Original

अङ्काद् ययाव् अङ्कम् उदीरिताशीः सा मण्डनान् मण्डनम् अन्वभुङ्क्त ।संबन्धिभिन्नो ऽपि गिरेः कुलस्य स्नेहस् तदेकायतनं जगाम ॥

Segmented

अङ्काद् ययाव् अङ्कम् उदीरय्-आशीः सा मण्डनान् मण्डनम् अन्वभुङ्क्त सम्बन्धि-भिन्नः ऽपि गिरेः कुलस्य स्नेहस् तद्-एक-आयतनम् जगाम

Analysis

Word Lemma Parse
अङ्काद् अङ्क pos=n,g=m,c=5,n=s
ययाव् या pos=v,p=3,n=s,l=lit
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
उदीरय् उदीरय् pos=va,comp=y,f=part
आशीः आशी pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
मण्डनान् मण्डन pos=n,g=n,c=5,n=s
मण्डनम् मण्डन pos=n,g=n,c=2,n=s
अन्वभुङ्क्त अनुभुज् pos=v,p=3,n=s,l=lan
सम्बन्धि सम्बन्धिन् pos=a,comp=y
भिन्नः भिद् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
गिरेः गिरि pos=n,g=m,c=6,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
स्नेहस् स्नेह pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
एक एक pos=n,comp=y
आयतनम् आयतन pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit