<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<pb n="2" />
<pb n="3" />
<p>S
श्री १०८ ईश्वर
पुस्तकालय,
તુમ મચ
11.
A
MEMORIAL
EDITION
OF THE WORKS OF
SRI SANKARACHARYA.</p>
<pb n="4" />
<pb n="5" />
<p>ग
श्री १०८
ईश्वर मठ
पुस्तकालय,
सुमुनु भन
ok
सः काशी
THE WORKS
OF
Sri Sankaracharya
SRI-
VANI VILAS
-EDITION.</p>
<pb n="6" />
<pb n="7" />
<p>BI
THE WORKS OF
SRI SANKARACHARYA
VOLUME
12
JAAAAAAAAAAAAAAAAA
SRI VANI VILAS PRESS
SRIRANGAM</p>
<pb n="8" />
<pb n="9" />
<p>TO
HIS HOLINESS SRI JAGADGURU
SRI SACHCHIDANANDA SIVABHINAVA
NRISIMHA BHARATI SWAMI
WHO ADORNS THE THRONE OF THE SRINGERI MUTT
AS THE WORTHY REPRESENTATIVE OF THE
GREAT SANKARACHARYA
AND
THAN WHOM IT IS IMPOSSIBLE
TO COME ACROSS A HOLIER PERSONAGE,
A TRUER MAHATMA, A NOBLER SAINT
AND A MORE RIGOROUS ASCETIC,
THIS EDITION IS MOST RESPECTFULLY INSCRIBED
AS A TOKEN OF UNBOUNDED ADMIRATION
BY THE HUMBLEST OF ALL HIS DISCIPLES
T. K. BALASUBRAHMANYAM.</p>
<pb n="10" />
<pb n="11" />
<lg>
  <l>नानाजन्मसु संचितेन तपसा पूतेन चित्तात्मना</l>
  <l>मित्रेण प्रतिबांधितेन कुतुकात्सर्वाः कृतीः शांकरीः ।</l>
  <l>संमुद्य प्रथमं जगद्गुरुपदे भक्त्या मयाद्यार्पिताः</l>
  <l>स्वीकृत्योपहृतं करोतु गुरुराड् धन्यं तथेमं जनम् ॥</l>
</lg>
<lg>
  <l>श्रीमच्छंकरदेशि केन्द्र रचितान्सर्वान्प्रबन्धान्मुदा</l>
  <l>तत्प्रीत्यै परिशोध्य पुस्तकचयैः संमुद्रय साकं बुधैः ।</l>
  <l>तच्छात्रप्रवरालिमध्यविलसच्छ्री देशिकेन्द्रेषु ता-</l>
  <l>न्कृत्वाद्योपहृतिं सभक्तिविनयं नूनं कृतार्थोऽस्म्यहम् ॥</l>
</lg>
<lg>
  <l>सौम्याद माघार्जुनपक्ष राजत्सूर्याङ्कतिथ्याश्रितसोमवारे ।</l>
  <l>श्रीशंकरार्यप्रतिमाप्रतिष्ठाकाले मयैवोपहृतिर्व्यधायि ॥</l>
</lg>
<lg>
  <l>श्रीशंकरकृतिमाला गुरुवरतुष्ट्यै समर्पिता मोदात् ।</l>
  <l>बालादिपदभाजा सुब्रह्मण्येन भक्तिनम्रेण ॥ ४ ॥</l>
</lg>
<pb n="12" />
<pb n="13" />
<p>CONTENTS.
THE BHAGAVAD-GITA-BILASHYA.
Chapter 10.
Chapter 11.
Chapter 12.
Chapter 13.
Chapter 14.
•
Chapter 15.
Chapter 16.
Chapter 17.
Chapter 18.
PAGE.
277
299
337
"
355
•
409
429
•
449
467
485</p>
<pb n="14" />
<pb n="15" />
<p>॥
विषयाः
श्रीमद्भगवद्गीताभाष्यम्
अध्याय: १०.
अध्यायः ११.
पृष्ठम्
...</p>
<p>*</p>
<p>अध्याय: १२.
अध्याय: १३.
...</p>
<p>अध्यायः १४.</p>
<p>अध्यायः १५.
...</p>
<p>अध्याय: १६.
अध्याय: १७.
अध्याय: १८.
...</p>
<p>...</p>
<p>:
...</p>
<pb n="16" />
<pb n="17" />
<p>THE
Bhagavad-Gita
Bhashya
VOLUME
2</p>
<pb n="18" />
<pb n="19" />
<p>श्री
भगवद्गीताभाष्यम्
श्रीमच्छंकरभगवत्पूज्यपादैः
विरचितम् ।
द्वितीयो भागः</p>
<pb n="20" />
<pb n="21" />
<p>:
श्री १०८ ईश्वर
"""
હું છુ
पुस्तकालय,
सपन
श्रीमच्छंकरभगवत्पादविरचितम्
श्रीमद्भगवद्गीताभाष्यम्
दशमोऽध्यायः
S. B. II. 1
اخرا.</p>
<pb n="22" />
<pb n="23" />
<p>श्री १०८ ईश्वर
पुस्तकालय,
ठ
स
दशमोऽध्यायः
श्रीभगवानुवाच-
तमे अध्याये भगवतस्तत्त्वं विभूत-
यश्च प्रकाशिताः, नवमे च । अथ
इदानीं येषु येषु भावेषु चिन्त्यो भग-
वान्, ते ते भावा वक्तव्याः, तत्त्वं
च भगवतो वक्तव्यम् उक्तमपि, दु-
विज्ञेयत्वात् इत्यतः श्रीभगवानुवाच-
."</p>
<lg>
  <l>भूय एव महाबाहो शृणु मे परमं वचः।</l>
  <l>यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥</l>
</lg>
<p>भूयः एव भूयः पुनः हे महाबाहो शृणु मे मदीयं परमं
प्रकृष्टं निरतिशयवस्तुनः प्रकाशकं वचः वाक्यं यत् परमं
ते तुभ्यं प्रीयमाणाय -- मद्वचनात् प्रीयसे त्वम् अतीव
अमृतमिव पिबन् तत:- वक्ष्यामि हितकाम्यया हिते-
च्छया ॥</p>
<pb n="24" />
<p>श्रीमद्भगवद्गीताभाष्ये
किमर्थम् अहं वक्ष्यामि इत्यत आह-.</p>
<lg>
  <l>न मे विदुः सुरगणाः प्रभवं न महर्षयः ।</l>
  <l>अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ २ ॥</l>
</lg>
<p>न मे विदुः न जानन्ति सुरगणाः ब्रह्मादयः । किं ते
न विदुः ? मम प्रभवं प्रभावं प्रभुशक्त्यतिशयम्, अथवा
प्रभवं प्रभवनम् उत्पत्तिम् । नापि महर्षयः भृग्वादयः
विदुः । कस्मात् ते न विदुरित्युच्यते-- अहम् आदिः
कारणं हि यस्मात् देवानां महर्षीणां च सर्वशः सर्वप्रकारैः ॥
किंच——</p>
<lg>
  <l>यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।</l>
  <l>असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥</l>
</lg>
<p>यः माम् अजम् अनादिं च, यस्मात् अहम् आदिः देवानां
महर्षीणां च न मम अन्य: आदिः विद्यते; अतः अहम्
अजः अनादिश्च; अनादित्वम् अजत्वे हेतु:, तं माम् अजम्
अनादिं च यः वेत्ति विजानाति लोकमहेश्वरं लोकानां
महान्तम् ईश्वरं तुरीयम् अज्ञानतत्कार्यवर्जितम् असंमूढः
संमोहवर्जितः सः मर्त्येषु मनुष्येषु, सर्वपापैः सर्वैः पापैः
मतिपूर्वामतिपूर्वकृतैः प्रमुच्यते प्रमोक्ष्यते ॥</p>
<pb n="25" />
<p>दशमोऽध्यायः ।
इतश्चाहं महेश्वरो लोकानाम् —</p>
<p>वुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥
बुद्धिः अन्तःकरणस्य सूक्ष्माद्यर्थावबोधनसामर्थ्यम्, तद्वन्तं
बुद्धिमानिति हि वदन्ति । ज्ञानम् आत्मादिपदार्थानामव-
वोधः । असंमोहः प्रत्युत्पन्नेषु बोद्धव्येषु विवेकपूर्विका
प्रवृत्तिः । क्षमा आक्रुष्टस्य ताडितस्य वा अविकृतचित्तता ।
सत्यं यथादृष्टस्य यथाश्रुतस्य च आत्मानुभवस्य परबुद्धिसं-
क्रान्तये तथैव उच्चार्यमाणा वाक् सत्यम् उच्यते । दमः
वाह्येन्द्रियोपशमः । शमः अन्तःकरणस्य उपशमः । सुखम्
आह्लादः । दुःखं संतापः भवः उद्भवः अभाव: तद्वि-
पर्ययः । भयं च त्रासः, अभयमेव च तद्विपरीतम् ॥</p>
<lg>
  <l>अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।</l>
  <l>भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥</l>
</lg>
<p>अहिंसा अपीडा प्राणिनाम् । समता समचित्तता । तुष्टिः
संतोष: पर्याप्त बुद्धिर्लाभेषु । तपः इन्द्रियसंयमपूर्वकं शरी-
रपीडनम् । दानं यथाशक्ति संविभागः । यशः धर्मनिमित्ता
कीर्तिः । अयशस्तु अधर्मनिमित्ता अकीर्तिः । भवन्ति भावाः</p>
<pb n="26" />
<p>श्रीमद्भगवद्गीताभाष्ये
यथोक्ताः बुद्धयादयः भूतानां प्राणिनां मत्तः एव ईश्वरात्
पृथग्विधाः नानाविधाः स्वकर्मानुरूपेण ॥
किंच——</p>
<lg>
  <l>महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।</l>
  <l>मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥</l>
</lg>
<p>महर्षयः सप्त भृग्वादयः पूर्वे अतीतकालसंबन्धिनः,
चत्वारः मनवः तथा सावर्णा इति प्रसिद्धाः, ते च मद्भावाः
मद्गतभावनाः वैष्णवेन सामर्थ्येन उपेताः, मानसाः मनसैव
उत्पादिताः मया जाता: उत्पन्नाः, येषां मनूनां महर्षीणां
च सृष्टिः लोके इमा: स्थावरजङ्गमलक्षणाः प्रजाः ॥</p>
<lg>
  <l>एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।</l>
  <l>सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥</l>
</lg>
<p>एतां यथोक्तां विभूतिं विस्तारं योगं च युक्तिं च आ-
त्मनः घटनम्, अथवा योगैश्वर्यसामर्थ्यं सर्वज्ञत्वं योगजं
योगः उच्यते, मम मदीयं योगं यः वेत्ति तत्त्वतः तत्त्वेन
यथावदित्येतत्, सः अविकम्पेन अप्रचलितेन योगेन सम्य-
ग्दर्शनस्थैर्यलक्षणेन युज्यते संबध्यते । न अत्र संशयः न
अस्मिन् अर्थे संशयः अस्ति ।</p>
<pb n="27" />
<p>दशमोऽध्यायः ।
कीदृशेन अविकम्पेन योगेन युज्यते इत्युच्यते—</p>
<lg>
  <l>अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।</l>
  <l>इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥</l>
</lg>
<p>अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभवः उत्प-
त्ति: । मत्तः एव स्थितिनाशक्रियाफलोपभोगलक्षणं विक्रिया-
रूपं सर्वं जगत् प्रवर्तते । इति एवं मत्वा भजन्ते सेवन्ते
मां बुधाः अवगतपरमार्थतत्त्वाः, भावसमन्विताः भावः
भावना परमार्थतत्त्वाभिनिवेश: तेन समन्विताः संयुक्ताः
इत्यर्थः ॥
किंच—</p>
<lg>
  <l>मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।</l>
  <l>कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥</l>
</lg>
<p>मच्चित्ताः, मयि चित्तं येषां ते मञ्चित्ताः, मद्गतप्राणाः
मां गताः प्राप्ताः चक्षुरादयः प्राणाः येषां ते मद्गतप्राणाः,
मयि उपसंहृतकरणाः इत्यर्थः । अथवा, मद्गतप्राणाः मद्गत-
जीवनाः इत्येतत् । बोधयन्तः अवगमयन्तः परस्परम् अन्यो-
न्यम्, कथयन्तश्च ज्ञानबलवीर्यादिधर्मैः विशिष्टं माम्,
तुष्यन्ति च परितोषम् उपयान्ति च रमन्ति च रतिं च</p>
<pb n="28" />
<p>"
श्रीमद्भगवद्गीताभाष्ये
प्राप्नुवन्ति प्रियसंगत्येव ॥
ये यथोक्तैः प्रकारैः भजन्ते मां भक्ताः सन्तः-</p>
<lg>
  <l>तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।</l>
  <l>ददामि वुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥</l>
</lg>
<p>तेषां सततयुक्तानां नित्याभियुक्तानां निवृत्तसर्वबाद्यैष-
णानां भजतां सेवमानानाम् । किम् अर्थित्वादिना कारणेन !
नेत्याह — प्रीतिपूर्वकं प्रीतिः स्नेहः तत्पूर्वकं मां भजतामि-
त्यर्थः । ददामि प्रयच्छामि बुद्धियोगं बुद्धिः सम्यग्दर्शनं
मत्तत्त्वविषयं तेन योगः बुद्धियोगः तं बुद्धियोगम्, येन
बुद्धियोगेन सम्यग्दर्शनलक्षणेन मां परमेश्वरम् आत्मभूतम्
आत्मत्वेन उपयान्ति प्रतिपद्यन्ते । के ? ते ये मच्चित्तत्वादि-
प्रकारैः मां भजन्ते ॥
किमर्थम्, कस्य वा त्वत्प्राप्तिप्रतिबन्धहेतोः नाशकं
बुद्धियोगं तेषां त्वद्भक्तानां ददासि इत्यपेक्षायामाह —</p>
<lg>
  <l>तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।</l>
  <l>नाशयाम्यात्मभावस्था ज्ञानदीपेन भाखता ॥</l>
</lg>
<p>तेषामेव कथं नु नाम श्रेयः स्यात् इति अनुकम्पार्थं दया-</p>
<pb n="29" />
<p>दशमोऽध्यायः ।</p>
<p>हेतोः अहम् अज्ञानजम् अविवेकतः जातं मिथ्याप्रत्ययलक्षणं
मोहान्धकारं तमः नाशयामि, आत्मभावस्थ: आत्मनः भावः
अन्तःकरणाशयः तस्मिन्नेव स्थितः सन् ज्ञानदीपेन विवेक-
प्रत्ययरूपेण भक्तिप्रसादस्नेहाभिषिक्तेन मद्भावनाभिनिवेश-
वातेरितेन ब्रह्मचर्यादिसाधनसंस्कारवत्प्रज्ञावर्तिना विरक्ता-
न्तःकरणाधारेण विषयव्यावृत्तचित्तरागद्वेषाकलुषितनिवाता-
पवरकस्थेन नित्यप्रवृत्तैकाग्र्यध्यानजनितसम्यग्दर्शनभास्वता
ज्ञानदीपेनेत्यर्थः ॥
यथोक्तां भगवतः विभूतिं योगं च श्रुत्वा अर्जुन उवाच-
अर्जुन उवाच-</p>
<lg>
  <l>परं ब्रह्म परं धाम पवितं परमं भवान् ।</l>
  <l>पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥१२॥</l>
</lg>
<p>परं ब्रह्म परमात्मा परं धाम परं तेजः पवित्रं पावनं
परमं प्रकृष्टं भवान् । पुरुषं शाश्वतं नित्यं दिव्यं दिवि
भवम् आदिदेवं सर्वदेवानाम् आदौ भवम् आदिदेवम् अजं
विभुं विभवनशीलम् ॥
ईदृशम् -</p>
<lg>
  <l>आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।</l>
  <l>असितो देवलो व्यासः खयं चैव ब्रवीषि मे ॥</l>
</lg>
<pb n="30" />
<p>श्रीमद्भगवद्गीताभाष्ये
आहुः कथयन्ति त्वाम् ऋषयः वसिष्ठादयः सर्वे देव-
र्षिः नारदः तथा । असितः देवलोऽपि एवमेवाह, व्यासश्च,
स्वयं चैव त्वं च ब्रवीषि मे ॥</p>
<lg>
  <l>सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।</l>
  <l>न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥</l>
</lg>
<p>सर्वमेतत् यथोक्तम् ऋषिभिः त्वया च एतत् ऋतं सत्य-
मेव मन्ये, यत् मां प्रति वदसि भाषसे हे केशव । न हि ते
तव भगवन् व्यक्तिं प्रभवं विदुः न देवाः, न दानवाः ॥
यतः त्वं देवादीनाम् आदिः, अत:-</p>
<lg>
  <l>स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।</l>
  <l>भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥</l>
</lg>
<p>स्वयमेव आत्मना आत्मानं वेत्थ जानासि त्वं निरतिश-
यज्ञानैश्वर्यबलादिशक्तिमन्तम् ईश्वरं पुरुषोत्तम । भूतानि भाव-
यतीति भूतभावनः, हे भूतभावन । भूतेश भूतानाम् ईशि-
तः । हे देवदेव जगत्पते ॥
वक्तुमर्हस्यशेषेण
दिव्या ह्यात्मविभूतयः ।</p>
<pb n="31" />
<p>दशमोऽध्यायः ।</p>
<p>याभिर्विभूतिभिर्लोका-
निमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ।
वक्तुं कथयितुम् अर्हसि अशेषेण । दिव्याः हि आत्म-
विभूतयः । आत्मनो विभूतयो याः ताः वक्तुम् अर्हसि ।
याभिः विभूतिभिः आत्मनो माहात्म्यविस्तरैः इमान् लोकान्
त्वं व्याप्य तिष्ठसि ॥</p>
<lg>
  <l>कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।</l>
  <l>केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥</l>
</lg>
<p>कथं विद्यां विजानीयाम् अहं हे योगिन् त्वां सदा परि-
चिन्तयन् । केषु केषु च भावेषु वस्तुषु चिन्त्यः असि ध्येयः
असि भगवन् मया ॥</p>
<lg>
  <l>विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।</l>
  <l>भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥</l>
</lg>
<p>विस्तरेण आत्मनः योगं योगैश्वर्यशक्तिविशेषं विभूतिं च
विस्तरं ध्येयपदार्थानां हे जनार्दन, अर्दतेः गतिकर्मणः रूप-
म्, असुराणां देवप्रतिपक्षभूतानां जनानां नरकादिगमयितृ-
त्वात् जनार्दनः अभ्युदयनिःश्रेयसपुरुषार्थप्रयोजनं सर्वैः</p>
<pb n="32" />
<p>श्रीमद्भगवद्गीताभाष्ये
जनैः याच्यते इति वा । भूयः पूर्वम् उक्तमपि कथय; तृप्तिः
परितोष: हि यस्मात् नास्ति मे मम शृण्वतः त्वन्मुखनि:-
सृतवाक्यामृतम् ॥
श्रीभगवानुवाच -</p>
<lg>
  <l>हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।</l>
  <l>प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥</l>
</lg>
<p>हन्त इदानीं ते तव दिव्याः दिवि भवाः आत्मविभूतयः
अत्मनः मम विभूतयः याः ताः कथयिष्यामि इत्येतत् ।
प्राधान्यतः यत्र यत्र प्रधाना या या विभूतिः तां तां प्रधानां
प्राधान्यतः कथयिष्यामि अहं कुरुश्रेष्ठ । अशेषतस्तु वर्षशते-
नापि न शक्या वक्तुम्, यतः नास्ति अन्त: विस्तरस्य मे
मम विभूतीनाम् इत्यर्थः ॥
तत्र प्रथममेव तावत् शृणु-</p>
<lg>
  <l>अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।</l>
  <l>अहमादिश्च मध्यं च भूतानामन्त एव च ॥२०॥</l>
</lg>
<p>अहम् आत्मा प्रत्यगात्मा गुडाकेश, गुडाका निद्रा
तस्याः ईशः गुडाकेशः, जितनिद्रः इत्यर्थः ; घनकेश इति
वा। सर्वभूताशयस्थितः सर्वेषां भूतानाम् आशये अन्तर्हृदि</p>
<pb n="33" />
<p>दशमोऽध्यायः ।</p>
<p>स्थितः अहम् आत्मा प्रत्यगात्मा नित्यं ध्येयः । तदशक्तेन
च उत्तरेषु भावेषु चिन्त्यः अहम् ; यस्मात् 'अहम् एव
आदिः भूतानां कारणं तथा मध्यं च स्थितिः अन्तः
प्रलयश्च ॥
एवं च ध्येयोऽहम्—</p>
<lg>
  <l>आदित्यानामहं विष्णुज्योतिषां रविरंशुमान् ।</l>
  <l>मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥</l>
</lg>
<p>आदित्यानां द्वादशानां विष्णुः नाम आदित्यः अहम् ।
ज्योतिषां रविः प्रकाशयितॄणाम् अंशुमान् रश्मिमान् ।
मरीचिः नाम मरुतां मरुद्देवताभेदानाम् अस्मि । नक्षत्रा-
णाम् अहं शशी चन्द्रमाः ॥</p>
<lg>
  <l>वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।</l>
  <l>इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥</l>
</lg>
<p>वेदानां मध्ये सामवेदः अस्मि । देवानां रुद्रादित्यादीनां
वासवः इन्द्रः अस्मि । इन्द्रियाणाम् एकादशानां चक्षुरादीनां
मनश्च अस्मि संकल्पविकल्पात्मकं मनश्चास्मि । भूतानाम्
अस्मि चेतना कार्यकरणसंघाते नित्याभिव्यक्ता बुद्धिवृत्तिः
चेतना ॥</p>
<pb n="34" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् ।</l>
  <l>वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥</l>
</lg>
<p>रुद्राणाम् एकादशानां शंकरच अस्मि । वित्तेश: कुबेरः
यक्षरक्षसां यक्षाणां रक्षसां च । वसूनाम् अष्टानां पावकश्च
अस्मि अग्निः । मेरुः शिखरिणां शिखरवताम् अहम् ॥</p>
<lg>
  <l>पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।</l>
  <l>सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥</l>
</lg>
<p>पुरोधसां च राजपुरोहितानां च मुख्यं प्रधानं मां विद्धि
हे पार्थ बृहस्पतिम् । स हि इन्द्रस्येति मुख्य: स्यात् पुरोधाः ।
सेनानीनां सेनापतीनाम् अहं स्कन्दः देवसेनापतिः ।
सरसां यानि देवखातानि सरांसि तेषां सरसां सागर:
अस्मि भवामि ॥</p>
<lg>
  <l>महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।</l>
  <l>यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥</l>
</lg>
<p>महर्षीणां भृगुः अहम् । गिरां वाचां पदलक्षणानाम्
एकम् अक्षरम् ओंकारः अस्मि । यज्ञानां जपयज्ञः अस्मि,
स्थावराणां स्थितिमतां हिमालयः ॥</p>
<pb n="35" />
<p>'दशमोऽध्यायः ।</p>
<lg>
  <l>अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।</l>
  <l>गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥</l>
</lg>
<p>अश्वत्थः सर्ववृक्षाणाम्, देवर्षीणां च नारदः देवाः एव
सन्तः ऋषित्वं प्राप्ताः मन्त्रदर्शित्वात्ते देवर्षयः, तेषां नारदः
अस्मि । गन्धर्वाणां चित्ररथः नाम गन्धर्वः अस्मि । सिद्धानां
जन्मनैव धर्मज्ञानवैराग्यैश्वर्यातिशयं प्राप्तानां कपिलो मुनिः ॥</p>
<lg>
  <l>उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।</l>
  <l>ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥</l>
</lg>
<p>उच्चैःश्रवसम् अश्वानां उच्चैःश्रवाः नाम अश्वराजः तं मां
विद्धि विजानीहि अमृतोद्भवम् अमृतनिमित्तमथनोद्भवम् ।
ऐरावतम् इरावत्याः अपत्यं गजेन्द्राणां हस्तीश्वराणाम्, तम्
' मां विद्धि' इति अनुवर्तते । नराणां च मनुष्याणां नराधिपं
राजानं मां विद्धि जानीहि ॥</p>
<lg>
  <l>आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।</l>
  <l>प्रजनश्चास्मि कंदर्पः सर्पाणामस्मि वासुकिः ॥</l>
</lg>
<p>आयुधानाम् अहं वज्रं दधीच्यस्थिसंभवम् । धेनूनां दोग्ध्री-
णाम् अस्मि कामधुक्
वसिष्ठस्य सर्वकामानां दोग्ध्री, सामा-</p>
<pb n="36" />
<p>श्रीमद्भगवद्गीताभाष्ये
न्या वा कामधुक् । प्रजनः प्रजनयिता अस्मि कंदर्पः कामः
सर्पाणां सर्पभेदानाम् अस्मि वासुकिः सर्पराजः ॥</p>
<lg>
  <l>अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।</l>
  <l>पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥</l>
</lg>
<p>अनन्तश्च अस्मि नागानां नागविशेषाणां नागराजश्च
अस्मि । वरुणो यादसाम् अहम् अब्देवतानां राजा अहम् !
पितॄणाम् अर्यमा नाम पितृराजश्च अस्मि । यमः संय-
मतां संयमनं कुर्वताम् अहम् ॥</p>
<lg>
  <l>प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।</l>
  <l>मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥</l>
</lg>
<p>प्रह्लादो नाम च अस्मि दैत्यानां दितिवंश्यानाम् । कालः
कलयतां कलनं गणनं कुर्वताम् अहम् । मृगाणां च मृगेन्द्रः
सिंहो व्याघ्रो वा अहम् । वैनतेयश्च गरुत्मान् विनतासुतः
पक्षिणां पतत्रिणाम् ॥</p>
<lg>
  <l>पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।</l>
  <l>झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥</l>
</lg>
<p>पवनः वायुः पवतां पावयितॄणाम् अस्मि । रामः शस्त्रभृताम्</p>
<pb n="37" />
<p>दशमोऽध्यायः ।</p>
<p>अहं शस्त्राणां धारयितॄणां दाशरथिः रामः अहम् । झषाणां
मत्स्यादीनां मकर: नाम जातिविशेषः अहम् । स्रोतसां स्र-
वन्तीनाम् अस्मि जाह्नवी गङ्गा ॥
।</p>
<lg>
  <l>सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।</l>
  <l>अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥</l>
</lg>
<p>सर्गाणां सृष्टीनाम् आदिः अन्तश्च मध्यं चैव अहम् उत्पत्ति-
स्थितिलयाः अहम् अर्जुन । भूतानां जीवाधिष्ठितानामेव
आदि: अन्तश्च इत्याद्युक्तम् उपक्रमे, इह तु सर्वस्यैव सर्गमा-
त्रस्य इति विशेषः । अध्यात्मविद्या विद्यानां मोक्षार्थत्वात्
प्रधानमस्मि । वादः अर्थनिर्णयहेतुत्वात् प्रवदतां प्रधानम्,
अतः सः अहम् अस्मि । प्रवक्तद्वारेण वदनभेदानामेव वाद-
जल्पवितण्डानाम् इह ग्रहणं प्रवदताम् इति ॥</p>
<lg>
  <l>अक्षराणामकारोऽस्मि</l>
  <l>द्वन्द्वः सामासिकस्य च ।</l>
  <l>अहमेवाक्षयः कालो</l>
  <l>धाताहं विश्वतोमुखः ॥ ३३ ॥</l>
</lg>
<p>अक्षराणां वर्णानाम् अकारः वर्णः अस्मि । द्वन्द्वः
समासः अस्मि सामासिकस्य च समाससमूहस्य । किंच
S. B. II. 2</p>
<pb n="38" />
<p>श्रीमद्भगवद्गीताभाष्ये
अहमेव अक्षय: अक्षीण: काल: प्रसिद्धः क्षणाद्याख्यः, अथवा
परमेश्वरः कालस्यापि कालः अस्मि । धाता अहं कर्मफलस्य
विधाता सर्वजगतः विश्वतोमुखः सर्वतोमुखः ॥</p>
<lg>
  <l>मृत्युः सर्वहरश्चाह-</l>
  <l>मुद्भवश्च भविष्यताम् ।</l>
  <l>कीर्तिः श्रीर्वाक्च नारीणां</l>
  <l>स्मृतिर्मेधा धृतिः क्षमा ॥ ३४ ॥</l>
</lg>
<p>मृत्युः द्विविधः धनादिहरः प्राणहरश्च ; तत्र यः प्राणहरः,
स सर्वहर: उच्यते ; सः अहम् इत्यर्थः । अथवा, परः ईश्वरः
प्रलये सर्वहरणात् सर्वहर:, सः अहम् । उद्भवः उत्कर्षः
अभ्युदयः तत्प्राप्तिहेतुश्च अहम् । केषाम् ? भविष्यतां भावि -
कल्याणानाम्, उत्कर्षप्राप्तियोग्यानाम् इत्यर्थः । कीर्तिः श्री:
वाक् च नारीणां स्मृति: मेधा धृतिः क्षमा इत्येताः उत्तमाः
स्त्रीणाम् अहम् अस्मि, यासाम् आभासमात्र संबन्धेनापि
लोकः कृतार्थमात्मानं मन्यते ॥
बृहत्साम तथा सानां
गायत्री च्छन्दसामहम् ।</p>
<pb n="39" />
<p>दशमोऽध्यायः ।
मासानां मार्गशीर्षोऽह-
मृतूनां कुसुमाकरः ॥ ३५ ॥</p>
<p>बृहत्साम तथा साम्नां प्रधानमस्मि । गायत्री च्छन्द-
साम् अहं गायत्र्यादिच्छन्दोविशिष्टानामृचां गायत्री ऋक्
अहम् अस्मि इत्यर्थः । मासानां मार्गशीर्षः अहम्, ऋतूनां
कुसुमाकरः वसन्तः ॥</p>
<lg>
  <l>द्यूतं छलयतामस्मि</l>
  <l>तेजस्तेजस्विनामहम् ।</l>
  <l>जयोऽस्मि व्यवसायोऽस्मि</l>
  <l>सत्त्वं सत्त्ववतामहम् ॥ ३६ ॥</l>
</lg>
<p>द्यूतम् अक्षदेवनादिलक्षणं छलयतां छलस्य कर्तॄणाम् अ-
स्मि । तेजस्विनां तेजः अहम् । जयः अस्मि जेतॄणाम्, व्य-
वसायः अस्मि व्यवसायिनाम्, सत्त्वं सत्त्ववतां सात्त्विका-
नाम् अहम् ॥</p>
<lg>
  <l>वृष्णीनां वासुदेवोऽस्मि</l>
  <l>पाण्डवानां धनंजयः ।</l>
  <l>मुनीनामप्यहं व्यासः</l>
  <l>कवीनामुशना कविः ॥ ३७ ॥</l>
</lg>
<pb n="40" />
<p>श्रीमद्भगवद्गीताभाष्ये
वृष्णीनां यादवानां वासुदेवः अस्मि अयमेव अहं त्व-
त्सखः । पाण्डवानां धनंजयः त्वमेव । मुनीनां मननशी-
लानां सर्वपदार्थज्ञानिनाम् अपि अहं व्यासः, कवीनां क्रान्त-
दर्शिनाम् उशना कविः अस्मि ॥</p>
<lg>
  <l>दण्डो दमयतामस्मि</l>
  <l>नीतिरस्मि जिगीषताम् ।</l>
  <l>मौनं चैवास्मि गुह्यानां</l>
  <l>ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥</l>
</lg>
<p>दण्डः दमयतां दमयितॄणाम् अस्मि अदान्तानां दमन-
कारणम् । नीतिः अस्मि जिगीषतां जेतुमिच्छताम् । मौनं
'चैव अस्मि गुह्यानां गोप्यानाम् । ज्ञानं ज्ञानवताम् अहम् ॥</p>
<lg>
  <l>यच्चापि सर्वभूतानां</l>
  <l>बीजं तदहमर्जुन ।</l>
  <l>न तदस्ति विना यत्स्या-</l>
  <l>न्मया भूतं चराचरम् ॥ ३९ ॥</l>
</lg>
<p>यश्चापि सर्वभूतानां बीजं प्ररोहकारणम्, तत् अहम्
अर्जुन । प्रकरणोपसंहारार्थं विभूतिसंक्षेपमाह -- न तत्</p>
<pb n="41" />
<p>दशमोऽध्यायः ।</p>
<p>अस्ति भूतं चराचरं चरम् अचरं वा, मया विना यत् स्यात्
भवेत् । मया अपकृष्टं परित्यक्तं निरात्मकं शून्यं हि तत्
स्यात् । अतः मदात्मकं सर्वमित्यर्थः ॥</p>
<lg>
  <l>नान्तोऽस्ति मम दिव्यानां</l>
  <l>विभूतीनां परंतप ।</l>
  <l>एष तूद्देशतः प्रोक्तो</l>
  <l>विभूतेर्विस्तरो मया ॥ ४० ॥</l>
</lg>
<p>न अन्तः अस्ति मम दिव्यानां विभूतीनां विस्तराणां
परंतप । न हि ईश्वरस्य सर्वात्मनः दिव्यानां विभूतीनाम् इयत्ता
शक्या वक्तुं ज्ञातुं वा केनचित् । एष तु उद्देशतः एकदेशेन
प्रोक्तः विभूतेः विस्तरः मया ॥</p>
<lg>
  <l>यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।</l>
  <l>तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम् ॥४१॥</l>
</lg>
<p>यद्यत् लोके विभूतिमत् विभूतियुक्तं सत्त्वं वस्तु श्रीमत्
ऊर्जितमेव वा श्रीलक्ष्मी: तया सहितम् उत्साहोपेतं वा,
तत्तदेव अवगच्छ त्वं जानीहि मम ईश्वरस्य तेजोंशसंभवं
तेजस: अंश: एकदेश: संभवः यस्य तत् तेजोंशसंभवमिति
अवगच्छ त्वम् ॥</p>
<pb n="42" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>अथवा बहुनैतेन</l>
  <l>किं ज्ञातेन तवार्जुन ।</l>
  <l>विष्टभ्याहमिदं कृत्स्न-</l>
  <l>मेकांशेन स्थितो जगत् ॥ ४२ ॥</l>
</lg>
<p>इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम
दशमोऽध्यायः ॥
अथवा बहुना एतेन एवमादिना किं ज्ञातेन तव अर्जुन
स्यात् सावशेषेण । अशेषत: त्वम् उच्यमानम् अर्थ शृणु-
विष्टभ्य विशेषतः स्तम्भनं दृढं कृत्वा इदं कृत्स्नं जगत्
एकांशेन एकावयवेन एकपादेन, सर्वभूतस्वरूपेण इत्येतत् ;
तथा च मन्त्रवर्ण:-- ' पादोऽस्य विश्वा भूतानि' इति ;
स्थित: अहम् इति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
दशमोऽध्यायः ॥</p>
<pb n="43" />
<p>श्रीमच्छंकरभगवत्पादविरचितम्
श्रीमद्भगवद्गीताभाष्यम्
एकादशोऽध्यायः</p>
<pb n="44" />
<pb n="45" />
<p>भ
एकादशोऽध्यायः ॥
गवतो विभूतय उक्ताः । तत्र च ' विष्ट -
भ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् '
इति भगवता अभिहितं श्रुत्वा, यत् जगदा-
त्मरूपम् आद्यमैश्वरं तत् साक्षात्कर्तुमि
च्छन्, अर्जुन उवाच—
अर्जुन उवाच-</p>
<lg>
  <l>मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।</l>
  <l>यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १ ॥</l>
</lg>
<p>मदनुग्रहाय ममानुग्रहार्थे परमं निरतिशयं गुह्यं गोप्यम्
अध्यात्मसंज्ञितम् आत्मानात्मविवेकविषयं यत् त्वया उक्तं
वच: वाक्यं तेन ते वचसा मोहः अयं विगत: मम, अवि-
वेकबुद्धि: अपगता इत्यर्थः ॥ .
किंच—</p>
<lg>
  <l>भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।</l>
  <l>त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥</l>
</lg>
<pb n="46" />
<p>श्रीमद्भगवद्गीताभाष्ये
भवः उत्पत्तिः अप्यय: प्रलयः तौ भवाप्ययौ हि भूतानां
श्रुतौ विस्तरशः मया, न संक्षेपतः, त्वत्तः त्वत्सकाशात्,
कमलपत्राक्ष कमलस्य पत्रं कमलपत्रं तद्वत् अक्षिणी यस्य
तव स त्वं कमलपत्राक्षः हे कमलपत्राक्ष, महात्मनः भावः
माहात्म्यमपि च अव्ययम् अक्षयम् ' श्रुतम्' इति अनु-
वर्तते ॥</p>
<lg>
  <l>एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।</l>
  <l>द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ३ ॥</l>
</lg>
<p>एवमेतत् नान्यथा यथा येन प्रकारेण आत्थ कथयसि
त्वम् आत्मानं परमेश्वर । तथापि द्रष्टुमिच्छामि ते तव
ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः संपन्नम् ऐश्वरं वैष्णवं रूपं
पुरुषोत्तम ॥</p>
<lg>
  <l>मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।</l>
  <l>योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥४॥</l>
</lg>
<p>मन्यसे चिन्तयसि यदि मया अर्जुनेन तत् शक्यं द्रष्टुम्
इति प्रभो, स्वामिन्, योगेश्वर योगिनो योगा:, तेषां ईश्वरः
योगेश्वरः, हे योगेश्वर । यस्मात् अहम् अतीव अर्थी द्रष्टुम्,
ततः तस्मात् मे मदर्थं दर्शय त्वम् आत्मानम् अव्ययम् ॥</p>
<pb n="47" />
<p>एकादशोऽध्यायः ।</p>
<p>एवं चोदितः अर्जुनेन भगवान् उवाच-
श्रीभगवानुवाच—</p>
<lg>
  <l>पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।</l>
  <l>नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥</l>
</lg>
<p>पश्य मे पार्थ, रूपाणि शतशः अथ सहस्रशः, अनेक-
शः इत्यर्थः । तानि च नानाविधानि अनेकप्रकाराणि दिवि
भवानि दिव्यानि अप्राकृतानि नानावर्णाकृतीनि च नाना
विलक्षणा: नीलपीतादिप्रकाराः वर्णाः तथा आकृतयश्च अव-
यवसंस्थानविशेषाः येषां रूपाणां तानि नानावर्णाकृतीनि
च ॥</p>
<lg>
  <l>पश्यादित्यान्वसून्रुद्रा-</l>
  <l>नश्विनौ मरुतस्तथा ।</l>
  <l>बहून्यदृष्टपूर्वाणि</l>
  <l>पश्याश्चर्याणि भारत ॥ ६ ॥</l>
</lg>
<p>पश्य आदित्यान् द्वादश, वसून् अष्टौ, रुद्रान् एकादश,
अश्विनौ द्वौ मरुतः सप्त सप्त गणाः ये तान् । तथा च
बहूनि अन्यान्यपि अदृष्टपूर्वाणि मनुष्यलोके त्वया, त्वत्तः
अन्येन वा केनचित्, पश्य आश्चर्याणि अद्भुतानि भारत ।</p>
<pb n="48" />
<p>श्रीमद्भगवद्गीताभाष्ये
न केवलम् एतावदेव -</p>
<lg>
  <l>इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।</l>
  <l>मम देहे गुडाकेश यच्चान्यद्रष्टुमिच्छसि ॥ ७ ॥</l>
</lg>
<p>इह एकस्थम् एकस्मिन्नेव स्थितं जगत् कृत्स्नं समस्तं पश्य
अद्य इदानीं सचराचरं सह चरेण अचरेण च वर्तते मम
देहे गुडाकेश । यच्च अन्यत् जयपराजयादि, यत् शङ्कसे,
'यद्वा जयेम यदि वा नो जयेयुः' इति यत् अवोचः, तद-
पि द्रष्टुं यदि इच्छसि ॥
किं तु —</p>
<lg>
  <l>न तु मां शक्यसे द्रष्टु-</l>
  <l>मनेनैव स्वचक्षुषा ।</l>
  <l>दिव्यं ददामि ते चक्षुः</l>
  <l>पश्य मे योगमैश्वरम् ॥ ८ ॥</l>
</lg>
<p>न तु मां विश्वरूपधरं शक्यसे द्रष्टुम् अनेनैव प्राकृतेन स्व-
चक्षुषा स्वकीयेन चक्षुषा । येन तु शक्यसे द्रष्टुं दिव्येन, तत्
।
दिव्यं ददामि ते तुभ्यं चक्षुः । तेन पश्य मे योगम् ऐश्वरम्
ईश्वरस्य मम ऐश्वरं योगं योगशक्त्यतिशयम् इत्यर्थः ॥</p>
<pb n="49" />
<p>एकादशोऽध्यायः ।</p>
<p>संजय उवाच-</p>
<lg>
  <l>एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।</l>
  <l>दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥</l>
</lg>
<p>एवं यथोक्तप्रकारेण उक्त्वा ततः अनन्तरं राजन् धृत-
राष्ट्र, महायोगेश्वरः महांश्च असौ योगेश्वरश्व हरि: नारा-
यणः दर्शयामास दर्शितवान् पार्थाय पृथासुताय परमं रूपं
विश्वरूपम् ऐश्वरम् ।</p>
<lg>
  <l>अनेकवक्रनयनमनेकाद्भुतदर्शनम् ।</l>
  <l>अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥१०॥</l>
</lg>
<p>अनेकवक्त्रनयनम् अनेकानि वक्त्राणि नयनानि च य-
स्मिन् रूपे तत् अनेकवक्त्रनयनम्, अनेकाद्भुतदर्शनम् अने-
कानि अद्भुतानि विस्मापकानि दर्शनानि यस्मिन् रूपे तत्
अनेकाद्भुतदर्शनं रूपम्, तथा अनेकदिव्याभरणम् अनेकानि
दिव्यानि आभरणानि यस्मिन् तत् अनेकदिव्याभरणम्,
तथा दिव्यानेकोद्यतायुधं दिव्यानि अनेकानि अस्यादीनि
उद्यतानि आयुधानि यस्मिन् तत् दिव्यानेकोद्यतायुधम्,
' दर्शयामास' इति पूर्वेण संबन्धः ॥
किंच—</p>
<pb n="50" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।</l>
  <l>सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥</l>
</lg>
<p>दिव्यमाल्याम्बरधरं दिव्यानि माल्यानि पुष्पाणि अम्ब-
राणि वस्त्राणि च प्रियन्ते येन ईश्वरेण तं दिव्यमाल्याम्बर-
धरम्, दिव्यगन्धानुलेपनं दिव्यं गन्धानुलेपनं यस्य तं दि-
व्यगन्धानुलेपनम्, सर्वाश्चर्यमयं सर्वाश्चर्यप्रायं देवम् अनन्तं
न अस्य अन्तः अस्ति इति अनन्तः तम्, विश्वतोमुखं सर्वतो -
मुखं सर्वभूतात्मभूतत्वात् तं दर्शयामास । 'अर्जुनः ददर्श'
इति वा अध्याह्रियते ॥
या पुनर्भगवतः विश्वरूपस्य भाः, तस्या उपमा उच्यते--</p>
<lg>
  <l>दिवि सूर्यसहस्रस्य</l>
  <l>भवेद्युगपदुत्थिता ।</l>
  <l>यदि भाः सदृशी सा स्या-</l>
  <l>द्भासस्तस्य महात्मनः ॥ १२ ॥</l>
</lg>
<p>दिवि अन्तरिक्षे तृतीयस्यां वा दिवि सूर्याणां सहस्रं सूर्य-
सहस्रं तस्य युगपदुत्थितस्य सूर्यसहस्रस्य या युगपदुत्थिता
भाः, सा यदि, सदृशी स्यात् तस्य महात्मनः विश्वरूपस्यैव</p>
<pb n="51" />
<p>एकादशोऽध्यायः ।</p>
<p>भासः । यदि वा न स्यात्, ततः विश्वरूपस्यैव भा: अतिरि-
च्यते इत्यभिप्रायः ॥
किंच—</p>
<lg>
  <l>तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।</l>
  <l>अपश्यद्देवदेवख शरीरे पाण्डवस्तदा ॥ १३ ॥</l>
</lg>
<p>तत्र तस्मिन् विश्वरूपे एकस्मिन् स्थितम् एकस्थं जगत्
कृत्स्नं प्रविभक्तम् अनेकधा देवपितृमनुष्यादिभेदैः अपश्यत्
दृष्टवान् देवदेवस्य हरेः शरीरे पाण्डवः अर्जुनः तदा ॥</p>
<lg>
  <l>ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः ।</l>
  <l>प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥</l>
</lg>
<p>ततः तं दृष्ट्वा सः विस्मयेन आविष्टः विस्मयाविष्टः हृष्टानि
रोमाणि यस्य सः अयं हृष्टरोमा च अभवत् धनंजयः ।
प्रणम्य प्रकर्षेण नमनं कृत्वा प्रह्वीभूतः सन् शिरसा देवं
विश्वरूपधरं कृताञ्जलिः नमस्कारार्थं संपुटीकृतहस्तः सन्
अभाषत उक्तवान् ॥
कथम् ? यत् त्वया दर्शितं विश्वरूपम्, तत् अहं पश्या-
मीति स्वानुभवमाविष्कुर्वन् अर्जुन उवाच-</p>
<pb n="52" />
<p>अर्जुन उवाच-
श्रीमद्भगवद्गीताभाष्ये
पश्यामि देवांस्तव देव देहे
सर्वास्तथा भूतविशेषसंघान् ।
ब्रह्माणमीशं
कमलासनस्थ-
मृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥
"
पश्यामि उपलभे हे देव, तव देहे देवान् सर्वान् तथा
भूतविशेषसंघान् भूतविशेषाणां स्थावरजङ्गमानां नानासंस्थान-
विशेषाणां संघाः भूतविशेषसंघाः तान् किंच - ब्रह्माणं
चतुर्मुखम् ईशम् ईशितारं प्रजानां कमलासनस्थं पृथिवीपद्म-
मध्ये मेरुकर्णिकासनस्थमित्यर्थः, ऋषींश्च वसिष्ठादीन् सर्वान्,
उरगांश्च वासुकिप्रभृतीन् दिव्यान् दिवि भवान् ॥</p>
<lg>
  <l>अनेकबाहूदरवक्रनेत्रं</l>
  <l>पश्यामि त्वा सर्वतोऽनन्तरूपम् ।</l>
  <l>नान्तं न मध्यं न पुनस्तवादिं</l>
  <l>पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥</l>
</lg>
<p>अनेकवाहूदरवक्त्रनेत्रम् अनेके बाहवः उदराणि वक्त्राणि
नेत्राणि च यस्य तव सः त्वम् अनेकबाहूदरवक्त्रनेत्रः तम्
अनेकबाहूदरवक्लनेत्रम् । पश्यामि त्वा त्वां सर्वतः सर्वत्र</p>
<pb n="53" />
<p>एकादशोऽध्यायः ।</p>
<p>अनन्तरूपम् अनन्तानि रूपाणि अयं इति अनन्तरूपः तम्
अनन्तरूपम् । न अन्तम्, अन्तः अवसानम्, न मध्यम्,
मध्यं नाम द्वयोः कोट्यो: अन्तरम्, न पुनः तव आदिम्-
न देवस्य अन्तं पश्यामि न मध्यं पश्यामि, न पुनः आदि
पश्यामि, हे विश्वेश्वर विश्वरूप ॥
किंच--</p>
<lg>
  <l>किरीटिनं गदिनं चक्रिणं च</l>
  <l>'तेजोराशिं सर्वतोदीप्तिमन्तम् ।</l>
  <l>पश्यामि त्वां दुर्निरीक्ष्यं समन्ता-</l>
  <l>:: दीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥</l>
</lg>
<p>किरीटिनं किरीटं नाम शिरोभूषणविशेषः तत् यस्य
अस्ति सः किरीटी तं किरीटिनम्, तथा गदिनं गदा अस्य
विद्यते इति गदी तं गदिनम्, तथा चक्रिणं चक्रम् अस्य
अस्तीति चक्रीतं चक्रिणं च, तेजोराशि तेजः पुखं सर्वतो-
दीप्तिमन्तं सर्वतोदीप्तिः अस्य अस्तीति सर्वतोदीप्तिमान्, तं
सर्वतोदीप्तिमन्तं पश्यामि त्वां दुर्निरीक्ष्यं दुःखेन निरीक्ष्यः
दुर्निरीक्ष्यः तं दुर्निरीक्ष्यं समन्तात् समन्ततः सर्वत्र दीप्ता-
नलार्कद्युतिम् अनलश्च अर्कश्च अनलार्कौ दीप्तौ अनलाक
S. B. II. 3</p>
<pb n="54" />
<p>श्रीमद्भगवद्गीताभाष्ये
दीप्तानलाक तयोः दीप्तानलार्कयोः द्युतिरिव द्यतिः तेज:
यस्य तव स त्वं दीप्तानलार्कद्युतिः तं त्वां दीप्तानलार्कधु-
तिम्, अप्रमेयं न प्रमेयम् अशक्यपरिच्छेदम् इत्येतत् ॥
इत एव ते योगशक्तिदर्शनात् अनुमिनोमि——</p>
<lg>
  <l>त्वमक्षरं परमं वेदितव्यं</l>
  <l>त्वमस्य विश्वस्य परं निधानम् ।</l>
  <l>त्वमव्ययः शाश्वतधर्मगोसा</l>
  <l>सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥</l>
</lg>
<p>त्वम् अक्षरं न क्षरतीति, परमं ब्रह्म वेदितव्यं ज्ञातव्यं
मुमुक्षुभिः । त्वम् अस्य विश्वस्य समस्तस्य जगतः परं प्रकृ-
टं निधानं निधीयते अस्मिन्निति निधानं परः आश्रयः इत्य-
र्थः । किंच, त्वम् अव्ययः न तव व्ययो विद्यते इति अव्य-
यः, शाश्वतधर्मगोप्ता शश्वद्भवः शाश्वतः नित्यः धर्मः तस्य
गोप्ता शाश्वतधर्मगोप्ता । सनातनः चिरंतन: त्वं पुरुषः पर-
मः मतः अभिप्रेतः मे मम ॥
किंच—
अनादिमध्यान्तमनन्तवीर्य-
मनन्तबाहुं शशिसूर्यने लम् ।</p>
<pb n="55" />
<p>एकादशोऽध्यायः ।</p>
<p>पश्यामि त्वां दीप्तहुताशवक्त्रं
स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥
अनादिमध्यान्तम् आदिश्च मध्यं च अन्तश्च न विद्यते
यस्य सः अयम् अनादिमध्यान्तः तं त्वां अनादिमध्यान्तम्,
अनन्तवीर्ये न तव वीर्यस्य अन्तः अस्ति इति अनन्तवीर्यः तं
त्वाम् अनन्तवीर्यम्, तथा अनन्तवाहुम् अनन्ता: वाहव: यस्य
तव सः त्वम्, अनन्तबाहुः तं त्वाम् अनन्तवाहुम्, शशिसूर्य-
नेत्रं शशिसूर्यौ नेत्रे यस्य तव सः त्वं शशिसूर्यनेत्रः तं त्वां
शशिसूर्यनेत्रं चन्द्रादित्यनयनम् पश्यामि त्वां दीप्तहुताशवक्त्रं
दीप्तश्च असौ हुताशश्च वक्त्रं यस्य तव सः त्वं दीप्तहुताश-
वक्त्रः तं त्वां दीप्तहुताशवक्त्रम् स्वतेजसा विश्वम् इदं
समस्तं तपन्तम् ॥
"</p>
<lg>
  <l>द्यावापृथिव्योरिदमन्तरं हि</l>
  <l>व्याप्तं त्वयैकेन दिशश्च सर्वाः ।</l>
  <l>दृष्ट्वाद्भुतं रूपमिदं तवोग्रं</l>
  <l>लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥</l>
</lg>
<p>द्यावापृथिव्योः इदम् अन्तरं हि अन्तरिक्षं व्याप्तं त्वया
एकेन विश्वरूपधरेण दिशश्च सर्वाः व्याप्ताः । दृष्ट्वा उपलभ्य</p>
<pb n="56" />
<p>श्रीमद्भगवद्गीताभाष्ये
अद्भुतं विस्मापकं रूपम् इदं तव उग्रं क्रूरं लोकानां वयं
लोकत्रयं प्रव्यथितं भीतं प्रचलितं वा हे महात्मन् अक्षुद्र-
स्वभाव ॥
अथ अधुना पुरा ' यद्वा जयेम यदि वा नो जयेयुः '
इति अर्जुनस्य यः संशयः आसीत्, तन्निर्णयाय पाण्डवज-
यम् ऐकान्तिकं दर्शयामि इति प्रवृत्तो भगवान् । तं पश्यन्
आह-
किंच—</p>
<lg>
  <l>अमी हि त्वा सुरसंघा विशन्ति</l>
  <l>केचिद्भीताः प्राञ्जलयो गृणन्ति ।</l>
  <l>स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः</l>
  <l>स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥</l>
</lg>
<p>अमी हि युध्यमाना योद्धारः त्वा त्वां सुरसंघाः ये
अत्र भूभारावताराय अवतीर्णाः वस्वादिदेवसंघाः मनुष्यसं-
स्थाना: त्वां विशन्ति प्रविशन्तः दृश्यन्ते । तत्र केचित्
भीताः प्राञ्जलयः सन्तो गृणन्ति स्तुवन्ति त्वाम् अन्ये पला-
यनेऽपि अशक्ताः सन्तः । युद्धे प्रत्युपस्थिते उत्पातादिनि-
मित्तानि उपलक्ष्य स्वस्ति अस्तु जगतः इति उक्त्वा महर्षि -</p>
<pb n="57" />
<p>एकादशोऽध्यायः ।</p>
<note>३.१३</note>
<p>सिद्धसंघाः महर्षीणां सिद्धानां च संघाः स्तुवन्ति त्वां
स्तुतिभि: पुष्कलाभिः संपूर्णाभिः ॥
किंचान्यत्-</p>
<lg>
  <l>रुद्रादित्या वसवो ये च साध्या</l>
  <l>विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।</l>
  <l>गन्धर्वयक्षासुरसिद्धसंघा</l>
  <l>वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥</l>
</lg>
<p>रुद्रादित्याः वसवो ये च साध्याः रुद्रादयः गणा: विश्वे-
देवा: अश्विनौ च देवौ मरुतश्च ऊष्मपाश्च पितरः, गन्धर्व-
यक्षासुरसिद्धसंघाः गन्धर्वाः हाहाहूहूप्रभृतयः यक्षाः कुबेर-
प्रभृतयः असुरा: विरोचनप्रभृतयः सिद्धाः कपिलादयः तेषां
संघाः गन्धर्वयक्षासुरसिद्धसंघाः, ते वीक्षन्ते पश्यन्ति त्वां
विस्मिताः विस्मयमापन्नाः सन्तः ते एव सर्वे ॥
यस्मात्-</p>
<lg>
  <l>रूपं महत्ते बहुवक्रनेत्रं</l>
  <l>महाबाहो बहुबाहूरुपादम् ।</l>
  <l>बहूदरं बहुदंष्ट्राकरालं</l>
  <l>दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥</l>
</lg>
<pb n="58" />
<p>श्रीमद्भगवद्गीताभाष्ये
रूपं महत् अतिप्रमाणं ते तव बहुवक्त्रनेत्रं बहूनि
वक्त्राणि मुखानि नेत्राणि चक्षूंषि च यस्मिन् तत् रूपं
बहुवक्त्रनेत्रम्, हे महाबाहो, बहुबाहूरुपादं बहवो बाहवः
ऊरवः पादाश्च यस्मिन् रूपे तत् बहुबाहूरुपादम्, किंच,
बहूदरं बहूनि उदराणि यस्मिन्निति बहूदरम्, बहुदंष्ट्राकरालं
बह्वीभिः दंष्ट्राभिः करालं विकृतं तत् बहुदंष्ट्राकरालम्,
दृष्ट्वा रूपम् ईदृशं लोकाः लौकिकाः प्राणिनः प्रव्यथिता:
प्रचलिताः भयेन ; तथा अहमपि ॥
तत्रेदं कारणम्-</p>
<lg>
  <l>नभःस्पृशं दीप्तमनेकवर्ण</l>
  <l>व्यात्ताननं दीप्तविशालनेत्रम् ।</l>
  <l>दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा</l>
  <l>धृतिं न विन्दामि शमं च विष्णो ॥</l>
</lg>
<p>नभःस्पृशं द्युस्पर्शम् इत्यर्थः, दीप्तं प्रज्वलितम्, अनेकवर्णम्
अनेके वर्णाः भयंकराः नानासंस्थाना: यस्मिन् त्वयि तं
त्वाम् अनेकवर्णम्, व्यात्ताननं व्यात्तानि विवृतानि आननानि
मुखानि यस्मिन् त्वयि तं त्वां व्यात्ताननम्, दीप्तविशाल-
नेत्रं दीप्तानि प्रज्वलितानि विशालानि विस्तीर्णानि नेत्राणि</p>
<pb n="59" />
<p>एकादशोऽध्यायः ।</p>
<p>यस्मिन् त्वयि तं त्वां दीप्तविशालनेत्रं दृष्ट्वा हि त्वां प्रव्यथि-
तान्तरात्मा प्रव्यथितः प्रभीतः अन्तरात्मा मनः यख मम
सः अहं प्रव्यथितान्तरात्मा सन् धृतिं धैर्य न विन्दामि न
लभे शमं च उपशमनं मनस्तुष्टिं हे विष्णो ॥
कस्मात् --</p>
<lg>
  <l>दंष्ट्राकरालानि च ते मुखानि</l>
  <l>दृष्ट्वैव कालानलसंनिभानि ।</l>
  <l>दिशो न जाने न लभे च शर्म</l>
  <l>प्रसीद देवेश जगन्निवास ॥ २५ ॥</l>
</lg>
<p>दंष्ट्राकरालानि दंष्ट्राभिः करालानि विकृतानि ते तव मु-
खानि दृष्ट्वैव उपलभ्य कालानलसंनिभानि प्रलयकाले लो-
कानां दाहकः अग्निः कालानलः तत्सदृशानि कालानलसंनि-
भानि मुखानि दृष्ट्वेत्येतत् । दिशः पूर्वापरविवेकेन न जाने दि-
बूढो जातः अस्मि । अतः न लभे च न उपलभे च शर्म
सुखम् । अतः प्रसीद प्रसन्नो भव हे देवेश, जगन्निवास ॥
येभ्यो मम पराजयाशङ्का या आसीत् सा च अपगता ।
यतः-</p>
<pb n="60" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>अमी च त्वां धृतराष्ट्रस्य पुत्राः</l>
  <l>सर्वे सहैवावनिपालसंधैः ।</l>
  <l>भीष्मो द्रोणः सूतपुत्रस्तथासौ</l>
  <l>सहास्मदीयैरपि योधमुख्यैः ॥ २६ ॥</l>
</lg>
<p>-'
अमी च त्वां धृतराष्ट्रस्य पुला : दुर्योधनप्रभृतयः — त्व-
रमाणाः विशन्ति' इति व्यवहितेन संबन्धः सर्वे स
सहिताः अवनिपालसंघैः अवनिं पृथ्वीं पालयन्तीति अवनि-
पाला: तेषां संधैः, किंच भीष्मो द्रोणः सूतपुत्रः कर्णः तथा
असौ सह अस्मदीयैरपि धृष्टद्युम्नप्रभृतिभिः योधमुख्यैः यो-
धानां मुख्यैः प्रधानैः सह ॥
किंच-</p>
<lg>
  <l>वक्राणि ते त्वरमाणा विशन्ति</l>
  <l>दंष्ट्राकरालानि भयानकानि ।</l>
  <l>केचिद्विलग्ना दशनान्तरेषु</l>
  <l>संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ २७ ॥</l>
</lg>
<p>वक्त्राणि मुखानि ते तव त्वरमाणाः त्वरायुक्ताः सन्तः
विशन्ति, किंविशिष्टानि मुखानि ? दंष्ट्राकरालानि भयान-</p>
<pb n="61" />
<p>एकादशोऽध्यायः ।</p>
<p>कानि भयंकराणि । किंच, केचित् मुखानि प्रविष्टानां म-
ध्ये विलग्नाः दशनान्तरेषु मांसमिव भक्षितं संदृश्यन्ते उप-
लभ्यन्ते चूर्णितैः चूर्णीकृतैः उत्तमात्रैः शिरोभिः ॥
कथं प्रविशन्ति मुखानि इत्याह-</p>
<lg>
  <l>यथा नदीनां बहवोऽम्बुवेगाः</l>
  <l>समुद्रमेवाभिमुखा द्रवन्ति ।</l>
  <l>तथा तवामी नरलोकवीरा</l>
  <l>विशन्ति वक्राण्यभिविज्वलन्ति ॥</l>
</lg>
<p>यथा नदीनां स्रवन्तीनां बहवः अनेके अम्बूनां वेगा:
अम्बुवेगाः त्वराविशेषाः समुद्रमेव अभिमुखाः प्रतिमुखाः
द्रवन्ति प्रविशन्ति, तथा तद्वत् तव अमी भीष्मादयः नर-
लोकवीराः मनुष्यलोके शूराः विशन्ति वक्त्राणि अभिवि-
ज्वलन्ति प्रकाशमानानि ॥
ते किमर्थं प्रविशन्ति कथं च इत्याह-
यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगाः ।</p>
<pb n="62" />
<p>श्रीमद्भगवद्गीताभाष्ये
तथैव नाशाय विशन्ति लोका-
स्तवापि वक्राणि समृद्धवेगाः ॥ २९ ॥
यथा प्रदीप्तं ज्वलनम् अग्निं पतङ्गाः पक्षिणः विशन्ति
नाशाय विनाशाय समृद्धवेगाः समृद्धः उद्भूतः वेगः गतिः
येषां ते समृद्धवेगाः, तथैव नाशाय विशन्ति लोकाः प्राणिनः
तवापि वक्त्राणि समृद्धवेगाः ॥
त्वं पुनः -</p>
<lg>
  <l>लेलिह्यसे ग्रसमानः समन्ता-</l>
  <l>ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।</l>
  <l>तेजोभिरापूर्य जगत्समग्रं</l>
  <l>भासस्तवोग्राः प्रतपन्ति विष्णो ॥</l>
</lg>
<p>लेलिह्यसे आस्वादयसि ग्रसमानः अन्तः प्रवेशयन् सम-
न्तात् समन्ततः लोकान् समग्रान् समस्तान् वदनैः वक्त्रैः
ज्वलद्भिः दीप्यमानैः तेजोभिः आपूर्य संव्याप्य जगत् समग्र
सह अग्रेण समस्तम् इत्येतत् । किंच, भास: दीप्तयः तव
उग्राः क्रूराः
प्रतपन्ति प्रतापं कुर्वन्ति हे विष्णो व्यापन-
शील ॥</p>
<pb n="63" />
<p>एकादशोऽध्यायः ।</p>
<p>यतः एवमुग्रस्वभाव:, अतः--</p>
<lg>
  <l>आख्याहि मे को भवानुग्ररूपो</l>
  <l>नमोऽस्तु ते देववर प्रसीद ।</l>
  <l>विज्ञातुमिच्छामि भवन्तमाद्यं</l>
  <l>न हि प्रजानामि तव प्रवृत्तिम् ॥३१॥</l>
</lg>
<p>आख्याहि कथय मे मह्यं कः भवान् उग्ररूपः क्रूराकारः,
नमः अस्तु ते तुभ्यं हे देववर देवानां प्रधान, प्रसीद प्रसादं
कुरु । विज्ञातुं विशेषेण ज्ञातुम् इच्छामि भवन्तम् आद्यम्
आदौ भवम् आद्यम्, न हि यस्मात् प्रजानामि तव त्वदी-
यां प्रवृत्ति चेष्टाम् ॥
श्रीभगवानुवाच-</p>
<lg>
  <l>कालोऽस्मि लोकक्षयकृत्प्रवृद्धो</l>
  <l>लोकान्समाहर्तुमिह प्रवृत्तः ।</l>
  <l>ऋतेऽपि त्वा न भविष्यन्ति सर्वे</l>
  <l>येऽवस्थिताः प्रत्यनीकेषु योधाः ॥३२॥</l>
</lg>
<p>कालः अस्मि लोकक्षयकृत् लोकानां क्षयं करोतीति
-
लोकक्षयकृत् प्रवृद्धः वृद्धिं गतः । यदर्थं प्रवृद्धः तत् शृणु —</p>
<pb n="64" />
<p>.३२०
श्रीमद्भगवद्गीताभाष्ये
लोकान् समाहर्तुं संहर्तुम् इह अस्मिन् काले प्रवृत्तः । ऋतेऽपि
विनापि त्वा त्वां न भविष्यन्ति भीष्मद्रोणकर्णप्रभृतयः सर्वे,
येभ्यः तव आशङ्का, ये अवस्थिताः प्रत्यनीकेषु अनीकमनी-
कं प्रति प्रत्यनीकेषु प्रतिपक्षभूतेषु अनीकेषु योधाः योद्धारः ॥
यस्मात् एवम् —</p>
<lg>
  <l>तस्मात्त्वमुत्तिष्ठ यशो लभख</l>
  <l>जित्वा शत्रून्भुङ्ग राज्यं समृद्धम् ।</l>
  <l>मयैवैते निहताः पूर्वमेव</l>
  <l>निमित्तमात्रं भव सव्यसाचिन् ॥३३॥</l>
</lg>
<p>तस्मात् त्वम् उत्तिष्ठ 'भीष्मप्रभृतयः अतिरथाः अजेयाः
देवैरपि, अर्जुनेन जिता:' इति यशः लभस्व; केवलं पुण्यैः
हि तत् प्राप्यते । जित्वा शत्रून दुर्योधनप्रभृतीन् भुङ्क्ष्व
राज्यं समृद्धम् असपत्नम् अकण्टकम् । मया एव एते
निहता: निश्चयेन हताः प्राणैः वियोजिताः पूर्वमेव । निमि-
त्तमात्रं भव त्वं हे सव्यसाचिन् सव्येन वामेनापि
हस्तेन शराणां क्षेप्ता सव्यसाची इति उच्यते अर्जुनः ॥
'</p>
<pb n="65" />
<p>एकादशोऽध्यायः ।
द्रोणं च भीष्मं च जयद्रथं च
कर्ण तथान्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा</p>
<note>३२१.</note>
<p>युध्यस्व जेतासि रणे सपत्नान् ॥३४॥
द्रोणं च येषु येषु योधेषु अर्जुनस्य आशङ्का तांस्तान्
व्यपदिशति भगवान्, मया हतानिति । तत्र द्रोणभीष्मयोः
तावत् प्रसिद्धम् आशङ्काकारणम् । द्रोणस्तु धनुर्वेदाचार्य:
दिव्यास्त्रसंपन्नः, आत्मनश्च विशेषतः गुरुः गरिष्ठः ।
भीष्मश्च स्वच्छन्दमृत्युः दिव्यास्त्रसंपन्नश्च परशुरामेण द्वन्द्व-
युद्धम् अगमत्, न च पराजितः । तथा जयद्रथः, यस्य
पिता तपः चरति 'मम पुत्रस्य शिरः भूमौ निपातयिष्यति
यः, तस्यापि शिरः पतिष्यति' इति । कर्णोऽपि वासवद-
तया शक्त्या त्वमोघया संपन्नः सूर्यपुत्रः कानीनः यतः,
अत: तन्नाम्नैव निर्देशः । मया हतान् त्वं जहि निमित्तमा-
त्रेण । मा व्यथिष्ठाः तेभ्यः भयं मा कार्षीः । युध्यस्व
जेतासि दुर्योधनप्रभृतीन् रणे युद्धे सपत्नान् शत्रून् ॥
संजय उवाच-
एतच्छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर्वेपमानः किरीटी ।</p>
<pb n="66" />
<p>श्रीमद्भगवद्गीताभाष्ये
नमस्कृत्वा भूय एवाह कृष्णं
सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥
एतत् श्रुत्वा वचनं केशवस्य पूर्वोक्तं कृताञ्जलिः सन्
वेपमानः कम्पमानः किरीटी नमस्कृत्वा, भूयः पुनः एव
आह उक्तवान् कृष्णं सगद्गदं भयाविष्टस्य दुःखाभिघातात्
स्नेहाविष्टस्य च हर्षोद्भवात्, अश्रुपूर्णनेत्रत्वे सति श्लेष्मणा
कण्ठावरोधः ; ततश्च वाचः अपाटवं मन्दशब्दत्वं यत् स
गद्गदः तेन सह वर्तत इति सगद्गदं वचनम् आह इति वच-
नक्रियाविशेषणम् एतत् । भीतभीतः पुनः पुनः भयाविष्ट-
चेताः सन् प्रणम्य प्रह्नः भूत्वा 'आह' इति व्यवहितेन
संबन्धः ॥
अत्र अवसरे संजयवचनं साभिप्रायम् । कथम् ? द्रोणा-
दिषु अर्जुनेन निहतेषु अजेयेषु चतुर्षु, निराश्रयः दुर्योधनः-
निहतः एव इति मत्वा धृतराष्ट्रः जयं प्रति निराशः सन् संधि
करिष्यति, ततः शान्तिः उभयेषां भविष्यति इति । तदपि न
अश्रौषीत् धृतराष्ट्र : भवितव्यवशात् ॥
अर्जुन उवाच-
स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते च । :</p>
<pb n="67" />
<p>एकादशोऽध्यायः ।
रक्षांसि भीतानि दिशो द्रवन्ति</p>
<note>३२३.</note>
<p>सर्वे नमस्यन्ति च सिद्धसंघाः ॥ ३६ ॥
स्थाने युक्तम् । किं तत् ? तव प्रकीर्त्या त्वन्माहात्म्यकी-
र्तनेन श्रुतेन, हे हृषीकेश, यत् जगत् प्रहृष्यति प्रहर्षम्
उपैति तत् स्थाने युक्तम्, इत्यर्थः । अथवा विषयविशे-
षणं स्थाने इति । युक्तः हर्षादिविषयः भगवान्, यतः
ईश्वरः सर्वात्मा सर्वभूतसुहृच्च इति । तथा अनुरज्यते अनुरागं
च उपैति ; तच्च विषये इति व्याख्येयम् । किंच, रक्षांसि
भीतानि भयाविष्टानि दिशः द्रवन्ति गच्छन्ति ; तच्च स्थाने
विषये । सर्वे नमस्यन्ति नमस्कुर्वन्ति च सिद्धसंघाः सिद्धानां
समुदाया: कपिलादीनाम्, तच्च स्थाने ॥
भगवतो हर्षादिविषयत्वे हेतुं दर्शयति-</p>
<lg>
  <l>कस्माच्च ते न नमेरन्महात्म-</l>
  <l>न्गरीयसे ब्रह्मणोऽप्यादिकर्त्री ।</l>
  <l>अनन्त देवेश जगन्निवास</l>
  <l>त्वमक्षरं सदसत्तत्परं यत् ॥ ३७ ॥</l>
</lg>
<p>कस्माच्च हेतोः ते तुभ्यं न नमेरन् नमस्कुर्युः हे महा-</p>
<pb n="68" />
<p>श्रीमद्भगवद्गीताभाष्ये
त्मन्, गरीयसे गुरुतराय; यतः ब्रह्मणः हिरण्यगर्भस्य
अपि आदिकर्ता कारणम् अतः तस्मात् आदिकर्त्रे । कथम् एते
न नमस्कुर्युः ? अतः हर्षादीनां नमस्कारस्य च स्थानं त्वं
अर्हः विषयः इत्यर्थः । हे अनन्त देवेश हे जगन्निवास त्वम्
अक्षरं तत् परम्, यत् वेदान्तेषु श्रूयते । किं तत् ? सदसत्
इति । सत् विद्यमानम्, असत् च यत्र नास्ति इति बुद्धि: ;
ते उपधानभूते सदसती यस्य अक्षरस्य यङ्कारेण सदसती
इंति उपचर्यते । परमार्थतस्तु सदसतोः परं तत् अक्षरं यत्
अक्षरं वेदविदः वदन्ति । तत् त्वमेव, न अन्यत् इति
अभिप्राय: ॥
पुनरपि स्तौति—</p>
<lg>
  <l>त्वमादिदेवः पुरुषः पुराण-</l>
  <l>स्त्वमस्य विश्वस्य परं निधानम् ।</l>
  <l>वेत्तासि वेद्यं च परं च धाम</l>
  <l>त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥</l>
</lg>
<p>त्वम् आदिदेवः, जगतः स्रष्टृत्वात् । पुरुषः, पुरि शयनात्
पुराण: चिरंतनः त्वम् एव अस्य विश्वस्य परं प्रकृष्टं निधानं
निधीयते अस्मिन् जगत् सर्वे महाप्रलयादौ इति । किंच,</p>
<pb n="69" />
<p>एकादशोऽध्यायः ।</p>
<p>वेत्ता असि, वेदिता असि सर्वस्यैव वेद्यजातस्य । यत् च वेद्यं
वेदनार्हं तच्च असि परं च धाम परमं पदं वैष्णवम् । त्वया
ततं व्याप्तं विश्वं समस्तम्, हे अनन्तरूप अन्तो न विद्यते
तव रूपाणाम् ॥
किंच—</p>
<lg>
  <l>वायुर्यमोऽग्निर्वरुणः शशाङ्कः</l>
  <l>प्रजापतिस्त्वं प्रपितामहश्च ।</l>
  <l>नमो नमस्तेऽस्तु सहस्रकृत्वः</l>
  <l>पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥</l>
</lg>
<p>वायुः त्वं यमश्च अग्निः वरुणः अपां पतिः शशाङ्कः
चन्द्रमाः प्रजापतिः त्वं कश्यपादिः प्रपितामहश्च पितामह-
स्यापि पिता प्रपितामहः, ब्रह्मणोऽपि पिता इत्यर्थः । नमो
नमः ते तुभ्यम् अस्तु सहस्रकृत्वः । पुनश्च भूयोऽपि नमो
ते । बहुशो नमस्कारक्रियाभ्यासावृत्तिगणनं कृत्वसुचा
उच्यते । 'पुनश्च' 'भूयोऽपि' इति श्रद्धाभक्तयतिशयात्
अपरितोषम् आत्मनः दर्शयति ॥
नमः
तथा—
नमः पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व ।
S. B. II. 4</p>
<pb n="70" />
<p>श्रीमद्भगवद्गीताभाष्ये
अनन्तवीर्यामितविक्रमस्त्वं
सर्व समाप्नोषि ततोऽसि सर्वः ॥ ४० ॥
नमः पुरस्तात् पूर्वस्यां दिशि तुभ्यम्, अथ पृष्ठतः ते पृष्ठतः
अपि च ते नमोऽस्तु, ते सर्वत एव सर्वासु दिक्षु सर्वत्र स्थि-
ताय हे सर्व । अनन्तवीर्यामितविक्रमः अनन्तं वीर्यम् अस्य,
अमित: विक्रमः अस्य । वीर्य सामर्थ्य विक्रमः पराक्रमः ।
वीर्यवानपि कश्चित् शत्रुवधादिविषये न पराक्रमते, मन्दप-
राक्रमो वा । त्वं तु अनन्तवीर्यः अमितविक्रमश्च इति अनन्त-
वीर्यामितविक्रमः । सर्वं समस्तं जगत् समाप्नोषि सम्यक्
एकेन आत्मना व्याप्नोषि यतः, ततः तस्मात् असि भवसि
सर्वः त्वम्, त्वया विनाभूतं न किंचित् अस्ति इति अभि-
प्रायः ॥
यतः अहं त्वन्माहात्म्यापरिज्ञानात् अपराद्धः, अत:-</p>
<lg>
  <l>सखेति मत्वा प्रसभं यदुक्तं</l>
  <l>हे कृष्ण हे यादव हे सखेति ।</l>
  <l>अजानता महिमानं तवेदं</l>
  <l>मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥</l>
</lg>
<p>सखा समानवयाः इति मत्वा ज्ञात्वा विपरीतबुद्धया प्र-</p>
<pb n="71" />
<p>एकादशोऽध्यायः ।</p>
<p>सभम् अभिभूय प्रसह्य यत् उक्तं हे कृष्ण हे यादव हे सखे-
ति च अजानता अज्ञानिना मूढेन; किम् अजानता इति
आह— महिमानं माहात्म्यं तव इदम् ईश्वरस्य विश्वरूपम् ।
तव इदं महिमानम् अजानता' इति वैयधिकरण्येन संब-
न्धः । ' तवेमम्' इति पाठ: यदि अस्ति, तदा सामानाधिक-
रण्यमेव । मया प्रमादात् विक्षिप्तचित्ततया, प्रणयेन वापि,
प्रणयो नाम स्नेहनिमित्त: विस्रम्भ:, तेनापि कारणेन
यत् उक्तवान् अस्मि ॥</p>
<lg>
  <l>यच्चावहासार्थमसत्कृतोऽसि</l>
  <l>विहारशय्यासनभोजनेषु ।</l>
  <l>एकोऽथवाप्यच्युत तत्समक्षं</l>
  <l>तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥</l>
</lg>
<p>यच अवहासार्थं परिहासप्रयोजनाय असत्कृतः परिभूतः
असि भवसि ; क्व? विहारशय्यासनभोजनेषु, विहरणं वि-
हारः पादव्यायामः, शयनं शय्या, आसनम् आस्थायिका,
भोजनम् अदनम् इति एतेषु विहारशय्यासनभोजनेषु, एक:
परोक्षः सन् असत्कृतः असि परिभूतः असि ; अथवापि हे
अच्युत, तत् समक्षम्, तच्छब्दः क्रियाविशेषणार्थः, प्रत्यक्षं
"</p>
<pb n="72" />
<p>श्रीमद्भगवद्गीताभाष्ये
वा असत्कृत: असि तत् सर्वम् अपराधजातं क्षामये क्षमां
कारये त्वाम् अहम् अप्रमेयं प्रमाणातीतम् ॥
यतः त्वम् —</p>
<lg>
  <l>पितासि लोकस्य चराचरस्य</l>
  <l>त्वमस्य पूज्यश्च गुरुर्गरीयान् ।</l>
  <l>न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो</l>
  <l>लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ४३ ॥</l>
</lg>
<p>पिता असि जनयिता असि लोकस्य प्राणिजातस्य चरा-
चरस्य स्थावरजङ्गमस्य । न केवलं त्वम् अस्य जगतः पिता,
पूज्यश्च पूजार्हः, यतः गुरुः गरीयान् गुरुतरः । कस्मात्
गुरुतरः त्वम् इति आह- न त्वत्समः त्वत्तुल्यः अस्ति ।
न हि ईश्वरद्वयं संभवति, अनेकेश्वरत्वे व्यवहारानुपपत्तेः ।
त्वत्सम एव तावत् अन्यः न संभवति; कुतः एव अन्यः
अभ्यधिकः स्यात् लोकत्रयेऽपि सर्वस्मिन् ? अप्रतिमप्रभाव
प्रतिमीयते यया सा प्रतिमा, न विद्यते प्रतिमा यस्य तव
प्रभावस्य सः त्वम् अप्रतिमप्रभावः, हे अप्रतिमप्रभाव निर-
तिशयप्रभाव इत्यर्थः ॥
यतः एवम्—</p>
<pb n="73" />
<p>एकादशोऽध्यायः ।</p>
<lg>
  <l>तस्मात्प्रणम्य प्रणिधाय कायं</l>
  <l>प्रसादये त्वामहमीशमीड्यम् ।</l>
  <l>पितेव पुत्रस्य सखेव सख्युः</l>
  <l>प्रियः प्रियायार्हसि देव सोढुम् ॥४४॥</l>
</lg>
<p>तस्मात् प्रणम्य नमस्कृत्य, प्रणिधाय प्रकर्षेण नीचैः
धृत्वा कार्यं शरीरम्, प्रसादये प्रसादं कारये त्वाम् अहम्
ईशम् ईशितारम्, ईड्यं स्तुत्यम् । त्वं पुनः पुत्रस्य अपराधं
पिता यथा क्षमते, सर्व सखा इव सख्युः अपराधम्, यथा
वा प्रियः प्रियायाः अपराधं क्षमते, एवम् अर्हसि हे देव
सोढुं प्रसहितम् क्षन्तुम् इत्यर्थः ॥</p>
<lg>
  <l>अदृष्टपूर्व हृषितोऽस्मि दृष्ट्वा</l>
  <l>भयेन च प्रव्यथितं मनो मे ।</l>
  <l>तदेव मे दर्शय देव रूपं</l>
  <l>प्रसीद देवेश जगन्निवास ॥ ४५ ॥</l>
</lg>
<p>अदृष्टपूर्वं न कदाचिदपि दृष्टपूर्वम् इदं विश्वरूपं तव
मया अन्यैर्वा, तत् अहं दृष्ट्वा हृषितः अस्मि । भयेन च
प्रव्यथितं मनः मे । अतः तदेव मे मम दर्शय हे देव रूपं</p>
<pb n="74" />
<p>३३० .
