Original

कुले प्रसूतिः प्रथमस्य वेधसस् त्रिलोकसौन्दर्यम् इवोदितं वपुः ।अमृग्यम् ऐश्वर्यसुखं नवं वयस् तपःफलं स्यात् किम् अतः परं वद ॥

Segmented

कुले प्रसूतिः प्रथमस्य वेधसस् त्रिलोक-सौन्दर्यम् इव उदितम् वपुः अमृग्यम् ऐश्वर्य-सुखम् नवम् वयस् तपः-फलम् स्यात् किम् अतः परम् वद

Analysis

Word Lemma Parse
कुले कुल pos=n,g=n,c=7,n=s
प्रसूतिः प्रसूति pos=n,g=f,c=1,n=s
प्रथमस्य प्रथम pos=a,g=m,c=6,n=s
वेधसस् वेधस् pos=n,g=m,c=6,n=s
त्रिलोक त्रिलोक pos=n,comp=y
सौन्दर्यम् सौन्दर्य pos=n,g=n,c=1,n=s
इव इव pos=i
उदितम् उदि pos=va,g=n,c=1,n=s,f=part
वपुः वपुस् pos=n,g=n,c=1,n=s
अमृग्यम् अमृग्य pos=a,g=n,c=1,n=s
ऐश्वर्य ऐश्वर्य pos=n,comp=y
सुखम् सुख pos=n,g=n,c=1,n=s
नवम् नव pos=a,g=n,c=1,n=s
वयस् वयस् pos=n,g=n,c=1,n=s
तपः तपस् pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
किम् pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् परम् pos=i
वद वद् pos=v,p=2,n=s,l=lot