Original

कुबेरस्य मनःशल्यं शंसतीव पराभवम् ।अपविद्धगदो बाहुर् भग्नशाख इव द्रुमः ॥

Segmented

कुबेरस्य मनः-शल्यम् शंसति इव पराभवम् अपविद्ध-गदः बाहुः भग्न-शाखः इव द्रुमः

Analysis

Word Lemma Parse
कुबेरस्य कुबेर pos=n,g=m,c=6,n=s
मनः मनस् pos=n,comp=y
शल्यम् शल्य pos=n,g=n,c=1,n=s
शंसति शंस् pos=v,p=3,n=s,l=lat
इव इव pos=i
पराभवम् पराभव pos=n,g=m,c=2,n=s
अपविद्ध अपव्यध् pos=va,comp=y,f=part
गदः गदा pos=n,g=m,c=1,n=s
बाहुः बाहु pos=n,g=m,c=1,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
शाखः शाखा pos=n,g=m,c=1,n=s
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s