Original

ततो गणैः शूलभृतः पुरोगैर् उदीरितो मङ्गलतूर्यघोषः ।विमानशृङ्गाण्य् अवगाहमानः शशंस सेवावसरं सुरेभ्यः ॥

Segmented

ततो गणैः शूलभृतः पुरोगैः उदीरितो मङ्गल-तूर्य-घोषः विमान-शृङ्गाणि अवगाहमानः शशंस सेवा-अवसरम् सुरेभ्यः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गणैः गण pos=n,g=m,c=3,n=p
शूलभृतः शूलभृत् pos=n,g=m,c=6,n=s
पुरोगैः पुरोग pos=a,g=m,c=3,n=p
उदीरितो उदीरय् pos=va,g=m,c=1,n=s,f=part
मङ्गल मङ्गल pos=n,comp=y
तूर्य तूर्य pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
विमान विमान pos=n,comp=y
शृङ्गाणि शृङ्ग pos=n,g=n,c=2,n=p
अवगाहमानः अवगाह् pos=va,g=m,c=1,n=s,f=part
शशंस शंस् pos=v,p=3,n=s,l=lit
सेवा सेवा pos=n,comp=y
अवसरम् अवसर pos=n,g=m,c=2,n=s
सुरेभ्यः सुर pos=n,g=m,c=4,n=p