श्रीमद्भगवद्गीताभाष्ये
यत् मत्सखम् । प्रसीद देवेश, जगन्निवास जगतो निवासो
जगन्निवासः, हे जगन्निवास ॥</p>
<lg>
  <l>किरीटिनं गदिनं चक्रहस्त-</l>
  <l>मिच्छामि त्वां द्रष्टुमहं तथैव ।</l>
  <l>तेनैव रूपेण चतुर्भुजेन</l>
  <l>सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥</l>
</lg>
<p>किरीटिनं किरीटवन्तं तथा गदिनं गदावन्तं चक्र-
हस्तम् इच्छामि त्वां प्रार्थये त्वां द्रष्टुम् अहं तथैव, पूर्ववत्
इत्यर्थः । यतः एवम्, तस्मात् तेनैव रूपेण वसुदेवपुत्ररूपेण
चतुर्भुजेन, सहस्रवाहो वार्तमानिकेन विश्वरूपेण, भव विश्व-
मूर्ते ; उपसंहृत्य विश्वरूपम्, तेनैव रूपेण भव इत्यर्थ: ॥
अर्जुनं भीतम् उपलभ्य, उपसंहृत्य विश्वरूपम्, प्रियवच-
नेन आश्वासयन् श्रीभगवान् उवाच—
श्रीभगवानुवाच -</p>
<lg>
  <l>मया प्रसन्नेन तवार्जुनेदं</l>
  <l>रूपं परं दर्शितमात्मयोगात् ।</l>
  <l>तेजोमयं विश्वमनन्तमाद्यं</l>
  <l>यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥</l>
</lg>
<pb n="75" />
<p>एकादशोऽध्यायः ।</p>
<p>मया प्रसन्नेन, प्रसादो नाम त्वयि अनुग्रहबुद्धिः,
तद्वता प्रसन्नेन मया तव हे अर्जुन, इदं परं रूपं विश्व-
रूपं दर्शितम् आत्मयोगात् आत्मनः ऐश्वर्यस्य सामर्थ्यात् ।
तेजोमयं तेजःप्रायं विश्वं समस्तम् अनन्तम् अन्तरहितं
आदौ भवम् आद्यं यत् रूपं मे मम त्वदन्येन त्वत्तः
अन्येन केनचित् न दृष्टपूर्वम् ॥
आत्मनः मम रूपदर्शनेन कृतार्थ एव त्वं संवृत्तः इति
तत् स्तौति—</p>
<lg>
  <l>न वेदयज्ञाध्ययनैर्न दानै-</l>
  <l>र्न च क्रियाभिर्न तपोभिरुयैः ।</l>
  <l>एवंरूपः शक्य अहं नृलोके</l>
  <l>द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥</l>
</lg>
<p>न वेदयज्ञाध्ययनैः चतुर्णामपि वेदानाम् अध्ययनैः यथा-
वत् यज्ञाध्ययनैश्व – वेदाध्ययनैरेव यज्ञाध्ययनस्य सिद्ध-
त्वात् पृथक् यज्ञाध्ययनग्रहणं यज्ञविज्ञानोपलक्षणार्थम् -
तथा न दानैः तुलापुरुषादिभिः, न च क्रियाभिः अग्नि-
होत्रादिभिः श्रौतादिभिः, न अपि तपोभिः उप्रैः चान्द्रा-
यणादिभिः उग्रैः घोरैः, एवंरूपः यथादर्शितं विश्वरूपं</p>
<pb n="76" />
<p>श्रीमद्भगवद्गीताभाष्ये
यस्य सोऽहम् एवंरूपः न शक्यः अहं नृलोकें मनुष्य-
लोके द्रष्टुं त्वदन्येन त्वत्तः अन्येन कुरुप्रवीर ॥</p>
<lg>
  <l>मा ते व्यथा मा च विमूढभावो</l>
  <l>दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।</l>
  <l>व्यपेतभीः प्रीतमनाः पुनस्त्वं</l>
  <l>तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥</l>
</lg>
<p>मा ते व्यथा मा भूत् ते भयम्, मा च विमूढभाव:
विमूढचित्तता, दृष्ट्वा उपलभ्य रूपं घोरम् ईदृक् यथादर्शितं
मम इदम् । व्यपेतभीः विगतभयः, प्रीतमनाश्च सन्
पुनः भूयः त्वं तदेव चतुर्भुजं रूपं शङ्खचक्रगदाधरं तब
इष्टं रूपम् इदं प्रपश्य ॥
संजय उवाच-</p>
<lg>
  <l>इत्यर्जुनं वासुदेवस्तथोक्त्वा</l>
  <l>स्वकं रूपं दर्शयामास भूयः ।</l>
  <l>आश्वासयामास च भीतमेनं</l>
  <l>भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ५० ॥</l>
</lg>
<p>इति एवम् अर्जुनं वासुदेवः तथाभूतं वचनम् उक्त्वा,</p>
<pb n="77" />
<p>एकादशोऽध्यायः ।</p>
<p>स्वकं वसुदेवस्य गृहे जातं रूपं दर्शयामास दर्शितवान् भूयः
पुनः । आश्वासयामास च आश्वासितवान् भीतम् एनम्,
भूत्वा पुनः सौम्यवपुः प्रसन्नदेहः महात्मा ॥
अर्जुन उवाच-</p>
<lg>
  <l>दृष्ट्वेदं मानुषं रूपं</l>
  <l>तव सौम्यं जनार्दन ।</l>
  <l>इदानीमस्मि संवृत्तः</l>
  <l>सचेताः प्रकृतिं गतः ॥ ५१ ॥</l>
</lg>
<p>दृष्ट्वा इदं मानुषं रूपं मत्सखं प्रसन्नं तव सौम्यं जना -
र्दन, इदानीम् अधुना अस्मि संवृत्तः संजातः । किम् ?
सचेताः प्रसन्नचित्तः प्रकृतिं स्वभावं गतश्च अस्मि ॥
श्रीभगवानुवाच-</p>
<lg>
  <l>सुदुर्दर्शमिदं रूपं</l>
  <l>दृष्टवानसि यन्मम ।</l>
  <l>देवा अप्यस्य रूपस्य</l>
  <l>नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥</l>
</lg>
<p>सुदुर्दर्श सुष्ठु दुःखेन दर्शनम् अस्य इति सुदुर्दर्शम् इदं
"</p>
<pb n="78" />
<p>श्रीमद्भगवद्गीताभाष्ये
रूपं दृष्टवान् असि यत् मम, देवाः अपि अस्य मम रूपस्य
नित्यं सर्वदा दर्शनकाङ्क्षिणः ; दर्शनेप्सवोऽपि न त्वमिव
दृष्टवन्तः, न द्रक्ष्यन्ति च इति अभिप्राय: ॥
कस्मात् ?
11</p>
<lg>
  <l>नाहं वेदैर्न तपसा</l>
  <l>न दानेन न चेज्यया ।</l>
  <l>शक्य एवंविधो द्रष्टुं</l>
  <l>दृष्टवानसि मां यथा ॥ ५३ ॥</l>
</lg>
<p>न अहं वेदैः ऋग्यजुःसामाथर्ववेदैः चतुर्भिरपि, न तपसा
उग्रेण चान्द्रायणादिना, न दानेन गोभूहिरण्यादिना, न च
इज्यया यज्ञेन पूजया वा शक्यः एवंविधः यथादर्शितप्रकार:
द्रष्टुं दृष्टवान् असि मां यथा त्वम् ॥
कथं पुनः शक्यः इति उच्यते-</p>
<lg>
  <l>भक्त्या त्वनन्यया शक्य</l>
  <l>अहमेवंविधोऽर्जुन ।</l>
  <l>ज्ञातुं द्रष्टुं च तत्त्वेन</l>
  <l>प्रवेष्टुं च परंतप ॥ ५४ ॥</l>
</lg>
<pb n="79" />
<p>एकादशोऽध्यायः ।</p>
<p>भक्त्या तु किंविशिष्टया इति आह— अनन्यया
अपृथग्भूतया, भगवतः अन्यत्र पृथक् न कदाचिदपि या
भवति सा त्वनन्या भक्तिः । सर्वैरपि करणैः वासुदेवा-
दन्यत् न उपलभ्यते यया, सा अनन्या भक्तिः, तया
भक्त्या शक्यः अहम् एवंविधः विश्वरूपप्रकार : हे अर्जुन,
ज्ञातुं शास्त्रतः । न केवलं ज्ञातुं शास्त्रतः, द्रष्टुं च साक्षा-
त्कर्तुं तत्त्वेन तत्त्वतः, प्रवेष्टुं च मोक्षं च गन्तुं परंतप ॥
अधुना सर्वस्य गीताशास्त्रस्य सारभूतः अर्थः निःश्रेय-
सार्थः अनुष्ठेयत्वेन समुच्चित्य उच्यते--</p>
<lg>
  <l>मत्कर्मकृन्मत्परमो</l>
  <l>मद्भक्तः सङ्गवर्जितः ।</l>
  <l>निर्वैरः सर्वभूतेषु</l>
  <l>यः स मामेति पाण्डव ॥ ५५ ॥</l>
</lg>
<p>इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्म-
विद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विश्वरूपदर्शनयोगो नाम
एकादशोऽध्यायः ॥</p>
<pb n="80" />
<p>श्रीमद्भगवद्गीताभाष्ये
मत्कर्मकृत् मदर्थं कर्म मत्कर्म, तत् करोतीति मत्कर्म-
कृत् । मत्परम:- करोति भृत्यः स्वामिकर्म, न तु आत्मनः
-
परमा प्रेत्य गन्तव्या गतिरिति स्वामिनं प्रतिपद्यते ; अयं तु
मत्कर्मकृत् मामेव परमां गतिं प्रतिपद्यते इति मत्परमः,
अहं परमः
परा गतिः यस्य सोऽयं मत्परमः । तथा
मद्भक्तः मामेव सर्वप्रकारैः सर्वात्मना सर्वोत्साहेन भजते
इति मद्भक्तः । सङ्गवर्जित: धनपुत्रमित्रकलत्रबन्धुवर्गेषु
सङ्गवर्जितः सङ्गः प्रीतिः स्नेहः तद्वर्जितः । निर्वैरः निर्गत-
वैरः सर्वभूतेषु शत्रुभावरहित: आत्मनः अत्यन्तापकारप्रवृत्ते-
ष्वपि ।
यः ईदृशः मद्भक्तः सः माम् एति, अहमेव तस्य
परा गतिः, न अन्या गतिः काचित् भवति । अयं तव उप-
देश: : इष्टः मया उपदिष्टः हे पाण्डव इति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
एकादशोऽध्यायः ॥</p>
<pb n="81" />
<p>श्रीमच्छंकरभगवत्पादविरचितम्
श्रीमद्भगवद्गीताभाष्यम्
द्वादशोऽध्यायः</p>
<pb n="82" />
<pb n="83" />
<p>द्वादशोऽध्यायः ॥
द्वि तीयाध्यायप्रभृतिषु विभूत्यन्तेषु
अध्यायेषु परमात्मनः ब्रह्मणः अक्षरस्य
विध्वस्तसर्वोपाधिविशेषस्य उपासनम्
उक्तम्; सर्वयोगैश्वर्यसर्वज्ञानशक्तिम-
त्सत्त्वोपाधेः ईश्वरस्य तव च उपासनं
तत्र तत्र उक्तम् । विश्वरूपाध्याये तु
ऐश्वरम् आद्यं समस्त जगदात्मरूपं विश्वरूपं त्वदीयं दर्शितम्
उपासनार्थमेव त्वया । तच्च दर्शयित्वा उक्तवानसि ' मत्कर्म-
कृत्' इत्यादि । अतः अहम् अनयोः उभयोः पक्षयोः वि-
शिष्टतरवुभुत्सया त्वां पृच्छामि इति अर्जुन उवाच --
अर्जुन उवाच-</p>
<lg>
  <l>एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।</l>
  <l>ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥</l>
</lg>
<p>एवम् इति अतीतानन्तरश्लोकेन उक्तम् अर्थ परा-</p>
<pb n="84" />
<p>श्रीमद्भगवद्गीताभाष्ये
मृशति ' मत्कर्मकृत्' इत्यादिना । एवं सततयुक्ताः, नैर-
न्तर्येण भगवत्कर्मादौ यथोक्ते अर्थे समाहिताः सन्तः
प्रवृत्ता इत्यर्थः । ये भक्ता: अनन्यशरणाः सन्तः त्वां
यथादर्शितं विश्वरूपं पर्युपासते ध्यायन्ति; ये चान्येऽपि
त्यक्तसर्वैषणाः संन्यस्तसर्वकर्माणः यथाविशेषितं ब्रह्म अक्षरं
निरस्तसर्वोपाधित्वात् अव्यक्तम् अकरणगोचरम् । यत् हि
करणगोचरं तत् व्यक्तम् उच्यते, अजे: धातोः तत्कर्मक-
त्वात्; इदं तु अक्षरं तद्विपरीतम्, शिष्टैश्च उच्यमानैः
विशेषणैः विशिष्टम्, तत् ये चापि पर्युपासते, तेषाम्
उभयेषां मध्ये के योगवित्तमाः ? के अतिशयेन योगविदः
इत्यर्थः ॥
श्रीभगवान् उवाच —- ये तु अक्षरोपासकाः सम्यग्दर्शिनः
निवृत्तैषणाः, ते तावत् तिष्ठन्तु; तान् प्रति यत् वक्तव्यम्,
तत् उपरिष्टात् वक्ष्यामः । ये तु इतरे—
श्रीभगवानुवाच -</p>
<lg>
  <l>मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।</l>
  <l>श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ २ ॥</l>
</lg>
<p>मयि विश्वरूपे परमेश्वरे आवेश्य समाधाय मनः, ये</p>
<pb n="85" />
<p>भक्ताः सन्तः,
द्वादशोऽध्यायः ।</p>
<p>मां सर्वयोगेश्वराणाम् अधीश्वरं सर्वज्ञं विमुक्त-
रागादिक्लेशतिमिरदृष्टिम्, नित्ययुक्ताः अतीतानन्तराध्यायान्तो-
क्तश्लोकार्थन्यायेन सततयुक्ताः सन्तः उपासते श्रद्धया परया
प्रकृष्टया उपेताः, ते मे मम मता: अभिप्रेताः युक्ततमाः
इति । नैरन्तर्येण हि ते मञ्चित्ततया अहोरात्रम् अतिवाह-
यन्ति । अतः युक्तं तान् प्रति युक्ततमाः इति वक्तुम् ॥
किमितरे युक्ततमाः न भवन्ति ? न; किंतु तान् प्रति
यत् वक्तव्यम्, तत् शृणु-</p>
<lg>
  <l>ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।</l>
  <l>सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३॥</l>
</lg>
<p>ये तु अक्षरम् अनिर्देश्यम्, अव्यक्तत्वात् अशब्दगोचर
इति न निर्देष्टुं शक्यते, अतः अनिर्देश्यम्, अव्यक्तं न केनापि
प्रमाणेन व्यज्यत इत्यव्यक्तं पर्युपासते परि समन्तात् उपास-
ते । उपासनं नाम यथाशास्त्रम् उपायस्थ अर्थस्य विषयीकरणेन
सामीप्यम् उपगम्य तैलधारावत् समानप्रत्ययप्रवाहेण दीर्घ-
कालं यत् आसनम्, तत् उपासनमाचक्षते । अक्षरस्य विशे-
षणमाह उपास्यस्य- - सर्वत्रगं व्योमवत् व्यापि अचिन्त्यं च
अव्यक्तत्वादचिन्त्यम् । यद्धि करणगोचरम्, तत् मनसापि
11
S. B. II. 5</p>
<pb n="86" />
<p>श्रीमद्भगवद्गीताभाष्ये
चिन्त्यम्, तद्विपरीतत्वात् अचिन्त्यम् अक्षरम्, कूटस्थं दृश्य-
मानगुणम् अन्तर्दोषं वस्तु कूटम् । 'कूटरूपम् ' ' कूटसा-
क्ष्यम्' इत्यादौ कूटशब्दः प्रसिद्धः लोके । तथा च अवि-
द्याद्यनेकसंसारबीजम् अन्तर्दोषवत् मायाव्याकृतादिशब्दवा-
च्यतया 'मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्' 'मम
माया दुरत्यया' इत्यादौ प्रसिद्धं यत् तत् कूटम्, तस्मिन्
कूटे स्थितं कूटस्थं तदध्यक्षतया । अथवा, राशिवि
स्थितं कूटस्थम् । अत एव अचलम् । यस्मात् अचलम्,
तस्मात् ध्रुवम्, नित्यमित्यर्थः ॥</p>
<lg>
  <l>संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।</l>
  <l>ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ ४ ॥</l>
</lg>
<p>संनियम्य सम्यक् नियम्य उपसंहृत्य इन्द्रियग्रामम् इन्द्रि-
यसमुदायं सर्वत्र सर्वस्मिन् काले समबुद्धयः समा तुल्या
बुद्धिः येषाम् इष्टानिष्टप्राप्तौ ते समबुद्धयः । ते ये एवंविधाः
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रता: । न तु तेषां वक्तव्यं
किंचित् ' मां ते प्राप्नुवन्ति' इति ; ' ज्ञानी त्वात्मैव मे
मतम्' इति हि उक्तम् । न हि भगवत्स्वरूपाणां सतां युक्त-
तमत्वमयुक्ततमत्वं वा वाच्यम् ॥</p>
<pb n="87" />
<p>द्वादशोऽध्यायः ।</p>
<p>किं तु --</p>
<lg>
  <l>क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।</l>
  <l>अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ ५ ॥</l>
</lg>
<p>क्लेश: अधिकतरः, यद्यपि मत्कर्मादिपराणां क्लेश: अ-
धिक एव क्लेशः अधिकतरस्तु अक्षरात्मनां परमात्मदर्शिनां
देहाभिमानपरित्यागनिमित्तः । अव्यक्तासक्तचेतसाम् अ-
व्यक्ते आसक्तं चेतः येषां ते अव्यक्तासक्तचेतसः तेषाम्
अव्यक्तासक्तचेतसाम् । अव्यक्ता हि यस्मात् या गतिः
अक्षरात्मिका दुःखं सा देहवद्भि: देहाभिमानवद्भिः अवा-
प्यते, अतः क्लेश: अधिकतरः ॥
.
अक्षरोपासकानां यत् वर्तनम्, तत् उपरिष्टाद्वक्ष्यामः -</p>
<lg>
  <l>ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।</l>
  <l>अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥</l>
</lg>
<p>ये तु सर्वाणि कर्माणि मयि ईश्वरे संन्यस्य मत्पराः
अहं परः येषां ते मत्पराः सन्तः अनन्येनैव अविद्यमानम्
अन्यत् आलम्बनं विश्वरूपं देवम् आत्मानं मुक्त्वा यस्य सः
अनन्यः तेन अनन्येनैव ; केन ? योगेन समाधिना मां ध्या-
यन्तः चिन्तयन्त: उपासते ॥</p>
<pb n="88" />
<p>तेषां किम् ? -
श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।</l>
  <l>भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥</l>
</lg>
<p>तेषां मदुपासनैकपराणाम् अहम् ईश्वरः समुद्धर्ता ।
कुतः इति आह-- मृत्युसंसारसागरात् मृत्युयुक्तः संसारः
मृत्युसंसारः, स एव सागर इव सागरः, दुस्तरत्वात्,
तस्मात् मृत्युसंसारसागरात् अहं तेषां समुद्धर्ता भवामि
न चिरात् । किं तर्हि ? क्षिप्रमेव हे पार्थ, मयि आवे-
शितचेतसां मयि विश्वरूपे आवेशितं समाहितं चेतः येषां
ते मय्यावेशितचेतसः तेषाम् ॥
यतः एवम्, तस्मात् --</p>
<lg>
  <l>मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।</l>
  <l>निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥</l>
</lg>
<p>मयि एव विश्वरूपे ईश्वरे मनः संकल्पविकल्पात्मकं
आधत्स्व स्थापय । मयि एव अध्यवसायं कुर्वतीं बुद्धिम्
आधत्स्व निवेशय । ततः ते किं स्यात् इति शृणु — निव-
सिष्यसि निवत्स्यसि निश्चयेन मदात्मना मयि निवासं</p>
<pb n="89" />
<p>द्वादशोऽध्यायः ।</p>
<p>करिष्यसि एव अतः शरीरपातात् ऊर्ध्वम् । न संशयः
संशयः अत्र न कर्तव्यः ॥</p>
<lg>
  <l>अथ चित्तं समाधातुं</l>
  <l>न शक्नोषि मयि स्थिरम् ।</l>
  <l>अभ्यासयोगेन ततो</l>
  <l>मामिच्छाप्तुं धनंजय ॥ ९ ॥</l>
</lg>
<p>अथ एवं यथा अवोचं तथा मयि चित्तं समाधातुं स्था-
पयितुं स्थिरम् अचलं न शक्नोषि चेत्, ततः पश्चात् अभ्या-
सयोगेन, चित्तस्य एकस्मिन् आलम्बने सर्वतः समाहृत्य
पुनः पुनः स्थापनम् अभ्यासः, तत्पूर्वको योग: समाधानल-
क्षणः तेन अभ्यासयोगेन मां विश्वरूपम् इच्छ प्रार्थयस्व
आप्तुं प्राप्तुं हे धनंजय ॥</p>
<lg>
  <l>अभ्यासेऽप्यसमर्थोऽसि</l>
  <l>मत्कर्मपरमो भव ।</l>
  <l>मदर्थमपि कर्माणि</l>
  <l>कुर्वन्सिद्धिमवाप्स्यसि ॥ २० ॥</l>
</lg>
<p>अभ्यासे अपि असमर्थः असि अशक्तः असि, तर्हि मत्क-</p>
<pb n="90" />
<p>श्रीमद्भगवद्गीताभाष्ये
र्मपरमः भव मदर्थं कर्म मत्कर्म तत्परमः मत्कर्मपरमः, मत्क-
प्रधान: इत्यर्थः । अभ्यासेन विना मदर्थमपि कर्माणि
केवलं कुर्वन् सिद्धिं सत्त्वशुद्धियोगज्ञानप्राप्तिद्वारेण अवा-
स्यसि ॥</p>
<lg>
  <l>अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।</l>
  <l>सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ ११ ॥</l>
</lg>
<p>अथ पुनः एतदपि यत् उक्तं मत्कर्मपरमत्वम्, तत् कर्तुम्
अशक्त: असि, मद्योगम् आश्रितः मयि क्रियमाणानि कर्मा-
णि संन्यस्य यत् करणं तेषाम् अनुष्ठानं सः मद्योगः, तम्
आश्रित: सन्, सर्वकर्मफलत्यागं सर्वेषां कर्मणां फलसं-
न्यासं सर्वकर्मफलत्यागं ततः अनन्तरं कुरु यतात्मवान्
संयतचित्तः सन् इत्यर्थः ॥
इदानीं सर्वकर्मफलत्यागं स्तौति-
श्रेयो हि ज्ञानमभ्यासा-
ज्ज्ञानाद्धधानं विशिष्यते ।
ध्यानात्कर्मफलत्याग-
स्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥ .</p>
<pb n="91" />
<p>द्वादशोऽध्यायः ।</p>
<p>श्रेयः हि प्रशस्यतरं ज्ञानम् । कस्मात् ? विवेकपूर्वकात्
अभ्यासात् । तस्मादपि ज्ञानात् ज्ञानपूर्वकं ध्यानं विशिष्यते ।
ज्ञानवतो ध्यानात् अपि कर्मफलत्यागः, 'विशिष्यते ' इति
अनुषज्यते । एवं कर्मफलत्यागात् पूर्वविशेषणवतः शान्तिः
उपशमः सहेतुकस्य संसारस्य अनन्तरमेव स्यात्, न तु
कालान्तरम् अपेक्षते ॥
अज्ञस्य कर्मणि प्रवृत्तस्य पूर्वोपदिष्टोपायानुष्ठानाशक्तौ
सर्वकर्मणां फलत्यागः श्रेयःसाधनम् उपदिष्टम्, न प्रथम-
मेव । अतश्च 'श्रेयो हि ज्ञानमभ्यासात्' इत्युत्तरोत्तरविशि-
टत्वोपदेशेन सर्वकर्मफलत्यागः स्तूयते, संपन्नसाधनानुष्ठाना-
शक्तौ अनुष्ठेयत्वेन श्रुतत्वात् । केन साधर्म्येण स्तुतित्वम् ?
'यदा सर्वे प्रमुच्यन्ते' इति सर्वकामप्रहाणात् अमृतत्वम्
उक्तम्; तत् प्रसिद्धम् । कामाश्च सर्वे श्रौतस्मार्तकर्मणां
फलानि । तत्त्यागे च विदुषः ध्याननिष्ठस्य अनन्तरैव शा-
न्तिः इति सर्वकामत्यागसामान्यम् अज्ञकर्मफलत्यागस्य
अस्ति इति तत्सामान्यात् सर्वकर्मफलत्यागस्तुति: इयं प्ररोच-
नार्था । यथा अगस्त्येन ब्राह्मणेन समुद्रः पीतः इति इदानींत-
नाः अपि ब्राह्मणाः ब्राह्मणत्वसामान्यात् स्तूयन्ते, एवं कर्म-
फलत्यागात् कर्मयोगस्य श्रेयः साधनत्वमभिहितम् ॥</p>
<pb n="92" />
<p>श्रीमद्भगवद्गीताभाष्ये
अत्र च आत्मेश्वरभेदमाश्रित्य विश्वरूपे ईश्वरे चेतः समा-
धानलक्षणः योगः उक्तः, ईश्वरार्थं कर्मानुष्ठानादि च ।
' अथैतदप्यशक्तोऽसि' इति अज्ञानकार्यसूचनात् न अभेद-
दर्शिनः अक्षरोपासकस्य कर्मयोगः उपपद्यते इति दर्शयति ;
तथा कर्मयोगिनः अक्षरोपासनानुपपत्तिम् । ' ते प्राप्नुवन्ति
मामेव' इति अक्षरोपासकानां कैवल्यप्राप्तौ स्वातन्त्र्यम्
उक्त्वा, इतरेषां पारतन्त्र्यात् ईश्वराधीनतां दर्शितवान्
'तेषामहं समुद्धर्ता' इति । यदि हि ईश्वरस्य आत्मभूताः
ते मता: अभेददर्शित्वात्, अक्षरस्वरूपाः एव ते इति समुद्ध-
रणकर्मवचनं तान् प्रति अपेशलं स्यात् । यस्माच्च अर्जुनस्य
अत्यन्तमेव हितैषी भगवान् तस्य सम्यग्दर्शनानन्वितं कर्म -
योगं भेददृष्टिमन्तमेव उपदिशति । न च आत्मानम् ईश्वरं
प्रमाणत: बुद्धा कस्यचित् गुणभावं जिगमिषति कश्चित्,
विरोधात् । तस्मात् अक्षरोपासकानां सम्यग्दर्शननिष्ठानां
संन्यासिनां त्यक्तसर्वैषणानाम् ' अद्वेष्टा सर्वभूतानाम्' इत्या-
दिधर्मपूगं साक्षात् अमृतत्वकारणं वक्ष्यामीति प्रवर्तते——</p>
<lg>
  <l>अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।</l>
  <l>निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥१३॥</l>
</lg>
<p>अद्वेष्टा सर्वभूतानां न द्वेष्टा, आत्मनः दुःखहेतुमपि न
.</p>
<pb n="93" />
<p>द्वादशोऽध्यायः ।</p>
<p>किंचित् द्वेष्टि, सर्वाणि भूतानि आत्मत्वेन हि पश्यति । मैत्रः
मित्रभाव: मैत्री मित्रतया वर्तते इति मैत्रः । करुणः एव
च, करुणा कृपा दुःखितेषु दया, तद्वान् करुणः, सर्वभूता-
भयप्रदः, संन्यासी इत्यर्थः । निर्ममः ममप्रत्ययवर्जितः ।
निरहंकारः निर्गताहंप्रत्ययः । समदुःखसुखः समे दुःखसुखे
द्वेषरागयोः अप्रवर्तके यस्य सः समदुःखसुखः । क्षमी
क्षमावान्, आक्रुष्ट: अभिहतो वा अविक्रियः एव आस्ते ॥</p>
<lg>
  <l>संतुष्टः सततं योगी</l>
  <l>यतात्मा दृढनिश्चयः ।</l>
  <l>मय्यर्पितमनोबुद्धि-</l>
  <l>य मद्भक्तः स मे प्रियः ॥ १४ ॥</l>
</lg>
<p>संतुष्टः सततं नित्यं देहस्थितिकारणस्य लाभे अलाभे च
उत्पन्नालंप्रत्ययः । तथा गुणवल्लाभे विपर्यये च संतुष्टः ।
सततं योगी समाहितचित्तः । यतात्मा संयतस्वभावः । दृढ-
निश्वयः दृढः स्थिरः निश्चय: अध्यवसायः यस्य आत्मत-
त्त्वविषये स दृढनिश्चयः । मय्यर्पितमनोबुद्धिः संकल्पविक-
ल्पात्मकं मनः,
अध्यवसायलक्षणा बुद्धि:, ते मय्येव अर्पिते
स्थापिते यस्य संन्यासिनः सः मय्यर्पितमनोबुद्धिः । यः</p>
<pb n="94" />
<p>श्रीमद्भगवद्गीताभाष्ये
ईदृश: मद्भक्तः सः मे प्रियः । 'प्रियो हि ज्ञानिनोऽत्यर्थमहं
स च मम प्रियः' इति सप्तमे अध्याये सूचितम्, तत् इह
प्रपञ्चयते ॥</p>
<lg>
  <l>यस्मान्नोद्विजते लोको</l>
  <l>लोकान्नोद्विजते च यः ।</l>
  <l>हर्षा मर्ष भयोद्वेगै-</l>
  <l>मुक्तो यः स च मे प्रियः ॥ १५ ॥</l>
</lg>
<p>यस्मात् संन्यासिनः न उद्विजते न उद्वेगं गच्छति न
संतप्यते न संक्षुभ्यति लोक:, तथा लोकात् न उद्विजते
च यः, हर्षामर्षभयोद्वेगैः हर्षश्च अमर्षश्च भयं च उद्वेगश्च
तैः हर्षामर्षभयोद्वेगैः मुक्त: ; हर्षः प्रियलाभे अन्तःकर-
णस्य उत्कर्षः रोमाञ्चनाश्रुपातादिलिङ्गः, अमर्षः असहि-
ष्णुता, भयं त्रासः, उद्वेग: उद्विग्नता, तै: मुक्तः यः स
च मे प्रियः ॥</p>
<lg>
  <l>अनपेक्षः शुचिर्दक्ष</l>
  <l>उदासीनो गतव्यथः ।</l>
  <l>सर्वारम्भपरित्यागी</l>
  <l>यो मद्भक्तः स मे प्रियः ॥ १६ ॥</l>
</lg>
<pb n="95" />
<p>द्वादशोऽध्यायः ।</p>
<p>देहेन्द्रियविषयसंबन्धादिषु अपेक्षाविषयेषु अनपेक्षः निः-
स्पृहः । शुचिः बाह्येन आभ्यन्तरेण च शौचेन संपन्नः ।
दक्षः प्रत्युत्पन्नेषु कार्येषु सद्यः यथावत् प्रतिपत्तुं समर्थः ।
उदासीनः न कस्यचित् मिलादेः पक्षं भजते यः, सः उदा-
सीनः यति: । गतव्यथः गतभयः । सर्वारम्भपरित्यागी
आरभ्यन्त इति आरम्भाः इहामुत्रफलभोगार्थानि काम-
हेतूनि कर्माणि सर्वारम्भाः, तान् परित्यक्तुं शीलम्
अस्येति सर्वारम्भपरित्यागी यः मद्भक्तः सः मे प्रियः ॥
किंच—</p>
<lg>
  <l>यो न हृष्यति न द्वेष्टि</l>
  <l>न शोचति न काङ्क्षति ।</l>
  <l>शुभाशुभपरित्यागी</l>
  <l>भक्तिमान्यः स मे प्रियः ॥ १७ ॥</l>
</lg>
<p>यः न हृष्यति इष्टप्राप्तौ न द्वेष्टि अनिष्टप्राप्तौ, न
शोचति प्रियवियोगे, न च अप्राप्तं काङ्क्षति, शुभाशुभे
कर्मणी परित्यक्तुं शीलम् अस्य इति शुभाशुभपरित्यागी
भक्तिमान् यः सः मे प्रियः ॥
समः शत्रौ च मित्रे च
तथा मानापमानयोः ।</p>
<pb n="96" />
<p>श्रीमद्भगवद्गीताभाप्ये
शीतोष्णसुखदुःखेषु
समः सङ्गविवर्जितः ॥ १८ ॥
समः शत्रौ च मित्रे च, तथा मानापमानयोः पूजाप-
रिभवयोः, शीतोष्णसुखदुःखेषु समः, सर्वत्र च सङ्गवि-
वर्जितः ॥
किंच--</p>
<lg>
  <l>तुल्यनिन्दास्तुतिमौनी</l>
  <l>संतुष्टो येन केनचित् ।</l>
  <l>अनिकेतः स्थिरमति-</l>
  <l>भक्तिमान्मे प्रियो नरः ॥ १९ ॥</l>
</lg>
<p>तुल्यनिन्दास्तुतिः निन्दा च स्तुतिश्च निन्दास्तुती ते
तुल्ये यस्य सः तुल्यनिन्दास्तुतिः । मौनी मौनवान् संय-
तवाक् । संतुष्टः येन केनचित् शरीरस्थितिहेतुमात्रेण ;
तथा च उक्तम्— 'येन केनचिदाच्छन्नो येन केनचि-
दाशितः । यत्र क्वचन शायी स्यात्तं देवा ब्राह्मणं विदुः '
इति । किंच, अनिकेतः निकेतः आश्रयः निवासः नियतः न
विद्यते यस्य सः अनिकेतः, 'नागारे' इत्यादिस्मृत्यन्त-</p>
<pb n="97" />
<p>द्वादशोऽध्यायः ।</p>
<p>रात् । स्थिरमतिः स्थिरा परमार्थविषया यस्य मतिः सः
स्थिरमतिः । भक्तिमान् मे प्रियः नरः ।
"
अद्वेष्टा सर्वभूतानाम्, इत्यादिना अक्षरोपासकानां निवृ-
त्तसर्वेषणानां संन्यासिनां परमार्थज्ञाननिष्ठानां धर्मजातं प्र-
क्रान्तम् उपसंह्रियते—</p>
<lg>
  <l>ये तु धर्म्यामृतमिदं</l>
  <l>यथोक्तं पर्युपासते ।</l>
  <l>श्रद्दधाना मत्परमा</l>
  <l>भक्तास्तेऽतीव मे प्रियाः ॥ २० ॥</l>
</lg>
<p>इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम
द्वादशोऽध्यायः ॥
ये तु संन्यासिनः धर्म्यामृतं धर्मादनपेतं धर्म्य च तत् अ-
मृतं च तत्, अमृतत्वहेतुत्वात् इदं यथोक्तम् 'अद्वेष्टा स-
र्वभूतानाम्' इत्यादिना पर्युपासते अनुतिष्ठन्ति श्रद्दधानाः</p>
<pb n="98" />
<p>.</p>
<p>श्रीमद्भगवद्गीताभाष्ये
.
सन्तः मत्परमाः यथोक्तः अहं अक्षरात्मा परमः निरतिशया
गतिः येषां ते मत्परमाः, मद्भक्ताः च उत्तमां परमार्थज्ञान-
लक्षणां भक्तिमाश्रिताः, ते अतीव मे प्रिया: । 'प्रियो हि ज्ञा-
'निनोऽत्यर्थम्' इति यत् सूचितं तत् व्याख्याय इह उपसं-
'हृतम् 'भक्तास्तेऽतीव मे प्रिया: ' इति । यस्मात् धर्म्यामृत-
मिदं यथोक्तमनुतिष्ठन् भगवतः विष्णोः परमेश्वरस्य अतीव
प्रियः भवति, तस्मात् इदं धर्म्यामृतं मुमुक्षुणा यत्नतः अनु-
ठेयं विष्णोः प्रियं परं धाम जिगमिषुणा इति वाक्यार्थः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
द्वादशोऽध्यायः ॥
柒</p>
<pb n="99" />
<p>श्रीमच्छंकरभगवत्पादविरचितम्
श्रीमद्भगवद्गीताभाष्यम्
त्रयोदशोऽध्यायः
CAA AAAAAAAA</p>
<pb n="100" />
<pb n="101" />
<p>त्रयोदशोऽध्यायः ॥
सप्तमे अध्याये सूचिते द्वे प्रकृती ईश्वर-
स्य - त्रिगुणात्मिका अष्टधा भिन्ना अप-
रा, संसारहेतुत्वात् ; परा च अन्या जीव-
भूता क्षेत्रज्ञलक्षणा ईश्वरात्मिका — या-
भ्यां प्रकृतिभ्यामीश्वरः जगदुत्पत्तिस्थिति-
लयहेतुत्वं प्रतिपद्यते । तत्र क्षेत्रक्षेत्रज्ञल-
क्षणप्रकृतिद्वयनिरूपणद्वारेण तद्वतः ईश्वरस्य तत्त्वनिर्धारणार्थ
क्षेत्राध्यायः आरभ्यते । अतीतानन्तराध्याये च
'अद्वेष्टा
सर्वभूतानाम्' इत्यादिना यावत् अध्यायपरिसमाप्तिः तावत्
तत्त्वज्ञानिनां संन्यासिनां निष्ठा यथा ते वर्तन्ते इत्येतत्
उक्तम् । केन पुनः ते तत्त्वज्ञानेन युक्ताः यथोक्तधर्मा-
चरणात् भगवत: प्रिया भवन्तीति एवमर्थश्च अयमध्यायः
आरभ्यते । प्रकृतिश्च त्रिगुणात्मिका सर्वकार्यकरणवि-
षयाकारेण परिणता पुरुषस्य भोगापवर्गार्थकर्तव्यतया देहे-
न्द्रियाद्याकारेण संहन्यते । सोऽयं संघातः इदं शरीरम् ।
तदेतत् भगवान् उवाच-
S. B. II. 6</p>
<pb n="102" />
<p>श्रीमद्भगवद्गीताभाष्ये
श्रीभगवानुवाच -</p>
<lg>
  <l>इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।</l>
  <l>एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १ ॥</l>
</lg>
<p>इदम् इति सर्वनाम्ना उक्तं विशिनष्टि शरिरम् इति । हे
कौन्तेय, क्षतत्राणात्, क्षयात्, क्षरणात्, क्षेत्रवद्वा अस्मिन्
कर्मफलनिष्पत्तेः क्षेत्रम् इति — इतिशब्दः एवंशब्दपदार्थ-
क:- -क्षेत्रम् इत्येवम् अभिधीयते कथ्यते । एतत् शरीरं क्षेत्रं
यः वेत्ति विजानाति, आपादतलमस्तकं ज्ञानेन विषयीकरोति,
स्वाभाविकेन औपदेशिकेन वा वेदनेन विषयीकरोति विभा-
गशः, तं वेदितारं प्राहुः कथयन्ति क्षेत्रज्ञः इति — इति-
शब्दः एवंशब्दपदार्थकः एव पूर्ववत् — क्षेत्रज्ञः इत्येवम्
आहुः । के ? तद्विदः तौ क्षेत्रक्षेत्रज्ञौ ये विदन्ति ते तद्विदः ॥
-
एवं क्षेत्रक्षेत्रज्ञौ उक्तौ । किम् एतावन्मात्रेण ज्ञानेन ज्ञात-
व्यौ इति ? न इति उच्यते—</p>
<lg>
  <l>क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।</l>
  <l>क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २॥</l>
</lg>
<p>क्षेत्रज्ञं यथोक्तलक्षणं चापि मां परमेश्वरम् असंसारिणं
विद्धि जानीहि । सर्वक्षेत्रेषु यः क्षेत्रज्ञः ब्रह्मादिस्तम्बपर्यन्ताने-</p>
<pb n="103" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>कक्षेत्रोपाधिप्रविभक्तः, तं निरस्तसर्वोपाधिभेदं सदसदादि-
शब्दप्रत्ययागोचरं विद्धि इति अभिप्रायः । हे भारत, यस्मात्
क्षेत्रक्षेत्रज्ञेश्वरयाथात्म्यव्यतिरेकेण न ज्ञानगोचरम् अन्यत्
अवशिष्टम् अस्ति, तस्मात् क्षेत्रक्षेत्रज्ञयोः ज्ञेयभूतयोः यत्
ज्ञानं क्षेत्रक्षेत्रज्ञौ येन ज्ञानेन विषयीक्रियेते, तत् ज्ञानं
सम्यग्ज्ञानम् इति मतम् अभिप्रायः मम ईश्वरस्य विष्णोः ॥
ननु सर्वक्षेत्रेषु एक एव ईश्वरः, न अन्यः तद्व्यतिरिक्तः
भोक्ता विद्यते चेत्, तत: ईश्वरस्य संसारित्वं प्राप्तम् ; ईश्वर-
व्यतिरेकेण वा संसारिणः अन्यस्य अभावात् संसाराभाव-
प्रसङ्गः । तच्च उभयमनिष्टम्, बन्धमोक्षतद्धेतुशास्त्रानर्थक्यप्रस-
ङ्गात्, प्रत्यक्षादिप्रमाणविरोधाच्च । प्रत्यक्षेण तावत् सुखदुःख-
तद्धेतुलक्षणः संसारः उपलभ्यते; जगद्वैचित्र्योपलब्धेन ध-
र्माधर्मनिमित्तः संसारः अनुमीयते । सर्वमेतत् अनुपपन्नमा-
मेश्वरैकत्वे ॥
न; ज्ञानाज्ञानयोः अन्यत्वेनोपपत्तेः - 'दूरमेते विपरीते
विषूची अविद्या या च विद्येति ज्ञाता' । तथा तयोः विद्या-
विद्याविषययोः फलभेदोऽपि विरुद्धः निर्दिष्टः- 'श्रेयश्च
प्रेयश्व' इति विद्याविषयः श्रेयः, प्रेयस्तु अविद्याकार्यम् इति ।
तथा च व्यासः—' द्वाविमावथ पन्थानौ' इत्यादि, 'इमौ</p>
<pb n="104" />
<p>श्रीमद्भगवद्गीताभाष्ये
द्वावेव पन्थानौ' इत्यादि च । इह च द्वे निष्ठे उक्ते । अ-
विद्या च सह कार्येण हातव्या इति श्रुतिस्मृतिन्यायेभ्यः
अवगम्यते । श्रुतयः तावत् — 'इह चेदवेदीदथ सत्यमस्ति
न चेदिहावेदीन्महती विनष्टि: ' ' तमेवं विद्वानमृत इह भव-
ति । नान्यः पन्था विद्यतेऽयनाय ' ' विद्वान्न बिभेति कुत-
श्चन' । अविदुषस्तु —— ' अथ तस्य भयं भवति, अविद्या-
यामन्तरे वर्तमानाः ' ' ब्रह्म वेद ब्रह्मैव भवति ' ' अन्यो-
ऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् '
आत्मवित् यः ' स इदं सर्वे भवति'; 'यदा चर्मवत् '
इत्याद्याः सहस्रशः । स्मृतयश्च - 'अज्ञानेनावृतं ज्ञानं तेन
मुह्यन्ति जन्तव: ' ' इहैव तैर्जितः सर्गो येषां साम्ये स्थितं
मन: ' ' समं पश्यन् हि सर्वत्र' इत्याद्याः । न्यायतश्च—
'सर्पान् कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति ।
अज्ञानतस्तत्र पतन्ति केचिज्ज्ञाने फलं पश्य यथाविशिष्टम् ' ।
तथा च-- देहादिषु आत्मबुद्धिः अविद्वान् रागद्वेषादिप्रयुक्तः
धर्माधर्मानुष्ठानकृत जायते म्रियते च इति अवगम्यते ;
देहादिव्यतिरिक्तात्मदर्शिनः रागद्वेषादिप्रहाणापेक्षधर्माधर्मप्र-
वृत्त्युपशमात् मुच्यन्ते इति न केनचित् प्रत्याख्यातुं शक्यं
न्यायतः । तत्र एवं सति, क्षेत्रज्ञस्य ईश्वरस्यैव सतः अवि-
-</p>
<pb n="105" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>द्याकृतोपाधिभेदतः संसारित्वमिव भवति, यथा देहाद्यात्म-
त्वमात्मनः । सर्वजन्तूनां हि प्रसिद्धः देहादिषु अनात्मसु
आत्मभावः निश्चितः अविद्याकृतः, यथा स्थाणौ पुरुषनिश्चयः;
न च एतावता पुरुषधर्मः स्थाणोः भवति, स्थाणुधर्मो वा
पुरुषस्य, तथा न चैतन्यधर्मो देहस्य, देहधर्मो वा चेतनस्य
सुखदुःखमोहात्मकत्वादि: आत्मन: न युक्तः ; अविद्याकृत-
त्वाविशेषात्, जरामृत्युवत् ॥
न, अतुल्यत्वात्; इति चेत् — स्थाणुपुरुषौ ज्ञेयावेव
सन्तौ ज्ञात्रा अन्योन्यस्मिन् अध्यस्तौ अविद्यया ; देहा-
मनोस्तु ज्ञेयज्ञात्रोरेव इतरेतराध्यासः, इति न समः दृष्टा-
न्तः । अतः देहधर्मः ज्ञेयोऽपि - ज्ञातुरात्मनः भवतीति
चेत्, न; अचैतन्यादिप्रसङ्गात् । यदि हि ज्ञेयस्य देहादेः
क्षेत्रस्य धर्माः सुखदुःखमोहेच्छादयः ज्ञातुः भवन्ति, तर्हि,
' ज्ञेयस्य क्षेत्रस्य धर्माः केचित् आत्मनः भवन्ति अविद्या-
ध्यारोपिताः, जरामरणादयस्तु न भवन्ति' इति विशेषहेतुः
वक्तव्यः । ' न भवन्ति' इति अस्ति अनुमानम् - अवि-
द्याध्यारोपितत्वात् जरामरणादिवत् इति, हेयत्वात् उपादे-
यत्वाच्च इत्यादि । तत्र एवं सति कर्तृत्वभोक्तृत्वलक्षणः
संसारः ज्ञेयस्थः ज्ञातरि अविद्यया अध्यारोपितः इति, न
'</p>
<pb n="106" />
<p>श्रीमद्भगवद्गीताभाष्ये
तेन ज्ञातुः किंचित् दुष्यति, यथा बालैः अध्यारोपितेन
आकाशस्य तलमलिनत्वादिना ॥
एवं च सति, सर्वक्षेत्रेष्वपि सतः भगवत: क्षेत्रज्ञस्य
ईश्वरस्य संसारित्वगन्धमात्रमपि नाशङ्कयम् । न हि कचि-
दपि लोके अविद्याध्यस्तेन धर्मेण कस्यचित् उपकारः अप-
कारो वा दृष्टः ॥
यत्तु उक्तम् — न समः दृष्टान्तः इति, तत् असत् ।
कथम् ? अविद्याध्यासमात्रं हि दृष्टान्तदान्तिकयोः साध-
यै विवक्षितम् । तत् न व्यभिचरति । यत्तु ज्ञातरि
व्यभिचरति इति मन्यसे तस्यापि अनैकान्तिकत्वं दर्शितं
जरादिभिः ॥
'
अविद्यावत्त्वात् क्षेत्रज्ञस्य संसारित्वम् इति चेत्, न;
अविद्यायाः तामसत्वात् । तामसो हि प्रत्ययः, आवरणात्म-
कत्वात् अविद्या विपरीतग्राहकः, संशयोपस्थापको वा,
अग्रहणात्मको वा; विवेकप्रकाशभावे तदभावात्, तामसे
च आवरणात्मके तिमिरादिदोषे सति अग्रहणादेः अविद्या-
वयस्य उपलब्धेः ॥
अत आह— एवं तर्हि ज्ञातृधर्मः अविद्या । न ; करणे
चक्षुषि तैमिरिकत्वादिदोषोपलब्धेः । यत्तु मन्यसे — ज्ञातृधर्मः
-</p>
<pb n="107" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>अविद्या, तदेव च अविद्याधर्मवत्त्वं क्षेत्रज्ञस्य संसारित्वम् ;
तत्र यदुक्तम् 'ईश्वर एव क्षेत्रज्ञः, न संसारी' इत्येतत्
अयुक्तमिति -- तत् न; यथा करणे चक्षुषि विपरीतग्राह-
कादिदोषस्य दर्शनात् । न विपरीतादिग्रहणं तन्निमित्तं वा
तैमिरिकत्वादिदोषः ग्रहीतुः, चक्षुषः संस्कारेण तिमिरे
अपनीते ग्रहीतुः अदर्शनात् न ग्रहीतुर्धर्मः यथा; तथा
सर्वत्रैव अग्रहणविपरीत संशयप्रत्ययास्तन्निमित्ताः करणस्यैव
कस्यचित् भवितुमर्हन्ति, न ज्ञातुः क्षेत्रज्ञस्य । संवेद्यत्वाच्च
तेषां प्रदीपप्रकाशवत् न ज्ञातृधर्मत्वम् — संवेद्यत्वादेव स्वा-
त्मव्यतिरिक्तसंवेद्यत्वम्; सर्वकरणवियोगे च कैवल्ये सर्व-
वादिभिः अविद्यादिदोषवत्त्वानभ्युपगमात् । आत्मनः यदि
क्षेत्रज्ञस्य अग्न्युष्णवत् स्वः धर्मः, ततः न कदाचिदपि तेन
वियोग: स्यात् । अविक्रियस्य च व्योमवत् सर्वगतस्य
अमूर्तस्य आत्मनः केनचित् संयोगवियोगानुपपत्तेः, सिद्धं
क्षेत्रज्ञस्य नित्यमेव ईश्वरत्वम्; 'अनादित्वान्निर्गुणत्वात् '
इत्यादीश्वरवचनाच्च ॥
ननु एवं सति संसार संसारित्वाभावे शास्त्रानर्थक्यादिदोषः
स्यादिति चेत्, न; सर्वैरभ्युपगतत्वात् । सर्वैर्हि आत्मवा-
दिभिः अभ्युपगतः दोषः न एकेन परिहर्तव्यः भवति ।</p>
<pb n="108" />
<p>श्रीमद्भगवद्गीताभाष्ये
कथम् अभ्युपगतः इति ? मुक्तात्मनां हि संसार संसारि-
त्वव्यवहाराभावः सर्वैरेव आत्मवादिभिः इष्यते । न च
तेषां शास्त्रानर्थक्यादिदोषप्राप्तिः अभ्युपगता । तथा नः
क्षेत्रज्ञानाम् ईश्वरैकत्वे सति शास्त्रानर्थक्यं भवतु; अवि-
द्याविषये च अर्थवत्त्वम् — यथा द्वैतिनां सर्वेषां बन्धाव-
स्थायामेव शास्त्राद्यर्थवत्त्वम्, न मुक्तावस्थायाम्, एवम् ॥
ननु आत्मनः बन्धमुक्तावस्थे परमार्थत एव वस्तुभूते है-
तिनां सर्वेषाम् । अतः हेयोपादेयतत्साधनसद्भावे शास्त्रा-
द्यर्थवत्त्वं स्यात् । अद्वैतिनां पुनः द्वैतस्य अपरमार्थत्वात्,
अविद्याकृतत्वात् वन्धावस्थायाश्च आत्मनः अपरमार्थत्वे नि-
र्विषयत्वात्, शास्त्राद्यानर्थक्यम् इति चेत्, न ; आत्मन: अ-
वस्थाभेदानुपपत्तेः । यदि तावत् आत्मनः बन्धमुक्तावस्थे,
युगपत् स्याताम्, क्रमेण वा । युगपत् तावत् विरोधात् न
संभवतः स्थितिगती इव एकस्मिन् । क्रमभावित्वे च,
निर्निमित्तत्वे अनिर्मोक्षप्रसङ्गः । अन्यनिमित्तत्वे च स्वतः
अभावात् अपरमार्थत्वप्रसङ्गः । तथा च सति अभ्युपगम-
हानिः । किंच, बन्धमुक्तावस्थयोः पौर्वापर्यनिरूपणायां
बन्धावस्था पूर्व प्रकल्प्या, अनादिमती अन्तवती च ; तच्च
प्रमाणविरुद्धम् । तथा मोक्षावस्था आदिमती अनन्ता च</p>
<pb n="109" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>प्रमाणविरुद्धैव अभ्युपगम्यते । न च अवस्थावतः अवस्था-
न्तरं गच्छतः नित्यत्वम् उपपादयितुं शक्यम् । अथ अनि-
त्यत्वदोषपरिहाराय बन्धमुक्तावस्थाभेदो न कल्प्यते, अतः
द्वैतिनामपि शास्त्रानर्थक्यादिदोषः अपरिहार्य एव; इति
समानत्वात् न अद्वैतवादिना परिहर्तव्यः दोषः ॥
न च शास्त्रानर्थक्यम्, यथाप्रसिद्धा विद्वत्पुरुषविषयत्वात्
शास्त्रस्य । अविदुषां हि फलहेत्वोः अनात्मनोः आत्मदर्शनम्,
न विदुषाम् ; विदुषां हि फलहेतुभ्याम् आत्मनः अन्यत्व-
दर्शने सति, तयोः अहमिति आत्मदर्शनानुपपत्तेः । न हि
अत्यन्तमूढः उन्मत्तादिरपि जलाग्न्योः छायाप्रकाशयोर्वा
ऐकात्म्यं पश्यति ; किमुत विवेकी । तस्मात् न विधिप्रति-
वेधशास्त्रं तावत् फलहेतुभ्याम् आत्मनः अन्यत्वदर्शिनः
भवति । न हि 'देवदत्त, त्वम् इदं कुरु' इति कस्मिंश्चित्
कर्मणि नियुक्ते, विष्णुमित्र: ' अहं नियुक्त:' इति तत्रस्थ:
नियोगं शृण्वन्नपि प्रतिपद्यते । वियोगविषयविवेकाग्रहणात्
तु उपपद्यते प्रतिपत्तिः; तथा फलहेत्वोरपि ॥
ननु प्राकृतसंबन्धापेक्षया युक्तैव प्रतिपत्तिः शास्त्रार्थविष-
या —फलहेतुभ्याम् अन्यात्मविषयदर्शनेऽपि सति- - इष्टफल-
तौ प्रवर्तितः अस्मि, अनिष्टफलहेतोश्च निवर्तित: अस्मीति ;</p>
<pb n="110" />
<p>श्रीमद्भगवद्गीताभाष्ये
यथा पितृपुत्रादीनाम् इतरेतरात्मान्यत्वदर्शने सत्यपि अन्यो-
न्यनियोगप्रतिषेधार्थप्रतिपत्तिः । न ; व्यतिरिक्तात्मदर्शनप्रति-
पत्तेः प्रागेव फलहेत्वोः आत्माभिमानस्य सिद्धत्वात् । प्रति-
पन्ननियोगप्रतिषेधार्थो हि फलहेतुभ्याम् आत्मनः अन्यत्वं
प्रतिपद्यते, न पूर्वम् । तस्मात् विधिप्रतिषेधशास्त्रम् अवि-
द्वद्विषयम् इति सिद्धम् ॥
ननु ' स्वर्गकामो यजेत' 'न कलखं भक्षयेत्' इत्यादौ
आत्मव्यतिरेकदर्शिनाम् अप्रवृत्तौ, केवलदेहाद्यात्मदृष्टीनां च ;
अतः कर्तुः अभावात् शास्त्रानर्थक्यमिति चेत्, न; यथाप्र-
सिद्धित एव प्रवृत्तिनिवृत्त्युपपत्तेः । ईश्वरक्षेत्रज्ञैकत्वदर्शी
ब्रह्मवित् तावत् न प्रवर्तते । तथा नैरात्म्यवाद्यपि नास्ति
परलोकः इति न प्रवर्तते । यथाप्रसिद्धितस्तु विधिप्रतिषेध-
शास्त्रश्रवणान्यथानुपपत्त्या अनुमितात्मास्तित्व: आत्मविशे-
षानभिज्ञः कर्मफलसंजाततृष्णः श्रद्दधानतया च प्रवर्तते ।
इति सर्वेषां नः प्रत्यक्षम् । अतः न शास्त्रानर्थक्यम् ॥
विवेकिनाम् अप्रवृत्तिदर्शनात् तदनुगामिनाम् अप्रवृत्तौ
शास्त्रानर्थक्यम् इति चेत्, न; कस्यचिदेव विवेकोपपत्तेः ।
अनेकेषु हि प्राणिषु कश्चिदेव विवेकी स्यात्, यथेदानीम् ।
न च विवेकिनम् अनुवर्तन्ते मूढाः, रागादिदोषतन्वत्वात्</p>
<pb n="111" />
<p>त्रयोदशोऽध्यायः ।
. ३६७
प्रवृत्तेः, अभिचरणादौ च प्रवृत्तिदर्शनात्, स्वाभाव्याच
' स्वभावस्तु प्रवर्तते' इति हि उक्तम् ॥
प्रवृत्तेः-
--
तस्मात् अविद्यामात्रं संसारः यथादृष्टविषयः एव । न
क्षेत्रज्ञस्य केवलस्य अविद्या तत्कार्य च । न च मिथ्याज्ञानं
परमार्थवस्तु दूषयितुं समर्थम् । न हि ऊषरदेशं स्नेहेन
पङ्कीकर्तुं शक्नोति मरीच्युदकम् । तथा अविद्या क्षेत्रज्ञस्य न
किंचित् कर्तुं शक्नोति । अतश्चेदमुक्तम् — ' क्षेत्रज्ञं चापि
मां विद्धि' 'अज्ञानेनावृतं ज्ञानम्' इति च ॥
अथ किमिदं संसारिणामिव 'अहमेवम् ' ' ममैवेदम् '
इति पण्डितानामपि ? शृणु; इदं तत् पाण्डित्यम्, यत्
क्षेत्रे एव आत्मदर्शनम् । यदि पुन: क्षेत्रज्ञम् अविक्रियं
पश्येयुः, ततः न भोगं कर्म वा आकालेयुः 'मम स्यात् '
इति । विक्रियैव भोगकर्मणी । अथ एवं सति, फलार्थि-
त्वात् अविद्वान् प्रवर्तते । विदुषः पुनः अविक्रियात्मदर्शिनः
फलार्थित्वाभावात् प्रवृत्त्यनुपपत्तौ कार्यकरणसंघातव्यापारो-
परमे निवृत्ति: उपचर्यते ॥
·
-
इदं च अन्यत् पाण्डित्यं केषांचित् अस्तु — क्षेत्रज्ञः
ईश्वर एव । क्षेत्रं च अन्यत् क्षेत्रज्ञस्यैव विषयः । अहं तु
संसारी सुखी दुःखी च । संसारोपरमश्च मम कर्तव्यः क्षेत्र-</p>
<pb n="112" />
<p>श्रीमद्भगवद्गीताभाप्ये
क्षेत्रज्ञविज्ञानेन ध्यानेन च ईश्वरं क्षेत्रज्ञं साक्षात्कृत्वा
तत्स्वरूपावस्थानेनेति । यश्च एवं बुध्यते, यश्च बोधयति,
नासौ क्षेत्रज्ञः इति । एवं मन्वानः यः सः पण्डितापशदः,
संसारमोक्षयोः शास्त्रस्य च अर्थवत्त्वं करोमीति ; आत्महा
स्वयं मूढः अन्यांश्च व्यामोहयति शास्त्रार्थ संप्रदाय रहितत्वात्,
श्रुतहानिम् अश्रुतकल्पनां च कुर्वन् । तस्मात् असंप्रदायवित्
सर्वशास्त्रविदपि मूर्खवदेव उपेक्षणीयः ॥
,
यत्तूक्तम् 'ईश्वरस्य क्षेत्रज्ञैकत्वे संसारित्वं प्राप्नोति, क्षेत्र-
ज्ञानां च ईश्वरैकत्वे संसारिणः अभावात् संसाराभावप्रसङ्गः
इति, एतौ दोषौ प्रत्युक्तौ ' विद्याविद्ययोः वैलक्षण्याभ्युपग-
मात्' इति । कथम् ? अविद्यापरिकल्पितदोषेण तद्विषयं वस्तु
पारमार्थिकं न दुष्यतीति । तथा च दृष्टान्तः दर्शितः-
मरीच्यम्भसा ऊषरदेशो न पङ्कीक्रियते इति । संसारिणः
अभावात् संसाराभावप्रसङ्गदोषोऽपि संसारसंसारिणोः अवि-
द्याकल्पितत्वोपपत्त्या प्रत्युक्तः ॥
ननु अविद्यावत्त्वमेव क्षेत्रज्ञस्य संसारित्वदोषः । तत्कृतं
च सुखित्वदुःखित्वादि प्रत्यक्षम् उपलभ्यते इति चेत्, न ;
ज्ञेयस्य क्षेत्रधर्मत्वात्, ज्ञातुः क्षेत्रज्ञस्य तत्कृतदोषानुपपत्तेः ।
यावत् किंचित् क्षेत्रज्ञस्य दोषजातम् अविद्यमानम् आसञ्ज-</p>
<pb n="113" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>यसि, तस्य ज्ञेयत्वोपपत्तेः क्षेत्रधर्मत्वमेव, न क्षेत्रज्ञधर्मत्वम् ।
न च तेन क्षेत्रज्ञः दुष्यति, ज्ञेयेन ज्ञातुः संसर्गानुपपत्तेः । यदि
हि संसर्ग: स्यात्, ज्ञेयत्वमेव नोपपद्येत । यदि आत्मनः धर्मः
अविद्यावत्त्वं दुःखित्वादि च कथं भोः प्रत्यक्षम् उपलभ्यते, कथं
वा क्षेत्रज्ञधर्मः । ' ज्ञेयं च सर्वं क्षेत्रं ज्ञातैव क्षेत्रज्ञ: ' इति
अवधारिते, 'अविद्यादुःखित्वादेः क्षेत्रज्ञविशेषणत्वं क्षेत्रज्ञध-
र्मत्वं तस्य च प्रत्यक्षोपलभ्यत्वम्' इति विरुद्धम् उच्यते अ-
विद्यामात्रावष्टम्भात् केवलम् ॥
-
अत्र आह-
- सा अविद्या कस्य इति । यस्य दृश्यते
तस्य एव । कस्य दृश्यते इति । अब उच्यते— 'अविद्या
कस्य दृश्यते ? इति प्रश्नः निरर्थकः । कथम्? दृश्यते
चेत् अविद्या, तद्वन्तमपि पश्यसि । न च तद्वति उप-
लभ्यमाने 'सा कस्य ?' इति प्रश्नो युक्तः । न हि गो-
मति उपलभ्यमाने 'गावः कस्य ?' इति प्रश्नः अर्थ-
वान् भवति । ननु विषमो दृष्टान्तः । गवां तद्वतश्च प्रत्यक्ष-
त्वात् तत्संबन्धोऽपि प्रत्यक्ष इति प्रश्नो निरर्थकः । न तथा
अविद्या तद्वांश्च प्रत्यक्षौ, यतः प्रश्नः निरर्थकः स्यात् । अप्र-
त्यक्षेण अविद्यावता अविद्यासंबन्धे ज्ञाते, किं तव स्यात् ?
