॥ T: ॥ ॥ तर्कसङ्ग्रहः ॥ । दीपिकया सहितः । THE TARKASANGRAHA OF ANNAM BHATTA WITH HIS OWN GLOSS STYLED THE DIPIKÂ AND AN ENGLISH TRANSLATION. Bombay, PRINTED AND PUBLISHED BY THE PROPRIETOR OF THE NIRŅAYASAGARA' PRESS. 1876 क 11:1 АНАЯЗКАРАХЯАТ ЯНТ ATTARE MANN MOITARKATT HELLA ZA AUTHOR 38T V8 GENOU CHA TH PREFACE. Mat 1x publishing this work, the chief object the Editor has in view is to supply a want which has long been felt by the students of Sanskrit connected with Bombay University-of an edition of the TARKASANGRAHA, embodying not only a correct text with the Dipikâ or gloss usually accompanying it, but also a close, faithful, and faultless, translation of the original. That this want is most peculiarly felt in these days when the Nyâya Philosophy is intro- duced among the subjects prescribed for higher University Exami- nations, is most clearly shown by the fact, that College students are one and all dissatisfied with the only edition of the Tarka- sangraha which is at present procurable. This edition is printed at Calcutta and appears to have been based on one published at Allaha- bad in 1849 for the use of the students of Benares College. Both these editions, indeed, contain a correct text; but the versions which they give of the text are so carelessly, executed, that they are for the most part inaccurate and faulty, and, what is more, even misleading. They throw little or no light on such portions of the book as are obscure, whilst they attempt at illustration, where illustration is not required. They are, therefore, useless and unsafe guides to follow. Hence arises the necessity for a better edition of the Tarkasangraha, free from the blemishes which blot the editions of Calcutta and Allahabad. Under these circumstances, the Editor has ventured to publish this work, with the view of rendering some service to the students of the Tarkasangraha. The translation which accompanies the text in the present edition is for the most part copied, with such altera- tions as seemed necessary, from the translation which appeared in an edition of the Tarkasangraha published in 1851 at Allahabad, which is now out of print. Both the text and the gloss are copied from an edition which was published some years ago in Bombay. This 2005614 2 publication is further recommended by a very carefully prepared Index of the most important and technical terms used in the text,- which will be found to add greatly to the utility of the present undertaking. Little remains now to be said except that no pains are spared to make the work as useful as possible. It is, therefore, to be hoped that the efforts of the Editor in making this attempt at facilitating the study of Sanskrit Literature will meet with favour and approval from the students of the Sanskrit Language. P. L. ERRATA. 14. 10 For अवयवविनि. Nonagentle 15. 7. "9 9 20. S पृथक्त्वं read अवयविनि " पृथक्तं "" 95 "9 " पटं "" " " 6 • वर्तिन एव गन्धप्रतिरूप O " " " घटं • वर्तिनैव गन्धं प्रति रूप शब्दस्य. 22. 16 27. 12 शन्दस्य 5 99 पज्वावयव " पञ्चावयव 20 " नियमन • " " निगमन • 33. 2 अयथार्थ • यथार्थ: " 36. 29 "" योगरूढरवयव "" योगरूढिः । अवयव• ॥ श्रीः ॥ ॥ तर्कसङ्ग्रहः ॥ । दीपिकया सहितः । विश्वेश्वरं साम्बमूर्तिं प्रणिपत्य गिरं गुरुम् । टीकां शिशुहितां कुर्वे तर्कसङ्ग्रहदीपिकाम् ॥ चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारानुमित- श्रुतिबोधितकर्तव्यताकमिष्टदेवतानमस्कारलक्षणं मङ्गलं शिष्यशि- क्षार्थं निबध्नञ्चिकीर्षितं ग्रन्थादौ प्रतिजानीते । निधायेति । निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः ॥ ननु मङ्गलस्य समाप्तिसाधनत्वं नास्ति । मङ्गले कृतेपि किर- णावल्यादौ निर्विघ्नपरिसमाप्त्यदर्शनात् । मङ्गलाभावेपि कादम्बर्या- दौ समाप्तिदर्शनात् ॥ अन्वयव्यतिरेकव्यभिचारादिति चेन्न । किरणावल्यादौ विघ्नबाहुल्यात्समाप्त्यभावः । कादम्बर्यादौ तु ग्रन्था- द्बहिरेव मङ्गलं कृतम् । अतो न व्यभिचारः ॥ ननु मङ्गलस्य कर्तव्यत्वे किं प्रमाणमिति चेन्न । शिष्टाचारानुमितश्रुतेरेव प्रमाण- त्वात् ॥ तथाहि । मङ्गलं वेदबोधितकर्तव्यताकमलौकिकाविगीत- शिष्टाचारविषयत्वाद्दर्शादिवत् । भोजनादौ व्यभिचारवारणाया- लौकिकेति । रात्रिश्राद्धादौ व्यभिचारवारणायाविगीतेति । शिष्टपदं 'Having placed in my heart the Lord of the world, [having meditated on God], and having saluted my preceptor, I compose this Compendium of Logical results for the pleasant comprehension of the uninstructed.' स्पष्टार्थम् । न कुर्यान्निष्फलं कर्मेति जलताडनादेरपि निषिद्धत्वादि- ति ॥ तर्क्यन्ते प्रतिपाद्यन्त इति तर्का द्रव्यादिसप्तपदार्थास्तेषां सङ्ग्रहः संक्षेपेण स्वरूपकथनं क्रियत इत्यर्थः ॥ कस्मै प्रयोजनायेत्यत आह । सुखबोधायेति । सुखेनानायासेन बोधः पदार्थज्ञानं तस्मा इत्यर्थः ॥ ननु बहुषु तर्कग्रन्थेषु सत्सु किमर्थमपूर्वग्रन्थः क्रियत इत्यत आह । बालानामिति । तेषामतिविस्तृतत्वाद्बालानां बोधो न भवतीत्यर्थः । ग्रहणधारणपटुर्बालः । न तु स्तनन्धयः ॥ किं कृत्वा क्रियत इत्यत आह । निधायेति । विश्वेशं जगन्नियन्तारं शिवं हृदि निधाय नितरां ध्यात्वेत्यर्थः ॥ गुरूणां विद्यागुरूणां वन्दनं नम- स्कारं कृत्वेत्यर्थः ॥ द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः स- प्तपदार्थाः ॥ १ ॥ पदार्थान्विभजते । द्रव्येति । पदस्यार्थः पदार्थ इति व्युत्पत्त्या- भिधेयत्वं पदार्थसामान्यलक्षणं लभ्यते ॥ नन्वत्र विभागादेव सप्तत्वे सिद्धे सप्तग्रहणं व्यर्थमिति चेन्न । न्यूनाधिकसंख्याव्यवच्छेदार्थत्वात् ॥ नन्वतिरिक्तः पदार्थः प्रमितो न वा । नाद्यः । प्रमितस्य निषेधायो- गात् । नान्त्यः । प्रतियोगिप्रमितिं विना निषेधानुपपत्तेरिति चेन्न । प- दार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्यवच्छेदार्थत्वात् ॥ ननु सप्तान्यतमत्वं सप्तभिन्नभिन्नत्वमिति वक्तव्यम् । एवं च सप्तभिन्न- स्याप्रसिद्धत्वात्सप्तान्यतमत्वं कथमिति चेन्न । द्रव्यादि सप्तान्यत- मत्वं द्रव्यादिभेदसप्तकाभाववत्त्वमित्युक्तत्वात् ॥ एवमग्रेपि द्रष्ट- व्यम् ॥ तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदि- गात्ममनांसि नवैव ॥ २ ॥ 1. 'There are seven Categories; ---Substance, Quality, Action, Genus, Difference, Co-inherence and Non-existence.' 2. 'Amongst those (categories), Substances [ the abodes of Qualities ] are nine; — Earth, Water, Light, Air, Ether, Time, Place, Soul and Mind.' द्रव्यं विभजते । तत्रेति । तत्र द्रव्यादिमध्ये द्रव्याणि नवैवे- त्यन्वयः ॥ कानि तानीत्यत आह । पृथिवीत्यादीनि ॥ ननु तमसो दशमद्रव्यस्य विद्यमानत्वात्कथं नवैव द्रव्याणि ॥ तथाहि । तमः खलु चलं नीलं परापरविभागवत् । प्रसिद्धद्रव्यवैधर्म्यान्नवेभ्यो भेत्तुमर्हति ॥ नीलं तमश्चलतीत्यबाधितप्रतीतिबलान्नीलरूपाधारतया क्रिया- धारतया च द्रव्यत्वं तावत्सिद्धम् । तत्र तमसो नाकाशादिपञ्चके- न्तर्भावः । रूपवत्त्वात् । अत एव न वायौ । सदागतिमत्त्वाभा- वाच्च । नापि तेजसि । भास्वररूपाभावादुष्णस्पर्शाभावाच्च । नापि जले । शीतस्पर्शाभावान्नीलरूपाश्रयत्वाच्च । नापि पृथिव्याम् । ग- न्धवत्त्वाभावात्स्पर्शरहितत्वाच्च । तस्मात्तमो दशमद्रव्यमिति चेन्न । तमसस्तेजोभावरूपवत्त्वात् ॥ तथाहि । तमो हि न रूपि द्रव्यम् । आलोकासहकृतचक्षुर्ग्राह्यत्वात् । आलोकाभाववत् । रूपिचाक्षुषप्र- मायामालोकस्य कारणत्वात् । तस्मात्प्रौढप्रकाशकतेजः सामान्या- भावस्तमः । तत्र नीलं तमश्चलतीति प्रत्ययो भ्रमः । अतो नव- द्रव्याणीति सिद्धम् ॥ द्रव्यत्वजातिमत्त्वं गुणवत्त्वं वा द्रव्यसामान्य- लक्षणम् ॥ लक्ष्यैकदेशावृत्तित्वमव्याप्तिः ॥ यथा गोः कपिलत्वम् । अलक्ष्यवृत्तित्वमतिव्याप्तिः । यथा गोः शृङ्गित्वम् । लक्ष्यमात्रावर्त- नमसम्भवः । यथा गोरेकशफत्वम् ॥ एतद्दूपणत्रयरहितो धर्मो लक्षणम् । यथा गोः सास्नादिमत्त्वम् । स एवासाधारणधर्म इत्यु- च्यते ॥ लक्ष्यतावच्छेदकसमनियतत्वमसाधारणत्वम् । व्यावर्तक- स्यैव लक्षणत्वे व्यावृत्तावभिधेयत्वादौ चातिव्याप्तिवारणाय तद्भि- न्नत्वं धर्मविशेषणं देयम् । व्यवहारस्यापि लक्षणप्रयोजनत्वे तु न देयम् । व्यावृत्तेरपि व्यवहारसाधनत्वात् ॥ ननु गुणवत्त्वं न द्रव्य- सामान्यलक्षणम् ॥ आद्यक्षणे उत्पन्नविनष्टद्रव्ये चाव्याप्तेरिति चेन्न । गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वस्य विवक्षितत्वात् ॥ नन्वे- वमप्येकं रूपं रसात्पृथगिति व्यवहारात् । रूपादावतिव्या- प्तिरिति चेन्न । एकार्थसमवायादेव तादृशव्यवहारोपपत्तौ गुणे गुणानङ्गीकरणात् ॥ रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोग- विभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुख- दुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिगु- णाः ॥ ३ ॥ गुणं विभजते। रूपेति। द्रव्यकर्मभिन्नत्वे सति सामान्यवान्गुणः गुणत्वजातिमान्वा ॥ ननु लघुत्वमृदुत्वकठिनत्वादीनां विद्यमानत्वा- त्कथं चतुर्विंशतिगुणा इति चेन्न । लघुत्वस्य गुरुत्वाभावरूपत्वात् । मृदुत्वकठिनत्वयोरवयवसंयोगविशेषरूपत्वात् ॥ उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्चै- व कर्माणि ॥ ४ ॥ कर्म विभजते । उत्क्षेपणेति । संयोगभिन्नत्वे सति संयोगासम- वायिकारणं कर्म । कर्मत्वजातिमद्वा । भ्रमणादीनामपि गमनेन्त- र्भावात् । न पञ्चविधत्वविरोधः ॥ परमपरं चेति द्विविधं सामान्यम् ॥ ५ ॥ सामान्यं विभजते । परेति । परमधिकवृत्ति । अपरं न्यूनवृत्ति । सामान्यादिचतुष्टये जातिर्नास्ति ॥ नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ॥ ६ ॥ विशेषं विभजते । नित्येति । पृथिव्यादिचतुष्टयस्य परमाणव आकाशादिपञ्चकं च नित्यद्रव्याणि ॥ 3. 'There are twenty-four Qualities;– Colour, Savour, Odour, Tangibility, Number, Dimension, Severalty, Conjunction, Disjunction, Priority, Posteriority, Weight, Fhuidity, Viscidity, Sound, Under- standing, Pleasure, Pain, Desire, Aversion, Effort, Merit, Demerit and Faculty.' 4. 'There are five Actions; -- Throwing upwards, Throwing down- wards, Contraction, Expansion and Going.' 5. 'Genus [a common nature] is of two kinds; — Higher and Lower.' 6. 'Differences, which reside in eternal substances, are endless.' समवायस्त्वेक एव ॥ ७ ॥ समवायस्य भेदो नास्तीत्याह । समवायेति ॥ अभावश्चतुर्विधः । प्रागभावः प्रध्वंसाभावोत्य- न्ताभावोन्योन्याभावश्चेति ॥ ८ ॥ अभावं विभजते । अभावेति ॥ तत्र गन्धवती पृथिवी । सा द्विविधा नित्यानि- त्या चेति । नित्या परमाणुरूपा । अनित्या कार्य- रूपा । सा पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति । विषयो मृत्पाषाणादिः ॥ ९ ॥ तत्रोद्देशादिक्रमानुसारात्पृथिव्या लक्षणमाह । तत्रेति । नाम्ना पदार्थसंकीर्तनमुद्देशः । उद्देशक्रमे च सर्वत्रेच्छैव नियामिका ॥ ननु सुरभ्यसुरभ्यवयवारब्धे द्रव्ये परस्परविरोधेन गन्धानुत्पादादव्या- प्तिः । न च तत्र गन्धप्रतीत्यनुपपत्तिरिति वाच्यम् । अवयवगन्धस्यैव- तत्र प्रतीतिसम्भवेन चित्रगन्धानङ्गीकारात् ॥ किंचोत्पन्नविनष्ट- घटादावव्याप्तिरिति चेन्न । गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्व- स्यैव विवक्षितत्वात् ॥ ननु जलादावपि गन्धप्रतीतेरतिव्याप्तिरिति 7. 'Co-inherence is one only.' 8. 'Non-existence is of four kinds;—Antecedent non-existence, Destruction, Absolute non-existence and Mutual non-existence.' 9. 'That is Earth, in which there is the quality Odour. It is of two kinds;—Eternal and Non-eternal. In its atomic character it is Eternal; and when some product arises out of those atoms, then that is called Non-eternal. This [earth in the character of a product] is of three kinds, through the differences of body, organ of sense, and mass. The body is that of us men. The organ is the apprehender of odour, called the Smell, which resides in the fore-part of the nose. And the masses [what have parts ] are clods, stones, &c.' चेन्न । अन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव तत्र संयुक्तसमवायेन भानाङ्गीकारात् ॥ ननु तथापि कालस्य सर्वाधारतया सर्वेषां लक्ष णानां कालेतिव्याप्तिरिति चेन्न । सर्वाधारताप्रयोजकसम्बन्धभिन्नस- म्बन्धेन लक्षणत्वस्याभिमतत्वात् ॥ पृथिवीं विभजते । सा द्विविधे- ति । नित्यत्वं ध्वंसाप्रतियोगित्वम् । ध्वंसप्रतियोगित्वमनित्यत्वम् ॥ प्रकारान्तरेण विभजते । सा पुनरिति । आत्मनो भोगायतनं शरीरम् । यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनम् । तदेव शरीरम् । सुखदुःखसाक्षात्कारो भोगः । शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वमिन्द्रियत्वम् । शरीरेन्द्रियभिन्नो विषयः । एवं च गन्धवच्छरीरं पार्थिवशरीरम् । गन्धवदिन्द्रियं पार्थिवेन्द्रियम् । गन्धवान्विषयः पार्थिवविषय इति ॥ गन्धग्राहक- मिति प्रयोजनकथनम् । घ्राणमिति संज्ञा । नासाग्रेत्याश्रयोक्तिः । एवमुत्तरत्रापि ज्ञेयम् ॥ पार्थिवविषयं दर्शयति । विषयेति ॥ शीतस्पर्शवत्य आपः । ताश्च द्विविधा नित्या अ- नित्याश्चेति । नित्याः परमाणुरूपाः । अनित्याः का- र्यरूपाः । ताः पुनस्त्रिविधाः शरीरेन्द्रियविषयभे- दात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं जिव्हाग्रवर्ति । विषयः सरित्समुद्रादिः ॥ १०॥ अपां लक्षणमाह । शीतेति । उत्पन्नविनष्टजलेव्याप्तिवारणाय शीतस्पर्शसमानाधिकरणद्रव्यत्वापरजातिमत्वे तात्पर्यम् ॥ शीतं 10. 'That is Water, which appears cold on touching it. And it is of two kinds;— Eternal and Non-eternal. In the form of atoms, it is Eternal; and when a product is produced by those atoms, then that is called Non-eternal. This [water in the form of products ] is of three kinds, through the differences of body, organ of sense, and mass. The body exists in the world of Varuṇa. The sense is the percipient of savour, which is called the Taste, and which resides in the fore- part of the tongue. The masses are rivers, seas, &c.' शिलातलमित्यादौ जलसम्बन्धादेव शीतस्पर्शभानमिति नातिव्या- प्तिः । अन्यत्सर्वं पूर्वरीत्या व्याख्येयम् ॥ उष्णस्पर्शवत्तेजः । तद्द्विविधं नित्यमनित्यं च । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपं । पुनस्त्रि- विधं शरीरेन्द्रियविषयभेदात् । शरीरमादित्यलो- के प्रसिद्धम् । इन्द्रियं रूपग्राहकं चक्षुः कृष्णता- राग्रवर्ति । विषयश्चतुर्विधः । भौमदिव्यौदर्याकर- जभेदात् । भौमं वन्ह्याह्न्यादिकम् । अबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुरौदर्यम् । आक- रजं सुवर्णादि ॥ ११ ॥ तेजसो लक्षणमाह । उष्णेति । उष्णं जलमिति प्रतीतेस्तेजः- सम्बन्धानुविधायित्वान्नातिव्याप्तिः ॥ विषयं विभजते । भौमेति । ननु सुवर्णं पार्थिवं पीतत्वाद्गुरुत्वाद्धरिद्रादिवदिति चेन्न ॥ अत्यन्ता- नलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन जलमध्यस्थघृते द्रवत्व- नाशादर्शनेनासति प्रतिबन्धके पार्थिवद्रव्यद्रवत्वनाशाग्निसंयोगयोः 11. 'That is Light, the sensation by touch of which is warm. This is of two kinds;---Eternal and Non-eternal. It is Eternal in the form of atoms, and in the form of products it is Non-eternal. This [light in the form of product] is of three kinds, through the differences of body, organ of sense and mass. That the body exists in the Solar realm, is well-known. The sense, the percipient of colour, which is called the Sight, resides in the fore-part of the pupil of the eye. Masses are of four kinds, through these differences;---Produced in earth, Produced in the sky, Produced in the stomach, and Produced in mines. Produced in earth, it is fire, &c. Produced in the sky, it is lightning, &c., the fuel of which is water. Produced in the stomach, it is the cause of the digestion of things eaten. Produced in mines, it is gold &c.' कार्यकारणभावावधारणात्सुवर्णस्यात्यन्तानलसंयोगे सत्यनुच्छिद्य- मानद्रवत्वाधिकरणत्वेन घृतवत्पार्थिवत्वानुपपत्तेः । तस्मात्पीतद्रव्य- द्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वा- धिकरणतया जलत्वानुपपत्तेः । रूपवत्तया वाय्वादिष्वनन्तर्भावा- त्तैजसत्वसिद्धिः । तत्रोष्णस्पर्शभास्वररूपयोरुपष्टम्भकपार्थिवरू- पस्पर्शाभ्यां प्रतिबन्धादनुपलब्धिः । तस्मात्सुवर्णं तैजसमिति सिद्धम् ॥ रूपरहितस्पर्शवान्वायुः । स द्विविधो नित्यो- नित्यश्च । नित्यः परमाणुरूपः । अनित्यः कार्य- रूपः । पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक्सर्व- शरीरवर्ति । विषयो वृक्षादिकम्पनहेतुः ॥ १२॥ वायुं लक्षयति । रूपेति । आकाशादावतिव्याप्तिवारणाय स्प- र्शवानिति । पृथिव्यादावतिव्याप्तिवारणाय रूपरहित इति ॥ शरीरान्तःसञ्चारी वायुः प्राणः । स चैकोप्युपा- धिभेदात्प्राणापानादिसंज्ञां लभते ॥१३॥ 12. 'That is Air, which has not colour, and has tangibility. It is of two kinds;--- Eternal and Non-eternal. In the form of atoms it is Eternal; and in the form of products it is Non-eternal. This [air in the form of products] is of three kinds, through the differences of body, organ of sense and mass. The body is in the ærial world. The sense is the Touch, the apprehender of tangibility, existing throughout the whole body. The mass is that which is the cause of the shaking of trees, &c.' 13. Air circulating within the body is called Prâṇa. Although it is but one, yet, from the difference of its accidents, it is called by Breath, Flatulence, &c. [Breath, Flatulence, Cerebral pulsation, General pulsation and Digestion].' ननु प्राणस्य कुत्रान्तर्भाव इत्यत आह । शरीरेति । एक एव प्राणः स्थानभेदात्प्राणापानादिशब्दैर्व्यवह्रियत इत्यर्थः । स्पर्शानु- मेयो वायुः। तथाहि। यो यं वायौ वाति सत्यनुष्णाशीतस्पर्शो भासते स स्पर्शः । क्वचिदाश्रितो गुणत्वाद्रूपवत् । न चास्य पृथिव्याश्रयः । उद्भूतस्पर्शवत्पार्थिवस्योद्भूतरूपवत्त्वनियमात् । न जलतेजस्यनुष्णा- शीतत्वात् । न विभुचतुष्टयं सर्वत्रोपलब्धिप्रसङ्गात् । न मनः परमा- णुस्पर्शस्यातीन्द्रियत्वात् । तस्याद्यः प्रतीयमानस्पर्शाश्रयः स वायुः ॥ ननु वायुः प्रत्यक्षः । प्रत्यक्षस्पर्शाश्रयत्वाद्घटवदिति चेन्न । उद्भूतरू- पवत्त्वस्योपाधित्वात् । यत्र द्रव्यत्वे सति बहिरिन्द्रियप्रत्यक्षत्वं तत्रोद्भू- तरूपवत्त्वमिति घटादौ साध्यव्यापकत्वम् । पक्षे साधनाव्यापकत्व- म् । न चैवं तप्तवारिस्थतेजसोप्यप्रत्यक्षत्वापत्तिरिष्टत्वात् । तस्माद्रू- परहितत्वाद्वायुरप्रत्यक्षः॥ इदानीं कार्यरूपपृथिव्यादिचतुष्टयस्योत्प- त्तिविनाशक्रमः कथ्यते । ईश्वरस्य चिकीर्षावशात्परमाणुषु क्रिया जायते । ततः परमाणुद्वयसंयोगे सति द्व्यणुकमुत्पद्यते । त्रिभि- र्द्व्यणुकैर्त्र्यणुकम् । एवं चतुरणुकादिक्रमेण महती पृथिवी महत्य आपो महत्तेजो महान्वायुरुत्पद्यते । एवमुत्पन्नस्य कार्यद्रव्यस्य संजिहीर्षावशात्क्रियया परमाणुद्वयविभागे सति द्व्यणुकनाशः । समवायिकारणनाशात्त्र्यणुकनाशः। ततश्चतुरणुकस्येत्येवं पृथिव्यादि- नाशः । असमवायिकारणनाशाद्द्व्यणुकनाशः । समवायिकारण- नाशात्त्र्यणुकनाश इति सम्प्रदायः । सर्वत्रासमवायिकारणनाशा- त्कार्यद्रव्यनाश इति नवीनाः ॥ किं पुनः परमाणुसद्भावे प्रमाणम् । उच्यते । जालसूर्यमरीचिस्थं सूक्ष्मतमं यद्रज उपलभ्यते तत्सावयवम्। चाक्षुषद्रव्यत्वात्पटवत् । त्र्यणुकावयवोपि सावयवो महदारम्भ- कत्वात्तन्तुवत् । यो द्व्यणुकावयवः स परमाणुः । स च नित्यः । कार्यत्वेनवस्थाप्रसङ्गात् । तथा च मेरुसर्पपयोरपि समानपरि- माणत्वापत्तिः । सृष्टिप्रलयसद्भावे धाता यथा पूर्वमकल्पयदित्यादि श्रुतिः प्रमाणम् ॥ शब्दगुणमाकाशम् । तच्चैकं विभु नित्यं च ॥१४॥ 14. 'That is Ether, in which there resides the quality of sound. It is one, all-pervading and eternal.' आकाशं लक्षयति । शब्देति ॥ नन्वाकाशमपि किं पृथिव्यादि- वन्नाना । नेत्याह । तच्चैकमिति । भेदेप्रमाणाभावादित्यर्थः ॥ एक- त्वादेव सर्वत्रोपलब्धेर्विभुत्वमङ्गीकर्तव्यमित्याह । विभ्विति । सर्व- मूर्तद्रव्यसंयोगित्वं विभुत्वम् । मूर्तत्वं परिच्छिन्नपरिमाणवत्त्वं क्रि- यावत्वं वा ॥ विभुत्वादेवात्मवन्नित्यमित्याह । नित्यं चेति ॥ अतीतादिव्यवहारहेतुः कालः । स चैको विभु- नित्यश्च ॥ १५ ॥ कालं लक्षयति । अतीतेति । सर्वाधारः कालः सर्वकार्यनिमि त्तकारणं च ॥ प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका नित्या विभ्वी च ॥ १६ ॥ । दिशो लक्षणमाह । प्राचीति । दिगपि कार्यमात्रे निमित्तकारणम् ॥ ज्ञानाधिकरणमात्मा । स द्विविधो जीवात्मा परमात्मा च । तत्रेश्वरः सर्वज्ञः परमात्मैक एव सुखदुःखादिरहितः । जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च ॥ १७ ॥ 15. • That is Time, which is the cause of the employment of 'Past' &c. [ Past, Present, and Future.] It is one all-pervading and eternal.' 16. That is Space, which is the cause of the employment of • East' &c. [ East, West, North and South.] It is one, all-pervading and eternal, ' 17. That is Soul, which is the substratum of knowledge [ that in which knowledge resides.] It is of two kinds; the Animal soul and the Supreme soul. The Supreme soul is God, the Omniscient. He is One only and devoid of joy or sorrow. The Animal soul is distri- buted to each body. It is all-pervading and eternal.' 1 आत्मनो लक्षणमाह । ज्ञानेति ॥ आत्मानं विभजते । स द्विविध इति ॥ परमात्मनो लक्षणमाह । तत्रेति । नित्यज्ञानाधिकरणत्वमी- श्वरत्वम् ॥ नन्वीश्वरस्य सद्भावे किं प्रमाणम् । न तावत्प्रत्यक्षम् । तद्धि बाह्यमान्तरमिन्द्रियं वा । नाद्यः । अरूपिद्रव्यत्वात् । नान्त्यः। आत्मसुखादिव्यतिरिक्तत्वात् । नाप्यनुमानम् । लिङ्गाभावात् । ना- प्यागमः । तथाविधागमाभावादिति चेन्न । अङ्कुरादिकं कर्तृजन्यं कार्यत्वाद्घटवदित्यनुमानस्य प्रमाणत्वात् । उपादानगोचरा परोक्षज्ञा- नचिकीर्षाकृतिमत्त्वं कर्तृत्वम् । उपादानं समवायिकारणम् । सकल- परमाण्वादिसूक्ष्मदर्शित्वात्सर्वज्ञत्वम् । यः सर्वज्ञः स सर्वविदित्याद्या- गमोपि तत्र प्रमाणम् ॥ जीवस्य लक्षणमाह । जीव इति । सुखा- दिकं जीवलक्षणम् ॥ ननु मनुष्योहं ब्राह्मणोहमित्यादौ सर्वत्राह- प्रत्यये शरीरस्यैव विषयत्वाच्छरीरमेवात्मेति चेन्न । शरीरस्य कर- पादादिनाशे सति शरीरनाशादात्मनोपि नाशप्रसङ्गात् । नापीन्द्रि याणामात्मत्वम् । तथात्वे योहं घटमद्राक्षं सोहमिदानीं त्वचा स्ट- शामीत्यनुसन्धानाभावप्रसङ्गात् । अन्यानुभूतेन्यस्यानुसन्धानायो- गात् । तस्माद्देहेन्द्रियव्यतिरिक्तो जीवः । सुखदुःखवैचित्र्यात्प्र- तिशरीरं भिन्नः । स च न परमाणुः । शरीरव्यापि सुखाद्यनुपल- ब्धिप्रसङ्गात् । न मध्यपरिमाणः । तथा सत्यनित्यत्वप्रसङ्गेन कृत- नाशाकृताभ्यागमप्रसङ्गात् । तस्मान्नित्यो विभुर्जीवः ॥ सुखदुःखाद्युपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च ॥१८॥ मनसो लक्षणमाह । सुखेति । स्पर्शरहितत्वे सति क्रियावच्वं मनसो लक्षणम् ॥ मनो विभजते । तच्चेति । एकैकस्यात्मन एकैकं मन इत्यात्मनामनेकत्वान्मनसोप्यनेकत्वमित्यर्थः॥ परमाणुरूपमिति । 18. That is Mind, whose sense is the cause of the perception of pleasure, pain, &c. It is innumerable, for it remains with each Soul. It is in the form of an atom and is eternal,' मध्यमपरिमाणत्वेनित्यत्वप्रसङ्गादित्यर्थः ॥ ननु मनो विभु स्पर्श- रहितत्वादाकाशवदिति चेन्न । मनसो विभुत्व आत्ममनः संयोग- स्यासमवायिकारणस्याभावाज्ज्ञानानुत्पत्तिप्रसङ्गात् । न च विशुद्वय- संयोगोस्तीति वाच्यम् । तत्संयोगस्य नित्यत्वेन सुषुप्रयभावप्रसङ्गात्। पुरिततिव्यतिरिक्तप्रदेश आत्ममनः संयोगस्य सर्वदा विद्यमान- त्वात् । अणुत्वे तु यदा मनः पुरिततिं प्रविशति तदा सुषुप्तिः । यदा निःसरति तदाज्ञानोत्पत्तिरित्यणुत्वसिद्धिः ॥ चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच्च शुक्लनील- पीतरक्त हरितकपिशचित्रभेदात्सप्तविधं पृथिवीज- लतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभा- स्वरं शुक्कं जले । भास्वरं शुक्लं च तेजसि ॥ १९ ॥ रूपं लक्षयति । चक्षुरिति । संख्यादावतिव्याप्तिवारणाय मा- त्रपदम् । रूपत्वेतिव्याप्तिवारणाय गुणपदम् । प्रभाभित्तिसंयोगेति- व्याप्तिवारणाय चक्षुर्मात्रग्राह्यजातिमत्त्वं वाच्यम् ॥ नन्वव्याप्यवृत्ति- नीलादिसमुदाय एव चित्ररूपमिति चेन्न । रूपस्य व्याप्यवृत्तित्व- नियमात् ॥ ननु चित्रपटेवयवरूपस्य प्रतीतिरस्त्विति चेन्न । रूप- रहितत्वेन पटस्याप्रत्यक्षत्वप्रसङ्गात् । न च रूपवत्समवेतत्वं प्रत्यक्ष- प्रयोजकं गौरवात् । तस्मात्पटस्य प्रत्यक्षत्वानुपपच्या चित्ररूप- सिद्धिः ॥ रूपस्याश्रयमाह । पृथिवीति ॥ आश्रयं विभज्य दर्श- यति । तत्रेति ॥ 19. 'That quality, which is apprehended only by the sense of Sight, is called Colour. And it is of seven kinds, through the dif- ferences of White, Blue, Yellow, Red, Green, Brown and Variegated, residing in earth, water and light. In earth, colour of all the seven kinds resides ; in water, white colour not lustrous resides, and in light, lustrous white colour resides. ' रसनग्राह्यो गुणो रसः । स च मधुराम्ललव- णकटुकषायतिक्तभेदात्पविधः पृथिवीजलवृत्तिः । पृथिव्यां षड्विधः । जले मधुर एव ॥ २० ॥ रसं लक्षयति । रसनेति । रसत्वेतिव्याप्तिपरिहाराय गुणपदम् ॥ रसस्याश्रयमाह । पृथिवीति ॥ आश्रयं विभज्य दर्शयति । ष्टथि- व्यामिति ॥ घ्राणग्राह्यो गुणो गन्धः । स च द्विविधः । सुर- भिरसुरभिश्च ष्टथिवीमात्रवृत्तिः ॥ २१ ॥ गन्धं लक्षयति । घ्राणेति । गन्धत्वेतिव्याप्तिवारणाय गुणपदम् ॥ त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । स च त्रि- विधः शीतोष्णानुष्णाशीतभेदात्पृथिव्यप्तेजोवायु- वृत्तिः । तत्र शीतो जले । उष्णस्तेजसि । अनु- ष्णाशीतः पृथिवीवाय्वोः ॥ २२ ॥ स्पर्शं लक्षयति । स्वगिति । स्पर्शत्वेतिव्याप्तिवारणाय गुणपदम् । संयोगादावतिव्याप्तिवारणाय मात्रपदम् ॥ 20. "That quality which is known through the sense of Taste, is called Savour. And it is of six kinds, through the differences of Sweet, Sour, Saline, Bitter, Astringent and Pungent, residing in earth and water. In earth, there is savour of the six kinds; and in water, there is only the sweet savour.' 21. The quality which is apprehended by the sense of Smell, is called Odour. And it is of two kinds;-Fragrance and Stench, resi- ding in earth alone.' 22. That quality which is perceived only by the organ of Touch, is called Tangibility. And it is of three kinds, through the differences of Cold, Warm and Temperate. This quality resides in earth, water, light and air. Coldness resides in water; Warmth in light, and Temper- ateness in earth and air.' यत् पाक अंतत् पृथिव्याम रूपादिचतुष्टयं ष्टथिव्यां पाकजमनित्यं च । अ- न्यत्रापाकजं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् ॥ २३ ॥ ॥ रूपादीति । पाकस्तेजः संयोगः । तेन पूर्वरूपं नश्यति रूपान्तर- मुत्पद्यत इत्यर्थः ॥ अत्र परमाणुष्वेव पाकः । न द्व्यणुकादौ । तत- वामपाकनिक्षिप्ते घटे परमाणुषु रूपान्तरोत्पत्तौ श्यामघटनाशे पुन णुकादिक्रमेण रक्तघटोत्पत्तिः । तत्र परमाणवः समवायिकार- णम् । तेजःसंयोगोसमवायिकारणम् । अदृष्टादिकं निमित्तकारणम् । णुकादिरूपे कारणरूपमसमवायिकारणमिति पीलुपाकवादिनो वैशेषिकाः । पूर्वघटस्य नाशं विनैवावयवविन्यवयवेषु परमाणुपर्य- न्तेषु युगपद्रूपान्तरोत्पत्तिरिति पिठरपाकवादिनो नैय्यायिकाः। अत एव पार्थिवपरमाणुरूपादिकमनित्यमित्यर्थः ॥ अन्यत्रेति । जलादा- वित्यर्थः ॥ नित्यगतमिति । परमाणुगतमित्यर्थः ॥ अनित्यगतमिति । इणुकादिनिष्ठमित्यर्थः ॥ रूपादिचतुष्टयमुद्भूतं प्रत्यक्षम् । अनुद्भूत- मप्रत्यक्षम् । उद्भूतत्वं प्रत्यक्षप्रयोजको धर्मः । तदभावोनुद्भूतत्वम् ॥ एकत्वादिव्यवहारासाधारणहेतुः संख्या । सा नवद्रव्यवृत्तिः । एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतम- नित्यम् । द्वित्वादिकं तु सर्वत्रानित्यमेव ॥ २४ ॥ 23. • The four of which colour is the first [ Colour, Savour, Odonr and Tangibility] may be produced in Earth [in earthy things] by maturation [a special conjunction of Heat ], and they are then transient: In others [in Water, Light and Air] Colour &c. are not produced by maturation. They are then Eternal or Transient. When they reside in eternal things, they are Eternal; and when they reside in things not eternal, they are said to be 'Transient.' 94. "That quality, which is the peculiar cause of the concep- tion of Unity &c., is called Number. This resides in the nine substances. Reckoning from Unity, it is as far as a Parardha [100,000,000,000,000,000 ]. Unity is both Eternal and Non-eternal. In an eternal thing, it is Eternal ; and in a non-eternal thing, it is Non-eternal. But Duality &c., is everywhere Non-eternal,' संख्यां लक्षयति । एकत्वेति ॥ मानव्यवहारासाधारणं कारणं परिमाणं नव- द्रव्यवृत्ति । तच्च चतुर्विधम् । अणु महद्दीर्घ हस्वं चेति ॥ २५ ॥ । परिमाणं लक्षयति । मानेति ॥ परिमाणं विभजते । तच्चेति । भावप्रधानो निर्देशः । अणुत्वं महत्वं दीर्घत्वं हस्वत्वं चेत्यर्थः ॥ पृथग्व्यवहारासाधारणं कारणं पृथक्तत्वं सर्व- द्रव्यवृत्ति ॥ २६ ॥ इलाक पृथक्त्वं लक्षयति । ष्टथगिति । इदमस्मात्ष्टथगिति व्यवहार- कारणमित्यर्थः ॥ संयुक्तव्यवहारासाधारणो हेतुः संयोगः सर्व- द्रव्यवृत्तिः ॥ २७ ॥ 1 संयोगं लक्षयति । संयुक्तेति । इमौ संयुक्ताविति व्यवहारहेतु- रित्यर्थः । संख्यादिलक्षणेषु सर्वत्र दिक्कालादावतिव्याप्तिवारणाया- साधारणेति ॥ संयोगो द्विविधः । कर्मजः संयोगजव । आद्यो हस्तक्रियया पुस्तकसंयोगः । द्वितीयो हस्तपुस्तकसंयोगात्कायपु- स्तकसंयोगः । स चाव्याप्यवृत्तिः संयोगः । स्वात्यन्ताभावसमानाधि- करणत्वमव्याप्यवृत्तित्वम् ॥ संयोगनाशको गुणो विभागः सर्वद्रव्यवृत्तिः २८ 25. The peculiar cause of the conception of Bulk, is called Measure. It resides in the nine substances. And it is of four kinds ; -Sinall, Great, Long and Short.' " 26. The peculiar cause of the conception of distinct things is called Severalty. It resides in all the substances.' 27. The peculiar cause of the conception of conjoined things is called Conjunction. It resides in all the substances.' 28. That quality which annihilates Conjunction, is called Dis- junction. It resides in all the substances.' विभागं लक्षयति । संयोगेति । कालादावतिव्याप्तिवारणाय गुण. इति । रूपादावतिव्याप्तिवारणाय संयोगनाशक इति ॥ विभागोपि द्विविधः । कर्मजो विभागजश्च । आद्यो हस्तक्रियया पुस्तकवि- भागः । द्वितीयो हस्तपुस्तकविभागात्कायपुस्तकविभागः ॥ परापरव्यवहारासाधारणकारणे परत्वापरत्वे पृथिव्यादिचतुष्टय मनोवृत्तिनी । ते द्विविधे। दिक्क- ते कालकृते च । दूरस्थे दिक्कतं परत्वम् । समीपस्थे दिक्कतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् ॥ २९ ॥ परत्वापरत्वयोर्लक्षणमाह । परेति । परव्यवहारकारणं परत्वम् । अपरव्यवहारकारणमपरत्वमित्यर्थः ॥ परापरत्वे विभजते । ते द्वि- विध इति ॥ दिक्कतयोरुदाहरणमाह । दूरस्थ इति ॥ कालकृत उदाहरति । ज्येष्ठ इति ॥ आद्यपतनासमवायिकारणं गुरुत्वं पृथिवीजल- वृत्ति ॥ ३० ॥ गुरुत्वं लक्षयति । आद्येति । द्वितीयादिपतनस्य वेगासमवायि- कारणत्वाद्वेगेतिव्याप्तिवारणायाद्येति ॥ 29. • The peculiar cause of the conception of things Far and Near, is called Remoteness and Proximity. These reside in the four subs- tances begining with earth, [ earth, water, light, air ] and mind. They are of two kinds;-Made by Space and Made by Time. Remoteness made by Space is in that thing which remains in a distant place; and Proximity made by Space is in that thing which remains in a place near. In the person who is elder, there is Remoteness made by Time; and in the person who is younger, there is Proximity made by Time.' 30. • The quality which is the non-intimate cause of incipient falling, is called Weight. It resides in earth and in water.' आयस्यन्दनासमवायिकारणं द्रवत्वं पृथिव्य- तेजोवृत्ति । तद्द्विविधम् । सांसिद्धिकं नैमित्तिकं च । सांसिद्धिकं जले । नैमित्तिकं ष्टथिवीतेजसोः । ष्ट- थिव्यां घृतादावग्निसंयोगजन्यं द्रवत्वम् । तेजसि सुवर्णादी ॥ ३१ ॥ द्रवत्वं लक्षयति । आद्यस्यन्दनेति । स्यन्दनं स्त्रवणम् । तेजः- संयोगजन्यं नैमित्तिकद्रवत्वम् । तद्भिन्नं सांसिद्धिकद्रवत्वम् ॥ - थिव्यां नैमित्तिकद्रवत्वमुदाहरति । घृतादाविति ॥ तेजसि तदाह । सुवर्णादाविति ॥ चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहो जलमात्र- वृत्तिः ॥ ३२ ॥ स्नेहं लक्षयति । चर्णेति । कालादावतिव्याप्तिवारणाय गुण इति । गुणादावतिव्याप्तिवारणाय पिण्डीभावेति ॥ श्रोत्रग्राह्यो गुणः शब्द आकाशमात्रवृत्तिः । स द्विविधः । ध्वन्यात्मको वर्णात्मकश्चेति । ध्वन्यात्मको भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः ॥ ३३ ॥ 31. The quality which is the non-intimate cause of incipient trickling, is called Fluidity. It affects earth, water and light. It is of two kinds;—Natural [ established by its own nature ], and Adsci- titious [produced by somne cause ]. Natural fluidity resides in water; and Adscititious fluidity resides in earth and light. In carthy sub- stances, such as butter &c., fluidity is produced by the conjunction of fire. In light, (it is produced) in gold &c.' 32. • The quality which is the cause why particles &c., become a heap, is called Viscidity. It resides in water alone.' 33. The quality which is apprehended by the organ of hearing, is called Sound. It resides only in the ether. It is of two kinds;—In- articulate and Articulate. In-articulate sound is produced by the instrumentality of a drum &c.; Articulate sound is that, which is in the shape of the Sanskrit or any other language.' 3 I शब्दं लक्षयति । श्रोत्रेति । शब्दत्वेतिव्याप्तिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय श्रोत्रेति ॥ शब्दस्त्रिविधः । संयोगजो विभागजः शब्दजश्चेति । तत्राद्यो भेरीदण्डसंयोगजन्यः । द्वितीयो वंश उत्पाटयमाने दलद्वयविभागजन्यश्चटचटाशब्दः । भेर्याकाश- मारभ्य श्रोत्रपर्यन्तं द्वितीयादिशब्दाः शब्दजाः ॥ सर्वव्यवहारहेतुर्ज्ञानं बुद्धिः । सा द्विविधा । स्मृतिरनुभवश्च । संस्कारमात्रजन्यं ज्ञानं स्मृतिः । तद्भिन्नं ज्ञानमनुभवः । स द्विविधः । यथार्थोयथा- र्थश्व । तद्वति तत्प्रकारकोनुभवो यथार्थः । यथा रजत इदं रजतमिति ज्ञानम् । सैव प्रमेत्युच्यते । तदभाववति तत्प्रकारकोनुभवोयथार्थः । यथा शु- क्तांविदं रजतमिति ज्ञानम् । सैवाप्रमेत्युच्यते ॥ ३४ ॥ बुद्धेर्लक्षणमाह । सर्वेति । जानामीत्यनुव्यवसायगम्यज्ञानत्वमेव लक्षणमित्यर्थः ॥ बुद्धिं विभजते । सेति ॥ स्मृतेर्लक्षणमाह । संस्कारेति । भावनाख्यः संस्कारः । संस्कारध्वंसेतिव्याप्तिवारणाय ज्ञानमिति । घ- ठादिप्रत्यक्षेतिव्याप्तिवारणाय संस्कारजन्यमिति ॥ अनुभवं लक्षयति । तद्भिन्नमिति । स्मृतिभिन्नं ज्ञानमनुभव इत्यर्थः ॥ अनुभवं विभजते । सद्विविध इति ॥ यथार्थानुभवस्य लक्षणमाह । तद्वतीति ॥ ननु घटे घटत्वमिति प्रमाणमव्याप्तिः । घटखे घटाभावादिति चेन्न । यत्र यत्स- 34. Knowledge, which is tho cause of every conception ( that can be put in words) is called Understanding. It is of two kinds;-Re- membrance and Notion. The knowledge which is produced only by its own antecedence, is called Remembrance; and knowledge which is different from that, is called Notion. It is of two kinds; — Right and Wrong. Of whatever description anything is, when our idea of that thing is of that same description, it is called a Right notion; as, in the caso of silver, the idea of its being silver. This is called Prama [commensurate with its object.] The supposing a thing to be as the thing is not, is called a Wrong notion; as, in the ease of a shell, the notion of its being silver. This is called Aprama'. कार्य पूर्ववृत्ति प्रयोजक १९ 2-19 19 म्बन्धोस्ति तत्र तत्सम्बन्धानुभव इत्यर्थात् । घटत्वेपि घटसम्बन्धो- स्तीति नाव्याप्तिः ॥ सेति । यथार्थानुभव एव शास्त्रे प्रमेत्युच्यत इत्यर्थः ॥ अयथार्थं लक्षयति । तदभाववतीति ॥ नन्विदं संयोगीति प्रमायामतिव्याप्तिरिति चेन्न । यदवच्छेदेन यत्सम्बन्धाभावस्तदव- च्छेदेन तत्सम्बन्धज्ञानस्य विवक्षितत्वात् । संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वात् । संयोगावच्छेदेन संयोगज्ञानस्य प्रमात्वा- न्नातिव्याप्तिः ॥ यथार्थानुभवश्चतुर्विधः प्रत्यक्षानुमित्युपमिति- शाब्दभेदात् । तत्करणमपि चतुर्विधं प्रत्यक्षानुमा- नोपमानशब्दभेदात् ॥ ३५ ॥ / यथार्थानुभवं विभजते । यथार्थेति ॥ प्रसङ्गात्प्रमाकरणं विभ- जते । तत्करणमिति । प्रमाकरणमित्यर्थः । प्रमाकरणं प्रमाणमिति प्रमाणसामान्यलक्षणम् ॥ व्यापार व्यापारवदसाधारणं कारणं करणम् । अनन्य- थासिद्धकार्यनियतपूर्ववृत्ति कारणम् । कार्य प्रागभा- वप्रतियोगि ॥ ३६ ॥ तज्जन्यत्वे सति तज्जन्यजनकः व्याया करण, व्यापार, फल- प्रत्यक्ष करणलक्षणमाह । असाधारणेति । साधारणकारणे दिक्कालादा- वतिव्याप्तिवारणायासाधारणेति ॥ कारणलक्षणमाह । कार्येति । पूर्ववृत्तिकारणमित्युक्तेरासभादावतिव्याप्तिः स्यादतो नियतेति । ता 35. 'Right notion is of four kinds, through the divisions of Per- ceptions, Inferences, Conclusions from similarity and authoritative Assertions understood. The efficient [ peculiar ] cause of those, also is of four kinds, through the divisions of Perception, . Inference, Recognition of similarity and authoritative Assertion." 36. • Whatever thing, through its operating, is the cause, not com- mon to all effects, of some given effect, that is the instrumental cause thereof. That which is invariably antecedent to some product, and is not otherwise constituted [is not by any thing else-except the result in question-constituted a cause । is the cause (of that product). That which annuls its own antecedent non-existence is called an Effeet. That cause is called 3 weh resides in the same object- in intimate relation with the effect or another cause weh is he intimate relation. वन्मात्रे कृते कार्येतिव्याप्तिः । अतः पूर्ववृत्तीति ॥ ननु तन्तुरूप- मपि पटं प्रति कारणं स्यादिति चेन्न । अनन्यथासिद्धत्वे सतीति विशेषणात् । अनन्यथासिद्धत्वमन्यथासिद्धिविर होन्यथासिद्धि- श्र त्रिविधा । येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति तदन्यथासिद्धम् ॥ यथा तन्तुना तन्तुरूपम् । तन्तुत्वं च पटं प्रति । अन्यं प्रति पूर्ववृत्तित्वे ज्ञात एव यस्य यं प्रति पूर्ववृत्तित्वमव- गम्यते तं प्रति तदन्यथासिद्धम् । यथा शब्दं प्रति पूर्ववृत्तित्वे ज्ञात एव पैंटं प्रत्याकाशस्य । अन्यत्र कुप्तनियतपूर्ववर्तिने एवं कार्यस- म्भवे तत्सहभूतमन्यथासिद्धम् । यथा पाकजस्थले गन्धप्रतिरूप- प्रागभावस्य । एवं चानन्यथासिद्धनियतपूर्ववृत्तित्वं कारणत्वम् ॥ कार्यलक्षणमाह । कार्येतिं ॥ कारणं त्रिविधं समवाय्यसमवायिनिमित्तभे- दात् । यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारण- म् । यथा तन्तवः पटस्य । पटश्व स्वगतरूपादेः । कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति कारणमसमवायिकारणम् । यथा तन्तुसंयोगः प- टस्य । तन्तुरूपं पटरूपस्य । तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य । त- । । देतत्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् ॥ ३७ ॥ 37. • Cause is of three kinds, through the distinctions of Intimate, Non-intimate and Instrumental. That in which an effect intimately relative to it takes its rise, is an Intimate cause; as, threads are of cloth, and the cloth itself of its own colour &c. Where this intimate relation exists, that cause which is associated in one and the same object with such effect or cause, is Non-intimate; as, the conjunction of the threads is the non-intimate cause of the cloth, and the colour of the threads, that of the colour of the cloth. The cause which is distinct from both of these is the Instrumental cause, as, the weaver's । कारणं विभजते । कारणमिति ॥ समवायिकारणलक्षणमाह । यत्समवेतेति । यस्मिन्समवेतमित्यर्थः ॥ असमवायिकारणं लक्ष- यति । कार्येणेति । कार्येणेत्येतदुदाहरति । तन्तुसंयोग इति । कार्ये- ण पटेनैकस्मिन्तन्तौ समवेतत्वात्तन्तुसंयोगः पटस्यासमवायिका- रणमित्यर्थः ॥ कारणेन सहेत्येतदुदाहरति । तन्तुरूपमिति । कार- न पटेन सहैकस्मिन्तन्तौ समवेतत्वात्तन्तुरूपं पटरूपस्यासम- वायिकारणमित्यर्थः ॥ निमित्तकारणं लक्षयति । तदुभयैति । सम- वायसमवायिभिन्नं कारणं निमित्तकारणमित्यर्थः ॥ करणलक्ष- णमुपसंहरति । तदेतदिति ॥ specifie तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । इन्द्रियार्थसन्नि कर्षजन्यं ज्ञानं प्रत्यक्षम् । तद्विविधम् । निर्विक- ल्पकं सविकल्पकं च । तत्र निष्प्रकारकं ज्ञानं नि- र्विकल्पकम् । यथेदं किञ्चित् । सप्रकारकं ज्ञानं सविकल्पकम् । यथा डित्थोयं ब्राह्मणोयं श्यामो- यमिति ॥ ३८ ॥ प्रत्यक्षलक्षणमाह । तत्रेति । प्रमाणचतुष्टयमध्य इत्यर्थः ॥ प्रत्य- क्षज्ञानस्य लक्षणमाह । इन्द्रियेति । इन्द्रियं चक्षुरादिकम् । अर्थो घटादिः । तयोः सन्निकर्षः संयोगादिः । तज्जन्यं ज्ञानमित्यर्थः ॥ निर्विकल्पकस्य लक्षणमाह । निष्प्रकारकमिति । विशेषणविशेष्यस- brush, tho loom &c. are of cloth. Among these three kinds of causes, that only is called an instrumental cause which is not a universally concurront cause or condition ( of all effects as God, time &c. are ).' 38. The Cause of the knowledge, called sensation is an organ of sense; knowledge produced by the conjuction of an organ of sense and its object, is sensation. It is of two kinds; – Where it does not pay regard to an alternative, and Where it does. The knowledge which does not pay regard to an alternative is that which involves no speci- fication, as, in the simple cognition that 'this is something that exists.' The knowledge which contemplates an alternative is that which includes a specification, as, 'This is Dittha, 'This is Brahman', • This is black," म्बन्धानवगाहि ज्ञानमित्यर्थः ॥ ननु निर्विकल्पके किं प्रमाणमिति चेन्न । गौरिति विशिष्टज्ञानं विशेषणज्ञानजन्यं विशिष्टज्ञानत्वात् । दण्डीति ज्ञानवदित्यनुमानस्य प्रमाणत्वात् । विशेषणज्ञानस्य स- विकल्पकत्वेनवस्थाप्रसङ्गान्निर्विकल्पसिद्धिः ॥ सविकल्पकं लक्षयति । सप्रकारमिति । नामजात्यादिविशेषणविशेष्यसम्बन्धावगाहि ज्ञान- मित्यर्थः ॥ सविकल्पकमुदाहरति। यथेति ॥ प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः । सं- योग-संयुक्तसमवाय- संयुक्तसमवेतसमवाय-समवा- य-समवेतसमवाय-विशेषणविशेष्यभावा इति । चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः । घट- रूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः । च- क्षुःसंयुक्ते घटे रूपस्य समवायात् । रूपत्वसामान्य- प्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः । चक्षुः- संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् । श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः । कर्णविवरवृत्त्याकाशस्य श्रोत्रत्वाच्छन्दस्याकाशगु- णत्वाद्गुणगुणिनोश्च समवायात् । शब्दत्वसाक्षा- कारे समवेतसमवायः सन्निकर्षः । श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् । अभावप्रत्यक्षे विशे- पणविशेष्यभावः सन्निकर्षः । घटाभाववद्भूतलमि- त्यत्र चक्षुः संयुक्ते भूतले घटाभावस्य विशेषणत्वात् । एवं सन्निकर्षपटुजन्यं ज्ञानं प्रत्यक्षम् । तत्करणमि- न्द्रियम् । तस्मादिन्द्रियं प्रत्यक्षप्रम्राणमिति सि- द्धम् ॥ ३९ ॥ इन्द्रियार्थसन्निकर्षं विभजते । प्रत्यक्षेति ॥ संयोगसन्निकर्षमु दाहरति । चक्षुषेति । द्रव्यप्रत्यक्षे सर्वत्र संयोगसन्निकर्ष इत्यर्थः । आत्मा मनसा संयुज्यते । मन इन्द्रियेण । इन्द्रियमर्थेन । ततः प्र- त्यक्षज्ञानमुत्पद्यते ॥ संयुक्तसमवायमुदाहरति । घटरूपेति ॥ तत्र युक्तिमाह । चक्षुःसंयुक्त इति ॥ संयुक्तसमवेतसमवायमुदाहरति । रू- 39. 'The relative proximity of a sense and its object, which is the cause of perception, is of six kinds;-Conjunction, Intimate union with that which is in conjunction, Intimate union with what is inti- mately united with that which is in conjunction, Intimate union, Inti- mate union with that which is intimately united, and the Connection which arises from the relation between that which qualifies and the thing qualified. When a jar is perceived by the eye, there is (bet- ween the sense and the object) the proximity of Conjunction. In the perception of the colour of the jar, there is the proximity of Intimate union with that which is in conjunction; because the colour is intimately united with the jar, which is in conjunction with the sense of vision. In the perception of the fact that colour generi- cally is present, there is the proximity of intimate union with what is intimately united with that which is in conjunction; because the generic property of being a colour is intimately united with the particular colour which is intimatly unlted with the jar which is in conjunction with the sense of vision. In the perception of sound by the organ of hearing there is the proximity of Intimate union; because the organ of hearing consists of the ether which resides in the cavity of the ear, and sound is a quality of ether, and there is Intimate union between a quality and that of which it is the quality. In the percep- tion of the nature of sound, the proximity is that of intimate union with what is intimately united; because the nature of sound is inti- mately united with sound which is intimately united with the organ of hearing. In the perception of non-existence, the proximity is dependent on the relation between a distinctive quality and that which is so distinguished; because when the ground is (perceived to be) possessed of the non-existence of a jar, the non-existence of a jar distinguishes the ground which is in conjunction with the organ of vision. Knowledge produced by these six kinds of proximity is Per- ception. Its instrumental cause is Sense. Thus it is settled that an organ of sense is what gives us the knowledge called sensation.' ज्या थारस्तु परामर्श: कर पाया की भवन अनुमितौ पत्वेतिं ॥ समवायमुदाहरति । श्रोत्रेणेति । तदुपपादयति । कर्णे- ति ॥ ननु दूरस्थशब्दस्य कथं श्रोत्रसम्बन्ध इति चेन्न । वीचितरङ्ग- न्यायेन कदम्बमुकुलन्यायेन वा शब्दाच्छब्दान्तरोत्पत्तिक्रमेण श्रो- त्रदेशे जातस्य श्रोत्रसम्बन्धात्प्रत्यक्षत्वसम्भवात् ॥ समवेतसम- वायमुदाहरति । शब्दत्वेति । विशेषणविशेष्यभावमुदाहरति । अ- भावेति । अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः ॥ तदुप- पादयति । घटाभाववदिति । भूतलं विशेष्यं घटाभावो विशेषणम्। भूतले घटो नास्तीत्यत्र घटाभावस्य विशेष्यत्वं द्रष्टव्यम् । एतेना- नुपलब्धेः प्रमाणान्तरत्वं निरस्तम् ॥ यद्यत्र घटोभविष्यत्तर्हि भूतल- मिवाद्रक्ष्यत् । दर्शनाभावान्नास्तीति तर्कितप्रतियोगिसच्त्वविरोध्यनु- पलब्धि सहकृवेन्द्रियेणैवाभावज्ञानोपपत्तावनुलठधेः प्रमाणान्तरत्वा- सम्भवात् । अधिकरणज्ञानार्थमपेक्षणीयेन्द्रियस्यैव करणत्वोपपत्ता- वनुलब्धेः करणत्वस्यायुक्तत्वात् ॥ विशेषणविशेष्यभावो विशेषणवि- शेष्य स्वरूपमेव नातिरिक्तः सम्बन्धः ॥ प्रत्यक्षज्ञानमुपसंहरन्तस्य करणमाह । एवमिति । असाधारणकारणत्वादिन्द्रियं प्रत्यक्षज्ञान- करणमित्यर्थः ॥ प्रत्यक्षमुपसंहरति । तस्मादिति ॥ अनुमितिकरणमनुमानम् । परामर्शजन्यं ज्ञान- 'मनुमितिः। व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । यथा वन्हिव्याप्यधूमवानयं पर्वत इति ज्ञानं परा- मर्शः । तज्जन्यं पर्वतो वन्हिमानिति ज्ञानमनुमि- तिः । यत्र यत्र धूमस्तत्राग्निरिति साहचर्यनियमो व्याप्तिः । व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ॥ ४० ॥ 40. 'The instrument (in the production) of an inference is a gene- ralized Fact. An Inference is the knowledge that arises from deduction. Deduction is the ascertaining that the subject possesses that charac- ter which is invariably attended [by what we then predicate of it.] For example, the knowledge that, this hill is characterised by smoke, which is always attended by fire,' is a deductive application of a general principle; the knowledge produced from which, viz. पक्ष, साध्य, हे.ई, दृष्टान्त menor major. Mittle प्यासिनि का देश देश प्रतापिता यी हरिठा मारता ननिरूपिता पक्ष शताभिरूपिता विशेष्पिता शाहि ज्ञानं परामर्श:. - अनुमानं लक्षयति । अनुमितिकरणमिति ॥ अनुमितेर्लक्षण- माह । परामर्शेति ॥ ननु संशयोत्तरप्रत्यक्षेतिव्याप्तिः । स्थाणुपुरुष- संशयानन्तरं पुरुषत्वव्याप्यकरादिमानयमिति परामर्शे सति पु- रुष एवेति प्रत्यक्षजननात् । न च तत्रानुमितिरेवेति वाच्यम् । पुरुषं साक्षात्करोमीत्यनुव्यवसायविरोधादिति चेन्न । पक्षतासह- कृतपरामर्शजन्यत्वस्य विवक्षितत्वात् । सिषाधयिषाविरहसहकृत- सिध्यभावः पक्षता । साध्यसिद्धिरनुमितिप्रतिबन्धिका । सिद्धिसच्चे- प्यनुमिनोमीतीच्छायामनुमितिदर्शनात् । सिषाधयिषोत्तेजिका । ततश्चोत्तेजिकाभावविशिष्टमण्यभावस्य दाहकरणत्ववत् । सिषाध- यिषा विरहसहकृतसिध्यभावस्याप्यनुमितिकारणत्वम् ॥ परामर्श लक्षयति । व्याप्तीति । व्याप्तिविषयकं यत्पक्षधर्मताज्ञानं स प- रामर्श इत्यर्थः ॥ परामर्शमभिनीय दर्शयति । यथेति । अनुमितिम- भिनीय दर्शयति । तज्जन्यमिति । परामर्शजन्यमित्यर्थः ॥ व्याप्ते- र्लक्षणमाह । यत्रेति । यत्र धूमस्तत्राग्निरित्यभिनयः । साहचर्यनि- यम इति लक्षणम् । साहचर्यं सामानाधिकरण्यं तस्य नियमः । हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्या- प्तिरित्यर्थः ॥ पक्षधर्मतास्वरूपमाह । व्याप्यस्येति ॥ / अनुमानं द्विविधम् । स्वार्थ परार्थ च । स्वार्थ स्वानु- मितिहेतुः । तथाहि स्वयमेव भूयो भूयो दर्शनेन यत्र यत्र धूमस्तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गत्वा तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन्व्याप्तिं स्मरति यत्र धूमस्तत्राग्निरिति । तदनन्तरं वन्हिव्याप्यधूमवानयं पर्वत इति ज्ञा- that 'the hill is fiery', is an inference. Invariable attendedness is the fact of being constantly accompanied; as, — in the example 'Wher- ever there is sitke, there is fire [ by which it is invariably attended]'. By 'the subject's possessing a character &c.,' is meant that in a moun- tain &c. there is present that which is invariably attended.' नमुत्पद्यते । अयमेव लिङ्गपरामर्श इत्युच्यते । त- स्मात्पर्वतो वन्हिमानिति ज्ञानमनुमितिरुत्पद्यते । तदेतत्स्वार्थानुमानम् । यत्तु स्वयं धूमादग्निमनुमाय निपरं प्रति बोधयितुं पञ्चावयववाक्यं प्रयुङ्क्ते तत्प- रार्थानुमानम् । यथा पर्वतो वन्हिमान्धूमवत्त्वात् । यो यो धूमवान्स वन्हिमान् । यथा महानसः । तथा चायम् । तस्मात्तथेति । अनेन प्रतिपादिता- लिङ्गात्परोप्यग्निं प्रतिपद्यते ॥ ४१ ॥ IFF 41. A general principle is of two kinds, in so far as it may be useful for One's self, and for Another. That which is employed for One's self is the cause of a private conclusion in one's own mind. For example, having repeatedly and personally observed, in the ense of culinary hearths &c., that where there is smoke there is fire, having assumed that the concomitancy is invariable, having gone near a mountain, and being doubtful as to whether there is fire in it, having seen smoke on the mountain, a man recollects, the invariable atten- dance of fire where there is smoke. Then the knowledge arises that 'this mountain is characterised by smoke, which is invariably attended by fire'. This is called the Consideration of a sign. Thence is pro- duced the knowledge that the mountain is fiery,' which is the Con- clusion. This is the process of inference for One's self. But, after having, to the satisfaction of his own mind, inferred fire from smoke, when one makes use of the five-membered form of exposition for the instruction of another, then is the process one of inference for the sake of Another. For example :- (1) The mountain is fiery; (2) Because it smokes ; (3) Whatever smokes is fiery, as a culinary hearth ; (4) And this is so ; (5) Therefore it is fiery as aforesaid. In consequence of the token here rendered, the other also admits that there is fire. ' । व्याप्तिविशिष्ट लिंग प्रतिपाक वचन उपनद हनु साध्य यत्तदा पक्ष प्रतिपादकं वचने निगमन मन प् अनुमानविभागमाह । अनुमानमिति ॥ स्वार्थानुमानं विविच्य दर्शयति । तथाहीति ॥ स्वार्थानुमानं दर्शयति । स्वयमेवे ॥ पार्थिवत्व लोह लेख्यत्वादौ शतशः सहचारदर्शनेपि वज्रादी व्य- भिचारोपलब्धेर्भूयो दर्शनेन कथं व्याप्तिग्रह इति चेन्न । व्यभिचार- ज्ञानविरहसहकृत सहचारज्ञानस्य व्याप्तिग्राहकत्वात् ॥ व्यभिचा- रज्ञानं निश्चयः शङ्का च ॥ तद्विरहः क्वचित्तर्कात्क्वचित्स्वतः सिद्ध एव धूमाभिव्याप्तिग्रहे कार्यकारणभावभङ्गप्रसङ्गलक्षण स्तर्को व्यभि- चारशङ्कानिवर्तकः ॥ ननु सकलवन्हिधूमयोरसन्निकर्षात्कथं व्याप्तिग्रह इति चेन्न । धूमत्ववन्हित्वरूपसामान्यप्रत्यासच्या सकल- धूमवन्हिज्ञानसम्भवात् ॥ तस्मादिति । लिङ्गपरामर्शादित्यर्थः ॥ परा- र्थानुमानमाह । यत्विति । यच्छब्दस्य तत्परार्थानुमानमिति तच्छ- ब्देनान्वयः ॥ पञ्चावयववाक्यमुदाहरति । यथेति ॥ प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चाव- यवाः पर्वतो वन्हिमानिति प्रतिज्ञा । धूमवत्त्वादिति हेतुः । यो यो धूमवानित्युदाहरणम् । तथा चाय- मित्युपनयः । तस्मात्तथेति निगमनम् ॥ ४२ ॥ अवयवस्वरूपमाह । प्रतिज्ञेति ॥ उदाहृतवाक्ये प्रतिज्ञाविशेषमा- ह । पर्वतो वहिमानिति ॥ साध्यवत्तयापक्षवचनं प्रतिज्ञा । पञ्चम्य- न्तं लिङ्गप्रतिपादकं वचनं हेतुः । व्याप्तिप्रतिपादकमुदाहरणम् । पक्षधर्मताज्ञानार्थमुपनयः । अबाधितत्वादिकं नियमनप्रयोजनम् ॥ स्वार्थानुमिति परार्थानुमित्योर्लिङ्गपरामर्श एव कारणम् । तस्मालिङ्गपरामर्शोनुमानम् ॥ ४३ ॥ 42. There are five members of this syllogism;—the Proposition, the Reason, the Example, the Application and the Conclusion, 'The mountain is fiery', is the Proposition; 'Because it smokes,' is the Reason ; ' Whatever smokes &c.,' is the Example ; 'And so this moun- tain is,' is the Application; 'Therefore it is fiery', is the Conclusion, 43. The cause of an inference, whether for one's self or for an> other, is simply the Consideration of a sign; therefore the anumana [ the cause of an inference ] is just this Consideration of a sign.' अनुमितिकरणमाह । स्वार्थेति ननु व्याप्तिस्मृतिपक्षधर्मताज्ञा- नाभ्यामेवानुमितिसम्भवे विशिष्टपरामर्शः किमर्थमङ्गीकर्तव्य इति चेन्न । वन्हिव्याप्यधूमवानयमिति शाब्दपरामर्शस्थले परामर्शस्या- वश्यकतया लाघवेन सर्वत्र परामर्शस्यैव कारणत्वात् । लिङ्गं न कर- णम् । अतीदादौ व्यभिचारात् । व्यापारवत्कारणं करणमिति मते परामर्शद्वारा व्याप्तिज्ञानं पक्षज्ञानं साध्यज्ञानं लिङ्गज्ञानं यत्कि - चिज्जन्यज्ञानमात्रं वा परामर्शव्यापारकं करणम् । तज्जन्यत्वे सति तज्जन्यजनको व्यापारः ॥ अनुमानमुपसंहरति । तस्मादिति ॥ लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि । यथा वन्हौ साध्ये धूम- त्वम् । यत्र धूमस्तत्राग्निर्यथा महानस इत्यन्व- यव्याप्तिः । यत्र वन्हिर्नास्ति तत्र धूमपि नास्ति यथा महा-हद इति व्यतिरेकव्याप्तिः । अन्वयमात्र- व्याप्तिकं केवलान्वयि । यथा घटोभिधेयः प्रमेय- त्वात्पटवत् । अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेक- व्याप्तिर्नास्ति । सर्वस्य प्रमेयत्वादभिधेयत्वाच्च व्यति- रेकमात्र व्याप्तिकं केवलव्यतिरेकि । यथा पृथिवीतरे- भ्यो भिद्यते गन्धवत्त्वात् । यदितरेभ्यो न भिद्यते न तद्गन्धवत् । यथा जलम् । न चेयं तथा । तस्मान्न तथेति । अत्र यगन्धवत्तदितरभिन्नमित्य- न्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् ॥ ४४ ॥ 44. 'A sign is of three sorts;-That which may betoken by its presence or by its absence; That which betokens only by its presence; and That which betokens only by its absence. The first is that token which is possessed of pervading inherence both in respect of its asso- क्षेत्र वधूमस्तत्र पान्हे रिति हेतु व्यापक साध्य सामान धिकरण्यं अन्वयव्याप पचपन्ति नास्तिला नास्तीति साध्याभावव्यापक भूताभावप्रतियोगित्वं व्यतिरेक प्यासि लिङ्गं विभजते । लिङ्गमिति ॥ अन्वयव्यतिरेकि लक्षयति । अ- न्वयेति । हेतुसाध्ययोर्व्याप्तिरन्वयः । तदद्भावयोर्व्यतिरेकव्याप्तिः॥ केवलान्वयिनो लक्षणमाह । अन्वयेति । केवलान्वयिसाध्यकं के- वलान्वयि । अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम् । ईश्वरप्र- माविषयत्वं सर्वपदाभिधेयत्वं च सर्वत्रास्तीति व्यतिरेकाभावः ॥ व्य- तिरेकिण उदाहरति । ष्टथिवीति ॥ नन्वितरभेदः प्रसिद्धो वा न वा । आद्ये यत्र प्रसिद्धस्तत्र हेतुसच्वेन्वयित्वम् । असत्त्वसाधारण्यम् । द्वितीये साध्यज्ञानाभावात्कथं तद्विशिष्टानुमितिः । विशेषणज्ञाना- भावे विशिष्टज्ञानानुदयात् । प्रतियोगिज्ञानाभावात् । व्यतिरेकव्या- प्ति ज्ञानमपि न स्यादिति चेन्न । जलादि त्रयोदशान्योन्याभावानां त्रयोदशसु प्रत्येकं प्रसिद्धानां मेलनं ष्टथिव्यां साध्यते । त्रयोदश- त्वावच्छिन्नसाध्यस्यैकाधिकरणवृत्तित्वाभावात् । नान्वयित्वासाधार- ये प्रत्येकाधिकरणप्रसिद्ध्या साध्यविशिष्टानुमितिर्व्यतिरेकव्या- प्तिनिरूपणं चेति ॥ eiation (with the thing which it betokens) and its absence (when the thing it betokens is absent) as, for example, 'smokiness' when ' fire' is to be proved. When it is said, 'where there is smoke there is fire, as on a culinary hearth,' we have a case of concomitant presence. When it is said, ' where fire is not, there smoke also is not, as in a great deep lake,' we have a case of concomitant absence. The second is that token which has no negative instanee, as when it is said 'the jar is nameable because it is cognizable, as cloth is,' there is no instance of nameableness or of cognizableness being present where the other is absent, because everything (that we can be conversant about) is both cognizable and nameable. The third is that token in regard to which we can reason only. from its invariable absence. For example:- (1) Earth is different from these (other elements ); (2) Because it is odorous ; 13 (3) Nothing that is not different from these is odorous;—as water ; (4) But this is not so ; (5) Therefore it is different from the other elements.. But if [ in the third member of the argument] we had argued [affi- matively ] that what possesses odour is different from the other ele- ments,' we should have had no example to cite in confirmation, seeing that of earth alone can that property be asserted.' सन्दिग्धसाध्यवान्पक्षः । यथा धूमवत्त्वे हेतौ पर्वतः। निश्चितसाध्यवान्सपक्षः। यथा तत्रैव महा- नसः । निश्चितसाध्याभाववान्विपक्षः । यथा तत्रैव महाहृदः ॥ ४५ ॥ पक्षलक्षणमाह । सन्दिग्धेति ॥ ननु श्रवणानन्तरभाविमननस्थले- व्याप्तिः । तत्र वेदवाक्यैरात्मनो निश्चितत्वे न सन्देहाभावात् । किं च प्रत्यक्षेपि वन्हौ यत्रेच्छयानुमितिस्तत्राप्यव्याप्तिरिति चेन्न । उक्तपक्षताश्रयत्वस्य पक्षलक्षणत्वात् ॥ सपक्षलक्षणमाह । निश्चित- मिति ॥ विपक्षलक्षणमाह । निश्चितेति ॥ सव्यभिचारविरुद्ध सत्प्रतिपक्षासिद्धबाधिताः पञ्चहेत्वाभासाः । सव्यभिचारोनैकान्तिकः । स त्रि- विधः । साधारणासाधारणानुपसंहारिभेदात् । तत्र साध्याभाववद्वृत्तिः साधारणानैकान्तिकः । यथा पर्वतो वन्हिमान्प्रमेयत्वादिति प्रमेयत्वस्य वन्ह्यभा- ववति हदे विद्यमानत्वात् । सर्वसपक्षविपक्षव्या- "वृत्तोसाधारणः। यथा शब्दो नित्यः शब्दत्वादिति । शब्दत्वं सर्वेभ्यो नित्येभ्योनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्ति। अन्वयव्यतिरेकदृष्टान्तरहितोनुपसं- हारः । यथा सर्वमनित्यं प्रमेयत्वादिति । अत्र सर्व- Petitio Previcep 45. 'That whose possession of what is to be established is doubt- ful is called the Subject; as the mountain, when the fact of its smoking is assigned as the reason (for inferring the presence of fire). That which certainly possesses the property in question is called an instance on the same side; as the culinary hearth, in the same exam- ple. That which is certainly devoid of the property in question is called an instance on the opposite side; as the great deep lake, in the same example.' माघटत्वाद वाद: गंध वानू राहातू स्यापि पक्षत्वादृष्टान्तो नास्ति । साध्याभावव्याप्यो हेतुर्विरुद्धः । यथा शब्दो नित्यः कृतकत्वादिति । कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम् । साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रति- पक्षः । यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्वव- दिति । शब्दानित्यः कार्यत्वाद्वदवदिति । असिद्ध- स्त्रिविधः । आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वा- सिद्धश्वेति । आश्रयासिद्धो यथा गगनारविन्दं सुरभ्यरविन्दत्वात्। सरोजारविन्दवत् । अत्र गगना- रविन्दमाश्रयः । स च नास्त्येव । स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात् । अत्र चाक्षुपत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात् । सोपाधिको हेतुर्व्याप्य- त्वासिद्धः । साध्यव्यापकत्वे सति साधनाव्यापक. उपाधिः । साध्यसमानाधिकरणात्यन्ताभावाप्रति- योगित्वं साध्यव्यापकत्वम् । साधनवन्निष्ठात्यन्ता- भावप्रतियोगित्वं साधनाव्यापकत्वम् । पर्वतो धूम- वान्वन्हिमत्त्वादित्यत्रार्द्रेन्धनसंयोग उपाधिः । तथाहि । यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्य- व्यापकता । यत्र वन्हिस्तत्रार्द्रेन्धनसंयोगो नास्ति । अयोगोलक आर्द्रेन्धनसंयोगाभावादिति साधना- व्यापकता । एवं साध्यव्यापकत्वे सति साधनाव्याप- कत्वादार्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वाद्व- हिमत्त्वं व्याप्यत्वासिद्धम् । यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । यथा वन्हि- रनुष्णो द्रव्यत्वादिति । अत्रानुष्णत्वं साध्यं तद- भाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यत इति बा- धितत्वम् ॥ ४६ ॥ 