकामयत बहु स्यां प्रजायेयेति' इतीयं श्रुतिरुदाहृता, सा ' ब्रह्म पुच्छं प्रतिष्ठा' इत्यनेन संनिहिततरेण ब्रह्मणा संव- ध्यमाना नानन्दमयस्य ब्रह्मतां प्रतिवोधयति । तदपेक्षत्वाच्चो- त्तरस्य ग्रन्थस्य 'रसो वै स:' इत्यादेर्नानन्दमयविषयता । ननु ' सोऽकामयत' इति ब्रह्मणि पुंलिङ्गनिर्देशो नोपपद्यते । नायं दोष:, '· तस्माद्वा एतस्मादात्मन आकाशः संभूतः ' इत्यत्र पुंलिङ्गेनाप्यात्मशब्देन ब्रह्मणः प्रकृतत्वात् । यत्तु भार्गवी वारुणी विद्या- 'आनन्दो ब्रह्मेति व्यजानात् ' इति, तस्यां मयडश्रवणात्प्रियशिरस्त्वाद्यश्रवणाच्च युक्तमान - न्दुस्य ब्रह्मत्वम् । तस्मादणुमात्रमपि विशेषमनाश्रित्य न स्व- त एव प्रियशिरस्त्वादि ब्रह्मण उपपद्यते । न चेह सविशेषं ब्रह्म प्रतिपिपादयिषितम्, वाङ्मनसगोचरातिक्रमणश्रुतेः । तस्मादन्नमयादिष्विवानन्दमयेऽपि विकारार्थ एव मयट् विज्ञेयः, न प्राचुर्यार्थः ॥ सूत्राणि त्वेवं व्याख्येयानि -- 'ब्रह्म पुच्छं प्रतिष्ठा' इत्य- त्र किमानन्दमयावयवत्वेन ब्रह्म विवक्ष्यते, उत स्वप्रधान- त्वेनेति । पुच्छशब्दादद्वयवत्वेनेति प्राप्ते, उच्यते — आन- - सू. २०.] न्दमयोऽभ्यासात् प्रथमोऽध्यायः । - आनन्दमय आत्मा इत्यत्र 'ब्रह्म पुच्छं प्रतिष्ठा' इति स्वप्रधानमेव ब्रह्मोपदिश्यते ; अभ्या- सात् ' असन्नेव स भवति' इत्यस्मिन्निगमनश्लोके ब्रह्मण एव केवलस्याभ्यस्यमानत्वात् । विकारशब्दान्नेति चेन्न प्राचुर्यात्— विकारशब्दोऽवयवशब्दोऽभिप्रेतः; पुच्छमि- त्यवयवशब्दान्न स्वप्रधानत्वं ब्रह्मण इति यदुक्तम्, तस्य परि- हारो वक्तव्यः ; अत्रोच्यते- नायं दोषः, प्राचुर्यादप्यव- यवशब्दोपपत्तेः ; प्राचुर्ये प्रायापत्तिः, अवयवप्राये वचन- मित्यर्थः; अन्नमयादीनां हि शिरआदिषु पुच्छान्तेष्व- वयवेषूक्तेष्वानन्दमयस्यापि शिरआदीन्यवयवान्तराण्युक्त्वा अवयवप्रायापन्त्या 'ब्रह्म पुच्छं प्रतिष्ठा' इत्याह, नावयव- विवक्षया ; यत्कारणम् ' अभ्यासात्' इति स्वप्रधानत्वं ब्रह्म- णः समर्थितम् । तद्धेतुव्यपदेशाच्च – सर्वस्य हि क कारजातस्य सानन्दमयस्य कारणत्वेन ब्रह्म व्यपदिश्यते- 'इद" सर्वमसृजत, यदिदं किंच' इति । न च कारणं सा स्वविकारस्यानन्दमयस्य मुख्यया वृत्त्यावयव उपपद्यते । अपराण्यपि सूत्राणि यथासंभवं पुच्छवाक्यनिर्दिष्टस्यैव ब्रह्मण उपपादकानि द्रष्टव्यानि ॥ अन्तस्तद्धर्मोपदेशात् ॥ २० ॥ ७. अन्तरधि- करणम् । सूत्रभाष्ये [ पा. १. इदमाम्नायते— 'अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आ प्रणखात्सर्व- एव सुवर्ण: ' ' तस्य यथा कप्यासं पु- ण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद' इत्यधिदैवतम् । अथाध्यात्ममपि 'अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते' इत्यादि । तत्र संशयः — किं विद्याकर्मातिशयवशात्प्राप्तोत्कर्षः क- श्चित्संसारी सूर्यमण्डले चक्षुषि चोपास्यत्वेन श्रूयते, किं वा नित्यसिद्ध: परमेश्वरः ? इति । किं तावत्प्राप्तम् ? संसारीति । कुत: ? रूपवत्त्वश्रवणात् । आदित्यपुरुषे तावत् ' हिरण्यश्मश्रुः' इत्यादि रूपमुदाहृतम् ; अक्षिपुरु- षेऽपि तदेवातिदेशेन प्राप्यते ' तस्यैतस्य तदेव रूपं यदमुष्य रूपम्' इति । न च परमेश्वरस्य रूपवत्त्वं युक्तम्, 'अश- व्दमस्पर्शमरूपमव्ययम्' इति श्रुतेः ; आधारश्रवणाश्ञ्च- एषोऽन्तरादित्ये य एषोऽन्तरक्षिणि' इति । न ह्यनाधारस्य स्वम हिमप्रतिष्ठितस्य सर्वव्यापिनः परमेश्वरस्याधार उपदि- श्येत । ' स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिनि ' इति 'आकाशवत्सर्वगतश्च नित्यः' इति च श्रुती भवतः । ऐश्व- - य सू. २०.] प्रथमोऽध्यायः । . ६५ र्यमर्यादाश्रुतेश्व -- ' स एष ये चामुष्मात्पराचो लोका- स्तेषां चेष्टे देवकामानां च' इत्यादित्यपुरुषस्य ऐश्वर्यम- र्यादा; 'स एष ये चैतस्मादवश्वो लोकास्तेषां चेष्टे मनुष्य- कामानां च' इत्यक्षिपुरुषस्य । न च परमेश्वरस्य म- र्यादावदैश्वर्य युक्तम् ; ' एष सर्वेश्वर एष भूताधिपतिरेष - भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय' इत्य- विशेषश्रुतेः । तस्मान्नाक्ष्यादित्ययोरन्तः परमेश्वर इत्येवं प्राप्ते- ब्रूमः -- अन्तस्तद्धर्मोपदेशात् इति । ' य एषोऽन्तरादित्ये ' 'य एषोऽन्तरक्षिणि' इति च श्रूयमाणः पुरुषः परमेश्वर एव, न संसारी । कुत: ? तद्धर्मोपदेशात् । तस्य हि परमेश्वरस्य धर्मा इहोपदिष्टाः । तद्यथा--' तस्योदिति नाम ' इति श्राव- यित्वा तस्यादित्यपुरुषस्य नाम ' स एष सर्वेभ्यः पाप्मभ्य उदित:' इति सर्वपाप्मापगमेन निर्वक्ति । तदेव च कृतनि- र्वचनं नामाक्षिपुरुषस्याप्यतिदिशति – ' यन्नाम तन्नाम' इति । सर्वपाप्मापगमश्च परमात्मन एव श्रूयते – 'य आ- त्मापहतपाप्मा' इत्यादौ । तथा चाक्षुषे पुरुषे 'सैव ऋक् त- त्साम तदुक्थं तद्यजुस्तद्ब्रह्म' इति ऋक्सामाद्यात्मकतां निर्धा- रयति । सा च परमेश्वरस्योपपद्यते, सर्वकारणत्वात्सर्वात्मक- S. W. 1. 5 " - - सूत्रभाष्ये [पा. १. त्वोपपत्तेः। पृथिव्यग्न्याद्यात्मके चाधिदैवतमृक्सामे, वाक्प्रा- णाद्यात्मके चाध्यात्ममनुक्रम्याह — 'तस्य च साम च गेष्णौ' इत्यधिदैवतम् । तथाध्यात्ममपि — 'यावमुष्य गेष्णौ तौ गेष्णौ ' इति । तच्च सर्वात्मकत्वे सत्येवोपपद्यते । ' तद्य इमे वीणायां गायन्त्येतं त्वेव ते गायन्ति तस्मात्ते धनसनयः' इति च लौकिकेष्वपि गानेष्वस्यैव गीयमानत्वं दर्शयति । तच्च परमे- श्वरपरिग्रह एव घटते — ' यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम्' इति भगवद्गीता - दर्शनात् । लोककामेशितृत्वमपि निरङ्कुशं श्रूयमाणं परमेश्वरं गमयति । यत्तूक्तं हिरण्यश्मश्रुत्वादिरूपवत्त्वश्रवणं परमेश्वरे नोपपद्यत इति, अत्र ब्रूमः — स्यात्परमेश्वरस्यापीच्छावशा- न्मायामयं रूपं साधकानुग्रहार्थम्, 'माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद । सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसि इति स्मरणात् । अपि च, यत्र तु निरस्तसर्वविशेषं पारमेश्वरं रूपमुपदिश्यते, भवति तत्व शास्त्रम् ' अशब्दमस्पर्शमरूप- मव्ययम्' इत्यादि । सर्वकारणत्वात्तु विकारधर्मैरपि कैश्चिद्वि- शिष्टः परमेश्वर उपास्यत्वेन निर्दिश्यते –' सर्वकर्मा सर्वकाम: सर्वगन्ध: सर्वरस:' इत्यादिना । तथा हिरण्यश्मश्रुत्वादिनि- देशोऽपि भविष्यति । यदप्याधारश्रवणान्न परमेश्वर इति, अत्रोच्यते— स्वमहिमप्रतिष्ठस्याप्याधारविशेषोपदेश उपास- ' , सू. २२.] ; प्रथमोऽध्यायः । नार्थी भविष्यति ; सर्वगतत्वाद्ब्रह्मणो व्योमवत्सर्वान्तरत्वोप- पत्तेः । ऐश्वर्यमर्यादाश्रवणमप्यध्यात्माधिदैवतविभागापेक्षमु- पासनार्थमेव । तस्मात्परमेश्वर एवाक्ष्यादित्ययोरन्तरुपदि- श्यते ॥ भेदव्यपदेशाच्चान्यः ॥ २१ ॥ अस्ति चादित्यादिशरीराभिमानिभ्यो जीवेभ्योऽन्य ईश्व- रोऽन्तर्यामी - 'य आदित्ये तिष्ठन्नादित्यादन्तरो यमादि- त्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृत:' इति श्रुत्यन्तरे भेदव्यपदेशात् । तत्र हि 'आदित्यादन्तरो यमादित्यो न वेद' इति वेदितुरादि- त्याद्विज्ञानात्मनोऽन्योऽन्तर्यामी स्पष्टं निर्दिश्यते । स एवे- हाप्यन्तरादित्ये पुरुषो भवितुमर्हति श्रुतिसामान्यात् । तस्मात्परमेश्वर एवेहोपदिश्यत इति सिद्धम् ॥ आकाशस्तल्लिङ्गात् ॥ २२ ॥ इदमामनन्ति 'अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्प- द्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो होवैभ्यो ८. आकाशा- धिकरणम् । ज्यायानाकाशः परायणम्' इति । तव संशयः - किमाकाशशब्देन परं ब्रह्माभिधीयते, उत भूता- सूत्रभाष्ये - [पा. १. काशमिति । कुतः संशय: ? उभयत्र प्रयोगदर्शनात् । भूत- विशेषे तावत्सुप्रसिद्धो लोकवेदयोराकाशशब्दः । ब्रह्मण्यपि क्वचित्प्रयुज्यमानो दृश्यते, यत्र वाक्यशेषवशादसाधारणगु- णश्रवणाद्वा निर्धारितं ब्रह्म भवति- यथा 'यदेष आकाश आनन्दो न स्यात् ' इति 'आकाशो ह वै नाम नामरूपयो- निर्वहिता ते यदन्तरा तद्ब्रह्म' इति चैवमादौ । अतः संशयः । किं पुनरत्र - युक्तम् ? भूताकाशमिति । कुत: ? तद्धि प्रसिद्धतरेण प्रयोगेण शीघ्रं बुद्धिमारोहति । न चायमा- काशशब्द उभयोः साधारणः शक्यो विज्ञातुम्, अनेकार्थत्व- प्रसङ्गात् । तस्माद्ब्रह्मणि गौण एव आकाशशब्दो भवितुमर्हति । विभुत्वादिभिर्हि बहुभिर्धर्मैः सदृशमाकाशेन ब्रह्म भवति । न च मुख्यसंभवे गौणोऽर्थो ग्रहणमर्हति । संभवति चेह मुख्यस्यैवाकाशस्य ग्रहणम् । ननु भूताकाशपरिग्रहे वाक्य - शेषो नोपपद्यते — 'सर्वाणि ह वा इमानि भूतान्याकाशा- देव समुत्पद्यन्ते' इत्यादिः ; नैष दोष:, भूताकाशस्यापि वा- स्वादिक्रमेण कारणत्वोपपत्तेः । विज्ञायते हि - 'तस्माद्वा एतस्मादात्मन आकाश: संभूत आकाशाद्वायुर्वायोरभिः ' इत्यादि । ज्यायस्त्वपरायणत्वे अपि भूतान्तरापेक्षयोपपद्येते भूताकाशस्यापि । तस्मादाकाशशब्देन भूताकाशस्य ग्रहणमि - त्येवं प्राप्ते -.. सू. २२.] प्रथमोऽध्यायः । ब्रूमः - आकाशस्तलिङ्गान् । आकाशशब्देनेह ब्रह्मणो ग्रहणं युक्तम् । कुत: ? तल्लिङ्गात् । परस्य हि ब्रह्मण इदं लिङ्गम्— 'सर्वाणि ह वा इमानि भूतान्याकाशादेव समु- स्पंद्यन्ते' इति । परस्माद्धि ब्रह्मणो भूतानामुत्पत्तिरिति वेदान्तेषु मर्यादा । ननु भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वं दर्शितम् । सत्यं दर्शितम् । तथापि मूलकारणस्य ब्रह्मणोऽपरिग्रहात्, आकाशादेवेत्यवधारणं सर्वाणीति च भूतविशेषणं नानुकूलं स्यात् । तथा 'आकाशं प्रत्यस्तं यन्ति ' इति ब्रह्मलिङ्गम्, 'आकाशो ह्येवैभ्यो ज्यायानाकाशः परा- यणम्' इति च ज्यायस्त्वपरायणत्वे । ज्यायस्त्वं ह्यनापे- क्षिकं परमात्मन्येवैकस्मिन्नान्नातम् —' ज्यायान्पृथिव्या ज्या- यानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः' इति । तथा परायणत्वमपि परमकारणत्वात्परमात्मन्येव उपपन्न- तरं भवति । श्रुतिश्च - ' विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्' इति । अपि चान्तवत्त्वदोषेण शालावत्यस्य पक्षं निन्दित्वा, अनन्तं किंचिद्वक्तुकामेन जैवलिनाकाशः परिगृहीतः ; तं चाकाशमुद्गीथे संपाद्योपसंहरति — 'स एष परोवरीयानुद्गीथः स एषोऽनन्तः' इति । तच्चानन्त्यं ब्रह्मलिङ्गम । यत्पुनरुक्तं भूताकाशं प्रसिद्धिबलेन प्रथमतरं सूत्रभाष्ये [पा. १. प्रतीयत इति, अत्र ब्रूमः — प्रथमतरं प्रतीतमपि तद्वाक्य- शेषगतान्ब्रह्मगुणान्दृष्ट्वा न परिगृह्यते । दर्शितश्च ब्रह्म- ण्यप्याकाशशब्द: 'आकाशो ह वै नाम नामरूपयोनि- र्वहिता' इत्यादौ । तथाकाशपर्यायवाचिनामपि ब्रह्मणि प्रयोगो दृश्यते— 'ऋचो अक्षरे परमे व्योमन् यस्मि - न्देवा अधि विश्वे निषेदुः ' 'सैषा भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिता' ' ॐ कं ब्रह्मखं ब्रह्म 'खं पुराणम्' इति चैवमादौ । वाक्योपक्रमेऽपि वर्त- मानस्याकाशशब्दस्य वाक्यशेषवशाद्युक्ता ब्रह्मविषयत्वाव- धारणा । 'अग्निरधीतेऽनुवाकम्' इति हि वाक्योपक्रम- गतोऽप्यग्निशब्दो माणवकविषयो दृश्यते । तस्मादाकाश- शब्दं ब्रह्मेति सिद्धम् ॥ अत एव प्राणः ॥ २३ ॥ उद्गीथे— 'प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता' इत्यु- पक्रम्य श्रूयते— ' कतमा सा देवतेति, प्राण इति होवाच, सर्वाणि ह वा इमानि भूतानि प्राणमे- वाभिसंविशन्ति, प्राणमभ्युज्जिहते, सैषा ९. प्राणाधि- करणम् । देवता प्रस्तावमन्वायत्ता' इति । तत्र संशयनिर्णयौ पूर्व- वदेव द्रष्टव्यौ । 'प्राणबन्धन ५ हि सोम्य मनः " प्राणस्य सू. २३.] प्रथमोऽध्यायः । प्राणम्' इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते ; वायुविकारे तु प्रसिद्धतरो लोकवेदयोः ; अत इह प्राणशब्देन कतरस्योपादानं युक्तमिति भवति संशयः । किं पुनरन युक्तम् ? वायुविकारस्य पञ्चवृत्तेः प्राणस्योपादानं युक्तम् । तत्र हि प्रसिद्धतरः प्राणशब्द इत्यवोचाम । ननु पूर्ववदिहापि तलिङ्गाद्ब्रह्मण एवं ग्रहणं युक्तम् । इहापि हिं वाक्यशेषे भूतानां संवेशनोद्गमनं पारमेश्वरं कर्म प्रतीयते । न, मुख्येऽपि प्राणे भूतसंवेशनोद्गमनस्य दर्शनात् । एवं ह्याम्नायते— ' यदा वै पुरुषः स्वपिति प्राणं तर्हि वाग- प्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः, स यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्ते' इति । प्रत्यक्षं चैतत् — स्वाप - काले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते, प्रबोधकाले च पुनः प्रादुर्भवन्तीति । इन्द्रियसारत्वाच्च भूता- नामविरुद्धो मुख्ये प्राणेऽपि भूतसंवेशनोद्गमनवादी वाक्य- शेषः । अपि चादित्योऽन्नं चोद्गीथप्रतिहारयोर्देवते प्रस्ताव - देवतायाः प्राणस्यानन्तरं निर्दिश्येते ; न च तयोर्ब्रह्मत्व- मस्ति ; तत्सामान्याश्च प्राणस्यापि न ब्रह्मत्वमित्येवं प्राप्ते— सूत्रकार आह— अत एव प्राणः इति । तल्लिङ्गा- दिति पूर्वसूत्रे निर्दिष्टम् । अत एव तल्लिङ्गात्प्राणशब्दमपि परं सूत्रभाष्ये -- [ पा. १. ब्रह्म भवितुमर्हति । प्राणस्यापि हि ब्रह्मलिङ्गसंबन्ध: श्रूयते-- ' सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते' इति । प्राणनिमित्तौ सर्वेषां भूतानामुत्प- तिप्रलयावुच्यमानौ प्राणस्य ब्रह्मतां गमयतः । ननूक्तं मुख्यप्राणपरिग्रहेऽपि संवेशनोद्गमनदर्शनमविरुद्धम्, स्वापप्र- बोधयोर्दर्शनादिति । अत्रोच्यते —— स्वापप्रबोधयोरिन्द्रियाणा- मेव केवलानां प्राणाश्रयं संवेशनोद्गमनं दृश्यते, न सर्वेषां भूतानाम् ; इह तु सेन्द्रियाणां सशरीराणां च जीवाविष्टा- नां भूतानाम्, 'सर्वाणि ह वा इमानि भूतानि ' इति श्रुतेः । यदापि भूतश्रुतिर्महाभूतविषया परिगृह्यते, तदापि ब्रह्मलिङ्ग- त्वमविरुद्धम् । ननु सहापि विषयैरिन्द्रियाणां स्वापप्रबो- धयोः प्राणेऽप्ययं प्राणाञ्च प्रभवं शृणुम: - 'यदा सुप्तः स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहाप्येति' इति । तत्रापि तल्लिङ्गात्प्राण- दं ब्रह्मैव । यत्पुनरुक्तमन्नादित्यसंनिधानात्प्राणस्याब्रह्मत्वमिति, तदयुक्तम् ; वाक्यशेषबलेन प्राणशब्दस्य ब्रह्मविषयतायां प्रतीयमानायां संनिधानस्याकिंचित्करत्वात् । यत्पुनः प्राण- शब्दस्य पञ्चवृत्तौ प्रसिद्धतरत्वम्, तदाकाशशब्दस्येव प्रति- विधेयम् । तस्मात्सिद्धं प्रस्तावदेवतायाः प्राणस्य ब्रह्मत्वम् ॥ सू. २४.] प्रथमोऽध्यायः । अत्र केचिदुदाहरन्ति — 'प्राणस्य प्राणम् ' ' प्राणब- न्धनं हि सोम्य मनः' इति च । तदयुक्तम् ; शब्दभेदात्प्र- करणाच्च संशयानुपपत्तेः । यथा पितुः पितेति प्रयोगे, अन्यः पिता षष्ठीनिर्दिष्टात् प्रथमानिर्दिष्टः पितुः पिता इति गम्यते ; तद्वत् ' प्राणस्य प्राणम्' इति शब्द- भेदात्प्रसिद्धात्प्राणात् अन्यः प्राणस्य प्राण इति निश्चीयते । न हि स एव तस्येति भेदनिर्देशार्हो भवति । यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्र प्रकरणी निर्दिष्ट इति गम्यते ; यथा ज्योतिष्टोमाधिकारे 'वसन्ते वसन्ते ज्यो- तिषा यजेत' इत्यत्र ज्योतिः शब्दो ज्योतिष्टोमविषयो भवति, तथा परस्य ब्रह्मणः प्रकरणे 'प्राणबन्धनं हि सोम्य मन:' इति श्रुत: प्राणशब्दो वायुविकारमात्रं कथमवगम- येत् । अतः संशयाविषयत्वान्नैतदुदाहरणं युक्तम् । प्रस्ताव- देवतायां तु प्राणे संशयपूर्वपक्षनिर्णया उपपादिता: ॥ ज्योतिश्चरणाभिधानात् ॥ २४ ॥ इदमामनन्ति — 'अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव १०. ज्योतिश्चरणा- तद्यदिदमस्मिन्नन्तः पुरुषे ज्योति:' इति । धिकरणम् । तत्र संशयः - किमिह ज्योतिः शब्देनादि- । सूत्रभाष्ये [पा. १. त्यादिकं ज्योतिरभिधीयते, किं वा पर आत्मा ? इति । अर्था- न्तरविषयस्यापि प्राणशब्दस्य तल्लिङ्गाद्ब्रह्मविषयत्वमुक्तम् । इह तु तल्लिङ्गमेवास्ति नास्तीति विचार्यते । किं तावत्प्राप्तम् ? आदित्यादिकमेव ज्योतिः शब्देन परिगृह्यत इति । कुत: ? प्रसिद्धेः । तमो ज्योतिरिति हीमौ शब्दौ परस्परप्रतिद्वन्द्वि- विषयौ प्रसिद्धौ । चक्षुर्वृत्तेर्निरोधकं शार्वरादिकं तम उच्य- ते । तस्या एवानुग्राहकमादित्यादिकं ज्योतिः । तथा ' दीप्यते' इतीयमपि श्रुतिरादित्यादिविषया प्रसिद्धा । न हि रूपादि- हीनं ब्रह्म दीप्यत इति मुख्यां श्रुतिमर्हति । द्युमर्यादत्वश्रुते- श्व । न हि चराचरबीजस्य ब्रह्मणः सर्वात्मकस्य द्यौर्मर्यादा युक्ता; कार्यस्य तु ज्योतिष: परिच्छिन्नस्य द्यौर्मर्यादा स्यात् । ' परो दिवो ज्योति:' इति च ब्राह्मणम् । ननु कार्यस्यापि ज्योतिषः सर्वत्र गम्यमानत्वाद्दयुमर्यादावत्त्वम- समञ्जसम् ; अस्तु तर्ह्यत्रिवृत्कृतं तेजः प्रथमजम्; न; अति- वृत्कृतस्य तेजसः प्रयोजनाभावादिति । इदमेव प्रयोजनं यदु- पास्यत्वमिति चेत्, न; प्रयोजनान्तरप्रयुक्तस्यैवादित्यादेरुपा- स्यत्वदर्शनात्, 'तासां त्रिवृतं त्रिवृतमेकैकां करवाणि ' इति चाविशेषश्रुतेः । न चात्रिवृत्कृतस्यापि तेजसो धुमर्यादत्वं प्रसिद्धम् । अस्तु तर्हि त्रिवृत्कृतमेव तत्तेजो ज्योतिः शब्दम् । ननूक्तमर्वागपि दिवोऽवगम्यतेऽग्न्यादिकं ज्योतिरिति ; नैष सू. २४.] प्रथमोऽध्यायः । . ७५. दोष: ; सर्वत्रापि गम्यमानस्य ज्योतिष: ' परो दिवः' इत्यु- पासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते । न तु निष्प्रदेश- स्यापि ब्रह्मण: प्रदेशविशेषकल्पना भागिनी । ' सर्वतः पृष्ठे- ष्वनुत्तमेषूत्तमेषु लोकेषु' इति चाधारबहुत्वश्रुतिः कार्ये ज्यो- तिष्युपपद्यंतेतराम् । ' इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योति:' इति च कौक्षेये ज्योतिषि परं ज्योतिरध्यस्यमानं दृश्यते । सारूप्यनिमित्ताश्चाध्यासा भवन्ति - यथा 'स् भूरिति शिर एक हि शिर एकमेतदक्षरम्' इति । कौक्षेयस्य तु ज्योतिष: प्रसिद्धमब्रह्मत्वम् । 'तस्यैषा दृष्टिः' 'तस्यैषा श्रुति: ' इति चौष्ण्यघोषविशिष्टत्वस्य श्रवणात् । ' तदेतद्दृष्टं च श्रुतं चेत्युपासीत' इति च श्रुतेः । 'चक्षुष्यश्च श्रुतो भवति य एवं वेद' इति चाल्पफलश्रवणादब्रह्मत्वम् । महते हि फलाय ब्रह्मोपासनमिष्यते । न चान्यदपि किंचित्स्ववाक्ये प्राणाकाशवज्ज्योतिषोऽस्ति ब्रह्मत्वलिङ्गम् । न च पूर्वस्मिन्नपि वाक्ये ब्रह्म निर्दिष्टमस्ति, 'गायत्री वा इद सर्वे भूतम् ' इति च्छन्दोनिर्देशात् । अथापि कथंचित्पूर्वस्मिन्वाक्ये ब्रह्म निर्दिष्टं स्यात्, एवमपि न तस्येह प्रत्यभिज्ञानमस्ति । तत्र हि 'त्रिपादस्यामृतं दिवि' इति द्यौरधिकरणत्वेन श्रूयते ; अत्र पुनः 'परो दिवो ज्योति:' इति द्यौर्मर्यादात्वेन 1 तस्मात्प्राकृतं ज्योतिरिह प्राह्यमित्येवं प्राप्ते — . सूत्रभाष्ये [पा. १. ब्रूमः -- ज्योतिरिह ब्रह्म ग्राह्यम् । कुत: ? चरणाभि- धानात्, पादाभिधानादित्यर्थः । पूर्वस्मिन्हि वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम् - - ' तावानस्य महिमा ततो ज्यायाश्च पूरुषः । पांढोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि' इत्यनेन मन्त्रेण । तत्र यच्चतुष्पदो ब्रह्मणस्त्रिपादमृतं संबन्धिरूपं निर्दिष्टम्, तदेवेह संबन्धान्निर्दिष्टमिति प्रत्यभिज्ञायते । तत्प- रित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम् । न केवलं ज्योतिर्वाक्य एव ब्रह्मानुवृत्ति: ; परस्यामपि हि शाण्डिल्यविद्यायामनुवर्तिष्यते ब्रह्म । तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम् । यत्तूक्तम् — 'ज्योतिर्दी- । प्यते ' इति चैतौ शब्दौ कार्ये ज्योतिषि प्रसिद्धाविति, नायं दोषः ; प्रकरणाद्ब्रह्मावगमे सत्यनयोः शब्दयोरविशेष- कत्वात् दीप्यमानकार्यज्योतिरुपलक्षिते ब्रह्मण्यपि प्रयोग- संभवात्; 'येन सूर्यस्तपति तेजसेद्ध:' इति च मन्त्रवर्णात् । यद्वा, नायं ज्योतिःशब्दचक्षुर्वृत्तेरेवानुग्राहके तेजसि वर्तते, अन्यत्रापि प्रयोगदर्शनात् - ' वाचैवायं ज्योतिषास्ते' 'मनो ज्योतिर्जुषताम्' इति च । तस्माद्यद्यत्कस्यचिदवभासकं तत्तज्ज्योतिः शब्देनाभिधीयते । तथा सति ब्रह्मणोऽपि चैतन्य- रूपस्य समस्तजगदवभासहेतुत्वादुपपन्नो ज्योतिः शब्दः । सू. २४.] प्रथमोऽध्यायः । ' तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ' " तद्देवा ज्योतिषां ज्योतिरायुपासतेऽमृतम्' इत्यादिश्रुति- भ्यश्च । यदप्युक्तं द्युमर्यादत्वं सर्वगतस्य ब्रह्मणो नोपपद्यत इति, अत्रोच्यते सर्वगतस्यापि ब्रह्मण उपासनार्थ: प्रदेशवि- - शेषपरिग्रहो न विरुध्यते । ननूक्तं निष्प्रदेशस्य ब्रह्मण: प्रदेश- विशेषकल्पना नोपपद्यत इति; नायं दोषः, निष्प्रदेशस्यापि ब्रह्मण उपाधिविशेषसंबन्धात्प्रदेशविंशेषकल्पनोपपत्तेः । तथा हि —- आदित्ये, चक्षुषि, हृदये इति प्रदेशविशेषसंबन्धीनि ब्रह्मणः उपासनानि श्रूयन्ते । एतेन 'विश्वतः पृष्ठेषु ' इत्या- धारबहुत्वमुपपादितम् । यदप्येतदुक्तम् औष्ण्यघोषाभ्यामनु- मिते कौक्षेये कार्ये ज्योतिष्यध्यस्यमानत्वात्परमपि दिव: का- र्यज्योतिरेवेति, तदप्ययुक्तम् ; परस्यापि ब्रह्मणो नामादि- प्रतीकत्ववत्कौक्षेयज्योतिष्प्रतीकत्वोपपत्तेः । ' दृष्टुं च श्रुतं चे- त्युपासीत' इति तु प्रतीकद्वारकं दृष्टत्वं श्रुतत्वं च भविष्यति । यदप्युक्तमल्पफलश्श्रवणाच्च न ब्रह्मेति, तदनुपपन्नम्; न हि इयते फलाय ब्रह्माश्रयणीयम्, इयते न इति नियमे हेतुरस्ति । यत्र हि निरस्तसर्वविशेषसंबन्धं परं ब्रह्मात्मत्वेनोपदिश्यते, तत्रैकरूपमेव फलं मोक्ष इत्यवगम्यते । यत्र तु गुणविशे- षसंबन्धं प्रतीकविशेषसंबन्धं वा ब्रह्मोपदिश्यते, तत्र संसा- १. सूत्रभाष्ये [ पा. १. रगोचराण्येवोश्चावचानि फलानि दृश्यन्ते -- ' अन्नादो वसु- दानो विन्दते वसु य एवं वेद' इत्याद्यासु श्रुतिषु । यद्यपि न स्ववाक्ये किंचिज्ज्योतिषो ब्रह्मत्वलिङ्गमस्ति, तथापि पूर्वस्मि- न्वाक्ये दृश्यमानं ग्रहीतव्यं भवति । तदुक्तं सूत्रकारेण - ज्यो- तिश्चरणाभिधानादिति । कथं पुनर्वाक्यान्तरगतेन ब्रह्मसंनि- धानेन ज्योतिःश्रुतिः स्वविषयात् शक्या प्रत्र्यावयितुम् ? नैष दोष:, 'अथ यदतः परो दिवो ज्योति:' इति प्रथमतर- पठितेन यच्छब्देन सर्वनाम्ना सुसंबन्धात्प्रत्यभिज्ञायमाने पूर्ववाक्यनिर्दिष्टे ब्रह्मणि स्वसामर्थ्येन परामृष्ठे सत्यर्था- ज्ज्योतिःशब्दस्यापि ब्रह्मविषयत्वोपपत्तेः । तस्मादिह ज्यो- तिरिति ब्रह्म प्रतिपत्तव्यम् ॥ छन्दोभिधानान्नेति चेन्न तथा चेतोर्पण- निगदात्तथा हि दर्शनम् ॥ २५ ॥ अथ यदुक्तं पूर्वस्मिन्नपि वाक्ये न ब्रह्माभिहितमस्ति, 'गायत्री वा इद‍ सर्वं भूतं यदिदं किंच' इति गायत्र्या- ख्यस्य च्छन्दसोऽभिहितत्वादिति ; तत्परिहर्तव्यम् । कथं पुनश्छन्दोभिधानान्न ब्रह्माभिहितमिति शक्यते वक्तुम् ? यावता ' तावानस्य महिमा' इत्येतस्यामृचि चतुष्पाद्ब्रह्म दर्शितम् । नैतदस्ति । 'गायत्री वा इद" सर्वम्? इति 1 प्रथमोऽध्यायः । सू. २५.] गायत्रीमुपक्रम्य, तामेव भूतपृथिवीशरीरहृदयवाक्प्राणप्रभेदै- र्व्याख्याय, 'सैषा चतुष्पदा षडिधा गायत्री तदेतदृचाभ्य- नूक्तं तावानस्य महिमा' इति तस्यामेव व्याख्यातरूपायां गायत्र्या मुदाहृतो मन्त्रः कथमकस्माद्ब्रह्म चतुष्पादभिद- ध्यात् । योऽपि तत्र 'यद्वै तद्ब्रह्म' इति ब्रह्मशब्दः, सोऽपि च्छन्दसः प्रकृतत्वाच्छन्दोविषय एव । ' य एतामेवं ब्रह्मो- पनिषदं वेद' इत्यत्र हि वेदोपनिषदमिति व्याचक्षते । तस्माच्छन्दोभिधानान्न ब्रह्मणः प्रकृतत्वमिति चेत्, नैष दोषः । तथा चेतोर्पणनिगदात् — तथा गायत्र्याख्यच्छ- न्दोद्वारेण, तदनुगते ब्रह्मणि चेतसोऽर्पणं चित्तसमाधानम् अनेन ब्राह्मणवाक्येन निगद्यते — 'गायत्री वा इद सर्वम्' इति । न ह्यक्षरसंनिवेशमात्राया गायत्र्याः सर्वात्मकत्वं संभवति । तस्माद्यद्गायत्र्याख्यविकारेऽनुगतं जगत्कारणं ब्रह्म निर्दिष्टम्, तदिह सर्वमित्युच्यते, यथा 'सर्वे खल्विदं ब्रह्म' इति । कार्ये च कारणादव्यतिरिक्तमिति वक्ष्यामः - ' तदन- न्यत्वमारम्भणशब्दादिभ्यः' इत्यत्र । तथान्यत्रापि विकारद्वा- रेण ब्रह्मण उपासनं दृश्यते— 'एतं ह्येव बह्वृचा महत्यु- क्थे मीमांसन्त एतमग्नावध्वर्यव एतं महात्रते च्छन्दोगा: ' इति । तस्मादस्ति च्छन्दोभिधानेऽपि पूर्वस्मिन्वाक्ये 'चतु- ष्पाद्ब्रह्म निर्दिष्टम् । तदेव ज्योतिर्वाक्येऽपि परामृश्यत । सूत्रभाष्ये [पा. १. उपासनान्तरविधानाय । अपर आह । साक्षादेव गाय- वीशब्देन ब्रह्म प्रतिपाद्यते, संख्यासामान्यात् । यथा गाय- श्री चतुष्पदा षडक्षरैः पादैः, तथा ब्रह्म चतुष्पात् । तथा- न्यत्रापि च्छन्दोभिधायी शब्दोऽर्थान्तरे संख्यासामान्या- प्रयुज्यमानो दृश्यते । तद्यथा— 'ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्' इत्युपक्रम्याह 'सैषा विराडन्नादी' इति । अस्मिन्पक्षे ब्रह्मैवाभिहितमिति न च्छन्दोभिधानम् । सर्वथाप्यस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्म इति ॥ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥ इतश्चैवमभ्युपगन्तव्यमस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्मेति ; यतो भूतादीन्पादान्व्यपदिशति श्रुतिः । भूतपृथिवीशरीरहृद- यानि हि निर्दिश्याह- 'सैषा चतुष्पदा षडिधा गायत्री ' इति । न हि ब्रह्मानाश्रयणे केवलस्य च्छन्दसो भूतादयः पा- दा उपपद्यन्ते । अपि च ब्रह्मानाश्रयणे नेयमृक् संबध्येत -- .' तावानस्य महिमा' इति । अनया हि ऋचा स्वरसेन ब्रह्म- -वाभिधीयते, ' पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि ' इति सर्वात्मत्वोपपत्तेः । पुरुषसूक्तेऽपीयमृक् ब्रह्मपरतयैव स- माम्नायते । स्मृतिश्च ब्रह्मण एवंरूपतां दर्शयति — 'विष्ट- सू. २७.] प्रथमोऽध्यायः । भ्याहमिदं कृत्स्नमेकांशेन स्थितो' जगत्' इति । 'यद्वै तद्ब्रह्म' इति च निर्देशः । एवं सति मुख्यार्थ उपपद्यते । ' ते वा एते पञ्च ब्रह्मपुरुषाः' इति च हृदयसुषिषु ब्रह्मपुरुष- श्रुतिर्ब्रह्मसंबन्धितायां विवक्षितायां संभवति । तस्मादस्ति पूर्वस्मिन्वाक्ये ब्रह्म प्रकृतम् । तदेव ब्रह्म ज्योतिर्वाक्ये घुसंबन्धात्प्रत्यभिज्ञायमानं परामृश्यत इति स्थितम् ॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्य- विरोधात् ॥ २७ ॥ यदप्येतदुक्तम् — पूर्वत्र ' त्रिपादस्यामृतं दिवि इति सप्तम्या द्यौः आधारत्वेनोपदिष्टा ; इह पुन: 'अथ यदतं : परो दिव:' इति पञ्चम्या मर्यादात्वेन; तस्मादुपदेशभे- दान तस्येह प्रत्यभिज्ञानमस्तीति — तत्परिहर्तव्यम् । अत्रो- च्यते- नायं दोषः, उभयस्मिन्नप्यविरोधात् । उभयस्मि- न्नपि सप्तम्यन्ते पञ्चम्यन्ते चोपदेशे न प्रत्यभिज्ञानं विरु- ध्यते । यथा लोके वृक्षाप्रेण संबद्धोऽपि श्येन उभयथोपदि- श्यमानो दृश्यते— वृक्षाग्रे श्येनो वृक्षाप्रात्परतः श्येन इति च, एवं दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यते । अपर आह— यथा लोके वृक्षाप्रेणासंबद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यते - वृक्षाग्रे श्येनो वृक्षामात्परतः S. W. 1. 6 ' सूत्रभाष्ये [पा. १. श्येन इति च एवं दिवः परमपि सद्ब्रह्म दिवीत्युप- दिश्यते । तस्मादस्ति पूर्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभि- ज्ञानम् । अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम ॥ प्राणस्तथानुगमात् ॥ २८ ॥ 11 अस्ति कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिका- ' प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम ११. प्रातर्दना- युद्धेन च पौरुषेण च' इत्यारभ्याम्नाता । धिकरणम् । तस्यां श्रूयते - ' स होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व ' इति । तथोत्तरत्रापि - 'अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति ' इति । तथा 'न वाचं विजिज्ञासीत वक्तारं विद्यात् ' इति । अन्ते च ' स एष प्राण एव प्रज्ञात्मानन्दोऽजरो- Sमृत:' इत्यादि । तत्र संशयः - किमिह प्राणशब्देन वायु- मात्रमभिधीयते, उत देवतात्मा, उत जीव:, अथवा परं ब्रह्मेति । ननु ' अत एव प्राणः इत्यत्र वर्णितं प्राणश- व्दस्य ब्रह्मपरत्वम् ; इहापि च ब्रह्मलिङ्गमस्ति- 'आन- न्दोऽजरोऽमृत:' इत्यादि ; कथमिह पुनः संशयः संभवति ? अनेकलिङ्गदर्शनादिति ब्रूमः । न केवलमिह ब्रह्मलिङ्ग- मेवोपलभ्यते । सन्ति हीतरलिङ्गान्यपि - 'मामेव विजा- - . . ' सू. २८.] प्रथमोऽध्यायः । नीहि ' इतीन्द्रस्य वचनं देवतात्मलिङ्गम् । ' इदं शरीरं परि- गृह्योत्थापयति' इति प्राणलिङ्गम् । 'न वाचं विजिज्ञासीत वक्तारं विद्यात्' इत्यादि जीवलिङ्गम् । अत उपपन्नः संशयः । तत्र प्रसिद्धेर्वायुः प्राण इति प्राप्ते- - । इदमुच्यते- प्राणशब्दं ब्रह्म विज्ञेयम् । कुत: ? तथानु- गमात् । तथाहि पौर्वापर्येण पर्यालोच्यमाने वाक्ये पदानां समन्वयो ब्रह्मप्रतिपादनपर उपलभ्यते । उपक्रमे तावत् 'वरं वृणीष्व' इतीन्द्रेणोक्तः प्रतर्दनः परमं पुरुषार्थ वरमु- पचिक्षेप – ' त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हित- तमं मन्यसे ' इति । तस्मै हिततमत्वेनोपदिश्यमानः प्राणः कथं परमात्मा न स्यात् । न ह्यन्यत्र परमालविज्ञानाद्धित- तमप्राप्तिरस्ति, ' तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इत्यादिश्रुतिभ्यः । तथा 'स यो मां वेद न ह वै तस्य केनचन कर्मणा लोको मीयते न स्तेयेन न भ्रूणहत्यया ' इत्यादिः च ब्रह्मपरिग्रहे घटते । ब्रह्मविज्ञानेन हि सर्वकर्मक्षयः प्रसिद्ध: - ' श्रीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे' इत्याद्यासु श्रुतिषु । प्रज्ञात्मत्वं च ब्रह्म- पक्ष एवोपपद्यते । न ह्यचेतनस्य वायो: प्रज्ञात्मत्वं संभवति । तथोपसंहारेऽपि 'आनन्दोऽजरोऽसृतः ' इत्यानन्दत्वादीनि च सूत्रभाष्ये.. [पा. १. 9 न ब्रह्मणोऽन्यत्र सम्यक् संभवन्ति । ' स न साधुना कर्मणा भूयान्भवति नो एवासाधुना कर्मणा कनीयानेष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष उ एवासाधु कर्म कारयति तं यमेभ्यो लोकेभ्योऽधो निनीषते ' इति, 'एष लोकाधिपतिरेष लोकपाल एष लोकेश : ' इति च । सर्वमेतत्परस्मिन्ब्रह्मण्याश्रीयमाणेऽनुगन्तुं शक्यते, न मुख्ये प्राणे । तस्मात्प्राणो ब्रह्म ॥ न वक्तुरात्मोपदेशादिति चेदध्यात्मसं- बन्धभूमा ह्यस्मिन् ॥ २९ ॥ - यदुक्तं प्राणो ब्रह्मेति, तदाक्षिप्यते न परं ब्रह्म प्राण- शब्दम् ; कस्मात्? वक्तुरात्मोपदेशात् । वक्ता हीन्द्रो नाम कश्चिद्विग्रहवान्देवताविशेषः स्वमात्मानं प्रतर्दनायाचचक्षे---- 'मामेव विजानीहि ' इत्युपक्रम्य ' प्राणोऽस्मि प्रज्ञात्मा' इत्य- इंकारवादेन । स एव वक्तुरात्मत्वेनोपदिश्यमानः प्राणः कथं ब्रह्म स्यात् ? न हि ब्रह्मणो वक्तृत्वं संभवति, 'अवाममना: ' इत्यादिश्रुतिभ्यः । तथा विग्रहसंबन्धिभिरेव ब्रह्मण्यसंभव- द्विर्धमैंरिन्द्र आत्मानं तुष्टाव - 'त्रिशीर्षाणं त्वाष्ट्रमहनमरु - न्मुखान्यतीशालावृकेभ्यः प्रायच्छम् ' इत्येवमादिभिः । प्राण- तू. २९.] प्रथमोऽध्यायः । त्वं चेन्द्रस्य बलवत्त्वादुपपद्यते; 'प्राणो वै बलम्' इति हि विज्ञायते । बलस्य चेन्द्रो देवता प्रसिद्धा । या च काचिद्बलप्र- कृति:, इन्द्रस्य कर्मैव तदिति हि वदन्ति । प्रज्ञात्मत्वमप्य- प्रतिहतज्ञानत्वाद्देवतात्मनः संभवति । अप्रतिहतज्ञाना देवतां इति हि वदन्ति । निश्चिते चैवं देवतात्मोपदेशे हिततमत्वा- दिवचनानि यथासंभवं तद्विषयाण्येव योजयितव्यानि । तस्माद्वक्तुरिन्द्रस्यात्मोपदेशात् न प्राणो ब्रह्मेत्याक्षिप्य प्रतिस- माधीयते— 'अध्यात्मसंबन्धभूमा ह्यस्मिन् ' इति । अध्या- त्मसंबन्धः प्रत्यगात्मसंबन्धः, तस्य भूमा बाहुल्यम्, अस्मि - न्नध्याये, उपलभ्यते । ' यावद्धयस्मिञ्शरीरे प्राणो वसति तावदायुः' इति प्राणस्यैव प्रज्ञात्मनः प्रत्यग्भूतस्यायुष्प्रदानो- पसंहारयोः स्वातन्त्र्यं दर्शयति, न देवता विशेषस्य पराची - नस्य । तथास्तित्वे च प्राणानां निःश्रेयसमित्यध्यात्ममेवेन्द्रि- याश्रयं प्राणं दर्शयति । तथा 'प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति' इति । 'न वाचं विजिज्ञासीत वक्तारं विद्यात्' इति चोपक्रम्य तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्रा: प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एवं प्रज्ञात्मानन्दोऽज रोऽमृत:' इति विषयेन्द्रियव्यवहारारनाभिभूतं प्रत्यंगात्मा- सूत्रभाष्ये [ पा. १. नमेवोपसंहरति । ' स म आत्मेति विद्यात्' इति चोपसंहारः प्रत्यगात्मपरिग्रहे साधुः, न पराचीनपरिग्रहे । 'अयमात्मा ब्रह्म सर्वानुभूः' इति च श्रुत्यन्तरम् । तस्मादध्यात्मसंबन्ध- बाहुल्य़ाद्ब्रह्मोपदेश एवायम्, न देवतात्मोपदेशः ॥ कथं तर्हि वक्तुरात्मोपदेश: :- शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ३० ॥ इन्द्रो नाम देवतात्मा स्वमात्मानं परमात्मत्वेन ' अहमे - व परं ब्रह्म' इत्यार्षेण दर्शनेन यथाशास्त्रं पश्यन् उपदिश- ति स्म -- ' मामेव विजानीहि ' इति ; यथा— ' तद्वैतत्प- श्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्व' इति, तद्वन्; तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्' इति श्रुतेः । यत्पुनरुक्तम – ' मामेव विजानीहि ' इत्युक्त्वा, विग्रहधर्मैरि- न्द्रः स्वमात्मानं तुष्टाव त्वाष्ट्रवधादिभिरिति, तत्परिहर्तव्यम् ; अत्रोच्यते — न तावत् त्वाष्ट्रवधादीनां विज्ञेयेन्द्रस्तुत्यर्थत्वे- नोपन्यासः— 'यस्मादेवंकर्माहम्, तस्मान्मां विजानीहि ' इति ; कथं तर्हि ? विज्ञानस्तुत्यर्थत्वेन ; यत्कारणं त्वाष्ट्रवधादीनि साहसान्युपन्यस्य परेण— विज्ञानस्तुतिमनुसंदधाति — 'तस्य में तत्र लोम च न मीयते स यो मां वेद न ह वै सू. ३१.] प्रथमोऽध्यायः । 