Original

तत्रावतीर्याच्युतदत्तहस्तः शरद्घनाद् दीधितिमान् इवोक्ष्णः ।क्रान्तानि पूर्वं कमलासनेन कक्ष्यान्तराण्य् अद्रिपतेर् विवेश ॥

Segmented

तत्र अवतीर्य अच्युत-दत्त-हस्तः शरद्-घनात् दीधितिमान् इव उक्ष्णः क्रान्तानि पूर्वम् कमलासनेन कक्ष्या-अन्तरानि अद्रिपतेः विवेश

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अवतीर्य अवतृ pos=vi
अच्युत अच्युत pos=n,comp=y
दत्त दा pos=va,comp=y,f=part
हस्तः हस्त pos=n,g=m,c=1,n=s
शरद् शरद् pos=n,comp=y
घनात् घन pos=n,g=m,c=5,n=s
दीधितिमान् दीधितिमन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
उक्ष्णः उक्षन् pos=n,g=m,c=6,n=s
क्रान्तानि क्रम् pos=va,g=n,c=2,n=p,f=part
पूर्वम् पूर्वम् pos=i
कमलासनेन कमलासन pos=n,g=m,c=3,n=s
कक्ष्या कक्ष्या pos=n,comp=y
अन्तरानि अन्तर pos=n,g=n,c=2,n=p
अद्रिपतेः अद्रिपति pos=n,g=m,c=6,n=s
विवेश विश् pos=v,p=3,n=s,l=lit