Original

पदं तुषारस्रुतिधौतरक्तं यस्मिन्न् अदृष्ट्वापि हतद्विपानाम् ।विदन्ति मार्गं नखरन्ध्रमुक्तैर् मुक्ताफलैः केसरिणां किराताः ॥

Segmented

पदम् तुषार-स्रुति-धौत-रक्तम् यस्मिन्न् अदृष्ट्वा अपि हत-द्विपानाम् विदन्ति मार्गम् नख-रन्ध्र-मुक्तैः मुक्ताफलैः केसरिणाम् किराताः

Analysis

Word Lemma Parse
पदम् पद pos=n,g=n,c=2,n=s
तुषार तुषार pos=n,comp=y
स्रुति स्रुति pos=n,comp=y
धौत धाव् pos=va,comp=y,f=part
रक्तम् रञ्ज् pos=va,g=n,c=2,n=s,f=part
यस्मिन्न् यद् pos=n,g=m,c=7,n=s
अदृष्ट्वा अदृष्ट्वा pos=i
अपि अपि pos=i
हत हन् pos=va,comp=y,f=part
द्विपानाम् द्विप pos=n,g=m,c=6,n=p
विदन्ति विद् pos=v,p=3,n=p,l=lat
मार्गम् मार्ग pos=n,g=m,c=2,n=s
नख नख pos=n,comp=y
रन्ध्र रन्ध्र pos=n,comp=y
मुक्तैः मुच् pos=va,g=n,c=3,n=p,f=part
मुक्ताफलैः मुक्ताफल pos=n,g=n,c=3,n=p
केसरिणाम् केसरिन् pos=n,g=m,c=6,n=p
किराताः किरात pos=n,g=m,c=1,n=p