<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<p>व
hip
6.2</p>
<pb n="2" />
<pb n="3" />
<p>श्री १०८ क
दुतकालय,
MEMORIAL
EDITION
OF THE WORKS OF
SRI SANKARACHARYA.</p>
<pb n="4" />
<pb n="5" />
<p>THE WORKS
OF
श्री १०८ ईश्वर
ईश्वर मठ
पुस्तकालय,
ॐ
ॐ भवन, अस्सो. काशी
Sri Sankaracharya
SRI-
VANI VILAS
-EDITION.</p>
<pb n="6" />
<pb n="7" />
<p>THE WORKS OF
SRI SANKARACHARYA
WAWOWOW
VOLUME
11
JAJAJAJAJAJAJAJA
SRI VANI VILAS PRESS
SRIRANGAM</p>
<pb n="8" />
<pb n="9" />
<p>TO
HIS HOLINESS SRI JAGADGURU
SRI SACHCHIDANANDA SIVABHINAVA
NRISIMHA BHARATI SWAMI
WHO ADORNS THE THRONE OF THE SRINGERI MUT
AS THE WORTHY REPRESENTATIVE OF THE
GREAT SANKARACHARYA
AND
THAN WHOM IT IS IMPOSSIBLE
TO COME ACROSS A HOLIER PERSONAGE,
A TRUER MAHATMA, A NOBLER SAINT
AND A MORE RIGOROUS ASCETIC.
THIS EDITION IS MOST RESPECTFULLY INSCRIBER
AS A TOKEN OF UNBOUNDED ADMIRATION
BY THE HUMBLEST OF ALL HIS DISCIPLES
T. K. BALASUBRAHMANYAM.</p>
<pb n="10" />
<pb n="11" />
<p>जन्मसु मंदितेन तपसा तेन चिकामना
मित्रेण प्रतिर्वाधिकारः कृतः शोकरी: 1
स्वीकृति करो गुरुरायं तथेमं जनम् ॥</p>
<lg>
  <l>श्रीमच्छंकरदेशि केन्द्ररचितम्प्रवन्धामुदा</l>
  <l>समी परिशोध्य पुस्तकः संवैः ।</l>
  <l>सच्छाव्रप्रवराष्ठिमध्यविलष्टदेशिकेन्द्रेषु ता</l>
  <l>कुत्वापहतं सभक्तिविनयं नूनं कृतार्थोऽस्म्यहम् ॥</l>
</lg>
<lg>
  <l>सम्बादमाधानक्षराजसूर्यातिथ्याधितसोमबारे ।</l>
  <l>श्रीशंकरार्यमतिमातिष्ठाकाले मत्रैोपद्वतिर्व्यधानि ॥</l>
</lg>
<p>श्रीशंकरकृतिमाता गुरुवा
बालादिपदमजा सुनायेन भक्तिनमेण ॥ 2</p>
<pb n="12" />
<pb n="13" />
<p>CONTENTS.
THE BHAGAVAD-GITA-BILASHYA.
Chapter 1.
PAGE
1
Chapter 2.
15
Chapter 3.
73
Chapter 4.
109
. 149
Chapter 5.
Chapter 6.
Chapter 7.
Chapter 8.
Chapter 9.
. 177
211
231
. 251</p>
<pb n="14" />
<pb n="15" />
<p>॥
विषयाः
श्रीमद्भगवद्गीताभाष्यम्
अध्याय ः १.
अध्यायः २.
...
पृष्ठम्</p>
<p>अध्याय: ३.
...</p>
<p>अध्याय: ४.
***</p>
<p>अध्याय: ५.</p>
<p>अध्याय: ६.</p>
<p>अध्याय: ७.
...</p>
<p>अध्याय ः ८.
अध्याय: ९.</p>
<pb n="16" />
<pb n="17" />
<p>THE
Bhagavad-Gita
Bhashya
VOLUME
1</p>
<pb n="18" />
<p>...</p>
<pb n="19" />
<p>श्री
भगवद्गीताभाष्यम्
श्रीमच्छंकरभगवत्पूज्यपादैः
विरचितम् ।
प्रथमो भागः</p>
<pb n="20" />
<p>T
-</p>
<pb n="21" />
<p>श्री १०८ ईश्वर मठ
पुस्तकालय,
ईड भवक
"काशी
&
॥ श्रीः ॥
॥ भगवद्गीताविषयानुक्रमणिका</p>
<note>१. कर्मसंन्यासात्मकसाधनप्रधाना</note>
<p>त्वंपदार्थप्रधाना च आद्या
षडध्यायी ।
प्रथमोऽध्यायः ।
युद्धविषये संजयं प्रति धृतराष्ट्रस्य प्रश्नः
श्लोकः
धृतराष्ट्रेण पृष्टस्य संजयस्योत्तरारम्भः
दुर्योधनस्य द्रोणाचार्ये प्रति युद्धसाहायकप्रार्थना
दुर्योधनहर्षार्थे भीष्मादिभिः शङ्खपूरणम्
***
३–११
१२–१३
स्वसैन्यप्रोत्साहनकृते कृष्णार्जुनादिभिः शङ्खवादनम् १४ - १८
पाण्डवकृतशङ्खवादनेन धार्तराष्ट्राणां हृदयविदारणम्
युद्धार्थ व्यवस्थितान्धार्तराष्ट्रानन्यांश्च योद्धृन्निर्वर्णयितुं
श्रीकृष्णं प्रत्यर्जुनस्योभयोः सेनयोर्मध्ये रथस्थाप-
नप्रार्थना
S. B. (0)</p>
<p>. २० - २३</p>
<pb n="22" />
<p>[ २ ]
भगवता सेनाद्वयमध्ये रथस्थापनपूर्वकमर्जुनाय
दर्शिताः समवेता योद्धार इति निरूपणम्
***
युद्धभूमावुभयोरपि सेनयोः स्थितान्बन्धूनवलोक्यार्जु-
नस्य विषादः
श्लोकः
२४-२५
**
२६–२७
२८–४६
श्रीकृष्णं प्रत्यर्जुनस्य विषादप्रदर्शिकोक्तिसरणिः
शोकाकुलस्यार्जुनस्य शरचापौ परित्यज्य रथोपस्थो-
पवेशः
द्वितीयोऽध्यायः ।
संजयवचनम्
विषीदन्तं पार्थे युद्धे प्रविवर्तयिषोर्भगवतस्तद्विषाद-
निबर्हणोक्तिः
गुर्वादिभिः सार्धं योद्धुमयुक्तमित्युक्तिपूर्वकमर्जुनस्य
युद्धकरणाकरणयोः कतरच्छ्रेय इति जिज्ञासोः
श्रीकृष्णं प्रति शिष्यत्वेनोपसत्तिः
संजयवचनम्
अर्जुनस्य शोकमोहावपनेतुं भगवत्कृतः संसारनिवर्तक
आत्मतत्त्वविनिर्णयप्रकारः -
क्षत्रियधर्मत्वाद्युद्धस्यावश्यतत्कर्तव्यत्वोक्तिः
युद्धस्य स्वर्गसाधनत्वकथनम्</p>
<p>४- ८
९-१०
... ११–३०</p>
<p>स्वधर्मभूतयुद्धाकरणे स्वधर्मकीर्तिहान्या पातककथनम्,</p>
<pb n="23" />
<p>[ ३ ]
- संभावितस्य मृतिर्वरीयस्यकीर्तिस्तु दुःसहेति प्रदर्शनम्
युद्धाद्भीतो निवृत्त इत्यादिनिन्दावचनं शृण्वतो दुः-
खं महद्धि स्यादिति कथनम्
अधिसमरं शरीरहतौ स्वर्गप्राप्तिररिविजये वा मही-
प्राप्तिरिति पश्यन्युद्धकरण एव मतिं कुर्वित्युक्तिः
जयाजययोः समत्वदृष्टया युद्धं कुर्वतो दोषाभावकथ-
नम्
श्लोकः
'३४
३५-३६</p>
<p>...</p>
<p>आत्मतत्त्वसाक्षात्कारहेतोर्निष्कामकर्मानुष्ठानस्य स
माधियोगस्य च निरूपणम्
पार्थकृतः स्थितप्रज्ञलक्षणप्रश्नः'
स्थितप्रज्ञलक्षणकथनम्
विषय विमुखानामपीन्द्रियाणां तत्तद्विषयरागानुवृत्तौ
प्रज्ञालाभः कथं स्यादित्याशंङ्कायामुत्तरम् .
३९–५३</p>
<p>५५-५८
***</p>
<p>विपश्चितोऽपि यतमानस्य प्रसभमिन्द्रियाणि मनो
हरन्तीत्युक्तिः
:
संयतेन्द्रियस्य युक्तस्य प्रज्ञा स्थिरीभवतीति कथनम्
विषयान्ध्यायुतः सङ्गादिद्वारा पुंसः प्रणाशकथनम्
मोक्षहेतूपन्यासः
अशान्तस्यासुखित्वकथनम्
अविजितेन्द्रियाणां मनसा प्रज्ञापहार इत्यत्र दृष्टान्त-
प्रदर्शनम्</p>
<p>६२–६३
६४-६५</p>
<pb n="24" />
<p>[ ४ ]
विजितेन्द्रियस्य प्रज्ञा स्थिरा भवतीति कथनम् ...
परमार्थसत्यां सर्वभूतनिशायां संयमी जागतत्युक्तिः
यतेरेव स्थितप्रज्ञस्य विदुषस्त्यक्तैषणस्य मोक्षाबासिर्न
त्वयतेरित्यत्र दृष्टान्तप्रदर्शनम्
निवृत्तसर्वकामस्यैव पुंसः शान्तिप्राप्तिरिति कथनम्
ज्ञाननिष्ठायाः स्तुतिः
तृतीयोऽध्यायः ।
ज्यायसी चेत्कर्मणस्त इत्यादिरर्जुनस्य प्रश्नः
कर्मयोगज्ञानयोगयोर्भिन्नाधिकारिकत्वकथनम्
अनात्मशस्य कर्मयोगावश्यकत्वनिरूपणम्
आत्मज्ञस्य कर्मयोगानावश्यकत्वप्रतिपादनम्
श्लोकः</p>
<p>...
४- १६
१७-१८
सर्वथा फलानुषङ्गार्दजुनीनर्वतनपूर्वकं स्वधर्मे तत्प्रव-
र्तनम्
अर्जुनकृतः पापाचरणप्रवृत्तिहेतुप्रश्नः
**
१९ – ३५</p>
<p>... ३७––४३
सर्वानर्थहेतोः कामस्य वैरित्वं प्रतिपाद्येन्द्रियजयादिना
तन्नाशस्य निरूपणम्
'चतुर्थोऽध्यायः ।
यथोक्तस्य ज्ञानयोगस्य कृत्रिमत्वशङ्कापनुत्तये वंश-
कथनेन स्तुतिः
१- ३</p>
<pb n="25" />
<p>[ ५ ]
लोकस्य भगवानेश्वर इवेति शङ्कां निवर्तयितुमि-
च्छतोऽर्जुनस्य प्रश्नः
अतीतानेकजन्मवत्त्वं सर्वप्राणिसाधारणत्वेन प्रदर्श्या-
त्मनस्तु तज्ज्ञानसत्त्वरूपविशेषप्रदर्शनम्
भगवत आत्मजन्मप्रकारप्रयोजनानुकथनम्
भगवत्कर्तृकं स्वदिव्यजन्मकर्मवेदनेन प्राणिनां पुन-
जन्माभावस्य कथनम्
***
पूर्वेषामपि ब्रह्मविदामेतेनैव मोक्षमार्गेण कैवल्यप्रा-
प्तिरिति कथनम्
तत्तत्कामनानुरोधेनात्मनस्तत्तत्फलदातृत्वकथनम्...
कर्मजायाः सिद्धेः शीघ्रभावितया सर्वेषां कर्मप्रवृत्ति-
कथनम्
चातुर्वर्ण्य सृष्टिकर्तुरपि भगवतो वस्तुतः स्वस्य तदक-
र्तृत्वबोधनम्
स्वस्याकर्तृत्वज्ञानेनापि पुंसः कर्मबन्धाभाव इति
भगवत उक्ति:
स्वात्मानमकर्तारं कुर्मफलनिःस्पृहं च ज्ञात्वा कर्म
कुर्विति पार्थे प्रति नियोगः
कर्माकर्मकथनप्रतिज्ञानम्
कर्मणो दुर्विज्ञेयत्वोक्तिः
कर्मादीनां तत्त्वप्रदर्शनम्
श्लोकः</p>
<p>...</p>
<p>***</p>
<p>...</p>
<pb n="26" />
<p>[ ६ ]
कर्माकर्मणोरकर्मकर्मदर्शनस्तुतिः
उक्तज्ञानस्य यज्ञत्वसंपादनम्
...
दैवयशादिकथनपूर्वकं ज्ञानयज्ञस्य सर्वयज्ञेभ्यः श्रेष्ठ-
त्वप्रतिपादनम्
गुरुप्रणिपातादिना यथोक्तज्ञानस्य प्रातिकथनम् ...
ज्ञानमहत्त्वकथनम्
: ज्ञानप्राप्तिं प्रत्युपायं प्रदर्श्य ज्ञानहेतौ कर्मयोगे -
ऽर्जुनप्रवर्तनम्
पञ्चमोऽध्यायः ।
ज्ञानरहितसंन्यासकर्मयोगयोः कः प्रशस्यतर इत्यर्जु-
नस्य प्रश्नः
यथोक्तसंन्यासात्कर्मयोगस्य सहेतुकं प्रशस्यतरत्वक-
थनम्
ज्ञानसहितसंन्यासकर्मयोगलक्षणयोः सांख्ययोगयोः
फलैकत्वोक्तिः
पारमार्थिकः संन्यासः कर्मयोगमन्तरा दुःखैक-
फलक इति कथनम्
लोकसंग्रहाय केवलं कर्म कुर्वतोऽपि सम्यग्दर्शननि-
ष्ठस्य न तत्फलविलेप इत्युपपादनम्
योगिनस्तत्फलाविलेपे हेतुद्वयकथनम्
विदुषः सुखेन देहावस्थितिकथनम्
श्लोकः
१९–२३</p>
<p>२५–३३</p>
<p>३५--३८
३९-४२
७--१०
११--१२</p>
<pb n="27" />
<p>श्लोकः
***
१४-१५
१६-१७</p>
<p>...
[ ७ ]
आत्मनः प्रभोः कारयितृत्वाद्यभावकथन पुरःसरं
स्वभावस्य कारयितृत्वादिप्रतिपादनम्
ज्ञानिनां ज्ञानेन ब्रह्मप्राप्तिकथनम्
• ज्ञानिनो ब्राह्मणादौ सर्वत्र समदर्शित्ववर्णनम्
समदर्शित्वेऽपि ज्ञानिनां दोषाभावप्रतिपादनम्
ब्रह्मनिष्ठस्य प्रियाप्रियसंनिधावपि हर्षोद्वेगराहित्यक-
थनम्
ब्रह्मनिष्ठस्य विषयेष्वसक्तस्याक्षयमुखावासिकथनम्
इन्द्रियाणां विषयसकाशान्निवर्तने हेतूपन्यासः
प्रागेव देहत्यागात्कामक्रोधोद्भवं वेगं निगृह्णत एव
युक्तत्वसुखित्वयोः कथनम्
अन्तः सुखादिविशिष्टस्य ब्रह्मप्राप्तिकथनम्
ध्यानयोगस्य संक्षेपत उपक्षेपः
षष्ठोऽध्यायः ।
निष्कामकर्मयोगस्य सत्त्वशुद्धिद्वारा ध्यानयोगप्राप्त्यु-
पायत्वात्स्तुतिः"
:
ध्यानयोगेऽवस्थातुमशक्तस्य निष्कामकर्मयोगः, श
तस्य तु सर्वकर्मसंन्यास इति प्रतिपादनम् ...
ध्यानयोगारूढस्य लक्षणकथनम्
विस्तरत आसनाहारविहारादिनियमकथनसहितं
सफलध्यानयोगनिरूपणम्-</p>
<p>...
२४-२६
... २७--२९
... १-२</p>
<p>१०--३२</p>
<pb n="28" />
<p>[ ८ ]
यथोक्तध्यानयोगस्य मनश्चाञ्चल्येन दुष्करत्वप्रतिपा-
दकः प्रश्नः
श्लोकः
...
३३-३४</p>
<p>अभ्यासवैराग्याभ्यां मनोनिग्रहे सति ध्यानयोगसिद्धि-
रित्युक्तिः
असंयतात्मना ध्यानयोगस्य दुष्प्रापत्वकथनम्
ध्यानयोगप्रवृत्तस्य त्यक्तसर्वकर्मणः प्रागेव सम्यग्दर्श-
नलक्षणफलप्राप्तेर्देहवियोगे का गतिरित्यर्जुनप्रभः ३७ – ३९
योगभ्रष्टस्य बिनाशाभावप्रतिपादनपुरःसरमुत्तमग-
तिप्राप्तिकथनम्
ध्यानयोगिनः सर्वश्रेष्ठत्वकथनपूर्वकं ध्यानयोगेऽर्जु-
नस्य प्रवर्तनम्
रुद्रादित्यादिध्यानपराणां मध्ये वासुदेवध्याननिष्ठस्य
युक्ततमत्वबोधनम्
४०–४५</p>
<p>...</p>
<note>२. उपास्यनिष्ठा तत्पदार्थनिष्ठा वा</note>
<p>मध्यमा षडध्यायी ।
सप्तमोऽध्यायः ।
भगवद्ध्यानयोगनिष्ठस्य विभूत्यादिसमस्तगुणसंपन्न -
भगवज्ज्ञानप्राप्त्युपदेशप्रतिज्ञा
१ – २</p>
<pb n="29" />
<p>[९]
ज्ञानदुर्लभत्वप्रदर्शनम्
अपरप्रकृतेर्भूम्याद्यष्टभेदभिन्नत्वोक्तिः
जीवभूतपरप्रकृतिकथनम्
यथोक्तप्रकृतिद्वयद्वारेश्वरस्य जगत्कारणत्वनिरूपणम्
सर्वभूतानां परमेश्वरे प्रोतत्वकथनम्
संक्षेपतो रसादिविभूतिप्रकथनम्
सात्त्विकादित्रिविधभावमोहितत्वाल्लोकानां भगवत्त-
त्वानभिज्ञत्ववर्णनम्
श्लोकः</p>
<p>...
८–१२</p>
<p>***</p>
<p>भगवदेकशरणस्य तत्त्वज्ञानेन मायातिक्रमकथनम्
दुष्कृतिनां भगवद्भक्तिपराङ्मुखत्वनिवेदनम्
भगवद्भजनप्रवृत्तानां सुकृतिनां भक्तानां चातुर्वि-
ध्यनिर्देशः
*
· तथाविधेषु भक्तेषु ज्ञानिनः श्रेष्ठत्वप्रतिपादनम् १७--१९
***
अपहृतविवेकविज्ञानताया देवतान्तरभजननिमित्तत्वोक्तिः
देवतान्तरोपासकानां तत्तदुपासन श्रद्धादार्व्यापादनेन</p>
<p>भगवत एव तत्तत्स्वरूपेणेष्टप्रदातृत्वकथनम् .. २१–२२
अन्यदेवतोपासकानामवाप्तफलस्यान्तवत्त्वप्रदर्शनम्
परमार्थतत्त्वस्य ज्ञाने हेतुनिरूपणम्
***</p>
<p>२४-२७
भगवद्भजनद्वारा सुकृतिनामुत्तमगतिप्राप्तिकथनम्... २८-- ३०
अष्टमोऽध्यायः ।
किं तद्ब्रह्मेत्यादिप्रश्न सप्तकम्
१ – २</p>
<pb n="30" />
<p>[१०]
यथोक्तस्य प्रश्नसप्तकस्योत्तरम्
अन्त्यभावनानुरोधेन देहान्तरावाप्तिकथनम्
...
सर्वदा भगवद्ध्यानपुरःसरमर्जुन॑स्य युद्धादिकरणे प्र-
वर्तनम्
अभ्यासयोगयुक्तस्य पुरुषोत्तमप्राप्तिकथनम्
प्रणवोपासनप्रकारः
ईश्वरं प्राप्तवतामपुनरावृत्तिकथनम्
श्लोकः</p>
<p>***
***
८–१०
...
११ – १४</p>
<p>स्वर्गलोकादिसत्यलोकान्तगतानां पुनरावृत्तिकथनम् १६–१९
परतत्त्वस्वरूपप्रदर्शनम्
परमपुरुषस्य भक्तिप्राप्यत्वकथनम्
...
२० – २१</p>
<p>...
-२३-२५
याणरूपमार्गद्वयकथनम्-
ध्यानयोगिनां कर्मिणां च यथानुरूपं देवयानपितृ-
यथोक्तमार्गद्वयगतानामनांवृत्त्यावृत्तिप्रदर्शनम्
मार्गद्वयचिन्तनप्रयोजनम्
योगमाहात्म्यम्
नवमोऽध्यायः ।
परब्रह्मतत्त्वज्ञानोपदेशः</p>
<p>१–१०
मूढकर्तृकस्वावशायाः स्वतत्त्वाशानमूलकत्ववर्णनम् ११–१२
भक्तिलक्षणे मोक्षमार्गे महात्मनां प्रवृत्तिकथनम्
संक्षेपतो विभूतिबर्णनम्
१३,</p>
<p>..... १६÷१९</p>
<pb n="31" />
<p>[ ११ ]
सकामानां संसारपाप्तिकथनम्
: निष्कामभक्तिनिष्ठानां सम्यग्दर्शिनां योगक्षेमस्य भ-
गवन्निर्वहणोक्तिः
देवतान्तरेषु भक्तिमतामपि भगवद्भक्तत्वप्रतिपादनपु-
श्लोकः
२०–२१</p>
<p>रःसरं तत्तद्भजनानुसारेण तेषां फलप्राप्तिकथनम् २३–२५
भगवदाराधनस्य सुकरत्वप्रतिपादनम्
: अर्जुनस्य भगवदाराधने प्रवर्तनम्</p>
<p>२७-२९
भक्तिमहिमकथनपूर्वकमर्जुनस्य तन्मार्गप्रवर्तनम् .. ३०–३३
ईश्वरभजनस्येतिकर्तव्यता प्रदर्शनम्
दशमोऽध्यायः ।</p>
<p>विस्तरेण तत्कथनार्थोऽर्जुनस्य प्रश्नः
भगवत्कृतः संक्षेपतो विभूतियोगज्ञानोपदेशः
१ – ११
१२ – १८
१९—४२
भगवता विस्तरतः कृतो विभूतियोगोपदेशः
एकादशोऽध्यायः ।
विश्वरूपदिदृक्षोरर्जुनस्य भगवत्प्रार्थना
पार्थे प्रति भगवद्भाषणम्
II
...
१- ४
भगवान्विश्वरूपं पार्थाय दर्शयामासेत्यादिका धृतराष्ट्रं
प्रति संजयस्योक्तिः
भगवतो विश्वरूपं प्रति स्वानुभवप्रकटनार्थमर्जुनस्य
९--१४
वचनम्
१५ – ३१</p>
<pb n="32" />
<p>[१२]
भूभारजिहीर्षया भगवतः प्रवृत्तत्वादहमेवैषां हन्ता
त्वं निमित्तमात्रं भवेति पार्थे प्रति तदुक्तिः ...
कदाचित्पराजयभयाद्धृतराष्ट्रः संधिं कुर्यादिति का-
ङ्क्षया संजयस्य तं प्रति वृत्तान्तकथनम्
अर्जुनकृता भगवत्स्तुतिः
भगवन्तं प्रति पूर्वरूपप्रदर्शनार्था पार्थकृता भगवद-
भ्यर्थना
भीतः पार्थ इत्यात्मनो विश्वरूपमुपसंहृत्य तदाश्वास-
नार्थे भगवतो वचनम्
संजयस्योक्तिः
'भगवत्पूर्वरूपदर्शनेनार्जुनस्यान्तः स्थैर्यप्रदर्शनम्
श्लोकः
३२-३४</p>
<p>३६—–४३
४४–४६
. ४७-४९
....</p>
<p>विश्वरूपदर्शनमनन्यभक्तिसाध्यमिति भगवदुक्तिः.... ५२–५४
ईश्वरार्थकर्मादियुक्तस्य तत्प्राप्तिप्रतिपादनम्</p>
<p>द्वादशोऽध्यायः ।
विश्वरूपस्याक्षरस्य चोपासकानां मध्ये योगवित्तमत्वं
केषामित्यर्जुनप्रश्नः
उभयेषां तेषां तारतम्यप्रतिपादनम्
विश्वरूपध्यानलक्षणे भक्तियोगेऽर्जुनं प्रति भगवत्प्र-
वर्तनम्
भक्तियोगे परिनिष्ठितस्याभ्यासयोगादिसाधनकथनम् ९ – ११</p>
<pb n="33" />
<p>सर्वकर्मफलत्यागस्य स्तुतिः
अक्षरोपासकधर्मनिर्वचनम्
[१३]
यथोक्तधर्मपराणां स्वप्रीतिविषयत्वकथनम्
श्लोकः</p>
<p>***
१३-१९</p>
<note>३. तत्त्वंपदार्थैक्यरूपवाक्यार्थनिष्ठा</note>
<p>सम्यग्धीप्रधाना अन्तिमा
षडध्यायी ।
त्रयोदशोऽध्यायः ।
क्षेत्रक्षेत्रज्ञयोः संक्षेपतः स्वरूपनिरूपणम्
सर्वक्षेत्रस्थस्य क्षेत्रज्ञस्येश्वरत्वकथनपूर्वकं क्षेत्रक्षेत्रज्ञ-
योर्ज्ञानस्य स्वाभिमतसम्यग्ज्ञानत्वकथनम्
क्षेत्रक्षेत्रज्ञयोर्विशेषतो याथात्म्यकथनप्रतिज्ञा
क्षेत्रक्षेत्रज्ञयोर्याथात्म्यस्तुतिः
विशेषतः क्षेत्रयाथात्म्यकथनम्
****</p>
<p>अमानित्वादिज्ञानसाधनकथनम्
क्षेत्रज्ञयाथात्म्यकथनम्</p>
<note>७. -११</note>
<p>***
१२-१७</p>
<p>क्षेत्रक्षेत्रज्ञयाथात्म्यज्ञानफलकथनंं
प्रकृतिपुरुषयोरनादित्वोक्तिः
प्रकृतेः कार्यकरणकर्तृत्वे, पुरुषस्य सुखदुःखभोक्तृत्वे
च हेतुत्वकथनम्</p>
<pb n="34" />
<p>[ १४ ]
पुरुषस्य भोक्तृत्वनिमित्तकथनम्
- पुरुषस्योपद्रष्टृत्वादिप्रदर्शनम्
प्रकृतिपुरुषविवेकफलप्रतिपादनम्
आत्मदर्शने ध्यानाद्युपायविकल्पकथनम्
सम्यग्दर्शनृतत्फलयोरुपवर्णनम्
चतुर्दशोऽध्यायः
उत्तमज्ञानोपदेशस्य प्रतिज्ञानम्
क्षेत्रक्षेत्रज्ञसंयोगेन हिरण्यगर्भोपजनद्वारा सर्वभूतो-
त्यत्तिवर्णनम्
सत्त्वादिगुणानां जीवबन्धकत्वोक्तिः
सत्त्वादिगुणानां स्वरूपकार्यादिप्रतिपादनम्
सम्यग्ज्ञानस्य मोक्षजनकत्वकथनम्
श्लोकः</p>
<p>२४–२६
२७ – ३४
६--१८
... १९--२०
गुणातीतलक्षणप्रश्नः</p>
<p>गुणातीतलक्षणकथनम्
२२-२५
अव्यभिचारेण भक्तियोगेन गुणातीतत्वादिसिद्धि-
वर्णनम्</p>
<p>आत्मनः सर्वप्रतिष्ठात्वकथनम्</p>
<p>पञ्चदशोऽध्यायः ।
संसारस्य वृक्षरूपककल्पना
१- २</p>
<pb n="35" />
<p>[१५]
श्लोकः
असङ्गशस्त्रेण संसारवृक्षच्छेदने ब्रह्मपदावाप्तिकथनम् ३– ५
. ब्रह्मपदलक्षणोक्तिः
जीवस्य भगवदंशत्वकथनपूर्वकमुत्क्रान्तिसमय इन्द्रि
. याकर्षकत्वादेः प्रतिपादनम्
मूढानामात्मज्ञानस्यासंभवोक्तिः
संक्षेपेण विभूतिवर्णनम्
क्षराक्षरोत्तमपुरुषाणां निरूपणम्
..
७-९
१०-११
...
१२- १५
...
१६-१७
१८ – १९</p>
<p>हेतुकथनपूर्वकं भगवतः पुरुषोत्तमत्वस्य तज्ज्ञानफ-
लस्य च निरूपणम्
भगवत्तत्त्वज्ञानप्रशंसा
षोडशोऽध्यायः ।
देवासुरसंपदोंः स्वरूपफलनिर्णयः
१- ५
सविस्तरमासुरसंपद्वर्णनं तद्विमोकेन श्रेयः प्राप्तिकथनं च ६–२२
शास्त्रविधिमुल्लङ्घय प्रवृत्तस्य सिद्ध्याद्यभावकथनम्
अर्जुनस्य शास्त्रीये कर्मणि भगवत्प्रवर्तनम्
सप्तदशोऽध्यायः ।
उत्सृष्टशास्त्रविधीनां श्रद्धयाः तु कर्म कुर्वतां का वा
गतिरित्यर्जुनस्य प्रश्नः</p>
<p>:</p>
<p>त्रिविधश्रद्धाविवरणम्
: आहारत्रैविध्यनिरूपणम्
... २– ६
७–१०</p>
<pb n="36" />
<p>[ १६ ]
यज्ञत्रयकथनम्
कायिकादिभेदैस्तपस्त्रैविध्यवर्णनम्
सात्त्विकादिभेदैस्तपस्त्रैविध्यवर्णनम्
सात्त्विकादिभेदैर्दानत्रैविध्यप्रदर्शनम्
यज्ञादिसाद्गुण्यार्थमोंतत्सदितिशब्दत्रयविनियोगप्रदर्श-
नम्
अश्रद्धया कृतस्य होमादिसर्वकर्मणोऽसत्त्वप्रतिपादनम्
अष्टादशोऽध्यायः ।
संन्यासत्यागयोस्तत्त्वनिर्णयानुकूलः प्रश्नः
श्लोकः
११ – १३
१४–१६
१७- १९
२०–२२
२३–२७</p>
<p>संन्यासत्यागपदयोरर्थनिरुक्तिः
कर्मणस्त्यागात्यागविषये सांख्यमीमांसकपक्षद्वयप्रदर्शनम्
नित्यनैमित्तिकानि कर्माणि तत्फलासङ्गं विहाय का.
र्याणीति स्वमतप्रदर्शनम्
नित्यकर्मत्यागानुपपत्तिकथनपूर्वकं तामसादिभेदैस्त्या--
गलैविध्यप्रतिपादनम्
फलासङ्गं त्यक्त्वा नित्यकर्मानुतिष्ठतो ज्ञाननिष्ठाप्रा-
कर्मफलत्यागिनस्त्यागीत्यभिधानकथनम्</p>
<p>४-- ६
प्तिप्रदर्शनम्</p>
<p>संन्यासिनामनिष्टाद्यभावकथनम्</p>
<p>सर्वकर्मणामधिष्ठानादिकारणप्रपञ्चनम्
१३--१५
शुद्धात्मनि कर्तृत्वाद्यभिमानिनां दुर्मतित्वकथनम्...</p>
<pb n="37" />
<p>[ १७ ]
कर्तृत्वाद्यभिमानरहितस्य सुमतित्वकथनम्
कर्मप्रवर्तकज्ञानकरणप्रदर्शनम्
ज्ञानकर्मकर्तॄणां गुणभेदतस्त्रैविध्यकथनप्रतिज्ञानम्...
श्लोकः</p>
<p>ज्ञानकर्मकर्तॄणां सात्त्विकत्वादिभेदैस्त्रैविध्यप्रदर्शनम्... २०–२८
बुद्धिवृत्योर्गुणभेदेन त्रैविध्यकथनप्रतिज्ञानम्
...</p>
<p>सात्त्विकादिभेदेन बुद्ध्यादीनां त्रैविध्यकथनम्
...
३० – ३९
संसारान्तर्गतस्याशेषस्य त्रिगुणात्मकत्वकथनम्</p>
<p>ब्राह्मणादिकर्मणां प्रविभागप्रदर्शनम्
४१–४४
ब्राह्मणादीनां यथास्वकर्म भगवदाराधनेन ज्ञाननिष्ठा-
योग्यतारूपसिद्धिप्रतिपादनम्
...
४५–४६
स्वधर्मस्यात्याज्यताप्रतिपादनम्
४७-४८
द्धिप्रतिपादनम्
'कर्मस्वनासक्तस्य संन्यासेन ज्ञाननिष्ठारूपनैष्कर्म्यसि -
नैष्कर्म्यलक्षणसिद्धिप्राप्तिक्रमकथनप्रतिज्ञानम्
विस्तरेण ज्ञाननिष्ठाप्राप्तिक्रमकथनम्
यथोक्तक्रमेण ज्ञानलक्षणभक्तिप्राप्तिनिरूपणम्</p>
<p>...
५१–५३</p>
<p>यथोक्तज्ञानलक्षणभक्तितो भगवत्तत्त्वज्ञानसिद्धिकथनम्
भगवद्भक्तियोगस्य स्तुतिः
अर्जुनं प्रति भगवत्कृतः स्वाभिन्नेश्वरे सदा चित्तस्था-
पनोपदेश:
S. B. 00
...</p>
<pb n="38" />
<p>[१८]
. ईश्वरैकचित्तत्वे तत्प्रसादात्सर्वदुःखतरणस्यान्यथा वि-
नाशस्य च कथनम्
युद्धाकरणनिश्चयस्याहंकाराश्रयत्वान्मिथ्यात्वकथनपू-
र्वकमर्जुनस्य प्रकृतिपरतन्त्रत्वकथनम्
अन्तर्यामित्वादीश्वरस्य सर्वभूतप्रेरकत्वप्रतिपादनम् . .
सर्वभावेनेश्वरमाश्रयतः शाश्वतपदप्राप्तिकथनम् ...
उक्तगुह्यतरज्ञानविमर्शेन यथेच्छकरणानुज्ञानम् ...
अर्जुनस्यातिप्रियतया सर्वगुह्यतमवचनश्रवणे प्रवर्त-
नम्
श्लोकः</p>
<p>५९–६०</p>
<p>...
.६४
गुह्यतमस्येश्वरशरणत्वस्य कर्मयोगनिष्ठातत्त्वस्य सम्य-
ग्दर्शनस्य च तत्फलस्योपदेशः
.६५–६६
अपात्रे शास्त्रोपदेशं निषिध्य पात्रे तदुपदेशस्य फल-
कथनम्
६७–६९
. ७०-७१
प्रकृतशास्त्राध्ययनश्रवणफलप्रदर्शनम्
मदुक्तशास्त्रश्रवणेनाज्ञानसंमोहः कञ्चित्प्रणष्ट इत्य-
र्जुनं प्रति भगवत्प्रश्नः
'नष्टो मोहः स्मृतिर्लब्धा' इत्याद्यर्जुनस्योत्तरवचनम्
' इत्यहं वासुदेवस्य ' इत्यादि धृतराष्ट्रं प्रति संजयस्य
भाषणम्</p>
<p>.
७४-७८</p>
<pb n="39" />
<p>॥ श्रीः ॥
शांकरभाष्यस्थानां
विशेषविषयाणामनुक्रमणिका ॥
प्रथमोऽध्यायः ।
श्रीमद्भगवद्गीताभाष्यस्योपक्रान्तस्य निष्प्रत्यूहोपप्लवपरि-
समाप्त्यर्थमपेक्षितशिष्टाचारपरम्पराप्राप्तेष्टदेवता तत्त्वानु-
संधानलक्षणमङ्गलाचरणसंपत्तये निरवशेषत इतिहास-
पुराणयोर्व्याचिख्यासितेन गीताशास्त्रेणैकवाक्यताम-
भिसंधाय भगवत्पादकृतमन्तर्यामिविषयकस्य पौराणि-
कश्लोकस्योदाहरणम्
स्वोत्पादितस्य जगतः स्थेम्ने मरीच्यादीन्प्रजापतीन्सप्तो-
त्पाद्य वेदोक्तप्रवृत्तिलक्षणधर्मानुशासनपूर्वकं तेषां तद्ध-
प्रवर्तनस्य, सनकसनन्दनादीनुत्पाद्य वेदोक्तनिवृत्ति-
लक्षणधर्मोपदेशपुरःसरं तेषां च तद्धर्मप्रवर्तनस्य भग-
वत्कृतस्य प्रतिपादनम्
द्विविधवेदोक्तधर्मप्रयोजनकथनम्
...
अनुष्ठातॄणां कालकलया कामोद्भवात्तदभिभूतविवेकविशा-
पृष्ठम्</p>
<pb n="40" />
<p>पृष्ठम्
[२०]
नप्रयुक्तेनाधर्मेण प्रवर्धमानेनाक्रान्ते धर्मे ब्राह्मण्यरक्षणेन
रक्षितः स्याद्वर्णाश्रमधर्मो वैदिक इति विष्णुर्जगत्स्थिति-
परिपिपालविषया ब्राह्मण्यरक्षणार्थे देवक्यां वसुदेवादं-
शेनावततारेति कथनम्
भूतानामनुजिघृक्षया गीताद्वारार्जुनाय वैदिकधर्मद्वयोपदेशो
भगवत इत्युक्तिः
भगवदुपदिष्टस्य धर्मस्य सप्तभिः श्लोकशतैर्व्यासेन कृतमु-
पनिबन्धनमित्युक्तिः
समस्तश्रुत्यर्थसारसंग्रहस्यास्यार्थतो दुर्विशेयत्वाद्गीताशास्त्र-
स्य तदर्थाविष्करणाय भाष्यकारकृता संक्षेपतो वि-
वरणकरणप्रतिज्ञा
अस्य गीताशास्त्रस्य निःश्रेयसप्रयोजनकत्वकथनम्
शास्त्रस्य विषयनिर्देशः
शास्त्रस्यास्यानुबन्धत्रयवैशिष्ट्याद्वयाख्येयत्वोपपादनम् ...
द्वितीयोऽध्यायः ।
'दृष्ट्वा तु पाण्डवानीकम्' इत्यादेः 'उक्त्वा तूष्णीं बभूव
ह' इत्येतदन्तस्य ग्रन्थस्य शोकमोहादिसंसारकारणा-
विद्याप्रदर्शनार्थत्ववर्णनम्
संगृहीतार्थविवरणम्
शोकमोहयोः संसृतिनिदानतोपपादनम्
222</p>
<pb n="41" />
<p>[ २१ ]
अशोच्यानित्यादिसंदर्भस्य समूलसंसारोच्छेदकसम्यग्ज्ञा-
नोपदेशे तात्पर्यमिति प्रदर्शनम्
सर्वलोकानुजिघृक्षयैव ज्ञानमर्जुनाय भगवतोपदिष्टमिति
कथनम्
श्रौतस्मार्तकर्मसहिताज्ज्ञानात्कैवल्यप्राप्तिरिति मतोपन्यास:
वैदिकं कर्म केवलाधर्महेतुर्हिसादियुक्तत्वादिति शङ्काया
निराकरणम्
भगवदुक्तविभागवचनविरुद्धत्वात्समुच्चयपक्षो नैव युक्त
इति प्रतिपादनम्
सांख्ययोगशब्दार्थनिरुक्तिः
पृष्ठम्</p>
<p>भगवदुक्तविभागवचनस्य शतपथब्राह्मणमूलकत्व प्रदर्शनम् १९
समुच्चयपक्षे ज्यायसी चेदित्याद्यर्जुनप्रश्नानुपपत्तिकथनम्... २०
प्रकारान्तरेण समुच्चयपक्षसमर्थनं सहतन्निरसनम्
केवलात्तत्त्वज्ञानादेव मुक्तिरिति सिद्धान्तोपसंहृतिः
विकारजातस्यासत्यत्वप्रदर्शनम्
आत्मनोऽप्रमेयत्वसमर्थनम्
***</p>
<p>...</p>
<p>विदुषः कर्मासंभवहेतूपन्यासः
विदुषो मुमुक्षोश्वात्मदर्शिनः सर्वकर्मसंन्यासेऽधिकारप्रद-
र्शनम्
शास्त्रादिसंस्कृतस्य मनस आत्मदर्शने साधनत्वकथनम्...
ज्ञाने विदुषोऽधिकारप्रदर्शनम्</p>
<pb n="42" />
<p>[ २२ ]
पृष्ठम्
मनसेति वचनात्सर्वकर्मसंन्यासाभावशङ्काया निराकरणम् ३८
पौनःपुन्येनात्मनित्यत्वादिवचनस्य पौनरुक्त्याभावकथनम् ४१
तृतीयोऽध्यायः ।
द्वितीयाध्यायगतस्यार्थस्य संक्षेपतोऽनुवादः
श्रौतस्मार्तकर्मसमुच्चिताद्गृहस्थस्य स्मार्तकर्ममात्रसमुच्चिता-
त्त्वितरेषामाश्रमिणां ज्ञानात्कैवल्यप्राप्तिरिति समुच्चय-
वादिमतस्य निरसनम्
'ज्ञानोत्पत्तिः पापकर्मक्षयादित्यस्य प्रमाणत्वेन ज्ञानमुत्पद्यत
इति श्लोकोपन्यासः</p>
<p>देवयज्ञादिनिर्वर्तनेन पञ्चसूनाकृतात्किल्बिषान्मोचनकथनम् ९०
यज्ञात्पर्जन्यस्योत्पत्तौ 'अग्नौ प्रास्ता' इति स्मृत्यन्तरोदा-
हृतिः
:
जगच्चक्रानुवर्तनातिलङ्घिनोऽधिकृतस्य प्रत्यवायोक्तिः
भूतजातस्य सर्वस्य प्रकृत्यधीनत्वे विधिनिषेधानर्थक्य-
शङ्काया निरसनम्
भगवच्छब्दार्थवर्णनम्</p>
<p>.१०२</p>
<p>चतुर्थोऽध्यायः ।
वर्णाश्रमादिकर्माधिकारो मर्त्यलोक एवेति कथनम्
कर्मण्यकर्मेति श्लोके वृत्तिकारव्याख्यानस्य दूषणम्
...</p>
<p>.१२५</p>
<pb n="43" />
<p>शारीरपदार्थनिर्णयः
[ २३ ]
ब्रह्मार्पणमित्यत्रार्पणादौ ब्रह्मदृष्टिविधिरिति पक्षमनूद्य दोषा-
पादनम्
पृष्ठम्</p>
<p>· १३६
श्रद्धावत्त्वादीनां समुच्चितानां ज्ञानेन सहैकान्तिकत्वप्रदर्श-
नपुरःसरं प्रणिपातादिसाधनस्य बहिरङ्गत्वप्रतिपादनम् १४५
पञ्चमोऽध्यायः ।
:
कर्मसंन्यासकर्मयोगयोः प्रशस्यतरविषयकस्यार्जुनप्रश्नस्य
संगतिप्रतिपादनम्
निःश्रेयसकरौ योगौ संन्यासकर्मयोगशब्दाभ्यामुपक्रम्य सां-
ख्ययोगयोरत्राभिन्नफलकत्वकथनं कथं नु संगतमिति
शङ्काया निराकरणम्</p>
<p>**</p>
<p>सर्वकर्माणीत्यत्र श्लोके नवद्वारे पुर इति विशेषणस्य प्रयो-.
जनकथनम्
सात्त्विकादिषु त्रिविधेषु सत्त्वेषु समत्वदृष्टिरनुचितेति श-
ङ्काया निरसनम् ..
षष्ठोऽध्यायः ।</p>
<p>...
.. १६९
पञ्चमान्तोपक्षिप्तस्य ध्यानयोगस्य विवरणरूपः षष्ठोऽध्यायः
इति प्रतिपादनम्
... १७९
ध्यानयोगारोहणमात्रे पर्यवस्यति कर्मयोगानुष्ठानमिति व्य-
वस्थापनम्
...</p>
<pb n="44" />
<p>[ २४ ]
फलेच्छां परित्यज्य विहितं कर्मानुतिष्ठतो गौणमेव संन्या-
सित्वं योगित्वं चेति कथनम्
सर्वकर्मोपरमः पुरुषार्थसाधनमित्यत्र पौराणिकसंमतिप्रद-
र्शनम्
सर्वेषां कामानां संकल्पमूलत्वे स्मृत्युदाहरणम्
सप्तमोऽध्यायः ।
पृष्ठम्
**</p>
<p>•</p>
<p>सर्वभूतानां प्रशाप्रतिबन्धकेन द्वन्द्वमोहेनावृतत्वतः स्वात्म-
भूतभगवज्ज्ञानाभावप्रतिपादनम्
अष्टमोऽध्यायः ।
ओंकारद्वारा श्रुत्युक्तस्य ब्रह्मोपासनस्यानुक्रमणम्.
नवमोऽध्यायः ।
ईश्वरस्य साक्षित्वे प्रमाणश्रुतिनिरूपणम्
***</p>
<p>***</p>
<p>किंनिमित्तेयं सृष्टिरिति प्रभप्रतिवचनयोरनुपपत्तिकथनम् २६०
भक्तमात्रे भगवतो योगक्षेमनिर्वोदत्वान्निष्कामभक्तज्ञानि-
विषये योगक्षेमनिर्वाहाभिधानस्यासंगतिशङ्काया दूर-
निरसनम्
ईश्वरार्पणबुद्ध्या सर्वकर्माणि कुर्वतो जीवन्मुक्तस्य प्रारब्ध-
**
कर्मनिवृत्तौ विदेहकैवल्यस्यावश्यंभावित्वबोधनम् ...
ईश्वरार्पणधिया कर्मकरणात्संन्यासयोगाच्च मुक्तिरिति पृथ-
२६८-</p>
<pb n="45" />
<p>[ २५ ]
ग्भूतसाधनद्वयशङ्काया निरास:
भगवद्भक्तस्य दुराचारादुपरतिकथनम्
पृष्ठम्</p>
<p>... २७४
दशमोऽध्यायः ।
ईश्वरस्य दिव्यविभूतीनामपरिच्छिन्नत्वकथनम्
. २९७
एकादशोऽध्यायः ।
भगवतो विश्वरूपस्यानुपमत्वप्रतिपादनम्</p>
<p>द्वादशोऽध्यायः ।
द्वितीयाध्यायाद्युक्तस्यार्थस्य संक्षेपेणानुवादः
... ३३९
फलत्यागपूर्वकस्य कर्मयोगस्याविलम्बतः श्रेयः साधनतोक्ते-
स्तात्पर्यवर्णनम्
अक्षरोपासकस्येवान्येषामपीश्वरात्मकत्वे समाने तदधीनत्वं
कुत इति शङ्कायाः परिहारः
शरीरयात्रामात्रप्रयोजनेनान्नादिना ज्ञानिनः संतुष्टत्वे प्रमा-</p>
<p>णतया स्मृतिप्रदर्शनम्
....</p>
<p>त्रयोदशोऽध्यायः ।
ईश्वरस्य क्षेत्रज्ञस्य चैकत्वे शङ्कानिराकरणपूर्वकं बहुविधा-.
नां युक्तीनां निरूपणम्
...</p>
<p>सह कार्यप्रपश्ञ्चेनाविद्या हातव्येत्यत्र नैकश्रुतिप्रमाणप्रदर्शनम् ३५९</p>
<pb n="46" />
<p>[ २६ ]
विनापि विद्यां हेत्वन्तरान्मुक्तिः किं न स्यादिति शङ्का-
या निरसनम्
विद्या तावद्भयहेत्वविद्यानिरसनपुरःसरं तज्जन्यं भयमपि
निरस्यतीत्यत्र श्रुतिप्रमाणप्रदर्शनम्
विद्याविद्याविषये स्मृतिप्रदर्शनम्
पृष्ठम्</p>
<p>... ३६०</p>
<p>... ३६३</p>
<note>३६६.</note>
<p>विद्याया अनर्थध्वंसोऽविद्यायाश्चानर्थावाप्तिः फलमित्यत्रा-
न्वयव्यतिरेकाख्यनयस्य बोधनम्
बन्धमुक्त्यवस्थयोरयाथार्थ्यप्रतिपादनम्
शास्त्रस्याविद्वद्विषयत्वाद्यथोक्तार्थवत्त्वस्याक्षेपसमाधिभ्यां प्र-.
पञ्चनार्थमाक्षेपः
...
सर्वशास्त्रमर्यादाविदोऽप्यसंप्रदायवित्त्वे मूर्खवदुपेक्ष्यत्वोक्तिः • ३६८
अमानित्वादीनां ज्ञानत्वोक्तेस्तात्पर्यविवरणम्
ब्रह्मणोऽवस्तुत्वनिरासार्थः पूर्वः पक्षः
...
...
मिथ्याभूतमपि ज्ञेयवस्तु ज्ञानोपयोगीत्यत्र 'अध्यारोपापवा-
दाभ्यां निष्प्रपञ्चं प्रपञ्च्यते ' इति सांप्रदायिकवच-
नोपक्षेपः
'विद्धयनादी उभावपि ' इत्यत्रानादिपदे तत्पुरुषपक्ष-
निराकरणम्
प्रकृतिपुरुषयोः संसृतिहेतुत्ववर्णनम्
ज्ञानोदयानन्तरं जन्मान्तरोच्छित्तिसमर्थनम्
ध्यानपदार्थनिर्वचनम्</p>
<p>**</p>
<p>. ३९१</p>
<pb n="47" />
<p>[२७]
क्षेत्रक्षेत्रज्ञसंयोगस्वरूपनिरूपणम्
न हिनस्तीत्यस्याप्रसक्तप्रतिषेधत्वशङ्कानिरसनम्
...
पृष्ठम्</p>
<note>४.२</note>
<p>कर्तृत्वकर्मफललेपयोः पारमार्थिकत्वाभावप्रदर्शनम् ४०५
चतुर्दशोऽध्यायः ।
...
क्षेत्रक्षेत्नज्ञसंयोगस्य प्रपञ्चोत्पादकत्वप्रकारप्रदर्शनार्थः प्रकृ-
तश्चतुर्दशोऽध्याय इति कथनम्
**</p>
<p>' न करोति न लिप्यते ' इत्यस्य ' निबध्नन्ति महाबाहो '
इत्यस्य च परस्परविरोधपरिहारप्रकारः
शक्तिशक्तिमतोरनन्यत्वप्रदर्शनम्
...
:</p>
<p>पञ्चदशोऽध्यायः ।
संसारवृक्षविषये प्रमाणभूतानां पुराणश्लोकानां प्रदर्शनम् ४३२
जीवस्य भगवदंशत्वोक्तितात्पर्यवर्णनम्
...
चैतन्यज्योतिषः सर्वत्र समानवृत्तावप्यादित्यादिष्वाविस्तर-
त्ववर्णनम्</p>
<p>... ४४१
'द्वाविमौ पुरुषौ' इत्यादिश्लोकानां तात्पर्यपर्यालोचनम् ४४४
सिद्धे तत्त्वज्ञाने कृतकृत्यतायाः प्रतिपादकस्य मनुवचनस्य
प्रदर्शनम्
... ४४८
षोडशोऽध्यायः ।
नवमाध्यायसूचितानां दैवासुरराक्षसप्रकृतीनां विस्तरेण प्र-</p>
<pb n="48" />
<p>[ २८ ]
दर्शनार्थः ' अभयं सत्त्वसंशुद्धि:' इत्यादिरिति प्रकृ-
ताध्यायतात्पर्यप्रदर्शनम्
भूतानां दैवासुरभेदतो द्वैविध्ये उद्गीथब्राह्मणस्य प्रमाणत्वे-
नोदाहरणम्
सप्तदशोऽध्यायः ।
पृष्ठम्
४५ १
...</p>
<p>. ऐहिकमामुष्मिकं वा फलं संपद्यतेऽश्रद्धितेनापि कर्मणेति
कुतोऽस्य कर्मणोऽसत्त्वमित्याशङ्काया निरसनम्
अष्टादशोऽध्यायः ।
नित्यनैमित्तिककर्मणां फलाभावात्कथं तत्त्यागसंगतिरिति
शङ्कायास्तेषामपि फलवत्त्वस्य भगवदिष्टत्वप्रदर्शनेन
निराकरणम्
...</p>
<p>कर्मत्यागात्यागविकल्पानां ज्ञाननिष्ठसंन्यासिपरत्वव्युदसनम् ४९०
' एतान्यपि तु कर्माणि' इत्यस्य व्याख्यानान्तरमनूद्य
दोषप्रदर्शनपूर्वकं तन्निरसनम्
... ४९३
कर्मफलत्यागस्य त्रैविध्यं प्रस्तुत्य सङ्गफलत्यागस्य तृतीय-
त्वेनोक्तेः समर्थनम्
....