अविद्यायाः अनर्थहेतुत्वात् परिहर्तव्या स्यात् । यस्य अवि-</p>
<pb n="114" />
<p>श्रीमद्भगवद्गीताभाष्ये
द्या, सः तां परिहरिष्यति । ननु ममैव अविद्या । जानासि
तर्हि अविद्यां तद्वन्तं च आत्मानम् । जानामि, न तु प्रत्य-
क्षेण । अनुमानेन चेत् जानासि कथं संबन्धग्रहणम् ? न
हि तव ज्ञातुः ज्ञेयभूतया अविद्यया तत्काले संबन्धः ग्रहीतुं
शक्यते, अविद्याया विषयत्वेनैव ज्ञातुः उपयुक्तत्वात् । न च
ज्ञातुः अविद्यायाश्च संबन्धस्य यः ग्रहीता, ज्ञानं च अन्यत्
तद्विषयं संभवति; अनवस्थाप्राप्तेः । यदि ज्ञात्रापि ज्ञेयसंब-
न्धो ज्ञायते, अन्यः ज्ञाता कल्प्यः स्यात्, तस्यापि अन्यः,
तस्यापि अन्यः इति अनवस्था अपरिहार्या । यदि पुन: अ-
विद्या ज्ञेया, अन्यद्वा ज्ञेयं ज्ञेयमेव । तथा ज्ञातापि ज्ञातैव,
न ज्ञेयं भवति । यदा च एवम् अविद्यादुःखित्वाद्यैः
ज्ञातुः क्षेत्रज्ञस्य किंचित् दुष्यति ।
न
ननु अयमेव दोषः, यत् दोषवत्क्षेत्रविज्ञातृत्वम् ; न च
विज्ञानस्वरूपस्यैव अविक्रियस्य विज्ञातृत्वोपचारात्; यथा
उष्णतामात्रेण अग्नेः तप्तिक्रियोपचारः, तद्वत् । यथा अत्र
भगवता क्रियाकारक फलात्मत्वाभावः आत्मनि स्वत एव
दर्शित:- - अविद्याध्यारोपितः एव क्रियाकारकादि: आत्मनि
य एनं वेत्ति हन्तारम्' 'प्रकृतेः
--
"
उपचर्यते ; तथा तत्र तत्र
क्रियमाणानि गुणैः कर्माणि सर्वश: ' 'नादत्ते कस्यचित्पा</p>
<pb n="115" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>पम्' इत्यादिप्रकरणेषु दर्शितः । तथैव च व्याख्यातम्
अस्माभिः । उत्तरेषु च प्रकरणेषु दर्शयिष्यामः ॥
हन्त ! तर्हि आत्मनि क्रियाकारकफलात्मताया: स्वतः
अभावे, अविद्यया च अध्यारोपितत्वे, कर्माणि अविद्वत्क-
र्तव्यान्येव, न विदुषाम् इति प्राप्तम् । सत्यम् एवं प्राप्तम्,
एतदेव च ' न हि देहभृता शक्यम्' इत्यत्र दर्शयिष्यामः ।
सर्वशास्त्रार्थोपसंहारप्रकरणे च 'समासेनैव कौन्तेय निष्ठा
ज्ञानस्य या परा ' इत्यत्र विशेषतः दर्शयिष्यामः । अलम् इह
बहुप्रपञ्चनेन, इति उपसंह्रियते ॥
' इदं शरीरम्' इत्यादिश्लोकोपदिष्टस्य क्षेत्राध्यायार्थस्य
संग्रहश्लोकः अयम् उपन्यस्यते ' तत्क्षेत्रं यच्च' इत्यादि,
व्याचिख्यासितस्य हि अर्थस्य संग्रहोपन्यासः न्याय्यः
इति--</p>
<lg>
  <l>तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।</l>
  <l>स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥३॥</l>
</lg>
<p>यत् निर्दिष्टम् ' इदं शरीरम्' इति तत् तच्छब्देन परा-
मृशति । यच्च इदं निर्दिष्टं क्षेत्रं तत् यादृक् यादृशं स्वकीयैः
धर्मैः । च-शब्दः समुच्चयार्थः । यद्विकारि यः विकार:</p>
<pb n="116" />
<p>श्रीमद्भगवद्गीताभाष्ये
यस्य तत् यद्विकारि, यतः यस्मात् च यत्, कार्यम् उत्पद्यते
इति वाक्यशेषः । स च यः क्षेत्रज्ञः निर्दिष्टः सः यत्प्रभावः
ये प्रभावा: उपाधिकृताः शक्तयः यस्य सः यत्प्रभावश्च ।
तत् क्षेत्रक्षेत्रज्ञयोः याथात्म्यं यथाविशेषितं समासेन संक्षेपेण
मे मम वाक्यतः शृणु, श्रुत्वा अवधारय इत्यर्थः ॥
तत् क्षेत्रक्षेत्रज्ञयाथात्म्यं विवक्षितं स्तौति श्रोतृबुद्धिप्ररो-
चनार्थम्—</p>
<lg>
  <l>ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।</l>
  <l>ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ ४ ॥</l>
</lg>
<p>ऋषिभिः वसिष्ठादिभि: बहुधा बहुप्रकारं गीतं कथितम् ।
छन्दोभिः छन्दांसि ऋगादीनि तैः छन्दोभिः विविधैः नाना-
भावैः नानाप्रकारैः पृथक् विवेकतः गीतम् । किंच, ब्रह्मसूत्र-
पदैश्व एव ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि तैः प
द्यते गम्यते ज्ञायते इति तानि पदानि उच्यन्ते तैरेव च
क्षेत्रक्षेत्रज्ञयाथात्म्यम् 'गीतम्' इति अनुवर्तते । 'आत्मेत्येवो-
पासीत' इत्येवमादिभिः ब्रह्मसूत्रपदैः आत्मा ज्ञायते, हेतुम-
द्भिः युक्तियुक्तैः विनिश्चितैः निःसंशयरूपैः निश्चितप्रत्ययोत्पा-
दकैः इत्यर्थः ॥</p>
<pb n="117" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>स्तुत्या अभिमुखीभूताय अर्जुनाय आह भगवान्-</p>
<lg>
  <l>महाभूतान्यहंकारो वुद्धिरव्यक्तमेव च ।</l>
  <l>इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥५॥</l>
</lg>
<p>महाभूतानि महान्ति च तानि सर्वविकारव्यापकत्वात्
भूतानि च सूक्ष्माणि । स्थूलानि तु इन्द्रियगोचरशब्देन
अभिधायिष्यन्ते अहंकार : महाभूतकारणम् अहंप्रत्ययलक्षणः ।
अहंकारकारणं बुद्धिः अध्यवसायलक्षणा । तत्कारणम् अव्य-
क्तमेव च, न व्यक्तम् अव्यक्तम् अव्याकृतम् ईश्वरशक्ति:
'मम माया दुरत्यया' इत्युक्तम् । एवशब्दः प्रकृत्यवधार-
णार्थः एतावत्येव अष्टधा भिन्ना प्रकृतिः । च-शब्दः
भेदसमुच्चयार्थः । इन्द्रियाणि दश, श्रोत्रादीनि पञ्च बुद्धयु-
त्पादकत्वात् बुद्धीन्द्रियाणि, वाक्पाण्यादीनि पश्च कर्मनि-
वर्तकत्वात् कर्मेन्द्रियाणि तानि दश । एकं च; किं तत् ?
मनः एकादशं संकल्पाद्यात्मकम् । पञ्च च इन्द्रियगोचराः
शब्दादयो विषयाः । तानि एतानि सांख्याः चतुर्विंशति-
तत्त्वानि आचक्षते ॥</p>
<lg>
  <l>इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः ।</l>
  <l>एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६ ॥</l>
</lg>
<p>S. B. II. 7</p>
<pb n="118" />
<p>श्रीमद्भगवद्गीताभाष्ये
इच्छा, यज्जातीयं सुखहेतुमर्थम् उपलब्धवान् पूर्वम्,
पुनः तज्जातीयमुपलभमान: तमादातुमिच्छति सुखहेतुरिति ;
सा इयं इच्छा अन्तःकरणधर्मः ज्ञेयत्वात् क्षेत्रम् । तथा
द्वेषः, यज्जातीयमर्थ दुःखहेतुत्वेन अनुभूतवान् पुनः
तज्जातीयमर्थमुपलभमानः तं द्वेष्टि; सोऽयं द्वेषः ज्ञेयत्वात्
क्षेत्रमेव । तथा सुखम् अनुकूलं प्रसन्नसत्त्वात्मकं ज्ञेयत्वात्
क्षेत्रमेव । दुःखं प्रतिकूलात्मकम् ; ज्ञेयत्वात् तदपि क्षेत्रम् ।
संघातः देहेन्द्रियाणां संहतिः । तस्यामभिव्यक्तान्तःकरणवृ-
त्तिः, तप्त इव लोहपिण्डे अग्निः आत्मचैतन्याभासरसविद्धा
चेतना; साचः क्षेत्रं ज्ञेयत्वात् । धृतिः यया अवसादप्राप्तानि
देहेन्द्रियाणि प्रियन्ते ; सा च ज्ञेयत्वात् क्षेत्रम् । सर्वान्त:क-
रणधर्मोपलक्षणार्थम् इच्छादिग्रहणम् । यत उक्तमुपसंहरति-
एतत् क्षेत्रं समासेन सविकारं सह विकारेण महदादिना
उदाहृतम् उक्तम् ॥
यस्य क्षेत्रभेदजातस्य संहतिः ' इदं शरीरं क्षेत्रम्' इति
उक्तम्, तत् क्षेत्रं व्याख्यातं महाभूतादिभेदभिन्नं धृत्यन्तम् ।
क्षेत्रज्ञः वक्ष्यमाणविशेषण:- यस्य सप्रभावस्य क्षेत्रज्ञस्य
परिज्ञानात् अमृतत्वं भवति, तम् ' ज्ञेयं यत्तत्प्रवक्ष्यामि '
इत्यादिना सविशेषणं स्वयमेव वक्ष्यति भगवान् । अधुना तु
-</p>
<pb n="119" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>तज्ज्ञानसाधनगणममानित्वादिलक्षणम्, यस्मिन् सति तज्ज्ञेय-
विज्ञाने योग्य: अधिकृतः भवति, यत्परः संन्यासी ज्ञाननिष्ठः
उच्यते, तम् अमानित्वादिगणं ज्ञानसाधनत्वात् ज्ञानशब्द-
वाच्यं विदधाति भगवान् —</p>
<lg>
  <l>अमानित्वमदृम्भित्व-</l>
  <l>महिंसा क्षान्तिरार्जवम् ।</l>
  <l>आचार्योपासनं शौचं</l>
  <l>स्थैर्यमात्मविनिग्रहः ॥ ७ ॥</l>
</lg>
<p>अमानित्वं मानिनः भावः मानित्वमात्मनः श्लाघनम्,
तदभावः अमानित्वम् । अदम्भित्वं स्वधर्मप्रकटीकरणं दम्भ-
त्वम्, तदभावः अदम्भित्वम् । अहिंसा अहिंसनं प्राणि-
नामपीडनम् । क्षान्तिः परापराधप्राप्तौ अविक्रिया । आर्जवम्
ऋजुभावः अवक्रत्वम् । आचार्योपासनं मोक्षसाधनोपदेष्टुः
आचार्यस्य शुश्रूषादिप्रयोगेण सेवनम् । शौचं कायमलानां
मृज्जलाभ्यां प्रक्षालनम्; अन्तश्च मनसः प्रतिपक्षभावनया
रागादिमलानामपनयनं शौचम् । स्थैर्य स्थिरभाव:, मोक्ष-
मार्गे एव कृताध्यवसायत्वम् । आत्मविनिग्रहः आत्मनः अप-
कारकस्य आत्मशब्दवाच्यस्य कार्यकरणसंघातस्य विनिग्रहः
i</p>
<pb n="120" />
<p>श्रीमद्भगवद्गीताभाष्ये
स्वभावेन सर्वतः प्रवृत्तस्य सन्मार्गे एव निरोधः आत्म-
विनिग्रहः ॥
किंच-</p>
<lg>
  <l>इन्द्रियार्थेषु वैराग्यमनहंकार एव च ।</l>
  <l>जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ८ ॥</l>
</lg>
<p>इन्द्रियार्थेषु शब्दादिषु दृष्टादृष्टेषु भोगेषु विरागभावो
वैराग्यम् अनहंकारः अहंकाराभावः एव च जन्ममृत्युजरा-
व्याधिदुःखदोषानुदर्शनं जन्म च मृत्युश्च जरा च व्याधय-
श्च दुःखानि च तेषु जन्मादिदुःखान्तेषु प्रत्येकं दोषानुदर्श-
नम् । जन्मनि गर्भवासयोनिद्वारनिःसरणं दोष:, तस्य अनु-
दर्शनमालोचनम् । तथा मृत्यौ दोषानुदर्शनम् । तथा जरायां
प्रज्ञाशक्तितेजोनिरोधदोषानुदर्शनं परिभूतता चेति । तथा
व्याधिषु शिरोरोगादिषु दोषानुदर्शनम् । तथा दुःखेषु अ-
ध्यात्माधिभूताधिदैव निमित्तेषु । अथवा दुःखान्येव दोषः
दुःखदोषः तस्य जन्मादिषु पूर्ववत् अनुदर्शनम् — दुःखं
जन्म, दुःखं मृत्युः, दुःखं जरा, दुःखं व्याधयः । दुःखनि-
मित्तत्वात् जन्मादयः दुःखम्, न पुनः स्वरूपेणैव दुःखमि -
ति । एवं जन्मादिषु दुःखदोषानुदर्शनात् देहेन्द्रियादिविषय-</p>
<pb n="121" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>भोगेषु वैराग्यमुपजायते । ततः प्रत्यगात्मनि प्रवृत्तिः कर-
णानामात्मदर्शनाय । एवं ज्ञानहेतुत्वात् ज्ञानमुच्यते जन्मा-
दिदुःखदोषानुदर्शनम् ॥
किंच-</p>
<lg>
  <l>असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।</l>
  <l>नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ ९ ॥</l>
</lg>
<p>-
"
असक्तिः सक्तिः सङ्गनिमित्तेषु विषयेषु प्रीतिमात्रम्, तद-
भावः असक्तिः । अनभिष्वङ्गः अभिष्वङ्गाभावः । अभिष्व-
ङ्गो नाम आसक्तिविशेष एव अनन्यात्मभावनालक्षण: ; यथा
अन्यस्मिन् सुखिनि दुःखिनि वा 'अहमेव सुखी, दुःखी
च,' जीवति मृते वा 'अहमेव जीवामि मरिष्यामि च '
इति । क इति आह— पुत्रदारगृहादिषु पुत्रेषु दारेषु गृहेषु
आदिग्रहणात् अन्येष्वपि अत्यन्तेष्टेषु दासवर्गादिषु । तथ
उभयं ज्ञानार्थत्वात् ज्ञानमुच्यते । नित्यं च समचित्तत्वं तु-
ल्यचित्तता । क ? इष्टानिष्टोपपत्तिषु इष्टानामनिष्टानां च उप-
पत्तयः संप्राप्तयः तासु इष्टानिष्टोपपत्तिषु नित्यमेव तुल्य-
चित्तता । इष्टोपपत्तिषु न हृष्यति, न कुप्यति च अनिष्टो-
पपत्तिषु । तञ्च एतत् नित्यं समचित्तत्वं ज्ञानम् ॥</p>
<pb n="122" />
<p>श्रीमद्भगवद्गीताभाष्ये
किंच-
मयि चानन्ययोगेन
भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १० ।
मयि च इश्वरे अनन्ययोगेन अपृथक्समाधिना 'न
अन्यो भगवतो वासुदेवात् परः अस्ति, अतः स एव नः
गति:' इत्येवं निश्चिता अव्यभिचारिणी बुद्धिः अनन्ययोगः,
तेन भजनं भक्तिः न व्यभिचरणशीला अव्यभिचारिणी ।
सा च ज्ञानम् । विविक्तदेशसेवित्वम्, विविक्तः स्वभावतः
संस्कारेण वा अशुच्यादिभिः सर्पव्याघ्रादिभिश्च रहितः
अरण्यनदी पुलिनदेवगृहादिभिर्विविक्तो देशः, तं सेवितुं शील-
मस्य इति विविक्तदेशसेवी, तद्भावः विवक्तदेशसेवित्वम् ।
विविक्तेषु हि देशेषु चित्तं प्रसीदति यतः ततः आत्मादिभां-
वना विविक्ते उपजायते । अतः विविक्तदेशसेवित्वं ज्ञानमु-
च्यते । अरतिः अरमणं जनसंसदि, जनानां प्राकृतानां
संस्कारशून्यानाम् अविनीतानां संसत् समवायः जनसंसत्;
न संस्कारवतां विनीतानां संसत्; तस्याः ज्ञानोपकारक-
त्वात् । अत: प्राकृतजनसंसदि अरति: ज्ञानार्थत्वात्
ज्ञानम् ॥
.</p>
<pb n="123" />
<p>किंच——
त्रयोदशोऽध्यायः ।</p>
<lg>
  <l>अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।</l>
  <l>एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥</l>
</lg>
<p>अध्यात्मज्ञाननित्यत्वम् आत्मादिविषयं ज्ञानम् अध्यात्म-
ज्ञानम्, तस्मिन् नित्यभावः नित्यत्वम् । अमानित्वादीनां
ज्ञानसाधनानां भावनापरिपाकनिमित्तं तत्त्वज्ञानम् तस्य
अर्थः मोक्षः संसारोपरमः ; तस्य आलोचनं तत्त्वज्ञानार्थदर्श-
नम् ; तत्वज्ञानफलालोचने हि तत्साधनानुष्ठाने प्रवृत्तिः स्या
दिति । एतत् अमानित्वादितत्त्वज्ञानार्थदर्शनान्तमुक्तं ज्ञानम् इति
प्रोक्तं ज्ञानार्थत्वात् । अज्ञानं यत् अतः अस्मात् यथोक्तात्
अन्यथा विपर्ययेण । मानित्वं दम्भित्वं हिंसा अक्षान्ति:
अनार्जवम् इत्यादि अज्ञानं विज्ञेयं परिहरणाय, संसारप्रवृत्ति-
कारणत्वात् इति ॥
5.
. यथोक्तेन ज्ञानेन ज्ञातव्यं किम् इत्याकाङ्क्षायामाह -
' ज्ञेयं यत्तत्' इत्यादि । ननु यमाः नियमाश्च अमानित्वा-
दयः । न तैः ज्ञेयं ज्ञायते । न हि अमानित्वादि कस्यचित्
वस्तुनः परिच्छेदकं दृष्टम् । सर्वत्रैव च यद्विषयं ज्ञानं तदेव
तस्य ज्ञेयस्य परिच्छेदकं दृश्यते । न हि अन्यविषयेण</p>
<pb n="124" />
<p>श्रीमद्भगवद्गीताभाष्ये
ज्ञानेन अन्यत् उपलभ्यते, यथा घटविषयेण ज्ञानेन अग्निः ।
नैष दोष:, ज्ञाननिमित्तत्वात् ज्ञानमुच्यते इति हि अवो-
चाम ; ज्ञानसहकारिकारणत्वाच्च-</p>
<lg>
  <l>ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।</l>
  <l>अनादिमत्परं ब्रह्म न सन्तन्नासदुच्यते ॥ १२॥</l>
</lg>
<p>ज्ञेयं ज्ञातत्र्यं यत् तत् प्रवक्ष्यामि प्रकर्षेण यथावत्
वक्ष्यामि । किंफलं तत् इति प्ररोचनेन श्रोतुः अभिमुखी-
करणाय आह— यत् ज्ञेयं ज्ञात्वा अमृतम् अमृतत्वम् अ-
श्नुते, न पुनः म्रियते इत्यर्थः । अनादिमत् आदिः अस्य
अस्तीति आदिमत्, न आदिमत् अनादिमत्; किं तत् !
परं निरतिशयं ब्रह्म, ' ज्ञेयम्' इति प्रकृतम् ॥
अत्र केचित् ' अनादि मत्परम्' इति पदं छिन्दन्ति,
बहुव्रीहिणा उक्ते अर्थे मतुपः आनर्थक्यम् अनिष्टं स्यात्
इति । अर्थविशेषं च दर्शयन्ति - अहं वासुदेवाख्या परा
शक्ति: : यस्य तत् मत्परम् इति । सत्यमेवमपुनरुक्तं स्यात्,
अर्थः चेत् संभवति । न तु अर्थः संभवति, ब्रह्मणः सर्ववि-
शेषप्रतिषेधेनैव विजिज्ञापयिषितत्वात् 'न सत्तन्नासदुच्य-
ते' इति । विशिष्टशक्तिमत्त्वप्रदर्शनं विशेषप्रतिषेधश्व इति</p>
<pb n="125" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>विप्रतिषिद्धम् । तस्मात् मतुपः बहुव्रीहिणा समानार्थत्वेऽपि
प्रयोग: श्लोकपूरणार्थः ॥
अमृतत्वफलं ज्ञेयं मया उच्यते इति प्ररोचनेन अभिमुखी-
कृत्य आह— न सत् तत् ज्ञेयमुच्यते इति न अप
तत् उच्यते ॥
ननु महता परिकरबन्धेन कण्ठरवेण उद्घुष्य ' ज्ञेयं प्रव-
क्ष्यामि' इति, अननुरूपमुक्तं 'न सत्तन्नासदुच्यते ' इति । न,
अनुरूपमेव उक्तंम् । कथम् ? सर्वासु हि उपनिषत्सु ज्ञेयं
ब्रह्म 'नेति नेति' ' अस्थूलमनणु' इत्यादिविशेषप्रतिषेधेनैव
निर्दिश्यते, न ' इदं तत्' इति, वाचः अगोचरत्वात् ॥
ननु न तदस्ति, यद्वस्तु अस्तिशब्देन नोच्यते । अथ
अस्तिशब्देन नोच्यते, नास्ति तत् ज्ञेयम् । विप्रति-</p>
<lg>
  <l>षिद्धं च —' ज्ञेयं तत्', 'अस्तिशब्देन नोच्यते ' इति च ।</l>
  <l>न तावन्नास्ति, नास्तिबुद्धयविषयत्वात् ॥</l>
</lg>
<p>ननु सर्वाः बुद्धयः अस्तिनास्तिबुद्धयनुगताः एव । तत्र
एवं सति ज्ञेयमपि अस्तिबुद्धयनुगतप्रत्ययविषयं वा स्यात्,
नास्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात् । न, अतीन्द्रियत्वेन
उभयबुद्ध्यनुगतप्रत्ययाविषयत्वात् । यद्धि इन्द्रियगम्यं वस्तु</p>
<pb n="126" />
<p>श्रीमद्भगवद्गीताभाष्ये
घटादिकम् तत् अस्तिबुद्धयनुगतप्रत्ययविषयं वा स्यात्,
नास्तिबुद्धयनुगतप्रत्ययविषयं वा स्यात् । इदं तु ज्ञेयम्
अतीन्द्रियत्वेन शब्देकप्रमाणगम्यत्वात् न घटादिवत् उभय-
बुद्धयनुगतप्रत्ययविषयम् इत्यतः 'न सत्तन्नासत्' इति
उच्यते ॥
यत्तु उक्तम् — विरुद्धमुच्यते, ' ज्ञेयं तत्' 'न सत्तन्नासंदु-
च्यते इति न विरुद्धम्, 'अन्यदेव तद्विदितादथों अवि-
दितादधि' इति श्रुतेः । श्रुतिरपि विरुद्धार्था इति चेत्--
यथा यज्ञाय शालामारभ्य ' यद्य मुष्मिँल्लोकेऽस्ति वा न वेति'
इत्येवमिति चेत्, न विदिताविदिताभ्यामन्यत्वश्रुतेः अव-
श्यविज्ञेयार्थप्रतिपादनपरत्वात् ' यद्यमुष्मिन् ' इत्यादि तु वि-
धिशेषः अर्थवादः । उपपत्तेश्व सदसदादिशब्दैः ब्रह्म नोच्य-
।
तें इति । सर्वो हि शब्दः अर्थप्रकाशनाय प्रयुक्तः, श्रूयमा-
णश्च श्रोतृभिः, जातिक्रियागुणसंबन्धद्वारेण संकेत ग्रहणस-
व्यपेक्षः अर्थ प्रत्याययति ; न अन्यथा, अदृष्टत्वात् । तत्
T;
यथा - 'गौः ' ' अश्व:' इति वा जातितः, 'पंचति ?' पठ-
ति' इति वां क्रियात:, 'शुक्लः ' ' कृष्ण:' इति वा गुणतः,
'धनी' 'गोमान्' इति वा संबन्धतः । न तु ब्रह्म जाति-
मत्:, अतः न सदादिशब्दवाच्यम् । नापि गुणवत् येन</p>
<pb n="127" />
<p>त्रयोदशोऽध्यायः ।
.</p>
<p>गुणशब्देन उच्येत, निर्गुणत्वात् । नापि क्रियाशब्दवाच्यं
निष्क्रियत्वात् ' निष्कलं निष्क्रियं शान्तम्' इति श्रुतेः ।
न च ंसंबन्धी, एकत्वात् । अद्वयत्वात् अविषयत्वात् आ-
त्मत्वाश्ञ्च न केनचित् शब्देन उच्यते इति युक्तम्; 'यतो
वाचो निवर्तन्ते' इत्यादिश्रुतिभिश्च ॥
सच्छब्दप्रत्ययाविषयत्वात् असत्त्वाशङ्कायां ज्ञेयस्य सर्व-
प्राणिकरणोपाधिद्वारेण तदस्तित्वं प्रतिपादयन् तदाशङ्कानि
वृत्त्यर्थमाह-</p>
<lg>
  <l>सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम् ।</l>
  <l>सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३॥</l>
</lg>
<p>सर्वतः पाणिपादं सर्वतः पाणयः पादाश्च अस्य इति
सर्वतः पाणिपादं तत् ज्ञेयम् । सर्वप्राणिकरणोपाधिभिः क्षेत्रज्ञ-
स्यं अस्तित्वं विभाव्यते । क्षेत्रज्ञश्च क्षेत्रोपाधितः उच्यते ।
क्षेत्रं च पाणिपादादिभिः अनेकधा भिन्नम् । क्षेत्रोपाधिभेद-
कृतं विशेषजातं मिथ्यैव क्षेत्रज्ञस्य, इति तदपनयनेन ज्ञेय-
त्वमुक्तम् 'न सत्तन्नासदुच्यते ' इति । उपाधिकृतं मिथ्या-
रूपमपि अस्तित्वाधिगमाय ज्ञेयधर्मवत् परिकल्प्य उच्यते
'सर्वतः पाणिपादम् इत्यादि । तथा हि संप्रदायविदां वचन-</p>
<pb n="128" />
<p>श्रीमद्भगवद्गीताभाष्ये
म्—' अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्चयते ' इति ।
सर्वत्र सर्वदेहावयवत्वेन गम्यमानाः पाणिपादादयः ज्ञेयश-
क्तिसद्भावनिमित्तस्वकार्याः इति ज्ञेयसद्भावे लिङ्गानि 'ज्ञेय-
स्य' इति उपचारत: उच्यन्ते । तथा व्याख्येयम् अन्यत् ।
सर्वतः पाणिपादं तत् ज्ञेयम् । सर्वतोक्षिशिरोमुखं सर्वतः अक्षी-
णि शिरांसि मुखानि च यख तत् सर्वतोक्षिशिरोमुखम् ;
सर्वतःश्रुतिमत् श्रुतिः श्रवणेन्द्रियम्, तत् यस्य तत् श्रुतिमत्,
लोके प्राणिनिकाये, सर्वम् आवृत्य संव्याप्य तिष्ठति स्थितिं
लभते ॥
उपाधिभूतपाणिपादादीन्द्रियाध्यारोपणात् ज्ञेयस्य तद्वत्ता-
शङ्का मा भूत् इत्येवमर्थः श्लोकारम्भः—</p>
<lg>
  <l>सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।</l>
  <l>असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ १४॥</l>
</lg>
<p>सर्वेन्द्रियगुणाभासं सर्वाणि च तानि इन्द्रियाणि श्रोत्रा-
दीनि बुद्धीन्द्रियकर्मेन्द्रियाख्यानि, अन्तःकरणे च बुद्धिमन-
सी, ज्ञेयोपाधित्वस्य तुल्यत्वात्, सर्वेन्द्रियग्रहणेन गृह्यन्ते ।
अपि च, अन्तःकरणोपाधिद्वारेणैव श्रोत्रादीनामपि उपाधि-
त्वम् इत्यतः अन्तःकरणबहिष्करणोपाधिभूतैः सर्वेन्द्रियगुणैः</p>
<pb n="129" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>अध्यवसायसंकल्पश्रवणवचनादिभिः अवभासते इति सर्वे-
न्द्रियगुणाभासं सर्वेन्द्रियव्यापारैः व्यापृतमिव तत् ज्ञेयम्
इत्यर्थ: ; ' ध्यायतीव लेलायतीव' इति श्रुतेः । कस्मात् पुनः
कारणात् न व्यापृतमेवेति गृह्यते इत्यतः आह— सर्वे-
न्द्रियविवर्जितम्, सर्वकरणरहितमित्यर्थः । अतः न करणव्या-
पारैः व्यापृतं तत् ज्ञेयम् । यस्तु अयं मन्त्रः - 'अपाणि-
पादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्ण: ' इत्यादिः,
स. सर्वेन्द्रियोपाधिगुणानुगुण्यभजनशक्तिमत् तत् ज्ञेयम् इत्येवं
प्रदर्शनार्थः, न तु साक्षादेव जवनादिक्रियावत्त्वप्रदर्शनार्थः ।
'अन्धो मणिमविन्दत्' इत्यादिमन्त्रार्थवत् तस्य मन्त्रस्य अर्थः ।
यस्मात् सर्वकरणवर्जितं ज्ञेयम्, तस्मात् असक्तं सर्वसंश्लेषव-
र्जितम् । यद्यपि एवम्, तथापि सर्वभृव एव । सदास्पदं हि
सर्वे सर्वत्र संक्रुद्धधनुगमात् । न हि मृगतृष्णिकादयोऽपि
निरास्पदाः भवन्ति । अतः सर्वभृत् सर्वे बिभर्ति इति ।
स्यात् इदं च अन्यत् ज्ञेयस्य सत्त्वाधिगमद्वारम् — निर्गुणं
सन्त्वरजस्तमांसि गुणाः तैः वर्जितं तत् ज्ञेयम्, तथापि
गुणभोक्तृ च गुणानां सत्त्वरजस्तमसां शब्दादिद्वारेण सुख-
दुःखमोहाकारपरिणतानां भोक्तृ च उपलब्ध च तत् ज्ञेयम्
इत्यर्थः ॥</p>
<pb n="130" />
<p>.३८६
किंच-
श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>बहिरन्तश्च भूतानामचरं चरमेव च ।</l>
  <l>सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥</l>
</lg>
<p>बहिः त्वक्पर्यन्तं देहम् आत्मत्वेन अविद्याकल्पितम् अ-
पेक्ष्य तमेव अवधिं कृत्वा वहिः उच्यते । तथा प्रत्यगात्मा-
नमपेक्ष्य देहमेव अवधिं कृत्वा अन्तः उच्यते । ' बहिरन्तश्च'
इत्युक्ते मध्ये अभावे प्राप्ते, इदमुच्यते-- अचरं चरमेव च,
यंत् चराचरं देहाभासमपि तदेव ज्ञेयं यथा रज्जुसर्पाभासः ।
यदि अचरं चरमेव च स्यात् व्यवहारविषयं सर्वे ज्ञेयम्, कि-
मर्थम् ' इदम्' इति सर्वैः न विज्ञेयम् इति ? उच्यते--सत्यं
सर्वाभासं तत् ;
तथापि व्योमवत् सूक्ष्मम् । अतः सूक्ष्मत्वात्
स्वेन रूपेण तत् ज्ञेयमपि अविज्ञेयम् अविदुषाम् । विदुषां
तु, 'आत्मैवेदं सर्वम्' ' ब्रह्मैवेदं सर्वम्' इत्यादिप्रमाणतः
नित्यं विज्ञातम् । अविज्ञाततया दूरस्थं वर्षसहस्रको ट्यापि
अविदुषाम् अप्राप्यत्वात् । अन्तिके च तत्, आत्मत्वात्
विदुषाम् ॥
किंच-</p>
<lg>
  <l>अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।</l>
  <l>भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥</l>
</lg>
<pb n="131" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>अविभक्तं च प्रतिदेहं व्योमवत् तदेकम् । भूतेषु सर्वप्रा-
णिषु विभक्तमिव च स्थितं देहेष्वेव विभाव्यमानत्वात् ।
भूतभर्तृ च भूतानि विभर्तीति तत् ज्ञेयं भूतभर्तृ च स्थिति-
काले । प्रलयकाले गृसिष्णु प्रसनशीलम् । उत्पत्तिकाले
प्रभविष्णु च प्रभवनशीलं यथा रज्ज्वादिः सर्पादेः मिथ्या-
कल्पितस्य ॥
:
किंच, सर्वत्र विद्यमानमपि सत् न उपलभ्यते चेत्,
ज्ञेयं तमः तर्हि ? न । किं तर्हि ?-
-</p>
<lg>
  <l>ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।</l>
  <l>ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥</l>
</lg>
<p>ज्योतिषाम् आदित्यादीनामपि तत् ज्ञेयं ज्योतिः ।
आत्मचैतन्यज्योतिषा इद्धानि हि आदित्यादीनि ज्योतींषि
दीप्यन्ते, ' येन सूर्यस्तपति तेजसेद्ध : ' ' तस्य भासा सर्वमिदं
विभाति' इत्यादिश्रुतिभ्यः; स्मृतेश्च इहैव - ' यदादित्यगतं
तेज:' इत्यादेः । तमसः अज्ञानात् परम् अस्पृष्टम् उच्यते ।
ज्ञानादेः दुःसंपादनबुद्ध्या प्राप्तांवसादस्य उत्तम्भनार्थमाह-
ज्ञानम् अमानित्वादि; ज्ञेयम् 'ज्ञेयं यत् तत् प्रवक्ष्यामि '
इत्यादिना उक्तम् ; ज्ञानगम्यम् ज्ञेयमेव ज्ञातं सत् ज्ञानफ-
.</p>
<pb n="132" />
<p>श्रीमद्भगवद्गीताभाष्ये
लमिति ज्ञानगम्यमुच्यते ; ज्ञायमानं तु ज्ञेयम् । तत् एतत्
त्रयमपि हृदि बुद्धौ सर्वस्य प्राणिजातस्य विष्ठितं विशेषेण
स्थिम् । तत्रैव हि त्रयं विभाव्यते ॥
यथोक्तार्थोपसंहारार्थः अयं श्लोकः आरभ्यते—</p>
<lg>
  <l>इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।</l>
  <l>मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १८ ॥</l>
</lg>
<p>इति एवं क्षेत्रं महाभूतादि धृत्यन्तं तथा ज्ञानम् अमा-
नित्वादि तत्त्वज्ञानार्थदर्शनपर्यन्तं ज्ञेयं च ' ज्ञेयं यत् तत् '
इत्यादि ' तमसः परमुच्यते' इत्येवमन्तम् उक्तं समासतः
संक्षेपतः । एतावान् सर्वः हि वेदार्थ: गीतार्थश्च उपसंहृत्य
उक्तः । अस्मिन् सम्यग्दर्शने कः अधिक्रियते इति उच्यते-
मद्भक्तः मयि ईश्वरे सर्वज्ञे परमगुरौ वासुदेवे समर्पित सर्वा-
त्मभाव:, यत् पश्यति शृणोति स्पृशति वा
'सर्वमेव भग-
वान् वासुदेव:' इत्येवंग्रहाविष्टबुद्धिः मद्भक्तः स एतत् यथो-
क्तं सम्यग्दर्शनं विज्ञाय, मद्भावाय मम भाव: मद्भावः पर-
मात्मभावः तस्मै मद्भावाय उपपद्यते मोक्षं गच्छति ॥
तत्र सप्तमे ईश्वरस्य द्वे प्रकृती उपन्यस्ते, परापरे क्षेत्र-
क्षेत्रज्ञलक्षणे; 'एतयोनीनि भूतानि' इति च उक्तम् ।</p>
<pb n="133" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>क्षेत्रक्षेत्रज्ञप्रकृतिद्वययोनित्वं कथं भूतानामिति अयमर्थः
अधुना उच्यते—</p>
<lg>
  <l>प्रकृतिं पुरुषं चैव विद्धयनादी उभावपि ।</l>
  <l>विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥</l>
</lg>
<p>प्रकृतिं पुरुषं चैव ईश्वरस्य प्रकृती तौ प्रकृतिपुरुषौ उ-
भावपि अनादी विद्धि, न विद्यते आदिः ययोः तौ अनादी ।
नित्येश्वरत्वात् ईश्वरस्य तत्प्रकृत्योरपि युक्तं नित्यत्वेन भवि-
तुम् । प्रकृतिद्वयवत्त्वमेव हि ईश्वरस्य ईश्वरत्वम् । याभ्यां
प्रकृतिभ्याम् ईश्वरः जगदुत्पत्तिस्थितिप्रलयहेतु:, ते द्वे अनादी
सत्यौ संसारस्य कारणम् ॥
न आदी अनादी इति तत्पुरुषसमासं केचित् वर्णय-
न्ति । तेन हि किल ईश्वरस्य कारणत्वं सिध्यति । यदि
पुनः प्रकृतिपुरुषावेव नित्यौ स्यातां तत्कृतमेव जगत् न ईश्व-
रस्य जगतः कर्तृत्वम् । तत् असत्; प्राक् प्रकृतिपुरुषयोः
उत्पत्तेः ईशितव्याभावात् ईश्वरस्य अनीश्वरत्वप्रसङ्गात्, सं-
सारस्य निर्निमित्तत्वे अनिर्मोक्षप्रसङ्गात् शास्त्रानर्थक्यप्रस-
ङ्गात् बन्धमोक्षाभावप्रसङ्गाच्च । नित्यत्वे पुनः ईश्वरस्य
प्रकृत्योः सर्वमेतत् उपपन्नं भवेत् । कथम् ?
S. B. II. 8</p>
<pb n="134" />
<p>श्रीमद्भगवद्गीताभाष्ये
विकारांश्च गुणांश्चैव वक्ष्यमाणान्विकारान् बुद्ध्यादिदेहे-
न्द्रियान्तान् गुणांश्च सुखदुःखमोहप्रत्ययाकारपरिणतान् विद्धि
जानीहि प्रकृतिसंभवान्, प्रकृतिः ईश्वरस्य विकारकारणश-
क्तिः त्रिगुणात्मिका माया, सा संभवो येषां विकाराणां गु-
णानां च तान् विकारान् गुणांश्च विद्धि प्रकृतिसंभवान् प्र-
कृतिपरिणामान् ॥
के पुनः ते विकाराः गुणाश्च प्रकृतिसंभवाः—</p>
<lg>
  <l>कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।</l>
  <l>पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥२०॥</l>
</lg>
<p>कार्यकरणकर्तृत्वे—कार्य शरीरं करणानि तत्स्थानि त्र-
योदश । देहस्यारम्भकाणि भूतानि पञ्च विषयाश्च प्रकृति-
संभवाः विकाराः पूर्वोक्ताः इह कार्यग्रहणेन गृह्यन्ते । गुणा-
श्च प्रकृतिसंभवाः सुखदुःखमोहात्मकाः करणाश्रयत्वात् कर-
णग्रहणेन गृह्यन्ते । तेषां कार्यकरणानां कर्तृत्वम् उत्पादकत्वं
यत् तत् कार्यकरणकर्तृत्वं तस्मिन् कार्यकरणकर्तृत्वे हेतु: का-
रणम्
आरम्भकत्वेन प्रकृतिः उच्यते । एवं कार्यकरणकर्तृत्वे-
न संसारस्य कारणं प्रकृतिः । कार्यकारणकर्तृत्वे इत्यस्मि-
न्नपि पाठे, कार्य यत् यस्य परिणामः तत् तस्य कार्य वि-</p>
<pb n="135" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>कारः विकारि कारणं तयोः विकारविकारिणोः कार्यकारण-
यो: कर्तृत्वे इति । अथवा, षोडश विकाराः कार्यं सप्त
प्रकृतिविकृतयः कारणम् तान्येव कार्यकारणान्युच्यन्ते तेषां
कर्तृत्वे हेतुः प्रकृतिः उच्यते, आरम्भकत्वेनैव । पुरुषश्च सं-
सारस्य कारणं यथा स्यात् तत् उच्यते — पुरुषः जीवः क्षेत्र-
ज्ञः भोक्ता इति पर्यायः, सुखदुःखानां भोग्यानां भोक्तृत्वे
उपलब्धृत्वे हेतुः उच्यते ॥
कथं पुनः अनेन कार्यकरणकर्तृत्वेन सुखदुःखभोक्तृ-
त्वेन च प्रकृतिपुरुषयोः संसारकारणत्वमुच्यते इति, अत्र
उच्यते— कार्यकरणसुखदुःखरूपेण हेतुफलात्मना प्रकृतेः
परिणामाभावे, पुरुषस्य च चेतनस्य असति तदुपलब्धृत्वे,
कुतः संसारः स्यात् ? यदा पुनः कार्यकरणसुखदुःखस्वरू-
पेण हेतुफलात्मना परिणतया प्रकृत्या भोग्यया पुरुषस्य तद्वि-
परीतस्य भोक्तृत्वेन अविद्यारूपः संयोगः स्यात्, तदां
संसारः स्यात् इति । अतः यत् प्रकृतिपुरुषयोः कार्यकरण-
कर्तृत्वेन सुखदुःखभोक्तृत्वेन च संसारकारणत्वमुक्तम्, तत्
युक्तम् । कः पुनः अयं संसारो नाम ? सुखदुःखसंभोगः
संसारः । पुरुषस्य च सुखदुःखानां संभोक्तृत्वं संसारित्व-
मिति ॥
"</p>
<pb n="136" />
<p>श्रीमद्भगवद्गीताभाष्ये
यत् पुरुषस्य सुखदुःखानां भोक्तृत्वं संसारित्वम् इति
उक्तं तस्य तत् किंनिमित्तमिति उच्यते—</p>
<lg>
  <l>पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।</l>
  <l>कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २१ ॥</l>
</lg>
<p>पुरुषः भोक्ता प्रकृतिस्थः प्रकृतौ अविद्यालक्षणायां कार्य-
करणरूपेण परिणतायां स्थितः प्रकृतिस्थः, प्रकृतिमात्मत्वेन
गतः इत्येतत्, हि यस्मात् तस्मात् भुङ्क्ते उपलभते इत्य-
र्थः । प्रकृतिजान् प्रकृतित: जातान् सुखदुःखमोहाकारा-
भिव्यक्तान् गुणान् 'सुखी, दुःखी, मूढः, पण्डितः अहम्'
इत्येवम् । सत्यामपि अविद्यायां सुखदुःखमोहेषु गुणेषु भु-
ज्यमानेषु यः सङ्गः आत्मभावः संसारस्य सः प्रधानं कार-
णं जन्मनः, ' सः यथाकामो भवति तत्क्रतुर्भवति' इत्यादि-
श्रुतेः । तदेतत् आह— कारणं हेतुः गुणसङ्गः गुणेषु सङ्गः
अस्य पुरुषस्य भोक्तुः सदसद्योनिजन्मसु, सत्यश्च असत्यश्च
योनयः सदसद्योनयः तासु सदसद्योनिषु जन्मानि सदसद्यो -
निजन्मानि तेषु सदसद्योनिजन्मसु विषयभूतेषु कारणं गुणस-
ङ्गः । अथवा, सदसद्योनिजन्मसु अस्य संसारस्य कारणं गुण-
सङ्गः इति संसारपदमध्याहार्यम् । सद्योनयः देवादियोनयः ;</p>
<pb n="137" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>असद्योनयः पश्वादियोनयः । सामर्थ्यात् सदसद्योनयः
मनुष्ययोनयोऽपि अविरुद्धाः द्रष्टव्याः ॥
एतत् उक्तं भवति — प्रकृतिस्थत्वाख्या अविद्या, गुणेषु
च सङ्गः कामः, संसारख कारणमिति । तच्च परिवर्जनाय
उच्यते । अस्य च निवृत्तिकारणं ज्ञानवैराग्ये ससंन्यासे
गीताशास्त्रे प्रसिद्धम् । तच्च ज्ञानं पुरस्तात् उपन्यस्तं
क्षेत्रक्षेत्रज्ञविषयम् ' यज्ज्ञात्वामृतमश्नुते' इति । उक्तं च
अन्यापोहेन अतद्धर्माध्यारोपेण च ॥
तस्यैव पुनः साक्षात् निर्देश: क्रियते—</p>
<lg>
  <l>उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।</l>
  <l>परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥</l>
</lg>
<p>उपद्रष्टा समीपस्थः सन् द्रष्टा स्वयम् अव्यापृतः । यथा
ऋत्विग्यजमानेषु यज्ञकर्मव्यापृतेषु तटस्थः अन्यः अव्यापृतः
यज्ञविद्याकुशलः ऋत्विग्यजमानव्यापारगुणदोषाणाम् ईक्षि-
ता, तद्वच्च कार्यकरणव्यापारेषु अव्यापृतः अन्यः तद्वि-
लक्षणः तेषां कार्यकरणानां सव्यापाराणां सामीप्येन द्रष्टा
उपद्रष्टा । अथवा, देहचक्षुर्मनोबुद्धयात्मानः द्रष्टारः तेषां
वाह्यः द्रष्टा देहः, ततः आरभ्य अन्तरतमश्च प्रत्यक् समीपे</p>
<pb n="138" />
<p>श्रीमद्भगवद्गीताभाष्ये
आत्मा द्रष्टा, यतः परः अन्तरतमः नास्ति द्रष्टा ; सः अति-
शयसामीप्येन द्रष्टृत्वात् उपद्रष्टा स्यात् । यज्ञोपद्रष्टृवद्वा
सर्वविषयीकरणात् उपद्रष्टा । अनुमन्ता च, अनुमोदनम्
अनुमननं कुर्वत्सु तत्क्रियासु परितोषः, तत्कर्ता अनुमन्ता
च । अथवा, अनुमन्ता, कार्यकरणप्रवृत्तिषु स्वयम् अप्रवृ-
तोऽपि प्रवृत्त इव तदनुकूलः विभाव्यते, तेन अनुमन्ता ।
अथवा, प्रवृत्तान् स्वव्यापारेषु तत्साक्षिभूतः कदाचिदपि न
निवारयति इति अनुमन्ता । भर्ता, भरणं नाम देहेन्द्रिय-
मनोबुद्धीनां संहतानां चैतन्यात्मपारार्थ्येन निमित्तभूतेन चै-
तन्याभासानां यत् स्वरूपधारणम्, तत् चैतन्यात्मकृतमेव
इति भर्ता आत्मा इति उच्यते । भोक्ता, अग्न्युष्णवत्
नित्यचैतन्यस्वरूपेण बुद्धेः सुखदुःखमोहात्मकाः प्रत्ययाः
सर्वविषयविषयाः चैतन्यात्मग्रस्ता इव जायमानाः विभक्ताः
विभाव्यन्ते इति भोक्ता आत्मा उच्यते । महेश्वरः,
सर्वात्मत्वात् स्वतन्त्रत्वाच्च महान् ईश्वरश्च इति महेश्वरः ।
परमात्मा, देहादीनां बुद्धयन्तानां प्रत्यगात्मत्वेन कल्पि-
तानाम् अविद्यया परमः उपद्रष्टृत्वादिलक्षणः आत्मा इति
परमात्मा । सः अत: ' परमात्मा' इत्यनेन शब्देन च अपि
उक्तः कथितः श्रुतौ । क्क असौ ? अस्मिन् देहे पुरुष:</p>
<pb n="139" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>परः अव्यक्तात्, 'उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः '
इति य: वक्ष्यमाणः ॥
'क्षेत्रज्ञं चापि मां विद्धि' इति उपन्यस्त: व्याख्याय
उपसंहृतश्च, तमेतं यथोक्तलक्षणम् आत्मानम् —</p>
<lg>
  <l>य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।</l>
  <l>सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥</l>
</lg>
<p>यः एवं यथोक्तप्रकारेण वेत्ति पुरुषं साक्षात् अहमिति
प्रकृति च यथोक्ताम् अविद्यालक्षणां गुणैः स्वविकारैः सह
निवर्तिताम् अभावम् आपादितां विद्यया, सर्वथा सर्वप्रका-
रेण वर्तमानोऽपि सः भूयः पुनः पतिते अस्मिन् विद्वच्छ-
रीरे देहान्तराय न अभिजायते न उत्पद्यते, देहान्तरं न
गृहति इत्यर्थः । अपिशब्दात् किमु वक्तव्यं स्ववृत्तस्थो न
जाते इति अभिप्रायः ॥
ननु, यद्यपि ज्ञानोत्पत्त्यनन्तरं पुनर्जन्माभाव उक्तः,
तथापि प्राक् ज्ञानोत्पत्तेः कृतानां कर्मणाम् उत्तरकाल-
भाविनां च यानि च अतिक्रान्तानेकजन्मकृतानि तेषां
च, फलमदत्त्वा नाशो न युक्त इति, स्युः त्रीणि जन्मानि,
कृतविप्रणाशो हि न युक्त इति, यथा फले प्रवृत्तानाम्</p>
<pb n="140" />
<p>श्रीमद्भगवद्गीताभाष्ये
आरब्धजन्मनां कर्मणाम् । न च कर्मणां विशेष: अवग-
म्यते । तस्मात् त्रिप्रकाराण्यपि कर्माणि त्रीणि जन्मानि
आरभेरन्; संहतानि वा सर्वाणि एकं जन्म आरभेरन् ।
अन्यथा कृतविनाशे सति सर्वत्र अनाश्वासप्रसङ्गः, शास्त्रा-
नर्थक्यं च स्यात् । इत्यतः इदमयुक्तमुक्तम् 'न स भूयो -
ऽभिजायते' इति । न; 'क्षीयन्ते चास्य कर्माणि' 'ब्रह्म
वेद ब्रह्मैव भवति' ' तस्य तावदेव चिरम् ' ' इषीकानूलवत्
सर्वाणि कर्माणि प्रदूयन्ते' इत्यादिश्रुतिशंतेभ्यः उक्तो विदुषः
सर्वकर्मदाहः। इहापि च उक्तः ' यथैधांसि' इत्यादिना सर्व-
कर्मदाहः, वक्ष्यति च । उपपत्तेश्च -- अविद्याकामक्लेशबी-
जनिमित्तानि हि कर्माणि जन्मान्तराङ्कुरम् आरभन्ते ; इहापि
च
'साहंकाराभिसंधीनि कर्माणि फलारम्भकाणि, न इत-
राणि' इति तत्र तत्र भगवता उक्तम् । 'बीजान्यग्न्युपदग्धानि
न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संपद्यते
पुन:' इति च । अस्तु तावत् ज्ञानोत्पत्त्युत्तरकालकृतानां क-
र्मणां ज्ञानेन दाहः ज्ञानसहभावित्वात् । न तु इह जन्मनि
ज्ञानोत्पत्तेः प्राक् कृतानां कर्मणां अतीतजन्मकृतानां च
दाहः युक्तः । न ; ' सर्वकर्माणि ' इति विशेषणात् । ज्ञानो-
त्तरकालभाविनामेव सर्वकर्मणाम् इति चेत्, न; संकोचे</p>
<pb n="141" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>कारणानुपपत्तेः । यत्तु उक्तम् 'यथा वर्तमानजन्मारम्भ-
काणि कर्माणि न क्षीयन्ते फलदानाय प्रवृत्तान्येव सत्यपि
ज्ञाने, तथा अनारब्धफलानामपि कर्मणां क्षयो न युक्तः '
इति, तत् असत् । कथम् ? तेषां मुक्तेषुवत् प्रवृत्तफलत्वात् ।
यथा पूर्व लक्ष्यवेधाय मुक्तः इषुः धनुषः लक्ष्यवेधोत्तरका-
लमपि आरब्धवेगक्षयात् पतनेनैव निवर्तते, एवं शरीरा-
रम्भकं कर्म शरीरस्थितिप्रयोजने निवृत्तेऽपि, आ संस्का-
रवेगक्षयात् पूर्ववत् वर्तते एव । यथा स एव इषुः प्रवृत्ति-
निमित्तानारब्धवेगस्तु अमुक्तो धनुषि प्रयुक्तोऽपि उपसंहि-
यते, तथा अनारब्धफलानि कर्माणि स्वाश्रयस्थान्येव ज्ञानेन
निर्बीजीक्रियन्ते इति, पतिते अस्मिन् विद्वच्छरीरे 'न स
भूयोऽभिजायते' इति युक्तमेव उक्तमिति सिद्धम् ॥
अत्र आत्मदर्शने उपायविकल्पाः इमे ध्यानादयः उच्यन्ते-</p>
<lg>
  <l>ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।</l>
  <l>अन्ये सांख्येन योगेन कर्मयोगेन चापरे ॥ २४ ॥</l>
</lg>
<p>ध्यानेन, ध्यानं नाम शब्दादिभ्यो विषयेभ्यः श्रोबादी-
नि करणानि मनसि उपसंहृत्य, मनश्च प्रत्यक्चेतयितरि, एका-
प्रतया यत् चिन्तनं तत् ध्यानम्; तथा,
ध्यायतीव बकः,</p>
<pb n="142" />
<p>श्रीमद्भगवद्गीताभाष्ये
ध्यायतीव पृथिवी, ध्यायन्तीव पर्वताः इति उपमोपादा-
नात् । तैलधारावत् संततः अविच्छिन्नप्रत्ययो ध्यानम् ; तेन
ध्यानेन आत्मनि बुद्धौ पश्यन्ति आत्मानं प्रत्यकेतनम् आ-
त्मना स्वेनैव प्रत्यकेतनेन ध्यानसंस्कृतेन अन्तःकरणेन केचि-
त् योगिनः । अन्ये सांख्येन योगेन, सांख्यं नाम 'इमे
सत्त्वरजस्तमांसि गुणाः मया दृश्या अहं तेभ्योऽन्यः तद्वया-
पारसाक्षिभूतः नित्यः गुणविलक्षणः आत्मा' इति चिन्तनम्
एषः सांख्यो योग:, तेन 'पश्यन्ति आत्मानमात्मना ' इति
वर्तते । कर्मयोगेन, कर्मैव योग:, ईश्वरार्पणबुद्धधा अनुष्ठी -
यमानं घटनरूपं योगार्थत्वात् योगः उच्यते गुणतः ; तेन
सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण च अपरे ॥</p>
<lg>
  <l>अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।</l>
  <l>तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥</l>
</lg>
<p>अन्ये तु एषु विकल्पेषु अन्यतमेनापि एवं यथोक्तम् आ-
त्मानम् अजानन्तः अन्येभ्यः आचार्येभ्यः श्रुत्वा 'इदमेव
चिन्तयत' इति उक्ता: उपासते श्रद्दधानाः सन्तः चिन्तय-
न्ति । तेऽपि च अतितरन्त्येव अतिक्रामन्त्येव मृत्युम्,
मृत्युयुक्तं संसारम् इत्येतत् । श्रुतिपरायणाः श्रुतिः श्रवणं</p>
<pb n="143" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>परम् अयनं गमनं मोक्षमार्गप्रवृत्तौ परं साधनं येषां ते
श्रुतिपरायणाः; केवलपरोपदेशप्रमाणाः स्वयं विवेकरहिताः
इत्यभिप्रायः । किमु वक्तव्यम् प्रमाणं प्रति स्वतन्त्राः विवे-
किन: मृत्युम् अतितरन्ति इति अभिप्रायः ॥
क्षेत्रज्ञेश्वरैकत्वविषयं ज्ञानं मोक्षसाधनम् ' यज्ज्ञात्वामृ-
तमश्नुते' इत्युक्तम्, तत् कस्मात् हेतोरिति, तद्धेतुप्रदर्श-
नार्थे श्लोकः आरभ्यते—</p>
<lg>
  <l>यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् ।</l>
  <l>क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २६ ॥</l>
</lg>
<p>यावत् यत् किंचित् संजायते समुत्पद्यते सत्त्वं वस्तु;
किम् अविशेषेण ? नेत्याह-- स्थावरजङ्गमं स्थावरं जङ्गमं च
क्षेत्रक्षेत्रज्ञसंयोगात् तत् जायते इत्येवं विद्धि जानीहि भर-
तर्षभ ॥
क: पुनः अयं क्षेत्रक्षेत्रज्ञयोः संयोगः अभिप्रेत: ? न
तावत् रज्ज्वेव घटस्य अवयवसंश्लेषद्वारकः संबन्धविशेष:
संयोग: क्षेत्रेण क्षेत्रज्ञस्य संभवति, आकाशवत् निरवयव-
त्वात् । नापि समवायलक्षणः तन्तुपटयोरिव क्षेत्रक्षेत्रज्ञयोः
इतरेतरकार्यकारणभावानभ्युपगमात् इति उच्यते - क्षेत्र-</p>
<pb n="144" />
<p>श्रीमद्भगवद्गीताभाष्ये
क्षेत्रज्ञयोः विषयविषयिणोः भिन्नस्वभावयोः इतरेतरतद्धर्मा-
ध्यासलक्षणः संयोगः क्षेत्रक्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनः,
रज्जुशुक्तिकादीनां तद्विवेकज्ञानाभावात् अध्यारोपितसर्परज-
तादिसंयोगवत् । सः अयं अध्यासस्वरूपः क्षेत्रक्षेत्रज्ञसंयोग:
मिथ्याज्ञानलक्षणः । यथाशास्त्रं क्षेत्रक्षेत्रज्ञलक्षणभेदपरिज्ञा-
नपूर्वकं प्राक् दर्शितरूपात् क्षेत्रात् मुञ्जादिव इषीकां यथो-
क्तलक्षणं क्षेत्रज्ञं प्रविभज्य 'न सत्तन्नासदुच्यते' इत्यनेन
निरस्तसर्वोपाधिविशेषं ज्ञेयं ब्रह्मस्वरूपेण यः पश्यति, क्षेत्रं
च मायानिर्मित हस्तिस्वनदृष्टवस्तु गन्धर्वनगरादिवत् 'असदेव
सदिव अवभासते ' इति एवं निश्चितविज्ञान: य:,
यथोक्तसम्यग्दर्शनविरोधात् अपगच्छति मिथ्याज्ञानम् । तस्य
.
