Original

सा राजहंसैर् इव संनताङ्गी गतेषु लीलाञ्चितविक्रमेषु ।व्यनीयत प्रत्युपदेशलुब्धैर् आदित्सुभिर् नूपुरसिञ्जितानि ॥

Segmented

सा राजहंसैः इव संनत-अङ्गी गतेषु लीला-आञ्च्-विक्रमेषु व्यनीयत प्रत्युपदेश-लुब्धैः आदित्सुभिः नूपुर-सिञ्जितानि

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
राजहंसैः राजहंस pos=n,g=m,c=3,n=p
इव इव pos=i
संनत संनम् pos=va,comp=y,f=part
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
लीला लीला pos=n,comp=y
आञ्च् आञ्च् pos=va,comp=y,f=part
विक्रमेषु विक्रम pos=n,g=m,c=7,n=p
व्यनीयत विनी pos=v,p=3,n=s,l=lan
प्रत्युपदेश प्रत्युपदेश pos=n,comp=y
लुब्धैः लुभ् pos=va,g=m,c=3,n=p,f=part
आदित्सुभिः आदित्सु pos=a,g=m,c=3,n=p
नूपुर नूपुर pos=n,comp=y
सिञ्जितानि सिञ्जित pos=n,g=n,c=2,n=p