अधिष्ठानादीनां पञ्चानां सर्वकर्मकारणत्वे 'शरीरवाङ्मनो-
भिर्यत्कर्म प्रारभते' इत्युक्तिविरोधस्य परिहारः
' हत्वापि न हन्ति' इत्यत्र विप्रतिषिद्धोक्तिशङ्कानि-</p>
<p>रसनम्
... ५०४</p>
<pb n="49" />
<p>[ २९ ]
आत्मनोऽविक्रियत्वस्य श्रुतिस्मृतिन्यायप्रसिद्धत्वप्रतिपाद-
नम्
पृष्ठम्
...</p>
<p>शास्त्रप्रविभक्तानां शमदमांदिकर्मणां गुणप्रविभक्तत्वोक्ति-
विरोधपरिहारः
'सदोषमपि न त्यजेत् ' इत्यन्न कर्मणामशेषतस्त्यक्तुमश-</p>
<p>क्यत्वस्य हेतुत्वसमर्थनम्
...</p>
<p>असत्कार्यवादस्य निरसनम्</p>
<p>सांख्याभिमतस्य परिणामवादस्य निरासः</p>
<p>आत्मनो निराकारत्वसमर्थनम् .</p>
<p>आत्मनो निराकारत्वे ज्ञाननिष्ठाया दुःसाधत्ववादनिर-
सनम्</p>
<p>ज्ञेयस्य वेदने ज्ञानावृत्तिलक्षणज्ञाननिष्ठाया नापेक्षा किं तर्हि
ज्ञानमात्त्रस्यैवेत्याक्षेपपरिहारः
...</p>
<p>गीताशास्त्रनिश्चितस्य निःश्रेयससाधनस्य नानाशङ्कानिरा-
सपूर्वकं निष्कृष्य कथनम्
...</p>
<p>पूर्वप्रतिपादितस्यं ज्ञानकर्मणोः समुच्चयासंभवस्य निगमनम् ५५१
अनारब्धफलपुण्यकर्मभावेऽपि मोक्षानुपपत्तिः कथमिति
शङ्कायाः समाहितिः
...</p>
<p>नित्यानुष्ठानायासदुःखस्य नोपात्तदुरितफलत्वमिति प्रदर्श-
नम्</p>
<pb n="50" />
<p>[३०]
अग्निहोत्रादीनामात्मज्ञानवन्मोक्षे साक्षान्नान्वय इति प्रति-
पादनम्
मिथ्याभूतसंघातविषयकाहंधीप्रयुक्तं नात्मनि कर्तृत्वं किं
तु वास्तवमात्मीयैरेव ज्ञानेच्छाप्रयत्नैरस्य तदिति
मतमनूद्य निरसनम्
पृष्ठम्</p>
<p>.. ५५८
संसारभ्रमस्य विपरीतप्रत्ययनिमित्तत्वेन तस्यात्यन्तोच्छेदः
सम्यग्ज्ञानादेवेति राद्धान्तप्रदर्शनम्</p>
<pb n="51" />
<p>श्री १०८
१०८ ईश्वर मठ
पुस्तकालय
3
केस भवन, अल्सा, काशी •
श्रीमच्छंकरभगवत्पादविरचितम्
श्रीमद्भगवद्गीताभाष्यम्
प्रथमोऽध्यायः</p>
<pb n="52" />
<pb n="53" />
<pb n="54" />
<p>॥ श्रीमच्छंकर भगवत्पूज्यपादाः ॥
श्रीवाणीविलासमुद्रायन्त्रालये मुद्रितमिदम् ।</p>
<pb n="55" />
<p>॥
जगतस्य च
यादीना
तिलक्षणं धर्म प्राह-
ततोऽन्यां
जान, निवृत्तिलक्षणं
वैराग्यलक्षणं ग्राहयामास ।
प्रवृत्तिलक्षणो निवृत्तिलक्षणच,</p>
<pb n="56" />
<p>॥ श्रीमच्छंकरा
व्यादाः ॥</p>
<pb n="57" />
<p>ॐ
॥ नमो भगवते वासुदेवाय ॥</p>
<p>॥ श्रीमद्भगवद्गीता ॥</p>
<p>श्रीमच्छंकरभगवत्पादविरचितेन
भाष्येण सहिता ।</p>
<lg>
  <l>नारायणः परोऽव्यक्तादण्डमव्यक्तसंभवम् ।</l>
  <l>अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ॥</l>
</lg>
<p>स भगवान् सृष्ट्वेदं जगत्, तस्य च
स्थितिं चिकीर्षुः, मरीच्यादीनग्रे सृष्ट्वा
प्रजापतीन् , प्रवृत्तिलक्षणं धर्मं ग्राह-
यामास वेदोक्तम् । ततोऽन्यांश्च सन-
कसनन्दनादीनुत्पाद्य, निवृत्तिलक्षणं
धर्मं ज्ञानवैराग्यलक्षणं ग्राहयामास ।
द्विविधो हि वेदोक्तो धर्मः, प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च,</p>
<pb n="58" />
<p>जगतः स्थितिकारणम् । प्राणिनां साक्षादभ्युदयनिःश्रेयस-
हेतुर्यः स धर्मो ब्राह्मणाद्यैर्वर्णिभिराश्रमिभिश्च श्रेयोर्थिभिः
अनुष्ठीयमानो दीर्घेण कालेन । अनुष्ठातॄणां कामोद्भवात्
हीयमानविवेकविज्ञानहेतुकेन अधर्मेण अभिभूयमाने धर्मे,
प्रवर्धमाने च अधर्मे, जगतः स्थितिं परिपिपालयिषुः स
आदिकर्ता नारायणाख्यो विष्णुः भौमस्य ब्रह्मणो ब्राह्मणत्वस्य
रक्षणार्थं देवक्यां वसुदेवादंशेन कृष्णः किल संबभूव ।
ब्राह्मणत्वस्य हि रक्षणे रक्षितः स्याद्वैदिको धर्मः, तदधीनत्वा-
द्वर्णाश्रमभेदानाम् ॥</p>
<p>स च भगवान् ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सदा संपन्नः
त्रिगुणात्मिकां स्वां मायां मूलप्रकृतिं वशीकृत्य, अजोऽव्ययो
भूतानामीश्वरो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन्, स्वमा-
यया देहवानिव जात इव च लोकानुग्रहं कुर्वन् लक्ष्यते ।
स्वप्रयोजनाभावेऽपि भूतानुजिघृक्षया वैदिकं धर्मद्वयम् अर्जु-
नाय शोकमोहमहोदधौ निमग्नाय उपदिदेश, गुणाधिकैर्हि
गृहीतोऽनुष्ठीयमानश्च धर्मः प्रचयं गमिष्यतीति । तं धर्मं
भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो भगवान् गीताख्यैः
सप्तभिः श्लोकशतैरुपनिबबन्ध ॥</p>
<p>तदिदं गीताशास्त्रं समस्तवेदार्थसारसंग्रहभूतं दुर्विज्ञेया-</p>
<pb n="59" />
<p>प्रथमोऽध्यायः ।</p>
<p>र्थम्, तदर्थाविष्करणायानेकैर्विवृतपदपदार्थवाक्यार्थन्यायमपि
अत्यन्तविरुद्धानेकार्थत्वेन लौकिकैर्गृह्यमाणमुपलभ्य अहं विवे-
कतोऽर्थनिर्धारणार्थं संक्षेपतो विवरणं करिष्यामि ॥
तस्य अस्य गीताशास्त्रस्य संक्षेपतः प्रयोजनं परं निःश्रे-
यसं सहेतुकस्य संसारस्य अत्यन्तोपरमलक्षणम् । तच्च सर्व-
कर्मसंन्यासपूर्वकादात्मज्ञाननिष्ठारूपात् धर्मात् भवति । तथा
इममेव गीतार्थ धर्ममुद्दिश्य भगवतैवोक्तम्— ' स हि धर्मः
सुपर्याप्तो ब्रह्मणः पदवेदने' इति अनुगीतासु । तत्रैव चो-
क्तम्— 'नैव धर्मी न चाधर्मी न चैव हि शुभाशुभी । यः
• स्यादेकासने लीनस्तूष्णीं किंचिदचिन्तयन् ॥' इति 'ज्ञानं
संन्यासलक्षणम्' इति च । इहापि च अन्ते उक्तमर्जुनाय -
'सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज' इति । अभ्युद-
यार्थोऽपि यः प्रवृत्तिलक्षणो धर्मो वर्णानाश्रमांश्चोद्दिश्य विहि-
तः, स देवादिस्थानप्राप्तिहेतुरपि सन्, ईश्वरार्पणबुद्धया अनु-
ष्ठीयमानः सत्त्वशुद्धये भवति फलाभिसंधिवर्जितः । शुद्धस-
त्त्वस्य च ज्ञाननिष्ठायोग्यताप्राप्तिद्वारेण ज्ञानोत्पत्तिहेतुत्वेन च
निःश्रेयसहेतुत्वमपि प्रतिपद्यते । तथा चेममर्थमभिसंधाय
वक्ष्यति — 'ब्रह्मण्याधाय कर्माणि' 'योगिनः कर्म कुर्वन्ति
सङ्गं त्यक्त्वात्मशुद्धये' इति ॥</p>
<pb n="60" />
<p>श्रीमद्भगवद्गीताभाष्ये
इमं द्विप्रकारं धर्म निःश्रेयसप्रयोजनम्, परमार्थतत्त्वं च
वासुदेवाख्यं परं ब्रह्माभिधेयभूतं विशेषतः अभिव्यञ्जयत्
विशिष्टप्रयोजनसंबन्धाभिधेयवद्गीताशास्त्रम् । यतः तदर्थवि -
ज्ञाने समस्तपुरुषार्थसिद्धि:, अतः तद्विवरणे यत्नः क्रियते
मया ॥
धृतराष्ट्र उवाच-</p>
<lg>
  <l>धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।</l>
  <l>मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥ १ ॥</l>
</lg>
<p>संजय उवाच-</p>
<lg>
  <l>दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।</l>
  <l>आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ २ ॥</l>
</lg>
<lg>
  <l>पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।</l>
  <l>व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥</l>
</lg>
<lg>
  <l>अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।</l>
  <l>युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥</l>
</lg>
<pb n="61" />
<p>प्रथमोऽध्यायः ।</p>
<lg>
  <l>धृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान् ।</l>
  <l>पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥ ५॥</l>
</lg>
<lg>
  <l>युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।</l>
  <l>सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥</l>
</lg>
<lg>
  <l>अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।</l>
  <l>नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥</l>
</lg>
<lg>
  <l>भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः ।</l>
  <l>अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः ॥ ८ ॥</l>
</lg>
<lg>
  <l>अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।</l>
  <l>नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥</l>
</lg>
<lg>
  <l>अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।</l>
  <l>पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥</l>
</lg>
<lg>
  <l>अयनेषु च सर्वेषु यथाभागमवस्थिताः ।</l>
  <l>भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥</l>
</lg>
<pb n="62" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः ।</l>
  <l>सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥</l>
</lg>
<lg>
  <l>ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।</l>
  <l>सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥</l>
</lg>
<p>ततः श्वेतैर्हयैर्युक्ते महति खन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः</p>
<lg>
  <l>पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः ।</l>
  <l>पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥</l>
</lg>
<lg>
  <l>अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।</l>
  <l>नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥</l>
</lg>
<lg>
  <l>काश्यश्च परमेष्वासः शिखण्डी च महारथः ।</l>
  <l>धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१७॥</l>
</lg>
<p>द्रुपदो द्रौपदेयाश्च
सर्वशः पृथिवीपते ।
}}</p>
<pb n="63" />
<p>प्रथमोऽध्यायः ।
सौभद्रश्च महाबाहुः
शङ्खान्दध्मुः पृथक्पृथक् ॥ १८ ॥</p>
<lg>
  <l>स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।</l>
  <l>नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥</l>
</lg>
<lg>
  <l>अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।</l>
</lg>
<lg>
  <l>प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥ २० ॥</l>
  <l>हृषीकेशं तदा वाक्यमिदमाह महीपते ।</l>
  <l>अर्जुन उवाच-</l>
  <l>सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥</l>
</lg>
<lg>
  <l>यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।</l>
  <l>कैर्मया सह योद्धव्यमस्मिन्त्रणसमुद्यमे ॥ २२ ॥</l>
</lg>
<lg>
  <l>योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।</l>
  <l>धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥</l>
</lg>
<pb n="64" />
<p>संजय उवाच-
श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।</l>
  <l>सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥</l>
</lg>
<lg>
  <l>भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।</l>
  <l>उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥२५॥</l>
</lg>
<lg>
  <l>तत्त्रापश्यत्स्थितान्पार्थः</l>
  <l>पितॄनथ पितामहान् ।</l>
  <l>आचार्यान्मातुलान्भ्रातृ-</l>
  <l>न्पुत्त्रान्पौत्रान्सखींस्तथा ॥ २६ ॥</l>
</lg>
<lg>
  <l>श्वशुरान्सुहृदश्चैव</l>
  <l>सेनयोरुभयोरपि ।</l>
  <l>तान्समीक्ष्य स कौन्तेयः</l>
  <l>सर्वान्बन्धूनवस्थितान् ॥ २७ ॥</l>
</lg>
<p>कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
अर्जुन उवाच -
-
दृष्ट्वेमान्खजनान्कृष्ण युयुत्सून्समुपस्थितान् ॥</p>
<pb n="65" />
<p>प्रथमोऽध्यायः ।</p>
<lg>
  <l>सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।</l>
  <l>. वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २९ ॥</l>
</lg>
<p>गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ।</p>
<lg>
  <l>निमित्तानि च पश्यामि विपरीतानि केशव ।</l>
  <l>न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥</l>
</lg>
<lg>
  <l>विजयं कृष्ण</l>
  <l>न च राज्यं सुखानि च ।</l>
  <l>किं नो राज्येन गोविन्द</l>
  <l>किं भोगैर्जीवितेन वा ॥ ३२ ॥</l>
</lg>
<lg>
  <l>येषामर्थे काङ्क्षितं नो</l>
  <l>'राज्यं भोगाः सुखानि च ।</l>
  <l>त इमेऽवस्थिता युद्धे</l>
  <l>प्राणांस्त्यक्त्वा धनानि च ॥ ३३ ॥</l>
</lg>
<pb n="66" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>आचार्याः पितरः पुत्रा-</l>
  <l>स्तथैव च पितामहाः ।</l>
  <l>मातुलाः श्वशुराः पौत्राः</l>
  <l>स्यालाः संबन्धिनस्तथा ॥ ३४ ॥</l>
</lg>
<lg>
  <l>एतान्न हन्तुमिच्छामि नतोऽपि मधुसूदन ।</l>
  <l>अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥</l>
</lg>
<lg>
  <l>निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।</l>
  <l>पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ ३६ ॥</l>
</lg>
<lg>
  <l>तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रांन्सबान्धवान् ।</l>
  <l>स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥</l>
</lg>
<lg>
  <l>यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।</l>
  <l>कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥</l>
</lg>
<lg>
  <l>कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।</l>
  <l>कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३९ ॥</l>
</lg>
<pb n="67" />
<p>प्रथमोऽध्यायः ।</p>
<lg>
  <l>कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।</l>
  <l>धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥४०॥</l>
</lg>
<lg>
  <l>अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।</l>
  <l>स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥ ४१ ॥</l>
</lg>
<lg>
  <l>संकरो नरकायैव कुलघ्नानां कुलस्य च ।</l>
  <l>पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥</l>
</lg>
<lg>
  <l>दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ।</l>
  <l>उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥</l>
</lg>
<lg>
  <l>उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।</l>
  <l>नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥</l>
</lg>
<lg>
  <l>अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।</l>
  <l>यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४५ ॥</l>
</lg>
<p>यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥४६॥ .</p>
<pb n="68" />
<p>संजय उवाच-
श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।</l>
  <l>विसृज्य सशरं चापं शोकसंविग्नमानसः ॥४७॥</l>
</lg>
<p>इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम
प्रथमोऽध्यायः ॥</p>
<pb n="69" />
<p>श्रीमच्छंकरभगवत्पादविरचितम्
श्रीमद्भगवद्गीताभाष्यम्
द्वितीयोऽध्यायः
AAAAAAAAAA</p>
<pb n="70" />
<pb n="71" />
<p>द्वितीयोऽध्यायः ॥
संजय उवाच-</p>
<lg>
  <l>तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।</l>
  <l>विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥</l>
</lg>
<p>श्रीभगवानुवाच-</p>
<lg>
  <l>कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।</l>
  <l>अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २ ॥</l>
</lg>
<lg>
  <l>क्लैव्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।</l>
  <l>क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥</l>
</lg>
<p>अर्जुन उवाच-</p>
<lg>
  <l>कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ।</l>
  <l>इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥</l>
</lg>
<pb n="72" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>गुरूनहत्वा हि महानुभावान्</l>
  <l>श्रेयो भोक्तुं भैक्षमपीह लोके ।</l>
  <l>हत्वार्थकामांस्तु गुरूनिहैव</l>
  <l>भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥ ५ ॥</l>
</lg>
<lg>
  <l>न चैतद्विद्मः कतरन्नो गरीयो</l>
  <l>यद्वा जयेम यदि वा नो जयेयुः ।</l>
  <l>यानेव हत्वा न जिजीविषाम-</l>
  <l>स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥</l>
</lg>
<lg>
  <l>कार्पण्यदोषोपहतस्वभावः</l>
  <l>पृच्छामि त्वां धर्मसंमूढचेताः ।</l>
  <l>यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे</l>
  <l>शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥</l>
</lg>
<lg>
  <l>न हि प्रपश्यामि ममापनुद्या-</l>
  <l>द्यच्छोकमुच्छोषणमिन्द्रियाणाम् ।</l>
  <l>अवाप्य भूमावसपत्नमृद्धं</l>
  <l>राज्यं सुराणामपि चाधिपत्यम् ॥ ८ ॥</l>
</lg>
<pb n="73" />
<p>द्वितीयोऽध्यायः ।</p>
<p>संजय उवाच-</p>
<lg>
  <l>एवमुक्त्वा हृषीकेशं गुडाकेशः परंतपः ।</l>
  <l>न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥</l>
</lg>
<lg>
  <l>तमुवाच हृषीकेशः प्रहसन्निव भारत ।</l>
  <l>सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥</l>
</lg>
<p>अत्र 'दृष्ट्वा तु पाण्डवानीकम्' इत्यारभ्य यावत् 'न योत्स्य
इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ' इत्येतदन्तः प्राणिनां
शोकमोहादिसंसारबीजभूतदोषोद्भवकारणप्रदर्शनार्थत्वेन व्या-
ख्येयो ग्रन्थः । तथाहि— अर्जुनेन राज्यगुरुपुत्रमित्रसुहृत्स्व-
।
जनसंबन्धिबान्धवेषु ' अहमेतेषाम् ' ' ममैते' इत्येवंप्रत्यय-
निमित्तस्नेहविच्छेदादिनिमित्तौ आत्मनः शोकमोहौ प्रदर्शितौ
'कथं भीष्ममहं संख्ये' इत्यादिना । शोकमोहाभ्यां ह्याभिभूत-
विवेकविज्ञानः स्वत एव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि तस्माद्युद्धा-
दुपरराम ; परधर्मे च भिक्षाजीवनादिकं कर्तुं प्रववृते । तथा च
सर्वप्राणिनां शोकमोहादिदोषाविष्टचेतसां स्वभावत एव स्वध-
र्मपरित्यागः प्रतिषिद्धंसेवा च स्यात् । स्वधर्मे प्रवृत्तानामपि
तेषां वाङ्मनःकायादीनां प्रवृत्तिः फलाभिसंधिपूर्विकैव साह-
कारा च भवति । तत्रैवं सति धर्माधर्मोपचयात् इष्टानिष्टज-
S. B. 2</p>
<pb n="74" />
<p>श्रीमद्भगवद्गीताभाप्ये
न्मसुखदुःखादिप्राप्तिलक्षणः संसारः अनुपरतो भवति । इत्यतः
संसारबीजभूतौ शोकमोहौ । तयोश्च सर्वकर्मसंन्यासपूर्वका-
दात्मज्ञानात् नान्यतो निवृत्तिरिति तदुपदिदिक्षुः सर्वलोका-
नुग्रहार्थम् अर्जुनं निमित्तीकृत्य आह भगवान्वासुदेवः-
'अशोच्यान्' इत्यादि ॥
अत्र केचिदाहुः — सर्वकर्मसंन्यासपूर्व कादात्मज्ञाननिष्ठा-
मात्रादेव केवलात् कैवल्यं न प्राप्यत एव । किं तर्हि ? अभि-
होत्रादिश्रौतस्मार्तकर्मसहितात् ज्ञानात् कैवल्यप्राप्तिरिति स-
र्वासु गीतासु निश्चितोऽर्थ इति । ज्ञापकं च आहुरस्यार्थस्य-
'अथ चेत्वमिमं धर्म्य संग्रामं न करिष्यसि ' ' कर्मण्येवा-
धिकारस्ते ' ' कुरु कर्मैव तस्मात्त्वम्' इत्यादि । हिंसादि-
युक्तत्वात् वैदिकं कर्म अधर्माय इतीयमप्याशङ्का न कार्या ।
कथम्? क्षात्रं कर्म युद्धलक्षणं गुरुभ्रातृपुत्रादिहिंसालक्षण-
मत्यन्तं क्रूरमपि स्वधर्म इति कृत्वा न अधर्माय ; तदकरणे
च 'ततः स्वधर्मे कीर्ति च हित्वा पापमवाप्स्यसि' इति ब्रुव-
ता यावज्जीवादिश्रुतिचोदितानां पश्वादिहिंसालक्षणानां च क-
र्मणां प्रागेव नाधर्मत्वमिति सुनिश्चितमुक्तं भवति — इति ॥
-
तदसत् ; ज्ञानकर्मनिष्ठयोर्विभागवचनाद्बुद्धिद्वयाश्रययोः ।
'अशोच्यान्' इत्यादिना भगवंता यावत् 'स्वधर्ममपि चावेक्ष्य'</p>
<pb n="75" />
<p>द्वितीयोऽध्यायः ।</p>
<p>इत्येतदन्तेन ग्रन्थेन यत्परमार्थात्मतत्त्वनिरूपणं कृतम्, तत्सां-
ख्यम् । तद्विषया बुद्धि: आत्मनो जन्मादिषडिक्रियाभावादक-
र्ता आत्मेति प्रकरणार्थनिरूपणात् या जायते, सा सांख्यबुद्धिः ।
सा येषां ज्ञानिनामुचिता भवति, ते सांख्याः । एतस्या बुद्धेः
जन्मनः प्राक् आत्मनो देहादिव्यतिरिक्तत्वकर्तृत्वभोक्तृत्वा-
द्यपेक्षो धर्माधर्मविवेकपूर्वको मोक्षसाधनानुष्ठानलक्षणो योगः ।
तद्विषया बुद्धि: योगबुद्धिः । सा येषां कर्मिणामुचिता भवति
ते योगिनः । तथा च भगवता विभक्ते द्वे बुद्धी निर्दिष्टे 'एषा
तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु' इति । तयोश्च
सांख्यबुद्धधाश्रयां ज्ञानयोगेन निष्ठां सांख्यानां विभक्तां
वक्ष्यति 'पुरा वेदात्मना मया प्रोक्ता' इति । तथा च योग-
बुद्धधाश्रयां कर्मयोगेन निष्ठां विभक्तां वक्ष्यति — 'कर्मयो-
गेन योगिनाम्' इति । एवं सांख्यबुद्धिं योगबुद्धिं च आश्रित्य
द्वे निष्ठे विभक्ते भगवतैव उक्ते ज्ञानकर्मणोः कर्तृत्वाकर्तृ-
त्वैकत्वानेकत्वबुद्ध्याश्रययोः युगपदेकपुरुषाश्रयत्वासंभवं प-
श्यता । यथा एतद्विभागवचनम्, तथैव दर्शितं शातपथीये
ब्राह्मणे - 'एतमेव प्रब्राजिनो लोकमिच्छन्तो ब्राह्मणाः प्रत्र-
जन्ति' इति सर्वकर्मसंन्यासं विधाय तच्छेषेण 'किं प्रजया
करिष्यामो येषां नोऽयमात्मायं लोकः' इति । तत्र च
-</p>
<pb n="76" />
<p>श्रीमद्भगवद्गीताभाष्ये
प्राक् दारपरिग्रहात् पुरुषः आत्मा प्राकृतो धर्मजिज्ञासोत्तर -
कालं लोकत्रयसाधनम् — पुत्रम्, द्विप्रकारं च वित्तं मानुषं
दैवं च; तत्र मानुषं कर्मरूपं पितृलोकप्राप्तिसाधनं विद्यां
च दैवं वित्तं देवलोकप्राप्तिसाधनम् — 'सोऽकामयत' इति
अविद्याकामवत एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि ।
तेभ्यः 'व्युत्थाय प्रव्रजन्ति' इति व्युत्थानमात्मानमेव
लोकमिच्छतोऽकामस्य विहितम् । तदेतद्विभागवचनमनुपपन्नं
स्याद्यदि श्रौतकर्मज्ञानयोः समुच्चयोऽभिप्रेतः स्याद्भगवतः ॥
न च अर्जुनस्य प्रश्न उपपन्नो भवति 'ज्यायसी चेत्कर्म-
णस्ते' इत्यादिः । एकपुरुषानुष्ठेयत्वासंभवं बुद्धिकर्मणोः भग-
वता पूर्वमनुक्तं कथमर्जुनः अश्रुतं बुद्धेश्च कर्मणो ज्यायस्त्वं
भगवत्यध्यारोपयेन्मृषैव ' ज्यायसी चेत्कर्मणस्ते मता बुद्धि:
इति ॥
,
किंच— यदि बुद्धिकर्मणोः सर्वेषां समुच्चय उक्तः स्यात्
अर्जुनस्यापि स उक्त एवेति, ' यच्छ्रेय एतयोरेकं तन्मे ब्रूहि
सुनिश्चितम्' इति कथमुभयोरुपदेशे सति अन्यतरविषय
एव प्रश्नः स्यात् ? न हि पित्तप्रशमनार्थिनः वैद्येन मधुरं
शीतलं च भोक्तव्यम् इत्युपदिष्टे तयोरन्यतरत्पित्तप्रशमनका-
रणं ब्रूहि इति प्रश्नः संभवर्ति ॥</p>
<pb n="77" />
<p>द्वितीयोऽध्यायः ।</p>
<p>अथ अर्जुनस्य भगवदुक्तवचनार्थविवेकानवधारणनिमित्तः
प्रश्नः कल्प्येत, तथापि भगवता प्रश्नानुरूपं प्रतिवचनं
देयम् — मया बुद्धिकर्मणोः समुच्चय उक्तः, किमर्थमित्थं त्वं
भ्रान्तोऽसि — इति । न तु पुनः प्रतिवचनमननुरूपं पृष्टा-
दन्यदेव ' द्वे निष्ठे मया पुरा प्रोक्ते' इति वक्तुं युक्तम् ॥
नापि स्मार्तेनैव कर्मणा बुद्धेः समुच्चये अभिप्रेते विभाग-
वचनादि सर्वमुपपन्नम् । किंच — क्षत्रियस्य युद्धं स्मार्त
कर्म स्वधर्म इति जानत: ' तत्किं कर्मणि घोरे मां नियो-
जयसि' इति उपालम्भोऽनुपपन्नः ॥
तस्माद्गीताशास्त्रे ईषन्मात्रेणापि श्रौतेन स्मार्तेन वा
कर्मणा आत्मज्ञानस्य समुच्चयो न केनचिद्दर्शयितुं शक्यः ।
यस्य तु अज्ञानात् रागादिदोषतो वा कर्मणि प्रवृत्तस्य यज्ञेन
दानेन तपसा वा विशुद्धसत्त्वस्य ज्ञानमुत्पन्नं परमार्थतत्त्व-
विषयम् ' एकमेवेदं सर्वे ब्रह्म अकर्तृ च' इति, तस्य कर्मणि
कर्मप्रयोजने च निवृत्तेऽपि लोकसंग्रहार्थे यत्नपूर्वं यथा
प्रवृत्तिः, तथैव प्रवृत्तस्य यत्प्रवृत्तिरूपं दृश्यते न तत्कर्म येन
बुद्धेः समुच्चयः स्यात्; यथा भगवतो वासुदेवस्य क्षत्रधर्म-
. चेष्टितं न ज्ञानेन समुच्चीयते पुरुषार्थसिद्धये, तद्वत् तत्फलाभि-
संध्यहंकाराभावस्य तुल्यत्वाद्विदुषः । तत्त्वविन्नाहं करोमीति</p>
<pb n="78" />
<p>श्रीमद्भगवद्गीताभाप्ये
मन्यते, न च तत्फलमभिसंधत्ते । यथा च स्वर्गादिकामार्थिनः
अग्निहोत्रादिकर्मलक्षणधर्मानुष्ठानाय आहिताग्नेः काम्ये एव</p>
<lg>
  <l>अग्निहोत्रादौ प्रवृत्तस्य सामि कृते विनष्टेऽपि कामे तदेव</l>
  <l>अग्निहोत्राद्यनुतिष्ठतोऽपि न तत्काम्यमग्निहोत्रादि भवति ।</l>
  <l>तथा च दर्शयति भगवान् - 'कुर्वन्नपि न लिप्यते' 'न</l>
  <l>करोति न लिप्यते' इति तत्र तत्र ॥</l>
</lg>
<p>यच्च ' पूर्वैः पूर्वतरं कृतम्' 'कर्मणैव हि संसिद्धिमास्थिता
जनकादयः' इति, तत्तु प्रविभज्य विज्ञेयम् । तत्कथम् ?
यदि तावत् पूर्वे जनकादयः तत्त्वविदोऽपि प्रवृत्तकर्माणः
स्युः, ते लोकसंग्रहार्थम् ' गुणा गुणेषु वर्तन्ते ' इति ज्ञानेनैव
संसिद्धिमास्थिताः, कर्मसंन्यासे प्राप्तेऽपि कर्मणा सहैव संसि -
द्धिमास्थिताः, न कर्मसंन्यासं कृतवन्त इत्यर्थः । अथ न ते
तत्त्वविदः ; ईश्वरसमर्पितेन कर्मणा साधनभूतेन संसिद्धिं
सत्त्वशुद्धिम्, ज्ञानोत्पत्तिलक्षणां वा संसिद्धिम्, आस्थिता जन-
कादय इति व्याख्येयम् । एतमेवार्थं वक्ष्यति भगवान् 'सत्त्व-
शुद्धये कर्म कुर्वन्ति' इति । ' स्वकर्मणा तमभ्यर्च्य सिद्धिं
विन्दति मानवः' इत्युक्वा सिद्धिं प्राप्तस्य पुनर्ज्ञाननिष्ठां
वक्ष्यति — ' सिद्धिं प्राप्तो यथा ब्रह्म' इत्यादिना ॥
•
तस्माद्गीताशास्त्रे केवलादेव तत्त्वज्ञानान्मोक्षप्राप्तिः न</p>
<pb n="79" />
<p>द्वितीयोऽध्यायः ।</p>
<p>कर्मसमुचितात्, इति निश्चितोऽर्थः । यथा चायमर्थः, तथा
प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः ॥
तत्त्रैवं धर्मसंमूढचेतसो मिथ्याज्ञानवतो महति शोकसागरे
निमग्नस्य अर्जुनस्य अन्यत्रात्मज्ञानादुद्धरणमपश्यन् भगवा-
न्वासुदेवः ततः कृपया अर्जुनमुद्दिधारयिषुः आत्मज्ञानाया-
वतारयन्नाह -
श्रीभगवानुवाच -</p>
<lg>
  <l>अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।</l>
  <l>गतासूनगतासुंश्च नानुशोचन्ति पण्डिताः ॥</l>
</lg>
<p>अशोच्यान् इत्यादि । न शोच्या अशोच्याः भीष्मद्रो-
णादयः, सद्वृत्तत्वात् परमार्थस्वरूपेण च नित्यत्वात्, तान्
अशोच्यान् अन्वशोच: अनुशोचितवानसि ' ते म्रियन्ते
मन्निमित्तम्, अहं तैर्विनाभूतः किं करिष्यामि राज्यसुखा-
दिना' इति । त्वं प्रज्ञावादान् प्रज्ञावतां बुद्धिमतां वादांच
वचनानि च भाषसे । तदेतत् मौढ्यं पाण्डित्यं च विरुद्धम्
आत्मनि दर्शयसि उन्मत्त इव इत्यभिप्रायः । यस्मात् गता-
सून् गतप्राणान् मृतान्, अगतासून अगतप्राणान् जीवतश्च
न अनुशोचन्ति पण्डिताः आत्मज्ञाः । पण्डा आत्मवि-</p>
<pb n="80" />
<p>श्रीमद्भगवद्गीताभाष्ये
षया बुद्धिः येषां ते हि पण्डिताः, 'पाण्डित्यं निर्विद्य' इति
श्रुतेः । परमार्थतस्तु तान् नित्यान् अशोच्यान् अनुशोचसि,
अतो मूढोऽसि इत्यभिप्राय: ॥
-
कुतस्ते अशोच्याः, यतो नित्याः । कथम् ? –</p>
<lg>
  <l>न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।</l>
  <l>न चैव न भविष्यामः सर्वे वयमतः परम् ॥</l>
</lg>
<p>न तु एव जातु कदाचित् अहं नासम्, किं तु आसमेव ।
अतीतेषु देहोत्पत्तिविनाशेषु घटादिषु वियदिव नित्य एव
अहमासमित्यभिप्रायः । तथा न त्वं न आसीः, किं तु
आसीरेव । तथा न इमे जनाधिपाः न आसन्, किं तु
आसन्नेव । तथा न च एव न भविष्यामः, किं तु भविष्याम
एव, सर्वे वयम् अतः अस्मात् देहविनाशात् परम् उत्तरकाले
अपि । त्रिष्वपि कालेषु नित्या आत्मस्वरूपेण इत्यर्थः । देहभे-
दानुवृत्त्या बहुवचनम्, नात्मभेदाभिप्रायेण ॥
तत्र कथमिव नित्य आत्मेति दृष्टान्तमाह —</p>
<lg>
  <l>देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।</l>
  <l>तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥</l>
</lg>
<pb n="81" />
<p>द्वितीयोऽध्यायः ।</p>
<p>देहः अस्य अस्तीति देही, तस्य देहिनो देहवतः आत्मनः
अस्मिन् वर्तमाने देहे यथा येन प्रकारेण कौमारं कुमारभावो
बाल्यावस्था, यौवनं यूनो भावो मध्यमावस्था, जरा वयो-
हानि: जीर्णोवस्था, इत्येताः तिस्रः अवस्था: अन्योन्यविल-
क्षणाः । तासां प्रथमावस्थानाशे न नाशः, द्वितीयावस्थोप
जने न उपजन आत्मन: । किं तर्हि ? अविक्रियस्यैव द्विती-
यतृतीयावस्थाप्राप्तिः आत्मनो दृष्टा । तथा तद्वदेव देहात्
अन्यो देहो देहान्तरम्, तस्य प्राप्तिः देहान्तरप्राप्तिः अविक्रिय-
स्यैव आत्मनः इत्यर्थः । धीरो धीमान्, तत्र एवं सति
न मुह्यति न मोहमापद्यते ॥
यद्यपि आत्मविनाशनिमित्तो मोहो न संभवति नित्य
आत्मा इति विजानतः, तथापि शीतोष्णसुखदुःखप्राप्तिनि-
मित्तो मोहो लौकिको दृश्यते, सुखवियोगनिमित्तो मोह:
दुःखसंयोगनिमित्तश्च शोकः । इत्येतदर्जुनस्य वचनमाशङ्कय
भगवानाह -
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षख भारत ।
मात्रा: आभिः मीयन्ते शब्दादय इति श्रोत्रादीनि इन्द्रि-</p>
<pb n="82" />
<p>श्रीमद्भगवद्गीताभाष्ये
याणि । मात्राणां स्पर्शाः शब्दादिभिः संयोगाः । ते शीतो-
ष्णसुखदुःखदाः शीतम् उष्णं सुखं दुःखं च प्रयच्छन्तीति ।
अथवा स्पृश्यन्त इति स्पर्शाः विषयाः शब्दादयः । मालाच
स्पर्शाश्व शीतोष्णसुखदुःखदाः । शीतं कदाचित् सुखं कदा-
चित् दुःखम् । तथा उष्णमपि अनियतस्वरूपम् । सुखदुःखे
पुनः नियतरूपे यतो नं व्यभिचरतः । अतः ताभ्यां पृथक्
शीतोष्णयोः ग्रहणम् । यस्मात् ते मात्रास्पर्शादयः आगमा-
पायिनः आगमापायशीलाः तस्मात् अनित्याः । अतः तान्
शीतोष्णादीन् तितिक्षस्व प्रसहस्व । तेषु हर्षे विषादं वा मा
कार्षीः इत्यर्थः ॥
शीतोष्णादीन् सहतः किं खादिति शृणु-</p>
<lg>
  <l>यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।</l>
  <l>समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥</l>
</lg>
<p>.
यं हि पुरुषं समे दुःखसुखे यख तं समदुःखसुखं सुख-
दुःखप्राप्तौ हर्षविषादरहितं धीरं धीमन्तं न व्यथयन्ति न
चालयन्ति नित्यात्मदर्शनात् एते यथोक्ताः शीतोष्णादयः, सः
नित्यात्मस्वरूपदर्शननिष्ठो द्वन्द्वसहिष्णुः अमृतत्वाय अमृत-
भावाय मोक्षायेत्यर्थः, कल्पते समर्थो भवति ॥</p>
<pb n="83" />
<p>द्वितीयोऽध्यायः ।</p>
<p>इतश्च शोकमोहौ अकृत्वा शीतोष्णादिसहनं युक्तम्,
यस्मात्—</p>
<lg>
  <l>नासतो विद्यते भावो नाभावो विद्यते सतः ।</l>
  <l>उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥</l>
</lg>
<p>न असत: अविद्यमानस्य शीतोष्णादेः सकारणस्य न
विद्यते नास्ति भावो भवनम् अस्तिता ॥
न हि शीतोष्णादि सकारणं प्रमाणैर्निरूप्यमाणं वस्तुसद्भ-
वति । विकारो हि सः, विकारश्च व्यभिचरति । यथा घटा-
दिसंस्थानं चक्षुषा निरूप्यमाणं मृद्वयतिरेकेणानुपलब्धेरसत्,
तथा सर्वो विकारः कारणव्यतिरेकेणानुपलब्धेरसन् । जन्म-
प्रध्वंसाभ्यां प्रागूर्ध्वं च अनुपलब्धेः कार्यस्य घटादेः मृदादि-
कारणस्य च तत्कारणव्यतिरेकेणानुपलब्धेरस त्वम् ॥
तदसत्त्वे सर्वाभावप्रसङ्ग इति चेत्, न ; सर्वत्र बुद्धिद्वयो-
पलब्धेः, सद्बुद्धिरसद्बुद्धिरिति । यद्विषया बुद्धिर्न व्यभिचरति,
तत् सत्; यद्विषया व्यभिचरति, तदसत्; इति सदसद्वि-
भागे बुद्धितन्त्रे स्थिते, सर्वत्र द्वे बुद्धी सर्वैरुपलभ्येते समा-
नाधिकरणे न नीलोत्पलवत्, सन् घटः सन् पटः, सन्
हस्ती इति । एवं सर्वत्र । तयोर्बुद्धयोः घटादिबुद्धिः व्यभि-</p>
<pb n="84" />
<p>श्रीमद्भगवद्गीताभाष्ये
चरति । तथा च दर्शितम् । न तु सद्बुद्धिः । तस्मात् घटा-
दिबुद्धिविषयः असन्, व्यभिचारात्; न तु सद्गुद्धिविषयः,
अव्यभिचारात् ॥
घटे विनष्टे घटबुद्धौ व्यभिचरन्त्यां सद्बुद्धिरपि व्यभिच-
रतीति चेत् , न; पटादावपि सद्बुद्धिदर्शनात् । विशेषणवि-
षयैव सा सद्बुद्धिः ॥
सद्बुद्धिवत् घटबुद्धिरपि घटान्तरे दृश्यत इति चेत्, न;
पटादौ अदर्शनात् ॥
सद्बुद्धिरपि नष्टे घटे न दृश्यत इति चेत्, न; विशेष्या-
भावात् । सद्गुद्धिः विशेषणविषया सती विशेष्याभावे विशे-
षणानुपपत्तौ किंविषया स्यात् ?" न तु पुनः समुद्धेः विषया-
भावात् ॥
एकाधिकरणत्वं घटादिविशेष्याभावे न युक्तमिति चेत्,
न; 'इदमुदकम् ' इति मरीच्यादौ अन्यतराभावेऽपि सामा-
नाधिकरण्यदर्शनात् ॥
:
तस्माद्देहादेः द्वन्द्वस्य च सकारणस्य असतो न विद्यते
भाव इति । तथा सतश्च आत्मनः अभावः अविद्यमानता
न विद्यते, सर्वत्र अव्यभिचारात् इति अवोचाम ॥</p>
<pb n="85" />
<p>.
द्वितीयोऽध्यायः ।</p>
<p>एवम् आत्मानात्मनोः सदसतो: उभयोरपि दृष्टः उप-
लब्धः अन्तो निर्णयः सत् सदेव असत् असदेवेति तु अन-
योः यथोक्तयोः तत्त्वदर्शिभिः । तदिति सर्वनाम, सर्व च
ब्रह्म, तस्य नाम तदिति, तद्भावः तत्त्वम्, ब्रह्मणो याथा-
यम् । तत् द्रष्टुं शीलं येषां ते तत्त्वदर्शिनः, तैः तत्त्वदर्शि-
भि: । त्वमपि तत्त्वदर्शिनां दृष्टिमाश्रित्य शोकं मोहं च हित्वा
शीतोष्णादीनि नियतानियतरूपाणि द्वन्द्वानि ' विकारोऽय-
मन्नेव मरीचिजलवन्मिथ्यावभासते ' इति मनसि निश्चित्य
तितिक्षस्व इत्यभिप्राय: ॥
किं पुनस्तत्, यत् सदेव सर्वदा इति ; उच्यते—</p>
<lg>
  <l>अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।</l>
  <l>विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ॥</l>
</lg>
<p>अविनाशि न विनष्टुं शीलं यस्येति । तुशब्दः असतो
विशेषणार्थः । तत् विद्धि विजानीहि । किम् ? येन सर्वम् इदं
जगत् ततं व्याप्तं सदाख्येन ब्रह्मणा साकाशम्, आकाशेनेव
घटादयः । विनाशम् अदर्शनम् अभावम् । अव्ययस्य न व्येति
उपचयापचयौ न याति इति अव्ययं तस्य अव्ययस्य । नैतत्
सदाख्यं ब्रह्म स्वेन रूपेण व्येति व्यभिचरति, निरवयव-
त्वात् देहादिवत् । नाप्यात्मीयेन, आत्मीयाभावात् ।
"</p>
<pb n="86" />
<p>श्रीमद्भगवद्गीताभाष्ये
यथा देवदत्तो धनहान्या व्येति, न तु एवं ब्रह्म व्येति ।
अत: अव्ययस्य अस्य ब्रह्मणः विनाशं न कश्चित् कर्तु-</p>
<lg>
  <l>मर्हति, न कश्चित् अत्मानं विनाशयितुं शक्नोति ईश्वरोऽपि ।</l>
  <l>आत्मा हि ब्रह्म, स्वात्मनि च क्रियाविरोधात् ॥</l>
</lg>
<p>किं पुनस्तदसत्, यत्स्वात्मसत्तां व्यभिचरतीति, उच्यते-
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ।
अन्तः विनाशः विद्यते येषां ते अन्तवन्तः । यथा मृगतृ-
ष्णिकादौ सद्बुद्धिः अनुवृत्ता प्रमाणनिरूपणान्ते विच्छिद्यते,
स तस्य अन्तः; तथा इमे देहाः स्वप्नमायादेहादिवच्च अ-
न्तवन्तः नित्यस्य शरीरिणः शरीरवतः अनाशिनः अप्रमेयस्य
आत्मन: अन्तवन्त इति उक्ता: विवेकिभिरित्यर्थः । ' नित्य-
स्य ''अनाशिन: ' इति न पुनरुक्तम्; नित्यत्वस्य द्विविध-
त्वात् लोके, नाशस्य च । यथा देहो भस्मीभूतः अदर्शनं गतो
नष्ट उच्यते । विद्यमानोऽपि यथा अन्यथा परिणतो व्या-
ध्यादियुक्तो जातो नष्ट उच्यते । तत्र ' नित्यस्य ' ' अनाशिन: '
इति द्विविधेनापि नाशेन असंबन्धः अस्येत्यर्थः । अन्यथा
पृथिव्यादिवदपि नित्यत्वं स्यात् आत्मनः ; तत् मा भूदिति</p>
<pb n="87" />
<p>द्वितीयोऽध्यायः ।</p>
<p>' नित्यस्य' 'अनाशिन: ' इत्याह । अप्रमेयस्य न प्रमेयस्य
प्रत्यक्षादिप्रमाणैः अपरिच्छेद्यस्येत्यर्थः ॥
ननु आगमेन आत्मा परिच्छिद्यते, प्रत्यक्षादिना च
पूर्वम् । न; आत्मनः स्वतः सिद्धत्वात् । सिद्धे हि आत्मनि
प्रमातरि प्रभित्सोः प्रमाणान्वेषणा भवति । न हि पूर्वम्
' इत्थमहम्' इति आत्मानमप्रमाय पश्चात् प्रमेयपरिच्छेदाय
प्रवर्तते । न हि आत्मा नाम कस्यचित् अप्रसिद्धो भवति ।</p>
<lg>
  <l>शास्त्रं तु अन्त्यं प्रमाणम् अतद्धर्माध्यारोपणमात्र निवर्तकत्वेन</l>
  <l>प्रमाणत्वम् आत्मनः प्रतिपद्यते, न तु अज्ञातार्थज्ञापकत्वेन ।</l>
  <l>तथा च श्रुतिः - ' यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वा-</l>
  <l>न्तर:' इति ॥</l>
</lg>
<p>यस्मादेवं नित्य: अविक्रियश्च आत्मा तस्मात् युध्यस्व,
युद्धात् उपरमं मा कार्षीः इत्यर्थः ॥
न हि अत्र युद्धकर्तव्यता विधीयते, युद्धे प्रवृत्त एव हि
असौ शोकमोहप्रतिबद्धः तूष्णीमास्ते । अतः तस्य प्रतिबन्धा-
पनयनमात्रं भगवता क्रियते । तस्मात् 'युध्यस्व' इति अनु-
वादमात्रम्, न विधिः ॥
शोकमोहादिसंसारकारणनिवृत्त्यर्थे गीताशास्त्रम्, न प्रवर्त-
कम् इत्येतस्यार्थस्य साक्षिभूते ऋचौ आनिनाय भगवान् ।</p>
<pb n="88" />
<p>श्रीमद्भगवद्गीताभाष्ये
यत्तु मन्यसे 'युद्धे भीष्मादयो मया हन्यन्ते ' ' अहमेव
तेषां हन्ता' इति, एषा बुद्धिः मृषैव ते । कथम् ? --</p>
<lg>
  <l>य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।</l>
  <l>उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥</l>
</lg>
<p>य एनं प्रकृतं देहिनं वेत्ति विजानाति हन्तारं हनन-
क्रियायाः कर्तारं यश्च एनम् अन्यो मन्यते हतं देहहननेन
'हतः अहम्' इति हननक्रियायाः कूर्मभूतम्, तौ उभौ न
विजानीतः न ज्ञातवन्तौ अविवेकेन आत्मानम् । 'हता</p>
<lg>
  <l>अहम्' 'हतः अस्मि अहम्' इति देहहननेन आत्मानमहं-</l>
  <l>प्रत्ययविषयं यौ विजानीतः तौ आत्मस्वरूपानभिज्ञौ इत्यर्थः ।</l>
  <l>यस्मात् न अयम् अत्मा हन्ति न हननक्रियायाः कर्ता भवति,</l>
  <l>न च हन्यते न च कर्म भवतीत्यर्थः, अविक्रियत्वात् ॥</l>
</lg>
<p>कथमविक्रय आत्मेति द्वितीयो मन्त्र:-
-</p>
<lg>
  <l>न जायते म्रियते वा कदाचि-</l>
  <l>न्नायं भूत्वाभविता वा न भूयः ।</l>
  <l>अजो नित्यः शाश्वतोऽयं पुराणो</l>
  <l>न हन्यते हन्यमाने शरीरे ॥ २० ॥</l>
</lg>
<pb n="89" />
<p>द्वितीयोऽध्यायः ।</p>
<p>न जायते न उत्पद्यते, जनिलक्षणा वस्तुविक्रिया न आ-
त्मनो विद्यते इत्यर्थः । तथा न म्रियते वा । वाशब्दः चार्थे ।
न म्रियते च इति अन्त्या विनाशलक्षणा विक्रिया प्रतिषि-
ध्यते । कदाचिच्छन्दः सर्वविक्रियाप्रतिषेधैः संबध्यते—
न कदाचित् जायते, न कदाचित् म्रियते, इत्येवम् । यस्मात्
अयम् आत्मा भूत्वा भवनक्रियामनुभूय पश्चात् अभविता
अभावं गन्ता न भूयः पुनः, तस्मात् न म्रियते । यो हि
भूत्वा न भविता स म्रियत इत्युच्यते लोके । वाश-
ब्दात् नशब्दाच्च अयमात्मा अभूत्वा वा भविता देह-
वत् न भूयः । तस्मात् न जायते । यो हि अभूत्वा भविता
स जायत इत्युच्यते । नैवमात्मा । अतो न जायते ।
यस्मादेवं तस्मात् अज:, यस्मात् न म्रियते तस्मात् नित्य-
श्व । यद्यपि आद्यन्तयोर्विक्रिययोः प्रतिषेधे सर्वा विक्रिया:
प्रतिषिद्धा भवन्ति, तथापि मध्यभाविनीनां विक्रियाणां स्व-
शब्दैरेव प्रतिषेधः कर्तव्यः अनुक्तानामपि यौवनादिसमस्तवि-
क्रियाणां प्रतिषेधो यथा स्यात् इत्याह - शाश्वत इत्यादिना ।
शाश्वत इति अपक्षयलक्षणा विक्रिया प्रतिषिध्यते । शश्वद्भवः
शाश्वतः । न अपक्षीयते स्वरूपेण, निरवयवत्वात् । नापि
गुणक्षयेण अपक्षयः, निर्गुणत्वात् । अपक्षयविपरीतापि
S. B. 3</p>
<pb n="90" />
<p>श्रीमद्भगवद्गीताभाष्ये
वृद्धिलक्षणा विक्रिया प्रतिषिध्यते—- पुराण इति । यो हि
अवयवागमेन उपचीयते स वर्धते अभिनव इति च उच्यते ।
अयं तु आत्मा निरवयवत्वात् पुरापि नव एवेति पुराण: ;
न वर्धते इत्यर्थः । तथा न हन्यते । हन्तिः अत्र विपरि-
णामार्थे द्रष्टव्यः अपुनरुक्ततायै । न विपरिणम्यते इत्यर्थः ।
हन्यमाने विपरिणम्यमानेऽपि शरीरे । अस्मिन् मन्त्रे षड्
भावविकारा लौकिकवस्तुविक्रिया आत्मनि प्रतिषिध्यन्ते ।
सर्वप्रकारविक्रियारहित आत्मा इति वाक्यार्थः । यस्मादेवं
तस्मात् ' उभौ तौ न विजानीत:' इति पूर्वेण मन्त्रेण
अस्य संबन्धः ॥
' य एनं वेत्ति हन्तारम्' इत्यनेन मन्त्रेण हननक्रियाया:
कर्ता कर्म च न भवति इति प्रतिज्ञाय, 'न जायते' इत्यनेन
अविक्रियत्वं हेतुमुक्त्वा प्रतिज्ञातार्थमुपसंहरति —</p>
<lg>
  <l>वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।</l>
  <l>कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥</l>
</lg>
<p>वेद विजानाति अविनाशिनम् अन्त्यभावविकाररहितं
नित्यं विपरिणामरहितं यो वेद इति संबन्धः । एनं पूर्वेण मत्रे-
णो लक्षणम् अजं जन्मरहितम् अव्ययम् अपक्षयरहितं कथं</p>
<pb n="91" />
<p>द्वितीयोऽध्यायः ।</p>
<p>केन प्रकारेण सः विद्वान् पुरुषः अधिकृतः हन्ति हननक्रियां
करोति, कथं वा घातयति हन्तारं प्रयोजयति । न कथंचित्
कंचित् हन्ति, न कथंचित् कंचित् घातयति इति उभयत्र
आक्षेप एवार्थः, प्रश्नार्थासंभवात् । हेत्वर्थस्य च अविक्रियत्वस्य
तुल्यत्वात् विदुषः सर्वकर्मप्रतिषेध एव प्रकरणार्थ: अभिप्रेतो
भगवंता । हन्तेस्तु आक्षेप: उदाहरणार्थत्वेन कथितः ॥
विदुषः कं कर्मसंभवहेतुविशेषं पश्यन् कर्माण्याक्षि-
पति भगवान् ' कथं स पुरुष:' इति । ननु उक्त एवात्मनः
अविक्रियत्वं सर्वकर्मासंभवकारणविशेषः । सत्यमुक्तः । न
तु सः कारणविशेषः, अन्यत्वात् विदुषः अविक्रिया-
दात्मनः । न हि अविक्रियं स्थाणुं विदितवत: कर्म न
संभवति इति चेत्, न विदुषः आत्मत्वात् । न देहादिसं-
घातस्य विद्वत्ता । अत: पारिशेष्यात् असंहत: आत्मा विद्वान्
अविक्रियः इति तस्य विदुषः कर्मासंभवात् आक्षेपो युक्तः
' कथं स पुरुष:' इति । यथा बुद्ध्याद्याहृतस्य शब्दाद्यर्थस्य
अविक्रिय एव सन् बुद्धिवृत्त्यविवेकविज्ञानेन अविद्यया उप-
लब्धा आत्मा कल्प्यते, एवमेव आत्मानात्मविवेकज्ञानेन
बुद्धिवृत्त्या विद्यया असत्यरूपयैव परमार्थतः, अविक्रिय
एव आत्मा विद्वानुच्यते । विदुषः कर्मासंभववचनात् यान</p>
<pb n="92" />
<p>श्रीमद्भगवद्गीताभाष्ये
कर्माणि शास्त्रेण विधीयन्ते तानि अविदुषो विहितानि इति
भगवतो निश्चयोऽवगम्यते ॥
ननु विद्यापि अविदुष एव विधीयते, विदितविद्यस्य पि-
टपेषणवत् विद्याविधानानर्थक्यात् । तत्र अविदुषः कर्माणि
विधीयन्ते न विदुषः इति विशेषो नोपपद्यते इति चेत्, न;
अनुष्ठेयस्य भावाभावविशेषोपपत्तेः । अग्निहोत्रादिविध्यर्थ-
ज्ञानोत्तरकालम् अग्निहोत्रादिकर्म अनेकसाधनोपसंहारपूर्वक-
मनुष्ठेयम् 'कर्ता अहम्, मम कर्तत्र्यम्' इत्येवंप्रकारविज्ञा-
नवतः अविदुषः यथा अनुष्ठेयं भवति, न तु तथा 'न जायते'
इत्याद्यात्मस्वरूपविध्यर्थज्ञानोत्तरकालभावि किंचिदनुष्ठेयं भव-
ति; किंतु 'नाहं कर्ता, नाहं भोक्ता' इत्याद्यात्मैकत्वाकर्तृ-
त्वादिविषयज्ञानात् नान्यदुत्पद्यते इति एष विशेष उपपद्यते ।
यः पुनः ' कर्ता अहम्' इति वेत्ति आत्मानम्, तस्य 'मम
इदं कर्तव्यम्' इति अवश्यंभाविनी बुद्धि: स्यात्; तद-
पेक्षया सः अधिक्रियते इति तं प्रति कर्माणि
संभवन्ति ।
स च अविद्वान्, 'उभौ तौ न विजानीत:' इति वच-
नात्, विशेषितस्य च विदुषः कर्माक्षेपवचनाच 'कथं स
पुरुष:' इति । तस्मात् विशेषितस्य अविक्रियात्मदर्शिनः
विदुषः मुमुक्षोश्च सर्वकर्मसंन्यासे एव अधिकार: । अत एव</p>
<pb n="93" />
<p>द्वितीयोऽध्यायः ।</p>
<p>भगवान् नारायणः सांख्यान् विदुषः अविदुषश्च कर्मिणः
प्रविभज्य द्वे निष्ठे ग्राहयति — 'ज्ञानयोगेन सांख्यानां कर्म-
योगेन योगिनाम्' इति । तथा च पुत्राय आह भगवान्
व्यास:- 'द्वाविमावथ पन्थानौ' इत्यादि । तथा च क्रि-
-
यापथश्चैव पुरस्तात् पश्चात्संन्यासश्चेति । एतमेव विभागं पुन:
पुनर्दर्शयिष्यति भगवान् — अतत्त्ववित् ' अहंकारविमूढात्मा
कर्ताहमिति मन्यते', तत्त्ववित्तु नाहं करोमि इति । तथा च
' सर्वकर्माणि मनसा संन्यस्यास्ते' इत्यादि ॥
तब केचित्पण्डितंमन्या वदन्ति - 'जन्मादिषड्भाव-
विक्रियारहितः अविक्रियः अकर्ता एकः अहमात्मा' इति न
कस्यचित् ज्ञानम् उत्पद्यते, यस्मिन् सति सर्वकर्मसंन्यासः
उपदिश्यते इति । तन्न ; ' न जायते' इत्यादिशास्त्रोपदेशान-
र्थक्यप्रसङ्गात् । यथा च शास्त्रोपदेशसामर्थ्यात् धर्माधर्मास्ति-
त्वविज्ञानं कर्तुश्च देहान्तरसंबन्धविज्ञानमुत्पद्यते, तथा शा-
स्नात् तस्यैव आत्मनः अविक्रियत्वाकर्तृत्वैकत्वादिविज्ञानं
कस्मात् नोत्पद्यते इति प्रष्टव्याः ते । करणागोचरत्वात् इति
चेत्, न; 'मनसैवानुद्रष्टव्यम्' इति श्रुतेः । शास्त्राचार्योप-
देशशमदमादिसंस्कृतं मनः आत्मदर्शने करणम् । तथा च
तदधिगमाय अनुमाने आगमे च सति ज्ञानं नोत्पद्यत इति</p>
<pb n="94" />
<p>"
श्रीमद्भगवद्गीताभाष्ये
साहसमात्रमेतत् । ज्ञानं च उत्पद्यमानं तद्विपरीतमज्ञानम्
अवश्यं बाधते इत्यभ्युपगन्तव्यम् । तञ्च अज्ञानं दर्शितम्
हन्ता अहम्, हतः अस्मि' इति 'उभौ तौ न विजानीत : '
इति । अत्र च आत्मन: हननक्रियायाः कर्तृत्वं कर्मत्वं हेतु-
कर्तृत्वं च अज्ञानकृतं दर्शितम् । तच्च सर्वक्रियास्वपि समा-
नं कर्तृत्वादेः अविद्याकृतत्वम्, अविक्रियत्वात् आत्मन: ।
विक्रियावान् हि कर्ता आत्मनः कर्मभूतमन्यं प्रयोजयति
'कुरु' इति । तदेतत् अविशेषेण विदुपः सर्वक्रियासु कर्तृत्वं
हेतुकर्तृत्वं च प्रतिषेधति भगवान्वासुदेव: विदुषः कर्माधि-
काराभावप्रदर्शनार्थम् 'वेदाविनाशिनं .:. कथं स पुरुष: '
इत्यादिना । क्वक पुनः विदुषः अधिकार इति एतदुक्तं पूर्व-
मेव 'ज्ञानयोगेन सांख्यानाम्' इति । तथा च सर्वकर्म-
संन्यासं वक्ष्यति 'सर्वकर्माणि मनसा' इत्यादिना ॥
ननु मनसा इति वचनात् न वाचिकानां कायिकानां
च संन्यासः इति चेत्, न सर्वकर्माणि इति विशेषि-
तत्वात् । मानसानामेव सर्वकर्मणामिति चेत्, न ; मनोव्या-
पारपूर्वकत्वाद्वाक्कायव्यापांराणां मनोव्यापाराभावे तदनुप-
पत्तेः । शास्त्रीयाणां वाक्कायकर्मणां कारणानि मानसानि
कर्माणि वर्जयित्वा अन्यानि सर्वकर्माणि मनसा संन्य-</p>
<pb n="95" />
<p>द्वितीयोऽध्यायः ।</p>
<p>स्येदिति चेत्, न ; 'नैव कुर्वन्न कारयन्' इति विशेष-
णात् । सर्वकर्मसंन्यासः अयं भगवता उक्तः मरिष्यतः न
जीवतः इति चेत्; न; 'नवद्वारे पुरे देही आस्ते ' इति विशे-
णानुपपत्तेः । न हि सर्वकर्मसंन्यासेन मृतस्य तद्देहे आसनं
संभवति । अकुर्वतः अकारयतश्च देहे संन्यस्य इति संबन्ध:
न देहे आस्ते इति चेत्, न; सर्वत्र आत्मनः अविक्रियत्वा-
वधारणात्, आसनक्रियायाश्च अधिकरणापेक्षत्वात्, तद-
नपेक्षत्वाच्च संन्यासस्य । संपूर्वस्तु न्यासशब्दः अत्र त्यागार्थ:,
न निक्षेपार्थः । तस्मात् गीताशास्त्रे आत्मज्ञानवतः संन्यासे
एंव अधिकारः, न कर्मणि इति तत्र तत्र उपरिष्टात् आत्म-
ज्ञानप्रकरणे दर्शयिष्यामः ॥
प्रकृतं तु वक्ष्यामः । तत्र आत्मनः अविनाशित्वं प्रति-
ज्ञातम् । तत्किमिवेति, उच्यते-</p>
<lg>
  <l>वासांसि जीर्णानि यथा विहाय</l>
  <l>नवानि गृह्णाति नरोऽपराणि ।</l>
  <l>तथा शरीराणि विहाय जीर्णा-</l>
  <l>न्यन्यानि संयाति नवानि देही ॥ २२ ॥</l>
</lg>
<p>• वासांसि वस्त्राणि जीर्णानि दुर्बलतां गतानि यथा लोके</p>
<pb n="96" />
<p>श्रीमद्भगवद्गीताभाष्ये
विहाय परित्यज्य नवानि अभिनवानि गृह्णाति उपादत्ते नरः
पुरुष : अपराणि अन्यानि, तथा तद्वदेव शरीराणि विहाय
जीर्णानि अन्यानि संयाति संगच्छति नवानि देही आत्मा
पुरुषवत् अविक्रिय एवेत्यर्थः ॥
कस्मात् अविक्रिय एवेति, आह-</p>
<lg>
  <l>नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।</l>
  <l>न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२३॥</l>
</lg>
<p>एनं प्रकृतं देहिनं न च्छिन्दन्ति शस्त्राणि, निरवयवत्वात्
न अवयवविभागं कुर्वन्ति । शस्त्राणि अस्यादीनि । तथा न
एनं दहति पावकः, अग्निरपि न भस्मीकरोति । तथा न च
एनं क्लेदयन्ति आपः । अपां हि सावयवस्य वस्तुन: आर्द्रा-
भावकरणेन अवयवविश्लेषापादने सामर्थ्यम् । तत् न निर-
वयवे आत्मनि संभवति । तथा स्नेहवत् द्रव्यं स्नेहशोषणेन
नाशयति वायुः । एनं तु आत्मानं न शोषयति मारुतोऽपि ॥
यतः एवं तस्मात् —</p>
<lg>
  <l>अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एवं च ।</l>
  <l>नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥२४॥</l>
</lg>
<pb n="97" />
<p>द्वितीयोऽध्यायः ।</p>
<p>यस्मात् अन्योन्यनाशहेतुभूतानि एनमात्मानं नाशयितुं
नोत्सहन्ते अस्यादीनि तस्मात् नित्यः । नित्यत्वात् सर्वगतः ।
सर्वगतत्वात् स्थाणुः इव, स्थिर इत्येतत् । स्थिरत्वात् अचल:
अयम् आत्मा । अतः सनातनः चिरंतनः, न कारणात्कुत-
श्चित् निष्पन्नः, अभिनव इत्यर्थः ॥
#
नैतेषां श्लोकानां पौनरुक्त्यं चोदनीयम्, यतः एकेनैव
श्लोकेन आत्मनः नित्यत्वमविक्रियत्वं चोक्तम् ' न जायते
म्रियते वा' इत्यादिना । तत्र यदेव आत्मविषयं किंचिदु-
च्यते, तत् एतस्मात् श्लोकार्थान् न अतिरिच्यते ; किंचि-
च्छब्दतः पुनरुक्तम्, किंचिदर्थतः इति । दुर्बोधत्वात् आत्म-
वस्तुनः पुनः पुनः प्रसङ्गमापाद्य शब्दान्तरेण तदेव वस्तु
निरूपयति भगवान् वासुदेवः कथं नु नाम संसारिणामसं-
सारित्वबुद्धिगोचरतामापन्नं सत् अव्यक्तं तत्त्वं संसारनिवृ-
तये स्यात् इति ॥
किंच—</p>
<lg>
  <l>अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।</l>
  <l>तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥</l>
</lg>
<p>सर्वकरणाविषयत्वात् न व्यज्यत इति अव्यक्तः अयम</p>
<pb n="98" />
<p>श्रीमद्भगवद्गीताभाष्ये
आमा । अत एव अचिन्त्यः अयम् । यद्धि इन्द्रियगोचर:
तत् चिन्ताविषयत्वमापद्यते । अयं त्वात्मा अनिन्द्रिय-
गोचरत्वात् अचिन्त्यः । अत एव अविकार्यः, यथा क्षीरं
दध्यातश्वनादिना विकारि न तथा अयमात्मा । निर-
वयवत्वाच्च अविक्रियः । न हि निरवयवं किंचित् विक्रियात्मकं
दृष्टम् । अविक्रियत्वात् अविकार्यः अयम् आत्मा उच्यते ।
तस्मात् एवं यथोक्तप्रकारेण एनम् आत्मानं विदित्वा त्वं
न अनुशोचितुमर्हसि हन्ताह मेषाम् मयैते हन्यन्त इति ॥
:
आत्मनः अनित्यत्वमभ्युपगम्य इदमुच्यते—</p>
<lg>
  <l>अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।</l>
  <l>तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥२६॥</l>
</lg>
<p>अथ च इति अभ्युपगमार्थः । एनं प्रकृतमात्मानं नित्य-
जातं लोकप्रसिद्धया प्रत्यनेकशरीरोत्पत्ति जातो जात इति
मन्यसे तथा प्रतितत्तद्विनाशं नित्यं वा मन्यसे मृतं मृतो
मृत इति ; तथापि तथाभावेऽपि आत्मनि त्वं महाबाहो, न
एवं शोचितुमर्हसि, जन्मवतो जन्म नाशवतो नाशश्वेत्ये-
ताववश्यंभाविनाविति ॥
तथा च सति-</p>
<pb n="99" />
<p>द्वितीयोऽध्यायः ।</p>
<lg>
  <l>जातस्य हि ध्रुवो मृत्युर्भुवं जन्म मृतस्य च ।</l>
  <l>तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२७॥</l>
</lg>
<p>जातस्य हि लब्धजन्मनः ध्रुवः अव्यभिचारी मृत्युः
मरणं ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्योऽयं जन्ममरण-
लक्षणोऽर्थः । तस्मिन्नपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥
कार्यकरणसंघातात्मकान्यपि भूतान्युद्दिश्य शोको न
युक्तः कर्तुम्, यत:-
-</p>
<lg>
  <l>अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।</l>
  <l>अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥</l>
</lg>
<p>.
अव्यक्तादीनि · अव्यक्तम् अदर्शनम् अनुपलब्धिः आदि:
येषां भूतानां पुत्रमित्रादिकार्यकरणसंघातात्मकानां तानि
अव्यक्तादीनि भूतानि प्रागुत्पत्तेः, उत्पन्नानि च प्राङ्मर-
णात् व्यक्तमध्यानि । अव्यक्तनिधनान्येव पुनः अव्यक्तम् अद-
र्शनं निधनं मरणं येषां तानि अव्यक्तनिधनानि । मरणा-
दूर्ध्वमप्यव्यक्ततामेव प्रतिपद्यन्ते इत्यर्थः । तथा चोक्तम्--
' अदर्शनादापतितः पुनश्चादर्शनं गतः । नासौ तब न तस्य त्वं
वृथा का परिदेवना' इति । तत्र का परिदेवना को वा
प्रलापः अदृष्टदृष्टप्रनष्टभ्रान्तिभूतेषु भूतेष्वित्यर्थः ॥</p>
<pb n="100" />
<p>श्रीमद्भगवद्गीताभाष्य
दुर्विज्ञेयोऽयं प्रकृत आमा ; किं त्वामेवैकमुपालभे साधा-
रणे भ्रान्तिनिमित्ते । कथं दुर्विज्ञेयोऽयमात्मा इत्यत आह-</p>
<lg>
  <l>आश्चर्यवत्पश्यति कश्चिदेन-</l>
  <l>माश्चर्यवद्वदति तथैव चान्यः ।</l>
  <l>आश्चर्यवच्चैनमन्यः शृणोति</l>
  <l>श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २९ ॥</l>
</lg>
<p>आश्चर्यवत् आश्चर्यम् अदृष्टपूर्वम् अद्भुतम् अकस्माद्दृश्य-
मानं तेन तुल्यं आश्चर्यवत् आश्चर्यमिव एनम् आत्मानं
पश्यति कश्चित् । आश्चर्यवत् एनं वदति तथैव च अन्यः ।
आश्चर्यवच्च एनमन्यः शृणोति । श्रुत्वा दृष्ट्वा उक्त्वापि एन-
मात्मानं वेद न चैव कश्चित् । अथवा योऽयमात्मानं पश्यति
स आश्चर्यतुल्यः, यो वदति यश्च शृणोति सः अनेकसहस्रेषु
कश्चिदेव भवति । अतो दुर्बोध आत्मा इत्यभिप्राय: ॥
अथेदानीं प्रकरणार्थमुपसंहरन्ब्रूते-</p>
<lg>
  <l>देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।</l>
  <l>तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥</l>
</lg>
<p>देही शरीरी नित्यं सर्वदा सर्वावस्थासु अवध्यः निरव-</p>
<pb n="101" />
<p>द्वितीयोऽध्यायः ।</p>
<p>यवत्वान्नित्यत्वाच्च तत्र अवध्योऽयं देहे शरीरे सर्वस्य सर्व-
गतत्वात्स्थावरादिषु स्थितोऽपि सर्वस्व प्राणिजातस्य देहे
वध्यमानेऽपि अयं देही न वध्यः यस्मात् तस्मात् भीष्मा-
दीनि सर्वाणि भूतानि उद्दिश्य न त्वं शोचितुमर्हसि ॥
इह परमार्थतत्त्वापेक्षायां शोको मोहो वा न संभव-
तीत्युक्तम् । न केवलं परमार्थतत्त्वापेक्षायामेव । किं तु—</p>
<lg>
  <l>स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।</l>
  <l>धर्म्याडि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥</l>
</lg>
<p>स्वधर्ममपि स्वो धर्मः क्षत्रियस्य युद्धं तमपि अवेक्ष्य त्वं
न विकम्पितुं प्रचलितुम् नार्हसि क्षत्रियस्य स्वाभाविका-
द्धर्मात् आत्मस्वाभाव्यादित्यभिप्रायः । तच्च युद्धं पृथिवीज-
यद्वारेण धर्मार्थं प्रजारक्षणार्थं चेति धर्मादनपेतं परं धर्म्यम् ।
तस्मात् धर्म्यात् युद्धात् श्रेयः अन्यत् क्षत्रियख न विद्यते
हि यस्मात् ॥
कुतश्च तत् युद्धं कर्तव्यमिति, उच्यते—</p>
<lg>
  <l>यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।</l>
  <l>सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥</l>
</lg>
<pb n="102" />
<p>श्रीमद्भगवद्गीताभाष्ये
यदृच्छया च अप्रार्थिततया उपपन्नम् आगतं स्वर्गद्वारम्
अपावृतम् उद्घाटितं ये एतत् ईदृशं युद्धं लभन्ते क्षत्रियाः हे
पार्थ, किं न सुखिनः ते ?
एवं कर्तव्यताप्राप्तमपि—
अथ चेत्वमिमं धर्म्य संग्रामं न करिष्यसि ।
ततः स्वधर्म कीर्ति च हित्वा पापमवाप्स्यसि ।
अथ चेत् त्वम् इमं धर्म्ये धर्मादनपेतं विहितं संग्रामं युद्धं
न करिष्यसि चेत्, ततः तदकरणात् स्वधर्म कीर्ति च महा-
देवादिसमागमनिमित्तां हित्वा केवलं पापम् अवाप्स्यसि ॥
न केवलं स्वधर्मकीर्तिपरित्यागः-</p>
<lg>
  <l>अकीर्ति चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।</l>
  <l>संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ३४ ॥</l>
</lg>
<p>अकीर्तिं चापि युद्धे भूतानि कथयिष्यन्ति ते तव अव्य-
यां दीर्घकालाम् । धर्मात्मा शूर इत्येवमादिभिः गुणैः संभा-
वितस्य च अकीर्तिः मरणात् अतिरिच्यते, संभावितस्य च
अकीर्तेः वरं मरणमित्यर्थः ॥
किंच-</p>
<pb n="103" />
<p>द्वितीयोऽध्यायः ।</p>
<lg>
  <l>भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।</l>
  <l>येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥</l>
</lg>
<lg>
  <l>भयात् कर्णादिभ्यः रणात् युद्धात् उपरतं निवृत्तं मंस्यन्ते</l>
  <l>चिन्तयिष्यन्ति न कृपयेति त्वां महारथाः दुर्योधनप्रभृतयः ।</l>
  <l>येषां च त्वं दुर्योधनादीनां बहुमतो बहुभिः गुणैः युक्तः</l>
  <l>इत्येवं मतः बहुमतः भूत्वा पुन: यास्यसि लाघवं लघुभावम् ॥</l>
</lg>
<p>किंच-</p>
<lg>
  <l>अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।</l>
  <l>निन्दन्तस्तव सामर्थ्य ततो दुःखतरं नु किम् ॥</l>
</lg>
<p>अवाच्यवादान् अवक्तव्यवादांश्च बहून् अनेकप्रकारान्
वदिष्यन्ति तव अहिताः शत्रवः निन्दन्त: कुत्सयन्तः तव
त्वदीयं सामर्थ्य निवातकवचादियुद्धनिमित्तम् । ततः तस्मात्
निन्दाप्राप्तेर्दुःखात् दुःखतरं नु किम्, ततः कष्टतरं दुःखं
नास्तीत्यर्थः ॥
युद्धे पुनः क्रियमाणे कर्णादिभिः—
हतो वा प्राप्स्यसि स्वर्ग
जित्वा वा भोक्ष्यसे महीम् ।</p>
<pb n="104" />
<p>श्रीमद्भगवद्गीताभाष्ये
तस्मादुत्तिष्ठ कौन्तेय
युद्धाय कृतनिश्चयः ॥ ३७ ॥
हतो वा प्राप्स्यसि स्वर्गम्, हतः सन् स्वर्गं प्राप्स्यसि ।
जित्वा वा कर्णादीन् शूरान् भोक्ष्यसे महीम् । उभयथापि
तव लाभ एवेत्यभिप्रायः । यत एवं तस्मात् उत्तिष्ठ कौन्तेय
युद्धाय कृतनिश्चयः 'जेष्यामि शत्रून, मरिष्यामि वा' इति
निश्चयं कृत्वेत्यर्थः ॥
तत्र युद्धं स्वधर्म इत्येवं युध्यमानस्योपदेशमिमं शृणु-</p>
<lg>
  <l>सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।</l>
  <l>ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥</l>
</lg>
<p>सुखदुःखे समे तुल्ये कृत्वा, रागद्वेषावप्यकृत्वेत्येतत् ।
तथा लाभालाभौ जयाजयौं च समौ कृत्वा ततो युद्धाय
युज्यस्व घटस्व । न एवं युद्धं कुर्वन् पापम् अवाप्स्यसि ।
इत्येष उपदेशः प्रासङ्गिकः ॥
शोकमोहापनयनाय लौकिको न्याय: 'स्वधर्ममपि चावे-
क्ष्य' इत्याद्यैः श्लोकैरुक्तः, न तु तात्पर्येण । परमार्थदर्शन-
मिह प्रकृतम् । तञ्चोक्तमुपसंहियते— 'एषा तेऽभिहिता</p>
<pb n="105" />
<p>द्वितीयोऽध्यायः ।</p>
<p>इति शास्त्रविषयविभागप्रदर्शनाय । इह हि प्रदर्शिते पुनः
शास्त्रविषयविभागे उपरिष्टात् 'ज्ञानयोगेन सांख्यानां कर्म-
योगेन योगिनाम्' इति निष्ठाद्वयविषयं शास्त्रं सुखं प्रवर्ति-
ष्यते, श्रोतारश्च विषयविभागेन सुखं ग्रहीष्यन्ति इत्यत
आह-</p>
<lg>
  <l>एषा तेऽभिहिता सांख्ये वुद्धियोंगे त्विमां शृणु ।</l>
  <l>बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥</l>
</lg>
<p>।
एषा ते तुभ्यम् अभिहिता उक्ता सांख्ये परमार्थवस्तुवि-
वेकविषये बुद्धिः ज्ञानं साक्षात् शोकमोहादिसंसारहेतुदोषनि-
वृत्तिकारणम् । योगे तु तत्प्राप्त्युपाये निःसङ्गतया द्वन्द्वमहा-
णपूर्वकम् ईश्वराराधनार्थे कर्मयोगे कर्मानुष्ठाने समाधियोगे
च इमाम् अनन्तरमेवोच्यमानां बुद्धिं शृणु । तां च बुद्धिं
स्तौति प्ररोचनार्थं — बुद्धधा यया योगविषयया युक्तः हे
पार्थ, कर्मबन्धं कर्मैव धर्माधर्माख्यो बन्धः कर्मबन्धः तं
प्रहास्यसि ईश्वरप्रसादनिमित्तज्ञानप्राप्त्यैव इत्यभिप्राय: ॥
किंच अन्यत् —</p>
<lg>
  <l>नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।</l>
  <l>स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥</l>
</lg>
<p>S. B. 4</p>
<pb n="106" />
<p>श्रीमद्भगवद्गीताभाष्ये
न इह मोक्षमार्गे कर्मयोगे अभिक्रमनाशः अभिक्रमण-
मभिक्रमः प्रारम्भः तस्य नाशः नास्ति यथा कृष्यादेः ।
योगविषये प्रारम्भस्य न अनैकान्तिकफलत्वमित्यर्थः । किंच-
नापि चिकित्सावत् प्रत्यवाय: विद्यते भवति । किं तु स्वल्प-
मपि अस्य धर्मस्य योगधर्मस्य अनुष्ठितं त्रायते रक्षति
महतः भयात् संसारभयात् जन्ममरणादिलक्षणात् ॥
येयं सांख्ये बुद्धिरुक्ता योगे च, वक्ष्यमाणलक्षणा सा-</p>
<lg>
  <l>व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।</l>
  <l>बहुशाखा ह्यनन्ताश्च वुद्धयोऽव्यवसायिनाम् ॥</l>
</lg>
<p>व्यवसायात्मिका निश्चयस्वभावा एका एव बुद्धि: इतर-
विपरीतबुद्धिशाखाभेदस्य बाधिका, सम्यक्प्रमाणजनित-
त्वात्, इह श्रेयोमार्गे हे कुरुनन्दन । याः पुनः इतरा विप-
रीतबुद्धयः, यासां शाखाभेदप्रचारवशात् अनन्तः अपारः
अनुपरतः संसारो नित्यप्रततो विस्तीर्णो भवति, प्रमाणजनि-
तविवेकबुद्धिनिमित्तवशाश्च उपरतास्वनन्तभेदबुद्धिषु संसारो-
ऽप्युपरमते ता बुद्धयः बहुशाखा: बह्वयः शाखा: यासां
ता: बहुशाखाः, बहुभेदा इत्येतत् । प्रतिशाखाभेदेन हि अन-
न्ताश्च बुद्धयः । केषाम् ? अव्यवसायिनां प्रमाणजनितविवे-
कबुद्धिरहितानामित्यर्थः ॥</p>
<pb n="107" />
<p>द्वितीयोऽध्यायः ।
येषां व्यवसायात्मिका बुद्धिर्नास्ति ते—</p>
<lg>
  <l>यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।</l>
  <l>वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥</l>
</lg>
<p>याम् इमां वक्ष्यमाणां पुष्पितां पुष्पित इव वृक्षः शोभ-
मानां श्रूयमाणरमणीयां वाचं वाक्यलक्षणां प्रवदन्ति । के ?
अविपश्चितः अमेधसः अविवेकिन इत्यर्थः । वेदवादरताः
बह्वर्थवादफलसाधनप्रकाशकेषु वेदवाक्येषु रताः हे पार्थ, न
अन्यत् स्वर्गपश्वादिफलसाधनेभ्यः कर्मभ्यः अस्ति इति एवं
वादिनः वदनशीलाः ॥
ते च-</p>
<lg>
  <l>कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।</l>
  <l>क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ ४३ ॥</l>
</lg>
<p>कामात्मानः कामस्वभावाः, कामपरा इत्यर्थः । स्वर्गपराः
स्वर्गः परः पुरुषार्थः येषां ते स्वर्गपराः स्वर्मप्रधानाः । जन्म-
कर्मफलप्रदां कर्मणः फलं कर्मफलं जन्मैव कर्मफलं जन्मकर्म-
फलं तत् प्रददातीति जन्मकर्मफलप्रदा, तां वाचम् । प्रवदन्ति
इत्यनुषज्यते । क्रियाविशेषबहुलां क्रियाणां विशेषाः क्रिया-
विशेषाः ते बहुला यस्यां वाचि तां स्वर्गपशुपुत्राद्यर्थाः यया</p>
<pb n="108" />
<p>श्रीमद्भगवद्गीताभाप्ये
वाचा बाहुल्येन प्रकाश्यन्ते । भोगैश्वर्यगतिं प्रति भोगश्च
ऐश्वर्य च भोगैश्वर्ये, तयोर्गतिः प्राप्तिः भोगैश्वर्यगतिः, तां प्रति
साधनभूताः ये क्रियाविशेषाः तद्बहुलां तां वाचं प्रवदन्तः
मूढाः संसारे परिवर्तन्ते इत्यभिप्राय: ॥
तेषां च-</p>
<lg>
  <l>भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।</l>
  <l>व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥</l>
</lg>
<p>भोगैश्वर्यप्रसक्तानां भोगः कर्तव्यः ऐश्वर्यं च इति भोगे-
श्वर्ययोरेव प्रणयवतां तदात्मभूतानाम् । तया क्रियाविशेष-
बहुलया वाचा अपहृतचेतसाम् आच्छादितविवेकप्रज्ञानां
व्यवसायात्मिका सांख्ये योगे वा बुद्धिः समाधौ समाधीयते
अस्मिन् पुरुषोपभोगाय सर्वमिति समाधिः अन्तःकरणं
बुद्धिः तस्मिन् समाधौ न विधीयते न भवति इत्यर्थः ॥
"
ये एवं विवेकबुद्धिरहिताः तेषां कामात्मनां यत् फलं
तदाह-</p>
<lg>
  <l>त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।</l>
  <l>निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥</l>
</lg>
<pb n="109" />
<p>द्वितीयोऽध्यायः ।</p>
<p>त्रैगुण्यविषया: त्रैगुण्यं संसारो विषयः प्रकाशयितव्यः
येषां ते वेदाः त्रैगुण्यविषयाः । त्वं तु निस्त्रैगुण्यो भव अर्जुन,
निष्कामो भव इत्यर्थः । निर्द्वन्द्वः सुखदुःखहेत् सप्रतिपक्षौ
पदार्थों द्वन्द्वशब्दवाच्यौ, ततः निर्गतः निर्द्वन्द्वो भव ।
नित्यसत्त्वस्थः सदा सत्त्वगुणाश्रितो भव । तथा निर्योगक्षेम:
अनुपात्तस्य उपादानं योगः, उपात्तस्य रक्षणं क्षेमः, योग-
क्षेमप्रधानस्य श्रेयसि प्रवृत्तिर्दुष्करा इत्यतः निर्योगक्षेमो
भव । आत्मवान् अप्रमत्तत्र भव । एष तव उपदेश: स्वधर्म-
मनुतिष्ठतः ॥
सर्वेषु वेदोक्तेषु कर्मसु यान्युक्तान्यनन्तानि फलानि
तानि नापेक्ष्यन्ते चेत्, किमर्थं तानि ईश्वरायेत्यनुष्ठीयन्ते
इत्युच्यते ; शृणु—</p>
<lg>
  <l>यावानर्थ उदपाने सर्वतः संप्लुतोदके ।</l>
  <l>तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६॥</l>
</lg>
<p>यथा लोके कूपतडागाद्यनेकस्मिन् उदपाने परिच्छिन्नोदके
यावान् यावत्परिमाणः स्नानपानादिः अर्थः फलं प्रयोजनं
स सर्वः अर्थः सर्वतःसंप्लुतोदकेऽपि यः अर्थः तावानेव
संपद्यते, तत्र अन्तर्भवतीत्यर्थः । एवं तावान् तावत्परिमाण</p>
<pb n="110" />
<p>श्रीमद्भगवद्गीताभाष्ये
एव संपद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु यः अर्थः यत्कर्म-
फलं सः अर्थः ब्राह्मणस्य संन्यासिनः परमार्थतत्त्वं विजा-
नतः यः अर्थः यत् विज्ञानफलं सर्वतः संप्लुतोदकस्थानीयं
तस्मिन् तावानेव संपद्यते तत्रैवान्तर्भवतीत्यर्थः । 'यथा
कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति
यत् किंचित् प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद'
इति श्रुतेः । 'सर्वं कर्माखिलम्' इति च वक्ष्यति । तस्मात्
प्राक् ज्ञाननिष्ठाधिकारप्राप्तेः कर्मण्यधिकृतेन कूपतडागाद्यर्थ-.
स्थानीयमपि कर्म कर्तव्यम् ॥
तव च-</p>
<lg>
  <l>कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।</l>
  <l>मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ४७ ॥</l>
</lg>
<p>कर्मण्येव अधिकारः न ज्ञाननिष्ठायां ते तत्र । तत्र च
कर्म कुर्वतः मा फलेषु अधिकारः अस्तु, कर्मफलतृष्णा मा
भूत् कदाचन कस्यचिदप्यवस्थायामित्यर्थः । यदा कर्मफले
तृष्णा स्यात् तदा कर्मफलप्राप्तेः हेतुः स्याः, एवं मा
कर्मफलहेतुः भूः । यदा हि कर्मफलतृष्णाप्रयुक्तः कर्मणि
प्रवर्तते तदा कर्मपलस्यैव जन्मनो हेतुर्भवेत् । यदि कर्मफलं</p>
<pb n="111" />
<p>द्वितीयोऽध्यायः ।</p>
<p>नेष्यते, किं कर्मणा दुःखरूपेण ? इति मा ते तव सङ्गः
अस्तु अकर्मणि अकरणे प्रीतिर्मा भूत् ॥
यदि कर्मफलप्रयुक्तेन न कर्तव्यं कर्म, कथं तर्हि कर्तव्य -
मिति; उच्यते—</p>
<lg>
  <l>योगस्थः कुरु कर्माणि</l>
  <l>सङ्गं त्यक्त्वा धनंजय ।</l>
  <l>सिद्ध्यसिद्ध्योः समो भूत्वा</l>
  <l>समत्वं योग उच्यते ॥ ४८ ॥</l>
</lg>
<p>योगस्थः सन् कुरु कर्माणि केवलमीश्वरार्थम् ; तत्रापि
'ईश्वरो मे तुष्यतु' इति सङ्गं त्यक्त्वा धनंजय । फलतृष्णा-
शून्येन क्रियमाणे कर्मणि सत्त्वशुद्धिजा ज्ञानप्राप्तिलक्षणा
सिद्धि:, तद्विपर्ययजा असिद्धिः, तयोः सिद्ध्यसिद्धयोः अपि
समः तुल्यः भूत्वा कुरु कर्माणि । कोऽसौ योगः यत्रस्थः
कुरु इति उक्तम् ? इदमेव तत् — सिद्धयसिद्धयोः समत्वं
योगः उच्यते ॥
यत्पुनः समत्वबुद्धियुक्तमीश्वराराधनार्थे कर्मोक्तम्, एत-
- स्मात्कर्मणः--</p>
<pb n="112" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>दूरेण ह्यवरं कर्म वुडियोगाडनंजय ।</l>
  <l>वुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥</l>
</lg>
<p>दूरेण अतिविप्रकर्षेण अत्यन्तमेव हि अवरम् अधमं नि-
कृष्टं कर्म फलार्थिना क्रियमाणं बुद्धियोगात् समत्वबुद्धियु-
क्तात् कर्मणः, जन्ममरणादिहेतुत्वात् । हे धनंजय, यत एवं
ततः योगविषयायां बुद्धौ तत्परिपाकजायां वा सांख्यबुद्धौ
शरणम् आश्रयमभयप्राप्तिकारणम् अन्विच्छ प्रार्थयस्व, पर-
मार्थज्ञानशरणो भवेत्यर्थः । यतः अवरं कर्म कुर्वाणा: कृप-
णाः दीना: फलहेतवः फलतृष्णाप्रयुक्ताः सन्तः, 'यो वा एत-
दक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रेति स कृपण:' इति श्रुतेः ॥
समत्वबुद्धियुक्तः सन् स्वधर्ममनुतिष्ठन् यत्फलं प्राप्नोति
तच्छृणु-</p>
<lg>
  <l>बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।</l>
  <l>तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥</l>
</lg>
<p>बुद्धियुक्तः कर्मसमत्वविषयया बुद्धधा युक्तः बुद्धियुक्तः सः
जहाति परित्यजति इह अस्मिन् लोके उभे सुकृतदुष्कृते
पुण्यपापे सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण यतः, तस्मात् समत्व-
बुद्धियोगाय युज्यस्व घटस्व । योगो हि कर्मसु कौशलम्,</p>
<pb n="113" />
<p>-द्वितीयोऽध्यायः ।</p>
<p>स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यसिद्ध्योः समत्वबुद्धिः
ईश्वरार्पितचेतस्तया तत् कौशलं कुशलभावः । तद्धि कौशलं
यत् बन्धनस्वभावान्यपि कर्माणि समत्वबुद्धया स्वभावात्
निवर्तन्ते । तस्मात्समत्वबुद्धियुक्तो भव त्वम् ॥
यस्मात्-</p>
<lg>
  <l>कर्मजं वुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।</l>
  <l>जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥</l>
</lg>
<p>कर्मजं फलं त्यक्त्वा इति व्यवहितेन संबन्धः । इष्टानि-
ष्टदेहप्राप्तिः कर्मजं फलं कर्मभ्यो जातं बुद्धियुक्ताः समत्व-
बुद्धियुक्ताः सन्तः हि यस्मात् फलं त्यक्त्वा परित्यज्य मनी-
षिणः ज्ञानिनो भूत्वा, जन्मबन्धविनिर्मुक्ता: जन्मैव बन्धः
जन्मबन्धः तेन विनिर्मुक्ताः जीवन्त एव जन्मबन्धात् वि-
निर्मुक्ताः सन्तः, पदं परमं विष्णोः मोक्षाख्यं गच्छन्ति अना-
मयं सर्वोपद्रवरहितमित्यर्थः । अथवा 'बुद्धियोगाद्धनंजय
इत्यारभ्य परमार्थदर्शनलक्षणैव सर्वतः संप्लुतोदकस्थानीया
कर्मयोगजसत्त्वशुद्धिजनिता बुद्धिर्दर्शिता, साक्षात्सुकृतदुष्कृ-
तप्रहाणादिहेतुत्वश्रवणात् ॥
योगानुष्ठानजनितस स्वशुद्धिजा बुद्धिः कदा प्राप्स्यते
इत्युच्यते-</p>
<pb n="114" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।</l>
  <l>तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥</l>
</lg>
<p>यदा यस्मिन्काले ते तव मोहकलिलं मोहात्मकमविवेक-
रूपं कालुष्यं येन आत्मानात्मविवेकबोधं कलुषीकृत्य विषयं
प्रत्यन्तःकरणं प्रवर्तते, तत् तव बुद्धिः व्यतितरिष्यति व्यति-
क्रमिष्यति, अतिशुद्धभावमापत्स्यते इत्यर्थः । तदा तस्मिन्
काले गन्तासि प्राप्स्यसि निर्वेदं वैराग्यं श्रोतव्यस्य श्रुतस्य
च, तदा श्रोतव्यं श्रुतं च ते निष्फलं प्रतिभातीत्यभिप्राय: ॥
मोहक लिलात्ययद्वारेण लब्धात्मविवेकजप्रज्ञः कदा कर्म-
योगजं फलं परमार्थयोगमवाप्स्यामीति चेत्, तत् शृणु -</p>
<lg>
  <l>श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।</l>
  <l>समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥</l>
</lg>
<p>श्रुतिविप्रतिपन्ना अनेकसाध्यसाधनसंबन्धप्रकाशनश्रुतिभिः
श्रवणैः प्रवृत्तिनिवृत्तिलक्षणैः विप्रतिपन्ना नानाप्रतिपन्ना वि-
क्षिप्ता सती ते तव बुद्धिः यदा यस्मिन् काले स्थास्यति
स्थिरीभूता भविष्यति निश्चला विक्षेपचलनवर्जिता सती
समाधौ समाधीयते चित्तमस्मिन्निति समाधिः आत्मा,
तस्मिन् आत्मनि इत्येतत् । अचला तत्रापि विकल्पवर्जिता</p>
<pb n="115" />
<p>द्वितीयोऽध्यायः ।</p>
<p>इत्येतत् । बुद्धिः अन्तःकरणम् । तदा तस्मिन्काले योगम्
अवाप्स्यसि विवेकप्रज्ञां समाधिं प्राप्स्यसि ॥
प्रश्नबीजं प्रतिलभ्य अर्जुन उवाच लब्धसमाधिप्रज्ञस्य
लक्षणबुभुत्सया-
अर्जुन उवाच -</p>
<lg>
  <l>स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।</l>
  <l>स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥</l>
</lg>
<p>स्थिता प्रतिष्ठिता ' अहमस्मि परं ब्रह्म' इति प्रज्ञा यस्य
सः स्थितप्रज्ञः तस्य स्थितप्रज्ञस्य का भाषा किं भाषणं वचनं
कथमसौ परैर्भाष्यते समाधिस्थस्य समाधौ स्थितस्य हे के-
शव । स्थितधीः स्थितप्रज्ञः स्वयं वा किं प्रभाषेत । किम्</p>
<lg>
  <l>आसीत व्रजेत किम् आसनं व्रजनं वा तस्य कथमित्यर्थः ।</l>
  <l>स्थितप्रज्ञस्य लक्षणमनेन श्लोकेन पृच्छते ॥</l>
</lg>
<p>यो ह्यादित एव संन्यस्य कर्माणि ज्ञानयोगनिष्ठायां प्रवृत्तेः,
यश्च कर्मयोगेन तयोः 'प्रजहाति' इत्यारभ्य आ अध्याय-
परिसमाप्तेः स्थितप्रज्ञलक्षणं साधनं चोपदिश्यते । सर्वत्रैव
हि अध्यात्मशास्त्रे कृतार्थलक्षणानि यानि तान्येव साधनानि
उपदिश्यन्ते, यत्नसाध्यत्वात । यानि यत्नसाध्यानि साध-</p>
<pb n="116" />
<p>श्रीमद्भगवद्गीताभाप्ये
नानि लक्षणानि च भवन्ति तानि श्रीभगवानुवाच -
श्रीभगवानुवाच-</p>
<lg>
  <l>प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।</l>
  <l>आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥</l>
</lg>
<p>प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन्काले
सर्वान् समस्तान् कामान् इच्छाभेदान् हे पार्थ, मनोगतान्
मनसि प्रविष्टान् हृदि प्रविष्टान् । सर्वकामपरित्यागे तुष्टिका-
रणाभावात् शरीरधारणनिमित्तशेषे च सति उन्मत्तप्रमत्त-
स्येव प्रवृत्तिः प्राप्ता इत्यत उच्यते- आत्मन्येव प्रत्यगात्म-
स्वरूपे एव आत्मना स्वेनैव बाह्यलाभनिरपेक्षः तुष्टः परमा-
र्थदर्शनामृतरसलाभेन अन्यस्मादलंप्रत्ययवान् स्थितप्रज्ञः स्थि-
ता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य सः स्थितप्रज्ञ:
विद्वान् तदा उच्यते । त्यक्तपुत्रवित्तलोकैषणः संन्यासी
आत्माराम आत्मक्रीड: स्थितप्रज्ञ इत्यर्थः ॥
किंच--</p>
<lg>
  <l>दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।</l>
  <l>वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ ५६ ॥</l>
</lg>
<p>दुःखेषु आध्यात्मिकादिषु प्राप्तेषु न उद्विग्नं न प्रक्षुभितं</p>
<pb n="117" />
<p>द्वितीयोऽध्यायः ।</p>
<p>दुःखप्राप्तौ मनो यस्य सोऽयम् अनुद्विग्नमनाः । तथा सुखेषु
प्राप्तेषु विगता स्पृहा तृष्णा यस्य, न अग्भिरिव इन्धनाद्या-
धाने सुखान्यनु विवर्धते स विगतस्पृहः । वीतरागभयक्रोधः
रागश्च भयं च क्रोधश्च वीता विगता यस्मात् स वीतराग-
भयक्रोधः । स्थितधीः स्थितप्रज्ञो मुनिः संन्यासी तदा
उच्यते ॥
किंच—</p>
<lg>
  <l>यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।</l>
  <l>नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥</l>
</lg>
<p>यः मुनिः सर्वत्र देहजीवितादिष्वपि अनभिस्नेहः अभि-
स्नेहवर्जितः तत्तत् प्राप्य शुभाशुभं तत्तत् शुभं अशुभं वा
लब्ध्वा न अभिनन्दति न द्वेष्टि शुभं प्राप्य न तुष्यति न
हृष्यति, अशुभं च प्राप्य न द्वेष्टि इत्यर्थः । तस्य एवं हर्ष-
विषादवर्जितस्य विवेकजा प्रज्ञा प्रतिष्ठिता भवति ॥
किंच—</p>
<lg>
  <l>यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।</l>
  <l>इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥</l>
</lg>
<p>यदा संहरते सम्यगुपसंहरते च अयं ज्ञाननिष्ठायां प्रवृत्तो</p>
<pb n="118" />
<p>श्रीमद्भगवद्गीताभाष्ये
यतिः कूर्मः अङ्गानि इव यथा कूर्मः भयात् स्वान्यङ्गानि
उपसंहरति सर्वशः सर्वतः, एवं ज्ञाननिष्ठः इन्द्रियाणि इन्द्रि-
यार्थेभ्यः सर्वविषयेभ्यः उपसंहरते । तस्य प्रज्ञा प्रतिष्ठिता
इत्युक्तार्थं वाक्यम् ॥
तत्र विषयाननाहरत: आतुरस्यापि इन्द्रियाणि कूर्माङ्गा-
नीव संह्रियन्ते न तु तद्विषयो रागः स कथं संहियते इति</p>
<lg>
  <l>उच्यते-</l>
  <l>विषया विनिवर्तन्ते निराहारस्य देहिनः ।</l>
  <l>रसवर्जे रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ ५९ ॥</l>
  <l>॥</l>
</lg>
<p>यद्यपि विषयाः विषयोपलक्षितानि विषयशब्दवाच्यानि
इन्द्रियाणि निराहारस्य अनाह्रियमाणविषयस्य कष्ठे तपसि
स्थितस्य मूर्खस्यापि विनिवर्तन्ते देहिनो देहवत: रसवर्ज
रसो रांगो विषयेषु यः तं वर्जयित्वा । रसशब्दो रागे
प्रसिद्धः, स्वरसेन प्रवृत्त: रसिकः रसज्ञः, इत्यादिदर्शनात् ।
सोऽपि रसो रञ्जनारूपः सूक्ष्मः अस्य यतेः परं परमार्थ-
तत्त्वं ब्रह्म दृष्ट्वा उपलभ्य ' अहमेव तत्' इति वर्तमानस्य
निवर्तते निर्बीजं विषयविज्ञानं संपद्यते इत्यर्थः । न असति
सम्यग्दर्शने रसस्य उच्छेदः । तस्मात् सम्यग्दर्शनात्मिकायाः
प्रज्ञायाः स्थैर्ये कर्तव्यमित्यभिप्रायः ॥</p>
<pb n="119" />
<p>द्वितीयोऽध्यायः ।</p>
<p>सम्यग्दर्शनलक्षणप्रज्ञास्थैर्य चिकीर्षता आदौ इन्द्रियाणि
स्ववशे स्थापयितव्यानि, यस्मात्तदनवस्थापने दोषमाह -</p>
<lg>
  <l>यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।</l>
  <l>इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥</l>
</lg>
<p>यततः प्रयत्नं कुर्वतः हि यस्मात् कौन्तेय पुरुषस्य
विपश्चितः मेधाविनः अपि इति व्यवहितेन संबन्धः ।
इन्द्रियाणि प्रमाथीनि प्रमथनशीलानि विषयाभिमुखं हि पुरुषं
विक्षोभयन्ति आकुलीकुर्वन्ति, आकुलीकृत्य च हरन्ति प्रसभं
प्रसह्य प्रकाशमेव पश्यतो विवेकविज्ञानयुक्तं मनः ॥
यतः तस्मात् --
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ।
तानि सर्वाणि संयम्य संयमनं वशीकरणं कृत्वा युक्तः
समाहितः सन् आसीत मत्परः अहं वासुदेवः सर्वप्रत्यगात्मा
परो यस्य सः मत्परः, 'न अन्योऽहं तस्मात्' इति आसीत
इत्यर्थः । एवमासीनस्य यतेः वशे हि यस्य इन्द्रियाणि
वर्तन्ते अभ्यासबलात् तस्य प्रज्ञा प्रतिष्ठिता ॥</p>
<pb n="120" />
<p>श्रीमद्भगवद्गीताभाष्ये
अथेदानीं पराभविष्यतः सर्वानर्थमूलमिदमुच्यते—</p>
<lg>
  <l>ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।</l>
  <l>सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ॥</l>
</lg>
<p>ध्यायतः चिन्तयतः विषयान् शब्दादीन् विषयविशेषान्
आलोचयतः पुंसः पुरुषस्य सङ्गः आसक्तिः प्रीतिः तेषु
विषयेषु उपजायते उत्पद्यते । सङ्गात् प्रीतेः संजायते
समुत्पद्यते कामः तृष्णा । कामात् कुतश्चित् प्रतिहतात्
क्रोधः अभिजायते ॥
.</p>
<lg>
  <l>क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ।</l>
  <l>स्मृतिभ्रंशाहुद्धिनाशो वुद्धिनाशात्प्रणश्यति ॥</l>
</lg>
<p>क्रोधात् भवति संमोहः अविवेकः कार्याकार्यविषयः ।
क्रुद्धो हि संमूढः सन् गुरुमप्याक्रोशति । संमोहात् स्मृति-
विभ्रमः शास्त्रांचार्योपदेशाहितसंस्कारजनितायाः स्मृतेः स्यात्
विभ्रमो भ्रंशः स्मृत्युत्पत्तिनिमित्तप्राप्तौ अनुत्पत्तिः । ततः
स्मृतिभ्रंशात् बुद्धिनाशः बुद्धेर्नाशः । कार्याकार्यविषयविवेका-
योग्यता अन्तःकरणस्य बुद्धेर्नाश उच्यते । बुद्धिनाशात्
प्रणश्यति । तावदेव हि पुरुषः यावदन्तःकरणं तदीयं</p>
<pb n="121" />
<p>द्वितीयोऽध्यायः ।</p>
<p>कार्याकार्यविषयविवेकयोग्यम् । तदयोग्यत्वे नष्ट एव पुरुषो
भवति । अतः तस्यान्तःकरणस्य वुद्धेर्नाशात् प्रणश्यति
पुरुषार्थायोग्यो भवतीत्यर्थः ॥
सर्वानर्थस्य मूलमुक्तं विषयाभिध्यानम् । अथ इदानीं
मोक्षकारणमिदमुच्यते—</p>
<lg>
  <l>रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।</l>
  <l>आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥</l>
</lg>
<p>रागद्वेषवियुक्तैः रागश्च द्वेषश्च रागद्वेषौ तत्पुरःसरा हि
इन्द्रियाणां प्रवृत्तिः स्वाभाविकी, तत्र यो मुमुक्षुः भवति सः
ताभ्यां वियुक्तैः श्रोत्रादिभिः इन्द्रियैः विषयान् अवर्जनीयान्
चरन् उपलभमानः आत्मवश्यैः आत्मनः वश्यानि वशी-
भूतानि इन्द्रियाणि तै: आत्मवश्यैः विधेयात्मा इच्छातः
विधेयः आत्मा अन्तःकरणं यस्य सः अयं प्रसादम् अधि-
गच्छति । प्रसादः प्रसन्नता स्वास्थ्यम् ॥
प्रसादे सति किं स्यात् इत्युच्यते--
प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ ६५ ॥ .
S. B. 5</p>
<pb n="122" />
<p>.६.६
श्रीमद्भगवद्गीताभाष्ये
: प्रसादे सर्वदुःखानाम् आध्यात्मिकादीनां हानि: विनाश:
अस्य यतेः उपजायते । किंच -- प्रसन्नचेतसः स्वस्थान्तः-
करणस्य हि यस्मात् आशु शीघ्रं बुद्धिः पर्यवतिष्ठते आका-
शमिव परि समन्तात् अवतिष्ठते, आत्मस्वरूपेणैव निश्चली-
भवतीत्यर्थः ॥
}
एवं प्रसन्नचेतसः अवस्थितबुद्धेः कृतकृत्यता यतः,
तस्मात् रागद्वेषवियुक्तैः इन्द्रियैः शास्त्राविरुद्धेषु अवर्जनीयेषु
युक्तः समाचरेत् इति वाक्यार्थः ॥
सेयं प्रसन्नता स्तूयते—
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना !
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥
-
नास्ति न विद्यते न भवतीत्यर्थः, बुद्धि: आत्मस्वरूपविषया
अयुक्तस्य असमाहितान्तःकरणस्य । न च अस्ति अयुक्तस्य
भावना आत्मज्ञानाभिनिवेश: । तथा- न च अस्ति अभा-
बयतः आत्मज्ञानाभिनिवेशमकुर्वतः शान्तिः उपशमः । अशा-
न्तस्य कुतः सुखम् ? इन्द्रियाणां हि विषयसेवातृष्णातः निवृ-
त्तिर्या तत्सुखंम्, न विषयविषया तृष्णा । दुःखमेव हि सा ।
न तृष्णायां सत्यां सुखस्य गन्धमात्रमप्युपपद्यते इत्यर्थः ॥</p>
<pb n="123" />
<p>द्वितीयोऽध्यायः ।
' अयुक्तस्य कस्माद्बुद्धिर्नास्ति इत्युच्यते-</p>
<lg>
  <l>इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।</l>
  <l>तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ ६७॥</l>
</lg>
<p>इन्द्रियाणां हि यस्मात् चरतां स्वस्वविषयेषु प्रवर्तमा-
नानां यत् मनः अनुविधीयते अनुप्रवर्तते तत् इन्द्रियविषय-
विकल्पनेन प्रवृत्तं मनः अस्य यतेः हरति प्रज्ञाम् आत्माना-
त्मविवेकजां नाशयति । कथम् ? वायुः नावमिव अम्भसि
उदके जिगमिषतां मार्गादुद्धृत्य उन्मार्गे यथा वायुः नावं
प्रवर्तयति, एवमात्मविषयां प्रज्ञां हृत्वा मनो विषयविषयां
करोति ॥
' यततो हि' इत्युपन्यस्तस्यार्थस्य अनेकधा उपपत्ति-
मुक्त्वा तं चार्थमुपपाद्य उपसंहरति---
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।
इन्द्रियाणां प्रवृत्तौ दोष उपपादितो यस्मात्, तस्मात् यस्य
यतेः हे महाबाहो, निगृहीतानि सर्वशः सर्वप्रकारैः मानसा-
दिभेदैः इन्द्रियाणि इन्द्रियार्थेभ्यः शब्दादिभ्यः तस्य प्रज्ञा
प्रतिष्ठिता ॥</p>
<pb n="124" />
<p>श्रीमद्भगवद्गीताभाष्ये
योऽयं लौकिको वैदिकश्च व्यवहारः स उत्पन्नविवेकज्ञा-
नस्य स्थितप्रज्ञस्य अविद्याकार्यत्वात् अविद्यानिवृत्तौ निव-
र्तते, अविद्यायाश्च विद्याविरोधात निवृत्तिः, इत्येतमर्थं स्फुटी -
कुर्वन् आह-</p>
<lg>
  <l>या निशा सर्वभूतानां</l>
  <l>तस्यां जागर्ति संयमी ।</l>
  <l>यस्यां जाग्रति भूतानि</l>
  <l>सा निशा पश्यतो मुनेः ॥ ६९ ॥</l>
</lg>
<p>या निशा रात्रिः सर्वपदार्थानामविवेककरी तमःस्वभाव -
त्वात् सर्वभूतानां सर्वेषां भूतानाम् । किं तत् परमार्थतत्त्वं
स्थितप्रज्ञस्य विषयः । यथा नक्तंचराणाम् अहरेव सद-
न्येषां निशा भवति, तद्वत् नक्तंचरस्थानीयानामज्ञानां
सर्वभूतानां निशेव निशा परमार्थतत्त्वम्, अगोचरत्वादत-
ह्रुद्धीनाम् । तस्यां परमार्थतत्त्वलक्षणायामज्ञाननिद्रायाः प्र-
बुद्धो जागर्ति संयमी संयमवान्, जितेन्द्रियो योगीत्यर्थः ।
यस्यां ग्राह्यग्राहकभेदलक्षणायामविद्यानिशायां प्रसुप्तान्येव
भूतानि जाग्रति इति उच्यन्ते, यस्यां निशायां प्रसुप्ता इव
स्वप्नदृशः, सा निशा अविद्यारूपत्वात् परमार्थतत्त्वं पश्यतो.
मुनेः ॥</p>
<pb n="125" />
<p>द्वितीयोऽध्यायः ।</p>
<p>अतः कर्माणि अविद्यावस्थायामेव चोद्यन्ते, न विद्याव-
स्थायाम् । विद्यायां हि सत्याम् उदिते सवितरि शार्वरमिवं
तमः प्रणाशमुपगच्छति अविद्या । प्राक् विद्योत्पत्तेः अविद्या
प्रमाणबुद्धधा गृह्यमाणा क्रियाकारकफलभेदरूपा सती सर्व-
कर्महेतुत्वं प्रतिपद्यते । न अप्रमाणबुद्धया गृह्यमाणाया:
कर्महेतुत्वोपपत्तिः, ' प्रमाणभूतेन वेदेन मम चोदितं कर्तव्यं
कर्म' इति हि कर्मणि कर्ता प्रवर्तते, न 'अविद्यामात्रमिदं
सर्वे निशेव' इति । यस्य पुनः 'निशेव अविद्यामात्रमिदं
सर्वे भेदजातम्' इति ज्ञानं तस्य आत्मज्ञस्य सर्वकर्मसंन्यासे
एव अधिकारो न प्रवृत्तौ । तथा च दर्शयिष्यति — ' तदु-
यस्तदात्मान:' इत्यादिना ज्ञाननिष्ठायामेव तस्य अधि-
कारम् ॥
तत्रापि प्रवर्तकप्रमाणाभावे प्रवृत्त्यनुपपत्तिः इति चेत्, न;
स्वात्मविषयत्वादात्मविज्ञानस्य । न हि आत्मनः स्वात्मनि
प्रवर्तकप्रमाणापेक्षता, आत्मत्वादेव । तदन्तत्वाच्च सर्वप्रमा-
णानां प्रमाणत्वस्य । न हि आत्मस्वरूपाधिगमे सति पुनः
प्रमाणप्रमेयव्यवहारः संभवति । प्रमातृत्वं हि आत्मन:
निवर्तयति अन्त्यं प्रमाणम् ; निवर्तयदेव च अप्रमाणीभवति,
स्वप्रका प्रमाणमिव प्रबोधे । लोके च वस्त्वधिगमे प्रवृत्ति-</p>
<pb n="126" />
<p>श्रीमद्भगवद्गीताभाष्ये
हेतुत्वादर्शनात् प्रमाणस्य । तस्मात् न आत्मविदः कर्मण्य-
धिकार इति सिद्धम् ॥
विदुषः त्यक्तैषणस्य स्थितप्रज्ञस्य यतेरेव मोक्षप्राप्तिः, नं
तु असंन्यासिनः कामकामिनः इत्येतमर्थं दृष्टान्तेन प्रतिपाद-
यिष्यन् आह-</p>
<lg>
  <l>आपूर्यमाणमचलप्रतिष्ठं</l>
  <l>समुद्रमापः प्रविशन्ति यद्वत् ।</l>
  <l>तद्वत्कामा यं प्रविशन्ति सर्वे</l>
  <l>स शान्तिमाप्नोति न कामकामी ॥ ७० ॥</l>
</lg>
<p>आपूर्यमाणम् अद्भिः अचलप्रतिष्ठम् अचलतया प्रतिष्ठा
अवस्थितिः यस्य तम् अचलप्रतिष्ठं समुद्रम् आपः सर्वतो गताः
प्रविशन्ति स्वात्मस्थमविक्रियमेव सन्तं यद्वत्, तद्वत् कामाः
विषयसंनिधावपि सर्वतः इच्छाविशेषाः यं पुरुषम् — समुद्र-
मिव आपः — अविकुर्वन्तः प्रविशन्ति सर्वे आत्मन्येव प्रली-
यन्ते न स्वात्मवशं कुर्वन्ति, सः शान्ति मोक्षम् आप्नोति,
न इतर: कामकामी, काम्यन्त इति कामाः विषयाः तान्
कामयितुं शीलं यस्य सः कामकामी, नैव प्राप्नोति इत्यर्थः ॥
यस्मादेवं तस्मात् —</p>
<pb n="127" />
<p>द्वितीयोऽध्यायः ।</p>
<lg>
  <l>विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।</l>
  <l>निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥</l>
</lg>
<p>:!
विहाय परित्यज्य कामान् यः संन्यासी पुमान् सर्वान्
अशेषत: कात्स्न्र्त्स्न्येन चरति, जीवनमात्रचेष्टाशेषः पर्यटतीत्यर्थः ।
निःस्पृहः शरीरजीवनमात्रेऽपि निर्गता स्पृहा यस्य सः निः-
स्पृहः सन्, निर्ममः शरीरजीवनमात्राक्षिप्तपरिग्रहेऽपि ममेदम्
इत्यभिनिवेशवर्जितः, निरहंकार : विद्यावत्त्वादिनिमित्तात्मसं-
भावनारहितः इत्येतत् । सः एवंभूतः स्थितप्रज्ञः ब्रह्मवित्
शान्तिं सर्वसंसारदुःखोपरमलक्षणां निर्वाणाख्याम् अधिग-
च्छति प्राप्नोति ब्रह्मभूतो भवति इत्यर्थः ॥
सैषा ज्ञाननिष्ठा स्तूयते—</p>
<lg>
  <l>एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।</l>
  <l>स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥</l>
</lg>
<p>इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम
द्वितीयोऽध्यायः ॥</p>
<pb n="128" />
<p>श्रीमद्भगवद्गीताभाष्ये
एषा यथोक्ता ब्राह्मी ब्रह्मणि भवा इयं स्थितिः सर्व
कर्म संन्यस्य ब्रह्मरूपेणैव अवस्थानम् इत्येतत् । हे पार्थ, न
एनां स्थितिं प्राप्य लब्ध्वा न विमुह्यति न मोहं प्राप्नोति ।
स्थित्वा अस्यां स्थितौ त्राह्मयां यथोक्तायां अन्तकालेऽपि
अन्त्ये वयस्यपि ब्रह्मनिर्वाणं ब्रह्मनिर्वृतिं मोक्षम् ऋच्छति
गच्छति । किमु वक्तव्यं ब्रह्मचर्यादेव संन्यख यावज्जीवं यो
ब्रह्मण्येव अवतिष्ठते स ब्रह्मनिर्वाणमृच्छति इति ॥
• इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौं श्रीमद्भगवद्गीताभाष्ये
द्वितीयोऽध्यायः ॥
:</p>
<pb n="129" />
<p>श्रीमच्छंकरभगवत्पाद विरचितम्
श्रीमद्भगवद्गीताभाष्यम्
तृतीयोऽध्यायः
AAAAAAAA</p>
<pb n="130" />
<p>J</p>
<pb n="131" />
<p>तृतीयोऽध्यायः ॥
शास्त्रस्य प्रवृत्तिनिवृत्तिविषयभूते द्वे बुद्धी
भगवता निर्दिष्टे, सांख्ये बुद्धि: योगे
बुद्धि: इति च । तत्र ' प्रजहाति यदा
कामान्' इत्यारभ्य आ अध्यायपरि-
समाप्तेः सांख्यबुद्ध्याश्रितानां संन्यासं
कर्तव्यमुक्त्वा तेषां तन्निष्ठतयैव च
कृतार्थता उक्ता — 'एषा ब्राह्मी स्थिति:' इति । अर्जुनाय
च 'कर्मण्येवाधिकारस्ते... मा ते सङ्गोऽस्त्वकर्मणि' इति
...मा
कर्मैव कर्तव्यमुक्तवान् योगबुद्धिमाश्रित्य न तत एव श्रेय:-
प्राप्तिम्' उक्तवान् । तदेतदालक्ष्य पर्याकुलीकृतबुद्धिः अर्जुन:
उवाच । कथं भक्तायं श्रेयोर्थिने यत् साक्षात् श्रेयः प्राप्तिसाधनं
सांख्यबुद्धिनिष्ठां श्रावयित्वा मां कर्मणि दृष्टाने कानर्थयुक्ते
पारंपर्येणापि अनैकान्तिकश्रेयः प्राप्तिफले नियुञ्ज्यात् इति
युक्त: पर्याकुलीभावः अर्जुनस्य, तदनुरूपश्च प्रश्नः 'ज्यायसी</p>
<pb n="132" />
<p>श्रीमद्भगवद्गीताभाष्ये
चेत्' इत्यादिः, प्रश्नापाकरणवाक्यं च भगवतः युक्तं यथो-
क्तविभागविषये शास्त्रे ॥
केचित्तु — 'अर्जुनस्य प्रश्नार्थमन्यथा कल्पयित्वा तत्प्रति-
कूलं भगवतः प्रतिवचनं वर्णयन्ति, यथा च आत्मना संब-
न्धग्रन्थे गीतार्थो निरूपितः तत्प्रतिकूलं च इह पुनः प्रश्न
प्रतिवचनयोः अर्थ निरूपयन्ति । कथम् ? तत्र संबन्धग्रन्थे
तावत् — सर्वेषामाश्रमिणां ज्ञानकर्मणोः समुच्चयः गीताशास्त्रे
निरूपितः अर्थः इत्युक्तम्; पुनः विशेषितं च यावज्जीवश्रुति-
चोदितानि कर्माणि परित्यज्य केवलादेव ज्ञानात् मोक्षः
प्राप्यते इत्येतत् एकान्तेनैव प्रतिषिद्धमिति । इह तु आश्रम-
विकल्पं दर्शयता यावज्जीवश्रुतिचोदितानामेव कर्मणां परि-
त्याग उक्त: । तत् कथम् ईदृशं विरुद्धमर्थम् अर्जुनाय ब्रूयात्
भगवान् श्रोता वा कथं विरुद्धमर्थमवधारयेत् ॥
"
तत्रैतत् स्यात् — गृहस्थानामेव श्रौतकर्मपरित्यागेन केवला-
देव ज्ञानात् मोक्षः प्रतिषिध्यते, न तु आश्रमान्तराणामिति ।
एतदपि पूर्वोत्तरंविरुद्धमेव । कथम् ? सर्वाश्रमिणां ज्ञानकर्म-
णोः समुच्चयो गीताशास्त्रे निश्चितः अर्थः इति प्रतिज्ञाय इह
कथं तद्विरुद्धं केवलादेव ज्ञानात् मोक्षं ब्रूयात् आश्रमा-
न्तराणाम् ॥
3</p>
<pb n="133" />
<p>"
तृतीयोऽध्यायः ।</p>
<p>अथ मतं श्रौतकर्मापेक्षया एतद्वचनम् 'केवलादेव ज्ञानात्
श्रौतकर्मरहितात् गृहस्थानां मोक्षः प्रतिषिध्यते ' इति ; तत्र
गृहस्थानां विद्यमानमपि स्मार्त कर्म अविद्यमानवत् उपेक्ष्य
'ज्ञानादेव केवलात्' इत्युच्यते ' इति । एतदपि विरुद्धम् ।
कथम् ? गृहस्थस्यैव स्मार्तकर्मणा समुच्चितात् ज्ञानात् मोक्षः-
प्रतिषिध्यते न तु आश्रमान्तराणामिति कथं विवेकिभिः
शक्यमवधारयितुम् । किंच - यदि मोक्षसाधनत्वेन स्मार्तानि
कर्माणि ऊर्ध्वरेतसां समुच्चीयन्ते तथा गृहस्थस्यापि इष्यतां
स्मार्तैरेव समुच्चयो न श्रौतैः ॥</p>
<lg>
  <l>अथ श्रौतैः स्मार्तैश्च गृहस्थस्यैव समुच्चयः मोक्षाय, ऊर्ध्व-</l>
  <l>रेतसां तु स्मार्तकर्ममात्रसमुच्चितात् ज्ञानात् मोक्ष इति ।</l>
  <l>तत्रैवं सति गृहस्थस्य आयासबाहुल्यात्, श्रौतं स्मार्त च.</l>
  <l>बहुदुःखरूपं कर्म शिरसि आरोपितं स्यात् ॥</l>
</lg>
<p>अथ गृहस्थस्यैव आयासबाहुल्यकारणात् मोक्षः स्यात्, नं
आश्रमान्तराणां श्रौतनित्यकर्मरहितत्वात् इति । तदप्यसत्
सर्वोपनिषत्सु इतिहासपुराणयोगशास्त्रेषु च ज्ञानाङ्गत्वेन
मुमुक्षोः सर्वकर्मसंन्यासविधानात्, आश्रमविकल्पसमुञ्चयवि-
धानाच्च श्रुतिस्मृत्योः ॥</p>
<pb n="134" />
<p>श्रीमद्भगवद्गीताभाष्ये
सिद्धस्तर्हि सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयः - न,
मुमुक्षोः सर्वकर्मसंन्यासविधानात् । 'पुत्रैषणाया वित्तैषणा -
याश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति' 'त-
स्मात् न्यासमेषां तपसामतिरिक्तमाहुः न्यास एवात्यरेच-
यत्' इति, 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृत-
त्वमानशुः' इति च । ' ब्रह्मचर्यादेव प्रव्रजेत्' इत्याद्याः
श्रुतयः । ' त्यज धर्ममधर्मे च उभे सत्यानृते त्यज । उभे
सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज । संसारमेव निःसारं
दृष्ट्वा सारदिदृक्षया । प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमा-
श्रिता: ' इति बृहस्पतिः । ' कर्मणा बध्यते जन्तुर्विद्यया च
•
विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिन: ' इति
विमुच्यते । तस्मात्कर्म प
शुकानुशासनम् । इहापि च ' सर्वकर्माणि मनसा संन्यस्य'
इत्यादि ॥
मोक्षस्य च अकार्यत्वात् मुमुक्षोः कर्मानर्थक्यम् । नित्यानि
प्रत्यवायपरिहारार्थानि इति चेत्, न ; असंन्यासिविषयत्वात्
प्रत्यवायप्राप्तेः । न हि अग्निकार्याद्यकरणात् संन्यासिनः
प्रत्यवायः कल्पयितुं शक्यः, यथा ब्रह्मचारिणामसंन्यासिना-
मपि कर्मिणाम् । न तावत् नित्यानां कर्मणामभावादेव भाव-
रूपस्य प्रत्यवायस्य उत्पत्तिः कल्पयितुं शक्या, ' कथमसतः</p>
<pb n="135" />
<p>णयोः
तृतीयोऽध्यायः ।</p>
<p>सज्जायेत' इति असत: सज्जन्मासंभवश्रुतेः । यदि विहिता-
करणात् असंभाव्यमपि प्रत्यवायं ब्रूयात् वेदः, तदा अनर्थ-
करः वेदः अप्रमाणमित्युक्तं स्यात्; विहितस्य करणाकर-
दुःखमात्रफलत्वात् । तथा च कारकं शास्त्रं न ज्ञाप-
कम् इत्यनुपपन्नार्थं कल्पितं स्यात् । न चैतदिष्टम् । तस्मात्
न संन्यासिनां कर्माणि । अतो ज्ञानकर्मणोः समुच्चयानुप-
पत्तिः ; ' ज्यायसी चेत् कर्मणस्ते मता बुद्धि:' इति अर्जु-
नस्य प्रश्नानुपपत्तेश्च ॥
यदि हि भगवता द्वितीयेऽध्याये ज्ञानं कर्म च समुच्चित्य
त्वया अनुष्ठेयम् इत्युक्तं स्यात्, ततः अर्जुनस्य प्रश्न: अनु-
पपन्नः 'ज्यायसी चेत्कर्मणस्ते मता बुद्धि:' इति । अर्जु-
नाय चेत् बुद्धिकर्मणी त्वया अनुष्ठेये इत्युक्ते, या कर्मणो
ज्यायसी बुद्धिः सापि उक्तैव इति ' तत् किं कर्मणि घोरे मां
नियोजयसि केशव' इति उपालम्भ: प्रश्नो वा न कथंचन
उपपद्यते । न च अर्जुनस्यैव ज्यायसी बुद्धिः न अनुष्ठेया
इति भगवता उक्तं पूर्वम् इति कल्पयितुं युक्तम्, येन 'ज्या-
यसी चेत्' इति विवेकतः प्रश्नः स्यात् ॥
:
यदि पुनः एकस्य पुरुषस्य ज्ञानकर्मणोर्विरोधात् युगपद-
नुष्ठानं न संभवतीति भिन्नपुरुषानुष्ठेयत्वं भगवता पूर्वमुक्तं</p>
<pb n="136" />
<p>श्रीमद्भगवद्गीताभाष्ये
C
स्यात्, ततोऽयं प्रश्न उपपन्नः ' ज्यायसी चेत्' इत्यादिः ।
अविवेकतः प्रश्नकल्पनायामपि भिन्नपुरुषानुष्ठेयत्वेन ज्ञान-
कर्मनिष्ठयोः भगवतः प्रतिवचनं नोपपद्यते । न च अज्ञान-
निमित्तं भगवत्प्रतिवचनं कल्पनीयम् । अस्माच्च भिन्नपुरुषा-
नुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवतः प्रतिवचनदर्शनात्
ज्ञानकर्मणोः समुच्चयानुपपत्तिः । तस्मात् केवलादेव ज्ञानात्
मोक्ष इत्येषोऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु च ॥
।
ज्ञानकर्मणोः 'एकं वद निश्चित्य' इति च एकविषयैव
प्रार्थना अनुपपन्ना, उभयोः समुच्चयसंभवे । 'कुरु कर्मैव
तस्मात्त्वम्' इति चं ज्ञाननिष्ठासंभवम् अर्जुनस्य अवधारणेन
दर्शयिष्यति ॥
अर्जुन उवाच-</p>
<lg>
  <l>ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।</l>
  <l>तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥</l>
</lg>
<p>ज्यायसी श्रेयसी चेत् यदि कर्मणः सकाशात् ते तवं
मता अभिप्रेता बुद्धिः ज्ञानं हे जनार्दन । यदि बुद्धिकर्मणी
समुचिते इष्टे तदा एकं श्रेयः साधनमिति कर्मणो ज्या-
यसी बुद्धिः इति कर्मणः अतिरिक्तकरणं बुद्धेरनुपपन्नम्ं</p>
<pb n="137" />
<p>तृतीयोऽध्यायः ।</p>
<p>अर्जुनेन कृतं स्यात् ; न हि तदेव तस्मात् फलतो ऽतिरिक्तं
स्यात् । तथा च, कर्मणः श्रेयस्करी भगवतोक्ता बुद्धि:,
अश्रेयस्करं च कर्म कुर्विति मां प्रतिपादयति, तत् किं नु
कारणमिति भगवत उपालम्भमिव कुर्वन् तत् किं कस्मात्
कर्मणि घोरे क्रूरे हिंसालक्षणे मां नियोजयसि केशव इति च
यदाह, तच्च नोपपद्यते । अथ स्मार्तेनैव कर्मणा समुच्चयः
सर्वेषां भगवता उक्तः अर्जुनेन च अवधारितश्चेत्, 'तत्किं
कर्मणि घोरे मां नियोजयसि' इत्यादि कथं युक्तं वचनम् ॥
किंच-</p>
<lg>
  <l>व्यामिश्रेणेव वाक्येन वुद्धिं मोहयसीव मे ।</l>
  <l>तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥२॥</l>
</lg>
<p>व्यामिश्रेणेव, यद्यपि विविक्ताभिधायी भगवान्, तथापि
मम मन्दबुद्धेः व्यामिश्रमिव भगवद्वाक्यं प्रतिभाति । तेन
मम बुद्धिं मोहयसि इव, मम बुद्धिव्यामोहापनयाय हि
प्रवृत्तः त्वं तु कथं मोहयसि ? अतः ब्रवीमि बुद्धिं मोहयसि
इव में मम इति । त्वं तु भिन्नकर्तृकयोः ज्ञानकर्मणोः
एकपुरुषानुष्ठानासंभवं यदि मन्यसे, तत्रैवं सति तत् तयोः
एकं बुद्धिं कर्म वा इदमेव अर्जुनस्य योग्यं बुद्धिशक्त्यव -
स्थानुरूपमिति निश्चित्य वद ब्रूहि, येन ज्ञानेन कर्मणा वा
S. B. 6</p>
<pb n="138" />
<p>श्रीमद्भगवद्गीताभाष्ये
अन्यतरेण श्रेयः अहम् आप्नुयां प्राप्नुयाम्; इति यदुक्तं
तदपि नोपपद्यते ॥
यदि हि कर्मनिष्ठायां गुणभूतमपि ज्ञानं भगवता उक्तं
स्यात्, तत् कथं तयोः 'एकं वद' इति एकविषयैव अर्जु-
नस्य शुश्रूषा स्यात् । न हि भगवता पूर्वमुक्तम् ' अन्यतरदेव
ज्ञानकर्मणोः वक्ष्यामि, नैव द्वयम्' इति, येन उभयप्राप्त्यसं-
भवम् आत्मनो मन्यमानः एकमेव प्रार्थयेत् ॥
प्रश्नानुरूपमेव प्रतिवचनं श्रीभगवानुवाच —
श्रीभगवानुवाच-</p>
<lg>
  <l>लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।</l>
  <l>ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥</l>
</lg>
<p>लोके अस्मिन् शास्त्रार्थानुष्ठानाधिकृतानां त्रैवर्णिकानां
द्विविधा द्विप्रकारा निष्ठा स्थिति: अनुष्ठेयतात्पर्य पुरा पूर्वे
सर्गादौ प्रजाः सृष्ट्वा तासाम् अभ्युदयनिःश्रेयसंप्राप्तिसाधनं
वेदार्थसंप्रदायमाविष्कुर्वता प्रोक्ता मया सर्वज्ञेन ईश्वरेण हे
अनघ अपाप । तत्र का सा द्विविधा निष्ठा इत्याह- तत्र
ज्ञानयोगेन ज्ञानमेव योगः तेन सांख्यानाम् अत्मानात्मविष-
यविवेकविज्ञानवतां ब्रह्मचर्याश्रमादेव कृतसंन्यासानां वेदान्त-</p>
<pb n="139" />
<p>तृतीयोऽध्यायः ।</p>
<p>विज्ञानसुनिश्चितार्थानां परमहंसपरिव्राजकानां ब्रह्मण्येव अव-
स्थितानां निष्ठा प्रोक्ता । कर्मयोगेन कर्मैव योगः कर्मयोगः
तेन कर्मयोगेन योगिनां कर्मिणां निष्ठा प्रोक्तां इत्यर्थः । यदि
च एकेन पुरुषेण एकस्मै पुरुषार्थाय ज्ञानं कर्म च समुच्चित्य
अनुष्ठेयं भगवता इष्टम् उक्तं वक्ष्यमाणं वा गीतासु वेदेषु
चोक्तम्, कथमिह अर्जुनाय उपसन्नाय प्रियाय विशिष्टभिन्न-
पुरुषकर्तृके एव ज्ञानकर्मनि ब्रूयात् ? यदि पुनः 'अर्जुन:
ज्ञानं कर्म च द्वयं श्रुत्वा स्वयमेवानुष्ठास्यति अन्येषां तु भि-
पुरुषानुष्ठेयतां वक्ष्यामि इति' मतं भगवतः कल्प्येत, तदा
रागद्वेषवान् अप्रमाणभूतो भगवान् कल्पितः स्यात् ।
तच्चायुक्तम् । तस्मात् कयापि युक्त्या न समुच्चयो ज्ञान-
कर्मणोः ॥
यत् अर्जुनेन उक्तं कर्मणो ज्यायस्त्वं बुद्धेः, तच्च स्थितम्,
अनिराकरणात् । तस्याश्च ज्ञाननिष्ठायाः संन्यासिनामेवानुष्ठे-
यत्वम्, भिन्नपुरुषानुष्ठेयत्ववचनात् । भगवतः एवमेव अनु-
मतमिति गम्यते ॥
'मां च बन्धकारणे कर्मण्येव नियोजयसि' इति विषण्ण-
मनसमर्जुनम् ' कर्म नारभे' इत्येवं मन्वानमालक्ष्य आह भग-
वान् — न कर्मणामनारम्भात् इति । अथपा - ज्ञानकर्म-</p>
<pb n="140" />
<p>श्रीमद्भगवद्गीताभाष्ये
निष्ठयोः परस्परविरोधात् एकेन पुरुषेण युगपत् अनुष्ठातुम-
शक्यत्वे सति इतरेतरानपेक्षयोरेव पुरुषार्थहेतुत्वे प्राप्ते कर्म-
निष्ठाया ज्ञाननिष्ठाप्राप्तिहेतुत्वेन पुरुषार्थहेतुत्वम्, न स्वात-
न्त्र्येण; ज्ञाननिष्ठा तु कर्मनिष्ठोपायलब्धात्मिका सती स्वात-
न्त्र्येण पुरुषार्थहेतुः अन्यानपेक्षा, इत्येतमर्थं प्रदर्शयिष्यन्
आह भगवान् -</p>
<lg>
  <l>न कर्मणामनारम्भान्नैष्कर्म्य पुरुषोऽश्नुते ।</l>
  <l>न च संन्यसनादेव सिद्धिं समधिगच्छति ॥</l>
</lg>
<p>न कर्मणां क्रियाणां यज्ञादीनाम् इह जन्मनि जन्मान्तरे
वा अनुष्ठितानाम् उपात्तदुरितक्षयहेतुत्वेन सत्त्वशुद्धिकार-
णानां तत्कारणत्वेन च ज्ञानोत्पत्तिद्वारेण ज्ञाननिष्ठाहेतूनाम्,
'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथादर्शतल-
प्रख्ये पश्यत्यात्मानमात्मनि ' इत्यादिस्मरणात्, अनारम्भात्
अननुष्ठानात् नैष्कर्म्य निष्कर्मभावं कर्मशून्यतां ज्ञानयोगेन
निष्ठां निष्क्रियात्मस्वरूपेणैव अवस्थानमिति यावत् । पुरुषः
न अश्नुते न प्राप्नोतीत्यर्थः ॥
कर्मणामनारम्भान्नैष्कर्म्यं नाश्नुते इति वचनात् तद्विपर्य-
यात् तेषामारम्भात् नैष्कर्म्यमश्नुते इति गम्यते । कस्मात्
पुनः कारणात् कर्मणामनारम्भान्नैष्कर्म्य नाश्नुते इति ?</p>
<pb n="141" />
<p>तृतीयोऽध्यायः ।</p>
<note>८५.</note>
<p>उच्यते, कर्मारम्भस्यैव नैष्कम्र्योपायत्वात् । न ह्युपायमन्तरेण
उपेयप्राप्तिरस्ति । कर्मयोगोपायत्वं च नैष्कर्म्यलक्षणस्य
"
ज्ञानयोगस्य, श्रुतौ इह च प्रतिपादनात् । श्रुतौ तावत्
प्रकृतस्य आत्मलोकस्य वेद्यस्य वेदनोपायत्वेन ' तमेतं वेदा-
नुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन ' इत्यादिना कर्मयो-
गस्य ज्ञानयोगोपायत्वं प्रतिपादितम् । इहापि च-
— संन्यासस्तु महाबाहो दुःखमाप्तुमयोगत: ' ' योगिनः कर्म
कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये' 'यज्ञो दानं तपश्चैव पावनानि
मनीषिणाम्' इत्यादि प्रतिपादयिष्यति ॥
ननु च 'अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत्' इत्या-
दौ कर्तव्यकर्मसंन्यासादपि नैष्कर्म्यप्राप्तिं दर्शयति । लोके च
कर्मणामनारम्भान्नैष्कर्म्यमिति प्रसिद्धतरम् । अतश्च नैष्कर्म्या-
र्थिनः किं कर्मारम्भेण ? इति प्राप्तम् । अत आह— न च
संन्यसनादेवेति । नापि संन्यसनादेव केवलात् कर्मपरित्याग-
मात्रादेव ज्ञानरहितात् सिद्धिं नैष्कर्म्यलक्षणां ज्ञानयोगेन
निष्ठां समधिगच्छति न प्राप्नोति ॥
कस्मात् पुनः कारणात् कर्मसंन्यासमात्रादेव केवलात्
ज्ञानरहितात् सिद्धिं नैष्कर्म्यलक्षणां पुरुषो नाधिगच्छति
इति हेत्वाकाङ्क्षायामाह -</p>
<pb n="142" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।</l>
  <l>कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥</l>
</lg>
<p>न हि यस्मात् क्षणमपि कालं जातु कदाचित् कश्चित्
तिष्ठति अकर्मकृत् सन् । कस्मात् ? कार्यते प्रवर्त्यते हि
यस्मात् अवश एव अस्वतन्त्र एव कर्म सर्वः प्राणी प्रकृतिजै:
प्रकृतितो जातैः सत्त्वरजस्तमोभिः गुणैः । अज्ञ इति
वाक्यशेषः, यतो वक्ष्यति 'गुणैर्यो न विचाल्यते' इति ।
सांख्यानां पृथक्करणात् अज्ञानामेव हि कर्मयोगः, न ज्ञानि-
नाम् । ज्ञानिनां तु गुणैरचाल्यमानानां स्वतश्चलनाभावात्
कर्मयोगो नोपपद्यते । तथा च व्याख्यातम् ' वेदाविना-
शिनम्' इत्यत्र ॥
यत्त्वनात्मज्ञः चोदितं कर्म नारभते इति तदसदेवेत्याह-</p>
<lg>
  <l>कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।</l>
  <l>इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥</l>
</lg>
<p>कर्मेन्द्रियाणि हस्तादीनि संयम्य संहृत्य यः आस्ते तिष्ठति
मनसा स्मरन् चिन्तयन् इन्द्रियार्थान् विषयान् विमूढाला
विमूढान्तःकरणः मिथ्याचारो मृषाचारः पापाचारः सः
उच्यते ॥</p>
<pb n="143" />
<p>तृतीयोऽध्यायः ।</p>
<lg>
  <l>यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।</l>
  <l>कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ६॥</l>
</lg>
<lg>
  <l>यस्तु पुनः कर्मण्यधिकृत: अज्ञ: बुद्धीन्द्रियाणि मनसा</l>
  <l>नियम्य आरभते अर्जुन कर्मेन्द्रियैः वाक्पाण्यादिभिः ।</l>
  <l>किमारभतेः इत्याह- कर्मयोगम् असक्तः सन् फलाभिसंधि-</l>
  <l>वर्जितः सः विशिष्यते इतरस्मात् मिथ्याचारात् ॥</l>
</lg>
<p>यतः एवम् अत:-</p>
<lg>
  <l>नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।</l>
  <l>शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ॥ ८ ॥</l>
</lg>
<p>नियतं नित्यं शास्त्रोपदिष्टम्, यो यस्मिन् कर्मणि अधि-
कृतः फलाय च अश्रुतं तत् नियतं कर्म, तत् कुरु त्वं हे
अर्जुन, यतः कर्म ज्याय: अधिकतरं फलतः, हि यस्मात् अक-
र्मणः अकरणात् अनारम्भात् । कथम् ? शरीरयात्रा शरीर-
स्थितिः अपि च ते तव न प्रसिध्येत् प्रसिद्धिं न गच्छेत्
अकर्मणः अकरणात् । अतः दृष्टः कर्माकर्मणोर्विशेषो लोके ॥
.
