Original

रोमोद्गमः प्रादुर् अभूद् उमायाः स्विन्नाङ्गुलिः पुङ्गवकेतुर् आसीत् ।वृत्तिस् तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य ॥

Segmented

रोम-उद्गमः प्रादुरभूद् उमायाः स्विद्-अङ्गुलिः पुंगव-केतुः आसीत् वृत्तिस् तयोः पाणि-समागमेन समम् विभक्ता इव मनोभवस्य

Analysis

Word Lemma Parse
रोम रोमन् pos=n,comp=y
उद्गमः उद्गम pos=n,g=m,c=1,n=s
प्रादुरभूद् प्रादुर्भू pos=v,p=3,n=s,l=lun
उमायाः उमा pos=n,g=f,c=6,n=s
स्विद् स्विद् pos=va,comp=y,f=part
अङ्गुलिः अङ्गुलि pos=n,g=m,c=1,n=s
पुंगव पुंगव pos=n,comp=y
केतुः केतु pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
वृत्तिस् वृत्ति pos=n,g=f,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
पाणि पाणि pos=n,comp=y
समागमेन समागम pos=n,g=m,c=3,n=s
समम् समम् pos=i
विभक्ता विभज् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
मनोभवस्य मनोभव pos=n,g=m,c=6,n=s