Original

सुराः समभ्यर्थयितार एते कार्यं त्रयाणाम् अपि विष्टपानाम् ।चापेन ते कर्म न चातिहिंस्रम् अहो बतासि स्पृहणीयवीर्यः ॥

Segmented

सुराः समभ्यर्थयितार एते कार्यम् त्रयाणाम् अपि विष्टपानाम् चापेन ते कर्म न च अति हिंस्रम् अहो बत असि स्पृहणीय-वीर्यः

Analysis

Word Lemma Parse
सुराः सुर pos=n,g=m,c=1,n=p
समभ्यर्थयितार समभ्यर्थयितृ pos=a,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
कार्यम् कार्य pos=n,g=n,c=2,n=s
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
अपि अपि pos=i
विष्टपानाम् विष्टप pos=n,g=m,c=6,n=p
चापेन चाप pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
pos=i
अति अति pos=i
हिंस्रम् हिंस्र pos=a,g=n,c=1,n=s
अहो अहो pos=i
बत बत pos=i
असि अस् pos=v,p=2,n=s,l=lat
स्पृहणीय स्पृह् pos=va,comp=y,f=krtya
वीर्यः वीर्य pos=n,g=m,c=1,n=s