जन्महेतोः अपगमात्
'
तस्य
य एवं वेत्ति पुरुषं प्रकृतिं च
गुणैः सह' इत्यनेन 'विद्वान् भूयः न अभिजायते ' इति
यत् उक्तम्, तत् उपपन्नमुक्तम् ॥
'न स भूयोऽभिजायते' इति सम्यग्दर्शनफलम् अवि-
द्यादिसंसारबीजनिवृत्तिद्वारेण जन्माभावः उक्तः । जन्मकारणं
च अविद्यानिमित्तकः क्षेत्रक्षेत्रज्ञसंयोगः उक्तः ; अतः तस्याः
अविद्यायाः निवर्तकं सम्यग्दर्शनम् उक्तमपि पुनः शब्दान्त-
रेण उच्यते--</p>
<pb n="145" />
<p>त्रयोदशोऽध्यायः ।</p>
<lg>
  <l>समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।</l>
  <l>विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥</l>
</lg>
<p>समं निर्विशेषं तिष्ठन्तं स्थितिं कुर्वन्तम् ; क्व ? सर्वेषु
समस्तेषु भूतेषु ब्रह्मादिस्थावरान्तेषु प्राणिपु; कम् ? परमे-
श्वरं देहेन्द्रियमनोबुद्धयव्यक्तात्मनः अपेक्ष्य परमेश्वरः, तं
सर्वेषु भूतेषु समं तिष्ठन्तम् । तानि विशिनष्टि विनश्यत्सु
इति, तं च परमेश्वरम् अविनश्यन्तम् इति भूतानां पर-
मेश्वरस्य च अत्यन्त वैलक्षण्यप्रदर्शनार्थम् । कथम् ? सर्वे-
षां हि भावविकाराणां जनिलक्षणः भावविकारो मूलम् ;
जन्मोत्तरकालभाविनः अन्ये सर्वे भावविकाराः विनाशा-
न्ताः ; विनाशात् परो न कश्चित् अस्ति भावविकारः, भा-
वाभावात् । सति हि धर्मिणि धर्माः भवन्ति । अतः अन्त्य -
भावविकाराभावानुवादेन पूर्वभाविनः सर्वे भावविकाराः
प्रतिषिद्धाः भवन्ति सह कार्यैः । तस्मात् सर्वभूतैः वैलक्ष-
ण्यम् अत्यन्तमेव परमेश्वरख सिद्धम् निर्विशेषत्वम् एकत्वं
च । यः एवं यथोक्तं परमेश्वरं पश्यति, सः पश्यति ॥
"
ननु सर्वोऽपि लोकः पश्यति, किं विशेषणेन इति । सत्यं
पश्यति ; किंतु
विपरीतं पश्यति । अतः विशिनष्टि — स
एव पश्यतीति । यथा तिमिरदृष्टिः अनेकं चन्द्रं पश्यति,</p>
<pb n="146" />
<p>श्रीमद्भगवद्गीताभाष्ये
तमपेक्ष्य एकचन्द्रदर्शी विशिष्यते - स एव पश्यतीति ; तथा
इहापि एकम् अविभक्तं यथोक्तं आत्मानं यः पश्यति, सः
विभक्तानेकात्मविपरीतदर्शिभ्यः विशिष्यते स एव पश्य-
तीति । इतरे पश्यन्तोऽपि न पश्यन्ति, विपरीतदर्शित्वात्
अनेकचन्द्रदर्शिवत् इत्यर्थः ॥
यथोक्तस्य सम्यग्दर्शनस्य फलवचनेन स्तुतिः कर्तव्या
इति श्लोकः आरभ्यते—</p>
<lg>
  <l>समं पश्यन्हि सर्वत्र</l>
  <l>समवस्थितमीश्वरम् ।</l>
  <l>न हिनस्त्यात्मनात्मानं</l>
  <l>ततो याति परां गतिम् ॥ २८ ॥</l>
</lg>
<p>समं पश्यन् उपलभमानः हि यस्मात् सर्वत्र सर्वभूतेषु
समवस्थितं तुल्यतया अवस्थितम् ईश्वरम् अतीतानन्तरश्लो-
कोक्तलक्षणमित्यर्थः । समं पश्यन् किम् ? न हिनस्ति
हिंसां न करोति आत्मना स्वेनैव स्वमात्मानम् । ततः
तदहिंसनात् याति परां प्रकृष्टां गतिं मोक्षाख्याम् ॥
ननु नैव कश्चित् प्राणी स्वयं स्वम् आत्मानं हिनस्ति ।
कथंम् उच्यते अप्राप्तम्: 'न हिनस्ति' इति ? यथा 'न</p>
<pb n="147" />
<p>त्रयोदशोऽध्यायः ।</p>
<p>पृथिव्यामग्निश्वेतव्यो नान्तरिक्षे ' इत्यादि । नैष दोषः, अज्ञा-
नाम् आत्मतिरस्करणोपपत्तेः । सर्वो हि अज्ञः अत्यन्तप्रसिद्धं
साक्षात् अपरोक्षात् आत्मानं तिरस्कृत्य अनात्मानम् आत्म-
त्वेन परिगृह्य, तमपि धर्माधर्मौ कृत्वा उपात्तम् आत्मानं
हत्वा अन्यम् आत्मानम् उपादत्ते नवं तं चैवं हत्वा अन्यमेवं
तमपि हत्वा अन्यम् इत्येवम् उपात्तमुपात्तम् आत्मानं हन्ति,
इति आत्महा सर्व: अज्ञः । यस्तु परमार्थात्मा, असावपि
सर्वदा अविद्यया हत इव, विद्यमानफलाभावात् इति सर्वे
आत्महनः एव अविद्वांसः । यस्तु इतरः यथोक्तात्मदर्शी, सः
उभयथापि आत्मना आत्मानं न हिनस्ति न हन्ति । ततः
याति परां गतिम् यथोक्तं फलं तस्य भवति इत्यर्थः ॥
सर्वभूतस्थम् ईश्वरं समं पश्यन् न हिनस्ति आत्मना
आत्मानम्' इति उक्तम् । तत् अनुपपन्नं स्वगुणकर्मवैलक्ष-
ण्यभेदभिन्नेषु आत्मसु इत्येतत् आशङ्कय आह--</p>
<lg>
  <l>प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।</l>
  <l>यः पश्यति तथात्मानमकर्तारं स पश्यति ॥</l>
</lg>
<p>प्रकृत्या प्रकृतिः भगवतः माया त्रिगुणात्मिका, 'मायां
तु प्रकृतिं विद्यात्' इति मन्ववर्णात्, तया प्रकृत्यैव च</p>
<pb n="148" />
<p>श्रीमद्भगवद्गीताभाष्ये
न अन्येन महदादिकार्यकारणाकारपरिणतया कर्माणि वाङ्म:
नः कायारभ्याणि क्रियमाणानि निर्वर्त्यमानानि सर्वशः सर्व-
प्रकारैः यः पश्यति उपलभते, तथा आत्मानं क्षेत्रज्ञम्
अकर्तारं सर्वोपाधिविवर्जितं सः पश्यति, सः परमार्थ-
दर्शी इत्यभिप्राय: ; निर्गुणस्थ अकर्तुः निर्विशेषस्य आकाश-
स्येव भेदे प्रमाणानुपपत्तिः इत्यर्थः ॥
पुनरपि तदेव सम्यग्दर्शनं शब्दान्तरेण प्रपञ्चयति—</p>
<lg>
  <l>यदा भूतपृथग्भावमेकस्थमनुपश्यति ।</l>
  <l>तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥ ३० ॥</l>
</lg>
<p>यदा यस्मिन् काले भूतपृथग्भावं भूतानां पृथग्भावं पृथ-
क्त्वम् एकस्मिन् आत्मनि स्थितं एकस्थम् अनुपश्यति शा-
स्त्राचार्योपदेशम्, अनु आत्मानं प्रत्यक्षत्वेन पश्यति 'आत्मैव
इदं सर्वम्' इति, तत एव च तस्मादेव च विस्तारं उत्पत्तिं
विकासम् 'आत्मतः प्राण आत्मत आशा आत्मतः स्मर आ-
त्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भाव-
तिरोभावावात्मतोऽन्नम् ' इत्येवमादिप्रकारैः विस्तारं यदा पश्य-
ति, ब्रह्म संपद्यते ब्रह्मैव भवति तदा तस्मिन् काले इत्यर्थः ॥
एकस्य आत्मानः सर्वदेहात्मत्वे तद्दोषसंबन्धे प्राप्ते, इदम्
उच्यते--.
'</p>
<pb n="149" />
<p>त्रयोदशोऽध्यायः ।</p>
<lg>
  <l>अनादित्वान्निर्गुणत्वा-</l>
  <l>त्परमात्मायमव्ययः ।</l>
  <l>शरीरस्थोऽपि कौन्तेय</l>
  <l>न करोति न लिप्यते ॥ ३१ ॥</l>
</lg>
<p>अनादित्वात् अनादे: भावः अनादित्वमं, आदि:
कारणम्, तत् यस्य नास्ति तत् अनादि । यद्धि आदि-
मत् तत् स्वेन आत्मना व्येति ; अयं तु अनादित्वात् निर-
वयव इति कृत्वा न व्येति । तथा निर्गुणत्वात् । सगुणो
हि गुणव्ययात् व्येति; अयं तु निर्गुणत्वाच्च न व्येति :
इति परमात्मा अयम् अव्ययः ; न अस्य व्ययो विद्यते
इति अव्ययः । यत एवमतः शरीरस्थोऽपि, शरीरेषु
आत्मनः उपलब्धिः भवतीति शरीरस्थः उच्यते ; तथापि
न करोति । तदकरणादेव तत्फलेन न लिप्यते । यो हि
कर्ता, सः कर्मफलेन लिप्यते । अयं तु अकर्ता, अत: न
फलेन लिप्यते इत्यर्थः ॥
5
कः पुनः देहेषु करोति लिप्यते च ? यदि तावत् अन्यः
परमात्मनो देही करोति लिप्यते च ततः इदम् अनुपपन्नम्
उक्तं क्षेत्रज्ञेश्वरैकत्वम् ' क्षेत्रज्ञं चापि मां विद्धि' इत्यादि ।
S. B. II. 9.</p>
<pb n="150" />
<p>श्रीमद्भगवद्गीताभाष्ये
अथ नास्ति ईश्वरादन्यो देही, कः करोति लिप्यते च ? इति
वाच्यम्; परो वा नास्ति इति सर्वथा दुर्विज्ञेयं दुर्वाच्यं च
इति भगवत्प्रोक्तम् औपनिषदं दर्शनं परित्यक्तं वैशेषिकैः सां-
ख्यार्हतबौद्धैश्च । तत्त्र अयं परिहारो भगवता स्वेनैव उक्तः
'स्वभावस्तु प्रवर्तते' इति । अविद्यामात्रस्वभावो हि करोति
लिप्यते इति व्यवहारो भवति, न तु परमार्थत एक-
स्मिन् परमात्मनि तत् अस्ति । अतः एतस्मिन् परमार्थसां-
ख्यदर्शने स्थितानां ज्ञाननिष्ठानां परमहंसपरिव्राजकानां ति-
रस्कृताविद्याव्यवहाराणां कर्माधिकारो नास्ति इति तत्र तत्र
दर्शितं भगवता ॥
किमिव न करोति न लिप्यते इति अत्र दृष्टान्तमाह-</p>
<lg>
  <l>यथा सर्वगतं सौक्ष्म्या-</l>
  <l>दाकाशं नोपलिप्यते ।</l>
  <l>सर्वत्रावस्थितो देहे</l>
  <l>तथात्मा नोपलिप्यते ॥ ३२ ॥</l>
</lg>
<p>-- यथा सर्वगतं व्यापि अपि सत् सौक्ष्म्यात् सूक्ष्मभावात्
आकाशं खं न उपलिप्यते न संबध्यते, सर्वत्र अवस्थितः देहे
तथा आत्मा न उपलिप्यते ॥</p>
<pb n="151" />
<p>त्रयोदशोऽध्यायः ।
।</p>
<p>किंच-</p>
<lg>
  <l>यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।</l>
  <l>क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥</l>
</lg>
<p>यथा प्रकाशयति अवभासयति एकः कृत्स्नं लोकम् इमं
रविः सविता आदित्यः, तथा तद्वत् महाभूतादि धृत्यन्तं क्षेत्रम्
एकः सन् प्रकाशयति । कः ? क्षेत्री परमात्मा इत्यर्थः ।
रविदृष्टान्तः अत्र आत्मनः उभयार्थोऽपि भवति — रविवत्
सर्वक्षेत्रेषु एक एव आत्मा, अलेपकश्च इति ॥
समस्ताध्यायार्थोपसंहारार्थः अयं श्लोकः—</p>
<lg>
  <l>क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।</l>
  <l>भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥</l>
</lg>
<p>इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्म-
विद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
प्रकृतिपुरुषविवेकयोगो नाम
त्रयोदशोऽध्यायः ॥</p>
<pb n="152" />
<p>. ४०८
श्रीमद्भगवद्गीताभाष्ये
क्षेत्रक्षेत्रज्ञयोः यथाव्याख्यातयोः एवं यथाप्रदर्शितप्र
कारेण अन्तरम् इतरेतरवैलक्षण्यविशेषं ज्ञानचक्षुषा शास्त्रा-
चार्यप्रसादोपदेशजनितम् आत्मप्रत्ययिकं ज्ञानं चक्षुः, तेन
ज्ञानचक्षुषा, भूतप्रकृतिमोक्षं च भूतानां प्रकृति: अवि-
द्यालक्षणा अव्यक्ताख्या, तस्याः भूतप्रकृतेः मोक्षणम् अभा-
वगमनं च ये विदुः विजानन्ति, यान्ति गच्छन्ति ते परं
परमात्मतत्त्वं ब्रह्म, न पुनः देहं आददते इत्यर्थः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
त्रयोदशोऽध्यायः ॥</p>
<pb n="153" />
<p>श्रीमच्छंकरभगवत्पादविरचितम्
श्रीमद्भगवद्गीताभाष्यम्
चतुर्दशोऽध्यायः</p>
<pb n="154" />
<pb n="155" />
<p>चतुर्दशोऽध्यायः ॥
सर्वम् उत्पद्यमानं क्षेत्रक्षेत्रज्ञसंयोगात् उ-
त्पद्यते इति उक्तम् । तत् कथमिति, तत्प्र-
दर्शनार्थम् ' परं भूयः' इत्यादिः अध्यायः
आरभ्यते । अथवा, ईश्वरपरतन्त्रयोः
क्षेत्रक्षेत्रज्ञयोः जगत्कारणत्वं न तु सां-
ख्यानामिव स्वतन्त्रयोः इत्येवमर्थम् । प्रकृतिस्थत्वं गुणेषु च
सङ्गः संसारकारणम् इति उक्तम् । कस्मिन् गुणे कथं सङ्गः ?
के वा गुणाः ? कथं वा ते बध्नन्ति इति ? गुणेभ्यश्च मोक्षणं
कथं स्यात् ? मुक्तस्य च लक्षणं वक्तव्यम्, इत्येवमर्थं च
भगवान् उवाच -
श्रीभगवानुवाच-</p>
<lg>
  <l>परं भूयः प्रवक्ष्यामि</l>
  <l>ज्ञानानां ज्ञानमुत्तमम् ।</l>
  <l>यज्ज्ञात्वा मुनयः सर्वे</l>
  <l>परां सिद्धिमितो गताः ॥ १ ॥</l>
</lg>
<pb n="156" />
<p>श्रीमद्भगवद्गीताभाप्ये
.
परं ज्ञानम् इति व्यवहितेन संबन्ध:, भूयः पुनः पूर्वेषु
सर्वेष्वध्यायेषु असकृत् उक्तमपि प्रवक्ष्यामि । तच्च परं पर-
वस्तुविषयत्वात् । किं तत् ? ज्ञानं सर्वेषां ज्ञानानाम उत्त-
मम्, उत्तमफलत्वात् । ज्ञानानाम् इति न अमानित्वादीनाम् ;
किं तर्हि ? यज्ञादिज्ञेयवस्तुविषयाणाम् इति । तानि न मो-
क्षाय, इदं तु मोक्षाय इति परोत्तमशब्दाभ्यां स्तौति श्रोतृ-
बुद्धिरुच्युत्पादनार्थम् । यत् ज्ञात्वा यत् ज्ञानं ज्ञात्वा प्राप्य
मुनयः संन्यासिन: मननशीलाः सर्वे परां सिद्धिं मोक्षाख्याम्
इतः अस्मात् देहबन्धनात् ऊर्ध्वं गताः प्राप्ताः
अस्याश्च सिद्धेः ऐकान्तिकत्वं दर्शयति-—</p>
<lg>
  <l>इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।</l>
  <l>सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥</l>
</lg>
<p>'
⋅
इदं ज्ञानं यथोक्तमुपाश्रित्य ज्ञानसाधनम् अनुष्ठाय
इत्येतत्, मम परमेश्वरस्य साधर्म्यं मत्स्वरूपताम् आगताः
प्राप्ताः इत्यर्थः । न तु समानधर्मता साधर्म्यम्; क्षेत्रज्ञेश्वरयोः
भेदानभ्युपगमात् गीताशास्त्रे । फलवादश्च अयं स्तुत्यर्थम्
उच्यते । सर्गेऽपि सृष्टिकालेऽपि न उपजायन्ते । न उत्पद्य-
न्ते । प्रलये ब्रह्मणोऽपि विनाशकाले न व्यथन्ति च व्यथां
.</p>
<pb n="157" />
<p>चतुर्दशोऽध्यायः ।</p>
<p>न आपद्यन्ते, न च्यवन्ति इत्यर्थः ॥
क्षेत्रक्षेत्रज्ञसंयोगः ईदृश: भूतकारणम् इत्याह--</p>
<lg>
  <l>मम योनिर्महद्ब्रह्म तस्मिन्गर्भ दधाम्यहम् ।</l>
  <l>संभवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥</l>
</lg>
<p>मम स्वभूता मदीया माया त्रिगुणात्मिका प्रकृति: योनि:
सर्वभूतानां कारणम् । सर्वकार्येभ्यो महत्त्वात् भरणाच्च
स्वविकाराणां महत् ब्रह्म इति योनिरेव विशिष्यते । तस्मिन्
महति ब्रह्मणि योनौ गर्भ हिरण्यगर्भस्य जन्मनः बीजं सर्व-
भूतजन्मकारणं बीजं दधामि निक्षिपामि क्षेत्रक्षेत्रज्ञप्रकृति-
द्वशक्तिमान् ईश्वरः अहम्, अविद्याकामकर्मोपाधिस्वरूपानु-
विधायिनं क्षेत्रज्ञं क्षेत्रेण संयोजयामि इत्यर्थः । संभवः उत्प-
त्तिः सर्वभूतानां हिरण्यगर्भोत्पत्तिद्वारेण ततः तस्मात् गर्भा-
धानात् भवति हे भारत ॥</p>
<lg>
  <l>सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः ।</l>
  <l>तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ ४ ॥</l>
</lg>
<p>देवपितृमनुष्यपशुमृगादिसर्वयोनिषु कौन्तेय, मूर्तयः देह-
संस्थानलक्षणा: मूर्छिताङ्गावयवाः मूर्तयः संभवन्ति याः,</p>
<pb n="158" />
<p>श्रीमद्भगवद्गीताभाप्ये
तासां मूर्तीनां ब्रह्म महत् सर्वावस्थं योनिः कारणम् अहम्
ईश्वरः बीजप्रदः गर्भाधानस्य कर्ता पिता ॥
के गुणाः कथं बध्नन्तीति, उच्यते-</p>
<lg>
  <l>सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ।</l>
  <l>निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥</l>
</lg>
<p>सत्त्वं रजः तमः इति एवंनामानः । गुणाः इति पारि-
भाषिकः शब्दः, न रूपादिवत् द्रव्याश्रिताः गुणाः । न च
गुणगुणिनोः अन्यत्वमत्र विवक्षितम् । तस्मात् गुणा इव
नित्यपरतन्त्राः क्षेत्रज्ञं प्रति अविद्यात्मकत्वात् क्षेत्रज्ञं निव-
अन्तीव । तम् आस्पदीकृत्य आत्मानं प्रतिलभन्ते इति
निबध्नन्ति इति उच्यते । ते च प्रकृतिसंभवाः भगवन्मा-
यासंभवाः निबध्नन्ति इव हे महाबाहो, महान्तौ समर्थतरौ
आजानु प्रलम्बौ बाहू यस्य सः महाबाहुः, हे महाबाहो देहे
शरीरे देहिनं देहवन्तम् अव्ययम्, अव्ययत्वं च उक्तम्
'अनादित्वात्' इत्यादिश्लोकेन । ननु ' देही न लिप्यते '
इत्युक्तम् । तत् कथम् इह निबध्नन्ति इति अन्यथा उच्यते ?
परिहृतम् अस्माभिः इवशब्देन निबध्नन्ति इव इति ॥</p>
<pb n="159" />
<p>चतुर्दशोऽध्यायः ।</p>
<p>तत्र सत्त्वादीनां सत्त्वस्यैव तावत् लक्षणम् उच्यते-</p>
<lg>
  <l>तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।</l>
  <l>सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ ६ ॥</l>
</lg>
<p>निर्मलत्वात् स्फटिकमणिरिव प्रकाशकम् अनामयं नि-
रुपद्रवं सत्त्वं तन्निबध्नाति । कथम् ? सुखसङ्गेन 'सुखी
अहम्' इति विषयभूतस्य सुखस्य विषयिणि आत्मनि
संश्लेषापादनं मृषैव सुखे सञ्जनम् इति । सैषा अविद्या ।
न हि विषयधर्मः विषयिणः भवति । इच्छादि च धृत्यन्तं
क्षेत्रस्यैव विषयस्य धर्मः इति उक्तं भगवता । अतः अवि-
द्ययैव स्वकीयधर्मभूतया विषयविषय्यविवेकलक्षणया अस्वा-
त्मभूते सुखे सञ्जयति इव, आसक्तमिव करोति, असङ्ग
सक्तमिव करोति, असुखिनं सुखिनमिव । तथा ज्ञानसङ्गेन
च, ज्ञानमिति सुखसाहचर्यात् क्षेत्रस्यैव विषयस्य अन्त:-
करणस्य धर्मः, न आत्मनः ; आत्मधर्मत्वे सङ्गानुपपत्तेः,
बन्धानुपपत्तेश्च । सुखे इव ज्ञानादौ सङ्गः मन्तव्यः ।
हे अनघ अव्यसन ॥</p>
<lg>
  <l>रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।</l>
  <l>तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥</l>
</lg>
<pb n="160" />
<note>४.१६</note>
<p>श्रीमद्भगवद्गीताभाष्ये
रजः रागात्मकं रञ्जनात् रागः गैरिकादिवद्रागात्मकं
विद्धि जानीहि । तृष्णासङ्गसमुद्भवं तृष्णा अप्राप्ताभिलाषः,
आसङ्गः प्राप्ते विषये मनसः प्रीतिलक्षणः संश्लेषः, तृष्णा-
सङ्गयोः समुद्भवं तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति तत्
रजः निबध्नाति कौन्तेय कर्मसङ्गेन, दृष्टादृष्टार्थेषु कर्मसु
सञ्जनं तत्परता कर्मसङ्गः, तेन निबध्नाति रजः देहिनम् ॥</p>
<lg>
  <l>तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।</l>
  <l>प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥</l>
</lg>
<p>तमः तृतीयः गुणः अज्ञानजम् अज्ञानात् जातम् अज्ञान-
जं विद्धि मोहनं मोहकरम् अविवेककरं सर्वदेहिनां सर्वेषां
देहवताम् । प्रमादालस्यनिद्राभिः प्रमादश्च आलस्यं च निद्रा
च प्रमादालस्यनिद्रा: ताभिः प्रमादालस्यनिद्राभिः तत् तमः
निबध्नाति भारत ॥
पुनः गुणानां व्यापारः संक्षेपतः उच्यते—</p>
<lg>
  <l>सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।</l>
  <l>ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ ९॥</l>
</lg>
<p>सत्त्वं सुखे सञ्जयति संश्लेषयति, रजः कर्मणि हे भारत</p>
<pb n="161" />
<p>चतुर्दशोऽध्यायः ]</p>
<p>सञ्जयति इति अनुवर्तते । ज्ञानं सत्त्वकृतं विवेकम् आवृत्य
आच्छाद्य तु तमः स्वेन आवरणात्मना प्रमादे सञ्जयति उत
प्रमादः नाम प्राप्तकर्तव्याकरणम् ॥
उक्तं कार्यं कदा कुर्वन्ति गुणा इति उच्यते—</p>
<lg>
  <l>रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।</l>
  <l>रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १०॥</l>
</lg>
<p>रजः तमश्च उभावपिं अभिभूय सत्त्वं भवति उद्भवति
वर्धते यदा तदा लब्धात्मकं सत्त्वं स्वकार्य ज्ञानसुखादि
आरभते हे भारत । तथा रजोगुणः सत्त्वं तमश्च एव उ-
भावपि अभिभूय वर्धते यदा तदा कर्म कृष्यादि स्वकार्यम्
आरभते । तमआख्यो गुणः सत्त्वं रजश्च उभावपि अभिभूय
तथैव वर्धते यदा तदा ज्ञानावरणादि स्वकार्यम् आरभते ॥
यदा यो गुणः उद्भूतः भवति, तदा तस्य किं लिङ्गमिति
उच्यते—</p>
<lg>
  <l>सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।</l>
  <l>ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥</l>
</lg>
<p>सर्वद्वारेपु, आत्मनः उपलब्धिद्वाराणि श्रोत्रादीनि सर्वा-</p>
<pb n="162" />
<p>श्रीमद्भगवद्गीताभाष्ये
णि करणानि तेषु सर्वद्वारेषु अन्तःकरणस्य बुद्धे: वृत्तिः
प्रकाशः देहे अस्मिन् उपजायते । तदेव ज्ञानम् । यदा एवं
प्रकाशो ज्ञानाख्यः उपजायते, तदा ज्ञानप्रकाशेन लिङ्गेन
विद्यात् विवृद्धम् उद्भूतं सत्त्वम् इति उत अपि ॥
रजसः उद्भूतस्य इदं चिह्नम् -</p>
<lg>
  <l>लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।</l>
  <l>रजखेतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥</l>
</lg>
<p>लोभः परद्रव्यादित्सा, प्रवृत्तिः प्रवर्तनं सामान्यचेष्टा,
आरम्भ:; कस्य ? कर्मणाम । अशम: अनुपशमः, हर्ष रागा-
दिप्रवृत्तिः, स्पृहा सर्वसामान्यवस्तुविषया तृष्णा — रजसि
गुणे विवृद्धे एतानि लिङ्गानि जायन्ते हे भरतर्षभ ॥
-</p>
<lg>
  <l>अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।</l>
  <l>तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥</l>
</lg>
<p>अप्रकाशः अविवेकः, अत्यन्तम् अप्रवृत्तिश्च प्रवृत्त्यभावः
तत्कार्य प्रमादो मोह एव च अविवेकः मूढता इत्यर्थ:
तमसि गुणे विवृद्धे उतानि लिङ्गानि जायन्ते हे कुरुनन्दन ।</p>
<pb n="163" />
<p>चतुर्दशोऽध्यायः ।
278
मरणद्वारेणापि यत् फलं प्राप्यते, तदपि सङ्गरागहेतुकं
सर्व गौणमेव इति दर्शयन् आह-</p>
<lg>
  <l>यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।</l>
  <l>तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४ ॥</l>
</lg>
<p>यदा सत्त्वे प्रवृद्धे उद्भूते तु प्रलयं मरणं याति प्रति-
पद्यते देहभृत् आत्मा, तदा उत्तमविदां महदादितत्त्वविदाम्
इत्येतत् लोकान् अमलान् मलरहितान् प्रतिपद्यते प्राप्नोति
इत्येतत् ॥
"</p>
<lg>
  <l>रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।</l>
  <l>तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥</l>
</lg>
<p>रजसि गुणे विवृद्धे प्रलयं मरणं गत्वा प्राप्य कर्मसङ्गिषु
कर्मासक्तियुक्तेषु मनुष्येषु जायते । तथा तद्वदेव प्रलीन:
सृतः तमसि विवृद्धे मूढयोनिषु पश्वादियोनिषु जायते ॥
अतीत श्लोकार्थस्यैव संक्षेपः उच्यते—</p>
<lg>
  <l>कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।</l>
  <l>रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १६ ॥</l>
</lg>
<pb n="164" />
<p>श्रीमद्भगवद्गीताभाष्ये
कर्मणः सुकृतस्य सात्त्विकस्य इत्यर्थः, आहुः शिष्टाः
सात्त्विकम् एव निर्मलं फलम् इति । रजसस्तु फलं दुःखं
राजसस्य कर्मणः इत्यर्थः, कर्माधिकारात् फलम् अपि दु:-
खम् एव, कारणानुरूप्यात् राजसमेव । तथा अज्ञानं तमसः
तामसस्य कर्मण: अधर्मस्य पूर्ववत् ॥
किंच गुणेभ्यो भवति--</p>
<lg>
  <l>सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च ।</l>
  <l>प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १७ ॥</l>
</lg>
<p>सत्त्वात् लब्धात्मकात् संजायते समुत्पद्यते ज्ञानम्, र-
जसो लोभ एव च, प्रमादमोहौ च उभौ तमसो भवतः,
अज्ञानमेव च भवति ॥
किंच—</p>
<lg>
  <l>ऊर्ध्वं गच्छन्ति सत्त्वस्था</l>
  <l>मध्ये तिष्ठन्ति राजसाः ।</l>
  <l>जघन्यगुणवृत्तस्था</l>
  <l>अधो गच्छन्ति तामसाः ॥ १८ ॥</l>
</lg>
<p>ऊर्ध्वं गच्छन्ति देवलोकादिषु उत्पद्यन्ते सत्त्वस्थाः सत्त्व-</p>
<pb n="165" />
<p>चतुर्दशोऽध्यायः ।</p>
<p>गुणवृत्तस्था: । मध्ये तिष्ठन्ति मनुष्येषु उत्पद्यन्ते राजसाः ।
जघन्यगुणवृत्तस्था: जघन्यश्च असौ गुणश्च जघन्यगुणः तमः,
तस्य वृत्तं निद्रालस्यादि, तस्मिन् स्थिताः जघन्यगुणवृत्तस्था:
मूढाः अधः गच्छन्ति पश्वादिषु उत्पद्यन्ते तामसाः ॥
पुरुषस्य प्रकृतिस्थत्वरूपेण मिथ्याज्ञानेन युक्तस्य भो-
ग्येषु गुणेषु सुखदुःखमोहात्मकेषु 'सुखी दुःखी मूढः अहम्
अस्मि' इत्येवंरूपः यः सङ्गः तत्कारणं पुरुषस्य सदसद्योनि-
जन्मप्राप्तिलक्षणस्य संसारस्य इति समासेन पूर्वाध्याये यत्
उक्तम्, तत् इह 'सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः
इति आरभ्य गुणस्वरूपम्, गुणवृत्तम्, स्त्रवृत्तेन च गुणानां
बन्धकत्वम्, गुणवृत्तनिबद्धस्य च पुरुषस्य या गतिः, इत्ये-
तत् सर्वं मिथ्याज्ञानमूलं बन्धकारणं विस्तरेण उक्त्वा,
अधुना सम्यग्दर्शनान्मोक्षो वक्तव्यः इत्यत आह भगवान् -</p>
<lg>
  <l>नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।</l>
  <l>गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥</l>
</lg>
<p>न अन्यं कार्यकरणविषयाकारपरिणतेभ्यः गुणेभ्यः कर्ता-
रम् अन्यं यदा द्रष्टा विद्वान् सन् न अनुपश्यति, गुणा
एव सर्वावस्थाः सर्वकर्मणां कर्तारः इत्येवं पश्यति, गुणे-
S. B. II. 10</p>
<pb n="166" />
<p>श्रीमद्भगवद्गीताभाष्ये
भ्यश्च परं गुणव्यापारसाक्षिभूतं वेत्ति, मद्भावं मम भावं
सः द्रष्टा अधिगच्छति ॥
कथम् अधिगच्छति इति, उच्यते-</p>
<lg>
  <l>गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।</l>
  <l>जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ २० ॥</l>
</lg>
<p>गुणान् एतान् यथोक्तान् अतीत्य जीवन्नेव अतिक्रम्य
मायोपाधिभूतान् त्रीन् देही देहसमुद्भवान् देहोत्पत्तिबीजभू-
तान् जन्ममृत्युजरादुःखैः
दुःखैः जन्म च मृत्युश्च जरा च दुःखा-
नि च जन्ममृत्युजरादुःखानि तैः जीवन्नेव विमुक्तः सन्
विद्वान् अमृतम् अश्नुते, एवं मद्भावम् अधिगच्छति
इत्यर्थः ॥
जीवन्नेव गुणान् अतीत्य अमृतम् अश्नुते इति प्रश्नबीजं
प्रतिलभ्य, अर्जुन उवाच—
अर्जुन उवाच-</p>
<lg>
  <l>कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ।</l>
  <l>किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥</l>
</lg>
<pb n="167" />
<p>चतुर्दशोऽध्यायः ।</p>
<p>कैः लिङ्गैः चिह्नेः त्रीन् एतान् व्याख्यातान् गुणान्
अतीतः अतिक्रान्तः भवति प्रभो, किमाचारः कः अस्य
आचारः इति किमाचारः कथं केन च प्रकारेण एतान्
त्रीन्
गुणान् अतिवर्तते अतीत्य वर्तते ॥
गुणातीतस्य लक्षणं गुणातीतत्वोपायं च अर्जुनेन पृष्टः
अस्मिन् श्लोके प्रश्नद्वयार्थं प्रतिवचनं भगवान् उवाच । यत्
तावत् 'कै: लिङ्गैः युक्तो गुणातीतो भवति' इति, तत्
शृणु--
श्रीभगवानुवाच -</p>
<lg>
  <l>प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।</l>
  <l>न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥</l>
</lg>
<p>प्रकाशं च सत्त्वकार्यं प्रवृत्तिं च रजःकार्य मोहमेव च
तमः कार्यम् इत्येतानि न द्वेष्टि संप्रवृत्तानि सम्यग्विषयभावेन
उद्भूतानि - ' मम तामसः प्रत्ययो जातः,
तेन अहं मूढः ;
तथा राजसी प्रवृत्तिः मम उत्पन्ना दुःखात्मिका, तेन अहं
रजसा प्रवर्तित: प्रचलितः स्वरूपात्; कष्टं मम वर्तते यः
अयं मत्स्वरूपावस्थानात् भ्रंशः ; तथा सात्त्विको गुणः प्र-
काशात्मा मां विवेकित्वम् आपादयन् सुखे च सञ्जयन्</p>
<pb n="168" />
<p>श्रीमद्भगवद्गीताभाष्ये
बध्नाति' इति तानि द्वेष्टि असम्यग्दर्शित्वेन । तत् एवं गुणा-
तीतो न द्वेष्टि संप्रवृत्तानि । यथा च सात्त्विकादिपुरुषः स-
त्त्वादिकार्याणि आत्मानं प्रति प्रकाश्य निवृत्तानि काङ्क्षति, न
तथा गुणातीतो निवृत्तानि काङ्क्षति इत्यर्थः । एतत् न परप्र-
त्यक्षं लिङ्गम् । किं तर्हि ? स्वात्मप्रत्यक्षत्वात् आत्मार्थमेव ए-
तत् लक्षणम् । न हि स्वात्मविषयं द्वेषमाकाङ्क्षां वा परः
पश्यति ॥
अथ इदानीम् ' गुणातीतः किमाचारः ?' इति प्रश्नस्य
प्रतिवचनम् आह--</p>
<lg>
  <l>उदासीनवदासीनो गुणैर्यो न विचाल्यते ।</l>
  <l>गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥ २३ ॥</l>
</lg>
<p>उदासीनवत् यथा उदासीनः न कस्यचित् पक्षं भजते,
तथा अयं गुणातीतत्वोपायमार्गेऽवस्थितः आसीन: आत्म-
वित् गुणैः यः संन्यासी न विचाल्यते विवेकदर्शनावस्थातः ।
तदेतत् स्फुटीकरोति — गुणाः कार्यकरणविषयाकारपरिणताः
अन्योन्यस्मिन् वर्तन्ते इति यः अवतिष्ठति । छन्दोभङ्गभया-
त् परस्मैपदप्रयोगः । योऽनुतिष्ठतीति वा पाठान्तरम् । न
इङ्गते न चलति, स्वरूपावस्थ एव भवति इत्यर्थः ॥
.</p>
<pb n="169" />
<p>चतुर्दशोऽध्यायः ।</p>
<p>किंच-</p>
<lg>
  <l>समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।</l>
  <l>तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥</l>
</lg>
<p>समदुःखसुखः समे दुःखसुखे यस्य सः समदुःखसुखः,
स्वस्थः स्वे आत्मनि स्थितः प्रसन्नः, समलोष्टाश्मकाञ्चनः
लोटं च अश्मा च काञ्चनं च लोष्टाश्मकाञ्चनानि समानि
यस्य सः समलोष्टाश्मकाञ्चनः, तुल्यप्रियाप्रियः प्रियं च
अप्रियं च प्रियाप्रिये तुल्ये समे यस्य सोऽयं तुल्यप्रियाप्रि-
यः, धीरः धीमान्, तुल्यनिन्दात्मसंस्तुतिः निन्दा च आत्म-
संस्तुतिश्च निन्दात्मसंस्तुती, तुल्ये निन्दात्मसंस्तुती यस्य
यतेः सः तुल्यनिन्दात्मसंस्तुतिः ॥
किंच—</p>
<lg>
  <l>मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।</l>
  <l>सर्वारम्भपरित्यागी गुणतीतः स उच्यते ॥ २५ ॥</l>
</lg>
<p>मानापमानयोः तुल्यः समः निर्विकारः ; तुल्य: मित्रा-
रिपक्षयोः, यद्यपि उदासीना भवन्ति केचित् स्वाभिप्रा-
येण, तथापि पराभिप्रायेण मित्रारिपक्षयोरिव भवन्ति इति</p>
<pb n="170" />
<p>• ४२६
श्रीमद्भगवद्गीताभाष्ये
तुल्यो मित्रारिपक्षयोः इत्याह । सर्वारम्भपरित्यागी, दृष्टादृ-
ष्टार्थानि कर्माणि आरभ्यन्ते इति आरम्भाः, सर्वान् आर-
म्भान् परित्यक्तुं शीलम् अस्य इति सर्वारम्भपरित्यागी,</p>
<lg>
  <l>देहधारणमात्रनिमित्तव्यतिरेकेण सर्वकर्मपरित्यागी इत्यर्थः ।</l>
  <l>गुणातीतः सः उच्यते ॥</l>
</lg>
<p>'उदासीनवत्' इत्यादि 'गुणातीतः स उच्यते' इत्येत-
दन्तम् उक्तं यावत् यत्नसाध्यं तावत् संन्यासिनः अनुष्ठेयं
गुणातीतत्वसाधनं मुमुक्षोः ; स्थिरीभूतं तु स्वसंवेद्यं सत्
गुणातीतस्य यतेः लक्षणं भवति इति । अधुना 'कथं च
त्रीन्गुणानतिवर्तते ?' इत्यस्य प्रश्नस्य प्रतिवचनम् आह-</p>
<lg>
  <l>मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।</l>
  <l>स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥</l>
</lg>
<p>मां च ईश्वरं नारायणं सर्वभूतहृदयाश्रितं यो यतिः
कर्मी वा अव्यभिचारेण न कदाचित् यो व्यभिचरति
भक्तियोगेन भजनं भक्तिः सैव योगः तेन भक्तियोगेन
सेवते, सः गुणान् समतीत्य एतान् यथेोक्तान् ब्रह्मभूयाय,
भवनं भूयः, ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय कल्पते समर्थो
भवति इत्यर्थः ॥</p>
<pb n="171" />
<p>चतुर्दशोऽध्यायः ।
कुत एतदिति उच्यते-</p>
<note>४२७.</note>
<lg>
  <l>ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।</l>
  <l>शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥</l>
</lg>
<p>इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन-
संवादे गुणत्रयविभागयोगो नाम
चतुर्दशोऽध्यायः ॥
ब्रह्मणः परमात्मनः हि यस्मात् प्रतिष्ठा अहं प्रतितिष्ठति
अस्मिन् इति प्रतिष्ठा अहं प्रत्यगात्मा । कीदृशस्य ब्रह्मणः ?
अमृतस्य अविनाशिनः अव्ययस्य अविकारिणः शाश्वतस्य
च नित्यस्य धर्मस्य धर्मज्ञानस्य ज्ञानयोगधर्मप्राप्यस्य सुखस्य
आनन्दरूपस्य ऐकान्तिकस्य अव्यभिचारिणः अमृतादिस्वं-
भावस्य परमानन्दरूपस्य परमात्मनः प्रत्यगात्मा प्रतिष्ठा,
सम्यग्ज्ञानेन परमात्मतया निश्चीयते । तदेतत् 'ब्रह्मभूयाय
कल्पते' इति उक्तम् । यया च ईश्वरशक्त्या भक्तानुग्रहादि-
प्रयोजनाय ब्रह्म प्रतिष्ठते प्रवर्तते, सा शक्तिः ब्रह्मैव अहम्,
शक्तिशक्तिमतोः अनन्यत्वात् इत्यभिप्रायः । अथवा, ब्रह्मश-</p>
<pb n="172" />
<p>श्रीमद्भगवद्गीताभाष्ये
व्दवाच्यत्वात् सविकल्पकं त्रह्म । तस्य ब्रह्मणो निर्विक-
ल्पकः अहमेव नान्यः प्रतिष्ठा आश्रयः । किंविशिष्टस्य ?
अमृतस्य अमरणधर्मकस्य अव्ययस्य व्ययरहितस्य । किंच,
शाश्वतस्य च नित्यस्य धर्मस्य ज्ञाननिष्ठालक्षणस्य सुखस्य
तज्जनितस्य ऐकान्तिकस्य एकान्तनियतस्य च, 'प्रतिष्ठा
अहम्' इति वर्तते ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
चतुर्दशोऽध्यायः ॥</p>
<pb n="173" />
<p>श्रीमच्छंकरभगवत्पादविरचितम्
श्रीमद्भगवद्गीताभाष्यम्
पञ्चदशोऽध्यायः</p>
<pb n="174" />
<pb n="175" />
<p>पञ्चदशोऽध्यायः ॥
.
य स्मात् मदधीनं कर्मिणां कर्मफलं ज्ञानिनां
च ज्ञानफलम्, अत: भक्तियोगेन मां ये
सेवन्ते ते मम प्रसादात् ज्ञानप्राप्तिक्रमेण
गुणातीताः मोक्षं गच्छन्ति । किमु
वक्तव्यम् आत्मनः तत्त्वमेव सम्यक् वि.
जानन्तः इति अतः भगवान् अर्जुनेन अपृष्टोऽपि आत्मनः
तत्त्वं विवक्षुः उवाच 'ऊर्ध्वमूलम्' इत्यादिना । तत्र तावत्
वृक्षरूपककल्पनया वैराग्यहेतोः संसारस्वरूपं वर्णयति — बिर-
क्तस्य हि संसारात् भगवत्तत्त्वज्ञाने अधिकारः, न अन्यस्येति ॥
श्रीभगवानुवाच-</p>
<lg>
  <l>ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।</l>
  <l>छन्दांसि यख पर्णानि यस्तं वेद स वेदवित् ॥</l>
</lg>
<p>ऊर्ध्वमूलं कालतः सूक्ष्मत्वात् कारणत्वात् नित्यत्वात्
महत्त्वाच्च ऊर्ध्वम्; उच्यते ब्रह्म अव्यक्तं मायाशक्तिमत्,</p>
<pb n="176" />
<p>श्रीमद्भगवद्गीताभाष्ये
तत् मूलं अस्येति सोऽयं संसारवृक्षः ऊर्ध्वमूलः । श्रुतेश्च -
'ऊर्ध्वमूलोsवाक्शाख एषोऽश्वत्थः सनातनः' इति । पुराणे
च—— ' अव्यक्तमूलप्रभवस्तस्यैवानुप्रहोच्छ्रितः । बुद्धिस्कन्ध-
मयश्चैव इन्द्रियान्तरकोटर : ॥ महाभूतविशाखश्च विषयैः
पत्रवांस्तथा । धर्माधर्मसुपुष्पश्च सुखदुःखफलोदयः ॥ आ-
जीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः । एतद्ब्रह्मवनं चैव
ब्रह्माचरति नित्यशः । एतच्छित्त्वा च भित्त्वा च ज्ञानेन
परमासिना । ततश्चात्मरतिं प्राप्य तस्मान्नावर्तते पुनः ॥ '
इत्यादि । तम् ऊर्ध्वमूलं संसारं मायामयं वृक्षम् अधः शाखं
महदहंकारतन्मात्रादयः शाखा इव अस्य अधः भवन्तीति
सोऽयं अधः शाखः, तम् अधः शाखम् । न श्वोऽपि स्थाता
इति अश्वत्थः तं क्षणप्रध्वंसिनम् अश्वत्थं प्राहुः कथयन्ति
अव्ययं संसारमायायाः अनादिकालप्रवृत्तत्वात् सोऽयं सं-
सारवृश्नः अत्र्ययः, अनाद्यन्तदेहादिसंतानाश्रयः हि सुप्र-
सिद्धः, तम् अव्ययम् । तस्यैव संसारवृक्षस्य इदम् अन्यत्
विशेषणम् -- छन्दांसि यस्य पर्णानि छन्दांसि च्छादनात्
ऋग्यजुः सामलक्षणानि यस्य संसारवृक्षस्य पर्णानीव पर्णानि ।
यथा वृक्षस्य परिरक्षणार्थानि पर्णानि, तथा वेदा: संसारवृक्षप-
रिरक्षणार्थाः, धर्माधर्मतद्धेतुफलप्रदर्शनार्थत्वात् । यथाव्या-
'</p>
<pb n="177" />
<p>पञ्चदशोऽध्यायः ।</p>
<p>ख्यातं संसारवृक्षं समूलं यः तं वेद स वेदवित्, वेदार्थ-
वित् इत्यर्थः । न हि समूलात् संसारवृक्षात् अस्मात् ज्ञेयः
अन्य : अणुमात्रांऽपि अवशिष्टः अस्ति इत्यतः सर्वज्ञः सर्व-
वेदार्थविदिति समूलसंसारवृक्षज्ञानं स्तौति ॥
तस्य एतस्य संसारवृक्षस्य अपरा
उच्यते—
अधश्चोर्ध्व प्रसृतास्तस्य शाखा</p>
<lg>
  <l>अवयवकल्पना</l>
  <l>गुणप्रवृद्धा विषयप्रवालाः ।</l>
  <l>अधश्च मूलान्यनुसंततानिं</l>
  <l>कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥</l>
</lg>
<p>अधः मनुष्यादिभ्यो यावत् स्थावरम् ऊर्ध्वं च यावत्
ब्रह्मणः विश्वसृजो धाम इत्येतदन्तं यथाकर्म यथाश्रुतं
ज्ञानकर्मफलानि, तस्य वृक्षस्य शाखा इव शाखा: प्रसृताः
प्रगताः, गुणप्रवृद्धाः गुणैः सत्त्वरजस्तमोभिः प्रवृद्धाः स्थूली-
कृता: उपादानभूतैः, विषयप्रवालाः विषयाः शब्दादयः
प्रबालाः इव देहादिकर्मफलेभ्य: शाखाभ्यः अङ्कुरीभवन्तीव,
तेन विषयप्रवालाः शाखा: । संसारवृक्षस्य परममूलं उपा-
दानकारणं पूर्वम् उक्तम् । अथ इदानीं कर्मफलजनितरागद्वे-.</p>
<pb n="178" />
<p>श्रीमद्भगवद्गीताभाष्ये
षादिवासना: मूलानीव धर्माधर्मप्रवृत्तिकारणानि अवान्तर-
भावीनि तानि अधश्च देवाद्यपेक्षया मूलानि अनुसंततानि
अनुप्रविष्टानि कर्मानुबन्धीनि कर्म धर्माधर्मलक्षणम् अनु-
बन्धः पश्चाद्भावि, येषाम् उद्भूतिम् अनु उद्भवति, तानि
कर्मानुबन्धीनि मनुष्यलोके विशेषतः । अत्र हि मनुष्याणां
कर्माधिकारः प्रसिद्धः ॥
यस्तु अयं वर्णितः संसारवृक्ष:-</p>
<lg>
  <l>न रूपमस्येह तथोपलभ्यते</l>
  <l>नान्तो न चादिर्न च संप्रतिष्ठा ।</l>
  <l>अश्वत्थमेनं सुविरूढमूल-</l>
  <l>मसङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥</l>
</lg>
<p>•
न रूपम् अस्य इह यथा उपवर्णितं तथा नैव उपलभ्यते,
स्वप्नमरीच्युदकमायागन्धर्वनगरसमत्वात्; दृष्टनष्टस्वरूपो हि
स इति अत एव न अन्तः न पर्यन्तः निष्ठा परिसमा-
प्तिर्वा विद्यते । तथा न च आदि:, ' इतः आरभ्य अयं
प्रवृत्त:' इति न केनचित् गम्यते । न च संप्रतिष्ठा
स्थितिः मध्यम् अस्य न केनचित् उपलभ्यते । अश्वत्थम्
एनं यथोक्तं सुविरूढमूलं सुष्ठु विरूढानि विरोहं गतानि</p>
<pb n="179" />
<p>पञ्चदशोऽध्यायः ।</p>
<p>सुदृढानि मूलानि यस्य तम् एनं सुविरूढमूलम्, असङ्गश-
स्त्रेण असङ्गः पुत्रवित्तलोकैषणाभ्यः व्युत्थानं तेन असङ्ग-
शस्त्रेण दृढेन परमात्माभिमुख्यनिश्चयदृढीकृतेन पुनः पुनः वि-
वेकाभ्यासाश्मनिशितेन च्छित्वा संसारवृक्षं सबीजम् उद्धृत्य ॥</p>
<lg>
  <l>ततः पदं तत्परिमार्गितव्यं</l>
  <l>यस्मिन्गता न निवर्तन्ति भूयः ।</l>
  <l>तमेव चाद्यं पुरुषं प्रपद्ये</l>
  <l>यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥</l>
</lg>
<p>ततः पश्चात् यत् पदं वैष्णवं तत् परिमार्गितव्यम्, परि-
मार्गणम् अन्वेषणं ज्ञातव्यमित्यर्थः । यस्मिन् पदे गताः
प्रविष्टाः न निवर्तन्ति न आवर्तन्ते भूयः पुनः संसाराय ।
कथं परिमार्गितव्यमिति आह -- तमेव च यः पदशब्देन
उक्तः आद्यम् आदौ भवम् आद्यं पुरुषं प्रपद्ये इत्येवं परिमा-
गिंतव्यं तच्छरणतया इत्यर्थः । कः असौ पुरुषः इति,
उच्यते— यतः यस्मात् पुरुषात् संसारमायावृक्षप्रवृत्तिः
प्रसृता निःसृता, ऐन्द्रजालिकादिव माया, पुराणी चिरंतनी ॥
कथंभूताः तत् पदं गच्छन्तीति, उच्यते—</p>
<pb n="180" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>निर्मानमोहा जितसङ्गदोषा</l>
  <l>अध्यात्मनित्या विनिवृत्तकामाः ।</l>
  <l>द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै-</l>
  <l>र्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ ५ ॥</l>
</lg>
<p>'
निर्मानमोहा: मानश्च मोहश्च मानमोहौ तौ निर्गतो
येभ्यः ते निर्मानमोहा: मानमोहवर्जिताः । जितसङ्गदोषाः
सङ्ग एव दोषः सङ्गदोष:, जितः सङ्गदोष: यैः ते जितसङ्ग-
दोषाः । अध्यात्मनित्याः परमात्मस्वरूपालोचननित्याः तत्प-
राः । विनिवृत्तकामाः विशेषतो निर्लेपेन निवृत्ताः कामा:
येषां ते विनिवृत्तकामाः यतयः संन्यासिनः द्वन्द्वैः प्रियाप्रि-
यादिभिः विमुक्ताः सुखदुःखसंज्ञैः परित्यक्ताः गच्छन्ति
अमूढा: मोहवर्जिताः पदम् अव्ययं तत् यथोक्तम् ॥
तदेव पदं पुनः विशेष्यते-</p>
<lg>
  <l>न तद्भासयते सूर्यो न शशाङ्को न पावकः ।</l>
  <l>यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ ६ ॥</l>
</lg>
<p>तत् धाम इति व्यवहितेन धाम्ना संबध्यते । तत् धाम
तेजोरूपं पदं न भासयते सूर्यः आदित्यः सर्वावभासनशक्ति-</p>
<pb n="181" />
<p>पञ्चदशोऽध्यायः ।</p>
<p>मत्त्वेऽपि सति । तथा न शशाङ्कः चन्द्रः, न पावकः न
अग्निरपि । यत् धाम वैष्णवं पदं गत्वा प्राप्य न निवर्तन्ते,
यच्च सूर्यादिः न भासयते, तत् धाम पदं परमं विष्णोः मम
पदम्, यत् गत्वा न निवर्तन्ते इत्युक्तम् ॥
ननु सर्वा हि गतिः आगत्यन्ता; 'संयोगाः विप्रयोगान्ताः '
इति प्रसिद्धम् । कथम् उच्यते ' तत् धामं गतानां नास्ति
निवृत्ति:' इति ? शृणु तत्र कारणम् –</p>
<lg>
  <l>ममैवांशो जीवलोके जीवभूतः सनातनः ।</l>
  <l>मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥७॥</l>
</lg>
<p>ममैव परमात्मनः नारायणस्य, अंशः भागः अवयवः
एकदेश: इति अनर्थान्तरं जीवलोके जीवानां लोके संसारे
जीवभूतः कर्ता भोक्ता इति प्रसिद्धः सनातनः चिरंतन: ;
यथा जलसूर्यकः सूर्याशः जलनिमित्तापाये सूर्यमेव गत्वा न
निवर्तते च तेनैव आत्मना गच्छति, एवमेव ; यथा घटा-
द्युपाधिपरिच्छिन्नो घटाद्याकाशः आकाशांशः सन् घटादिनि-
मित्तापाये आकाशं प्राप्य न निवर्तते । अतः उपप-
न्नम् उक्तम् 'यद्गत्वा न निवर्तन्ते ' इति । ननु निरवयवस्य
परमात्मनः कुतः अवयवः एकदेशः अंश: इति ? सावयवत्वे
S. B. II. 11</p>
<pb n="182" />
<p>श्रीमद्भगवद्गीताभाष्ये
च विनाशप्रसङ्गः अवयवविभागात् । नैष दोषः, अविद्याकृ-
तोपाधिपरिच्छिन्नः एकदेशः अंश इव कल्पितो यतः । दर्शि-
तश्च अयमर्थः क्षेत्राध्याये विस्तरशः । स च जीवो मदंश-
त्वेन कल्पितः कथं संसरति उत्क्रामति च इति, उच्यते—
मनःषष्ठानि इन्द्रियाणि श्रोत्रादीनि प्रकृतिस्थानि स्वस्थाने
कर्णशष्कुल्यादौ प्रकृतौ स्थितानि कर्पति आकर्षति ॥
कस्मिन् काले ?-
-</p>
<lg>
  <l>शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।</l>
  <l>गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥</l>
</lg>
<p>यच्चापि यदा चापि उत्क्रामति ईश्वरः देहादिसंघात स्वामी
जीवः, तदा 'कर्षति' इति लोकस्य द्वितीयपादः अर्थवशात्
प्राथम्येन संबध्यते । यदा च पूर्वस्मात् शरीरात् शरीरान्त-
रम् अवाप्नोति तदा गृहीत्वा एतानि मनःषष्ठानि इन्द्रियाणि
संयाति सम्यक् याति गच्छति । किमिव इति, आह—
वायुः पवनः गन्धानिव आशयात् पुष्पादेः ॥
कानि पुनः तानि -</p>
<lg>
  <l>श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।</l>
  <l>अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ ९ ॥</l>
</lg>
<pb n="183" />
<p>पञ्चदशोऽध्यायः ।</p>
<p>श्रोत्रं चक्षुः स्पर्शनं च त्वगिन्द्रियं रसनं घ्राणमेव च
मनश्च पष्ठं प्रत्येकम् इन्द्रियेण सह, अधिष्ठाय देहस्थः वि-
पयान् शब्दादीन् उपसेवते ॥
एवं देहगतं देहात् —</p>
<lg>
  <l>उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।</l>
  <l>विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥</l>
</lg>
<p>उत्क्रामन्तं देहं पूर्वोपात्तं परित्यजन्तं स्थितं वापि देहे
तिष्ठन्तं भुञ्जानं वा शब्दादींश्च उपलभमानं गुणान्वितं सुख-
दुःखमोहाद्यैः गुणैः अन्वितम् अनुगतं संयुक्तमित्यर्थः ।
एवंभूतमपि एनम् अत्यन्तदर्शनगोचरप्राप्तं विमूढाः दृष्टादृष्ट-
विषयभोगबलाकृष्टचेतस्तया अनेकधा मूढाः न अनुपश्य-
न्ति- अहो कष्टं वर्तते इति अनुक्रोशति च भगवान् —
ये तु पुनः प्रमाणजनितज्ञानचक्षुषः ते एनं पश्यन्ति ज्ञान-
चक्षुषः विविक्तदृष्टयः इत्यर्थः ॥</p>
<lg>
  <l>यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।</l>
  <l>यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥</l>
</lg>
<p>यतन्तः प्रयत्नं कुर्वन्तः योगिनश्च समाहितचित्ताः एनं</p>
<pb n="184" />
<p>श्रीमद्भगवद्गीताभाप्ये
प्रकृतम् आत्मानं पश्यन्ति ' अयम् अहम् अस्मि' इति
उपलभन्ते आत्मनि स्वस्यां बुद्धौ अवस्थितम् । यतन्तोऽपि
शास्त्रादिप्रमाणैः, अकृतात्मानः असंस्कृतात्मानः तपसा इन्द्रि
यजयेन च, दुश्चरितात् अनुपरताः, अशान्तदर्पाः, प्रयत्नं
कुर्वन्तोऽपि न एनं पश्यन्ति अचेतसः अविवेकिनः ॥
यत् पदं सर्वस्य अवभासकमपि अग्न्यादित्यादिकं
ज्योतिः न अवभासयते, यत् प्राप्ताश्च मुमुक्षवः पुनः संसा-
राभिमुखाः न निवर्तन्ते, यस्य च पदस्य उपाधिभेदम् अनु
विधीयमाना: जीवा:- घटाकाशादयः इत्र आकाशस्य-
अंशाः, तस्य पदस्य सर्वात्मत्वं सर्वव्यवहारास्पदत्वं च
विवक्षुः चतुर्भिः श्लोकैः विभूतिसंक्षेपमाह भगवान् —</p>
<lg>
  <l>यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।</l>
  <l>यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥</l>
</lg>
<p>यत् आदित्यगतम् आदित्याश्रयम् । किं तत् ? तेजः
दीप्तिः प्रकाशः जगत् भासयते प्रकाशयति अखिलं सम-
स्तम् ; यत् चन्द्रमसि शशभृति तेज: अवभासकं वर्तते, यच्च
अग्नौ हुतवहे, तत् तेज: विद्धि विजानीहि मामकं मदीयं
मम विष्णोः तत् ज्योति: । अथवा, आदित्यगतं तेजः</p>
<pb n="185" />
<p>पञ्चदशोऽध्यायः ।
'</p>
<p>चैतन्यात्मकं ज्योतिः, यञ्चन्द्रमसि यच अग्नौ वर्तते तत्
तेज: विद्धि मामकं मदीयं मम विष्णोः तत् ज्योति: ॥
ननु स्थावरेषु जङ्गमेषु च तत् समानं चैतन्यात्मकं
ज्योतिः । तत्र कथम् इदं विशेषणम् – 'यदादित्यगतम् '
इत्यादि । नैष दोषः, सत्त्वाधिक्यात् आविस्तरत्वोपपत्तेः ।
आदित्यादिषु हि सत्त्वं अत्यन्तप्रकाशम् अत्यन्तभास्वरम् ;
अतः तत्रैव आविस्तरं ज्योतिः इति तत् विशिष्यते, न तु
तत्
अधिकमिति । यथा हि लोके तुल्येऽपि मुख-
संस्थाने न काष्ठकुड्यादौ मुखम् आविर्भवति, आदर्शादौ
तु स्वच्छे स्वच्छतरे च तारतम्येन आविर्भवति ; तद्वत् ॥
तत्रैव
किंच</p>
<lg>
  <l>गामाविश्य च भूतानि</l>
  <l>धारयाम्यहमोजसा ।</l>
  <l>पुष्णामि चौषधीः सर्वाः</l>
  <l>सोमो भूत्वा रसात्मकः ॥ १३ ॥</l>
</lg>
<p>गां पृथिवीम् आविश्य प्रविश्य धारयामि भूतानि जगत्
अहम् ओजसा बलेन; यत् बलं कामरागविवर्जितम् ऐश्वरं
रूपं जगद्विधारणाय पृथिव्याम् आविष्टं येन पृथिवी गुर्वी न</p>
<pb n="186" />
<p>श्रीमद्भगवद्गीताभाष्ये
अधः पतति न विदीर्यते च । तथा च मन्त्रवर्णः - 'येन
द्यौरुग्रा पृथिवी च दृढा' इति, ' स दाधार पृथिवीम् '
इत्यादिश्च । अतः गामाविश्य च भूतानि चराचराणि धार-
यामि इति युक्तमुक्तम् । किंच, पृथिव्यां जाताः ओषधीः
सर्वाः व्रीहियवाद्याः पुष्णामि पुष्टिमती: रसस्वादुमतीश्च
करोमि सोमो भूत्वा रसात्मकः सोमः सन् रसात्मकः रस-
स्वभावः । सर्वरसानाम् आकरः सोमः । स हि सर्वरसा-
त्मकः सर्वाः ओषधीः स्वात्मरसान् अनुप्रवेशयन् पुष्णाति ॥
किंच—</p>
<lg>
  <l>अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।</l>
  <l>प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥</l>
</lg>
<p>अहमेव वैश्वानरः उदरस्थः अग्निः भूत्वा -- ' अयमग्नि-
र्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते' इत्यादिश्रुतेः ;
वैश्वानरः सन् प्राणिनां प्राणवतां देहम् आश्रितः प्रविष्ट:
प्राणापानसमायुक्तः प्राणापानाभ्यां समायुक्तः संयुक्तः पचा-
मि पक्तिं करोमि अन्नम् अशनं चतुर्विधं चतुष्प्रकारं भोज्यं
भक्ष्यं चोष्यं लेां च । 'भोक्ता वैश्वानरः अग्निः, अग्नेः</p>
<pb n="187" />
<p>पञ्चदशोऽध्यायः ।</p>
<p>भोज्यम् अन्नं सोमः, तदेतत् उभयम् अग्नीषोमौ सर्वम्' इति
पश्यतः अन्नदोषलेपः न भवति ॥
किंच—</p>
<lg>
  <l>सर्वस्य चाहं हृदि संनिविष्टो</l>
  <l>मत्तः स्मृतिर्ज्ञानमपोहनं च ।</l>
  <l>वेदैश्च सर्वैरहमेव वेद्यो</l>
  <l>वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥</l>
</lg>
<p>सर्वस्य च प्राणिजातस्य अहम् आत्मा सन् हृदि बुद्धौ
संनिविष्टः । अतः मत्तः आत्मनः सर्वप्राणिनां स्मृति: ज्ञानं
तदपोहनं च अपगमनं च येषां यथा पुण्यकर्मणां पुण्य-
कर्मानुरोधेन ज्ञानस्मृती भवतः, तथा पापकर्मणां पापकर्मा-
नुरूपेण स्मृतिज्ञानयोः अपोहनं च अपायनम् अपगमनं
च । वेदैश्व सर्वैः अहमेव परमात्मा वेद्यः वेदितव्यः । वेदा-
न्तकृत् वेदान्तार्थसंप्रदायकृत् इत्यर्थः, वेदवित् वेदार्थवित्
एव च अहम् ॥
भगवतः ईश्वरस्य नारायणाख्यस्य विभूतिसंक्षेपः उक्तः
विशिष्टोपाधिकृतः ' यदादित्यगतं तेजः' इत्यादिना । अथ
अधुना तस्यैव क्षराक्षरोपाधिप्रविभक्ततया निरुपाधिकस्य</p>
<pb n="188" />
<p>श्रीमद्भगवद्गीताभप्ये
केवलस्य स्वरूपनिर्दिधारयिषया उत्तरे श्लोकाः आरभ्यन्ते ।
तत्र सर्वमेव अतीतानागताध्यायार्थजातं त्रिधा राशीकृत्य
आह-</p>
<lg>
  <l>द्वाविमौ पुरुषौ लोके क्षरश्वाक्षर एव च ।</l>
  <l>क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥</l>
</lg>
<p>द्वौ इमौ पृथप्राशीकृतौ पुरुषौ इति उच्येते लोके
संसारे—क्षरश्च क्षरतीति क्षरः विनाशी इति एको राशि : ;
अपरः पुरुषः अक्षरः तद्विपरीतः, भगवतः मायाशक्तिः,
क्षराख्यस्य पुरुषस्य उत्पत्तिबीजम् अनेकसंसारिजन्तुकाम-
कर्मादिसंस्काराश्रयः, अक्षरः पुरुषः उच्यते । कौ तौ पुरुषौ
इति आह स्वयमेव भगवान् — क्षरः सर्वाणि भूतानि,
समस्तं विकारजातम् इत्यर्थः । कूटस्थः कूट: राशी राशि
रिव स्थितः । अथवा, कूट: माया वञ्चना जिह्मता
कुटिलता इति पर्यायाः, अनेकमायावञ्चनादिप्रकारेण स्थितः
कूटस्थः, संसारबीजानन्त्यात् न क्षरति इति अक्षरः उच्यते ॥
आभ्यां क्षराक्षराभ्यां अन्यः विलक्षणः क्षराक्षरोपाधिद्व-
यदोषेण अस्पृष्टः नित्यशुद्धबुद्धमुक्तस्वभावः—</p>
<pb n="189" />
<p>पञ्चदशोऽध्यायः ।</p>
<lg>
  <l>उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।</l>
  <l>यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥</l>
</lg>
<p>उत्तम: उत्कृष्टतमः पुरुषस्तु अन्यः अत्यन्तविलक्षण:
आभ्यां परमात्मा इति परमश्च असौ देहाद्यविद्याकृतात्मभ्यः,
आत्मा च सर्वभूतानां प्रत्यक्चेतनः, इत्यतः परमात्मा इति
उदाहृतः उक्तः वेदान्तेषु । स एव विशिष्यते यः लोकत्रयं
भूर्भुवःस्वराख्यं स्वकीयया चैतन्यबलशक्त्या आविश्य प्र-
विश्य विभर्ति स्वरूपसद्भावमात्रेण विभर्ति धारयति ; अव्ययः
न अस्य व्ययः विद्यते इति अव्ययः । कः ? ईश्वरः सर्वज्ञः
नारायणाख्यः ईशनशीलः ॥
यथाव्याख्यातस्य ईश्वरस्य ' पुरुषोत्तमः' इत्येतत् नाम
प्रसिद्धम् । तस्य नामनिर्वचनप्रसिद्धया अर्थवत्त्वं नाम्नो दर्श-
यन् ' निरतिशय: अहम् ईश्वर:' इति आत्मानं दर्शयति
भगवान्-</p>
<lg>
  <l>यस्मात्क्षरमतीतोऽह-</l>
  <l>मक्षरादपि चोत्तमः ।</l>
  <l>अतोऽस्मि लोके वेदे च</l>
  <l>प्रथितः पुरुषोत्तमः ॥ १८ ॥</l>
</lg>
<pb n="190" />
<p>श्रीमद्भगवद्गीताभाष्ये
यस्मात् क्षरम् अतीतः अहं संसारमायावृक्षम् अश्वत्था-
ख्यम् अतिक्रान्तः अहम् अक्षरादपि संसारमायारूपवृक्ष-
बीजभूतादपि च उत्तमः उत्कृष्टतमः ऊर्ध्वतमो वा, अतः
ताभ्यां क्षराक्षराभ्याम् उत्तमत्वात् अस्मि लोके वेदे च प्रथि-
त: प्रख्यातः । पुरुषोत्तमः इत्येवं मां भक्तजनाः विदुः ।
कवयः काव्यादिषु च इदं नाम निबध्नन्ति । पुरुषोत्तम
इत्यनेनाभिधानेनाभिगृणन्ति ॥
अथ इदानीं यथानिरुक्तम् आत्मानं यो वेद, तस्य इदं
फलम् उच्यते—
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत । १९॥
यः माम् ईश्वरं यथोक्तविशेषणम् एवं यथोक्तेन प्रकारेण
असंमूढः संमोहवर्जितः सन् जानाति 'अयम् अहम् अस्मि'
इति पुरुषोत्तमं सः सर्ववित् सर्वात्मना सर्व वेत्तीति सर्वज्ञः
सर्वभूतस्थं भजति मां सर्वभावेन सर्वात्मतया हे भारत ॥
अस्मिन् अध्याये भगवत्तत्त्वज्ञानं मोक्षफलम् उक्त्वा,
अथ इदानीं तत् स्तौति—</p>
<pb n="191" />
<p>पञ्चदशोऽध्यायः ।</p>
<lg>
  <l>इति गुह्यतमं शास्त्र-</l>
  <l>मिदमुक्तं मयानघ ।</l>
  <l>एतहुड्डा वुद्धिमान्स्या-</l>
  <l>त्कृतकृत्यश्च भारत ॥ २० ॥</l>
</lg>
<p>इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्म-
विद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
पुरुषोत्तमयोगो नाम
पञ्चदशोऽध्यायः ॥
इति एतत् गुह्यतमं गोप्यतमम्, अत्यन्तरहस्यं इत्येतत् ।
किं तत् ? शास्त्रम् । यद्यपि गीताख्यं समस्तम् ' शास्त्रम् '
उच्यते, तथापि अयमेव अध्यायः इह 'शास्त्रम्' इति
उच्यते स्तुत्यर्थे प्रकरणात् । सर्वो हि गीताशास्त्रार्थः अस्मिन्
अध्याये समासेन उक्तः । न केवलं गीताशास्त्रार्थ एव, किंतु
सर्वश्व वेदार्थः इह परिसमाप्तः । ' यस्तं वेद स वेदवित्'
'वेदैश्व सर्वैरहमेव वेद्यः' इति च उक्तम् । इदम् उक्तं कथि-
तं मया हे अनघ अपाप । एतत् शास्त्रं यथादर्शितार्थ बुद्धा</p>
<pb n="192" />
<p>श्रीमद्भगवद्गीताभाप्ये
बुद्धिमान् स्यात् भवेत् न अन्यथा कृतकृत्यश्च भारत कृतं
कृत्यं कर्तव्यं येन सः कृतकृत्य: ; विशिष्टजन्मप्रसूतेन ब्राह्म-
णेन यत् कर्तव्यं तत् सर्वं भगवत्तत्त्वे विदिते कृतं भवेत्
इत्यर्थः ; न च अन्यथा कर्तव्यं परिसमाप्यते कस्यचित्
इत्यभिप्रायः । ' सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते '
इति च उक्तम् । ' एतद्धि जन्मसामग्र्यं ब्राह्मणस्य विशे-
पतः । प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा' इति
च मानवं वचनम् । यतः एतत् परमार्थतत्त्वं मत्तः श्रुत-
वान् असि, अतः कृतार्थः त्वं भारत इति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
पञ्चदशोऽध्यायः ॥</p>
<pb n="193" />
<p>श्रीमच्छंकरभगवत्पादविरचितम्
श्रीमद्भगवद्गीताभाष्यम्
षोडशोऽध्यायः</p>
<pb n="194" />
<pb n="195" />
<p>षोडशोऽध्यायः ॥
दै वी आसुरी राक्षसी इति प्राणिणां प्रकृ-
तयः नवमे अध्याये सूचिताः । तासां विस्त-
रेण प्रदर्शनाय ' अभयं सत्त्वसंशुद्धिः '
इत्यादिः अध्यायः आरभ्यते । तत्र संसार-
मोक्षाय दैवी प्रकृतिः, निबन्धाय आसुरी
राक्षसी च इति दैव्या: आदानाय प्रदर्शनं
क्रियते, इतरयोः परिवर्जनाय च ॥
श्रीभगवानुवाच -</p>
<lg>
  <l>अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।</l>
  <l>दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१॥</l>
</lg>
<p>अभयम् अभीरुता । सत्त्वसंशुद्धिः सत्त्वस्य अन्तःकरणस्य
संशुद्धिः संव्यवहारेषु परवञ्चनामायानृतादिपरिवर्जनं शुद्ध-
सत्त्वभावेन व्यवहारः इत्यर्थः । ज्ञानयोगव्यवस्थितिः ज्ञानं
शास्त्रतः आचार्यतश्च आत्मादिपदार्थानाम् अवगमः, अवग-</p>
<pb n="196" />
<p>श्रीमद्भगवद्गीताभाप्ये
तानाम् इन्द्रियाद्युपसंहारेण एकाग्रतया स्वात्मसंवेद्यतापादनं
योगः, तयोः ज्ञानयोगयोः व्यावस्थिति: व्यवस्थानं तन्नि-
ष्ठता । एषा प्रधाना दैवी सात्त्विकी संपत् । यत्र येषाम्
अधिकृतानां या प्रकृतिः संभवति, सात्त्विक सा उच्यते ।
दानं यथाशक्ति संविभाग: अन्नादीनाम् । दमश्च बाह्यकरणा-
नाम् उपशमः; अन्तःकरणस्य उपशमं शान्ति वक्ष्यति ।
यज्ञश्च श्रौतः अग्निहोत्रादिः । स्मार्तश्च देवयज्ञादिः, स्वाध्यायः
ऋग्वेदाद्यध्ययनम् अदृष्टार्थम् । तपः वक्ष्यमाणं शारीरादि ।
आर्जवम् ऋजुत्वं सर्वदा ॥
किंच—</p>
<lg>
  <l>अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।</l>
  <l>दया भूतेष्वलोलुपत्वं मार्दवं हीरचापलम् ॥२॥</l>
</lg>
<p>अहिंसा अहिंसनं प्राणिनां पीडावर्जनम् । सत्यम् अप्रिया-
नृतवर्जितं यथाभूतार्थवचनम् । अक्रोधः परैः आक्रुष्टस्य
अभिहतस्य वा प्राप्तस्य क्रोधस्य उपशमनम् । त्यागः सं-
न्यास:, पूर्वं दानस्य उक्तत्वात् । शान्तिः अन्तःकरणस्य
उपशमः । अपैशुनं अपिशुनता; परस्मै पररन्ध्रप्रकटीकरणं
पैशुनम्, तदभावः अपैशुनम् । दया कृपा भूतेषु दुःखितेषु ।</p>
<pb n="197" />
<p>षोडशोऽध्यायः ।</p>
<p>अलोलुप्त्वम् इन्द्रियाणां विषयसंनिधौ अविक्रिया । मार्दवं
मृदुता अक्रौर्यम् । ह्रीः लज्जा । अचापलम् असति प्रयोजने
वाक्पाणिपादादीनाम् अव्यापारयितृत्वम् ॥
किंच—</p>
<lg>
  <l>तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।</l>
  <l>भवन्ति संपदं दैवीमभिजातस्य भारत ॥ ३ ॥</l>
</lg>
<p>तेजः प्रागल्भ्यं न त्वग्गता दीप्तिः । क्षमा आक्रुष्टस्य ता-
डितस्य वा अन्तर्विक्रियानुत्पत्तिः, उत्पन्नायां विक्रियायाम्
उपशमनम् अक्रोधः इति अवोचाम । इत्थं क्षमायाः अक्रोध-
. स्य च विशेषः । धृतिः देहेन्द्रियेषु अवसादं प्राप्तेषु तस्य प्र-
तिषेधकः अन्तःकरणवृत्तिविशेषः, येन उत्तम्भितानि कर
णानि देहश्व न अवसीदन्ति । शौचं द्विविधं मृज्जलकृतं वा-
ह्यम् आभ्यन्तरं च मनोबुद्धयोः नैर्मल्यं मायारागादिकालु-
ध्याभाव:; एवं द्विविधं शौचम् । अद्रोहः परजिघांसाभावः
अहिंसनम् । नातिमानिता अत्यर्थ मानः अतिमानः, सः
यस्य विद्यते सः अतिमानी, तद्भावः अतिमानिता, तदभावः
नातिमानिता आत्मन: पूज्यतातिशयभावनाभाव इत्यर्थः
भवन्ति अभयादीनि एतदन्तानि संपदं अभिजातस्य । किं-
S. B. II. 12
.</p>
<pb n="198" />
<p>श्रीमद्भगवद्गीताभाष्ये
विशिष्टां संपदम् ? दैवीं देवानां या संपत् ताम् अभिलक्ष्य
जातस्य देवविभूत्यर्हस्य भाविकल्याणस्य इत्यर्थः, हे भारत ॥
अथ इदानीं आसुरी संपत् उच्यते-</p>
<lg>
  <l>दम्भो दर्षोऽतिमानश्च क्रोधः पारुष्यमेव च ।</l>
  <l>अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥</l>
</lg>
<p>I
दम्भः धर्मध्वजित्वम् । दर्पः विद्याधनस्वजनादिनिमित्तः
उत्सेक: । अतिमानः पूर्वोक्तः । क्रोधश्च । पारुष्यमेव च परु-
पवचनम् — यथा काणम् 'चक्षुष्मान्' विरूपम् ' रूपवान् '
हीनाभिजनम् 'उत्तमाभिजनः' इत्यादि । अज्ञानं च अविवे-
कज्ञानं कर्तव्याकर्तव्यादिविषय मिध्याप्रत्ययः । अभिजातस्य
पार्थ । किम् अभिजातस्येति, आह-- संपदम् आसुरीम्
असुराणां संपत् आसुरी ताम् अभिजातस्य इत्यर्थः ॥
अनयोः संपदोः कार्यम् उच्यते-</p>
<lg>
  <l>दैवी संपद्विमोक्षाय निबन्धायासुरी मता ।</l>
  <l>मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥</l>
</lg>
<p>दैवी संपत् या, सा. विमोक्षाय संसारबन्धनात् । निव-
न्धाय नियतः बन्धः निबन्धः तदर्थम् आसुरी संपत् मता</p>
<pb n="199" />
<p>षोडशोऽध्यायः ।</p>
<p>अभिप्रेता । तथा राक्षसी च । तत्र एवम् उक्ते सति अर्जुन-
स्य अन्तर्गतं भावम् ' किम् अहम् आसुरसंपद्युक्त: ? किंवा
दैवसंपद्युक्तः ?' इत्येवम् आलोचनारूपम् आलक्ष्य आह
भगवान्- - मा शुचः शोकं मा कार्षीः । संपदं दैवीम् अ-
भिजात: असि अभिलक्ष्य जातोऽसि भाविकल्याण: त्वम्
असि इत्यर्थः, हे पाण्डव ॥</p>
<lg>
  <l>द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।</l>
  <l>दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥</l>
</lg>
<p>द्वौ द्विसंख्याको भूतसर्गों भूतानां मनुष्याणां सर्गे सृष्टी
भूतसर्गौ सृज्येतेति सर्गौ भूतान्येव सृज्यमानानि दैवासुर-
संपहूययुक्तानि इति द्वौ भूतसग इति उच्यते, 'द्वया ह वै
प्राजापत्या देवाश्वासुराश्च' इति श्रुतेः । लोके अस्मिन् सं-
सारे इत्यर्थः सर्वेषां द्वैविध्योपपत्तेः । कौ तौ भूतसर्गौ इति,
उच्यते-- प्रकृतावेव दैव आसुर एव च । उक्तयोरेव पुनः
अनुवादे प्रयोजनम् आह-- दैव: भूतसर्गः 'अभयं सत्त्व-
संशुद्धि:' इत्यादिना विस्तरशः विस्तरप्रकारैः प्रोक्तः कथितः,
न तु आसुरः विस्तरश: ; अतः तत्परिवर्जनार्थम् आसुरं पार्थ,
मे मम वचनात् उच्यमानं विस्तरशः शृणु अवधारय ॥</p>
<pb n="200" />
<p>श्रीमद्भगवद्गीताभाष्ये
आ अध्यायपरिसमाप्तेः आसुरी संपत् प्राणिविशेषणत्वेन
प्रदर्श्यते, प्रत्यक्षीकरणेन च शक्यते तस्याः परिवर्जनं कर्तु-
मिति -</p>
<lg>
  <l>-</l>
  <l>प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।</l>
  <l>न शौचं नापि चाचारो न</l>
  <l>यं तेषु विद्यते ॥</l>
</lg>
<p>प्रवृत्तिं च प्रवर्तनं यस्मिन् पुरुषार्थसाधने कर्तव्ये प्रवृत्तिः
ताम्, निवृत्तिं च एतद्विपरीतां यस्मात् अनर्थहेतोः निवतिं-
तव्यं सा निवृत्तिः तां च, जनाः आसुरा: न विदुः न जा-
नन्ति । न केवलं प्रवृत्तिनिवृत्ती एव ते न विदुः, न शौचं
नापि च आचारः न सत्यं तेषु विद्यते ; अशौचाः अनाचा-
राः मायाविनः अनृतवादिनो हि आसुराः ॥
किंच-</p>
<lg>
  <l>असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।</l>
  <l>अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥ ८ ॥</l>
</lg>
<p>असत्यं यथा वयम् अनृतप्रायाः तथा इदं जगत् सर्वम्
असत्यम्, अप्रतिष्ठं च न अस्य धर्माधर्मौ प्रतिष्ठा अतः
अप्रतिष्ठं च, इति ते आसुराः जनाः जगत् आहुः, अनीश्वरम्</p>
<pb n="201" />
<p>षोडशोऽध्यायः ।</p>
<p>न च धर्माधर्मसव्यपेक्षकः अस्य शासिता ईश्वरः विद्यते
इति अतः अनीश्वरं जगत् आहुः । किंच, अपरस्परसंभूतं
कामप्रयुक्तयोः स्त्रीपुरुषयोः अन्योन्यसंयोगात् जगत् सर्व
संभूतम् । किमन्यत् कामहैतुकं कामहेतुकमेव कामतु-
कम् । किमन्यत् जगतः कारणम् ? न किंचित् अदृष्टुं धर्मा-
धर्मादि कारणान्तरं विद्यते जगत: 'काम एव प्राणिनां
कारणम्' इति लोकायतिकदृष्टिः इयम् ॥</p>
<lg>
  <l>एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।</l>
  <l>प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥</l>
</lg>
<p>एतां दृष्टिम् अवष्टभ्य आश्रित्य नष्टात्मानः नष्टस्वभावाः
विभ्रष्टपरलोकसाधना: अल्पबुद्धयः विषयविषया अल्पैव
बुद्धिः येषां ते अल्पबुद्धयः प्रभवन्ति उद्भवन्ति उग्रकर्माणः
क्रूरकर्माणः हिंसात्मकाः । क्षयाय जगतः प्रभवन्ति इति
संबन्ध: । जगत: अहिताः, शत्रवः इत्यर्थः ॥
ते च-</p>
<lg>
  <l>काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।</l>
  <l>मोहाद्गृहीत्वासङ्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥</l>
</lg>
<pb n="202" />
<p>श्रीमद्भगवद्गीताभाष्ये
कामम् इच्छाविशेषम् आश्रित्य अवष्टभ्य दुष्पूरम् अश-
क्यपूरणं दम्भमानमदान्विताः दम्भश्च मानश्च मदश्च दम्भ-
मानमदाः तैः अन्विताः दम्भमानमदान्विता: मोहात् अवि-
वेकतः गृहीत्वा उपादाय असद्ग्राहान् अशुभनिश्चयान् प्रव-
र्तन्ते लोके अशुचित्रता : अशुचीनि व्रतानि येषां ते अशु-
चित्रताः ॥
किंच-</p>
<lg>
  <l>चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।</l>
  <l>कामोपभोगपरमा एतावदिति निश्चिताः ॥ ११ ॥</l>
</lg>
<p>चिन्ताम् अपरिमेयां च न परिमातुं शक्यते यस्याः
चिन्ताया: इयत्ता सा अपरिमेया, ताम् अपरिमेयाम्, प्रलया-
न्तां मरणान्ताम् उपाश्रिताः, सदा चिन्तापराः इत्यर्थः ।
कामोपभोगपरमाः, काम्यन्ते इति कामाः विषयाः शब्दा-
दयः तदुपभोगपरमा: 'अयमेव परमः पुरुषार्थः यः कामो-
पभोगः' इत्येवं निश्चितात्मानः, एतावत् इति निश्चिताः ॥</p>
<lg>
  <l>आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।</l>
  <l>ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान् ॥१२॥</l>
</lg>
<p>आशापाशशतैः आशा एव पाशाः तच्छतैः वद्धाः निय-</p>
<pb n="203" />
<p>षोडशोऽध्यायः ।</p>
<p>न्त्रिताः सन्तः सर्वतः आकृष्यमाणांः, कामक्रोधपरायणाः
कामक्रोधौ परम् अयनम् आश्रयः येषां ते कामक्रोधपरायणाः,
ईहन्ते चेष्टन्ते कामभोगार्थं कामभोगप्रयोजनाय न धर्मार्थम्,
अन्पायेन परस्वापहरणादिना इत्यर्थः ; किम् ? अर्थसंचयान्
अर्थप्रचयान् ॥
ईदृश्य तेषाम् अभिप्रायः --</p>
<lg>
  <l>इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् ।</l>
  <l>इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३॥</l>
</lg>
<p>इदं द्रव्यं अद्य इदानीं मया लब्धम् । इदं च अन्यत्
प्राप्स्ये मनोरथं मनस्तुष्टिकरम् । इदं च अस्ति इदमपि मे
भविष्यति आगामिनि संवत्सरे पुनः धनं तेन अहं धनी
विख्यातः भविष्यामि इति ॥</p>
<lg>
  <l>असौ मया हतः शत्रु-</l>
  <l>र्हनिष्ये चापरानपि ।</l>
  <l>ईश्वरोऽहमहं भोगी</l>
  <l>सिद्धोऽहं बलवान्सुखी ॥ १४ ॥</l>
</lg>
<p>असौ देवदत्तनामा मया हतः दुर्जयः शत्रुः । हनिष्ये च</p>
<pb n="204" />
<p>श्रीमद्भगवद्गीताभाष्ये
अपरान् अन्यान् वराकान् अपि । किम् एते करिष्यन्ति
तपस्विनः ; सर्वथापि नास्ति मत्तुल्यः । कथम् ? ईश्वरः अह
म्, अहं भोगी । सर्वप्रकारेण च सिद्धः अहं संपन्नः पुत्रैः
नप्तृभिः, न केवलं मानुषः, बलवान् सुखी च अहमेव ;
तु भूमिभारायावितीर्णाः ॥</p>
<lg>
  <l>आढ्योऽभिजनवानस्मि</l>
  <l>कोऽन्योऽस्ति सदृशो मया ।</l>
  <l>यक्ष्ये दास्यामि मोदिष्य</l>
  <l>इत्यज्ञानविमोहिताः ॥ १५ ॥</l>
</lg>
<p>अन्ये
आढ्यः धनेन, अभिजनवान् सप्तपुरुषं श्रोत्रियत्वादिसं-
पन्न:- तेनापि न मम तुल्यः अस्ति कश्चित् । कः
,
अन्यः
अस्ति सदृशः तुल्यः मया ? किंच, यक्ष्ये यागेनापि
अन्यान् अभिभविष्यामि, दास्यामि नटादिभ्यः, मोदिष्ये
हर्ष च अतिशयं प्राप्स्यामि, इति एवम् अज्ञानविमोहिताः
अज्ञानेन विमोहिताः विविधम् अविवेकभावम् आपन्नाः ॥</p>
<lg>
  <l>अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।</l>
  <l>प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥</l>
</lg>
<pb n="205" />
<p>षोडशोऽध्यायः ।</p>
<p>अनेकचित्तविभ्रान्ताः उक्तप्रकारैः अनेकैः चित्तैः विविधं
भ्रान्ताः अनेकचित्तविभ्रान्ताः, मोहजालसमावृता: मोह:
अविवेक: अज्ञानं तदेव जालमिव आवरणात्मकत्वात्, तेन
समावृताः । प्रसक्ताः कामभोगेषु तत्रैव निषण्णाः सन्तः
तेन उपचितकल्मषाः पतन्ति नरके अशुचौ वैतरण्यादौ ॥
आत्मसंभाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १७
आत्मसंभाविताः सर्वगुणविशिष्टतया आत्मनैव संभा-
विता: आत्मसंभाविताः, न साधुभिः । स्तब्धाः अप्रणता-
त्मानः । धनमानमदान्विताः धननिमित्त: मान: मदश्व,
ताभ्यां धनमानमदाभ्याम् अन्विताः । यजन्ते नामयज्ञैः
नाममात्रैः यज्ञैः ते दम्भेन धर्मध्वजितया अविधिपूर्वकं
विधिविहिताङ्गेतिकर्तव्यतारहितम् ॥</p>
<lg>
  <l>अहंकारं बलं दर्प कामं क्रोधं च संश्रिताः ।</l>
  <l>मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १८ ॥</l>
</lg>
<p>अहंकारं अहंकरणम् अहंकारः, विद्यमानैः अविद्यमा-
नैश्च गुणैः आत्मनि अध्यारोपितै: 'विशिष्टमात्मानमहम्</p>
<pb n="206" />
<p>श्रीमद्भगवद्गीताभाष्ये
इति मन्यते, सः अहंकारः अविद्याख्यः कष्टतमः, सर्व-
दोषाणां मूलं सर्वानर्थप्रवृत्तीनां च तम् । तथा बलं परा-
भिभवनिमित्तं कामरागान्वितम् । दर्प दर्पो नाम यस्य
उद्भवे धर्मम् अतिक्रामति सः अयम् अन्तःकरणाश्रयः
दोषविशेषः । कामं स्त्र्यादिविषयम् । क्रोधम् अनिष्टविष-
यम् । एतान् अन्यांश्च महतो दोषान् संश्रिताः । किंच ते
मांम् ईश्वरम् आत्मपरदेहेषु स्वदेहे परदेहेषु च तद्बुद्धिकर्मसा-
क्षिभूतं मां प्रद्विषन्तः, मच्छासनातिवर्तित्वं प्रद्वेषः, तं
कुर्वन्तः अभ्यसूयकाः सन्मार्गस्थानां गुणेषु असहमानाः ॥</p>
<lg>
  <l>तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।</l>
  <l>क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥१९॥</l>
</lg>
<p>तान् अहं सन्मार्गप्रतिपक्षभूतान् साधुद्वेषिणः द्विषतश्च
मां क्रूरान् संसारेषु एव अनेकनरकसंसरणमार्गेषु नरा-
धमान् अधर्मदोषवत्त्वात् क्षिपामि प्रक्षिपामि अजस्रं संत-
तम् अशुभान् अशुभकर्मकारिणः आसुरीष्वेव क्रूरकर्मप्रा-
यासु व्याघ्रसिंहादियोनिषु ' क्षिपामि' इत्यनेन संबन्धः ॥
आसुरीं योनिमापन्ना
मूढा जन्मनि जन्मनि ।</p>
<pb n="207" />
<p>षोडशोऽध्यायः ।</p>
<p>मामप्राप्यैव कौन्तेय
ततो यान्त्यधमां गतिम् ॥ २० ॥
आसुरीं योनिम् आपन्नाः प्रतिपन्ना मूढाः अविवेकिनः
जन्मनि जन्मनि प्रतिजन्म तमोबहुलास्वेव योनिषु जाय-
माना: अधो गच्छन्तो मूढाः माम् ईश्वरम् अप्राप्य अनासाद्य
एव हे कौन्तेय, ततः तस्मादपि यान्ति अधमां गतिं निकृ-
प्रतमां गतिम् । 'माम् अप्राप्यैव ' इति न मत्प्राप्तौ काचिदपि
आशङ्का अस्ति, अतः मच्छिष्टसाधुमार्गम् अप्राप्य इत्यर्थः ॥
सर्वस्या आसुर्या : संपदः संक्षेपः अयम् उच्यते, यस्मिन्
त्रिविधे सर्वः आसुरीसंपद्भेदः अनन्तोऽपि अन्तर्भवति ।
यत्परिहारेण परिहृतश्च भवति यत् मूलं सर्वस्य अनर्थस्य,
तत् एतत् उच्यते——</p>
<lg>
  <l>त्रिविधं नरकखेदं</l>
  <l>द्वारं नाशनमात्मनः ।</l>
  <l>कामः क्रोधस्तथा लोभ-</l>
  <l>स्तस्मादेतत्रयं त्यजेत् ॥ २१ ॥</l>
</lg>
<p>त्रिविधं त्रिप्रकारं नरकस्य प्राप्तौ इदं द्वारं नाशनम् आ-</p>
<pb n="208" />
<p>श्रीमद्भगवद्गीताभाष्ये
त्मनः, यत् द्वारं प्रविशन्नेव नश्यति आत्मा;
कस्मैचित् पुरु-
पार्थाय योग्यो न भवति इत्येतत्, अतः उच्यते ' द्वारं नाशनमा-
त्मन:' इति । किं तत् ? कामः क्रोधः तथा लोभः । तस्मात्
एतत् त्रयं त्यजेत् । यतः एतत् द्वारं नाशनम् आत्मनः
तस्मात् कामादित्रयमेतत् त्यजेत् ॥
त्यागस्तुतिरियम्--</p>
<lg>
  <l>एतैर्विमुक्तः कौन्तेय</l>
  <l>तमोद्वारैस्त्रिभिर्नरः ।</l>
  <l>आचरत्यात्मनः श्रेय-</l>
  <l>स्ततो याति परां गतिम् ॥ २२ ॥</l>
</lg>
<p>एतैः विमुक्तः कौन्तेय तमोद्वारैः तमसः नरकस्य दुःख-
मोहात्मकस्य द्वाराणि कामादयः तैः, एतैः त्रिभिः विमुक्तः
नर: आचरति अनुतिष्ठति । किम् ? आत्मनः श्रेयः । यत्प्र-
तिबद्ध: पूर्व न आचचार, तदपगमात् आचरति । ततः
तदाचरणात् याति परां गतिं मोक्षमपि इति ॥
सर्वस्य एतस्य आसुरीसंपत्परिवर्जनस्य श्रेयआचरणस्य
च शास्त्रं कारणम् । शास्त्रप्रमाणात् उभयं शक्यं कर्तुम्, न
अन्यथा । अतः -</p>
<pb n="209" />
<p>षोडशोऽध्यायः ।</p>
<lg>
  <l>यः शास्त्रविधिमुत्सृज्य</l>
  <l>वर्तते कामकारतः ।</l>
  <l>न स सिद्धिमवाप्नोति</l>
  <l>न सुखं न परां गतिम् ॥ २३ ॥</l>
</lg>
<p>यः शास्त्रविधिं शास्त्रं वेद: तस्य विधिं कर्तव्याकर्तव्य-
ज्ञानकारणं विधिप्रतिषेधाख्यम् उत्सृज्य त्यक्त्वा वर्तते काम-
कारतः कामप्रयुक्तः सन्, न सः सिद्धिं पुरुषार्थयोग्यताम्
अवाप्नोति, न अपि अस्मिन् लोके सुखं न अपि परां प्रकृष्टां
गतिं स्वर्ग मोक्षं वा ॥</p>
<lg>
  <l>तस्माच्छास्त्रं प्रमाणं ते</l>
  <l>कार्याकार्यव्यवस्थितौ ।</l>
  <l>ज्ञात्वा शास्त्रविधानोक्तं</l>
  <l>कर्म कर्तुमिहार्हसि ॥ २४ ॥</l>
</lg>
<p>इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे देवासुर-
संपद्विभागयोगो नाम
षोडशोऽध्यायः ॥</p>
<pb n="210" />
<p>श्रीमद्भगवद्गीताभाष्ये
तस्मात् शास्त्रं प्रमाणं ज्ञानसाधनं ते तव कार्याकार्यव्य-
वस्थितौ कर्तव्याकर्तव्यव्यवस्थायाम् । अतः ज्ञात्वा बुड्ढा
शास्त्रविधानोक्तं विधिः विधानं शास्त्रमेव विधानं शास्त्रवि-
धानम् 'कुर्यात्, न कुर्यात्' इत्येवंलक्षणम् तेन उक्तं स्वकर्म
यत् तत् कर्तुम् इह अर्हसि, इह इति कर्माधिकारभूमिप्रदर्श-
नार्थम् इति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
षोडशोऽध्यायः॥</p>
<pb n="211" />
<p>श्रीमच्छंकरभगवत्पादविरचितम्
श्रीमद्भगवद्गीताभाष्यम्
सप्तदशोऽध्यायः
GADAG15 TAAAAAA</p>
<pb n="212" />
<pb n="213" />
<p>सप्तदशोऽध्यायः ॥
त
स्माच्छास्त्रं प्रमाणं ते' इति भगवद्वा-
क्यात् लब्धप्रश्नवीज: अर्जुन उवाच-
अर्जुन उवाच-</p>
<lg>
  <l>ये शास्त्रविधिमुत्सृज्य</l>
  <l>यजन्ते श्रद्धयान्विताः ।</l>
  <l>तेषां निष्ठा तु का कृष्ण</l>
  <l>सत्त्वमाहो रजस्तमः ॥ १ ॥</l>
</lg>
<p>ये केचित् अविशेषिताः शास्त्रविधिं शास्त्रविधानं श्रुति-
स्मृतिशास्त्रचोदनाम् उत्सृज्य परित्यज्य यजन्ते देवादीन्
पूजयन्ति श्रद्धया अन्विताः श्रद्धया आस्तिक्यबुद्धधा अन्वि-
ताः संयुक्ताः सन्तः - श्रुतिलक्षणं स्मृतिलक्षणं वा कंचित्
शास्त्रविधिम् अपश्यन्तः वृद्धव्यवहारदर्शनादेव श्रद्दधानतया
S. B. II. 13</p>
<pb n="214" />
<p>श्रीमद्भगवद्गीताभाष्ये
ये देवादीन् पूजयन्ति ते इह 'ये शास्त्रविधिमुत्सृज्य यजन्ते
'
श्रद्धयान्विता:' इत्येवं गृह्यन्ते । ये पुनः कंचित् शास्त्रविधिं
उपलभमाना एव तम् उत्सृज्यं अयथाविधि देवादीन् पूजय-
न्ति, ते इह 'ये शास्त्रविधिमुत्सृज्य यजन्ते' इति न परिगृह्य-
न्ते । कस्मात् ? श्रद्धया अन्वितत्वविशेषणात् । देवादिपूजावि-
धिपरं किंचित् शास्त्रं पश्यन्त एव तत्. उत्सृज्य अश्रद्दधान-
तया तद्विहितायां देवादिपूजायां श्रद्धया अन्विताः प्रवर्तन्ते
इति न शक्यं कल्पयितुं यस्मात् तस्मात् पूर्वोक्ता एव 'ये
शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता:' इत्यत्र गृह्यन्ते ।
तेषाम् एवंभूतानां निष्ठा तु का कृष्ण सत्त्वम् आहो रजः तमः,
किं सत्त्वं निष्ठा अवस्थानम्, आहोस्वित् रजः, अथवा तमः
इति । एतत् उक्तं भवति- तेषां देवादिविषया पूजा, सा
-या
'
किं सात्त्विकी, आहोस्वित् राजसी, उत तामसी इति ॥
सामान्यविषयः अयं प्रश्नः न अप्रविभज्र्ज्यं प्रतिवचनम्
अर्हतीति श्रीभगवानुवाच -
श्रीभगवानुवाच-
त्रिविधा भवति श्रद्धा
देहिनां सा स्वभावजा ।</p>
<pb n="215" />
<p>सप्तदशोऽध्यायः ।</p>
<p>'
सात्त्विकी राजसी चैव
तामसी चेति तां शृणु ॥ २ ॥
त्रिविधा त्रिप्रकारा भवति श्रद्धा, यस्यां निष्ठायां त्वं
पृच्छसि देहिनां शरीरिणां सा स्वभावजा ; जन्मान्तरकृतः
धर्मादिसंस्कारः मरणकाले अभिव्यक्त: स्वभाव: उच्यते,
ततो जाता स्वभावजा । सात्त्विकी सत्त्वनिर्वृत्ता देवपूजा-
दिविषया; राजसी रजोनिर्वृत्ता यक्षरक्षः पूजादिविषया;
तामसी तमोनिर्वृत्ता प्रेतपिशाचादिपूजाविषया; एवं बि-
विधां ताम् उच्यमानां श्रद्धां शृणु अवधारय ॥
सा इयं त्रिविधा भवति—</p>
<lg>
  <l>सत्वानुरूपा सर्वस्य</l>
  <l>श्रद्धा भवति भारत ।</l>
  <l>श्रद्धामयोऽयं पुरुषो</l>
  <l>यो यच्छ्रद्धः स एव सः ॥ ३ ॥</l>
</lg>
<p>सत्त्वानुरूपा विशिष्टसंस्कारोपेतान्त:करणानुरूपा सर्वस्य
प्राणिजातस्य श्रद्धा भवति भारत । यदि एवं ततः किं
स्यादिति, उच्यते – श्रद्धामयः अयं श्रद्धाप्रायः पुरुषः संसारी</p>
<pb n="216" />
<p>श्रीमद्भगवद्गीताभाष्ये
जीवः । कथम् ? यः यच्छ्रद्धः या श्रद्धा यस्य जीवस्य सः
यच्छ्रद्धः स एव तच्छूद्धानुरूप एव सः जीवः ॥
ततश्च कार्येण लिङ्गेन देवादिपूजया सत्त्वादिनिष्ठा अनुः
मेया इत्याह--</p>
<lg>
  <l>यजन्ते सात्त्विका देवा-</l>
  <l>न्यक्षरक्षांसि राजसाः ।</l>
  <l>प्रेतान्भूतगणांश्चान्ये</l>
  <l>यजन्ते तामसा जनाः ॥ ४ ॥</l>
</lg>
<p>यजन्ते पूजयन्ति सात्त्विकाः सत्त्वनिष्ठाः देवान्, यक्ष-
रक्षांसि राजसाः, प्रेतान् भूतगणांश्च सप्तमातृकादींश्च अन्ये
यजन्ते तामसाः जनाः ॥
एवं कार्यतो निर्णीताः सत्त्वादिनिष्ठाः शास्त्रविध्युत्सर्गे ।
तत्र कश्चिदेव सहस्रेषु देवपूजादिपरः सत्त्वनिष्ठो भवति,
बाहुल्येन तु रजोनिष्ठाः तमोनिष्ठाश्चैव प्राणिनो भवन्ति ।
कथम् ? -
-</p>
<lg>
  <l>अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।</l>
  <l>दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥</l>
</lg>
<pb n="217" />
<p>सप्तदशोऽध्यायः ।</p>
<p>अशास्त्रविहितं न शास्त्रविहितम् अशास्त्रविहितं घोरं
पीडाकरं प्राणिनाम् आत्मनश्च तपः तप्यन्ते निर्वर्तयन्ति
ये जनाः ते च दम्भाहंकारसंयुक्ताः, दम्भश्च अहंकारश्चं
दम्भाहंकारौ, ताभ्यां संयुक्ताः दम्भाहंकारसंयुक्ताः, काम-
रागबलान्विताः कामश्च रागश्च कामरागौ तत्कृतं बलं
कामरागवलं तेन अन्विताः कामरागबलान्विताः ॥</p>
<lg>
  <l>कर्शयन्तः शरीरस्थं</l>
  <l>भूतग्राममचेतसः ।</l>
  <l>मां चैवान्तःशरीरस्थं</l>
  <l>तान्विद्वयासुरनिश्चयान् ॥ ६ ॥</l>
</lg>
<p>कर्शयन्तः कृशीकुर्वन्तः शरीरस्थं भूतग्रामं करणसमुदा-
यम् अचेतसः अविवेकिनः मां चैव तत्कर्मबुद्धिसाक्षिभूतम्
अन्तःशरीरस्थं नारायणं कर्शयन्तः, मदनुशासनाकरणमेव
मत्कर्शनम्, तान् विद्धि आसुरनिश्चयान् आसुरो निश्चयो
येषां ते आसुरनिश्चयाः तान् परिहरणार्थे विद्धि इति उप-
देशः ॥
आहाराणां च रस्यस्निग्धादिवर्गत्त्रयरूपेण भिन्नानां यथा-
क्रमं सात्त्विकराजसतामसपुरुषप्रियत्वदर्शनम् इह क्रियते</p>
<pb n="218" />
<p>श्रीमद्भगवद्गीताभाष्ये
रस्यस्निग्धादिषु आहारविशेषेषु आत्मनः प्रीत्यतिरेकेण लि-
ङ्गेन सात्त्विकत्वं राजसत्वं तामसत्वं च बुद्ध्वा रजस्तमो-
लिङ्गानाम् आहाराणां परिवर्जनार्थं सत्त्वलिङ्गानां च उपादा-
नार्थम् । तथा यज्ञादीनामपि सत्त्वादिगुणभेदेन त्रिविधत्व-
प्रतिपादनम् इह 'राजसतामसान् बुद्ध्वा कथं नु नाम परि-
त्यजेत् सात्त्विकानेव अनुतिष्ठेत्' इत्येवमर्थम् । आह-
"</p>
<lg>
  <l>आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।</l>
  <l>यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ ७ ॥</l>
</lg>
<p>आहारस्त्वपि सर्वस्य भोक्तुः प्राणिनः त्रिविधो भवति
प्रियः इष्टः, तथा यज्ञः, तथा तपः, तथा दानम् । तेषाम्
आहारादीनां भेदम् इमं वक्ष्यमाणं शृणु ॥</p>
<lg>
  <l>आयुःसत्त्वबलारोग्य-</l>
  <l>सुखप्रीतिविवर्धनाः ।</l>
  <l>रस्याः स्निग्धाः स्थिरा हृद्या</l>
  <l>आहाराः सात्त्विकप्रियाः ॥ ८ ॥</l>
</lg>
<p>आयुश्च सत्त्वं च बलं च आरोग्यं च सुखं च प्रीतिश्च
आयुः सत्त्वबलारोग्यसुखप्रीतयः तासां विवर्धनाः आयुःस-</p>
<pb n="219" />
<p>सप्तदशोऽध्यायः ।</p>
<p>त्त्वबलारोग्यसुखप्रीतिविवर्धनाः, ते च रस्याः रसोपेताः, त्रि-
ग्धा: स्नेहवन्तः, स्थिराः चिरकालस्थायिनः देहे, हृद्या: हृद-
यप्रियाः आहाराः सात्त्विकप्रियाः सात्त्विकस्य इष्टाः ॥</p>
<lg>
  <l>कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।</l>
  <l>आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥</l>
</lg>
<p>कटुम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः इत्यत्र अतिशब्द:
कट्ठादिषु सर्वत्र योज्यः, अतिकटुः अतितीक्ष्णः इत्येवम् ।
कटुश्च अम्लश्च लवणश्च अत्युष्णश्च तीक्ष्णश्च रूक्षश्च विदाही
च ते आहारा: राजसस्य इष्टाः, दुःखशोकामयप्रदाः दुःखं
च शोकं च आमयं च प्रयच्छन्तीति दुःखशोकामयप्रदाः ॥</p>
<lg>
  <l>यातयामं गतरसं पूति पर्युषितं च यत् ।</l>
  <l>उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥</l>
</lg>
<p>यातयामं मन्दपक्कम्, निर्वीर्यस्य गतरसशब्देन उक्तत्वात् ।
गतरसं रसवियुक्तम्, पूति दुर्गन्धि, पर्युषितं च पक्कं सत्
रात्र्यन्तरितं च यत्, उच्छिष्टमपि भुक्तशिष्टम् उच्छिष्टम्,
अमेध्यम् अयज्ञार्हम्,.भोजनम् ईदृशं तामसप्रियम् ॥
अथ इदानीं यज्ञः त्रिविधः उच्यते-</p>
<pb n="220" />
<p>श्रीमद्भगवद्गीताभप्ये</p>
<lg>
  <l>अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।</l>
  <l>यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥</l>
</lg>
<p>अफलाकाङ्क्षिभि: अफलार्थिभिः यज्ञः विधिदृष्टः शास्त्रचो-
दनादृष्टो यः यज्ञः इज्यते निर्वर्त्यते, यष्टव्यमेवेति यज्ञस्वरूप-
निर्वर्तनमेव कार्यम् इति मनः समाधाय, न अनेन पुरुषार्थो
मम कर्तव्यः इत्येवं निश्चित्य, सः सात्त्विकः यज्ञः उच्यते ॥</p>
<lg>
  <l>अभिसंधाय तु फलं दम्भार्थमपि चैव यत् ।</l>
  <l>इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१२॥</l>
</lg>
<p>अभिसंधाय तु उद्दिश्य फलं दम्भार्थमपि चैव यत्
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥</p>
<lg>
  <l>विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।</l>
  <l>श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १३ ॥</l>
</lg>
<p>"
विधिहीनं यथाचोदितविपरीतम् असृष्टान्नं ब्राह्मणेभ्यो
न सृष्टं न दत्तम् अन्नं यस्मिन् यज्ञे सः असृष्टान्नः तम्
असृष्टान्नम, मन्त्रहीनं मन्त्रतः स्वरतो वर्णतो वा वियुक्तं
मन्त्रहीनम् अदक्षिणम् उक्तदक्षिणारहितम्, श्रद्धाविरहितं
यज्ञं तामसं परिचक्षते तमोनिर्वृत्तं कथयन्ति ॥
'</p>
<pb n="221" />
<p>सप्तदशोऽध्यायः ।
अथ इदानीं तपः त्रिविधम् उच्यते—</p>
<lg>
  <l>देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।</l>
  <l>ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १४ ॥</l>
</lg>
<p>देवाश्च द्विजाश्च गुरवश्च प्राज्ञाश्च देवद्विजगुरुप्राज्ञाः
तेषां पूजनं देवद्विजगुरुप्राज्ञपूजनम्, शौचम्, आर्जवम् ऋजु-
त्वम्, ब्रह्मचर्यम् अहिंसा च शरीरनिर्वर्त्य शारीरं शरीरप्र-
धानैः सर्वैरेव कार्यकरणैः कर्त्रादिभिः साध्यं शारीरं तपः
उच्यते । 'पञ्चैते तस्य हेतव:' इति हि वक्ष्यति ॥</p>
<lg>
  <l>अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।</l>
  <l>स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥</l>
</lg>
<p>अनुद्वेगकरं प्राणिनाम् अदुःखकरं वाक्यं सत्यं प्रियहितं
च यत् प्रियहिते दृष्टादृष्टार्थे । अनुद्वेगकरत्वादिभिः धर्मैः
वाक्यं विशेष्यते । विशेषणधर्मसमुच्चयार्थः च-शब्दः । पर-
प्रत्ययार्थ प्रयुक्तस्य वाक्यस्य सत्यप्रियहितानुद्वेगकरत्वानाम्
अन्यतमेन द्वाभ्यां त्रिभिर्वा हीनता स्याद्यदि, न तद्वाङ्मयं
तपः । तथा सत्यवाक्यस्य इतरेषाम् अन्यतमेन द्वाभ्यां
त्रिभिर्वा विहीननायां न वाङ्मयतपस्त्वम् । तथा प्रियवा-</p>
<pb n="222" />
<p>श्रीमद्भगवद्गीताभाष्ये
क्यस्यापि इतरेषाम् अन्यतमेन द्वाभ्यां विभिर्वा विहीनस्य
न वाङ्मयतपस्त्वम् । तथा हितवाक्यस्यापि इतरेषाम् अन्य-
तमेन द्वाभ्यां त्रिभिर्वा विहीनस्य न वाङ्मयतपस्त्वम् ।
किं पुनः तत् तपः ? यत् सत्यं वाक्यम् अनुद्वेगकरं प्रियं
हितं च तत् तपः वाङ्मयम्; यथा 'शान्तो भव वत्स,
स्वाध्यायं योगं च अनुतिष्ठ, तथा ते श्रेयो भविष्यति'
इति । स्वाध्यायाभ्यसनं चैव यथाविधि वाङ्मयं तपः
उच्यते ॥</p>
<lg>
  <l>मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।</l>
  <l>भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥</l>
</lg>
<p>मनःप्रसादः मनसः प्रशान्तिः, स्वच्छतापादनं प्रसादः,
सौम्यत्वं यत् सौमनस्यम् आहुः - मुखादिप्रसादादिकार्यों-
नेया अन्तःकरणस्य वृत्तिः । मौनं वाङ्नियमोऽपि मन:-
संयमपूर्वको भवति इति कार्येण कारणम् उच्यते मनः सं-
यमो मौनमिति । आत्मविनिग्रहः मनोनिरोधः सर्वतः
सामान्यरूपः आत्मविनिग्रहः, वाग्विषयस्यैव मनसः संयमः
मौनम् इति विशेषः । भावसंशुद्धिः परैः व्यवहारकाले
अमायावित्वं भावसंशुद्धिः । इत्येतत् तपः मानसम् उच्यते ॥</p>
<pb n="223" />
<p>सप्तदशोऽध्यायः ।</p>
<p>यथोक्तं कायिकं वाचिकं मानसं च तपः तप्तं नरैः
सत्त्वादिगुणभेदेन कथं त्रिविधं भवतीति, उच्यते—</p>
<lg>
  <l>श्रद्धया परया तप्तं तपस्तत्रिविधं नरैः ।</l>
  <l>अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥</l>
</lg>
<p>श्रद्धया आस्तिक्यबुद्ध्या परया प्रकृष्टया तप्तम् अनुष्ठितं
तपः तत् प्रकृतं त्रिविधं त्रिप्रकारं त्र्यधिष्ठानं नरैः अनुष्ठा-
तृभि: अफलाकाङ्क्षिभिः फलाकाङ्क्षारहितैः युक्तैः समाहितै:-
यत् ईदृशं तपः, तत् सात्त्विकं सत्त्वनिर्वृत्तं परिचक्षते कथ-
यन्ति शिष्टाः ॥</p>
<lg>
  <l>सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।</l>
  <l>क्रियते तदिह प्रोक्तं राजसं चलमधुवम् ॥१८॥</l>
</lg>
<p>"
सत्कार: साधुकारः 'साधुः अयं तपस्वी ब्राह्मण:
इत्येवमर्थम्, मानो माननं प्रत्युत्थानाभिवादनादिः तदर्थम,
पूजा पादप्रक्षालनार्चनाशयितृत्वादिः तदर्थं च तप: सत्का-
रमानपूजार्थम्, दम्भेन चैव यत् क्रियते तपः तत् इह प्रोक्तं
कथितं राजसं चलं कादाचित्कफलत्वेन अध्रुवम् ॥</p>
<lg>
  <l>मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।</l>
  <l>परस्योत्सादनार्थे वा तत्तामसमुदाहृतम् ॥ १९ ॥</l>
</lg>
<p>.</p>
<pb n="224" />
<p>श्रीमद्भगवद्गीताभाष्ये
मूढप्राहेण अविवेकनिश्चयेन आत्मनः पीडया यत् क्रि-
यते तपः परस्य उत्सादनार्थं विनाशार्थं वा, तत् तामसं तपः
उदाहृतम् ॥
इदानीं दानत्रैविध्यम् उच्यते-</p>
<lg>
  <l>दातव्यमिति यद्दानं</l>
  <l>दीयतेऽनुपकारिणे ।</l>
  <l>देशे काले च पात्रे च</l>
  <l>तद्दानं सात्त्विकं स्मृतम् ॥ २० ॥</l>
</lg>
<p>दातव्यमिति एवं मनः कृत्वा यत् दानं दीयते अनुपका-
रिणे प्रत्युपकारासमथीय, समर्थायापि निरपेक्षं दीयते, देशे
पुण्ये कुरुक्षेत्रादौ, काले संक्रान्त्यादौ, पात्रे च षडङ्गविद्वेद-
पारग इत्यादौ, तत् दानं सात्त्विकं स्मृतम् ॥</p>
<lg>
  <l>यत्तु प्रत्युपकारार्थ</l>
  <l>फलमुद्दिश्य वा पुनः ।</l>
  <l>दीयते च परिक्लिष्टं</l>
  <l>तद्दानं राजसं स्मृतम् ॥ २१ ॥</l>
</lg>
<p>यत्तु दानं प्रत्युपकारार्थं काले तु अयं मां प्रत्युपकरिष्य- .</p>
<pb n="225" />
<p>सप्तदशोऽध्यायः ।</p>
<note>४.८१</note>
<p>ति इत्येवमर्थम्, फलं वा अस्य दानस्य मे भविष्यति अदृष्टम्
इति, तत् उद्दिश्य पुनः दीयते च परिक्लिष्टं खेदसंयुक्तम्, तत्
दानं राजसं स्मृतम् ॥</p>
<lg>
  <l>अदेशकाले यद्दानमपालेभ्यश्च दीयते ।</l>
  <l>असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ २२ ॥</l>
</lg>
<p>अदेशकाले अदेशे अपुण्यदेशे म्लेच्छाशुच्यादि संकीर्णे
अकाले पुण्यहेतुत्वेन अप्रख्याते संक्रान्त्यादिविशेषरहिते अ-
पात्रेभ्यश्च मूर्खतस्करादिभ्यः, देशादिसंपत्तौ वा असत्कृतं
प्रियवचनपादप्रक्षालनपूजादिरहितम् अवज्ञातं पात्रपरिभवयुक्तं
च यत् दानम्, तत् तामसम् उदाहृतम् ॥
यज्ञदानतपः प्रभृतीनां साद्गुण्यकरणाय अयम् उपदेश:
उच्यते-</p>
<lg>
  <l>ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।</l>
  <l>ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥</l>
</lg>
<p>ॐ तत् सत् इति एवं निर्देशः, निर्दिश्यते अनेनेति
निर्देश:, त्रिविधो नामनिर्देश: ब्रह्मणः स्मृतः चिन्तितः
वेदान्तेषु ब्रह्मविद्भिः । ब्राह्मणाः तेन निर्देशेन त्रिविधेन
वेदाश्च यज्ञाश्च विहिताः निर्मिताः पुरा पूर्वम् इति निर्दे-</p>
<pb n="226" />
<p>शस्तुत्यर्थम् उच्यते ॥
श्रीमद्भगवद्गीताभाप्ये</p>
<lg>
  <l>तस्मादोमित्युदाहृत्य यज्ञदानतपः क्रियाः ।</l>
  <l>प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥</l>
</lg>
<p>तस्मात् 'ओम् इति उदाहृत्य उच्चार्य यज्ञदानतपः क्रियाः
यज्ञादिस्वरूपाः क्रियाः प्रवर्तन्ते विधानोक्ताः शास्त्रचोदिताः
सततं सर्वदा ब्रह्मवादिनां ब्रह्मवदनशीलानाम् ॥</p>
<lg>
  <l>तदिव्यनभिसंधाय</l>
  <l>फलं यज्ञतपःक्रियाः ।</l>
  <l>दानक्रियाश्च विविधाः</l>
  <l>क्रियन्ते मोक्षकाङ्क्षिभिः ॥ २५ ॥</l>
</lg>
<p>तत् इति अनभिसंधाय, 'तत्' इति ब्रह्माभिधानम् उच्चार्य
. अनभिसंधाय च यज्ञादिकर्मणः फलं यज्ञतपःक्रियाः यज्ञ-
क्रियाश्च तपःक्रियाश्च यज्ञतपःक्रियाः दानक्रियाश्च विविधाः
क्षेत्र हिरण्यप्रदानादिलक्षणा : क्रियन्ते निर्वर्त्यन्ते मोक्षकाङ्क्षिभिः
मोक्षार्थिभिः मुमुक्षुभिः ॥
अतच्छब्दयोः विनियोगः उक्तः । अथ इदानीं सच्छ-
व्दस्य विनियोगः कथ्यते——</p>
<pb n="227" />
<p>सप्तदशोऽध्यायः ।</p>
<lg>
  <l>सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।</l>
  <l>प्रशस्ते कर्मणि तथा सच्छन्दः पार्थ युज्यते ॥</l>
</lg>
<p>सद्भावे, असत: सद्भावे यथा अविद्यमानस्य पुत्रस्य
जन्मनि, तथा साधुभावे च असद्वृत्तस्य असाधोः सद्वृत्तता
साधुभावः तस्मिन् साधुभावे च सत् इत्येतत् अभिधानं
ब्रह्मणः प्रयुज्यते अभिधीयते । प्रशस्ते कर्मणि विवाहादौ च
तथा सच्छब्द: पार्थ, युज्यते प्रयुज्यते इत्येतत् ॥</p>
<lg>
  <l>यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।</l>
  <l>कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥</l>
</lg>
<p>यज्ञे यज्ञकर्मणि या स्थितिः, तपसि च या स्थितिः,
दाने च या स्थितिः, सा सत् इति च उच्यते विद्वद्भिः ।
कर्म च एव तदर्थीयं यज्ञदानतपोर्थीयम्; अथवा, यस्य
अभिधानत्त्रयं प्रकृतं तदर्थीयं यज्ञदानतपोर्थीयम् ईश्वरार्थीयम्
इत्येतत् ; सत् इत्येव अभिधीयते । तत् एतत् यज्ञदानतप-
आदि कर्म असात्त्विकं विगुणमपि श्रद्धापूर्वकं ब्रह्मण: अभि-
धानत्रयप्रयोगेण सगुणं सात्त्विकं संपादितं भवति ॥
तत्र च सर्वत्र श्रद्धाप्रधानतया सर्वे संपाद्यते यस्मात्,
तस्मात्—</p>
<pb n="228" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।</l>
  <l>असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥</l>
</lg>
<p>इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्म-
विद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
श्रद्धात्रयविभागयोगो नाम
सप्तदशोऽध्यायः ॥
अश्रद्धया हुतं हवनं कृतम्, अश्रद्धया दत्तं ब्राह्मणेभ्यः,
अश्रद्धया तपः तप्तम् अनुष्ठितम्, तथा अश्रद्धयैव कृतं यत्
स्तुतिनमस्कारादि, तत् सर्वम् असत् इति उच्यते, मत्प्राप्ति-
साधनमार्गबाह्यत्वात् पार्थ । न च तत् बहुलायासमपि प्रेत्य
फलाय नो अपि इहार्थम्, साधुभिः निन्दितत्वात् इति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
सप्तदशोऽध्यायः ॥</p>
<pb n="229" />
<p>श्रीमच्छंकरभगवत्पादविरचितम्
श्रीमद्भगवद्गीताभाष्यम्
अष्टादशोऽध्यायः
មមមមមមម
S. B. II. 14</p>
<pb n="230" />
<pb n="231" />
<p>अष्टादशोऽध्यायः ॥
र्वस्यैव गीताशास्त्रस्य अर्थः अस्मिन् अध्याये
उपसंहृत्य सर्वश्व वेदार्थो वक्तव्यः इत्येवमर्थः
अयम् अध्यायः आरभ्यते । सर्वेषु हि अतीतेषु
अध्यायेषु उक्तः अर्थः अस्मिन् अध्याये अव-
गम्यते । अर्जुनस्तु संन्यासत्यागशब्दार्थयोरेव विशेषबुभुत्सुः
उवाच --
अर्जुन उवाच-</p>
<lg>
  <l>संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।</l>
  <l>त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १ ॥</l>
</lg>
<p>'
संन्यासस्य संन्यासशब्दार्थस्य इत्येतत्, हे महाबाहो,
तत्त्वं तस्य भावः तत्त्वम् याथात्म्यमित्येतत्, इच्छामि
वेदितुं ज्ञातुम्, त्यागस्य च त्यागशब्दार्थस्येत्येतत्, हृषी-
केश, पृथक् इतरेतरविभागतः केशिनिषूदन केशिनामा</p>
<pb n="232" />
<p>श्रीमद्भगवद्गीताभाप्ये
हयच्छद्मा कश्चित् असुरः तं निपूदितवान् भगवान् वासु-
देवः, तेन तन्नाम्ना संबोध्यते अर्जुनेन ॥
संन्यासत्यागशब्दौ तत्र तत्र निर्दिष्टौ न निर्लुठितार्थों
पूर्वेषु अध्यायेषु । अत: अर्जुनाय पृष्टवते तन्निर्णयाय
भगवान् उवाच —
श्रीभगवानुवाच—</p>
<lg>
  <l>काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।</l>
  <l>सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥</l>
</lg>
<p>काम्यानाम् अश्वमेधादीनां कर्मणां न्यासं संन्यामशब्दा-
र्थम्, अनुष्ठेयत्वेन प्राप्तस्य अनुष्ठानम्, कवयः पण्डिताः
केचित् विदुः विजानन्ति । नित्यनैमित्तिकानाम् अनुष्ठी-
यमानानां सर्वकर्मणाम् आत्मसंबन्धितया प्राप्तस्य फलस्य
परित्यागः सर्वकर्मफलत्यागः तं प्राहुः कथयन्ति त्यागं
त्यागशब्दार्थ विचक्षणाः पण्डिताः । यदि काम्यकर्मपरि-
त्यागः फलपरित्यागो वा अर्थः वक्तव्यः, सर्वथा परित्याग-
मात्रं संन्यासत्यागशब्दयोः एकः अर्थः स्यात्, न घटपट-
शब्दाविव जात्यन्तरभूतार्थौ ॥
ननु नित्यनैमित्तिकानां कर्मणां फलमेव नास्ति इति</p>
<pb n="233" />
<p>अष्टादशोऽध्यायः ।</p>
<p>आहुः । कथम् उच्यते तेषां फलत्यागः, यथा वन्ध्यायाः
पुत्रत्यागः ? नैष दोषः, नित्यानामपि कर्मणां भगवता
फलवत्त्वस्य इष्टत्वात् । वक्ष्यति हि भगवान् 'अनिष्टमिष्टं
मिश्रं च' इति 'न तु संन्यासिनाम्' इति च । संन्यासि -
नामेव हि केवलं कर्मफलासंबन्धं दर्शयन् असंन्यासिनां
नित्यकर्मफलप्राप्तिम् ' भवत्यत्यागिनां प्रेत्य' इति दर्शयति ॥</p>
<lg>
  <l>त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।</l>
  <l>यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ ३ ॥</l>
</lg>
<p>त्याज्यं त्यक्तव्यं दोषवत् दोषः अस्य अस्तीति दोषवत् ।
किं तत् ? कर्म बन्धहेतुत्वात् सर्वमेव । अथवा, दोष:
यथा रागादिः त्यज्यते, तथा त्याज्यम् इति एके कर्म प्राहु:
मनीषिणः पण्डिताः सांख्यादिदृष्टिम् आश्रिताः, अधिकृतानां
कर्मिणामपि इति । तत्रैव यज्ञदानतपःकर्म न त्याज्यम्
इति च अपरे ॥
कर्मिणः एव अधिकृताः, तान् अपेक्ष्य एते विकल्पाः,
न तु ज्ञाननिष्ठान् व्युत्थायिनः संन्यासिनः अपेक्ष्य ।
'ज्ञानयोगेन सांख्यानां निष्ठा मया पुरा प्रोक्ता' इति कर्मा-
धिकारात् अपोद्धृताः ये, न तान् प्रति चिन्ता ।
6</p>
<pb n="234" />
<p>श्रीमद्भगवद्गीताभाष्ये
ननु ' कर्मयोगेन योगिनाम्' इति अधिकृता: पूर्व विभ
कनिष्ठाः अपि इह सर्वशास्त्रार्थोपसंहारप्रकरणे यथा विचा-
र्यन्ते, तथा सांख्या अपि ज्ञाननिष्ठाः विचार्यन्ताम् इति ।
न, तेषां मोहदुःखनिमित्तत्यागानुपपत्तेः । न कायक्लेशनिमित्तं
दुःखं सांख्याः आत्मनि पश्यन्ति, इच्छादीनां क्षेत्रधर्मत्वे-
नैव दर्शितत्वात् । अतः ते न कायक्लेशदुःखभयात् कर्म
परित्यजन्ति । नापि ते कर्माणि आत्मनि पश्यन्ति, येन
नियतं कर्म मोहात् परित्यजेयुः । गुणानां कर्म ' नैव किंचि-
त्करोमि ' इति हि ते संन्यस्यन्ति । ' सर्वकर्माणि मनसा
संन्यस्य' इत्यादिभिः तत्त्वविदः संन्यासप्रकारः उक्तः ।
तस्मात् ये अन्ये अधिकृताः कर्मणि अनात्मविदः येषां
च मोहनिमित्त: त्यागः संभवति कायक्लेशभयाच्च, ते एव
तामसाः त्यागिनः राजसाच इति निन्द्यन्ते कर्मिणाम् अना-
त्मज्ञानां कर्मफलत्यागस्तुत्यर्थम् ; 'सर्वारम्भपरित्यागी' 'मौ-
नी संतुष्टो येन केनचित् । अनिकेतः स्थिरमति:' इति
गुणातीतलक्षणे च परमार्थसंन्यासिनः विशेषितत्वात् ।
वक्ष्यति च ' निष्ठा ज्ञानस्य या परा' इति । तस्मात् ज्ञान-
निष्ठाः संन्यासिनः न इह विवक्षिताः । कर्मफलत्यागः
एव सात्त्विकत्वेन गुणेन तामसत्वाद्यपेक्षया संन्यास:</p>
<pb n="235" />
<p>अष्टादशोऽध्यायः ।</p>
<p>उच्यते, न मुख्य:
सर्वकर्मसंन्यासः ॥
सर्वकर्मसंन्यासासंभवे च 'न हि देहभृता' इति हेतु-
वचनात् मुख्य एव इति चेत्, न; हेतुवचनस्य स्तुत्यर्थत्वात् ।
यथा त्यागाच्छान्तिरनन्तरम्' इति कर्मफलत्यागस्तुतिरेव यथो-
क्तानेकपक्षानुष्ठानाशक्तिमन्तम् अर्जुनम् अज्ञं प्रति विधानात् ;
तथा इदमपि 'न हि देहभृता शक्यम्' इति कर्मफलत्याग-
स्तुत्यर्थम् ; न 'सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन्न
कारयन्नास्ते' इत्यस्य पक्षस्य अपवादः केनचित् दर्शयितुं
शक्यः । तस्मात् कर्मणि अधिकृतान् प्रत्येव एषः संन्यास-
त्यागविकल्पः । ये तु परमार्थदर्शिनः सांख्या:, तेषां
ज्ञाननिष्ठायामेव सर्वकर्मसंन्यासलक्षणायाम् अधिकारः, न
अन्यत्व, इति न ते विकल्पार्हाः । तच्च उपपादितम् अस्माभिः
'वेदाविनाशिनम्' इत्यस्मिन्प्रदेशे, तृतीयादौ च ॥
तत्र एतेषु विकल्पभेदेषु -</p>
<lg>
  <l>निश्चयं शृणु मे तत्र</l>
  <l>त्यागे भरतसत्तम ।</l>
  <l>त्यागो हि पुरुषव्याघ</l>
  <l>त्रिविधः संप्रकीर्तितः ॥ ४ ॥</l>
</lg>
<pb n="236" />
<p>.