यच्च मन्यसे बन्धार्थत्वात् कर्म न कर्तव्यमिति तदप्य-
सत् । कथम् —</p>
<pb n="144" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।</l>
  <l>तदर्थ कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥</l>
</lg>
<p>'यज्ञो वै विष्णुः' इति श्रुतेः यज्ञः ईश्वरः, तदर्थे यत्
क्रियते तत् यज्ञार्थं कर्म । तस्मात् कर्मणः अन्यत्र अन्येन</p>
<lg>
  <l>कर्मणा लोकः अयम् अधिकृतः कर्मकृत् कर्मबन्धनः कर्म</l>
  <l>बन्धनं यस्य सोऽयं कर्मबन्धनः लोकः, न तु यज्ञार्थात् ।</l>
  <l>अतः तदर्थं यज्ञार्थं कर्म कौन्तेय, मुक्तसङ्गः कर्मफलसङ्ग-</l>
  <l>वर्जितः सन् समाचर निर्वर्तय ॥</l>
</lg>
<p>इतश्च अधिकृतेन कर्म कर्तव्यम् -</p>
<lg>
  <l>सहयज्ञाः प्रजाः सृष्ट्रा पुरोवाच प्रजापतिः ।</l>
  <l>अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥</l>
</lg>
<p>सहयज्ञा: यज्ञसहिताः प्रजाः त्रयो वर्णाः ताः सृष्ट्वा
उत्पाद्य पुरा पूर्व सर्गादौ उवाच उक्तवान् प्रजापतिः प्रजानां
स्रष्टा अनेन यज्ञेन प्रसविष्यध्वं प्रसवः वृद्धिः उत्पत्तिः तं
.
कुरुध्वम् । एष यज्ञः वः युष्माकम् अस्तु भवतु इष्टकामधुक्
इष्टान् अभिप्रेतान् कामान् फलविशेषान् दोग्धीति इष्ट-
कामधुक् ॥</p>
<pb n="145" />
<p>तृतीयोऽध्यायः ।</p>
<p>कथम् —</p>
<lg>
  <l>देवान्भावयतानेन ते देवा भावयन्तु वः ।</l>
  <l>परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥</l>
</lg>
<p>देवान् इन्द्रादीन् भावयत वर्धयत अनेन यज्ञेन । ते
देवा भावयन्तु आप्याययन्तु वृष्टयादिना वः युष्मान् । एवं
परस्परम् अन्योन्यं भावयन्तः श्रेयः परं मोक्षलक्षणं ज्ञान-
प्राप्तिक्रमेण अवाप्स्यथ । स्वर्ग वा परं श्रेयः अवाप्स्यथं ॥
किंच—
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । . .
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥१२॥
इष्टान् अभिप्रेतान् भोगान् हि वः युष्मभ्यं देवाः दास्यन्ते
वितरिष्यन्ति स्त्रीपशुपुत्रादीन् यज्ञभाविताः यज्ञैः वर्धिता:
तोषिताः इत्यर्थः । तैः देवैः दत्तान् भोगान् अप्रदाय
अदन्त्वा, "आनृण्यमकृत्वा - इत्यर्थः, एभ्यः देवेभ्यः, यः भुङ्क्ते
स्वदेहेन्द्रियाण्येव तर्पयति स्तेन एव तस्कर एव सः देवादि-
स्वापहारी ॥
ये पुन:-</p>
<pb n="146" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।</l>
  <l>भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारर्णात् ॥</l>
</lg>
<p>देवयज्ञादीन् निर्वर्त्य तच्छिष्टम् अशनम् अमृताख्यम्
अशितुं शीलं येषां ते यज्ञशिष्टाशिनः सन्तः मुच्यन्ते सर्व-
किल्बिषैः सर्वपापैः चुल्ल्यादिपश्वसूनाकृतैः प्रमादकृतहिंसा-
दिजनितैश्च अन्यैः । ये तु आत्मंभरयः, भुञ्जते ते तु अघं
पापं स्वयमपि पापा: - ये पचन्ति पाकं निर्वर्तयन्ति आत्म-
कारणात् आत्महेतोः ॥
इतश्च अधिकृतेन कर्म कर्तव्यम् जगचक्रप्रवृत्तिहेतुर्हि
कर्म । कथमिति उच्यते-</p>
<lg>
  <l>अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः ।</l>
  <l>यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥</l>
</lg>
<p>अन्नात् भुक्तात् लोहितरेतः परिणतात् प्रत्यक्षं भवन्ति
'जायन्ते भूतानि । पर्जन्यात् वृष्टेः अन्नस्य संभवः अन्न-
संभवः । यज्ञात् भवति पर्जन्यः, 'अग्नौ प्रास्ताहुति: सम्य-
गादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरनं ततः प्रजाः '
इति स्मृतेः । यज्ञः अपूर्वम् । स च यज्ञः कर्मसमुद्भवः</p>
<pb n="147" />
<p>तृतीयोऽध्यायः ।</p>
<p>ऋत्विग्यजमानयोश्च व्यापारः कर्म, तत् समुद्भवः यस्य
यज्ञस्य अपूर्वस्य स यज्ञः कर्मसमुद्भवः ॥
तचैवंविधं कर्म कुतो जातमित्याह-</p>
<lg>
  <l>कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।</l>
  <l>तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥</l>
</lg>
<p>कर्म ब्रह्मोद्भवं ब्रह्म वेदः सः उद्भवः कारणं प्रकाशको
यस्य तत् कर्म ब्रह्मोद्भवं विद्धि विजानीहि । ब्रह्म पुन:
वेदाख्यम् अक्षरसमुद्भवम् अक्षरं ब्रह्म परमात्मा समुद्भवो
यस्य तत् अक्षरंसमुद्भवंम् । ब्रह्म वेद इत्यर्थः । यस्मात्
साक्षात् परमात्माख्यात् अक्षरात् पुरुषनिःश्वासवत् समुद्भूतं
ब्रह्म तस्मात् सर्वार्थप्रकाशकत्वात् सर्वगतम् ; सर्वगतमपि
सत् नित्यं सदा यज्ञविधिप्रधानत्वात् यज्ञे प्रतिष्ठितम् ॥</p>
<lg>
  <l>एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।</l>
  <l>अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥</l>
</lg>
<p>एवम् इत्थम् ईश्वरेण वेदयज्ञपूर्वकं जगचक्रं प्रवर्तितं न
अनुवर्तयति इह लोके यः कर्मणि अधिकृतः सन् अघायुः
अघं पापम् आयुः जीवनं यस्य सः अघायुः; पापजीवन:</p>
<pb n="148" />
<p>श्रीमद्भगवद्गीताभाष्ये
इति यावत् । इन्द्रियारामः इन्द्रियैः आरामः आरमणम्
आक्रीडा विषयेषु यस्य सः इन्द्रियारामः मोघं वृथा हे पार्थ,
स जीवति ॥
तस्मात् अज्ञेन अधिकृतेन कर्तव्यमेव कर्मेति प्रकरणार्थ: ।
प्राक् आत्मज्ञाननिष्ठायोग्यताप्राप्तेः तादर्थ्येन कर्मयोगानुष्ठा-
नम् अधिकृतेन अनात्मज्ञेन कर्तव्यमेवेत्येतत् 'न कर्मणामना-
रम्भात्' इत्यत आरभ्य ' शरीरयात्रापि च ते न प्रसिध्ये-
दकर्मण:' इत्येवमन्तेन प्रतिपाद्य, यज्ञार्थात् कर्मणोऽन्यत्र '
इत्यादिना 'मोघं पार्थ स जीवति' इत्येवमन्तेनापि प्रन्थेन
प्रासङ्गिकम् अधिकृतस्य अनात्मविदः कर्मानुष्ठाने बहु कार-
णमुक्तम् । तदकरणे च दोषसंकीर्तनं कृतम् ॥
g
एवं स्थिते किमेवं प्रवर्तितं चक्रं सर्वेणानुवर्तनीयम्, आहो-
स्वित् पूर्वोक्तकर्मयोगानुष्ठानोपायप्राप्याम् अनात्मविदः ज्ञान-
योगेनैव निष्टाम् आत्मविद्भिः सांख्यैः अनुष्ठेयामप्राप्तेनैव,
इत्येवमर्थम् अर्जुनस्य प्रश्नमाशङ्कय स्वयमेव वा शास्त्रार्थस्य
विवेकप्रतिपत्त्यर्थम् ' एवं वै तमात्मानं विदित्वा निवृत्तमि-
ध्याज्ञानाः सन्तः ब्राह्मणाः मिथ्याज्ञानवद्भिः अवश्यं कर्त-
व्येभ्यः पुत्रैषणादिभ्यो व्युत्थायाथ भिक्षाचर्य शरीरस्थिति-
मात्रप्रयुक्तं चरन्तिं न तेषामात्मज्ञाननिष्ठाव्यतिरेकेण अन्यत्</p>
<pb n="149" />
<p>'तृतीयोऽध्यायः ।</p>
<p>कार्यमस्ति' इत्येवं श्रुत्यर्थमिह गीताशास्त्रे प्रतिपिपादयिषित-
माविष्कुर्वन् आह भगवान् -</p>
<lg>
  <l>यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।</l>
  <l>आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते ॥</l>
</lg>
<p>यस्तु सांख्यः आत्मज्ञाननिष्ठः आत्मरतिः आत्मन्येव
रतिः न विषयेषु यस्य सः आत्मरतिरेव स्यात् भवेत् आ-
त्मतृप्तश्च आत्मनैव तृप्तः न अन्नरसादिना सः मानवः
मनुष्यः संन्यासी आत्मन्येव च संतुष्टः । संतोषो हि बाह्या-
र्थलाभे सर्वस्य भवति, तमनपेक्ष्य आत्मन्येव च संतुष्टः
सर्वतो वीततृष्ण इत्येतत् । यः ईदृशः आत्मवित् तस्य कार्य
करणीयं न विद्यते नास्ति इत्यर्थः ॥
किंच-</p>
<lg>
  <l>नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।</l>
  <l>न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥</l>
</lg>
<p>नैव तस्य परमात्मरतेः कृतेन कर्मणा अर्थः प्रयोजनमस्ति ।
अस्तु तर्हि अकृतेन अकरणेन प्रत्यवायाख्यः अनर्थः, न
अकृतेन इह लोके कश्चन कश्चिदपि प्रत्यवायप्राप्तिरूप: आ-
त्महानिलक्षणो वा नैव अस्ति । न च अस्य सर्वभूतेषु</p>
<pb n="150" />
<p>श्रीमद्भगवद्गीताभाप्ये
ब्रह्मादिस्थावरान्तेषु भूतेषु कश्चित् अर्थव्यपाश्रयः प्रयोजन-
निमित्तक्रियासाध्यः व्यपाश्रयः व्यपाश्रयणम् आलम्बनं कं-
चित् भूतविशेषमाश्रित्य न साध्यः कश्चिदर्थः अस्ति, येन
तदर्था क्रिया अनुष्ठेया स्यात् । न त्वम् एतस्मिन् सर्वत :-
संप्लुतोदकस्थानीये सम्यग्दर्शने वर्तसे ॥
यतः एवम्—</p>
<lg>
  <l>तस्मादसक्तः सततं कार्य कर्म समाचर ।</l>
  <l>असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ १९ ॥</l>
</lg>
<p>तस्मात् असक्तः सङ्गवर्जितः सततं सर्वदा कार्य कर्तव्यं
नित्यं कर्म समाचर निर्वर्तय । असक्तो हि यस्मात् समा-
चरन ईश्वरार्थं कर्म कुर्वन् परं मोक्षम् आप्नोति पूरुषः
सत्त्वशुद्धिद्वारेण इत्यर्थः ॥
यस्माच्च-
-</p>
<lg>
  <l>कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।</l>
  <l>लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥ २० ॥</l>
</lg>
<p>कर्मणैव हि यस्मात् पूर्वे क्षत्रियाः विद्वांसः संसिद्धिं
मोक्षं गन्तुम् आस्थिताः प्रवृत्ताः । के ? जनकादयः जनका-</p>
<pb n="151" />
<p>तृतीयोऽध्यायः ।</p>
<p>श्वपतिप्रभृतयः । यदि ते प्राप्तसम्यग्दर्शनाः, ततः लोक-
संग्रहार्थे प्रारब्धकर्मत्वात् कर्मणा सहैव असंन्यस्यैव कर्म
संसिद्धिमास्थिता इत्यर्थः । अथ अप्राप्तसम्यग्दर्शनाः जनका-
दय:, तदा कर्मणा सत्त्वशुद्धिसाधनभूतेन क्रमेण संसिद्धि-
मास्थिता इति व्याख्येयः श्लोकः । अथ मन्यसे पूर्वैरपि
जनकादिभिः अजानद्भिरेव कर्तव्यं कर्म कृतम् ; तावता
नावश्यमन्येन कर्तव्यं सम्यग्दर्शनवता कृतार्थेनेति ; तथापि
प्रारब्धकर्मायत्तः त्वं लोकसंग्रहम् एव अपि लोकस्य उन्मार्ग-
प्रवृत्तिनिवारणं लोकसंग्रहः, तमेवापि प्रयोजनं संपश्यन्
कर्तुम् अर्हसि ॥
लोकसंग्रहः किमर्थं कर्तव्य इत्युच्यते-</p>
<lg>
  <l>यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।</l>
  <l>स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥</l>
</lg>
<p>यद्यत् कर्म आचरति करोति श्रेष्ठः प्रधानः तत्तदेव कर्म
आचरति इतरः अन्यः जनः तदनुगतः । किंच सः श्रेष्ठः यत्
प्रमाणं कुरुते लौकिकं वैदिकं वा लोकः तत् अनुवर्तते तदेव
प्रमाणीकरोति इत्यर्थः ॥
यदि अत्र ते लोकसंग्रहकर्तव्यतायां विप्रतिपत्तिः तर्हि मां
किं न पश्यसि ? -</p>
<pb n="152" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।</l>
  <l>नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ २२ ॥</l>
</lg>
<p>न मे मम पार्थ न अस्ति न विद्यते कर्तव्यं त्रिषु अपि
लोकेषु किंचन किंचिदपि । कस्मात् ? न अनवाप्तम् अप्राप्तम्
अवाप्तव्यं प्रापणीयम्, तथापि वर्ते एव च कर्मणि अहम् ॥
।</p>
<lg>
  <l>यदि ह्यहं न वर्तेय जातु कर्मण्यतन्द्रितः ।</l>
  <l>मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३॥</l>
</lg>
<p>यदि हि पुनः अहं न वर्तेय जातु कदाचित् कर्मणि अत-
न्द्रितः अनलसः सन् मम श्रेष्ठस्य सतः वर्त्म मार्गम् अनु-
वर्तन्ते मनुष्याः हे पार्थ, सर्वशः सर्वप्रकारैः ॥
उत्सीदेयुरिमे लोका न कुर्या कर्म चेदहम् ।
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ।
उत्सीदेयुः विनश्येयुः इमे सर्वे लोकाः लोकस्थितिनि-
मित्तस्य कर्मणः अभावात् न कुर्या कर्म चेत् अहम् ।
किंच, संकरस्य च कर्ता स्याम् । तेन कारणेन उपहन्याम्
इमाः प्रजाः । प्रजानामनुग्रहाय प्रवृत्तः उपहतिम् उपहननं
कुर्याम् इत्यर्थः । मम ईश्वरस्य अननुरूपमापद्येत ॥</p>
<pb n="153" />
<p>तृतीयोऽध्यायः ।</p>
<p>यदि पुनः अहमिव त्वं कृतार्थबुद्धिः, आत्मवित् अन्यो
वा, तस्यापि आत्मनः कर्तव्याभावेऽपि परानुग्रह एव
कर्तव्य इत्याह--</p>
<lg>
  <l>सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।</l>
  <l>कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥२५॥</l>
</lg>
<p>सक्ताः कर्मणि 'अस्य कर्मणः फलं मम भविष्यति'
इति केचित् अविद्वांसः यथा कुर्वन्ति भारत, कुर्यात्
विद्वान् आत्मवित् तथा असक्तः सन् । तद्वत् किमर्थे
करोति ? तत् शृणु - चिकीर्षुः कर्तुमिच्छुः लोकसंग्रहम् ॥
एवं लोकसंग्रहं चिकीर्षोः न मम आत्मविदः कर्तव्यमस्ति
अन्यस्य वा लोकसंग्रहं मुक्त्वा । ततः तस्य आत्मविदः
इदमुपदिश्यते-</p>
<lg>
  <l>न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।</l>
  <l>जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥</l>
</lg>
<p>बुद्धेर्भेदः बुद्धिभेद: 'मया इदं कर्तव्यं भोक्तव्यं चास्य
कर्मणः फलम्' इति निश्चयरूपाया बुद्धेः भेदनं चालनं
बुद्धिभेदः तं न जनयेत् न उत्पादयेत् अज्ञानाम् अविवेकिनां
S. B. 7</p>
<pb n="154" />
<p>श्रीमद्भगवद्गीताभाष्ये
कर्मसङ्गिनां कर्मणि आसक्तानां आसङ्गवताम् । किं नु
कुर्यात् ? जोषयेत् कारयेत् सर्वकर्माणि विद्वान् स्वयं तदेव
अविदुषां कर्म युक्तः अभियुक्तः समाचरन् ॥
अविद्वानज्ञः कथं कर्मसु सज्जते इत्याह-</p>
<lg>
  <l>प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।</l>
  <l>अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥ २७ ॥</l>
</lg>
<p>प्रकृतेः प्रकृतिः प्रधानं सत्त्वरजस्तमसां गुणानां साम्या-
वस्था तस्याः प्रकृतेः गुणैः विकारै: कार्यकरणरूपैः क्रिय-
माणानि कर्माणि लौकिकानि शास्त्रीयाणि च सर्वशः सर्व-
प्रकारैः अहंकारविमूढात्मा कार्यकरणसंघातात्मप्रत्ययः अहं-
कारः तेन विविधं नानाविधं मूढः आत्मा अन्तःकरणं
यस्य सः अयं कार्यकरणधर्मा कार्यकरणाभिमानी अविद्यया
कर्माणि आत्मनि मन्यमानः तत्तत्कर्मणाम् अहं कर्ता इति
मन्यते ॥
यः पुनर्विद्वान्—</p>
<lg>
  <l>तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।</l>
  <l>गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ २८ ॥</l>
</lg>
<p>तत्त्ववित् तु महाबाहो । कस्य तत्त्ववित् ? गुणकर्मवि-</p>
<pb n="155" />
<p>तृतीयोऽध्यायः ।</p>
<lg>
  <l>९९</l>
  <l>भागयोः गुणविभागस्य कर्मविभागस्य च तस्त्ववित् इत्यर्थः ।</l>
  <l>गुणा: करणात्मकाः गुणेषु विषयात्मकेषु वर्तन्ते न आत्मा</l>
  <l>इति मत्वा न सज्जते सक्ति न करोति ॥</l>
</lg>
<p>ये पुनः--</p>
<lg>
  <l>प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु ।</l>
  <l>तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥</l>
</lg>
<p>प्रकृतेः गुणैः सम्यक् मूढाः संमोहिताः सन्तः सज्जन्ते
गुणानां कर्मसु गुणकर्मसु 'वयं कर्म कुर्मः फलाय' इति ।
तान् कर्मसङ्गिनः अकृत्स्नविदः कर्मफलमात्रदर्शिनः मन्दान्
मन्दप्रज्ञान् कृत्स्नवित् आत्मवित् स्वयं न विचालयेत् बुद्धि-
• भेदकरणमेव चालनं तत् न कुर्यात् इत्यर्थः ॥
कथं पुनः कर्मण्यधिकृतेन अज्ञेन मुमुक्षुणा कर्म कर्तव्य-
मिति, उच्यते—</p>
<lg>
  <l>मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।</l>
  <l>निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥</l>
</lg>
<p>मयि वासुदेवे परमेश्वरे सर्वज्ञे सर्वात्मनि सर्वाणि कर्मा-
णि संन्यस्य निक्षिप्य अध्यात्मचेतसा विवेकबुद्धधा 'अहं</p>
<pb n="156" />
<p>श्रीमद्भगवद्गीताभाष्ये
कर्ता ईश्वराय भृत्यवत् करोमि इत्यनया बुद्धधा । किंच,
निराशीः त्यक्ताशी: निर्मम: ममभावश्च निर्गतः यस्य तव
स त्वं निर्ममो भूत्वा युध्यस्व विगतज्वरः विगत संताप :
विगतशोकः सन्नित्यर्थः ॥
यदेतन्मम मतं कर्म कर्तव्यम् इति सप्रमाणमुक्तं तत्
तथा-</p>
<lg>
  <l>ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।</l>
  <l>श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥</l>
</lg>
<p>ये मे मदीयम् इदं मतं नित्यम् अनुतिष्ठन्ति अनुवर्तन्ते
मानवाः मनुष्याः श्रद्धावन्तः श्रद्दधानाः अनसूयन्तः असूयां
च मयि परमगुरौ वासुदेवे अकुर्वन्तः, मुच्यन्ते तेऽपि एवं -
भूताः कर्मभिः धर्माधर्माख्यैः ॥</p>
<lg>
  <l>ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।</l>
  <l>सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥३२॥</l>
</lg>
<p>ये तु तद्विपरीताः एतत् मम मतम् अभ्यसूयन्तः निन्द-
न्तः न अनुतिष्ठन्ति नानुवर्तन्ते मे मतम्, सर्वेषु ज्ञानेषु वि-
ते । सर्वज्ञानविमूढान् तान् विद्धि जानीहि
विधं मूढाः
नष्टान् नाशं गतान् अचेतसः अविवेकिनः ॥</p>
<pb n="157" />
<p>तृतीयोऽध्यायः ।</p>
<p>कस्मात् पुनः कारणात् त्वदीयं मतं नानुतिष्ठन्ति, परध-
मन् अनुतिष्ठन्ति, स्वधर्मं च नानुवर्तन्ते, त्वत्प्रतिकूलाः कथं
न बिभ्यति त्वच्छासनातिक्रमदोषात् ? तत्राहं ---</p>
<lg>
  <l>सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।</l>
  <l>प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥</l>
</lg>
<p>सदृशम् अनुरूपं चेष्टते चेष्टां करोति । कस्य ? स्वस्याः
स्वकीयायाः प्रकृतेः । प्रकृतिर्नाम पूर्वकृतधर्माधर्मादिसंस्कारः
वर्तमानजन्मादौ अभिव्यक्तः; सा प्रकृतिः । तस्याः सदृश-
मेव सर्वो जन्तुः ज्ञानवानपि चेष्टते, किं पुनर्मूर्खः । तस्मात्
प्रकृतिं यान्ति अनुगच्छन्ति भूतानि प्राणिनः । निग्रहः
निषेधरूपः किं करिष्यति मम वा अन्यस्य वा ॥
यदि सर्वो जन्तुः आत्मनः प्रकृतिसदृशमेव चेष्टते, न च
प्रकृतिशून्यः कश्चित् अस्ति, ततः पुरुषकारस्य विषयानुप-
पत्तेः शास्त्रानर्थक्यप्राप्तौ इदमुच्यते-</p>
<lg>
  <l>इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।</l>
  <l>तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्धिनौ ॥</l>
</lg>
<p>इन्द्रियस्येन्द्रियस्य अर्थे सर्वेन्द्रियाणामर्थे शब्दादिविषये</p>
<pb n="158" />
<p>श्रीमद्भगवद्गीताभाष्ये
इष्टे रागः अनिष्टे द्वेषः इत्येवं प्रतीन्द्रियार्थं रागद्वेषौ अवश्यं-
भाविनौ तत्र अयं पुरुषकारस्य शास्त्रार्थस्य च विषय
उच्यते । शास्त्रार्थे प्रवृत्तः पूर्वमेव रागद्वेषयोर्वशं नागच्छेत् ।
या हि पुरुषस्य प्रकृतिः सा रागद्वेषपुरःसरैव स्वकार्ये पुरुषं
प्रवर्तयति । तदा स्वधर्मपरित्यागः परधर्मानुष्ठानं च भवति ।
यदा पुनः रागद्वेषौ तत्प्रतिपक्षेण नियमयति तदा शास्त्रदृष्टि-
रेव पुरुषः भवति, न प्रकृतिवशः । तस्मात् तयोः रागद्वे-
षयोः वशं न आगच्छेत्, यतः तौ हि अस्य पुरुषस्य
परिपन्थिनौ श्रेयोमार्गस्य विघ्नकर्तारौ तस्करौ इव पथी-
त्यर्थः ॥
तत्र रागद्वेषप्रयुक्तो मन्यते शास्त्रार्थमप्यन्यथा 'परधर्मो-
ऽपि धर्मत्वात् अनुष्ठेय एव' इति, तदसत् —</p>
<lg>
  <l>श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।</l>
  <l>स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥</l>
</lg>
<p>श्रेयान् प्रशस्यतरः स्वो धर्मः स्वधर्मः विगुणः अपि
विगतगुणोऽपि अनुष्ठीयमानः परधर्मात् स्वनुष्ठितात् सानु-
येन संपादितादपि । स्वधर्मे स्थितस्य निधनं मरणमपि
श्रेयः परधर्मे स्थितस्य जीवितात् । कस्मात् ? परधर्मः भया-
वह: नरकादिलक्षणं भयमावहति यतः ॥</p>
<pb n="159" />
<p>तृतीयोऽध्यायः ।</p>
<p>यद्यपि अनर्थमूलम् 'ध्यायतो विषयान्पुंसः' इति 'राग-
द्वेषौ ह्यस्य परिपन्थिनौ' इति च उक्तम्, विक्षिप्तम् अनव - .
धारितं च तदुक्तम् । तत् संक्षिप्तं निश्चितं च इदमेवेति
ज्ञातुमिच्छन् अर्जुन: उवाच 'ज्ञाते हि तस्मिन् तदुच्छेदाय
यत्नं कुर्याम्' इति
अर्जुन उवाच-</p>
<lg>
  <l>अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।</l>
  <l>अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥</l>
</lg>
<p>... अथ केन हेतुभूतेन प्रयुक्तः सन् राज्ञेव भृत्यः अयं पापं
कर्म चरति आचरति पूरुषः पुरुषः स्वयम् अनिच्छन् अपि
हे वार्ष्णेय वृष्णिकुलप्रसूत, बलात् इव नियोजितः राज्ञेव
इत्युक्तो दृष्टान्तः ॥
शृणु त्वं तं वैरिणं सर्वानर्थकरं यं त्वं पृच्छसि इति
भगवान् उवाच -
श्रीभगवानुवाच-</p>
<lg>
  <l>काम एष क्रोध एष रजोगुणसमुद्भवः ।</l>
  <l>महाशनो महापाप्मा विधेनमिह वैरिणम् ॥</l>
</lg>
<p>.
'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्य-</p>
<pb n="160" />
<p>श्रीमद्भगवद्गीताभाष्ये
स्याथ मोक्षस्य षण्णां भग इतीङ्गना' ऐश्वर्यादिषट्कं यस्मिन्
वासुदेवे नित्यमप्रतिबद्धत्वेन सामस्त्येन च वर्तते, 'उत्पत्तिं
प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स
वाच्यो भगवानिति' उत्पत्त्यादिविषयं च विज्ञानं यस्य
स वासुदेवः वाच्यः भगवान् इति ॥
काम एषः सर्वलोकशत्रुः यन्निमित्ता सर्वानर्थप्राप्तिः प्राणि-
नाम् । स एष कामः प्रतिहतः केनचित् क्रोधत्वेन परिणमते ।
अतः क्रोधः अपि एष एव रजोगुणसमुद्भवः रजश्च तत् गुणश्च
रजोगुणः सः समुद्भवः यस्य सः कामः रजोगुणसमुद्भवः,
रजोगुणस्य वा समुद्भवः । कामो हि उद्भूतः रजः प्रवर्तयन्
पुरुषं प्रवर्तयति ; 'तृष्णया हि अहं कारितः' इति दुःखिनां
रजःकार्ये सेवादौ प्रवृत्तानां प्रलापः श्रूयते । महाशन: 'महत्
अशनं अस्येति महाशन: अत एव महापाप्मा; कामेन हि
प्रेरित: जन्तुः पापं करोति । अतः विद्धि एनं कामम् इह
संसारे वैरिणम् ॥
।
कथं वैरी इति दृष्टान्तैः प्रत्याययति-
ता.</p>
<lg>
  <l>धूमेनाब्रियते वह्निर्यथादर्शो मलेन च ।</l>
  <l>यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ३८ ॥</l>
</lg>
<pb n="161" />
<p>तृतीयोऽध्यायः ।</p>
<p>धूमेन सहजेन आम्रियते वह्निः प्रकाशात्मक : अप्रकाशा-
त्मकेन, यथा वा आदर्शो मलेन च, यथा उल्बेन च जरा-
युणा गर्भवेष्टनेन आवृतः आच्छादितः गर्भः तथा तेन
इदम् आवृतम् ॥
किं पुनस्तत् इदंशब्दवाच्यं यत् कामेनावृतमित्युच्यते-
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३९ ।
आवृतम् एतेन ज्ञानं ज्ञानिनः नित्यवैरिणा, ज्ञानी हि
जानाति 'अनेन अहमनर्थे प्रयुक्त:' इति पूर्वमेव । दुःखी
च भवति नित्यमेव । अतः असौ ज्ञानिनो नित्यवैरी, न तु
मूर्खस्य । स हि कामं तृष्णाकाले मित्रमिव पश्यन् तत्कार्ये
दुःखे प्राप्ते जानाति ' तृष्णया अहं दुःखित्वमापादित: '
इति, न पूर्वमेव । अतः ज्ञानिन एव नित्यवैरी । किंरूपेण ?
कामरूपेण कामः इच्छैव रूपमस्य इति कामरूपः तेन
दुष्पूरेण दुःखेन पूरणमस्य इति दुष्पूर: तेन अनलेन न
अस्य अलं पर्याप्तिः विद्यते इत्यनल: तेन च ॥
किमधिष्ठानः पुनः कामः ज्ञानस्य आवरणत्वेन वैरी
सर्वस्य लोकस्य ? इत्यपेक्षायामाह, ज्ञाते हि शत्रोरधिष्ठाने</p>
<pb n="162" />
<p>श्रीमद्भगवद्गीताभाष्ये
सुखेन निबर्हणं कर्तुं शक्यत इति-</p>
<lg>
  <l>इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।</l>
  <l>एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥</l>
</lg>
<p>I
इन्द्रियाणि मनः बुद्धिश्व अस्य कामस्य अधिष्ठानम्
आश्रयः उच्यते । एतैः इन्द्रियादिभिः आश्रयैः विमोहयति
विविधं मोहयति एष कामः ज्ञानम् आवृत्य आच्छाद्य
देहिनं शरीरिणम् ॥
यतः एवम्-</p>
<lg>
  <l>तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।</l>
  <l>पाप्मानं प्रजहिश्ह्येनं ज्ञानविज्ञाननाशनम् ॥ ४१ ॥</l>
</lg>
<p>तस्मात् त्वम् इन्द्रियाणि आदौ पूर्वमेव नियम्य वशीकृत्य
भरतर्षभ पाप्मानं पापाचारं कामं प्रजहिहि परित्यज एनं
प्रकृतं वैरिणं ज्ञानविज्ञाननाशनं ज्ञानं शास्त्रतः आचार्यतश्च
आत्मादीनाम् अवबोधः, विज्ञानं विशेषतः तदनुभवः, तयोः
ज्ञानविज्ञानयोः श्रेयः प्राप्तिहेत्वोः नाशनं नाशकरं प्रजहिहि
आत्मन: परित्यजेत्यर्थः ॥
इन्द्रियाण्यादौ नियम्य कामं शत्रु जहिहि इत्युक्तम् ;
तत्र किमाश्रयः कामं जह्यात् इत्युच्यते—</p>
<pb n="163" />
<p>तृतीयोऽध्यायः ।</p>
<lg>
  <l>इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।</l>
  <l>मनसस्तु परा वुडियों वुद्धेः परतस्तु सः ॥ ४२ ॥</l>
</lg>
<p>इन्द्रियाणि श्रोत्रादीनि पञ्च देहं स्थूलं बाह्यं परिच्छिन्नं
च अपेक्ष्य सौक्ष्म्यान्तरत्वव्यापित्वाद्यपेक्षया पराणि प्रकृ-
ष्टानि आहुः पण्डिताः । तथा इन्द्रियेभ्यः परं मनः संकल्प-
विकल्पात्मकम् । तथा मनसः तु परा बुद्धिः निश्चयात्मिका ।
तथा यः सर्वदृश्येभ्यः बुद्धयन्तेभ्यः आभ्यन्तरः, यं देहि-
नम् इन्द्रियादिभिः आश्रयैः युक्तः कामः ज्ञानावरणद्वारेण
मोहयति इत्युक्तम् । बुद्धेः परतस्तु सः सः बुद्धेः द्रष्टा
पर आत्मा ॥
ततः किम्--</p>
<lg>
  <l>एवं बुद्धेः परं बुद्धा संस्तभ्यात्मानमात्मना ।</l>
  <l>जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥४३॥</l>
</lg>
<p>इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम
तृतीयोऽध्यायः ॥</p>
<pb n="164" />
<p>श्रीमद्भगवद्गीताभाष्ये
एवं बुद्धेः परम् आत्मानं बुद्धा ज्ञात्वा संस्तभ्य सम्यक्
स्तम्भनं कृत्वा आत्मानं स्वेनैव आत्मना संस्कृतेन मनसा
सम्यक् समाधायेत्यर्थः । जहि एनं शत्रुं हे महाबाहो काम-
रूपं दुरासदं दुःखेन आसद: आसादनं प्राप्तिः यस्य तं
दुरासदं दुर्विज्ञेयानेकविशेषमिति ॥
"
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
तृतीयोऽध्यायः ॥</p>
<pb n="165" />
<p>श्रीमच्छंकरभगवत्पादविरचितम्
श्रीमद्भगवद्गीताभाष्यम्
चतुर्थोऽध्यायः</p>
<pb n="166" />
<pb n="167" />
<p>चतुर्थोऽध्यायः ॥
यो ऽयं योगः अध्याय॒द्वयेनोक्तः ज्ञाननिष्ठालक्षणः,
ससंन्यासः कर्मयोगोपायः, यस्मिन् वेदार्थः
परिसमाप्तः, प्रवृत्तिलक्षणः निवृत्तिलक्षणश्च,
गीतासु च सर्वासु अयमेव योगो विवक्षितो
भगवता । अतः परिसमाप्तं वेदार्थे मन्वानः
तं वंशकथनेन स्तौति श्रीभगवान् —
श्रीभगवानुवाच-</p>
<lg>
  <l>इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।</l>
  <l>विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ १ ॥</l>
</lg>
<p>इमम् अध्यायद्वयेनोक्तं योगं विवस्वते आदित्याय सर्गादौ
प्रोक्तवान् अहं जगत्परिपालयितॄणां क्षत्रियाणां बलाधानाय
तेन योगबलेन युक्ताः समर्था भवन्ति ब्रह्म परिरक्षितुम् ।
ब्रह्मक्षत्रे परिपालिते जगत् परिपालयितुमलम् । अव्ययम्
अव्ययफलत्वात् । न ह्यस्य योगस्य सम्यग्दर्शननिष्ठालक्षणस्य</p>
<pb n="168" />
<p>श्रीमद्भगवद्गीताभाष्ये
मोक्षाख्यं फलं व्येति । स च विवस्वान् मनवे प्राह । मनुः
इक्ष्वाकवे स्वपुत्राय आदिराजाय अब्रवीत् ॥</p>
<lg>
  <l>एवं परम्पराप्राप्तमिमं राजर्षयों विदुः ।</l>
  <l>स कालेनेह महता योगो नष्टः परंतप ॥ २ ॥</l>
</lg>
<p>एवं क्षत्रियपरम्पराप्राप्तम् इमं राजर्षयः राजानश्च ते
ऋषयश्च राजर्षयः विदुः इमं योगम् । स योगः कालेन इह
महता दीर्घेण नष्ट: विच्छिन्न संप्रदायः संवृत्तः । हे परंतप,
आत्मनः विपक्षभूताः परा इति उच्यन्ते, तान् शौर्यतेजो-
गभस्तिभिः भानुरिव तापयतीति परंतपः शत्रुतापन इत्यर्थः ॥
दुर्बलानजितेन्द्रियान् प्राप्य नष्टं योगमिममुपलभ्य लोकं
च अपुरुषार्थसंबन्धिनम् -</p>
<lg>
  <l>स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।</l>
  <l>भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥</l>
</lg>
<p>स एव अयं मया ते तुभ्यम् अद्य इदानीं योगः प्रोक्तः
पुरातनः भक्त: असि मे सखां च असि इति । रहस्यं हि
यस्मात् एतत् उत्तमं योगः ज्ञानम् इत्यर्थः ॥
भगवता विप्रतिषिद्धमुक्तमिति मा भूत् कखचित् बुद्धिः</p>
<pb n="169" />
<p>चतुर्थोऽध्यायः ।
इति परिहारार्थं चोद्यमिव कुर्वन् अर्जुन उवाच-
अर्जुन उवाच-</p>
<lg>
  <l>अपरं भवतो जन्म परं जन्म विवस्वतः ।</l>
  <l>कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥</l>
</lg>
<p>अपरम् अर्वाक् वसुदेवगृहे भवतो जन्म । परं पूर्व सर्गादौ
जन्म उत्पत्तिः विवस्वतः आदित्यस्य । तत् कथम् एतत्
विजानीयाम् अविरुद्धार्थतया, यः त्वमेव आदौ प्रोक्तवान्
इमं योगं स एव इदानीं मह्यं प्रोक्तवानसि इति ॥
या वासुदेवे अनीश्वरासर्वज्ञाशङ्का मूर्खाणाम्, तां परिहरन्ं
श्रीभगवानुवाच, यदर्थो ह्यर्जुनस्य प्रश्न:-
श्रीभगवानुवाच-</p>
<lg>
  <l>बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।</l>
  <l>तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ॥ ५ ॥</l>
</lg>
<p>बहूनि मे मम व्यतीतानि अतिक्रान्तानि जन्मानि तव
च हे अर्जुन । तानि अहं वेद जाने सर्वाणि न त्वं वेत्थ न
जानीषे, धर्माधर्मादिप्रतिबद्धज्ञानशक्तित्वात् । अहं पुनः
नित्यशुद्धबुद्धमुक्तस्वभावत्वात् अनावरणज्ञानशक्तिरिति वेद
अहं हे परंतप ॥
8. B. 8</p>
<pb n="170" />
<p>श्रीमद्भगवद्गीताभाष्ये
कथं तर्हि तव नित्येश्वरस्य धर्माधर्माभावेऽपि जन्म
इति, उच्यते-</p>
<lg>
  <l>अजोऽपि सन्नव्ययात्मा</l>
  <l>भूतानामीश्वरोऽपि सन् ।</l>
  <l>प्रकृतिं स्वामधिष्ठाय</l>
  <l>संभवाम्यात्ममायया ॥ ६ ॥</l>
</lg>
<p>अजोऽपि जन्मरहितोऽपि सन्, तथा अव्ययात्मा
अक्षीणज्ञानशक्तिस्वभावोऽपि सन्, तथा भूतानां ब्रह्मादिस्त-
म्बपर्यन्तानांम् ईश्वरः ईशनशीलोऽपि सन्, प्रकृतिं स्वां मम
वैष्णवीं मायां त्रिगुणात्मिकाम्, यस्या वशे सर्वे जगत्
'वर्तते, यया मोहितं सत् स्वमात्मानं वासुदेवं न जानाति,
तां प्रकृतिं स्वाम अधिष्ठाय वशीकृत्य संभवामि देहवानिव
भवामि जात इव आत्ममायया आत्मन: मायया, न परमा-
र्थतो लोकवत् ॥
तच्च जन्म कदां किमर्थे च इत्युच्यते--</p>
<lg>
  <l>यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।</l>
  <l>अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥</l>
</lg>
<p>यदा यदा हि धर्मस्य ग्लानिः हानिः वर्णाश्रमादिलक्षणस्य</p>
<pb n="171" />
<p>चतुर्थोऽध्यायः ।</p>
<p>प्राणिनामभ्युदयनिःश्रेयससाधनस्य भवति भारत, अभ्युत्था-
नम् उद्भवः अधर्मस्य, तदा तदा आत्मानं सृजामि अहं
मायया ॥
किमर्थम् ? --</p>
<lg>
  <l>परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।</l>
  <l>धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ ८ ॥</l>
</lg>
<p>परित्राणाय परिरक्षणाय साधूनां सन्मार्गस्थानाम्, विना-
शाय च दुष्कृतां पापकारिणाम्, किंच धर्मसंस्थापनार्थाय
धर्मस्य सम्यक् स्थापनं तदर्थ संभवामि युगे युगे प्रतियुगम् ॥</p>
<lg>
  <l>तत् —</l>
  <l>जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।</l>
  <l>त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥</l>
  <l>॥</l>
</lg>
<p>जन्म मायारूपं कर्म च साधूनां परित्राणादि मे मम
दिव्यम् अप्राकृतम् ऐश्वरम् एवं यथोक्तं यः वेत्ति तत्त्वत:
तत्वेन यथावत् त्यक्त्वा देहम् इमं पुनर्जन्म पुनरुत्पत्तिं न
एति न प्राप्नोति । माम् एति आगच्छति सः मुच्यते हे
अर्जुन ॥
नैष मोक्षमार्ग इदानीं प्रवृत्तः ; किं तर्हि ? पूर्वमपि —</p>
<pb n="172" />
<lg>
  <l>वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।</l>
  <l>बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ १० ॥</l>
</lg>
<p>वीतरागभयक्रोधाः रागश्च भयं च क्रोधश्च वीताः विगताः
येभ्यः ते वीतरागभयक्रोधाः मन्मयाः ब्रह्मविदः ईश्वराभेद-
दर्शिनः मामेव च परमेश्वरम् उपाश्रिताः केवलज्ञाननिष्ठा
इत्यर्थः । बहवः अनेके ज्ञानतपसा ज्ञानमेव च परमा-
त्मविषयं तपः तेन ज्ञानतपसा पूताः परां शुद्धिं गताः सन्तः
मद्भावम् ईश्वरभावं मोक्षम् आगताः समनुप्राप्ताः । इतरतपो-
निरपेक्षज्ञाननिष्ठा इत्यस्य लिङ्गम् 'ज्ञानतपसा' इति विशे-
षणम् ॥</p>
<p>तव तर्हि रागद्वेषौ स्तः, येन केभ्यश्चिदेव आत्मभावं
प्रयच्छसि न सर्वेभ्यः इत्युच्यते---</p>
<lg>
  <l>ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।</l>
  <l>मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥</l>
</lg>
<p>ये यथा येन प्रकारेण येन प्रयोजनेन यत्फलार्थितया मां
प्रपद्यन्ते तान् तथैव तत्फलदानेन भजामि अनुगृहामि अहम्
इत्येतत् । तेषां मोक्षं प्रति अनर्थित्वात् । न हि एकस्य
मुमुक्षुत्वं फलार्थित्वं च युगपत् संभवति । अतः ये फला-</p>
<pb n="173" />
<p>चतुर्थोऽध्यायः ।</p>
<p>र्थिनः तान् फलप्रदानेन, ये यथोक्तकारिणस्तु अफलार्थिनः
मुमुक्षवश्च तान् ज्ञानप्रदानेन, ये ज्ञानिनः संन्यासिन: मुमु-
क्षवश्च तान् मोक्षप्रदानेन, तथा आर्तान् आर्तिहरणेन
इत्येवं यथा प्रपद्यन्ते ये तान् तथैव भजामि इत्यर्थः । न पुनः
रागद्वेषनिमित्तं मोहनिमित्तं वा कंचित् भजामि । सर्वथापि
सर्वावस्थस्य मम ईश्वरस्य वर्त्म मार्गम् अनुवर्तन्ते मनुष्याः-
यत्फलार्थितया यस्मिन् कर्मणि अधिकृताः ये प्रयतन्ते ते
मनुष्या अत्र उच्यन्ते - हे पार्थ सर्वशः सर्वप्रकारैः ॥
यदि तव ईश्वरस्य रागादिदोषाभावात् सर्वप्राणिषु अनु-
जिघृक्षायां तुल्यायां सर्वफलप्रदानसमर्थे च त्वयि सति
'वासुदेवः सर्वम्' इति ज्ञानेंनैव मुमुक्षवः सन्तः कस्मात्
त्वामेव सर्वे न प्रतिपद्यन्ते इति ? शृणु तत्र कारणम्-</p>
<lg>
  <l>काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।</l>
  <l>क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥</l>
</lg>
<p>काङ्क्षन्त: अभीप्सन्तः कर्मणां सिद्धिं फलनिष्पत्तिं प्रार्थ-
यन्तः यजन्ते इह अस्मिन् लोके देवता: इन्द्राग्नयाद्या: ; 'अथ
योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद
यथा पशुरेवं स देवानाम्' इति श्रुतेः । तेषां हि भिन्नदेवता-</p>
<pb n="174" />
<p>श्रीमद्भगवद्गीताभाष्ये
याजिनां फलाकाङ्क्षिणां क्षिप्रं शीघ्रं हि यस्मात् मानुषे लोके,
मनुष्यलोके हि शास्त्राधिकार: । 'क्षिप्रं हि मानुषे लोके '
इति विशेषणात् अन्येष्वपि कर्मफलसिद्धिं दर्शयति भगवान् ।
मानुषे लोके वर्णाश्रमादिकर्माणि इति विशेष:, तेषां च
वर्णाश्रमाद्यधिकारिकर्मणां फलसिद्धिः क्षिप्रं भवति । कर्मजा
कर्मणो जाता ॥
मानुषे एव लोके वर्णाश्रमादिकर्माधिकारः, न अन्येषु
लोकेषु इति नियम: किंनिमित्त इति ? अथवा वर्णाश्रमादि-
प्रविभागोपेताः मनुष्याः मम वर्त्म अनुवर्तन्ते सर्वशः
इत्युक्तम् । कस्मात्पुनः कारणात् नियमेन तवैव वर्त्म अनु-
वर्तन्ते न अन्यस्य इति ? उच्यते--</p>
<lg>
  <l>चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः ।</l>
  <l>तस्य कर्तारमपि मां विद्धधकर्तारमव्ययम् ॥</l>
</lg>
<p>चत्वार एव वर्णाः चातुर्वर्ण्यं मया ईश्वरेण सृष्टम् उत्पा-
दितम्, ' ब्राह्मणोऽस्य मुखमासीत्' इत्यादिश्रुतेः । गुणक-
मविभागशः गुणविभागशः कर्मविभागशश्च । गुणाः सत्त्व-
रजस्तमांसि । तत्र सात्त्विकस्य सत्त्वप्रधानस्य ब्राह्मणस्य
' शमो दमस्तप:' इत्यादीनि कर्माणि सत्त्वोपसर्जनरजः प्रधा-</p>
<pb n="175" />
<p>चतुर्थोऽध्यायः ।</p>
<p>नस्य क्षत्रियस्य शौर्यतेजः प्रभृतीनि कर्माणि, तमउपसर्ज-
नरजः प्रधानस्य वैश्यस्य कृष्यादीनि कर्माणि, रजउपसर्जन-
तमः प्रधानस्य शूद्रस्य शुश्रूषैव कर्म इत्येवं गुणकर्मविभागशः
चातुर्वर्ण्य मया सृष्टम् इत्यर्थः । तच्च इदं चातुर्वण्यै न
अन्येषु लोकेषु, अतः मानुषे लोके इति विशेषणम् । हन्त
तर्हि चातुर्वर्ण्यस्य सर्गादेः कर्मण: कर्तृत्वात् तत्फलेन युज्यसे,
अतः न त्वं नित्यमुक्तः नित्येश्वरश्च इति ? उच्यते यद्यपि
मायासंव्यवहारेण तस्य कर्मणः कर्तारमपि सन्तं मां परमा-
र्थत: विद्धि अकर्तारम् । अत एव अव्ययम् असंसारिणं च
मां विद्धि ॥
येषां तु कर्मणां कर्तारं मां मन्यसे परमार्थतः तेषाम्
अकर्ता एवाहम्, यतः—</p>
<lg>
  <l>न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।</l>
  <l>इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥</l>
</lg>
<p>न मां तानि कर्माणि लिम्पन्ति देहाद्यारम्भकत्वेन, अहं-
काराभावात् । न च तेषां कर्मणां फलेषु मे मम स्पृहा
तृष्णा । येषां तु संसारिणाम् ' अहं कर्ता' इत्यभिमानः
कर्मसु, स्पृहा तत्फलेषु च तान् कर्माणि लिम्पन्ति इति
युक्तम्, तदभावात् न मां कर्माणि लिम्पन्ति । इति एवं यः</p>
<pb n="176" />
<p>श्रीमद्भगवद्गीताभाष्ये
अन्योऽपि माम् आत्मत्वेन अभिजानाति 'नाहं कर्ता न मे
कर्मफले स्पृहा' इति सः कर्मभिः न बध्यते, तस्यापि न देहा-
द्यारम्भकाणि कर्माणि भवन्ति इत्यर्थः ॥
'नाहं कर्ता न मे कर्मफले स्पृहा' इति—</p>
<lg>
  <l>एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।</l>
  <l>कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥</l>
</lg>
<p>एवं ज्ञात्वा कृतं कर्म पूर्वैः अपि अतिक्रान्तैः मुमुक्षुभिः ।
कुरु तेन कर्मैव त्वम्, न तूष्णीमासनं नापि संन्यास:
कर्तव्यः, तस्मात् त्वं पूर्वैरपि अनुष्ठितत्वात्, यदि अनात्मज्ञः
त्वं तदा आत्मशुद्ध्यर्थम्, तत्त्वविश्चेत् लोकसंग्रहार्थं पूर्वैः
जनकादिभिः पूर्वतरं कृतं न अधुनातनं कृतं निर्वर्तितम् ॥
तत्र कर्म चेत् कर्तव्यं त्वद्वचनादेव करोम्यहम्, किं
विशेषितेन 'पूर्वैः पूर्वतरं कृतम्' इत्युच्यते ; यस्मात् महत्
वैषम्यं कर्मणि । कथम् !--</p>
<lg>
  <l>किं कर्म किमकर्मेति</l>
  <l>कवयोऽप्यत्र मोहिताः ।</l>
  <l>तत्ते कर्म प्रवक्ष्यामि</l>
  <l>यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १६ ॥</l>
</lg>
<pb n="177" />
<p>चतुर्थोऽध्यायः ।</p>
<p>किं कर्म किं च अकर्म इति कवयः मेधाविनः अपि अत्र
अस्मिन् कर्मादिविषये मोहिताः मोहं गताः । तत् अतः ते
तुभ्यम् अहं कर्म अकर्म च प्रवक्ष्यामि, यत् ज्ञात्वा विदित्वा
कर्मादि मोक्ष्यसे अशुभात् संसारात् ॥
न चैतत्त्वया मन्तव्यम् — कर्म नाम देहादिचेष्टा लोकप्र-
सिद्धम्, अकर्म नाम तदक्रिया तूष्णीमासनम् किं तत्र
बोद्धव्यम् ? इति । कस्मात् उच्यते—</p>
<lg>
  <l>कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।</l>
  <l>अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७॥</l>
</lg>
<p>कर्मणः शास्त्रविहितस्य हि यस्मात् अपि अस्ति बोद्ध-
व्यम्, बोद्धव्यं च अस्त्येव विकर्मणः प्रतिषिद्धस्य, तथा
अकर्मणश्च तूष्णींभावस्य बोद्धव्यम् अस्ति इति त्रिष्वप्यध्या-
हारः कर्तव्यः । यस्मात् गहना विषमा दुर्ज्ञेया -- कर्मणः
इति उपलक्षणार्थं कर्मादीनाम् — कर्माकर्मविकर्मणां गतिः
याथात्म्यं तत्त्वम् इत्यर्थः ॥
किं पुनस्तत्त्वं कर्मादैः यत् बोद्धव्यं वक्ष्यामि इति प्रति-
ज्ञातम् ? उच्यते—</p>
<pb n="178" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।</l>
  <l>स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥</l>
</lg>
<p>कर्मणि, क्रियते इति कर्म व्यापारमात्रम्, तस्मिन्
कर्मणि अकर्म कर्माभावं यः पश्येत्, अकर्मणि च कर्मा-
भावे कर्तृतन्त्रत्वात् प्रवृत्तिनिवृत्त्योः - वस्तु अप्राप्यैव हि
सर्व एव क्रियाकारकादिव्यवहारः अविद्याभूमौ एव कर्म
यः पश्येत् पश्यति, सः बुद्धिमान् मनुष्येषु, सः युक्त: योगी
च, कृत्स्नकर्मकृत् समस्तकर्मकृश्च सः, इति स्तूयते कर्माकर्म-
णोरितरेतरदर्शी ॥
ननु किमिदं विरुद्धमुच्यते 'कर्मणि अकर्म य: पश्येत्'
इति 'अकर्मणि च कर्म' इति; न हि कर्म अकर्म स्यात्,
अकर्म वा कर्म । तत्र विरुद्धं कथं पश्येत् द्रष्टा ? - न, अकर्म
एव परमार्थतः सत् कर्मवत् अवभासते मूढदृष्टे: लोकस्य,
तथा कर्मैव अकर्मवत् । तत्र यथाभूतदर्शनार्थमाह भग-
वान् - 'कर्मण्यकर्म यः पश्येत्' इत्यादि । अतो न
विरुद्धम् । बुद्धिमत्त्वाद्युपपत्तेश्च । 'बोद्धव्यम्' इति च
यथाभूतदर्शनमुच्यते । न च विपरीतज्ञानात् अशुभात्
मोक्षणं स्यात्; 'यत् ज्ञात्वा मोक्ष्यसेऽशुभात्' इति च
उक्तम् । तस्मात् कर्माकर्मणी विपर्ययेण गृहीते प्राणिभिः</p>
<pb n="179" />
<p>चतुर्थोऽध्यायः ।</p>
<p>तद्विपर्ययग्रहणनिवृत्त्यर्थं भगवतो वचनम् 'कर्मण्यकर्म यः '
इत्यादि । न च अत्र कर्माधिकरणमकर्म अस्ति, कुण्डे बद-
राणीव । नापि अकर्माधिकरणं कर्मास्ति, कर्माभावत्वादक-
र्मणः । अत: विपरीतगृहीते एव कर्माकर्मणी लौकिकैः,
यथा मृगतृष्णिकायामुदकं शुक्तिकायां वा रजतम् । ननु
कर्म कर्मैव सर्वेषां न क्वचित् व्यभिचरति — तत् न,
नौस्थस्य नावि गच्छन्त्यां तटस्थेषु अगतिषु नगेषु प्रतिकूल-
गतिदर्शनात्, दूरेषु चक्षुषा असंनिकृष्टेषु गच्छत्सु गत्यभा-
वदर्शनात् एवम् इहापि अकर्मणि कर्मदर्शनं कर्मणि च अ-
कर्मदर्शनं विपरीतदर्शनं येन तन्निराकरणार्थमुच्यते ' कर्म-
ण्यकर्म य: पश्येत्' इत्यादि ॥
तदेतत् उक्तप्रतिवचनमपि असकृत् अत्यन्तविपरीतदर्शन-
भाविततया मोमुह्यमानो लोकः श्रुतमपि असकृत् तत्त्वं
विस्मृत्य विस्मृत्य मिथ्याप्रसङ्गम् अवतार्यावतार्य चोदयति
इति पुनः पुनः उत्तरमाह भगवान्, दुर्विज्ञेयत्वं च आलक्ष्य
वस्तुनः । 'अव्यक्तोऽयमचिन्त्योऽयम्' 'न जायते म्रियते '
इत्यादिना आत्मनि कर्माभावः श्रुतिस्मृतिन्यायप्रसिद्धः उक्तः
वक्ष्यमाणश्च । तस्मिन् आत्मनि कर्माभावे अकर्मणि कर्मवि-
परीतदर्शनम् अत्यन्तनिरूढम् ; यतः, 'किं कर्म किमकर्मेति</p>
<pb n="180" />
<p>श्रीमद्भगवद्गीताभाष्ये
कवयोऽप्यत्र मोहिताः ' । देहाद्याश्रयं कर्म आत्मन्यध्यारोप्य
'अहं कर्ता, मम एतत् कर्म, मंया अस्य कर्मणः फलं
भोक्तव्यम्' इति च, तथा 'अहं तूष्णीं भवामि, येन अहं
निरायासः अकर्मा सुखी स्याम्' इति कार्यकरणाश्रयं
व्यापारोपरमं तत्कृतं च सुखित्वम् आत्मनि अध्यारोप्य 'न
करोमि किंचित्, तूष्णीं सुखमासे' इति अभिमन्यते
लोकः । तत्रेदं लोकस्य विपरीतदर्शनापनयाय आह भग-
वान् - 'कर्मण्यकर्म य: पश्येत्' इत्यादि ॥
i
अत्र च कर्म कर्मैव सत् कार्यकरणाश्रयं कर्मरहिते
अविक्रिये आत्मनि सर्वैः अध्यस्तम्,
1
यतः पण्डितोऽपि
'अहं करोमि ' इति मन्यते । अतः आत्मसमवेततया सर्व-
लोकप्रसिद्धे कर्मणि नदीकूलस्थेष्विव वृक्षेषु गतिप्रातिलो-
म्येन अकर्म कर्माभावं यथाभूतं गत्यभावमिव वृक्षेषु यः
पश्येत्, अकर्मणि च कार्यकरणव्यापारोपरमे कर्मवत्
आत्मनि अध्यारोपिते, 'तूष्णीं अकुर्वन् सुखं आसे '
इत्यहंकाराभिसंधिहेतुत्वात्, तस्मिन् अकर्मणि च कर्म यः
पश्येत्, यः एवं कर्माकर्मविभागज्ञः सः बुद्धिमान् पण्डितः
मनुष्येषु, सः युक्त: योगी कृत्स्नकर्मकृञ्च सः अशुभात् मो-
क्षितः कृतकृत्यो भवति इत्यर्थः ॥
.</p>
<pb n="181" />
<p>चतुर्थोऽध्यायः ।</p>
<p>अयं श्लोकः अन्यथा व्याख्यातः कैश्चित् । कथम् ? नि-
त्यानां किल कर्मणाम् ईश्वरार्थे अनुष्ठीयमानानां तत्फलाभा-
वात् अकर्माणि तानि उच्यन्ते गौण्या वृत्त्या । तेषां चं
अकरणम् अकर्म; तच्च प्रत्यवायफलत्वात् कर्म उच्यते
गौण्यैव वृत्त्या । तत्र नित्ये कर्मणि अकर्म य: पश्येत
फलाभावात्; यथा धेनुरपि गौः अगौः इत्युच्यते क्षीराख्यं
फलं न प्रयच्छति इति, तद्वत् । तथा नित्याकरणे तु अक-
र्मणि च कर्म य: पश्येत् नरकादिप्रत्यवायफलं प्रयच्छति
इति ॥
नैतत् युक्तं व्याख्यानम् । एवं ज्ञानात् अशुभात् मोक्षा-
नुपपत्तेः 'यज्ज्ञात्वा मोक्ष्यसेऽशुभात्' इति भगवता उक्तं
वचनं बाध्येत । कथम् ? नित्यानामनुष्ठानात् अशुभात् स्यात्
नाम मोक्षणम्, न तु तेषां फलाभावज्ञानात् । न हि नित्यानां
फलाभावज्ञानम् अशुभमुक्तिफलत्वेन चोदितम्, नित्यकर्मज्ञानं
वा । न च भगवतैवेहोक्तम् । एतेन अकर्मणि कर्मदर्शनं
प्रत्युक्तम् । न हि अकर्मणि 'कर्म' इति दर्शनं कर्तव्यतया इह
चोद्यते, नित्यस्य तु कर्तव्यतामात्रम् । न च 'अकरणात्
नित्यस्य प्रत्यवायो भवति' इति विज्ञानात् किंचित् फलं
स्यात् । नापि नित्याकरणं ज्ञेयत्वेन चोदितम् । नापि 'कर्म</p>
<pb n="182" />
<p>श्रीमद्भगवद्गीताभाष्ये
अकर्म' इति मिथ्यादर्शनात् अशुभात् मोक्षणं बुद्धिमत्त्वं
युक्तता कृत्स्नकर्मकृत्त्वादि च फलम् उपपद्यते, स्तुतिर्वा ।
मिथ्याज्ञानमेव हि साक्षात् अशुभरूपम् । कुतः अन्यस्माद-
शुभात् मोक्षणम् ? न हि तमः तमसो निवर्तकं भवति ॥
ननु कर्मणि यत् अकर्मदर्शनम् अकर्मणि वा कर्मदर्शनं न
तत् मिथ्याज्ञानम् ; किं तर्हि ? गौणं फलभावाभावनिमित्तम् —
न, कर्माकर्मविज्ञानादपि गौणात् फलस्य अश्रवणात् । नापि
श्रुतहान्यश्रुतपरिकल्पनायां कश्चित् विशेष उपलभ्यते । स्वश-
ब्देनापि शक्यं वक्तुम् ' नित्यकर्मणां फलं नास्ति, अकरणाच
तेषां नरकपातः स्यात्' इति ; तत्र व्याजेन परव्यामोहरू-
पेण 'कर्मण्यकर्म य: पश्येत्' इत्यादिना किम् ? तंत्र एवं
व्याचक्षाणेन भगवतोक्तं वाक्यं लोकव्यामोहार्थमिति व्यक्तं
कल्पितं स्यात् । न च एतत् छद्मरूपेण वाक्येन रक्षणीयं वस्तु ;
नापि शब्दान्तरेण पुनः पुनः उच्यमानं सुबोधं स्यात् इत्येवं
वक्तुं युक्तम् । 'कर्मण्येवाधिकारस्ते' इत्यत्र हि स्फुटतर
उक्तः अर्थः, न पुनर्वक्तव्यो भवति । सर्वत्र च प्रशस्तं
बोद्धव्यं च कर्तव्यमेव । न निष्प्रयोजनं बोद्धव्यमित्युच्यते ॥
।
न च मिथ्याज्ञानं बोद्धव्यं भवति, तत्प्रत्युपस्थापितं वा
वस्त्वाभासम् । नापि नित्यानाम् अकरणात् अभावात् प्रत्य-</p>
<pb n="183" />
<p>चतुर्थोऽध्यायः ।</p>
<p>वायभावोत्पत्तिः, 'नासतो विद्यते भाव:' इति वचनात्
'कथं असत: सज्जायेत' इति च दर्शितम् असत: सज्जन्म-
प्रतिषेधात् । असतः सदुत्पत्तिं ब्रुवता असदेव सद्भवेत्, स-
श्चापि असत् भवेत् इत्युक्तं स्यात् । तच अयुक्तम्, सर्व-
प्रमाणविरोधात् । न च निष्फलं विदध्यात् कर्म शास्त्रम्,
दुःखस्वरूपत्वात्, दुःखस्य च बुद्धिपूर्वकत्या कार्यत्वानुपपत्तेः ।
तदकरणे च नरकपाताभ्युपगमात् अनर्थायैव उभयथापि
करणे च अकरणे च शास्त्रं निष्फलं कल्पितं स्यात् ।
स्वाभ्युपगमविरोधश्च 'नित्यं निष्फलं कर्म' इति अभ्युप-
गम्य 'मोक्षफलाय' इति ब्रुवतः । तस्मात् यथाश्रुत एवार्थः
'कर्मण्यकर्म य:' इत्यादेः । तथा च व्याख्यातः अस्माभिः
श्लोकः ॥
तदेतत् कर्मणि अकर्मदर्शनं स्तूयते-</p>
<lg>
  <l>यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।</l>
  <l>ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥</l>
</lg>
<p>यस्य यथोक्तदर्शिनः सर्वे यावन्तः समारम्भाः सर्वाणि
कर्माणि, समारभ्यन्ते इति समारम्भाः, कामसंकल्पवर्जिताः
कामैः तत्कारणैश्च संकल्पैः वर्जिताः मुधैव चेष्टामात्रा अनु-</p>
<pb n="184" />
<p>श्रीमद्भगवद्गीताभाष्ये
ष्ठीयन्ते; प्रवृत्तेन चेत् लोकसंग्रहार्थम्, निवृत्तेन चेत् जीवन-
मात्रार्थम् । तं ज्ञानाग्निदग्धकर्माणं कर्मादौ अकर्मादिदर्शनं
ज्ञानं तदेव अग्निः तेन ज्ञानाग्निना दग्धानि शुभाशुभलक्ष-
णानि कर्माणि यस्य तम् आहुः परमार्थतः पण्डितं बुधाः
ब्रह्मविदः ॥
यस्तु अकर्मादिदर्शी, सः अकर्मादिदर्शनादेव निष्कर्मा
संन्यासी जीवनमात्रार्थचेष्टः सन् कर्मणि न प्रवर्तते, यद्यपि
प्राक् विवेकतः प्रवृत्तः । यस्तु प्रारब्धकर्मा सन् उत्तरकालमु-
त्पन्नात्मसम्यग्दर्शनः स्यात्, सः सर्वकर्मणि प्रयोजनमपश्यन्
ससाधनं कर्म परित्यजत्येव । सः कुतश्चित् निमित्तात्
कर्मपरित्यागासंभवे सति कर्मणि तत्फले च सङ्गरहिततया
स्वप्रयोजनाभावात् लोकसंग्रहार्थं पूर्ववत् कर्मणि प्रवृत्तोऽपि
नैव किंचित् करोति, ज्ञानाग्निदग्धकर्मत्वात् तदीयं कर्म
अकर्मैव संपद्यते इत्येतमर्थं दर्शयिष्यन् आह—</p>
<lg>
  <l>त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।</l>
  <l>कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥</l>
</lg>
<p>त्यक्त्वा कर्मसु : अभिमानं फलासङ्गं च यथोक्तेन ज्ञानेन
नित्यतृप्तः निराकाङ्क्षो विषयेषु इत्यर्थः । निराश्रयः आश्रय-</p>
<pb n="185" />
<p>चतुर्थोऽध्यायः ।</p>
<p>रहितः, आश्रयो नाम यत् आश्रित्य पुरुषार्थं सिसाधयिषति,
दृष्टादृष्टेष्टफलसाधनाश्रयरहित इत्यर्थः । विदुषा क्रियमाणं
कर्म परमार्थतोऽकर्मैव, तस्य निष्क्रियात्मदर्शनसंपन्नत्वात् ।
तेन एवंभूतेन स्वप्रयोजनाभावात् ससाधनं कर्म परित्यक्तव्य-
मेव इति प्राप्ते, ततः निर्गमासंभवात् लोकसंग्रह चिकीर्षया
शिष्ट विगर्हणापरिजिहीर्षया वा पूर्ववत् कर्मणि अभिप्रवृत्तोऽपि
निष्क्रियात्मदर्शनसंपन्नत्वात् नैव किंचित् करोति सः ॥
यः पुनः पूर्वोक्तविपरीतः प्रागेव कर्मारम्भात् ब्रह्मणि
सर्वान्तरे प्रत्यगात्मनि निष्क्रिये संजातात्मदर्शनः स दृष्टादृष्टे-
ष्टविषयाशीर्विवर्जिततया दृष्टादृष्टार्थे कर्मणि प्रयोजनमपश्यन्
ससाधनं कर्म संन्यस्त्र शरीरयात्रामात्रचेष्टः यतिः ज्ञाननिष्ठो
मुच्यते इत्येतमर्थं दर्शयितुमाह-</p>
<lg>
  <l>निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।</l>
  <l>शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥</l>
</lg>
<p>निराशीः निर्गता: आशिषः यस्मात् सः निराशीः, यत-
चित्तात्मा चित्तम् अन्तःकरणम् आत्मा बाह्यः कार्यकरणसं-
घातः तौ उभावपि यतौ संयतौ येन सः यतचित्तात्मा,
त्यक्तंसर्वपरिग्रहः त्यक्तः सर्वः परिग्रहः येन सः त्यक्तसर्व-
S. B. 9</p>
<pb n="186" />
<p>श्रीमद्भगवद्गीताभाष्ये
परिग्रहः, शारीरं शरीरस्थितिमात्रप्रयोजनम्, केवलं तत्रापि
अभिमानवर्जितम्, कर्म कुर्वन् न आप्नोति न प्राप्नोति किल्बि -
षम् अनिष्टरूपं पापं धर्मे च । धर्मोऽपि मुमुक्षोः किल्बिषमेव
चन्धापादकत्वात् । तस्मात् ताभ्यां मुक्तः भवति, संसारात्
मुक्तो भवति इत्यर्थः ॥
'शारीरं केवलं कर्म' इत्यत्र किं शरीरनिर्वर्त्य शारीरं कर्म
अभिप्रेतम्, आहोस्वित् शरीरस्थितिमात्रप्रयोजनं शारीरं
कर्म इति ? किं च अतः यदि शरीरनिर्वयै शारीरं कर्म
यदि वा शरीरस्थितिमात्रप्रयोजनं शारीरम् इति ? उच्यते—
यदा शरीरनिर्वर्त्य कर्म शारीरम् अभिप्रेतं स्यात्, तदा
दृष्टादृष्टप्रयोजनं कर्म प्रतिषिद्धमपि शरीरेण कुर्वन् नाप्नोति
किल्बिषम् इति ब्रुवतो विरुद्धाभिधानं प्रसज्येत । शास्त्रीयं च
कर्म दृष्टादृष्टप्रयोजनं शरीरेण कुर्वन् नाप्नोति किल्बिषम् इत्य-
पि ब्रुवत: अप्राप्तप्रतिषेधप्रसङ्गः । ' शारीरं कर्म कुर्वन्' इति
विशेषणात् केवलशब्दप्रयोगांच्च वाङ्मनसनिर्वर्त्यं कर्म विधि-
प्रतिषेधविषयं धर्माधर्मशब्दवाच्यं कुर्वन् प्राप्नोति किल्बिषम्
इत्युक्तं स्यात् । तत्रापि वाङ्मनसाभ्यां विहितानुष्ठानपक्षे
किल्बिषप्राप्तिवचनं विरुद्धम् आपद्येत । प्रतिषिद्धसेवापक्षेऽपि
भूतार्थानुवादमात्रम् अनर्थकं स्यात् । यदा तु शरीरस्थिति-</p>
<pb n="187" />
<p>चतुर्थोऽध्यायः ।</p>
<p>मात्रप्रयोजनं शारीरं कर्म अभिप्रेतं भवेत्, तदा दृष्टादृष्टप्रयो-
जनं कर्म विधिप्रतिषेधगम्यं शरीरवाङ्मनसनिर्वर्त्यम् अन्यत्
अकुर्वन् तैरेव शरीरादिभिः शरीरस्थितिमात्रप्रयोजनं केव-
लशब्दप्रयोगात् ' अहं करोमि ' इत्यभिमानवर्जितः शरीरादि-
चेष्टामात्रं लोकदृष्टया कुर्वन् नाप्नोति किल्बिषम् । एवंभूतस्य
पापशब्दवाच्यकिल्बिषप्राप्यसंभवात् किल्बिषं संसारं न
आप्नोति; ज्ञानाग्निदग्धसर्वकर्मत्वात् अप्रतिबन्धेन मुच्यत
एव इति पूर्वोक्तसम्यग्दर्शनफलानुवाद एव एषः । एवम्
'शारीरं केवलं कर्म' इत्यस्य अर्थस्य परिग्रहे निरवद्यं
भवति ॥
त्यक्तसर्वपरिग्रहस्य यते: अन्नादेः शरीरस्थितिहेतोः परिग्र-
हस्य अभावात् याचनादिना शरीरस्थितौ कर्तव्यतायां प्रा-
प्तायाम् ' अयाचितमसंक्लप्तमुपपन्नं यदृच्छया' इत्यादिना
वचनेन अनुज्ञातं यतेः शरीरस्थितिहेतोः अन्नादेः प्राप्तिद्वारम्
आविष्कुर्वन् आह—</p>
<lg>
  <l>यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः ।</l>
  <l>समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥</l>
</lg>
<p>यदृच्छालाभसंतुष्टः अप्रार्थितोपनतो लाभो यदृच्छा-
लाभ: तेन संतुष्टः संजातालंप्रत्ययः । द्वन्द्वातीतः द्वन्द्वैः</p>
<pb n="188" />
<p>1
श्रीमद्भगवद्गीताभाष्ये
शीतोष्णादिभिः हन्यमानोऽपि अविषण्णचित्तः द्वन्द्वातीत:
उच्यते । विमत्सरः विगतमत्सरः निर्वैरबुद्धिः समः तुल्यः
यदृच्छालाभस्य सिद्धौ असिद्धौ च । यः एवंभूतो यतिः
अन्नादेः शरीरस्थितिहेतो: लाभालाभयोः समः हर्षविषाद-
वर्जितः कर्मादौ अकर्मादिदर्शी यथाभूतात्मदर्शननिष्ठः सन्
शरीरस्थितिमात्रप्रयोजने भिक्षाटनादिकर्मणि शरीरादिनिर्वयें
'नैव किंचित् करोम्यहम् गुणा गुणेषु वर्तन्ते' इत्येवं सदा
संपरिचक्षाणः आत्मन: कर्तृत्वाभावं पश्यन्नैव किंचित्
भिक्षाटनादिकं कर्म करोति, लोकव्यवहार सामान्यदर्शनेन
तु लौकिकैः आरोपितकर्तृत्वे भिक्षाटनादौ कर्मणि कर्ता
भवति । स्वानुभवेन तु शास्त्रप्रमाणादिजनितेनं अकर्तेव ।
स एवं पराध्यारोपितकर्तृत्व: शरीरस्थितिमात्रप्रयोजनं भिक्षा-.
टनादिकं कर्म कृत्वापि न निबध्यते बन्धहेतोः कर्मणः
सहेतुकस्य ज्ञानाग्निना दग्धत्वात् इति उक्तानुवाद एव एषः ॥
'त्यक्त्वा कर्मफलासङ्गम् ' इत्यनेन श्लोकेन यः प्रारब्ध-
कर्मा सन् यदा निष्क्रियब्रह्मात्मदर्शनसंपन्नः स्यात् तदा
तस्य आत्मनः कर्तृकर्मप्रयोजनाभावदर्शिन: कर्मपरित्यागे
प्राप्ते कुतश्चिन्निमित्तात् तदसंभवे सति पूर्ववत् तस्मिन्
कर्मणि अभिप्रवृत्तस्य अपि नैव किंचित् करोति सः '</p>
<pb n="189" />
<p>चतुर्थोऽध्यायः ।</p>
<p>इति कर्माभावः प्रदर्शितः । यस्य एवं कर्माभावो दर्शितः
तस्यैव-</p>
<lg>
  <l>गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।</l>
  <l>यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥</l>
</lg>
<p>गंतसङ्गस्य सर्वतोनिवृत्तासक्ते:, मुक्तस्य निवृत्तधर्माधर्मा-
दिबन्धनस्य, ज्ञानावस्थितचेतसः ज्ञाने एव अवस्थितं चेतः
यस्य सोऽयं ज्ञानावस्थितचेताः तस्य, यज्ञाय यज्ञनिर्वृत्त्यर्थम्
आचरतः निर्वर्तयतः कर्म समग्रं सह अग्रेण फलेन वर्तवे
इति समग्रं कर्म तत् समग्रं प्रविलीयते विनश्यति
इत्यर्थः ॥
कस्मात् पुनः कारणात् क्रियमाणं कर्म स्वकार्यारम्भम्
अकुर्वत् समग्रं प्रविलीयते इत्युच्यते यतः -</p>
<lg>
  <l>ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।</l>
  <l>ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥</l>
</lg>
<p>ब्रह्म अर्पणं येन करणेन ब्रह्मवित् हविः अग्नौ अर्पयति
तत् ब्रह्मैव इति पश्यति, तस्य आत्मव्यतिरेकेण अभाव
पश्यति, यथा शुक्तिकायां रजताभावं पश्यति ; तदुच्यते
ब्रह्मैव अर्पणमिति, यथा यद्रजतं तत् शुक्तिकैवेति । ब्रह्म
1</p>
<pb n="190" />
<p>श्रीमद्भगवद्गीताभाष्ये
अर्पणम्' इति असमस्ते पदे । यत् अर्पणबुद्ध्या गृह्यते लोके
तत् अस्य ब्रह्मविदः ब्रह्मैव इत्यर्थः । ब्रह्म हविः तथा यत्
हविर्बुद्ध्या गृह्यमाणं तत् ब्रह्मैव अस्य । तथा ' ब्रह्माग्नौ ' इति
समस्तं पदम् । अग्निरपि ब्रह्मैव यत्र हूयते ब्रह्मणा कर्त्रा,
ब्रह्मैव कर्तेत्यर्थः । यत् तेन हुतं हवनक्रिया तत् ब्रह्मैव । यत्
तेन गन्तव्यं फलं तदपि ब्रह्मैव ब्रह्मकर्मसमाधिना ब्रह्मैव
कर्म ब्रह्मकर्म तस्मिन् समाधिः यस्य सः ब्रह्मकर्मसमाधिः
तेन ब्रह्मकर्मसमाधिना ब्रह्मैव गन्तव्यम् ॥
एवं लोकसंग्रहं चिकीर्षुणापि क्रियमाणं कर्म परमार्थत:
अकर्म, ब्रह्मबुद्धयुपसृदितत्वात् । एवं सति निवृत्तकर्मणोऽपि
सर्वकर्मसंन्यासिनः सम्यग्दर्शनस्तुत्यर्थे यज्ञत्वसंपादनं ज्ञानस्य
सुतरामुपपद्यते ; यत् अर्पणादि अधियज्ञे प्रसिद्धं तत् अस्य
अध्यात्मं ब्रह्मैव परमार्थदर्शिन इति । अन्यथा सर्वस्य
ब्रह्मत्वे अर्पणादीनामेव विशेषतो ब्रह्मत्वाभिधानम् अनर्थकं
स्यात् । तस्मात् ब्रह्मैव इदं सर्वमिति अभिजानतः विदुषः
कर्माभावः । कारकबुद्धयभावाच्च । न हि कारकबुद्धिरहितं
यज्ञाख्यं कर्म दृष्टम् । सर्वमेव अग्निहोत्रादिकं कर्म शब्दस-
मर्पितदेवताविशेषसंप्रदानादिकारकबुद्धिमत् कर्त्रभिमानफला-
भिसंधिमञ्च दृष्टम् ; न उपमृदितक्रियाकारक फलभेदबुद्धिमत्</p>
<pb n="191" />
<p>.
चतुर्थोऽध्यायः ।</p>
<p>कर्तृत्वाभिमानफलाभिसंधिरहितं वा । इदं तु ब्रह्मबुद्धयुपसृ-
दितार्पणादिकारकक्रियाफलभेदबुद्धि कर्म । अत: अकर्मैव
तत् । तथा च दर्शितम् 'कर्मण्यकर्म य: पश्येत्' ' कर्म-
ण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ' ' गुणा गुणेषु
वर्तन्ते ' ' नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित्'
इत्यादिभिः । तथा च दर्शयन् तत्र तत्र क्रियाकारकफलभेद-
बुद्धयुपमर्द करोति । दृष्टा च काम्याग्निहोत्रादौ कामोपमर्देन
काम्याग्निहोत्रादिहानिः । तथा मतिपूर्वकामतिपूर्वकादीनां
कर्मणां कार्यविशेषस्य आरम्भकत्वं दृष्टम् । तथा इहापि
ब्रह्मबुद्धयुपमृदितार्पणादिकारकक्रियाफलभेदबुद्धेः बाह्यचेष्टा-
मात्रेण कर्मापि विदुष: अकर्म संपद्यते । अतः उक्तम्
'समग्रं प्रविलीयते' इति ॥
अत्र केचिदाहुः — यत् ब्रह्म तत् अर्पणादीनि ;
ब्रह्मैव किल अर्पणादिना पञ्चविधेन कारकात्मना व्यव-
स्थितं सत् तदेव कर्म करोति । तत्र न अर्पणादिबुद्धिः निव-
र्त्यते, किं तु अर्पणादिषु ब्रह्मबुद्धि: आधीयते; यथा प्रति-
मादौ विष्ण्वादिबुद्धिः, यथा वा नामादौ ब्रह्मबुद्धिरिति ॥
सत्यम्, एवमपि स्यात् यदि ज्ञानयज्ञस्तुत्यर्थे प्रकरणं न
स्यात् । अत्र तु सम्यग्दर्शनं ज्ञानयज्ञशब्दितम् अनेकान्</p>
<pb n="192" />
<p>श्रीमद्भगवद्गीताभाष्ये
यज्ञशब्दितान् क्रियाविशेषान् उपन्यस्य 'श्रेयान् द्रव्यमया-
द्यज्ञात् ज्ञानयज्ञ:' इति ज्ञानं स्तौति । अत्र च समर्थमिदं
वचनम् ' ब्रह्मार्पणम्' इत्यादि ज्ञानस्य यज्ञत्वसंपादने; अन्यथा
सर्वस्य ब्रह्मत्वे अर्पणादीनामेव विशेषतो ब्रह्मत्वाभिधानमन-
र्थकं स्यात् । ये तु अर्पणादिषु प्रतिमायां विष्णुदृष्टिवत्
ब्रह्मदृष्टिः क्षिप्यते नामादिष्विव चेति ब्रुवते न तेषां ब्रह्म-
विद्या उक्ता इह विवक्षिता स्यात्, अर्पणादिविषयत्वात्
ज्ञानस्य । न च दृष्टिसंपादनज्ञानेन मोक्षफलं प्राप्यते ।
'ब्रह्मैव तेन गन्तव्यम्' इति चोच्यते । विरुद्धं च सम्य-
ग्दर्शनम् अन्तरेण मोक्षफलं प्राप्यते इति । प्रकृतविरो-
धश्च सम्यग्दर्शनं च प्रकृतम् 'कर्मण्यकर्म यः पश्येत्'
इत्यत्र, अन्ते च सम्यग्दर्शनम्, तस्यैव उपसंहारात् ।
'श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञ: ', ' ज्ञानं लब्ध्वा परां
शान्तिम्' इत्यादिना सम्यग्दर्शनस्तुतिमेव कुर्वन् उपक्षीण:
अध्याय: । तत्त्र अकस्मात् अर्पणादौ ब्रह्मदृष्टिः अप्रकरणे
प्रतिमायामिव विष्णुदृष्टिः उच्यते इति अनुपपन्नम् । तस्मात्
यथाव्याख्यातार्थ एव अयं श्लोकः ॥
तत्र अधुना सम्यग्दर्शनस्य यज्ञत्वं संपाद्य तत्स्तुत्यर्थम्
अन्येऽपि यज्ञा उपक्षिप्यन्ते—</p>
<pb n="193" />
<p>चतुर्थोऽध्यायः ।</p>
<lg>
  <l>दैवमेवापरे यज्ञं योगिनः पर्युपासते ।</l>
  <l>ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥</l>
</lg>
<p>दैवमेव देवा इज्यन्ते येन यज्ञेन असौ दैवो यज्ञः तमेव
अपरे यज्ञं योगिनः कर्मिणः पर्युपासते कुर्वन्तीत्यर्थः । ब्रह्माग्नौ
'सत्यं ज्ञानमनन्तं ब्रह्म' ' विज्ञानमानन्दं ब्रह्म' 'यत् सा-
क्षादपरोक्षात् ब्रह्म य आत्मा सर्वान्तर:' इत्यादिवचनोक्तम्
अशनायादिसर्वसंसारधर्मवर्जितम् 'नेति नेति' इति निरस्ता -
शेषविशेषं ब्रह्मशब्देन उच्यते । ब्रह्म च तत् अग्निश्च सः
होमाधिकरणत्वविवक्षया ब्रह्माभिः । तस्मिन् ब्रह्माग्नौ अपरे
अन्ये ब्रह्मविदः यज्ञम् — यज्ञशब्दवाच्य आत्मा, आत्म-
नामसु यज्ञशब्दस्य पाठात् — तम् आत्मानं यज्ञं परमार्थतः
परमेव ब्रह्म सन्तं बुद्धधाद्युपाधिसंयुक्तम् अध्यस्तसर्वोपाधि-
धर्मकम् आहुतिरूपं यज्ञेनैव आत्मनैव उक्तलक्षणेन उपजुह्वति
प्रक्षिपन्ति, सोपाधिकस्य आत्मनः निरुपाधिकेन परब्रह्म-
स्वरूपेणैव यद्दर्शनं स तस्मिन् होमः तं कुर्वन्ति ब्रह्मात्मैक-
त्वदर्शननिष्ठाः संन्यासिनः इत्यर्थः ॥
-
सोऽयं सम्यग्दर्शनलक्षण: यज्ञः दैवयज्ञादिषु यज्ञेषु उप-
क्षिप्यते ' ब्रह्मार्पणम्' इत्यादिश्लोकैः प्रस्तुतः 'श्रेयान् द्रव्य-
मयाद्यज्ञात् ज्ञानयज्ञः परंतप' इत्यादिना स्तुत्यर्थम् —</p>
<pb n="194" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।</l>
  <l>शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥</l>
</lg>
<p>श्रोत्रादीनि इन्द्रियाणि अन्ये योगिनः संयमानिषु ।
प्रतीन्द्रियं संयमों भिद्यते इति बहुवचनम् । संयमा एव
अग्नयः तेषु जुह्वति इन्द्रियसंयममेव कुर्वन्ति इत्यर्थः । शब्दा-
दीन् विषयान् अन्ये इन्द्रियाग्निषु इन्द्रियाण्येव अग्नयः तेषु
इन्द्रियाग्निषु जुह्वति श्रोत्रादिभिरविरुद्धविषयग्रहणं होमं
मन्यन्ते ॥
किंच—</p>
<lg>
  <l>सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।</l>
  <l>आत्मसंयमयोगाग्नौ जुहुति ज्ञानदीपिते ॥ २७ ॥</l>
</lg>
<p>सर्वाणि इन्द्रियकर्माणि इन्द्रियाणां कर्माणि इन्द्रिय-
कर्माणि, तथा प्राणकर्माणि प्राणो वायुः आध्यात्मिकः
तत्कर्माणि आकुञ्चनप्रसारणादीनि तानि च अपरे आत्म-
संयमयोगाग्नौ आत्मनि संयमः आत्मसंयमः स एव यो-
गाग्निः तस्मिन् आत्मसंयमयोगानौ जुह्वति प्रक्षिपन्ति ज्ञान-
दीपिते स्नेहेनेव प्रदीपे विवेकविज्ञानेन उज्ज्वलभावम् आपा-
दिते जुह्वति प्रविलापयन्ति इत्यर्थः ॥</p>
<pb n="195" />
<p>चतुर्थोऽध्यायः ।
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।</p>
<p>स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥२८॥
द्रव्ययज्ञाः तीर्थेषु द्रव्यविनियोगं यज्ञबुद्ध्या कुर्वन्ति
ये ते द्रव्ययज्ञाः । तपोयज्ञाः तपः यज्ञः येषां तपस्विनां
ते तपोयज्ञाः । योगयज्ञाः प्राणायामप्रत्याहारादिलक्षणो
योगो यज्ञो येषां ते योगयज्ञाः । तथा अपरे स्वाध्यायज्ञान-
यज्ञाश्च स्वाध्यायः यथाविधि ऋगाद्यभ्यासः यज्ञः येषां
ते स्वाध्याययज्ञाः । ज्ञानयज्ञा: ज्ञानं शास्त्रार्थपरिज्ञानं यज्ञः
येषां ते ज्ञानयज्ञाश्च यतयः यतनशीलाः संशितव्रताः सम्यक्
शितानि तनूकृंतानि तीक्ष्णीकृतानि व्रतानि येषां ते
संशितव्रताः ॥</p>
<lg>
  <l>किंच-</l>
  <l>अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।</l>
  <l>प्राणापानगती रुद्धा प्राणायामपरायणाः ॥ २९ ॥</l>
  <l>॥</l>
</lg>
<p>अपाने अपानवृत्तौ जुह्वति प्रक्षिपन्ति प्राणं प्राणवृत्तिम्,
पूरकाख्यं प्राणायामं कुर्वन्तीत्यर्थः । प्राणे अपानं तथा
अपरे जुह्वति, रेचकाख्यं च प्राणायामं कुर्वन्तीत्येतत् ।
प्राणापानगती मुखनासिकाभ्यां वायोः निर्गमनं प्राणस्य</p>
<pb n="196" />
<p>श्रीमद्भगवद्गीताभाष्ये
गतिः, तद्विपर्ययेण अधोगमनम् अपानस्य गतिः, ते प्राणा-
पानगती एते रुद्ध्वा निरुध्य प्राणायामपरायणाः प्राणाया-
मतत्पराः ; कुम्भकाख्यं प्राणायामं कुर्वन्तीत्यर्थः ॥
किंच—</p>
<lg>
  <l>अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।</l>
  <l>सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ३० ॥</l>
</lg>
<p>अपरे नियताहाराः नियतः परिमितः आहारः येषां ते
नियताहाराः सन्तः प्राणान् वायुभेदान् प्राणेषु एव जुह्वति
यस्य यस्य वायोः जयः क्रियते इतरान् वायुभेदान् तस्मिन्
तस्मिन् जुह्वति, ते तत्र प्रविष्टा इव भवन्ति । सर्वेऽपि एते
यज्ञविदः यज्ञश्चपितकल्मषाः यज्ञैः यथोक्तैः क्षपितः, नाशितः
कल्मषो येषां ते यज्ञक्षपितकल्मषाः ॥
एवं यथोक्तान् यज्ञान् निर्वर्त्य -</p>
<lg>
  <l>यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।</l>
  <l>नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥</l>
</lg>
<p>यज्ञशिष्टामृतभुजः यज्ञानां शिष्टं यज्ञशिष्टं यज्ञशिष्टं च
तत् अमृतं च यज्ञशिष्टामृतं तत् भुञ्जते इति यज्ञशिष्टामृत-
भुजः । यथोक्तान् यज्ञान् कृत्वा तच्छिष्टेन कालेन यथावि-</p>
<pb n="197" />
<p>चतुर्थोऽध्यायः ।</p>
<p>धिचोदितम् अन्नम् अमृताख्यं भुञ्जते इति यज्ञशिष्टामृतभुजः
यान्ति गच्छन्ति ब्रह्म सनातनं चिरन्तनं मुमुक्षवश्चेत्;
कालातिक्रमापेक्षया इति सामर्थ्यात् गम्यते । न अयं लोक:
सर्वप्राणिसाधारणोऽपि अस्ति यथोक्तानां यज्ञानां एकोऽपि
यज्ञ: यस्य नास्ति सः अयज्ञ: तस्य । कुतः अन्यो विशिष्टसा -
धनसाध्यः कुरुसत्तम ॥</p>
<lg>
  <l>एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।</l>
  <l>कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥</l>
</lg>
<p>· एवं यथोक्ता बहुविधा बहुप्रकारा यज्ञाः वितताः वि-
स्तीर्णाः ब्रह्मणो वेदस्य मुखे द्वारे वेदद्वारेण अवगम्यमानाः
ब्रह्मणो मुखे वितता उच्यन्ते ; तद्यथा ' वाचि हि प्राणं
जुहुम:' इत्यादय: । कर्मजान् कायिकवाचिकमानसकर्मोद्भ-
वान् विद्धि तान् सर्वान् अनात्मजान् निर्व्यापारो हि
आत्मा । अत एवं ज्ञात्वा विमोक्ष्यसे अशुभात् । न मद्वया-
पारा इमे, निर्व्यापारोऽहम् उदासीन इत्येवं ज्ञात्वा अस्मात्
सम्यग्दर्शनात् मोक्ष्यसे संसारबन्धनात् इत्यर्थः ॥
'ब्रह्मार्पणम्' इत्यादिश्लोकेन सम्यग्दर्शनस्य यज्ञत्वं सं-
पादितम् । यज्ञाश्च अनेके उपदिष्टाः । तैः सिद्धपुरुषार्थप्रयो-
जनैः ज्ञानं स्तूयते । कथम् ? —</p>
<pb n="198" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप ।</l>
  <l>सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३॥</l>
</lg>
<p>श्रेयान् द्रव्यमयात् द्रव्यसाधनसाध्यात् यज्ञात् ज्ञानयज्ञः
हे परंतप । द्रव्यमयो हि यज्ञः फलस्यारम्भकः, ज्ञानयज्ञः न
फलारम्भकः, अतः श्रेयान् प्रशस्यतरः । कथम् ? यतः सर्वं
कर्म समस्तम् अखिलम् अप्रतिबद्धं पार्थ ज्ञाने मोक्षसाधने
सर्वतः संप्लुतोदकस्थानीये परिसमाप्यते अन्तर्भवतीत्यर्थः
'यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्व तदभि-
समेति यत् किंचित्प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद'
इति श्रुतेः ॥
तदेतत् विशिष्टं ज्ञानं तर्हि केन प्राप्यते इत्युच्यते—</p>
<lg>
  <l>तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।</l>
  <l>उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥३४॥</l>
</lg>
<p>तत् विद्धि विजानीहि येन विधिना प्राप्यते इति । आ-
चार्यान् अभिगम्य, प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातः
दीर्घनमस्कारः तेन, 'कथं वन्धः ? कथं मोक्षः? का विद्या ? का
चाविद्या?' इति परिप्रश्नेन, सेवया गुरुशुश्रूषया एवमादिना ।
प्रश्रयेण आवर्जिता आचार्या उपदेक्ष्यन्ति कथयिष्यन्ति ते</p>
<pb n="199" />
<p>चतुर्थोऽध्यायः ।</p>
<p>ज्ञानं यथोक्तविशेषणं ज्ञानिनः । ज्ञानवन्तोऽपि केचित् यथा-
वत् तत्त्वदर्शनशीलाः, अपरे न; अतो विशिनष्टि तत्त्वदर्शिनः
इति । ये सम्यग्दर्शिनः तैः उपदिष्टं ज्ञानं कार्यक्षमं भवति
नेतरत् इति भगवतो मतम् ॥
तथा च सति इदमपि समर्थं वचनम् -..</p>
<lg>
  <l>यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।</l>
  <l>येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥</l>
</lg>
<p>यत् ज्ञात्वा यत् ज्ञानं तैः उपदिष्टं अधिगम्य प्राप्य पुनः
भूय: मोहम् एवं यथा इदानीं मोहं गतोऽसि पुनः एवं
न यास्यसि हे पाण्डव । किंच — येन ज्ञानेन भूतानि
अशेषेण ब्रह्मादीनि स्तम्बपर्यन्तानि द्रक्ष्यसि साक्षात्
आत्मनि प्रत्यगात्मनि 'मत्संस्थानि इमानि भूतानि' इति
अथो अपि मयि वासुदेवे 'परमेश्वरे चं इमानि ' इति ; क्षेत्रज्ञे-
श्वरैकत्वं सर्वोपनिषत्प्रसिद्धं द्रक्ष्यसि इत्यर्थः ॥
किंच एतस्य ज्ञानख माहात्म्यम्-</p>
<lg>
  <l>अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।</l>
  <l>सर्व ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥ ३६ ॥</l>
</lg>
<p>अपि चेत् असि पापेभ्यः पापकृद्भयः सर्वेभ्यः अति-</p>
<pb n="200" />
<p>श्रीमद्भगवद्गीताभाष्ये
शयेनं पापकृत् पापकृत्तमः सर्वं ज्ञानप्लवेनैव ज्ञानमेव प्लवं
कृत्वा वृजिनं वृजिनार्णवं पापसमुद्रं संतरिष्यसि । धर्मोऽपि
इह मुमुक्षोः पापम् उच्यते ॥
ज्ञानं कथं नाशयति पापमिति दृष्टान्त उच्यते—</p>
<lg>
  <l>यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।</l>
  <l>ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥</l>
</lg>
<p>यथा एधांसि काष्ठानि समिद्धः सम्यक् इद्धः दीप्तः
अग्निः भस्मसात् भस्मीभावं कुरुते हे अर्जुन, ज्ञानमेव
अग्निः ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा निर्बीजी-
करोतीत्यर्थः । न हि साक्षादेव ज्ञानाग्भिः कर्माणि इन्धनवत्
भस्मीकर्तुं शक्नोति । तस्मात् सम्यग्दर्शनं सर्वकर्मणां निर्बी-
जत्वे कारणम् इत्यभिप्रायः । सामर्थ्यात् येन कर्मणा
शरीरम् आरब्धं तत् प्रवृत्तफलत्वात् उपभोगेनैव क्षीयते ।
अतो यानि अप्रवृत्तफलानि ज्ञानोत्पत्तेः प्राक् कृतानि ज्ञान-
सहभावीनि च अतीतानेकजन्मकृतानि च तान्येव सर्वाणि
भस्मसात् कुरुते ॥
•
यतः एवम् अत:-
-</p>
<lg>
  <l>न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।</l>
  <l>तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥</l>
</lg>
<pb n="201" />
<p>चतुर्थोऽध्यायः ।</p>
<p>न हि ज्ञानेन सदृशं तुल्यं पवित्रं पावनं शुद्धिकरम् इह
विद्यते । तत् ज्ञानं स्वयमेव योगसंसिद्ध: योगेन कर्मयोगेन
समाधियोगेन च संसिद्धः संस्कृतः योग्यताम् आपन्नः सन्
मुमुक्षुः कालेन महता आत्मनि विन्दति लभते इत्यर्थः ॥
येन एकान्तेन ज्ञानप्राप्तिः भवति स उपायः उपदि-
श्यते-</p>
<lg>
  <l>श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।</l>
  <l>ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥</l>
</lg>
<p>श्रद्धावान् श्रद्धालुः लभते ज्ञानम् । श्रद्धालुत्वेऽपि भवति
कश्चित् मन्दप्रस्थान:, अत आह— तत्परः, गुरूपसदनादौ
अभियुक्तः ज्ञानलब्ध्युपाये श्रद्धावान् । तत्परः अपि अजि-
तेन्द्रियः स्यात् इत्यतः आह– संयतेन्द्रियः, संयतानि
विषयेभ्यो निवर्तितानि यस्य इन्द्रियाणि स संयतेन्द्रियः ।
य एवंभूतः श्रद्धावान् तत्परः संयतेन्द्रियश्च सः अवश्यं ज्ञानं
लभते । प्रणिपातादिस्तु बाह्योऽनैकान्तिकोऽपि भवति,
मायावित्वादिसंभवात् ; न तु तत् श्रद्धावत्त्वादौ इत्येका-
न्तत: ज्ञानलब्ध्युपायः । किं पुनः ज्ञानलाभात् स्यात्
इत्युच्यते-- ज्ञानं लब्ध्वा परां मोक्षाख्यां शान्तिम् उपरतिम्
S. B. 10</p>
<pb n="202" />
<p>श्रीमद्भगवद्गीताभाष्ये
अचिरेण क्षिप्रमेव अधिगच्छति । सम्यग्दर्शनात् क्षिप्रमेव
मोक्षो भवतीति सर्वशास्त्रन्यायप्रसिद्धः सुनिश्चितः अर्थः ॥
अत्र संशयः न कर्तव्यः, पापिष्ठो हि संशय: ; कथम्
इति उच्यते—</p>
<lg>
  <l>अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।</l>
  <l>नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥</l>
</lg>
<p>अज्ञश्च अनात्मज्ञश्च अश्रद्दधानश्च गुरुवाक्यशास्त्रेषु अ-
विश्वासवांश्च संशयात्मा च संशयचित्तश्च विनश्यति । अज्ञा-
श्रद्दधानौ यद्यपि विनश्यतः, न तथा यथा संशयात्मा ।
संशयात्मा तु पापिष्ठः सर्वेषाम् । कथम् ? नायं साधारणोs-
पि लोकोऽस्ति । तथा न परः लोकः । न सुखम्, तत्रापि
संशयोत्पत्तेः संशयात्मनः संशयचित्तस्य । तस्मात् संशयो
न कर्तव्यः ॥
कस्मात् ?-
-</p>
<lg>
  <l>योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् ।</l>
  <l>आत्मवन्तं न कर्माणि निबंध्नन्ति धनंजय ॥४१॥</l>
</lg>
<p>योगसंन्यस्तकर्माणं परमार्थदर्शनलक्षणेन योगेन संन्य-
स्तानि कर्माणि येन परमार्थदर्शिना धर्माधर्माख्यानि तं</p>
<pb n="203" />
<p>चतुर्थोऽध्यायः ।</p>
<p>योगसंन्यस्तकर्माणम् । कथं योगसंन्यस्तकर्मेत्याह-- ज्ञान-
संछिन्नसंशयं ज्ञानेन आत्मेश्वरैकत्वदर्शनलक्षणेन संछिन्नः
संशयो यस्य सः ज्ञानसंछिन्नसंशयः । य एवं योगसंन्यस्त-
कर्मा तम् आत्मवन्तम् अप्रमत्तं गुणचेष्टारूपेण दृष्टानि
कर्माणि न निवध्नन्ति अनिष्टादिरूपं फलं नारभन्ते हे
धनंजय ॥
यस्मात् कर्मयोगानुष्ठानात् अशुद्धिक्षयहेतुकज्ञानसंछि-
नसंशयः न निबध्यते कर्मभिः ज्ञानाग्निदग्धकर्मत्वादेव,
यस्माच्च ज्ञानकर्मानुष्ठानविषये संशयवान् विनश्यति—</p>
<lg>
  <l>तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः ।</l>
  <l>छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥</l>
</lg>
<p>इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम
चतुर्थोऽध्यायः ॥
तस्मात् पापिष्ठम् अज्ञानसंभूतम् अज्ञानात् अविवेकात्
जातं हृत्स्थं हृदि बुद्धौ स्थितं ज्ञानासिना शोकमोहादिदोष-
हरं सम्यग्दर्शनं ज्ञानं तदेव असि: खङ्गः तेन ज्ञानासिना</p>
<pb n="204" />
<p>श्रीमद्भगवद्गीताभाष्ये
आत्मनः स्वस्य, आत्मविषयत्वात् संशयस्य । न हि परस्य
संशयः परेण च्छेत्तव्यतां प्राप्तः, येन स्वस्येति विशेष्येत ।
अतः आत्मविषयोऽपि स्वस्यैव भवति । छिवा एनं संशयं
I
स्वविनाशहेतुभूतम्, योगं सम्यग्दर्शनोपायं कर्मानुष्ठानम्
आतिष्ठ कुर्वित्यर्थः । उत्तिष्ठ च इदानीं युद्धाय भारत इति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
चतुर्थोऽध्यायः ॥</p>
<pb n="205" />
<p>श्रीमच्छंकरभगवत्पादविरचितम्
श्रीमद्भगवद्गीताभाष्यम्
पञ्चमोऽध्यायः</p>
<pb n="206" />
<pb n="207" />
<p>पञ्चमोऽध्यायः ॥
कर्मण्यकर्म यः पश्येत्' इत्यारभ्य 'सं
युक्तः कृत्स्नकर्मकृत्' 'ज्ञानाग्निदग्ध-
कर्माणम्' ' शारीरं केवलं कर्म कुर्वन् '
'यदृच्छालाभसंतुष्टः ' ' ब्रह्मार्पणं ब्रह्म
हविः ' ' कर्मजान् विद्धि तान् सर्वान् '
' सर्व कर्माखिलं पार्थ' 'ज्ञानाग्निः
सर्वकर्माणि' 'योगसंन्यस्तकर्माणम्' इत्येतैः वचनैः सर्वक-
र्मसंन्यासम् अवोचत् भगवान् । 'छित्त्वैनं संशयं योगमा-
तिष्ठ' इत्यनेन वचनेन योगं च कर्मानुष्ठानलक्षणम् अनु-
तिष्ठ इत्युक्तवान् । तयोरुभयोश्च कर्मानुष्ठानकर्मसंन्यासयोः
स्थितिगतिवत् परस्परविरोधात् एकेन सह कर्तुमशक्यत्वात्,
कालभेदेन च अनुष्ठानविधानाभावात्, अर्थात् एतयोः अन्य-
तरकर्तव्यताप्राप्तौ सत्यां यत् प्रशस्यतरम् एतयोः कर्मानुष्ठा-
नकर्मसंन्यासयोः तत् कर्तव्यं न इतरत् इत्येवं मन्यमानः</p>
<pb n="208" />
<p>श्रीमद्भगवद्गीताभाष्ये
प्रशस्यतरबुभुत्सया अर्जुन उवाच – 'संन्यासं कर्मणां कृष्ण '
इत्यादिना ॥
ननु च आत्मविदः ज्ञानयोगेन निष्ठां प्रतिपिपादयिषन्
पूर्वोदाहृतैः वचनैः भगवान् सर्वकर्मसंन्यासम् अवोचत्,
न तु अनात्मज्ञस्त्र । अतश्च कर्मानुष्ठानकर्मसंन्यासयोः
भिन्नपुरुषविषयत्वात् अन्यतरस्य प्रशस्यतरत्वबुभुत्सया अयं
प्रश्न: अनुपपन्नः । सत्यमेव त्वदभिप्रायेण प्रश्नो न उपपद्यते ;
प्रष्टुः स्वाभिप्रायेण पुनः प्रश्नः युज्यत एवेति वदामः ।
कथम् ? पूर्वोदाहृतैः वचनैः भगवता कर्मसंन्यासस्य कर्त-
व्यतया विवक्षितत्वात्, प्राधान्यमन्तरेण च कर्तारं तस्य
कर्तव्यत्वासंभवात् अनात्मविदपि कर्ता पक्षे प्राप्तः अनूद्यत
एव; न पुनः आत्मवित्कर्तृकत्वमेव संन्यासस्य विवक्षितम्,
इत्येवं मन्वानस्य अर्जुनस्य कर्मानुष्ठानकर्मसंन्यासयोः अवि-
द्वत्पुरुषकर्तृकत्वमपि अस्तीति पूर्वोक्तेन प्रकारेण तयोः पर-
स्परविरोधात् अन्यतरस्य कर्तव्यत्वें प्राप्ते प्रशस्यतरं च
कर्तव्यम् न इतरत् इति प्रशस्यतरविविदिषया प्रश्नः न
अनुपपन्नः ॥
प्रतिवचनवाक्यार्थनिरूपणेनापि प्रष्टुः अभिप्राय: एवमे-
वेति गम्यते । कथम् ? 'संन्यासकर्मयोगौ निःश्रेयसकरौ</p>
<pb n="209" />
<p>पञ्चमोऽध्यायः ।
-</p>
<p>तयोस्तु कर्मयोगो विशिष्यते' इति प्रतिवचनम् । एतत्
निरूप्यम् — किम् अनेन आत्मवित्कर्तृकयोः संन्यासक-
र्मयोगयोः निःश्रेयसकरत्वं प्रयोजनम् उक्त्वा तयोरेव कुत-
श्चित् विशेषात् कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वम्
उच्यते ? आहोस्वित् अनात्मवित्कर्तृकयोः संन्यासकर्मयो-
गयोः तदुभयम्
उच्यते ? इति । किंचात:- यदि आत्म-
वित्कर्तृकयोः कर्मसंन्यासकर्मयोगयोः निःश्रेयसकरत्वम्,
तयोस्तु कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वम् उच्यते ;
यदि वा अनात्मवित्कर्तृकयोः संन्यासकर्मयोगयोः तदुभयम्
उच्यते इति । अत्र उच्यते—- आत्मवित्कर्तृकयोः संन्यास-
कर्मयोगयोः असंभवात् तयोः निःश्रेयसकरत्ववचनं तदी-
याच्च कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वाभिधानम् इत्ये-
तत् उभयम् अनुपपन्नम् । यदि अनात्मविदः कर्मसंन्यासः
तत्प्रतिकूलश्च कर्मानुष्ठानलक्षणः कर्मयोगः संभवेताम्,
तदा तयोः निःश्रेयसकरत्वोक्तिः कर्मयोगस्य च कर्मसंन्या-
सात् विशिष्टत्वाभिधानम् इत्येतत् उभयम् उपपद्येत । आत्म-
विदस्तु संन्यासकर्मयोगयोः असंभवात् तयोः निःश्रेयस-
करत्वाभिधानं कर्मसंन्यासाच्च कर्मयोगः विशिष्यते इति
च अनुपपन्नम् ॥</p>
<pb n="210" />
<p>श्रीमद्भगवद्गीताभाष्ये
अत्र आह— किम् आत्मविदः संन्यासकर्मयोगयोः
उभयोरपि असंभवः ? आहोस्वित् अन्यतरस्य असंभवः ?
यदा च अन्यतरस्य असंभवः, तदा किं कर्मसंन्यासस्य,
उत कर्मयोगस्य ? इति ; असंभवे कारणं च वक्तव्यम् इति ।
अत्र उच्यते — आत्मविदः निवृत्तमिथ्याज्ञानत्वात् विपर्यय-
ज्ञानमूलस्य कर्मयोगस्य असंभवः स्यात् । जन्मादिसर्ववि-
क्रियारहितत्वेन निष्क्रियम् आत्मानम् आत्मत्वेन यो वेत्ति
तस्य आत्मविदः सम्यग्दर्शनेन अपास्तमिथ्याज्ञानस्य निष्क्रि-
यात्मस्वरूपावस्थानलक्षणं सर्वकर्मसंन्यासम् उक्त्वा तद्विपरी-
तस्य मिथ्याज्ञानमूलकर्तृत्वाभिमानपुरः सरस्य सक्रियात्म-
स्वरूपावस्थानरूपस्य कर्मयोगस्य इह गीताशास्त्रे तत्र तत्र
आत्मस्वरूपनिरूपणप्रदेशेषु सम्यग्ज्ञानमिथ्याज्ञानतत्कार्यवि-
रोधात् अभावः प्रतिपाद्यते यस्मात् तस्मात् आत्मविदः
निवृत्तमिथ्याज्ञानस्य विपर्ययज्ञानमूलः कर्मयोगो न संभव-
तीति युक्तम् उक्तं स्यात् ॥
"
केषु केषु पुनः आत्मस्वरूपनिरूपणप्रदेशेषु आत्मविदः
कर्माभावः प्रतिपाद्यते इति अत्र उच्यते— 'अविनाशि तु
तत्' इति प्रकृत्य ' य एनं वेत्ति हन्तारम् ' ' वेदाविनाशिनं
नित्यम्' इत्यादौ तत्र तत्र आत्मविदः कर्माभावः उच्यते ॥</p>
<pb n="211" />
<p>पञ्चमोऽध्यायः ।</p>
<p>ननुं च कर्मयोगोऽपि आत्मस्वरूपनिरूपणप्रदेशेषु तत्र तत्र
प्रतिपाद्यते एव; तद्यथा - ' तस्माद्युध्यस्व भारत' : स्वधर्म-
मपि चावेक्ष्य ' ' कर्मण्येवाधिकारस्ते' इत्यादौ । अतश्च कथम्
आत्मविदः कर्मयोगस्य असंभवः स्यादिति ? अत्र उच्यते-
सम्यग्ज्ञानमिथ्याज्ञानतत्कार्यविरोधात्, 'ज्ञानयोगेन सां-
ख्यानाम्' इत्यनेन सांख्यानाम् आत्मतत्त्वविदाम् अनात्म-
वित्कर्तृककर्मयोगनिष्ठातः निष्क्रियात्मस्वरूपावस्थानलक्षणा-
या: ज्ञानयोगनिष्ठायाः पृथक्करणात् कृतकृत्यत्वेन आत्मविदः
प्रयोजनान्तराभावात्, 'तस्य कार्य न विद्यते' इति कर्तव्या-
न्तराभाववचनाच्च, 'न कर्मणामनारम्भात् ' 'संन्यासस्तु महा-
बाहो दुःखमाप्नुमयोगत:' इत्यादिना च आत्मज्ञानाङ्गत्वेन
कर्मयोगस्य विधानात्, 'योगारूढस्य तस्यैव शमः कारणमु-
च्यते ' इत्यनेन च उत्पन्नसम्यग्दर्शनस्य कर्मयोगाभाववचनात्,
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ' इति च शरीर-
स्थितिकारणातिरिक्तस्य कर्मणो निवारणात्, 'नैव किंचि-
त्करोमीति युक्तो मन्येत तस्त्ववित्' इत्यनेन च शरीरस्थिति-
मात्रप्रयुक्तेष्वपि दर्शनश्रवणादिकर्मसु आत्मयाथात्म्यविदः
'करोमि ' इति प्रत्ययस्य समाहितचेतस्तया सदा अकर्तव्य-
त्वोपदेशात् आत्मतत्त्वविदः सम्यग्दर्शनविरुद्धो मिथ्याज्ञान-</p>
<pb n="212" />
<p>श्रीमद्भगवद्गीताभाष्ये
हेतुकः कर्मयोगः स्वप्रेऽपि न संभविायतुं शक्यते यस्मात्,
तस्मात् अनात्मवित्कर्तृकयोरेव संन्यासकर्मयोगयोः निःश्रेय-
सकरत्ववचनम्, तदीयाश्च कर्मसंन्यासात् पूर्वोक्तात्मवित्क-
र्तृकसर्वकर्मसंन्यासविलक्षणात् सत्येव कर्तृत्वविज्ञाने कर्मैक-
देशविषयात् यमनियमादिसहितत्वेन च दुरनुष्ठेयात् सुकर-
त्वेन च कर्मयोगस्य विशिष्टत्वाभिधानम् इत्येवं प्रतिवचन-
वाक्यार्थनिरूपणेनापि पूर्वोक्तः प्रष्टुरभिप्रायः निश्श्रीयते इति
स्थितम् ॥
'ज्यायसी चेत्कर्मणस्ते' इत्यत्र ज्ञानकर्मणोः सह असं-
भवे 'यच्छ्रेय एतयोः तद्रूहि' इत्येवं पृष्टोऽर्जुनेन भगवान्
सांख्यानां संन्यासिनां ज्ञानयोगेन निष्ठा पुनः कर्मयो-
गेन योगिनां निष्ठा प्रोक्तेति निर्णयं चकार । 'न च संन्य-
सनादेव केवलात् सिद्धिं समधिगच्छति' इति वचनात्
ज्ञानसहितस्य सिद्धिसाधनत्वम् इष्टम्; कर्मयोगस्य च,
विधानात् । ज्ञानरहितस्य संन्यासः श्रेयान् किं वा कर्म-
योगः श्रेयान्?' इति एतयोः विशेषबुभुत्सया-
अर्जुन उवाच-
"</p>
<lg>
  <l>संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।</l>
  <l>यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥</l>
</lg>
<pb n="213" />
<p>पञ्चमोऽध्यायः ।</p>
<p>संन्यासं परित्यागं कर्मणां शास्त्रीयाणाम् अनुष्ठेयविशे-
षाणां शंससि प्रशंससि कथयसि इत्येतत् । पुनः योगं च
-
तेषामेव अनुष्ठानम् अवश्यकर्तव्यं शंससि । अतः मे कतरत्
श्रेयः इति संशय:- किं कर्मानुष्ठानं श्रेयः, किं वा तद्धा-
नम् इति । प्रशस्यतरं च अनुष्ठेयम् । अतश्च यत् श्रेयः
प्रशस्यतरम् एतयोः कर्मसंन्यासकर्मयोगयोः यदनुष्ठानात्
श्रेयोवाप्तिः मम स्यादिति मन्यसे तत् एकम् अन्यतरत् सह
एकपुरुषानुष्ठेयत्वासंभवात् मे ब्रूहि सुनिश्चितम् अभिप्रेतं
तवेति ॥
स्वाभिप्रायम् आचक्षाणो निर्णयाय श्रीभगवानुवाच -
श्रीभगवानुवाच-</p>
<lg>
  <l>संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।</l>
  <l>तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥</l>
</lg>
<p>संन्यासः कर्मणां परित्यागः कर्मयोगश्च तेषामनुष्ठानं
तौ उभौ अपि निःश्रेयसकरौ मोक्षं कुर्वते ज्ञानोत्पत्तिहेतुत्वेन ।
उभौ यद्यपि निःश्रेयसकरौ, तथापि तयोस्तु निःश्रेयसहेत्वोः
कर्मसंन्यासात् केवलात् कर्मयोगो विशिष्यते इति कर्मयोगं
स्तौति ।</p>
<pb n="214" />
<p>श्रीमद्भगवद्गीताभाष्ये
कस्मात् इति आह-</p>
<lg>
  <l>ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।</l>
  <l>निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥</l>
</lg>
<p>ज्ञेयः ज्ञातव्यः स कर्मयोगी नित्यसंन्यासी इति यो न
द्वेष्टि किंचित् न काङ्क्षति दुःखसुखे तत्साधने च । एवंविधो
यः कर्मणि वर्तमानोऽपि स नित्यसंन्यासी इति ज्ञातव्य:
इत्यर्थः । निर्द्वन्द्वः द्वन्द्ववर्जितः हि यस्मात् महाबाहो सुखं
बन्धात् अनायासेन प्रमुच्यते ॥
संन्यासकर्मयोगयोः भिन्नपुरुषानुष्ठेययोः विरुद्धयोः फले-
ऽपि विरोधो युक्तः, न तु उभयोः निःश्रेयसकरत्वमेव इति
प्राप्ते इदम् उच्यते—·</p>
<lg>
  <l>सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।</l>
  <l>एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥४॥</l>
</lg>
<p>सांख्ययोगौ पृथक् विरुद्धभिन्नफलौ बालाः प्रवदन्ति न
पण्डिताः । पण्डितास्तु ज्ञानिन एकं फलम् अविरुद्धम् इच्छ-
न्ति । कथम् ? एकमपि सांख्ययोगयोः सम्यक् आस्थितः
सम्यगनुष्ठितवान् इत्यर्थः, उभयोः विन्दते फलम् । उभयोः
तदेव हि निःश्रेयसं फलम्; अतः न फले विरोधः अस्ति ।</p>
<pb n="215" />
<p>पञ्चमोऽध्यायः ।</p>
<p>ननु संन्यासकर्मयोगशब्देन प्रस्तुत्य सांख्ययोगयोः
फलैकत्वं कथम् इह अप्रकृतं ब्रवीति ? नैष दोषः - यद्यपि
अर्जुनेन संन्यासं कर्मयोगं च केवलम् अभिप्रेत्य प्रश्नः कृतः,
भगवांस्तु तदपरित्यागेनैव स्वाभिप्रेतं च विशेषं संयोज्य
शब्दान्तरवाच्यतया प्रतिवचनं ददौ 'सांख्ययोगौ' इति ।
तौ एव संन्यासकर्मयोगौ ज्ञानतदुपायसमबुद्धित्वादिसंयुक्तौ
सांख्ययोगशब्दवाच्यौ इति भगवतो मतम् । अतः न अप्र-
कृतप्रक्रियेति ॥
एकस्यापि सम्यगनुष्ठानात् कथम् उभयोः फलं विन्दते
इति उच्यते—</p>
<lg>
  <l>यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।</l>
  <l>एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥</l>
</lg>
<p>यत् सांख्यैः ज्ञाननिष्ठैः संन्यासिभिः प्राप्यते स्थानं
मोक्षाख्यम्, तत् योगैरपि ज्ञानप्राप्त्युपायत्वेन ईश्वरे समय
कर्माणि आत्मनः फलम् अनभिसंधाय अनुतिष्ठन्ति ये ते
योगाः योगिनः तैरपि परमार्थज्ञानसंन्यासप्राप्तिद्वारेण गम्यते
इत्यभिप्रायः । अतः एकं सांख्यं च योगं च यः पश्यति
फलैकत्वात् स पश्यति सम्यक् पश्यतीत्यर्थः ॥</p>
<pb n="216" />
<p>श्रीमद्भगवद्गीताभाष्ये
एवं तर्हि योगात् संन्यास एव विशिष्यते ; कथं तर्हि
इदमुक्तम् ' तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते '
इति ? शृणु तत्र कारणम् — त्वया पृष्टं केवलं कर्मसंन्यासं
कर्मयोगं च अभिप्रेत्य तयोः अन्यतरः कः श्रेयान् इति ।
तदनुरूपं प्रतिवचनं मया उक्तं कर्मसंन्यासात् कर्मयोगः
विशिष्यते इति ज्ञानम् अनपेक्ष्य । ज्ञानापेक्षस्तु संन्यासः
सांख्यमिति मया अभिप्रेतः । परमार्थयोगश्च स एव ।
यस्तु कर्मयोगः वैदिकः स च तादर्थ्यात् योग: संन्यास
इति च उपचर्यते । कथं तादर्थ्यम् इति उच्यते--</p>
<lg>
  <l>संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।</l>
  <l>योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ६ ॥</l>
</lg>
<p>संन्यासस्तु पारमार्थिकः हे महाबाहो दुःखम् आप्तुं
प्राप्तम् अयोगतः योगेन विना । योगयुक्तः वैदिकेन कर्म-
योगेन ईश्वरसमर्पितरूपेण फलनिरपेक्षेण युक्तः, मुनिः
मननात् ईश्वरस्वरूपस्य मुनिः, ब्रह्म — परमात्मज्ञाननिष्ठा-
लक्षणत्वात् प्रकृतः संन्यासः ब्रह्म उच्यते, 'न्यास इति
ब्रह्मा ब्रह्मा हि पर:' इति श्रुतेः — ब्रह्म परमार्थसंन्यासं
परमार्थज्ञाननिष्ठा लक्षणं नचिरेण क्षिप्रमेव अधिगच्छति
प्राप्नोति । अतः मया उक्तम् ' कर्मयोगो विशिष्यते' इति ॥</p>
<pb n="217" />
<p>पञ्चमोऽध्यायः ।.</p>
<p>यदा पुनः अयं सम्यग्ज्ञानप्राप्त्युपायत्वेन-</p>
<lg>
  <l>योगयुक्तो विशुद्धात्मा</l>
  <l>विजितात्मा जितेन्द्रियः ।</l>
  <l>सर्वभूतात्मभूतात्मा</l>
  <l>कुर्वन्नपि न लिप्यते ॥ ७ ॥</l>
</lg>
<p>योगेन युक्तः योगयुक्तः, विशुद्धात्मा विशुद्धसत्त्वः,
विजितात्मा विजितदेहः, जितेन्द्रियश्च सर्वभूतात्मभूतात्मा
सर्वेषां ब्रह्मादीनां स्तम्बपर्यन्तानां भूतानाम् आत्मभूतः आत्मा
प्रत्यक्चेतनो यस्य सः सर्वभूतात्मभूतात्मा सम्यग्दर्शीत्यर्थः,
स तत्रैवं वर्तमानः लोकसंग्रहाय कर्म कुर्वन्नपि न लिप्यते
न कर्मभिः बध्यते इत्यर्थः ॥
न च असौ परमार्थतः करोतीत्यतः—</p>
<lg>
  <l>नैव किंचित्करोमीति</l>
  <l>युक्तो मन्येत तत्त्ववित् ।</l>
  <l>पश्यञ्शृण्वन्स्पृशञ्जिघ्र-</l>
  <l>न्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ८ ॥</l>
</lg>
<lg>
  <l>प्रलपन् विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।</l>
  <l>इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९ ॥</l>
</lg>
<p>S. B. 11</p>
<pb n="218" />
<p>श्रीमद्भगवद्गीताभाष्ये
नैव किंचित् करोमीति युक्तः समाहितः सन् मन्येत
चिन्तयेत्, तत्त्ववित् आत्मनो याथात्म्यं तत्त्वं वेत्तीति त-
त्ववित् परमार्थदर्शीत्यर्थः ॥
कदा कथं वा तत्त्वमवधारयन् मन्येत इति, उच्यते—
पश्यन्निति । मन्येत इति पूर्वेण संबन्धः । यस्य एवं तत्त्व-
विदः सर्वकार्यकरणचेष्टासु कर्मसु अकर्मैव, पश्यतः सम्यग्द-
र्शिनः तस्य सर्वकर्मसंन्यासे एव अधिकारः, कर्मण: अभाव-
दर्शनात् । न हि मृगतृष्णिकायाम् उदकबुद्ध्या पानाय प्रवृ-
त्तः उदकाभावज्ञानेऽपि तत्रैव पानप्रयोजनाय प्रवर्तते ॥
यस्तु पुनः अतत्त्ववित् प्रवृत्तश्च कर्मयोगे -</p>
<lg>
  <l>ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।</l>
  <l>लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥</l>
</lg>
<p>ब्रह्मणि ईश्वरे आधाय निक्षिप्य ' तदर्थे कर्म करोमि
इति भृत्य इव स्वाम्यर्थे सर्वाणि कर्माणि मोक्षेऽपि फले स
त्यक्त्वा करोति यः सर्वकर्माणि, लिप्यते न स पापेन न सं-
बध्यते पद्मपत्रमिव अम्भसा उदकेन । केवलं सत्त्वशुद्धिमा-
त्रमेव फलं तस्य कर्मणः स्यात् ॥
यस्मात्
3.</p>
<pb n="219" />
<p>पञ्चमोऽध्यायः ।</p>
<lg>
  <l>कायेन मनसा वुद्धया केवलैरिन्द्रियैरपि ।</l>
  <l>योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥</l>
</lg>
<p>कायेन देहेन मनसा बुद्धया च केवलैः ममत्ववर्जितैः
'ईश्वरायैव कर्म करोमि, न मम फलाय' इति ममत्वबुद्धिशू-
न्यैः इन्द्रियैरपि - केवलशब्द: कायादिभिरपि प्रत्येकं संब-
ध्यते— सर्वव्यापारेषु ममतावर्जनाय । योगिनः कर्मिणः कर्म
कुर्वन्ति सङ्गं त्यक्त्वा फलविषयम् आत्मशुद्धये सत्त्वशुद्धये
इत्यर्थः । तस्मात् तन्त्रैव तव अधिकारः इति कुरु कर्मैव ॥
यस्माच्च-</p>
<lg>
  <l>युक्तः कर्मफलं त्यक्त्वा</l>
  <l>शान्तिमाप्नोति नैष्ठिकीम् ।</l>
  <l>अयुक्तः कामकारेण</l>
  <l>फले सक्तो निबध्यते ॥ १२ ॥</l>
</lg>
<p>युक्तः 'ईश्वराय कर्माणि करोमि न मम फलाय ' इत्येवं
समाहितः सन् कर्मफलं त्यक्त्वा परित्यज्य शान्ति मोक्षा-
ख्याम् आप्नोति नैष्ठिकों निष्ठायां भवां सत्त्वशुद्धिज्ञानप्राप्ति-
सर्वकर्मसंन्यासज्ञाननिष्ठाक्रमेणेति वाक्यशेषः । यस्तु पुनः
अयुक्तः असमाहितः कामकारेण करणं कारः कामस्य</p>
<pb n="220" />
<p>श्रीमद्भगवद्गीताभाष्ये
कारः कामकारः तेन कामकारेण, कामप्रेरिततयेत्यर्थः, 'मम</p>
<lg>
  <l>फलाय इदं करोमि कर्म' इत्येवं फले सक्तः निबध्यते ।</l>
  <l>अतः त्वं युक्तो भव इत्यर्थः ॥</l>
</lg>
<p>यस्तु परमार्थदर्शी सः—</p>
<lg>
  <l>सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।</l>
  <l>नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥</l>
</lg>
<p>सर्वाणि कर्माणि सर्वकर्माणि संन्यस्य परित्यज्य नित्यं
नैमित्तिकं काम्यं प्रतिषिद्धं च तानि सर्वाणि कर्माणि मनसा
विवेकबुद्धधा, कर्मादौ अकर्मसंदर्शनेन संत्यज्येत्यर्थः, आस्ते
तिष्ठति सुखम् । त्यक्तवाङ्मन: कायचेष्टः निरायासः प्रसन्न-
चित्तः आत्मनः अन्यत्र निवृत्त सर्वबाह्यप्रयोजनः इति
'सुखम् आस्ते' इत्युच्यते । वशी जितेन्द्रिय इत्यर्थः । क
कथम् आस्ते इति, आह- नवद्वारे पुरे । सप्त शीर्षण्यानि
आत्मन उपलब्धिद्वाराणि, अवाक् द्वे मूत्रपुरीषविसर्गार्थे, तैः
द्वारैः नवद्वारं पुरम् उच्यते शरीरम्, पुरमिव पुरम्, आत्मैक-
स्वामिकम्, तदर्थप्रयोजनैश्च इन्द्रियमनोबुद्धिविषयैः अनेक-
फलविज्ञानस्य उत्पादकैः पौरैरिव अधिष्ठितम् । तस्मिन्ं
नवद्वारे पुरे देही सर्वे कर्म संन्यस्य आस्ते ; किं विशेषणेन ?
सर्वो हि देही संन्यासी असंन्यासी वा देहे एव आस्ते;</p>
<pb n="221" />
<p>पञ्चमोऽध्यायः ।</p>
<p>तत्व अनर्थकं विशेषणमिति । उच्यते — यस्तु अज्ञ: देही
देहेन्द्रियसंघातमात्त्रात्मदर्शी स सर्वोऽपि 'गेहे भूमौ आसने
वा आसे' इति मन्यते । न हि देहमात्रात्मदर्शिनः गेहे इव
देहे आसे इति प्रत्ययः संभवति । देहादिसंघातव्यतिरिक्ता-
त्मदर्शिनस्तु 'देहे आसे' इति प्रत्ययः उपपद्यते । परकर्मणां
च परस्मिन् आत्मनि अविद्यया अध्यारोपितानां विद्यया
विवेकज्ञानेन मनसा संन्यास उपपद्यते । उत्पन्नविवेकज्ञानख
सर्वकर्मसंन्यासिनोऽपि गेहे इव देहे एव नवद्वारे पुरे आस-
नम् प्रारब्धफलकर्मसंस्कार शेषानुवृत्त्या देह एव विशेषविज्ञा-
नोत्पत्तेः । देहे एव आस्ते इति अस्त्येव विशेषणफलम्,
विद्वदविद्वत्प्रत्यय भेदापेक्षत्वात् ॥
यद्यपि कार्यकरणकर्माणि अविद्यया आत्मनि अध्यारो-
पितानि ' संन्यस्यास्ते' इत्युक्तम्, तथापि आत्मसमवायि तु
कर्तृत्वं कारयितृत्वं च स्यात् इति आशङ्कंध आह— नैव
कुर्वन् स्वयम्, न च कार्यकरणानि कारयन् क्रियासु प्रव-
र्तयन् । किं यत् तत् कर्तृत्वं कारयितृत्वं च देहिनः स्वात्म-
समवायि सत् संन्यासात् न संभवति, यथा गच्छतो गतिः
गमनव्यापारपरित्यागे न स्यात् तद्वत् ? किं वा स्वत एव
आत्मनः न अस्ति इति ? अत्र उच्यते न अस्ति आत्मन:</p>
<pb n="222" />
<p>श्रीमद्भगवद्गीताभाष्ये
स्वत: कर्तृत्वं कारयितृत्वं च । उक्तं हि 'अविकार्योऽय-</p>
<lg>
  <l>मुच्यते ' ' शरीरस्थोऽपि न करोति न लिप्यते' इति ।</l>
  <l>'ध्यायतीव लेलायतीव' इति श्रुतेः ॥</l>
</lg>
<p>किंच-</p>
<lg>
  <l>न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।</l>
  <l>न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥</l>
</lg>
<p>न कर्तृत्वं स्वत: कुरु इति नापि कर्माणि रथघटप्रासादा-
दीनि ईप्सिततमानि लोकख सृजति उत्पादयति प्रभुः आ-
त्मा । नापि रथादि कृतवतः तत्फलेन संयोगं न कर्मफल-
संयोगम् । यदि किंचिदपि स्वतः न करोति न कारयति च
देही, कः तर्हि कुर्वन् कारयंश्व प्रवर्तते इति उच्यते— स्व-
"
भावस्तु स्वो भाव: स्वभाव: अविद्यालक्षणा प्रकृति: माया
प्रवर्तते 'दैवी हि' इत्यादिना वक्ष्यमाणा ॥
परमार्थतस्तु–</p>
<lg>
  <l>नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।</l>
  <l>अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥</l>
</lg>
<p>न आदत्ते न च गृह्णाति भक्तस्यापि कस्यचित् पापम् ।
न चैव आदत्ते सुकृतं भक्तैः प्रयुक्तं विभुः । किमर्थं तर्हि भक्तैः</p>
<pb n="223" />
<p>पञ्चमोऽध्यायः ।</p>
<p>पूजादिलक्षणं यागदानहोमादिकं च सुकृतं प्रयुज्यते इत्याह-
अज्ञानेन आवृतं ज्ञानं विवेकविज्ञानम्, तेन मुह्यन्ति
'करोमि कारयामि भोक्ष्ये भोजयामि' इत्येवं मोहं गच्छन्ति
अविवेकिनः संसारिणो जन्तवः ॥</p>
<lg>
  <l>ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।</l>
  <l>तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ १६॥</l>
</lg>
<p>ज्ञानेन तु येन अज्ञानेन आवृता: मुह्यन्ति जन्तवः तत्
अज्ञानं येषां जन्तूनां विवेकज्ञानेन आत्मविषयेण नाशितम्
आत्मनः भवति, तेषां जन्तूनाम् आदित्यवत् यथा आदित्यः
समस्तं रूपजातम् अवभासयति तद्वत् ज्ञानं ज्ञेयं वस्तु सर्वे
प्रकाशयति तत् परं परमार्थतत्त्वम् ॥
यत् परं ज्ञानं प्रकाशितम्-</p>
<lg>
  <l>तडुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।</l>
  <l>गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १७ ॥</l>
</lg>
<p>तस्मिन् ब्रह्मणि गता बुद्धिः येषां ते तद्बुद्धयः, तदा-
त्मानः तदेव परं ब्रह्म आत्मा येषां ते तदात्मानः, तन्निष्ठाः
निष्ठा अभिनिवेश: तात्पर्य सर्वाणि कर्माणि संन्यस्य तस्मिन्
ब्रह्मण्येव अवस्थानं येषां ते तन्निष्ठाः, तत्परायणाश्च तदेव</p>
<pb n="224" />
<p>1
श्रीमद्भगवद्गीताभाष्ये
परम् अयनं परा गतिः येषां भवति ते तत्परायणाः केव-
लात्मरतय इत्यर्थः । येषां ज्ञानेन नाशितम् आत्मनः अज्ञानं ते
गच्छन्ति एवंविधाः अपुनरावृत्तिम् अपुनर्देहसंबन्धं ज्ञाननिर्धू-
तकल्मषाः यथोक्तेन ज्ञानेन निर्धूतः नाशितः कल्मषः पापादि-
संसारकारणदोषः येषां ते ज्ञाननिर्धूतकल्मषाः यतयः इत्यर्थः ॥
येषां ज्ञानेन नाशितम् आत्मनः अज्ञानं ते पण्डिताः कथं
तत्त्वं पश्यन्ति इत्युच्यते-</p>
<lg>
  <l>विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।</l>
  <l>शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥</l>
</lg>
<p>विद्याविनयसंपन्ने विद्या च विनयश्च विद्याविनयौ, विनयः
उपशमः, ताभ्यां विद्याविनयाभ्यां संपन्नः विद्याविनयसंपन्नः
विद्वान् विनीतश्च यो ब्राह्मणः तस्मिन् ब्राह्मणे गवि हस्तिनि
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः । विद्याविनयसं-
पन्ने उत्तमसंस्कारवति ब्राह्मणे सात्विके, मध्यमायां च
राजस्यां गवि, संस्कारहीनायाम् अत्यन्तमेव केवलतामसे
हस्त्यादौ च सत्त्वादिगुणैः तज्जैश्च संस्कारैः तथा राजसैः
तथा तामसैश्च संस्कारैः अत्यन्तमेव अस्पृष्टं समम् एकम्
अविक्रियं तत् ब्रह्म द्रष्टुं शीलं येषां ते पण्डिताः समदर्शिनः ॥</p>
<pb n="225" />
<p>समे
पञ्चमोऽध्यायः ।</p>
<p>ननु अभोज्यान्नाः ते दोषवन्तः, 'समासमाभ्यां विषम-
पूजात:' इति स्मृतेः । न ते दोषवन्तः । कथम् ?
-</p>
<lg>
  <l>इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।</l>
  <l>निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥</l>
</lg>
<p>इह एव जीवद्भिरेव तैः समदर्शिभिः पण्डितैः जित: व-
शीकृतः सर्गः जन्म, येषां साम्ये सर्वभूतेषु ब्रह्मणि समभावे
स्थितं निश्चलीभूतं मनः अन्तःकरणम् । निर्दोषं यद्यपि
दोषवत्सु श्वपाकादिषु मूढैः तद्दोषैः दोषवत् इव विभाव्यते,
तथापि तद्दोषैः अस्पृष्टम् इति निर्दोषं दोषवर्जितं हि यस्मात् ;
नापि स्वगुणभेदभिन्नम्, निर्गुणत्वात् चैतन्यस्य । वक्ष्यति
च भगवान् इच्छादीनां क्षेत्रधर्मत्वम्, 'अनादित्वान्निर्गुण-
त्वात्' इति च । नापि अन्त्या विशेषाः आत्मनो भेदका:
सन्ति, प्रतिशरीरं तेषां सत्त्वे प्रमाणानुपपत्तेः । अतः समं
ब्रह्म एकं च । तस्मात् ब्रह्मणि एव ते स्थिताः । तस्मात् न
दोषगन्धमात्रमपि तान् स्पृशति, देहादिसंघातात्मदर्शनाभि-
मानाभावात् तेषाम् । देहादिसंघातात्मदर्शनाभिमानवद्विषयं
तु तत् सूत्रम् 'समासमाभ्यां विषमसमे पूजातः' इति, पू-
जाविषयत्वेन विशेषणात् । दृश्यते हि ब्रह्मवित् षडङ्गवित्
चतुर्वेदवित् इति पूजादानादौ गुणविशेषसंबन्धः कारणम् ।</p>
<pb n="226" />
<p>श्रीमद्भगवद्गीताभाष्ये
ब्रह्म तु सर्वगुणदोषसंबन्धवर्जितमित्यत: ' ब्रह्मणि ते स्थिता: '
इति युक्तम् । कर्मविषयं च 'समासमाभ्याम्' इत्यादि । इदं
तु सर्वकर्मसंन्यासविषयं प्रस्तुतम्, 'सर्वकर्माणि मनसा'
इत्यारभ्य आध्यायपरिसमाप्तेः ॥
यस्मात् निर्दोषं समं ब्रह्म आत्मा, तस्मात् —</p>
<lg>
  <l>न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।</l>
  <l>स्थिरवुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ २० ॥</l>
</lg>
<p>न प्रहृष्येत् प्रहर्ष न कुर्यात् प्रियम् इष्टं प्राप्य लब्ध्वा ।
न उद्विजेत् प्राप्य च अप्रियम् अनिष्टं लब्ध्वा । देहमात्रात्म-
दर्शिनां हि प्रियाप्रियप्राप्ती हर्षविषादौ कुर्वाते, न केवलात्म-
दर्शिनः, तस्य प्रियाप्रियप्राप्त्यसंभवात् । किंच - 'सर्वभूतेषु
एकः समः निर्दोषः आत्मा' इति स्थिरा निर्विचिकित्सा बु-
द्धिः यस्य सः स्थिबुद्धिः असंमूढः संमोहवर्जितश्च स्यात्
यथोक्तब्रह्मवित् ब्रह्मणि स्थितः, अकर्मकृत् सर्वकर्मसंन्यासी
इत्यर्थः
किंच, ब्रह्मणि स्थितः -
बाह्यस्पर्शेष्वसक्तात्मा
विन्दत्यात्मनि यत्सुखम् ।</p>
<pb n="227" />
<p>पञ्चमोऽध्यायः ।
स ब्रह्मयोगयुक्तात्मा
सुखमक्षयमश्नुते ॥ २१ ॥</p>
<p>बाह्यस्पर्शेषु बाह्याश्च ते स्पर्शाश्च बाह्यस्पर्शाः स्पृश्यन्ते
इति स्पर्शाः शब्दादयो विषयाः तेषु बाह्यस्पर्शेषु, असक्त:
आत्मा अन्तःकरणं यस्य सः अयम् असक्तात्मा विषयेषु
प्रीतिवर्जितः सन् विन्दति लभते आत्मनि यत् सुखं तत्
विन्दति इत्येतत् । स ब्रह्मयोगयुक्तात्मा ब्रह्मणि योग:
समाधिः ब्रह्मयोगः तेन ब्रह्मयोगेन युक्तः समाहितः तस्मिन्
व्यापृतः आत्मा अन्तःकरणं यस्य सः ब्रह्मयोगयुक्तात्मा,
सुखम् अक्षयंम् अश्नुते व्याप्नोति । तस्मात् बाह्यविषयप्रीतेः
क्षणिकायाः इन्द्रियाणि निवर्तयेत् आत्मनि अक्षयसुखार्थी
इत्यर्थः ॥
इतश्च निवर्तयेत् —</p>
<lg>
  <l>ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।</l>
  <l>आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥२२॥</l>
</lg>
<p>ये हि यस्मात् संस्पर्शजाः विषयेन्द्रियसंस्पर्शेभ्यो जाता:
भोगा भुक्तयः दुःखयोनय एव ते, अविद्याकृतत्वात् । दृश्यन्ते
हि आध्यात्मिकादीनि दुःखानि तन्निमित्तान्येव । यथा इहलोके</p>
<pb n="228" />
<p>श्रीमद्भगवद्गीताभाष्ये
तथा परलोकेऽपि इति गम्यते एवशब्दात् । न संसारे
सुखस्य गन्धमात्रमपि अस्ति इति बुद्धा विषयमृगतृष्णिकाया
इन्द्रियाणि निवर्तयेत् । न केवलं दुःखयोनय एव, आद्यन्त-
वन्तश्च, आदिः विषयेन्द्रियसंयोगो भोगानाम् अन्तश्च तद्वि-
योग एव; अतः आद्यन्तवन्तः अनित्याः, मध्यक्षणभावि-
त्वात् इत्यर्थः । कौन्तेय, न तेषु भोगेषु रमते बुधः विवेकी
अवगतपरमार्थतत्त्वः ; अत्यन्तमूढानामेव हि विषयेषु रतिः
दृश्यते, यथा पशुप्रभृतीनाम् ॥
।
अयं च श्रेयोमार्गप्रतिपक्षी कष्टतमो दोषः सर्वानर्थप्राप्ति-
हेतु: दुर्निवारश्च इति तत्परिहारे यत्नाधिक्यं कर्तव्यम्
इत्याह भगवान् —</p>
<lg>
  <l>शक्नोतीहैव यः सोढुं प्राक्छरीरविमोक्षणात् ।</l>
  <l>कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥</l>
</lg>
<p>शंक्नोति उत्सहते इहैव जीवन्नेव यः सोढुं प्रसहितुं प्राक्
पूर्व शरीरविमोक्षणात् आ मरणात् इत्यर्थः । मरणसीमाकरणं
जीवतोऽवश्यंभावि हि कामक्रोधोद्भवो वेगः, अनन्तनिमित्त-
चान् हि सः इति यावत् मरणं तावत् न विस्रम्भणीय
इत्यर्थः । कामः इन्द्रियगोचरप्राप्ते इष्टे विषये श्रूयमाणे स्मर्य-</p>
<pb n="229" />
<p>पञ्चमोऽध्यायः ।</p>
<p>माणे वा अनुभूते सुखहेतौ या गर्धिः तृष्णा स काम: ; क्रोधश्च
आत्मनः प्रतिकूलेषु दुःखहेतुषु दृश्यमानेषु श्रूयमाणेषु स्मर्य-
माणेषु वा यो द्वेषः सः क्रोधः ; तौ कामक्रोधौ उद्भवो यस्य
वेगस्य सः कामक्रोधोद्भवः वेगः । रोमाश्वनप्रहृष्टनेत्रवदनादि-
लिङ्गः अन्तःकरणप्रक्षोभरूपः कामोद्भवो वेगः, गात्रप्रकम्प-
प्रस्वेदसंदष्टोष्ठपुटरक्तनेत्रादिलिङ्गः क्रोधोद्भवो वेगः, तं काम-
क्रोधोद्भवं वेगं यः उत्सहते प्रसहते सोढुं प्रसहितुम्, सः
युक्त: योगी सुखी च इह लोके नरः ॥
कथंभूतश्च ब्रह्मणि स्थितः ब्रह्म प्राप्नोति इति आह
भगवान् -</p>
<lg>
  <l>योऽन्तः सुखोऽन्तरारामस्तथान्तज्र्ज्योतिरेव यः ।</l>
  <l>स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥</l>
</lg>
<p>यः अन्तःसुखः अन्तः आत्मनि सुखं यस्य सः अन्त:-
सुख:, तथा अन्तरेव आत्मनि आरामः आरमणं क्रीडा यस्य
स: अन्तरारामः, तथा एव अन्तः एव आत्मन्येव ज्योति:
प्रकाशो यस्य सः अन्तर्ज्योतिरेव, यः ईदृशः सः योगी
ब्रह्मनिर्वाणं ब्रह्मणि निर्वृतिं मोक्षम् इह जीवन्नेव ब्रह्मभूत:
सन् अधिगच्छति प्राप्नोति ॥
किंच—</p>
<pb n="230" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।</l>
  <l>छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥</l>
</lg>
<p>लभन्ते ब्रह्मनिर्वाणं मोक्षम् ऋषयः सम्यग्दर्शिनः संन्या-
सिनः क्षीणकल्मषाः क्षीणपापा: निर्दोषाः छिन्नद्वैधाः छिन्न-
संशयाः यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषां
भूतानां हिते आनुकूल्ये रताः अहिंसका इत्यर्थः ॥
किंच—
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ।
कामक्रोधवियुक्तानां कामश्च क्रोधश्च कामक्रोधौ ताभ्यां
वियुक्तानां यतीनां संन्यासिनां यतचेतसां संयतान्त: करणानाम्
अभितः उभयतः जीवतां मृतानां च ब्रह्मनिर्वाणं मोक्षो वर्तते
विदितात्मनां विदित: ज्ञातः आत्मा येषां ते विदितात्मानः
तेषां विदितात्मनां सम्यग्दर्शिनामित्यर्थः ॥
सम्यग्दर्शननिष्ठानां संन्यासिनां सद्यः मुक्ति: उक्ता ।
कर्मयोगश्च ईश्वरार्पितसर्वभावेन ईश्वरे ब्रह्मणि आधाय
क्रियमाणः सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासक्रमेण मोक्षाय
इति भगवान् पदे पदे अब्रवीत्, वक्ष्यति च । अथ इदानीं</p>
<pb n="231" />
<p>पञ्चमोऽध्यायः ।</p>
<p>ध्यानयोगं सम्यग्दर्शनस्य अन्तरङ्गं विस्तरेण वक्ष्यामि इति
तस्य सूत्रस्थानीयान् श्लोकान् उपदिशति स्म -</p>
<lg>
  <l>स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।</l>
  <l>प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥</l>
</lg>
<lg>
  <l>यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।</l>
  <l>विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥</l>
</lg>
<p>स्पर्शान् शब्दादीन् कृत्वा बहिः बाह्यान् — श्रोत्रादिद्वारेण
अन्तः बुद्धौ प्रवेशिताः शब्दादयः विषयाः तान् अचिन्तयतः
शब्दादयो बाह्या बहिरेव कृताः भवन्ति — तान् एवं बहिः
-
कृत्वा चक्षुश्चैव अन्तरे भ्रुवो: ' कृत्वा' इति अनुषज्यते ।
तथा प्राणापानौ नासाभ्यन्तरचारिणौ समौ कृत्वा, यतेन्द्रिय-
मनोबुद्धिः यतानि संयतानि इन्द्रियाणि मनः बुद्धिश्च यस्य सः
यतेन्द्रियमनोबुद्धिः, मननात् मुनिः संन्यासी, मोक्षपरायणः
एवं देहसंस्थानात् मोक्षपरायणः मोक्ष एव परम् अयनं परा
गतिः यस्य सः अयं मोक्षपरायणो मुनिः भवेत् । विगतेच्छा-
भयक्रोधः इच्छा च भयं च क्रोधश्च इच्छाभयक्रोधाः ते
विगताः यस्मात् सः विगतेच्छाभयक्रोधः, यः एवं वर्तते सदा
संन्यासी, मुक्त एव सः न तस्य मोक्षायान्यः कर्तव्योऽस्ति ॥</p>
<pb n="232" />
<p>श्रीमद्भगवद्गीताभाष्ये
एवं समाहितचित्तेन किं विज्ञेयम् इति उच्यते-</p>
<lg>
  <l>भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।</l>
  <l>सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥</l>
</lg>
<p>इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे संन्यासयोगो नाम
पञ्चमोऽध्यायः ॥
भोक्तारं यज्ञतपसां यज्ञानां तपसां च कर्तृरूपेण देव-
तारूपेण च, सर्वलोकमहेश्वरं सर्वेषां लोकानां महान्तम्
ईश्वरं सुहृदं सर्वभूतानां सर्वप्राणिनां प्रत्युपकारनिरपेक्षतया
उपकारिणं सर्वभूतानां हृदयेशयं सर्वकर्मफलाध्यक्षं सर्वप्र-
त्ययसाक्षिणं मां नारायणं ज्ञात्वा शान्ति सर्वसंसारोपरतिम्
ऋच्छति प्राप्नोति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
पञ्चमोऽध्यायः ॥</p>
<pb n="233" />
<p>श्रीमच्छंकरभगवत्पादविरचितम्
श्रीमद्भगवद्गीताभाष्यम्
षष्ठोऽध्यायः
S. B. 12</p>
<pb n="234" />
<pb n="235" />
<p>षष्ठोऽध्यायः ॥
अतीतानन्तराध्यायान्ते ध्यानयो-
गस्य सम्यग्दर्शनं प्रति अन्तरङ्गस्य
सूत्रभूता: श्लोकाः 'स्पर्शान् कृत्वा
बहि:' इत्यादयः उपदिष्टाः । तेषां
वृत्तिस्थानीयः अयं षष्ठोऽध्यायः आ-
रभ्यते । तत्र ध्यानयोगस्य बहिरङ्गं
कर्म इति यावत् ध्यानयोगारोहणसमर्थः तावत् गृहस्थेन
अधिकृतेन कर्तव्यं कर्म इत्यतः तत् स्तौति — अनाश्रित
इति ॥
ननु किमर्थं ध्यानयोगारोहणसीमाकरणम्, यावता अनु-
ष्ठेयमेव विहितं कर्म यावज्जीवम् । न, 'आरुरुक्षोर्मुनेर्योगं
कर्म कारणमुच्यते' इति विशेषणात्, आरूढस्य च शमेनैव
संबन्धकरणात् । आरुरुक्षोः आरूढस्य च शमः कर्म च
उभयं कर्तव्यत्वेन अभिप्रेतं चेत्स्यात्, तदा 'आरुरुक्षो: '</p>
<pb n="236" />
<p>श्रीमद्भगवद्गीताभाष्ये
आरूढस्य च' इति शमकर्मविषयभेदेन विशेषणं विभाग-
करणं च अनर्थकं स्यात् ॥
तत्र आश्रमिणां कश्चित् योगमारुरुक्षुः भवति, आरूढश्च
कश्चित्, अन्ये न आरुरुक्षवः न च आरूढाः; तानपेक्ष्य
'आरुरुक्षो: ' ' आरूढस्य च' इति विशेषणं विभागकरणं च
उपपद्यत एवेति चेत्, न; 'तस्यैव' इति वचनात् पुनः
योगग्रहणाच्च 'योगारूढस्य' इति ; य आसीत् पूर्व योग-
मारुरुक्षुः, तस्यैव आरूढस्य शम एव कर्तव्यः कारणं योग-
फलं प्रति उच्यते इति । अतो न यावज्जीवं कर्तव्यत्वप्राप्तिः
कस्यचिदपि कर्मणः । योगविभ्रष्टवचनाच्च — गृहस्थस्य चेत्
कर्मिणो योगो विहितः षष्ठे अध्याये, सः योगविभ्रष्टोऽपि
कर्मगतिं कर्मफलं प्राप्नोति इति तस्य नाशाशङ्का अनुपपन्ना
स्यात् । अवश्यं हि कृतं कर्म काम्यं नित्यं वा - मोक्षस्य
नित्यत्वात् अनारभ्यत्वे - स्वं फलं आरभत एव । नित्यस्य
च कर्मणः वेदप्रमाणावबुद्धत्वात् फलेन भवितव्यम् इति
अबोचाम, अन्यथा वेदस्य आनर्थक्यप्रसङ्गात् इति । न च
कर्मणि सति उभयविभ्रष्टवचनम्, अर्थवत् कर्मणो विभ्रंशका-
रणानुपपत्तेः ॥
कर्म कृतम् ईश्वरे संन्यस्य इत्यतः कर्तुः कर्म फलं</p>
<pb n="237" />
<p>षष्ठोऽध्यायः ।</p>
<p>नारभत इति चेत्, न ; ईश्वरे संन्यासस्य अधिकतरफलहे-
तुत्वोपपत्तेः ॥
मोक्षायैव इति चेत्, स्वकर्मणां कृतानां ईश्वरे संन्यासो
मोक्षायैव, न फलान्तराय योगसहितः ; योगाश्च विभ्रष्टः ;
इत्यतः तं प्रति नाशाशङ्का युक्तैव इति चेत्, न ; 'एकाकी
यतचित्तात्मा निराशीरपरिग्रहः ' 'ब्रह्मचारिव्रते स्थितः
इति कर्मसंन्यासविधानात् । न च अत्र ध्यानकाले स्त्रीस-
हायत्वाशङ्का, येन एकाकित्वं विधीयते । न च गृहस्थस्य
'निराशीरपरिग्रहः' इत्यादिवचनम् अनुकूलम् । उभयवि-
भ्रष्टप्रश्नानुपपत्तेश्च ॥
अनाश्रित इत्यनेन कर्मिण एव संन्यासित्वं योगित्वं च
उक्तम्, प्रतिषिद्धं च निरग्नेः अक्रियस्य च संन्यासित्वं
योगित्वं चेति चेत्, न ; ध्यानयोगं प्रति बहिरङ्गस्य सतः
कर्मण: फलाकाङ्क्षा संन्यासस्तुतिपरत्वात् । न केवलं निरग्निः
अक्रियः एव संन्यासी योगी च । किं तर्हि ? कर्म्यपि,
कर्मफलासङ्गं संन्यस्य कर्मयोगम् अनुतिष्ठन् सत्त्वशुद्धयर्थम्,
'स संन्यासी च योगी च भवति' इति स्तूयते । न च एकेन
वाक्येन कर्मफलासङ्गसंन्यासस्तुति: चतुर्थाश्रमप्रतिषेधश्च उप-
पद्यते । न च प्रसिद्धं निरग्नेः अक्रियस्य परमार्थसंन्यासिनः</p>
<pb n="238" />
<p>श्रीमद्भगवद्गीताभाष्ये
श्रुतिस्मृतिपुराणेतिहासयोगशास्त्रेषु विहितं संन्यासित्वं योगि-
त्वं च प्रतिषेधति भगवान् । स्ववचनविरोधाच्च — 'सर्व-
कर्माणि मनसा संन्यस्य... नैव कुर्वन्न कारयन् आस्ते '
'मौनी संतुष्टो येन केनचित् अनिकेतः स्थिरमति: '
'विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः' ' सर्वारम्भप-
रित्यागी ' इति च तत्र तत्र भगवता स्ववचनानि दर्शितानि ;
तैः विरुध्येत चतुर्थाश्रमप्रतिषेधः । तस्मात् मुनेः योगम्
आरुरुक्षो: प्रतिपन्नगार्हस्थ्यस्य अग्निहोत्रादिकर्म फलनिरपे-
क्षम् अनुष्ठीयमानं ध्यानयोगारोहणसाधनत्वं सत्त्वशुद्धिद्वारेण
प्रतिपद्यते इति 'स संन्यासी च योगी च' इति स्तूयते ॥
श्रीभगवानुवाच-</p>
<lg>
  <l>अनाश्रितः कर्मफलं कार्य कर्म करोति यः ।</l>
  <l>स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥</l>
</lg>
<p>अनाश्रितः न आश्रितः अनाश्रितः । किम् ? कर्मफलं
कर्मणां फलं कर्मफलं यत् तदनाश्रितः, कर्मफलतृष्णारहित
इत्यर्थः । यो हि कर्मफले तृष्णावान् सः कर्मफलमाश्रितो
भवति, अयं तु तद्विपरीतः, अतः अनाश्रितः कर्मफलम् ।
एवंभूतः सन् कार्य कर्तव्यं नित्यं काम्यविपरीतम् अग्निहो-</p>
<pb n="239" />
<p>षष्ठोऽध्यायः ।</p>
<p>त्रादिकं कर्म करोति निर्वर्तयति यः कश्चित् ईदृशः कर्मी
स कर्म्यन्तरेभ्यो विशिष्यते इत्येवमर्थमाह — 'स संन्यासी
च योगी च' इति । संन्यासः परित्यागः स यस्यास्ति स
संन्यासी च, योगी च योगः चित्तसमाधानं स यस्यास्ति
स योगी च इति एवंगुणसंपन्नः अयं मन्तव्यः ; न केवलं
निरग्निः अक्रिय एव संन्यासी योगी च इति मन्तव्यः ।
निर्गता: अग्नयः कर्माङ्गभूताः यस्मात् स निरग्निः, अक्रि-
यश्व अनग्निसाधना अपि अविद्यमानाः क्रियाः तपोदाना-
दिका: यस्य असौ अक्रियः ॥
ननु च निरग्नेः अक्रियस्यैव श्रुतिस्मृतियोगशास्त्रेषु संन्या-
सित्वं योगित्वं च प्रसिद्धम् । कथम् इह साने: सक्रियस्य
च संन्यासित्वं योगित्वं च अप्रसिद्धमुच्यते इति । नैष
दोषः, कयाचित् गुणवृत्त्या उभयस्य संपिपादयिषितत्वात् ।
तत् कथम्? कर्मफलसंकल्प संन्यासात् संन्यासित्वम्, योगा-
ङ्गत्वेन च कर्मानुष्ठानात् कर्मफलसंकल्पस्य च चित्तविक्षे-
पहेतोः परित्यागात् योगित्वं च इति गौणमुभयम् ; न पुन:
मुख्यं संन्यासित्वं योगित्वं च अभिप्रेतमित्येतमर्थं दर्शयि-
तुमाह-</p>
<pb n="240" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।</l>
  <l>न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ॥२॥</l>
</lg>
<p>यं सर्वकर्मतत्फलपरित्यागलक्षणं परमार्थसंन्यासं संन्या-
सम् इति प्राहुः श्रुतिस्मृतिविदः, योगं कर्मानुष्ठानलक्षणं तं
परमार्थसंन्यासं विद्धि जानीहि हे पाण्डव । कर्मयोगस्य
प्रवृत्तिलक्षणस्य तद्विपरीतेन निवृत्तिलक्षणेन परमार्थसंन्या-
सेन कीदृशं सामान्यमङ्गीकृत्य तद्भाव उच्यते इत्यपेक्षायाम्
इदमुच्यते — अस्ति हि परमार्थसंन्यासेन सादृश्यं कर्तृ-
द्वारकं कर्मयोगस्य । यो हि परमार्थसंन्यासी स त्यक्तसर्व-
कर्मसाधनतया सर्वकर्मतत्फलविषयं संकल्पं प्रवृत्तिहेतुका-
मकारणं संन्यस्यति । अयमपि कर्मयोगी कर्म कुर्वाण एव
फलविषयं संकल्पं संन्यस्यति इत्येतमर्थे दर्शयिष्यन् आह—
न हि यस्मात् असंन्यस्तसंकल्पः असंन्यस्त: अपरित्यक्तः
फलविषयः संकल्पः अभिसंधिः येन सः असंन्यस्तसंकल्पः
कश्चन कश्चिदपि कर्मी योगी समाधानवान् भवति न
संभवतीत्यर्थः, फलसंकल्पस्य चित्तविक्षेपहेतुत्वात् । तस्मात्
यः कश्चन कर्मी संन्यस्तफलसंकल्पो भवेत् स योगी समा-
धानवान् अविक्षिप्तचित्तो भवेत्, चित्तविक्षेपहेतोः फलसं-
कल्पस्य संन्यस्तत्वादित्यभिप्राय: ॥</p>
<pb n="241" />
<p>षष्ठोऽध्यायः ।</p>
<p>एवं परमार्थसंन्यासकर्मयोगयोः कर्तृद्वारकं संन्याससा -
मान्यमपेक्ष्य 'यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव'
इति कर्मयोगस्य स्तुत्यर्थं संन्यासत्वम् उक्तम् । ध्यानयोगस्य
फलनिरपेक्षः कर्मयोगो बहिरङ्गं साधनमिति तं संन्यासत्वेन
स्तुत्वा अधुना कर्मयोगस्य ध्यानयोगसाधनत्वं दर्शयति—</p>
<lg>
  <l>आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।</l>
  <l>योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ३॥</l>
</lg>
<p>आरुरुक्षो: आरोदुमिच्छतः, अनारूढस्य, ध्यानयोगे
अवस्थातुमशक्तस्यैवेत्यर्थः । कस्य तस्य आरुरुक्षोः ? मुनेः,
कर्मफलसंन्यासिन इत्यर्थः । किमारुरुक्षोः ? योगम् । कर्म
कारणं साधनम् उच्यते । योगारूढस्य पुनः तस्यैव शम: उ-
पशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढस्य साधनम्
उच्यते इत्यर्थः । यावद्यावत् कर्मभ्यः उपरमते, तावत्तावत्
निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते । तथा सति
स झटिति योगारूढो भवति । तथा चोक्तं व्यासेन-
'नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ।
शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः '
इति ॥</p>
<pb n="242" />
<p>श्रीमद्भगवद्गीताभाष्ये
अथेदानीं कदा योगारूढो भवति इत्युच्यते-</p>
<lg>
  <l>यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।</l>
  <l>सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥ ४ ॥</l>
</lg>
<p>यदा समाधीयमानचित्तो योगी हि इन्द्रियार्थेषु इन्द्रि -
याणामर्थाः शब्दादयः तेषु इन्द्रियार्थेषु कर्मसु च नित्यनैमि-
त्तिककाम्यप्रतिषिद्धेषु प्रयोजनाभावबुद्धधा न अनुषज्जते अनु-
षङ्गं कर्तव्यताबुद्धिं न करोतीत्यर्थः । सर्वसंकल्पसंन्यासी स-
र्वान् संकल्पान् इहामुत्रार्थकामहेतून् संन्यसितुं शीलम् अस्य
इति सर्वसंकल्पसंन्यासी, योगारूढः प्राप्तयोग इत्येतत्, तदा
तस्मिन् काले उच्यते । 'सर्वसंकल्पसंन्यासी' इति वचनात्
सर्वोश्च कामान् सर्वाणि च कर्माणि संन्यस्येदित्यर्थः । संक-
ल्पमूला हि सर्वे कामा: - ' संकल्पमूलः कामो वै यज्ञाः
संकल्पसंभवाः । काम जानामि ते मूलं संकल्पात्किल जा-
यसे । न त्वां संकल्पयिष्यामि तेन मे न भविष्यसि' इत्या-
दिस्मृतेः । सर्वकामपरित्यागे च सर्वकर्मसंन्यासः सिद्धो भ-
वति, 'स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म
कुरुते' इत्यादिश्रुतिभ्य: ; 'यद्यद्धि कुरुते जन्तुः तत्तत्
कामस्य चेष्टितम्' इत्यादिस्मृतिभ्यश्च ; न्यायाश्च न हि
सर्वसंकल्पसंन्यासे कश्चित् स्पन्दितुमपि शक्तः । तस्मात्</p>
<pb n="243" />
<p>षष्ठोऽध्यायः ।</p>
<p>'सर्वसंकल्पसंन्यासी' इति वचनात् सर्वान् कामान् सर्वा-
णि कर्माणि च त्याजयति भगवान् ॥
.
यदा एवं योगारूढः, तदा तेन आत्मा उद्धृतो भवति
संसारादनर्थजातात् । अतः—</p>
<lg>
  <l>उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।</l>
  <l>आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥५॥</l>
</lg>
<p>उद्धरेत् संसारसागरे निमग्नम् आत्मना आत्मानं ततः
उत् ऊर्ध्वं हरेत् उद्धरेत्, योगारूढतामापादयेदित्यर्थः । न
आत्मानम् अवसादयेत् न अधः नयेत्, न अधः गमयेत् ।
आत्मैव हि यस्मात् आत्मनः बन्धुः । न हि अन्यः कश्चित् .
बन्धुः, य: संसारमुक्तये भवति । बन्धुरपि तावत् मोक्षं प्रति
प्रतिकूल एव, स्नेहादिबन्धनायतनत्वात् । तस्मात् युक्तमव-
धारणम् 'आत्मैव ह्यात्मनो बन्धुः' इति । आत्मैव रिपुः
सोऽपि
शत्रुः। यः अन्यः अपकारी बाह्यः शत्रुः आत्मप्रयुक्त
एवेति युक्तमेव अवधारणम् 'आत्मैव रिपुरात्मनः' इति ॥
आत्मैव बन्धुः आत्मैव रिपुः आत्मनः इत्युक्तम् । तत्र
किंलक्षण आत्मा आत्मनो बन्धुः, किंलक्षणो वा आत्मा
आत्मनो रिपुः इत्युच्यते-</p>
<pb n="244" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।</l>
  <l>अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥</l>
</lg>
<p>वन्धुः आत्मा आत्मनः तस्य तस्य आत्मनः स आत्मा
बन्धुः येन आत्मना आत्मैव जित:, आत्मा कार्यकरणसं-
घातो येन वशीकृतः, जितेन्द्रिय इत्यर्थः । अनात्मनस्तु
अजितात्मनस्तु शत्रुत्वे शत्रुभावे वर्तेत आत्मैव शत्रुवत्,
यथा अनात्मा शंत्रुः आत्मन: अपकारी, तथा आत्मा आत्मन
अपकारे वर्तेत इत्यर्थः ॥</p>
<lg>
  <l>जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।</l>
  <l>शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ ७ ॥</l>
</lg>
<p>जितात्मन: कार्यकरणसंघात आत्मा जितो येन सः
जितात्मा तस्य जितात्मनः, प्रशान्तस्य प्रसन्नान्तःकरणस्य
सतः संन्यासिनः परमात्मा समाहितः साक्षादात्मभावेन
वर्तते इत्यर्थः । किंच शीतोष्णसुखदुःखेषु तथा माने अप-
माने च मानापमानयोः पूजापरिभावयोः समः स्यात् ॥</p>
<lg>
  <l>ज्ञानविज्ञानतृसात्मा कूटस्थो विजितेन्द्रियः ।</l>
  <l>युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥</l>
</lg>
<pb n="245" />
<p>षष्ठोऽध्यायः ।</p>
<p>ज्ञानविज्ञानतृप्तात्मा ज्ञानं शास्त्रोक्त पदार्थानां परिज्ञानम्,
विज्ञानं तु शास्त्रतो ज्ञातानां तथैव स्वानुभवकरणम्, ताभ्यां
ज्ञानविज्ञानाभ्यां तृप्तः संजातालंप्रत्ययः आत्मा अन्तःकरणं
यस्य सः ज्ञानविज्ञानतृप्तात्मा, कूटस्थ: अप्रकम्प्यः, भवति
इत्यर्थः ; विजितेन्द्रियश्च । य ईदृशः, युक्तः समाहितः इति
स उच्यते कथ्यते । स योगी समलोष्टाश्मकाञ्चनः लोष्टा-
श्मका वनानि समानि यस्य सः समलोष्टाश्मकाञ्चनः ॥
किंच</p>
<lg>
  <l>सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।</l>
  <l>साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ९ ॥</l>
</lg>
<p>'सुहृत्' इत्यादिश्लोकार्धम् एकं पदम् । सुहृत् इति प्रत्यु -
पकारमनपेक्ष्य उपकर्ता, मित्रं स्नेहवान्, अरिः शत्रुः, उदा-
सीनः न कस्यचित् पक्षं भजते, मध्यस्थः यो विरुद्धयोः
उभयोः हितैषी, द्वेष्यः आत्मनः अप्रियः, बन्धुः संबन्धी
इत्येतेषु साधुषु शास्त्रानुवर्तिषु अपि च पापेषु प्रतिषिद्धका-
रिषु सर्वेषु एतेषु समबुद्धिः ' कः किंकर्मा' इत्यव्यापृतबुद्धि-
रित्यर्थः । विशिष्यते, 'विमुच्यते ' इति वा पाठान्तरम् । यो-
गारूढानां सर्वेषाम् अयम् उत्तम इत्यर्थः ॥</p>
<pb n="246" />
<p>श्रीमद्भगवद्गीताभाष्ये
अत एवमुत्तमफलप्राप्तये—</p>
<lg>
  <l>योगी युञ्जीत सततमात्मानं रहसि स्थितः ।</l>
  <l>एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ १० ॥</l>
</lg>
<p>योगी ध्यायी युञ्जीत समादध्यात् सततं सर्वदा आत्मा-
नम् अन्तःकरणं रहसि एकान्ते गिरिगुहादौ स्थितः सन्
एकाकी असहाय: । ' रहसि स्थितः एकाकी च' इति विशे-
षणात् संन्यासं कृत्वा इत्यर्थः । यतचित्तात्मा चित्तम् अन्तःक-
रणम् आत्मा देहश्च संयतौ यस्य सः यतचित्तात्मा, निराशीः
वीततृष्ण: अपरिग्रहः परिग्रहरहितश्चेत्यर्थः । संन्यासित्वेऽपि
त्यक्तसर्वपरिग्रहः सन् युञ्जीत इत्यर्थः ॥
अथेदानीं योगं युञ्जतः आसनाहारविहारादीनां योगसा-
धनत्वेन नियमो वक्तव्यः, प्राप्तयोगस्य लक्षणं तत्फलादि च,
इत्यत आरभ्यते । तत्र आसनमेव तावत् प्रथममुच्यते-</p>
<lg>
  <l>शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।</l>
  <l>नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥</l>
</lg>
<p>शुचौ शुद्धे विविक्ते स्वभावतः संस्कारतो वा, देशे स्थाने
प्रतिष्ठाप्य स्थिरम् अचलम् आत्मनः आसनं नात्युच्छ्रितं ना-</p>
<pb n="247" />
<p>षष्ठोऽध्यायः ।</p>
<p>तीव उच्छ्रितं न अपि अतिनीचम्, तच्च चैलाजिनकुशोत्तरं चैलम्
अजिनं कुशाश्व उत्तरे यस्मिन् आसने तत् आसनं चैलाजि -
नकुशोत्तरम् । पाठक्रमाद्विपरीतः अत्र क्रमः चैलादीनाम् ॥
प्रतिष्ठाप्य, किम् ? —</p>
<lg>
  <l>तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।</l>
  <l>उपविश्यासने युञ्जधाद्योगमात्मविशुद्धये ॥ १२॥</l>
</lg>
<p>तत्र तस्मिन् आसने उपविश्य योगं युञ्जयात् । कथम् ?
सर्वविषयेभ्यः उपसंहृत्य एकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः
चित्तं च इन्द्रियाणि च चित्तेन्द्रियाणि तेषां क्रियाः संयता यस्य
सः यतचित्तेन्द्रियक्रियः । स किमर्थं योगं युञ्जयात् इत्याह-
आत्मविशुद्धये अन्तःकरणस्य विशुद्धयर्थमित्येतत् ॥
बाह्यमासनमुक्तम्; अधुना शरीरधारणं कथम् इत्यु-
च्यते—</p>
<lg>
  <l>समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।</l>
  <l>संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥</l>
</lg>
<p>समं कायशिरोग्रीवं कायश्च शिरश्च ग्रीवा च कायशि-
रोग्रीवं तत् समं धारयन् अचलं च । समं धारयतः चलनं</p>
<pb n="248" />
<p>श्रीमद्भगवद्गीताभाष्ये
-
संभवति ; अतः विशिनष्टि अचलमिति । स्थिरः स्थिरो
भूत्वा इत्यर्थः । स्वं नासिकाग्रं संप्रेक्ष्य सम्यक् प्रेक्षणं
दर्शनं कृत्वेव इति । इवशब्दो लुप्तो द्रष्टव्यः । न हि स्वना-
सिकाग्र संप्रेक्षणमिह विधित्सितम् । किं तर्हि ? चक्षुषो
दृष्टिसंनिपातः । स च अन्तःकरणसमाधानापेक्षो विवक्षितः ।
स्वनासिकाग्रसंप्रेक्षणमेव चेत् विवक्षितम्, मनः तत्रैव समाधी-
येत, नात्मनि । आत्मनि हि मनसः समाधानं वक्ष्यति
'आत्मसंस्थं मनः कृत्वा' इति । तस्मात् इवशब्दलोपेन
अक्ष्णोः दृष्टिसंनिपात एव 'संप्रेक्ष्य' इत्युच्यते । दिशश्च
अनवलोकयन् दिशां च अवलोकनमन्तराकुर्वन् इत्येतत् ॥
किंच--</p>
<lg>
  <l>प्रशान्तात्मा विगतभीर्ब्रह्मचारिवते स्थितः ।</l>
  <l>मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥</l>
</lg>
<p>प्रशान्तात्मा प्रकर्षेण शान्तः आत्मा अन्तःकरणं यस्य
सोऽयं प्रशान्तात्मा, विगतभीः विगतभयः, ब्रह्मचारिव्रते
स्थितः ब्रह्मचारिणो व्रतं ब्रह्मचर्यं गुरुशुश्रूषाभिक्षान्नभु
क्त्यादि तस्मिन् स्थितः, तदनुष्ठाता भवेदित्यर्थः । किंच,
मनः संयम्य मनसः वृत्तीः उपसंहृत्य इत्येतत् मच्चित्तः</p>
<pb n="249" />
<p>षष्ठोऽध्यायः ।</p>
<p>मयि परमेश्वरे चित्तं यस्य सोऽयं मञ्चित्तः, युक्तः समाहितः
सन् आसीत उपविशेत् । मत्परः अहं परो यस्य सोऽयं
मत्परो भवति । कश्चित् रागी स्त्रीचित्तः, न तु स्त्रियमेव
परत्वेन गृह्णाति ; किं तर्हि ? राजानं महादेवं वां । अयं
तु मश्चित्तो मत्परश्च ॥
अथेदानीं योगफलमुच्यते-</p>
<lg>
  <l>युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।</l>
  <l>शान्ति निर्वाणपरमां मत्संस्थामधिगच्छति ॥</l>
</lg>
<p>युञ्जन् समाधानं कुर्वन् एवं यथोक्तेन विधानेन सदा
आत्मानं सर्वदा योगी नियतमानसः नियतं संयतं मानसं
मनो यख सोऽयं नियतमानसः, शान्तिम् उपरतिं निर्वाण-
परमां निर्वाणं मोक्षः तत् परमा निष्ठा यस्याः शान्तेः सा
निर्वाणपरमा तां निर्वाणपरमाम्, मत्संस्थां मदधीनाम् अधि-
गच्छति प्राप्नोति ॥
इदानीं योगिनः आहारादिनियम उच्यते—
नात्यश्नतस्तु</p>
<lg>
  <l>योगोऽस्ति न चैकान्तमनश्नतः ।</l>
  <l>न चातिस्वमशीलस्य जाग्रतो नैव चार्जुन ॥ १६॥</l>
</lg>
<p>S. B. 13</p>
<pb n="250" />
<p>श्रीमद्भगवद्गीताभाष्ये
न अत्यश्नतः आत्मसंमितमन्नपरिमाणमतीत्याश्नतः अत्यश्न-
तः न योगः अस्ति । न च एकान्तम् अनश्नतः योगः अस्ति ।
'यदु ह वा आत्मसंमितमन्नं तदवति तन्न हिनस्ति यद्भूयो
हिनस्ति तद्यत् कनीयोऽन्नं न तदवति' इति श्रुतेः । तस्मात्
योगी न आत्मसंमितात् अन्नात् अधिकं न्यूनं वा अभीयात् ।
अथवा, योगिनः योगशास्त्रे परिपठितात् अन्नपरिमाणात्
अतिमान्नमश्नतः योगो नास्ति । उक्तं हि - 'अर्ध सव्य-
ञ्जनान्नस्य तृतीयमुदकस्य च । वायोः संचरणार्थे तु चतुर्थम-
वशेषयेत्' इत्यादिपरिमाणम् । तथा— न च अतिस्वप्न-
शीलस्य योगो भवति नैव च अतिमात्रं जाग्रतो भवति
च अर्जुन ॥
कथं पुनः योगो भवति इत्युच्यते-</p>
<lg>
  <l>युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।</l>
  <l>युक्तस्वभावबोधस्य योगो भवति दुःखहा ॥ १७॥</l>
</lg>
<p>युक्ताहारविहारस्य आह्नियते इति आहार: अन्नम्, विह-
रणं विहार: पादक्रमः, तौ युक्तौ नियतपरिमाणौ यस्य सः
युक्ताहारविहारः तस्य, तथा युक्तचेष्टस्य युक्ता नियता चेष्टा
यस्य कर्मसु तस्य, तथा युक्तस्वप्नावबोधस्य युक्तौ स्वप्नश्च अव-</p>
<pb n="251" />
<p>षष्ठोऽध्यायः ।</p>
<p>बोधश्व तौ नियतकालौ यस्य तस्य, युक्ताहारविहारस्य युक्त-
चेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगिनो योगो भवति
दुःखहा दुःखानि सर्वाणि हन्तीति दुःखहा, सर्वसंसारदुःख-
क्षयकृत् योगः भवतीत्यर्थः ॥
अथ अधुना कदा युक्तो भवति इत्युच्यते-</p>
<lg>
  <l>यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।</l>
  <l>निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥</l>
</lg>
<p>यदा विनियतं विशेषेण नियतं संयतम् एकाग्रतामापन्नं
चित्तं हित्वा बाह्यार्थचिन्ताम् आत्मन्येव केवले अवतिष्ठते,
स्वात्मनि स्थितिं लभते इत्यर्थः । निःस्पृहः सर्वकामेभ्यः
निर्गता दृष्टादृष्टविषयेभ्यः स्पृहा तृष्णा यस्य योगिनः मः
युक्तः समाहितः इत्युच्यते तदा तस्मिन्काले ॥
तस्य योगिनः समाहितं यत् चित्तं तस्योपमा उच्यते-</p>
<lg>
  <l>यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।</l>
  <l>योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ १९॥</l>
</lg>
<p>यथा दीपः प्रदीपः निवातस्थः निवाते वातवर्जिते देशे
स्थितः न इङ्गते न चलति, सा उपमा उपमीयते अनया</p>
<pb n="252" />
<p>श्रीमद्भगवद्गीताभाष्ये
· इत्युपमा योगज्ञैः चित्तप्रचारदर्शिभिः स्मृता चिन्तिता
योगिनो यतचित्तस्य संयतान्तःकरणस्य युञ्जतो योगम् अनु-
· तिष्ठतः आत्मनः समाधिमनुतिष्ठत इत्यर्थः ॥
एवं योगाभ्यासबलादेकाग्रीभूतं निवातप्रदीपकल्पं सत्-</p>
<lg>
  <l>यत्रोपरमते चित्तं निरुद्धं योगसेवया ।</l>
  <l>यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥</l>
</lg>
<p>यत्र यस्मिन् काले उपरमते चित्तम् उपरतिं गच्छति
निरुद्धं सर्वतो निवारितप्रचारं योगसेवया योगानुष्ठानेन,
यत्र चैव यस्मिंश्च काले आत्मना समाधिपरिशुद्धेन अन्तःक-
रणेन आत्मानं परं चैतन्यं ज्योतिःस्वरूपं पश्यन् उपलभ-
मानः स्वे एव आत्मनि तुष्यति तुष्टिं भजते ॥
किंच--</p>
<lg>
  <l>सुखमात्यन्तिकं यत्तद्वुद्धिग्राह्यमतीन्द्रियम् ।</l>
  <l>वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥</l>
</lg>
<p>सुखम् आत्यन्तिकं अत्यन्तमेव भवति इत्यात्यन्तिकम् अ-
नन्तमित्यर्थः, यत् तत् बुद्धिप्राह्यं बुद्धधैव इन्द्रियनिरपेक्षया
गृह्यते इति बुद्धिप्राह्यम् अतीन्द्रियम् इन्द्रियगोचरातीतम्</p>
<pb n="253" />
<p>षष्ठोऽध्यायः ।</p>
<p>अविषयजनितमित्यर्थः, वेत्ति तत् ईदृशं सुखमनुभवति यत्र
यस्मिन् काले, न च एवं अयं विद्वान् आत्मस्वरूपे स्थितः
तस्मात् नैव चलति तत्त्वतः तत्त्वस्वरूपात् न प्रच्यवते
इत्यर्थः ॥
किंच-</p>
<lg>
  <l>यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।</l>
  <l>यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥</l>
</lg>
<p>यं लब्ध्वा यम् आत्मलाभं लब्ध्वा प्राप्य च अपरम्
अन्यत् लाभं लाभान्तरं ततः अधिकम् अस्तीति न मन्यते न.
चिन्तयति । किंच, यस्मिन् आत्मतत्त्वे स्थितः दुःखेन शस्त्र-
निपातादिलक्षणेन गुरुणा महता अपि न विचाल्यते ॥
'यत्रोपरमते' इत्याद्यारभ्य यावद्भिः विशेषणैः विशिष्ट
आत्मावस्थाविशेषः योग उक्तः--</p>
<lg>
  <l>तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् ।</l>
  <l>स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥</l>
</lg>
<p>तं विद्यात् विजानीयात् दुःखसंयोगवियोगं दुःखैः
संयोगः दुःखसंयोगः; तेन वियोग: 'दुःखसंयोगवियोग:, तं</p>
<pb n="254" />
<p>श्रीमद्भगवद्गीताभाष्ये
दुःखसंयोगवियोगं योग इत्येव संज्ञितं विपरीतलक्षणेन
विद्यात् विजानीयादित्यर्थः । योगफलमुपसंहृत्य पुनरन्वा -
रम्भेण योगस्य कर्तव्यता उच्यते निश्चयानिर्वेदयोः योगसाध-
त्वविधानार्थम् । स यथोक्तफलो योगः निश्चयेन अध्यव-
सायेन योक्तव्यः अनिर्विण्णचेतसा न निर्विण्णम् अनिर्वि
ण्णम् । किं तत् ? चेतः तेन निर्वेदरहितेन चेतसा चित्तेने-
त्यर्थः T: 11
किंच-</p>
<lg>
  <l>संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।</l>
  <l>मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ २४ ॥</l>
</lg>
<p>संकल्पप्रभवान् संकल्पः प्रभवः येषां कामानां ते संकल्प-
प्रभवाः कामाः तान् त्यक्त्वा परित्यज्य सर्वान् अशेषतः
निर्लेपेन । किंच, मनसैव विवेकयुक्तेन इन्द्रियग्रामम् इन्द्रि -
यसमुदायं विनियम्य नियमनं कृत्वा समन्ततः समन्तात् ॥</p>
<lg>
  <l>शनैः शनैरुपरमेडुद्ध्या धृतिगृहीतया ।</l>
  <l>आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥</l>
</lg>
<p>शनैः शनैः न सहसा उपरमेत् उपरतिं कुर्यात् । कया !
बुद्धया । किंविशिष्टया ? धृतिगृहीतया धृत्या धैर्येण गृहीतया</p>
<pb n="255" />
<p>षष्ठोऽध्यायः ।</p>
<p>धृतिगृहीतया धैर्येण युक्तया इत्यर्थः । आत्मसंस्थम् आत्मनि
संस्थितम् 'आत्मैव सर्वे न ततोऽन्यत् किंचिदस्ति' इत्येव-
मात्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् । एष योगस्य
परमो विधिः ।
तत्र एवमात्मसंस्थं मनः कर्तुं प्रवृत्तो योगी--</p>
<lg>
  <l>यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।</l>
  <l>ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६॥</l>
</lg>
<p>यतो यतः यस्माद्यस्मात् निमित्तात् शब्दादेः निश्वरति
निर्गच्छति स्वभावदोषात् मनः चञ्चलम् अत्यर्थ चलम्, अत
एव अस्थिरम्, ततस्ततः तस्मात्तस्मात् शब्दादेः निमित्तात्
नियम्य तत्तन्निमित्तं याथात्म्यनिरूपणेन आभासीकृत्य वैरा-
ग्यभावनया च एतत् मनः आत्मन्येव वशं नयेत् आत्म-
वश्यतामापादयेत् । एवं योगाभ्यासबलात् योगिनः आत्म-
न्येव प्रशाम्यति मनः ॥ .</p>
<lg>
  <l>प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।</l>
  <l>उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥</l>
</lg>
<p>प्रशान्तमनसं प्रकर्षेण शान्तं मनः यस्य सः प्रशान्तमनाः</p>
<pb n="256" />
<p>श्रीमद्भगवद्गीताभाष्ये
तं प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमं निरतिशयम्
उपैति उपगच्छति शान्तरजसं प्रक्षीणमोहादिक्लेशरजसमि-
त्यर्थः, ब्रह्मभूतं जीवन्मुक्तम् 'ब्रह्मैव सर्वम्' इत्येवं निश्चय-
वन्तं ब्रह्मभूतम् अकल्मषं धर्माधर्मादिवर्जितम् ॥</p>
<lg>
  <l>युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।</l>
  <l>सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ २८ ॥</l>
</lg>
<p>युञ्जन् एवं यथोक्तेन क्रमेण योगी योगान्तरायवर्जितः
सदा सर्वदा आत्मानं विगतकल्मषः विगतपापः, सुखेन
अनायासेन ब्रह्मसंस्पर्श ब्रह्मणा परेण संस्पर्शो यस्य तत्
ब्रह्मसंस्पर्शं सुखम् अत्यन्तम् अन्तमतीत्य वर्तत इत्यत्यन्तम्
उत्कृष्टं निरतिशयम् अश्नुते व्याप्नोति ॥
इदानीं योगस्य यत् फलं ब्रह्मैकत्वदर्शनं सर्वसंसारवि-
च्छेदकारणं तत् प्रदर्श्यते-</p>
<lg>
  <l>सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।</l>
  <l>ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ २९ ॥</l>
</lg>
<p>सर्वभूतस्थं सर्वेषु भूतेषु स्थितं स्वम् आत्मानं सर्वभू-
तानि च आत्मनि ब्रह्मादीनि स्तम्बपर्यन्तानि च सर्वभूतानि</p>
<pb n="257" />
<p>षष्ठोऽध्यायः ।</p>
<p>आत्मनि एकतां गतानि ईक्षते पश्यति योगयुक्तात्मा समा-
हितान्तः करणः सर्वत्र समदर्शनः सर्वेषु ब्रह्मादिस्थावरान्तेषु
विषमेषु सर्वभूतेषु समं निर्विशेषं ब्रह्मात्मैकत्वविषयं दर्शनं
ज्ञानं यस्य स. सर्वत्र समदर्शनः ॥
एतस्य आत्मैकत्वदर्शनस्य फलम् उच्यते—</p>
<lg>
  <l>यो मां पश्यति सर्वत्र सर्व च मयि पश्यति ।</l>
  <l>तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥</l>
</lg>
<p>यो मां पश्यति वासुदेवं सर्वस्य आत्मानं सर्वत्र सर्वेषु
भूतेषु सर्वे च ब्रह्मादिभूतजातं मयि सर्वात्मनि पश्यति,
तस्य एवं आत्मैकत्वदर्शिनः अहम् ईश्वरो न प्रणश्यामि न
परोक्षतां गमिष्यामि । स च मे न प्रणश्यति स च विद्वान्
मम वासुदेवस्य न प्रणश्यति न परोक्षो भवति, तस्य च
मम च एकात्मकत्वात्; स्वात्मा हि नाम आत्मनः प्रिय
एव भवति, यस्माच्च अहमेव सर्वात्मैकत्वदर्शी ॥
इत्येतत् पूर्वश्लोकार्थं सम्यग्दर्शनमनूद्य तत्फलं मोक्षः
अभिधीयते—</p>
<lg>
  <l>सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।</l>
  <l>सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥</l>
</lg>
<pb n="258" />
<p>श्रीमद्भगवद्गीताभाष्ये
सर्वथा सर्वप्रकारैः वर्तमानोऽपि सम्यग्दर्शी योगी मयि
वैष्णवे परमे पदे वर्तते, नित्यमुक्त एव सः, न मोक्षं प्रति
केनचित् प्रतिबध्यते इत्यर्थः ॥
किंच अन्यत्-</p>
<lg>
  <l>आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।</l>
  <l>सुखं वा यदि वा दुःखं स योगी परमो मतः ॥</l>
</lg>
<p>.
आत्मौपम्येन आत्मा स्वयमेव उपमीयते अनया इत्युपमा
तस्या उपमाया भाव: औपम्यं तेन आत्मौपम्येन, सर्वत्र
सर्वभूतेषु समं तुल्यं पश्यति य: अर्जुन, स च किं समं
पश्यति इत्युच्यते —— यथा मम सुखम् इष्टं तथा सर्वप्राणिनां
सुखम् अनुकूलम् । वाशब्दः चार्थे । यदि वा यच्च दुःखं मम
प्रतिकूलम् अनिष्टं यथा तथा सर्वप्राणिनां दुःखम् अनिष्टं
प्रतिकूलं इत्येवम् आत्मौपम्येन सुखदुःखे अनुकूलप्रतिकूले
तुल्यतया सर्वभूतेषु समं पश्यति, न कस्यचित् प्रतिकूलमा -
चरति, अहिंसक इत्यर्थः । यः एवमहिंसकः सम्यग्दर्शननि-
ष्ठः स योगी परमः उत्कृष्टः मतः अभिप्रेतः सर्वयोगिनां
मध्ये ।
एतस्य यथोक्तस्य सम्यग्दर्शनलक्षणस्य योगस्य दुःखसं-</p>
<pb n="259" />
<p>षष्ठोऽध्यायः ।</p>
<p>पाद्यतामालक्ष्य शुश्रूषुः ध्रुवं तत्प्राप्युपायमर्जुन उवाच --
अर्जुन उवाच-</p>
<lg>
  <l>योऽयं योगस्त्वया प्रोक्तः</l>
  <l>साम्येन मधुसूदन ।</l>
  <l>एतस्याहं न पश्यामि</l>
  <l>चञ्चलत्वात्स्थितिं स्थिराम् ॥ ३३ ॥</l>
</lg>
<p>यः अयं योगः त्वया प्रोक्तः साम्येन समत्वेन हे मधुसू-
दन एतस्य योगस्य अहं न पश्यामि नोपलभे, चञ्चलत्वात
मनसः । किम् ? स्थिराम अचलां स्थितिम ॥
प्रसिद्धमेतत्--</p>
<lg>
  <l>चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।</l>
  <l>तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥</l>
</lg>
<p>चभ्वलं हि मनः । कृष्ण इति कृषतेः विलेखनार्थस्य
रूपम् । भक्तजनपापादिदोषाकर्षणात् कृष्णः, तस्य संबुद्धि: हे
कृष्ण । हि यस्मात् मन्रः चञ्चलं न केवलमत्यर्थं चञ्चलम्,
प्रमाथि च प्रमथनशीलम्, प्रमध्नाति शरीरम् इन्द्रियाणि च
विक्षिपत् सत् परवशीकरोति । किंच -- बलवत प्रबलम्, न</p>
<pb n="260" />
<p>श्रीमद्भगवद्गीताभाष्ये
केनचित् नियन्तुं शक्यम्, दुर्निवारत्वात् । किंच दृढं त-
न्तुनागवत् अच्छेद्यम् । तस्य एवंभूतस्य मनसः अहं निग्रहं
निरोधं मन्ये वायोरिव यथा वायोः दुष्करो निग्रहः ततोऽपि
दुष्करं मन्ये इत्यभिप्राय: ॥
श्रीभगवानुवाच एवम् एतत् यथा ब्रवीषि —
"
श्रीभगवानुवाच-</p>
<lg>
  <l>असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।</l>
  <l>अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥</l>
</lg>
<p>असंशयं नास्ति संशय: ' मनो दुर्निग्रहं चलम्' इत्यत्र
हे महाबाहो । किंतु अभ्यासेन तु अभ्यासो नाम चित्तभूमौ
कस्यांचित् समानप्रत्ययावृत्तिः चित्तस्य । वैराग्येण वैराग्यं
नाम दृष्टादृष्टेष्टभोगेषु दोषदर्शनाभ्यासात् वैतृष्ण्यम् । तेन
च वैराग्येण गृह्यते विक्षेपरूपः प्रचारः चित्तस्य । एवं तत्
मनः गृह्यते निगृह्यते निरुध्यते इत्यर्थः ॥
यः पुनः असंयतात्मा, तेन-
,</p>
<lg>
  <l>असंयतात्मना योगो दुष्प्राप इति मे मतिः ।</l>
  <l>बश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥</l>
</lg>
<pb n="261" />
<p>षष्ठोऽध्यायः ।</p>
<p>असंयतात्मना अभ्यासवैराग्याभ्यामसंयतः आत्मा अन्त:-
करणं यस्य सोऽयम् असंयतात्मा तेन असंयतात्मना योगो
दुष्प्रापः दुःखेन प्राप्यत इति मे मतिः । यस्तु पुनः वश्यात्मा
अभ्यासवैराग्याभ्यां वश्यत्वमापादितः आत्मा मन: यस्य सो-
ऽयं वश्यात्मा तेन वश्यात्मना तु यतता भूयोऽपि प्रयत्नं
कुर्वता शक्यः अवाप्तुं योगः उपायतः यथोक्तादुपायात् ॥
तत्र योगाभ्यासाङ्गीकरणेन इहलोकपरलोकप्राप्तिनिमि-
तानि कर्माणि संन्यस्तानि, योगसिद्धिफलं च मोक्षसाधनं
सम्यग्दर्शनं न प्राप्तमिति, योगी योगमार्गात् मरणकाले चलि-
तचित्तः इति तस्य नाशमाशङ्कय अर्जुन उवाच —
अर्जुन उवाच -</p>
<lg>
  <l>अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।</l>
  <l>अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥</l>
</lg>
<p>अयतिः अप्रयत्नवान् योगमार्गे श्रद्धया आस्तिक्यबुद्धघा
च उपेतः योगात् अन्तकाले च चलितं मानसं मनो यस्य
सः चलितमानस: भ्रष्टस्मृतिः सः अप्राप्य योगसंसिद्धिं योग-
फलं सम्यग्दर्शनं कां गतिं हे कृष्ण गच्छति ॥</p>
<pb n="262" />
<p>श्रीमद्भगवद्गीताभाष्ये
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ।
'
कश्चित् किं न उभयविभ्रष्टः कर्ममार्गात् योगमार्गाच
विभ्रष्टः सन् छिन्नाभ्रमिव नश्यति किं वा न नश्यति अप्र-
तिष्ठो निराश्रयः हे महाबाहो विमूढः सन् ब्रह्मणः पथि ब्रह्म-
प्राप्तिमार्गे ॥</p>
<lg>
  <l>एतन्मे संशयं कृष्ण च्छेत्तुमर्हस्यशेषतः ।</l>
  <l>त्वद्न्यः संशयस्यास्य च्छेत्ता न ह्युपपद्यते ॥</l>
</lg>
<p>एतत् मे मम संशयं कृष्ण च्छेत्तुम् अपनेतुम् अर्हसि
अशेषत: । त्वदन्यः त्वत्तः अन्यः ऋषिः देवो वा च्छेत्ता
नाशयिता संशयस्य अस्य न हि यस्मात् उपपद्यते न संभ-
वति । अतः त्वमेव च्छेत्तुमर्हसि इत्यर्थः ॥
श्रीभगवानुवाच-.</p>
<lg>
  <l>पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।</l>
  <l>न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥</l>
</lg>
<p>हे पार्थ नैव इह लोके नामुत्र परस्मिन् वा लोके विनाश:
तस्य विद्यते नास्ति । नाशो नाम पूर्वस्मात् हीनजन्मप्राप्तिः</p>
<pb n="263" />
<p>षष्ठोऽध्यायः ।</p>
<p>स योगभ्रष्टस्य नास्ति । न हि यस्मात् कल्याणकृत् शुभकृत्
कश्चित् दुर्गतिं कुत्सितां गतिं हे तात, तनोति आत्मानं पुत्र-
1
रूपेणेति पिता तात उच्यते । पितैव पुत्र इति पुत्रोऽपि तात
उच्यते । शिष्योऽपि पुत्र उच्यते । यतो न गच्छति ॥
किं तु अस्य भवति ? -</p>
<lg>
  <l>प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।</l>
  <l>शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥</l>
</lg>
<p>योगमार्गे प्रवृत्तः संन्यासी सामर्थ्यात् प्राप्य गत्वा पुण्य-
कृताम् अश्वमेधादियाजिनां लोकान्, तत्र च उषित्वा वासम-
नुभूय शाश्वतीः नित्याः समाः संवत्सरान् तद्भोगक्षये
शुचीनां यथोक्तकारिणां श्रीमतां विभूतिमतां गेहे गृहे योग-
भ्रष्टः अभिजायते ॥
"</p>
<lg>
  <l>अथवा योगिनामेव कुले भवति धीमताम् ।</l>
  <l>एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४२ ॥</l>
</lg>
<p>अथवा श्रीमतां कुलात् अन्यस्मिन् योगिनामेव. दरि-
द्राणां कुले भवति जायते धीमतां बुद्धिमताम् । एतत् हि
जन्म, यत् दरिद्राणां योगिनां कुले, दुर्लभतरं दुःखलभ्य-</p>
<pb n="264" />
<p>श्रीमद्भगवद्गीताभाष्ये
तरं पूर्वमपेक्ष्य लोके जन्म यत् ईदृशं यथोक्तविशेषणे कुले ॥
यस्मात् --</p>
<lg>
  <l>तत्र तं वुद्धिसंयोगं लभते पौर्वदेहिकम् ।</l>
  <l>यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ४३ ॥</l>
</lg>
<lg>
  <l>तत्र योगिनां कुले तं बुद्धिसंयोगं बुद्धया संयोगं बुद्धि-</l>
  <l>संयोगं लभते पौर्वदेहिकं पूर्वस्मिन् देहे भवं पौर्वदेद्दिकम् ।</l>
  <l>यतते च प्रयत्नं च करोति ततः तस्मात् पूर्वकृतात् संस्का-</l>
  <l>रात् भूयः बहुतरं संसिद्धौ संसिद्धिनिमित्तं हे कुरुनन्दन ॥</l>
</lg>
<p>कथं पूर्वदेहबुद्धिसंयोग इति तदुच्यते-</p>
<lg>
  <l>पूर्वाभ्यासेन तेनैव हियते ह्यवशोऽपि सः ।</l>
  <l>जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥</l>
</lg>
<p>यः पूर्वजन्मनि कृतः अभ्यासः सः पूर्वाभ्यासः, तेनैव
बलवता हियते संसिद्धौ हि यस्मात् अवशोऽपि सः योग-
भ्रष्टः ; न कृतं चेत् योगाभ्यासजात् संस्कारात् बलवत्तर-
मधर्मादिलक्षणं कर्म, तदा योगाभ्यासजनितेन संस्कारेण
ह्रियते ; अधर्मश्चेत् बलवत्तरः कृतः, तेन योगजोऽपि संस्कारः
अभिभूयत एव, तत्क्षये तु योगजः संस्कार: स्वयमेव कार्य-
मारभते, न दीर्घकालस्थस्यापि विनाशः तत्र अस्ति इत्यर्थः ।</p>
<pb n="265" />
<p>षष्ठोऽध्यायः ।</p>
<p>अत: जिज्ञासुरपि योगस्य स्वरूपं ज्ञातुमिच्छन् अपि योग-
मार्गे प्रवृत्तः संन्यासी योगभ्रष्टः, सामर्थ्यात् सोऽपि शब्द-
ब्रह्म वेदोक्तकर्मानुष्ठानफलम् अतिवर्तते अतिक्रामति अपाक-
रिष्यति ; किमुत बुद्ध्वा यः योगं तन्निष्ठः अभ्यासं कुर्यात् ॥
कुतश्च योगित्वं श्रेयः इति —</p>
<lg>
  <l>प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।</l>
  <l>अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥</l>
</lg>
<p>प्रयत्नात् यतमानः,
अधिकं यतमान इत्यर्थः । तत्र योगी
विद्वान् संशुद्धकिल्बिष: विशुद्धकिल्विषः संशुद्धपापः अनेकज-
न्मसंसिद्धः अनेकेषु जन्मसु किंचित्किंचित् संस्कारजातम् उप-
चित्य तेन उपचितेन अनेकजन्मकृतेन संसिद्ध: अनेकजन्मसं-
सिद्धः ततः लब्धसम्यग्दर्शनः सन् याति परां प्रकृष्टां गतिम् ॥
यस्मादेवं तस्मात्—</p>
<lg>
  <l>तपस्विभ्योऽधिको योगी</l>
  <l>ज्ञानिभ्योऽपि मतोऽधिकः ।</l>
  <l>कर्मभ्यश्चाधिको योगी</l>
  <l>तस्माद्योगी भवार्जुन ॥ ४६ ॥</l>
</lg>
<p>8. B. 14</p>
<pb n="266" />
<p>श्रीमद्भगवद्गीताभाष्ये
तपस्विभ्यः अधिकः योगी, ज्ञानिभ्योऽपि ज्ञानमत्र
शास्त्रार्थपाण्डित्यम्, तद्वद्भथोऽपि मतः ज्ञातः अधिकः श्रेष्ठः
इति । कर्मिभ्यः, अग्निहोत्रादि कर्म, तद्वद्भयः अधिक: योगी
विशिष्टः यस्मात् तस्मात् योगी भव अर्जुन ॥</p>
<lg>
  <l>योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।</l>
  <l>श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥</l>
</lg>
<p>इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे ध्यानयोगो नाम
षष्ठोऽध्यायः ॥
योगिनामपि सर्वेषां रुद्रादित्यादिध्यानपराणां मध्ये मद्गतेन
मयि वासुदेवे समाहितेन अन्तरात्मना अन्तःकरणेन श्रद्धावान्
श्रद्दधानः सन् भजते सेवते यो माम्, स मे मम युक्ततमः
अतिशयेन युक्तः मतः अभिप्रेतः इति ॥
॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
षष्ठोऽध्यायः ॥</p>
<pb n="267" />
<p>श्रीमच्छंकरभगवत्पादविरचितम्
श्रीमद्भगवद्गीताभाष्यम्
सप्तमोऽध्यायः
ANTANA Rinnnnn</p>
<pb n="268" />
<pb n="269" />
<p>"
सप्तमोऽध्यायः ॥
यो गिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धा-
वान्भजते यो मां स मे युक्ततमो मतः' इति
प्रश्नबीजम् उपन्यस्य, स्वयमेव 'ईदृशं मदीयं
तत्त्वम्, एवं मद्गतान्तरात्मा स्यात्' इत्येतत्
विवक्षुः श्रीभगवानुवाच-
श्रीभगवानुवाच-</p>
<lg>
  <l>मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।</l>
  <l>असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥</l>
</lg>
<p>मयि वक्ष्यमाणविशेषणे परमेश्वरे आसक्तं मनः यस्य सः
मय्यासक्तमनाः, हे पार्थ योगं युञ्जन् मनःसमाधानं कुर्वन्,
मदाश्रयः अहमेव परमेश्वरः आश्रयो यस्य सः मदाश्रयः । यो
हि कश्चित् पुरुषार्थेन केनचित् अर्थी भवति स तत्साधनं
कर्म अग्निहोत्रादि तपः दानं वा किंचित् आश्रयं प्रतिपद्यते,
अयं तु योगी मामेव आश्रयं प्रतिपद्यते, हित्वा अन्यत् सा-</p>
<pb n="270" />
<p>श्रीमद्भगवद्गीताभाष्ये
धनान्तरं मय्येव आसक्तमनाः भवति । यः त्वं एवंभूतः सन्
असंशयं समग्रं समस्तं विभूतिबलशक्तयैश्वर्यादिगुणसंपन्नं मां
यथा येन प्रकारेण ज्ञास्यसि संशयमन्तरेण ' एवमेव भगवा-
न्' इति, तत् शृणु उच्यमानं मया ॥
तच्च मद्विषयम् —</p>
<lg>
  <l>ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।</l>
  <l>यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥</l>
</lg>
<p>ज्ञानं ते तुभ्यम् अहं सविज्ञानं विज्ञानसहितं स्वानुभवयुक्तम्
इदं वक्ष्यामि कथयिष्यामि अशेषतः कात्स्न्र्त्स्न्येन । तत् ज्ञानं विव-
क्षितं स्तौति श्रोतुः अभिमुखीकरणाय - यत् ज्ञात्वा यत् ज्ञा-
नं ज्ञात्वा न इह भूयः पुनः अन्यत् ज्ञातव्यं पुरुषार्थसाधनम्
अवशिष्यते नावशिष्टं भवति । इति मत्तत्त्वज्ञो यः, सः सर्व-
ज्ञो भवतीत्यर्थः । अतो विशिष्टफलत्वात् दुर्लभं ज्ञानम ॥
कथमित्युच्यते-</p>
<lg>
  <l>मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।</l>
  <l>यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥</l>
</lg>
<p>मनुष्याणां मध्ये सहस्रेषु अनेकेषु कश्चित् यतति प्रयत्नं</p>
<pb n="271" />
<p>सप्तमोऽध्यायः</p>
<p>करोति सिद्धये सिद्धयर्थम् । तेषां यततामपि सिद्धानाम्,
सिद्धा एव हि ते ये मोक्षाय यतन्ते, तेषां कश्चित् एव हि मां
वेत्ति तत्त्वत: यथावत् ॥
श्रोतारं प्ररोचनेन अभिमुखीकृत्याह -</p>
<lg>
  <l>भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।</l>
  <l>अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥</l>
</lg>
<p>भूमि: इति पृथिवीतन्मात्रमुच्यते, न स्थूला, 'भिन्ना
प्रकृतिरष्टधा' इति वचनात् । तथा अबादयोऽपि तन्मात्रा-
ण्येव उच्यन्ते — आपः अनल: वायुः खम । मनः इति
मनसः कारणमहंकारो गृह्यते । बुद्धिः इति अहंकारकारणं
महत्तत्त्वम् । अहंकारः इति अविद्यासंयुक्तमव्यक्तम् ।
यथा विषसंयुक्तमन्नं विषमित्युच्यते, एवमहंकारवासनावत्
अव्यक्तं मूलकारणमहंकार इत्युच्यते, प्रवर्तकत्वात् अहंका-
रस्य । अहंकार एव हि सर्वस्य प्रवृत्तिबीजं दृष्टं लोके ।
इतीयं यथोक्ता प्रकृतिः मे मम ऐश्वरी मायाशक्तिः अष्टधा
भिन्ना भेदमागता ॥</p>
<lg>
  <l>अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।</l>
  <l>जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥</l>
</lg>
<pb n="272" />
<p>श्रीमद्भगवद्गीताभाष्ये
अपरा न परा निकृष्टा अशुद्धा अनर्थकरी संसारबन्धना-
त्मिका इयम् । इतः अस्याः यथोक्तायाः तु अन्यां विशुद्धां
प्रकृतिं मम आत्मभूतां विद्धि मे परां प्रकृष्टां जीवभूतां क्षेत्र-
ज्ञलक्षणां प्राणधारणनिमित्तभूतां हे महाबाहो, यया प्रकृत्या
इदं धार्यते जगत् अन्तः प्रविष्टया ॥</p>
<lg>
  <l>एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।</l>
  <l>अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ६॥</l>
</lg>
<p>एतद्योनीनि एते परापरे क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिः
येषां भूतानां तानि एतद्योनीनि भूतानि सर्वाणि इति एवम्
उपधारय जानीहि । यस्मात् मम प्रकृती योनिः कारणं
सर्वभूतानाम्, अत: अहं कृत्स्नस्य समस्तस्य जगतः प्रभवः
उत्पत्तिः प्रलय: विनाशः तथा । प्रकृतिद्वयद्वारेण अहं सर्वज्ञः
ईश्वरः जगतः कारणमित्यर्थः ॥
यतः तस्मात्—
,</p>
<lg>
  <l>मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ।</l>
  <l>माय सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥</l>
</lg>
<p>मत्तः परमेश्वरात् परतरम् अन्यत् कारणान्तरं किंचित्
नास्ति न विद्यते, अहमेव जगत्कारणमित्यर्थः, हे धनंजय ।</p>
<pb n="273" />
<p>सप्तमोऽध्यायः ।</p>
<p>यस्मादेवं तस्मात् मयि परमेश्वरे सर्वाणि भूतानि सर्वमिदं
जगत् प्रोतं अनुस्यूतम् अनुगतम् अनुविद्धं प्रथितमित्यर्थ.,
दीर्घतन्तुषु पटवत्, सूत्रे च मणिगणा इव ॥
केन केन धर्मेण विशिष्टे त्वयि सर्वमिदं प्रोतमित्युच्यते-</p>
<lg>
  <l>रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।</l>
  <l>प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥</l>
</lg>
<p>रस: अहम्, अपां य: सारः सरसः, तस्मिन् रसभूते
मयि आपः प्रोता इत्यर्थः । एवं सर्वत्र । यथा अहम् अप्सु
रसः, एवं प्रभा अस्मि शशिसूर्ययोः । प्रणवः ओंकारः सर्व-
वेदेषु, तस्मिन् प्रणवभूते मयि सर्वे वेदाः प्रोताः । तथा खे
आकाशे शब्दः सारभूतः, तस्मिन् मयि खं प्रोतम् । तथा
पौरुषं पुरुषस्य भावः पौरुषं यतः पुंबुद्धिः नृषु, तस्मिन्
मयि पुरुषाः प्रोताः ॥</p>
<lg>
  <l>पुण्यो गन्धः पृथिव्यां च</l>
  <l>तेजश्वास्मि विभावसौ ।</l>
  <l>जीवनं सर्वभूतेषु</l>
  <l>तपश्चास्मि तपखिषु ॥ ९ ॥</l>
</lg>
<pb n="274" />
<p>श्रीमद्भगवद्गीताभाष्ये
पुण्यः सुरभिः गन्धः पृथिव्यां च अहम्, तस्मिन् मयि
गन्धभूते पृथिवी प्रोता । पुण्यत्वं गन्धस्य स्वभावत एव
पृथिव्यां दर्शितम् अबादिषु रसादेः पुण्यत्वोपलक्षणार्थम् ।
अपुण्यत्वं तु गन्धादीनाम् अविद्याधर्माद्यपेक्षं संसारिणां
भूत-
विशेषसंसर्गनिमित्तं भवति । तेजश्च दीप्तिश्च अस्मि विभा-
वसौ अग्नौ । तथा जीवनं सर्वभूतेषु, येन जीवन्ति सर्वाणि
भूतानि तत् जीवनम् । तपश्च अस्मि तपस्विषु, तस्मिन्
तपसि मयि तपस्विनः प्रोताः ॥</p>
<lg>
  <l>बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।</l>
  <l>बुद्धिर्बुद्धिमतामस्मि तेजस्तेजखिनामहम् ॥१०॥</l>
</lg>
<p>बीजं प्ररोहकारणं मां विद्धि सर्वभूतानां हे पार्थ सना-
तनं चिरन्तनम् । किंच, बुद्धिः विवेकशक्तिः अन्तःकरणस्य
बुद्धिमतां विवेकशक्तिमताम् अस्मि तेजः प्रागल्भ्यं तद्वतां
तेजस्विनाम् अहम् ॥</p>
<lg>
  <l>बलं बलवतां चाहं कामरागविवर्जितम् ।</l>
  <l>धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥११॥</l>
</lg>
<p>बलं सामर्थ्यम् ओजो बलवताम् अहम्, तच्च बलं काम-
रागविवर्जितम्, कामञ्च रागश्च कामरागौ — कामः तृष्णा</p>
<pb n="275" />
<p>सप्तमोऽध्यायः ।</p>
<p>असंनिकृष्टेषु विषयेषु, रागो रञ्जना प्राप्तेषु विषयेषु --
ताभ्यां कामरागाभ्यां विवर्जितं देहादिधारणमात्रार्थं बलं
सत्त्वमहमस्मि ; न तु यत्संसारिणां तृष्णारागकारणम् ।
किंच— धर्माविरुद्धः धर्मेण शास्त्रार्थेन अविरुद्धो यः प्राणिषु
भूतेषु कामः, यथा देहधारणमात्राद्यर्थः अशनपानादिवि-
षयः, स कामः अस्मि हे भरतर्षभ ॥
किंच—</p>
<lg>
  <l>ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।</l>
  <l>मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥</l>
</lg>
<p>ये चैव सात्त्विकाः सत्त्वनिर्वृत्ताः भावा: पदार्थाः,
राजसाः रजोनिर्वृत्ताः, तामसाः तमोनिर्वृत्ताश्च ये केचित्
प्राणिनां स्वकर्मवशात् जायन्ते भात्राः, तान् मत्त एव जाय-
मानान् इति एवं विद्धि सर्वान् समस्तानेव । यद्यपि
मत्तः जायन्ते, तथापि न तु अहं तेषु तदधीनः तद्वशः,
यथा संसारिणः । ते पुनः मयि मद्वशाः मदधीनाः ॥
एवंभूतमपि परमेश्वरं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वभू-
तात्मानं निर्गुणं संसारदोषबीजप्रदाहकारणं मां नाभिजानाति</p>
<pb n="276" />
<p>श्रीमद्भगवद्गीताभाष्ये
जगत् इति अनुक्रोशं दर्शयति भगवान् । तच्च किंनिमित्तं
जगत: अज्ञानमित्युच्यते-</p>
<lg>
  <l>त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।</l>
  <l>मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥</l>
</lg>
<p>त्रिभिः गुणमयैः गुणविकारै: रागद्वेषमोहादिप्रकारैः
भावैः पदार्थै: एभिः यथोक्तैः सर्वम् इदं प्राणिजातं जगत्
मोहितम् अविवेकितामापादितं सत् न अभिजानानि माम्,
एभ्यः यथोक्तेभ्यः गुणेभ्यः परं व्यतिरिक्तं विलक्षणं च
अव्ययं व्ययरहितं जन्मादिसर्वभावविकारवर्जितम् इत्यर्थः ॥
कथं पुनः दैवीम् एतां त्रिगुणात्मिकां वैष्णवीं मायामति-
क्रामति इत्युच्यते—</p>
<lg>
  <l>दैवी ह्येषा गुणमयी मम माया दुरत्यया ।</l>
  <l>मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥</l>
</lg>
<p>दैवी देवस्य मम ईश्वरस्य विष्णोः स्वभावभूता हि यस्मा-
त् एषा यथोक्ता गुणमयी मम माया दुरत्यया दुःखेन अत्य-
यः अतिक्रमणं यस्याः सा दुरत्यया । तत्र एवं सति सर्वध-
र्मान् परित्यज्य मामेव मायाविनं स्वात्मभूतं सर्वात्मना ये</p>
<pb n="277" />
<p>सप्तमोऽध्यायः ।</p>
<p>प्रपद्यन्ते ते मायाम् एतां सर्वभूतमोहिनीं तरन्ति अतिक्राम-
न्ति; ते संसारबन्धनात् मुच्यन्ते इत्यर्थः ॥
यदि त्वां प्रपन्नाः मायामेतां तरन्ति, कस्मात् त्वामेव सर्वे
न प्रपद्यन्ते इत्युच्यते—</p>
<lg>
  <l>न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।</l>
  <l>माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥</l>
</lg>
<p>न मां परमेश्वरं नारायणं दुष्कृतिनः पापकारिण: मूढाः
प्रपद्यन्ते नराधमाः नराणां मध्ये अधमाः निकृष्टाः । ते च
मायया अपहृतज्ञाना: संमुषितज्ञाना: आसुरं भावं हिंसानृ-
तादिलक्षणम् आश्रिताः ॥
ये पुनर्नरोत्तमाः पुण्यकर्माणः-</p>
<lg>
  <l>चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।</l>
  <l>आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥१६॥</l>
</lg>
<p>चतुर्विधाः चतुःप्रकाराः भजन्ते सेवन्ते मां जनाः सुकृ-
तिनः पुण्यकर्माणः हे अर्जुन । आर्त: आर्तिपरिगृहीतः तस्कर-
व्याघ्ररोगादिना अभिभूतः आपन्नः, जिज्ञासुः भगवत्तत्त्वं
ज्ञातुमिच्छति यः, अर्थार्थी धनकामः, ज्ञानी विष्णोः
तत्त्वविश्व हे भरतर्षभ ॥</p>
<pb n="278" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।</l>
  <l>प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥</l>
</lg>
<p>तेषां चतुर्णां मध्ये ज्ञानी तत्त्ववित् तत्त्ववित्त्वात् नित्य-
युक्तः भवति एकभक्तिश्व, अन्यस्य भजनीयस्य अदर्शनात्;
अतः स एकभक्तिः विशिष्यते विशेषम् आधिक्यम् आपद्यते,
अतिरिच्यते इत्यर्थः । प्रियो हि यस्मात् अहम् आत्मा ज्ञानि-
नः, अतः तस्य अहम् अत्यर्थे प्रिय: ; प्रसिद्धं हि लोके 'आ-
त्मा प्रियो भवति' इति । तस्मात् ज्ञानिनः आत्मत्वात् वा-
सुदेवः प्रियो भवतीत्यर्थः । स च ज्ञानी मम वासुदेवस्य आत्मै-
वेति मम अत्यर्थ प्रियः ॥
न तर्हि आर्तादयः त्रयः वासुदेवस्य प्रिया: ? न; किं
तर्हि ? -</p>
<lg>
  <l>उदाराः सर्व एवैते</l>
  <l>ज्ञानी त्वात्मैव मे मतम् ।</l>
  <l>आस्थितः स हि युक्तात्मा</l>
  <l>मामेवानुत्तमां गतिम् ॥ १८ ॥</l>
</lg>
<p>उदारा: उत्कृष्टाः सर्व एव एते, त्रयोऽपि मम प्रिया
एवेत्यर्थः । न हि कश्चित् मद्भक्तः मम वासुदेवस्य अप्रियः</p>
<pb n="279" />
<p>सप्तमोऽध्यायः ।</p>
<p>भवति । ज्ञानी तु अत्यर्थ प्रियो भवतीति विशेषः । तत्
कस्मात् इत्यत आह— ज्ञानी तु आत्मैव न अन्यो मत्तः
इति मे मम मतं निश्चयः । आस्थितः आरोढुं प्रवृत्तः सः
ज्ञानी हि यस्मात् ' अहमेव भगवान् वासुदेवः न अन्यो-
ऽस्मि' इत्येवं युक्तात्मा समाहितचित्तः सन् मामेव परं
ब्रह्म गन्तव्यम् अनुत्तमां गतिं गन्तुं प्रवृत्त इत्यर्थः ॥
ज्ञानी पुनरपि स्तूयते—</p>
<lg>
  <l>बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।</l>
  <l>वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥</l>
</lg>
<p>बहूनां जन्मनां ज्ञानार्थसंस्काराश्रयाणाम् अन्ते समाप्तौ
ज्ञानवान् प्राप्तपरिपाकज्ञान: मां वासुदेवं प्रत्यगात्मानं प्रत्य-
क्षतः प्रपद्यते । कथम् ? वासुदेवः सर्वम् इति । यः एवं
सर्वात्मानं मां नारायणं प्रतिपद्यते, सः महात्मा ; न तत्समः
अन्यः अस्ति, अधिको वा । अतः सुदुर्लभः, 'मनुष्याणां
सहस्रेषु' इति हि उक्तम् ॥
आत्मैव सर्वो वासुदेव इत्येवमप्रतिपत्तौ कारणमुच्यते-</p>
<lg>
  <l>कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।</l>
  <l>तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥</l>
</lg>
<pb n="280" />
<p>श्रीमद्भगवद्गीताभाष्ये
कामैः तैस्तैः पुत्रपशुस्वर्गादिविषयैः हृतज्ञानाः अपहृतवि-
वेकविज्ञानाः प्रपद्यन्ते अन्यदेवताः प्राप्नुवन्ति वासुदेवात्
आत्मनः अन्याः देवता; तं तं नियमं देवताराधने प्रसिद्धो
यो यो नियमः तं तम् आस्थाय आश्रित्य प्रकृत्या स्वभावेन
जन्मान्तरार्जितसंस्कारविशेषेण नियताः नियमिताः स्वया
आत्मीयया ॥
तेषां च कामिनाम् —</p>
<lg>
  <l>यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।</l>
  <l>तस्य तखाचलां श्रद्धां तामेव विदधाम्यहम् ॥</l>
</lg>
<p>यः यः कामी यां यां देवतातनुं श्रद्धया संयुक्तः भक्तश्च
सन् अर्चितुं पूजयितुम् इच्छति, तस्य तस्य कामिनः
अचलां स्थिरां श्रद्धां तामेव विदधामि स्थिरीकरोमि ॥
ययैवं पूर्व प्रवृत्तः स्वभावतो यः यां देवतातनुं श्रद्धया
अर्चितुम् इच्छति—</p>
<lg>
  <l>स तया श्रद्धया युक्त-</l>
  <l>स्तथा राधनमीहते ।</l>
  <l>लभते च ततः कामा-</l>
  <l>न्मयैव विहितान्हि तान् ॥ २२ ॥</l>
</lg>
<pb n="281" />
<p>सप्तमोऽध्यायः ।</p>
<p>स तया मद्विहितया श्रद्धया युक्तः सन् तस्याः देवतात -
न्वा: राधनम् आराधनम् ईहते चेष्टते । लभते च ततः
तस्याः आराधितायाः देवतातन्वाः कामान् ईप्सितान् मयैव
परमेश्वरेण सर्वज्ञेन कर्मफलविभागज्ञतया विहितान् निर्मि-
तान् तान्, हि यस्मात् ते भगवता विहिताः कामाः तस्मात्
तान् अवश्यं लभते इत्यर्थ: । 'हितान्' इति पदच्छेदे
हितत्वं कामानामुपचरितं कल्प्यम्; न हि कामा हिताः
कखचित् ॥
यस्मात् अन्तवत्साधनव्यापारा अविवेकिनः कामिनश्च
ते, अत:-
-</p>
<lg>
  <l>अन्तवत्तु फलं तेषां</l>
  <l>तद्भवत्यल्पमेधसाम् ।</l>
  <l>देवान्देवयजो यान्ति</l>
  <l>मद्भक्ता यान्ति मामपि ॥ २३ ॥</l>
</lg>
<p>अन्तवत् विनाशि तु फलं तेषां तत् भवति अल्पमेधसां
अल्पप्रज्ञानाम् । देवान्देवयजो यान्ति देवान् यजन्त इति
देवयजः, ते देवान् यान्ति, मद्भक्ता यान्ति मामपि । एवं
समाने अपि आयासे मामेव न प्रपद्यन्ते अनन्तफलाय,
अहो खलु कष्टं वर्तन्ते, इत्यनुक्रोशं दर्शयति भगवान् ॥
S. B. 15</p>
<pb n="282" />
<p>श्रीमद्भगवद्गीताभाष्ये
किंनिमित्तं मामेव न प्रपद्यन्ते इत्युच्यते-</p>
<lg>
  <l>अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।</l>
  <l>परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४ ॥</l>
</lg>
<p>अव्यक्तम् अप्रकाशं व्यक्तिम् आपन्नं प्रकाशं गतम्
इदानीं मन्यन्ते मां नित्यप्रसिद्धमीश्वरमपि सन्तम् अबुद्धयः-
अविवेकिनः परं भावं परमात्मखरूपम् अजानन्तः अविवे-
किनः मम अव्ययं व्ययरहितम् अनुत्तमं निरतिशयं मदीयं
भावमजानन्तः मन्यन्ते इत्यर्थः ॥
तदज्ञानं किंनिमित्तमित्युच्यते--</p>
<lg>
  <l>नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।</l>
  <l>मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥</l>
</lg>
<p>न अहं प्रकाशः सर्वस्य लोकल, केषांचिदेव मद्भक्तानां
प्रकाशः अहमित्यभिप्रायः । योगमायासमावृतः योग: गुणानां
युक्तिः घटनं सैव माया योगमाया, तया योगमायया समा-
वृत:, संछन्नः इत्यर्थः । अत एव मूढो लोकः अयं न अभि-
जानाति माम् अजम् अव्ययम् ॥
यया योगमायया समावृतं मां लोकः नाभिजानाति,</p>
<pb n="283" />
<p>सप्तमोऽध्यायः । --</p>
<p>नासौ योगमाया' मदीया सती मम ईश्वरस्य मायाविनो ज्ञानं
प्रतिबध्नाति यथा अन्यस्यापि मायाविनः मायाज्ञानं तद्वत् ॥
यतः एवम्, अतः -</p>
<lg>
  <l>वेदाहं समतीतानि वर्तमानानि चार्जुन ।</l>
  <l>भविष्याणि च भूतानि मां तु वेद न कश्चन ॥</l>
</lg>
<lg>
  <l>अहं तु वेद जाने समतीतानि समतिक्रान्तानि भूतानि,</l>
  <l>वर्तमानानि च अर्जुन, भविष्याणि च भूतानि वेद अहम् ।</l>
  <l>तु वेद न कश्चन मद्भक्तं मच्छरणम् एकं मुक्त्वा ; मत्त-</l>
  <l>त्त्ववेदनाभावादेव न माँ भजते ॥</l>
</lg>
<p>मां
केन पुनः मत्तत्त्ववेदनप्रतिबन्धेन प्रतिबद्धानि सन्ति
जायमानानि सर्वभूतानि मां न विदन्ति इत्यपेक्षायामि-
दमाह–</p>
<lg>
  <l>इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।</l>
  <l>सर्वभूतानि संमोहं सर्गे यान्ति परंतप ॥ २७ ॥</l>
</lg>
<p>इच्छाद्वेषसमुत्थेन इच्छा च द्वेषश्च इच्छाद्वेषौ ताभ्यां
समुत्तिष्ठतीति इच्छाद्वेषसमुत्थः तेन इच्छाद्वेषसमुत्थेन । केनेति
विशेषापेक्षायामिदमाह — द्वन्द्वमोहेन द्वन्द्वनिमित्तः मोह:
द्वन्द्वमोहः तेन । तावेव इच्छाद्वेषौ शीतोष्णवत् परस्परविरुद्धौ</p>
<pb n="284" />
<p>श्रीमद्भगवद्गीताभाष्ये
सुखदुःखतद्धेतुविषयौ यथाकालं सर्वभूतैः संबध्यमानौ द्वन्द्व-
शब्देन अभिधीयेते । तत्त्र यदा इच्छाद्वेषौ सुखदुःखतद्धेतुसं-
प्राया लब्धात्मकौ भवतः, तदा तौ सर्वभूतानां प्रज्ञायाः
स्ववशापादनद्वारेण परमार्थात्मतत्त्वविषयज्ञानोत्पत्तिप्रतिबन्ध-
कारणं मोहं जनयतः । न हि इच्छाद्वेषदोषवशीकृतचित्तस्य
यथाभूतार्थविषयज्ञानमुत्पद्यते बहिरंपि; किमु वक्तव्यं
ताभ्यामाविष्टबुद्धेः संमूढस्य प्रत्यगात्मनि बहुप्रतिबन्धे ज्ञानं
नोत्पद्यत इति । अतः तेन इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन,
भारत भरतान्वयज, सर्वभूतानि संमोहितानि सन्ति संमोह
संमूढतां सर्गे जन्मनि, उत्पत्तिकाले इत्येतत्, यान्ति
गच्छन्ति हे परंतप । मोहवशान्येव सर्वभूतानि जायमा -
नानि जायन्ते इत्यभिप्रायः । यतः एवम्, अतः तेन द्वन्द्व-
मोहेन प्रतिबद्धप्रज्ञानानि सर्वभूतानि संमोहितानि मामात्म-
भूतं न जानन्ति ; अत एव आत्मभावेन मां न भजन्ते ॥
के पुनः अनेन द्वन्द्वमोहेन निर्मुक्ताः सन्तः त्वां विदि-
त्वा यथाशास्त्रमात्मभावेन भजन्ते इत्यपेक्षितमर्थ दर्शयितुम्
उच्यते—
येषां त्वन्तगतं पापं
जनानां पुण्यकर्मणाम् ।</p>
<pb n="285" />
<p>सप्तमोऽध्यायः ।</p>
<p>ते द्वन्द्वमोहनिर्मुक्ता
भजन्ते मां दृढव्रताः ॥ २८ ॥
येषां तु पुनः अन्तगतं समाप्तप्रायं क्षीणं पापं जनानां
पुण्यकर्मणां पुण्यं कर्म येषां सत्त्वशुद्धिकारणं विद्यते ते पुण्य-</p>
<lg>
  <l>कर्माणः तेषां पुण्यकर्मणाम्, ते द्वन्द्वमोहनिर्मुक्ताः यथोक्तेन</l>
  <l>द्वन्द्वमोहेन निर्मुक्ताः भजन्ते मां परमात्मानं दृढव्रताः ।</l>
  <l>'एवमेव परमार्थतत्त्वं नान्यथा' इत्येवं सर्वपरित्यागत्रतेन</l>
  <l>निश्चितविज्ञानाः दृढव्रताः उच्यन्ते ॥</l>
</lg>
<p>ते किमर्थं भजन्ते इत्युच्यते-</p>
<lg>
  <l>जरामरणमोक्षाय</l>
  <l>मामाश्रित्य यतन्ति ये ।</l>
  <l>ते ब्रह्म तद्विदुः कृत्स्न-</l>
  <l>मध्यात्मं कर्म चाखिलम् ॥ २९ ॥</l>
</lg>
<p>जरामरणमोक्षाय जरामरणयोः मोक्षार्थं मां परमेश्वरम्
आश्रित्य मत्समाहितचित्ताः सन्तः यतन्ति प्रयतन्ते ये, ते यत्
ब्रह्म परं तत् विदुः कृत्स्नं समस्तम् अध्यात्मं प्रत्यगात्मविषयं -
वस्तु तत् विदुः, कर्म च अखिलं समस्तं विदुः ॥</p>
<pb n="286" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।</l>
  <l>प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥</l>
</lg>
<p>इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम
सप्तमोऽध्यायः ॥
साधिभूताधिदैवम् अधिभूतं च अधिदैवं च अधिभूताधि-
दैवम्, सह अधिभूताधिदैवेन वर्तते इति साधिभूताधिदैवं च
मां ये विदुः साधियज्ञं च सह अधियज्ञेन साधियज्ञं ये वि-
दुः,
प्रयाणकाले मरणकाले अपि च मां ते विदुः युक्तचेतसः
समाहितचित्ता इति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
सप्तमोऽध्यायः ॥</p>
<pb n="287" />
<p>श्रीमच्छंकरभगवत्पादविरचितम्
श्रीमद्भगवद्गीताभाष्यम्
अष्टमोऽध्यायः</p>
<pb n="288" />
<pb n="289" />
<p>ते
अष्टमोऽध्यायः ॥
ब्रह्म तद्विदुः कृत्स्नम्' इत्यादिना भगवता
अर्जुनस्य प्रश्नबीजानि उपदिष्टानि । अतः
तत्प्रश्नार्थम् अर्जुनः उवाच-
अर्जुन उवाच-</p>
<lg>
  <l>किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।</l>
  <l>अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥</l>
</lg>
<lg>
  <l>अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।</l>
  <l>प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥</l>
</lg>
<p>एषां प्रश्नानां यथाक्रमं निर्णयाय श्रीभगवानुवाच -
श्रीभगवानुवाच-</p>
<lg>
  <l>अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।</l>
  <l>भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ३ ॥</l>
</lg>
<pb n="290" />
<p>श्रीमद्भगवद्गीताभाष्ये
अक्षरं न क्षरतीति अक्षरं परमात्मा, ' एतस्य वा अक्षरस्य
प्रशासने गार्गि' इति श्रुतेः । ओंकारस्य च ' ओमित्येकाक्षरं
ब्रह्म' इति परेण विशेषणात् अग्रहणम् । परमम् इति च
निरतिशये ब्रह्मणि अक्षरे उपपन्नंतरम् विशेषणम् । तस्यैव
परस्य ब्रह्मण: प्रतिदेहं प्रत्यगात्मभाव: स्वभाव:, स्वो भावः
स्वभावः अध्यात्मम् उच्यते । आत्मानं देहम् अधिकृत्य प्रत्यगा-
त्मतया प्रवृत्तं परमार्थब्रह्मावसानं वस्तु स्वभावः अध्यात्मम् उ-
च्यते अध्यात्मशब्देन अभिधीयते । भूतभावोद्भवकरः भूतानां
भावः भूतभावः तस्य उद्भवः भूतभावोद्भवः तं करोतीति भूत-
भावोद्भवकरः, भूतवस्तूत्पत्तिकर इत्यर्थः । विसर्गः विसर्जनं
देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य परित्यागः ; स एष
'विसर्गलक्षणो यज्ञः कर्मसंज्ञितः कर्मशब्दित इत्येतत् । एत-
स्मात् हि बीजभूतात् वृष्टयादिक्रमेण स्थावरजङ्गमानि भूतानि
उद्भवन्ति ॥</p>
<lg>
  <l>अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।</l>
  <l>अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥</l>
</lg>
<p>अधिभूतं प्राणिजातम् अधिकृत्य भवतीति । कोऽसौ ?
क्षरः क्षरतीति क्षर: विनाशी, भावः यत्किचित् जनिमत्
वस्तु इत्यर्थः । पुरुष: पूर्णम् अनेन सर्वमिति, पुरि शयनात्</p>
<pb n="291" />
<p>T
अष्टमोऽध्यायः ।</p>
<p>वा, पुरुष: आदित्यान्तर्गतो हिरण्यगर्भः, सर्वप्राणिकरणानाम्
अनुग्राहकः, सः अधिदैवतम् । अधियज्ञः सर्वयज्ञाभिमानिनी
विष्ण्वाख्या देवता, 'यज्ञो वै विष्णुः' इति श्रुतेः । स हि
विष्णुः अहमेव ; अत्र अस्मिन् देहे यो यज्ञः तस्य अहम्
अधियज्ञ: ; यज्ञो हि देह निर्वर्त्यत्वेन देहसमवायी इति देहा-
धिकरणो भवति, देहभृतां वर ॥</p>
<lg>
  <l>अन्तकाले च मामेव स्मरन्मुक्त्वा कलेबरम् ।</l>
  <l>यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥</l>
</lg>
<p>अन्तकाले मरणकाले च मामेव परमेश्वरं विष्णुं स्मरन्
मुक्त्वा परित्यज्य कलेबरं शरीरं यः प्रयाति गच्छति, सः
मद्भावं वैष्णवं तत्त्वं याति । नास्ति न विद्यते अत्र अस्मिन्
अर्थे संशय:- याति वा न वा इति ॥
न मद्विषय एव अयं नियमः । किं तर्हि ? -</p>
<lg>
  <l>यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् ।</l>
  <l>तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥६॥</l>
</lg>
<p>यं यं वापि यं यं भावं देवताविशेषं स्मरन् चिन्तयन्
.
