Original

अयुक्तरूपं किम् अतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् ।स्तनद्वये ऽस्मिन् हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति ॥

Segmented

अयुक्त-रूपम् किम् अतः परम् वद त्रिनेत्र-वक्षः सुलभम् ते अपि यत् स्तन-द्वये ऽस्मिन् हरिचन्दन-आस्पदे पदम् चिता-भस्म-रजः करिष्यति

Analysis

Word Lemma Parse
अयुक्त अयुक्त pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s
वद वद् pos=v,p=2,n=s,l=lot
त्रिनेत्र त्रिनेत्र pos=n,comp=y
वक्षः वक्षस् pos=n,g=n,c=1,n=s
सुलभम् सुलभ pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
यत् यद् pos=n,g=n,c=1,n=s
स्तन स्तन pos=n,comp=y
द्वये द्वय pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
हरिचन्दन हरिचन्दन pos=n,comp=y
आस्पदे आस्पद pos=n,g=n,c=7,n=s
पदम् पद pos=n,g=n,c=2,n=s
चिता चिता pos=n,comp=y
भस्म भस्मन् pos=n,comp=y
रजः रजस् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt