Original

तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः ।नीवीम् अतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेर् इवार्चिः ॥

Segmented

तस्याः प्रविष्टा नत-नाभि-रन्ध्रम् रराज तन्वी नव-लोमराजिः नीवीम् अतिक्रम्य सितेतरस्य तद्-मेखला-मध्य-मणेः इव अर्चिः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
प्रविष्टा प्रविश् pos=va,g=f,c=1,n=s,f=part
नत नम् pos=va,comp=y,f=part
नाभि नाभि pos=n,comp=y
रन्ध्रम् रन्ध्र pos=n,g=m,c=2,n=s
रराज राज् pos=v,p=3,n=s,l=lit
तन्वी तनु pos=a,g=f,c=1,n=s
नव नव pos=a,comp=y
लोमराजिः लोमराजि pos=n,g=f,c=1,n=s
नीवीम् नीवि pos=n,g=f,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
सितेतरस्य सितेतर pos=a,g=m,c=6,n=s
तद् तद् pos=n,comp=y
मेखला मेखला pos=n,comp=y
मध्य मध्य pos=n,comp=y
मणेः मणि pos=n,g=m,c=6,n=s
इव इव pos=i
अर्चिः अर्चिस् pos=n,g=n,c=2,n=s