Original

इच्छाविभूत्योर् अनुरूपम् अद्रिस् तस्याः कृती कृत्यम् अशेषयित्वा ।सभ्यः सभायां सुहृदास्थितायां तस्थौ वृषाङ्कागमनप्रतीक्षः ॥

Segmented

इच्छा-विभूति अनुरूपम् अद्रिस् तस्याः कृती कृत्यम् अशेषयित्वा सभ्यः सभायाम् सुहृद्-आस्थितायाम् तस्थौ वृषाङ्क-आगमन-प्रतीक्षः

Analysis

Word Lemma Parse
इच्छा इच्छा pos=n,comp=y
विभूति विभूति pos=n,g=f,c=6,n=d
अनुरूपम् अनुरूप pos=a,g=n,c=2,n=s
अद्रिस् अद्रि pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
कृती कृतिन् pos=a,g=m,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
अशेषयित्वा अशेषयित्वा pos=i
सभ्यः सभ्य pos=n,g=m,c=1,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
सुहृद् सुहृद् pos=n,comp=y
आस्थितायाम् आस्था pos=va,g=f,c=7,n=s,f=part
तस्थौ स्था pos=v,p=3,n=s,l=lit
वृषाङ्क वृषाङ्क pos=n,comp=y
आगमन आगमन pos=n,comp=y
प्रतीक्षः प्रतीक्ष pos=a,g=m,c=1,n=s