Original

तां नारदः कामचरः कदा चित् कन्यां किल प्रेक्ष्य पितुः समीपे ।समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ॥

Segmented

ताम् नारदः काम-चरः कदाचित् कन्याम् किल प्रेक्ष्य पितुः समीपे समादिदेश एक-वधूम् भवित्रीम् प्रेम्णा शरीर-अर्ध-हराम् हरस्य

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
नारदः नारद pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
कदाचित् कदाचिद् pos=i
कन्याम् कन्या pos=n,g=f,c=2,n=s
किल किल pos=i
प्रेक्ष्य प्रेक्ष् pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
समादिदेश समादिस् pos=v,p=3,n=s,l=lit
एक एक pos=n,comp=y
वधूम् वधू pos=n,g=f,c=2,n=s
भवित्रीम् भवितृ pos=a,g=f,c=2,n=s
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
शरीर शरीर pos=n,comp=y
अर्ध अर्ध pos=n,comp=y
हराम् हर pos=a,g=f,c=2,n=s
हरस्य हर pos=n,g=m,c=6,n=s