1515 46. The five, that merely present the appearance of a reason, are:- That which goes astray; That which would prove the contradictory; That where there is an equally strong argument on the other side; the Unreal; and the Futile. The alleged reason which goes astray, is that which has not just the one conclusion. It is of three kinds;- What would prove two much; What belongs to none besides the in- dividual; and the Non-exclusive. The fallacy falls under the first head, when that which is alleged as the proof may be present whilst that which is to be proved is absent; as for instance, if one should say, 'The mountain is fiery, because it is an object of right knowledge,' [the reason assigned would be liable to this objection] because the being an object that may be rightly known is predicable also of a lake, which is characterised by the absence of fire. That (pretended token) which belongs neither to any similar instance nor to any one dissimilar, is one devoid of community. As, when one says 'Sound is eternal, for it has the nature of sound.' Now the nature of sound belongs to sound alone, and to nothing else, whether eternal or un- eternal. The pretended argument, which can bring an example neither in support nor in opposition, is Non-exclusive. For example, should one say, 'Everything is non-eternal because it is cognizable,' there would be no example to cite, because 'every thing' (leaving nothing over) is the subject of the conclusion. A reason proving the reverse, is that which invariably attends the absence of what is to be proved. For example-suppose one should say, 'sound is eternal be- cause it is created.' (We should reject his argument at once, because the fact of having been created implies non-eternity-the negation of being eternal). A counter-balanced reason is that along with which there exists another reason, which (equally well) establishes the non-existence of what is to be proved. As if one should argue, 'Sound is eternal, because, it is andible, as the nature of sound is (by both parties admitted to be),' (it might be argued, with equal force on the other side, that) 'sound is non-eternal, because it is a एवं सद्धेतुं निरूप्यासद्धेतुं निरूपयति । सव्यभिचारेति । अनु- मितिप्रतिबन्धका यथार्थज्ञानविषयत्वं हेत्वाभासत्वम् ॥ सव्यभिचारं product, as a jar is. An unreal reason is threefold-Where there is not established the existence of any such locality as that where the property is alleged to reside; Where the nature alleged does not really reside in the subject; and Where the alleged invariableness of concomitancy is not real. (As an example of), the fallacy of non- existent locality, (suppose that one argues), 'The sky-lotus is fra- grant, because the nature of a lotus resides in it, as in the lotuses of the lake' here the sky-lotus is (alleged as) the locality (of the nature of a lotus,) and in fact it [the sky-lotus] does not exist. As (an example of) an argument where the nature does not really exist in the subject (suppose one were to argue ), 'Sound is a quality, because it is visible'-here (every one would perceive at once, that) visibility does not reside in sound, for sound is recognised by the hearing (not by vision). A reason, when there is an indispen- sable condition, is faulty as regards comprehensiveness. Such an uch an indispensable condition is what always attends property to be esta- blished, but does not always attend what is brought forward in proof. Invariable attendance on the property to be established consists in the not being the counterentity of the absolute non-existence, which has the same location as that which is to be proved. Non-invariable attendance on what is brought forward in proof consists in the being the counterentity of the non-existence which has what is brought forward in proof. (Suppose it to be argued that), 'The mountain must smoke, because it is fiery'-in this case the contact of wet fuel is an indispensable condition. For 'wherever there is smoke, there is the conjunction of wet fuel'-so that we have here invariable attendance on what is to be proved. But it is not true that wher- ever there is fire, there there is conjunction of wet fuel'-for there is no conjunction of wet fuel in the case of an (ignited) iron ball-so we have here non-invariable attendance on the proof. As there is thus its invariable attendance on what is to be proved, the contact of wet fuel is an indispensable condition for the sufficiency of the reason alleged. .As it would require this additional condition (in order to prove that smoke must be present), ficriness (in the argument before us) is faulty as regards comprehensiveness. An argument is futile when the reverse of what it seeks to prove is established for certain by another proof. For example (it may be argued that), 'Fire is cold,. विभजते । स त्रिविध इति ॥ साधारणं लक्षयति । तत्रेति ॥ उदा- हरति । यथेति ॥ असाधारणं लक्षयति । सर्वेति ॥ अनुपसंहारिणो लक्षणमाह । अन्वयेति ॥ विरुद्धं लक्षयति । साध्येति ॥ सत्प्रतिपक्षं लक्षयति । यस्येति ॥ असिद्धं विभजते । असिद्ध इति ॥ आश्रया- सिद्धमुदाहरति । गगनेति ॥ स्वरूपासिद्धमुदाहरति । शब्देति ॥ व्या- प्यत्वासिद्धस्य लक्षणमाह । सोपाधिक इति ॥ उपाधिलक्षणमाह । साध्येति । उपाधिश्चतुर्विधः । केवलसाध्यव्यापकः पक्षधर्मावच्छि न्नसाध्यव्यापकः साधनावच्छिन्नसाध्यव्यापकः उदासीनपक्ष- धर्मावच्छिन्नसाध्यव्यापकश्चेति । आद्य आर्द्रेन्धनसंयोगः । द्वितीयो यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्र बहिर्द्रव्यत्वाव- च्छिन्नप्रत्यक्षत्वव्यापक मुद्भूतरूपत्वम् । तृतीयो यथा प्रध्वंसो वि- नाशी जन्यत्वादित्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम् । चतुर्थो यथा प्रागभावो विनाशी प्रमेयत्वादित्यत्र जन्यत्वावच्छिन्ना- नित्यत्वव्यापकं भावत्वम् ॥ बाधितस्य लक्षणमाह । यस्येति । अत्र बाधस्य ग्राह्याभावनिश्वयत्वेन सत्प्रतिपक्षस्य विरोधिज्ञानसामग्रीत्वेन साक्षादनुमितिप्रतिबन्धकत्वम् । इतरेषां तु परामर्शप्रतिबन्धकत्वम् । तत्रापि साधारणस्याव्यभिचाराभाववत्तया विरुद्धस्य सामानाधिक- रण्याभाववत्तया व्यापकत्वासिद्धस्य विशिष्टव्यात्यभाववत्तयासा- धारणानुपसंहारिणोर्व्याप्तिसंशयाध्यायकत्वेन नच व्याप्तिज्ञानप्रतिब- न्धकत्वम्। आश्रयासिद्धिस्वरूपासिद्धयोः पक्षधर्मताज्ञानप्रतिबन्धक- त्वम् । उपाधिस्तु व्यभिचारज्ञानद्वारा व्याप्तिज्ञानप्रतिबन्धकः । सिद्धसाधनं तु पक्षताविघटकतयाश्रयासिद्धेन्तर्भूतमिति न निग्रह- स्थानान्तरमिति नवीनाः ॥ उपमितिकरणमुपमानम् । संज्ञासंज्ञिसम्बन्ध- ज्ञानमुपमितिः । तत्करणं सादृश्यज्ञानम् । अति- देशवाक्यार्थस्मरणमवान्तरव्यापारः । तथाहि । because it is a substance.' There coldness is to be proved; and its op- posite, warmth, is apprehended by the very sense of touch. Hence the argument is futile.' गवयशब्दवाच्यमजानन्कुतश्चिदारण्यकपुरुषाद्गोस- दृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थ स्मरन्गो- सदृशपिण्डं पश्यति । तदनन्तरमसौ गवयशब्द- वाच्य इत्युपमितिरुत्पद्यते ॥ ४७ ॥ उपमानं लक्षयति । उपमितीति ॥ । आप्तवाक्यं शब्दः । आप्तस्तु यथार्थवक्ता । वाक्यं पदसमूहः । यथा गामानयेति । शक्तं पदम् । अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरेच्छासङ्केतः शक्तिः ॥ ४८ ॥ शब्दं लक्षयति । आप्तेति । पदलक्षणमाह । शक्तमिति । अर्थ- स्मृत्यनुकूलपदपदार्थसम्बन्धः शक्तिः । सा च पदार्थान्तरमिति मीमांसकाः ॥ तन्निरासार्थमाह । अस्मादिति । डित्थादीनामिव घटादीनामपि सङ्केत एव शक्तिः । न तु पदार्थान्तरमित्यर्थः । गवा- 47. Comparison or the recognition of likeness, is the cause of an inferenee from similarity. Such an inference consists in the know- ledge of the relation between a name and the thing so named. Its instrument is the knowledge of a likeness. The recollection of the purport of a statement of resemblance is the operation of that ins- trument. For example-a person not knowing what is meant by the word 'gavaya,' having heard from some inhabitant of the forest that a gavaya is like a cow, goes to the forest. Remembering the purport of what he has been told, he sees a body like that of a cow. Then this inference from similarity arises (in his mind), that 'this is what is meant by the word gavaya.' 48. 'A word [ right assertion ] is the speech of one worthy (of _confidence). One worthy, is a speaker of the truth. A speech [sen tence ] is a collection of significant sounds; as, for example, Bring the cow. ' A significant sound is that which is possessed of power ( to convey a meaning). The power ( of a word) is the appointment, in the shape of God's will, that such and such an import should be recognizable from such and such a significant sound.' दिशब्दानां जातावेव शक्तिः । विशेषणतया जातेः प्रथममुपस्थि- तत्वात् । व्यक्तिलाभस्त्वाक्षेपादिनेति केचित् । तन्न । गामानयेत्यादौ वृद्धव्यवहारात्सर्वत्रानयनादेर्व्यक्तावेव सम्भवे जातिविशिष्टव्य- क्तावेव शक्तिकल्पनात् । शक्तिग्रहस्तु बृद्धव्यवहारेण । व्युत्पित्सु- बलो गामानयेत्युत्तमवृद्धवाक्यश्रवणानन्तरं मध्यमवृद्धस्य प्रवृत्ति- मुपलक्ष्य गवानयनं दृष्ट्वा मध्यमवृद्धप्रवृत्तिजनकज्ञानस्यान्वयव्य- तिरेकाभ्यां वाक्यजन्यत्वं निश्चित्याश्वमानय गां वधानेति वाक्या- न्तर आवापोद्वापाभ्यां गोपदस्य गोत्वविशिष्टे शक्तिः । अश्वशब्द- स्याश्वत्वविशिष्टे शक्तिरिति व्युत्पद्यते ॥ ननु सर्वत्र कार्यपरत्वा- इयवहारस्य कार्यवाक्य एव व्युत्पत्तिः । न सिद्धपर इति चेन्न । काश्यां त्रिभुवनतिलको भूपतिरित्यादौ सिद्धेपि व्यवहाराहि- कसितपद्मे मधुकर इत्यादौ सिद्धपदसमभिव्यवहारात्सिद्धेपि मधु- करादिव्युत्पत्तिदर्शनाच्च ॥ लक्षणापि शब्दवृत्तिः । शक्यसम्ब- न्धो लक्षणा । गङ्गायां घोष इत्यत्र गङ्गापदवाच्यप्रवाहसम्बन्धा- देव तीरोपस्थितौ तीरेपि शक्तिर्न कल्प्यते । सैन्धवादौ लवणाश्वयोः परस्परसम्बन्धाभावान्नानाशक्तिकल्पनम् ॥ लक्षणा त्रिविधा । जह- लक्षणाजहल्लक्षणा जहदजहल्लक्षणा चेति । यत्र वाच्यार्थस्यान्वयाभा- वस्तत्र जहदिति । यथा मञ्चाः क्रोशन्तीति । यत्र वाच्यार्थस्याप्य- न्वयस्तत्राजहदिति । यथा छत्रिणो गच्छन्तीति । यत्र वाच्यैकदेश- त्यागेनैकदेशान्वयस्तत्र जहदजहदिति । यथा तच्वमसीति ॥ गौण्यपि लक्षणैव । लक्ष्यमाणगुणसम्बन्धरूपा । अग्निर्माणवक इति ॥ व्यञ्जनापि लक्षणान्तर्भूतार्थशक्तिमूला च । अनुमानादिनान्यथा- सिद्धा । तात्पर्यानुपपत्तिर्लक्षणाबीजम् । तत्प्रतीतीच्छयोच्चरितत्वं तात्पर्यम् । तात्पर्यज्ञानं च वाक्यार्थज्ञाने हेतुः । नानार्थानुरोधात्तु प्रकरणादिकं तात्पर्यग्राहकम् । द्वारमित्यादौ पिधेहीति शब्दाव्या- हारः ॥ नन्वर्थज्ञानार्थत्वाच्छब्दस्यार्थमविज्ञाय शब्दाध्याहारासम्भ- वादर्थाध्याहार एव युक्त इति चेन्न । पदविशेष्यजन्य पदार्थोपरि- स्थितेः शाब्दज्ञानहेतुत्वात् । अन्यथा घटः कर्मत्वमानयनं कृतिरि- त्यत्रापि शाब्दज्ञानप्रसङ्गात् । पङ्कजादिपदेषु योगरूढिरवयवश- क्तिर्योगः । समुदायशक्ती रूढिः । नियतपद्मत्वज्ञानार्थं समुदाय- । शक्तिः । अन्यथा कुमुदेपि प्रयोगप्रसङ्गः । इतरान्विते शक्तिरिति प्राभाकराः ॥ अन्वयस्य वाक्यार्थतया भनसम्भवादन्वयांशेपि श- क्तिर्न कल्पनीयेति गौतमीयाः ॥ आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञान- हेतुः । पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननु- भावकत्वमाकाङ्क्षा । अर्थाबाधो योग्यता । पढ़ा- नामविलम्बेनोच्चारणं सन्निधिः ॥ ४९ ॥ आकाङ्केति । आकाङ्क्षादिज्ञानमित्यर्थः । अन्यथाकाङ्क्षादिभ्रमा- च्छाब्दभ्रमो न स्यात् ॥ आकाङ्कां लक्षयति । पदस्येति ॥ योग्यता- लक्षणमाह । अर्थेति ॥ सन्निधिलक्षणमाह । पदानामिति । अविल- म्बेन पदार्थोपस्थितिः सन्निधिः । उच्चारणं तु तदुपयोगितया युक्तम् ॥ "आकाङ्गादिरहितं वाक्यमप्रमाणम् । यथा गौ- रश्वः पुरुषो हस्तीति न प्रमाणमाकाङ्क्षाविरहात् । अग्निना सिञ्चेदिति न प्रमाणं योग्यताविरहात् । प्रहरे प्रहरेसहोञ्चारितानि गामानयेत्यादि पदानि न प्रमाणं सान्निध्याभावात् ॥ ५० ॥ 49. 'The cause of the knowledge of the sense of a sentence is the Inter-dependance, Compatibility and Juxta-position (of the words.) Inter-dependance means the inability in a word to indicate the inten- ded sense in the absence of another. word. Compatibility consists in (a word's) not rendering futile the sense ( of the sentence.) Juxta-posi- tion consists in the enunciation of the words without a (long) pause between each.. 50. 