<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<p>[NIL]</p>
<pb n="2" />
<p>KAVYAMÂLÂ. 19.
THE
S'URYAS'ATAKA
OF
MAYURA.
With the Commentary of Tribhuvanapala
EDITED BY
PANDIT DURGAPRASÂD
AND
KAS'INATH PANDURANG PARAB.
PRINTED AND PUBLISHED
BY
THE PROPRIETOR
OF
THE "NIRNAYA-SÂGARA" PRESS.
BOMBAY.
1889.
-
Price 6 Annas.</p>
<pb n="3" />
<p>(Registered according to Act XXV. of 1867.)
(All rights reserved by the Publisher.)</p>
<p>^</p>
<pb n="4" />
<p>काव्यमाला. १९.
श्रीमयूरकवविरचितं
सूर्यशतकम् ।
त्रिभुवनपालमणीतया टीकया समेतम् ।
जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना पण्डित-
दुर्गाप्रसादेन, सुम्बापुरवासिना परबोपाहु-
पाण्डुरङ्गात्मज काशिनाथशर्मणा च
संशोधितम् ।
तच्च
मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा
प्राकाश्यं नीतम् ।
11100
/</p>
<p>( अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्यैवाधिकारः ।)</p>
<p>-
1110
मूल्यं ६ आणकाः ।</p>
<pb n="5" />
<p>[NIL]</p>
<pb n="6" />
<p>महाकविश्री[^१]मयूरप्रणीतं
सूर्यशतकम् ।</p>
<p>श्रीत्रिभुवनपालविरचितया टीकयान्वितम् ।</p>
<lg>
  <l>जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं</l>
  <l>रक्ताः सिक्ता[^१] इवौघैरुदयगिरितटीधातुधाराद्रवस्य ।</l>
</lg>
<note>सूर्यशतकप्रणेता श्रीमयूरकविर्बाणभट्टस्य श्वशुर उजयिन्यां वृद्धभोजमहीपतेः
सभायामासीदिति मानतुङ्गाचार्यप्रणीतभक्तामराख्यस्तोत्रटीकाप्रारम्भे मेरुतुङ्गप्रणीतप्रब-
न्धचिन्तामणौ च समुपलभ्यते. प्रबन्धचिन्तामणौ बाणभट्टो मयूरस्य भगिनीपतिरा-
सीदित्युक्तमस्ति अथ च 'अहो प्रभावी वाग्देव्या यन्मातङ्गदिवाकरः । श्रीहर्षस्या-
भवत्सभ्यः समो बाणमयूरयोः ॥' इति शार्ङ्गधरपद्धत्यादिप्रसिद्धराजशेखरपद्येनापि बा-
णमयूरयोः समकालोद्भवत्वं प्रतीयते तस्मान्मयूरकविरपि ख्रिस्ताब्दीयसप्तमशतक-
पूर्वार्धसमुद्भूत इति ज्ञेयम् सूर्यशतकमपहाय मयूरप्रणीतः कोऽप्यन्यो ग्रन्थो नाद्याप्यु-
पलब्धः सूर्यशतकपद्यानि तु ध्वन्यालोककाव्यप्रकाशादिषूदाहृतानि सन्ति दृश्यन्ते
च सूर्यशतकातिरिक्ता अपि कतिपयश्लोकाः सुभाषितावल्यादिषु मयूरनाम्ना समुद्धृताः.
