Original

तावद् वरस्यापि कुबेरशैले तत्पूर्वपाणिग्रहणानुरूपम् ।प्रसाधनं मातृभिर् आदृताभिर् न्यस्तं पुरस्तात् पुरशासनस्य ॥

Segmented

तावद् वरस्य अपि कुबेर-शैले तद्-पूर्व-पाणिग्रहण-अनुरूपम् प्रसाधनम् मातृभिः आदृताभिः न्यस्तम् पुरस्तात् पुरशासनस्य

Analysis

Word Lemma Parse
तावद् तावत् pos=i
वरस्य वर pos=n,g=m,c=6,n=s
अपि अपि pos=i
कुबेर कुबेर pos=n,comp=y
शैले शैल pos=n,g=m,c=7,n=s
तद् तद् pos=n,comp=y
पूर्व पूर्व pos=n,comp=y
पाणिग्रहण पाणिग्रहण pos=n,comp=y
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
प्रसाधनम् प्रसाधन pos=n,g=n,c=1,n=s
मातृभिः मातृ pos=n,g=f,c=3,n=p
आदृताभिः आदृ pos=va,g=f,c=3,n=p,f=part
न्यस्तम् न्यस् pos=va,g=n,c=1,n=s,f=part
पुरस्तात् पुरस्तात् pos=i
पुरशासनस्य पुरशासन pos=n,g=m,c=6,n=s