श्रीमद्भगवद्गीताभाष्ये
-
निश्चयं शृणु अवधारय मे मम वचनात् ; तत्र त्यागे
त्यागसंन्यासविकल्पे यथादर्शिते भरतसत्तम भरतानां साधु-
तम । त्यागो हि, त्यागसंन्यासशब्दवाच्यो हि यः अर्थः सः
एक एवेति अभिप्रेत्य आह — त्यागो हि इति । पुरुषव्याघ्र,
त्रिविधः त्रिप्रकारः तामसादिप्रकारैः संप्रकीर्तितः शास्त्रेषु
सम्यक् कथित: यस्मात् तामसादिभेदेन त्यागसंन्यासशब्द-
वाच्यः अर्थः अधिकृतस्य कर्मिणः अनात्मज्ञस्य त्रिविधः
संभवति, न परमार्थदर्शिनः इत्ययमर्थः दुर्ज्ञान:, तस्मात्
अत्र तत्त्वं न अन्यः वक्तुं समर्थः । तस्मात् निश्चयं परमा-
र्थशास्त्रार्थविषयम् अध्यवसायम् ऐश्वरं मे मत्तः शृणु ॥
कः पुनः असौ निश्चयः इति, आह—</p>
<lg>
  <l>यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।</l>
  <l>यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥५॥</l>
</lg>
<p>यज्ञः दानं तपः इत्येतत् त्रिविधं कर्म न त्याज्यं न त्य-
क्तव्यम्, कार्यं करणीयम् एव तत् । कस्मात् ? यज्ञः दानं
तपश्चैव पावनानि विशुद्धिकराणि मनीषिणां फलानभिसं-
धीनाम् इत्येतत् ॥</p>
<pb n="237" />
<p>अष्टादशोऽध्यायः ।</p>
<lg>
  <l>एतान्यपि तु कर्माणि</l>
  <l>सङ्गं त्यक्त्वा फलानि च ।</l>
  <l>कर्तव्यानीति मे पार्थ .</l>
  <l>निश्चितं मतमुत्तमम् ॥ ६ ॥</l>
</lg>
<p>एतान्यपि तु कर्माणि यज्ञदानतपांसि पावनानि उक्तानि
सङ्गम् आसक्तिं तेषु त्यक्त्वा फलानि च तेषां परित्यज्य कर्त-
व्यानि इति अनुष्ठेयानि इति मे मम निश्चितं मतम् उत्त-
मम् ॥
'निश्चयं शृणु मे तत्र' इति प्रतिज्ञाय, पावनत्वं च
हेतुम् उक्त्वा, 'एतान्यपि कर्माणि कर्तव्यानि ' इत्येतत्
' निश्चितं मतमुत्तमम्' इति प्रतिज्ञातार्थोपसंहार एव, न
अपूर्वा वचनम्, 'एतान्यपि ' इति प्रकृतसंनिकृष्टार्थत्वोप-
पत्तेः । सासङ्गस्य फलार्थिनः बन्धहेतवः एतान्यपि कर्माणि
मुमुक्षोः कर्तव्यानि इति अपिशब्दस्य अर्थः । न तु अन्यानि
कर्माणि अपेक्ष्य 'एतान्यपि ' इति उच्यते ॥
अन्ये तु वर्णयन्ति-- नित्यानां कर्मणां फलाभावात् 'सङ्गं
त्यक्त्वा फलानि च' इति न उपपद्यते । अत: ' एतान्यपि '
इति यानि काम्यानि कर्माणि नित्येभ्यः अन्यानि, एतानि</p>
<pb n="238" />
<p>श्रीमद्भगवद्गीताभाष्ये
अपि कर्तव्यानि, किमुत यज्ञदानतपांसि नित्यानि इति । तत्
असत्, नित्यानामपि कर्मणाम् इह फलवत्त्वस्य उपपादितत्वात्
'यज्ञो दानं तपश्चैव पावनानि ' इत्यादिना वचनेन । नित्यान्यपि
कर्माणि बन्धहेतुत्वाशङ्कया जिहासोः मुमुक्षोः कुतः काम्येषु
प्रसङ्गः ? ' दूरेण ह्यवरं कर्म' इति च निन्दितत्वात्, 'यज्ञा-
र्थात् कर्मणोऽन्यत्र' इति च काम्यकर्मणां बन्धहेतुत्वस्य नि-
श्चितत्वात् ' त्रैगुण्यविषया वेदा: ' ' त्रैविद्या मां सोमपाः '
' क्षीणे पुण्ये मर्त्यलोकं विशन्ति' इति च, दूरव्यवहितत्वा-
च्च, न काम्येषु ' एतान्यपि ' इति व्यपदेश: ॥
तस्मात् अज्ञस्य अधिकृतस्य मुमुक्षो:-
--</p>
<lg>
  <l>नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।</l>
  <l>मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥</l>
</lg>
<p>नियतस्य तु नित्यस्य संन्यासः परित्यागः कर्मणः न
उपपद्यते, अज्ञस्य पावनत्वस्य इष्टत्वात् । मोहात् अज्ञानात्
तस्य नियतस्य परित्यागः - नियतं च अवश्यं कर्तव्यम्,
त्यज्यते च इति विप्रतिषिद्धम् ; अतः मोहनिमित्तः परित्या
गः तामसः परिकीर्तितः मोहश्च तमः इति ॥</p>
<pb n="239" />
<p>अष्टादशोऽध्यायः ।</p>
<lg>
  <l>दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।</l>
  <l>स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥</l>
</lg>
<p>दुःखम इति एव यत् कर्म कायक्लेशभयात् शरीरदु:ख-
भयात् त्यजेत्, सः कृत्वा राजसं रजोनिर्वर्त्य त्यागं नैव
त्यागफलं ज्ञानपूर्वकस्य सर्वकर्मत्यागस्य फलं मोक्षाख्यं न
लभेत् नैव लभेत ॥
कः पुनः सात्त्विकः त्यागः इति, आह--</p>
<lg>
  <l>कार्यमित्येव यत्कर्म</l>
  <l>नियतं क्रियतेऽर्जुन ।</l>
  <l>सङ्गं त्यक्त्वा फलं चैव</l>
  <l>स त्यागः सात्त्विको मतः ॥ ९ ॥</l>
</lg>
<p>कार्यं कर्तव्यम् इत्येव यत् कर्म नियतं नित्यं क्रियते नि-
र्वर्त्यते हे अर्जुन, सङ्गं त्यक्त्वा फलं च एव । एतत् नित्यानां
कर्मणां फलवत्त्वे भगवद्वचनं प्रमाणम् अवोचाम । अथवा,
यद्यपि फलं न श्रूयते नित्यस्य कर्मणः, तथापि नित्यं कर्म
कृतम् आत्मसंस्कारं प्रत्यवायपरिहारं वा फलं करोति आत्मनः
इति कल्पयत्येव अज्ञः । तत्र तामपि कल्पनां निवारयति</p>
<pb n="240" />
<p>श्रीमद्भगवद्गीताभाष्ये
' फलं त्यक्त्वा' इत्यनेन । अतः साधु उक्तम् 'सङ्गं त्यक्त्वा
फलं च' इति। सः त्यागः नित्यकर्मसु सङ्गफलपरित्यागः सा-
त्त्विकः सत्त्वनिर्वृत्तः मत: अभिप्रेतः ॥
ननु कर्मपरित्यागः त्रिविधः संन्यासः इति च प्रकृतः ।
तत्र तामसो राजसश्च उक्तः त्यागः । कथम् इह सङ्गफल-
त्यागः तृतीयत्वेन उच्यते ? यथा त्रयो ब्राह्मणाः आगताः,
तत्र षडङ्गविदौ द्वौ, क्षत्रियः तृतीयः इति तद्वत् । नैष दोषः
त्यागसामान्येन स्तुत्यर्थत्वात् । अस्ति हि कर्मसंन्यासस्य
फलाभिसंधित्यागस्य च त्यागत्वसामान्यम् । तत्र राजसता-
मसत्वेन कर्मत्यागनिन्दया कर्मफलाभिसंधित्यांगः सात्त्वि-
कत्वेन स्तूयते 'स त्यागः सात्त्विको मतः' इति ॥
यस्तु अधिकृतः सङ्गं त्यक्त्वा फलाभिसंधिं च नित्यं
कर्म करोति, तस्य फलरागादिना अकलुषीक्रियमाणम् अन्तः-
करणं नित्यैश्च कर्मभिः संस्क्रियमाणं विशुध्यति । तत्
विशुद्धं प्रसन्नम् आत्मालोचनक्षमं भवति । तस्यैव नित्यकर्मा-
. नुष्ठानेन विशुद्धान्तःकरणस्य आत्मज्ञानाभिमुखस्य क्रमेण
यथा तन्निष्ठा स्यात्, तत् वक्तव्यमिति आह—
न द्वेष्ट्धकुशलं कर्म
कुशले नानुषज्जते ।</p>
<pb n="241" />
<p>अष्टादशोऽध्यायः ।</p>
<p>त्यागी सत्त्वसमाविष्टो
मेधावी च्छिन्नसंशयः ॥ १० ॥
न द्वेष्टि अकुशलम् अशोभनं काम्यं कर्म, शरीरारम्भ-
द्वारेण संसारकारणम्, 'किमनेन ?' इत्येवम् । कुशले शोभने
नित्ये कर्मणि सत्त्वशुद्धिज्ञानोत्पत्तितन्निष्ठाहेतुत्वेन 'मोक्ष-
कारणम् इदम्' इत्येवं न अनुषज्जते अनुपङ्गं प्रीतिं न करोति
इत्येतत् । कः पुनः असौ ? त्यागी पूर्वोक्तेन सङ्गफलत्यागन
तद्वान् त्यागी, यः कर्मणि सङ्गं त्यक्त्वा तत्फलं च नित्य-
कर्मानुष्ठायी, सः त्यागी । कदा पुनः असौ अकुशलं कर्म न
द्वेष्टि, कुशले च न अनुषज्यते इति, उच्यते— सत्त्वसमा-
विष्टः यदा सत्त्वेन आत्मानात्मविवेकविज्ञानहेतुना समाविष्टः
संव्याप्तः, संयुक्त इत्येतत् । अत एव च मेधावी मेधया
आत्मज्ञानलक्षणया प्रज्ञया संयुक्तः तद्वान् मेधावी । मेधावि-
त्वादेव च्छिन्नसंशयः छिन्नः अविद्याकृतः संशय: यस्य 'आत्म-
स्वरूपावस्थानमेव परं निःश्रेयससाधनम्, न अन्यत् किं-
चित्' इत्येवं निश्चयेन च्छिन्नसंशयः ॥
:
यः अधिकृतः पुरुषः पूर्वोक्तेन प्रकारेण कर्मयोगानुष्ठानेन
क्रमेण संस्कृतात्मा सन् जन्मादिविक्रियारहितत्वेन निष्क्रि-
यम् आत्मानम् आत्मत्वेन संबुद्धः, सः सर्वकर्माणि मनसा</p>
<pb n="242" />
<p>श्रीमद्भगवद्गीताभाष्ये
संन्यस्य नैव कुर्वन् न कारयन् आसीनः नैष्कर्म्यलक्षणां
ज्ञाननिष्ठाम् अश्नुते इत्येतत् । पूर्वोक्तस्य कर्मयोगस्य प्रयो-
जनम् अनेनैव श्लोकेन उक्तम् ॥
यः पुनः अधिकृतः सन् देहात्माभिमानित्वेन देहभृत्
अज्ञ: अबाधितात्मकर्तृत्वविज्ञानतया 'अहं कर्ता' इति
निश्चितबुद्धिः तस्य अशेषकर्मपरित्यागस्य अशक्यत्वात् कर्म-
फलत्यागेन चोदितकर्मानुष्ठाने एव अधिकारः, न तत्त्यागे
इति एतम्
अर्थ दर्शयितुम् आह—
C</p>
<lg>
  <l>न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।</l>
  <l>कर्मफलत्यागी स त्यागीत्यभिधीयते ॥</l>
</lg>
<p>यस्तु
न हि यस्मात् देहभृता, देहं विभर्तीति देहभृत्, देहा-
त्माभिमानवान् देहभृत् उच्यते, न विवेकी; स हि 'वेदा-
विनाशिनम्' इत्यादिना कर्तृत्वाधिकारात् निवर्तितः । अतः
तेन देहभृता अज्ञेन न शक्यं त्यक्तुं संन्यसितुं कर्माणि
अशेषत: निःशेषेण । तस्मात् यस्तु अज्ञ: अधिकृतः नित्यानि
कर्माणि कुर्वन् कर्मफलत्यागी कर्मफलाभिसंधिमात्र संन्यासी
सः त्यागी इति अभिधीयते कर्मी अपि सन् इति स्तुत्य-
भिप्रायेण । तस्मात् परमार्थदर्शिनैव अदेहभृता देहात्मभा-</p>
<pb n="243" />
<lg>
  <l>अष्टादशोऽध्यायः ।</l>
  <l>वरहितेन अशेषकर्मसंन्यासः शक्यते कर्तुम् ॥</l>
</lg>
<p>किं पुनः तत् प्रयोजनम्, यत् सर्वकर्मसंन्यासात्
स्यादिति, उच्यते—</p>
<lg>
  <l>अनिष्टमिष्टं मिश्रं च</l>
  <l>त्रिविधं कर्मणः फलम् ।</l>
  <l>भवत्यत्यागिनां प्रेत्य</l>
  <l>नं तु संन्यासिनां कचित् ॥ १२ ॥</l>
</lg>
<p>'
अनिष्टं नरकंतिर्यगादिलक्षणम् इष्टं देवादिलक्षणम्,
मिश्रम् इष्टानिष्टसंयुक्तं मनुष्यलक्षणं च तत् त्रिविधं त्रिप्र-
कारं कर्मणः धर्माधर्मलक्षणस्य फलं बाह्यानेककारकव्यापार-
निष्पन्नं सत् अविद्याकृतम् इन्द्रजालमायोपमं महामोहकरं
प्रत्यगात्मोपसर्पि इह - फल्गुतया लयम् अदर्शनं गच्छतीति
फलनिर्वचनम् - तत् एतत् एवंलक्षणं फलं भवति अत्यागि-
नाम् अज्ञानां कर्मिणां अपरमार्थसंन्यासिनां प्रेत्य शरीरपा-
तात् ऊर्ध्वम् । न तु संन्यासिनां परमार्थसंन्यासिनां परमहं-
सपरिव्राजकानां केवलज्ञाननिष्ठानां क्वचित् । न हि केव-
लसम्यग्दर्शननिष्ठा अविद्यादिसंसारबीजं न उन्मूलयति
कदाचित् इत्यर्थः । अतः परमार्थदर्शिनः एव अशेषकर्मसं-</p>
<pb n="244" />
<p>श्रीमद्भगवद्गीताभाष्ये
न्यासित्वं संभवति, अविद्याध्यारोपितत्वात् आत्मनि क्रिया-
कारकफलानाम्; न तु अज्ञस्य अधिष्ठानादीनि क्रियाक-
र्तृकारकाणि आत्मत्वेनैव पश्यतः अशेषकर्मसंन्यासः संभ-
वति ॥
तदेतत् उत्तरैः श्लोकैः दर्शयति-</p>
<lg>
  <l>पञ्चैतानि महाबाहो</l>
  <l>कारणानि निबोध मे ।</l>
  <l>सांख्ये कृतान्ते प्रोक्तानि</l>
  <l>सिद्धये सर्वकर्मणाम् ॥ १३ ॥</l>
</lg>
<p>पञ्च एतानि वक्ष्यमाणानि हे महाबाहो, कारणानि निर्व-
र्तकानि । निबोध मे मम इति उत्तरत्र चेतः समाधानार्थम्,
वस्तुवैषम्य प्रदर्शनार्थं च । तानि च कारणानि ज्ञातव्यतया
स्तौति—— सांख्ये ज्ञातव्याः पदार्थाः संख्यायन्ते यस्मिन्
शास्त्रे तत् सांख्यं वेदान्तः । कृतान्ते इति तस्यैव विशेषणम् ।
कृतम् इति कर्म उच्यते, तस्य अन्तः परिसमाप्तिः यत्र सः
कृतान्तः, कर्मान्तः इत्येतत् । ' यावानर्थ उदपाने' सर्व
कर्माखिलं पार्थ ज्ञाने परिसमाप्यते' इति आत्मज्ञाने संजाते
सर्वकर्मणां निवृत्तिं दर्शयति । अतः तस्मिन् आत्मज्ञानार्थे</p>
<pb n="245" />
<p>अष्टादशोऽध्यायः ।</p>
<p>सांख्ये कृतान्ते वेदान्ते प्रोक्तानि कथितानि सिद्धये निष्प-
त्त्यर्थं सर्वकर्मणाम् ॥
कानि तानीति, उच्यते-</p>
<lg>
  <l>अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।</l>
  <l>विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥</l>
</lg>
<p>'
अधिष्ठानम् इच्छाद्वेषसुखदुःखज्ञानादीनाम् अभिव्यक्ते-
राश्रयः अधिष्ठानं शरीरम्, तथा कर्ता उपाधिलक्षणः
भोक्ता, करणं च श्रोत्रादि शब्दाद्युपलब्धये पृथग्विधं नाना-
प्रकारं तत् द्वादशसंख्यं विविधाश्च पृथक्चेष्टाः वायवीया:
प्राणापानाद्याः दैवं चैत्र दैवमेव च अत्र एतेषु चतुर्षु पञ्चमं
पञ्चानां पूरणम् आदित्यादि चक्षुराद्यनुग्राहकम् ॥</p>
<lg>
  <l>शरीरवाङ्मनोभिर्य-</l>
  <l>कर्म प्रारभते नरः ।</l>
  <l>न्याय्यं वा विपरीतं वा</l>
  <l>पञ्चैते तस्य हेतवः ॥ १५ ॥</l>
</lg>
<p>शरीरवाङ्मनोभिः यत् कर्म त्रिभिः एतैः प्रारभते निर्व-
र्तयति नरः, न्याय्यं वा धर्म्यं शास्त्रीयम्, विपरीतं वा
S. B. II. 15</p>
<pb n="246" />
<p>श्रीमद्भगवद्गीताभाष्ये
अशास्त्रीयम् अधर्म्यं यच्चापि निमिषितचेष्टितादि जीवनहेतुः
तदपि पूर्वकृतधर्माधर्मयोरेव कार्यमिति न्याय्यविपरीतयोरेव
ग्रहणेन गृहीतम्, पञ्च एते यथोक्ताः तस्य सर्वस्यैव कर्मणो
हेतवः कारणानि ॥
ननु एतानि अधिष्ठानादीनि सर्वकर्मणां निर्वर्तकानि ।
कथम् उच्यते 'शरीरवाङ्मनोभिः यत् कर्म प्रारभते ' इति ?
नैष दोषः ; विधिप्रतिषेधलक्षणं सर्वं कर्म शरीरादित्रयप्रधा-
नम् ; तदङ्गतया दर्शनश्रवणादि च जीवनलक्षणं त्रिधैव राशी-
कृतम् उच्यते शरीरादिभिः आरभ्यते इति । फलकालेऽपि
तत्प्रधानैः साधनैः भुज्यते इति पश्चानामेव हेतुत्वं न विरु-
ध्यते इति ॥</p>
<lg>
  <l>तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।</l>
  <l>पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १६॥</l>
</lg>
<p>तत्र इति प्रकृतेन संबध्यते । एवं सति एवं यथोक्तैः
पञ्चभिः हेतुभिः निर्वयें सति कर्मणि । तत्रैवं सति इति
दुर्मतित्वस्य हेतुत्वेन संबध्यते । तत्र एतेषु आत्मानन्यत्वेन
अविद्यया परिकल्पितैः क्रियमाणस्य कर्मण: ' अहमेव कर्ता '
इति कर्तारम् आत्मानं केवलं शुद्धं तु यः पश्यति अविद्वान्;</p>
<pb n="247" />
<p>अष्टादशोऽध्यायः ।</p>
<note>५०.३</note>
<p>कस्मात् ? वेदान्ताचार्योपदेशन्यायैः अकृतबुद्धित्वात् असं-
स्कृतबुद्धित्वात् ; योऽपि देहादिव्यतिरिक्तात्मवादी आत्मान-
मेव केवलं कर्तारं पश्यति, असावपि अकृतबुद्धिः ; अतः
अकृतबुद्धित्वात् न सः पश्यति आत्मनः तत्त्वं कर्मणो वा
इत्यर्थः । अत: दुर्मतिः, कुत्सिता विपरीता दुष्टा अजस्रं
जननमरणप्रतिपत्तिहेतुभूता मतिः अस्य इति दुर्मतिः । सः
पश्यन्नपि न पश्यति, यथा तैमिरिकः अनेकं चन्द्रम्, यथा
वा अध्रेषु धावत्सु चन्द्रं धावन्तम्, यथा वा वाहने उप-
विष्टः अन्येषु धावत्सु आत्मानं धावन्तम् ॥
कः पुनः सुमतिः यः सम्यक् पश्यतीति, उच्यते-</p>
<lg>
  <l>यस्य नाहंकृतो भावो वुद्धिर्यस्य न लिप्यते ।</l>
  <l>हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते ॥</l>
</lg>
<p>यस्य शास्त्राचार्योपदेशन्यायसंस्कृतात्मनः न भवति अहं-
कृत: 'अहं कर्ता' इत्येवंलक्षणः भावः भावना प्रत्य-
'यः- एते एव पश्च अधिष्ठानादयः अविद्यया आत्मनि
कल्पिताः सर्वकर्मणां कर्तारः, न अहम्, अहं तु तद्वधापाराणां
साक्षिभूतः 'अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः '
केवलः अविक्रियः इत्येवं पश्यतीति एतत् — बुद्धि: अन्त:-</p>
<pb n="248" />
<p>श्रीमद्भगवद्गीताभाप्ये
"
करणं यस्य आत्मनः उपाधिभूता न लिप्यते न अनुश-
यिनी भवति - ' इदमहमकार्षम् तेन अहं नरकं गमि
प्यामि' इत्येवं यस्य बुद्धिः न लिप्यते-- सः सुमतिः,
सः पश्यति । हत्वा अपि सः इमान् लोकान् सर्वान्
इमान् प्राणिनः इत्यर्थः, न हन्ति हननक्रियां न करोति,
न निवध्यते नापि तत्कार्येण अधर्मफलेन संबध्यते ॥
'
ननु हत्वापि न हन्ति इति विप्रतिषिद्धम् उच्यते यद्यपि
स्तुतिः । नैष दोषः, लौकिकपारमार्थिकदृष्ट्यपेक्षया तदुपपत्तेः ।
देहाद्यात्मबुद्धया ' हन्ता अहम्' इति लौकिकीं दृष्टिम् आ-
श्रित्य ' हत्वापि ' इति आह । यथादर्शितां पारमार्थिकी दृष्टिम्
आश्रित्य ' न हन्ति न निवध्यते' इति । एतत् उभयम् उप-
पद्यते एव ॥
ननु अधिष्ठानादिभिः संभूय करोत्येव आत्मा, 'कर्ता-
रमात्मानं केवलं तु' इति केवलशब्दप्रयोगात् । नैष दोषः,
आत्मनः अविक्रियस्वभावत्वे अधिष्ठानादिभिः संहतत्वानु-
पपत्तेः । विक्रियावतो हि अन्यैः संहननं संभवति, संहत्य
वा कर्तृत्वं स्यात् । न तु अविक्रियस्य आत्मनः केनचित्
संहननम् अस्ति इति न संभूय कर्तृत्वम् उपपद्यते । अतः
केवलत्वम् आत्मनः स्वाभाविकमिति केवलशब्दः अनुवा-</p>
<pb n="249" />
<p>अष्टादशोऽध्यायः ।</p>
<p>दमात्रम् । अविक्रियत्वं च आत्मनः श्रुतिस्मृतिन्यायप्रसि-
द्धम् । 'अविकार्योऽयमुच्यते' 'गुणैरेव कर्माणि क्रियन्ते '
'शरीरस्थोऽपि न करोति' इत्यादि असकृत् उपपादितं
गीतास्वेव तावत् । श्रुतिपु च ' ध्यायतीव लेलायतीव '
इत्येवमाद्यासु । न्यायतश्च -- निरवयवम् अपरतन्त्रम् अवि-
क्रियम् आत्मतत्त्वम् इति राजमार्गः । विक्रियावत्त्वाभ्युपग-
मेऽपि आत्मनः स्वकीयैव विक्रिया स्वस्य भवितुम् अर्हति,
न अधिष्ठानादीनां कर्माणि आत्मकर्तृकाणि स्युः । न हि
परस्य कर्म परेण अकृतम् आगन्तुम् अर्हति । यत्तु अवि-
द्यया गमितम्, न तत् तस्य । यथा रजतत्वं न शुक्तिकायाः ;
यथा वा तलमलिनत्वं वालैः गमितम् अविद्यया, न आका-
शस्य, तथा अधिष्ठानादिविक्रियापि तेषामेव, न आत्मन: ।
तस्मात् युक्तम् उक्तम् ' अहंकृतत्वबुद्धिलेपाभावात् विद्वान्
न हन्ति न निबध्यते ' इति । ' नायं हन्ति न हन्यते '
इति प्रतिज्ञाय ' न जायते' इत्यादिहेतुवचनेन अविक्रियत्वम्
आत्मनः उक्त्वा, ' वेदाविनाशिनम्' इति विदुषः कर्माधि-
कारनिवृत्तिं शास्त्रादौ संक्षेपतः उक्त्वा, मध्ये प्रसारितां तत्र
तत्र प्रसङ्गं कृत्वा इह उपसंहरति शास्त्रार्थ पिण्डीकरणाय
'विद्वान् न हन्ति न निवध्यते' इति । एवं च सति देह-</p>
<pb n="250" />
<p>श्रीमद्भगवद्गीताभाष्ये
भृत्त्वाभिमानानुपपत्तौ अविद्याकृताशेषकर्मसंन्यासोपपत्तेः सं-
न्यासिनाम् अनिष्टादि त्रिविधं कर्मणः फलं न भवति इति
उपपन्नम् ; तद्विपर्ययाच्च इतरेषां भवति इत्येतञ्च्च अपरिहार्यम्
इति एष: गीताशास्त्रार्थः उपसंहृतः । स एषः सर्ववेदार्थ-
सार: निपुणमतिभिः पण्डितैः विचार्य प्रतिपत्तव्यः इति तत्र
तत्र प्रकरणविभागेन दर्शितः अस्माभिः शास्त्रन्यायानुसा-
रेण ॥
अथ इदानीं कर्मणां प्रवर्तकम् उच्यते--</p>
<lg>
  <l>ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।</l>
  <l>करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥ १८॥</l>
</lg>
<p>। ज्ञानं ज्ञायते अनेन इति सर्वविषयम् अविशेषेण उच्यते ।
तथा ज्ञेयं ज्ञातव्यम्, तदपि सामान्येनैव सर्वम् उच्यते । तथा
परिज्ञाता उपाधिलक्षण: अविद्याकल्पितः भोक्ता । इति एतत्
लयम् अविशेषेण सर्वकर्मणां प्रवर्तिका त्रिविधा त्रिप्रकारा
कर्मचोदना । ज्ञानादीनां हि त्रयाणां संनिपाते हानोपादाना-
दिप्रयोजनः सर्वकर्मारम्भः स्यात् । ततः पञ्चभिः अधिष्ठा-
नादिभिः आरब्धं वाङ्मनः कायाश्रयभेदेन त्रिधा राशीभूतं
त्रिषु करणादिषु संगृह्यते इत्येतत् उच्यते—करणं क्रियते</p>
<pb n="251" />
<p>अष्टादशोऽध्यायः ।</p>
<p>अनेन इति बाह्यं श्रोबादि, अन्तःस्थं बुद्धयादि, कर्म ईप्सि-
ततमं कर्तुः क्रियया व्याप्यमानम्, कर्ता करणानां व्यापार-
यिता उपाधिलक्षण:, इति विविधः त्रिप्रकारः कर्मसंग्रहः,
संगृह्यते अस्मिन्निति संग्रहः, कर्मणः संग्रहः कर्मसंग्रहः, कर्म
एषु हि त्रिषु समवैति, तेन अयं त्रिविधः कर्मसंग्रहः ॥
अथ इदानीं क्रियाकारकफलानां सर्वेषां गुणात्मकत्वात्
सस्वरजस्तमोगुणभेदतः त्रिविधः भेदः वक्तव्य इति आर-
भ्यते—</p>
<lg>
  <l>ज्ञानं कर्म च कर्ता च</l>
  <l>त्रिधैव गुणभेदतः ।</l>
  <l>प्रोच्यते गुणसंख्याने</l>
  <l>यथावच्छृणु तान्यपि ॥ १९ ॥</l>
</lg>
<p>ज्ञानं कर्म च कर्म क्रिया, न कारकं पारिभाषिकम्
ईप्सिततमं कर्म, कर्ता च निर्वर्तकः क्रियाणां विधा एव,
अवधारणं गुणव्यतिरिक्तजात्यन्तराभावप्रदर्शनार्थं गुणभेदतः
सत्त्वादिभेदेन इत्यर्थः । प्रोच्यते कथ्यते गुणसंख्याने का-
पिले शास्त्रे तदपि गुणसंख्यानशास्त्रं गुणभोक्तृविषये प्रमाण-
मेव । परमार्थब्रह्मैकत्वविषये यद्यपि विरुध्यते, तथापि ते हि</p>
<pb n="252" />
<p>श्रीमद्भगवद्गीताभाष्ये
कापिलाः गुणगौणव्यापारनिरूपणे अभियुक्ताः इति तच्छा-
स्त्रमपि वक्ष्यमाणार्थस्तुत्यर्थत्वेन उपादीयते इति न विरोधः ।
यथावत् यथान्यायं यथाशास्त्रं शृणु तान्यपि ज्ञानादीनि
तद्भेदजातानि गुणभेदकृतानि शृणु, वक्ष्यमाणे अर्थे मनः स-
माधिं कुरु इत्यर्थः ॥
ज्ञानस्य तु तावत् त्रिविधत्वम् उच्यते-
सर्वभूतेषु येनैकं
भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु
-
तज्ज्ञानं विद्धि सात्त्विकम् ॥ २० ॥
सर्वभूतेषु अव्यक्तादिस्थावरान्तेषु भूतेषु येन ज्ञानेन
एकं भावं वस्तु — भावशब्दः वस्तुवाची, एकम् आत्मवस्तु
इत्यर्थः ; अव्ययं न व्येति स्वात्मना स्वधर्मेण वा, कूटस्थम्
इत्यर्थः ; ईक्षते पश्यति येन झानेन तं च भावम् अविभक्तं
प्रतिदेहं विभक्तेषु देहभेदेषु न विभक्तं तत् आत्मवस्तु, व्यो-
मवत् निरन्तरमित्यर्थः ; तत् ज्ञानं साक्षात् सम्यग्दर्शनम् अद्वै-
तात्मविषयं सात्त्विकं विद्धि इति ॥</p>
<pb n="253" />
<p>अष्टादशोऽध्यायः ।</p>
<p>यानि द्वैतदर्शनानि तानि असम्यग्भूतानि राजसानि
तामसानि च इति न साक्षात् संसारोच्छित्तये भवन्ति-</p>
<lg>
  <l>पृथक्त्वेन तु यज्ज्ञानं</l>
  <l>नानाभावान्पृथग्विधान् ।</l>
  <l>वेत्ति सर्वेषु भूतेषु</l>
  <l>तज्ज्ञानं विद्धि राजसम् ॥ २१ ॥</l>
</lg>
<p>-
पृथक्त्वेन तु भेदेन प्रतिशरीरम् अन्यत्वेन यत् ज्ञानं
नानाभावान् भिन्नान् आत्मनः पृथग्विधान् पृथक्प्रकारान्
भिन्नलक्षणान् इत्यर्थः, वेत्ति विजानाति यत् ज्ञानं सर्वेषु भूतेषु,
ज्ञानस्य कर्तृत्वासंभवात् येन ज्ञानेन वेत्ति इत्यर्थः, तत् ज्ञानं
विद्धि राजसं रजोगुणनिर्वृत्तम् ॥</p>
<lg>
  <l>यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।</l>
  <l>अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ २२ ॥</l>
</lg>
<p>यत् ज्ञानं कृत्स्नवत् समस्तवत् सर्वविषयमिव एकस्मिन्
कार्ये देहे बहिर्वा प्रतिमादौ सक्तम् ' एतावानेव आत्मा
ईश्वरो वा, न अतः परम् अस्ति' इति, यथा नग्नक्षपणका-
दीनां शरीरान्तर्वर्ती देहपरिमाणो जीवः, ईश्वरो वा पाषा-</p>
<pb n="254" />
<p>"
श्रीमद्भगवद्गीताभाष्ये
णदार्वादिमात्रम् इत्येवम् एकस्मिन् कार्ये सक्तम् अहैतुकं
हेतुवर्जितं निर्युक्तिकम्, अतत्त्वार्थवत् अयथाभूतार्थवत्, यथा-
भूतः अर्थः तत्त्वार्थः, सः अस्य ज्ञेयभूतः अस्तीति तत्त्वार्थ-
वत्, न तत्त्वार्थवत् अतत्त्वार्थवत्; अहैतुकत्वादेव अल्पं च,
अल्पविषयत्वात् अल्पफलत्वाद्वा । तत् तामसम् उदाहृतम् ।
तामसानां हि प्राणिनाम् अविवेकिनाम् ईदृशं ज्ञानं दृश्यते ॥
अथ इदानीं कर्मणः त्रैविध्यम् उच्यते—</p>
<lg>
  <l>नियतं सङ्गरहितमरागद्वेषतः कृतम् ।</l>
  <l>अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ २३ ॥</l>
</lg>
<p>नियतं नित्यं सङ्गरहितम् आसक्तिवर्जितम् अरागद्वेषत:-
कृतं रागप्रयुक्तेन द्वेषप्रयुक्तेन च कृतं रागद्वेषतः कृतम्,
तद्विपरीतम् अरागद्वेषतः कृतम्, अफलप्रेप्सुना फलं प्रेप्स-
तीति फलप्रेप्सुः फलतृष्णः तद्विपरीतेन अफलप्रेप्सुना कर्त्रा
कृतं कर्म यत्, तत् सात्त्विकम् उच्यते ॥</p>
<lg>
  <l>यत्तु कामे सुना कर्म साहंकारेण वा पुनः ।</l>
  <l>क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥</l>
</lg>
<p>यत्तु कामे सुना कर्मफल प्रेप्सुना इत्यर्थः, कर्म साइंकारेण</p>
<pb n="255" />
<p>अष्टादशोऽध्यायः ।</p>
<p>इति न तत्त्वज्ञानापेक्षया । किं तर्हि ? लौकिक श्रोत्रियनिरहं-
कारापेक्षया । यो हि परमार्थनिरहंकारः आत्मवित्, न तस्य
कामेप्सुत्वबहुलायासकर्तृत्वप्राप्तिः अस्ति । सात्त्विकस्यापि क-
र्मणः अनात्मवित् साहंकारः कर्ता, किमुत राजसतामसयोः ।
लोके अनात्मविदपि श्रोत्रियो निरहंकारः उच्यते ' निरहं-
कारः अयं ब्राह्मण:' इति । तस्मात् तदपेक्षयैव 'साहंकारेण
वा' इति उक्तम् । पुनः शब्दः पादपूरणार्थः । क्रियते बहुला-
यासं कर्त्रा महता आयासेन निर्वर्त्यते, तत् कर्म राजसम्
उदाहृतम् ॥
.</p>
<lg>
  <l>अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।</l>
  <l>मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ २५ ॥</l>
</lg>
<p>,,
अनुबन्धं पश्चाद्भावि यत् वस्तु सः अनुबन्धः उच्यते तं
च अनुबन्धम्, क्षयं यस्मिन् कर्मणि क्रियमाणे शक्तिक्षयः
अर्थक्षयो वा स्यात् तं क्षयम्, हिंसां प्राणिवाधां च ; अन-
पेक्ष्य च पौरुषं पुरुषकारम् ' शक्नोमि इदं कर्म समापयितुम्'
इत्येवम् आत्मसामर्थ्यम्, इत्येतानि अनुबन्धादीनि अनपेक्ष्य
पौरुषान्तानि मोहात् अविवेकत: आरभ्यते कर्म यत्, तत्
तामसं तमोनिर्वृत्तम् उच्यते ॥</p>
<pb n="256" />
<p>श्रीमद्भगवद्गीताभाप्ये
इदानीं कर्तृभेदः उच्यते——</p>
<lg>
  <l>मुक्तसङ्गोऽनहंवादी</l>
  <l>धृत्युत्साहसमन्वितः ।</l>
  <l>सिद्ध्यसिद्धयोर्निर्विकारः</l>
  <l>कर्ता सात्त्विक उच्यते ॥ २६ ॥</l>
</lg>
<p>मुक्तसङ्गः मुक्त: परित्यक्तः सङ्गः येन सः मुक्तसङ्गः,
अनहंवादी न अहंवदनशीलः, धृत्युत्साहसमन्वितः धृतिः
धारणम् उत्साहः उद्यमः ताभ्यां समन्वितः संयुक्तः धृत्यु-
त्साहसमन्वितः, सिद्ध्यसिद्धयोः क्रियमाणस्य कर्मण: फल-
सिद्धौ असिद्धौ च सिद्धयसिद्धयोः निर्विकारः, केवलं
शास्त्रप्रमाणेन प्रयुक्तः न फलरागादिना यः सः निर्विकारः
उच्यते । एवंभूतः कर्ता यः सः सात्त्विकः उच्यते ॥</p>
<lg>
  <l>रागी कर्मफलप्रेप्सुलुब्धो हिंसात्मकोऽशुचिः ।</l>
  <l>हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥</l>
</lg>
<p>रागी रागः अस्य अस्तीति रागी, कर्मफलप्रेप्सुः कर्म -
फलार्थी इत्यर्थः, लुब्धः परद्रव्येषु संजाततृष्ण, तीर्थादौ
स्वद्रव्यापरित्यागी वा, हिंसात्मकः परपीडाकरस्वभावः, अ-</p>
<pb n="257" />
<p>अष्टादशोऽध्यायः ।</p>
<p>शुचिः बाह्याभ्यन्तरशौचवर्जितः, हर्षशोकान्वितः इष्टप्राप्तौ
हर्षः अनिष्टप्राप्तौ इष्टवियोगे च शोकः ताभ्यां हर्षशोकाभ्याम्
अन्वितः संयुक्तः, तस्यैव च कर्मण: संपत्तिविपत्तिभ्यां हर्ष-
ताभ्यां संयुक्तो यः कर्ता सः राजसः परि-
शोकौ स्याताम्,
कीर्तितः ॥</p>
<lg>
  <l>अयुक्तः प्राकृतः स्तब्धः</l>
  <l>शठो नैकृतिकोऽलसः ।</l>
  <l>विषादी दीर्घसूत्री च</l>
  <l>कर्ता तामस उच्यते ॥ २८ ॥</l>
</lg>
<p>अयुक्तः न युक्त:. असमाहितः, प्राकृतः अत्यन्तासंस्कृत-
बुद्धिः बालसमः, स्तब्धः दण्डवत् न नमति कस्मैचित्,
शठः मायावी शक्तिगूहनकारी, नैकृतिकः परविभेदनपरः,
अलस: अप्रवृत्तिशीलः कर्तव्येष्वपि, विषादी विषादवान्
सर्वदा अवसन्नस्वभावः, दीर्घसूत्री च कर्तव्यानां दीर्घप्रसा-
रणः, सर्वदा मन्दस्वभाव:, यत् अद्य श्वो वा कर्तव्यं त्
मासेनापि न करोति, यश्च एवंभूतः, सः कर्ता तामसः
उच्यते ॥</p>
<pb n="258" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>वुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।</l>
  <l>प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ॥ २९ ॥</l>
</lg>
<p>बुद्धेः भेदं धृतेश्चैव भेदं गुणतः सत्त्वादिगुणतः त्रिविधं
शृणु इति सूत्रोपन्यासः । प्रोच्यमानं कथ्यमानम् अशेषेण
निरवशेषतः यथावत् पृथक्त्वेन विवेकतः धनंजय, दिग्वि-
जये मानुषं दैवं च प्रभूतं धनं जितवान् तेन असौ धनं-
जयः अर्जुनः ॥
प्रवृत्तिं च निवृत्तिं च
कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति
'
वुद्धिः सा पार्थ सात्त्विकी ॥ ३० ॥
प्रवृत्तिं च प्रवृत्तिः प्रवर्तनं बन्धहेतुः कर्ममार्गः शास्त्रवि-
हितविषयः, निवृत्तिं च निर्वृत्तिः मोक्षहेतुः संन्यासमार्ग:-
बन्धमोक्षसमानवाक्यत्वात् प्रवृत्तिनिवृत्ती कर्मसंन्यासमार्गौ
इति अवगम्यते— कार्याकार्ये विहितप्रतिषिद्धे लौकिके
वैदिके वा शास्त्रबुद्धेः कर्तव्याकर्तव्ये करणाकरणे इत्येतत्;
कस्य ? देशकालाद्यपेक्षया दृष्टादृष्टार्थानां कर्मणाम् । भया-
भये विभेति अस्मादिति भयं चोरव्याघ्रादि, न भयं
.</p>
<pb n="259" />
<p>अष्टादशोऽध्यायः ।</p>
<p>अभयम्, भयं च अभयं च भयाभये, दृष्टादृष्टविषययोः
भयाभययोः कारणे इत्यर्थः । बन्धं सहेतुकं मोक्षं च सहेतुकं
या वेत्ति विजानाति बुद्धि:, सा पार्थ सात्त्विकी । तत्र ज्ञानं
बुद्धेः वृत्तिः ; बुद्धिस्तु वृत्तिमती । धृतिरपि वृत्तिविशेषः एव
बुद्धेः ॥</p>
<lg>
  <l>यया धर्ममधर्म च</l>
  <l>कार्य चाकार्यमेव च ।</l>
  <l>अयथावत्प्रजानाति</l>
  <l>बुद्धिः सा पार्थ राजसी ॥ ३१ ॥</l>
</lg>
<p>यया धर्मे शास्त्रचोदितम् अधर्मं च तत्प्रतिषिद्धं कार्य च
अकार्यमेव च पूर्वोक्ते एव कार्याकार्ये अयथावत् न यथावत्
सर्वत: निर्णयेन न प्रजानाति, बुद्धिः सा पार्थ, राजसी ॥</p>
<lg>
  <l>अधर्म धर्ममिति या</l>
  <l>मन्यते तमसावृता ।</l>
  <l>सर्वार्थान्विपरीतांच</l>
  <l>बुद्धिः सा पार्थ तामसी ॥ ३२ ॥</l>
</lg>
<p>अधर्मं प्रतिषिद्धं धर्मं विहितम् इति या मन्यते जानाति</p>
<pb n="260" />
<p>श्रीमद्भगवद्गीताभाष्ये
तमसा आवृता सती, सर्वार्थान् सर्वानेव ज्ञेयपदार्थान् विप-
रीतांश्च विपरीतानेव विजानाति, बुद्धिः सा पार्थ, तामसी ॥
धृत्या</p>
<lg>
  <l>धृत्या यया धारयते</l>
  <l>मनः प्राणेन्द्रियक्रियाः ।</l>
  <l>योगेनाव्यभिचारिण्या</l>
  <l>धृतिः सा पार्थ सात्त्विकी ॥ ३३ ॥</l>
</lg>
<p>यया- अव्यभिचारिण्या इति व्यवहितेन
संबन्धः, धारयते ; किम् ? मनः प्राणेन्द्रियक्रियाः मनश्च
प्राणाश्च इन्द्रियाणि च मनः प्राणेन्द्रियाणि तेषां क्रिया:
चेष्टाः, ता: उच्छास्त्रमार्गप्रवृत्तेः धारयते धारयति — धृत्या
हि धार्यमाणाः उच्छास्त्रमार्गविषयाः न भवन्ति -- योगेन
समाधिना, अव्यभिचारिण्या, नित्यसमाध्यनुगतया इत्यर्थः ।
एतत् उक्तं भवति — अव्यभिचारिण्या धृत्या मनः प्राणेन्द्रि-
यक्रियाः धार्यमाणाः योगेन धारयतीति । या एवंलक्षणा धृतिः,
सा पार्थ, सात्त्विकी ॥
यया तु धर्मकामार्था-
न्धृत्या धारयतेऽर्जुन ।
।</p>
<pb n="261" />
<p>अष्टादशोऽध्यायः ।</p>
<p>प्रसङ्गेन फलाकाङ्क्षी
धृतिः सा पार्थ राजसी ॥ ३४ ॥
यया तु धर्मकामार्थान् धर्मश्च कामश्च अर्थश्च धर्मकामा-
र्थाः तान् धर्मकामार्थान् धृत्या यया धारयते मनसि नित्य-
मेव कर्तव्यरूपान् अवधारयति हे अर्जुन, प्रसङ्गेन यस्य
यस्य धर्मादेः धारणप्रसङ्गः तेन तेन प्रसङ्गेन फलाकाङ्क्षी च
भवति यः पुरुषः, तस्य धृतिः या, सा पार्थ, राजसी ॥</p>
<lg>
  <l>यया स्वप्नं भयं शोकं</l>
  <l>विषादं मदमेव च ।</l>
  <l>न विमुञ्चति दुर्मेधा</l>
  <l>धृतिः सा तामसी मता ॥ ६५ ॥</l>
</lg>
<p>यया स्वप्नं निद्रां भयं त्रासं शोकं विषादं विषण्णतां मदं
विषयसेवाम् आत्मनः बहुमन्यमानः मत्त इव मदम् एव च
मनसि नित्यमेव कर्तव्यरूपतया कुर्वन् न विमुञ्चति धारय-
त्येव दुर्मेधाः कुत्सितमेधाः पुरुषः यः, तस्य धृतिः या, सा
तामसी मता ॥
गुणभेदेन क्रियाणां कारकाणां च त्रिविधो भेदः उक्तः ।
अथ इदानीं फलस्य सुखस्य त्रिविधो भेदः उच्यते—
S. B. II. 16</p>
<pb n="262" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>सुखं त्विदानीं त्रिविधं</l>
  <l>शृणु मे भरतर्षभ ।</l>
  <l>अभ्यासाद्रमते यत्र</l>
  <l>दुःखान्तं च निगच्छति ॥ ३६ ॥</l>
</lg>
<p>सुखं तु इदानीं त्रिविधं शृणु, समाधानं कुरु इत्येतत्, मे
मम भरतर्षभ । अभ्यासात् परिचयात् आवृत्तेः रमते रतिं
प्रतिपद्यते यत्र यस्मिन् सुखानुभवे दुःखान्तं च दुःखावसानं
दुःखोपशमं च निगच्छति निश्वयेन प्राप्नोति ॥</p>
<lg>
  <l>यत्तदग्रे विषमिव</l>
  <l>परिणामेऽमृतोपमम् ।</l>
  <l>तत्सुखं सात्त्विकं प्रोक्त-</l>
  <l>मात्मवुद्धिप्रसादजम् ॥ ३७ ॥</l>
</lg>
<p>यत् तत् सुखम् अग्रे पूर्व प्रथमसंनिपाते ज्ञानवैराग्यध्या-
नसमाध्यारम्भे अत्यन्तायासपूर्वकत्वात् विषमिव दुःखात्मकं
भवति, परिणामे ज्ञानवैराग्यादिपरिपाकजं सुखम् अमृतो-
पमम्, तत् सुखं सात्त्विकं प्रोक्तं विद्वद्भिः, आत्मनः बुद्धिः
आत्मबुद्धि:, आत्मबुद्धेः प्रसादः नैर्मल्यं सलिलस्य इव स्व-</p>
<pb n="263" />
<p>अष्टादशोऽध्यायः ।</p>
<p>च्छता, तत: जातं आत्मबुद्धिप्रसादजम् । आत्मविषया वा
आत्मावलम्बना वा बुद्धि: आत्मबुद्धिः, तत्प्रसादप्रकर्षाद्वा जात-
मित्येतत् । तस्मात् सात्त्विकं तत् ॥</p>
<lg>
  <l>विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।</l>
  <l>परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥</l>
</lg>
<p>विषयेन्द्रियसंयोगात् जायते यत् सुखम् तत् सुखम् अप्रे
प्रथमक्षणे अमृतोपमम् अमृतसमम्, परिणामे विषमिव,
बलवीर्यरूपप्रज्ञामेधाधनोत्साहहानिहेतुत्वात् अधर्मतज्जनितन-
रकादिहेतुत्वाच परिणामे तदुपभोगपरिणामान्ते विषमिव,
तत् सुखं राजसं स्मृतम् ॥</p>
<lg>
  <l>यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।</l>
  <l>निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९ ॥</l>
</lg>
<p>यत् अग्रे च अनुबन्धे च अवसानोत्तरकाले च सुखं
मोहनं मोहकरम् आत्मन: निद्रालस्यप्रमादोत्थं निद्रा च
आलस्यं च प्रमादश्च तेभ्यः समुत्तिष्ठतीति निद्रालस्यप्रमा-
दोत्थम्, तत् तामसम् उदाहृतम् ॥
अथ इदानीं प्रकरणोपसंहारार्थः श्लोकः आरभ्यते—</p>
<pb n="264" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।</l>
  <l>सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यान्त्रिभिर्गुणैः ॥</l>
</lg>
<p>न तत् अस्ति तत् नास्ति पृथिव्यां वा मनुष्यादिषु
सत्त्वं प्राणिजातम् अन्यद्वा अप्राणि, दिवि देवेषु वा पुनः
सत्त्वम्, प्रकृतिजैः प्रकृतित: जातैः एभिः त्रिभिः गुणैः
सत्त्वादिभिः मुक्तं परित्यक्तं यत् स्यात्, न तत् अस्ति इति
पूर्वेण संबन्धः ॥
सर्वः संसारः क्रियाकारक फललक्षणः सत्त्वरजस्तमोगु
णात्मकः अविद्यापरिकल्पितः समूलः अनर्थः उक्तः, वृक्ष-
रूपकल्पनया च ' ऊर्ध्वमूलम्' इत्यादिना, ' तं च असङ्ग-
शस्त्रेण दृढेन च्छित्त्वा ततः पदं तत्परिमार्गितव्यम्' इति च
उक्तम् । तत्र च सर्वस्य त्रिगुणात्मकत्वात् संसारकारण-
निवृत्त्यनुपपत्तौ प्राप्तायाम्, यथा तन्निवृत्तिः स्यात् तथा
वक्तव्यम्, सर्वश्व गीताशास्त्रार्थः उपसंहर्तव्यः, एतावानेव
च सर्ववेदस्मृत्यर्थः पुरुषार्थम् इच्छद्भिः अनुष्ठेयः इत्येवमर्थम्
'ब्राह्मणक्षत्रियविशाम्' इत्यादिः आरभ्यते—</p>
<lg>
  <l>ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप ।</l>
  <l>कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥४१॥</l>
</lg>
<pb n="265" />
<p>अष्टादशोऽध्यायः ।</p>
<p>तेषां
ब्राह्मणाश्च क्षत्रियाश्च विशश्व ब्राह्मणक्षत्रिय विशः,
ब्राह्मणक्षत्रियविशां शूद्राणां च- शूद्राणाम् असमासकरणम्
एकजातित्वे सति वेदानधिकारात् — हे परंतप कर्माणि
प्रविभक्तानि इतरेतरविभागेन व्यवस्थापितानि । केन ? स्व-
भावप्रभवैः गुणैः, स्वभावः ईश्वरस्यं प्रकृतिः त्रिगुणात्मिका
माया सा प्रभवः येषां गुणानां ते स्वभावप्रभवाः,
शमादीनि कर्माणि प्रविभक्तानि ब्राह्मणादीनाम् । अथवा
ब्राह्मणस्वभावस्य सत्त्वगुणः प्रभवः कारणम्, तथा क्षत्रि-
यस्वभावस्य सत्त्वोपसर्जनं रजः प्रभवः, वैश्यस्वभावस्य
तमउपसर्जनं रजः प्रभवः, शूद्रस्वभावस्य रज उपसर्जनं
तमः प्रभवः, प्रशान्त्यैश्वर्येहामूढतास्वभावदर्शनात् चतुर्णाम् ।
अथवा, जन्मान्तरकृतसंस्कारः प्राणिनां वर्तमानजन्मनि
स्वकार्याभिमुखत्वेन अभिव्यक्तः स्वभावः, सः प्रभवो येषां
गुणानां ते स्वभावप्रभवा: गुणा: ; गुणप्रादुर्भावस्य निष्का-
रणत्वानुपपत्तेः । 'स्वभावः कारणम्' इति च कारणविशे-
षोपादानम् । एवं स्वभावप्रभवैः प्रकृतिभवैः सत्त्वरजस्त-
मोभिः गुणैः स्वकार्यानुरूपेण शमादीनि कर्माणि प्रवि-
भक्तानि ॥
ननु शास्त्रप्रविभक्तानि शास्त्रेण विहितानि ब्राह्मणादीनां</p>
<pb n="266" />
<p>श्रीमद्भगवद्गीताभाष्ये
शमादीनि कर्माणि; कथम् उच्यते सत्त्वादिगुणप्रविभक्तानि
इति ? नैष दोषः ; शास्त्रेणापि ब्राह्मणादीनां सत्त्वादिगुण-
विशेषापेक्षयैव शमादीनि कर्माणि प्रविभक्तानि न गुणानपे-
क्षया, इति शास्त्रप्रविभक्तान्यपि कर्माणि गुणप्रविभक्तानि
इति उच्यते ॥
कानि पुनः तानि कर्माणि इति, उच्यते—</p>
<lg>
  <l>शमो दमस्तपः शौचं</l>
  <l>क्षान्तिरार्जवमेव च ।</l>
  <l>ज्ञानं विज्ञानमास्तिक्यं</l>
  <l>ब्रह्मकर्म स्वभावजम् ॥ ४२ ॥</l>
</lg>
<p>शमः दमश्च यथाव्याख्यातार्थौ, तपः यथोक्तं शारीरादि,
शौचं व्याख्यातम्, क्षान्तिः क्षमा, आर्जवम् ऋजुता एव च
ज्ञानं विज्ञानम्, आस्तिक्यम् आस्तिकभावः श्रद्दधानता आ-
गमार्थेषु, ब्रह्मकर्म ब्राह्मणजातेः कर्म स्वभावजम् — यत् उक्तं
स्वभावप्रभवैर्गुणैः प्रविभक्तानि इति तदेवोक्तं स्वभावजम्
इति ॥!</p>
<lg>
  <l>शौर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।</l>
  <l>दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥४३॥</l>
</lg>
<pb n="267" />
<p>'अष्टादशोऽध्यायः ।</p>
<p>शौर्य शूरस्य भावः,
तेजः प्रागल्भ्यम्, धृतिः धारणम्,
सर्वावस्थासु अनवसादः भवति यया धृत्या उत्तम्भितस्य,
दाक्ष्यं दक्षस्य भावः, सहसा प्रत्युत्पन्नेषु कार्येषु अव्यामोहेन
प्रवृत्तिः, युद्धे चापि अपलायनम् अपराङ्मुखीभावः शत्रुभ्यः,
दानं देयद्रव्येषु मुक्तहस्तता, ईश्वरभावश्व ईश्वरस्य भावः,
प्रभुशक्तिप्रकटीकरणम् ईशितव्यान् प्रति, क्षात्रं कर्म क्षत्रिय-
जातेः विहितं कर्म क्षात्रं कर्म स्वभावजम् ॥</p>
<lg>
  <l>कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।</l>
  <l>परिचर्यात्मकं कर्म शूद्रखापि स्वभावजम् ॥</l>
</lg>
<p>कृषिगौरक्ष्यवाणिज्यं कृषिश्च गौरक्ष्यं च वाणिज्यं च कृ-
षिगौरक्ष्यवाणिज्यम्, कृषिः भूमेः विलेखनम्, गौरक्ष्यं गाः
रक्षतीति गोरक्षः तस्य भावः गौरक्ष्यम्, पाशुपाल्यम् इत्यर्थः,
वाणिज्यं वणिक्कर्म क्रयविक्रयादिलक्षणं वैश्यकर्म वैश्यजातेः
कर्म वैश्यकर्म स्वभावजम् । परिचर्यात्मकं शुश्रूषास्वभावं
कर्म शूद्रस्यापि स्वभावजम् ॥
एतेषां जातिविहितानां कर्मणां सम्यगनुष्ठितानां स्वर्ग-
प्राप्तिः फलं स्वभावतः, 'वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य
कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलधर्मायुः श्रुत-</p>
<pb n="268" />
<p>श्रीमद्भगवद्गीताभाष्ये
वृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते' इत्यादिस्मृतिभ्यः ;
पुराणे च वर्णिनाम् आश्रमिणां च लोकफलभेदविशेषस्मर-
णात् । कारणान्तरात्तु इदं वक्ष्यमाणं फलम् —</p>
<lg>
  <l>स्वे स्वे कर्मण्यभिरतः</l>
  <l>संसिद्धिं लभते नरः ।</l>
  <l>स्वकर्मनिरतः सिद्धिं</l>
  <l>यथा विन्दति तच्छृणु ॥ ४५ ॥</l>
</lg>
<p>स्वे स्वे यथोक्तलक्षणभेदे कर्मणि अभिरतः तत्परः संसिद्धिं
स्वकर्मानुष्ठानात् अशुद्धिये सति कायेन्द्रियाणां ज्ञाननिष्ठा-
योग्यतालक्षणां संसिद्धिं लभते प्राप्नोति नरः अधिकृतः
पुरुष: ; किं स्वकर्मानुष्ठानत एव साक्षात् संसिद्धि: ? न ; कथं
तर्हि ? खकर्मनिरतः सिद्धिं यथा येन प्रकारेण विन्दति, तत्
शृणु ॥</p>
<lg>
  <l>यतः प्रवृत्तिर्भूतानां</l>
  <l>येन सर्वमिदं ततम् ।</l>
  <l>स्वकर्मणा तमभ्यर्च्य</l>
  <l>सिद्धिं विन्दति मानवः ॥ ४६ ॥</l>
</lg>
<pb n="269" />
<p>अष्टादशोऽध्यायः ।</p>
<p>यतः यस्मात् प्रवृत्तिः उत्पत्ति: चेष्टा वा यस्मात् अन्त-
र्यामिणः ईश्वरात् भूतानां प्राणिनां स्यात्, येन ईश्वरेण सर्वम्
इदं ततं जगत् व्याप्तम् स्वकर्मणा पूर्वोक्तेन प्रतिवर्णं तम्
ईश्वरम् अभ्यर्च्य पूजयित्वा आराध्य केवलं ज्ञाननिष्ठायोग्य-
तालक्षणां सिद्धिं विन्दति मानवः मनुष्यः ॥
यतः एवम्, अतः—</p>
<lg>
  <l>श्रेयान्स्वधर्मो विगुणः</l>
  <l>परधर्मात्स्वनुष्ठितात् ।</l>
  <l>स्वभावनियतं कर्म</l>
  <l>कुर्वन्नामोति किल्बिषम् ॥ ४७ ॥</l>
</lg>
<p>श्रेयान् प्रशस्यतरः स्वो धर्मः स्वधर्मः, विगुणोऽपि इति
अपिशब्दो द्रष्टव्यः, परधर्मात् । स्वभावनियतं स्वभावेन
नियतम्, यदुक्तं स्वभावजमिति, तदेवोक्तं स्वभावनियतम्
इति ; यथा विषजातस्य कृमेः विषं न दोषकरम्, तथा स्व-
भावनियतं कर्म कुर्वन् न आप्नोति किल्विषं पापम् ॥
स्वभावनियतं कर्म कुर्वाणो विषजः इव कृमि: किल्विषं
न आप्नोतीति उक्तम् ; परधर्मश्च भयावहः इति, अनात्मज्ञश्च</p>
<pb n="270" />
<p>श्रीमद्भगवद्गीताभाष्ये
'न हि कश्चित्क्षणमपि अकर्मकृत्तिष्ठति' इति । अत:-</p>
<lg>
  <l>सहजं कर्म कौन्तेय</l>
  <l>सदोषमपि न त्यजेत् ।</l>
  <l>सर्वारम्भा हि दोषेण</l>
  <l>धूमेनाग्निरिवावृताः ॥ ४८ ॥</l>
</lg>
<p>सहजं सह
जन्मनैव उत्पन्नम् । किं तत् ? कर्म कौन्तेय
सदोषमपि त्रिगुणात्मकत्वात् न त्यजेत् । सर्वारम्भाः आर-
भ्यन्त इति आरम्भाः, सर्वकर्माणि इत्येतत्; प्रकरणात् ये
केचित् आरम्भाः स्वधर्माः परधर्माश्च ते सर्वे हि यस्मात् --
त्रिगुणात्मकत्वम् अत्र हेतुः — त्रिगुणात्मकत्वात् दोपेण
धूमेन सहजेन अग्निरिव, आवृताः । सहजस्य कर्मण:
स्वधर्माख्यस्य परित्यागेन परधर्मानुष्ठानेऽपि दोषात् नैव
मुच्यते ; भयावहश्च परधर्मः । न च शक्यते अशेषतः
त्यक्तुम् अज्ञेन कर्म यतः, तस्मात् न त्यजेत् इत्यर्थः ॥
किम् अशेषतः त्यक्तुम् अशक्यं कर्म इति न त्यजेत् ?
किं वा सहजस्य कर्मणः त्यागे दोषो भवतीति ? किं च अत: ?
यदि तावत् अशेषतः त्यक्तुम् अशक्यम् इति न त्याज्यं
सहजं कर्म, एवं तर्हि अशेषत: त्यागे गुण एव स्यादिति</p>
<pb n="271" />
<p>अष्टादशोऽध्यायः</p>
<p>सिद्धं भवति । सत्यम् एवम्; अशेषत: त्याग एव न उप-
पद्यते इति चेत्, किं नित्यप्रचलितात्मकः पुरुषः, यथा
सांख्यानां गुणा: ? किं वा क्रियैव कारकम्, यथा बौद्धानां
स्कन्धाः क्षणप्रध्वंसिनः ? उभयथापि कर्मणः अशेषतः
त्यागः न संभवति । अथ तृतीयोऽपि पक्षः -- यदा करोति
तदा सक्रियं वस्तु । यदा न करोति, तदा निष्क्रियं तदेव ।
तत्र एवं सति शक्यं कर्म अशेषतः त्यक्तम्
अयं तु
अस्मिन तृतीये पक्षे विशेष:-
--
न नित्यप्रचलितं
वस्तु,
नापि
क्रियैव कारकम् । किं तर्हि ? व्यवस्थिते द्रव्ये अविद्यमाना
क्रिया उत्पद्यते, विद्यमाना च विनश्यति । शुद्धं तत् द्रव्यं
शक्तिमत् अवतिष्ठते । इति एवम् आहुः काणादाः । तदेव
च कारकम् इति । अस्मिन् पक्षे को दोष: इति । अय-
मेव तु दोषः -- यतस्तु अभागवतं मतम् इदम् । कथं ज्ञायते ?
यतः आह भगवान् 'नासतो विद्यते भाव:' इत्यादि ।
काणादानां हि असत: भावः, सतश्च अभाव:, इति इदं
मतम् अभागवतम् । अभागवतमपि न्यायवच्चेत् को दोषः
इति चेत्, उच्यते-- दोषवत्तु इदम्, सर्वप्रमाणविरोधात् ।
कथम् ? यदि तावत् द्वयणुकादि द्रव्यं प्राक् उत्पत्तेः अत्यन्त-
मेव असत्, उत्पन्नं च स्थितं कंचित् कालं पुनः अत्यन्तमेव</p>
<pb n="272" />
<p>श्रीमद्भगवद्गीताभाष्ये
असत्त्वम् आपद्यते, तथा च सति असदेव सत् जायते,
सदेव असत्त्वम् आपद्यते, अभाव: भावो भवति, • भावश्व
अभावो भवति ; तत्र अभाव: जायमानः प्राक् उत्पत्तेः
शशविषाणकल्पः समवाय्यसमवायिनिमित्ताख्यं कारणम्
अपेक्ष्य जायते इति । न च एवम् अभावः उत्पद्यते, कारणं
च अपेक्षते इति शक्यं वक्तुम्, असतां शशविषाणा-
दीनाम् अदर्शनात् । भावात्मकाश्चेत् घटादयः उत्पद्यमानाः,
किंचित् अभिव्यक्तिमात्रे कारणम् अपेक्ष्य उत्पद्यन्ते इति
शक्यं प्रतिपत्तुम् । किंच, असतश्च सतश्च सद्भावे अस-
द्भावे न क्वचित् प्रमाणप्रमेयव्यवहारेषु विश्वासः कस्यचित्
स्यात्, 'सत् सदेव असत् असदेव' इति निश्चयानुपपत्तेः ।
,
किंच, उत्पद्यते इति व्यणुकादे: द्रव्यस्य स्वकारणसत्ता-
संबन्धम् आहुः । प्राक् उत्पत्तेश्व असत् पश्चात् कारणव्या-
पारम् अपेक्ष्य स्वकारणैः परमाणुभिः सत्तया च समत्रायल-
क्षणेन संबन्धेन संबध्यते । संबद्धं सत् कारणसमवेतं सत्
भवति । तत्न वक्तव्यं कथम् असतः स्वं कारणं भवेत् संब-
न्धो वा केनचित् स्यात् ? न हि वन्ध्यापुत्रस्य स्वं कारणं
संबन्धो वा केनचित् प्रमाणतः कल्पयितुं शक्यते ॥
ननु नैवं वैशेषिकैः : अभावस्य संबन्धः कल्प्यते । द्वषणु-</p>
<pb n="273" />
<p>अष्टादशोऽध्यायः</p>
<p>कादीनां हि द्रव्याणां स्वकारणसमवायलक्षणः संबन्ध:
सतामेव उच्यते इति । न ; संबन्धात् प्राक् सत्त्वानभ्युपग-
मात् । न हि वैशेषिकैः कुलालदण्डचक्रादिव्यापारात् प्राक्
घटादीनाम् अस्तित्वम् इष्यते । न च मृद एव घटाद्याकारप्रा-
प्तिम् इच्छन्ति । ततश्च असत एव संबन्ध: पारिशेष्यात्
इष्टो भवति ॥
ननु असतोऽपि समवायलक्षणः संवन्धः न विरुद्धः ।
न; वन्ध्यापुत्रादीनाम् अदर्शनात् । घटादेरेव प्रागभावस्य स्व-
कारणसंबन्धो भवति न वन्ध्यापुत्रादेः, अभावस्य तुल्यत्वे-
ऽपि इति विशेष: अभावस्य वक्तव्यः । एकस्य अभाव:, द्व-
योः अभावः, सर्वस्य अभाव:, प्रागभावः, प्रध्वंसाभावः,
इतरेतराभावः, अत्यन्ताभावः इति लक्षणतो न केनचित्
विशेषो दर्शयितुं शक्यः । असति च विशेषे घटस्य प्रांग-
भावः एव कुलालदिभिः घटभावम् आपद्यते संबध्यते च भावेन
कपालाख्येन, संबद्धश्च सर्वव्यवहारयोग्यश्च भवति, न तु
घटस्यैव प्रध्वंसाभावः अभावत्वे सत्यपि इति प्रध्वंसाद्यभा-
वानां न कचित् व्यवहारयोग्यत्वम्, प्रागभावस्यैव द्वद्यणुका-
दिद्रव्याख्यस्य उत्पत्त्यादिव्यवहाराईत्वम् इत्येतत् असमञ्ज-
सम्; अभावत्वाविशेषात् अत्यन्तप्रध्वंसाभावयोरिव ॥</p>
<pb n="274" />
<p>श्रीमद्भगवद्गीताभाष्ये
ननु नैव अस्माभिः प्रागभावस्य भावापत्तिः उच्यते ।
भावस्यैव तर्हि भावापत्तिः ; यथा घटस्य घटापत्तिः, पटस्य
वा पटापत्तिः । एतदपि अभावस्य भावापत्तिवदेव प्रमाण-
विरुद्धम् । सांख्यस्यापि यः परिणामपक्षः सोऽपि अपूर्वधर्मो-
त्पत्तिविनाशाङ्गीकरणात् वैशेषिकपक्षात् न विशिष्यते । अ-
भिव्यक्तितिरोभावाङ्गीकरणेऽपि अभिव्यक्तितिरोभावयोः वि-
द्यमानत्वाविद्यमानत्वनिरूपणे पूर्ववदेव प्रमाणविरोधः । एते-
न कारणस्यैव संस्थानम् उत्पत्त्यादि इत्येतदपि प्रत्युक्तम् ॥
पारिशेष्यात् सत् एकमेव वस्तु अविद्यया उत्पत्तिविना-
शादिधर्मैः अनेकधा नटवत् विकल्प्यते इति । इदं भागवतं
मतम् उक्तम् ' नासतो विद्यते भाव: ' इत्यस्मिन् श्लोके, सत्प्र-
त्ययस्य अव्यभिचारात्, व्यभिचाराच्च इतरेषामिति ॥
'
कथं तर्हि आत्मनः अविक्रियत्वे अशेषत: कर्मणः त्यागः
न उपपद्यते इति ? यदि वस्तुभूताः गुणाः, यदि वा अवि-
द्याकल्पिताः, तद्धर्मः कर्म, तदा आत्मनि अविद्याध्यारोपि -
तमेव इति अविद्वान् न हि कश्चित् क्षणमपि अशेषतः
त्यक्तुं शक्नोति' इति उक्तम् । विद्वांस्तु पुनः विद्यया अवि-
द्यायां निवृत्तायां शक्नोत्येव अशेषत: कर्म परित्यक्तुम्,
अविद्याध्यारोपितस्य शेषानुपपत्तेः । न हि तैमिरिकदृष्टया</p>
<pb n="275" />
<p>अष्टादशोऽध्यायः</p>
<p>अध्यारोपितस्य द्विचन्द्रादेः तिमिरापगमेऽपि शेष: अवति-
ष्ठते । एवं च सति इदं वचनम् उपपन्नम् ' सर्वकर्माणि
मनसा' इत्यादि, 'स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते
नरः 'स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः '
इति च ॥
, "
या कर्मजा सिद्धिः उक्ता ज्ञाननिष्ठायोग्यतालक्षणा,
तस्याः फलभूता नैष्कर्म्यसिद्धिः ज्ञाननिष्ठालक्षणा च वक्त-
व्येति श्लोकः आरभ्यते—</p>
<lg>
  <l>असक्तबुद्धिः सर्वत्र</l>
  <l>जितात्मा विगतस्पृहः ।</l>
  <l>नैष्कर्म्यसिद्धिं परमां</l>
  <l>संन्यासेनाधिगच्छति ॥ ४९ ॥</l>
</lg>
<p>असक्तबुद्धिः असक्ता सङ्गरहिता बुद्धिः अन्तःकरणं
यस्य सः असक्तबुद्धिः सर्वत्र पुत्रदारादिषु आसक्तिनिमित्तेषु,
जितात्मा जित: वशीकृतः आत्मा अन्तःकरणं यस्य सः
जितात्मा, विगतस्पृहः विगता स्पृहा तृष्णा देहजीवितभोगेषु
यस्मात् सः विगतस्पृहः, यः एवंभूतः आत्मज्ञः सः नैष्क-
र्म्यसिद्धिं निर्गतानि कर्माणि यस्मात् निष्क्रियब्रह्मात्मसंबोधात्</p>
<pb n="276" />
<p>श्रीमद्भगवद्गीताभाष्ये
सः निष्कर्मा तस्य भावः नैष्कर्म्यम्, नैष्कर्म्य च तत् सिद्धिश्च
सा नैष्कर्म्यसिद्धिः, निष्कर्मत्वस्य वा निष्क्रियात्मरूपावस्था-
नलक्षणस्य सिद्धि: निष्पत्तिः, तां नैष्कर्म्यसिद्धिं परमां
प्रकृष्टां कर्मजसिद्धिविलक्षणां सद्योमुक्त्यवस्थानरूपां संन्या-
सन सम्यग्दर्शनेन तत्पूर्वकेण वा सर्वकर्मसंन्यासेन, अधिग-
च्छति प्राप्नोति । तथा च उक्तम्— 'सर्वकर्माणि मनसा
संन्यस्य नैव कुर्वन्न कारयन्नास्ते' इति ॥
पूर्वोक्तेन स्वकर्मानुष्ठानेन ईश्वराभ्यर्चनरूपेण जनितां प्रा-
गुक्तलक्षणां सिद्धिं प्राप्तस्य उत्पन्नात्मविवेकज्ञानस्य केवलात्म-
ज्ञाननिष्ठारूपा नैष्कर्म्यलक्षणा सिद्धिः येन क्रमेण भवति,
तत् वक्तव्यमिति आह—</p>
<lg>
  <l>सिद्धिं प्राप्तो यथा ब्रह्म तथामोति निबोध मे ।</l>
  <l>समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥</l>
</lg>
<p>सिद्धि प्राप्तः स्वकर्मणा ईश्वरं समभ्यर्च्य तत्प्रसादजां
कायेन्द्रियाणां ज्ञाननिष्ठायोग्यतालक्षणां सिद्धिं प्राप्तः—
सिद्धिं प्राप्तः इति तदनुवादः उत्तरार्थः । किं तत् उत्तरम्,
यदर्थ: अनुवादः इति, उच्यते — यथा येन प्रकारेण ज्ञान-
निष्ठारूपेण ब्रह्म परमात्मानम् आप्नोति, तथा तं प्रकारं ज्ञान-</p>
<pb n="277" />
<p>अष्टादशोऽध्यायः ।</p>
<p>निष्ठाप्राप्तिक्रमं मे मम वचनात् निबोध त्वं निश्चयेन अवधारय
इत्येतत् । किं विस्तरेण ? न इति आह— समासेनैव संक्षे-
पेणैव हे कौन्तेय, यथा ब्रह्म प्राप्नोति तथा निबोधेति ।
अनेन या प्रतिज्ञाता ब्रह्मप्राप्तिः, ताम् इदंतया दर्शयितुम्
आह- 'निष्ठा ज्ञानस्य या परां' इति । निष्ठा पर्यवसानं
परिसमाप्तिः इत्येतत् । कस्य ? ब्रह्मज्ञानस्य या परा । की-
दृशी सा ? यादृशम् आत्मज्ञानम् । कीदृक् तत् ? यादृशः
आत्मा । कीदृशः सः ? यादृशो भगवता उक्तः, उपनिषद्वा-
क्यैश्च न्यायतश्च ।
ननु विषयाकारं ज्ञानम् । न ज्ञानविषयः, नापि आकार-
वान् आत्मा इष्यते कचित् । ननु ' आदित्यवर्णम् ' ' भारूप: '
' स्वयंज्योति:' इति आकारवत्त्वम् आत्मनः श्रूयते । न;
तमोरूपत्वप्रतिषेधार्थत्वात् तेषां वाक्यानाम् — द्रव्यगुणाद्या-
कारप्रतिषेधे आत्मनः तमोरूपत्वे प्राप्ते तत्प्रतिषेधार्थानि
'आदित्यवर्णम्' इत्यादीनि वाक्यानि । 'अरूपम्' इति च
विशेषतः रूपप्रतिषेधात् । अविषयत्वाच्च – 'न संदृशे ति-
ष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ' ' अशब्दमस्पर्श-
म्' इत्यादेः । तस्मात् आत्माकारं ज्ञानम् इति अनुपपन्नम् ॥
कथं तर्हि आत्मनः ज्ञानम् ? सर्वे हि यद्विषयं यत् ज्ञान-
S. B. II. 17</p>
<pb n="278" />
<p>श्रीमद्भगवद्गीताभाष्ये
म्, तत् तदाकारं भवति । निराकारश्च आत्मा इत्युक्तम् ।
ज्ञानात्मनोश्च उभयोः निराकारत्वे कथं तद्भावनानिष्ठा
इति ? न; अत्यन्तनिर्मलत्वातिस्वच्छत्वातिसूक्ष्मत्वोपपत्तेः
आत्मन: । बुद्धेश्च आत्मवत् नैर्मल्याद्युपपत्तेः आत्मचैतन्या-
काराभासत्वोपपत्तिः । बुद्धयाभासं मनः, तदाभासानि इ-
न्द्रियाणि, इन्द्रियाभासश्च देहः । अतः लौकिकै: देहमात्रे
एव आत्मदृष्टिः क्रियते ॥
देहचैतन्यवादिनश्च लोकायतिका: 'चैतन्यविशिष्ट: का-
यः पुरुषः' इत्याहुः । तथा अन्ये इन्द्रिय चैतन्यवादिनः,
अन्ये मनश्चैतन्यवादिनः, अन्ये बुद्धिचैतन्यवादिनः । ततो-
ऽपि आन्तरम् अव्यक्तम् अव्याकृताख्यम् अविद्यावस्थम्
आत्मत्वेन प्रतिपन्नाः केचित् । सर्वत्र बुद्धधादिदेहान्ते आ-
त्मचैतन्याभासता आत्मभ्रान्तिकारणम् इत्यतश्च आत्मविषयं
ज्ञानं न विधातव्यम् । किं तर्हि ? नामरूपाद्यनात्माध्यारोपण-
निवृत्तिरेव कार्या, आत्मचैतन्यविज्ञानं कार्यम्, अविद्याध्या-
रोपित सर्वपदार्थाकारैः अविशिष्टतया दृश्यमानत्वात् इति ।
अत एव हि विज्ञानवादिनो बौद्धाः विज्ञानव्यतिरेकेण वस्त्वे-
व नास्तीति प्रतिपन्नाः, प्रमाणान्तरनिरपेक्षतां च स्वसंविदि-
तत्वाभ्युपगमेन । तस्मात् अविद्याध्यारोपित निराकरणमात्रं</p>
<pb n="279" />
<p>अष्टादशोऽध्यायः ।</p>
<p>ब्रह्मणि कर्तव्यम्, न तु ब्रह्मविज्ञाने यत्रः, अत्यन्तप्रसिद्धत्वात् ।
अविद्याकल्पितनामरूपविशेषाकारापहृतबुद्धीनाम् अत्यन्तप्र-
सिद्धं सुविज्ञेयम् आसन्नतरम् आत्मभूतमपि, अप्रसिद्धं दुर्वि-
ज्ञेयम् अतिदूरम् अन्यदिव च प्रतिभाति अविवेकिनाम् ।
वाह्याकारनिवृत्तबुद्धीनां तु लब्धगुर्वात्मप्रसादानां न अतः
परं सुखं सुप्रसिद्धं सुविज्ञेयं स्वासन्नतरम् अस्ति । तथा चो-
क्तम्—' प्रत्यक्षावगमं धर्म्यम्' इत्यादि ॥
केचित्तु पण्डितंमन्याः 'निराकारत्वात् आत्मवस्तु न
उपैति बुद्धिः । अतः दुःसाध्या सम्यग्ज्ञाननिष्ठा' इत्याहु: ।
सत्यम्; एवं गुरुसंप्रदायरहितानाम् अश्रुतवेदान्तानाम् अ-
त्यन्तबहिर्विषयासक्तबुद्धीनां सम्यक्प्रमाणेषु अकृतश्रमाणाम् ।
तद्विपरीतानां तु लौकिकग्राह्यग्राहकद्वैतवस्तुनि सद्बुद्धिः नितरां
दुःसंपादा, आत्मचैतन्यव्यतिरेकेण वस्त्वन्तरस्य अनुप-
लब्धेः, यथा च ' एतत् एवमेव, न अन्यथा' इति अवोचाम ;
उक्तं च भगवता 'यस्यां जाग्रति भूतानि सा निशा पश्यतो
मुनेः' इति । तस्मात् बाह्याकार भेदबुद्धिनिवृत्तिरेव आत्म-
स्वरूपावलम्बनकारणम् । न हि आत्मा नाम कस्यचित्
कदाचित् अप्रसिद्धः प्राप्य: हेयः उपादेयो वा ; अप्रसिद्धे हि
तस्मिन् आत्मनि स्वार्थाः सर्वाः प्रवृत्तयः व्यर्थाः प्रसज्ये-</p>
<pb n="280" />
<p>श्रीमद्भगवद्गीताभाष्ये
रन् । न च देहाद्यचेतनार्थत्वं शक्यं कल्पयितुम् । नच
सुखार्थं सुखम्, दुःखार्थं दुःखम् । आत्मावगत्यवसानार्थ-
त्वाच्च सर्वव्यवहारस्य । तस्मात् यथा स्वदेहस्य परिच्छे-
दाय न प्रमाणान्तरापेक्षा, ततोऽपि आत्मनः अन्तरतमत्वात्
तदवगतिं प्रति न प्रमाणान्तरापेक्षा ; इति आत्मज्ञाननिष्ठा
विवेकिनां सुप्रसिद्धा इति सिद्धम् ॥
येषामपि निराकारं ज्ञानम् अप्रत्यक्षम्, तेषामपि ज्ञानव-
शेनैव ज्ञेयावगतिरिति ज्ञानम् अत्यन्तप्रसिद्धं सुखादिवदेव
इति अभ्युपगन्तव्यम् । जिज्ञासानुपपत्तेश्च -- अप्रसिद्धं
चेत् ज्ञानम्, ज्ञेयवत् जिज्ञास्येत । यथा ज्ञेयं घटादिलक्षणं
ज्ञानेन ज्ञाता व्याप्तुम् इच्छति, तथा ज्ञानमपि ज्ञानान्तरेण
ज्ञातव्यम् आप्तुम् इच्छेत् । न एतत् अस्ति । अतः अत्यन्त-
प्रसिद्धं ज्ञानम् , ज्ञातापि अत एव प्रसिद्धः इति । तस्मात्
ज्ञाने यत्नो न कर्तव्यः, किं तु अनात्मनि आत्मबुद्धिनिवृत्ता-
वेव । तस्मात् ज्ञाननिष्ठा सुसंपाद्या ॥
सा इयं ज्ञानस्य परा निष्ठा उच्यते, कथं कार्या इति-
बुद्धया विशुद्धया युक्तो
धृत्यात्मानं नियम्य च ।</p>
<pb n="281" />
<p>अष्टादशोऽध्यायः ।
शब्दादीन्विषयांस्त्यक्त्वा
रागद्वेषौ व्युदस्य च ॥ ५१ ॥</p>
<p>बुद्धथा अध्यवसायलक्षणया विशुद्धया मायारहितया
युक्त: संपन्नः, धृत्या धैर्येण आत्मानं कार्यकरणसंघातं नियम्य
च नियमनं कृत्वा वशीकृत्य, शब्दादीन् शब्दः आदिः
ग्रेषां तान् विषयान् त्यक्त्वा, सामर्थ्यात् शरीरस्थितिमात्रहे-
तुभूतान् केवलान् मुक्त्वा ततः अधिकान् सुखार्थान् त्यक्त्वा
इत्यर्थः, शरीरस्थित्यर्थत्वेन प्राप्तेषु रागद्वेषौ व्युदस्य च परि-
त्यज्य च ॥
ततः-</p>
<lg>
  <l>विविक्तसेवी लघ्वाशी</l>
  <l>यतवाक्कायमानसः ।</l>
  <l>ध्यानयोगपरो नित्यं</l>
  <l>वैराग्यं समुपाश्रितः ॥ ५२ ॥</l>
</lg>
<p>विविक्तसेवी अरण्यनदीपुलिन गिरिगुहादीन् विविक्तान्
देशान् सेवितुं शीलम् अस्य इति विविक्तसेवी, लघ्वाशी
लघ्वशनशील:- विविक्तसेवालघ्वशनयोः निद्रादिदोषनिव-
र्तकत्वेन चित्तप्रसादहेतुत्वात् ग्रहणम् ; यतवाक्कायमानसः</p>
<pb n="282" />
<p>एवम्
श्रीमद्भगवद्गीताभाष्ये
वाक् च कायश्च मानसं च यतानि संयतानि यस्य ज्ञान-
निष्ठस्य सः ज्ञाननिष्ठः यतिः यतवाक्कायमानसः स्यात्
उपरतसर्वकरणः सन् ध्यानयोगपरः ध्यानम् आत्म-
स्वरूपचिन्तनम्, योगः आत्मविषये एकाप्रीकरणम् तौ
परत्वेन कर्तव्यौ यस्य सः ध्यानयोगपरः नित्यं नित्यप्र-
हणं मन्त्रजपाद्यन्यकर्तव्याभावप्रदर्शनार्थम्, वैराग्यं विरा-
गस्य भावः दृष्टादृष्टेषु विषयेषु वैतृष्ण्यं समुपाश्रितः सम्यक्
उपाश्रितः नित्यमेव इत्यर्थः ॥
किंच-</p>
<lg>
  <l>अहंकारं बलं दर्प</l>
  <l>कामं क्रोधं परिग्रहम् ।</l>
  <l>विमुच्य निर्ममः शान्तो</l>
  <l>ब्रह्मभूयाय कल्पते ॥ ५३ ॥</l>
</lg>
<p>अहंकारम् अहंकरणम् अहंकार : देहादिषु तम्, बलं सा-
मर्थ्य कामरागसंयुक्तम् — न इतरत् शरीरादिसामर्थ्य स्वा
भाविकत्वेन तत्त्यागस्य अशक्यत्वात् — दर्प दर्पो नाम हर्षा-
नन्तरभावी धर्मातिक्रमहेतुः 'हृष्टो दृप्यति दृप्तो धर्ममतिका-
मंति' इति स्मरणात् ; तं च कामम् इच्छां क्रोधं द्वेषं प-</p>
<pb n="283" />
<p>अष्टादशोऽध्यायः ।</p>
<p>रिग्रहम् इन्द्रियमनोगतदोषपरित्यागेऽपि शरीरधारणप्रसङ्गेन
धर्मानुष्ठाननिमित्तेन वा बाह्यः परिग्रहः प्राप्तः, तं च विमु-
च्य परित्यज्य, परमहंसपरिव्राजको भूत्वा, देहजीवनमात्रे -
ऽपि निर्गतममभावः निर्मम:, अत एव शान्त: उपरतः, यः
संहृतहर्षायासः यतिः ज्ञाननिष्ठः ब्रह्मभूयाय ब्रह्मभवनाय
कल्पते समर्थो भवति ॥
अनेन क्रमेण --</p>
<lg>
  <l>ब्रह्मभूतः प्रसन्नात्मा</l>
  <l>न शोचति न काङ्क्षति ।</l>
  <l>समः सर्वेषु भूतेषु</l>
  <l>मद्भक्तिं लभते पराम् ॥ ५४ ॥</l>
</lg>
<p>ब्रह्मभूतः ब्रह्मप्राप्तः प्रसन्नात्मा लब्धाध्यात्मप्रसादस्वभावः
न शोचति, किंचित् अर्थवैकल्यम् आत्मनः वैगुण्यं वा
उद्दिश्य न शोचति न संतप्यते ; न काङ्क्षति, न हि अप्रा-
विषयाकाङ्क्षा ब्रह्मविदः उपपद्यते ; अतः ब्रह्मभूतस्य अयं
स्वभावः अनूद्यते— न शोचति न काङ्क्षति इति । 'न हृ-
ष्यति' इति वा पाठान्तरम् । समः सर्वेषु भूतेषु, आत्मौ-
पम्येन सर्वभूतेषु सुखं दुःखं वा सममेव पश्यति इत्यर्थः ।</p>
<pb n="284" />
<p>श्रीमद्भगवद्गीताभाष्ये
भक्त्या
न आत्मसमदर्शनम् इह, तस्य वक्ष्यमाणत्वात्
मामभिजानाति' इति । एवंभूतः ज्ञाननिष्ठः, मद्भक्ति
मयि परमेश्वरे भक्ति भजनं पराम् उत्तमां ज्ञानलक्षणां च-
तुर्थी लभते, 'चतुर्विधा भजन्ते माम्' इति हि उक्तम् ॥
तत: ज्ञानलक्षणया-</p>
<lg>
  <l>भक्त्या मामभिजानाति</l>
  <l>यावान्यश्चास्मि तत्त्वतः ।</l>
  <l>ततो मां तत्त्वतो ज्ञात्वा</l>
  <l>विशते तदनन्तरम् ॥ ५५ ॥</l>
</lg>
<p>भक्त्या माम् अभिजानाति यावान् अहम् उपाधिकृतवि-
स्तरभेदः, यश्च अहम् अस्मि विध्वस्तसर्वोपाधिभेदः उत्तमः
पुरुषः आकाशकल्प:, तं माम् अद्वैतं चैतन्यमात्रैकरसम्
अजरम् अभयम् अनिधनं तत्त्वतः अभिजानाति । तत:
माम् एवं तत्त्वतः ज्ञात्वा विशते तदनन्तरं मामेव ज्ञानान-
न्तरम् । नात्र ज्ञानप्रवेशकिये भिन्ने विवक्षिते 'ज्ञात्वा वि-
शते तदनन्तरम्' इति । किं तर्हि ? फलान्तराभावात् ज्ञान-
मात्रमेव, 'क्षेत्रज्ञं चापि मां विद्धि' इति उक्तत्वात् ॥</p>
<pb n="285" />
<p>अष्टादशोऽध्यायः ।
I</p>
<p>ननु विरुद्धम् इदम् उक्तम् ' ज्ञानस्य या परा निष्ठा तया
माम् अभिजानाति इति । कथं विरुद्धम् इति चेत्, उच्यते-
यदैव यस्मिन् विषये ज्ञानम् उत्पद्यते ज्ञातु:, तदैव तं विषयम्
अभिजानाति ज्ञाता इति न ज्ञाननिष्ठां ज्ञानावृत्तिलक्षणाम्
अपेक्षते इति; अतश्च ज्ञानेन न अभिजानाति, ज्ञानावृत्त्या
तु ज्ञाननिष्ठया अभिजानातीति । नैष दोषः ; ज्ञानस्य स्वा-
त्मोत्पत्तिपरिपाकहेतुयुक्तख प्रतिपक्षविहीनस्य यत् आत्मानु-
भवनिश्चयावसानत्वं तस्य निष्ठाशब्दाभिलापात् । शास्त्राचा-
यपदेशेन ज्ञानोत्पत्तिहेतुं सहकारिकारणं बुद्धिविशुद्धत्वादि
अमानित्वादिगुणं च अपेक्ष्य जनितस्य क्षेत्रज्ञपरमात्मैकत्व-
ज्ञानस्य कर्तृत्वादिकारक भेदबुद्धिनिबन्धन सर्वकर्मसंन्याससहि-
तस्य स्वात्मानुभवनिश्चयरूपेण यत् अवस्थानम्, सा परा
ज्ञाननिष्ठा इति उच्यते । सा इयं ज्ञाननिष्ठा आर्तादिभक्ति-
त्रयापेक्षया परा चतुर्थी भक्तिरिति उक्ता । तया परया
भक्त्या भगवन्तं तत्त्वत: अभिजानाति, यदनन्तरमेव ईश्वर-
क्षेत्रज्ञभेदबुद्धिः अशेषत: निवर्तते । अतः ज्ञाननिष्ठालक्षणया
भक्त्या माम् अभिजानातीति वचनं न विरुध्यते । अत्र च
सर्व निवृत्तिविधायि शास्त्रं वेदान्तेतिहासपुराणस्मृतिलक्षणं
न्यायप्रसिद्धम् अर्थवत् भवति — 'विदित्वा ... व्युत्थायाथ</p>
<pb n="286" />
<p>श्रीमद्भगवद्गीताभाष्ये
भिक्षाचर्यं चरन्ति ' ' तस्मान्नवासमेषां तपसामतिरिक्तमाहुः '
'न्यास एवात्यरेचयत्' इति । 'संन्यासः कर्मणां न्यासः
' वेदानिमं च लोकममुं च परित्यज्य ' ' त्यज धर्ममधर्म च '
इत्यादि । इह च प्रदर्शितानि वाक्यानि । न च तेषां वाक्या-
नाम् आनर्थक्यं युक्तम् ; न च अर्थवादत्वम्, स्वप्रकरणस्थ-
त्वात्, प्रत्यगात्माविक्रियस्वरूपनिष्ठत्वाच्च मोक्षस्य । न हि
पूर्वसमुद्रं जिगिमिषो: प्रातिलोम्येन प्रत्यक्समुद्रजिगमिषुणा
समानमार्गत्वं संभवति । प्रत्यगात्मविषयप्रत्ययसंतानकर-
णाभिनिवेशश्च ज्ञाननिष्ठा ; सा च प्रत्यक्समुद्रगमनवत् कर्मणा
सहमावित्वेन विरुध्यते । पर्वतसर्षपयोरिव अन्तरवान् वि-
रोधः प्रमाणविदां निश्चितः । तस्मात् सर्वकर्मसंन्यासेनैव
ज्ञाननिष्ठा कार्या इति सिद्धम् ॥
स्वकर्मणा भगवतः अभ्यर्चनभक्तियोगस्य सिद्धिप्राप्तिः
फलं ज्ञाननिष्ठायोग्यता, यन्निमित्ता ज्ञाननिष्ठा मोक्षफलाव-
साना । स: भगवद्भक्तियोगः अधुना स्तूयते शास्त्रार्थोपसं-
हारप्रकरणे शास्त्रार्थनिश्चयदायय--</p>
<lg>
  <l>सर्वकर्माण्यपि सदा कुर्वाणो मध्यपाश्रयः ।</l>
  <l>मत्प्रसादादवाप्रोति शाश्वतं पदमव्ययम् ॥२६॥</l>
</lg>
<pb n="287" />
<p>अष्टादशोऽध्यायः ।</p>
<p>सर्वकर्माण्यपि प्रतिषिद्धान्यपि सदा कुर्वाणः अनुतिष्ठन्
मद्वयपाश्रयः अहं वासुदेव: ईश्वरः व्यपाश्रयो व्यपाश्रयणं
यस्य सः मद्वयपाश्रयः मय्यर्पित सर्वभावः इत्यर्थः । सोऽपि
मत्प्रसादात् मम ईश्वरस्य प्रसादात् अवाप्नोति शाश्वतं नित्यं
वैष्णवं पदम् अव्ययम् !!
यस्मात् एवम्-</p>
<lg>
  <l>चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।</l>
  <l>वुद्धियोगमपाश्रित्य मच्चित्तः सततं भव ॥५७॥</l>
</lg>
<p>चेतसा विवेकबुद्धया सर्वकर्माणि दृष्टादृष्टार्थानि मय
ईश्वरे संन्यस्य यत् करोषि यदश्नासि' इति उक्तन्यायेन,
मत्परः अहं वासुदेव: परो यस्य तव सः त्वं मत्परः सन्
मय्यर्पितसर्वात्मभावः बुद्धियोगं समाहितबुद्धित्वं बुद्धियोग:
तं बुद्धियोगम् अपाश्रित्य अपाश्रयः अनन्यशरणत्वं मच्चित्तः
मय्येव चित्तं यस्य तव सः त्वं मञ्चित्तः सततं सर्वदा
भवः ॥
मच्चित्तः सर्वदुर्गाणि
मत्प्रसादात्तरिष्यसि ।</p>
<pb n="288" />
<p>श्रीमद्भगवद्गीताभाष्ये
अथ चेत्त्वमहंकारा-
न श्रोष्यसि विनमयसि ॥ ५८ ॥
मच्चित्तः सर्वदुर्गाणि सर्वाणि दुस्तराणि संसारहेतुजा-
तानि मत्प्रसादात् तरिष्यसि अतिक्रमिष्यसि । अथ चेत्
यदि त्वं मदुक्तम् अहंकारात् 'पण्डितः अहम्' इति न
श्रोष्यसि न ग्रहीष्यसि ततः त्वं विनङ्गयसि विनाशं
गमिष्यसि ॥
'
इदं च त्वया न मन्तव्यम् ' स्वतन्त्रः अहम्, किमर्थं
परोक्तं करिष्यामि ?' इति —</p>
<lg>
  <l>यद्यहंकारमाश्रित्य</l>
  <l>न योत्स्य इति मन्यसे ।</l>
  <l>मिथ्यैष व्यवसायस्ते</l>
  <l>प्रकृतिस्त्वां नियोक्ष्यति ॥ ५९ ॥</l>
</lg>
<p>,
यदि चेत् त्वम् अहंकारम् आश्रित्य न योत्स्ये इति न
युद्धं करिष्यामि इति मन्यसे चिन्तयसि निश्चयं करोषि
मिथ्या एषः व्यवसाय: निश्चयः ते तव ; यस्मात् प्रकृति:
क्षत्रियस्वभावः त्वां नियोक्ष्यति ॥</p>
<pb n="289" />
<p>यस्माच्च-
-
अष्टादशोऽध्यायः ।</p>
<lg>
  <l>स्वभावजेन कौन्तेय</l>
  <l>निबद्धः स्वेन कर्मणा ।</l>
  <l>कर्तुं नेच्छसि यन्मोहा-</l>
  <l>त्करिष्यस्यवशोऽपि तत् ॥ ६० ॥</l>
</lg>
<p>स्वभावजेन शौर्यादिना यथोक्तेन कौन्तेय निबद्धः निश्व-
येन बद्ध: स्वेन आत्मीयेन कर्मणा कर्तुं न इच्छसि यत्
कर्म, मोहात् अविवेकतः करिष्यसि अवशोऽपि परवश एव
तत् कर्म ॥
यस्मात्-</p>
<lg>
  <l>ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।</l>
  <l>भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥</l>
</lg>
<p>ईश्वरः ईशनशील: नारायणः सर्वभूतानां सर्वप्राणिनां
हृद्देशे हृदयदेशे अर्जुन शुक्लान्तरात्मस्वभावः विशुद्धान्तः-
करण:- अहश्च कृष्णमहरर्जुनं च' इति दर्शनात्-
तिष्ठति स्थितिं लभते । तेषु सः कथं तिष्ठतीति,
.
. आह--
भ्रामयन् भ्रमणं कारयन् सर्वभूतानि यन्त्रारूढानि यन्त्राणि</p>
<pb n="290" />
<p>श्रीमद्भगवद्गीताभाष्ये
आरूढानि अधिष्ठितानि इव -- इति इवशब्दः अत्र द्रष्ट-
व्यः— यथा दारुकृतपुरुषादीनि यन्त्रारूढानि । मायया
च्छद्मना भ्रामयन् तिष्ठति इति संबन्धः ॥</p>
<lg>
  <l>तमेव शरणं गच्छ</l>
  <l>सर्वभावेन भारत ।</l>
  <l>तत्प्रसादात्परां शान्ति</l>
  <l>स्थानं प्राप्स्यसि शाश्वतम् ॥ ६२ ॥</l>
</lg>
<p>तमेव ईश्वरं शरणम् आश्रयं संसारार्तिहरणार्थं गच्छ
आश्रय सर्वभावेन सर्वात्मना हे भारत । ततः तत्प्रसादात्
ईश्वरानुग्रहात् परां प्रकृष्टां शान्तिम् उपरतिं स्थानं च मम
विष्णोः परमं पदं प्राप्स्यसि शाश्वतं नित्यम् ॥</p>
<lg>
  <l>इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।</l>
  <l>विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥</l>
</lg>
<p>इति एतत् ते तुभ्यं ज्ञानम् आख्यातं कथितं गुह्यात्
गोप्यात् गुह्यतरम् अतिशयेन गुह्यं रहस्यम् इत्यर्थः, मया
सर्वज्ञेन ईश्वरेण । विमृश्य विमर्शनम् आलोचनं कृत्वा
एतत् यथोक्तं शास्त्रम् अशेषेण समस्तं यथोक्तं च अर्थजातं
यथा. इच्छसि तथा कुरु ॥</p>
<pb n="291" />
<p>अष्टादशोऽध्यायः ।</p>
<p>भूयोऽपि मया उच्यमानं शृणु-</p>
<lg>
  <l>सर्वगुह्यतमं भूयः</l>
  <l>शृणु मे परमं वचः ।</l>
  <l>इष्टोऽसि मे दृढमिति</l>
  <l>ततो वक्ष्यामि ते हितम् ॥ ६४ ॥</l>
</lg>
<p>सर्वगुह्यतमं सर्वेभ्यः गुह्येभ्यः अत्यन्तगुह्यतमम् अत्यन्त-
रहस्यम्, उक्तमपि असकृत् भूयः पुनः शृणु मे मम परमं
प्रकृष्टं वचः वाक्यम् । न भयात् नापि अर्थकारणाद्वा
वक्ष्यामि ; किं तर्हि ? इष्टः प्रियः असि मे मम दृढम् अव्य-
भिचारेण इति कृत्वा ततः तेन कारणेन वक्ष्यामि कथ-
यिष्यामि ते तव हितं परमं ज्ञानप्राप्तिसाधनम्, तद्धि सर्व-
हितानां हिततमम् ॥
किं तत् इति, आह--</p>
<lg>
  <l>मन्मना भव मद्भक्तो</l>
  <l>मद्याजी मां नमस्कुरु ।</l>
  <l>मामेवैष्यसि सत्यं ते</l>
  <l>प्रतिजाने प्रियोऽसि मे ॥ ६५ ॥</l>
</lg>
<pb n="292" />
<p>श्रीमद्भगवद्गीताभाष्ये ·
मन्मनाः भव मच्चित्तः भव । मद्भक्तः भव मद्भजनो
भव । मद्याजी मद्यजनशीलो भव । मां नमस्कुरु नम-
स्कारम् अपि ममैव कुरु । तंत्र एवं वर्तमानः वासुदेवे
एव समर्पित साध्यसाधनप्रयोजनः मामेव एष्यसि आग-
मिष्यसि । सत्यं ते तव प्रतिजाने, सत्यां प्रतिज्ञां करोमि
एतस्मिन् वस्तुनि इत्यर्थः ; यतः प्रियः असि मे । एवं
भगवत: सत्यप्रतिज्ञत्वं बुद्ध्वा भगवद्भक्तेः अवश्यंभावि
मोक्षफलम् अवधार्य भगवच्छरणैकपरायणः भवेत् इति
वाक्यार्थः ॥
कर्मयोगनिष्ठायाः परमरहस्यम् ईश्वरशरणताम् उपसंहृत्य,
अथ इदानीं कर्मयोगनिष्ठाफलं सम्यग्दर्शनं सर्ववेदान्तसार-
विहितं वक्तव्यमिति आह-</p>
<lg>
  <l>सर्वधर्मान्परित्यज्य</l>
  <l>मामेकं शरणं व्रज ।</l>
  <l>अहं त्वा सर्वपापेभ्यो</l>
  <l>मोक्षयिष्यामि मा शुचः ॥ ६६ ॥</l>
</lg>
<p>सर्वधर्मान सर्वे च ते धर्माश्च सर्वधर्माः तान् — धर्मशब्दे-
न अत्र अधर्मोऽपि गृह्यते, नैष्कर्म्यस्य विवक्षितत्वात्, 'ना-</p>
<pb n="293" />
<p>अष्टादशोऽध्यायः ।</p>
<p>विरतो दुश्चरितात् ' ' त्यज धर्ममधर्म च' इत्यादिश्रुतिस्मृति-
भ्यः- सर्वधर्मान् परित्यज्य संन्यस्य सर्वकर्माणि इत्येतत् ।
माम् एकं सर्वात्मानं समं सर्वभूतस्थितम् ईश्वरम् अच्युतं
गर्भजन्मजरामरणवर्जितम् ' अहमेव ' इत्येवं शरणं व्रज, न
मत्तः अन्यत् अस्ति इति अवधारय इत्यर्थः । अहं त्वा त्वाम्
एवं निश्चितबुद्धिं सर्वपापेभ्यः सर्वधर्माधर्मबन्धनरूपेभ्यः मो-
यिष्यामि स्वात्मभावप्रकाशीकरणेन । उक्तं च ' नाशया-
म्यात्मभावस्थो ज्ञानदीपेन भास्वता' इति । अतः मा शुचः
शोकं मा कार्षीः इत्यर्थः ॥
'
अस्मिन्गीताशास्त्रे परमनिःश्रेयससाधनं निश्चितं किं
ज्ञानम्, कर्म वा, आहोस्वित् उभयम् ? इति । कुत: संशय: ?
यज्ज्ञात्वामृतमश्नुते' 'ततो मां तत्त्वतो ज्ञात्वा विशते तद-
नन्तरम्' इत्यादीनि वाक्यानि केवलाज्ज्ञानात् निःश्रेयसप्रा-
प्तिं दर्शयन्ति । 'कर्मण्येवाधिकारस्ते' 'कुरु कर्मैव' इत्येव-
मादीनि कर्मणामवश्यकर्तव्यतां दर्शयन्ति । एवं ज्ञानकर्मणोः
कर्तव्यत्वोपदेशात् समुच्चितयोरपि निःश्रेयसहेतुत्वं स्यात्
इति भवेत् संशयः कस्यचित् । किं पुनरत्र मीमांसाफलम् ?
ननु एतदेव - - एषामन्यतमस्य परमनिः श्रेयससाधनत्वावधा-
रणम; अत: विस्तीर्णतरं मीमांस्यम् एतत् ॥
S. B. 11. 18</p>
<pb n="294" />
<p>श्रीमद्भगवद्गीताभाष्ये
"
आत्मज्ञानस्य तु केवलस्य निःश्रेयसहेतुत्वम्, भेदंप्रत्य-
यनिवर्तकत्वेन कैवल्यफलावसायित्वात् । क्रियाकारक फलभे-
दबुद्धिः अविद्यया आत्मनि नित्यप्रवृत्ता -- 'मम कर्म, अहं
कर्ता मुष्मै फलायेदं कर्म करिष्यामि इति इयम् अविद्या
अनादिकालप्रवृत्ता । अस्या अविद्यायाः निवर्तकम् ' अयम-
हमस्मि केवलोऽकर्ता अक्रियोऽफलः; न मत्तोऽन्योऽस्ति क-
श्चित्' इत्येवंरूपम् आत्मविषयं ज्ञानम् उत्पद्यमानम्, कर्मप्रवृ-
त्तिहेतुभूतायाः भेदबुद्धेः निवर्तकत्वात् । तु-शब्दः पक्षव्या-
वृत्त्यर्थः —— न केवलेभ्यः कर्मभ्यः, न च ज्ञानकर्मभ्यां समु-
चिताभ्यां निःश्रेयसप्राप्तिः इति पक्षद्वयं निवर्तयति । अकार्य-
त्वाच्च निःश्रेयसस्य कर्मसाधनत्वानुपपत्तिः । न हि नित्यं वस्तु
कमर्णा ज्ञानेन वा क्रियते । केवलं ज्ञानमपि अनर्थकं तर्हि ?
न, अविद्यानिवर्तकत्वे सति दृष्टकैवल्यफलावसानत्वात् ।
अविद्यातमोनिवर्तकस्य ज्ञानस्य दृष्टं कैवल्यफलावसानत्वम्,
रज्ज्वादिविषये सर्पाद्यज्ञानतमोनिवर्तकप्रदीपप्रकाशफलवत् ।
विनिवृत्तसर्पादिविकल्परज्जुकैवल्यावसानं हि प्रकाशफलम् ;
तथा ज्ञानम् । दृष्टार्थानां च च्छिदिक्रियाग्निमन्थनादीनां
व्यापृतकर्त्रादिकारकाणां द्वैधीभावाभिदर्शनादिफलात् अन्यफले
कर्मान्तरे वा व्यापारानुपपत्तिः यथा, तथा दृष्टार्थायां ज्ञान-</p>
<pb n="295" />
<p>अष्टादशोऽध्यायः ।</p>
<p>निष्ठाक्रियायां व्याप्रतस्थ ज्ञात्रादिकारकस्य आत्मकैवल्यफलात्
कर्मान्तरे प्रवृत्तिः अनुपपन्ना इति न ज्ञाननिष्ठा कर्मसहिता
उपपद्यते । भुज्यग्निहोत्रादिक्रियावत्स्यात् इति चेत्, न; कैव-
ल्यफले ज्ञाने क्रियाफलार्थित्वानुपपत्तेः । कैवल्यफले हि ज्ञाने
प्राप्ते, सर्वतः संप्लुतोदकफले कूपतटाकादिक्रियाफलार्थित्वा-
भाववत्, फलान्तरे तत्साधनभूतायां वा क्रियायाम् अर्थि-
त्वानुपपत्तिः । न हि राज्यप्राप्तिफले कर्मणि व्यापृतस्य क्षेत्र-
मात्रप्राप्तिफले व्यापारः उपपद्यते, तद्विषयं वा अर्थित्वम् ।
तस्मात् न कर्मणोऽस्ति निःश्रेयससाधनत्वम् । न च ज्ञानक-
र्मणोः समुच्चितयोः । नापि ज्ञानस्य कैवल्यफलस्य कर्मसाहा-
य्यापेक्षा, अविद्यानिवर्तकत्वेन विरोधात् । न हि तमः तमसः
निवर्तकम् । अतः केवलमेव ज्ञानं निःश्रेयससाधनम् इति ।
न; नित्याकरणे प्रत्यवायप्राप्तेः कैवल्यस्य च नित्यत्वात् ।
यत् तावत् केवलाज्ज्ञानात् कैवल्यप्राप्तिः इत्येतत् तत्
असत्; यत: नित्यानां कर्मणां श्रुत्युक्तानाम् अकरणे प्रत्य-
वायः नरकादिप्राप्तिलक्षणः स्यात् । ननु एवं तर्हि कर्मभ्यो
मोक्षो नास्ति इति अनिर्मोक्ष एव । नैष दोष: ; नित्यत्वात्
मोक्षस्य । नित्यानां कर्मणाम् अनुष्ठानात् प्रत्यवायस्य
अप्राप्तिः, प्रतिषिद्धस्य च अकरणात् अनिष्टशरीरानुपपत्तिः,
',</p>
<pb n="296" />
<p>श्रीमद्भगवद्गीताभाष्ये
काम्यानां च वर्जनात् इष्टशरीरानुपपत्तिः, वर्तमानशरी-
रारम्भकस्य च कर्मण: फलोपभोगक्षये पतिते अस्मिन
शरीरे देहान्तरोत्पत्तौ च कारणाभावात् आत्मनः गंगा-
दीनां च अकरणे स्वरूपावस्थानमेव कैवल्यमिति अयन-
सिद्धं कैवल्यम् इति । अतिक्रान्तानेकजन्मान्तरकृतस्य स्वर्ग -
नरकादिप्राप्तिफलस्य अनारब्धकार्यस्य उपभोगानुपपत्तेः क्ष-
याभावः इति चेत्, न; नित्यकर्मानुष्ठानायासदुःखोपभो-
गस्य तत्फलोपभोगत्वोपपत्तेः । प्रायश्चित्तवद्वा पूर्वोपात्तदु-
रितक्षयार्थं नित्यं कर्म । आरब्धानां च कर्मणाम् उपभोगेनैव
क्षीणत्वात् अपूर्वाणां च कर्मणाम् अनारम्भे अयत्नसिद्धं
कैवल्यमिति । न ; ' तमेव विदित्वातिमृत्युमेति नान्यः
पन्था विद्यतेऽयनाय' इति विद्याया अन्यः पन्थाः मोक्षाय
न विद्यते इति श्रुतेः, चर्मवदाकाशवेष्टनासंभववत् अविदुषः
मोक्षासंभवश्रुतेः, ' ज्ञानात्कैवल्यमाप्नोति' इति च पुराण-
स्मृते: ; अनारब्धफलानां पुण्यानां कर्मणां क्षयानुपपत्तेश्च ।
यथा पूर्वोपात्तानां दुरितानाम् अनारब्धफलानां संभवः,
तथा पुण्यानाम् अनारब्धफलानां स्यात्संभवः । तेषां च
देहान्तरम् अकृत्वा क्षयानुपपत्तौ मोक्षानुपपत्तिः । धर्मा-
धर्महेतूनां च रागद्वेषमोहानाम् अन्यत्र आत्मज्ञानात् उच्छे-</p>
<pb n="297" />
<p>अष्टादशोऽध्यायः ।</p>
<p>दानुपपत्तेः धर्माधर्मोच्छेदानुपपत्तिः । नित्यानां च कर्मणां
पुण्यफलत्वश्रुतेः, 'वर्णा आश्रमाश्च स्वकर्मनिष्ठा:' इत्यादि-
स्मृतेश्च कर्मक्षयानुपपत्तिः ॥
ये तु आहु: - नित्यानि कर्माणि दुःखरूपत्वात् पूर्वकृ-
तदुरितकर्मणां फलमेव, न तु तेषां स्वरूपव्यतिरेकेण अन्यत्
फलम् अस्ति, अश्रुतत्वात्, जीवनादिनिमित्ते च विधानात्
इति । न, अप्रवृत्तानां कर्मणां फलदानासंभवात् ; दुःखफल-
' विशेषानुपपत्तिश्च स्यात् । यदुक्तं पूर्वजन्मकृतदुरितानां
कर्मणां फलं नित्यकर्मानुष्ठानायासदुःखं भुज्यत इति, तद-
सत् । न हि मरणकाले फलदानाय अनङ्कुरीभूतस्य कर्मणः
फलम् अन्यकर्मारब्धे जन्मनि उपभुज्यते इति उपपत्तिः ।
अन्यथा स्वर्गफलोपभोगाय अग्निहोत्रादिकर्मारब्धे जन्मनि
नरकफलोपभोगानुपपत्तिः न स्यात् । तस्य दुरितस्य दु:ख-
विशेषफलत्वानुपपत्तेश्च - अनेकेषु हि दुरितेषु संभवत्सु
भिन्नदुःखसाधनफलेषु नित्यकर्मानुष्ठानायासदुःखमात्र फलेषु
कल्प्यमानेषु द्वन्द्वरोगादिबाधनं निर्निमित्तं न हि शक्यते
कल्पयितुम्, नित्यकर्मानुष्ठानायास दुःखमेव पूर्वोपात्तदुरित-
फलं न शिरसा पाषाणवहनादिदुःखमिति । अप्रकृतं च
इदम् उच्यते— नित्यकर्मानुष्ठानायासदुःखं पूर्वकृतदुरित-</p>
<pb n="298" />
<p>श्रीमद्भगवद्गीताभाष्ये
।
कर्मफलम् इति । कथम् ? अप्रसूतफलस्य हि पूर्वकृतदुरितस्य
क्षय: न उपपद्यत इति प्रकृतम् । तत्र प्रसूतफलस्य कर्मण:
फलं नित्यकर्मानुष्ठानायासदुःखम् आह भवान्, न अप्रसूत-
फलस्येति । अथ सर्वमेव पूर्वकृतं दुरितं प्रसूतफलमेव इति
मन्यते भवान्, ततः नित्यकर्मानुष्ठानायासदुःखमेव फलम्
इति विशेषणम् अयुक्तम् । नित्यकर्मविध्यानर्थक्यप्रसङ्गश्व,
उपभोगेनैव प्रसूतफलस्य दुरितकर्मणः क्षयोपपत्तेः । किंच,
श्रुतस्य नित्यस्य कर्मणः दुःखं चेत् फलम्, नित्यकर्मानुष्ठाना-
यासादेव तत् दृश्यते व्यायामादिवत् ; तत् अन्यस्य इति
कल्पनानुपपत्तिः । जीवनादिनिमित्ते च विधानात्, नित्यानां
कर्मणां प्रायश्चित्तवत् पूर्वकृतदुरितफलत्वानुपपत्तिः । यस्मिन्
पापकर्मणि निमित्ते यत् विहितं प्रायश्चित्तम् न तु तस्य
पापस्य तत् फलम् । अथ तस्यैव पापस्य निमित्तस्य प्राय-
श्चित्तदुःखं फलम्, जीवनादिनिमित्तेऽपि नित्यकर्मानुष्ठाना-
यासदुःखं जीवनादिनिमित्तस्यैव फलं प्रसज्येत, नित्यप्राय-
श्चित्तयोः नैमित्तिकत्वाविशेषात् । किंच अन्यत् — नित्यस्य
काम्यस्य च अग्निहोत्रादेः अनुष्ठानायासदुःखस्य तुल्यत्वात्
नित्यानुष्ठानायासदुःखमेव पूर्वकृतदुरितस्य फलम्, न तु
काम्यानुष्ठानायासदुःखम् इति विशेषो नास्तीति तदपि पूर्व-</p>
<pb n="299" />
<p>अष्टादशोऽध्यायः ।</p>
<p>कृतदुरितफलं प्रसज्येत । तथा च सति नित्यानां फलाश्र-
वणात् तद्विधानान्यथानुपपत्तेश्च नित्यानुष्ठानायासदुःखं पूर्व-
कृतदुरितफलम् इति अर्थापत्तिकल्पना च अनुपपन्ना, एवं
विधानान्यथानुपपत्तेः अनुष्ठानायासदुःखव्यतिरिक्तफलत्वानु-
मानाच्च नित्यानाम् । विरोधाश्च; विरुद्धं च इदम् उच्यते-
नित्यकर्मणा अनुष्ठीयमानेन अन्यस्य कर्मणः फलं भुज्यते
इति अभ्युपगम्यमाने स एव उपभोगः नित्यस्य कर्मण: फल-
म् इति, नित्यस्य कर्मण: फलाभाव इति च विरुद्धम् उच्यते ।
किंच, काम्याग्निहोत्रादौ अनुष्ठीयमाने नित्यमपि अग्निहो-
त्रादि तन्त्रेणैव अनुष्ठितं भवतीति तदायासदुःखेनैव काम्या-
ग्निहोत्रादिफलम् उपक्षीणं स्यात्, तत्तन्त्रत्वात् । अथ काम्या-
ग्निहोत्रादिफलम् अन्यदेव स्वर्गादि, तदनुष्ठानायास दुःखमपि
भिन्नं प्रसज्येत । न च तदस्ति, दृष्टविरोधात् ; न हि का-
म्यानुष्ठानायासदुःखात् केवलनित्यानुष्ठानायासदुःखं भिन्नं
दृश्यते । किंच अन्यत् -- अविहितमप्रतिषिद्धं च कर्म
तत्कालफलम्, न तु शास्त्रचोदितं प्रतिषिद्धं वा तत्काल-
फलं भवेत् । तदा स्वर्गादिष्वपि अदृष्टफलाशासनेन उद्यमो
न स्यात् — अग्निहोत्रादीनामेव कर्मस्वरूपाविशेषे अनुष्ठाना-
यासदुःखमात्रेण उपक्षय: नित्यानाम् ; स्वर्गादिमहाफलत्वं</p>
<pb n="300" />
<p>श्रीमद्भगवद्गीताभाष्ये
काम्यानाम् ·
अङ्गेतिकर्तव्यताद्याधिक्ये तु असति, फलका-
मित्वमात्रेणेति । तस्माच्च न नित्यानां कर्मणाम् अदृष्टफला-
भावः कदाचिदपि उपपद्यते । अतश्च अविद्यापूर्वकस्य कर्मणः
विद्यैव शुभस्य अशुभस्य वा क्षयकारणम् अशेषत:, न
नित्यकर्मानुष्ठानम् । अविद्याकामवीजं हि सर्वमेव कर्म । तथा
च उपपादितमविद्वद्विषयं कर्म, विद्वद्विषया च सर्वकर्मसंन्या-
सपूर्विका ज्ञाननिष्ठा – 'उभौ तौ न विजानीत: ' ' वेदाविना-
शिनं नित्यम् ' ' ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्'
'अज्ञानां कर्मसङ्गिनाम् ' ' तत्त्ववित्तु महाबाहो .... गुणा गुणेषु
वर्तन्ते इति मत्वा न सज्जते ' ' सर्वकर्माणि मनसा संन्यस्या-
स्ते ' ' नैव किंचित् करोमीति युक्तो मन्येत तत्त्ववित्', अर्थात्
अज्ञः करोमि इति ; आरुरुक्षोः कर्म कारणम्, आरूढस्य
योगस्थस्य शम एव कारणम् ; उदाराः त्रयोऽपि अज्ञा:,
'ज्ञानी त्वात्मैव मे मतम् ' 'अज्ञाः कर्मिणः गतागतं काम-
कामा: लभन्ते' ; अनन्याश्चिन्तयन्तो मां नित्ययुक्ताः यथो-
क्तम् आत्मानम् आकाशकल्पम् उपासते; ' ददामि बुद्धि-
योगं तं येन मामुपयान्ति ते ', अर्थात् न कर्मिण: अज्ञा: उप-
यान्ति । भगवत्कर्मकारिणः ये युक्ततमा अपि कर्मिण: अज्ञा:,
ते उत्तरोत्तरहीनफलत्यागावसानसाधना:; अनिर्देश्याक्षरोपा-</p>
<pb n="301" />
<p>अष्टादशोऽध्यायः ।</p>
<p>सकास्तु 'अद्वेष्टा सर्वभूतानाम् ' इति आध्यायपरिसमाप्ति
उक्तसाधना: क्षेत्राध्यायाद्यध्यायत्रयोक्तज्ञानसाधनाश्च । अधि-
ष्ठानादिपञ्चकहेतुक सर्वकर्मसंन्यासिनां आत्मैकत्वाकर्तृत्वज्ञान-
वतां परस्यां ज्ञाननिष्ठायां वर्तमानानां भगवत्तत्त्वविदाम्
अनिष्टादिकर्मफलत्रयं परमहंसपरिव्राजकानामेव लब्धभगव-
त्स्वरूपात्मैकत्वशरणानां न भवति ; भवत्येव अन्येषामज्ञानां
कर्मिणामसंन्यासिनाम् इत्येषः गीताशास्त्रोक्तकर्तव्यार्थस्य
विभागः ॥
अविद्यापूर्वकत्वं सर्वस्य कर्मणः असिद्धमिति चेत्, न;
ब्रह्महत्यादिवत् । यद्यपि शास्त्रावगतं नित्यं कर्म, तथापि अवि-
द्यावत एव भवति । यथा प्रतिषेधशास्त्राव गतमपि ब्रह्महत्यादि-
लक्षणं कर्म अनर्थकारणम् अविद्याकामादिदोषवतः भवति,
अन्यथा प्रवृत्त्यनुपपत्तेः, तथा नित्यनैमित्तिककाम्यान्यपीति ।
देहव्यतिरिक्तात्मनि अज्ञाते प्रवृत्तिः नित्यादिकर्मसु अनुपपन्ना
इति चेत्, न; चलनात्मकस्य कर्मणः अनात्मकर्तृकस्य 'अहं
करोमि ' इति प्रवृत्तिदर्शनात् । देहादिसंघाते अहंप्रत्ययः गौणः,
न मिथ्या इति चेत्, न; तत्कार्येष्वपि गौणत्वोपपत्तेः ।
आत्मीये देहादिसंघाते अहंप्रत्ययः गौणः ; यथा आत्मीये
पुत्रे 'आत्मा वै पुत्रनामासि' इति,
लोके च
' मम प्राण</p>
<pb n="302" />
<p>i
श्रीमद्भगवद्गीताभाष्ये
एव अयं गौ: ' इति, तद्वत् । नैवायं मिध्याप्रत्ययः । मिथ्या-
त्ययस्तु स्थाणुपुरुषयोः अगृह्यमाणविशेषयोः । न गौणप्रत्ययस्य
मुख्यकार्यार्थता, अधिकरणस्तुत्यर्थत्वात् लुप्तोपमाशब्देन ।
यथा 'सिंहो देवदत्तः ' ' अग्निर्माणवक:' इति सिंह इव अ-
निरिव क्रौर्यपैङ्गल्यादिसामान्यवत्त्वात् देवदत्तमाणवकाधिकर-
णस्तुत्यर्थमेव, न तु सिंहकार्यम् अग्निकार्य वा गौणशब्दप्रत्य-
यनिमित्तं किंचित्साध्यते ; मिथ्याप्रत्ययकार्य तु अनर्थमनुभव-
ति इति । गौणप्रत्ययविषयं जानाति 'नैष सिंह: देवदत्तः ',
तथा 'नायमनिर्माणवक:' इति । तथा गौणेन देहादिसंघा-
तेन आत्मना कृतं कर्म न मुख्येन अहंप्रत्ययविषयेण आत्म-
ना कृतं स्यात् । न हि गौणसिंहाग्निभ्यां कृतं कर्म मुख्यसिं-
हाग्निभ्यां कृतं स्यात् । न च क्रौर्येण पैङ्गल्येन वा मुख्यसिं-
हाग्न्योः कार्यं किंचित् क्रियते, स्तुत्यर्थत्वेन उपक्षीणत्वात् ।
स्तूयमानौ च जानीत: 'न अहं सिंह: ' ' न अहम् अग्नि:' इति;
न हि ' सिंहस्य कर्म मम अमेश्व' इति । तथा 'न संघात-
स्य कर्म मम मुख्यस्य आत्मनः' इति प्रत्ययः युक्ततरः
स्यात्; न पुन:..' अहं कर्ता मम कर्म' इति । यच्च आहुः
'आत्मीयै: स्मृतीच्छा प्रयत्रैः कर्महेतुभिरात्मा कर्म करोति '
इति, न तेषां मिथ्याप्रत्ययपूर्वकत्वात् । मिथ्याप्रत्यय निमि-
.</p>
<pb n="303" />
<p>'अष्टादशोऽध्यायः ।</p>
<p>त्तेष्टानिष्टानुभूतक्रियाफलजनित संस्कारपूर्वकाः हि स्मृतीच्छा-
प्रयत्नादयः । यथा अस्मिन् जन्मनि देहादिसंघाताभिमानरा-
गद्वेषादिकृतौ धर्माधर्मौ तत्फलानुभवश्च तथा अतीते अती-
ततरेऽपि जन्मनि इति अनादिरविद्याकृतः संसारः अतीतो-
ऽनागतश्च अनुमेयः । ततश्च सर्वकर्मसंन्याससहितज्ञाननि- '
ष्ठया आत्यन्तिकः संसारोपरम इति सिद्धम् । अविद्यात्मक-
त्वाच्च देहाभिमानस्य, तन्निवृत्तौ देहानुपपत्तेः संसारानुप-
पत्तिः । देहादिसंघाते आत्माभिमानः अविद्यात्मकः । न हि
लोके ' गवादिभ्योऽन्योऽहम् मत्तश्चान्ये गवांदयः' इति
जानन् तान् 'अहम्' इति मन्यते कश्चित् । अजानंस्तु स्था-
णौ पुरुषविज्ञानवत् अविवेकतः देहादिसंघाते कुर्यात् ' अहम्' .