'A collection of words devoid of inter-dependence &c, is no valid sentence——for example 'cow, horse, man, elephant,' gives no in- formation, the words not looking out for one another. The expres- sion 'He should irrigate with fire' is no cause of right knowledge, for there is no compatibility (between fire and irrigation.) The words ' Bring-the-cow,' not pronounced close together but with an in- terval of some three hours between each, are not a cause of cor- rect knowledge, from the absence of (the requisite closeness of) juxta-position.' गौरश्व इति । घटः कर्मत्वमित्यनाका ङ्गोदाहरणं द्रष्टव्यम् ॥ वाक्यं द्विविधम् । वैदिकं लौकिकं च । वैदि- कमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् । लौकिकं त्वा- तोक्तं प्रमाणम् । अन्यदप्रमाणम् ॥ ५१ ॥ वैदिकस्य विशेषमाह । वैदिकमीश्वरोक्तत्वादिति ॥ ननु वेद- स्यानादित्वात्कथमीश्वरोक्तत्वमिति चेन्न । वेदः पौरुषेयो वाक्य- समुदायत्वाद्भारतादिवत् । न च स्मर्यमाणकर्तृत्वमुपाधिः ॥ गौतमा- दिभिः शिष्यपरंपरया वेदेपि कर्तुः स्मर्यमाणत्वेन साधनव्यापकत्वात् । तस्मात्ते पानान्त्रयो वेदा अजायन्त इति श्रुतेश्व ॥ ननु वर्णा नित्याः। स एवायं गकार इति प्रत्यभिज्ञाबलात् । तथा च कथं वेदस्यानित्य- त्वमिति चेन्न । उत्पन्नो गकारो नष्टो गकार इति प्रतीत्या वर्णानाम- नित्यत्वात् । सोयं गकार इति प्रत्यभिज्ञायाः सोयं दीप इति प्रत्य- भिज्ञानवज्जात्यालम्बनत्वात् । वर्णानां नित्यत्वेप्यानुपूर्विविशि- ष्टवाक्यस्यानित्यत्वाच्च । तस्मादीश्वरोक्तो वेदः ॥ मन्वादिस्मृतीना- माचाराणां च वेदमूलकतया प्रामाण्यम् । स्मृतिमूलवाक्यानामिदानी- मनध्ययनात्तन्मूलभूता काचिच्छाखोत्पन्नेति कल्प्यते ॥ ननु पव्य- मानवेदवाक्योत्सादस्य कल्पयितुमशक्यतया विप्रकीर्णवादस्यायु- क्तत्वान्नित्यानुमेयो वेदो मूलमिति चेन्न । तथा सति वर्णानुपूर्वि - ज्ञानाभावेन बोधकत्वासम्भवात् । नन्वेतानि पदानि स्वस्मारितार्थ- संसर्गवन्त्याकाङ्क्षादिमत्पदकदम्बकत्वाद्मद्वाक्यवदित्यनुमानादेव सं- सर्गज्ञानसम्भवाच्छब्दो न प्रमाणान्तरमिति चेन्न । अनुमित्यपे- क्षया शब्दज्ञानस्य विलक्षणस्य शब्दात्प्रत्येमीत्यनुव्यवसायसा- क्षिकस्य सर्वसंमतत्वात् ॥ नन्वर्थापत्तिरपि प्रमाणान्तरमस्ति । पीनो देवदत्तो दिवा न भुङ्क इति दृष्टे श्रुते वा पीनत्वान्यथानुपपत्त्या 51. 'Speech is of two kinds ;-Sacred and Profane. The former being uttered by God, is all-authoritative: but the latter, only if uttered by one who deserves confidence, is authoritative; any other is not so.' रात्रिभोजनमर्थापच्या कल्प्यत इति चेन्न । देवदत्तो रात्रौ भुङ्क्ते दिवाभुञ्जानत्वे सति पीनत्वादित्यनुमानेनैव रात्रिभोजनस्य सिद्ध- त्वात् । अनुपलब्धिर्न मानम् । परिशेषोप्यनुमय्यैव । शते पञ्चाश- दिति सम्भवोप्यनुमानमेव । इह वटे यक्षस्तिष्ठतीत्यैतिह्यमज्ञातमूल- वक्रकशब्द एव ॥ चेष्टापि शब्दानुमानद्वारा व्यवहारहेतुरिति न मानान्तरम् । तस्मात्प्रत्यक्षानुमानोपमानशब्दाश्चत्वार्येव प्रमाणानि । सर्वेषां ज्ञानानां तद्वति तत्प्रकारकत्वं स्वतो ग्राह्यं परतो वेति विचार्यते ॥ अत्र विप्रतिपत्तिः । ज्ञानप्रामाण्यं तदप्रामाण्याग्रा- हकयावज्ञानग्राहकसामग्रीग्राह्यं वा । अत्र विधिकोटिः स्व- तस्त्वं निषेधकोटिः परतस्त्वम् । अनुमानग्राह्यत्वेन सिद्धसा धनतावारणाय यावदिति । इदं ज्ञानमप्रमेति ज्ञाने प्रामाण्यग्राह- कत्वाद्वाधवारणायाप्रामाण्याग्राहकेति । इदं ज्ञानमप्रमेत्वनुव्य- न वसायनिष्ठप्रामाण्यग्राहकस्याप्रामाण्याग्राहकत्वाभावात्स्वतस्त्वं स्यादतस्तदिति । तस्मिन्प्रामाण्याश्रयेप्रामाण्या ग्राहक इत्यर्थः । उदाहृतस्थले व्यवसायेप्रामाण्यग्राहकस्याप्यनुव्यवसाये तदग्राह- कत्वात्स्वतस्त्वसिद्धिः ॥ ननु स्वत एव प्रामाण्यं गृह्यते । घटमहं जानामीत्यनुव्यवसायेन घटघटत्वयोरिव नियतसम्बन्धस्यापि विष- यीकरणात् । व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वात् । पुरोवर्तिनि प्रका- रसम्बन्धस्यैव प्रमात्वपदार्थत्वादिति चेन्न । स्वतः प्रामाण्यग्रहे जल- ज्ञानं प्रमाणं न वेत्यनभ्यासदशायां प्रमात्वसंशयो न स्यात् । अनुव्यवसायेन प्रामाण्यस्य निश्चितत्वात् । तस्मात्स्वतोग्राह्य- त्वाभावात् । परतो ग्राह्यत्वम् । तथाहि प्रथमं जलज्ञानान- न्तरं प्रवृत्तौ सत्यां जललाभे सति पूर्वोत्पन्न जलज्ञानं प्रमा । स- मर्थप्रवृत्तिजनकत्वान्नैवं तन्नैवम् । यथाप्रमेति व्यतिरेकिणा प्रमात्वं निश्रीयते । द्वितीयादिज्ञानेषु पूर्वज्ञानदृष्टान्तेन तत्सजातीयत्व लिङ्गेन चान्वयव्यतिरेकिणा गृह्यते । प्रमायां गुणजन्यत्वमुत्पत्तौ परतस्त्वम्। प्रमासाधारणकारणं गुणः । अप्रमासाधारणकारणं दोषः । तत्र प्रत्यक्षेपि विशेषणवद्विशेष्यसन्निकर्षो गुणः । अनुमितौ व्यापके सति व्याप्य- ज्ञानम् । उपमितौ यथार्थसादृश्यज्ञानम् । शाब्दज्ञाने यथार्थयोग्य- ताज्ञानमित्यादि बोध्यम् ॥ पुरोवर्तिनि प्रकाराभावस्य व्यवसायेनानु- पस्थितत्वादप्रमात्वं परत एव गृह्यते । पित्तादिदोषजन्यत्वादुत्पत्ती परतस्त्वम् ॥ ननु सर्वज्ञानानां यथार्थत्वादयथार्थज्ञानमेव नास्ति न च शुक्ताविदं रजतमिति ज्ञानात्प्रवृत्तिदर्शनादन्यथाख्यातिसि- द्धिरिति वाच्यम् । रजतस्मृतिपुरोवृत्तिज्ञानाभ्यामेव प्रवृत्तिसम्भवा- दुपस्थिते भेदाग्रहस्यैव सर्वत्र प्रवर्तकत्वेनेदं रजतमित्यादावति- प्रसङ्गाभावादिति चेन्न । सत्यरजतस्थले पुरोवर्तिविशेष्यरजतत्वप्र- कारज्ञानस्य लाघवेन प्रवृत्तिजनकतया शुक्तावपि रजतार्थिप्रवृत्तिज-. नकत्वेन विशिष्टज्ञानस्यैव कल्पनात् ॥ वाक्यार्थज्ञानं शाब्दज्ञानम्। तत्करणं शब्द: ५२ पदजन्य पदार्थ स्मरणव्यामार: सहकारी अयथार्थानुभवस्त्रिविधः । संशयविपर्ययतर्क- भेदात् । एकस्मिन्धर्मिणि विरुद्धनानाधर्मवैशि- ट्यावगाहि ज्ञानं संशयः । यथा स्थाणुर्वा पुरुषो वेति । मिथ्याज्ञानं विपर्ययः । यथा शुक्ताविदं रजतमिति । व्याप्यारोपेण व्यापकारोपस्तर्कः । 22 यथा यदि वन्हिर्न स्यात्तर्हि धूमोपि न स्यादिति ॥ ५३ अयथार्थानुभवं विभजते । अयथार्थेति । स्वप्नस्य मानसविपर्य- यरूपत्वान्न त्रैविध्यविरोधः ॥ संशयलक्षणमाह । एकेति । घटपटा- विति समूहलम्बनेतिव्याप्तिवारणायैकेति । घटो द्रव्यमित्यादाव- 52. The knowledge of the meaning of speech is verbally com- municated knowledge; its instrumental cause is language.' 53. 'Incorrect knowledge is of three sorts, through the divisions of Doubt, Mistake, and (such opinion as is open to ) Reductio ad absurdum.. The recognition, in one (and the same ) thing possessing a certain nature, of several heterogeneous natures as characterising it, is Doubt. For example 'a post, or a man.' Apprehending falsely is Mistake. For example, in the case of a shell, the idea of silver. Reductio ad absurdum consists in establishing the pervader [here supposed to be denied] through the allegation of the pervaded [here supposed to be granted]. For example, 'If there were not fire [which is denied,] then there would be no smoke [which is admitted.]' ध्यादिषटक स्पर्शान्तिःससिका दुष अदृष्ट भावना शब्द। अमी वैशेषिकागुणाः । तिव्याप्तिवारणाय विरुद्धेति । पटत्वविरुद्धघटत्ववानित्यत्रातिव्याप्ति- वारणाय नानेति ॥ विपर्ययलक्षणमाह । मिथ्येति । तदभाववति तत्प्रकारकनिश्चय इत्यर्थः ॥ तर्कं लक्षयति । व्याप्येति । यद्यपि तर्कों विपर्ययेन्तर्भवति तथापि प्रमाणानुग्राहकत्वाद्भेदेन कीर्तितः ॥ स्मृतिरपि द्विविधा । यथार्थायथार्था च । प्र- । माजन्या यथार्था । अप्रमाजन्यायथार्था ॥ ५४ ॥ स्मृतिं विभजते । स्मृतिरिति ॥ सर्वेषामनुकूल वेदनीयं सुखम् ॥ ५५ ॥ सुखं लक्षयति । सर्वेषामिति । सुख्यहमित्याद्यनुव्यवसायगम्यं सुखत्वादिकमेव लक्षणम् । यथा श्रुतं स्वरूपकथनमिति दृष्टव्यम् ॥ प्रतिकूल वेदनीयं दुःखम् ॥ ५६ ॥ इच्छा कामः ॥ ५७ ॥ क्रोधो द्वेषः ॥ ५८ ॥ कृतिः प्रयत्नः ॥ ५९ ॥ विहितकर्मजन्यो धर्मः ॥ ६० ॥ निषिद्धकर्मजन्यस्त्वधर्मः ॥ ६१ ॥ बुद्ध्यादयोष्टावात्ममात्रविशेषगुणाः ॥ ६२ ॥ 54. • Memory also is of two kinds;—— Correct and Incorrect. Cor- rect memory is that which arises from correct knowledge. Incorrect memory is that which arises from incorrect knowledge.' 55. • What all perceive to be agreeable, is Pleasure.' 56. • What appears disagreeable, is Pain.' 57. 58. 59. 60. — Desire means wishing. ' — Aversion means disliking.' • Effort means action.' 'Merit arises from the performance of what is enjoined.' 61. But Demerit (arises) from the performance of what is forbidden. 62. • The eight qualities- Understanding and the rest [ Un- derstanding, Pleasure, Pain, Desire, Aversion, Effort, Merit, and Demerit] are distinctive of Soul alone.' क्रिया जन्यत्वमतिक्रिया जनकत्वं वास्य लक्षण बुद्धीच्छाप्रयत्ना द्विविधाः । नित्यानित्याच । नित्येश्वरस्य । अनित्या जीवस्य ॥ ६३ ॥ संस्कारस्त्रिविधः । वेगो भावना स्थितिस्थाप- कश्चेति । वेगः ष्टथिव्यादिचतुष्टयमनोवृत्तिः । अ- नुभवजन्या स्मृतिहेतुर्भावनात्ममात्रवृत्तिः । अ- न्यथाकृतस्य पुनस्तादवस्थ्यापादकः स्थितिस्था- पकः कटादिष्टथिवीवृत्तिः ॥ ६४ ॥ संस्कारं विभजते । संस्कार इति । संस्कारत्वजातिमान्संस्कारः॥ वेगस्याश्रयमाह । वेग इति । वेगत्वजातिमान्वगः ॥ भावनां लक्षयति । अनुभवेति । स्मृतेरपि संस्कारजनकत्वं नवीनैरुक्तम् ॥ आत्मादा- वतिव्याप्तिवारणायानुभवेति । अनुभवविध्वंसेतिव्याप्तिवारणाय स्मृतीति ॥ स्थितिस्थापकं लक्षयति । अन्यथेति । संख्यादयोष्टौ नि- मित्तिकद्रवत्ववेगस्थितिस्थापकाः सामान्यगुणाः । अन्ये रूपादयो विशेषगुणाः । द्रव्यविभाजकोपाधिकरणावृत्ति द्रव्यकर्मावृत्ति जाति- मत्वं विशेषगुणत्वम् ॥ I चलनात्मकं कर्म । ऊर्ध्वदेश संयोगहेतुरुत्क्षेप- णम् । अधोदेशसंयोगहेतुरपक्षेपणम् । शरीरस्य स- न्निकृष्टसंयोगहेतुराकुञ्चनम् । विप्रकृष्टसंयोगहेतुः 63. ' Understanding, Desire and Effort are of two kinds;-Eternal and Transient. Eternal in God, and Transient in mortals.' 64. • Faculty is of three kinds; --Momentum, Imagination and Elasticity. Momentum resides in the four beginning with Earth, [ Earth, Water, Light and Air ] and in Mind. Imagination, the cause of memory, and arising from notion, resides only in the Soul. Elasti- city is that which restores to its former position what had been altered. It resides in things like mats &c. formed of the earthy element.' प्रसारणम् । अन्यत्सर्वं गमनं पृथिव्यादिचतुष्टयम- नोमात्रवृत्ति ॥ ६५ ॥ । कर्मलक्षणमाह । चलनेति ॥ उत्क्षेपणादीनां कार्यभेदमाह । ऊ- ध्वति ॥ वक्रत्वसम्पादकमाकुञ्चनम् । ऋजुतासम्पादकं प्रसारण- मित्यर्थः ॥ नु मानधन वर्तम नित्यमेकमनेकानुगतं सामान्यं द्रव्यगुणकर्मवृ- ति । तद्विविधं परापरभेदात् । परं सत्ता । अपरं । जातिर्द्रव्यत्वादिः ॥ ६६॥ सामान्यं लक्षयति । नित्यमिति । संयोगादावतिव्याप्तिवारणाय नित्यमिति । परमाणुपरिमाणादावतिव्याप्तिवारणायानेकेति । अ- नुगतत्वं समवेतत्वं तेन नाभावादावतिव्याप्तिः ॥ नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः ॥ ६७ ॥ विशेषं लक्षयति । नित्येति ॥ नित्यसम्बन्धः समवायोयुतसिद्धवृत्तिः । ययो- ईयोर्मध्य एकमपराश्रितमेवावतिष्ठते तावायुतसि- द्वौ । अवयवावयविनौ गुणगुणिनौ क्रियाक्रियाव- 65. 'Action consists in motion. Throwing upwards is the cause of conjunction with a higher place. conjunction with a lower place. tion with what is near the body. junction with what is distant. Going is every other variety. Action resides only in the four begining with Earth [Earth, Water Light and Air] and in Mind.' Throwing downwards is the cause of Contraction is the cause of conjunc- Expansion is the cause of con- 66. ' Genus is eternal, one, belonging to more than one, and re- siding in Substance, Quality and Action. It is of two kinds;-Higher and Lower. The higher Genus (the summum genus) is existence. The lower Genus is such a one as Substantiality [the common nature of what are called Substances].' 67.. 'Differences residing in eternal substances, are excluders (of each from genus of nature with the others).' न्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति ॥ ६८ ॥ समवायं लक्षयति । नित्येति । संयोगादावतिव्याप्तिवारणाय नित्येति । आकाशादावतिव्याप्तिवारणाय सम्बन्ध इति ॥ अयुत- सिद्धलक्षणमाह । ययोरिति । नीलो घट इति विशिष्टप्रतीतिर्विशेष- णविशेष्यसम्बन्धविषयाविशिष्टप्रत्ययत्वाद्दण्डीति प्रत्ययिवदिति स- मवायसिद्धिः ॥ अवयवावयविनाविति । द्रव्यसमवायिकारणमव- यवः । तज्जन्यद्रव्यमवयवि ॥ अनादिः सान्तः प्रागभाव उत्पत्तेः पूर्व कार्य- स्य । सादिरनन्तः प्रध्वंस उत्पत्त्यनन्तरं कार्यस्य । त्रैकालिकसंसर्गावच्छिन्न प्रतियोगिको त्यन्ताभावः । यथा भूतले घटो नास्तीति । तादात्म्यसम्बन्धाव- च्छिन्नप्रतियोगिकोन्योन्याभावः । यथा घटः पटो न भवतीति ॥ ६९ ॥ प्रागभाव लक्षयति । अनादिरिति । आकाशादावतिव्याप्तिवार- सान्त इति । घटादावतिव्याप्तिवारणायानादिरिति । प्रतियोगि- 68. Intimate relation is Co-inherence. It exists in things which cannot exist separately. Two things which cannot exist separately are those of which two, the one exists only as lodged in the other. Such pairs are, parts and what is made up of the parts, qua- lities and the thing qualified, action and agent, species and indivi- dual, and difference and eternal substances.' 69. 'Antecedent non-existence is without beginning, and has no end. Such is the non-existence of an effect previously to its produc- tion. Destruction has a beginning, and has no end. ( Such is the non- existence) of an effect subsequently to its production. Absolute non-existence is that of which the counter entity is considered inde- pendently of the three times [past, present and future]. For exam- ple;—(Such is the non-existence in the instance where it is remarked that) there is not a jar on the ground. Mutual non-existence is that of which the counter-entity is considered with reference to the relation of identity. For example;-(Such difference is referred to when it is remarked that) a jar is not a web of cloth.' समवायिकारणवृत्तिः प्रतियोगिजनको भविष्यतीति व्यवहारहेतुः प्रागभावः ॥ प्रध्वंसं लक्षयति । सादिरिति । घटादावतिव्याप्तिवार- णायानन्त इति । आकाशादावतिव्याप्तिवारणाय सादिरिति । प्रतियो- गिजन्यः प्रतियोगिसमवायिवृत्तिध्वस्तव्यवहारहेतुर्ध्वंसः ॥ अत्यन्ता- भावं लक्षयति । त्रैकालिकेति । अन्योन्याभावेतिव्याप्तिवारणाय संस- र्गावच्छिन्नेति । ध्वंसप्रागभावयोरतिव्याप्तिवारणाय त्रैकालिकेति ॥ अन्योन्याभावं लक्षयति । तादात्म्येति । प्रतियोगितावच्छेदकतया- रोपसंसर्गभेदादेकप्रतियोगिकयोरत्यन्ताभावान्योन्याभावयोर्बहुत्वम् । केवलदेवदत्ताभावो दण्ड्यभाव इति प्रतीत्या विशिष्टाभावः । एकसच्चे द्वौ न स्त इति प्रतीत्या द्वित्वावच्छिन्नोभावः । संयोगस- म्बन्धेन घटवति समवायसम्बन्धेन घटाभावः । तत्तद्घटाभावाद- टत्वावच्छिन्नप्रतियोगिकसामान्याभावश्चातिरिक्तः । एवमन्योन्याभा- वोपि । घटत्वावच्छिन्नपटो नास्तीति व्यधिकरणधर्मावच्छिन्नाभा- वो नाङ्गीक्रियते । पटे घटत्वं नास्तीति तस्यार्थः । अतिरिक्तत्वे स केवलान्वयी । सामयिकाभावोत्यन्ताभाव एव समवायविशेषे प्रतीयमानः । घटाभाववति घटानयनेत्यन्ताभावस्यान्यत्र गमनाभावे- प्यप्रतीतेर्घटापसरणे सति प्रतीतेः । भूतले घटसंयोगप्रागभावप्रध्वं- सयोरत्यन्ताभावप्रतीतिनियामकत्वं कल्प्यते । घटवति संयोगप्राग- भावप्रध्वंसयोरसच्वात् । अत्यन्ताभावस्याप्रतीतिः । घटापसरणे च संयोगध्वंससच्वात्प्रतीतिरिति । केवलाधिकरणादेव नास्तीति व्य- वहारोपपत्तावभावो न पदार्थान्तरमिति गुरवः । तन्न । अभावान- ङ्गीकारे कैवल्यस्य निर्वक्तुमशक्यत्वात् । अभावाभावो भाव एव नातिरिक्तः ः । अनवस्थाप्रसङ्गात् ॥ ध्वंसप्रागभावः प्रागभावध्वंसश्च प्रतियोग्येव । अभावाभावोतिरिक्त एव । तृतीयाभावस्य प्रथमत्वा- न्नानवस्थेति नवीनाः ॥ सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात्सप्तै- व पदार्था इति सिद्धम् ॥ ७० ॥ ॥ 70. 'Since every thing is properly included under the categories that have been now stated, it is established that there are only seven categories.' ननु प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णय- वादजल्पवितण्डाहेत्वाभासछलजातिनिग्रहस्थानानां तत्वज्ञानान्निः श्रेयसाधिगम इति न्यायशास्त्रे षोडशपदार्थानामुक्तत्वात्कथं सप्तैवे- त्यत आह । सर्वेषामिति । सर्वेषां सप्तस्वेवान्तर्भाव इत्यर्थः ॥ आत्मशरीरेन्द्रियार्थमनोबुद्धिप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयमिति द्वादशविधं प्रमेयम् । प्रवृत्तिर्धर्माधर्मौ । रागद्वेषमो- हा दोषाः । रागाद्वेषो मन्युः । मोहः शरीरादावात्मभ्रमः । प्रेत्य- भावो मरणम् । फलं भोगः । अपवर्गो मोक्षः । स च स्वसमाना- धिकरणदुःखप्रागभावासमानकालीनदुःखध्वंसः । प्रयोजनं सुखं दुःखं हानिश्च । दृष्टान्तो महानसादिः । प्रामाणिकत्वेनाभ्युपगतोर्थः सिद्धान्तः । निर्णयो निश्चयः प्रमाणफलम्। तत्वबुभुत्सोः कथा वादः। उभयसाधनवती विजिगीषुकथा जल्पः । स्वपक्षस्थापनहीना वितण्डा। कथानामनानावक्तृकपूर्वोत्तरपक्षवाक्यसन्दर्भः । अभिप्रायान्तरेण प्रयु- तस्यार्थान्तरं प्रकल्प्य दूषणं छलम् । असदुत्तरं जातिः । साध- वैधम्र्योत्कर्षापकर्षवर्ण्यवर्ण्यविकल्पसाध्यप्राप्यप्राप्तिप्रसङ्गदृष्टा- न्तानुपपत्तिसंशयप्रकरणाहेत्वर्थापत्यविशेषोपपत्त्यविशेषोपलब्ध्यनु- पलब्धिकारणं नित्यानित्यकार्य समजातिः । वादिनोपराजयहेतु- निग्रहस्थानम् । प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञा- संन्यासो हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तका- लं न्यूनमधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभाविक्षेपो मता- नुज्ञापर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोपसिद्धान्तो हेत्वाभासच निग्रहस्थानानि । शेषं सुगमम् ॥ ननु करतलानलसंयोगे सत्यपि प्रतिबन्धके सति दाहानुत्पत्तेः शक्तिः पदार्थान्तरमिति चेन्न । प्रतिबन्धकाभावस्य कार्यमात्रकारणत्वेन शक्तेरनुपयोगात् । कारण- स्यैव शक्तिपदार्थत्वमिति ॥ ननु भस्मादिना कांस्यादौ शुद्धिदर्शना- दाधेयशक्तिरङ्गीकार्येति चेन्न । भस्मादिसंयोगसमानकालीना स्पृश्य- स्पर्शप्रतियोगि कयावदभावसहितभस्मादिसंयोगध्वंसस्य शुद्धिप- दार्थत्वात् । स्वत्वमपि न पदार्थान्तरम् । यथेष्टविनियोगयोग्यत्वस्य स्वत्वरूपत्वात् । तदवच्छेदकं च प्रतिग्राहादि लब्धत्वमेवेति ॥ अथ विधिर्निरूप्यते ॥ प्रयत्नजनकचिकीर्षाजनकज्ञानविषयो विधिः । तत्प्रतिपादको लिङादिर्वा । कृत्यसाध्ये प्रवृत्यदर्शनात्कृ- तिसाध्यताज्ञानं प्रवर्तकम् । न च विषभक्षणादौ प्रवृत्तिप्रसङ्गः । इष्टसाधनता लिङ्गकृतिसाध्यताज्ञानस्य काम्यस्थले नित्यनैमित्तिक- स्थले च विहितकालजीवित्वनिमित्तकज्ञानजन्यत्वस्यैव प्रवर्तकत्वा- त् । न चानुगमः । स्वविशेषणवत्ताप्रतिसन्धानजन्यत्वस्यानुगतत्वा- दिति गुरुव्रतम् । तन्न । लाघवेन कृतिसाध्येष्टसाधनताज्ञानस्यैव चिकीर्षाद्वारा प्रयत्नजनकत्वात् । न च नित्येष्टसाधनत्वाभावादप्र- वृत्तिप्रसङ्गः । तत्रापि प्रत्यवायपरिहारस्य पापक्षयफलत्वस्य च कल्पनात् । तस्मात्कृतिसाध्येष्टसाधनत्वमेव लिङाद्यर्थः ॥ ननु ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यत्र लिङा स्वर्गसाधनकार्यं प्रती- यते । यागस्याशुविनाशिनः कालान्तरभावि स्वर्गसाधनत्वायोगा- द्योग्यं स्थायिकार्यमपूर्वमेव लिङर्थः । कार्यं कृतिसाध्यं कृतेः स- विषयत्वात् । विषयाकांक्षायां यागो विषयत्वेनान्वितस्य कार्य- मिति नियोज्याकाङ्क्षायां स्वर्गकामपदं नियोज्य परतयान्वितकार्य- बोध्यो नियोज्यः । तेन ज्योतिष्टोमनामकयागविषयकं स्वर्गकामस्य कार्यमिति वाक्यार्थः सम्पद्यते । वैदिकालिङित्वाद्यावज्जीवमग्निहोत्रं जुहुयादिति नित्यवाक्ये सत्यपूर्वमेव वाच्यं कल्प्यते ॥ आरोग्य- कामो भैषजपानं कुर्यादित्यादौ लौकिकलिङ्कार्ये लक्षणेति चेन्न । आतुरस्याप्यारोग्यतानिश्श्रयाभावेन साधनतया प्रतीत्यनन्तरं नि- वाहार्थमवान्तरव्यापारतयापूर्वस्य कल्पनात् । कीर्तनादिना ना- शश्रुतेर्न यागध्वंसो व्यापारः । लोकव्युत्पत्तिबलात् । क्रियायामेव कृतिसाध्येष्टसाधनत्वं लिङा बोध्यत इति लिङत्वेन रूपेण विध्यर्थ- त्वम् । आख्यातत्वेन प्रयत्नार्थकत्वम् । पचति पाकं करोतीति विव- रणदर्शनात् । किं करोतीति प्रश्ने पचतीत्युत्तराच्चाख्यातस्य प्रयत्ना- त्वनिश्चयात् । रथो गच्छतीत्यादावनुकूलव्यापारे लक्षणा । देवद- तः पचति तण्डुला देवदत्तेन पच्यते तण्डुलमित्यत्र कर्तृकर्मणोर्ना - ख्यातार्थत्वम् । किंतु तद्गतैकत्वादीनामेव । तयोराक्षेपादेव लाभः । प्रजयतीत्यादौ धातोरेव प्रकर्षे शक्तिः । उपसर्गाणां द्योतकत्वमेव न तत्र शक्तिरिति ॥ पदार्थज्ञानस्य परमप्रयोजनं मोक्षः । तथाहि । आत्मावारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति श्रुत्या श्रवणादीनामात्मसाक्षात्कारहेतुत्वबोधनात् । श्रुत्या देहादिविलक्ष- णात्मज्ञानेप्यसम्भवादिनिवृत्तेर्युक्त्यनुसन्धानरूपमननसाध्यत्वान्मन- नोपयोगिपदार्थनिरूपणद्वाराशास्त्रस्यापिमोक्षोपयोगः । तदनन्तरं श्रुत्युपदिष्टयोगविधिना निदिध्यासने कृते तदनन्तरं देहादिविलक्ष- णात्मसाक्षात्कारे सति देहादावहमभिमानरूपमिथ्याज्ञाननाशे सति दोषाभावात्प्रवृत्त्यभावे धर्माधर्मयोरभावाज्जन्माभावे पूर्वधर्माधर्म- योरनुभवेन नाशे चरमदुःखध्वंसलक्षणो मोक्षो जायते । ज्ञानमेव मोक्षसाधनं मिथ्याज्ञाननिवृत्तेर्ज्ञानमात्रसाधनत्वात् । तमेवं विदि- त्वातिमृत्युमेति । नान्यः पन्था विद्यतेयनायेति साधनान्तरनिषेधाच्च । ननु तत्प्राप्तिहेतुविज्ञानं कर्म चोक्तं महामुनेः । इति । कर्मणो मोक्षसाधनत्वस्मरणात् ॥ ज्ञानकर्मणोः समुच्चय इति चेन्न । नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् ॥ ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत् । अभ्यासात्पक्वविज्ञानं कैवल्यं लभते नरः ॥ इत्यादिना कर्मणो ज्ञानसाध्यत्वप्रतिपादनात् ॥ ज्ञानद्वारैव मो- क्षसाधनं न साक्षात् । तस्मात्पदार्थज्ञानस्य मोक्षः परमं प्रयोजन- मिति सर्वं रमणीयम् ॥ कणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये । अन्नंभट्टेन विदुषा रचितस्तर्कसङ्ग्रहः ॥ ॥ इति महोपाध्यायान्नंभट्टविरचितः स्वकृतदीपिका- समेतस्तर्कसङ्ग्रहः समाप्तः ॥ ॥ शुभं भवतु ॥ This Compendium of Logical results was composed by the learned Annam Bhatta, in order to perfect the acquaintance of stu- dents with the opinions of Kaṇâda and of the Nyâya. 28 * INDEX. The figures refer to the sections of the text. अत्यन्ताभावः ( अभावः ) . . ६९ आप्तः .. .. अधर्म: (गुणः ) .. •. ६१ आश्रयासिद्ध: ( असिद्ध:) •• ४६ अनुपसंहारी ( सव्यभिचारः ) ४६ इच्छा ( गुण: ) अनुभव: ( बुद्धिः ) ३४ इन्द्रियार्थसन्निकर्ष : .. उत्क्षेपणम् ( कर्म ) . अनुमानम् [ लिङ्गपरामर्शः ] ( प्रमाणम् ) अनुमितिः ( अनुभवः ) अन्योन्याभावः ( अभाव: ) .. अन्वयव्यतिरेकि (लिङ्गम् ) अन्वयव्याप्तिः ... । .. .. ४० उदाहरणम् ( अवयवः ) .. ४२ ४० उपनय: ( अवयवः ) ६९ उपमानम् ( प्रमाणम् ) ११ उपमिति: ( अनुभवः ) ४४ । उपाधिः .४२ अपक्षेपणम् ( कर्म ) . .. ६५ करणम् अपरम् ( सामान्यम्) .. ६६ कर्म (पदार्थः) .. ४,६५ अपरत्वम् (गुणः ) २९ कारणम् अभावः ( पदार्थः ) ..८ कालः (द्रव्यम् ) • अयथार्था (स्मृतिः ) .. अप्रमा [अयथार्थः] (अनुभवः) ३४ कार्यम्. अयथार्थः[अप्रमा] (अनुभवः) ३४ केवलव्यतिरेकि (लिङ्गम् ) .. अयुत सिद्धः •• अवयवः असमवायि ( कारणम् ) असाधारणः ( सव्यभिचारः असिद्ध: ( हेत्वाभासः ) आकाङ्क्षा आकाशम् (द्रव्यम् ) आकुञ्चनम् ( कर्म ) आत्मा (द्रव्यम्) आपः (द्रव्यम् ) ... .. .. •. .. ५४ केवलान्वयि (लिङ्गम् ) ६८ गन्धः ( गुणः ) . ४२ गमनम् ( कर्म ) ३७ गुण: (. पदार्थ: ). ) ४६ गुरुत्वम् ( गुण: ) .. ४६) तर्कः ( अयथार्थानुभव:) ४९ । तेजस् (द्रव्यम् ) १४ दिकू (द्रव्यम्) ६५ दुःखम् ( गुणः ) १७ द्रवत्वम् ( गुण: ) १० द्रव्यम् ( पदार्थः ) .. .. २१ • ६५ ४.३ ...३० .. .. .. .. • द्वेषः ( गुणः ).... धर्म: ( गुणः ) .. निगमनम् ( अवयवः ) निमित्तम् ( कारणम् ) निर्विकल्पकम् (प्रत्यक्षम् ) पक्ष: पक्षधर्मता .. पदम् पदार्थः •• परम् ( सामान्यम् ) .. परत्वम् (गुणः ) परामर्शः परार्थम् ( अनुमानम् ) परिमाणम् (गुण: ) . पृथक्त्वम् (गुण:) .. पृथिवी (द्रव्यम् ) प्रतिज्ञा ( अवयवः ) . प्रत्यक्षम् ( प्रमाणम् ). •• प्रध्वंसः ( अभावः ) . .. ५८ योग्यता ६० रस: (गुण:) ४२ रूपम् (गुण: ) ३७ लिङ्गम् ( हेतु: ) ३८ लिङ्गपरामर्श: [ अनुमानम् ] ४५ ( प्रमाणम् ) .. ४० वाक्यम् .. .. ४८ वायुः (द्रव्यम् ) १ विपक्ष: .. ६६) विपर्यय: ( अयथार्थानुभवः) . ५३ २९ विभाग: ( गुण: ) .. ४० विरुद्ध: ( हेत्वाभास: ) • १६ ४१ विशेष: ( पदार्थ: ) ... ६,६७ २५ । वेगः ( संस्कारः ) २६ व्यतिरेकव्याप्ति: ९ व्याप्तिः .. • • •. ४२ व्याप्तत्वासिद्ध: ( असिद्ध : ).. ४६ • ३८ शक्तिः ६९ शब्दः ( गुणः ) प्रमा [ यथार्थ: ] (अनुभवः). ३४ शाब्दज्ञानम् . • ५९ संयोगः ( गुणः ) .. . ३३,४८ .. ६५ संशय: ( अयथार्थानुभवः) • ५३ प्रयत्नः ( गुणः ) प्रसारणम् ( कर्म ) • प्राण: ( वायुः प्रागभाव: ( अभाव: ) ) .. ६९ संस्कार : ( गुणः ) .. १३ संख्या (गुणः ) .. .. .. बाधित: ( हेत्वाभासः ) ४६ सत्प्रतिपक्ष: ( हेत्वाभासः) .. ४६ बुद्धि: ( गुणः ) .. ३४ सन्निधिः भावना ( संस्कारः ) . ६ ४ सपक्ष: मनस् (द्रव्यम् ) .. १८ समवायः (पदार्थः) यथार्थः [प्रमा] (अनुभवः) .. ३४ समवायि ( कारणम् ) यथार्था ( स्मृतिः ) ... •• ५४ सविकल्पकम् (प्रत्यक्षम् ) .. ३८ • • .. ७,६८ सव्यभिचारः ( हेत्वाभासः) . ४६ । स्नेह: ( गुण: ) साधनाव्यापकः ४६ ।स्पर्शः ( गुणः ) साधारणः (सव्यभिचारः) •• ४६ स्मृति: ( बुद्धिः ) .. • साध्यव्यापकः सामान्यम् (पदार्थः) सुखम् ( गुणः ) NO • ३२ • २२ • ३४ •• ४६ स्वरूपासिद्ध: ( असिद्धः ) .. ४६ ५, ६६ स्वार्थम् ( अनुमानम् ) ५५ हेतु: ( अवयवः ) स्थितिस्थापकः ( संस्कारः ) .. ६४ हेत्वाभास: .. .. • ४२ • ४६ 16 99.. (mp) 88(s) skipan 8. (lat:) REPISSIPPIES 8()() 28(e) 28. SS (HIH). (:) - (FFC): PP (m) pyy ...() UC SOUTHERN REGIONAL LIBRARY FACILITY A 000 035 480 3