त्यजति परित्यजति अन्ते अन्तकाले प्राणवियोगकाले कलेबरं</p>
<pb n="292" />
<p>श्रीमद्भगवद्गीताभाष्ये
शरीरं तं तमेव स्मृतं भावमेव एति नान्यं कौन्तेय, सदा
सर्वदा तद्भावभावितः तस्मिन् भावः तद्भावः स भावितः
स्मर्यमाणतया अभ्यस्तः येन सः तद्भावभावितः सन् ॥
यस्मात् एवम् अन्त्या भावना देहान्तरप्राप्तौ कारणम्-</p>
<lg>
  <l>तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।</l>
  <l>मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ७ ॥</l>
</lg>
<p>तस्मात् सर्वेषु कालेषु माम् अनुस्मर यथाशास्त्रम् ।
युध्य च युद्धं च स्वधर्मे कुरु । मयि वासुदेवे अर्पिते मनो-
बुद्धी यस्य तव स त्वं मयि अर्पितमनोबुद्धिः सन् मामेव
यथास्मृतम् एष्यसि आगमिष्यसि ; असंशयः न संशयः अत्र
विद्यते ॥
किंच—</p>
<lg>
  <l>अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।</l>
  <l>परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥८॥</l>
</lg>
<p>अभ्यासयोगयुक्तेन मयि चित्तसमर्पणविषयभूते एक- .
स्मिन् तुल्यप्रत्ययावृत्तिलक्षणः विलक्षणप्रत्ययानन्तरित: अ-
भ्यासः स चाभ्यासो योगः तेन युक्तं तत्रैव व्यापृतं
योगिनः 'चेतः तेन, चेतसा नान्यगामिना न अन्यत्र विष-</p>
<pb n="293" />
<p>अष्टमोऽध्यायः ।</p>
<p>यान्तरे गन्तुं शीलम् अस्येति नान्यगामि तेन नान्यगा-
मिना, परमं निरतिशयं पुरुषं दिव्यं दिवि सूर्यमण्डले
भवं याति गच्छति हे पार्थ अनुचिन्तयन् शास्त्राचार्योप-
देशम् अनुध्यायन् इत्येतत् ॥
i
किंविशिष्टं च पुरुषं याति इति उच्यते-</p>
<lg>
  <l>कविं पुराणमनुशासितार-</l>
  <l>मणोरणीयांसमनुस्मरेद्यः ।</l>
  <l>सर्वस्य धातारमचिन्त्यरूप-</l>
  <l>मादित्यवर्णं तमसः परस्तात् ॥ ९ ॥</l>
</lg>
<p>कविं क्रान्तदर्शिनं सर्वज्ञं पुराणं चिरन्तनम् अनुशासि-
तारं सर्वस्य जगतः प्रशासितारम् अणोः सूक्ष्मादपि अणीयांसं
सूक्ष्मतरम् अनुस्मरेत् अनुचिन्तयेत् य: कश्चित्, सर्वस्य कर्म-
फलजातस्य धातारं विधातारं विचित्रतया प्राणिभ्यो विभ-
क्तारम्, अचिन्त्यरूपं न अस्य रूपं नियतं विद्यमानमपि केन-
चित् चिन्तयितुं शक्यते इति अचिन्त्यरूपः तम्, आदित्य-
वर्णम् आदित्यस्येव नित्यचैतन्यप्रकाशो वर्णो यस्य तम्
आदित्यवर्णम्, तमसः परस्तात् अज्ञानलक्षणात् मोहान्ध-
कारात् परं तम् अनुचिन्तयन् याति इति पूर्वेण संबन्धः ॥</p>
<pb n="294" />
<p>किंच-
श्रीमद्भगवद्गीताभाप्ये</p>
<lg>
  <l>प्रयाणकाले मनसाचलेन</l>
  <l>भक्त्या युक्तो योगबलेन चैव ।</l>
  <l>भ्रुवोर्मध्ये प्राणमावेश्य सम्य-</l>
  <l>क्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥</l>
</lg>
<p>प्रयाणकाले मरणकाले मनसा अचलेन चलनवर्जितेन
भक्त्या युक्त: भजनं भक्तिः तया युक्त: : योगबलेन चैव
योगस्य बलं योगबलं समाधिजसंस्कारप्रचयजनितचित्तस्थै-
र्यलक्षणं योगबलं तेन च युक्तः इत्यर्थः, पूर्व हृदयपुण्ड-
रीके वशीकृत्य चित्तं ततः ऊर्ध्वगामिन्या नाड्या भूमिजय-
क्रमेण भ्रुवोः मध्ये प्राणम् आवेश्य स्थापयित्वा सम्यक्
अप्रमत्तः सन्, सः एवं विद्वान् योगी 'कविं पुराणम्'
इत्यादिलक्षणं तं परं परतरं पुरुषम् उपैति प्रतिपद्यते दिव्यं
द्योतनात्मकम् ॥
पुनरपि वक्ष्यमाणेन उपायेन प्रतिपित्सितस्य ब्रह्मणो वेद-
विद्वदनादिविशेषणविशेष्यस्य अभिधानं करोति भगवान् --
यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः ।
.</p>
<pb n="295" />
<p>अष्टमोऽध्यायः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ ११ ॥</p>
<p>यत् अक्षरं न क्षरतीति अक्षरम् अविनाशि वेदविदः
वेदार्थज्ञाः वदन्ति, 'तद्वा एतदक्षरं गार्गि ब्राह्मणा अभिवद-
न्ति' इति श्रुतेः, सर्वविशेषनिवर्तकत्वेन अभिवदन्ति 'अ-
स्थूलमनणु' इत्यादि । किंच - विशन्ति प्रविशन्ति सम्य-
ग्दर्शनप्राप्तौ सत्यां यत् यतयः यतनशीलाः संन्यासिनः
वीतरागाः वीतः विगतः रागः येभ्यः ते वीतरागाः । यश्च अक्षर-
मिच्छन्तः — ज्ञातुम् इति वाक्यशेष:- ब्रह्मचर्य गुरौ
चरन्ति आचरन्ति, तत् ते पदं तत् अक्षराख्यं पदं पदनीयं
ते तव संग्रहेण संग्रह: संक्षेपः तेन संक्षेपेण प्रवक्ष्ये
कथयिष्यामि ॥
' स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोंकारमभि-
ध्यायीत कतमं वाव स तेन लोकं जयतीति । तस्मै स
होवाच एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः '
इत्युपक्रम्य 'यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुष-
मभिध्यायीत—स सामभिरुन्नीयते ब्रह्मलोकम्' इत्यादिना
वचनेन, 'अन्यत्र धर्मादन्यत्राधर्मात्' इति च उपक्रम्य
'सर्वे वेदा यत्पदमामनन्ति । तपांसि सर्वाणि च यद्वदन्ति ।</p>
<pb n="296" />
<p>•
श्रीमद्भगवद्गीताभाष्ये
यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पदं संग्रहेण ब्रवीम्यो-
मित्येतत्' इत्यादिभिश्च वचनैः परस्य ब्रह्मणो वाचकरूपेण,
प्रतिमावत् प्रतीकरूपेण वा परब्रह्मप्रतिपत्तिसाधनत्वेन मन्द-
मध्यमबुद्धीनां विवक्षितस्य ओंकारस्य उपासनं कालान्तरे
मुक्तिफलम् उक्तं यत्, तदेव इहापि 'कविं पुराणमनुशासि
तारम् ' ' यदक्षरं वेदविदो वदन्ति' इति च उपन्यस्तस्य परख
ब्रह्मणः पूर्वोक्तरूपेण प्रतिपत्त्युपायभूतस्य ओंकारस्य काला-
न्तरमुक्तिफलम् उपासनं योगधारणासहितं वक्तव्यम्, प्रस-
क्तानुप्रसक्तं च यत्किंचित्, इत्येवमर्थः उत्तरो ग्रन्थ आ-
रभ्यते—
सर्वद्वाराणि संयम्य</p>
<lg>
  <l>.</l>
  <l>मनो हृदि निरुध्य च ।</l>
  <l>मूर्ल्याधायात्मनः प्राण-</l>
  <l>मास्थितो योगधारणाम् ॥ १२ ॥</l>
</lg>
<p>सर्वद्वाराणि सर्वाणि च तानि द्वाराणि च सर्वद्वाराणि उप-
लब्धौ, तानि सर्वाणि संयम्य संयमनं कृत्वा मनः हृदि हृदय-
पुण्डरीके निरुध्य निरोधं कृत्वा निष्प्रचारमापाद्य, तत्र वशी-
कृतेन मनसा हृदयात् ऊर्ध्वगामिन्या नाड्या ऊर्ध्वमारुह्य</p>
<pb n="297" />
<p>अष्टमोऽध्यायः ।</p>
<p>मूर्ध्नि आधाय आत्मन: प्राणम् आस्थितः प्रवृत्तः योगधारणां
धारयितुम् ॥
तत्रैव च धारयन् --</p>
<lg>
  <l>ओमित्येकाक्षरं ब्रह्म</l>
  <l>व्याहरन्मामनुस्मरन् ।</l>
  <l>यः प्रयाति त्यजन्देहं</l>
  <l>स याति परमां गतिम् ॥ १३ ॥</l>
</lg>
<p>ओमिति एकाक्षरं ब्रह्म ब्रह्मणः अभिधानभूतम् ओंकारं
व्याहरन् उच्चारयन्, तदर्थभूतं माम् ईश्वरम् अनुस्मरन्
अनुचिन्तयन् यः प्रयाति म्रियते सः त्यजन् परित्यजन्
देहं शरीरम् — 'त्यजन् देहम्' इति प्रयाणविशेषणार्थम्
देहत्यागेन प्रयाणम् आत्मनः, न स्वरूपनाशेनेत्यर्थः सः
एवं याति गच्छति परमां प्रकृष्टां गतिम् ॥
किंच</p>
<lg>
  <l>अनन्यचेताः सततं यो मां स्मरति नित्यशः ।</l>
  <l>तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥</l>
</lg>
<p>: अनन्यचेताः न अन्यविषये चेतः यस्य सोऽयम् अनन्य-
चेताः, योगी सततं सर्वदा यः मां परमेश्वरं स्मरति नित्यशः ।
S. B. 16</p>
<pb n="298" />
<p>श्रीमद्भगवद्गीताभाष्ये
सततम् इति नैरन्तर्यम् उच्यते, नित्यशः इति दीर्घकाल -
त्वम् उच्यते । न षण्मासं संवत्सरं वा; किं तर्हि ? यावज्जीवं
नैरन्तर्येण यः मां स्मरतीत्यर्थः । तस्य योगिनः अहं सुलभः
सुखेन लभ्यः हे पार्थ, नित्ययुक्तस्य सदा समाहितचित्तस्य
योगिनः । यतः एवम्, अत: अनन्यचेताः सन् मयि सदा
समाहितः भवेत् ॥
तव सौलभ्येन किं स्यात् इत्युच्यते; शृणु तत् मम
सौलभ्येन यत् भवति-
-</p>
<lg>
  <l>मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।</l>
  <l>नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥</l>
</lg>
<p>-
माम् उपेत्य माम् ईश्वरम् उपेत्य मद्भावमापद्य पुनर्जन्म
पुनरुत्पत्तिं नाप्नुवन्ति न प्राप्नुवन्ति । किंविशिष्टं पुनर्जन्म
न प्राप्नुवन्ति इति, तद्विशेषणमाह — दुःखालयं दुःखानाम्
आध्यात्मिकादीनां आलयम् आश्रयम् आलीयन्ते यस्मिन्
दुःखानि इति दुःखालयं जन्म । न केवलं दु:खालयम् ,
अशाश्वतम् अनवस्थितस्वरूपं च । नाप्नुवन्ति ईदृशं पुनर्जन्म
महात्मानः यतयः संसिद्धिं मोक्षाख्यां परमां प्रकृष्टां गताः
प्राप्ताः । ये पुनः मां न प्राप्नुवन्ति ते पुनः आवर्तन्ते ॥</p>
<pb n="299" />
<p>अष्टमोऽध्यायः ।</p>
<p>किं पुनः त्वत्तः अन्यत् प्राप्ताः पुनरावर्तन्ते इति,
उच्यते-</p>
<lg>
  <l>आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।</l>
  <l>मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥</l>
</lg>
<p>आ ब्रह्मभुवनात् भवन्ति अस्मिन् भूतानि इति भुवनम्,
ब्रह्मणो भुवनं ब्रह्मभुवनम्, ब्रह्मलोक इत्यर्थः, आ ब्रह्मभुव-
नात् सह ब्रह्मभुवनेन लोकाः सर्वे पुनरावर्तिनः पुनरावर्तनस्व-
भावा: हे अर्जुन । माम् एकम् उपेत्य तु कौन्तेय पुनर्जन्म
पुनरुत्पत्तिः न विद्यते ॥
ब्रह्मलोकसहिताः लोकाः कस्मात् पुनरावर्तिनः ? काल-
परिच्छिन्नत्वात् । कथम् ?</p>
<lg>
  <l>सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः ।</l>
  <l>रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥</l>
</lg>
<p>सहस्रयुगपर्यन्तं सहस्राणि युगानि पर्यन्तः पर्यवसानं यस्य
अह्नः तत् अहः सहस्रयुगपर्यन्तम्, ब्रह्मणः प्रजापतेः विराजः
विदुः, रात्रिम् अपि युगसहस्रान्तां अहः परिमाणामेव । के वि-</p>
<lg>
  <l>दुरित्याह — ते अहोरात्रविदः कालसंख्याविदो जनाः इत्यर्थः ।</l>
  <l>यतः एवं कालपरिच्छिन्नाः ते, अतः पुनरावर्तिनो लोकाः ॥</l>
</lg>
<pb n="300" />
<p>श्रीमद्भगवद्गीताभाष्ये
प्रजापतेः अहनि यत् भवति रात्रौ च तत् उच्यते-</p>
<lg>
  <l>अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।</l>
  <l>रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥</l>
</lg>
<p>अव्यक्तात् अव्यक्तं प्रजापतेः स्वापावस्था तस्मात्
अव्यक्तात् व्यक्तयः व्यज्यन्त इति व्यक्तयः स्थावरजङ्गम-
लक्षणाः सर्वाः प्रजाः प्रभवन्ति अभिव्यज्यन्ते, अह्नः
आगम: अहरागमः तस्मिन् अहरागमे काले ब्रह्मण: प्रबो-
धकाले । तथा रात्र्यागमे ब्रह्मणः स्वापकाले प्रलीयन्ते
सर्वाः व्यक्तयः तत्रैव पूर्वोक्ते अव्यक्तसंज्ञके ॥
अकृताभ्यागमकृतविप्रणाशदोषपरिहारार्थम्, बन्धमोक्ष-
शास्त्रप्रवृत्तिसाफल्यप्रदर्शनार्थम् अविद्यादिक्लेशमूलकर्माशयव-
शाश्च्च अवशः भूतग्रामः भूत्वा भूत्वा प्रलीयते इत्यतः संसारे
वैराग्यप्रदर्शनार्थे च इदमाह–</p>
<lg>
  <l>भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।</l>
  <l>रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ १९ ॥</l>
</lg>
<p>भूतग्राम: भूतसमुदाय: स्थावरजङ्गमलक्षणः यः पूर्व-
स्मिन् कल्पे आसीत् स एव अयं नान्यः । भूत्वा भूत्वा</p>
<pb n="301" />
<p>अष्टमोऽध्यायः ।</p>
<p>अहरागमे, प्रलीयते पुनः पुनः रात्र्यागमे अह्नः क्षये अवशः
अस्वतन्त्र एव, हे पार्थ, प्रभवति जायते अवश एव
अहरागमे ॥
यत् उपन्यस्तम् अक्षरम्, तस्य प्राप्त्युपायो निर्दिष्टः
'ओमित्येकाक्षरं ब्रह्म' इत्यादिना । अथ इदानीम् अक्षर-
स्यैव स्वरूपनिर्दिदिक्षयां इदम् उच्यते, अनेन योगमार्गेण
इदं गन्तव्यमिति —</p>
<lg>
  <l>परस्तस्मात्तु भावोऽन्यो-</l>
  <l>ऽव्यक्तोऽव्यक्तात्सनातनः ।</l>
  <l>यः स सर्वेषु भूतेषु</l>
  <l>नश्यत्सु न विनश्यति ॥ २० ॥</l>
</lg>
<p>परः व्यतिरिक्तः भिन्नः कुतः ? तस्मात् पूर्वोक्तात् ।
तु-शब्द: अक्षरस्य विवक्षितस्य अव्यक्तात् वैलक्षण्यविशेष-
. णार्थः । भावः अक्षराख्यं परं ब्रह्म । व्यतिरिक्तत्वे सत्यपि
सालक्षण्यप्रसङ्गोऽस्तीति तद्विनिवृत्यर्थम् आह— अन्यः
इंति । अन्यः विलक्षणः । स च अव्यक्तः अनिन्द्रियगोचरः ।
T
' परस्तस्मात्' इत्युक्तम् ; कस्मात् पुनः परः ? पूर्वोक्तात् भूत-
ग्रामबीजभूतात् अविद्यालक्षणात् अव्यक्तात् । अन्यः विल-</p>
<pb n="302" />
<p>श्रीमद्भगवद्गीताभाष्ये
क्षण: भावः इत्यभिप्रायः । सनातनः चिरन्तनः यः सः
भावः सर्वेषु भूतेषु ब्रह्मादिषु नश्यत्सु न विनश्यति ॥</p>
<lg>
  <l>अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।</l>
  <l>यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥</l>
</lg>
<p>योऽसौ अव्यक्तः अक्षरः इत्युक्तः, तमेव अक्षरसंज्ञकम्
अव्यक्तं भावम् आहुः परमां प्रकृष्टां गतिम् । यं परं भावं
प्राप्य गत्वा न निवर्तन्ते संसाराय, तत् धाम स्थानं परमं
प्रकृष्टं मम, विष्णोः परमं पदमित्यर्थः ॥
तल्लब्धेः उपायः उच्यते-</p>
<lg>
  <l>पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।</l>
  <l>यस्यान्तःस्थानि भूतानि येन सर्वसिदं ततम् ॥</l>
</lg>
<p>- पुरुष: पुरि शयनात् पूर्णत्वाद्वा, स परः पार्थ, परः नि-
रतिशयः, यस्मात् पुरुषात् न परं किंचित् । सः भक्त्या
लभ्यस्तु ज्ञानलक्षणया अनन्यया आत्मविषयया । यस्य पुरु-
षस्यः अन्तःस्थानि मध्यस्थानि भूतानि कार्यभूतानि ; कार्य
हि कारणस्य अन्तर्वर्ति भवति । येन पुरुषेण सर्वे इदं जगत्
ततं व्याप्तम् आकाशेनेव घटादि ॥</p>
<pb n="303" />
<p>अष्टमोऽध्यायः ।</p>
<p>प्रकृतानां योगिनां प्रणवावेशितब्रह्मबुद्धीनां कालान्तरमु-
क्तिभाजां ब्रह्मप्रतिपत्तये उत्तरो मार्गो वक्तव्य इति 'यत्र
काले' इत्यादि विवक्षितार्थसमर्पणार्थम् उच्यते, आवृत्तिमा-
र्गोपन्यासः इतरमार्गस्तुत्यर्थ:-
-
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ।
यत्र काले प्रयाताः इति व्यवहितेन संबन्धः । यत्र य-
स्मिन् काले तु अनावृत्तिम् अपुनर्जन्म आवृत्तिं तद्विपरीतां
चैव । योगिनः इति योगिनः कर्मिणश्च उच्यन्ते, कर्मिण-
स्तु गुणतः — ' कर्मयोगेन योगिनाम्' इति विशेषणात् —
योगिनः । यत्र काले प्रयाताः मृताः योगिनः अनावृत्ति
यान्ति, यत्र काले च प्रयाताः आवृत्तिं यान्ति, तं कालं
वक्ष्यामि भरतर्षभ ॥
तं कालमाह-</p>
<lg>
  <l>अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।</l>
  <l>तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥</l>
</lg>
<p>अग्निः कालाभिमानिनी देवता । तथा ज्योतिरपि
देवतैव कालाभिमानिनी । अथवा, अग्निज्योतिषी यथा-</p>
<pb n="304" />
<p>श्रीमद्भगवद्गीताभाष्ये
श्रुते एव देवते । भूयसा तु निर्देशो 'यत्र काले ' ' तं कालम् '
इति आम्रवणवत् । तथा अहः देवता अहरभिमानिनी;
शुकः शुक्लपक्षदेवता ; षण्मासा उत्तरायणम्, तत्रापि देवतैव
मार्गभूता इति स्थितः अन्यत्र अयं न्याय: । तत्र तस्मिन्
मार्गे प्रयाताः मृताः गच्छन्ति ब्रह्म ब्रह्मविदो ब्रह्मोपासका:
ब्रह्मोपासनपरा जना: । ' क्रमेण' इति वाक्यशेषः । न हि
सद्योमुक्तिभाजां सम्यग्दर्शननिष्ठानां गतिः आगतिर्वा कचित्
'अस्ति, 'न तस्य प्राणा उत्क्रामन्ति' इति श्रुतेः । ब्रह्मसंली-
नत्राणा एव ते ब्रह्ममया ब्रह्मभूता एव ते ।</p>
<lg>
  <l>धूमो रात्रिस्तथा कृष्णः</l>
  <l>षण्मासा दक्षिणायनम् ।</l>
  <l>तत्र चान्द्रमसं ज्योति-</l>
  <l>योगी प्राप्य निवर्तते ॥ २५ ॥</l>
</lg>
<p>धूमो रात्रिः धूमाभिमानिनी राज्यभिमानिनी च देवता ।
तथा कृष्णः कृष्णपक्षदेवता । षण्मासा दक्षिणायनम् इति च
पूर्ववत् देवतैव । तत्र चन्द्रमसि भवं चान्द्रमसं ज्योतिः फलम्
इष्टादिकारी योगी कर्मी प्राप्य भुक्त्वा तत्क्षयात् इह पुनः
निवर्तते ॥</p>
<pb n="305" />
<p>अष्टमोऽध्यायः ।</p>
<note>२.४९</note>
<lg>
  <l>शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।</l>
  <l>एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ २६ ॥</l>
</lg>
<p>शुक्लकृष्णे शुक्ला च कृष्णा च शुक्लकृष्णे, ज्ञानप्रकाशकत्वात्
शुक्ला, तदभावात् कृष्णा ; एते शुकुकृष्णे हि गती जगत:
इति अधिकृतानां ज्ञानकर्मणोः, न जगतः सर्वस्यैव एते
गती संभवत: ; शाश्वते नित्ये, संसारस्य नित्यत्वात्, मते
अभिप्रेते । तत्र एकया शुक्लया याति अनावृत्तिम्, अन्यया</p>
<lg>
  <l>इतरया आवर्तते पुनः भूयः ॥</l>
  <l>नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।</l>
  <l>:</l>
  <l>तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥२७॥</l>
</lg>
<p>न एते यथोक्ते सृती मार्गों पार्थ जानन् संसाराय एका,</p>
<lg>
  <l>अन्या मोक्षाय इति, योगी न मुह्यति कश्चन कश्चिदपि ।</l>
  <l>तस्मात् सर्वेषु कालेषु योगयुक्तः समाहितो भव अर्जुन ॥</l>
</lg>
<p>शृणु तस्य योगस्य माहात्म्यम् —
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम् ।</p>
<pb n="306" />
<p>श्रीमद्भगवद्गीताभाष्ये
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥
इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे तारकब्रह्मयोगो नाम
अष्टमोऽध्यायः ॥
वेदेषु सम्यगधीतेषु यज्ञेषु च साद्गुण्येन अनुष्ठितेषु तपःसु
च सुतप्तेषु दानेषु च सम्यग्दत्तेषु, एतेषु यत् पुण्यफलं प्रदिष्टं
शास्त्रेण, अत्येति अतीत्य गच्छति तत् सर्व फलजातम् ; इदं
विदित्वा सप्तप्रश्ननिर्णयद्वारेण उक्तम् अर्थ सम्यक् अवधार्य
अनुष्ठाय योगी, परम् उत्कृष्टम् ऐश्वरं स्थानम् उपैति च
प्रतिपद्यते आद्यम् आदौ भवम्, कारणं ब्रह्म इत्यर्थः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
अष्टमोऽध्यायः ॥</p>
<pb n="307" />
<p>श्रीमच्छंकरभगवत्पादविरचितम्
श्रीमद्भगवद्गीताभाष्यम्
नवमोऽध्यायः</p>
<pb n="308" />
<pb n="309" />
<p>नवमोऽध्यायः ॥
अष्टमे नाडीद्वारेण धारणायोगः सगुणः
उक्त: । तस्य च फलम् अग्न्यर्चिरादि-
क्रमेण कालान्तरे ब्रह्मप्राप्तिलक्षणमेव
अनावृत्तिरूपं निर्दिष्टम् । तत्र 'अनेनै-
व प्रकारेण मोक्षप्राप्तिफलम् अधिग-
म्यते, न अन्यथा' इति तदाशङ्काव्या-
विवर्तयिषया श्रीभगवान् उवाच-
श्रीभगवानुवाच-</p>
<lg>
  <l>इदं तु ते गुह्यतमं</l>
  <l>प्रवक्ष्याम्यनसूयवे ।</l>
  <l>ज्ञानं विज्ञानसहितं</l>
  <l>यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १ ॥</l>
</lg>
<p>इदं ब्रह्मज्ञानं वक्ष्यमाणम् उक्तं च पूर्वेषु अध्यायेषु,
तत् बुद्धौ संनिधीकृत्य इदम् इत्याह । तु-शब्दो विशेषनि-</p>
<pb n="310" />
<p>श्रीमद्भगवद्गीताभाष्ये
र्धारणार्थः । इदमेव तु सम्यग्ज्ञानं साक्षात् मोक्षप्राप्तिसाध-
नम् ' वासुदेवः सर्वमिति' 'आत्मैवेदं सर्वम्' 'एकमेवाद्वि-
तीयम्' इत्यादिश्रुतिस्मृतिभ्यः ; नान्यत्, 'अथ ते येऽन्य-
थातो विदुः अन्यराजानः ते क्षय्यलोका भवन्ति' इत्यादि-
श्रुतिभ्यश्च । ते तुभ्यं गुह्यतमं गोप्यतमं प्रवक्ष्यामि कथयि-
ष्यामि अनसूयवे असूयारहिताय । किं तत् ? ज्ञानम् । किं-
विशिष्टम् ? विज्ञानसहितम् अनुभवयुक्तम्, यत् ज्ञात्वा प्राप्य
मोक्ष्यसे अशुभात् संसारबन्धनात् ॥
तच्च-</p>
<lg>
  <l>राजविद्याराजगुह्यं पवित्रमिदमुत्तमम् ।</l>
  <l>प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥</l>
</lg>
<p>राजविद्या विद्यानां राजा, दीप्त्यतिशयवत्त्वात्; दीप्यते
हि इयम् अतिशयेन ब्रह्मविद्या सर्वविद्यानाम् । तथा राज-
गुह्यं गुह्यानां राजा । पवित्रं पावनं इदम् उत्तमं सर्वेषां पावना-
नां शुद्धिकारणं ब्रह्मज्ञानम् उत्कृष्टतमम् । अनेकजन्मसहस्रसं-
चितमपि धर्माधर्मादि समूलं कर्म क्षणमात्रादेव भस्मीकरोति
इत्यतः किं तस्य पावनत्वं वक्तव्यम् । किंच — प्रत्यक्षावगमं
प्रत्यक्षेण सुखादेरिव अवगमो यस्य तत् प्रत्यक्षावगमम् ।
अनेकगुणवतोऽपि धर्मविरुद्धत्वं दृष्टम्, न तथा आत्मज्ञानं धर्म-</p>
<pb n="311" />
<p>नवमोऽध्यायः ।</p>
<p>विरोधि, किंतु धर्म्य धर्मादनपेतम् । एवमपि, स्याद्दुःखसंपाद्य-
मित्यत आह— सुसुखं कर्तुम्, यथा रत्नविवेकविज्ञानम् ।
तत्र अल्पायासानामन्येषां कर्मणां सुखसंपाद्यानाम् अल्पफ-
लत्वं दुष्कराणां च महाफलत्वं दृष्टमिति, इदं तु सुखसंपा-
द्यत्वात् फलक्षयात् व्येति इति प्राप्ते, आह— अव्ययम्
इति । न अस्य फलत: कर्मवत् व्ययः अस्तीति अव्ययम् ।
अतः श्रद्धेयम् आत्मज्ञानम् ॥
ये पुनः-
अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप ।</p>
<lg>
  <l>।</l>
  <l>अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥३॥</l>
</lg>
<p>अश्रद्दधानाः श्रद्धाविरहिता: आत्मज्ञानस्य धर्मस्य अस्य
स्वरूपे तत्फले च नास्तिकाः पापकारिणः, असुराणाम् उ-
पनिषदं देहमात्रात्मदर्शनमेव प्रतिपन्नाः असुतृपः पापा: पुरु-
षा: अश्रद्दधानाः, परंतप, अप्राप्य मां परमेश्वरम् मत्प्राप्तौ
नैव आशङ्का इति मत्प्राप्तिमार्गभेदभक्तिमात्रमपि अप्राप्य
इत्यर्थः । निवर्तन्ते निश्चयेन वर्तन्ते ; क ? —— मृत्युसंसार-
वर्त्मनि मृत्युयुक्तः संसारः मृत्युसंसारः तस्य वर्त्म नरक-
तिर्यगादिप्राप्तिमार्गः, तस्मिन्नेव वर्तन्ते इत्यर्थः ॥</p>
<pb n="312" />
<p>श्रीमद्भगवद्गीताभाष्ये
स्तुत्या अर्जुनमभिमुखीकृत्य आह—</p>
<lg>
  <l>मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।</l>
  <l>मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥</l>
</lg>
<p>मया मम यः परो भावः तेन ततं व्याप्तं सर्वम् इदं
जगत् अव्यक्तमूर्तिना न व्यक्ता मूर्तिः स्वरूपं यस्य मम
सोऽहमव्यक्तमूर्तिः तेन मया अव्यक्तमूर्तिना, करणागोचर-
स्वरूपेण इत्यर्थः । तस्मिन् मयि अव्यक्तमूर्ती स्थितानि
मत्स्थानि, सर्वभूतानि ब्रह्मादीनि स्तम्बपर्यन्तानि । न हि
निरात्मकं किंचित् भूतं व्यवहाराय अवकल्पते । अतः
मत्स्थानि मया आत्मना आत्मवत्त्वेन स्थितानि, अतः मयि
स्थितानि इति उच्यन्ते । तेषां भूतानाम् अहमेव आत्मा
इत्यतः तेषु स्थितः इति मूढबुद्धीनां अवभासते ; अतः
ब्रवीमि— न च अहं तेषु भूतेषु अवस्थितः, मूर्तवत् संश्ले-
षाभावेन आकाशस्यापि अन्तरतमो हि अहम् । न हि असं-
सर्गि वस्तु क्वचित् आधेयभावेन अवस्थितं भवति ॥
अत एव असंसर्गित्वात् मम --</p>
<lg>
  <l>न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।</l>
  <l>भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ५ ॥</l>
</lg>
<pb n="313" />
<p>नवमोऽध्यायः ।</p>
<p>न च मत्स्थानि भूतानि ब्रह्मादीनि । पश्य मे योगं युक्तिं
घटनं मे मम ऐश्वरम् ईश्वरस्य इमम् ऐश्वरम्, योगम् आत्मनो
याथात्म्यमित्यर्थः । तथा च श्रुतिः असंसर्गित्वात् असङ्गतां
दर्शयति – 'असङ्गो न हि सज्जते' इति । इदं च आश्व-
र्यम् अन्यत् पश्य — भूतभृत् असङ्गोऽपि सन् भूतानि
बिभर्ति ; न च भूतस्थ:, यथोक्तेन न्यायेन दर्शितत्वात् भूत-
स्थत्वानुपपत्तेः । कथं पुनरुच्यते ' असौ मम आत्मा' इति ?
विभज्य देहादिसङ्घातं तस्मिन् अहंकारम् अध्यारोप्य लोक-
बुद्धिम् अनुसरन् व्यपदिशति ' मम आत्मा' इति, न पुनः
आत्मन: आत्मा अन्यः इति लोकवत् अजानन् । तथा
भूतभावनः भूतानि भावयति उत्पादयति वर्धयतीतिं वा भूत-
भावनः ॥
यथोक्तेन श्लोकद्वयेन उक्तम् अर्थे दृष्टान्तेन उपपादयन्
आह—</p>
<lg>
  <l>यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।</l>
  <l>तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥</l>
</lg>
<p>यथा लोके आकाशस्थितः आकाशे स्थितः नित्यं सदा
वायुः सर्वत्र गच्छतीति सर्वत्रगः महान् परिमाणतः, तथा
S. B. 17</p>
<pb n="314" />
<p>श्रीमद्भगवद्गीताभाष्ये
आकाशवत् सर्वगते मयि असंश्लेषेणैव स्थितानि इत्येवम् उप-
धारय विजानीहि ॥
एवं वायुः आकाशे इव मयि स्थितानि सर्वभूतानि स्थि-
तिकाले ; तानि—
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ।
सर्वभूतानि कौन्तेय प्रकृतिं त्रिगुणात्मिकाम् अपरां
निकृष्टां यान्ति मामिकां मदीयां कल्पक्षये प्रलयकाले । पुनः
भूयः तानि भूतानि उत्पत्तिकाले कल्पादौ विसृजामि उत्पाद-
यामि अहं पूर्ववत् ॥
एवम् अविद्यालक्षणाम् —</p>
<lg>
  <l>प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।</l>
  <l>भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥</l>
</lg>
<p>प्रकृतिं स्वां स्वीयाम् अवष्टभ्य वशीकृत्य विसृजामि पुनः
पुनः प्रकृतितो जातं भूतग्रामं भूतसमुदायम् इमं वर्तमानं
कृत्स्नं समग्रम् अवशम् अस्वतन्त्रम्, अविद्यादिदोषैः परवशी-
प्रकृतेः वंशात् स्वभाववशात् ॥
कृतम्,</p>
<pb n="315" />
<p>नवमोऽध्यायः ।</p>
<p>तर्हि तस्य ते परमेश्वरस्य, भूतप्रामम् इमं विषमं विद-
धतः, तन्निमित्ताभ्यां धर्माधर्माभ्यां संबन्धः स्यादिति, इदम्
आह भगवान् —</p>
<lg>
  <l>न च मां तानि कर्माणि निबध्नन्ति धनंजय ।</l>
  <l>उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥</l>
</lg>
<p>न च माम् ईश्वरं तानि भूतग्रामस्य
विषमसर्गनिमित्तानि
कर्माणि निवनन्ति धनंजय । तत्र कर्मणां असंबन्धित्वे
कारणमाह— उदासीनवत् आसीनं यथा उदासीनः उपे-
क्षकः कश्चित् तद्वत् आसीनम्, आत्मनः अविक्रियत्वात्,
असक्तं फलासङ्गरहितम्, अभिमानवर्जितम् ' अहं करोमि '
इति तेषु कर्मसु । अतः अन्यस्यापि कर्तृत्वाभिमानाभावः
फलासङ्गाभावश्च असंबन्धकारणम्, अन्यथा कर्मभिः बध्यते
मूढः कोशकारवत् इत्यभिप्राय: ॥
तत्र ' भूतप्राममिमं विसृजामि' ' उदासीनवदासीनम् '
इति च विरुद्धम् उच्यते इति तत्परिहारार्थम् आह-
"</p>
<lg>
  <l>मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।</l>
  <l>हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥</l>
</lg>
<pb n="316" />
<p>श्रीमद्भगवद्गीताभाष्ये
मया अध्यक्षेण सर्वतो दृशिमात्रस्वरूपेण अविक्रियात्मना
अध्यक्षेण मया, मम माया त्रिगुणात्मिका अविद्यालक्षणा
प्रकृतिः सूयते उत्पादयति सचराचरं जगत् । तथा च मन्त्र-
वर्णः - ' एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूता-
न्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो
निर्गुणश्च' इति । हेतुना निमित्तेन अनेन अध्यक्षत्वेन कौन्तेय
जगत् सचराचरं व्यक्ताव्यक्तात्मकं विपरिवर्तते सर्वावस्थासु ।
दृशिकर्मत्वापत्तिनिमित्ता हि जगतः सर्वा प्रवृत्ति:
"
-
अहम्
इदं भोक्ष्ये, पश्यामि इदम् शृणोमि इदम् सुखमनुभवामि,
दुःखमनुभवामि, तदर्थमिदं करिष्ये, इदं ज्ञास्यामि,
इत्याद्या अवगतिनिष्ठा अवगत्यवसानैव । 'यो अस्याध्यक्षः
परमे व्योमन्' इत्यादयश्च मन्त्राः एतमर्थं दर्शयन्ति । ततश्च
एकस्य देवस्य सर्वाध्यक्षभूतचैतन्यमात्रस्य परमार्थतः सर्व-
भोगानभिसंबन्धिनः अन्यस्य चेतनान्तरस्य अभावे भोक्तुः
अन्यस्य अभावात् । किंनिमित्ता इयं सृष्टिः इत्यत्र प्रश्नप्र-
,तिवचने अनुपपन्ने, ' को अद्धा वेद क इह प्रवोचत् । कुत
आजाता कुत इयं विसृष्टि:' इत्यादिमन्त्रवर्णेभ्यः । दर्शितं
च भगवता - ' अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः '
इति ॥</p>
<pb n="317" />
<p>नवमोऽध्यायः ।</p>
<p>एवं मां नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वजन्तूनाम्
आत्मानमपि सन्तम्-</p>
<lg>
  <l>अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।</l>
  <l>परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥</l>
</lg>
<p>अवजानन्ति अवज्ञां परिभवं कुर्वन्ति मां मूढाः अविवे-
किनः मानुषीं मनुष्यसंबन्धिनीं तनुं देहम् आश्रितम्, मनु-
ध्यदेहेन व्यवहरन्तमित्येतत् परं प्रकृष्टं भावं परमात्मत-
त्वम् आकाशकल्पम् आकाशादपि अन्तरतमम् अजानन्तो</p>
<lg>
  <l>मम भूतमहेश्वरं सर्वभूतानां महान्तम् ईश्वरं स्वात्मानम् ।</l>
  <l>ततश्च तस्य मम अवज्ञानभावनेन आहताः ते वराकाः ॥</l>
</lg>
<p>कथम् ?
-
"</p>
<lg>
  <l>मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।</l>
  <l>राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥</l>
</lg>
<p>मोघाशाः वृथा आशाः आशिषः येषां ते मोघाशाः,
तथा मोघकर्माणः यानि च अग्निहोत्रादीनि तैः अनुष्ठीय-
मानानि कर्माणि तानि च तेषां भगवत्परिभवात्, स्वात्म-
भूतस्य अवज्ञानात्, मोघान्येव निष्फलानि कर्माणि भव-
न्तीति मोघकर्माणः । तथा मोघज्ञानाः मोघं निष्फलं ज्ञानं</p>
<pb n="318" />
<p>श्रीमद्भगवद्गीताभाष्ये
येषां ते मोघज्ञानाः, ज्ञानमपि तेषां निष्फलमेव स्यात् ।
विचेतसः विगतविवेकाश्च ते भवन्ति इत्यभिप्रायः ।
किंच— ते भवन्ति राक्षसीं रक्षसां प्रकृतिं स्वभावम्
आसुरीम् असुराणां च प्रकृतिं मोहिनीं मोहकरी देहात्मवा-
दिनीं श्रिताः आश्रिताः, छिन्द्धि, भिन्द्धि, पिब, खाद,
परस्वमपहर, इत्येवं वदनशीलाः क्रूरकर्माणो भवन्ति इत्यर्थः,
'असुर्या नाम ते लोका:' इति श्रुतेः ॥
ये पुनः
श्रद्दधानाः
प्रवृत्ता:-
भगवद्भक्तिलक्षणे मोक्षमार्गे</p>
<lg>
  <l>महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।</l>
  <l>भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥</l>
</lg>
<p>महात्मानस्तु अक्षुद्रचित्ताः माम् ईश्वरं पार्थ दैवीं देवानां
प्रकृतिं शमदमदयाश्रद्धादिलक्षणाम् आश्रिताः सन्तः भजन्ति
सेवन्ते अनन्यमनसः अनन्यचित्ताः ज्ञात्वा भूतादिं भूतानां
वियदादीनां प्राणिनां च आदि कारणम् अव्ययम् ॥
कथम् ?--</p>
<lg>
  <l>सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।</l>
  <l>नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥</l>
</lg>
<pb n="319" />
<p>नवमोऽध्यायः ।</p>
<p>सततं सर्वदा भगवन्तं ब्रह्मस्वरूपं मां कीर्तयन्तः, यतन्त-
श्च इन्द्रियोपसंहारशमदमदयाहिंसादिलक्षणैः धर्मैः प्रयतन्तश्च,
दृढव्रताः दृढं स्थिरम् अचाल्यं व्रतं येषां ते दृढव्रताः नम-
स्यन्तश्च मां हृदयेशयम् आत्मानं भक्त्या नित्ययुक्ताः सन्तः
उपासते सेवन्ते ॥
ते केन केन प्रकारेण उपासते इत्युच्यते--</p>
<lg>
  <l>ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।</l>
  <l>एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥१५॥</l>
</lg>
<p>I
ज्ञानयज्ञेन ज्ञानमेव भगवद्विषयं यज्ञः तेन ज्ञानयज्ञेन,
यजन्तः पूजयन्तः माम् ईश्वरं च अपि अन्ये अन्याम् उपास-
नां परित्यज्य उपासते । तच्च ज्ञानम् — एकत्वेन ' एकमेव परं
ब्रह्म' इति परमार्थदर्शनेन यजन्तः उपासते । केचिच पृथ-
क्त्वेन 'आदित्यचन्द्रादिभेदेन स एव भगवान् विष्णुः अव-
स्थित:' इति उपासते । केचित् 'बहुधा अवस्थितः स एव
भगवान् सर्वतोमुखः विश्वरूपः' इति तं विश्वरूपं सर्वतोमुखं
बहुधा बहुप्रकारेण उपासते ॥
यदि बहुभिः प्रकारैः उपासते, कथं त्वामेव उपासते इति,
अत आह—</p>
<pb n="320" />
<p>श्रीमद्भगवद्गीताभाष्ये</p>
<lg>
  <l>अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।</l>
  <l>मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥</l>
</lg>
<p>अहं क्रतुः श्रौतकर्मभेदः अहमेव । अहं यज्ञ: स्मार्तः ।
किंच स्वधा अन्नम् अहम्, पितृभ्यो यत् दीयते । अहम्
औषधं सर्वप्राणिभिः यत् अद्यते तत् औषधशब्दशब्दितं त्री-
हियवादिसाधारणम् । अथवा स्वधा इति सर्वप्राणिसाधा --
रणम् अन्नम्, औषधम् इति व्याध्युपशमनार्थं भेषजम् । मन्त्रः
अहम्, येन पितृभ्यो देवताभ्यश्च हविः दीयते । अहमेव
आज्यं हविश्च । अहम् अग्निः, यस्मिन् हूयते हविः सः अग्निः
अहम् । अहं हुतं हवनकर्म च ॥
किंच-</p>
<lg>
  <l>पिताहमस्य जगतो माता धाता पितामहः ।</l>
  <l>वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥ १७ ॥</l>
</lg>
<p>पिता जनयिता अहम् अस्य जगतः,
माता जनयित्री,
धाता कर्मफलस्य प्राणिभ्यो विधाता, पितामहः पितुः पिता,
वेद्यं वेदितव्यम्, पवित्रं पावनम् ओंकारः, ऋक् साम यजुः
एव च ॥</p>
<pb n="321" />
<p>नवमोऽध्यायः । :</p>
<p>किंच—
गतिर्भर्ता</p>
<lg>
  <l>प्रभुः साक्षी निवासः शरणं सुहृत् ।</l>
  <l>प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥</l>
</lg>
<p>गति: कर्मफलम्, भर्ता पोष्टा, प्रभुः स्वामी, साक्षी
प्राणिनां कृताकृतस्य, निवास: यस्मिन् प्राणिनो निवसन्ति,
शरणम् आर्तानाम्, प्रपन्नानामार्तिहरः । सुहृत् प्रत्युपका-
रानपेक्षः सन् उपकारी, प्रभवः उत्पत्तिः जगतः, प्रलयः
प्रलीयते अस्मिन् इति, तथा स्थानं तिष्ठति अस्मिन् इति,
निधानं निक्षेपः कालान्तरोपभोग्यं प्राणिनाम्, बीजं प्ररोहका-
रणं प्ररोहधर्मिणाम्, अव्ययं यावत्संसारभावित्वात् अव्ययम्,
न हि अबीजं किंचित् प्ररोहति ; नित्यं च प्ररोहदर्शनात्
बीजसंततिः न व्येति इति गम्यते ॥
किंच—</p>
<lg>
  <l>तपाम्यहमद्दं वर्षं निगृह्णाम्युत्सृजामि च ।</l>
  <l>अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥</l>
</lg>
<p>तपामि अहम् आदित्यो भूत्वा कैश्चित् रश्मिभिः
उल्बणैः । अहं वर्ष कैश्चित् रश्मिभिः उत्सृजामि । उत्सृज्य
पुनः निगृह्णामि कैश्चित् रश्मिभिः अष्टभिः मासैः पुनः उत्सृ-</p>
<pb n="322" />
<p>श्रीमद्भगवद्गीताभाष्ये
जामि प्रावृषि । अमृतं चैव देवानाम्, मृत्युश्च मर्त्यानाम् । सत्
यस्य यत् संबन्धितया विद्यमानं तत्, तद्विपरीतम् असच्च
एव अहम् अर्जुन । न पुनः अत्यन्तमेव असत् भगवान्,
स्वयं कार्यकारणे वा सदसती ॥
ये पूर्वोक्तैः निवृत्तिप्रकारैः एकत्वपृथक्त्वादिविज्ञानैः यज्ञैः
मां पूजयन्त: उपासते ज्ञानविदः, ते यथाविज्ञानं मामेव
प्राप्नुवन्ति । ये पुन: अज्ञाः कामकामा:-
।
-
त्रैविद्या मां सोमपाः पूतपापा</p>
<lg>
  <l>ते</l>
  <l>यज्ञैरिष्ट्वा खर्गतिं प्रार्थयन्ते ।</l>
  <l>पुण्यमासाद्य सुरेन्द्रलोक-</l>
  <l>मश्नन्ति दिव्यान्दिवि देवभोगान् ॥२०॥</l>
</lg>
<p>त्रैविद्याः ऋग्यजुःसामविदः मां वस्वादिदेवरूपिणं सोमपाः
सोमं पिबन्तीति सोमपाः, तेनैव सोमपानेन पूतपापाः शुद्ध-
किल्विषाः, यज्ञैः अग्निष्टोमादिभिः इष्ट्वा पूजयित्वा स्वर्गतिं
स्वर्गगमनं स्वरेव गति: स्वर्गति: ताम्, प्रार्थयन्ते । ते च पुण्यं
पुण्यफलम् आसाद्य संप्राप्य सुरेन्द्रलोकं शतक्रतोः स्थानम् अ-
श्नन्ति भुञ्जते दिव्यान् दिवि भवान् अप्राकृतान् देवभोगान्
देवानां भोगान् ॥</p>
<pb n="323" />
<p>नवमोऽध्यायः ।</p>
<lg>
  <l>ते तं भुक्त्वा खर्गलोकं विशालं</l>
  <l>क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।</l>
  <l>एवं त्रयीधर्ममनुप्रपन्ना</l>
  <l>गतागतं कामकामा लभन्ते ॥ २१ ॥</l>
</lg>
<p>ते तं भुक्त्वा स्वर्गलोकं विशालं विस्तीर्ण क्षीणे पुण्ये
मर्त्यलोकं विशन्ति आविशन्ति । एवं यथोक्तेन प्रकारेण त्रयी-
धर्म केवलं वैदिकं कर्म अनुप्रपन्नाः गतागतं गतं च आगतं
च गतागतं गमनागमनं कामकामाः कामान् कामयन्ते इति
कामकामा: लभन्ते गतागतमेव, न तु स्वातन्त्र्यं क्वचित्
लभन्ते इत्यर्थः ॥
ये पुनः निष्कामाः सम्यग्दर्शिनः–</p>
<lg>
  <l>अनन्याश्चिन्तयन्तो मां</l>
  <l>ये जनाः पर्युपासते ।</l>
  <l>तेषां नित्याभियुक्तानां</l>
  <l>योगक्षेमं वहाम्यहम् ॥ २२ ॥</l>
</lg>
<p>अनन्याः अपृथग्भूताः परं देवं नारायणम् आत्मत्वेन गताः
सन्तः चिन्तयन्तः मां ये जनाः संन्यासिनः पर्युपासते, तेषां</p>
<pb n="324" />
<p>श्रीमद्भगवद्गीताभाष्ये
परमार्थदर्शिनां नित्याभियुक्तानां सतताभियोगिनां योगक्षेमं
योग: अप्राप्तस्य प्रापणं क्षेमः तद्रक्षणं तदुभयं वहामि प्राप-
यामि अहम् ; 'ज्ञानी त्वात्मैव मे मतम् ' ' स च मम प्रियः '
यस्मात्, तस्मात् ते मम आत्मभूताः प्रियाच इति ॥
ननु अन्येषामपि भक्तानां योगक्षेमं वहत्येव भगवान् ।
सत्यं वहत्येव ; किंतु अयं विशेष:- अन्ये ये भक्ताः ते
आत्मार्थं स्वयमपि योगक्षेमम् ईहन्ते ; अनन्यदर्शिनस्तु न
आत्मार्थं योगक्षेमम् ईहन्ते ; न हि ते जीविते मरणे वा
आत्मनः गृद्धिं कुर्वन्ति ; केवलमेव भगवच्छरणाः ते ; अतः
भगवानेव तेषां योगक्षेमं वहतीति ॥
ननु अन्या अपि देवताः त्वमेव चेत्, तद्भक्ताश्च त्वामेव
यजन्ते । सत्यमेवम्——</p>
<lg>
  <l>येऽप्यन्यदेवताभक्ता</l>
  <l>यजन्ते श्रद्धयान्विताः ।</l>
  <l>तेऽपि मामेव कौन्तेय</l>
  <l>यजन्त्यविधिपूर्वकम् ॥ २३ ॥</l>
</lg>
<p>येऽपि अन्यदेवताभक्ताः अन्यासु देवतासु भक्ताः अन्य-</p>
<pb n="325" />
<p>नवमोऽध्यायः ।</p>
<p>देवताभक्ताः सन्तः यजन्ते पूजयन्ति श्रद्धया आस्तिक्यबुद्ध्या
अन्विता: अनुगताः, तेऽपि मामेव कौन्तेय यजन्ति अवि-
धिपूर्वकम् अविधिः अज्ञानं तत्पूर्वकं यजन्ते इत्यर्थः ॥
कस्मात् ते अविधिपूर्वकं यजन्ते इत्युच्यते ; यस्मात् -</p>
<lg>
  <l>अहं हि सर्वयज्ञानां</l>
  <l>भोक्ता च प्रभुरेव च ।</l>
  <l>न तु मामभिजानन्ति</l>
  <l>तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥</l>
</lg>
<p>अहं हि सर्वयज्ञानां श्रौतानां स्मार्तानां च सर्वेषां
यज्ञानां देवतात्मत्वेन भोक्ता च प्रभुः एव च । मत्स्वामिको
'अधियज्ञोऽहमेवात्र' इति हि उक्तम् । तथा न
तु माम् अभिजानन्ति तत्त्वेन यथावत् । अतश्च अविधि-
पूर्वकम् इष्ट्वा यागफलात् च्यवन्ति प्रच्यवन्ते ते ॥
हि यज्ञः,
येऽपि अन्यदेवताभक्तिमत्त्वेन अविधिपूर्वकं यजन्ते, तेषा-
मपि यागफलं अवश्यंभावि । कथम् ?-
यान्ति देवव्रता देवा-
न्पितॄन्यान्ति पितृव्रताः ।</p>
<pb n="326" />
<p>श्रीमद्भगवद्गीताभाष्ये
भूतानि यान्ति भूतेज्या
यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥
यान्ति गच्छन्ति देवत्रता: देवेषु व्रतं नियमो भक्तिश्च
येषां ते देवत्रता: देवान् यान्ति । पितृन् अग्निष्वात्तादीन्
यान्ति पितृव्रताः श्राद्धादिक्रियापराः पितृभक्ता: । भूतानि
विनायकमातृगणचतुर्भगिन्यादीनि यान्ति भूतेज्याः भूतानां
पूजकाः । यान्ति मद्याजिनः मद्यजनशीला: वैष्णवाः मा-
मेव यान्ति । समाने अपि आयासे मामेव न भजन्ते
अज्ञानात्, तेन ते अल्पफलभाजः भवन्ति इत्यर्थः ॥
न केवलं मद्भक्तानाम् अनावृत्तिलक्षणम् अनन्तफलम्,
सुखाराधनश्च अहम् । कथम् ? -
-</p>
<lg>
  <l>पत्रं पुष्पं फलं तोयं</l>
  <l>यो मे भक्त्या प्रयच्छति ।</l>
  <l>तदहं भक्त्युपहृत-</l>
  <l>मश्नामि प्रयतात्मनः ॥ २६ ॥</l>
</lg>
<p>पत्रं पुष्पं फलं तोयम् उदकं यः मे मह्यं भक्त्या प्रय-
च्छति, तत् अहं पत्रादि भक्त्या उपहृतं भक्तिपूर्वकं प्रापितं
भक्त्युपहृतम् अश्नामि गृह्णामि प्रयतात्मनः शुद्धबुद्धेः ॥</p>
<pb n="327" />
<p>नवमोऽध्यायः ।</p>
<p>यतः एवम्, अत:-
---</p>
<lg>
  <l>यत्करोषि यदश्नासि</l>
  <l>यज्जुहोषि ददासि यत् ।</l>
  <l>यत्तपसि कौन्तेय</l>
  <l>तत्कुरुष्व मदर्पणम् ॥ २७ ॥</l>
</lg>
<p>,
यत् करोषि स्वतः प्राप्तम्, यत् अश्नासि यच्च जुहोषि
हवनं निर्वर्तयसि श्रौतं स्मार्त वा, यत् ददासि प्रयच्छसि
ब्राह्मणादिभ्यः हिरण्यान्नाज्यादि, यत् तपस्यसि तपः चरसि
कौन्तेय, तत् कुरुष्व मदर्पणं मत्समर्पणम् ॥
एवं कुर्वतः तव यत् भवति, तत् शृणु-
शुभाशुभफलैरेवं
मोक्ष्यसे कर्मबन्धनैः
संन्यासयोगयुक्तात्मा
विमुक्तो मामुपैष्यसि ॥ ५८ ॥
शुभाशुभफलैः शुभाशुभे इष्टानिष्टे फले येषां तानि शुभा-
शुभफलानि कर्माणि तैः शुभाशुभफलैः कर्मबन्धनैः कर्माण्येव
बन्धनानि कर्मबन्धनानि तैः कर्मबन्धनैः एवं मदर्पणं कुर्वन्</p>
<pb n="328" />
<p>श्रीमद्भगवद्गीताभाष्ये
मोक्ष्यसे । सोऽयं संन्यासयोगो नाम, संन्यासच असौ म-
त्समर्पणतया कर्मत्वात् योगश्च असौ इति, तेन संन्यासयो-
गेन युक्त: आत्मा अन्तःकरणं यस्य तव सः त्वं संन्यासयो-
गयुक्तात्मा सन् विमुक्तः कर्मबन्धनैः जीवन्नेव पतिते चास्मि -
न् शरीरे माम् उपैष्यसि आगमिष्यसि ॥
रागद्वेषवान् तर्हि भगवान्, यतो भक्तान् अनुगृह्णाति, न
इतरान् इति । तत् न-</p>
<lg>
  <l>समोऽहं सर्वभूतेषु</l>
  <l>न मे द्वेष्योऽस्ति न प्रियः ।</l>
  <l>ये भजन्ति तु मां भक्त्या</l>
  <l>मयि ते तेषु चाप्यहम् ॥ २९ ॥</l>
</lg>
<p>समः तुल्यः अहं सर्वभूतेषु । न मे द्वेष्यः अस्ति न प्रियः ।
अग्निवत् अहम् — दूरस्थानां यथा अग्निः शीतं न अपनयति,
समीपम् उपसर्पतां अपनयति ; तथा अहं भक्तान् अनुगृह्णामि,
न इतरान् । ये भजन्ति तु माम् ईश्वरं भक्त्या मयि ते-
स्वभावत एव, न मम रागनिमित्तम् — वर्तन्ते । तेषु च अपि
अहं स्वभावत एव वर्ते, न इतरेषु । न एतावता तेषु द्वेषो
मम ॥</p>
<pb n="329" />
<p>नवमोऽध्यायः ।
शृणु मद्भक्तेर्माहात्म्यम्--</p>
<lg>
  <l>अपि चेत्सुदुराचारो</l>
  <l>भजते मामनन्यभाक् ।</l>
  <l>साधुरेव स मन्तव्यः</l>
  <l>सम्यग्व्यवसितो हि सः ॥</l>
</lg>
<p>अपि चेत् यद्यपि सुदुराचारः सुष्ठु दुराचारः अतीव कु-
त्सिताचारोऽपि भजते माम् अनन्यभाक् अनन्यभक्ति: सन्,
साधुरेव सम्यग्वृत्त एव सः मन्तव्यः ज्ञातव्य: ; सम्यक्
यथावत् व्यवसितो हि सः, यस्मात् साधुनिश्चयः सः ॥
उत्सृज्य च बाह्यां दुराचारताम् अन्तः सम्यग्व्यवसायसा-
मर्थ्यात्—</p>
<lg>
  <l>क्षिप्रं भवति धर्मात्मा</l>
  <l>शश्वच्छान्तिं निगच्छति ।</l>
  <l>कौन्तेय प्रतिजानीहि</l>
  <l>न मे भक्तः प्रणश्यति ॥ ३१ ॥</l>
</lg>
<p>क्षिप्रं शीघ्रं भवति धर्मात्मा धर्मचित्तः एव । शश्वत्
नित्यं शान्ति च उपशमं निगच्छति प्राप्नोति । शृणुः पर-
S. B. 18*</p>
<pb n="330" />
<p>श्रीमद्भगवद्गीताभाष्ये
मार्थम्, कौन्तेय प्रतिजानीहि निश्चितां प्रतिज्ञां कुरु, न
मे मम भक्त: मयि समर्पितान्तरात्मा मद्भक्तः न प्रणश्यति
इति ॥
किंच--</p>
<lg>
  <l>मां हि पार्थ व्यपाश्रित्य</l>
  <l>येsपि स्युः पापयोनयः ।</l>
  <l>स्त्रियो वैश्यास्तथा शूद्रा-</l>
  <l>स्तेऽपि यान्ति परां गतिम् ॥ ३२ ॥</l>
</lg>
<p>मां हि यस्मात् पार्थ व्यपाश्रित्य माम् आश्रयत्वेन गृहीत्वा
येsपि स्युः भवेयुः पापयोनयः पापा योनिः येषां ते पाप-
योनयः पापजन्मानः । के ते इति, आह— स्त्रियः वैश्याः
तथा शूद्राः तेऽपि यान्ति गच्छन्ति परां प्रकृष्टां गतिम् ॥</p>
<lg>
  <l>किं पुनर्ब्राह्मणाः पुण्या</l>
  <l>भक्ता राजर्षयस्तथा ।</l>
  <l>अनित्यमसुखं लोक-</l>
  <l>मिमं प्राप्य भजस्व माम् ॥ ३३ ॥</l>
</lg>
<p>किं पुनः ब्राह्मणाः पुण्याः पुण्ययोनयः भक्ताः राजर्षयः</p>
<pb n="331" />
<p>नवमोऽध्यायः ।</p>
<p>तथा राजानश्च ते ऋषयश्च इति राजर्षयः । यतः एवम्,
अत: अनित्यं क्षणभङ्गुरम् असुखं च सुखवर्जितम् इमं लोकं
मनुष्यलोकं प्राप्य पुरुषार्थसाधनं दुर्लभं मनुष्यत्वं लब्ध्वा
भजस्व सेवस्व माम् ॥
कथम् —</p>
<lg>
  <l>मन्मना भव मद्भक्तो</l>
  <l>मद्याजी मां नमस्कुरु ।</l>
  <l>मामेवैष्यसि युक्त्वैव-</l>
  <l>मात्मानं मत्परायणः ॥ ३४ ॥</l>
</lg>
<p>इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्म-
विद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
राजविद्याराजगुह्ययोगो नाम
नवमोऽध्यायः ॥
मयि वासुदेवे मन: यस्य तव स त्वं मन्मनाः भव ।
तथा मद्भक्तः भव मद्याजी मद्यजनशीलः भव । माम् एव
च नमस्कुरु । माम् एव ईश्वरम् एष्यसि आगमिष्यसि</p>
<pb n="332" />
<p>श्रीमद्भगवद्गीताभाप्ये
युक्त्वा समाधाय चित्तम् । एवम् आत्मानम्, अहं हि सर्वेषां
भूतानाम् आत्मा, परा च गतिः, परम अयनम्, तं माम्
एवंभूतम् एष्यसि इति अतीतेन संबन्धः, मत्परायणः
सन् इत्यर्थः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
नवमोऽध्यायः ॥</p>
<pb n="333" />
<p></p>
<pb n="334" />
<p>MEMORIAL
EDITION
OF THE WORKS OF
SRI SANKARACHARYA.
। -</p>
<pb n="335" />
<p>नं.१४ स
मचा मी आज्य सरक्षण,
नं. ३२५</p>
<pb n="336" />
<p></p>
</body>
</text>
</TEI>