इति प्रत्ययम्, न विवेकतः जानन् । यस्तु आत्मा वै
पुत्र नामासि' इति पुत्रे अहंप्रत्ययः, स तु जन्यजनकसंबन्ध-
निमित्त: गौणः । गौणेन च आत्मना भोजनादिवत् परमा-
र्थकार्य न शक्यते कर्तुम्, गौणसिंहाग्निभ्यां मुख्यसिंहानि-
कार्यवत् ॥
".
'अदृष्टविषय चोदनाप्रामाण्यात् आत्मकर्तव्यं गौणैः देहेन्द्रि-
यात्मभिः क्रियत एव इति चेत्, न; अविद्याकृतात्मत्वात्ते-
षाम् । न च गौणाः आत्मानः देहेन्द्रियादयः; किं तर्हि ? मिथ्या-</p>
<pb n="304" />
<p>श्रीमद्भगवद्गीताभाष्ये
न
प्रत्ययेनैव अनात्मानः सन्तः आत्मत्वमापाद्यन्ते, तद्भावे भा-
वात्, तदभावे च अभावात् । अविवेकिनां हि अज्ञानकाले
बालानां दृश्यते ' दीर्घोऽहम् ' ' गौरोऽहम्' इति देहादिसं-
घाते अहंप्रत्ययः । न तु विवेकिनाम् ' अन्योऽहं देहादिसं-
घातात्' इति जानतां तत्काले देहादिसंघाते अहंप्रत्ययः भ-
वति । तस्मात् मिथ्याप्रत्ययाभावे अभावात् तत्कृत एव, न
गौणः । पृथग्गृह्यमाणविशेषसामान्ययोहिं सिंहदेवदत्तयोः
अग्निमाणवकयोर्वा गौणः प्रत्ययः शब्दप्रयोगो वा स्यात्,
अगृह्यमाणविशेषसामान्ययोः । यत्तु उक्तम् ' श्रुतिप्रामाण्यात्'
इति, तत् न ; तत्प्रामाण्यस्य अदृष्टविषयत्वात् । प्रत्यक्षादि-
प्रमाणानुपलब्धे हि विषये अग्निहोत्रादिसाध्यसाधनसंबन्धे
श्रुतेः प्रामाण्यम्, न प्रत्यक्षादिविषये, अदृष्टदर्शनार्थविषय-
त्वात् प्रामाण्यस्य । तस्मात् न दृष्टमिथ्याज्ञाननिमित्तस्य
अहंप्रत्ययस्य देहादिसंघाते गौणत्वं कल्पयितुं शक्यम् । न
हि श्रुतिशतमपि 'शीतोऽग्निरप्रकाशो वा' इति ब्रुवत् प्रामा-
ण्यमुपैति । यदि ब्रूयात् 'शीतोऽग्निरप्रकाशो वा' इति, तथा-
पि अर्थान्तरं श्रुतेः विवक्षितं कल्प्यम्, प्रामाण्यान्यथानुपप-
त्तेः, न तु प्रमाणान्तरविरुद्धं स्ववचनविरुद्धं वा । कर्मण: मि-
ध्याप्रत्ययवत्कर्तृकत्वात् कर्तुरभावे श्रुतेरप्रामाण्यमिति चेत्,
.</p>
<pb n="305" />
<p>अष्टादशोऽध्यायः ।</p>
<p>न; ब्रह्मविद्यायामर्थवत्त्वोपपत्तेः ॥
कर्मविधिश्रुतिवत् ब्रह्मविद्याविधिश्रुतेरपि अप्रामाण्यप्रसङ्ग
इति चेत्, न; बाधकप्रत्ययानुपपत्तेः । यथा ब्रह्मविद्याविधि -
श्रुत्या आत्मनि अवगते देहादिसंघाते अहंप्रत्ययः बाध्यते,
तथा आत्मन्येव आत्मावगतिः न कदाचित् केनचित् कथं-
चिदपि बाधितुं शक्या, फलाव्यतिरेकादवगतेः, यथा अग्निः
उष्णः प्रकाशश्च इति । न च एवं कर्मविधिश्रुतेरप्रामाण्यम्,
पूर्व पूर्व प्रवृत्तिनिरोधेन उत्तरोत्तरापूर्वप्रवृत्तिजननस्य प्रत्यगात्मा-
भिमुख्येन प्रवृत्त्युत्पादनार्थत्वात् । मिथ्यात्वेऽपि उपायस्य उपे-
यसत्यतया सत्यत्वमेव स्यात्, यथा अर्थवादानां विधिशे-
षाणाम्; लोकेऽपि बालोन्मत्तादीनां पयआदौ पाययितव्ये
चूडावर्धनादिवचनम् । प्रकारान्तरस्थानां च साक्षादेव वा
प्रामाण्यं सिद्धम्, प्रागात्मज्ञानात् देहाभिमाननिमित्तप्रत्य-
क्षादिप्रामाण्यवत् । यत्तु मन्यसे — स्वयमव्याप्रियमाणोऽपि
आत्मा संनिधिमात्रेण करोति, तदेव मुख्यं कर्तृत्वमात्मन: ;
यथा राजा युध्यमानेषु योधेषु युध्यत इति प्रसिद्धं स्वयमयु-
ध्यमानोऽपि संनिधानादेव जितः पराजितश्चेति, तथा सेना-
पति: वाचैव करोति ; क्रियाफलसंवन्धश्च राज्ञः सेनापतेश्च
दृष्टः । यथा च ऋत्विक्कर्म यजमानस्य, तथा देहादीनां कर्म</p>
<pb n="306" />
<p>श्रीमद्भगवद्गीताभाष्ये
आत्मकृतं स्यात्, फलस्य आत्मगामित्वात् । यथा वा भ्राम-
कस्य लोहभ्रामयितृत्वात् अव्यापृतस्यैव मुख्यमेव कर्तृत्वम्,
तथा च आत्मनः इति । तत् असत्; अकुर्वतः कारकत्वप्रस-
ङ्गात्। कारकमनेकप्रकारमिति चेत्, न ; राजप्रभृतीनां मुख्य-
स्यापि कर्तृत्वस्य दर्शनात् । राजा तावत् स्वव्यापारेणापि
युध्यते ; योधानां च योधयितृत्वे धनदाने च मुख्यमेव कर्तृ-
त्वम्, तथा जयपराजयफलोपभोगे । यजमानस्यापि प्रधा-
नत्यागे दक्षिणादाने च मुख्यमेव कर्तृत्वम् । तस्मात् अव्या-
प्रतस्य कर्तृत्वोपचारो यः, सः गौणः इति अवगम्यते ।
यदि मुख्यं कर्तृत्वं स्वव्यापारलक्षणं नोपलभ्यते राजय-
जमानप्रभृतीनाम्, तदा संनिधिमात्रेणापि कर्तृत्वं मुख्यं
परिकल्प्येत ; यथा भ्रामकस्य लोहभ्रमणेन, न तथा राजय-
जमानादीनां स्वव्यापार नोपलभ्यते । तस्मात् संनिधिमात्रेण.
कर्तृत्वं गौणमेव । तथा च सति तत्फलसंबन्धोऽपि गौण
एव स्यात् । न गौणेन मुख्यं कार्यं निर्वर्त्यते । तस्मात्
असदेव एतत् गीयते ' देहादीनां व्यापारेण अव्यापृतः
आत्मा कर्ता भोक्ता च स्यात्' इति । भ्रान्तिनिमित्तं तु
सर्वम् उपपद्यते, यथा स्वप्ने ; मायायां च एवम् । न च
'देहाद्यात्मप्रत्यय भ्रान्तिसंतान विच्छेदेषु सुषुप्तिसमाध्यादिषु क-</p>
<pb n="307" />
<p>अष्टादशोऽध्यायः ।</p>
<p>र्तृत्वभोक्तृत्वाद्यनर्थः उपलभ्यते । तस्मात् भ्रान्तिप्रत्ययनि-
मित्तः एव अयं संसारभ्रमः, न तु परमार्थः ; इति सम्यग्द-
र्शनात् अत्यन्त एवोपरम इति सिद्धम् ॥
सर्व गीताशास्त्रार्थमुपसंहृत्य अस्मिन्नध्याये, विशेषतश्च
अन्ते, इह शास्त्रार्थदाय संक्षेपतः उपसंहारं कृत्वा, अथ
इदानीं शास्त्रसंप्रदाय विधिमाह -</p>
<lg>
  <l>इदं ते नातपस्काय</l>
  <l>नाभक्ताय कदाचन ।</l>
  <l>न चाशुश्रूषवे वाच्यं</l>
  <l>न च मां योऽभ्यसूयति ॥ ६७ ॥</l>
</lg>
<p>इदं शास्त्रं ते तत्र हिताय मया उक्तं संसारविच्छित्तये
अतपस्काय तपोरहिताय न वाच्यम् इति व्यवहितेन संब-
ध्यते । तपस्विनेऽपि अभक्ताय गुरौ देवे च भक्तिरहिताय
कदाचन कस्यांचिदपि अवस्थायां न वाच्यम् । भक्तः तपस्वी
अपि सन् अशुश्रूषुः यो भवति तस्मै अपि न वाच्यम् ।
न च यो मां वासुदेवं प्राकृतं मनुष्यं मत्वा अभ्यसूयति
आत्मप्रशंसादिदोषाध्यारोपणेन ईश्वरत्वं मम अजानन् न
सहते, असावपि अयोग्यः, तस्मै अपि न वाच्यम् । भग-</p>
<pb n="308" />
<p>श्रीमद्भगवद्गीताभाष्ये
वति अनसूयायुक्ताय तपखिने भक्ताय शुश्रूषवे वाच्यं
शास्त्रम् इति सामर्थ्यात् गम्यते । तत्र ' मेधाविने तपस्विने
वा' इति अनयोः विकल्पदर्शनात् शुश्रूषाभक्तियुक्ताय तप-
स्विने तद्युक्ताय मेधाविने वा वाच्यम् । शुश्रूषाभक्तिवियु-
क्ताय न तपस्विने नापि मेधाविने वाच्यम् । भगवति असू-
यायुक्ताय समस्तगुणवतेऽपि न वाच्यम् । गुरुशुश्रूषाभक्ति-
मते च वाच्यम् इत्येषः शास्त्रसंप्रदायविधिः ॥
संप्रदायस्य कर्तुः फलम् इदानीम् आह-</p>
<lg>
  <l>य इमं परमं गुह्यं</l>
  <l>मद्भक्तेष्वभिधास्यति ।</l>
  <l>भक्तिं मयि परां कृत्वा</l>
  <l>मामेवैष्यत्यसंशयः ॥ ६८ ॥</l>
</lg>
<p>यः इमं यथोक्तं परमं परमनिःश्रेयसार्थं केशवार्जुनयो:
संवादरूपं प्रन्थं गुह्यं गोप्यतमं मद्भक्तेषु मयि भक्तिमत्सु
अभिधास्यति वक्ष्यति, ग्रन्थत: अर्थतश्च स्थापयिष्यती-
त्यर्थः, यथा त्वयि मया । भक्तेः पुनर्ग्रहणात् भक्तिमात्रेण
केवलेन शास्त्रसंप्रदाने पात्रं भवतीति गम्यते । कथम्
अभिधास्यति इति उच्यते-- भक्तिं मयि परां कृत्वा</p>
<pb n="309" />
<p>अष्टादशोऽध्यायः ।</p>
<p>'भगवतः परमगुरो: अच्युतस्य शुश्रूषा मया क्रियते' इत्येवं
कृत्वेत्यर्थः । तस्य इदं फलम् -- मामेव एष्यति मुच्यते
एव । असंशयः अत्र संशयः न कर्तव्यः ॥
किंच—</p>
<lg>
  <l>न च तस्मान्मनुष्येषु</l>
  <l>कश्चिन्मे प्रियकृत्तमः ।</l>
  <l>भविता न च मे तस्मा-</l>
  <l>दन्यः प्रियतरो भुवि ॥ ६९ ॥</l>
</lg>
<p>न च तस्मात् शास्त्रसंप्रदायकृतः मनुष्येषु मनुष्याणां
मध्ये कश्चित् मे मम प्रियकृत्तमः अतिशयेन प्रियकरः,
अन्यः प्रियकृत्तमः, नास्त्येव इत्यर्थः वर्तमानेषु । न च
भविता भविष्यत्यपि काले तस्मात् द्वितीयः अन्यः प्रिय-
तरः प्रियकृत्तरः भुवि लोकेऽस्मिन् न भविता ॥
योऽपि—
अध्येष्यते च य इमं
धर्म्यं संवादमावयोः ।
S. B. II. 19</p>
<pb n="310" />
<p>श्रीमद्भगवद्गीताभाष्ये
ज्ञानयज्ञेन तेनाह-
मिष्टः स्यामिति मे मतिः ॥ ७० ॥
अध्येष्यते च पठिष्यति यः इमं धर्म्य धर्मादनपेतं
संवादरूपं ग्रन्थं आवयोः, तेन इदं कृतं स्यात् । ज्ञानय-
ज्ञेन - विधिजपोपांशुमानसानां यज्ञानां ज्ञानयज्ञः मान-
सत्वात् विशिष्टतमः इत्यतः तेन ज्ञानयज्ञेन गीताशास्त्रस्य
अध्ययनं स्तूयते ; फलविधिरेव वा देवतादिविषयज्ञानयज्ञ-
फलतुल्यम् अस्य फलं भवतीति- तेन अध्ययनेन अहम्
इष्टः पूजितः स्यां भवेयम् इति मे मम मतिः निश्चयः ॥
अथ श्रोतुः इदं फलम् -
-</p>
<lg>
  <l>श्रद्धावाननसूयश्च</l>
  <l>शृणुयादपि यो नरः ।</l>
  <l>सोऽपि मुक्तः शुभाँल्लोका-</l>
  <l>न्प्राप्नुयात्पुण्यकर्मणाम् ॥ ७१ ॥</l>
</lg>
<p>श्रद्धावान् श्रद्दधानः अनसूयश्च असूयावर्जितः सन् इमं
ग्रन्थं शृणुयादपि यो नरः, अपिशब्दात् किमुत अर्थज्ञान-</p>
<pb n="311" />
<p>,
अष्टादशोऽध्यायः ।</p>
<p>वान् सोऽपि पापात् मुक्तः शुभान् प्रशस्तान् लोकान्
प्राप्नुयात् पुण्यकर्मणाम् अग्निहोत्रादिकर्मवताम् ॥
शिष्यस्य शास्त्रार्थग्रहणाग्रहणविवेकबुभुत्सया पृच्छति ।
तदग्रहणे ज्ञाते पुनः ग्राहयिष्यामि उपायान्तरेणापि इति प्रष्टुः
अभिप्रायः । यन्नान्तरं च आस्थाय शिष्यस्य कृतार्थता
कर्तव्या इति आचार्यधर्मः प्रदर्शितो भवति—</p>
<lg>
  <l>कच्चिदेतच्छ्रुतं पार्थ</l>
  <l>त्वयैकाग्रेण चेतसा ।</l>
  <l>कच्चिदज्ञानसंमोहः</l>
  <l>प्रणष्टस्ते धनंजय ॥ ७२ ॥</l>
</lg>
<p>कच्चित् किम् एतत् मया उक्तं श्रुतं श्रवणेन अवधारितं
पार्थ, त्वया एकाग्रेण चेतसा चित्तेन ? किं वा अप्रमादतः ?
कश्चित् अज्ञानसंमोहः अज्ञाननिमित्त: संमोह: अविवि-
क्तभावः अविवेकः स्वाभाविकः किं प्रणष्टः ? यदर्थः अयं
शास्त्रश्रवणायासः तत्र, मम च उपदेष्टृत्वायासः प्रवृत्तः,
ते तुभ्यं हे धनंजय ॥
.</p>
<pb n="312" />
<p>अर्जुन उवाच-
श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>नष्टो मोहः स्मृतिर्लब्धा</l>
  <l>त्वत्प्रसादान्मयाच्युत ।</l>
  <l>स्थितोऽस्मि गतसंदेह:</l>
  <l>करिष्ये वचनं तव ॥ ७३ ॥</l>
</lg>
<p>नष्टः मोह: अज्ञानजः समस्त संसारानर्थहेतु:, सागर
इव दुरुत्तरः । स्मृतिश्च आत्मतत्त्वविषया लब्धा, यस्याः
लाभात् सर्वहृदयग्रन्थीनां विप्रमोक्षः; त्वत्प्रसादात् तव
प्रसादात् मया त्वत्प्रसादम् आश्रितेन अच्युत । अनेन
मोहनाशप्रश्नप्रतिवचनेन सर्वशास्त्रार्थज्ञानफलम् एतावदेवेति
निश्चितं दर्शितं भवति, यतः ज्ञानात् मोहनाश: आत्म-
स्मृतिलाभश्चेति । तथा च श्रुतौ 'अनात्मवित् शोचामि '
इति उपन्यस्य आत्मज्ञानेन सर्वग्नन्थीनां विप्रमोक्षः उक्तः ;
' भिद्यते हृदयग्रन्थिः ' ' तत्र को मोहः कः शोकः एकत्व-
मनुपश्यत:' इति च मन्त्रवर्ण: । अथ इदानीं त्वच्छासने
स्थितः अस्मि गतसंदेह: मुक्तसंशयः । करिष्ये वचनं तव ।
अहं त्वत्प्रसादात् कृतार्थः, न मे कर्तव्यम् अस्ति इत्यभि-
प्रायः ॥
।</p>
<pb n="313" />
<p>अष्टादशोऽध्यायः ।</p>
<p>परिसमाप्रः शास्त्रार्थः । अथ इदानीं कथासंबन्धप्र-
दर्शनार्थं संजयः उवाच --
संजय उवाच -</p>
<lg>
  <l>इत्यहं वासुदेवस्य</l>
  <l>पार्थस्य च महात्मनः ।</l>
  <l>संवादमिममश्रौष-</l>
  <l>मद्भुतं रोमहर्षणम् ॥ ७४ ॥</l>
</lg>
<p>इति एवम् अहं वासुदेवस्य पार्थस्य च महात्मन:
संवादम् इमं यथोक्तम् अश्रौषं श्रुतवान् अस्मि अद्भुतम्
अत्यन्तविस्मयकरं रोमहर्षणं रोमाञ्चकरम् ॥
तं च इमम्--</p>
<lg>
  <l>व्यासप्रसादाच्छ्रुतवा-</l>
  <l>निमं गुह्यतमं परम् ।</l>
  <l>योगं योगेश्वरात्कृष्णा-</l>
  <l>त्साक्षात्कथयतः स्वयम् ॥ ७५ ॥</l>
</lg>
<pb n="314" />
<p>श्रीमद्भगवद्गीताभाष्ये
व्यांसप्रसादात् तत: दिव्यचक्षुर्लाभात् श्रुतवान् इमं
संवादं गुह्यतमं परं योगम्, योगार्थत्वात् ग्रन्थोऽपि योगः,
संवादम् इमं योगमेव वा योगेश्वरात् कृष्णात् साक्षात्
कथयतः स्वयम्, न परम्परया ॥</p>
<lg>
  <l>राजन् संस्मृत्य संस्मृत्य</l>
  <l>संवादमिममद्भुतम् ।</l>
  <l>केशवार्जुनयोः पुण्यं</l>
  <l>हृष्यामि च मुहुर्मुहुः ॥ ७३ ॥</l>
</lg>
<p>हे राजन् धृतराष्ट्र, संस्मृत्य संस्मृत्य प्रतिक्षणं संवादम्
इमम् अद्भुतं केशवार्जुनयो: पुण्यम् इमं श्रवणेनापि पापहरं
श्रुत्वा हृष्यामि च मुहुर्मुहुः प्रतिक्षणम् ॥</p>
<lg>
  <l>तच्च संस्मृत्य संस्मृत्य</l>
  <l>रूपमत्यद्भुतं हरेः ।</l>
  <l>विस्मयो मे महान्राजन्</l>
  <l>हृष्यामि च पुनः पुनः ॥ ७७ ॥</l>
</lg>
<pb n="315" />
<p>अष्टादशोऽध्यायः ।</p>
<p>तत्र संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः विश्वरूपं वि-
स्मयो मे महान् राजन्, हृष्यामि च पुनः पुनः ॥
किंबहुना -</p>
<lg>
  <l>यत्र योगेश्वरः कृष्णो</l>
  <l>यत्र पार्थो धनुर्धरः ।</l>
  <l>तत्र श्रीर्विजयो भूति-</l>
  <l>ध्रुवा नीतिर्मतिर्मम ॥ ७८ ॥</l>
</lg>
<p>इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे
मोक्षयोगो नाम
अष्टादशोऽध्यायः ॥
यत्र यस्मिन् पक्षे योगेश्वरः सर्वयोगानाम् ईश्वरः, तत्प्र-
भवत्वात् सर्वयोगबीजस्य, कृष्णः, यत्र पार्थः यस्मिन्</p>
<pb n="316" />
<p>श्रीमद्भगवद्गीताभाष्ये
पक्षे धनुर्धरः गाण्डीवधन्वा, तत्र श्रीः तस्मिन् पाण्डवानां
पक्षे श्रीः विजयः, तत्रैव भूतिः श्रियो विशेषः विस्तारः
भूतिः, ध्रुवा अव्यभिचारिणी नीतिः नय:, इत्येवं मतिः
मम इति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
अष्टादशोऽध्यायः ॥
॥ श्रीमद्भगवद्गीताशास्त्रं संपूर्णम् ॥</p>
<pb n="317" />
<p>s. B. II. 19½
AAAAAIRIAAAAA.
11
श्लोकानुक्रमणिका
॥ । ॥
॥</p>
<pb n="318" />
<pb n="319" />
<p>॥ श्रीः ॥
॥ श्लोकानुक्रमणिका ॥
पृष्ठम्
पृष्ठम्
अ
अथ व्यवस्थितान्दृष्ट्वा</p>
<p>अकीर्ति चापि भूतानि</p>
<p>अथैतदप्यशक्तोऽसि</p>
<p>अक्षरं ब्रह्म परमम्.</p>
<p>अदृष्टपूर्व हृषितोऽस्मि</p>
<p>अक्षराणामकारोऽस्मि</p>
<p>अदेशकाले यद्दानं</p>
<p>अग्निर्ज्योतिरहः शुक्लः</p>
<p>अद्वेष्टा सर्वभूतानां</p>
<p>अच्छेद्येोऽयमदाह्योऽयम्</p>
<p>अधर्म धर्ममिति या</p>
<p>अजोऽपि सन्नव्ययात्मा
११४ अधर्माभिभवात्कृष्ण</p>
<p>अज्ञश्वाश्रद्दधानश्च</p>
<p>अधश्चोर्ध्व प्रसृतास्तस्य</p>
<p>अत्र शूरा महेष्वासाः</p>
<p>अधिभूतं क्षरो भावः</p>
<p>अथ केन प्रयुक्तोऽयं</p>
<p>अधियज्ञः कथं कोऽत्र</p>
<p>अथ चित्तं समाधातुं</p>
<p>अधिष्ठानं तथा कर्ता</p>
<p>अथ चेत्वमिमं धर्म्य</p>
<p>अध्यात्मज्ञाननित्यत्वं</p>
<p>अथ चैनं नित्यजातं</p>
<p>अध्येष्यते च य इमं</p>
<p>अथवा योगिनामेव</p>
<p>अनन्तविजयं राजा
अथवा बहुनैतेन</p>
<p>अनन्तश्चास्मि नागानां</p>
<pb n="320" />
<p>श्रीमद्भगवद्गीता
पृष्टम्
पृष्ठम्
अनन्यचेताः सततं</p>
<p>अपर्याप्तं तदस्माकं
अनन्याश्चिन्तयन्तो मां</p>
<p>अपाने जुह्वति प्राणं</p>
<p>अनपेक्षः शुचिर्दक्षः</p>
<p>अपि चेत्सुदुराचारो</p>
<p>अनादित्वान्निर्गुणत्वात् ४०५
अपि चेदसि पपेभ्यः</p>
<p>अनादिमध्यान्तमनन्त ०</p>
<p>अप्रकाशोऽप्रवृत्तिश्च</p>
<p>अनाश्रितः कर्मफलं
१८२ अफलाकाङ्क्षिभिर्यज्ञो</p>
<p>अनिष्टमिष्टं मिश्रं च</p>
<p>अभयं सत्त्वसंशुद्धिः</p>
<p>अनुद्वेगकरं वाक्यं</p>
<p>अभिसंधाय तु फलं</p>
<p>अनुबन्धं क्षयं हिंसां
५११ अभ्यासयोगयुक्तेन</p>
<p>अनेक चित्तविभ्रान्ताः</p>
<p>अभ्यासेऽप्यसमर्थोऽसि</p>
<p>अनेकवाहूदरवक्त्रनेत्रं</p>
<p>अमानित्वमदम्भित्वं</p>
<p>अनेकवक्त्रनयनं</p>
<p>अमी च त्वां धृतराष्ट्रस्य</p>
<p>अन्तकाले च मामेव</p>
<p>अमी हि त्वां सुरसंघाः</p>
<p>अन्तवत्तु फलं तेषां</p>
<p>अयतिः श्रद्धयोपेतो</p>
<p>अन्तवन्त इमे देहाः</p>
<p>अयनेषु च सर्वेषु
अन्नाद्भवन्ति भूतानि
अन्ये च बहवः शूराः</p>
<p>अयुक्तः प्राकृतः स्तब्धः ५१३
अवजानन्ति मां मूढाः</p>
<note>२६.१</note>
<p>अन्ये त्वेवमजानन्तः</p>
<p>अवाच्यवादांश्च बहून्</p>
<p>अपरं भवतो जन्म</p>
<p>अविनाशि तु तद्विद्धि</p>
<p>अपरे नियताहाराः</p>
<p>अविभक्तं च भूतेषु</p>
<p>अपरेयमितस्त्वन्यां
२१५ अव्यक्तं व्यक्तिमापन्नं</p>
<pb n="321" />
<p>श्लोकानुक्रमणिका ।</p>
<p>पृष्टम्
पृष्टम्
अव्यक्तादीनि भूतानि
अव्यक्ताव्यक्तयः सर्वाः</p>
<p>अहं हि सर्वयज्ञानां</p>
<p>अहमात्मा गुडाकेश</p>
<p>अव्यक्तोऽक्षर इत्युक्तः</p>
<p>अहिंसा सत्यमक्रोधः</p>
<p>अव्यक्तोऽयमचिन्त्यो
४१ अहिंसा समता तुष्टिः</p>
<p>अशास्त्रविहितं घोरं
४७२ अहो बत महत्पापं</p>
<p>अशोच्यानन्वशोचस्त्वं</p>
<p>आ
अश्रद्दधानाः पुरुषाः</p>
<p>अश्रद्धया हुतं दत्तं</p>
<p>आख्याहि मे को भवान् ३१९
आचार्याः पितरः पुत्राः १०
अश्वत्थः सर्ववृक्षाणां</p>
<p>आढ्योऽभिजनवानस्मि ४६०
असंयतात्मना योगो</p>
<p>आत्मसंभाविताः स्त०</p>
<p>असंशयं महाबाहो</p>
<p>आत्मौपम्येन सर्वत्र</p>
<p>असक्तबुद्धिः सर्वत्र</p>
<p>आदित्यानामहं विष्णुः</p>
<p>असक्तिरनभिष्वङ्गः
३७७ आपूर्यमाणमचल०</p>
<p>असत्यमप्रतिष्ठं ते</p>
<p>आ ब्रह्मभुवनाल्लोकाः</p>
<p>असौ मया हतः शत्रुः</p>
<p>आयुधानामहं वज्रं</p>
<p>अस्माकं तु विशिष्टा ये
अहंकारं बलं दर्प</p>
<p>आयुः सत्त्वबलारोग्य •</p>
<p>आरुरुक्षोर्मुनेर्योगं</p>
<p>"
"
"
५३८ आवृतं ज्ञानमेतेन</p>
<p>अहं क्रतुरहं यज्ञः
२६४ आशापाशशतैर्बद्धाः</p>
<p>अहं वैश्वानरो भूत्वा
अहं सर्वस्य प्रभवो
४४२ आश्चर्यवत्पश्यति</p>
<p>२८३ आसुरी योनिमापन्नाः</p>
<pb n="322" />
<p>श्रीमद्भगवद्गीता
पृष्ठम्
पृष्ठम्
आहारस्त्वपि सर्वस्य</p>
<p>इष्टान्भोगान्हि</p>
<p>आहुस्त्वामृषयः सर्वे</p>
<p>इहैकस्थं जगत्कृत्स्नं</p>
<p>इ
इहैव तैर्जितः स्वर्गः</p>
<p>इच्छा द्वेषः सुखं</p>
<p>ई
इच्छाद्वेषसमुत्थेन
२२७ ईश्वरः सर्वभूतानां</p>
<p>इति गुह्यतमं शास्त्रं</p>
<p>उ
इति ते ज्ञानमाख्यातं</p>
<p>उच्चैःश्रवसमश्वानां</p>
<p>इति क्षेत्रं तथा ज्ञानं</p>
<p>उत्क्रामन्तं स्थितं वापि</p>
<p>इत्यर्जुनं वासुदेवः</p>
<p>उत्तमः पुरुषस्त्वन्यः</p>
<p>इत्यहं वासुदेवस्य
५६९ उत्सन्नकुलधर्माणां</p>
<p>इदं तु ते गुह्यतमं
२५३ उत्सीदेयुरिमे लोकाः</p>
<p>इदं ते नातपस्काय
५६३ उदाराः सर्व एवैते</p>
<p>इदं शरीरं कौन्तेय
३५८ उदासीनवदासीनः</p>
<p>इदं ज्ञानमुपाश्रित्य</p>
<p>उद्धरेदात्मनात्मानं</p>
<p>इदमद्य मया लब्धं</p>
<p>उपद्रष्टानुमन्ता च</p>
<p>इन्द्रियस्येन्द्रियस्यार्थे</p>
<p>ऊ
इन्द्रियाणां हि चरतां</p>
<p>ऊर्ध्वं गच्छन्ति सत्त्व ०</p>
<p>इन्द्रियाणि पराण्याहुः</p>
<p>ऊर्ध्वमूलमधः शाखं</p>
<p>इन्द्रियाणि मनो बुद्धिः</p>
<p>ऋ
इन्द्रियार्थेषु वैराग्यं</p>
<p>ऋषिभिर्बहुधा गीतं</p>
<p>इमं विवस्वते योगं</p>
<p>ए</p>
<pb n="323" />
<p>श्लोकानुक्रमणिका ।</p>
<p>पृष्ठम्
पृष्ठम्
एतच्छ्रुत्वा
वचनं केश०</p>
<p>ओ
एतद्योनीनि भूतानि</p>
<p>ओमित्येकाक्षरं ब्रह्म</p>
<p>एतन्मे संशयं कृष्ण
مان</p>
<p>एतां दृष्टिमवष्टभ्य</p>
<p>ॐ तत्सदिति निर्देशो</p>
<p>एतां विभूतिं योगं च</p>
<p>क
एतान्न हन्तुमिच्छामि
१० कच्चिदेतच्छुतं पार्थ</p>
<p>एतान्यपि तु कर्माणि</p>
<p>कच्चिन्नोभयविभ्रष्टः</p>
<p>एतैर्विमुक्तः कौन्तेय
:</p>
<p>कट्वम्ललवणात्युष्ण •</p>
<p>एवं परम्पराप्राप्तं</p>
<p>कथं न ज्ञेयमस्माभिः</p>
<p>एवं प्रवर्तितं चक्रं</p>
<p>कथं भीष्ममहं संख्ये</p>
<p>एवं बहुविधा यज्ञाः</p>
<p>कथं विद्यामहं योगिन्</p>
<p>एवं बुद्धेः परं बुद्धा</p>
<p>कर्मजं बुद्धियुक्ता हि</p>
<p>एवं सततयुक्ता ये</p>
<p>कर्मणः सुकृतस्याहुः</p>
<p>एवं ज्ञात्वा कृतं कर्म</p>
<p>कर्मणैव हि संसिद्धिं</p>
<p>एवमुक्तो हृषीकेशः</p>
<p>कर्मणो ह्यपि बोद्धव्यं</p>
<p>एवमुक्त्वा ततो राजन्</p>
<p>कर्मण्यकर्म यः पश्येत्</p>
<p>एवमुक्त्वार्जुनः संख्ये</p>
<p>कर्मण्येवाधिकारस्ते</p>
<p>एवमुक्त्वा हृषीकेशं</p>
<p>कर्म ब्रह्मोद्भवं विद्धि</p>
<p>एवमेतद्यथात्थ त्वं</p>
<p>कर्मेन्द्रियाणि संयम्य</p>
<p>एषा तेऽभिहिता सांख्ये</p>
<p>कर्शयन्तः शरीरस्थं</p>
<p>एषा ब्राह्मी स्थितिः पार्थ</p>
<p>कविं पुराणमनुशा •</p>
<pb n="324" />
<p>श्रीमद्भगवद्गीता
पृष्ठम्
पृष्टम्
कस्माच्च ते न नमेरन्</p>
<p>कृपया परयाविष्टो</p>
<p>काङ्क्षन्तः कर्मणां सिद्धिं ११७
कृषिगौरक्ष्यवाणिज्यं</p>
<p>काम एष क्रोध एष</p>
<p>कैर्लिङ्गैस्त्रीन्गुणानेतान्</p>
<p>कामक्रोधवियुक्तानां
१७४ क्रोधाद्भवति संमोह:</p>
<p>काममाश्रित्य दुष्पूरं</p>
<p>क्लैव्यं मा स्म गमः पार्थ</p>
<p>कामात्मानः स्वर्गपराः</p>
<p>क्लेशोऽधिकतरस्तेषां</p>
<p>कामैस्तैस्तैर्हृतज्ञानाः</p>
<p>क्षिप्रं भवति धर्मात्मा</p>
<p>काम्यानां कर्मणां</p>
<p>क्षेत्रक्षेत्रज्ञयोरेवं</p>
<p>कायेन मनसा बुद्धया</p>
<p>क्षेत्रज्ञं चापि मां विद्धि</p>
<p>कार्पण्यदोषोपहत •</p>
<p>ग
कार्यकरण कर्तृत्वे</p>
<p>गतसङ्गस्य मुक्तस्य</p>
<p>कार्यमित्येव यत्कर्म</p>
<p>गतिर्भर्ता प्रभुः साक्षी</p>
<p>कालोऽस्मि लोकक्षय •</p>
<p>गाण्डीवं स्रंसते हस्तात्
काश्यश्च परमेष्वासः</p>
<p>गामाविश्य च भूतानि</p>
<p>किं कर्म किमकर्मेति</p>
<p>गुणानेतानतीत्य त्रीन्</p>
<p>किं तद्ब्रह्म किमध्यात्मं</p>
<p>गुरूनहत्वा हि महानु०</p>
<p>किं पुनर्ब्राह्मणाः पुण्याः</p>
<p>च
किरीटिनं गदिनं चक्र ०</p>
<p>चञ्चलं हि मनः कृष्ण</p>
<p>किरीटिनं गदिनं चक्रि०</p>
<p>चतुर्विधा भजन्ते मां</p>
<p>कुतस्त्वा कश्मलमिदं</p>
<p>चातुर्वर्ण्यं मया सृष्टं</p>
<p>कुलक्षये प्रणश्यन्ति
११ चिन्तामपरिमेयां च</p>
<pb n="325" />
<p>श्लोकानुक्रमणिका ।</p>
<p>पृष्टम्
पृष्ठम्
चेतसा सर्वकर्माणि</p>
<p>ततः शङ्खाश्च भेर्यश्व</p>
<p>ज
ततः श्वेतैर्हयैर्युक्ते</p>
<p>जन्म कर्म च मे दिव्यं</p>
<p>ततः स विस्मयाविष्टो</p>
<p>जरामरणमोक्षाय</p>
<p>तत्क्षेत्रं यच्च यादृक्च</p>
<p>जातस्य हि ध्रुवो मृत्युः
४३ तत्त्ववित्तु महात्रांहों</p>
<p>जितात्मनः प्रशान्तस्य</p>
<p>तत्र तं बुद्धिसंयोगं</p>
<p>ज्ञानयज्ञेन चाप्यन्ये</p>
<p>तत्र सत्त्वं निर्मलत्वात्</p>
<p>ज्ञानविज्ञानतृतात्मा</p>
<p>तत्रापश्यत्स्थितान्पार्थः</p>
<p>ज्ञानेन तु तदज्ञानं
१६७ तत्रैकस्थं जगत्कृत्स्नं</p>
<p>ज्ञानं कर्म च कर्ता च</p>
<p>तत्रैकाग्रं मनः कृत्वा</p>
<p>ज्ञानं तेऽहं सविज्ञानं</p>
<p>तत्रैवं सति कर्तारं</p>
<p>ज्ञानं ज्ञेयं परिज्ञाता</p>
<p>तदित्यनभिसंधाय</p>
<p>ज्ञेयं यत्तत्प्रवक्ष्यामि</p>
<p>तद्बुद्धयस्तदात्मानः</p>
<p>ज्ञेयः स नित्यसंन्यासी</p>
<p>तद्विद्धि प्रणिपातेन</p>
<p>ज्यायसी चेत्कर्मणस्ते</p>
<p>तपस्विभ्योऽधिको योगी</p>
<p>ज्योतिषामपि तज्ज्यो
३८७ तपाम्यहमहं वर्षे</p>
<p>त
तमस्त्वज्ञानजं विद्धि</p>
<p>तं विद्याद्दुःखसंयोग</p>
<p>तमुवाच हृषीकेशः</p>
<p>तं तथा कृपयाविष्टं
१५ तमेव शरणं गच्छ</p>
<p>तच्च संस्मृत्य संस्मृत्य</p>
<p>तस्माच्छास्त्रं प्रमाणं ते</p>
<p>ततः पदं तत्परिमा ०</p>
<p>तस्मात्त्वमिन्द्रियाण्यादौ</p>
<p>S. B. II. 20</p>
<pb n="326" />
<p>श्रीमद्भगवद्गीता
पृष्ठम्
पृष्टम्
तस्मात्त्वमुत्तिष्ठ यशो</p>
<p>त्रिविधं नरकस्येदं</p>
<p>तस्मात्प्रणम्य प्रणिधाय</p>
<p>त्रिविधा भवति श्रद्धा</p>
<p>तस्मात्सर्वेषु कालेषु</p>
<p>त्रैगुण्यविषया वेदाः</p>
<p>तस्मादसक्तः सततं</p>
<p>त्रैविद्या मां सोमपाः</p>
<p>तस्मादज्ञानसंभूतं</p>
<p>त्वमक्षरं परमं वेदि
O</p>
<p>तस्मादोमित्युदाहृत्य</p>
<p>त्वमादिदेवः पुरुषः</p>
<p>तस्माद्यस्य महाबाहो</p>
<p>द
तस्मान्नार्हा वयं हन्तुं</p>
<p>दंष्ट्राकरालानि च ते</p>
<p>तस्य संजनयन्हर्ष</p>
<p>दण्डो दमयतामस्मि</p>
<p>तानहं द्विषतः क्रूरान्</p>
<p>दम्भो दर्पोऽभिमानश्च</p>
<p>तानि सर्वाणि संयम्य</p>
<p>दातव्यमिति यद्दानं</p>
<p>तुल्यनिन्दास्तुतिर्मोनी
. ३५२
दिवि सूर्यसहस्रस्य</p>
<p>तेजः क्षमा धृतिः शौ०</p>
<p>दिव्यमाल्याम्बरधरं</p>
<p>ते तं भुक्त्वा स्वर्गलोकं</p>
<p>दुःखमित्येव यत्कर्म</p>
<p>तेषां सततयुक्तानां</p>
<p>दुःखेष्वनुद्विग्नमनाः</p>
<p>तेषां ज्ञानी नित्ययुक्तो
२२२ दूरेण ह्यवरं कर्म
तेषामहं समुद्धर्ता</p>
<p>दृष्ट्वा तु पाण्डवानीकं</p>
<p>तेषामेवानुकम्पार्थं</p>
<p>दृष्ट्वेदं मानुषं रूपं</p>
<p>त्यक्त्वा कर्मफलासङ्गं</p>
<p>देवद्विजगुरुप्राज्ञ</p>
<p>त्याज्यं दोषवदित्येके</p>
<p>देवान्भावयतानेन</p>
<p>त्रिभिर्गुणमयैर्भावैः</p>
<p>देहिनोऽस्मिन्यथा देहे</p>
<pb n="327" />
<p>श्लोकानुक्रमणिका ।</p>
<p>पृष्टम्
पृष्टम्
देही नित्यमवध्योऽयं
दैवमेवापरे यज्ञं</p>
<p>न कर्तृत्वं न कर्माणि</p>
<p>न कर्मणामनारम्भात्</p>
<p>दैवी संपद्विमोक्षाय</p>
<p>न काङ्क्षे विजयं कृष्ण</p>
<p>दैवी ह्येषा गुणमयी</p>
<p>न च तस्मान्मनुष्येषु</p>
<p>दोषैरेतैः कुलघ्नानां</p>
<p>न च मत्स्थानि भूतानि</p>
<p>द्यावापृथिव्योरिद •</p>
<p>न च मां तानि कर्माणि</p>
<p>द्यूतं छलयतामस्मि</p>
<p>न चैतद्विद्मः कतरन्नो</p>
<p>द्रव्ययज्ञास्तपोयज्ञाः</p>
<p>न जायते म्रियते वा</p>
<p>द्रुपदो द्रौपदेयाश्च</p>
<p>न तदस्ति पृथिव्यां वा</p>
<p>द्रोणं च भीष्मं च</p>
<p>न तद्भासयते सूर्यो</p>
<p>द्वाविमौ पुरुषौ लोके
द्वौ भूतसर्गौ लोके</p>
<p>न तु मां शक्यसे द्रष्टुं</p>
<p>न त्वेवाहं जातु नासं</p>
<p>ध
द्वेष्ट्यकुशलं कर्म</p>
<p>धर्मक्षेत्रे कुरुक्षेत्रे
૪
न प्रहृष्येत्प्रियं प्राप्य</p>
<p>धूमेनात्रियते वह्निः
.१०४
न बुद्धिभेदं जनयेत्</p>
<p>धूमो रात्रिस्तथा कृष्णः</p>
<p>नभःस्पृशं दीप्तमने ०
9</p>
<p>धृत्या यया धारयते</p>
<p>नमः पुरस्तादथ पृष्ठ:</p>
<p>धृष्टकेतुश्चेकितानः
न मां कर्माणि लिम्पन्ति</p>
<p>ध्यानेनात्मनि पश्य ०</p>
<p>न मां दुष्कृतिनो मूढाः</p>
<p>ध्यायतो विषयान्पुंसः</p>
<p>न मे पार्थास्ति कर्त •
' ९६
न
न मे विदुः सुरगणाः</p>
<pb n="328" />
<p>श्रीमद्भगवद्गीता
पृष्टम्
पृष्टम्
न रूपमस्येह तथो</p>
<p>निश्चयं शृणु मे तल</p>
<p>न वेदयज्ञाध्ययनैः</p>
<note>३३१. निहत्य धार्तराष्ट्रान्नः</note>
<p>नष्टो मोहः स्मृतिर्लब्धा</p>
<p>नेहाभिक्रमनाशोऽस्ति</p>
<p>न हि कश्चित्क्षणमपि
८६ नैते सृती पार्थ जानन्</p>
<p>न हि ज्ञानेन सदृशं</p>
<p>नैनं छिन्दन्ति शस्त्राणि</p>
<p>न हि देहभृता शक्यं</p>
<p>नैव किंचित्करोमीति</p>
<note>१.६१.</note>
<p>न हि प्रपश्यामि ममा०
१६ .
नैव तस्य कृतेनार्थो</p>
<p>नात्यश्नतस्तु योगोऽस्ति</p>
<p>प
नादत्ते कस्यचित्पापं</p>
<p>पञ्चैतानि महाबाहो</p>
<p>नान्तोऽस्ति मम दि०</p>
<p>पत्रं पुष्पं फलं तोयं</p>
<p>नान्यं गुणेभ्यः कर्तारं</p>
<p>परं ब्रह्म परं धाम</p>
<p>नासतो विद्यते भावः</p>
<p>परं भूयः प्रवक्ष्यामि</p>
<p>नास्ति बुद्धिरयुक्तस्य</p>
<p>परस्तस्मात्तु भावोऽन्यो</p>
<p>नाहं प्रकाशः सर्वस्य
. २२६. परित्राणाय साधूनां</p>
<note>१.१५</note>
<p>नाहं वेदैर्न तपसा
३३४ पवनः पवतामस्मि</p>
<p>निमित्तानि च पश्यामि</p>
<p>पश्य मे पार्थ रूपाणि</p>
<note>३०३.</note>
<p>नियतं कुरु कर्मत्वं</p>
<p>पश्यादित्यान्वसुः</p>
<p>नियतं सङ्गरहितं</p>
<p>पश्यामि देवांस्तव देव</p>
<note>३०८.</note>
<p>नियतस्य तु संन्यास:</p>
<p>पश्यैतां पाण्डुपुत्राणां</p>
<p>निराशीर्यतचित्तात्मा</p>
<p>पाञ्चजन्यं हृषीकेशो</p>
<p>निर्मानमोहा जितसङ्ग •</p>
<p>पार्थ नैवेह नामुत्र</p>
<pb n="329" />
<p>श्लोकानुक्रमणिका ।</p>
<p>पृष्ठम्
पृष्ठम्
पितासि लोकस्य चरा०</p>
<p>प्रशान्तात्मा विगतभीः</p>
<p>पिताहमस्य जगतो</p>
<p>प्रसादे सर्वदुःखानां</p>
<p>पुण्यो गन्धः पृथिव्यां च</p>
<p>प्रह्लादश्चास्मि दैत्यानां</p>
<p>पुरुष: प्रकृतिस्थो हि</p>
<p>प्राप्य पुण्यकृतां लो</p>
<p>पुरुष: स परः पार्थ</p>
<p>व
पुरोधसां च मुख्यं मां</p>
<p>बन्धुरात्मात्मनस्तस्य</p>
<p>पूर्वाभ्यासेन तेनैव</p>
<p>बलं बलवतां चाहं</p>
<p>पृथक्त्वेन तु यज्ज्ञानं</p>
<p>बहिरन्तश्च भूतानां</p>
<p>प्रकाशं च प्रवृत्तिं च</p>
<p>बहूनां जन्मनामन्ते</p>
<p>प्रकृतिं पुरुषं चैव</p>
<p>बहूनि मे व्यतीतानि</p>
<p>प्रकृतिं स्वामवष्टभ्य</p>
<p>बाह्यस्पर्शेष्वसक्तात्मा</p>
<p>प्रकृतेः क्रियमाणानि</p>
<p>बीजं मां सर्वभूतानां</p>
<p>प्रकृतेर्गुणसंमूढाः</p>
<p>बुद्धियुक्तो जहातीह</p>
<p>प्रकृत्यैव च कर्माणि</p>
<p>बुद्धिर्ज्ञानमसंमोहः</p>
<p>प्रजहाति यदा कामान्</p>
<p>बुद्धेर्भेदं धृतेश्चैव</p>
<p>प्रयत्नाद्यतमानस्तु</p>
<p>बुद्धया विशुद्धया युक्तो ५३६
प्रयाणकाले मनसा</p>
<p>बृहत्साम तथा साम्नां</p>
<p>प्रलपन्विसृजन्गृह्णन्</p>
<p>ब्रह्मणो हि प्रतिष्ठाहं</p>
<p>प्रवृत्तिं च निवृत्तिं च</p>
<note>५.१४</note>
<p>ब्रह्मण्याधाय कर्माणि</p>
<p>"
"</p>
<p>33
ब्रह्मभूतः प्रसन्नात्मा</p>
<p>प्रशान्तमनसं ह्येनं</p>
<p>ब्रह्मार्पणं ब्रह्म हविः</p>
<pb n="330" />
<p>श्रीमद्भगवद्गीता
पृष्ठम्
पृष्ठम्
ब्राह्मणक्षत्रियविशां</p>
<p>मन्मना भव मद्भक्तो</p>
<p>भ</p>
<p>23
99
93
भक्त्या त्वनन्यया शक्य</p>
<p>मन्यसे यदि तच्छक्यं</p>
<p>भक्त्या मामभिजानाति
भयाद्रणादुपरतं
૪૦
मम योनिर्महद्ब्रह्म</p>
<p>ममैवांशो जीवलोके</p>
<p>भवान्भीष्मश्च कर्णश्च</p>
<p>मया ततमिदं सर्व</p>
<p>भवाप्ययौ हि भूतानां</p>
<p>मयाध्यक्षेण प्रकृति:</p>
<p>भीष्मद्रोणप्रमुखतः</p>
<p>मया प्रसन्नेन तवा ०</p>
<p>भूतग्रामः स एवायं</p>
<p>मयि चानन्ययोगेन</p>
<p>भूमिरापोऽनलो वायुः</p>
<p>मयि सर्वाणि कर्माणि</p>
<p>भूय एव महाबाहो</p>
<p>मय्यावेश्य मनो ये मां</p>
<p>भोक्तारं यज्ञतपसां</p>
<p>मय्यासक्तमनाः पार्थ</p>
<p>भोगैश्वर्यप्रसक्तानां</p>
<p>मय्येव मन आधत्स्व</p>
<p>म
महर्षयः सप्त पूर्वे</p>
<p>मच्चित्तः सर्वदुर्गाणि</p>
<p>महर्षीणां भृगुरहं</p>
<p>मच्चित्ता मद्गतप्राणाः</p>
<p>महात्मानस्तु मां पार्थ</p>
<p>मत्कर्मकृन्मत्परमो</p>
<p>महाभूतान्यहंकारो</p>
<p>मत्तः परतरं नान्यत्</p>
<p>मां च योऽव्यभिचारेण</p>
<p>मदनुग्रहाय परमं
मनःप्रसादः सौम्यत्वं-
मनुष्याणां सहस्रेषु</p>
<p>• मां हि पार्थ व्यपाश्रित्य</p>
<p>मा ते व्यथा मा च</p>
<p>मात्रास्पर्शास्तु कौन्तेय
શ્ય</p>
<pb n="331" />
<p>श्लोकानुक्रमणिका ।</p>
<p>पृष्ठम्
पृष्ठम्
मानापमानयोस्तुल्यः
मामुपेत्य पुनर्जन्म</p>
<p>यज्ञशिष्टामृतभुजो</p>
<p>२४२ यज्ञशिष्टाशिनः सन्तो</p>
<p>मुक्तसङ्गोऽनहंवादी
५१२ यज्ञार्थात्कर्मणोऽन्यत्र</p>
<p>मूढग्राहेणात्मनो यत्
४७९ यज्ञे तपसि दाने च</p>
<p>मृत्युः सर्वहरश्चाहं
मोघाशा मोघकर्माणो</p>
<p>यततो ह्यपि कौन्तेय</p>
<p>यतन्तो योगिनश्चैनं</p>
<p>य
यतः प्रवृत्तिर्भूतानां</p>
<p>यं यं वापि स्मरन्भावं
२३५ यतेन्द्रियमनोबुद्धिः</p>
<p>यं लब्ध्वा चापरं लाभ</p>
<p>यतो यतो निश्वरति</p>
<p>यं संन्यासमिति प्राहुः</p>
<p>यत्करोषि यदश्नासि</p>
<p>यं हि न व्यथयन्त्येते
२६ यत्तदग्रे विषमिव</p>
<note>५.१८</note>
<p>यः शास्त्रविधिमुत्सृज्य</p>
<p>यत्तु कामे सुना कर्म</p>
<note>५.१०</note>
<p>यः सर्वन्नानभिस्नेहः</p>
<p>यत्तु कृत्स्नवदेकस्मिन् ५०९
य इमं परमं गुह्यं
य एनं वेत्ति हन्तारं
५६४ यत्तु प्रत्युपकारार्थे</p>
<p>यत्र काले त्वनावृत्ति</p>
<p>य एवं वेत्ति पुरुषं</p>
<p>यत्र योगेश्वरः कृष्णो</p>
<note>५.७१</note>
<p>यच्चापि सर्वभूतानां</p>
<p>यत्रोपरमते चित्तं.</p>
<p>यच्चावहासार्थमस ०.</p>
<p>यत्सांख्यैः प्राप्यंते .</p>
<p>यजन्ते सात्त्विका</p>
<p>यथाकाशस्थितो नित्यं</p>
<p>यज्ज्ञात्वा न पुनर्मोहं
यज्ञदानतपः कर्म</p>
<note>१४.३</note>
<p>यथा दीपो निवातस्थो
१९५ :</p>
<p>यथा नदीनां बहवो</p>
<note>३१७.</note>
<pb n="332" />
<p>श्रीमद्भगवद्गीता
पृष्ठम्
पृष्टम्
यथा प्रकाशयत्येकः</p>
<p>यद्यहंकारमाश्रित्य</p>
<p>यथा प्रदीतं ज्वलनं</p>
<p>यया तु धर्मकामार्थान्</p>
<p>यथा सर्वगतं सौक्ष्म्यात् ४०६
यया धर्ममधर्मे च</p>
<p>यथैधांसि समिद्धोऽग्निः</p>
<p>यया स्वप्नं भयं शोकं</p>
<p>यदग्रे चानुबन्धे च</p>
<p>यस्त्वात्मरतिरेव</p>
<p>यदक्षरं वेदविदो</p>
<p>यस्त्विन्द्रियाणि मनसा</p>
<p>यदा ते मोहकलिलं</p>
<p>यस्मात्क्षरमतीतोऽहं</p>
<p>यदादित्यगतं तेजो</p>
<p>यस्मान्नोद्विजते लोको</p>
<p>यदा भूतपृथग्भावं</p>
<p>यस्य नाहंकृतो भावो</p>
<p>यदा यदा हि धर्मस्य</p>
<p>यस्य सर्वे समारम्भाः</p>
<p>यदा विनियतं चित्तं</p>
<p>यातयामं गतरसं</p>
<p>यदा सत्त्वे प्रवृद्धे तु</p>
<p>या निशा सर्वभूतानां</p>
<p>यदा संहरते चायं</p>
<p>यान्ति देवव्रता देवान्</p>
<p>यदाहिनेन्द्रियार्थेषु</p>
<p>यामिमां पुष्पितां वाचं</p>
<note>५.१</note>
<p>यदि मामप्रतीकारं</p>
<p>यावत्संजायते किंचित्</p>
<p>यदि ह्यहं न वर्तेय
यदृच्छया चोपपन्नं</p>
<p>यावदेतान्निरीक्षेऽहं</p>
<p>यावानर्थ उदपाने</p>
<p>यदृच्छालाभसंतुष्टो</p>
<p>युक्तः कर्मफलं त्यक्त्वा</p>
<p>यद्यदाचरति श्रेष्ठः</p>
<p>युक्ताहारविहारस्य</p>
<p>यद्यद्विभूतिमत्सत्त्वं
यद्यप्येते न पश्यन्ति</p>
<p>युञ्जन्नेवं सदात्मानं</p>
<p>33 33 33</p>
<pb n="333" />
<p>श्लोकानुक्रमणिका ।</p>
<p>पृष्ठम्
पृष्ठम्
युधामन्युश्च विक्रान्तः</p>
<note>५.</note>
<p>यो मां पश्यति सर्वत्र</p>
<p>ये चैव सात्त्विका, भावाः</p>
<p>यो मामजमनादिं च</p>
<p>ये तु धर्म्यामृतमिदं</p>
<p>यो मामेवमसंमूढो</p>
<p>ये तु सर्वाणि कर्माणि</p>
<p>योऽयं योगस्त्वया प्रोक्तः</p>
<note>२०३.</note>
<p>ये त्वक्षरमनिर्देश्यं</p>
<note>३४.१</note>
<p>यो यो यां यां तनुं</p>
<p>ये त्वेतदभ्यसूयन्त
येऽप्यन्यदेवताभक्ताः</p>
<note>१००.</note>
<p>र</p>
<note>२६८. रजसि प्रलयं गत्वा</note>
<p>ये मे मतमिदं नित्यं
.१००
रजस्तमश्चाभिभूय.</p>
<p>ये यथा मां प्रपद्यन्ते</p>
<note>११.६. रजो रागात्मकं विद्धि</note>
<p>ये शास्त्रविधिमुत्सृज्य
४६९ रसोऽहमप्सु कौन्तेय .</p>
<p>येषां त्वन्तगतं पापं.
येषामर्थे काङ्क्षितं नो</p>
<note>२२८. रागद्वेषवियुक्तैस्तु</note>
<note>९. रागी कर्मफलप्रेप्सुः</note>
<p>ये हि संस्पर्शजा भोगाः</p>
<p>राजन्संस्मृत्य संस्मृत्य</p>
<p>योगयुक्तो विशुद्धात्मा</p>
<note>१६.१</note>
<p>राजविद्याराजगुह्यं
૨૫૪
योगसंन्यस्तकर्माणम्</p>
<p>रुद्राणां शंकर श्वास्मि</p>
<p>योगस्थः कुरु कर्माणि</p>
<p>रुद्रादित्या वसवो ये च</p>
<p>योगिनामपि सर्वेषां</p>
<p>रूपं महत्ते बहुवक्त्र०</p>
<p>योगी युञ्जीत सततं</p>
<p>ल
योत्स्यमानानवेक्षेऽहं
の
लभन्ते ब्रह्मनिर्वाणं</p>
<p>यो न हृष्यति न द्वेष्टि</p>
<note>३५.१.</note>
<p>लेलिह्यसे ग्रसमानः</p>
<p>योऽन्तः सुखोऽन्तरारामः १७३ लोकेऽस्मिन्द्विविधा</p>
<pb n="334" />
<p>लोभः प्रवृत्तिरारम्भः
वक्तुमर्हस्यशेषेण
व
वक्त्राणि ते त्वरमाणा
वायुर्यमोऽग्निर्वरुणः
श्रीमद्भगवद्गीता
पृष्ठम्</p>
<p>व्यासप्रसादाच्छ्रुतबान्
पृष्ठम्</p>
<p>श</p>
<p>शक्नोतीहैव यः सोढुं</p>
<p>शनैः शनैरुपरमेत्</p>
<p>शमो दमस्तपः शौत्रम् ५२२
वासांसि जीर्णानि यथा</p>
<p>शरीरं यदवाप्नोति</p>
<p>विद्याविनयसंपन्ने</p>
<p>शरीरवाङ्मनोभिर्यत्</p>
<p>विधिहीन मसृष्टान्नं</p>
<p>शुक्लकृष्णे गती ह्येते</p>
<p>विविक्तसेवी लध्वाशी</p>
<p>शुचौ देशे प्रतिष्ठाप्य</p>
<p>विषया विनिवर्तन्ते</p>
<p>शुभाशुभफलैरेवं</p>
<p>विषयेन्द्रियसंयोगात्</p>
<p>शौर्य तेजो धृतिर्दाक्ष्यं</p>
<p>विस्तरेणात्मनो</p>
<p>श्रद्धया परया तप्तं</p>
<p>विहाय कामान्यः</p>
<p>श्रद्धावाननसूयश्च</p>
<p>वीतरागभयक्रोधाः</p>
<p>श्रद्धावाँल्लभते ज्ञानं</p>
<p>वृष्णीनां वासुदेवोऽस्मि
२९५ श्रुतिविप्रतिपन्ना ते</p>
<p>वेदानां सामवेदोऽस्मि</p>
<p>श्रेयान्द्रव्यमयाद्यज्ञात्</p>
<p>वेदाविनाशिनं नित्यं</p>
<p>श्रेयान्स्वधर्मो विगुणः</p>
<p>वेदाहं समतीतानि</p>
<p>"</p>
<note>५.२५</note>
<p>वेदेषु यज्ञेषु तपःसु</p>
<p>श्रेयो हि ज्ञानमभ्या०</p>
<p>व्यवसायात्मिका बुद्धिः</p>
<p>श्रोत्रादीनीन्द्रियाण्यन्ये</p>
<p>व्यामिश्रेणेव वाक्येन</p>
<note>८.१</note>
<p>श्रोतं चक्षुः स्पर्शनं च</p>
<pb n="335" />
<p>श्लोकानुक्रमणिका ।
• ५९१
पृष्ठम्
पृष्ठम्
श्वशुरान्सुहृदश्चैव
संकरो नरकायैव
"
सदृशं चेष्टते स्वस्याः</p>
<p>स
सद्भावे साधुभावे च</p>
<p>समं कायशिरोग्रीवं</p>
<p>संकल्पप्रभवान्कामान्</p>
<p>समं पश्यन्हि सर्वत्र</p>
<p>संतुष्टः सततं योगी</p>
<p>समं सर्वेषु भूतेषु</p>
<p>संनियम्येन्द्रियग्रामं</p>
<p>समः शत्रौ च</p>
<p>संन्यासं कर्मणां</p>
<p>समदुःखसुखः स्वस्थः</p>
<p>संन्यासः कर्मयोगश्च</p>
<p>समोऽहं सर्व</p>
<p>संन्यासस्तु महाबाहो</p>
<p>सर्गाणामादिरन्तश्च</p>
<p>संन्यासस्य महाबाहो</p>
<p>सर्वकर्माणि मनसा</p>
<p>स एवायं मया तेऽद्य</p>
<p>सर्वकर्माण्यपि सदा</p>
<p>सक्ताः कर्मण्यविद्वांस:</p>
<p>सर्वगुह्यतमं भूयः</p>
<p>सखेति मत्वा प्रसभं</p>
<p>सर्वतः पाणिपादं तत्</p>
<p>स घोषो धार्तराष्ट्राणां</p>
<p>सर्वद्वाराणि संयम्य</p>
<p>सततं कीर्तयन्तो मां</p>
<p>सर्वद्वारेषु देहेऽस्मिन्</p>
<p>स तया श्रद्धया युक्तः</p>
<p>सर्वधर्मान्परित्यज्य</p>
<note>५.४८</note>
<p>सत्कारमान पूजार्थं</p>
<p>सर्वभूतस्थमात्मानं</p>
<p>सत्त्वं रजस्तम इति</p>
<p>सर्वभूतस्थितं यो मां</p>
<p>सत्त्वं सुखे सञ्जयति</p>
<p>सर्वभूतानि कौन्तेय</p>
<p>सत्त्वात्संजायते ज्ञानं</p>
<p>सर्वभूतेषु येनैकं</p>
<p>सत्त्वानुरूपा सर्वस्य</p>
<p>सर्वमेतदृतं मन्ये</p>
<pb n="336" />
<p>श्रीमद्भगवद्गीता
पृष्टम्
पृष्टम्
सर्वयोनिषु कौन्तेय</p>
<p>सुदुर्दर्शमिदं रूपं</p>
<p>सर्वस्य चाहं हृदि</p>
<p>सुहृन्मित्रार्युदासीन</p>
<p>सर्वाणीन्द्रियकर्माणि</p>
<p>स्थाने हृषीकेश तव</p>
<p>सर्वेन्द्रियगुणाभासं</p>
<p>स्थितप्रज्ञस्य का भाषा</p>
<p>सहजं कर्म कौन्तेय</p>
<p>स्पर्शान्कृत्वा बहिर्बाह्यान् १७५
सहयज्ञाः प्रजाः</p>
<p>स्वधर्ममपि चावेश्य</p>
<p>सहस्रयुगपर्यन्तं</p>
<p>स्वभावजेन कौन्तेय</p>
<p>साधिभूताधिदैवं मां</p>
<p>स्वयमेवात्मनात्मानं</p>
<p>सांख्ययोगौ पृथग्बाला:</p>
<p>स्वे स्वे कर्मण्यभिरतः</p>
<p>सिद्धिं प्राप्तो यथा</p>
<p>ह
सीदन्ति मम गात्राणि</p>
<p>हतो वा प्राप्स्यसि</p>
<p>सुखदुःखे समे कृत्वा
सुखमात्यन्तिकं यत्तत्
सुखं त्विदानीं त्रिविधं</p>
<note>५.१८</note>
<note>४८.</note>
<p>हन्त ते कथयिष्यामि</p>
<p>हृषीकेशं तदा वाक्यं</p>
<pb n="337" />
<pb n="338" />
<p>MEMORIAL
EDITION
OF THE WORKS OF
SRI SANKARACHARYA.</p>
<pb n="339" />
<pb n="340" />
<p>3</p>
</body>
</text>
</TEI>