Original

तद् गच्छ सिद्ध्यै कुरु देवकार्यम् अर्थो ऽयम् अर्थान्तरभाव्य एव ।अपेक्षते प्रत्ययम् उत्तमं त्वां बीजाङ्कुरः प्राग् उदयाद् इवाम्भः ॥

Segmented

तद् गच्छ सिद्ध्यै कुरु देव-कार्यम् अर्थो ऽयम् अर्थ-अन्तर-भावनीयः एव अपेक्षते प्रत्ययम् उत्तमम् त्वाम् बीज-अङ्कुरः प्राग् उदयाद् इव अम्भः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
सिद्ध्यै सिद्धि pos=n,g=f,c=4,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
देव देव pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=2,n=s
अर्थो अर्थ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
भावनीयः भावय् pos=va,g=m,c=1,n=s,f=krtya
एव एव pos=i
अपेक्षते अपेक्ष् pos=v,p=3,n=s,l=lat
प्रत्ययम् प्रत्यय pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
बीज बीज pos=n,comp=y
अङ्कुरः अङ्कुर pos=n,g=m,c=1,n=s
प्राग् प्राक् pos=i
उदयाद् उदय pos=n,g=m,c=5,n=s
इव इव pos=i
अम्भः अम्भस् pos=n,g=n,c=2,n=s