Original

प्रत्यर्थिभूताम् अपि तां समाधेः शुश्रूषमाणां गिरिशो ऽनुमेने ।विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ॥

Segmented

प्रत्यर्थि-भूताम् अपि ताम् समाधेः शुश्रूषमाणाम् गिरिशो ऽनुमेने विकार-हेतौ सति विक्रियन्ते येषाम् न चेतांसि त एव धीराः

Analysis

Word Lemma Parse
प्रत्यर्थि प्रत्यर्थिन् pos=n,comp=y
भूताम् भू pos=va,g=f,c=2,n=s,f=part
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
समाधेः समाधि pos=n,g=m,c=6,n=s
शुश्रूषमाणाम् शुश्रूष् pos=va,g=f,c=2,n=s,f=part
गिरिशो गिरिश pos=n,g=m,c=1,n=s
ऽनुमेने अनुमन् pos=v,p=3,n=s,l=lit
विकार विकार pos=n,comp=y
हेतौ हेतु pos=n,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
विक्रियन्ते विकृ pos=v,p=3,n=p,l=lat
येषाम् यद् pos=n,g=m,c=6,n=p
pos=i
चेतांसि चेतस् pos=n,g=n,c=1,n=p
तद् pos=n,g=m,c=1,n=p
एव एव pos=i
धीराः धीर pos=a,g=m,c=1,n=p