6.7 तस्य केन च कर्मणा लोको मीयते' इत्यादिना । एतदुक्तं भवति — यस्मादीदृशान्यपि क्रूराणि कर्माणि कृतवतो मम ब्रह्मभूतस्य लोमापि न हिंस्यते, स योऽन्योऽपि मां वेद, न तस्य केनचिदपि कर्मणा लोको हिंस्यत इति । विज्ञेयं तु ब्रह्मैव ' प्राणोऽस्मि प्रज्ञात्मा' इति वक्ष्यमाणम् । तस्माद्ब्रह्म- वाक्यमेतत् ॥ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैवि- ध्यादाश्रितत्वादिह तद्योगात् ॥ ३१ ॥ - यद्यप्यध्यात्मसंबन्धभूमदर्शनान्न पराचीनस्य देवतात्मन उपदेशः, तथापि न ब्रह्मवाक्यं भवितुमर्हति । कुत: ? जीवलिङ्गात् मुख्यप्राणलिङ्गाश्च । जीवस्य तावदस्मिन्वाक्ये विस्पष्टुं लिङ्गमुपलभ्यते — 'न वाचं विजिज्ञासीत वक्तारं विद्यात्' इत्यादि । अत्र हि वागादिभिः करणैर्व्यावृतस्य कार्यकरणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयते । तथा मुख्यप्राणलिङ्गमपि — 'अथ खलु प्राण एव प्रज्ञात्में . शरीरं परिगृह्मोत्थापयति' इति । शरीरधारणं च मुख्यप्रा- णस्य धर्मः ; प्राणसंवादे वागादीन्प्राणान्प्रकृत्य- 'तान्व- रिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पश्वधात्मानं प्रवि- . सूत्रभाष्ये [पा. १. भज्यैतद्वाणमवष्टभ्य विधारयामि' इति श्रवणात् । ये तु ' इमं शरीरं परिगृह्य' इति पठन्ति तेषाम् इयं जीवमि- न्द्रियग्रामं वा परिगृह्य शरीरमुत्थापयतीति व्याख्येयम् । प्रज्ञात्मत्वमपि जीवे तावश्चेतनत्वादुपपन्नम् । मुख्येऽपि प्राणे प्रज्ञासाधनप्राणान्तराश्रयत्वादुपपन्नमेव । एवं जीवमुख्यप्रा- णपरिग्रहे च प्राणप्रज्ञात्मनो: सहवृत्तित्वेनाभेदनिर्देश:, स्वरूपेण च भेदनिर्देश:, इत्युभयथापि निर्देश उपपद्यते- 'यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राण: ' 'सह होता- वस्मिशरीरे वसतः सहोत्क्रामतः' इति । ब्रह्मपरिग्रहे तु किं कस्माद्भिद्येत ? तस्मादिह जीवमुख्यप्राणयोरन्यतर उभौ वा प्रतीयेयातां न ब्रह्मेति चेत्, नैतदेवम्; उपासात्रै- विध्यात् । एवं सति त्रिविधमुपासनं प्रसज्येत जीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति । न चैतदेकस्मिन्वाक्ये - ऽभ्युपगन्तुं युक्तम् । उपक्रमोपसंहाराभ्यां हि वाक्यैकवाक्य- त्वमवगम्यते । 'मामेव विजानीहि ' इत्युपक्रम्य, 'प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व' इत्युक्त्वा, अन्ते 'स एवं प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृत:' इत्येकरूपावुपक्रमो- पसंहारौ दृश्येते । तंत्रार्थैकत्वं युक्तमाश्रयितुम् । न च ब्रह्म- लिङ्गमन्यपरत्वेन परिणेतुं शक्यम्; दशानां भूतमात्राणां । । - सू. ३१.] I प्रथमोऽध्यायः । J प्रज्ञामात्राणां च ब्रह्मणोऽन्यत्र अर्पणानुपपत्तेः । आश्रितत्वांच अन्यत्रापि ब्रह्मलिङ्गवशात्प्राणशब्दस्य ब्रह्मणि प्रवृत्तेः, इहापि च हिततमोपन्यासादिब्रह्मलिङ्गयोगात्, ब्रह्मोपदेश एवाय- मिति गम्यते । यत्तु मुख्यप्राणलिङ्गं दर्शितम् — ' इदं शरीरं परिगृह्मोत्थापयति' इति, तदसत्; प्राणव्यापारस्यापि पर- मात्मायत्तत्वात्परमात्मन्युपचरितुं शक्यत्वात् — 'न प्राणेन नांपानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ' इति श्रुतेः । यदपि 'न वाचं विजिज्ञा- सीत वक्तारं विद्यात्' इत्यादि जीवलिङ्गं दर्शितम्, तदपि न ब्रह्मपक्षं निवारयति । न हि जीवो नामात्यन्तभिन्नो ब्रह्मणः, 'तत्त्वमसि' 'अहं ब्रह्मास्मि' इत्यादिश्रुतिभ्यः । बुद्धधाद्युपा- धिकृतं तु विशेषमाश्रित्य ब्रह्मैव सन् जीवः कर्ता भोक्ता चेत्यु- च्यते । तस्योपाधिकृतविशेषपरित्यागेन स्वरूपं ब्रह्म दर्शयितुम् 'न वाचं विजिज्ञासीत वक्तारं विद्यात्' इत्यादिना प्रत्यगा- त्माभिमुखीकरणार्थ उपदेशो न विरुध्यते । ' यद्वाचानभ्यु- - दितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदि- दमुपासते ' इत्यादि च श्रुत्यन्तरं वचनादिक्रियाव्याप्रतस्यै- वात्मनो ब्रह्मत्वं दर्शयति । यत्पुनरेतदुक्तम् — "सह होता- वस्मिञ्शरीरे वसतः सहोत्क्रामतः' इति प्राणप्रज्ञात्मनो- सूत्रभाष्ये [पा. १. र्भेददर्शनं ब्रह्मवादिनो नोपपद्यत इति, नैष दोष:; ज्ञानक्रिया- शक्तिद्वयाश्रययोर्बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोर्भेदनिर्दे- शोपपत्तेः । उपाधिद्वयोपहितस्य तु प्रत्यगात्मनः स्वरूपेणा- ' प्राण एव प्रज्ञात्मा' इत्येकीकरणमवि- भेद इत्यतः रुद्धम् ॥ अथवा 'नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्' इत्य- स्यायमन्योऽर्थः -- न ब्रह्मवाक्येऽपि जीवमुख्यप्राणलिङ्गं वि- रुध्यते ; कथम् ? उपासात्रैविध्यात् । त्रिविधमिह ब्रह्मण उपा- सनं विवक्षितम् — प्राणधर्मेण, प्रज्ञाधर्मेण, स्वधर्मेण च । तत्र 'आयुर मृतमित्युपास्स्वायुः प्राणः' इति ' इदं शरीरं परिगृ- ह्योत्थापयति' इति ' तस्मादेतदेवोक्थमुपासीत' इति च प्रा- णधर्मः । ' अथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकी भवन्ति तद्व्याख्यास्यामः' इत्युपक्रम्य ' वागेवास्या एकमङ्गमदूदुहत्तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति' इत्यादिः प्रज्ञाधर्मः । ' तां वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम् । -यदि भूतमात्रा न स्युर्न प्रज्ञामात्रा: स्युः । यदि प्रज्ञामात्रा न स्युर्न भूतमात्रा: स्यु: । न ह्यन्यतरतो रूपं किंचन सिध्येत् । नो एतन्नाना । तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अ- सू. ३१.] प्रथमोऽध्यायः । र्पिता एवमेवैता भूतमात्रा: प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्रा: प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मा' इत्यादिर्ब्रह्मधर्मः । तस्माद्ब्रह्मण एवैतदुपाधिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रि- विधं विवक्षितम् । अन्यत्रापि ' मनोमयः प्राणशरीरः ' इ- त्यादावुपाधिधर्मेण ब्रह्मण उपासनमाश्रितम्; इहापि तगु- ज्यते वाक्यस्योपक्रमोपसंहाराभ्यामेकार्थत्वावगमात् प्राण- प्रज्ञात्मब्रह्मलिङ्गावगमाच । तस्माद्ब्रह्मवाक्यमेवैतदिति सि- खम ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव- त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य प्रथमः पादः ॥ श्रीमच्छंकरभगवत्पादैर्विरचितम् ॥ ब्रह्मसूत्रभाष्यम् ॥ प्रथमाध्याये द्वितीयः पादः reveren द्वितीयः पादः ॥ प्रथमे पादे जन्माद्यस्य यतः ' . इत्याकाशादेः समस्तस्य जगतो जन्मा- दिकारणं ब्रह्मेत्युक्तम् । तस्य समस्त- . जगत्कारणस्य ब्रह्मणो व्यापित्वं नित्यत्वं सर्वज्ञत्वं सर्वशक्तित्वं सर्वात्मकत्वमित्येवं- जातीयका धर्मा उक्ता एव भवन्ति । अर्थान्तरप्रसिद्धानां च . केषांचिच्छब्दानां ब्रह्मविषयत्वहेतुप्रतिपादनेन कानिचिद्वा- क्यानि स्पष्टब्रह्मलिङ्गानि संदिह्यमानानि ब्रह्मपरतया निर्णी - तानि । पुनरप्यन्यानि वाक्यान्यस्पष्टब्रह्मलिङ्गानि संदि - ह्यन्ते --- किं परं ब्रह्म प्रतिपादयन्ति, आहोस्विदर्थान्तरं किंचिदिति । तन्निर्णयाय द्वितीयतृतीयौ पादावारभ्येते-- सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥ इदमाम्नायते-- ' सर्वे खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिलाके सूत्रभाष्ये [पा. २. पुरुषो भवति तथेतः प्रेत्य भवति स ऋतुं कुर्वीत ' १. सर्वत्र प्रसि- यधि- करणम् । 'मनोमयः प्राणशरीर:' इत्यादि । तब , संशय: -- किमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते, आहो- " स्वित्परं ब्रह्मेति । किं तावत्प्राप्तम् ? शारीर इति । कुतः ? तस्य हि कार्यकरणाधिपतेः प्रसिद्धो मनआदिभिः संबन्ध:, न परस्य ब्रह्मण:; 'अप्राणो हामनाः शुभ्रः' इत्यादिश्रु- तिभ्य: । ननु 'सर्वं खल्विदं ब्रह्म' इति स्वशब्देनैव ब्रह्मो- पात्तम् ; कथमिह शारीर आत्मोपास्यत्वेनाशङ्कयते ? नैष दोषः; नेदं वाक्यं ब्रह्मोपासनविधिपरम् ; किं तर्हि ? शमविधि - परम्; यत्कारणम् ' सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत' इत्याह । एतदुक्तं भवति-- यस्मात्सर्वमिदं विकारजातं ब्रह्मैव, तज्जत्वात् तल्लत्वान् तदनत्वाच्च- -- नं च सर्वस्यैकात्मत्वे रागादयः संभवन्ति -- तस्मात् शान्त उपा- सीतेति । न च शमविधिपरत्वे सत्यनेन वाक्येन ब्रह्मोपा - सनं नियन्तुं शक्यते । उपासनं तु 'सं ऋतुं कुर्वीत' इत्य- नेन विधीयते । ऋतुः संकल्पो ध्यानमित्यर्थः । तस्य च विषयत्वेन श्रूयते -- 'मनोमयः प्राणशरीर:' इति जीव- लिङ्गम् । अतो ब्रूमः - जीवविषयमेतदुपासनमिति । 'स- . सू. १.] प्रथमोऽध्यायः । र्वकर्मा सर्वकाम:' इत्याद्यपि श्रूयमाणं पर्यायेण जीवविष- यमुपपद्यते । 'एष म आत्मान्तर्हृदयेऽणीयान्त्रीहेर्वा यवाद्वा' इति च हृदयायतनत्वमणीयस्त्वं चाराग्रमात्वस्य जीवस्या - वकल्पते, नापरिच्छिन्नस्य ब्रह्मणः । ननु ' ज्यायान्पृथिव्याः ' इत्याद्यपि न परिच्छिन्नेऽवकल्पत इति । अत्र ब्रूमः— न तावदणीयस्त्वं ज्यायस्त्वं चोभयमेकस्मिन्समाश्रयितुं शक्यम्, विरोधात्; अन्यतराश्रयणे च, प्रथमश्रुतत्वादणीयस्त्वं युक्त- माश्रयितुम् ; ज्यायस्त्वं तु ब्रह्मभावापेक्षया भविष्यतीति । निश्चिते च जीवविषयत्वे यदन्ते ब्रह्मसंकीर्तनम् — 'एत- ब्रह्म' इति, तदपि प्रकृतपरामर्शार्थत्वाज्जीवविषयमेव । त- स्मान्मनोमयत्वादिभिर्धर्मैर्जीव उपास्य इत्येवं प्राप्ते- - ब्रूमः — परमेव ब्रह्मेह मनोमयत्वादिभिर्धर्मैरुपास्यम् । कु- तः ? सर्वत्र प्रसिद्धोपदेशात् । यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दस्यालम्बनं जगत्कारणम्, इह च 'सर्वे स्खल्विदं ब्रह्म' इति वाक्योपक्रमे श्रुतम्, तदेव मनोमयत्वादिधर्मैर्विशिष्टमुप- दिश्यत इति युक्तम् । एवं च सति प्रकृतहानाप्रकृतप्रक्रिये न भविष्यतः । ननु वाक्योपक्रमे शमविधिविवक्षया ब्रह्म नि- र्दिष्टं न स्वविवक्षयेत्युक्तम्; अत्रोच्यते - यद्यपि शमविधि - विवक्षया ब्रह्म निर्दिष्टम्, तथापि मनोमयत्वादिषूपदिश्यमा- S. W. I. 7 सूत्रभाष्ये [पा. २. नेषु तदेव ब्रह्म संनिहितं भवति, जीवस्तु न संनिहितः, न च स्वशब्देनोपात्त इति वैषम्यम् ॥ विवक्षितगुणोपपत्तेश्च ॥ २ ॥ वक्तुमिष्टा विवक्षिता: । यद्यप्यपौरुषेये वेदे वक्तुरभावात् नेच्छार्थः संभवति, तथाप्युपादानेन फलेनोपचर्यते । लो- केऽपि यच्छब्दाभिहितमुपादेयं भवति तद्विवक्षितमित्युच्यते, यदनुपादेयं तद्विवक्षितमिति । तद्वेदे ऽप्युपादेयत्वेनाभिहितं विवक्षितं भवति, इतरविवक्षितम् । उपादानानुपादाने तु वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते । तदिह ये विवक्षि- ता गुणा उपासनायामुपादेयत्वेनोपदिष्टाः सत्यसंकल्पप्रभृत- य:, ते परस्मिन्ब्रह्मण्युपपद्यन्ते । सत्यसंकल्पत्वं हि सृष्टि- स्थितिसंहारेष्वप्रतिबद्धशक्तित्वात्परमात्मन एवावकल्पते । परमात्मगुणत्वेन च ' य आत्मापहतपाप्मा' इत्यत्र 'सत्य- 'कामः सत्यसंकल्प:' इति श्रुतम्, 'आकाशात्मा' इति च । आकाशवदात्मा अस्येत्यर्थः । सर्वगतत्वादिभिर्धर्मैः संभ- वत्याकाशेन साम्यं ब्रह्मण: । ' ज्यायान्पृथिव्याः' इत्यादि- ना चैतदेव दर्शयति । यदपि आकाश आत्मा अखेति व्या- ख्यायते, तदपि संभवति सर्वजगत्कारणस्य सर्वात्मनो ब्रह्मण आकाशात्मत्वम् । अत एव ' सर्वकर्मा' इत्यादि । एव- सू. ३.] प्रथमोऽध्यायः । मिहोपास्यतया विवक्षिता गुणा ब्रह्मण्युपपद्यन्ते । यत्तूक्तम् - 'मनोमयः प्राणशरीर:' इति जीवलिङ्गम्, न तद्ब्रह्मण्युपपद्यत इति; तदपि ब्रह्मण्युपपद्यत इति ब्रूमः । सर्वात्मत्वाद्धि ब्रह्मणो जीवसंबन्धीनि मनोमयत्वादीनि ब्रह्मसंबन्धीनि भवन्ति । तथा च ब्रह्मविषये श्रुतिस्मृती भवतः - ' त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ' इति ; 'सर्वतः पाणिपादं तत्सर्वतोक्षि शिरोमुखम् । सर्वतः- श्रुतिमल्लोके सर्वमावृत्य तिष्ठति' इति च । 'अप्राणो ह्यमनाः शुभ्र: ' इति श्रुतिः शुद्धब्रह्मविषया, इयं तु श्रुति: 'मनोमय : प्राणशरीर:' इति सगुणब्रह्मविषयेति विशेषः । अतो विव- क्षितगुणोपपत्तेः परमेव ब्रह्म इहोपास्यत्वेनोपदिष्टमिति गम्यते ॥ अनुपपत्तेस्तु न शारीरः ॥ ३ ॥ पूर्वेण सूत्रेण ब्रह्मणि विवक्षितानां गुणानामुपपत्तिरुक्ता । अनेन शारीरे तेषामनुपपत्तिरुच्यते । तु शब्दोऽवधारणार्थः । ब्रह्मैवोक्तेन न्यायेन मनोमयत्वादिगुणम् ; न तु शारीरो जीवो मनोमयत्वादिगुणः ; यत्कारणम्- 'सत्यसंकल्पः ' ' आकाशात्मा' ' अवाकी' ' अनादर: ' 'ज्यायान्पृथिव्या : ' सूत्रभाष्ये [पा. २. इति चैवजातीयका गुणा न शारीरे आञ्जस्येनोपपद्यन्ते । शारीर इति शरीरे भव इत्यर्थः । नन्वीश्वरोऽपि शरीरे भवति ; सत्यम्, शरीरे भवति ; न तु शरीर एव भवति ; ' ज्यायान्पृथिव्या ज्यायानन्तरिक्षात् ' 'आकाशवत्सर्वगतश्च नित्य: ' इति च व्यापित्वश्रवणात् । जीवस्तु शरीर एव भवति, तस्य भोगाधिष्ठानाच्छरीरादन्यत्र वृत्त्यभावात् ॥ कर्मकर्तृव्यपदेशाच्च ॥ ४॥ इतश्च न शारीरो मनोमयत्वादिगुणः ; यस्मात्कर्मकर्तृ- व्यपदेशो भवति — ' एतमितः प्रेत्याभिसंभवितास्मि' इति । एतमिति प्रकृतं मनोमयत्वादिगुणमुपास्यमात्मानं कर्मत्वेन प्राप्यत्वेन व्यपदिशति ; अभिसंभवितास्मीति शारीरमुपा- सकं कर्तृत्वेन प्रापकत्वेन । अभिसंभवितास्मीति प्राप्ता- स्मीत्यर्थः । न च सत्यां गतावेकस्य कर्मकर्तृव्यपदेशो युक्तः । तथोपास्योपासक भावोऽपि भेदाधिष्ठान एव । तस्मादपि न शारीरो मनोमयत्वादिविशिष्टः ॥ शब्दविशेषात् ॥ ५ ॥ इतश्च शारीरादन्यो मनोमयत्वादिगुणः ; यस्माच्छब्दवि - शेषो भवति समानप्रकरणे श्रुत्यन्तरे -- ' यथा व्रीहिर्वा सू. ६.] प्रथमोऽध्यायः । यवो वा श्यामाको वा श्यामाकतण्डुलो वैवमयमन्तराल- न्पुरुषो हिरण्मयः' इति । शारीरस्यात्मनो यः शब्दोऽभि - धायकः सप्तम्यन्तः- अन्तरात्मन्निति ; तस्माद्विशिष्टोऽन्यः प्रथमान्तः पुरुषशब्दो मनोमयत्वादिविशिष्टस्यात्मनोऽभिधा- यकः । तस्मात्तयोर्भेदोऽधिगम्यते ॥ स्मृतेश्च ॥ ६ ॥ - स्मृतिश्च शारीरपरमात्मनोर्भेदं दर्शयति — 'ईश्वर: सर्व- भूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रा- रूढानि मायया' इत्याद्या । अत्राह -- कः पुनरयं शारीरो नाम परमात्मनोऽन्य:, यः प्रतिषिध्यते - ' अनुपपत्तेस्तु न शारीरः' इत्यादिना ? श्रुतिस्तु 'नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता' इत्येवंजातीयका परमात्मनोऽन्य- मात्मानं वारयति । तथा स्मृतिरपि ' क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत' इत्येवंजातीयकेति ॥ अत्रोच्यते— सत्यमेवैतत् — पर एवात्मा देहेन्द्रिय- मनोबुद्ध्युपाधिभिः परिच्छिद्यमानो बालैः शारीर इत्युपच- र्यते; यथा घटकरकाद्युपाधिवशादपरिच्छिन्नमपि नभः परि- च्छिन्नवदवभासते, तद्वत् । तदपेक्षया च कर्मकर्तृत्वादि- भेदव्यवहारो न विरुध्यते प्राक् 'तत्त्वमसि' इत्यात्मैकत्वो- सूत्रभाष्ये [पा. २. पदेशग्रहणात् । गृहीते त्वात्मैकत्वे वन्धमोक्षादिसर्वव्यवहार- परिसमाप्तिरेव स्यात् ॥ अर्भकौ कस्त्वा सद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥ - अर्भकमल्पम् ओको नीडम्, 'एष म आत्मान्तर्हृदये ' इति परिच्छिन्नायतनत्वात्, स्वशब्देन च ' अणीयान्त्रीहेर्वा यवाद्वा' इत्यणीयस्त्वव्यपदेशात्, शारीर एवाराग्रमात्रो जीव इहोपदिश्यते, न सर्वगतः परमात्मा — इति यदुक्तं तत्परिहर्तव्यम् । अत्त्रोच्यते- नायं दोषः । न तावत्परि- च्छिन्नदेशस्य सर्वगतत्वव्यपदेशः कथमप्युपपद्यते । सर्वगतस्य तु सर्वदेशेषु विद्यमानत्वात्परिच्छिन्नदेशव्यपदेशोऽपि कया- चिदपेक्षया संभवति । यथा समस्तं वसुधाधिपतिरपि हि सन् अयोध्याधिपतिरिति व्यपदिश्यते । कया पुनरपेक्षया सर्वगतः सन्नीश्वरोऽर्भकौका अणीयांश्च व्यपदिश्यत इति । निचाय्यत्वादेवमिति ब्रूमः । एवम् अणीयस्त्वादिगुणगणोपेत ईश्वरः, तत्र हृदयपुण्डरीके, निचाय्यो द्रष्टव्य उपदिश्यते ; यथा सालग्रामे हरिः । तत्रास्य बुद्धिविज्ञानं ग्राहकम् ; . सर्वगतोऽपीश्वरस्तत्रोपास्यमानः प्रसीदति । व्योमवञ्चैतद्र- ष्टव्यम् । यथा सर्वगतमपि सब्योम सूचीपाशाद्यपेक्षयार्भकौ- सू. ८.] प्रथमोऽध्यायः । कोऽणीयश्चेति व्यपदिश्यते, एवं ब्रह्मापि । तदेवं निचाय्य- त्वापेक्षं ब्रह्मणोऽर्भकौकस्त्वमणीयस्त्वं च, न पारमार्थिकम् । तत्र यदाशङ्कयते— हृदयायतनत्वाद्ब्रह्मणो हृदयानां च प्रतिशरीरं भिन्नत्वाद्भिन्नायतनानां च शुकादीनामनेकत्वसा- वयवत्वानित्यत्वादिदोषदर्शनाद्ब्रह्मणोऽपि तद्वत्प्रसङ्ग इति, त- दपि परिहृतं भवति ॥ संभोगप्राप्तिरिति चैन्न वैशेष्यात् ॥ ८ ॥ व्योमवत्सर्वगतस्य ब्रह्मणः सर्वप्राणिहृदयसंबन्धात्, चि- द्रूपतया च शारीरादविशिष्टत्वात्, सुखदुःखादिसंभोगोऽप्य- विशिष्ट: प्रसज्येत ; एकत्वाच्च – न हि परस्मादात्मनोऽन्यः कश्चिदात्मा संसारी विद्यते, 'नान्योऽतोऽस्ति विज्ञाता' इत्यादिश्रुतिभ्यः। तस्मात्परस्यैव ब्रह्मणः संभोगप्राप्तिरिति चे- वैशेष्यात् । न तावत्सर्वप्राणिहृदयसंबन्धात् चिद्रूप- त्, न; तया च शारीरवद्ब्रह्मणः संभोगप्रसङ्गः, वैशेष्यात् । विशेषो हि भवति शारीरपरमेश्वरयोः । एकः कर्ता भोक्ता धर्माधर्मादि- . साधनः सुखदुःखादिमांश्च । एकस्तद्विपरीतोऽपहतपाप्मत्वा- दिगुणः । एतस्मादनयोर्विशेषादेकस्य भोगः, नेतरस्य । यदि . च संनिधानमात्रेण वस्तुशक्तिमनाश्रित्य कार्यसंबन्धोऽभ्युपग- म्येत, आकांशादीनामपि दाहादिप्रसङ्गः । सर्वगतानेकात्मवा- ; - सूत्रभाष्ये [पा. २. दिनामपि समावेतौ चोद्यपरिहारौ । यदप्येकत्वाद्ब्रह्मण आत्मा- न्तराभावाच्छारीरस्य भोगेन ब्रह्मणो भोगप्रसङ्ग इति, अत्र वदामः —— इदं तावद्देवानांप्रियः प्रष्टव्यः कथमयं त्वया - त्मान्तराभावोऽध्यवसित इति । 'तत्त्वमसि' 'अहं ब्रह्मास्मि' 'नान्योऽतोऽस्ति विज्ञाता' इत्यादिशास्त्रेभ्य इति चेत्, य- थाशास्त्रं तर्हि शास्त्रीयोऽर्थः प्रतिपत्तव्यः, न तत्रार्धजरतीयं लभ्यम् । शास्त्रं च 'तत्त्वमसि' इत्यपहतपाप्मत्वादिविशेषणं ब्रह्म शारीरस्यात्मत्वेनोपदिशच्छारीरस्यैव तावदुपभोक्तृत्वं वा- रयति । कुतस्तदुपभोगेन ब्रह्मण उपभोगप्रसङ्गः । अथागृ- हीतं शारीरस्य ब्रह्मणैकत्वम्, तदा मिथ्याज्ञाननिमित्त: शारी- रस्योपभोगः ; न तेन परमार्थरूपस्य ब्रह्मणः संस्पर्शः । न हि बालैस्तलमलिनतादिभिर्व्यानि विकल्प्यमाने तलमलिनतादि- विशिष्टमेव परमार्थतो व्योम भवति । तदाह —न, वैशेष्या- दिति । नैकत्वेऽपि शारीरस्योपभोगेन ब्रह्मण उपभोगप्रसङ्गः, वैशेष्यात् । विशेषो हि भवति मिथ्याज्ञानसम्यग्ज्ञानयोः । मिथ्याज्ञानकल्पित उपभोगः, सम्यग्ज्ञानदृष्टमेकत्वम् । न च मिथ्याज्ञानकल्पितेनोपभोगेन सम्यग्ज्ञानदृष्टं वस्तु संस्पृश्यते । तस्मान्नोपभोगगन्धोऽपि शक्य ईश्वरस्य कल्पयितुम् ॥ अत्ता चराचरग्रहणात् ॥ ९ ॥ सू. ९.] प्रथमोऽध्यायः । कठवल्लीषु पठ्यते ' यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः' इति । २. अधि- अत्र कश्चिदोदनोपसेचनसूचितोऽत्ता प्रती - करणम् । यते । तत्र किमग्निरत्ता स्यात्, उत जी- व:, अथवा परमात्मा, इति संशयः ; विशेषानवधार- णात्, त्रयाणां चाग्निजीवपरमात्मनामस्मिन्प्रन्थे प्रश्नोपन्या- सोपलब्धेः । किं तावत्प्राप्तम् ? अभिरत्तेति । कुत: ? 'अग्नि- रन्नादः' इति श्रुतिप्रसिद्धिभ्याम् । जीवो वा अत्ता स्यात् 'तयोरन्यः पिप्पलं स्वाद्वत्ति' इति दर्शनात् ; न परमात्मा, ' अनश्नन्नन्योऽभिचाकशीति' इति दर्शनादित्येवं प्राप्ते- ब्रूमः -- अत्तात्र परमात्मा भवितुमर्हति । कुतः ? चराचर- ग्रहणात् । चराचरं हि स्थावरजङ्गमं मृत्यूपसेचनमिहाद्यत्वेन प्रतीयते ; तादृशस्य चाद्यस्य न परमात्मनोऽन्यः कार्त्स्न्ये- नात्ता संभवति । परमात्मा तु विकारजातमुपसंहरन्सर्व- मत्तीत्युपपद्यते । नन्विह चराचरग्रहणं नोपलभ्यते ; कथं सिद्धवञ्चराचरग्रहणं हेतुत्वेनोपादीयते ? नैष दोष:, मृत्यूपसे - चनत्वेनेहाद्यत्वेन सर्वस्य प्राणिनिकायस्य प्रतीयमानत्वात्, ब्रह्मक्षत्रयोश्च प्राधान्यात्प्रदर्शनार्थत्वोपपत्तेः । यत्तु परमात्म- नोऽपि नात्तृत्वं संभवति 'अनश्नन्नन्योऽभिचाकशीति' इति सूत्रभाष्ये [पा. २- दर्शनादिति, अत्रोच्यते — कर्मफलभोगस्य प्रतिषेधकमेत- द्दर्शनम्, तस्य संनिहितत्वात् । न विकारसंहारस्य प्रतिषे- धकम्, सर्ववेदान्तेषु सृष्टिस्थितिसंहारकारणत्वेन ब्रह्मण: प्रसिद्धत्वात् । तस्मात्परमात्मैवेहात्ता भवितुमर्हति ॥ प्रकरणाच्च ॥ १० ॥ इतश्च परमात्मैवेहात्ता भवितुमर्हति ; यत्कारणं प्रकर- णमिदं परमात्मन: - न जायते म्रियते वा विपश्चित् ' इत्यादि । प्रकृतग्रहणं च न्याय्यम् । ' क इत्था वेद यत्र स:' इति च दुर्विज्ञानत्वं परमात्मलिङ्गम् ॥ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥ कठवल्लीष्वेव पठ्यते--' ऋतं पिवन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति ३. गुहाप्रविष्टा- पञ्चाग्नयो ये च त्रिणाचिकेता:' इति । धिकरणम् । तत्र संशयः किमिह बुद्धिजीवौ निर्दि- ष्टौ, उत जीवपरमात्मानाविति । यदि बुद्धिजीवौ, ततो बुद्धिप्रधानात्कार्यकरणसंघाताद्विलक्षणो जीवः प्रतिपादितो भवति । तद्पीह प्रतिपादयितव्यम्, 'येयं प्रेते विचिकि- सा मनुष्येऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशि- सू. ११.] प्रथमोऽध्यायः । . प्रस्त्वयाहं वराणामेष वरस्तृतीयः' इति पृष्टत्वात् । अथ जीवपरमात्मानौ, ततो जीवाद्विलक्षणः परमात्मा प्रतिपादि- तो भवति । तदपीह प्रतिपादयितव्यम् -' अन्यत्र धर्माद- न्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद' इति पृष्टत्वात् । अत्राहाक्षेप्ता — उभाव- प्येतौ पक्षौ न संभवतः । कस्मात् ? ऋतपानं हि कर्मफलोप- भोग:, 'सुकृतस्य लोके' इति लिङ्गात् । तच्च चेतनस्य क्षेत्रज्ञस्य संभवति, नाचेतनाया बुद्धेः । ' पिबन्तौ ' इति द्विवचनेन द्वयोः पानं दर्शयति श्रुतिः । अतो बुद्धिक्षेत्रज्ञपक्षस्तावन्न संभवति । अत एव क्षेत्रज्ञपरमात्मपक्षोऽपि न संभवति ; चेतनेऽपि परमात्मनि ऋतपानासंभवात्, 'अननन्नन्योऽभि- चाकशीति' इति मन्त्रवर्णादिति । अत्रोच्यते — नैष दोष: छत्रिणो गच्छन्तीत्येकेनापि च्छत्रिणा बहूनामच्छत्रिणां छत्रित्वोपचारदर्शनात् । एवमेकेनापि पिवता द्वौ पिबन्ता- वुच्येयाताम् । यद्वा जीवस्तावत्पिवति; ईश्वरस्तु पाययति ; पाययन्नपि पिबतीत्युच्यते, पाचयितर्यपि पक्तृत्वप्रसिद्धिदर्श- नात् । बुद्धिक्षेत्रज्ञपरिग्रहोऽपि संभवति; करणे कर्तृत्वो- पचारात्, 'एधांसि पचन्ति ' इति प्रयोगदर्शनात् । न चा- ध्यात्माधिकारेऽन्यौ कौचिह्नावृतं पिबन्तौ संभवतः । तस्मा- दुद्धिजीवौ स्यातां जीवपरमात्मानौ वेति संशयः ॥ :; सूत्रभाष्ये [पा २. किं तावत्प्राप्तम् ? बुद्धिक्षेत्रज्ञाविति । कुत: ? 'गुहां प्रविष्टौ ' इति विशेषणात् । यदि शरीरं गुहा, यदि वा 'हृदयम्, उभयथापि बुद्धिक्षेत्रज्ञौ गुहां प्रविष्टावुपपद्येते । न च सति संभवे सर्वगतस्य ब्रह्मणो विशिष्टदेशत्वं युक्तं `कल्पयितुम् । 'सुकृतस्य लोके' इति च कर्मगोचरानतिक्रमं दर्शयति । परमात्मा तु न सुकृतस्य वा दुष्कृतस्य वा गो- 'चरे वर्तते, 'न कर्मणा वर्धते नो कनीयान्' इति श्रुतेः । 'छायातपौ' इति च चेतनाचेतनयोर्निर्देश उपपद्यते, छाया- -तपवत्परस्परविलक्षणत्वात् । तस्माद्वुद्धिक्षेत्रज्ञाविहोच्येयाता- मित्येवं प्राप्ते- ब्रूमः - विज्ञानात्मपरमात्मानाविहोच्येयाताम् । क- स्मात् ? आत्मानौ हि तावुभावपि चेतनौ समानस्वभावौ । संख्याश्रवणे च समानस्वभावेष्वेव लोके प्रतीतिर्दृश्यते । 'अस्य गोर्द्वितीयोऽन्वेष्टव्यः' इत्युक्ते, गौरेव द्वितीयोऽन्वि- ष्यते, नाश्वः पुरुषो वा । तदिह ऋतपानेन लिङ्गेन निश्चिते विज्ञानात्मनि द्वितीयान्वेषणायां समानस्वभावश्चेतनः पर- मात्मैव प्रतीयते । ननूक्तं गुहाहितत्वदर्शनान्न परमात्मा प्रत्येतव्य इति; गुहाहितत्वदर्शनादेव परमात्मा प्रत्येतव्य इति वदामः । गुहाहितत्वं तु श्रुतिस्मृतिष्वसकृत्परमात्मन एंव सू. १२.] प्रथमोऽध्यायः । १०९. दृश्यते— 'गुहाहितं गह्वरेष्ठं पुराणम्' 'यो वेद निहितं गुहायां परमे व्योमन् ' 'आत्मानमन्विच्छ गुहां प्रविष्टम् ' इत्याद्यासु । सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थो देशविशेषोप- देशो न विरुध्यत इत्येतदप्युक्तमेव । सुकृतलोकवर्तित्वं तु. च्छन्त्रित्ववदेकस्मिन्नपि वर्तमानमुभयोरविरुद्धम् । 'छाया- तपौ' इत्यप्यविरुद्धम् ; छायातपवत्परस्परविलक्षणत्वात्सं- सारित्वासंसारित्वयोः, अविद्याकृतत्वात्संसारित्वस्य पारमा- र्थिकत्वाञ्चासंसारित्वस्य । तस्माद्विज्ञानात्मपरमात्मानौ गुहां प्रविष्टौ गृह्येते ॥ कुतश्च विज्ञानात्मपरमात्मानौ गृह्येते ? — विशेषणाच्च ॥ १२ ॥ , विशेषणं च विज्ञानात्मपरमात्मनोरेव भवति । 'आत्मानं रथिनं विद्धि शरीरं रथमेव तु इत्यादिना परेण प्रन्थेन रथिरथादिरूपककल्पनया विज्ञानात्मानं रथिनं संसारमो- क्षयोर्गन्तारं कल्पयति । 'सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्' इति परमात्मानं गन्तव्यं कल्पयति । तथा 'तं दुर्दर्शे गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्या-- त्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति' इति पूर्वस्मिन्नपि ग्रन्थे मन्तृमन्तव्यत्वेनैतावेव विशेषितौ । प्रक-- १.१० सूत्रभाष्ये [पा. २. रणं चेदं परमात्मनः । ' ब्रह्मविदो वदन्ति' इति च वक्तृ- विशेषोपादानं परमात्मपरिग्रहे घटते । तस्मादिह जीवपर- मात्मानावुच्येयाताम् । एष एव न्यायः 'द्वा सुपर्णा सयुजा सखाया' इत्येवमादिष्वपि । तत्रापि ह्यध्यात्माधि- कारान्न प्राकृतौ सुपर्णावुच्येते । ' तयोरन्य: पिप्पलं स्वा- द्वत्ति' इत्यदन लिङ्गाद्विज्ञानात्मा भवति । ' अनश्नन्नन्योऽभि- चाकशीति' इत्यनशनचेतनत्वाभ्यां परमात्मा । अनन्तरे च मन्त्रे तावेव द्रष्टृद्रष्टव्यभावेन विशिनष्टि - 'समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्य- त्यन्यमीशमस्य महिमानमिति वीतशोकः' इति ॥ अपर आह—' द्वा सुपर्णा' इति नेयमृगस्याधिकरणस्य सिद्धान्तं भजते, पैङ्गिरहस्य ब्राह्मणेनान्यथा व्याख्यातत्वात्- 'तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वमनश्नन्नन्योऽभिचाक- शीतीत्यनश्नन्नन्योऽभिपश्यति ज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौ ' इति । सत्त्वशब्दो जीवः क्षेत्रज्ञशब्द: परमात्मेति यदुच्यते, तन्न ; सत्त्वक्षेत्रज्ञशब्दयोरन्तःकरणशारीरपरतया प्रसिद्ध- त्वात् । तत्रैव च व्याख्यातत्वात् - ' तदेतत्सत्त्वं येन स्वप्नं पश्यति, अथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञस्तावेतौ स- त्त्वक्षेत्रज्ञौ' इति । नाप्यस्याधिकरणस्य पूर्वपक्षभावं भजते । सू. १२.] प्रथमोऽध्यायः । न ह्यत्र शारीरः क्षेत्रज्ञ: कर्तृत्वभोक्तृत्वादिना संसारधर्मेणोपेतो विवक्ष्यते । कथं तर्हि ? सर्वसंसारधर्मातीतो ब्रह्मस्वभावश्चै- तन्यमात्रस्वरूपः ; 'अननन्नन्योऽभिचाकशीतीत्यनश्नन्नन्यो- ऽभिपश्यति ज्ञ: ' इति वचनात्, 'तत्त्वमसि' ' क्षेत्रज्ञं चा- पि मां विद्धि' इत्यादिश्रुतिस्मृतिभ्यश्च । तावता च विद्यो - पसंहारदर्शनमेवमेवावकल्पते, 'तावेतौ सत्त्वक्षेत्रज्ञौ न ह वा एवंविदि किंचन रज आध्वंसते' इत्यादि । कथं पुनरस्मि - न्पक्षे 'तयोरन्य: पिप्पलं स्वाद्वत्तीति सत्त्वम्' इत्यचेतने सत्त्वे भोक्तृत्ववचनमिति, उच्यते—– नेयं श्रुतिरचेतनस्य सत्त्वस्य भोक्तृत्वं वक्ष्यामीति प्रवृत्ता ; किं तर्हि ? चेतनस्य क्षेत्रज्ञस्याभोक्तृत्वं ब्रह्मस्वभावतां च वक्ष्यामीति । तदर्थं सुखदुःखादिविक्रियावति सत्त्वे भोक्तृत्वमध्यारोपयति । इदं हि कर्तृत्वं भोक्तृत्वं च सत्त्वक्षेत्रज्ञयोरितरेतरस्वभावाविवेककृतं कल्प्यते । परमार्थतस्तु नान्यतरस्यापि संभवति, अचेतनत्वा- त्सत्त्वस्य, अविक्रियत्वाच्च क्षेत्रज्ञस्य । अविद्याप्रत्युपस्थापि- तस्वभावत्वाञ्च सत्त्वस्य सुतरां न संभवति । तथा च श्रु- तिः — ' यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्" इत्या- दिना स्वप्नदृष्टहस्त्यादिव्यवहारवदविद्याविषय एव कर्तृत्वादि- व्यवहारं दर्शयति । ' यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं सूत्रभाष्ये [पा. २. पश्येत्' इत्यादिना च विवेकिनः कर्तृत्वादिव्यवहारं निवा- रयति ॥ अन्तर उपपत्तेः ॥ १३ ॥ ' य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैत - दमृतमभयमेतद्ब्रह्मेति । तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति' इत्यादि श्रूयते । ४. अन्तरा- "य धिकरणम् । तत्र संशयः -- किमयं प्रतिबिम्बात्माक्ष्य- धिकरणो निर्दिश्यते, अथ विज्ञानात्मा, उत देवतात्मेन्द्रिय- स्याधिष्ठाता, अथवेश्वर इति । किं तावत्प्राप्तम् ? छायात्मा पुरुषप्रतिरूप इति । कुत: ? तस्य दृश्यमानत्वप्रसिद्धेः, एषोऽचिणि पुरुषो दृश्यते' इति च प्रसिद्धवदुपदेशात् । विज्ञानात्मनो वायं निर्देश इति युक्तम् । स हि चक्षुषा रूपं पश्यंश्चक्षुषि संनिहितो भवति । आत्मशब्दश्चास्मिन्पक्षेऽनु- कूलो भवति । आदित्यपुरुषो वा चक्षुषोऽनुग्राहकः प्रतीय- ते— रश्मिभिरेषोऽस्मिन्प्रतिष्ठित:' इति श्रुतेः, अमृतत्वा- दीनां च देवतात्मन्यपि कथंचित्संभवात् । नेश्वरः, स्थानवि- शेषनिर्देशात् — इत्येवं प्राप्ते- ब्रूमः — परमेश्वर एवाक्षिण्यभ्यन्तरः पुरुष इहोपदिष्ट - इति । कस्मात् ? उपपत्तेः । उपपद्यते हि परमेश्वरे गुणजा- सू. १४.] प्रथमोऽध्यायः । तमिहोपदिश्यमानम् । आत्मत्वं तावन्मुख्यया वृत्त्या परमे- श्वरे उपपद्यते, 'स आत्मा तत्त्वमसि' इति श्रुतेः । अमृ- तत्वाभयत्वे च तस्मिन्नसकृच्छ्रयेते । तथा परमेश्वरानु- रूपमेतदक्षिस्थानम् । यथा हि परमेश्वरः सर्वदोषैरलिप्तः, अपहतपाप्मत्वादिश्रवणात्; तथाक्षिस्थानं सर्वलेपरहितमुप- दिष्टम् ' तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति, वर्त्मनी एव गच्छति' इति श्रुतेः । संयद्वामत्वादिगुणोपदेशश्च तस्मिन्न- वकल्पते । एतं संयद्वाम इत्याचक्षते । एतं हि सर्वाणि वामान्यभिसंयन्ति', 'एष उ एव वामनीरेष हि सर्वाणि वामानि नयति । एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति' इति च । अत उपपत्तेरन्तरः परमेश्वरः ॥ स्थानादिव्यपदेशाच्च ॥ १४ ॥ कथं पुनराकाशवत्सर्वगतस्य ब्रह्मणोऽक्ष्यल्पं स्थानमु- पपद्यत इति, अत्नोच्यते — भवेदेषानवक्लप्तिः, यद्येतदेवैकं स्थानमस्य निर्दिष्टं भवेत् । सन्ति ह्यन्यान्यपि पृथिव्यादीनि • स्थानान्यस्य निर्दिष्टानि - ' यः पृथिव्यां तिष्ठन्' इत्या- दिना । तेषु हि चक्षुरपि निर्दिष्टम् ' यश्चक्षुषि तिष्ठन्' इति । स्थानादिव्यपदेशादित्यादिग्रहणेनैतद्दर्शयति — न केवलं स्था- नमेवैकमनुचितं ब्रह्मणो निर्दिश्यते; किं तर्हि नाम रूप- S. W. 1. 8 - सूत्रभाष्ये [पा. २. मित्येवंजातीयकमप्यनामरूपस्य ब्रह्मणोऽनुचितं निर्दिश्य- मानं दृश्यते-- : तस्योदिति नाम' ' हिरण्यश्मश्रुः ' इत्यादि । निर्गुणमपि सद्बह्म नामरूपगतैर्गुणैः सगुणमुपा- सनार्थं तत्र तत्रोपदिश्यत इत्येतदप्युक्तमेव । सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थं स्थानविशेषो न विरुध्यते, सालग्राम इव विष्णोरित्येतदप्युक्तमेव ॥ सुखविशिष्टाभिधानादेव च ॥ १५ ॥ अपि च नैवात्र विवदितव्यम् — किं ब्रह्मास्मिन्वाक्ये - ऽभिधीयते, न वेति । सुखविशिष्टाभिधानादेव ब्रह्मत्वं सिद्धम् । सुखविशिष्टं हि ब्रह्म यद्वाक्योपक्रमे प्रक्रान्तम् 'प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' इति, तदेवेहाभिहितम् ; प्रकृ- तपरिग्रहस्य न्याय्यत्वात्, 'आचार्यस्तु ते गतिं वक्ता' इति च गतिमात्राभिधानप्रतिज्ञानात् । कथं पुनर्वाक्योप - क्रमे सुखविशिष्टं ब्रह्म विज्ञायत इति, उच्यते - ' प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' इत्येतदग्नीनां वचनं श्रुत्वोपकोसल उवाच — 'विजानाम्यहं यत्प्राणो ब्रह्म, कं च खं च तु न विजानामि इति । तत्रेदं प्रतिवचनम् —' यद्वाव कं तदेव खं यदेव खं तदेव कम्' इति । तत्र खंशब्दो भूता- काशे निरूढो लोके । यदि तस्य विशेषणत्वेन कंशब्दः , सू. १५.] प्रथमोऽध्यायः । सुखवाची नोपादयेत, तथा सति केवले भूताकाशे ब्रह्म- शब्दो नामादिष्विव प्रतीकाभिप्रायेण प्रयुक्त इति प्रतीति: स्यात् । तथा कंशब्दस्य विषयेन्द्रियसंपर्कजनिते सामये सुखे प्रसिद्धत्वात्, यदि तस्य खंशब्दो विशेषणत्वेन नोपा- दीयेत ; लौकिकं सुखं ब्रह्मेति प्रतीतिः स्यात् । इतरेतरवि- शेषितौ तु कंखंशब्दौ सुखात्मकं ब्रह्म गमयतः । तत्र द्वितीये ब्रह्मशब्देऽनुपादीयमाने ' कं खं ब्रह्म' इत्येवोच्य - माने कंशब्दस्य विशेषणत्वेनैवोपयुक्तत्वात्सुखस्य गुणस्या- ध्येयत्वं स्यात् ; तन्मा भूत् - इत्युभयोः कंखंशब्दयो- ह्मशब्दशिरस्त्वम् -- 'कं ब्रह्म खं ब्रह्म' इति । इष्टं हि सुखस्यापि गुणस्य गुणिवच्येयत्वम् । तदेवं वाक्योपक्रमे सुखविशिष्टं ब्रह्मोपदिष्टम् । प्रत्येकं च गार्हपत्यादयोऽग्नयः स्वं स्वं महिमानमुपदिश्य ' एषा सोम्य तेऽस्मद्विद्यात्मविद्या च' इत्युपसंहरन्तः पूर्वत्र ब्रह्म निर्दिष्टमिति ज्ञापयन्ति । ' आचार्यस्तु ते गतिं वक्ता' इति च गतिमात्राभिधानप्र- तिज्ञानमर्थान्तरविवक्षां वारयति । 'यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते' इति चाक्षिस्थानं पुरुषं विजानतः पाप्मनानुपघातं ब्रुवन्न- क्षिस्थानस्य पुरुषस्य ब्रह्मत्वं दर्शयति । तस्मात्प्रकृतस्यैव सूत्रभाष्ये [पा. २. ब्रह्मणोऽक्षिस्थानतां संयद्वामत्वादिगुणतां चोक्त्वा अर्चिरा- दिकां तद्विदो गतिं वक्ष्यामीत्युपक्रमते -- ' य एषोऽक्षिणि . पुरुषो दृश्यत एष आत्मेति होवाच' इति ॥ श्रुतोपनिषत्कगत्यभिधानाच्च ॥ १६ ॥ इतश्चाक्षिस्थानः पुरुषः परमेश्वरः, यस्माच्छ्रुतोपनिष- त्कस्य श्रुतरहस्यविज्ञानस्य ब्रह्मविदो या गतिर्देवयानाख्या प्रसिद्धा श्रुतौ - 'अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते । एतद्वै प्राणानामा- यतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्ते' इति, स्मृतावपि — 'अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तराय- णम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः' इति, सैवेहाक्षिपुरुषविदोऽभिधीयमाना दृश्यते । 'अथ यदु चैवास्मिञ्शव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसंभवन्ति ' इत्युपक्रम्य 'आदित्याञ्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो - ऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्ते' इति । तदिह ब्रह्मविद्विषयया प्रसिद्धया गत्या अक्षिस्थानस्य ब्रह्मत्वं निश्चीयते ॥ सू. १७.] प्रथमोऽध्यायः । अनवस्थितेरसंभवाच्च नेतरः ॥ १७ ॥ यत्पुनरुक्तं छायात्मा, विज्ञानात्मा, देवतात्मा वा स्याद- क्षिस्थान इति, अन्रोच्यते—न च्छायात्मादिरितर इह ग्रह- णमर्हति । कस्मात् ? अनवस्थिते: । न तावच्छायात्मनश्च- क्षुषि नित्यमवस्थानं संभवति । यदैव हि कश्चित्पुरुषश्चक्षुरा- सीदति, तदा चक्षुषि पुरुषच्छाया दृश्यते ; अपगते तस्मिन्न दृश्यते । य एषोऽक्षिणि पुरुष:' इति च श्रुतिः संनिधाना- त्स्वचक्षुषि दृश्यमानं पुरुषमुपास्यत्वेनोपदिशति । न चोपास- नाकाले च्छायाकरं कंचित्पुरुषं चक्षुः समीपे संनिधाप्योपास्त इति युक्तं कल्पयितुम् । 'अस्यैव शरीरस्य नाशमन्वेष नश्यति' इति श्रुतिश्छायात्मनोऽप्यनवस्थितत्वं दर्शयति । असंभावच्च । तस्मिन्नमृतत्वादीनां गुणानां न च्छायात्मनि प्रतीतिः । तथा विज्ञानात्मनोऽपि साधारणे कृत्स्नशरीरेन्द्रि- यसंबन्धे सति न चक्षुष्येवावस्थितत्वं शक्यं वक्तुम् । ब्रह्म- णस्तु सर्वव्यापिनोऽपि दृष्ट उपलब्ध्यर्थो हृदयादिदेशविशेष- संबन्ध: । समानश्च विज्ञानात्मन्यप्यमृतत्वादीनां गुणानाम- संभवः । यद्यपि विज्ञानात्मा परमात्मनोऽनन्य एव, तथा- प्यविद्याकामकर्मकृतं तस्मिन्मर्त्यत्वमध्यारोपितं भयं चेत्य- मृतत्वाभयत्वे नोपपद्येते । संयद्वामत्वादयश्चैतस्मिन्ननैश्वर्याद- सूत्रभाष्ये [पा. २. नुपपन्ना एव । देवतात्मनस्तु 'रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः ' इति श्रुतेः यद्यपि चक्षुष्यवस्थानं स्यात्, तथाप्यात्मत्वं तावन्न संभवति, पराग्रूपत्वात् । अमृतत्वादयोऽपि न संभवन्ति, उत्पत्तिप्रलयश्रवणात् । अमरत्वमपि देवानां चिरकालावस्था- नापेक्षम् । ऐश्वर्यमपि परमेश्वरायत्तम्, न स्वाभाविकम् ; 'भीषास्माद्वातः पवते, भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्र- व मृत्युर्धावति पञ्चमः' इति मन्त्रवर्णात् । तस्मात्परमेश्वर एवायमक्षिस्थानः प्रत्येतव्यः । अस्मिंश्च पक्षे ' दृश्यते' इति प्रसिद्धवदुपादानं शास्त्राद्यपेक्षं विद्वद्विषयं प्ररोचनार्थमिति व्याख्येयम् ॥ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यप- देशात् ॥ १८ ॥ ' य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्त- रो यमयति' इत्युपक्रम्य श्रूयते – ' यः पृथिव्यां तिष्ठन्पृ- ५. अन्तर्याम्य- थिव्या अन्तरो यं पृथिवी न वेद यस्य धिकरणम्। पृथिवी शरीरं यः पृथिवीमन्तरो यमय- त्येष त आत्मान्तर्याम्यमृत:' इत्यादि । अत्राधिदैवतम- धिलोकमधिवेदमधियज्ञमधिभूतमध्यात्मं च कश्चिदन्तर- वस्थितो यमयिता अन्तर्यामीति श्रूयते । स किमधिदैवा- सू. १८. ] प्रथमोऽध्यायः । द्यभिमानी देवतात्मा कश्चित् किं वा प्राप्ताणिमाद्यैश्वर्यः कश्चिद्योगी, किं वा परमात्मा, किं वार्थान्तरं किंचित्, इत्यपूर्वसंज्ञादर्शनात्संशयः । किं तावन्नः प्रतिभाति ? संज्ञाया अप्रसिद्धत्वात्संज्ञिनाप्यप्रसिद्धेनार्थान्तरेण केनचिद्भवितव्य- मिति । अथवा नानिरूपितरूपमर्थान्तरं किंचिदपि शक्यम- स्तीत्यभ्युपगन्तुम् । अन्तर्यामिशब्दश्चान्तर्यमनयोगेन प्रवृत्तो नात्यन्तमप्रसिद्धः । तस्मात्पृथिव्याद्यभिमानी कश्विद्देवोऽन्त- र्यामी स्यात् । तथा च श्रूयते -' पृथिव्येव यस्यायतनमग्नि- र्लोको मनो ज्योति:' इत्यादि । स च कार्यकरणवन्त्वात्पू- थिव्यादीनन्तस्तिष्ठन्यमयतीति युक्तं देवतात्मनो यमयितृ- त्वम् । योगिनो वा कस्यचित्सिद्धस्य सर्वानुप्रवेशेन यमयि - नृत्वं स्यात् । न तु परमात्मा प्रतीयते, अकार्यकरणत्वात् ; इत्येवं प्राप्ते-- इदमुच्यते —— योऽन्तर्याम्यधिदैवादिषु श्रूयते स परमा- स्मैव स्यात्, नान्य इति । कुत: ? तद्धर्मव्यपदेशात् । तस्य हि परमात्मनो धर्मा इह निर्दिश्यमाना दृश्यन्ते । पृथिव्यादि तावदधिदैवादिभेदभिन्नं समस्तं विकारजातमन्तस्तिष्ठन्यमय- तीति परमात्मनो यमयितृत्वं धर्म उपपद्यते ; सर्वविकारकार- णत्वे सति सर्वशक्त्युपपत्तेः । ' एष त आत्मान्तर्याम्यमृत: ' सूत्रभाष्ये [पा. २. इति चात्मत्वामृतत्वे मुख्ये परमात्मन उपपद्येते । ' यं पृथि- वी न वेद' इति च पृथिवीदेवताया अविज्ञेयमन्तर्यामिणं ब्रुवन्देवतात्मनोऽन्यमन्तर्यामिणं दर्शयति । पृथिवी देवता ह्यहमस्मि पृथिवीत्यात्मानं विजानीयात् । तथा अदृष्टोऽश्रुत: ' इत्यादिव्यपदेशो रूपादिविहीनत्वात्परमात्मन उपपद्यत इति । यत्त्वकार्यकरणस्य परमात्मनो यमयितृत्वं नोपपद्यत इति, नैष दोष: ; यान्नियच्छति तत्कार्यकरणैरेव तस्य कार्यकरणव- त्त्वोपपत्तेः । तस्याप्यन्यो नियन्तेत्यनवस्थादोषश्च न संभवति, भेदाभावात् । भेदे हि सत्यनवस्थादोषोपपत्ति: । तस्मात्पर- मात्मैवान्तर्यामी ॥ न च स्मार्तमतद्धर्माभिलापात् ॥ १९ ॥ स्यादेतत्--अदृष्टत्वादयो धर्माः सांख्यस्मृतिकल्पितस्य प्रधानस्याप्युपपद्यन्ते, रूपादिहीनतया तस्य तैरभ्युपगमात् । 'अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वत:' इति हि स्मरन्ति । तस्यापि नियन्तृत्वं सर्वविकारकारणत्वादुपपद्यते । तस्मात्प्र- धानमन्तर्यामिशब्दं स्यात् । 'ईक्षतेर्नाशब्दम्' इत्यत्र निरा- कृतमपि सत् प्रधानमिहादृष्टत्वादिव्यपदेशसंभवेन पुनराश ङ्कपते । अत उत्तरमुच्यते न च स्मार्त प्रधानमन्तर्यामिश-:: ब्दं भवितुमर्हति । कस्मात् ? अतद्धर्माभिलापात् । यद्यप्यदृ-:. सू. २०.] प्रथमोऽध्यायः । ष्टत्वादिव्यपदेशः प्रधानस्य संभवति, तथापि न द्रष्टृत्वादि- व्यपदेश: 'संभवति, प्रधानस्याचेतनत्वेन तैरभ्युपगमात् । 'अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता' इति हि वाक्यशेष इह भवति । आत्मत्वमपि न प्रधान- स्योपपद्यते ॥ यदि प्रधानमात्मत्वद्रष्टृत्वा द्यसंभवान्नान्तर्याम्यभ्युपगम्य- ते, शारीरस्तर्ह्यन्तर्यामी भवतु । शारीरो हि चेतनत्वाद्रष्टा श्रोता मन्ता विज्ञाता च भवति, आत्मा च प्रत्यक्त्वात् । अमृतश्च, धर्माधर्मफलोपभोगोपपत्तेः । अदृष्टत्वादयश्च ध- र्माः शारीरे सुप्रसिद्धाः ; दर्शनादिक्रियायाः कर्तरि प्रवृत्ति - विरोधात्, 'न दृष्टेर्द्रष्टारं पश्ये: ' इत्यादिश्रुतिभ्यश्च । तस्य च कार्यकरणसंघातमन्तर्यमयितुं शीलम्, भोक्तृत्वात् । त- स्माच्छारीरोऽन्तर्यामीत्यत उत्तरं पठति- शारीरवोभवेऽपि हि भेदेनै- नमधीयते ॥ २० ॥ नेति पूर्वसूत्रादनुवर्तते । शारीरश्च नान्तर्यामी स्यात् । कस्मात् ? यद्यपि द्रष्टृत्वादयो धर्मास्तस्य संभवन्ति, त- थापि घटाकाशवदुपाधिपरिच्छिन्नत्वान्न कात्स्न्र्त्स्न्येन पृथि- सूत्रभाष्ये [पा. २. व्यादिष्वन्तरवस्थातुं नियन्तुं च शक्नोति । अपि चोभ- येsपि हि शाखिनः काण्वा माध्यंदिनाश्चान्तर्यामिणो भेढ़े- - नैनं शारीरं पृथिव्यादिवदधिष्ठानत्वेन नियम्यत्वेन चाधी- यते— 'यो विज्ञाने तिष्ठन् ' इति काण्वाः । ' य आत्मनि तिष्ठन्' इति माध्यंदिनाः । य आत्मनि तिष्ठन्' इत्य- स्मिंस्तावत् पाठे भवत्यात्मशब्द: शारीरस्य वाचक: । 'यो विज्ञाने तिष्ठन् ' इत्यस्मिन्नपि पाठे विज्ञानशब्देन शारीर उच्यते, विज्ञानमयो हि शारीर इति । तस्माच्छारीरादन्य ईश्वरोऽन्तर्यामीति सिद्धम् । कथं पुनरेकस्मिन्देहे द्वौ द्रष्टा- रावुपपद्येते - यश्चायमीश्वरोऽन्तर्यामी, यश्चायमितर: शा- रीरः ? का पुनरिहानुपपत्तिः ? ' नान्योऽतोऽस्ति द्रष्टा इत्यादिश्रुतिवचनं विरुध्येत । अत्र हि प्रकृतादन्तर्यामिणो- ऽन्यं द्रष्टारं श्रोतारं मन्तारं विज्ञातारं चात्मानं प्रतिषेधति । नियन्त्रन्तरप्रतिषेधार्थमेतद्वचनमिति चेत्, न ; नियन्त्रन्तरा - प्रसङ्गादविशेषश्रवणाच्च । अत्रोच्यते —— अविद्याप्रत्युपस्थापि- तकार्यकरणोपाधिनिमित्तोऽयं शारीरान्तर्यामिणोर्भेदव्यपदे- शः, न पारमार्थिकः । एको हि प्रत्यगात्मा भवति, न द्वौ प्रत्यगात्मानौ संभवत: । एकस्यैव तु भेदव्यवहार उपाधि- कृतः, यथा घटाकाशो महाकाश इति । ततश्च ज्ञातृज्ञेया- 1 - ' सुः २१.] प्रथमोऽध्यायः । दिभेदश्रुतयः प्रत्यक्षादीनि च प्रमाणानि संसारानुभवो विधि- प्रतिषेधशास्त्रं चेति सर्वमेतदुपपद्यते । तथा च श्रुतिः- 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति' इत्यविद्या- विषये सर्व व्यवहारं दर्शयति । 'यत्र त्वस्य सर्वमात्मैवाभू- तत्केन कं पश्येत्' इति विद्याविषये सर्वे व्यवहारं वार- यति ॥ अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥ 'अथ परा यया तदक्षरमधिगम्यते' 'यत्तदद्रेश्यमग्रा- ह्यमगोऩमवर्णमचक्षुःश्रोत्रं तदपाणिपादम्, नित्यं विभुं सर्वगतं ६. अदृश्यत्वाद्य- सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्य- धिकरणम् । न्ति धीराः' इति श्रूयते । तत्र संशय:- किमयमदृश्यत्वादिगुणको भूतयोनिः प्रधानं स्यात्, उत शारीरः, आहोस्वित्परमेश्वर इति । तत्र प्रधानमचेतनं भूतयोनिरिति युक्तम्, अचेतनानामेव तत्र दृष्टान्तत्वेनो- पादानात् । ' यथोर्णनाभिः सृजते गृहते च यथा पृथि - व्यामोषधयः संभवन्ति । यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्वम्' इति । ननूर्णनाभिः पुरुषश्च चेतनाविह दृष्टान्तत्वेनोपात्तौ; नेति ब्रूमः । न हि केव । लस्य चेतनस्य तत्र सूत्रयोनित्वं केशलोमयोनित्वं वास्ति । सूत्रभाष्ये [पा. २. चेतनाधिष्ठितं ह्यचेतनमूर्णनाभिशरीरं सूत्रस्य योनि:, पुरु- षशरीरं च केशलोम्नामिति प्रसिद्धम् । अपि च पूर्वत्राह- ष्टत्वाद्यभिलापसंभवेऽपि द्रष्टृत्वाद्यभिलापासंभवान्न प्रधा- नमभ्युपगतम् । इह त्वदृश्यत्वादयो धर्माः प्रधाने संभ- वन्ति । न चात्र विरुध्यमानो धर्मः कश्चिदभिलप्यते । ननु 'य: सर्वज्ञः सर्ववित्' इत्ययं वाक्यशेषोऽचेतने प्रधाने न संभवति, कथं प्रधानं भूतयोनिः प्रतिज्ञायत इति ; अत्रो- च्यते—' यया तदक्षरमधिगम्यते' यत्तदद्देश्यम्' इत्यक्षरश- देनादृश्यत्वादिगुणकं भूतयोनिं श्रावयित्वा पुनरन्ते श्राव- यिष्यति ---- ' अक्षरात्परतः परः' इति । तत्र य: परो- ऽश्वराच्छ्रुतः, स सर्वज्ञः सर्ववित्संभविष्यति । प्रधानमेव त्वक्षरशब्दनिर्दिष्टं भूतयोनिः । यदा तु योनिशब्दो निमि- तवाची, तदा शारीरोऽपि भूतयोनिः स्यात्, धर्माधर्माभ्यां भूतजातस्योपार्जनादिति । एवं प्राप्ते- अभिधीयते— योऽयमदृश्यत्वादिगुणको भूतयोनिः, स परमेश्वर एव स्यात्, नान्य इति । कथमे- तदवगम्यते ? धर्मोक्तेः । परमेश्वरस्य हि धर्म इहोच्यमानो दृश्यते-- ' यः सर्वज्ञः सर्ववित्' इति । न हि प्रधानस्या- चेतनस्य शारीरस्य वोपाधिपरिच्छिन्नदृष्टेः सर्वज्ञत्वं सर्व- सू. २१.] प्रथमोऽध्यायः । वित्त्वं वा संभवति । नन्वक्षरशब्दनिर्दिष्टाद्भूतयोने: परस्यैव एतत्सर्वज्ञत्वं सर्ववित्त्वं च न भूतयोनिविषयमित्युक्तम् ; अत्रोच्यते-- नैवं संभवति यत्कारणम् ' अक्षरात्संभ- वतीह विश्वम्' इति प्रकृतं भूतयोनिमिह जायमानप्रकृतित्वेन निर्दिश्य, अनन्तरमपि जायमानप्रकृतित्वेनैव सर्वज्ञं निर्दि- शति-- ' यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मा- देतद्ब्रह्म नाम रूपमन्नं च जायते' इति । तस्मान्निर्देशसा- म्येन प्रत्यभिज्ञायमानत्वात्प्रकृतस्यैवाक्षरस्य भूतयोनेः सर्व- ज्ञत्वं सर्ववित्त्वं च धर्म उच्यत इति गम्यते । ' अक्षरा- त्परतः परः' इत्यत्रापि न प्रकृताद्भूतयोनेरक्षरात्परः कश्चि- दभिधीयते ; कथमेतदवगम्यते ? 'येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्' इति प्रकृतस्यैवाक्षरस्य भूतयोनेरदृश्यत्वादिगुणकस्य वक्तव्यत्वेन प्रतिज्ञातत्वात् । कथं तर्हि 'अक्षरात्परतः परः' इति व्यपदिश्यत इति, उत्तरसूत्रे तद्वक्ष्यामः । अपि चात्र द्वे विद्ये वेदितव्ये उक्ते— 'परा चैवापरा च' इति । तत्रापररामृग्वेदादि- लक्षणां विद्यामुक्त्वा ब्रवीति 'अथ परा यया तदक्षरम- धिगम्यते ' इत्यादि । तत्र परस्या विद्याया विषयत्वेनाक्षरं श्रुतम् । यदि पुनः परमेश्वरादन्यददृश्यत्वादिगुणकमक्षरं • . ' सूत्रभाष्ये [ पा. २: . परिकल्प्येत; नेयं परा विद्या स्यात् । परापरविभागो ह्ययं विद्ययोः अभ्युदयनिःश्रेयसफलतया परिकल्प्यते । न च प्रधानस्य विद्या निःश्रेयसफला केनचिदभ्युपगम्यते । तिस्रश्च विद्याः प्रतिज्ञायेरन्, त्वत्पक्षेऽश्चराद्भूतयोनेः परस्य परमात्मनः प्रतिपाद्यमानत्वात् । द्वे एव तु विद्ये वेदि- तत्र्ये इह निर्दिष्टे । ' कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति' इति चैकविज्ञानेन सर्वविज्ञानापेक्षणं सर्वा- त्मके ब्रह्मणि विवक्ष्यमाणेऽवकल्पते, नाचेतनमात्रैकाय- तने प्रधाने, भोग्यव्यतिरिक्ते वा भोक्तरि । अपि च स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय ग्राह' इति ब्रह्मविद्यां प्राधान्येनोपक्रम्य परापरविभागेन परां विद्या- मक्षराधिगमनीं दर्शयन् तस्या ब्रह्मविद्यात्वं दर्शयति । सा च ब्रह्मविद्यासमाख्या तदधिगम्यस्य अक्षरस्याब्रह्मत्वे वा - धिता स्यात् । अपरा ऋग्वेदादिलक्षणा कर्मविद्या ब्रह्मवि- द्योपक्रमे उपन्यस्यते ब्रह्मविद्याप्रशंसायै— 'वा होते अ- दृढा यज्ञरूपा अष्टादशोत्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरां मृत्युं ते पुनरेवापि यन्ति' इत्ये- वमादिनिन्दावचनात् । निन्दित्वा चापरां विद्यां ततो विर- तस्य परविद्याधिकारं दर्शयति-- 'परीक्ष्य लोकान्कर्म- सू. २२.] प्रथमोऽध्यायः । चितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्' इति । यत्तूक्तम्— अचेतनानां पृथिव्यादीनां दृष्टान्तत्वेनोपादाना- दान्तिकेनाप्यचेतनेनैव भूतयोनिना भवितव्यमिति, तद- युक्तम्; न हि दृष्टान्तदाष्टन्तिकयोरत्यन्तसाम्येन भवि- तव्यमिति नियमोऽस्ति; अपि च स्थूलाः पृथिव्यादयो दृष्टान्तत्वेनोपात्ता इति न स्थूल एव दाष्टन्तिको भूतयो- निरभ्युपगम्यते । तस्माददृश्यत्वादिगुणको भूतयोनिः पर- मेश्वर एव ॥ विशेषण भेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥ - - इतश्च परमेश्वर एव भूतयोनिः, नेतरौ – शारीरः प्रधानं वा । कस्मात् ? विशेषणभेदव्यपदेशाभ्याम् । विशि- नष्टि हि प्रकृतं भूतयोनिं शारीराद्विलक्षणत्वेन — 'दिव्यो ह्यमूर्त: पुरुष: सबाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रः' इति । न ह्येतद्दिव्यत्वादिविशेषणम् अविद्याप्रत्युप- स्थापितनामरूपपरिच्छेदाभिमानिनः तद्धर्मान्स्वात्मनि क- ल्पयत: शारीरस्योपपद्यते । तस्मात्साक्षादौपनिषदः पुरुष सूत्रभाष्ये [पा. २. इहोच्यते । तथा प्रधानादपि प्रकृतं भूतयोनिं भेदेन व्यप- दिशति — 'अक्षरात्परतः परः' इति । अक्षरमव्याकृतं नामरूपबीजशक्तिरूपं भूतसूक्ष्ममीश्वराश्रयं तस्यैवोपाधिभूत- म्, सर्वस्माद्विकारात्परो योऽविकारः, तस्मात्परतः परः इति भेदेन व्यपदिशन् परमात्मानमिह विवक्षितं दर्शयति । नाव प्रधानं नाम किंचित्स्वतन्त्रं तत्त्वमभ्युपगम्य, त- स्माद्भेदव्यपदेश उच्यते । किं तर्हि ? यदि प्रधानमपि कल्प्यमानं श्रुत्यविरोधेनाव्याकृतादिशब्दवाच्यं भूतसूक्ष्मं परिकल्प्येत, कल्प्यताम् । तस्माद्भेदव्यपदेशात् परमेश्वरो भूतयोनिरित्येतदिह प्रतिपाद्यते ॥ कुतश्च परमेश्वरो भूतयोनिः ? — रूपोपन्यासाच्च ॥ २३ ॥ अपि च ' अक्षरात्परतः परः' इत्यस्यानन्तरम् ' एत- स्माज्जायते प्राण:' इति प्राणप्रभृतीनां पृथिवीपर्यन्तानां तत्त्वानां सर्गमुक्त्वा, तस्यैव भूतयोनेः सर्वविकारात्मकं रूपमुपन्यस्यमानं पश्यामः — 'अग्निर्मूर्धा चक्षुषी चन्द्र- सूर्यौ दिश: श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा' इति । तच परमेश्वरस्यैवोचितम्, सर्वविकारकारणत्वात्; सू. २३.] प्रथमोऽध्यायः । न शारीरस्य तनुमहिम्न: ; नापि प्रधानस्य अयं रूपोपन्यासः संभवति, सर्वभूतान्तरात्मत्वासंभवात् । तस्मात्परमेश्वर एव भूतयोनिः, नेतराविति गम्यते । कथं पुनर्भूतयो- नेरयं रूपोपन्यास इति गम्यते ? प्रकरणात्, 'एष: ' इति च प्रकृतानुकर्षणात् । भूतयोनिं हि प्रकृत्य 'एतस्मा- ज्जायते प्राण: ' ' एष सर्वभूतान्तरात्मा' इति वचनं भूतयोनिविषयमेव भवति ; यथा उपाध्यायं प्रकृत्य ' एत- स्मादधीष्व एष वेदवेदाङ्गपारगः' इति वचनमुपाध्याय- विषयं भवति, तद्वत् । कथं पुनरदृश्यत्वादिगुणकस्य भूत- योनेर्विग्रहवद्रूपं संभवति ? सर्वात्मत्वविवक्षयेदमुच्यते, न तु विग्रहवत्वविवक्षया इत्यदोष:, ' अहमन्नमहमन्नमहमन्नम्, अहमन्नादः' इत्यादिवत् । अन्ये पुनर्मन्यन्ते- नायं भूतयोने: रूपोपन्यासः, जायमानत्वेनोपन्यासात् । ' एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुज्र्ज्योतिरापः पृथिवी विश्वस्य धारिणी' इति हि पूर्वत्र प्राणादि पृथिव्यन्तं तत्त्वजातं जाय- मानत्वेन निरदिशत् । उत्तरत्रापि च ' तस्मादग्निः समिधो यस्य सूर्य:' इत्येवमादि 'अतश्च सर्वा ओषधयो रसाश्च' इत्येव- मन्तं जायमानत्वेनैव निर्देक्ष्यति । इहैव कथमकस्मादन्तराले s. W. 1. 9 सूत्रभाष्ये [पा. २. भूतयोने: रूपमुपन्यस्येत् ? सर्वात्मत्वमपि सृष्टिं परिसमाप्यो - पदेक्ष्यति — ' पुरुष एवेदं विश्वं कर्म' इत्यादिना । श्रुति- स्मृत्योश्च त्रैलोक्यशरीरस्य प्रजापतेर्जन्मादि निर्दिश्यमान- मुपलभामहे — 'हिरण्यगर्भः समवर्तताग्रे भूतस्य जात: - पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम' इति — समवर्ततेति अजायतेत्यर्थः-- तथा, 'स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदि- कर्ता स भूतानां ब्रह्माग्रे समवर्तत ' इति च । विकारपुरुष- स्यापि सर्वभूतान्तरात्मत्वं संभवति, प्राणात्मना सर्वभूता- नामध्यात्ममवस्थानात् । अस्मिन्पक्षे 'पुरुष एवेदं विश्वं कर्म' इत्यादिसर्वरूपोपन्यासः परमेश्वरप्रतिपत्तिहेतुरिति व्याख्येयम् ॥ वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥ 'को न आत्मा किं ब्रह्म' इति 'आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि तमेव नो ब्रूहि' इति चोपक्रम्य सुसूर्यवाय्वाका- ७. वैश्वानराधि- शवारिपृथिवीनां सुतेजस्त्वादिगुणयोगमेकै- करणम् । कोपासननिन्दया च वैश्वानरं प्रत्येषां मूर्द्धादिभावमुपदिश्याम्नायते-- 'यस्त्वेतमेवं प्रादेशमात्र- . सू. २४.] प्रथमोऽध्यायः । मभिविमानमात्मानं वैश्वानरमुपास्ते, स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ; तस्य ह वा एतस्यात्मनो वैश्वा- नरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपो वायुः प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो वस्तिरेव रयिः पृथिव्येव पादावुर एव वेदि - लमानि वर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमा - हवनीयः' इत्यादि । तत्र संशयः - किं वैश्वानरशब्देन जाठरोऽग्निरुपदिश्यते, उत भूताग्निः, अथ तदभिमानिनी देवता, अथवा शारीरः, आहोस्वित्परमेश्वरः इति । किं पुनरत्र संशयकारणम् ? वैश्वानर इति जाठरभूताग्निदेवतानां साधारणशब्दप्रयोगात्, आत्मेति च शारीरपरमेश्वरयोः । तव कस्योपादानं न्याय्यं कस्य वा हानमिति भवति संशयः । किं तावत्प्राप्तम् ? जाठरोऽग्निरिति ; कुत: ? तत्र हि विशेषेण कचित्प्रयोगो दृश्यते— 'अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते ' इत्यादौ । अग्निमात्रं वा स्यात्, तत्सामान्येनापि प्रयोगदर्शनात्- 'विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमहामकृण्वन्' इत्यादौ अग्निशरीरा वा देवता स्यात्, तस्यामपि प्रयोगदर्शनात्- 'वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः ' इत्येवमाद्यायाः श्रुतेर्देवतायामैश्वर्याद्युपेतायां संभवात् । सूत्रभाष्ये [पा. २. अथात्मशब्दसामानाधिकरण्यादुपक्रमे च ' को न आत्मा किं ब्रह्म' इति केवलात्मशब्दप्रयोगादात्मशब्दवशेन वैश्वा- नरशब्दः परिणेय इत्युच्यते, तथापि शारीर आत्मा स्यात् ; तस्य भोक्तृत्वेन वैश्वानरसंनिकर्षात्, प्रादेशमात्वमिति च विशेषणस्य तस्मिन्नुपाधिपरिच्छिन्ने संभवात् । तस्मान्नेश्वरो वैश्वानर इत्येवं प्राप्तम् ॥ तत्रेदमुच्यते-- वैश्वानरः परमात्मा भवितुमर्हति । कुत: ? साधारणशब्दविशेषात् ; साधारणशब्दयोर्विशेषः साधारणशब्दविशेष: ; यद्यप्येतावुभावप्यात्मवैश्वानरशब्दौ साधारणशब्दौ — वैश्वानरशब्दस्तु त्रयाणां साधारणः, आत्मशब्दश्च द्वयोः-- तथापि विशेषो दृश्यते, येन परमेश्वरपरत्वं तयोरभ्युपगम्यते — 'तस्य ह वा एतस्या- त्मनो वैश्वानरस्य मूर्धैव सुतेजा:' इत्यादिः । अत्र हि परमेश्वर एव मूर्धत्वादिविशिष्टोऽवस्थान्तरगतः प्रत्यगा- त्मत्वेनोपन्यस्त आध्यानायेति गम्यते, कारणत्वात् । कार- णस्य हि सर्वाभिः कार्यगताभिरवस्थाभिरवस्थावत्वात द्युलोकाद्यवयवत्वमुपपद्यते । ' स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमन्ति' इति च सर्वलोकाद्याश्रयं फलं श्रूयमाणं परमकारणपरिग्रहे संभवति, 'एव- हास्य सर्वे पाप्मान: सू. २५.] प्रथमोऽध्यायः । प्रदूयन्ते' इति च तद्विदः सर्वपाप्मप्रदाहश्रवणम्, 'को न आत्मा किं ब्रह्म' इति चात्मब्रह्मशब्दाभ्यामुपक्रमः ;- इत्येवमन्तानि ब्रह्मलिङ्गानि परमेश्वरमेव गमयन्ति । तस्मा- त्परमेश्वर एव वैश्वानरः ॥ स्मर्यमाणमनुमानं स्यादिति ॥ २५ ॥ इतश्च परमेश्वर एव वैश्वानरः ; यस्मात्परमेश्वरस्यैव 'अग्निरास्यं द्यौर्मूर्धा' इतीदृशं त्रैलोक्यात्मकं रूपं स्मर्यते- ' यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्वक्षु- दिश: श्रोत्रं तस्मै लोकात्मने नमः' इति । तत्स्मर्यमाणं रूपं मूलभूतां श्रुतिमनुमापयदस्य वैश्वानरशब्दस्य परमेश्वर- परत्वे अनुमानं लिङ्गं गमकं स्यादित्यर्थः । इतिशब्दों हेत्व- थे— यस्मादिदं गमकम्, तस्मादपि वैश्वानरः परमात्मै- वेत्यर्थः । यद्यपि स्तुतिरियम् — 'तस्मै लोकात्मने नमः ' इति, तथापि स्तुतित्वमपि नासति मूलभूते वेदवाक्ये सम्यक् ईदृशेन रूपेण संभवति । 'द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे । दिशः श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता' इत्येवंजातीयका च स्मृतिरिहोदाहर्तव्या ॥ सूत्रभाष्ये [पा. २. शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदेशादसंभवात्पुरुष- मपि चैनमधीयते ॥ २६ ॥ अत्राह - न परमेश्वरो वैश्वानरो भवितुमर्हति । कुत: ? शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च । शब्दस्तावत् — वैश्वानरश- ब्दो न परमेश्वरे संभवति, अर्थान्तरे रूढत्वात् ; तथाभि- शब्द: ' स एषोऽग्निर्वैश्वानरः' इति । आदिशब्दात् 'हृदयं गार्हपत्यः' इत्याद्यग्नित्रेताप्रकल्पनम् ; ' तद्यद्भक्तं प्रथममाग- च्छेत्तद्धोमीयम्' इत्यादिना च प्राणाहुत्यधिकरणतासंकीर्त- नम् । एतेभ्यो हेतुभ्यो जाठरो वैश्वानरः प्रत्येतव्यः । तथा- न्तःप्रतिष्ठांनमपि श्रूयते— ' पुरुषेऽन्तः प्रतिष्ठितं वेद' इति । तच्च जाठरे संभवति । यदप्युक्तम् 'मूर्वैव सुतेजा: ' इत्यादेर्विशेषात्कारणात्परमात्मा वैश्वानर इति, अत्र ब्रूमः -- कुतो न्वेष निर्णय:, यदुभयथापि विशेषप्रतिभाने सति पर- मेश्वरविषय एव विशेष आश्रयणीयो न जाठरविषय इति । अथवा भूताग्नेरन्तर्बहिश्चावतिष्ठमानस्यैष निर्देशो भविष्य- ति । तस्यापि हि द्युलोकादिसंबन्धो मन्त्रवर्णे अवगम्यते---. ' यो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम् ' सू. २६.] प्रथमोऽध्यायः । इत्यादौ । अथवा तच्छरीराया देवताया ऐश्वर्ययोगात् धुलो- काद्यवयवत्वं भविष्यति । तस्मान्न परमेश्वरो वैश्वानर इति ॥ अत्रोच्यते-- न तथादृष्टयुपदेशादिति । न शब्दादि- भ्यः कारणेभ्यः परमेश्वरस्य प्रत्याख्यानं युक्तम् । कुत: ? तथा जाठरापरित्यागेन, दृष्ट्युपदेशात् । परमेश्वरदृष्टिर्हि जा- ठरे वैश्वानरे इहोपदिश्यते-- ' मनो ब्रह्मेत्युपासीत ' इत्यादि- वत् । अथवा जाठरवैश्वानरोपाधिः परमेश्वर इह द्रष्टव्यत्वे- नोपदिश्यते – 'मनोमयः प्राणशरीरो भारूप:' इत्यादि- वत् । यदि चेह परमेश्वरो न विवक्ष्येत, केवल एव जाठ- रोऽग्निर्विवक्ष्येत, तत: 'मूधैव सुतेजा:' इत्यादेर्विशेषस्यासं- भव एव स्यात् । यथा तु देवताभूताग्निव्यपाश्रयेणाप्यचं विशेष उपपादयितुं न शक्यते, तथोत्तरसूत्रे वक्ष्यामः । यदि च केवल एव जाठरो विवक्ष्येत, पुरुषेऽन्तः प्रतिष्ठित- त्वं केवलं तस्य स्यात् ; न तु पुरुषत्वम्; पुरुषमपि चैनम- धीयते वाजसनेयिनः -- स एषोऽग्निर्वैश्वानरो यत्पुरुषः स यो हैतमेवमग्निं वैश्वानरं पुरुषं पुरुषेऽन्तः प्रतिष्ठितं वे- द' इति । परमेश्वरस्य तु सर्वात्मत्वात्पुरुषत्वं पुरुषेऽन्तः प्र- तिष्ठितत्वं चोभयमुपपद्यते । ये तु 'पुरुषविधमपि चैनम- सूत्रभाष्ये [पा. २. धीयते' इति सूत्रावयवं पठन्ति तेषामेषोऽर्थ :- केवल- जाठरपरिग्रहे पुरुषेऽन्तः प्रतिष्ठितत्वं केवलं स्यात् ; न तु पुरु- षविधत्वम् ; पुरुषविधमपि चैनमधीयते वाजसनेयिन:- " पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद' इति । पुरुषविधत्वं च प्रकरणात् यदधिदैवतं द्युमूर्धत्वादि पृथिवीप्रतिष्ठितत्वान्तम्, यच्चाध्यात्मं प्रसिद्धं मूर्धत्वादि चुबुकप्रतिष्ठितत्वान्तम्, तत्परिगृह्यते ॥ अत एव न देवता भूतं च ॥ २७ ॥ यत्पुनरुक्तम्—भूताग्नेरपि मत्रवर्णे द्युलोकादिसंबन्धदर्श- नातू 'मूर्खेव सुतेजा:' इत्याद्यवयवकल्पनं तस्यैव भविष्यतीति, तच्छरीराया देवताया वा एैश्वर्ययोगादिति ; तत्परिहर्तव्य- म् । अत्रोच्यते—अत एवोक्तेभ्यो हेतुभ्यो न देवता वैश्वा- नरः । तथा भूताग्निरपि न वैश्वानरः ; न हि भूतानेरौष्ण्य- प्रकाशमात्रात्मकस्य द्युमूर्धत्वादिकल्पनोपपद्यते, विकारस्य विकारान्तरात्मत्वासंभवात् । तथा देवतायाः सत्यप्यैश्वर्ययोगे न घुमूर्धत्वादिकल्पना संभवति, अकारणत्वात् परमेश्वराधी- नैश्वर्यत्वाच्च । आत्मशब्दासंभवश्च सर्वेष्वेषु पक्षेषु स्थित एव ॥ . सू. २८.] प्रथमोऽध्यायः । साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥ पूर्व जाठराभिप्रतीको जाठराग्न्युपाधिको वा परमेश्वर उपास्य इत्युक्तम् अन्तः प्रतिष्ठितत्वाद्यनुरोधेन । इदानीं तु विनैव प्रतीकोपाधिकल्पनाभ्यां साक्षादपि परमेश्वरोपासन- परिग्रहे न कश्विद्विरोध इति जैमिनिराचार्यो मन्यते । ननु जाठराग्न्यपरिग्रहेऽन्तः प्रतिष्ठितत्ववचनं शब्दादीनि च कारणानि विरुध्येरन्निति ; अत्रोच्यते - अन्तः प्रतिष्ठितत्व- ; वचनं तावन्न विरुध्यते । न हीह 'पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद' इति जाठराग्न्यभिप्रायेणेदमुच्यते, तस्या- प्रकृतत्वादसंशब्दितत्वाच्च ; कथं तर्हि, यत्प्रकृतं मूर्धादि - चुचुकान्तेषु पुरुषावयवेषु पुरुषविधत्वं कल्पितम्, तदभि- प्रायेणेदमुच्यते — 'पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद' इति ; यथा वृक्षे शाखां प्रतिष्ठितां पश्यतीति, तद्वत् । अथवा यः प्रकृतः परमात्माध्यात्ममधिदैवतं च पुरुषवि- धत्वोपाधिः, तस्य यत्केवलं साक्षिरूपम्, तदभिप्रायेणेदमु- च्यते—' पुरुषंविधं पुरुषेऽन्तः प्रतिष्ठितं वेद' इति । निश्चि च पूर्वापरालोचनवशेन परमात्मपरिग्रहे, तद्विषय एव वैश्वा- नरशब्द: केनचिद्योगेन वर्तिष्यते — विश्वश्वायं नरश्चेति, विश्वेषां वायं नरः, विश्वे वा नरा अस्येति विश्वानरः सूत्रभाष्ये [पा. २. परमात्मा, सर्वात्मत्वात्, विश्वानर एव वैश्वानरः ; तद्धितो- ऽनन्यार्थः, राक्षसवायसादिवत् । अग्निशब्दोऽप्यप्रणीत्वा- दियोगाश्रयणेन परमात्मविषय एव भविष्यति । गाईपत्या- द्विकल्पनं प्राणाहुत्यधिकरणत्वं च परमात्मनोऽपि सर्वात्मत्वा- दुपपद्यते ॥ कथं पुनः परमेश्वरपरिग्रहे प्रादेशमात्रश्रुतिरुपपद्यत इति, तां व्याख्यातुमारभते - अभिव्यक्तेरित्याश्मरथ्यः ॥ २९ ॥ अतिमात्रस्यापि परमेश्वरस्य प्रादेशमात्रत्वमभिव्यक्ति- निमित्तं स्यात् । अभिव्यज्यते किल प्रादेशमात्रपरिमाणः परमेश्वर उपासकानां कृते । प्रदेशविशेषेषु वा हृदया- दिपूपलब्धिस्थानेषु विशेषेणाभिव्यज्यते । अतः परमेश्वरेऽपि प्रादेशमात्रश्रुतिरभिव्यक्तेरुपपद्यत इत्याश्मरथ्य आचार्यो मन्यते ॥ " अनुस्मृतेर्बादरिः ॥ ३० ॥ प्रादेशमात्र हृदयप्रतिष्ठितेन वायं मनसानुस्मर्यते ; तेन प्रादेशमात्र: ' इत्युच्यते ; यथा प्रस्थमिता यवाः प्रस्था इत्यु- च्यन्ते, तद्वत् । यद्यपि च यवेषु स्वगतमेव परिमाणं प्रस्थ- सू. ३१.] प्रथमोऽध्यायः । संवन्धाद्व्यज्यते, न चेह परमेश्वरगतं किंचित्परिमाणमस्ति -- यद्धृदयसंवन्धाद्व्यज्येत ; तथापि प्रयुक्ताया: प्रादेशमात्र श्रुतेः संभवति यथाकथंचिदनुस्मरणमालम्बनमित्युच्यते । प्रादे- शमात्रत्वेन वायमप्रादेशमात्रोऽप्यनुस्मरणीयः प्रादेशमात्र- श्रुत्यर्थवत्तायै । एवमनुस्मृतिनिमित्ता परमेश्वरे प्रादेशमात्र- श्रुतिरिति बादरिराचार्यो मन्यते ॥ संपत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥ • संपत्तिनिमित्ता वा स्यात्प्रादेशमात्र श्रुतिः । कुतः ? तथाहि समानप्रकरणं वाजसनेयिब्राह्मणं द्युप्रभृतीन्पृथिवीपर्यन्तां- त्रैलोक्यात्मनो वैश्वानरस्यावयवानध्यात्ममूर्धप्रभृतिषु चुबु- कपर्यन्तेषु देहावयवेषु संपादयत्प्रादेशमात्र संपत्ति परमेश्व- रस्य दर्शयति — ' प्रादेशमात्रमिव ह वै देवाः सुविदिता अभिसंपन्नास्तथा तु व एतान्वक्ष्यामि यथा प्रादेशमात्र- मेवाभिसंपादयिष्यामीति । स होवाच मूर्धानमुपदिशन्नु- वाचैष वा अतिष्ठा वैश्वानर इति । चक्षुषी उपदिशन्नुवा- चैष वै सुतेजा वैश्वानर इति । नासिके उपदिशन्नुवाचैष वै पृथग्वर्त्मात्मा वैश्वानर इति । मुख्यमाकाशमुपदिशन्नुवा- चैष वै बहुलो वैश्वानर इति । मुख्या अप उपदि- सूत्रभाष्ये [पा .२. शत्रुवाचैष वै रयिर्वैश्वानर इति । चुबुकमुपदिशन्नुवा- 'चैष वै प्रतिष्ठा वैश्वानरः' इति । चुबुकमित्यधरं मुखफल- कमुच्यते । यद्यपि वाजसनेयके द्यौरतिष्ठात्वगुणा समान्ना- येते, आदित्यश्च सुतेजस्त्वगुणः, छान्दोग्ये पुनः द्यौः सुते- जंस्त्वगुणा समाम्नायते, आदित्यश्च विश्वरूपत्वगुणः ; तथा- पि नैतावता विशेषेण किंचिद्धीयते, प्रादेशमात्रश्रुतेरविशे- षात्, सर्वशाखाप्रत्ययत्वाच्च । संपत्तिनिमित्तां प्रादेशमात्र- श्रुतिं युक्ततरां जैमिनिराचार्यो मन्यते ॥ आमनन्ति चैनमस्मिन् ॥ ३२ ॥ आमनन्ति चैनं परमेश्वरमस्मिन्मूर्धचुबुकान्तराले जा- बाला:- ' य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति । वरणायां नास्यां च मध्ये प्रतिष्ठित इति । का वै वरणा का च नासी- ति' । तत्र चेमामेव नासिकाम् 'सर्वाणीन्द्रियकृतानि पापानि वारयतीति सा वरणा, सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासी' इति वरणानासीति निरुच्य, पुन- रप्यामनन्ति— कतमच्चास्य स्थानं भवतीति । भ्रुवोर्घा - णस्य च यः संधि: स एष द्युलोकस्य परस्य च संधि- प्रथमोऽध्यायः । र्भवति — इति । तस्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिः । अभिविमानश्रुतिः प्रत्यगात्मत्वाभिप्राया । प्रत्यगात्मतया सर्वैः प्राणिभिरभिविमीयत इत्यभिविमान: ; अभिगतो वायं प्रत्य- गात्मत्वात् विमानश्च मानवियोगात् इत्यभिविमानः । अभिविमिमीते वा सर्वे जगत् कारणत्वादित्यभिविमान: ; तस्मात्परमेश्वरो वैश्वानर इति सिद्धम् ॥ ' इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द- भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य द्वितीयः पादः ॥ श्रीमच्छंकरभगवत्पादैर्विरचितम् ॥ ब्रह्मसूत्रभाष्यम् ॥ प्रथमाध्याये तृतीयः पादः ॐ तृतीयः पादः ॥ द्युभ्वाद्यायतनं स्वशब्दात् ॥ १ ॥ इदं श्रूयते — ' यस्मिन्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथ आत्मानमन्या वाचो १. द्युभ्वाद्यधि- विमुञ्चथामृतस्यैष सेतुः' इति । अन्न करणम् । यदेतद्दचुप्रभृतीनामोतत्ववचनादायतनं किं- चिदवगम्यते, तत्किं परं ब्रह्म स्यात्, आहोस्विदर्थान्तर- भिति संदिह्यते । तत्रार्थान्तरं किमप्यायतनं स्यादिति प्राप्तम् । कस्मात्? 'अमृतस्यैष सेतुः ' इति श्रवणात् । पार- वान्हि लोके सेतुः प्रख्यातः । न च परस्य ब्रह्मणः पार- वत्त्वं शक्यमभ्युपगन्तुम्— 'अनन्तमपारम्' इति श्रव- णात् । अर्थान्तरे चायतने परिगृह्यमाणे स्मृतिप्रसिद्धं प्रधानं परिग्रहीतव्यम्, तस्य कारणत्वादायतनत्वोपपत्तेः । श्रुति- प्रसिद्धो वा वायुः स्यात् – 'वायुर्वाव गौतम तत्सूत्रं वा- वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि युना S. W. 1. 10 सूत्रभाष्ये [पा. ३. च भूतानि संन्धानि भवन्ति' इति वायोरपि विधार- णत्वश्रवणात् । शारीरो वा स्यात् ; -- तस्यापि भोक्तृ- त्वान् भोग्यं प्रपञ्चं प्रत्यायतनत्वोपपत्तेः इत्येवं प्राप्ते- " इदमाह—— द्युभ्वाद्यायतनमिति । द्यौश्च भूच द्युभुवौ, द्युभुवौ आदी यस्य तदिदं शुभ्वादि । यदेतदस्मिन्वाक्ये द्यौः पृथिव्यन्तरिक्षं मनः प्राणा इत्येवमात्मकं जगत् ओतत्वेन निर्दिष्टम्, तस्यायतनं परं ब्रह्म भवितुमर्हति । कुत: ? स्वश- ब्दात् आत्मशब्दादित्यर्थः । आत्मशब्दो हीह. भवति -- 'तमेवैकं जानथ आत्मानम्' इति । आत्मशब्दश्च परमा- त्मपरिग्रहे सम्यगवकल्पते, नार्थान्तरपरिग्रहे । क्वचिच्च स्व- शब्देनैव ब्रह्मण आयतनत्वं श्रूयते -- 'सन्मूला: सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा:' इति । स्वशब्देनैव चेह पुरस्तादुपरिष्टाच ब्रह्म संकीर्त्यते - 'पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्' इति, 'ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण' इति च । तत्र त्वाय- तनायतनवद्भावश्रवणात् । सर्व त्रह्मेति च सामानाधिक- रण्यात्, यथा ह्यनेकात्मको वृक्षः शाखा स्कन्धो मूलं चेति, एवं नानारसो विचित्त आत्मेत्याशङ्का संभवति ; तां निवर्तयितुं सावधारणमाह- तमेवैकं जानथ आत्मा- सू. १.] प्रथमोऽध्यायः । नम्' इति । एतदुक्तं भवति -- न कार्यप्रपञ्वविशिष्टो विचित्र आत्मा विज्ञेयः ; किं तर्हि, अविद्याकृतं कार्यप्रपञ्चं विद्यया प्रविलापयन्तः तमेवैकमायतनभूतमात्मानं जानथ एकरसमिति । यथा ' यस्मिन्नास्ते देवदत्तस्तदानय' इत्युक्ते आसनमेवानयति, न देवदत्तम् तद्वदायतनभूतस्यैवैकरस- स्वात्मनो विज्ञेयत्वमुपदिश्यते । विकारानृताभिसंधस्य चा- पवादः श्रूयते— 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इति । ' सर्व ब्रह्म' इति तु सामानाधिकरण्यं प्रपञ्चविलापनार्थम्, न अनेकरसताप्रतिपादनार्थम्, 'स यथा सैन्धवघनोऽनन्तरोऽवाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः : कृत्स्नः प्रज्ञानघन एव' इत्येक- रसताश्रवणात् । तस्माद्दयुभ्वाद्यायतनं परं ब्रह्म । यत्तूक्तम् — सेतुश्रुतेः, सेतोश्च पारवत्त्वोपपत्तेः, ब्रह्मणोऽर्थान्तरेण यु- भ्वाद्यायतनेन भवितव्यमिति, अत्रोच्यते-- विधारणत्व- मात्रमेव सेतुत्या विवक्ष्यते, न पारवत्त्वादि । न हि मृद्दारुमयो लोके सेतुर्दृष्ट इत्यत्रापि मृद्दारुमय एव सेतु - रभ्युपगम्यते । सेतुशब्दार्थोऽपि विधारणत्वमात्रमेव, न पारवत्त्वादि, षिञो बन्धनकर्मणः सेतुशब्दव्युत्पत्तेः । अ- पर आह—' तमेवैकं जानथ आत्मानम्' इति यदेतत्संकी- - सूत्रभाष्ये [पा. ३. र्तितमात्मज्ञानम्, यश्चैतत् 'अन्या वाचो विमुश्वथ' इति वाग्विमोचनम्, तत् अत्र अमृतत्वसाधनत्वात्, 'अमृतस्यैष सेतु:' इति सेतुश्रुत्या संकीर्त्यते ; न तु बुभ्वाद्यायतनम् । तत्र यदुक्तम्— सेतुश्रुतेर्ब्रह्मणोऽर्थान्तरेण शुभ्वाद्यायतनेन भवितव्यमिति, एतदयुक्तम् ॥ मुक्तोपसृप्यव्यपदेशात् ॥ २ ॥ इतश्च परमेव ब्रह्म द्युभ्वाद्यायतनम् ; यस्मान्मुक्तोपसृ- प्यतास्य व्यपदिश्यमाना दृश्यते । मुक्तैरुपसृष्यं मुक्तोपसृ- यम् । देहादिष्वनात्मसु अहमस्मीत्यात्मबुद्धिरविद्या, तत- स्तत्पूजनादौ रागः, तत्परिभवादौ च द्वेषः, तदुच्छेददर्शना- द्भयं मोहश्च -- इत्येवमयमनन्तभेदोऽनर्थव्रातः संततः सर्वेषां नः प्रत्यक्षः । तद्विपर्ययेणाविद्या रागद्वेषादिदोषमुक्तैरुपसृष्य- मुपगम्यमेतदिति भ्वाद्यायतनं प्रकृत्य व्यपदेशो भवति ; कथम् ? ' भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे' इत्युक्त्वा, ब्रवीति- ' तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्' इति । ब्रह्मणश्च मुक्तोपसृप्यत्वं प्रसिद्धं शास्त्रे --' यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भ- वत्यन्त्र ब्रह्म समश्नुते' इत्येवमादौ । प्रधानादीनां तु न क- -- सू. ४.] प्रथमोऽध्यायः । चिन्मुक्तोपसृप्यत्वमस्ति प्रसिद्धम् । अपि च ' तमेवैकं जा- नथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतु:' इति वाग्विमोकपूर्वकं विज्ञेयत्वमिह द्युभ्वाद्यायतनस्योच्यते । त- च श्रुत्यन्तरे ब्रह्मणो दृष्टम् —' तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहूञ्शब्दान्वाचो विग्लापनं हि तत्' इति । तस्मादपि द्युभ्वाद्यायतनं परं ब्रह्म ॥ नानुमानमतच्छब्दात् ॥ ३ ॥ यथा ब्रह्मण: प्रतिपादको वैशेषिको हेतुरुक्तः, नैवमर्था- न्तरस्य वैशेषिको हेतुः प्रतिपादकोऽस्तीत्याह । नानुमानं सांख्यस्मृतिपरिकल्पितं प्रधानम् इह द्युभ्वाद्यायतनत्वेन प्रति- पत्तव्यम् । कस्मात् ? अतच्छब्दात् । तस्याचेतनस्य प्रधानस्य प्रतिपादकः शब्दः तच्छब्दः, न तच्छब्दः अतच्छब्दः । न ह्यत्राचेतनस्य प्रधानस्य प्रतिपादकः कश्चिच्छन्दोऽस्ति, ये- नाचेतनं प्रधानं कारणत्वेनायतनत्वेन वावगम्येत । तद्विप- रीतस्य चेतनस्य प्रतिपादकशब्दोऽत्रास्ति - ' यः सर्वज्ञः सर्ववित्' इत्यादिः । अत एव न वायुरपीह द्युभ्वाद्यायतन- त्वेनाश्रीयते ॥ प्राणभृच्च ॥। ४ ॥ यद्यपि प्राणभृतो विज्ञानात्मन आत्मत्वं चेतनत्वं च सं- - १५० सूत्रभाष्ये [पा. ३.. भवति, तथाप्युपाधिपरिच्छिन्नज्ञानस्य सर्वज्ञत्वाद्य संभवे सति अस्मादेवातच्छब्दात् प्राणभृदपि न बुभ्वाद्यायतनत्वेनाश्र- यितव्यः। न चोपाधिपरिच्छिन्नस्याविभोः प्राणभृतो द्युभ्वा- व्यायतनत्वमपि सम्यक्संभवति । पृथग्योगकरणमुत्तरार्थम् ॥ कुतश्च न प्राणभृत् द्युभ्वाद्यायतनत्वेनाश्रयितव्यः :- भेदव्यपदेशात् ॥ ५ ॥ । भेदव्यपदेशश्चेह भवति – 'तमेवैकं जानथ आत्मानम् ' इति ज्ञेयज्ञातृभावेन । तत्र प्राणभृत् तावन्मुमुक्षुत्वाज्ज्ञाता ; परिशेषादात्मशब्दवाच्यं ब्रह्म ज्ञेयं शुभ्वाद्यायतनमिति ग म्यते, न प्राणभृत् ॥ कुतश्च न प्राणभृत् द्युभ्वाद्यायतनत्वेनाश्रयितव्यः ?- प्रकरणात् ॥ ६ ॥ प्रकरणं चेदं परमात्मनः-- ' कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति' इत्येकविज्ञानेन सर्वविज्ञानापेक्ष- णात् । परमात्मनि हि सर्वात्मके विज्ञाते सर्वमिदं विज्ञातं स्यात्, न केवले प्राणभृति ॥ कुतश्च न प्राणभृन् द्युभ्वाद्यायतनत्वेनाश्रयितव्यः ?- - सू. ७.] प्रथमोऽध्यायः । स्थित्यदनाभ्यां च ॥ ७ ॥ शुभ्वाद्यायतनं च प्रकृत्य, 'द्वा सुपर्णा सयुजा स- खाया' इत्यत्र स्थित्यदने निर्दिश्येते ; ' तयोरन्य: पिप्पलं स्वाद्वत्ति' इति कर्मफलाशनम् ; 'अनश्नन्नन्योऽभिचाकशीति' इत्यौदासीन्येनावस्थानम् । ताभ्यां च स्थित्यदनाभ्यामी- श्वरक्षेत्रज्ञौ तत्र गृह्येते । यदि च ईश्वरो द्युभ्वाद्यायतनत्वेन विवक्षितः, ततस्तस्य प्रकृतस्येश्वरस्य क्षेत्रज्ञात्पृथग्वचनम- कल्पते । अन्यथा ह्यप्रकृतवचनमाकस्मिकमसंवद्धं स्यात् । ननु तवापि क्षेत्रज्ञस्येश्वरात्पृथग्वचनमाकस्मिकमेव प्रस- ज्येत ; न, तस्याविवक्षितत्वात् । क्षेत्रज्ञो हि कर्तृत्वेन भोक्तृत्वेन च प्रतिशरीरं बुद्धधाद्युपाधिसंबद्ध:, लोकत एव प्रसिद्धः, नासौ श्रुत्या तात्पर्येण विवक्ष्यते ; ईश्वरस्तु लोकतोऽप्रसिद्धत्वाच्छ्रुत्या तात्पर्येण विवक्ष्यत इति न तस्याकस्मिकं वचनं युक्तम् । 'गुहां प्रविष्टावात्मानौ हि ' इत्यत्राप्येतद्दर्शितम् —'द्वा सुपर्णा ' इत्यस्यामृचि ईश्वरक्षेत्रज्ञा- वुच्येते इति । यदापि पैङ्गयुपनिषत्कृतेन व्याख्यानेनास्या- मृचि सत्त्वक्षेत्रज्ञावुच्येते, तदापि न विरोधः कश्चित् । कथम्? प्राणभृद्धीह घटादिच्छिद्रवत् सत्त्वाद्युपाध्यभि- मानित्वेन प्रतिशरीरं गृह्यमाणो शुभ्वाद्यायतनं न भवतीति सूत्रभाष्ये [पा. ३. प्रतिषिध्यते । यस्तु सर्वशरीरेषूपाधिभिर्विनोपलक्ष्यते, पर- एव स भवति ; यथा घटादिच्छिद्राणि घटादिभिरुपाधिभि- र्विनोपलक्ष्यमाणानि महाकाश एव भवन्ति, तद्वत् प्राणभृतः परस्मादन्यत्वानुपपत्तेः प्रतिषेधो नोपपद्यते । तस्मात्सत्त्वा ग्रुपाध्याभिमानिन एव शुभ्वाद्यायतनत्वप्रतिषेधः । तस्मा- त्परमेव ब्रह्म युभ्वाद्यायतनम् । तदेतत् 'अदृश्यत्वादिगु- णको धर्मोक्त:' इत्यनेनैव सिद्धम् । तस्यैव हि भूतयो- निवाक्यस्य मध्ये इदं पठितम् — ' यस्मिन्द्यौः पृथिवी चान्तरिक्षम्' इति । प्रपञ्चार्थे तु पुनरुपन्यस्तम् ॥ भूमा संप्रसादादध्युपदेशात् ॥ ८ ॥ इदं समामनन्ति - 'भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति । यत्र नान्यत्पश्यति २. भूमाधि - नान्यच्छृणोति नान्यद्विजानाति स भूमा । - करणम् । अथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजा- नाति तदल्पम्' इत्यादि । तत्र संशयः - किं प्राणो भूमा स्यात्, आहोस्वित्परमात्मेति । कुतः संशय: ? भूमेति ताव- इहुत्वमभिधीयते ; 'बहोर्लोपो भू च बहोः' इति भूमश- व्दस्य भावप्रत्ययान्ततास्मरणात् । किमात्मकं पुनस्तद्बहु- त्वमिति विशेषाकाङ्क्षायाम् 'प्राणो वा आशाया भूयान्' इति सू. ८.] प्रथमोऽध्यायः । संनिधानात् प्राणो भूमेति प्रतिभाति । तथा 'श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति । सोऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतु' इति प्रकरणोत्थानात्परमात्मा भूमेत्यपि प्रतिभाति । तत्र कस्यो - पादानं न्याय्यम्, कस्य वा हानमिति भवति संशयः । किं तावत्प्राप्तम् ? प्राणो भूमेति । कस्मात् ? भूयः प्रश्नप्र- भूयःप्रश्नप्र- तिवचनपरंपरादर्शनात् । यथा हि 'अस्ति भगवो नाम्नो भूय:' इति, 'वाग्वाव नाम्नो भूयसी' इति ; तथा ' अस्ति भगवो वाचो भूय:' इति, 'मनो वाव वाचो भूय:' इति च - नामादिभ्यो हि आ प्राणात् भूयः प्रश्नप्रतिवचनप्रवाहः प्रवृत्तः। नैवं प्राणात्परं भूयः प्रश्नप्रतिवचनं दृश्यते - ' अस्ति भगवः प्राणाद्भूय:' इति, 'अदो बाब प्राणाद्भूय:' इति । प्राणमेव तु नामादिभ्य आशान्तेभ्यो भूयांसम् -- ' प्राणो वा आशाया भूयान्' इत्यादिना सप्रपञ्चमुक्त्वा, प्राणदर्शि- नश्चातिवादित्वम् 'अतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापहु- वीत' इत्यभ्यनुज्ञाय, 'एष तु वा अतिवदति यः सत्येनाति- वदति' इति प्राणव्रतमतिवादित्वमनुकृष्य, अपरित्यज्यैव प्राणं सत्यादिपरंपरया भूमानमवतारयन्, प्राणमेव भूमानं मन्यत इति गम्यते । कथं पुनः प्राणे भूमनि व्याख्यायमाने 'यत्र सूत्रभाष्ये [पा. ३. - नान्यत्पश्यति' इत्येतद्भूम्नो लक्षणपरं वचनं व्याख्यायेतेति, उच्यते— सुषुप्तावस्थायां प्राणग्रस्तेषु करणेषु दर्शनादिव्य- बहारनिवृत्तिदर्शनात्संभवति प्राणस्यापि 'यत्र नान्यत्पश्य- तीति' एतल्लक्षणम् । तथा च श्रुतिः- 'न शृणोति न पश्यति' इत्यादिना सर्वकरणव्यापारप्रत्यस्तमयरूपां सुपु- प्त्यवस्थामुक्त्वा, 'प्राणाग्नय एवैतस्मिन्पुरे जाग्रति ' इति तस्यामेवावस्थायां पञ्चवृत्तेः प्राणस्य जागरणं ब्रुवती, प्राण- प्रधानां सुषुप्त्यवस्थां दर्शयति । यश्चैतद्भूम्नः सुखत्वं श्रुतम् — 'यो वै भूमा तत्सुखम्' इति, तदप्यविरुद्धम् ; 'अत्रैष देवः स्वप्नान्न पश्यत्यथ यदेतस्मिञ्शरीरे सुखं भवति' इति सुषुप्त्यवस्थायामेव सुखश्रवणात् । यच्च 'यो वै भूमा तदमृतम्' इति, तदपि प्राणस्याविरुद्धम् ; 'प्राणो वा अमृतम्' इति श्रुतेः । कथं पुनः प्राणं भूमानं मन्यमा- नस्य ' तरति शोकमात्मवित्' इत्यात्मविविदिषया प्रकरण- स्योत्थानमुपपद्यते ? प्राण एवेहात्मा विवक्षित इति ब्रूमः । तथाहि - 'प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मण: ' इति प्राणमेव सर्वात्मानं करोति, ' यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्व समर्पितम्' इति च; सर्वात्मत्वारनाभिनिदर्शनाभ्यां च संभ- सू. ८.] प्रथमोऽध्यायः । वति वैपुल्यात्मिका भूमरूपता प्राणस्य । तस्मात्प्राणो भूमे- त्येवं प्राप्तम् ॥ I तत इदमुच्यते— परमात्मैवेह भूमा भवितुमर्हति, न प्राणः । कस्मात् ? संप्रसादादध्युपदेशात् । संप्रसाद इति सु- षुप्तं स्थानमुच्यते ; सम्यक्प्रसीदत्यस्मिन्निति निर्वचनात्, बृहदारण्यके च स्वप्नजागरितस्थानाभ्यां सह पाठात् । तस्यां च संप्रसादावस्थायां प्राणो जागर्तीति प्राणोऽत्र संप्रसादो- ऽभिप्रेयते । प्राणादूर्ध्वं भून उपदिश्यमानत्वादित्यर्थः । प्राण एव चेद्भूमा स्यात्, स एव तस्मादूर्ध्वमुपदिश्येतेत्यश्लिष्टमेत- त्स्यात् । न हि नामैव 'नाम्नो भूयः' इति नाम्न ऊर्ध्वमुपदि- ष्टम्; किं तर्हि, नाम्नोऽन्यदर्थान्तरमुपदिष्टं वागाख्यम् ' वा- ग्वाव नाम्नो भूयसी' इति । तथा वागादिभ्योऽपि आ प्राणा- दर्थान्तरमेव तत्र तत्रोर्ध्वमुपदिष्टम् । तद्वत्प्राणादूर्ध्वमुपदिश्य- मानो भूमा प्राणादर्थान्तरभूतो भवितुमर्हति । नन्विह ना- स्ति प्रश्न:--' अस्ति भगवः प्राणाद्भूय:' इति ; नापि प्र- तिवचनमस्ति 'प्राणाद्वाव भूयोऽस्ति' इति; कथं प्राणाद- धि भूमोपदिश्यत इत्युच्यते ? प्राणविषयमेव चातिवादित्व- मुत्तरत्नानुकृष्यमाणं पश्याम: - ' एष तु वा अतिवदति यः सत्येनातिवदति' इति ; तस्मान्नास्ति प्राणादध्युपदेश इति ; सूत्रभाष्ये [पा. ३. ,. अल्लोच्यते- न तावत्प्राणविषयस्यैवातिवादित्वस्यैतदनुकर्षण- मिति शक्यं वक्तुम्, विशेषवादात् —' यः सत्येनातिवदति इति । ननु विशेषवादोऽप्ययं प्राणविषय एव भविष्यति ; कथ- म्? यथा ' एषोऽग्निहोत्री, यः सत्यं वदति' इत्युक्ते, न सत्य- वदनेनाग्निहोत्रित्वम् ; केन तर्हि ? अग्निहोत्रेणैव ; तत्सत्यवदनं त्वग्निहोत्रिणो विशेष उच्यते ; तथा 'एष तु वा अतिवदति, 'य: सत्येनातिवदति' इत्युक्ते, न सत्यवदनेनातिवादित्वम् ; केन तर्हि ? प्रकृतेन प्राणविज्ञानेनैव ; सत्यवदनं तु प्राणविदो विशेषो विवक्ष्यत इति--नेति ब्रूमः ; श्रुत्यर्थपरित्यागप्रसङ्गात् । श्रु- त्या ह्यत्र सत्यवदनेनातिवादित्वं प्रतीयते--' यः सत्येनाति- वदति सोऽतिवदति' इति ; नात्र प्राणविज्ञानस्य संकीर्तन- मस्ति ; प्रकरणात्तु प्राणविज्ञानं संवध्येत; तत्र प्रकरणानुरो- धेन श्रुतिः परित्यक्ता स्यात्; प्रकृतव्यावृत्त्यर्थश्च तु शब्दो न संगच्छेत -- ' एष तु वा अतिवदति' इति । ' सत्यं त्वेव वि- जिज्ञासितव्यम्' इति च प्रयत्नान्तरकरणमर्थान्तरविवक्षां सूचयति । तस्माद्यथैकवेदप्रशंसायां प्रकृतायाम्, 'एष तु महाब्राह्मणः, यश्चतुरो वेदानधीते ' इत्येकवेदेभ्योऽर्थान्तरभू- तश्चतुर्वेदः प्रशस्यते, तादृगेतद्द्रष्टव्यम् । न च प्रश्नप्रतिवचन- रूपयैवार्थान्तरविवक्षया भवितव्यमिति नियमोऽस्ति ; प्रकृ- सू. ८.] - प्रथमोऽध्यायः । , तसंबन्धासंभवकारितत्वादर्थान्तरविवक्षायाः । तत्र प्राणान्त- मनुशासनं श्रुत्वा तूष्णींभूतं नारदं स्वयमेव सनत्कुमारो व्युत्पादयति — यत्प्राणविज्ञानेन विकारानृतविषयेणातिवादि- त्वमनतिवादित्वमेव तत् —' एष तु वा अतिवदति, यः सत्ये - नातिवदति' इति । तत्र सत्यमिति परं ब्रह्मोच्यते, परमा- र्थरूपत्वात्; 'सत्यं ज्ञानमनन्तं ब्रह्म' इति च श्रुत्यन्तरात् । तथा व्युत्पातिताय नारदाय ' सोऽहं भगवः सत्येनातिवदानि इत्येवं प्रवृत्ताय विज्ञानादिसाधनपरंपरया भूमानमुपदि- शति । तत्र यत्प्राणादधि सत्यं वक्तव्यं प्रतिज्ञातम्, तदे- वेह भूमेत्युच्यत इति गम्यते । तस्मादस्ति प्राणादधि भूम्न उपदेश इति—अत: प्राणादन्यः परमात्मा भूमा भवितुमर्ह- तीति । एवं चेहात्मविविदिषया प्रकरणस्योत्थानमुपपन्नं भवि- ष्यति । प्राण एवेहात्मा विवक्षित इत्येतदपि नोपपद्यते । न हि प्राणस्य मुख्यया वृत्त्यात्मत्वमस्ति । न चान्यत्र परमात्म- ज्ञानाच्छोकविनिवृत्तिरस्ति, 'नान्यः पन्था विद्यतेऽयनाय ' इति श्रुत्यन्तरात् । ' तं मा भगवाञ्शोकस्य पारं तारयतु' इति चोपक्रम्योपसंहरति — ' तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमार:' इति । तम इति शोका- दिकारणमविद्योच्यते । प्राणान्ते चानुशासने न प्राणस्या- सूत्रभाष्ये [पा. ३. न्यायत्ततोच्येत । 'आत्मतः प्राणः' इति च ब्राह्मणम् । प्रकरणान्ते परमात्मविवक्षा भविष्यति ; भूमात्र प्राण एवेति चेत्, न स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि ' इत्यादिना भूम्न एव आ प्रकरणसमाप्तेरनुकर्षणात् । वैपुल्या- त्मिका च भूमरूपता सर्वकारणत्वात्परमात्मनः सुतरामु- पपद्यते ॥ धर्मोपपत्तेश्व ॥ ९ ॥ अपि च ये भून्नि श्रूयन्ते धर्माः, ते परमात्मन्युपप- द्यन्ते । 'यत्न नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजा- नाति स भूमा' इति दर्शनादिव्यवहाराभावं भूमनि अव - गमयति । परमात्मनि चायं दर्शनादिव्यवहाराभावोऽवगतः — ' यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इत्या- दिश्रुत्यन्तरात् । योऽप्यसौ सुषुप्त्यवस्थायां दर्शनादिव्यव- हाराभाव उक्त:, सोऽप्यात्मन एवासङ्गत्वविवक्षयोक्तः, न प्राणस्वभावविवश्नया, परमात्मप्रकरणात् । यदपि तस्या- मवस्थायां सुखमुक्तम्, तदप्यात्मन एव सुखरूपत्वविवक्षयो- क्तम; यत आह-- ' एषोऽस्य परम आनन्द एतस्यैवा - नन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति । इहापि 'यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम् ' प्रथमोऽध्यायः । सू. १०.] इति सामयसुखनिराकरणेन ब्रह्मैव सुखं भूमानं दर्शयति । 'यो वै भूमा तदमृतम्' इत्यमृतत्वमपीह श्रूयमाणं परम- कारणं गमयति ; विकाराणाममृतत्वस्यापेक्षिकत्वात्, 'अ- तोऽन्यदार्तम्' इति च श्रुत्यन्तरात् । तथा च सत्यत्वं स्वम- हिमप्रतिष्ठितत्वं सर्वगतत्वं सर्वात्मत्वमिति चैते धर्माः श्रूय- माणाः परमात्मन्येवोपपद्यन्ते, नान्यत्र । तस्माद्भूमा परमा- त्मेति सिद्धम् ॥ ' अक्षरमम्बरान्तधृतेः ॥ १० ॥ कस्मिन्नु खल्वाकाश ओतश्च पोतश्वेति स होवाचै- तद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु' इत्यादि ३. अक्षराधि- श्रूयते । तत्र संशयः - किमक्षरशब्देन करणम् । वर्ण उच्यते, किं वा परमेश्वर इति । त- त्राक्षरसमाम्नाय इत्यादावश्क्षरशब्दस्य वर्णे प्रसिद्धत्वात्, प्रसिद्ध्यतिक्रम्य चायुक्तत्वात्, 'ओंकार एवेदं सर्वम्' इत्यादौ च श्रुत्यन्तरे वर्णस्याप्युपास्यत्वेन सर्वात्मकत्वाव- धारणात्, वर्ण एवाक्षरशब्द इत्येवं प्राप्ते, उच्यते— पर एवात्माक्षरशब्दवाच्यः । कस्मात् ? अम्वरान्तधृतेः पृथिव्यादेराकाशान्तस्य विकारजातस्य धारणात् । तत्र हि पृथिव्यादेः समस्तविकारजातस्य कालत्रयविभक्तस्य सूत्रभाष्ये [पा. ३. 'आकाश एव तदोतं च प्रोतं च' इत्याकाशे प्रतिष्ठितत्वमु- क्त्वा, 'कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च' इत्यनेन प्रश्न- नेदमक्षरमवतारितम् ; तथा चोपसंहृतम् — 'एतस्मिन्नु ख- ल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च' इति । न चेयमम्बरान्त- धृतिर्ब्रह्मणोऽन्यत्र संभवति । यदपि 'ओंकार एवेदं सर्वम् ' इति, तदपि ब्रह्मप्रतिपत्तिसाधनत्वात्स्तुत्यर्थे द्रष्टव्यम् । त- स्मिन्न क्षरति अश्नुते चेति नित्यत्वव्यापित्वाभ्यामक्षरं परमेव ब्रह्म ॥ स्यादेतत्-- कार्यस्य चेत्कारणाधीनत्वमम्बरान्तधृतिर- भ्युपगम्यते, प्रधानकारणवादिनोऽपीयमुपपद्यते ; कथमम्ब- रान्तधृतेर्ब्रह्मत्वप्रतिपत्तिरिति ? अत उत्तरं पठति- सा व प्रशासनात् ॥ ११ ॥ - साच अम्बरान्तधृतिः परमेश्वरस्यैव कर्म । कस्मात् ? प्रशासनात् । प्रशासनं हीह श्रूयते — 'एतस्य वा अक्ष- रस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः ' इत्यादि । प्रशासनं च पारमेश्वरं कर्म; न अचेतनस्य प्रशासनं भवति । न ह्यचेतनानां घटादिकारणानां मृदा- दीनां घटादिविषयं प्रशासनमस्ति ॥ सू. १३.] प्रथमोऽध्यायः । अन्यभावव्यावृत्तेश्च ॥ १२ ॥ अन्यभावव्यावृत्तेश्च कारणाद्ब्रह्मवाक्षर शब्दवाच्यम्, तस्यै- वाम्बरान्तधृतिः कर्म, नान्यस्य कस्यचित् । किमिदम् अन्य- भावव्यावृत्तेरिति ? अन्यस्य भावोऽन्यभावः तस्माद्व्यावृत्तिः अन्यभावव्यावृत्तिरिति तस्याः । एतदुक्तं भवति — यदन्य- ह्मणोऽक्षरशब्दवाच्यमिहाशङ्कयते तद्भावात् इदमम्बरान्तवि- धारणमक्षरं व्यावर्तयति श्रुतिः - ' तद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ अश्रुतं श्रोतृ अमतं मन्तृ अविज्ञातं विज्ञातृ ' इति । तत्त्रादृष्टत्वादिव्यपदेश: प्रधानस्यापि संभवति ; द्रष्टृत्वा- दिव्यपदेशस्तु न तस्य संभवति, अचेतनत्वात् । तथा 'नान्य- दतोऽस्ति द्रष्टृ, नान्यदतोऽस्ति श्रोतृ, नान्यदतोऽस्ति मन्तृ, नान्यदतोऽस्ति विज्ञातृ ' इत्यात्मभेदप्रतिषेधात् न शारीर- स्याप्युपाधिमतोऽश्वरशब्दवाच्यत्वम् ; 'अचक्षुष्कमश्रोत्रम- वागमन:' इति चोपाधिमत्ताप्रतिषेधात् । न हि निरु- पाधिकः शारीरो नाम भवति । तस्मात्परमेव ब्रह्माक्षरमिति निश्चयः ॥ J ईक्षतिकर्मव्यपदेशात्सः ॥ १३ ॥ ' एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारस्तस्माद्वि- द्वानेतेनैवायतनेनैकतरमन्वेति' इति प्रकृत्य श्रूयते—' यः s. w. I. 11 सूत्रभाष्ये [पा. ३. पुनरेतं विमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत ' ४. क्षतिकर्मा - इति । किमस्मिन्वाक्ये परं ब्रह्माभिध्यात- धिकरणम् । व्यमुपदिश्यते, आहोस्विदपरमिति । एतेनै- वायतनेन परमपरं वैकतरमन्वेतीति प्रकृतत्वात्संशयः । त- त्रापरमिदं ब्रह्मेति प्राप्तम् । कस्मात् ? 'स तेजसि सूर्ये सं- पन्न:' ' स सामभिरुन्नीयते ब्रह्मलोकम्' इति च तद्विदो देशपरिच्छिन्नस्य फलस्योच्यमानत्वात् । न हि परब्रह्मविदे- शपरिच्छिन्नं फलमश्नुवीतेति युक्तम; सर्वगतत्वात्परस्य त्र- ह्मणः । नन्वपरब्रह्मपरिग्रहे 'परं पुरुषम्' इति विशेषणं नोपपद्यते । नैष दोषः - पिण्डापेक्षया प्राणस्य परत्वोपपत्तेः ; इत्येवं प्राप्ते, अभिधीयते ॥ ' परमेव ब्रह्म इह अभिध्यातव्यमुपदिश्यते । कस्मात् ? ईक्ष- तिकर्मव्यपदेशात् ; ईश्वतिर्दर्शनम् ; दर्शनव्याप्यमीक्षतिकर्म ; ईश्वतिकर्मत्वेनास्याभिध्यातव्यस्य पुरुषस्य वाक्यशेषे व्यप- देशो भवति स एतस्माज्जीवधनात्परात्परं पुरिशयं पु- रुषमीश्ते' इति ! तंत्र अभिध्यायतेरतथाभूतमपि वस्तु क- र्म भवति, मनोरथकल्पितस्याप्यभिध्यायतिकर्मत्वात् ; ई- तेस्तु तथाभूतमेव वस्तु लोके कर्म दृष्टम् इत्यतः परमा- त्मैवायं सम्यग्दर्शनविषयभूत ईक्षतिकर्मत्वेन व्यपदिष्ट इति , सू. १३.] प्रथमोऽध्यायः । गम्यते । स एव चेह परपुरुषशब्दाभ्यामभिध्यातव्यः प्रत्य- भिज्ञायते । नन्वभिध्याने परः पुरुष उक्तः, ईक्षणे तु परात्प- रः ; कथमितर इतरत्र प्रत्यभिज्ञायत इति, अत्रोच्यते-पर- - । ' पुरुषशब्दौ तावदुभयत्र साधारणौ । न चात्र जीवधनशब्देन प्रकृतोऽभिध्यातव्यः परः पुरुषः परामृश्यते; येन तस्मात् परात्परोऽयमीक्षितव्यः पुरुषोऽन्यः स्यात् । कस्तर्हि जीव- घन इति, उच्यते – घनो मूर्तिः, जीवलक्षणो घनः जीव- धनः । सैन्धवखिल्यवत् यः परमात्मनो जीवरूपः खिल्यभाव उपाधिकृतः, परश्च विषयेन्द्रियेभ्यः, सोऽत्र जीवधन इति । अपर आह— 'स सामभिरुन्नीयते ब्रह्मलोकम्' इत्यती - तानन्तरवाक्यनिर्दिष्टो यो ब्रह्मलोकः परश्च लोकान्तरेभ्यः, सोऽत्र जीवघन इत्युच्यते । जीवानां हि सर्वेषां करणप- रिवृतानां सर्वकरणात्मनि हिरण्यगर्भे ब्रह्मलोक निवासिनि संघातोपपत्तेर्भवति ब्रह्मलोको जीवघनः । तस्मात्परो यः पुरुष: परमात्मा ईक्षणक्रर्मभूतः, स एवाभिध्यानेऽपि कर्मभूत इति गम्यते । ' परं पुरुषम्' इति च विशेषणं परमा- त्मपरिग्रह एवावकल्पते । परो हि पुरुषः परमात्मैव भवति यस्मात्परं किंचिदन्यन्नास्ति; ' पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः' इति च श्रुत्यन्तरात् । ' परं चापरं सूत्रभाष्ये [पा. ३. च ब्रह्म यदोंकार:' इति च विभज्य अनन्तरमोंकारेण परं पुरुषमभिध्यातव्यं ब्रुवन्, परमेव ब्रह्म परं पुरुषं गमयति । 'यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुच्यते ' इति पाप्मविनिर्मोकफलवचनं परमा- त्मानमिहाभिध्यातव्यं सूचयति । अथ यदुक्तं परमात्माभि- ध्यायिनो न देशपरिच्छिन्नं फलं युज्यत इति, अनोच्यते- त्रिमात्रेणोंकारेणालम्बनेन परमात्मानमभिध्यायतः फलं ब्र- ह्मलोकप्राप्तिः, क्रमेण च सम्यग्दर्शनोत्पत्ति:, इति क्रम- मुक्त्यभिप्रायमेतद्भविष्यतीत्यदोषः ॥ दहर उत्तरेभ्यः ॥ १४ ॥ 'अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो- ऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञा- ५. दहराधि- सितव्यम्' इत्यादि वाक्यं समाम्नायते । करणम् । तत्र योऽयं दहरे हृदयपुण्डरीके दहर आकाशः श्रुतः, स किं भूताकाश:, अथ विज्ञानात्मा, अथवा परमात्मेति संशय्यते । कुतः संशयः ? आकाशब्रह्मपुरशब्दा- भ्याम् । आकाशशब्दो ह्ययं भूताकाशे परस्मिंश्च ब्रह्मणि प्रयु- ज्यमानो दृश्यते । तत्र किं भूताकाश एव दहरः स्यात्, वा पर इति संशयः । तथा ब्रह्मपुरमिति — किं. जीवो- किं सू. १४.] प्रथमोऽध्यायः । ऽत्र ब्रह्मनामा, तस्येदं पुरं शरीरं ब्रह्मपुरम्, अथवा परस्यैव ब्रह्मणः पुरं ब्रह्मपुरमिति । तत्र जीवस्य परस्य वान्यतरस्य पुरस्वामिनो दहराकाशत्वे संशयः । तत्राकाशशब्दस्य भूता- काशे रूढत्वाद्भूताकाश एव दहरशब्द इति प्राप्तम् ; तस्य च दहरायतनापेक्षया दहरत्वम्; 'यावान्वा अयमाकाश- स्तावानेषोऽन्तर्हृदय आकाश:' इति च बाह्याभ्यन्तरभावकृ- तभेदस्योपमानोपमेयभाव:; द्यावापृथिव्यादि च तस्मिन्नन्तः समाहितम्, अवकाशात्मनाकाशस्यैकत्वात् । अथवा जीवो दहर इति प्राप्तम्, ब्रह्मपुरशब्दात् ; जीवस्य हीदं पुरं सत् शरीरं ब्रह्मपुरमित्युच्यते, तस्य स्वकर्मणोपार्जितत्वात् ; भ- क्त्या च तस्य ब्रह्मशब्दवाच्यत्वम् ; न हि परस्य ब्रह्मणः शरीरेण स्वस्वामिभाव : संबन्धोऽस्ति ; तत्र पुरस्वामिन: पुरैकदेशेऽवस्थानं दृष्टम्, यथा राज्ञः ; मनउपाधिकश्च जीव: :; मनश्च प्रायेण हृदये प्रतिष्ठितम् — इत्यतो जीवस्यैवेदं हृदया- न्तरवस्थानं स्यात् ; दहरत्वमपि तस्यैव आराम्रोपमितत्वात् अवकल्पते; आकाशोपमितत्वादि च ब्रह्माभेदविवक्षया भविष्यति ; न चात्र दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञा- सितव्यत्वं च श्रूयते ; 'तस्मिन्यदन्तः' इति परविशेषण- त्वेनोपादानादिति ॥ - सूत्रभाष्ये [पा. ३. अत उत्तरं ब्रूमः — परमेश्वर एवात्र दहराकाशो भवि - तुमर्हति, न भूताकाशो जीवो वा । कस्मात् ? उत्तरेभ्यः वाक्यशेषगतेभ्यो हेतुभ्यः । तथाहि — अन्वेष्टव्यतयाभि- हितस्य दहराकाशस्य 'तं चेद्रूयुः' इत्युपक्रम्य 'किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम्' इत्येवमाले- पपूर्वकं प्रतिसमाधानवचनं भवति — ' स ब्रूयाद्यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावा- पृथिवी अन्तरेव समाहिते' इत्यादि । तत्र पुण्डरीकदह- रत्वेन प्राप्तदहरत्वस्याकाशस्य प्रसिद्धाकाशौपम्येन दहरत्वं निवर्तयन् भूताकाशत्वं दहरस्याकाशस्य निवर्तयतीति ग- म्यते । यद्यप्याकाशशब्दो भूताकाशे रूढः, तथापि तेनैव तस्योपमा नोपपद्यत इति भूताकाशशङ्का निवर्तिता भवति । नन्वेकस्याप्याकाशस्य बाह्याभ्यन्तरत्वकल्पितेन भेदेनोपमा- नोपमेयभावः · संभवतीत्युक्तम्; नैवं संभवति ; अगतिका हीयं गतिः, यत्काल्पनिकभेदाश्रयणम् । अपि च कल्पयि- त्वा भेदमुपमानोपमेयभावं वर्णयतः परिच्छिन्नत्वादभ्यन्त- राकाशस्य न बाह्याकाशपरिमाणत्वमुपपद्येत । ननु परमेश्व- रस्यापि 'ज्यायानाकाशात्' इति श्रुत्यन्तरात् नैवाकाशपरि- माणत्वमुपपद्यते ; नैष दोषः ; पुण्डरीकवेष्टनप्राप्तदह रत्वनिवृ- . सू. १४.] प्रथमोऽध्यायः । i त्तिपरत्वाद्वाक्यस्य न तावत्त्वप्रतिपादनपरत्वम् ; उभयप्रति - पादने हि वाक्यं भिद्येत । न च कल्पितभेदे पुण्डरीकवेष्टित आकाशैकदेशे द्यावापृथिव्यादीनामन्तः समाधानमुपपद्यते । 'एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सो- ऽपिपासः सत्यकामः सत्यसंकल्प:' इति चात्मत्वापहत- पाप्मत्वादयश्च गुणा न भूताकाशे संभवन्ति । यद्यप्यात्म- शब्दो जीवे संभवति, तथापीतरेभ्यः कारणेभ्यो जीवा- शङ्कापि निवर्तिता भवति । न ह्युपाधिपरिच्छिन्नस्याराम्रो - पमितस्य जीवस्य पुण्डरीकवेष्टनकृतं दहरत्वं शक्यं निव- र्तयितुम् । ब्रह्माभेदविवक्षया जीवस्य सर्वगतत्वादि विव- क्ष्येतेति चेत्; यदात्मतया जीवस्य सर्वगतत्वादि विव- क्ष्येत, तस्यैव ब्रह्मणः साक्षात्सर्वगतत्वादि विवक्ष्यतामिति युक्तम् । यदृप्युक्तम्— 'ब्रह्मपुरम्' इति जीवेन पुरस्योप- लक्षितत्वाद्राज्ञ इव जीवस्यैवेदं पुरस्वामिनः पुरैकदेशवर्ति- त्वमस्त्विति ; अत्र ब्रूमः --- परस्यैवेदं ब्रह्मणः पुरं सन् शरीरं ब्रह्मपुरमित्युच्यते ब्रह्मशब्दस्य तस्मिन्मुख्यत्वात् । तस्या- प्यस्ति पुरेणानेन संबन्ध:, उपलब्ध्यधिष्ठानत्वात् -- 'सः एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते' 'स वा. अयं पुरुषः सर्वासु पूर्षु पुरिशय:' इत्यादिश्रुतिभ्यः । सूत्रभाष्ये [पा. ३. अथवा जीवपुर एवास्मिन् ब्रह्म संनिहितमुपलक्ष्यते, यथां सालग्रामे विष्णुः संनिहित इति, तद्वत् । ' तद्यथेह कर्म - चितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः श्री- यते' इति च कर्मणामन्तवत्फलत्वमुक्त्वा, 'अथ य इहा- त्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति' इति प्रकृतदहराकाशविज्ञानस्यानन्तफ- लत्वं वदन्, परमात्मत्वमस्य सूचयति । यदप्येतदुक्तम्- न दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं च श्रुतं परविशेषणत्वेनोपादानादिति ; अत्र ब्रूमः — यद्याकाशो ना- न्वेष्टव्यत्वेनोक्तः स्यात् 'यावान्वा अग्रमाकाशस्तावानेषो- ऽन्तर्हृदय आकाश:' इत्याद्याकाशस्वरूपप्रदर्शनं नोपप- द्येत । नन्वेतदप्यन्तर्वर्तिवस्तु सद्भावदर्शनायैव प्रदर्श्यते, 'तं चेद्र्युर्यदिदमस्मिन्त्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो- ऽस्मिन्नन्तर।काशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम्' इत्याक्षिप्य परिहारावसरे आकाशौ- पम्योपक्रमेण द्यावापृथिव्यादीनामन्तः समाहितत्वप्रदर्शनात्; नैतदेवम् ; एवं हि सति यदन्तः समाहितं द्यावापृथिव्यादि, तदन्वेष्टव्यं विजिज्ञासितव्यं चोक्तं स्यात्; तत्र वाक्यशेषो नोपपद्येत ; 'अस्मिन्कामा: समाहिताः ' ' एष आत्माप- सू. १५.] प्रथमोऽध्यायः । हतपाप्मा' इति हि प्रकृतं द्यावापृथिव्यादिसमाधानाधा- रमाकाशमाकृष्य 'अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्' इति समुच्चयार्थेन च शब्देनात्मानं कामाधा- रम् आश्रितांश्च कामान् विज्ञेयान् वाक्यशेषो दर्शयति । तस्माद्वाक्योपक्रमेऽपि दहर एवाकाशो हृदयपुण्डरीकाधि- ष्ठान: सहान्तःस्थैः समाहितैः पृथिव्यादिभिः सत्यैश्व कामै- र्विज्ञेय उक्त इति गम्यते । स चोक्तेभ्यो हेतुभ्यः परमे - श्वर इति स्थितम् ॥ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ १५ ॥ दहरः परमेश्वर उत्तरेभ्यो हेतुभ्य इत्युक्तम् ; त एवोत्तरे हेतव इदानीं प्रपञ्च्यन्ते । इतश्च परमेश्वर एव दहर: ; य- स्माद्दहरवाक्यशेषे परमेश्वरस्यैव प्रतिपादकौ गतिशब्दौ भ- वत: - ' इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एवं ब्रह्मलोकं न विन्दन्ति' इति । तत्र प्रकृतं दहरं ब्रह्मलोकशब्देनाभि- धाय तद्विषया गतिः प्रजाशब्दवाच्यानां जीवानामभिधीय- माना दहरस्य ब्रह्मतां गमयति । तथा ह्यहरहर्जीवानां सुषु- प्तावस्थायां ब्रह्मविषयं गमनं दृष्टं श्रुत्यन्तरे - 'सता सोम्य तदा संपन्नो भवति' इत्येवमादौ । लोकेऽपि किल गाढं सु- .१७० सूत्रभाष्ये [पा. ३. षुप्रमाचक्षते 'ब्रह्मीभूतो ब्रह्मतां गतः' इति । तथा ब्रह्मलो- कशब्दोऽपि प्रकृते दहरे प्रयुज्यमानो जीवभूताकाशाशङ्कां निवर्तयन्त्रह्मतामस्य गमयति । ननु कमलासनलोकमपि ब्र- ह्मलोकशब्दो गमयेत्; गमयेद्यदि ब्रह्मणो लोक इति षष्ठी- समासवृत्त्या व्युत्पाद्येत ; सामानाधिकरण्यवृत्त्या तु व्युत्पा- यमानो ब्रह्मैव लोको ब्रह्मलोक इति परमेव ब्रह्म गमयिष्य- ति । एतदेव चाहरहर्ब्रह्मलोकगमनं दृष्टुं ब्रह्मलोकशब्दस्य सामानाधिकरण्यवृत्तिपरिग्रहे लिङ्गम् । न ह्यहरहरिमा : प्र- जाः कार्यब्रह्मलोकं सत्यलोकाख्यं गच्छन्तीति शक्यं कल्प- यितुम् ॥ धृतेश्व महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ १६ ॥ धृतेश्च हेतोः परमेश्वर एवायं दहरः । कथम् ? ' दहरो- ऽस्मिन्नन्तराकाशः' इति हि प्रकृत्य आकाशौपम्यपूर्वकं तस्मि- न्सर्वसमाधानमुक्त्वा तस्मिन्नेव चात्मशब्दं प्रयुज्य । पहतपा- प्मत्वादिगुणयोगं चोपदिश्य तमेवानतिवृत्तप्रकरणं निर्दिश- ति — 'अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभे- दाय' इति । तत्र विधृतिरित्यात्मशब्दसामानाधिकरण्या- द्विधारयितोच्यते ; क्तिचः कर्तरि स्मरणात् । यथोदकसंता- नस्य विधारयिता लोके सेतुः क्षेत्रसंपदामसंभेदाय, एवम- ; सू. १८.] प्रथमोऽध्यायः । यमात्मा एषामध्यात्मादिभेदभिन्नानां लोकानां वर्णाश्रमादी- नां च विधारयिता सेतु:, असंभेदाय असंकरायेति । एवमिह प्रकृते दहरे विधरणलक्षणं महिमानं दर्शयति । अयं च महिमां परमेश्वर एव श्रुत्यन्तरादुपलभ्यते -: एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः । इत्यादेः । तथान्यत्रापि निश्चिते परमेश्वरवाक्ये श्रूयते --' एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोका- नामसंभेदाय' इति । एवं धृतेश्च हेतोः परमेश्वर एवायं दहरः ॥ प्रसिद्धेश्व ॥ १७ ॥ इतश्च परमेश्वर एव 'दहरोऽस्मिन्नन्तराकाश:' इत्यु- च्यते ; यत्कारणमाकाशशब्दः परमेश्वरे प्रसिद्धः— 'आ- काशो वै नाम नामरूपयोर्निर्वहिता' 'सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते ' इत्यादिप्रयोगदर्शनात् । जीवे तु न क्वचिदाकाशशब्द: प्रयुज्यमानो दृश्यते । भूताकाशस्तु सत्यामप्याकाशशब्दप्रसिद्धौ उपमानोपमेयभावाद्यसंभवान्न ग्रहीतव्य इत्युक्तम् ॥ इतरपरामर्शात्स इति चेन्नासं- भवात् ॥ १८ ॥ सूत्रभाष्ये [पा. ३. यदि वाक्यशेषबलेन दहर इति परमेश्वरः परिगृह्येत, अस्ति हीतरस्यापि जीवस्य वाक्यशेषे परामर्शः - 'अथ य एष संप्रसादो ऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाच' इति ; अत्र हि संप्रसादशब्दः श्रुत्यन्तरे सुषुप्तावस्थायां दृष्टत्वादवस्थावन्तं जीवं शक्नोत्युपस्थापयितुम्, नार्थान्तरम् ; तथा शरीरव्यपा- श्रयस्यैव जीवस्य शरीरात्समुत्थानं संभवति, यथाकाशव्य- पाश्रयाणां वाय्वादीनामाकाशात्समुत्थानम्, तद्वत्; यथा चा- दृष्टोऽपि लोके परमेश्वरविषय आकाशशब्दः परमेश्वरधर्म- समभिव्याहारात् ' आकाशो वै नाम नामरूपयोर्निर्वहिता ' इत्येवमादौ परमेश्वरविषयोऽभ्युपगतः, एवं जीवविषयोऽपि भविष्यति ; तस्मादितरपरामर्शात् 'दहरोऽस्मिन्नन्तराकाश: ' इत्यत्र स एव जीव उच्यत इति चेत् — नैतदेवं स्यात् ; कस्मात् ? असंभवात् । न हि जीवो बुद्धयाद्युपाधिपरिच्छे- दाभिमानी सन् आकाशेनोपमीयेत । न चोपाधिधर्मानभि- मन्यमानस्यापहतपाप्मत्वादयो धर्माः संभवन्ति । प्रपञ्चितं चैतत्प्रथमे सूत्रे । अतिरेकाशङ्कापरिहाराय अत्र तु पुन- रुपन्यस्तम् । पठिष्यति चोपरिष्टात् – 'अन्यार्थश्च परामर्श: ' इति ॥ . सू. १९.] प्रथमोऽध्यायः । उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥ " य इतरपरामर्शाद्या जीवाशङ्का जाता, सा असंभवान्निराकृता । अथेदानीं मृतस्यैवामृतसेकात् पुनः समुत्थानं जीवाशङ्कायाः क्रियते— उत्तरस्मात्प्राजापत्याद्वाक्यात् । तत्र हि आत्मापहतपाप्मा' इत्यपहतपाप्मत्वादिगुणकमात्मानमन्वेष्ट- व्यं विजिज्ञासितव्यं च प्रतिज्ञाय, ' य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मा' इति ब्रुवन् अक्षिस्थं द्रष्टारं जीवमा- त्मानं निर्दिशति । ' एतं त्वेव ते भूयोऽनुव्याख्यास्यामि' इति च तमेव पुनः पुनः परामृश्य, ' य एष स्वप्ने महीयमानश्च- रत्येष आत्मा' इति 'तद्यत्रैतत्सुतः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मा' इति चं जीवमेवावस्थान्तरगतं व्या- चष्टे । तस्यैव चापहतपाप्मत्वादि दर्शयति-- 'एतदमृत- मभयमेतद्ब्रह्म' इति । 'नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि ' इति च सुषुप्ता- वस्थायां दोषमुपलभ्य, 'एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात् ' इति चोपक्रम्य, शरीरसंबन्धनिन्दापू- र्वकम् ' एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरु- पसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तम: पुरुष:' इति जीवमेव शरीरात्समुत्थितमुत्तमं पुरुषं दर्शयति । तस्मादस्ति सूत्रभाष्ये [पा. ३. संभवो जीव पारमेश्वराणां धर्माणाम् । अतः ' दहरोऽस्मि - न्नन्तराकाश:' इति जीव एवोक्त इति चेत्कश्चिद्रूयात् ; तं प्रति ब्रूयात् – 'आविर्भूतस्वरूपस्तु' इति । तु-शब्दः पूर्वपक्ष- व्यावृत्त्यर्थः ; नोत्तरस्मादपि वाक्यादिह जीवस्याशङ्का सं- भवतीत्यर्थः । कस्मात् ? यतस्तत्राप्याविर्भूतस्वरूपो जीवो विवक्ष्यते । आविर्भूतं स्वरूपमस्येत्याविर्भूतस्वरूपः ; भूतपूर्व - गत्या जीववचनम् । एतदुक्तं भवति — ' य एषोऽक्षिणि ' इत्यक्षिलक्षितं द्रष्टारं निर्दिश्य, उदशरावत्राह्मणेन एनं शरीरा- त्मतया व्युत्थाप्य, 'एतं त्वेव ते' इति पुनः पुनस्तमेव व्याख्येयत्वेनाकृष्य, स्वप्नसुषुप्तोपन्यासक्रमेण 'परं ज्योति - रुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते ' इति यदस्य पारमा- र्थिकं स्वरूपं परं ब्रह्म तद्रूपतयैनं जीवं व्याचष्टे ; न जैवेन रूपेण । यत्तत् परं ज्योतिरुपसंपत्तव्यं श्रुतम, तत्परं ब्रह्म ; तश्चापहतपाप्मत्वादिधर्मकम; तदेव च जीवस्य पारमार्थिकं स्वरूपम् — 'तत्त्वमसि' इत्यादिशास्त्रेभ्यः, नेतरदुपाधिक- ल्पितम् । यावदेव हि स्थाणाविव पुरुषबुद्धिं द्वैतलक्षणामविद्यां निवर्तयन्कूटस्थनित्यदृक्स्वरूपमात्मानम् 'अहं ब्रह्मास्मि' इति न प्रतिपद्यते, तावज्जीवस्य जीवत्वम् । यदा तु देहेन्द्रियमनोबु- द्धिसंघाताद्वयुत्थाप्य श्रुत्या प्रतिबोध्यते नासि त्वं देहेन्द्रियम- 1· सू. १९.] प्रथमोऽध्यायः । नोबुद्धिसंघातः, नापि संसारी, किं तर्हि तद्यत्सत्यं स आ- त्मा चैतन्यमावस्वरूपस्तत्त्वमसीति तदा कूटस्थनित्यंह- क्स्वरूपमात्मानं प्रतिबुध्य अस्माच्छरीराद्यभिमानात्समुत्ति- ष्ठन स एव कूटस्थनित्यदृक्स्वरूप आत्मा भवति -- स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति' इत्यादिश्रुतिभ्यः । तदेव चास्य पारमार्थिकं स्वरूपम्, येन शरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यते । कथं पुनः स्वं च रूपं स्वेनैव च निष्पद्यंत इति संभवति कूटस्थनित्यस्य ? सुवर्णादीनां तु द्रव्या- न्तरसंपर्कादभिभूतस्व रूपाणामनभिव्यक्तासाधारणविशेषाणां क्षारप्रक्षेपादिभिः शोध्यमानानां स्वरूपेणाभिनिष्पत्तिः स्या- त् ; तथा नक्षत्रादीनामहन्यभिभूतप्रकाशानामभिभावकवियो- गे रात्रौ स्वरूपेणाभिनिष्पत्तिः स्यात् ; न तु तथात्मचैतन्य - ज्योतिषो नित्यस्य केनचिदभिभवः संभवति असंसर्गित्वा- त् व्योम्न इव दृष्टविरोधाच ; दृष्टिश्रुतिमतिविज्ञातयो हि जीवस्य स्वरूपम् ; तच्च शरीरादसमुत्थितस्यापि जीवस्य सदा निष्पन्नमेव दृश्यते; सर्वो हि जीवः पश्यन् शृण्वन् मन्वा- नो विजानन्व्यवहरति, अन्यथा व्यवहारानुपपत्तेः ; तचेत् शरीरात्समुत्थितस्य निष्पद्येत, प्राक्समुत्थानादृष्टो व्यवहा- रो विरुध्येत ; अतः किमात्मकमिदं शरीरात्समुत्थानम्, कि- सूत्रभाष्ये मात्मिका वा स्वरूपेणाभिनिष्पत्तिरिति; अत्रोच्यते-प्रा- ग्विवेकविज्ञानोत्पत्तेः शरीरेन्द्रियमनोबुद्धिविषयवेदनोपाधि- भिरविविक्तमिव जीवस्य दृष्ट्यादिज्योतिःस्वरूपं भवति ; यथा शुद्धस्य स्फटिकस्य स्वाच्छयं शौक्ल्यं च स्वरूपं प्रा- ग्विवेकग्रहणाद्रक्तनीलाद्युपाधिभिरविविक्तमिव भवति ; प्रमा- णजनितविवेकग्रहणात्तु पराचीनः स्फटिकः स्वाच्छयेन शौ- कथेन च खेन रूपेणाभिनिष्पद्यत इत्युच्यते प्रागपि तथैव स- न् ; तथा देहाद्युपाध्यविविक्तस्यैव सतो जीवस्य श्रुतिकृतं विवे- कविज्ञानं शरीरात्समुत्थानम्, विवेकविज्ञानफलं स्वरूपेणाभि- निष्पत्तिः केवलात्मस्वरूपावगतिः । तथा विवेकाविवेकमात्रेणै- वात्मनोऽशरीरत्वं सशरीरत्वं च मन्त्रवर्णात् 'अशरीरं शरीरे- षु, इति, 'शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ' इति च सशरीरत्वाशरीरत्व विशेषाभावस्मरणात् । तस्माद्विवेक- विज्ञानाभावादनाविर्भूतस्वरूपः सन् विवेकविज्ञानादाविर्भू- तस्वरूप इत्युच्यते । न त्वन्यादृशौ आविर्भावानाविर्भावौ स्वरूपस्य संभवतः, स्वरूपत्वादेव । एवं मिथ्याज्ञानकृत एव जीवपरमेश्वरयोर्भेदः, न वस्तुकृत:; व्योमवदसङ्गत्वाविशे- षात् । कुतश्चैतदेवं प्रतिपत्तव्यम् ? यतः ' य एषोऽक्षिणि पुरुषों दृश्यते ' इत्युपदिश्य 'एतदमृतमभयमेतद्ब्रह्म' इत्यु- प्रथमोऽध्यायः । पदिशति । योऽक्षिणि प्रसिद्धो द्रष्टा द्रष्टृत्वेन विभाव्यते, सो- ऽमृताभयलश्नणाद्ब्रह्मणोऽन्यश्चेत्स्यात्, ततोऽमृताभयब्रह्मसा- मानाधिकरण्यं न स्यात् । नापि प्रतिच्छायात्मायमक्षिल- नितो निर्दिश्यते, प्रजापतेर्मृषावादित्वप्रसङ्गान् । तथा द्विती- येऽपि पर्याये य एष स्वप्ने महीयमानश्वरति' इति न प्रथमपर्यायनिर्दिष्टादक्षिपुरुषाद्दृष्टुरन्यो निर्दिष्टः, 'एतं त्वेव ते भूयोऽनुव्याख्यास्यामि' इत्युपक्रमात् । किंच 'अह- मद्य स्वप्ने हस्तिनमद्राक्षम्, नेदानीं तं पश्यामि' इति दृष्ट- मेव प्रतिबुद्धः प्रत्याचष्टे । द्रष्टारं तु तमेव प्रत्यभिजानाति ' य एवाहं स्वप्नमद्राक्षम्, स एवाहं जागरितं पश्यामि' इति । तथा तृतीयेऽपि पर्याये— 'नाह खल्वयमेवं संप्र- त्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि' इति सुषुप्तावस्थायां विशेषविज्ञानाभावमेव दर्शयति, न विज्ञा- तारं प्रतिषेधति । यत्तु तत्र 'विनाशमेवापीतो भवति ' इति, तदपि विशेषविज्ञानविनाशाभिप्रायमेव, न विज्ञातृ- विनाशाभिप्रायम् ; 'न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्य- तेऽविनाशित्वात्' इति श्रुत्यन्तरात् । तथा चतुर्थेऽपि पर्या- ये 'एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैत- स्मात्' इत्युपक्रम्य ' मघवन् मर्त्ये वा इदं शरीरम्' इत्या- S. W. 1. 12 सूत्रभाष्ये [पा. ३. दिना प्रपञ्चेन शरीराद्युपाधिसंबन्धप्रत्याख्यानेन संप्रसादश- दोदितं जीवम 'स्वेन रूपेणाभिनिष्पद्यते ' इति ब्रह्मस्वरूपा- पनं दर्शयन, न परस्माद्ब्रह्मणोऽमृताभयस्वरूपादन्यं जीवं दर्शयति । केचित्तु परमात्मविवश्वायाम ' एतं त्वेव ते' इति जीवाकर्षणमन्याय्यं मन्यमाना एतमेव वाक्योपक्रमसूचि- तमपहतपाप्मत्वादिगुणकमात्मानं ते भूयोऽनुव्याख्यास्यामी- ति कल्पयन्ति । तेषाम् ' एतम' इति संनिहितावलम्बिनी सर्वनामश्रुतिर्विप्रकृष्येत ; भूयः श्रुतिश्चोपरुध्येत; पर्यायान्तरा- भिहितस्य पर्यायान्तरेणानभिधीयमानत्वात् । ' एतं त्वेव ते ' इति च प्रतिज्ञाय प्राक्चतुर्थात्पर्यायादन्यमन्यं व्याचक्षाणस्य प्रजापतेः प्रतारकत्वं प्रसज्येत । तस्मात् यदविद्याप्रत्युपस्था- पितमपारमार्थिकं जैवं रूपं कर्तृत्वभोक्तृत्वरागद्वेषादिदोष- कलुषितमनेकानर्थयोगि, तद्विलयनेन तद्विपरीतम पहतपाप्म- त्वादिगुणकं पारमेश्वरं स्वरूपं विद्यया प्रतिपद्यते, सर्पादि- विलयनेनेव रज्ज्वादीन । अपरे तु वादिनः पारमार्थिकमेव जैवं रूपमिति मन्यन्तेऽस्मदीयाश्च केचित् । तेषां सर्वेषामा- त्मैकत्वसम्यग्दर्शनप्रतिपक्षभूतानां प्रतिषेधायेदं शारीरक- मारब्धम् — एक एव परमेश्वरः कूटस्थनित्यो विज्ञानधा- तुरविद्यया, मायया मायाविवन्, अनेकधा विभाव्यते, नाः सू. २०.] प्रथमोऽध्यायः । न्यो विज्ञानधातुरस्तीति । यत्त्विदं परमेश्वरवाक्ये जीवमा- शङ्कय प्रतिषेधति सूत्रकारः - 'नासंभवात्' इत्यादिना, तत्रायमभिप्राय : – नित्यशुद्धबुद्धमुक्तस्वभावे कूटस्थनित्ये एकस्मिन्नसङ्गे परमात्मनि तद्विपरीतं जैवं रूपं व्योम्नीव तल- मलादि परिकल्पितम् ; तत् आत्मैकत्वप्रतिपादनपरैर्वाक्यै - ययोपेतैर्द्वैतवादप्रतिषेधैश्वापनेष्यामीति - परमात्मनो जी- वादन्यत्वं द्रढयति ; जीवस्य तु न परस्मादन्यत्वं प्रतिपिपाद- यिषति ; किं त्वनुवदत्येवाविद्याकल्पितं लोकप्रसिद्धं जीव- भेदम् ; एवं हि स्वाभाविक कर्तृत्वभोक्तृत्वानुवादेन प्रवृत्ताः कर्मविधयो न विरुध्यन्त इति मन्यते । प्रतिपाद्यं तु शास्त्रा- र्थमात्मैकत्वमेव दर्शयति- 'शास्त्रदृष्ट्या तूपदेशो वामदे- ववत्' इत्यादिना । वर्णितश्चास्माभिः विद्वदविद्वद्भेदेन कर्म- विधिविरोधपरिहारः ॥ अन्यार्थश्च परामर्शः ॥ २० ॥ • अथ यांऽयं दहरवाक्यशेषे जीवपरामर्शो दर्शित: - ' अथ य एष संप्रसादः' इत्यादिः, स दहरे परमेश्वरे व्याख्याय- माने, न जीवोपासनोपदेशः, नापि प्रकृतविशेषोपदेश: इ त्यनर्थकत्वं प्राप्नोतीत्यत आह-- अन्यार्थोऽयं जीवपरामर्शो न जीवस्वरूपपर्यवसायी; किं तर्हि, परमेश्वरस्वरूपपर्यवसा- सूत्रभाष्ये [पा . ३. यी । कथम् ? संप्रसादशब्दोदितो जीवो जागरितव्यवहारे देहेन्द्रियपश्ञ्जराध्यक्षो भूत्वा तद्वासनानिर्मितांश्च स्वप्नान्नाडी- चरोऽनुभूय, श्रान्तः शरणं प्रेप्सुरुभयरूपादपि शरीराभि- मानात्समुत्थाय, सुषुप्तावस्थायां परं ज्योतिराकाशशब्दितं परं ब्रह्मोपसंपद्य, विशेषविज्ञानवत्त्वं च परित्यज्य, स्वेन येन रूपेणाभिनिष्पद्यते ; यदस्योपसंपत्तव्यं परं ज्योति:, स्वेन रूपेणाग्रमभिनिष्पद्यते स एष आत्मापहतपाप्मत्वादि- गुण उपास्य :- इत्येवमर्थोऽयं जीवपरामर्शः परमेश्वरवा - दिनोऽप्युपपद्यते ॥ अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥ उक्तो यदप्युक्तम् —' दहरोऽस्मिन्नन्तराकाश:' इत्याकाशस्याल्प- त्वं श्रूयमाणं परमेश्वरे नोपपद्यते, जीवस्य तु आराम्रोपमि - तस्याल्पत्वमवकल्पत इति ; तस्य परिहारो वक्तव्यः । ह्यस्य परिहारः—–परमेश्वरेऽप्यापेक्षिकमल्पत्वमवकल्पत इति, ' अर्भकौकस्त्वात्तद्व्यपदेशाच नेति चेन्न निचाय्यत्वादेवं व्यो- मवच्च' इत्यत्र ; स एवेह परिहारोऽनुसंधातव्य इति सूच- यति । श्रुत्यैव च इदमल्पत्वं प्रत्युक्तं प्रसिद्धेनाकाशेनोपमि- मानया 'यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश: ' इति ॥ सू. २२.] प्रथमोऽध्यायः । अनुकृतेस्तस्य च ॥ २२ ॥ 'न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वे तस्य भासा ६. अनुकृत्य - 'सर्वमिदं विभाति' इति समामनन्ति । " धिकरणम् । तत्र यं भान्तमनुभाति सर्वे यस्य च भा- सा सर्वमिदं विभाति, स किं तेजोधातुः कश्चित् उतं प्राज्ञ आत्मेति विचिकित्सायां तेजोधातुरिति तावत्प्राप्तम् । कुत: ? तेजोधातूनामेव सूर्यादीनां भानप्रतिषेधात् । तेज: स्वभावकं हि चन्द्रतारकादि तेज: स्वभावक एव सूर्ये भासमाने अहनि न भासत इति प्रसिद्धम् । तथा सह सूर्येण सर्वमिदं चन्द्र- तारकादि यस्मिन्न भासते, सोऽपि तेज: स्वभाव एव कश्चि- दित्यवगम्यते । अनुभानमपि तेज:स्वभावक एवोपपद्यते, समानस्वभावकेष्वनुकारदर्शनात् ; 'गच्छन्तमनुगच्छति' इति- वत् । तस्मात्तेजोधातुः कश्चिदित्येवं प्राप्ते— ब्रूमः — प्राज्ञ एवायमात्मा भवितुमर्हति । कस्मात् ? अनुकृते: ; अनुकरणमनुकृतिः ; यदेतत् 'तमेव भान्तम- नुभाति सर्वम्' इत्यनुभानम्, तत्प्राज्ञपरिग्रहेऽवकल्पते; 'भारूपः सत्यसंकल्पः' इति हि प्राज्ञमात्मानमामनन्ति ; न तु तेजोधातुं कंचित्सूर्यादयोऽनुभान्तीति प्रसिद्धम् ; सूत्रभाष्ये [पा. ३. समत्वाञ्च तेजोधातूनां सूर्यादीनां न तेजोधातुमन्यं प्रत्य- पेक्षास्ति, यं भान्तमनुभायुः ; न हि प्रदीपः प्रदीपान्त- रमनुभाति । यदप्युक्तं समानस्वभावकेष्वनुकारो दृश्यत इति - नायमेकान्तो नियम: ; भिन्नस्वभावकेष्वपि धनु- कारो दृश्यते; यथा सुतप्तोऽयःपिण्डोऽग्न्यनुकृतिरनिं दह- न्तमनुदहति, भौमं वा रजो वायुं वहन्तमनुवहतीति । 'अ- नुकृते:' इत्यनुभानमसुसूचत्; 'तस्य च' इति चतुर्थ पाद- मस्य श्लोकस्य सूचयति । ' तस्य भासा सर्वमिदं विभाति' इति च तद्धेतुकं भानं सूर्यादेरुच्यमानं प्राज्ञमात्मानं गम- यति । 'तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्' इति हि प्राज्ञमात्मानमामनन्ति । तेजोन्तरेण तु सूर्यादितेजो विभातीत्यप्रसिद्धम, विरुद्धं च; तेजोन्तरेण तेजोन्तरस्य प्र- तिघातात् । अथवा न सूर्यादीनामेव श्लोकपरिपठितानामिदं तद्धेतुकं विभानमुच्यते ; किं तर्हि, 'सर्वमिदम' इत्यविशे- पश्रुतेः सर्वस्यैवास्य नामरूपक्रियाकारकफलजातस्य या अ- भिव्यक्तिः, सा ब्रह्मज्योतिः सत्तानिमित्ता ; यथा सूर्यज्योति:- सत्तानिमित्ता सर्वस्य रूपजातस्याभिव्यक्ति:, तद्वत् । न तत्र सूर्यो भाति' इति च तत्र - शब्दमाहरन्प्रकृतग्रहणं दर्शयति ; प्रकृतं च ब्रह्म 'यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतम्' इत्या- सू. २४.] प्रथमोऽध्यायः । दिना; अनन्तरं च ' हिरण्मये परे कोशे विरजं ब्रह्म नि- कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ? इति; कथं तज्ज्योतिषां ज्योतिरित्यत इदमुत्थितम् — 'न तत्र सूर्यो भाति' इति । यदप्युक्तम् सूर्यादीनां तेजसां भान- प्रतिषेधस्तेजे।धातावेवान्यस्मिन्नवकल्पते, सूर्य इवेतरेषामिति; तत्र तु स एव तेजोधातुरन्यो न संभवतीत्युपपादितम् । ब्रह्मण्यपि चैषां भानप्रतिषेधो ऽवकल्पते; यतः - यदुप- लभ्यते तत्सर्वं ब्रह्मणैव ज्योतिषोपलभ्यते ; ब्रह्म तु नान्येन ज्योतिषोपलभ्यते, स्वयं ज्योतिःस्वरूपत्वात्, येन सूर्यादय- स्तस्मिन्भायुः ; ब्रह्म हि अन्यद्वयनक्ति, न तु ब्रह्मान्येन व्यज्यते, 'आत्मनैवायं ज्योतिषास्ते ' 'अगृह्यो न हि गृ- ह्यते' इत्यादिश्रुतिभ्यः ॥ अपि च स्मर्यते ॥ २३ ॥ अपि चेदृग्रूपत्वं प्राज्ञस्यैवात्मनः स्मर्यते भगवद्गीतासु--- 'न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम' इति । यदादित्यगतं तेजो जगद्भासंयतेऽखिलम् । यच्चन्द्रमसि यचाग्नौ तत्तेजो विद्धि मामकम् इति च ॥ : : शब्दादेव प्रमितः ॥ २४ ॥ सूत्रभाष्ये [प्रा. ३. ''अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति' इति श्रूयते ; तथा 'अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूत- ७. प्रमिताधि- भव्यस्य स एवाद्य स उ व एतद्वै तत्' करणम् । इति च । तत्र योऽयमङ्गुष्ठमात्रः पुरुषः श्रूयते, स किं विज्ञानात्मा, किं वा परमात्मेति संशयः । तत्र परिमाणोपदेशाद्विज्ञानात्मेति तावत्प्राप्तम् । न ह्यनन्ता- यामविस्तारस्य परमात्मनोऽङ्गुष्ठपरिमाणत्वमुपपद्यते ; विज्ञा- नात्मनस्तूपाधिमत्त्वात्संभवति कयाचित्कल्पनयाङ्गुष्ठमात्र- त्वम् । स्मृतेश्च — 'अथ सत्यवतः कायात्पाशबद्धं वशं गतम् । अङ्गुष्ठमात्रं पुरुषं निश्वकर्ष यमो बलात्' इति ; न हि परमेश्वरो वलात् यमेन निष्क्रष्टुं शक्यः; तेन तत्र संसारी अङ्गुष्ठमात्रो निश्चित: ; स एवेहापीत्येवं प्राप्ते- ब्रूमः — परमात्मैवायमङ्गुष्ठमात्र परिमितः पुरुषो भवितुम- र्हति । कस्मात् ? शब्दात् — 'ईशानो भूतभव्यस्य' इति । न ह्यन्यः परमेश्वराद्भूतभव्यस्य निरङ्कुशमीशिता । ' एतद्वै तत्' इति च प्रकृतं पृष्टमिहानुसंदधाति ; एतद्वै तत्, यस्पृष्टं ब्रह्मेत्यर्थः ; पृष्टं चेह ब्रह्म — 'अन्यत्र धर्मादन्यत्रा- धर्मादन्यत्रास्मात्कृताकृतान् । अन्यत्र भूताच्च भव्याच्च यत्त- त्पश्यसि तद्वद्व' इति । शब्दादेवेति — अभिधानश्रुतेरेव - सू. २.५.] प्रथमोऽध्यायः । १८५ ईशान इति परमेश्वरोऽवगम्यत इत्यर्थः ॥ कथं पुनः सर्वगतस्य परमात्मन: परिमाणोपदेश इत्यव ब्रूमः - हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥ । सर्वगतस्यापि परमात्मनो हृदयेऽवस्थानमपेक्ष्याङ्गुष्ठमा- त्रत्वमिदमुच्यते ; आकाशस्येव वंशपर्वापेक्षमरनिमात्रत्वम् । न ह्यञ्जसा अतिमात्रस्य परमात्मनोऽङ्गुष्ठमात्रत्वमुपपद्यते । न चान्यः परमात्मन इह ग्रहणमर्हति ईशानशब्दादिभ्य इत्यु- क्तम् । ननु प्रतिप्राणिभेदं हृदयानामनवस्थितत्वात्तदपेक्षम- प्यङ्गुष्ठमात्रत्वं नोपपद्यत इत्यत उत्तरमुच्यते — मनुष्याधि- कारत्वादिति ; शास्त्रं ह्यविशेषप्रवृत्तमपि मनुष्यानेवाधिकरो- ति ; शक्तत्वात्, अर्थित्वात्, अपर्युदस्तत्वात् उपनयनादि- शास्त्राच्च — इति वर्णितमेतदधिकारलक्षणे । मनुष्याणां च नि- यतपरिमाणः काय: ; औचित्येन नियतपरिमाणमेव चैषाम- ; ङ्गुष्ठमात्रं हृदयम् ; अतो मनुष्याधिकारत्वाच्छास्त्रस्य मनुष्य- हृदयावस्थानापेक्षमङ्गुष्ठमात्रत्वमुपपन्नं परमात्मनः । यदप्यु- तम - परिमाणोपदेशात स्मृतेश्च संसार्येवायमङ्गुष्ठमात्रः प्रत्ये- तथ्य इति ; तत्प्रत्युच्यते - ' स आत्मा तत्त्वमसि' इत्यादि- वत् संसारिण एव सतोऽङ्गुष्ठमात्रस्य ब्रह्मत्वमिदमुपदिश्यत 1 सूत्रभाष्ये [पा. ३. इति । द्विरूपा हि वेदान्तवाक्यानां प्रवृत्तिः — क्वचित्परमा- त्मस्वरूपनिरूपणपरा ; कचिद्विज्ञानात्मनः परमात्मैकत्वो पढ़े- शपरा । तदत्र विज्ञानात्मनः परमात्मनैकत्वमुपदिश्यते ; ना- ङ्गुष्ठमात्रत्वं कस्यचित् । एतमेवार्थे परेण स्फुटीकरिष्यति - ' अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिवि- ष्टः । तं स्वाच्छरीरात्प्रवृन्मुखादिवेषीकां धैर्येण; तं विद्या- छुक्रममृतम्' इति ॥ तदुपर्यपि बादरायणः संभवात् ॥ २६ ॥ अङ्गुष्ठमात्र श्रुतिर्मनुष्यहृदयापेक्षा मनुष्याधिकारत्वाच्छा- स्त्रस्येत्युक्तम् ; तत्प्रसङ्गेनेदमुच्यते । वाढम, मनुष्यानधिकरो- ८. देवता- ति शास्त्रम् ; न तु मनुष्यानेवेति इह ब्रह्मज्ञाने धिकरणम्। नियमोऽस्ति । तेषां मनुष्याणाम् उपरिष्टा- ये देवादय:, तानप्यधिकरोति शास्त्रमिति वादरायण आचा- र्यो मन्यते ; कस्मात् ? संभवात् । संभवति हि तेषामप्यर्थि- स्वाद्यधिकारकारणम् ; तत्रार्थित्वं तावन्मोक्षविषयं देवादी- 'नामपि संभवति विकारविषयविभूत्यनित्यत्वालोचनादिनिमि- तम् ; तथा सामर्थ्यमपि तेषां संभवति, मन्त्रार्थवादेतिहास- पुराणलोकंभ्यो विग्रहवत्त्वाद्यवगमात् ; न च तेषां कश्चित्प्रति- षेधोऽस्ति ; न चोपनयनशास्त्रेणैषामधिकारो निवर्त्येत, उप- सू. २.७.] प्रथमोऽध्यायः । नयनस्य वेदाध्ययनार्थत्वात् तेषां च स्वयंप्रतिभातवेदत्वात; अपि चैषां विद्याग्रहणार्थं ब्रह्मचर्यादि दर्शयति – ' एकशतं ह वै.. वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास' 'भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्म' इत्यादि । यदपि कर्मस्वनधिकारकारणमुक्तम् — 'न देवानां देवतान्त- राभावात' इति, 'न ऋषीणाम्, आर्षेयान्तराभावात्' इति ; न तद्विद्यासु अस्ति । न हीन्द्रादीनां विद्यास्वधिक्रियमा- णानामिन्द्राद्युद्देशेन किंचित्कृत्यमस्ति ; न च भृग्वादीनां भृग्वादिसगोत्रतया । तस्माद्देवादीनामपि विद्यास्वधिकारः केन वार्यते ? देवाद्यधिकारेऽप्यङ्गुष्ठमात्रश्रुतिः स्वाङ्गुष्ठापेक्षया न विरुध्येत ॥ विरोधः कर्मणीति चेन्नानेकप्रति- पत्तेर्दर्शनात् ॥ २७ ॥ स्यादेतत् — यदि विग्रहवत्त्वाद्यभ्युपगमेन देवादीनां विद्यास्वधिकारो वर्ण्येत, विग्रहवत्त्वात् ऋत्विगादिवदिन्द्रा- दीनामपि स्वरूपसंनिधानेन कर्माङ्गभावोऽभ्युपगम्येत; तदा च विरोधः कर्मणि स्यात्; न हीन्द्रादीनां स्वरूपसंनिधा- नेन यागाङ्गभावो दृश्यते; न च संभवति, बहुषु यागेपु युगपदेकस्येन्द्रस्य स्वरूपसंनिधानानुपपत्तेरिति चेत्, ना- सूत्रभाष्ये [पा. ३. यमस्ति विरोध: ; कस्मात् ? अनेकप्रतिपत्तेः । एकस्यापि देवतात्मनो युगपदनेकस्वरूपप्रतिपत्तिः संभवति । कथमे- तदवगम्यते ? दर्शनात् । तथाहि-- ' कति देवा:' इत्युप- क्रम्य ' त्रयश्व ती च शता त्रयश्च त्री च सहस्रा' इति निरुच्य ' कतमे ते ' इत्यस्यां पृच्छायाम् 'महिमान एवै- षामेते त्रयस्त्रिंशत्त्वेव देवा:' इति ब्रुवती श्रुतिः एकैकस्य देवतात्मनो युगपदनेकरूपतां दर्शयति । तथा त्रयस्त्रिंशतो- ऽपि षडाद्यन्तर्भावक्रमेण 'कतम एको देव इति प्राण: ' इति प्राणैकरूपतां देवानां दर्शयन्ती तस्यैव एकस्य प्राणस्य युगपदनेकरूपतां दर्शयति । तथा स्मृतिरपि -- 'आत्मनो वै शरीराणि बहूनि भरतर्षभ । योगी कुर्याद्वलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥ प्राप्नुयाद्विषयान्कैश्चित्कैश्चिदुग्रं तपश्चरेत् । संक्षिपेश्च पुनस्तानि सूर्यो रश्मिगणानिव' इत्येवंजाती- यका प्राप्ताणिमाद्यैश्वर्याणां योगिनामपि युगपदनेकशरीरयोगं दर्शयति ; किमु वक्तव्यमाजानसिद्धानां देवानाम् ? अनेक- रूपप्रतिपत्तिसंभवाच्च एकैका देवता बहुभी रूपैरात्मानं प्रविभज्य बहुषु यागेषु युगपदङ्गभावं गच्छतीति । परैश्च न दृश्यते, अन्तर्धानादिशक्तियोगात् — इत्युपपद्यते । ' अनेकप्र- तिपत्तेर्दर्शनात्' इत्यस्यापरा व्याख्या — विग्रहवतामपि क- सु. २८.] प्रथमोऽध्यायः । र्माङ्गभावचोदनासु अनेका प्रतिपत्तिर्दृश्यते ; कचिदेकोऽपि विग्रहवानेकत्र युगपदङ्गभावं न गच्छति, यथा बहुभिर्भोज- यद्भिर्नैको ब्राह्मणो युगपद्भोज्यते ; क्वचिच्चैकोऽपि विग्रहवान- नेकत्र युगपदङ्गभावं गच्छति, यथा बहुभिर्नमस्कुर्वाणैरेको ब्राह्मणो युगपन्नमस्क्रियते ; तद्वदिहोद्देशपरित्यागात्मकत्वान् यामस्य विग्रहवतीमध्येकां देवतामुद्दिश्य बहवः स्वं स्वं द्रव्यं युगपत्परित्यक्ष्यन्तीति विग्रहवत्वेऽपि देवानां न किंचित्क- मणि विरुध्यते ॥ शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानु- मानाभ्याम् ॥ २८ ॥ मा नाम विग्रहवत्त्वे देवादीनामभ्युपगम्यमाने कर्मणि कश्चिद्विरोधः प्रसञ्जि ; शब्दे तु विरोध: प्रसज्येत । कथम् ? औत्पत्तिकं हि शब्दस्यार्थेन संबन्धमाश्रित्य 'अनपेक्षत्वात् ' इति वेदस्य प्रामाण्यं स्थापितम् । इदानीं तु विग्रहवंती देव- ताभ्युपग़म्यमाना यद्यप्यैश्वर्ययोगाद्युगपदनेककर्मसंबन्धीनि हवींषि भुञ्जीत, तथापि विग्रहयोगादस्मदादिवज्जननमरण- वर्ती सेति, नित्यस्य शब्दस्य नित्येनार्थेन नित्ये संबन्धे प्रतीयमाने यद्वैदिके शब्दे प्रामाण्यं स्थितम्, तस्य विरोध: स्यादिति चेत्, नायमप्यस्ति विरोधः; कस्मात् ? अतः सूत्रभाष्ये [पा. ३. प्रभवात् । अत एव हि वैदिकच्छावादिकं जगत्प्रभ- वति ॥ ननु ' जन्माद्यस्य यत: ' इत्यत्र ब्रह्मप्रभवत्वं जगतोऽव- धारितम्, कथमिह शब्दप्रभवत्वमुच्यते ? अपि च यदि नाम वैदिकाच्छब्दादस्य प्रभवोऽभ्युपगतः, कथमेतावता विरोध: शब्दे परिहृतः ? यावता वसवो रुद्रा आदित्या विश्वेदेवा मरुत इत्येतेऽर्था अनित्या एव, उत्पत्तिमत्त्वात् तदनित्य- त्वे च तद्वाचिनां वैदिकानां वस्वादिशब्दानामनित्यत्वं केन निवार्यते ? प्रसिद्धं हि लोके देवदत्तस्य पुत्र उत्पन्ने यज्ञदत्त इति तस्य नाम क्रियत इति; तस्माद्विरोध एव शब्द इति चेत्, न; गवादिशब्दार्थसंबन्धनित्यत्वदर्शनात । न हि गवादिव्यक्तीनामुत्पत्तिमत्त्वे तदाकृतीनामप्युत्पत्ति- मत्त्वं स्यात् । द्रव्यगुणकर्मणां हि व्यक्तय एवोत्पदान्ते; नाकृतयः । आकृतिभिश्च शब्दानां संबन्धः न व्यक्तिभिः, व्यक्तीनामानन्त्यात्संबन्धग्रहणानुपपत्तेः । व्यक्तिषूत्पद्यमा- नास्वप्याकृतीनां नित्यत्वात् न गवादिशब्देषु कश्चिद्विरोधो दृश्यते । तथा देवादिव्यक्तिप्रभवाभ्युपगमेऽप्याकृतिनित्य- त्वात् न कश्चिद्वस्वादिशब्देषु विरोध इति द्रष्टव्यम् । आकृतिविशेषस्तु देवादीनां मन्त्रार्थवादादिभ्यो विग्रहवत्त्वा- · : " 1 प्रथमोऽध्यायः । सू. २८.] द्यवगमांदवगन्तत्र्यः । स्थानविशेषसंबन्धनिमित्ता वा इन्द्रा- दिशब्दा: सेनापत्यादिशब्दवत् । ततश्च यो यस्तत्तत्स्थानम- धितिष्ठति स स इन्द्रादिशब्दैरभिधीयत इति न दोषों भवति । न चेदं शब्दप्रभवत्वं ब्रह्मप्रभवत्ववदुपादानकार- णत्वाभिप्रायेणोच्यत । कथं तर्हि, स्थिते वाचकात्मना नित्ये शब्दे नित्यार्थसंबन्धिनि शब्दव्यवहारयोग्याथैव्यक्तिनिष्प- त्ति: ' अतः प्रभवः' इत्युच्यते । कथं पुनरवगम्यते शब्दा- त्प्रभवति जगदिति ? - प्रत्यक्षानुमानाभ्याम् ; प्रत्यक्षं हि श्रुतिः, प्रामाण्यं प्रत्यनपेक्षत्वात्; अनुमानं स्मृतिः, प्रामाण्यं प्रति सापेक्षत्वात् ; ते हि शब्दपूर्वी सृष्टिं दर्शयतः ; ' एत इति वै प्रजापतिर्देवान सृजतासृप्रमिति मनुष्यांनिन्दव इति पितॄंस्तिरः पवित्रमिति प्रहानाश्व इति स्तोत्रं विश्वानीति शस्त्रमभिसौभगेत्यन्याः प्रजाः इति श्रुतिः; तथान्यत्रापि ' स मनसा वाचं मिथुनं समभवत्' इत्यादिना तत्र तत्र शब्दपूर्विका सृष्टिः श्राव्यते; स्मृतिरपि : ' अनादिनि धना नित्या वागुत्सृष्टा स्वयंभुवा । आदौ वेदमयी दिव्यां यतः सर्वाः प्रवृत्तयः' इति उत्सर्गोऽप्ययं वाचः संप्रदा प्रवर्तनात्मको द्रष्टव्यः, अनादिनिधनायाः अन्यादृशस्यो - त्सर्गम्यासंभवान् ; तथा 'नाम रूपं च भूतानां कर्मणां चं LO 2. सूत्रभाष्ये 1 [पा. ३ प्रवर्तनम् । वेदशब्देभ्य एवादौ निर्ममे स महेश्वर: ' इति । 'सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे ' इति च; अपि च चिकीर्षितमर्थमनुतिष्ठन् तस्य वाचकं शब्दं पूर्व स्मृत्वा पश्चात्तमर्थमनुतिष्ठतीति सर्वेषां नः प्रत्यक्षमेतत् ; तथा प्रजापतेरपि स्रष्टुः सृष्टेः पूर्व वैदिकाः शब्दा मनसि प्रादुर्बभूवुः, पश्चात्तदनुगतानर्थान्ससर्जेति गम्यते ; तथा च श्रुति: स भूरिति व्याहरत् स भूमिमसृजत' इत्येवमा- दिका भूरादिशब्देभ्य एव मनसि प्रादुर्भूतेभ्यो भूरादिलो- कान्सृष्टान्दर्शयति ॥ किमात्मकं पुनः शब्दमभिप्रेत्येदं शब्दप्रभवत्वमुच्यते ? स्फोटम् इत्याह । वर्णपक्षे हि तेषामुत्पन्नप्रध्वंसित्वान्नित्ये- भ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यनुपपन्नं स्यात् । उत्पन्नध्वंसिनश्च वर्णाः, प्रत्युच्चारणमन्यथा चान्यथा च प्र- तीयमानत्वात् ; तथा ह्यदृश्यमानोऽपि पुरुषविशेषो ऽध्ययनध्व- निश्रवणादेव विशेषतो निर्धार्यते—' देवदत्तोऽयमधीते, यज्ञ- दत्तोऽयमधीते' इति ; न चायं वर्णविषयोऽन्यथात्वप्रत्ययो मिथ्याज्ञानम्, बाधकप्रत्ययाभावात् । न च वर्णेभ्योऽर्थावग- तिर्युक्ता ; न ह्येकैको वर्णोऽर्थे प्रत्याययेत्, व्यभिचारात्; न सू. २८.] प्रथमोऽध्यायः । च वर्णसमुदायप्रत्ययोऽस्ति, क्रमवर्तित्वाद्वर्णानाम्; पूर्वपूर्वव- र्णानुभवजनितसंस्कारसहितोऽन्त्यो वर्णोऽर्थं प्रत्याययिष्यतीति यद्युच्येत, तन्न; संबन्धग्रहणापेक्षो हि शब्दः स्वयं प्रतीय- मानोऽर्थं प्रत्याययेत्, धूमादिवत् ; न च पूर्वपूर्ववर्णानुभवज- नितसंस्कारसहितस्यान्त्यवर्णस्य प्रतीतिरस्ति, अप्रत्यक्षत्वात्सं- स्काराणाम् ; कार्यप्रत्यायितैः संस्कारैः सहितोऽन्त्यो वर्णोऽर्थे प्रत्याययिष्यतीति चेत्, न ; संस्कारकार्यस्यापि स्मरणस्य क्रम- वर्तित्वात् ; तस्मात्स्फोट एव शब्दः । स चैकैकवर्णप्रत्यया- हितसंस्कारवीजेऽन्त्यवर्णप्रत्ययजनितपरिपाके प्रत्ययिन्येकप्र- त्ययविषयतया झटिति प्रत्यवभासते ; न चायमेकप्रत्ययो व- र्णविषया स्मृतिः, वर्णानामनेकत्वादेकप्रत्ययविषयत्वानुपपत्ते: ; तस्य च प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वान्नित्यत्वम्, भेदप्रत्य- यस्य वर्णविषयत्वात् । तस्मान्नित्याच्छब्दात्स्फोटरूपादभिधा- यकात्क्रियाकारकफललक्षणं जगद‌भिधेयभूतं प्रभवतीति ॥ ' 'वर्णा एव तु शब्द:' इति भगवानुपवर्ष: । ननूत्पन्न- प्रध्वंसित्वं वर्णानामुक्तम् ; तन्न, त एवेति प्रत्यभिज्ञानात्; सा- दृश्यात्प्रत्यभिज्ञानं केशादिष्विवेति चेत्, न; प्रत्यभिज्ञानस्य प्रमाणान्तरेण बाधानुपपत्तेः ; प्रत्यभिज्ञानमाकृतिनिमित्त- मिति चेत्, न; व्यक्तिप्रत्यभिज्ञानात् ; यदि हि प्रत्युच्चारणं S. W. 1. 13 सूत्रभाष्ये [पा. ३. गवादिव्यक्तिवदन्या अन्या वर्णव्यक्तयः प्रतीयेरन्, तत आकृतिनिमित्तं प्रत्यभिज्ञानं स्यात् ; न त्वेतदस्ति ; वर्णव्यक्तय एव हि प्रत्युच्चारणं प्रत्यभिज्ञायन्ते ; द्विर्गोशब्द उच्चारित:- इति हि प्रतिपत्तिः ; न तु द्वौ गोशब्दाविति । ननु वर्णा- अप्युच्चारणभेदेन भिन्नाः प्रतीयन्ते, देवदत्तयज्ञदत्तयोरध्ययन- ध्वनिश्रवणादेव भेदप्रतीतेरित्युक्तम् ; अन्त्राभिधीयते —— सति वर्णविषये निश्चिते प्रत्यभिज्ञाने, संयोगविभागाभिव्यङ्गथ- त्वाद्वर्णानाम्, अभिव्यञ्जकवैचित्र्यनिमित्तोऽयं वर्णविषयो विचित्रः प्रत्ययः, न स्वरूपनिमित्त:; अपि च वर्णव्यक्तिभे- दवादिनापि प्रत्यभिज्ञानसिद्धये वर्णाकृतयः कल्पयितव्याः ; तासु च परोपाधिको भेदप्रत्यय इत्यभ्युपगन्तव्यम; तद्वरं वर्णव्यक्तिष्वेव परोपाधिको भेदप्रत्ययः, स्वरूपनिमित्तं च प्रत्यभिज्ञानम् - इति कल्पनालाघवम् । एष एव च वर्ण- विषयस्य भेदप्रत्ययस्य बाधकः प्रत्यय:, यत्प्रत्यभिज्ञानम् । कथं ह्येकस्मिन्काले बहूनामुच्चारयतामेक एव सन् गकारो युगपदनेकरूपः स्यात् -- उदात्तश्चानुदात्तश्च स्वरितश्च सानु - नासिकश्च निरनुनासिकश्चेति; अथवा ध्वनिकृतोऽयं भेदप्र- त्ययो न वर्णकृत इत्यदोषः । कः पुनरयं ध्वनिर्नाम ? यो दूरादाकर्णयतो वर्णविवेकमप्रतिपद्यमानस्य कर्णपथमवत- सू. २८.] प्रथमोऽध्यायः । रति; प्रत्यासीदतश्च पटुमृदुत्वादिभेदं वर्णेष्वासञ्जयति ; तन्निबन्धनाश्चोदात्तादयो विशेषाः, न वर्णस्वरूपनिबन्धनाः, वर्णानां प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वात्; एवं च सति सालम्बना एवैते उदात्तादिप्रत्यया भविष्यन्ति ; इतरथा हि वर्णानां प्रत्यभिज्ञायमानानां निर्भेदत्वात्संयोगविभागकृ- ता उदात्तादिविशेषाः कल्प्येरन् ; संयोगविभागानां चाप्रत्य- क्षत्वान्न तदाश्रया विशेषाः वर्णेष्वध्यवसातुं शक्यन्त इत्य- तो निरालम्बना एव एते उदात्तादिप्रत्ययाः स्युः । अपि च नैवैतदभिनिवेष्टव्यम् — उदात्तादिभेदेन वर्णानां प्रत्यभिज्ञाय- मानानां भेदो भवेदिति ; न ह्यन्यस्य भेदेनान्यस्याभिद्यमा- नस्य भेदो भवितुमर्हति ; न हि व्यक्तिभेदेन जातिं भिन्नां मन्यन्ते । वर्णेभ्यश्चार्थप्रतीतेः संभवात् स्फोटकल्पनानर्थिका । न कल्पयाम्यहं स्फोटम्, प्रत्यक्षमेव त्वेनमवगच्छामि, एकैक- वर्णग्रहणाहितसंस्कारायां बुद्धौ झटिति प्रत्यवभासनादिति चेत्, न ; अस्या अपि बुद्धेर्वर्णविषयत्वात्; एकैकवर्णग्रहणो- त्तरकाला हीयमेका बुद्धिर्गौरिति समस्तवर्णविषया, नार्थान्तर- विषया; कथमेतदवगम्यते ? यतोऽस्यामपि बुद्धौ गकारा- दयो वर्णा अनुवर्तन्ते, न तु दकारादयः ; यदि ह्यस्या बुद्धे- र्गकारादिभ्योऽर्थान्तरं स्फोटो विषयः स्यात्, ततो दकारा- सूत्रभाष्ये [पा. ३. द़य इव गकारादयोऽप्यस्या बुद्धेर्व्यावर्तेरन् ; न तु तथास्ति; तस्मादियमेकबुद्धिर्वर्णविषयैव स्मृतिः । नन्वनेकत्वाद्वर्णानां नैकबुद्धिविषयतोपपद्यत इत्युक्तम्, तत्प्रति ब्रूमः - संभवत्यने कस्याप्येकबुद्धिविषयत्वम्, पङ्क्तिः वनं सेना दश शतं सहस्र- मित्यादिदर्शनात्; या तु गौरित्येकोऽयं शब्द इति बुद्धि:, सा वहुष्वेव वर्णेष्वेकार्थावच्छेदनिबन्धना औपचारिकी वनसे- नादिबुद्धिवदेव । अत्राह — यदि वर्णा एव सामस्त्येन ए- कबुद्धिविषयतामापद्यमानाः पदं स्युः, ततो जारा राजा क- पिः पिक इत्यादिषु पदविशेषप्रतिपत्तिर्न स्यात् ; त एव हि व- र्णा इतरत्रेतरत्र च प्रत्यवभासन्त इति ; अत्र वढ़ा- मः――सत्यपि समस्तवर्णप्रत्यवमर्शे यथा क्रमानुरोधिन्य एव पिपीलिकाः पङ्क्तिबुद्धिमारोहन्ति, एवं क्रमानुरोधिन एव हि वर्णाः पदबुद्धिमारोक्ष्यन्ति ; तत्र वर्णानामविशेषेऽपि क्रमवि- शेषकृता पदविशेषप्रतिपत्तिर्न विरुध्यते ; वृद्धव्यवहारे चेमे वर्णाः क्रमाद्यनुगृहीता गृहीतार्थविशेषसंबन्धाः सन्तः स्व- व्यवहारेऽप्येकैकवर्णग्रहणानन्तरं समस्तप्रत्यवमर्शिन्यां बुद्धौ तादृशा एव प्रत्यवभासमानास्तं तमर्थमव्यभिचारेण प्रत्या- ययिष्यन्तीति वर्णवादिनो लघीयसी कल्पना । स्फोटवादि- नस्तु दृष्टहानिः, अदृष्टकल्पना च ; वर्णाश्चेमे क्रमेण गृह्यमा- सू. ३०.] प्रथमोऽध्यायः । णाः स्फोटं व्यञ्जयन्ति स स्फोटोऽर्थं व्यनक्तीति गरीयसी कल्पना स्यात् ॥ अथापि नाम प्रत्युच्चारणमन्येऽन्ये वर्णाः स्युः, तथापि प्रत्यभिज्ञालम्वनभावेन वर्णसामान्यानामवश्याभ्युपगन्तव्य- त्वात्, वर्णेष्वर्थप्रतिपादनप्रक्रिया रचिता सा सामान्येषु संचारयितव्या । ततश्च नित्येभ्यः शब्देभ्यो देवादिव्यक्ती- नां प्रभव इत्यविरुद्धम् ॥ अत एव च नित्यत्वम् ॥ २९ ॥ कर्तुरस्मरणादिति स्थिते वेदस्य नित्यत्वे देवादिव्य- क्तिप्रभवाभ्युपगमेन तस्य विरोधमाशङ्कध ' अतः प्रभवात् ' इति परिहृत्य इदानीं तदेव वेदनित्यत्वं स्थितं द्रढयति--- अत एव च नित्यत्वमिति । अत एव नियताकृतेर्देवादेर्जगतो वेदशब्दप्रभवत्वात् वेदशब्द नित्यत्वमपि प्रत्येतव्यम् । तथा च मन्त्रवर्णः - 'यज्ञेन वाचः पदवीयमायस्तामन्वविन्दन्नृषिषु प्रविष्टाम्' इति स्थितामेव वाचमनुविन्नां दर्शयति । वेदव्या- सश्चैवमेव स्मरति -- ' युगान्ते ऽन्तर्हितान्वेदान्सेतिहासान्मह- र्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा' इति ॥ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॥ ३० ॥ १.९८ सूत्रभाष्ये [पा. ३. अथापि स्यात् — यदि पश्वादिव्यक्तिवद्देवादिव्यक्तयो - ऽपि संतत्यैवोत्पद्येरन् निरुध्येरंश्च ततोऽभिधानाभिधेया- भिधातृव्यवहाराविच्छेदात्संबन्धनित्यत्वेन विरोधः शब्दे परिह्नियेत । यदा तु खलु सकलं त्रैलोक्यं परित्यक्तनामरूपं निर्लेपं प्रलीयते, प्रभवति चाभिनवमिति श्रुतिस्मृतिवादा वंदन्ति, तदा कथमविरोध इति । तत्रेदमभिधीयते समा- ननामरूपत्वादिति । तदापि संसारस्यानादित्वं तावदभ्युप- गन्तव्यम् । प्रतिपादयिष्यति चाचार्यः संसारस्यानादित्वम् - ' उपपद्यते चाप्युपलभ्यते च' इति । अनादौ च सं- सारे यथा स्वापप्रबोधयोः प्रलयप्रभवश्रवणेऽपि पूर्वप्रबोध- वदुत्तरप्रबोधेऽपि व्यवहारान्न कश्चिद्विरोधः, एवं कल्पा- न्तरप्रभवप्रलययोरपीति द्रष्टव्यम् । स्वापप्रबोधयोश्च प्रलय- प्रभवौ श्रूयेते- 'यदा सुप्तः स्वप्नं न कंचन पश्यत्यथा- स्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहा- प्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहा- प्येति मनः सर्वैर्ध्यानैः सहाप्येति स यदा प्रतिबुध्यते यथाभेलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवै- तस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोका:' इति । स्यादेतत् — स्वापे पुरुषा- सू. ३०.] प्रथमोऽध्यायः । न्तरव्यवहाराविच्छेदात्स्वयं च सुषुप्तप्रबुद्धस्य पूर्वप्रबोधन्य- वहारानुसंधानसंभवादविरुद्धम् ; महाप्रलये तु सर्वव्यवहा- रोच्छेदाज्जन्मान्तरव्यवहारवश्च कल्पान्तरव्यवहारस्यानुसं- धातुमशक्यत्वाद्वैषम्यमिति । नैष दोषः, सत्यपि सर्वव्यव- हारोच्छेदिनि महाप्रलये परमेश्वरानुप्रहादीश्वराणां हिरण्यग- र्भादीनां कल्पान्तरव्यवहारानुसंधानोपपत्तेः । यद्यपि प्रा- कृताः प्राणिनो न जन्मान्तरव्यवहार मनुसंधाना दृश्यन्त इति, तथापि न तत्प्राकृतवदीश्वराणां भवितव्यम् । यथा हि प्राणित्वाविशेषेऽपि मनुष्यादिस्तम्बपर्यन्तेषु ज्ञानैश्व- र्यादिप्रतिबन्धः परेण परेण भूयान् भवन् दृश्यते ; तथा मनुष्यादिष्वेव हिरण्यगर्भपर्यन्तेषु ज्ञानैश्वर्याद्यभिव्य- क्तिरपि परेण परेण भूयसी भवतीत्येतच्छ्रुतिस्मृतिवादे- ष्वसकृदेवानुकल्पादौ प्रादुर्भवतां पारमैश्वर्ये श्रूयमाणं न शक्यं नास्तीति वदितुम् । ततश्चातीतकल्पानुष्ठितप्रकृष्ट- ज्ञानकर्मणामीश्वराणां हिरण्यगर्भादीनां वर्तमानकल्पादौ प्रा- दुर्भवतां परमेश्वरानुगृहीतानां सुप्तप्रतिबुद्धवत्कल्पान्तरव्य- बहारानुसंधानोपपत्तिः । तथा च श्रुतिः - 'यो ब्रह्माणं विदधाति पूर्व यो वै वेदाश्च प्रहिणोति तस्मै । तर हि देवमात्मवुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये' इति । सूत्रभाष्ये [पा. ३. 11 स्मरन्ति च शौनकादयः— 'मधुच्छन्द: प्रभृतिभिरृषिभिर्दा- शतय्यो दृष्टाः' इति । प्रतिवेदं चैवमेव काण्डर्ष्यादयः स्मर्य- न्ते । श्रुतिरपि ऋषिज्ञानपूर्वकमेव मन्त्रेणानुष्ठानं दर्शयति- 'यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याज- यति वाध्यापयति वा स्थाणुं वच्छेति गर्त वा प्रतिपद्यते ' इत्युपक्रम्य ' तस्मादेतानि मन्त्रे मन्त्रे विद्यात्' इति । प्राणिनां च सुखप्राप्तये धर्मो विधीयते ; दुःखपरिहाराय चाधर्मः प्रतिषिध्यते ; दृष्टानुश्रविकसुखदुःखविषयौ च राग- द्वेषौ भवतः, न विलक्षणविषयौ — इत्यतो धर्माधर्मफल- भूतोत्तरोत्तरा सृष्टिर्निष्पद्यमाना पूर्वसृष्टिसदृश्येव निष्पद्यते । स्मृतिश्च भवति — ' तेषां ये यानि कर्माणि प्राक्सृष्टयां प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ॥ हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते' इति । प्रलीयमानमपि चेदं जगच्छ- क्त्यवशेषमेव प्रलीयते ; शक्तिमूलमेव च प्रभवति ; इतरथा आकस्मिकत्वप्रसङ्गात् । न चानेकाकाराः शक्तय: शक्याः क- ल्पयितुम् । ततश्च विच्छिद्य विच्छिद्याप्युद्भवतां भूरादिलोक- प्रवाहाणाम्, देवतिर्यङ्मनुष्यलक्षणानां च प्राणिनिकायप्रवा- हाणाम्, वर्णाश्रमधर्मफलव्यवस्थानां चानादौ संसारे नियत- सू. ३०.] प्रथमोऽध्यायः । त्वमिन्द्रियविषय संबन्धनियतत्ववत्प्रत्येतव्यम् ; न हीन्द्रियवि- षयसंबन्धादेर्व्यवहारस्य प्रतिसर्गमन्यथात्वं षष्ठेन्द्रियविषय- कल्पं शक्यमुत्प्रेक्षितुम् । अतश्च सर्वकल्पानां तुल्यव्यवहा- रत्वात् कल्पान्तरव्यवहारानुसंधानक्षमत्वाच्चेश्वराणां समा- ननामरूपा एव प्रतिसर्गे विशेषाः प्रादुर्भवन्ति । समानना- मरूपत्वाञ्चावृत्तावपि महासर्गमहाप्रलयलक्षणायां जगतोऽभ्यु- पगम्यमानायां न कश्चिच्छब्दप्रामाण्यादिविरोधः । समानना- मरूपतां च श्रुतिस्मृती दर्शयत: - 'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो सुवः ' इति ; यथा पूर्वस्मिन्कल्पे सूर्याचन्द्रमःप्रभृति जगत् क्लृप्तम्, तथास्मिन्नपि कल्पे परमेश्वरोऽकल्पयदित्यर्थः ; तथा- 'अग्निर्वा अकामयत । अन्नादो देवाना स्यामिति । स एत- मग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत्' इति नक्षत्रेष्टिविधौ योऽग्निर्निवपत् यस्मै वाग्नये निरवपत्, तयोः समाननामरूपतां दर्शयति-- इत्येवंजातीयका श्रुतिरिहो- दाहर्तव्या ; स्मृतिरपि 'ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः । शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः ॥ यथ- तुष्टतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ यथाभिमानिनोऽतीतास्तु- सूत्रभाष्ये [पा. ३. ल्यास्ते सांप्रतैरिह । देवा देवैरतीतार्ह रूपैर्नामभिरेव च ' 1 इत्येवंजातीयका द्रष्टव्या ॥ मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥ ३१ ॥ इह देवादीनामपि ब्रह्मविद्यायामस्त्यधिकार इति यत्प्र- तिज्ञातं तत्पर्यावर्त्यते— देवादीनामनधिकारं जैमिनिराचार्यो मन्यते ; कस्मात् ? मध्वादिष्वसंभवात् । ब्रह्मविद्यायामधिका- राभ्युपगमे हि विद्यात्वाविशेषात् मध्वादिविद्यास्वप्यधिकारो- ऽभ्युपगम्येत; न चैवं संभवति ; कथम् ? ' असौ वा आदित्यो देवमधु' इत्यत्र मनुष्या आदित्यं मध्वध्यासेनोपासीरन्; देवा- दिषु ह्युपासकेष्वभ्युपगम्यमानेष्वादित्यः कथमन्यमादित्यमुपा- सीत ? पुनश्चादित्यव्यपाश्रयाणि पञ्च रोहितादीन्यमृतान्यनु- क्रम्य, वसवो रुद्रा आदित्या मरुतः साध्याश्च पञ्च देवगणाः क्रमेण तत्तदमृतमुपजीवन्तीत्युपदिश्य, 'स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति' इत्यादिना वस्वाद्युपजीव्यान्यमृतानि विजानतां वस्वादिम- हिमप्राप्तिं दर्शयति ; वस्वादयस्तु कान् अन्यान् वस्वादीन- मृतोपजीविनो विजानीयुः ? कं वान्यं वस्वादिमहिमानं प्रे- सेयुः ? तथा -- 'अग्निः पादो वायुः पाद आदित्यः पादो सू. ३२.] प्रथमोऽध्यायः । दिश: पाद:' 'वायुर्वा संवर्ग : ' ' आदित्यो ब्रह्मेत्यादेश: ' इत्यादिषु देवतात्मोपासनेषु न तेषामेव देवतात्मनामधि- कारः संभवति ; तथा 'इमामेव गौतमभरद्वाजावयं वै गौ- तमोऽयं भरद्वाज:' इत्यादिष्वपि ऋषिसंवन्धेषूपासनेषु न तेषामेव ऋषीणामधिकारः संभवति ॥ कुतश्च देवादीनामनधिकारः- ज्योतिषि भावाच्च ॥ ३२ ॥ यदिदं ज्योतिर्मण्डलं द्युस्थानमहोरात्राभ्यां बम्भ्रमज्जग- दवभासयति, तस्मिन्नादित्यादयो देवतावचनाः शब्दाः प्रयु- ज्यन्ते ; लोकप्रसिद्धेर्वाक्यशेषप्रसिद्धेश्च । न च ज्योतिर्मण्ड-. लस्य हृदयादिना विग्रहेण चेतनतया अर्थित्वादिना वा यो- गोऽवगन्तुं शक्यते, मृदादिवदचेतनत्वावगमान् । एतेना- ग्न्यादयो व्याख्याताः ॥ स्यादेतत् — मन्त्रार्थवादेतिहासपुराणलोकेभ्यो देवादीनां विग्रहवत्त्वाद्यवगमादयमदोष इति चेत्, नेत्युच्यते ; न ताव- ल्लोको नाम किंचित्स्वतन्त्रं प्रमाणमस्ति ; प्रत्यक्षादिभ्य एव अव्यभिचरितविषयेभ्यः प्रमाणेभ्यः प्रसिद्ध एवार्थी लोकात्प्र- सिद्ध इत्युच्यते ; न चात्र प्रत्यक्षादीनामन्यतमं प्रमाणमस्ति ; सूत्रभाष्ये [पा. ३० इतिहासपुराणानामपि पौरुषेयत्वात्प्रमाणान्तरमूलतामाका- ति ; अर्थवादा अपि विधिनैकवाक्यत्वात् स्तुत्यर्थाः सन्तो न पार्थगर्थ्येन देवादीनां विग्रहादिसद्भावे कारणभावं प्रतिपद्य- न्ते ; मन्त्रा अपि श्रुत्यादिविनियुक्ताः प्रयोगसमवायिनो- Sभिधानार्थं न कस्यचिदर्थस्य प्रमाणमित्याचक्षते; तस्माद- भावो देवादीनामधिकारस्य ॥ भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥ तु-शब्द: पूर्वपक्षं व्यावर्तयति । वादरायणस्त्वाचार्यो भाव- मधिकारस्य देवादीनामपि मन्यते । यद्यपि मध्वादिविद्यासु देवतादिव्यामिश्रास्वसंभवोऽधिकारस्य, तथाप्यस्ति हि शु- द्धायां ब्रह्मविद्यायां संभव:; अर्थित्वसामर्थ्याप्रतिषेधाद्यपेक्ष- त्वादधिकारस्य । न च क्वचिदसंभव इत्येतावता यत्र संभव- स्तत्राप्यधिकारोऽपोद्येत । मनुष्याणामपि न सर्वेषां ब्राह्मणा- दीनां सर्वेषु राजसूयादिष्वधिकारः संभवति । तत्र यो न्याय: सोऽत्रापि भविष्यति । ब्रह्मविद्यां च प्रकृत्य भवति लिङ्गदर्शनं श्रौतं देवाद्यधिकारस्य सूचकम् -- ' तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनु- ष्याणाम्' इति, 'ते होचुर्हन्त तमात्मानमन्विच्छामो यमा- त्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वाश्च कामान्' इति, सू. ३३.] प्रथमोऽध्यायः । 'इन्द्रो ह वै देवानामभिप्रवब्राज विरोचनोऽसुराणाम्' इत्यादि च । स्मार्तमपि च गन्धर्वयाज्ञवल्क्यसंवादादि ॥ यदप्युक्तम् 'ज्योतिषि भावाच्च' इति, अत्र ब्रूमः ज्यो- .तिरादिविषया अपि आदित्यादयो देवतावचनाः शब्दाश्चेत- नावन्तमैश्वर्याद्युपेतं तं तं देवतात्मानं समर्पयन्ति, मन्त्रा- र्थवादादिषु तथा व्यवहारात् । अस्ति श्वर्ययोगाद्देवतानां ज्योतिराद्यात्मभिश्चावस्थातुं यथेष्टं च तं तं विग्रहं ग्रहीतुं सामर्थ्यम् । तथा हि श्रूयते सुब्रह्मण्यार्थवादे - 'मेघाति- थेर्मेष— इति — मेधातिथिं ह काण्वायनमिन्द्रो मेषो भूत्वा जहार' इति । स्मर्यते च -- ' आदित्यः पुरुषो भूत्वा कुन्ती - मुपजगाम ह' इति । मृदादिष्वपि चेतना अधिष्ठातारोऽभ्यु- पगम्यन्ते ; 'मृदब्रवीत्' 'आपोऽब्रुवन्' इत्यादिदर्शनात् । ज्योदि।देस्तु भूतधातोरादित्यादिष्वप्यचेतनत्वमभ्युपगम्यते । चेतनास्त्वधिष्ठातारो देवतात्मानो मन्त्रार्थवादादिषु व्यवहारा- दित्युक्तम् ॥ यदप्युक्तम्— मन्त्रार्थवादयोरन्यार्थत्वान्न देवताविग्रहा- दिप्रकाशनसामर्थ्यमिति, अत्र ब्रूमः - प्रत्ययाप्रत्ययौ हि स- द्भावासद्भावयोः कारणम् ; नान्यार्थत्वमनन्यार्थत्वं वा; तथा ह्यन्यार्थमपि प्रस्थितः पथि पतितं तृणपर्णाद्यस्तीत्येव प्रतिप- सूत्रभाष्ये [पा. ३. द्यते । अत्राह - विषम उपन्यास:; तत्र हि तृणपर्णादिवि- षयं प्रत्यक्षं प्रवृत्तमस्ति, येन तदस्तित्वं प्रतिपद्यते ; अत्र पु- नर्विभ्युद्देशैकवाक्यभावेन स्तुत्यर्थेऽर्थवादे न पार्थगर्थ्येन वृ- त्तान्तविषया प्रवृत्तिः शक्याध्यवसातुम् ; न हि महावाक्ये - ऽर्थप्रत्यायकेऽवान्तरवाक्यस्य पृथक्प्रत्यायकत्वमस्ति ; यथा 'न सुरां पिवेत्' इति नञ्वति वाक्ये पदत्रयसंबन्धात्सुरा- पानप्रतिषेध एवैकोऽर्थोऽवगम्यते ; न पुनः सुरां पिवेदिति पदद्वयसंबन्धात्सुरापानविधिरपीति । अत्रोच्यते-- विषम उपन्यासः; युक्तं यत्सुरापानप्रतिषेधे पदान्वयस्यैकत्वादवा- न्तरवाक्यार्थस्याग्रहणम्; विध्युद्देशार्थवादयोस्त्वर्थवादस्थानि पदानि पृथगन्वयं वृत्तान्तविषयं प्रतिपद्य, अनन्तरं कैमर्थ्यवशेन कामं विधेः स्तावकत्वं प्रतिपद्यन्ते; यथा हि 'वायव्य‍ श्वेतमालभेत भूतिकाम:' इत्यत्र विध्युद्देशवर्तिनां वायव्यादिपदानां विधिना संबन्धः, नैवम् 'वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूर्ति गमयति' इत्येषामर्थवादगतानां पदानाम्; न हि भवति 'वायुर्वा आलभेत' इति 'क्षेपिष्ठा देवता वा आलभेत ' इत्यादि । वायुस्वभावसंकीर्तनेन तु अवान्तरमन्वयं प्रति- पद्य, एवं विशिष्टदैवत्यमिदं कर्मेति विधिं स्तुवन्ति । तद्य सू. ३.३.] प्रथमोऽध्यायः । योऽवान्तरवाक्यार्थः प्रमाणान्तरगोचरो भवति, तत्र तदनु- वादेनार्थवादः प्रवर्तते; यत्र प्रमाणान्तरविरुद्ध:, तत्र गुण- वादेन; यत्र तु तदुभयं नास्ति, तत्र किं प्रमाणान्तराभावा- गुणवादः स्यात्, आहोस्त्वित्प्रमाणान्तराविरोधाद्विद्यमानार्थ- वाद इति - प्रतीतिशरणैर्विद्यमानार्थवाद आश्रयणीयः, न गु- णानुवादः ; एतेन मन्त्रो व्याख्यातः । अपि च विधिभिरेवेन्द्रा- दिदैवत्यानि हवींषि चोदयद्भिरपेक्षितमिन्द्रादीनां स्वरूपम् ; न हि स्वरूपरहिता इन्द्रादयश्चेतस्यारोपयितुं शक्यन्ते ; न च चेतस्यनारूढायै तस्यै तस्यै देवतायै हविः प्रदातुं शक्यते; श्रावयति च - 'यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट् करिष्यन्' इति न च शब्दमात्र- मर्थस्वरूपं संभवति, शब्दार्थयोर्भेदात् ; तत्र यादृशं मन्त्रा- र्थवादयोरिन्द्रादीनां स्वरूपमवगतं न तत्तादृशं शब्दप्रमाण- केन प्रत्याख्यातुं युक्तम् । इतिहासपुराणमपि व्याख्यातेन मार्गेण संभवन्मन्त्रार्थवादमूलकत्वात् प्रभवति देवताविग्रहादि साधयितुम् ; प्रत्यक्षादिमूलमपि संभवति ; भवति यस्माक- मप्रत्यक्षमपि चिरंतनानां प्रत्यक्षम् ; तथा च व्यासादयो दे- वादिभिः प्रत्यक्षं व्यवहरन्तीति स्मर्यते ; यस्तु ब्रूयात् — इदा- • नींतनानामिव पूर्वेषामपि नास्ति देवादिभिर्व्यवहर्तुं सामर्थ्य- ;. सूत्रभाष्ये [पा. ३. मिति, स जगद्वैचित्र्यं प्रतिषेधेत्; इदानीमिव च नान्यदा- पि सार्वभौमः क्षत्रियोऽस्तीति ब्रूयात्, ततश्च राजसूयादि- चोदना उपरुन्ध्यात्; इदानीमिव च कालान्तरेऽप्यव्यवस्थि- तप्रायान्वर्णाश्रमधर्मान्प्रतिजानीत, ततश्च व्यवस्थाविधायि शास्त्रमनर्थकं कुर्यात् ; तस्माद्धर्मोत्कर्षवशाश्चिरंतना देवादिभिः प्रत्यक्षं व्यवजहुरिति श्लिष्यते । अपि च स्मरन्ति-— 'स्वाध्यायादिष्टदेवतासंप्रयोगः' इत्यादि ; योगोऽप्यणिमाद्यै- श्वर्यप्राप्तिफलकः स्मर्यमाणो न शक्यते साहसमात्रेण प्रत्या- ख्यातुम्; श्रुतिश्च योगमाहात्म्यं प्रख्यापयति' पृथिव्यप्तेजो- ऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते । न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ' इति । ऋषीणामपि मन्त्रब्राह्मणदर्शिनां सामर्थ्य नास्मदी - येन सामर्थ्येनोपमातुं युक्तम् । तस्मात्समूलमितिहासपुरा- णम् । लोकप्रसिद्धिरपि न सति संभवे निरालम्बनाध्यवसातुं युक्ता । तस्मादुपपन्नो मन्त्रादिभ्यो देवादीनां विग्रहवत्त्वा- द्यवगमः । ततश्चार्थित्वादिसंभवादुपपन्नो देवादीनामपि ब्रह्म- विद्यायामधिकारः । क्रममुक्तिदर्शनान्यप्येवमेवोपपद्यन्ते ॥ शुगस्य तद्नादश्रवणात्तदाद्रवणा- त्सूच्यते हि ॥ ३४ ॥ सू. ३४.] प्रथमोऽध्यायः । २.०९. यथा मनुष्याधिकारनियममपोद्य देवादीनामपि विद्यास्व- धिकार उक्त:, तथैव द्विजात्यधिकारनियमापवादेन शूद्रस्या- ९. . अपशूद्राधि- · प्यधिकारः स्यादित्येतामाशङ्कां निवर्तयितु- करणम् । मिदमधिकरणमारभ्यते । तत्र शूद्रस्याप्यधि- कारः स्यादिति तावत्प्राप्तम्; अर्थित्वसामर्थ्ययोः संभवात्, तस्माच्छूद्रो यज्ञेऽनवक्लृप्त:' इतिवत् शूद्रो विद्यायामनव- क्लृप्त इति निषेधाश्रवणात् । यच्च कर्मस्वनधिकारकारणं शूद्रस्यानग्नित्वम्, न तद्विद्यास्वधिकारस्यापवादकम् ; न ह्याह- वनीयादिरहितेन विद्या वेदितुं न शक्यते । भवति च श्रौतं लिङ्गं शूद्राधिकारस्योपोद्बलकम् ; संवर्गविद्यायां हि जानश्रुतिं पौत्रायणं शुश्रूषं शूद्रशब्देन परामृशति – 'अह हारे त्वा शूद्र तवैव सह गोभिरतु' इति । विदुरप्रभृतयश्च शूद्रयोनिप्र- भवा अपि विशिष्टविज्ञानसंपन्नाः स्मर्यन्ते । तस्मादधिक्रियते शूद्रो विद्यास्वित्येवं प्राप्ते- 'ब्रूमः - न शूद्रस्याधिकारः, वेदाध्ययनाभावात् । अधी- तवेदो हि विदितवेदार्थो वेदार्थेष्वधिक्रियते । न च शूद्रस्य वेदाध्ययनमस्ति ; उपनयनपूर्वकत्वाद्वेदाध्ययनस्य, उपनयनस्य च वर्णत्रयविषयत्वात् । यत्तु अर्थित्वम्, न तदसति सामर्थ्ये- ऽधिकारकारणं भवति । सामर्थ्यमपि न लौकिकं केवलम- S. W. I. 14 सूत्रभाष्ये [पा: ३. धिकारकारणं भवति ; शास्त्रीयेऽर्थे शास्त्रीयस्य सामर्थ्य- स्यापेक्षितत्वात्, शास्त्रीयस्य च सामर्थ्यस्याध्ययननिराकरणे- न निराकृतत्वात् । यच्चेदम् ' शूद्रो यज्ञेऽनवक्लृप्त:' इति, तत् न्यायपूर्वकत्वाद्विद्यायामप्यनवक्लृप्तत्वं द्योतयति ; न्यायस्य साधारणत्वात् । यत्पुनः संवर्गविद्यायां शूद्रशब्दश्रवणं लिङ्गं मन्यसे न तलिङ्गम् ; न्यायाभावात् । न्यायोक्ते हि लिङ्ग- दर्शनं द्योतकं भवति । न चात्र न्यायोऽस्ति । कामं चायं शूद्रशब्दः संवर्गविद्यायामेवैकस्यां शूद्रमधिकुर्यात्, तद्विषय- त्वात्; न सर्वासु विद्यासु । अर्थवादस्थत्वात्तु न क्वचिद- प्ययं शूद्रमधिकर्तुमुत्सहते । शक्यते चायं शूद्रशब्दोऽधि- कृतविषये योजयितुम्; कथमित्युच्यते- 'कम्बर एन- मेतत्सन्तं सयुग्वानमिव रक्कमात्थ' इत्यस्माद्धंसवाक्यादा- त्मनोऽनादरं श्रुतवतों जानश्रुतेः पौत्रायणस्य शुक् उत्पेदे ; तासृषी रैकः शुद्रशब्देनानेन सूचयांबभूव आत्मनः परो- क्षज्ञताख्यापनायेति गम्यते, जातिशूद्रस्यानधिकारात् । कथं पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यत इति, उच्यते - तदा- द्रवणात् ; शुचमभिदुद्राव, शुचा वा अभिदुद्रुवे, शुचा वा रैक- 'मभिदुद्राव - इति शूद्रः; अवयवार्थसंभवात्, रूढ्यर्थस्य चासंभवात् । दृश्यते चायमर्थोऽस्यामाख्यायिकायाम् ॥ : सूं. ३६.] प्रथमोऽध्यायः । क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥ ३५ ॥ इतश्च न जातिशूद्रो जानश्रुतिः ; यत्कारणं प्रकरणनि- रूपणेन क्षत्रियत्वमस्योत्तरत्र चैत्ररथेनाभिप्रतारिणा क्षत्रियेण समभिव्याहाराल्लिङ्गाद्गम्यते । उत्तरत्र हि संवर्गविद्यावाक्य- शेषे चैत्लरथिरभिप्रतारी क्षत्रियः संकीर्त्यते- 'अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं सूदेन परिविष्यमाणौ ब्र- झचारी बिभिक्षे' इति । चैत्ररथित्वं चाभिप्रतारिण: कापे- ययोगादवगन्तव्यम् । कापेययोगो हि चित्ररथस्यावगतः एतेन वै चित्ररथं कापेया अयाजयन्' इति । समानान्व- यानां च प्रायेण समानान्वया याजका भवन्ति । ' तस्माचै- त्ररथिर्नामैकः क्षत्रपतिरजायत' इति च क्षत्रपतित्वावगमात्क्ष- त्रियत्वमस्यावगन्तव्यम् । तेन क्षत्रियेणाभिप्रतारिणा सह समानायां संवर्गविद्यायां संकीर्तनं जानश्रुतेरपि क्षत्रियत्वं सूचयति । समानानामेव हि प्रायेण समभिव्याहारा भवन्ति । क्षतृप्रेषणाद्यैश्वर्ययोगाच्च जानश्रुतेः क्षत्रियत्वावगतिः । अतो न शूद्रस्याधिकारः ॥ संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ ३६ ॥ सूत्रभाष्ये [पा. ३. इतश्च न शूद्रस्याधिकारः, यद्विद्याप्रदेशेषूपनयनादयः संस्काराः परामृश्यन्ते- 'तं होपनिन्ये ' ' अधीहि भगव इति होपससाद ' ' ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पि- प्पलादमुपसन्ना:' इति च । ' तान्हानुपनीयैव' इत्यपि प्रद- शितैवोपनयनप्राप्तिर्भवति । शूद्रस्य च संस्काराभावोऽभिलप्यते 'शूद्रश्चतुर्थो वर्ण एकजाति:' इत्येकजातित्वस्मरणात् । 'न 'शूद्रे पातकं किंचिन्न च संस्कारमर्हति' इत्यादिभिश्च ॥ तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७ ॥ इतश्च न शूद्रस्याधिकारः; यत्सत्यवचनेन शूद्रत्वाभावे निर्धारिते जाबालं गौतम उपनेतुमनुशासितुं च प्रववृते- नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहरोप त्वा नेष्ये न सत्याद्गा:' इति श्रुतिलिङ्गात् ॥ " श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॥ ३८ ॥ इतश्च न शूद्रस्याधिकारः; यदस्य स्मृतेः श्रवणाध्ययना- र्थप्रतिषेधो भवति । वेदश्रवणप्रतिषेधः, वेदाध्ययनप्रतिषेधः, तदर्थज्ञानानुष्ठानयोश्च प्रतिषेधः शूद्रस्य स्मर्यते । श्रवणप्र- तिषेधस्तावत्--: अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्र- सूः ३९.] प्रथमोऽध्यायः । २१३. तिपूरणम्' इति ; ' पद्यु ह वा एतच्छमशानं यच्छूद्रस्तस्मा- च्छूद्रसमीपे नाध्येतव्यम्' इति च । अत एवाध्ययनप्रतिषे- धः ; यस्य हि समीपेऽपि नाध्येतव्यं भवति, स कथमश्रुत- मधीयीत । भवति च वेदोच्चारणे जिह्वाच्छेदः, धारणे शरीर- भेद इति । अत एव चार्थादर्थज्ञानानुष्ठानयोः प्रतिषेधो भ- वति - 'न शूद्राय मतिं दद्यात्' इति, 'द्विजातीनामध्यय- नमिज्या दानम्' इति च । येषां पुनः पूर्वकृतसंस्कारवशा- द्विदुरधर्मव्याधप्रभृतीनां ज्ञानोत्पत्तिः तेषां न शक्यते फ- लप्राप्तिः प्रतिषेद्धुम्, ज्ञानस्यैकान्तिकफलत्वात् । ' श्रावयेच्चतुरो वर्णान्' इति चेतिहासपुराणाधिगमे चातुर्वर्ण्यस्याधिकारस्म- रणात् । वेदपूर्वकस्तु नास्त्यधिकारः शूद्राणामिति स्थितम् ॥ १०. कम्पना- , कम्पनात् ॥ ३९ ॥ अवसितः प्रासङ्गिकोऽधिकारविचार: ; प्रकृतामेवेदानीं वाक्यार्थविचारणां प्रवर्तयिष्यामः । ' यदिदं किंच जग- त्सर्व प्राण एजति निःसृतम् । महद्भयं धिकरणम्। वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ' इति — एतद्वाक्यम् ' एज कम्पने' इति धात्वर्थानुगमा- लक्षितम् । अस्मिन्वाक्ये सर्वमिदं जगत् प्राणाश्रयं स्पन्दते, महच्च किंचिद्भयकारणं वज्रशब्दितमुद्यतम्, तद्विज्ञानाञ्चामृत- सूत्रभाष्येः [पा. ३. त्वप्राप्तिरिति श्रूयते । तत्र, कोऽसौ प्राणः, किं तद्भयानकं वज्रम्, इत्यप्रतिपत्तेर्विचारे क्रियमाणे, प्राप्तं तावत्-प्र- सिद्धेः पञ्चवृत्तिर्वायुः प्राण इति ; प्रसिद्धेरेव चाशनिर्वज्रं स्यात्; वायोश्चेदं माहात्म्यं संकीर्त्यते ; कथम् ? सर्व- मिदं जगत् पञ्चवृत्तौ वायौ प्राणशब्दिते प्रतिष्ठाय एजति ; वायुनिमित्तमेव च महद्भयानकं वज्रमुद्यम्यते; वायौ हि पर्जन्यभावेन विवर्तमाने विद्युत्स्तनयित्नुवृष्टयशनयो विव- र्तन्त इत्याचक्षते; वायुविज्ञानादेव चेदममृतत्वम् ; तथा हि श्रुत्यन्तरम् — 'वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेद' इति ; तस्माद्वायुरयमिह प्रतिपत्तव्यः इत्येवं प्राप्ते- ब्रूमः — ब्रह्मैवेदमिह प्रतिपत्तव्यम् ; कुत: ? पूर्वोत्तरालो- चनात् ; पूर्वोत्तरयोर्हि ग्रन्थभागयोर्ब्रह्मैव निर्दिश्यमानमुपल- भामहे; इहैव कथमकस्मादन्तराले वायुं निर्दिश्यमानं प्रतिपद्ये- महि ? पूर्वत्र तावत् 'तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँ- लोकाः श्रिताः सर्वे तदु नात्येति कश्चन' इति ब्रह्म निर्दिष्टम् ; तदेव इहापि संनिधानात्, 'जगत्सर्वं प्राण एजति' इति च लोकाश्रयत्वप्रत्यभिज्ञानात् निर्दिष्टमिति गम्यते ; प्राणश- ब्दोऽप्ययं परमात्मन्येव प्रयुक्तः - 'प्राणस्य प्राणम्' इति सू. ३९.] प्रथमोऽध्यायः । दर्शनात् । एजयितृत्वमपीदं परमात्मन एवोपपद्यते, न वायुमात्रस्य ; तथा चोक्तम्— 'न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ' इति ; उत्तरत्रापि 'भयादस्याभिस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः' इति ब्रह्मैव निर्देक्ष्यते, न वायुः, सवायुकस्य जगतो भयहेतुत्वाभिधा- नात् : तदेव इहापि संनिधानात् ' महद्भयं वज्रमुद्यतम् ' इंति च भयहेतुत्वं प्रत्यभिज्ञानान्निर्दिष्टमिति गम्यते ; वज्र- शब्दोऽप्ययं भयहेतुत्वसामान्यात्प्रयुक्तः ; यथा हि 'वज्र- मुद्यतं ममैव शिरसि निपतेत्, यद्यहमस्य शासनं न कुर्याम्' इत्यनेन भयेन जनो नियमेन राजादिशासने प्रव- र्तते, एवमिदमग्निवायुसूर्यादिकं जगत् अस्मादेव ब्रह्मणो बिभ्यत् नियमेन स्वव्यापारे प्रवर्तत इति — भयानकं व- ज्रोपमितं ब्रह्म । तथा च ब्रह्मविषयं श्रुत्यन्तरम् -- 'भीषा- स्माद्वातः पवते । भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चमः' इति । अमृतत्वफलश्रवणादपि ब्रह्मै- वेदमिति गम्यते ; ब्रह्मज्ञानाद्धषमृतत्वप्राप्तिः, 'तमेव विदि- त्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनायं' इति मन्त्रव- र्णात् । यत्तु वायुविज्ञानात्कचिदसृतत्वमभिहितम्, तदापेक्षि- । २.१६ . सूत्रभाष्ये [पा. ३. कम्; तत्रैव प्रकरणान्तरकरणेन परमात्मानमभिधाय ' अतो- ऽन्यदार्तम्' इति वाय्वादेरार्तत्वाभिधानात् । प्रकरणाद- प्यत्र परमात्मनिश्चय: ; 'अन्यत्र धर्मादन्यत्राधर्मादन्यत्रा- स्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद्' इति परमात्मनः पृष्टत्वात् ॥ ज्योतिर्दर्शनात् ॥ ४० ॥ 'एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसं- पद्य स्वेन रूपेणाभिनिष्पद्यते ' इति श्रूयते । तत्र संशय्यते- ११. ज्योतिर- किं ज्योतिः शब्दं चक्षुर्विषयतमोपहं तेजः, धिकरणम् । किं वा परं ब्रह्मेति । किं तावत्प्राप्तम् ? प्रसिद्धमेव तेजो ज्योतिःशब्दमिति । कुत: ? तत्र ज्योति:- शब्दस्य रूढत्वात् । 'ज्योतिश्चरणाभिधानात्' इत्यत्र हि प्रकरणाज्ज्योतिः शब्दः स्वार्थ परित्यज्य ब्रह्मणि वर्तते; न चेह तद्वत्किचित्स्वार्थपरित्यागे कारणं दृश्यते । तथा च नाडीखण्डे – 'अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते ' इति मुमुक्षोरादित्यप्राप्तिरभिहिता । तस्मात्प्रसिद्धमेव तेजो ज्योतिः शब्दमिति, एवं प्राप्ते - ब्रूमः - परमेव ब्रह्म ज्योति: शब्दम् ; कस्मात् ? दर्श- सू. ४१.] प्रथमोऽध्यायः । नात् । तस्य हीह प्रकरणे वक्तव्यत्वेनानुवृत्तिर्दृश्यते ; 'य आत्मापहतपाप्मा' इत्यपहतपाप्मत्वादिगुणकस्यात्मनः प्रकर- णादावन्वेष्टव्यत्वेन विजिज्ञासितव्यत्वेन च प्रतिज्ञानात्; 'एतं • त्वेव ते भूयोऽनुव्याख्यास्यामि' इति चानुसंधानात् ; 'अश- रीरं वाव सन्तं न प्रियाप्रिये स्पृशत:' इति चाशरीरतायै ज्योतिःसंपत्तेरस्याभिधानात् ; ब्रह्मभावाञ्चान्यत्राशरीरतानुप- पत्तेः ; 'परं ज्योति: ' ' स उत्तम: पुरुष:' इति च विशेष- णात् । यत्तक्तं मुमुक्षोरादित्यप्राप्तिरभिहितेति, नासावात्य- न्तिको मोक्षः, गत्युत्क्रान्तिसंबन्धात् । न ह्यात्यन्तिके मोक्षे गत्युत्क्रान्ती स्त इति वक्ष्यामः ॥ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ॥ 'आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा त- द्ब्रह्म तदमृतं स आत्मा' इति श्रूयते । तत्किमाकाशशब्द १२. अर्थान्तरत्वा- परं ब्रह्म, किं वा प्रसिद्धमेव भूताकाशमि- दिव्यपदेशा- ति विचारे — भूतपरिग्रहो युक्त: ; आका- धिकरणम् । शशब्दस्य तस्मिन् रूढत्वात्; नामरूप- निर्वहणस्य चावकाशदानद्वारेण तस्मिन्योजयितुं शक्यत्वात् ; स्रष्टृत्वादेश्च स्पष्टस्य ब्रह्मलिङ्गस्याश्रवणादित्येवं प्राप्ते — इदमुच्यते — परमेव ब्रह्म इहाकाशशब्दं भवितुमर्हति ; सूत्रभाष्ये [पा. ३. , कस्मात् ? अर्थान्तरत्वादिव्यपदेशात् । ' ते यदन्तरा तद्ब्रहा ' इति हि नामरूपाभ्यामर्थान्तरभूतमाकाशं व्यपदिशति ; न च ब्रह्मणोऽन्यन्नामरूपाभ्यामर्थान्तरं संभवति, सर्वस्य वि- कारजातस्य नामरूपाभ्यामेव व्याकृतत्वात्; नामरूपयोरपि निर्वहणं निरङ्कुशं न ब्रह्मणोऽन्यत्र संभवति, 'अनेन जीवे- नात्मनानुप्रविश्य नामरूपे व्याकरवाणि ' इति ब्रह्मकर्तृक- त्वश्रवणात् । ननु जीवस्यापि प्रत्यक्षं नामरूपविषयं निर्वो- दृत्वमस्ति ; बाढ़मस्ति; अभेदस्त्विह विवक्षितः । नामरूप- निर्वहणाभिधानादेव च स्रष्टृत्वादि ब्रह्मलिङ्गमभिहितं भवति । ' तद्ब्रह्म तदमृतं स आत्मा' इति च ब्रह्मवादस्य लिङ्गानि । 'आकाशस्तल्लिङ्गात्' इत्यस्यैवायं प्रपञ्चः ॥ सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥ व्यपदेशादित्यनुवर्तते । बृहदारण्यके षष्ठे प्रपाठके 'क- तम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्र्ज्योतिः १३. सुषुप्त्यधि- पुरुषः' इत्युपक्रम्य भूयानात्मविषय: प्र- करणम् । पञ्चः कृतः । तत्किं संसारिस्वरूपमात्रा- न्वाख्यानपरं वाक्यम्, उतासंसारिस्वरूपप्रतिपादनपरमिति विशयः । किं तावत्प्राप्तम् ? संसारिस्वरूपमात्रविषय- मेवेति ;. कुत: ? उपक्रमोपसंहाराभ्याम्, उपक्रमे ' योऽयं प्रथमोऽध्यायः । सू. ४२.] विज्ञानमय: प्राणेषु' इति शारीरलिङ्गात्; उपसंहारे च 'स वा एष महानंज आत्मा योऽयं विज्ञानमयः प्राणेषु इति तदपरित्यागात्; मध्येऽपि बुद्धान्ताद्यवस्थोपन्यासेन: तस्यैव प्रपञ्चनादित्येवं प्राप्ते-- 9. ब्रूमः -- परमेश्वरोपदेशपरमेवेदं वाक्यम्, न शारीरमा- त्रान्वाख्यानपरम् ; कस्मात् ? सुषुप्तावुत्क्रान्तौ च शारीरा- द्भेदेन परमेश्वरस्य व्यपदेशात् । सुषुप्तौ तावत् ' अयं पुरुष: प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम्' इति शारीराद्भेदेन परमेश्वरं व्यपदिशति ; तत्र पुरुषः शारीरः स्यात्, तस्य वेदितृत्वात्; बाह्याभ्यन्तरवेदनप्रसङ्गे सति तत्प्रतिषेधसंभवात्; प्राज्ञः परमेश्वरः, सर्वज्ञत्वलक्षणया प्रज्ञया नित्यमवियोगात् । तथोत्क्रान्तावपि 'अयं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति' इति जीवा- देन परमेश्वरं व्यपदिशति ; तत्रापि शारीरो जीवः स्यात्, शरीरस्वामित्वात् ; प्राज्ञस्तु स एव परमेश्वरः । तस्मात्सुषु- प्त्युत्क्रान्त्योर्भेदेन व्यपदेशात्परमेश्वर एवात्र विवक्षित इति गम्यते । यदुक्तमाद्यन्तमध्येषु शारीरलिङ्गात् तत्परत्वमस्य वाक्यस्येति, अत्र ब्रूमः — उपक्रमे तावत् ' योऽयं वि- — ज्ञानमयः प्राणेषु' इति न संसारिस्वरूपं विवक्षितम् ; सूत्रभाष्ये - [पा. ३. किं तर्हि, अनूद्य संसारिस्वरूपं परेण ब्रह्मणास्यैकतां विवक्षति ; यतः ' ध्यायतीव लेलायतीव' इत्येवमाद्युत्तर- ग्रन्थप्रवृत्तिः संसारिधर्मनिराकरणपरा लक्ष्यते ; तथोपसंहारे- ऽपि यथोपक्रममेवोपसंहरति — ' स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु' इति ; योऽयं विज्ञानमयः प्राणे- षु संसारी लक्ष्यते, स वा एष महानज आत्मा परमेश्वर एवास्माभिः प्रतिपादित इत्यर्थः ; यस्तु मध्ये बुद्धान्ताद्यव- स्थोपन्यासात्संसारिस्वरूपविवक्षां मन्यते, स प्राचीमपि दि - शं प्रस्थापितः प्रतीचीमपि दिशं प्रतिष्ठेत; यतो न बुद्धा- न्ताद्यवस्थोपन्यासेनावस्थावत्त्वं संसारित्वं वा विवक्षति, किं तर्हि, अवस्थारहितत्वमसंसारित्वं च ; कथमेतदवगम्यते ? यत् 'अत ऊर्ध्वं विमोक्षायैव ब्रूहि' इति पदे पदे पृच्छति ; यच्च 'अनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष:' इति पदे पदे प्रतिवक्ति; 'अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्शोकान्हृदयस्थ भवति' इति च । तस्मादसंसा- रिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम् ॥ पत्यादिशब्देभ्यः ॥ ४३ ॥ इतश्चासंसारिस्वरूपप्रतिपादनपर मेवैतद्वाक्यमित्यवगन्तव्य - म्; यदस्मिन्वाक्ये पत्यादयः शब्दा असंसारिस्वरूपप्रति- सू. ४३.] प्रथमोऽध्यायः । पादनपराः संसारिस्वभावप्रतिषेधनाश्च भवन्ति- - ' सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपति:' इत्येवंजातीयका असं- सारिस्वभावप्रतिपादनपरा:; 'स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्' इत्येवंजातीयकाः संसारिस्वभावप्र- तिषेधनाः । तस्मादसंसारी परमेश्वर इहोक्त इत्यवगम्यते ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द - भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतो शारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य तृतीयः पादः ॥ श्रीमच्छंकरभगवत्पादैर्विरचितम् ब्रह्मसूत्रभाष्यम् ॥ प्रथमाध्याये चतुर्थः पादः .... ॐ चतुर्थः पादः ॥ ह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमु- क्तम्- ' जन्माद्यस्य यत:' इति । तल्लक्षणं प्रधानस्यापि समानमित्याशङ्कथ तदशब्दत्वेन निराकृतम् — 'ईक्षतेर्नाशब्दम् ' इति । गतिसामान्यं च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते, न प्रधानकारणवादं प्रतीति प्रपश्वितं गतेन ग्रन्थेन । इदं त्विदानीमवशिष्टमाशङ्कयते — यदुक्तं प्रधानस्याशब्दत्वम्, त- दसिद्धम्, कासुचिच्छाखासु प्रधानसमर्पणाभासानां शब्दानां श्रूयमाणत्वात्; अत: प्रधानस्य कारणत्वं वेदसिद्धमेव महद्भिः परमर्षिभिः कपिलप्रभृतिभिः परिगृहीतमिति प्रसज्यते ; तद्यावत्तेषां शब्दानामन्यपरत्वं न प्रतिपाद्यते, तावत्सर्वज्ञं ब्रह्म जगतः कारणमिति प्रतिपादितमप्याकुलीभवेत् ; अतस्ते- षामन्यपरत्वं दर्शयितुं पर: संदर्भ ः प्रवर्तते ॥ S. W. I. 13 सूत्रभाष्ये [पा. ४. आनुमानिकमप्येकेषामिति चेन्न शरी- ररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ १ ॥ , आनुमानिकमपि अनुमाननिरूपितमपि प्रधानम्, एकेषां शाखिनां शब्दवदुपलभ्यते ; काठके हि पठ्यते— 'महतः परमव्यक्तमव्यक्तात्पुरुषः परः' इति ; तत्र य एव यन्नामानो १. आनुमानिका- यत्क्रमाश्च महदुव्यक्तपुरुषाः स्मृतिप्रसिद्धाः, धिकरणम् । त एवेह प्रत्यभिज्ञायन्ते ; तत्राव्यक्तमिति स्मृतिप्रसिद्धेः शब्दादिहीनत्वाश्च न व्यक्तमव्यक्तमिति व्युत्प- त्तिसंभवात्, स्मृतिप्रसिद्धं प्रधानमभिधीयते ; अतस्तस्य शब्दवत्त्वादशब्दत्वमनुपपन्नम् ; तदेव च जगतः कारणं श्रुतिस्मृतिन्यायप्रसिद्धिभ्य इति चेत्, नैतदेवम् — न ह्येत- त्काठकवाक्यं स्मृतिप्रसिद्धयोर्महद व्यक्तयोरस्तित्वपरम् । न ह्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रिगुणं प्रधानम्, तादृशं प्रत्यभिज्ञायते ; शब्दमात्रं ह्यत्राव्यक्तमिति प्रत्य- भिज्ञायते ; स च शब्द:- न व्यक्तमव्यक्तमिति-- यौगिकत्वात् अन्यस्मिन्नपि सूक्ष्मे सुदुर्लक्ष्ये च प्रयुज्यते ; न चायं कस्मिंश्चिद्रूढः ; या तु प्रधानवादिनां रूढि, सा तेषामेव पारिभाषिकी सती न वेदार्थनिरूपणे कारणभावं प्रतिपद्यते ; न च क्रममात्रसामान्यात्समानार्थप्रतिपत्तिर्भ- - सू: १.] प्रथमोऽध्यायः । २.२७ वति, असति तद्रूपप्रत्यभिज्ञाने; न हाश्वस्थाने गां पश्यन्न- श्वोऽयमित्यमूढोऽध्यवस्यति । प्रकरणनिरूपणायां चात्र न. परपरिकल्पितं प्रधानं प्रतीयते, शरीररूपकविन्यस्तगृहीतेः ; शरीरं ह्यत्र रथरूपकविन्यस्तमव्यक्तशब्देन परिगृह्यते; कुत: ? प्रकरणात् परिशेषाच्च । तथा ह्यनन्तरातीतो ग्रन्थ आत्मशरीरादीनां रथिरथादिरूपकक्लृप्तिं दर्शयति- 'आ- त्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' इति ; तैश्चेन्द्रियादिभिरसंयतैः संसारमधिगच्छति, संयतैस्त्वध्वनः पारं तद्विष्णोः परमं पदमाप्नोति -- इति दर्शयित्वा किं त- दध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायाम्, तेभ्य एव प्रकृतेभ्यः इन्द्रियादिभ्यः परत्वेन परमात्मानमध्वनः पारं तद्विष्णोः परमं पदं दर्शयति – 'इन्द्रियेभ्यः परा हाथ अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महा- न्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः' इति ; तत्र य एवे- न्द्रियादयः पूर्वस्यां रथरूपककल्पनायामश्वादिभावेन प्रकृताः, त एवेह परिगृह्यन्ते, प्रकृतहानाप्रकृतप्रक्रियापरिहाराय । तत्र सूत्रभाष्ये [पा. ४. -- इन्द्रियमनोबुद्धयस्तावत्पूर्वत्र इह च समानशब्दा एव; अर्था- स्तु ये शब्दादयो विषया इन्द्रियहयगोचरत्वेन निर्दिष्टा:, तेषां चेन्द्रियेभ्यः परत्वम्, इन्द्रियाणां च ग्रहत्वं विषयाणामति- ग्रहत्वम् इति श्रुतिप्रसिद्धेः ; विषयेभ्यश्च मनसः परत्वम्, मनोमूलत्वाद्विषयेन्द्रियव्यवहारस्य ; मनसस्तु परा बुद्धि:- बुद्धिं ह्यारुह्य भोग्यजातं भोक्त्तारमुपसर्पति ; बुद्धेरात्मा महा- न्परः— यः, स: 'आत्मानं रथिनं विद्धि' इति रथित्वेनो- पक्षिप्तः । कुतः ? आत्मशब्दात्, भोक्तुश्च भोगोपकरणात्परत्वो- पपत्ते: ; महत्त्वं चास्य स्वामित्वादुपपन्नम् ; अथवा - 'मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः । प्रज्ञा संविञ्चितिश्चैव स्मृतिश्च परिपठ्यते' इति स्मृते:, 'यो ब्रह्माणं विद- धाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै' इति च श्रुते: । या प्रथमजस्य हिरण्यगर्भस्य बुद्धि:, सा सर्वासां बुद्धीनां परमा प्रतिष्ठा; सेह महानात्मेत्युच्यते ; सा च पूर्वत्र बुद्धिग्रहणेनैव गृहीता सती हिरुगिहोपदिश्यते, तस्या अप्यस्मदीयाभ्यो बु- द्विभ्यः परत्वोपपत्तेः; एतस्मिंस्तु पक्षे परमात्मविषयेणैव परे- ण पुरुषग्रहणेन रथिन आत्मनो ग्रहणं द्रष्टव्यम्, परमार्थतस्तु परमात्मविज्ञानात्मनोर्भेदाभावात् ; तदेवं शरीरमेवैकं परि- शिष्यते ; तेष्वितराणीन्द्रियादीनि प्रकृतान्येव परमपददिदर्श - सू. २.] प्रथमोऽध्यायः । विषया समनुक्रामन्परिशिष्यमाणेनेहान्त्येनाव्यक्तशब्देन परि- शिष्यमाणं प्रकृतं शरीरं दर्शयतीति गम्यते । शरीरेन्द्रियम- नोबुद्धिविषयवेदनासंयुक्तस्य ह्यविद्यावंतो भोक्तुः शरीरादीनां रथादिरूपककल्पनया संसारमोक्षगतिनिरूपणेन प्रत्यगात्म- ब्रह्मावगतिरिह विवक्षिता; तथा च ' एष सर्वेषु भूतेषु गू- ढोऽत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सू- क्ष्मदर्शिभि:' इति वैष्णवस्य परमपदस्य दुरवगमत्वमुक्त्वा तदवगमार्थं योगं दर्शयति — 'यच्छेद्वाङ्मनसी प्राज्ञस्तद्य- च्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छे- च्छान्त आत्मनि' इति ; एतदुक्तं भवति — वाचं मनसि संयच्छेत् वागादिवाह्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणाव- तिष्ठेत ; मनोऽपि विषयविकल्पाभिमुखं विकल्पदोषदर्शनेन ज्ञानशब्दोदितायां बुद्धावध्यवसायस्वभावायां धारयेत् ; ता- मपि बुद्धि महत्यात्मनि भोक्तरि अग्र्यायां वा बुद्धौ सूक्ष्म- तापादनेन नियच्छेत्; महान्तं त्वात्मानं शान्त आत्मनि प्र- करणवति परस्मिन्पुरुषे परस्यां काष्ठायां प्रतिष्ठापयेदिति च । तदेवं पूर्वापरालोचनायां नास्त्यत्र परपरिकल्पितस्य प्रधानं- स्यावकाशः ॥ सूक्ष्मं तु तदर्हत्वात् ॥ २॥ सूत्रभाष्ये [पा. ४. न उक्तमेतत्—प्रकरणपरिशेषाभ्यां शरीरमव्यक्तशब्दम्, प्रधानमिति ; इदमिदानीमाशङ्कयते — कथमव्यक्तशब्दार्हत्वं शरीरस्य, यावता स्थूलत्वात्स्पष्टतरमिदं शरीरं व्यक्तशब्दा- र्हम्, अस्पष्टवचनस्त्वव्यक्तशब्द इति ; अत उत्तरमुच्यते- सूक्ष्मं तु इह कारणात्मना शरीरं विवक्ष्यते, सूक्ष्मस्यान्य- क्तशब्दार्हत्वात् ; यद्यपि स्थूलमिदं शरीरं न स्वयमव्यक्तश- ब्दुमर्हति तथापि तस्य त्वारम्भकं भूतसूक्ष्ममव्यक्तशब्द- मर्हति ; प्रकृतिशब्दश्व विकारे दृष्टः — यथा 'गोभिः श्री- णीत मत्सरम्' इति ; श्रुतिश्च - ' तद्धेदं तर्ह्यव्याकृतमा- सीत् ' इतीदमेव व्याकृतनामरूपविभिन्नं जगत्प्रागवस्थायां परित्यक्तव्याकृतनामरूपं बीजशक्त्यवस्थमव्यक्तशब्दयोग्यं द- र्शयति ॥ तदधीनत्वादर्थवत् ॥ ३॥ अताह- यदि जगदिदमनभिव्यक्तनामरूपं बीजात्मकं प्रागवस्थमव्यक्तशब्दार्हमभ्युपगम्येत, तदात्मना च शरीर- स्याप्यव्यक्तशब्दार्हत्वं प्रतिज्ञायेत, स एव तर्हि प्रधानकारण- बाद एवं सत्यापद्येत ; अस्यैव जगतः प्रागवस्थायाः प्रधान- त्वेनाभ्युपगमादिति । अत्रोच्यते — यदि वयं स्वतन्त्रां कांचि - त्प्रागवस्थां जगतः कारणत्वेनाभ्युपगच्छेम, प्रसञ्जयेम सू. ३.] प्रथमोऽध्यायः । तदा प्रधानकारणवादम् ; परमेश्वराधीना त्वियमस्माभिः प्रा- गवस्था जगतोऽभ्युपगम्यते, न स्वतन्त्रा; सा चावश्या- भ्युपगन्तव्या ; अर्थवती हि सा ; न हि तया विना परमे- श्वरस्य स्रष्टृत्वं सिध्यति, शक्तिरहितस्य तस्य प्रवृत्त्यनुपपत्तेः ; मुक्तानां च पुनरनुत्पत्तिः ; कुत: ? विद्यया तस्या बीज- शक्तेर्दाहात्; अविद्यात्मिका हि सा बीजशक्तिरव्यक्तशब्दनि- श्या परमेश्वराश्रया मायामयी महासुषुप्तिः, यस्यां स्वरूपप्र- तिबोधरहिताः शेरते संसारिणो जीवाः; तदेतदव्यक्तं क्वचिदाकाशशव्द निर्दिष्टम्— ' एतस्मिन्नु खल्वक्षरे गार्ग्या- काश ओतश्च प्रोतश्च' इति श्रुतेः; कचिदक्षरशब्दोदितम् — अक्षरात्परतः परः' इति श्रुतेः; क्वचिन्मायेति सूचितम् " - 'मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्' इति मन्त्रवर्णात् ; अव्यक्ता हि सा माया, तत्त्वान्यत्वनिरूपण- स्याशक्यत्वात् ; तदिदं महतः परमव्यक्तमित्युक्तम् — अव्य- क्तप्रभवत्वान्महतः, यदा हैरण्यगर्भी बुद्धिर्महान्; यदा तु जीवो महान् ; तदाप्यव्यक्ताधीनत्वाज्जीवभावस्य -- महतः परमव्यक्तमित्युक्तम् ; अविद्या हाव्यक्तम् ; अविद्यावत्त्वेनैव जीवस्य सर्वः संव्यवहारः संततो वर्तते ; तच्च अव्यक्तगतं महतः परत्वमभेदोपचारात्तद्विकारे शरीरे परिकल्प्यते; सत्यपि सूत्रभाष्ये [पा. ४. शरीरवदिन्द्रियादीनां तद्विकारत्वाविशेषे शरीरस्यैवाभेदोप- चारादव्यक्तशब्देन ग्रहणम्, इन्द्रियादीनां स्वशब्दैरेव गृही- तत्वात्, परिशिष्टत्वाच्च शरीरस्य ॥ अन्ये तु वर्णयन्ति — द्विविधं हि शरीरं स्थूलं सूक्ष्मं च; स्थूलम्, यदिदमुपलभ्यते; सूक्ष्मम्, यदुत्तरत्र वक्ष्यते- ' तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ' इति ; तज्ञ्चोभयमपि शरीरमविशेषात्पूर्वत्र रथत्वेन संकीर्ति- तम् ; इह तु सूक्ष्ममव्यक्तशब्देन परिगृह्यते, सूक्ष्मस्याव्यक्त- शब्दार्हत्वात् तदधीनत्वाच्च बन्धमोक्षव्यवहारस्य जीवा - त्तस्य परत्वम् ; यथार्थाधीनत्वादिन्द्रियव्यापारस्येन्द्रियेभ्यः परत्वमर्थानामिति । तैस्त्वेतद्वक्तव्यम् — अविशेषेण शरीर- द्वयस्य पूर्वत्र रथत्वेन संकीर्तितत्वात् समानयोः प्रकृतत्व- परिशिष्टत्वयोः, कथं सूक्ष्ममेव शरीरमिह गृह्यते, न पुन: स्थूलमपीति । आम्नातस्यार्थ प्रतिपत्तुं प्रभवामः, नाम्नातं पर्यनुयोक्तुम्, आम्नातं चाव्यक्तपदं सूक्ष्ममेव प्रतिपादयितुं शक्नोति, नेतरत्, व्यक्तत्वात्तस्येति चेत्, न; एकवाक्य- ताधीनत्वादर्थप्रतिपत्तेः ; न हीमे पूर्वोत्तरे आम्नाते एकवा- क्यतामनापद्य कंचिदर्थं प्रतिपादयतः; प्रकृतहानाप्रकृत- प्रक्रियाप्रसङ्गात् ; न चाकाङ्क्षामन्तरेणैकवाक्यताप्रतिपत्ति- " सू. ४.] प्रथमोऽध्यायः । रस्ति ; तत्राविशिष्टायां शरीरद्वयस्य प्राह्यत्वाकाङ्क्षायां यथा- काङ्क्ष संबन्धेऽनभ्युपगम्यमाने एकवाक्यतैव बाधिता भवति, कुत आम्नातस्यार्थस्य प्रतिपत्ति: ? न चैवं मन्तव्यम् — दुःशो- धत्वात्सूक्ष्मस्यैव शरीरस्येह ग्रहणम्, स्थूलस्य तु दृष्टवीभत्स- तया सुशोधत्वादग्रहणमिति ; यतो नैवेह शोधनं कस्यचि- द्विवक्ष्यते ; न ह्यत्र शोधनविधायि किंचिदाख्यातमस्ति अनन्तरनिर्दिष्टत्वात्तु किं तद्विष्णोः परमं पदमितीदमिह विवक्ष्यते ; तथाहीदमस्मात्परमिदमस्मात्परमित्युक्त्वा, 'पुरु- षान्न परं किंचित्' इत्याह ; सर्वथापि त्वानुमानिकनिराकर- णोपपत्तेः, तथा नामास्तु; न नः किंचिच्छिद्यते ॥ ज्ञेयत्वावचनाच्च ॥ ४॥ ; ज्ञेयत्वेन च सांख्यैः प्रधानं स्मर्यते, गुणपुरुषान्तरज्ञाना- कैवल्यमिति वदद्भिः -- न हि गुणस्वरूपमज्ञात्वा गुणे- भ्य: पुरुषस्यान्तरं शक्यं ज्ञातुमिति ; कचिच्च विभूतिविशेष- प्राप्तये प्रधानं ज्ञेयमिति स्मरन्ति; न चेदमिहाव्यक्तं ज्ञेयत्वे- नोच्यते ; पदमात्रं ह्मव्यक्तशब्दः, नेहाव्यक्तं ज्ञातव्यमुपासि- तव्यं चेति वाक्यमस्ति ; न चानुपदिष्टं पदार्थज्ञानं पुरुषार्थ- मिति शक्यं प्रतिपत्तुम्; तस्मादपि नाव्यक्तशब्देन प्रधान- मभिधीयते ; अस्माकं तु रथरूपकक्लप्तशरीराद्यनुसरणेन सूत्रभाष्ये [पा. ४. " विष्णोरेव परमं पदं दर्शयितुमयमुपन्यास इत्यनवद्यम् ॥ वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५॥ - - अत्राह सांख्य: — ज्ञेयत्वावचनात् इत्यसिद्धम् ; कथम् ? श्रूयते ह्युत्तरत्राव्यक्तशब्दोदितस्य प्रधानस्य ज्ञेयत्ववचनम्- — अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते ' इति; अत्र हि यादृशं शब्दादिहीनं प्रधानं महतः परं स्मृतौ निरूपितम्, तादृशमेव निचाय्यत्वेन निर्दिष्टम् ; तस्मात्प्रधान- मेवेदम्; तदेव चाव्यक्तशब्द निर्दिष्टमिति । अत्र ब्रूमः — नेह प्रधानं निचाय्यत्वेन निर्दिष्टम् ; प्राज्ञो हीह परमात्मा निचा- य्यत्वेन निर्दिष्ट इति गम्यते ; कुत: ? प्रकरणात्; प्राज्ञस्य हि प्रकरणं विततं वर्तते - 'पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः' इत्यादिनिर्देशात्, 'एष सर्वेषु भूतेषु गुढो - ऽत्मा न प्रकाशते' इति च दुर्ज्ञानत्ववचनेन तस्यैव ज्ञेयत्वा- काङ्क्षणात्, 'यच्छेद्वाङ्मनसी प्राज्ञः' इति च तज्ज्ञानायैव वागादिसंयमस्य विहितत्वात्, मृत्युमुखप्रमोक्षणफलत्वाच्च ; न हि प्रधानमात्रं निचाय्य मृत्युमुखात्प्रमुच्यत इति सां- ख्यैरिष्यते ; चेतनात्मविज्ञानाद्धि मृत्युमुखात्प्रमुच्यत इति ते षामभ्युपगमः; सर्वेषु वेदान्तेषु प्राज्ञस्यैवात्मनोऽशब्दादि- सू. ६.] प्रथमोऽध्यायः । धर्मत्वमभिलप्यते ; तस्मान्न प्रधानस्यात्र ज्ञेयत्वमव्यक्तशब्द- निर्दिष्टत्वं वा ॥ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥ इतश्च न प्रधानस्याव्यक्तशब्दवाच्यत्वं ज्ञेयत्वं वा; य- स्मान्त्रयाणामेव पदार्थानामग्निजीवपरमात्मनामस्मिन्प्रन्थे क- ठवल्लीषु वरप्रदानसामर्थ्याद्वक्तव्यतयोपन्यासो दृश्यते ; तद्वि- षय एव च प्रश्न: ; नातोऽन्यस्य प्रश्न उपन्यासो वास्ति ; तत्र त; तावत् 'स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम्' इत्यग्निविषयः प्रश्नः ; ' येयं प्रेते विचिकित्सा मनु- ष्येऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः' इति जीवविषयः प्रश्न: ; 'अन्यत्र ध- मदन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद्' इति परमात्मविषय: ; प्रतिवचनमपि -- लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा' इत्यग्निविषयम् ; ' हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनात- नम् । यथा च मरणं प्राप्य आत्मा भवति गौतम । योनि- मन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्' इति व्यवहितं जीवविषयम्; 'न जा- यते म्रियते वा विपश्चित्' इत्यादिबहुप्रपञ्चं परमात्मविषय- ' सूत्रभाष्ये [ पा. ४. म् । नैवं प्रधानविषयः प्रभोऽस्ति । अपृष्टत्वाञ्चानुपन्यसनी- यत्वं तस्येति ॥ - " - अत्राह — योऽयमात्मविषयः प्रश्नः – 'येयं प्रेते विचि- कित्सा मनुष्येऽस्ति' इति, किं स एवायम् ' अन्यत्र धर्मा- दन्यत्राधर्मात्' इति पुनरनुकृष्यते, किं वा ततोऽन्योऽयम- पूर्व : प्रश्न उत्थाप्यत इति । किं चात: ? स एवायं प्रश्नः पुनरनुकृष्यत इति यद्युच्येत तदा द्वयोरात्मविषययोः प्रश्नयो- रेकतापत्तेरग्निविषय आत्मविषयश्च द्वावेव प्रश्नावित्यतो न व- क्तत्र्यं त्रयाणां प्रश्नोपन्यासाविति ; अथान्योऽयमपूर्वः प्रश्न उ त्थाप्यत इत्युच्येत ततो यथैव वरप्रदानव्यतिरेकेण प्रश्नक- ल्पनायामदोषः ; एवं प्रश्नव्यतिरेकेणापि प्रधानोपन्यासकल्प- नायामदोषः स्यादिति ॥ अत्रोच्यते-- नैवं वयमिह वरप्रदानव्यतिरेकेण प्रश्नं कंचित्कल्पयामः, वाक्योपक्रमसामर्थ्यात् ; वरप्रदानोपक्रमा हि मृत्युनचिकेत: संवादरूपा वाक्यप्रवृत्तिः आ समाप्तेः कठव- ल्लीनां लक्ष्यते ; मृत्युः किल नचिकेतसे पित्रा प्रहिताय बीन्वरान्प्रददौ ; नचिकेताः किल तेषां प्रथमेन वरेण पितुः सौमनस्यं वत्रे, द्वितीयेनाग्निविद्याम्, तृतीयेनात्मविद्याम् — 'येयं प्रेते' इति ' वराणामेष वरस्तृतीयः' इति लिङ्गात् । • सू. ६.] प्रथमोऽध्यायः । तत्र यदि ' अन्यत्र धर्मात्' इत्यन्योऽयमपूर्वः प्रश्न उत्था- येत, ततो वरप्रदानव्यतिरेकेणापि प्रश्नकल्पनाद्वाक्यं वा- ध्येत । ननु प्रष्टव्यभेदादपूर्वोऽयं प्रश्नो भवितुमर्हति ; अपूर्वो हि प्रश्नो जीवविषयः, येयं प्रेते विचिकित्सा मनुष्येऽस्ति नास्तीति विचिकित्साभिधानात्; जीवश्च धर्मादिगोचर- त्वात् न 'अन्यत्र धर्मात्' इति प्रश्नमर्हति ; प्राज्ञस्तु धर्मा- द्यतीतत्वात् 'अन्यत्र धर्मात्' इति प्रश्नमर्हति ; प्रश्नच्छाया च न समाना लक्ष्यते, पूर्वस्यास्तित्वनास्तित्वविषयत्वात्, उत्तरस्य धर्माद्यतीतवस्तुविषयत्वाच्च; तस्मात्प्रत्यभिज्ञानाभा- वात्प्रभेदः ; न पूर्वस्यैवोत्तरत्रानुकर्षणमिति चेत्, न; जीवप्राज्ञयोरेकत्वाभ्युपगमात्; भवेत्प्रष्टव्यभेदात्प्रश्नभेदो य- द्यन्यो जीवः प्राज्ञात्स्यात् ; न त्वन्यत्वमस्ति, 'तत्त्वमसि' इत्यादिश्रुत्यन्तरेभ्य: ; इह च ' अन्यत्र धर्मात्' इत्यस्य प्रश्नस्य प्रतिवचनम् ' न जायते म्रियते वा विपश्चित्' इति जन्म- मरणप्रतिषेधेन प्रतिपाद्यमानं शारीरपरमेश्वरयोरभेदं दर्श- यति ; सति हि प्रसङ्गे प्रतिषेधो भागी भवति; प्रसङ्गश्च जन्म- मरणयोः शरीरसंस्पर्शाच्छारीरस्य भवति, न परमेश्वरस्य ; तथा -- 'स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति । महान्तं विभुमात्मानं मत्वा धीरो न शोचति' इति स्वप्न- २३.८. सूत्रभाष्ये [पा. ४.. जागरितदृशो जीवस्यैव महत्त्वविभुत्वविशेषणस्य मननेन. शोकविच्छेदं दर्शयन्न प्राज्ञादन्यो जीव इति दर्शयति ; प्राज्ञ- विज्ञानाद्धि शोकविच्छेद इति वेदान्तसिद्धान्तः ; तथाग्रे- 'यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इति जीवप्राज्ञभेददृष्टिमपवदति ; तथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्यानन्तरम् ' अन्यं वरं नचिकेतो वृणीष्व' इत्यारभ्य मृत्युना तैस्तैः कामैः प्रलोभ्यमा- नोऽपि नचिकेता यदा न चचाल, तदैनं मृत्युरभ्युदयनिः- श्रेयसविभागप्रदर्शनेन विद्याविद्याविभागप्रदर्शनेन च ' विद्या- भीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ' इति प्रशस्य प्रश्नमपि तदीयं प्रशंसन्यदुवाच- 'तं दुर्दर्श गूढमनु- प्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं • मत्वा धीरो हर्षशोकौ जहाति' इति, तेनापि जीवप्राज्ञयोरभेद एवेह विवक्षित इति गम्यते ; यत्प्रश्ननिमित्तां च प्रशंसां महतीं मृत्योः प्रत्यपद्यत नचिकेताः, यदि तं विहाय प्रशंसा- नन्तरमन्यमेव प्रश्नमुपक्षिपेत्, अस्थान एव सा सर्वा प्रशंसा प्रसारिता स्यात् ; तस्मात् 'येयं प्रेते' इत्यस्यैव प्रश्नस्यैतद- नुकर्षणम् ' अन्यत्र धर्मात् ' इति । यत्तु प्रश्नच्छायावैलक्ष- ण्यमुक्तम्, तददूषणम्, तदीयस्यैव विशेषस्य पुनः पृच्छय- सू. ७.] प्रथमोऽध्यायः । मानत्वात्; पूर्वत्र हि देहादिव्यतिरिक्तस्यात्मनोऽस्तित्वं पृष्टम्, उत्तरत्र तु तस्यैवासंसारित्वं पृच्छ्यत इति ; याव- द्धयविद्या न निवर्तते, तावद्धर्मादिगोचरत्वं जीवस्य जीवत्वं च न निवर्तते, तन्निवृत्तौ तु प्राज्ञ एव 'तत्त्वमसि' इति श्रुत्या प्रत्याय्यते; न चाविद्यावत्त्वे तदपगमे च वस्तुनः कश्चिद्विशेषोऽस्ति ; यथा कश्चित्संतमसे पतितां कांचिद्रज्जु- महिं मन्यमानो भीतो वेपमानः पलायते, तं चापरो ब्रूयात् ' मा भैषीः नायमहिः रज्जुरेवेति, स च तदुपश्रुत्याहिकृतं भयमुत्सृजेद्वेपथुं पलायनं च, न त्वहिबुद्धिकाले तदपगमकाले च वस्तुनः कश्चिद्विशेषः स्यात् -- तथैवैतदपि द्रष्टव्यम् ; ततश्च 'न जायते म्रियते वा' इत्येवमाद्यपि भवत्यस्तित्वनास्तित्वप्रश्नस्य प्रतिवचनम् । सूत्रं त्वविद्याकल्पितजीवप्राज्ञभेदापेक्षया योज- यितत्र्यम् - एकत्वेऽपि ह्यात्मविषयस्य प्रश्नस्य प्रायणावस्थायां देहव्यतिरिक्तास्तित्वमात्त्रविचिकित्सनात्कर्तृत्वादिसंसारस्वभा- वानपोहनाच्च पूर्वस्य पर्यायस्य जीवविषयत्वमुत्प्रेक्ष्यते, उत्त- रस्य तु धर्माद्यत्ययसंकीर्तनात्प्राज्ञविषयत्वमिति । ततश्च युक्ता अग्निजीवपरमात्मकल्पना; प्रधानकल्पनायां तु न वरप्रदानं न प्रश्नो न प्रतिवचनमिति वैषम्यम् ॥ महद्वच्च ॥ ७ ॥ सूत्रभाष्ये [पा. ४. यथा महच्छब्दः सांख्यैः सत्तामात्रेऽपि प्रथमजे प्रयुक्त:, न तमेव वैदिकेऽपि प्रयोगेऽभिधत्ते, 'बुद्धेरात्मा महा- न्पर:' 'महान्तं विभुमात्मानम् ' ' वेदाहमेतं पुरुषं महा- न्तम्' इत्येवमादावात्मशब्दप्रयोगादिभ्यो हेतुभ्यः ; तथा- व्यक्तशब्दोऽपि न वैदिके प्रयोगे प्रधानमभिधातुमर्हति । अतश्च नास्त्यानुमानिकस्य शब्दवत्त्वम् ॥ चमसवदविशेषात् ॥ ८ ॥ पुनरपि प्रधानवादी अशब्दत्वं प्रधानस्यासिद्धमित्याह ; क- स्मात् ? मन्त्रवर्णात् -- 'अजामेकां लोहितशुक्कुकृष्णां वह्नी: २. चमसाधि प्रजाः सृजमानां सरूपाः । अजो ह्येको करणम् । जुषमाणोऽनुशेते जहात्येनां भुक्तभोगाम- जोऽन्य:' इति ; अत्र हि मन्त्रे लोहितशुक्लकृष्णशब्दैः रज:- सत्त्वतमांस्यभिधीयन्ते ; लोहितं रजः, रञ्जनात्मकत्वात्, शुक्लं सत्त्वम्, प्रकाशात्मकत्वात्; कृष्णं तमः, आवरणात्म- कत्वात्; तेषां साम्यावस्था अवयवधर्मैर्व्यपदिश्यते —— लोहि- तशुक्लकृष्णेति ; न जायत इति च अजा स्यात्, 'मूलप्रकृति- रविकृति:' इत्यभ्युपगमात्; नन्वजाशब्दश्छाग्यां रूढः ; बाढम् ; सा तु रूढिरिह नाश्रयितुं शक्या, विद्याप्रकरणात् ; सा च बही: प्रजास्त्रैगुण्यान्विता जनयति ; तां प्रकृतिमज सू. ८.] प्रथमोऽध्यायः । एक: पुरुषो जुषमाणः प्रीयमाणः सेवमानो वा अनुशेते- तामेवाविद्यया आत्मत्वेनोपगम्य सुखी दुःखी मूढोऽहमित्य- विवेकितया संसरति ; अन्य: पुनरज: पुरुष उत्पन्नविवेक- ज्ञानो विरक्तो जहात्येनां प्रकृतिं भुक्तभोगां कृतभोगापवर्गी परित्यजति मुच्यत इत्यर्थः ; तस्माच्छ्रुतिमूलैब प्रधाना- दिकल्पना कापिलानामित्येवं प्राप्ते-- 11 ब्रूमः - नानेन मन्त्रेण श्रुतिमत्त्वं सांख्यवादस्य शक्य- माश्रयितुम् ; न ह्ययं मन्त्रः स्वातन्त्र्येण कंचिदपि वादं सम- र्थयितुमुत्सहते, सर्वत्रापि यया कयाचित्कल्पनया अजात्वादि- संपादनोपपत्तेः, सांख्यवाद एवेहाभिप्रेत इति विशेषावधारण- कारणाभावात् । चमसवत् - - यथा हि 'अर्वाग्बिलश्चमस ऊ- र्ध्वबुध्नः' इत्यस्मिन्मन्त्रे स्वातन्त्र्येणायं नामासौ चमसोऽभि- प्रेत इति न शक्यते नियन्तुम्, सर्वत्रापि यथाकथंचिद- र्वाग्विलत्वादिकल्पनोपपत्तेः, एवमिहाप्यविशेषः 'अजामेकाम्' इत्यस्य मन्त्रस्य ; नास्मिन्मन्त्रे प्रधानमेवाजाभिप्रेतेति शक्य- ते नियन्तुम् ॥ तत्र तु ' इदं तच्छिर एष सर्वाग्बिलश्चमस ऊर्ध्वबुनः ' इति वाक्यशेषाञ्चमसविशेषप्रतिपत्तिर्भवति ; इह पुनः केय- मजा प्रतिपत्तव्येत्यत्र ब्रूमः - S. W. I. 16. २४२. सूत्रभाष्ये ज्योतिरूपक्रमा तु तथा ह्यधीयत एके ॥ ९ ॥ [ पा. ४. परमेश्वरादुत्पन्ना ज्योतिः प्रमुखा तेजोवन्नलक्षणा चतुर्वि- धस्य भूतग्रामस्य प्रकृतिभूतेयमजा प्रतिपत्तव्या । तु-शब्दो- ऽवधारणार्थ:-- भूतत्रयलक्षणैवेयमजा विज्ञेया, न गुणत्रयल- क्षणा । कस्मात् ? तथा होके शाखिनस्तेजोवन्नानां परमेश्वरा- दुत्पत्तिमाम्नाय तेषामेव रोहितादिरूपतामामनन्ति - ' यदने रोहितं रूपं तेजसस्तद्रूपं यच्छुकं तदपां यत्कृष्णं तदन्नस्य' इति ; तान्येवेह तेजोवन्नानि प्रत्यभिज्ञायन्ते, रोहितादिश- व्दसामान्यात्, रोहितादीनां च शब्दानां रूपविशेषेषु मुख्य- त्वाद्भाक्तत्वाच्च गुणविषयत्वस्य ; असंदिग्धेन च संदिग्धस्य निगमनं न्याय्यं मन्यन्ते । तथेहापि 'ब्रह्मवादिनो वदन्ति । किंकारणं ब्रह्म' इत्युपक्रम्य ' ते ध्यानयोगानुगता अपश्य- न्देवात्मशक्तिं स्वगुणैर्निगूढाम्' इति पारमेश्वर्याः शक्तेः स- मस्त जगद्विधायिन्या वाक्योपक्रमेऽवगमात् वाक्यशेषेऽपि 'मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्' इति ' यो योनिं योनिमधितिष्ठत्येकः' इति च तस्या एवावगमान्न स्वत- त्रा काचित्प्रकृतिः प्रधानं नामाजामन्त्रेणान्नायत इति शक्यते वक्तुम् । प्रकरणात्तु सैव दैवी शक्तिरव्याकृतनामरूपा ना- " सू. १०.] प्रथमोऽध्यायः । मरूपयोः प्रागवस्था अनेनापि मन्त्रेणान्नायत इत्युच्यते ; तस्याश्च स्वविकारविषयेण त्रैरूप्येण त्रैरूप्यमुक्तम् ॥ कथं पुनस्तेजोवन्नात्मना त्रैरूप्येण त्रिरूपा अजा प्रतिपत्तुं शक्यते, यावता न तावत्तेजोवन्नेष्वजाकृतिरस्ति, न च तेजोवन्नानां जातिश्रवणादजातिनिमित्तोऽप्यजाशब्दः संभ- वतीति; अत उत्तरं पठति- कल्पनोपदेशाच्च मध्वादिवद- विरोधः ॥ १० ॥ नाय मजाकृतिनिमित्तोऽजाशब्दः ; नापि यौगिक: ; किं तर्हि, कल्पनोपदेशोऽयम् - अजारूपकक्लप्तिस्तेजोवन्नलक्षणा- याश्चराचरयोनेरुपदिश्यते; यथा हि लोके यदृच्छया काचि- दजा रोहितशुक्लकृष्णवर्णा स्याद्बहुबर्करा सरूपवर्करा च, तां च कश्चिदजो जुषमाणोऽनुशयीत, कश्चिच्चैनां भुक्तभोगां जह्यात् — एवमियमपि तेजोबन्नलक्षणा भूतप्रकृतिस्त्रिवर्णा बहु सरूपं चराचरलक्षणं विकारजातं जनयति, अविदुषा च क्षेत्रज्ञेनोपभुज्यते, विदुषा च परित्यज्यत इति । न चेद- माशङ्कितव्यम् — एकः क्षेत्रज्ञोऽनुशेते अन्यो जहातीत्यत: क्षेत्रज्ञभेद: पारमार्थिकः परेषामिष्टः प्राप्नोतीति; न हीयं क्षेत्रज्ञभेदप्रतिपिपादयिषा ; किंतु बन्धमोक्षव्यवस्थाप्रतिपि- - सूत्रभाष्ये [ पा. ४. पादयिषैवैषा ; प्रसिद्धं तु भेदमनूद्य वन्धमोक्षव्यवस्था प्रतिपाद्यते ; भेदस्तूपाधिनिमित्तो मिथ्याज्ञानकल्पित: ; पारमार्थिकः, ' एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा' इत्यादिश्रुतिभ्यः । मध्वादिवत् — यथा आदित्यस्यामधुनो मधुत्वम्, वाचश्चाधेनोर्धेनुत्वम्, धुलो- कादीनां चाननीनामनित्वम् — इत्येवंजातीयकं कल्प्यते, एवमिदमनजाया अजात्वं कल्प्यत इत्यर्थः । तस्मादविरो- धस्तेजोबन्नेष्वजाशब्दप्रयोगस्य ॥ न संख्योपसंग्रहादपि नानाभावा- दतिरेकाच्च ॥। ११ ॥ एवं परिहृतेऽप्यजामन्त्रे पुनरप्यन्यस्मान्मन्त्रात्सांख्य: प्र- त्यवतिष्ठते -- ' यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । ३. संख्योपसंग्र- तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृ- हाधिकरणम् । तम्' इति । अस्मिन्मन्त्रे पञ्च पञ्चजना इति पञ्चसंख्याविषया अपरा पश्चसंख्या श्रूयते पञ्चश- व्दद्वयदर्शनात् ; त एते पञ्च पञ्चकाः पञ्चविंशति: संपद्यन्ते ; तया च पञ्चविंशतिसंख्यया यावन्त: संख्येया आकाङ्क्षयन्ते तावन्त्येव च तत्त्वानि सांख्यैः संख्यायन्ते – 'मूलप्रकृतिर- सू. ११.] प्रथमोऽध्यायः । विकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकच विकारो न प्रकृतिर्न विकृति: पुरुष:' इति ; तया श्रुतिप्रसिद्धया पञ्चविंशतिसंख्यया तेषां स्मृतिप्रसिद्धानां पञ्चविंशतेस्तत्त्वा- नामुपसंग्रहात्प्राप्तं पुनः श्रुतिमत्त्वमेव प्रधानादीनाम् । ततो ब्रूमः - न संख्योपसंग्रहादपि प्रधानादीनां श्रुति- मत्त्वं प्रत्याशा कर्तव्या; कस्मात् ? नानाभावात् ; नाना ह्येतानि पञ्चविंशतिस्तत्त्वानि ; नैषां पञ्चशः पश्वशः साधार- णो धर्मोऽस्ति, येन पञ्चविंशतेरन्तराले पराः पञ्च पञ्च संख्या निविशेरन् ; न ह्येकनिबन्धनमन्तरेण नानाभूतेषु द्वित्वा- दिका: संख्या निविशन्ते । अथोच्येत — पश्चविंशतिसं- ख्यैवेयमवयवद्वारेण लक्ष्यते, यथा 'पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः' इति द्वादशवार्षिकीमनावृष्टिं कथयन्ति, तद्वदिति ; तदपि नोपपद्यते; अयमेवास्मिन्पक्षे दोष:, यल्लक्ष- णाश्रयणीया स्यात् । परश्चात्र पञ्चशब्दो जनशब्देन समस्त: पञ्चजना इति, भाषिकस्वरेणैकपदत्वनिश्चयात्; प्रयोगा- न्तरे च ' पञ्चानां त्वा पश्वजनानाम्' इत्यैकपद्यैकस्वर्यैक- विभक्तिकत्वावगमात्; समस्तत्वाच्च न वीप्सा 'पञ्च पञ्च' इति । तेन न पञ्चकद्वयग्रहणं पञ्च पश्चेति । न च पञ्चसंख्या- या एकस्याः पञ्चसंख्यया परया विशेषणम् 'पञ्च पञ्चका: ' सूत्रभाष्ये [ पा. ४. इति, उपसर्जनस्य विशेषणेनासंयोगात् ; नन्वापन्नपश्ञ्चसंख्या- का जना एव पुनः पश्चसंख्यया विशेष्यमाणाः पञ्चविंशतिः प्रत्येष्यन्ते, यथा पञ्च पञ्चपूल्य इति पञ्चविंशतिः पूला: प्रतीयन्ते, तद्वत्; नेति ब्रूमः ; युक्तं यत्पञ्चपूलीशब्दस्य समाहाराभिप्रायत्वात् कतीति सत्यां भेदाकाङ्क्षायां पश्च पञ्चपूल्य इति विशेषणम् ; इह तु पञ्च जना इत्यादित एव भेदोपादानात्कतीत्यसत्यां भेदाकाङ्क्षायां न पञ्च पञ्चजना इति विशेषणं भवेत् ; भवदपीदं विशेषणं पञ्चसंख्याया एव भवेत् ; तत्र चोक्तो दोष: ; तस्मात्पञ्च पञ्चजना इति न पञ्चविंशतितत्त्वाभिप्रायम् । अतिरेकाञ्च न पञ्चविंशति- तत्त्वाभिप्रायम् ; अतिरेको हि भवत्यात्माकाशाभ्यां पञ्च- विंशतिसंख्याया: ; आत्मा तावदिह प्रतिष्ठां प्रत्याधारत्वेन निर्दिष्टः, 'यस्मिन्' इति सप्तमी सूचितस्य ' तमेव मन्य आत्मानम्' इत्यात्मत्वेनानुकर्षणात्; आत्मा च चेतनः पुरुष: ; स च पञ्चविंशतावन्तर्गत एवेति न तस्यैवाधारत्वमा- धेयत्वं च युज्येत ; अर्थान्तरपरिग्रहे वा तत्त्वसंख्यातिरेकः सिद्धान्तविरुद्धः प्रसज्येत; तथा 'आकाशश्च प्रतिष्ठित: ' इत्याकाशस्यापि पञ्चविंशतावन्तर्गतस्य न पृथगुपादानं न्या- य्यम्; अर्थान्तरपरिग्रहे चोक्तं दूषणम् । कथं च संख्या- सू. १२.] प्रथमोऽध्यायः । मात्रश्रवणे सत्यश्रुतानां पञ्चविंशतितत्त्वानामुपसंग्रहः प्रती - येत ? जनशब्दस्य तत्त्वेष्वरूढत्वात्, अर्थान्तरोपसंग्रहेऽपि संख्योपपत्तेः । कथं तर्हि पश्च पञ्चजना इति ? उच्यते- 'दिक्संख्ये संज्ञायाम्' इति विशेषस्मरणात्संज्ञायामेव पञ्चश- व्दस्य जनशब्देन समास: ; ततश्च रूढत्वाभिप्रायेणैव केचि - त्पञ्चजना नाम विवक्ष्यन्ते, न सांख्यतत्त्वाभिप्रायेण ; ते कतीत्यस्यामाकाङ्क्षायां पुनः पश्चेति प्रयुज्यते; पञ्चजना नाम ये केचित्, ते च पश्चैवेत्यर्थः, सप्तर्षयः सप्तेति यथा ॥ के पुनस्ते पश्चजना नामेति, तदुच्यते- प्राणादयो वाक्यशेषात् ॥ १२ ॥ ' यस्मिन्पञ्च पञ्चजना:' इत्यत उत्तरस्मिन्मन्त्रे ब्रह्म- स्वरूपनिरूपणाय प्राणादयः पञ्च निर्दिष्टा: - ' प्राणस्य प्रा- णमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदु:' इति ; तेऽत्र वाक्यशेषगताः संनिधानात्पश्वजना वि- वक्ष्यन्ते । कथं पुनः प्राणादिषु जनशब्दप्रयोगः ? तत्त्वेषु वा कथं जनशब्दप्रयोगः ? समाने तु प्रसिद्धयतिक्रमे वा- क्यशेषवशात्प्राणादय एव ग्रहीतव्या भवन्ति; जनसंबन्धाञ्च प्राणादयो जनशब्दभाजो भवन्ति; जनवचनश्च पुरुषशब्दः सूत्रभाष्ये [पा. ४. प्राणेषु प्रयुक्तः - ' ते वा एते पञ्च ब्रह्मपुरुषा:' इत्यत्र ; 'प्राणो ह पिता प्राणो ह माता' इत्यादि च ब्राह्मणम् । समासबलाच्च समुदायस्य रूढत्वमविरुद्धम् ; कथं पुनरसति प्रथमप्रयोगे रूढिः शक्याश्रयितुम् ? शक्या उद्भिदादिवदित्याह - प्रसिद्धार्थ- संनिधाने ह्यप्रसिद्धार्थः शब्दः प्रयुज्यमानः समभिव्याहारा- तद्विषयो नियम्यते ; यथा ' उद्भिदा यजेत' ' यूपं छिनत्ति ' 'वेदिं करोति' इति, तथा अयमपि पञ्चजनशब्दः समासा- न्वाख्यानादवगतसंज्ञाभावः संज्ञ्याकाही वाक्यशेषसमभि- व्याहृतेषु प्राणादिषु वर्तिष्यते । कैश्चित्तु देवाः पितरो गन्धर्वा असुरा रक्षांसि च पञ्च पञ्चजना व्याख्याताः ; अन्यैश्च चत्वारो वर्णा निषादपञ्चमाः परिगृहीताः ; क्वचिच्च यत्पाञ्चजन्यया विशा' इति प्रजापरः प्रयोगः पञ्चजन- शब्दस्य दृश्यते ; तत्परिग्रहेऽपीह न कश्चिद्विरोध: ; आचा- र्यस्तु न पञ्चविंशतेस्तत्त्वानामिह प्रतीतिरस्तीत्येवंपरतया ' प्राणादयो वाक्यशेषात्' इति जगाद ॥ भवेयुस्तावत्प्राणादयः पञ्चजना माध्यंदिनानाम्, येऽन्नं प्राणादिष्वामनन्ति ; काण्वानां तु कथं प्राणादयः पञ्चजना भवेयुः, येऽन्नं प्राणादिषु नामनन्तीति — अत उत्तरं पठति- सू. १४.] प्रथमोऽध्यायः । २४९ ज्योतिषैकेषामसत्यन्ने ॥ १३ ॥ असत्यपि काण्वानामन्ने ज्योतिषा तेषां पश्चसंख्या पूर्ये- त; तेऽपि हि 'यस्मिन्पञ्च पञ्चजना:' इत्यतः पूर्वस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणायैव ज्योतिरधीयते ' तद्देवा ज्योतिषां ज्योति:' इति । कथं पुनरुभयेषामपि तुल्यवदिदं ज्योति: प- ठ्यमानं समानमन्त्रगतया पश्चसंख्यया केषांचिद्गृह्यते केषां - चिन्नेति -- अपेक्षाभेदादित्याह — माध्यंदिनानां हि समानम- न्त्रपठितप्राणादिपश्चजनलाभान्नास्मिन्मन्त्रान्तरपठिते ज्योति- ष्यपेक्षा भवति ; तदलाभात्तु काण्वानां भवत्यपेक्षा; अपेक्षा- भेदाच्च समानेऽपि मन्त्रे ज्योतिषो ग्रहणाग्रहणे ; यथा समा- नेऽप्यतिरात्रे वचनभेदात्षोडशिनो ग्रहणाग्रहणे, तद्वत् । त- देवं न तावच्छ्रुतिप्रसिद्धिः काचित्प्रधानविषयास्ति ; स्मृति- न्यायप्रसिद्धी तु परिहरिष्येते ॥ कारणत्वेन चाकाशादिषु यथाव्यप- दिष्टोक्तेः ॥ १४ ॥ प्रतिपादितं ब्रह्मणो लक्षणम् प्रतिपादितं ब्रह्मवि- षयं गतिसामान्यं वेदान्तवाक्यानाम् ; प्रतिपादितं च प्रधा- ४. कारणत्वा- नस्याशब्दत्वम् ; तत्रेदमपरमाशङ्कयते— धिकरणम् । न जन्मादिकारणत्वं ब्रह्मणो ब्रह्मविषयं वा सूत्रभाष्ये [पा. ४. गतिसामान्यं वेदान्तवाक्यानां प्रतिपादयितुं शक्यम्; क- स्मात् ? विगानदर्शनात् ; प्रतिवेदान्तं ह्यन्यान्या सृष्टिरुपलभ्य- ते, क्रमादिवैचित्र्यात् । तथा हि — कचित् 'आत्मन आकाशः संभूतः' इत्याकाशादिका सृष्टिराम्नायते; कचित्तेजआदिका ' तत्तेजोऽसृजत' इति ; कचित्प्राणादिका 'स प्राणमसृजत प्राणाच्छूद्धाम्' इति ; क्वचिदक्रमेणैव लोकानामुत्पत्तिरा- म्नायते-- ' स इमाँल्लोकानसृजत । अम्भो मरीचीर्मर- माप:' इति ; तथा क्वचिदसत्पूर्विका सृष्टिः पठ्यते- असद्वा इदमग्र आसीत्ततो वै सदजायत' इति, 'असदे- " वेदमग्र आसीत्तत्सदासीत्तत्समभवत्' इति च; कचिदस- द्वादनिराकरणेन सत्पूर्विका प्रक्रिया प्रतिज्ञायते— 'तद्वैक आहुरसदेवेदमग्र आसीत्' इत्युपक्रम्य, 'कुतस्तु खलु सो- म्यैवं स्यादिति होवाच कथमसतः सज्जायेतेति सत्त्वेव सोम्येदमग्र आसीत्' इति ; क्वचित्स्वयंकर्तृकैव व्याक्रिया जगतो निगद्यते—' तद्वेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्या- मेव व्याक्रियते ' इति । एवमनेकधा विप्रतिपत्तेर्वस्तुनि च विकल्पस्यानुपपत्तेर्न वेदान्तवाक्यानां जगत्कारणावधारण- परता न्याय्या ; स्मृतिन्यायप्रसिद्धिभ्यां तु कारणान्तरप- रिग्रहो न्याय्य इत्येवं प्राप्ते- सू. १४.] प्रथमोऽध्यायः । 1 ब्रूमः - सत्यपि प्रतिवेदान्तं सृज्यमानेष्वाकाशादिषु क्र- मादिद्वारके विगाने, न स्रष्टरि किंचिद्विगानमस्ति ; कुत: ? यथाव्यपदिष्टोक्तेः --- यथाभूतो ह्येकस्मिन्वेदान्ते सर्वज्ञः स- र्वेश्वरः सर्वात्मैकोऽद्वितीयः कारणत्वेन व्यपदिष्टः, तथाभूत एव वेदान्तान्तरेष्वपि व्यपदिश्यते; तद्यथा – 'सत्यं ज्ञान - मनन्तं ब्रह्म' इति ; अत्र तावज्ज्ञानशब्देन परेण च तद्विष- येण कामयितृत्ववचनेन चेतनं ब्रह्म न्यरूपयत्; अपरप्रयो- ज्यत्वेनेश्वरं कारणमब्रवीत् ; तद्विषयेणैव परेणात्मशब्देन श- रीरादिकोशपरम्परया चान्तरनुप्रवेशनेन सर्वेषामन्तः प्रत्यगा- त्मानं निरधारयत्; 'बहु स्यां प्रजायेय' इति चात्मविषयेण बहुभवनानुशंसनेन सृज्यमानानां विकाराणां स्रष्टुरभेदमभा- षत ; तथा 'इदं सर्वमसृजत । यदिदं किं च' इति समस्तज- गत्सृष्टिनिर्देशेन प्राक्सृष्टेरद्वितीयं स्रष्टारमाचष्टे ; तदत्र यल- क्षणं ब्रह्म कारणत्वेन विज्ञातम्, तल्लक्षणमेवान्यत्रापि विज्ञाय- ते—' सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ' ' तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत' इति; तथा 'आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत् । स ईक्षत लोकान्नु सृजै' इति च — एवंजातीयकस्य कारणस्वरूपनिरू- पणपरस्य वाक्यजातस्य प्रतिवेदान्तमविगीतार्थत्वात् । कार्य- सूत्रभाष्ये । [पा. ४. विषयं तु विगानं दृश्यते - कचिदाकाशादिका सृष्टिः कचित्तेज- आदिकेत्येवंजातीयकम् । न च कार्यविषयेण विगानेन कारण- मपि ब्रह्म सर्ववेदान्तेष्व विगीतमधिगम्यमानमविवक्षितं भवि- तुमर्हतीति शक्यते वक्तुम्, अतिप्रसङ्गात् । समाधास्यति चा- चार्य: कार्यविषयमपि विगानम् ' न वियदश्रुतेः' इत्यारभ्य । भ- वेदपि कार्यस्य विगीतत्वमप्रतिपाद्यत्वात् । न ह्ययं सृष्टया - दिप्रपञ्चः प्रतिपिपादयिषितः । न हि तत्प्रतिबद्धः कश्चित्पु- रुषार्थो दृश्यते श्रूयते वा । न च कल्पयितुं शक्यते, उप- क्रमोपसंहाराभ्यां तत्र तत्र ब्रह्मविषयैर्वाक्यैः साकमेकवा- क्यताया गम्यमानत्वात् । दर्शयति च सृष्टथादिप्रपञ्चस्य ब्रह्मप्रतिपत्त्यर्थताम् — 'अन्नेन सोम्य शुङ्गेनापो मूलम- न्विच्छाद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ' इति । मृदादिदृष्टान्तैश्च कार्यस्य कारणेनाभेदं वदितुं सृष्टयादिप्रपञ्चः श्राव्यत इति गम्यते । तथा च संप्रदायविदो वदन्ति — 'मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा । उपायः सोऽवताराय नास्ति भेदः कथंचन' इति । ब्रह्मप्रतिपत्तिप्रतिबद्धं तु फलं श्रूयते - ' ब्रह्म- विदाप्नोति परम् ' ' तरति शोकमात्मवित्' ' तमेव विदित्वाति मृत्युमेति' इति । प्रत्यक्षावगमं चेदं फलम्, 'तत्त्वमसि' सू. १५.] प्रथमोऽध्यायः । २५३ इत्यसंसार्यात्मत्वप्रतिपत्तौ सत्यां संसार्यात्मत्वव्यावृत्तेः ॥ यत्पुनः कारणविषयं विगानं दर्शितम् ' असद्वा इदमग्र आसीत्' इत्यादि, तत्परिहर्तव्यम्; अत्रोच्यते- समाकर्षात् ॥ १५ ॥ 'असद्वा इदमग्र आसीत्' इति नात्रासन्निरात्मकं कार- णत्वेन श्राव्यते ; यत: ' असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः ' इत्यसद्वादापवादेनास्तित्वलक्षणं ब्रह्मान्नमयादिकोशपरम्परया प्रत्यगात्मानं निर्धार्य, 'सोऽकामयत' इति तमेव प्रकृतं समाकृष्य, सप्रपञ्चां सृष्टिं तस्माच्छ्रावयित्वा, ' तत्सत्यभि- त्याचक्षते' इति चोपसंहृत्य, 'तदप्येष श्लोको भवति' इति तस्मिन्नेव प्रकृतेऽर्थे श्लोकमिममुदाहरति — 'असद्वा इदमंत्र आसीत्' इति ; यदि त्वसन्निरात्मकमस्मिलोकेऽभिप्रेयेत, ततोऽन्यसमाकर्षणेऽन्यस्योदाहरणादसंबद्धं वाक्यमापद्येत ; तस्मान्नामरूपव्याकृतवस्तुविषयः प्रायेण सच्छब्दः प्रसिद्ध इति तद्व्याकरणाभावापेक्षया प्रागुत्पत्तेः सदेव ब्रह्मासदिवा- सीदित्युपचर्यते । एषैव 'असदेवेदमग्र आसीत् ' इत्यत्रापि. योजना, ' तत्सदासीत्' इति समाकर्षणात्; अत्यन्ताभावा- सूत्रभाष्ये [ पा. ४. भ्युपगमे हि ' तत्सदासीत्' इति किं समाकृष्येत ? 'तद्धैक आहुरसदेवेदमग्र आसीत्' इत्यत्रापि न श्रुत्यन्तरा- भिप्रायेणायमेकीयमतोपन्यासः, क्रियायामिव वस्तुनि वि कल्पस्यासंभवात् ; तस्माच्छ्रतिपरिगृहीतसत्पक्षदाययैवायं मन्दमतिपरिकल्पितस्यासत्पक्षस्योपन्यस्य निरास इति द्रष्ट- व्यम् । ' तद्धेदं तर्ह्यव्याकृतमासीत्' इत्यत्रापि न नि- रध्यक्षस्य जगतो व्याकरणं कथ्यते, ' स एष इह प्रविष्ट आ नखाप्रेभ्यः' इत्यध्यक्षस्य व्याकृतकार्यानुप्रवेशित्वेन समा- कर्षात् ; निरध्यक्षे व्याकरणाभ्युपगमे ह्यनन्तरेण प्रकृताव- लम्बिना स इत्यनेन सर्वनाम्ना कः कार्यानुप्रवेशित्वेन समा- कृष्येत ? चेतनस्य चायमात्मनः शरीरेऽनुप्रवेशः श्रूयते, अनु- प्रविष्टस्य चेतनत्वश्रवणात् - ' पश्यंश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मन:' इति ; अपि च यादृशमिदमद्यत्वे नामरूपाभ्यां व्या- क्रियमाणं जगत्साध्यक्षं व्याक्रियते, एवमादिसर्गेऽपीति गम्यते, दृष्टविपरीतकल्पनानुपपत्तेः ; श्रुत्यन्तरमपि 'अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि' इति साध्य- क्षामेव जगतो व्याक्रियां दर्शयति ; ' व्याक्रियते' इत्यपि कर्मकर्तरि लकारः सत्येव परमेश्वरे व्याकर्तरि सौकर्यमपेक्ष्य द्रष्टव्यः - यथा लूयते केदारः स्वयमेवेति सत्येव पूर्णके सू. १६. ] प्रथमोऽध्यायः । लवितरि; यद्वा कर्मण्येवैष लकारोऽर्थाक्षिमं कर्त्रन्तरमपेक्ष्य द्रष्टव्यः - यथा गम्यते ग्राम इति ॥ जगद्बाचित्वात् ॥ १६ ॥ कौषीतकिब्राह्मणे वालाक्यजातशत्रुसंवादे श्रूयते— 'यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै ५. बालाक्य- वेदितव्यः' इति । तत्र किं जीवो वेदित- धिकरणम् । व्यत्वेनोपदिश्यते, उत मुख्यः प्राणः, उत परमात्मेति विशयः । किं तावत्प्राप्तम् ? प्राण इति । कुत: ? 'यस्य वैतत्कर्म' इति श्रवणात्, परिस्पन्दलक्षणस्य च कर्मणः प्राणाश्रयत्वात् ; वाक्यशेषे च 'अथास्मिन्प्राण एवैकधा भवति' इति प्राणशब्दश्रवणात्, प्राणशब्दस्य च मुख्ये प्राण प्रसिद्धत्वात्; ये चैते पुरस्ताद्वालाकिना 'आदित्ये पुरुषश्च- न्द्रमसि पुरुष:' इत्येवमादयः पुरुषा निर्दिष्टा:, तेषामपि भवति प्राण: कर्ता, प्राणावस्थाविशेषत्वादादित्यादिदेवतात्म- नाम् - 'कतम एको देव इति प्राण इति स ब्रह्म त्य- दित्याचक्षते' इति श्रुत्यन्तरप्रसिद्धेः । जीवो वायमिह वेदि - तव्यतयोपदिश्यते ; तस्यापि धर्माधर्मलक्षणं कर्म शक्यते श्रावयितुम्— 'यस्य वैतत्कर्म' इति सोऽपि भोक्तृत्वानो - गोपकरणभूतानामेतेषां पुरुषाणां च कर्तोपपद्यते ; वाक्यशेषे - सूत्रभाष्ये [पा. ४. जीवलिङ्गमवगम्यते-- यत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालाकिं प्रति बुबोधयिषुरजात- शत्रुः सुप्तं पुरुषमामन्त्रय आमन्त्रणशब्दाश्रवणात्प्राणादीना- मभोक्तृत्वं प्रतिबोध्य यष्टिधातोत्थापनात्प्राणादिव्यतिरिक्तं जीवं भोक्तारं प्रतिबोधयति ; तथा परस्तादपि जीवलिङ्गम- वगम्यते—- 'तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एतमात्मानं भुञ्जन्ति' इति; प्राणभृत्त्वाच्च जीवस्योपपन्नं प्राणशब्दत्वम् । तस्माज्जीवमुख्यप्राणयोरन्यतर इह ग्रहणीय:, न परमेश्वरः, तलिङ्गानवगमादित्येवं प्राप्ते-- ब्रूमः - परमेश्वर एवायमेतेषां पुरुषाणां कर्ता स्यात् ; क- स्मात् ? उपक्रमसामर्थ्यात् । इह हि बालाकिरजातशत्रुणा सह 'ब्रह्म ते ब्रवाणि' इति संवदितुमुपचक्रमे ; स च कतिचिदादि- त्याद्यधिकरणान्पुरुषानमुख्यब्रह्मदृष्टिभाज उक्त्वा तूष्णीं ब- भूव; तमजातशत्रुः 'मृषा वै खलु मा संवदिष्ठा ब्रह्म ते ब्रवाणि' इत्यमुख्यब्रह्मवादितयापोद्य, तत्कर्तारमन्यं वेदित- व्यतयोपचिक्षेप; यदि सोऽप्यमुख्यत्रह्मदृष्टिभाक्स्यात्, उप- क्रमो वाध्येत ; तस्मात्परमेश्वर एवायं भवितुमर्हति । कर्तृत्वं चैतेषां पुरुषाणां न परमेश्वरादन्यस्य स्वातन्त्र्येणावकल्पते । सू. १६.] प्रथमोऽध्यायः । 'यस्य वैतत्कर्म' इत्यपि नायं परिस्पन्दलक्षणस्य धर्माधर्म- लक्षणस्य वा कर्मणो निर्देशः, तयोरन्यतरस्याप्यप्रकृतत्वात्, असंशब्दितत्वाच्च ; नापि पुरुषाणामयं निर्देश:, 'एतेषां पु- रुषाणां कर्ता' इत्येव तेषां निर्दिष्टत्वात् लिङ्गवचनविगाना- च; नापि पुरुषविषयस्य करोत्यर्थस्य क्रियाफलस्य वायं नि- देश:, कर्तृशब्देनैव तयोरुपात्तत्वात्; पारिशेष्यात्प्रत्यक्षसंनि- हितं जगत्सर्वनाम्नैतच्छब्देन निर्दिश्यते; क्रियत इति च तदेव जगत्कर्म ; ननु जगदप्यप्रकृतमसंशब्दितं च ; सत्यमे- तत्; तथाप्यसति विशेषोपादाने साधारणेनार्थेन संनिधा- नेन संनिहितवस्तुमात्रस्यायं निर्देश इति गम्यते, न विशि- ट्रस्य कस्यचित्, विशेषसंनिधानाभावात्; पूर्वत्र च ज- गदेकदेशभूतानां पुरुषाणां विशेषोपादानादविशेषितं ज- गदेवेोपादीयत इति गम्यते । एतदुक्तं भवति -- य एतेषां पुरुषाणां जगदेकदेशभूतानां कर्ता — किमनेन विशेषेण :- यस्य वा कृत्स्नमेव जगदविशेषितं कर्मेति - वा-शब्द एकदेशा- वच्छिन्नकर्तृत्वव्यावृत्त्यर्थः ; ये वालाकिना ब्रह्मत्वाभिमता: पुरुषाः कीर्तिताः, तेषामत्रह्मत्वख्यापनाय विशेषोपादानम् । एवं ब्राह्मणपरिब्राजकन्यायेन सामान्यविशेषाभ्यां जगतः कर्ता वेदितव्यतयोपदिश्यते; परमेश्वरश्च सर्वजगतः कर्ता S. W. I. 17. • सूत्रभाष्ये [पा. ४. सर्ववेदान्तेष्ववधारितः ॥ जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्या- ख्यातम् ॥ १७ ॥ अथ यदुक्तं वाक्यशेषगताज्जीवलिङ्गान्मुख्यप्राणलिङ्गाच तयोरेवान्यतरस्येह ग्रहणं न्याय्यं न परमेश्वरस्येति, तत्प- रिहर्तव्यम् ; अत्रोच्यते--परिहृतं चैतत् 'नोपासात्रैविध्यादा- श्रितत्वादिह तद्योगात्' इत्यत्र ; त्रिविधं ह्यत्रोपासनमेवं सति प्रसज्येत — जीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति ; न चैतन्न्याय्यम्; उपक्रमोपसंहाराभ्यां हि ब्रह्मविषयत्व - मस्य वाक्यस्यावगम्यते ; तत्रोपक्रमस्य तावद्ब्रह्मविषयत्वं दर्शितम् ; उपसंहारस्यापि निरतिशयफलश्रवणाद्ब्रह्मविषयत्वं दृश्यते— 'सर्वान्पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रेष्ठयं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद' इति । नन्वेवं सति प्रतर्दनवाक्यनिर्णयेनैवेदमपि वाक्यं निर्णीयेत; न निर्णीयते, 'यस्य वैतत्कर्म' इत्यस्य ब्रह्मविषयत्वेन तत्र अनिर्धारित- त्वात्; तस्मादत्र जीवमुख्यप्राणशङ्का पुनरुत्पद्यमाना निवर्त्य - ते; प्राणशब्दोऽपि ब्रह्मविषयो दृष्टः ' प्राणबन्धनं हि सोम्य मन:' इत्यत्र ; जीवलिङ्गमप्युपक्रमोपसंहारयोर्ब्रह्मविषयत्वाद- भेदाभिप्रायेण योजयितव्यम् ॥ सू. १८. ] प्रथमोऽध्यायः । अन्यार्थं तु जैमिनिः प्रश्नव्याख्याना- भ्यामपि चैवमेके ॥ १८ ॥ - - अपि च नैवात्र विवदितव्यम् — जीवप्रधानं वेदं वाक्यें स्यात् ब्रह्मप्रधानं वेति; यतोऽन्यार्थ जीवपरामर्श ब्रह्मप्रति- पत्त्यर्थमस्मिन्वाक्ये जैमिनिराचार्यो मन्यते ; कस्मात् ? प्रश्नव्याख्यानाभ्याम् । प्रश्नस्तावत्सुषुप्तपुरुषप्रतिबोधनेन प्रा- णादिव्यतिरिक्ते जीवे प्रतिवोधिते पुनर्जीवव्यतिरिक्तविषयो दृश्यते— 'चैष एतद्वालाके पुरुषोऽशयिष्ट क वा एतद- भूत्कुत एतदागात्' इति ; प्रतिवचनमपि — 'यदा सुप्तः स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति' इत्यादि, ' एतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोका:' इति च सुषुप्तिकाले च परेण ब्रह्मणा जीव एकतां गच्छति ; परस्माच्च ब्रह्मणः प्राणादिकं जग- ज्जायत इति वेदान्तमर्यादा । तस्माद्यत्रास्य जीवस्य निः- संबोधस्वस्थतारूपः स्वापः — उपाधिजनितविशेषविज्ञान- रहितं स्वरूपम्, यतस्तद्भूशरूपमागमनम् सोऽत्र पर - मात्मा वेदितव्यतया श्रावित इति गम्यते । अपि चैवमेके शाखिनो वाजसनेयिनोऽस्मिन्नेव वालाक्यजातशत्रुसंवादे स्पष्टं विज्ञानमयशब्देन जीवमाम्नाय तद्व्यतिरिक्तं परमात्मान- सूत्रभाष्ये::" [ पा. ४- तदाभूत्कुत मामनन्ति य एष विज्ञानमय: पुरुष: एतदागात्' इति प्रश्ने; प्रतिवचनेऽपि य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते' इति ; आकाशशब्दश्च परमात्मनि प्र- युक्त: 'दहरोऽस्मिन्नन्तराकाश:' इत्यत्र ; 'सर्व एत आत्मानो व्युञ्चरन्ति' इति चोपाधिमतामात्मनामन्यतो व्युचरण- मामनन्तः परमात्मानमेव कारणत्वेनामनन्तीति गम्यते । प्राणनिराकरणस्यापि सुषुप्तपुरुषोत्थापनेन प्राणादिव्यतिरि- क्तोपदेशोऽभ्युच्चयः ॥ वाक्यान्वयात् ॥ १९ ॥ बृहदारण्यके मैत्रेयीब्राह्मणेऽभिधीयते - 'न वा अरे पत्युः कामाय' इत्युपक्रम्य 'न वा अरे सर्वस्य कामाय सर्व प्रियं ६. वाक्यान्वया- भवत्यात्मनस्तु कामाय सर्वे प्रियं भवत्या - धिकरणम् । त्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वे विदितम्' इति ; तत्रैतद्विचिकित्स्यते- किं विज्ञानात्मैवायं द्रष्टव्यश्रोतव्यत्वादिरूपेणोपदिश्यते, आहोस्वित्परमात्मेति । कुतः पुनरेषा विचिकित्सा ? प्रियसं- सूचितेनात्मना भोक्त्रोपक्रमाद्विज्ञानात्मोपदेश इति प्रतिभा- ति ; तथात्मविज्ञानेन सर्वविज्ञानोपदेशात्परमात्मोपदेश इति । सू. १९.] प्रथमोऽध्यायः । किं तावत्प्राप्तम् ? - विज्ञानात्मोपदेश इति ; कस्मात् ? उप- क्रमसामर्थ्यात् । पतिजायापुत्रवित्तादिकं हि भोग्यभूतं सर्व जगत् आत्मार्थतया प्रियं भवतीति प्रियसंसूचितं भोक्तार- मात्मानमुपक्रम्यानन्तरमिदमात्मनो दर्शनानुपदिश्यमानं क- स्यान्यस्यात्मनः स्यात्? मध्येऽपि ' इदं महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति' इति प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन ब्रुवन्विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयति ; तथा 'विज्ञातारमरे केन विजानीयात् ' इति कर्तृवचनेन शब्देनोपसंहरन्विज्ञानात्मानमेवेहोपदिष्टं दर्शयति ; तस्मादात्मविज्ञानेन सर्वविज्ञानवचनं भोक्त्रर्थत्वा- sोग्यजातस्यौपचारिकं द्रष्टव्यमित्येवं प्राप्ते — ब्रूमः — परमात्मोपदेश एवायम्; कस्मात् ? वाक्यान्व- यातू । वाक्यं हीदं पौर्वापर्येणावेक्ष्यमाणं परमात्मानं प्रत्य- न्वितावयवं लक्ष्यते ; कथमिति तदुपपाद्यते – 'अमृतत्वस्य तु नाशास्ति वित्तेन' इति याज्ञवल्क्यादुपश्रुत्य 'येनाहं नामृ- ता स्यां किमहं तेन कुर्सी यदेव भगवान्वेद तदेव मे ब्रूहि' इत्यमृतत्वमाशासानायै मैत्रेय्यै याज्ञवल्क्य आत्मविज्ञानमु- पदिशति ; न चान्यत्र परमात्मविज्ञानादमृतत्वमस्तीति श्रु- सूत्रभाष्ये [पा. ४. तिस्मृतिवादा वदन्ति ; तथा चात्मविज्ञानेन सर्वविज्ञानमुच्य- मानं नान्यत्र परमकारणविज्ञानान्मुख्यमवकल्पते ; न चैत- दौपचारिकमाश्रयितुं शक्यम्, यत्कारणमात्मविज्ञानेन सर्ववि- ज्ञानं प्रतिज्ञायानन्तरेण ग्रन्थेन तदेवोपपादयति — 'ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद' इत्यादिना ; यो हि ब्रह्मक्ष- त्रादिकं जगदात्मनोऽन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यति, तं मिध्यादर्शिनं तदेव मिध्यादृष्टं ब्रह्मक्षत्रादिकं जगत्पराक- रोतीति भेददृष्टिमपोद्य, 'इदं सर्वं यदयमात्मा' इति सर्वस्य वंस्तुजातस्यात्माव्यतिरेकमवतारयति ; दुन्दुभ्यादिदृष्टान्तैश्च तमेवाव्यतिरेकं द्रढयति ; 'अस्य महतो भूतस्य निःश्वसितमे- तद्यदृग्वेद:' इत्यादिना च प्रकृतस्यात्मनो नामरूपकर्मप्रप- श्वकारणतां व्याचक्षाणः परमात्मानमेवैनं गमयति ; तथैवैका- यनप्रक्रियायामपि सविषयस्य सेन्द्रियस्य सान्तःकरणस्य प्रपञ्श्वस्यैकायनमनन्तरमबाह्यं कृत्स्नं प्रज्ञानघनं व्याचक्षाणः परमात्मानमेवैनं गमयति । तस्मात्परमात्मन एवायं दर्शनाद्यु- पदेश इति गम्यते ॥ यत्पुनरुक्तं प्रियसंसूचितोपक्रमाद्विज्ञानात्मन एवायं दर्श- नाद्युपदेश इति, अत्र ब्रूमः - प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ २० ॥ सू. २१.] प्रथमोऽध्यायः । . अस्त्यत्र प्रतिज्ञा - 'आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति' ' इदं सर्वे यदयमात्मा' इति च । तस्याः प्रतिज्ञायाः सिद्धिं सूच- यत्येतल्लिङ्गम्, यत्प्रियसंसूचितस्यात्मनो द्रष्टव्यत्वादिसंकीर्त- नम् । यदि हि विज्ञानात्मा परमात्मनोऽन्यः स्यात्, ततः परमात्मविज्ञानेऽपि विज्ञानात्मा न विज्ञायत इत्येकविज्ञानेन सर्वविज्ञानं यत्प्रतिज्ञातम्, तद्धीयेत । तस्मात्प्रतिज्ञासिद्धपर्य विज्ञानात्मपरमात्मनोरभेदांशेनोपक्रमणमित्याश्मरथ्य आचा- मन्यते ॥ उत्क्रमिष्यत एवंभावादित्यौ- डुलोमिः ॥ २१ ॥ विज्ञानात्मन एव देहेन्द्रियमनोबुद्धिसंघातोपाधिसंपर्का- त्कलुषीभूतस्य ज्ञानध्यानादिसाधनानुष्ठानात्संप्रसन्नस्य देहा- दिसंघातादुत्क्रमिष्यतः परमात्मनैक्योपपत्तेरिदमभेदेनोपक्रम- णमित्यौडुलोमिराचार्यो मन्यते । श्रुतिश्चैवं भवति — ' एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते' इति । कचिच्च जीवाश्रयमपि नामरूपं नदीनिदर्शनेन ज्ञापयति - 'यथा नद्यः स्यन्दमानाः समुद्रे- ऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्' इति; यथा लोके नद्यः सूत्रभाष्ये [पा. ४. स्वाश्रयमेव नामरूपं विहाय समुद्रमुपयन्ति, एवं जीवोऽपि स्वाश्रयमेव नामरूपं विहाय परं पुरुषमुपैतीति हि तत्रार्थः प्रतीयते—–दृष्टान्तदाष्टन्तिकयोस्तुल्यतायै ॥ अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥ अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थाना- दुपपन्नमिदमभेदेनोपक्रमणमिति काशकृत्स्न आचार्यों मन्य- ते । तथा च ब्राह्मणम्- ' अनेन जीवेनात्मनानुप्र- विश्य नामरूपे व्याकरवाणि' इत्येवंजातीयकं परस्यै- वात्मनो जीवभावेनावस्थानं दर्शयति ; मन्त्रवर्णश्च— 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्य- दास्ते' इत्येवंजातीयकः । न च तेजःप्रभृतीनां सृष्टौ जीवस्य पृथक्सृष्टिः श्रुता, येन परस्मादात्मनोऽन्यस्तद्विकारो जीवः स्यात् । काशकृत्स्नस्याचार्यस्याविकृतः परमेश्वरो जीवः, नान्य इति मतम् ; आश्मरथ्यस्य तु यद्यपि जीवस्य परस्मा- दनन्यत्वमभिप्रेतम् ; तथापि 'प्रतिज्ञासिद्धेः' इति सापेक्षत्वा- भिधानात्कार्यकारणभावः कियानप्यभिप्रेत इति गम्यते ; औडुलोमिपक्षे पुनः स्पष्टमेवावस्थान्तरापेक्षौ भेदाभेदौ गम्येते । तत्र काशकृत्स्नीयं मतं श्रुत्यनुसारीति गम्यते, प्रतिपिपाद- विषितार्थानुसारात् 'तत्त्वमसि' इत्यादिश्रुतिभ्यः; एवं च सू. २२.] प्रथमोऽध्यायः । सति तज्ज्ञानादमृतत्वमवकल्पते; विकारात्मकत्वे हि जीव- स्याभ्युपगम्यमाने विकारस्य प्रकृतिसंबन्धे प्रलयप्रसङ्गान्न तज्ज्ञानादमृतत्वमवकल्पेत । अतश्च स्वाश्रयस्य नामरूपस्या- संभवादुपाध्याश्रयं नामरूपं जीवे उपचर्यते । अत एवोत्पत्ति- रपि जीवस्य क्वचिदग्निविस्फुलिङ्गोदाहरणेन श्राव्यमाणा उपाध्याश्रयैव वेदितव्या ॥ यदप्युक्तं प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन दर्शयन्विज्ञानात्मन एवेदं द्रष्ट- व्यत्वं दर्शयतीति, तत्रापीयमेव त्रिसूत्री योजयितव्या । 'प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः - इदमत्र प्रतिज्ञातम् - 'आ- त्मनि विदिते सर्वमिदं विदितं भवति' ' इदं सर्वे यदयमा- त्मा' इति च; उपपादितं च सर्वस्य नामरूपकर्मप्रपश्वस्यैक- प्रसवत्वादेकप्रलयत्वाच्च दुन्दुभ्यादिदृष्टान्तैश्च कार्यकारणयो- व्यतिरेकप्रतिपादनात् ; तस्या एव प्रतिज्ञायाः सिद्धिं सूच- यत्येतल्लिङ्गम्, यन्महतो भूतस्य भूतेभ्यः समुत्थानं विज्ञाना- त्मभावेन कथितम् इत्याश्मरथ्य आचार्यो मन्यते - अभेदे हि सत्येक विज्ञानेन सर्वविज्ञानं प्रतिज्ञातमवकल्पत इति । 'उत्क्र- मिष्यत एवंभावादित्यौडुलोमिः ' – उत्क्रमिष्यतो वि- ज्ञानात्मनो ज्ञानध्यानादिसामर्थ्यात्संप्रसन्नस्य परेणात्मनैक्य- सूत्रभाष्ये [ पा. ४. संभवादिदमभेदाभिधानमित्यौडुलोमिराचार्यो मन्यते । ' अव- स्थितेरिति काशकृत्स्नः ' - अस्यैव परमात्मनोऽनेनापि विज्ञा- नात्मभावेनावस्थानादुपपन्नमिदमभेदाभिधानमिति काशक- त्न आचार्यो मन्यते । ननूच्छेदाभिधानमेतत् - ' एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञा- स्ति' इति ; कथमेतदभेदाभिधानम् ? नैष दोषः ; वि- शेषविज्ञानविनाशाभिप्रायमेतद्विनाशाभिधानम्, नात्मोच्छे- दाभिप्रायम्; ' अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्ति' इति पर्यनुयुज्य, स्वयमेव श्रुत्या अर्थान्तरस्य दर्शितत्वात् - 'न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवति' इति । एतदुक्तं भवति — कूटस्थ - नित्य एवायं विज्ञानघन आत्मा; नास्योच्छेदप्रसङ्गोऽस्ति; मात्राभिस्त्वस्य भूतेन्द्रियलक्षणाभिरविद्याकृताभिरसंसर्गो वि- द्यया भवति ; संसर्गाभावे च तत्कृतस्य विशेषविज्ञानस्याभा- वात् 'न प्रेत्य संज्ञास्ति' इत्युक्तमिति । यदप्युक्तम् — 'वि- ज्ञातारमरे केन विजानीयात्' इति कर्तृवचनेन शब्देनोपसं- हाराद्विज्ञानात्मन एवेदं द्रष्टव्यमिति, तदपि काशकृत्स्नीयेनैव दर्शनेन परिहरणीयम् । अपि च 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति' इत्यारभ्याविद्याविषये तस्यैव दर्श- सू. २२.] प्रथमोऽध्यायः । नादिलक्षणं विशेषविज्ञानं प्रपञ्च्य, 'यत्र त्वस्य सर्वमात्मै- वाभूत्तत्केन कं पश्येत्' इत्यादिना विद्याविषये तस्यैव दर्श- नादिलक्षणस्य विशेषविज्ञानस्याभावमभिदधाति ; पुनश्च विषयाभावेऽप्यात्मानं विजानीयादित्याशङ्कथ, 'विज्ञातारमरे केन विजानीयात्' इत्याह ; ततश्च विशेषविज्ञानाभावोपपा- दनपरत्वाद्वाक्यस्य विज्ञानधातुरेव केवलः सन्भूतपूर्वगत्या कर्तृवचनेन तृचा निर्दिष्ट इति गम्यते । दर्शितं तु पुरस्ता- त्काशकृत्स्नीयस्य पक्षस्य श्रुतिमत्त्वम् । अतश्च विज्ञाना- त्मपरमात्मनोरविद्याप्रत्युपस्थापितनामरूपरचितदेहाद्युपाधि- निमित्तो भेदः, न पारमार्थिक इत्येषोऽर्थः सर्वैर्वेदान्तवादि- भिरभ्युपगन्तव्यः — 'सदेव सोम्येदमग्र आसीदेकमेवा- द्वितीयम्' 'आत्मैवेदं सर्वम्' 'ब्रह्मैवेदं सर्वम्' ' इदं सर्व यदयमात्मा' 'नान्योऽतोऽस्ति द्रष्टा' 'नान्यदतोऽस्ति द्रष्टृ' इत्येवंरूपाभ्यः श्रुतिभ्यः; स्मृतिभ्यश्च — 'वासुदेवः सर्वमिति' ' क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ' समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्' इत्येवंरूपाभ्य: ; भे- ददर्शनापवादाश्ञ्च – 'अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः' 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ' इत्येवं जातीयकात्; 'स वा एष महानज आत्माजरोऽमरो- सूत्रभाष्ये [पा. ४. ऽमृतोऽभयो ब्रह्म' इति च आत्मनिं सर्वविक्रियाप्रतिषेधान् ; अन्यथा च मुमुक्षूणां निरपवादविज्ञानानुपपत्तेः, सुनिश्चिता- र्थत्वानुपपत्तेश्च ; निरपवादं हि विज्ञानं सर्वाकाङ्गानिवर्तक- मात्मविषयमिष्यते-- 'वेदान्तविज्ञान सुनिश्चितार्था:' इति च श्रुते: ; ' तत्र को मोहः कः शोक एकत्वमनुपश्यत: ' इति च; स्थितप्रज्ञलक्षणस्मृतेश्च । स्थिते च क्षेत्रज्ञपरमात्मैकत्ववि - षये सम्यग्दर्शने क्षेत्रज्ञः परमात्मेति नाममात्रभेदात्क्षेत्रज्ञोऽयं परमात्मनो भिन्नः परमात्मायं क्षेत्रज्ञाद्भिन्न इत्येवजातीयक आत्मभेदविषयोऽयं निर्बन्धो निरर्थकः - एको हायमात्मा नाममात्रभेदेन बहुधाभिधीयत इति । न हि 'सत्यं ज्ञानम- नन्तं ब्रह्म । यो ं वेद निहितं गुहायाम्' इति कांचिदेवैकां गुहामधिकृत्यैतदुक्तम् ; न च ब्रह्मणोऽन्यो गुहायां निहितो- ऽस्ति, 'तत्सृष्ट्वा तदेवानुप्राविशत्' इति स्रष्टुरेव प्रवेशश्रव- णात् । ये तु निर्बन्धं कुर्वन्ति ते वेदान्तार्थ बाधमानाः श्रेयोद्वारं सम्यग्दर्शनमेव वाधन्ते ; कृतकमनित्यं च मोक्षं कल्पयन्ति; न्यायेन च न संगच्छन्त इति ॥ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥ 'यथाभ्युदयहेतुत्वाद्धर्मो जिज्ञास्यः, एवं निःश्रेयसहेतुत्वा- द्ब्रह्मापि जिज्ञास्यमित्युक्तम् ; ब्रह्म च 'जन्माद्यस्य यत: ' इति सू. २३.] प्रथमोऽध्यायः । लक्षितम् ; तच लक्षणं घटरुचकादीनां मृत्सुवर्णादिवत्प्र- ७. प्रकृत्यधि- कृतित्वे कुलाल सुवर्णकारादिवन्निमित्तत्वे च करणम् । समानमित्यतो भवति विमर्शः किमा- त्मकं पुनर्ब्रह्मणः कारणत्वं स्यादिति । तत्र निमित्तकारण- मेव तावत्केवलं स्यादिति प्रतिभाति; कस्मात् ? ईक्षापूर्व- ककर्तृत्वश्रवणात् — ईक्षापूर्वकं हि ब्रह्मण: कर्तृत्वमवगम्यते- ' स ईक्षांचक्रे ' ' स प्राणमसृजत' इत्यादिश्रुतिभ्यः ; ईक्षा- पूर्वकं च कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु दृष्टम; अनेककारकपूर्विका च क्रियाफलसिद्धिलोंके दृष्टा; स च न्याय आदिकर्तर्यपि युक्तः संक्रमयितुम् । ईश्वरत्वप्रसिद्धेश्व- ईश्व- राणां हि राजवैवस्वतादीनां निमित्तकारणत्वमेव केवलं प्रतीयते ; तद्वत्परमेश्वरस्यापि निमित्तकारणत्वमेव युक्तं प्रतिपत्तुम् । कार्यं चेदं जगत्सावयवमचेतनमशुद्धं च दृश्यते, कारणेनापि तस्य तादृशेनैव भवितव्यम्, कार्यकारणयोः सा- रूप्यदर्शनात् ; ब्रह्म चानेवंलक्षणमवगम्यते— 'निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्' इत्यादिश्रुतिभ्यः ; पारिशेष्याद्ब्रह्मणोऽन्यदुपादानकारणमशुद्धयादिगुणकं स्मृति- प्रसिद्धमभ्युपगन्तव्यम्, ब्रह्मकारणत्वश्रुतेर्निमित्तत्वमात्रे पर्य- वसानादित्येवं प्राप्ते— - सूत्रभाष्ये [पा. ४. ब्रूमः — प्रकृतिश्चोपादानकारणं च ब्रह्माभ्युपगन्तव्यम्, निमित्तकारणं च ; न केवलं निमित्तकारणमेव; कस्मात् ? प्रतिज्ञादृष्टान्तानुपरोधात् । एवं हि प्रतिज्ञादृष्टान्तौ श्रोती नोपुरुध्येते । प्रतिज्ञा तावत् -- 'उत तमादेशमप्राक्ष्यो येना- श्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्' इति; तत्र चैकेन विज्ञातेन सर्वमन्यदविज्ञातमपि विज्ञातं भवतीति प्रतीयते ; तञ्च्चोपादानकारणविज्ञाने सर्वविज्ञानं संभवति, उपादानकारणाव्यतिरेकात्कार्यस्य; निमित्तकारणाव्यतिरेकस्तु कार्यस्य नास्ति, लोके तक्ष्णः प्रासादव्यतिरेकदर्शनात् । दृष्टान्तोऽपि यथा सोम्यैकेन मृत्पिण्डेन सर्वे मृन्मयं वि- ' ज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ' इत्युपादानकारणगोचर एवाम्नायते; तथा 'एकेन लोहमणि- ना सर्वे लोहमयं विज्ञातं स्यात् ' ' एकेन नखनिकृन्तनेन सर्वे कार्ष्णायसं विज्ञातं स्यात्' इति च । तथान्यत्रापि ' कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति' इति प्रतिज्ञा; 'यथा पृथिव्यामोषधयः संभवन्ति' इति दृष्टा- न्तः । तथा 'आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वे विदितम्' इति प्रतिज्ञा ; ' स यथा दुन्दुभे- ईन्यमानस्य न बाह्याञ्शब्दाशक्नुयाग्रहणाय दुन्दुभेस्तु सू २४.] प्रथमोऽध्यायः । ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः' इति दृष्टान्तः । एवं यथासंभवं प्रतिवेदान्तं प्रतिज्ञादृष्टान्तौ प्रकृतित्वसाधनौ प्रत्येतव्यौ । यत इतीयमपि पञ्चमी - 'यतो वा इमानि भू- तानि जायन्ते' इत्यत्र 'जनिकर्तुः प्रकृति:' इति विशेषस्मर- णात्प्रकृतिलक्षण एवापादाने द्रष्टव्या । निमित्तत्वं त्वधिष्ठात्र- न्तराभावादधिगन्तव्यम् ; यथा हि लोके मृत्सुवर्णादिकमुपा- दानकारणं कुलालसुवर्णकारादीनधिष्ठातृनपेक्ष्य प्रवर्तते, नैवं ब्रह्मण उपादानकारणस्य सतोऽन्योऽधिष्ठातापेक्ष्योऽस्ति, प्रा- गुत्पत्तेः 'एकमेवाद्वितीयम्' इत्यवधारणात्; अधिष्ठात्रन्तरा- भावोऽपि प्रतिज्ञादृष्टान्तानुपरोधादेवोदितो वेदितव्यः- अधिष्ठातरि ह्युपादानादन्यस्मिन्नभ्युपगम्यमाने पुनरप्येक- विज्ञानेन सर्वविज्ञानस्यासंभवात्प्रतिज्ञादृष्टान्तोपरोध एव स्यात् । तस्मादधिष्ठात्रन्तराभावादात्मनः कर्तृत्वमुपादाना- न्तराभावाञ्च प्रकृतित्वम् ॥ कुतश्वात्मन: कर्तृत्वप्रकृतित्वे ?- - अभिध्योपदेशाच्च ॥ २४ ॥ अभिध्योपदेशश्चात्मनः कर्तृत्वप्रकृतित्वे गमयति 'सोऽका- मयत बहु स्यां प्रजायेय' इति, ' तदैक्षत बहु स्यां प्रजायेय' सूत्रभाष्ये [पा. ४. इति च । तत्राभिध्यानपूर्विकायाः स्वातन्त्र्यप्रवृत्तेः कर्तेति गम्यते । बहु स्यामिति प्रत्यगात्मविषयत्वाद्बहुभवनाभिध्या- नस्य प्रकृतिरित्यपि गम्यते ॥ साक्षाचोभयाम्नानात् ॥ २५ ॥ " प्रकृतित्वस्यायमभ्युञ्चयः । इतश्च प्रकृतिर्ब्रह्म, यत्कारणं साक्षाद्रह्मैव कारणमुपादाय उभौ प्रभवप्रलयावान्नायेते- 'सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते । आकाशं प्रत्यस्तं यन्ति' इति । यद्धि यस्मात्प्रभवति यस्मिं- श्व प्रलीयते तत्तस्योपादानं प्रसिद्धम्, यथा व्रीहियवादीनां पृथिवी । 'साक्षात्' इति च - उपादानान्तरानुपादानं सूचयति ' आकाशादेव' इति । प्रत्यस्तमयश्च नोपादानाद- न्यत्र कार्यस्य दृष्टः ॥ आत्मकृतेः परिणामात् ॥ २६ ॥ - इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मप्रक्रियायाम् ' तदात्मानं स्वयमकुरुत' इत्यात्मनः कर्मत्वं कर्तृत्वं च दर्शयति- आत्मानमिति कर्मत्वम्, स्वयमकुरुतेति कर्तृत्वम् ; कथं पुनः पूर्वसिद्धस्य सत: कर्तृत्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं सू. २७.] प्रथमोऽध्यायः । - संपादयितुम ! परिणामादिति ब्रूमः — पूर्वसिद्धोऽपि हि सन्नात्मा विशेषेण विकारात्मना परिणमयामासात्मानमिति । विकारात्मना च परिणामो मृदाद्यासु प्रकृतिषूपलब्धः; स्व- यमिति च विशेषणान्निमित्तान्तरानपेक्षत्वमपि प्रतीयते ; ' परिणामात्' इति वा पृथक्सूत्रम् । तस्यैषोऽर्थः — इतश्च प्रकृ- तिर्ब्रह्म, यत्कारणं ब्रह्मण एव विकारात्मना च परिणाम: सा- मानाधिकरण्येनाम्नायते 'सञ्च त्यचाभवन्निरुक्तं चानिरुक्तं च' इत्यादिनेति ॥ योनिश्च हि गीयते ॥ २७ ॥ इतञ्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्म योनिरित्यपि पठ्यते बे- दान्तेषु -' कर्तारमीशं पुरुषं ब्रह्मयोनिम' इति यद्भूतयोनि परिपश्यन्ति धीराः' इति च । योनिशब्दश्व प्रकृतिवेचनं- समधिगतो लोके - 'पृथिवी योनिरोषधिवनस्पतीनाम् इतिं । स्त्रीयोनेरप्यस्त्येवावयवद्वारेण गर्भे प्रत्युपादानकारणत्वम् । क- चित्स्थानवचनोऽपि योनिशब्दो दृष्टः 'योनिष्ट. इन्द्र. निषदे . अकारि' इति । वाक्यशेषात्त्वत्व प्रकृतिवचनता परिगृह्यते- 'यथोर्णनाभिः सृजते गृह्णते च' इत्येवंजातीयकात् । तदेवं प्रकृतित्वं ब्रह्मण: प्रसिद्धम् । यत्पुनरिदमुक्तम, ईशापूर्वकं 1 S. W. I. 17a सूत्रभाष्ये [पा. ४ कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु लोके दृष्टम्, नोपादाने- ष्वित्यादि, तत्प्रत्युच्यते — न लोकवदिह भवितव्यम् ; न ह्ययमनुमानगम्योऽर्थः; शब्दगम्यत्वात्त्वस्यार्थस्य यथाशब्दमि- ह भवितव्यम् ; शब्दश्चेनितुरीश्वरस्य प्रकृतित्वं प्रतिपादयतीत्य- वोचाम । पुनश्चैतत्म विस्तरेण प्रतिवक्ष्यामः ॥ एतेन सर्वे व्याख्याता व्या- ख्याताः ॥ २८ ॥ - 'ईश्न तेर्नाशब्दम्' इत्यारभ्य प्रधानकारणवाद: सूत्रैरेव पुनः पुनराशङ्कध निराकृतः तस्य हि पक्षस्योपोद्बलकानि ८. सर्वव्याख्याना कानिचिल्लिङ्गाभासानि वेदान्तेष्वापातेन म- धिकरणम् । न्दमतीन्प्रति भांन्तीति स च कार्यकारणा- ; नन्यत्वाभ्युपगमात्प्रत्यासन्नो वेदान्तवादस्य देवलप्रभृतिभिश्च कैश्चिद्धर्मसूत्रकारैः स्वप्रन्थेष्वाश्रितः, तेन तत्प्रतिषेधे एव यत्नो- sata कृतः, नाण्वादिकारणवादप्रतिषेधे; तेऽपि तु ब्रह्म- कारणवादपक्षस्य प्रतिपक्षत्वात्प्रतिषेद्धव्याः ; तेषामप्युपोद्ध- लकं वैदिकं किंचिल्लिङ्गमापातेन मन्दमतीन्प्रति भायादिति- अतः प्रधानमल्ल निबर्हणन्यायेनातिदिशति - एतेन प्रधानका- रणवादप्रतिषेधन्यायकलापेन सर्वेऽण्वादिकारणवादा अपि सू. २८.] प्रथमोऽध्यायः । प्रतिषिद्धतया व्याख्याता वेदितव्याः, तेषामपि प्रधानवदश- ब्दत्वाच्छब्दविरोधित्वाच्चेति । व्याख्याता व्याख्याता इति पदाभ्यासोऽध्यायपरिसमाप्तिं द्योतयति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द- भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये प्रथमोऽध्यायः ॥ MEMORIAL EDITION OF THE WORKS OF SRI SANKARACHARYA.