'दर्प कविभुजंगानां गता श्रवणगोचरम् । विषविद्येव मायूरी मायूरी वानिकृन्तति ॥'
इति मयूरप्रशंसापद्यं च सूक्तिमुक्तावलौ राजशेखरनाम्ना समुद्धृतं वर्तते सूर्यशतकस्य
काश्मीरकवल्लभदेव-मधुसूदन- त्रिभुवनपालविरचितं टोकात्रयं प्राचीनम्, यज्ञेश्वरशास्त्रि-
प्रणीता नवीना टीका च वर्तते. तत्र वल्लभदेवकृतटीकास्माभिः कश्मीरेषु षट्त्रिंशश्लो-
कपर्यन्तमासादिता. मधुसूदनकृता नोपलब्धा. अतस्त्रिभुवनपालविरचितटीकासमे
तमेतच्छतकं मुद्रयितुमारब्धम् तत्रास्मन्मुद्रणाधारभूतानि पुस्तकान्येतानि–- प्रथमं
त्रिभुवनपालकृतटीकासमेतं प्रायः शुद्धं १६८५ मिते शकाब्दे लिखितं एकोनत्रिंशत्प
त्रात्मकं मुम्बईनगरवास्तव्यश्रीपण्डितज्येष्ठाराममुकुन्दजीशर्मणां सकाशादधिगतम्; द्वि-
तीयं तादृशमेव पुस्तकं नातिशुद्धं वर्षशतद्वयप्राचीन मिवोपलक्ष्यमाणं त्रिषष्टिपत्रात्मकं
जयपुरराजगुरुकुलोद्भूतोदुम्बरभट्टश्रीकृष्णकुमार शर्मणां संग्रहात्प्राप्तम्, तत्र त्रिभुवनपा-
लस्य नाम नास्ति; तृतीयं मूलमात्रं षट्त्रिंशश्लोकपर्यन्तं वल्लभदेवकृतटीकोद्धृत टिप्पण-
समेतं नवीनं कश्मीरलिखितं पञ्चदशपत्रात्मकमस्मदीयम्.</note>
<note>'सक्तैः' इति पाठान्तरम्,
'संसक्तैः' इति वल्लभदेवव्याख्यानं च. 'शतकेऽस्मिन्स्रग्धरावृत्तम् । आशी: सामान्या-
लंकारः सर्वत्रैव । विशेषालंकारस्तूत्प्रेक्षारूपकश्लेषादयः' इत्यपि वल्लभदेवव्याख्यानम्.</note>
<pb n="7" />
<lg>
  <l>आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै</l>
  <l>भूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः ॥ १ ॥</l>
</lg>
<p>अभिनवा नूतना भानवीया भानवः सावित्रा रश्मयो वो युष्मभ्यं विभूत्यै समृद्ध्यै
भूयासुर्भवन्तु । किं कुर्वन्तः । सान्द्रश्चासौ सिन्दूररेणुश्च सान्द्रो बहल: सिन्दूररेणुः सि
न्दूररजस्तद्दधत इव । किंभूतम् । जम्भस्यारातिर्जम्भारातिः शक्रस्तस्येभो हस्ती ऐ-
रावणस्तस्य कुम्भौ मस्तकौ तयोस्तौ वा उद्भवो यस्येति विग्रहः । एतदुक्तं भवति --
ये स्वर्गस्थास्ते उदयरागभृतस्तानवलोक्यैरावणकुम्भस्थं सिन्दूररेणुं दधत इव मन्यन्ते ।
उदयश्चासौ गिरिश्च तस्य तटी तस्या धातवो गैरिकादयस्तेषां धाराकारो द्रवो धारा-
द्रवः प्रपातस्तस्येवोघैः प्रवाहैः समूहैरविच्छिन्नैः सिक्ता अत एव रक्ता इव । उदयगि
रिस्थानामेवं बुद्धिर्जायते तुल्यकालं समकालमायान्त्या आगच्छन्त्या पद्मखण्डदीप्त्या
इवारुणाः । सहैव सवित्रा कमलवनानां रुगागच्छति । एवं दीप्त्या घरास्थानां प्रती-
तिर्भवति । किं कुर्वन्तो भानवः । त्रैलोक्यमुद्भासयन्तः । अभिनवत्वं तेषां दिक्करणा-
पेक्षया ॥</p>
<lg>
  <l>भक्तिप्रदाय दातुं मुकुलपुटकुटीकोटरक्रोडलीनां</l>
  <l>लक्ष्मीमाक्रष्टुकामा इव कमलवनोद्धाटनं कुर्वते ये ।</l>
  <l>[^१]कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः</l>
  <l>कल्याणं वः क्रियासुः किसलयरुचयस्ते करा भास्करस्य ॥ २ ॥</l>
</lg>
<p>भास्करस्य करा वो युष्माकं कल्याणं क्रियासुर्विधेयासुः । ये कमलवनोद्घाटनं
कुर्वते पद्मखण्डानामुन्मीलनं विदधते । उत्प्रेक्षते - लक्ष्मीमाक्रष्टुकामा इवापक्रष्टुमनस
इव । यतो लक्ष्मीं सदैव कमलवनेषु कृतसंनिधानामाक्रष्टुमिव । किं कर्तुम् । दातुं वित-
रितुम् । कस्मै । भक्तिप्रदाय । भक्त्या प्रो नम्रो भक्तिप्रहस्तस्मै । कोदृशीं श्रियम् ।
मुकुलपुटकुटीकोटरक्रोडलीनाम् । मुकुलशब्देन कुमलमुच्यते । तस्य यः पुटः स एव
कुटी शालेव मुकुलपुटकुटी तस्याः कोटरमभ्यन्तरं तस्य क्रोडोऽवनम्रप्रदेशस्तत्र लीनां
संश्लिष्टम् । कीदृशाः करा: । कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः । का-
लस्येवाकारो यस्य स कालाकारः स चासावन्धकारश्च तस्याननं मुखं तत्र पतितं य-
ज्जगत्तस्य साध्वसं भयं तस्य ध्वंसो नाशस्तत्र कल्याः पटवः समर्था एव । पुनः किल-
क्षणाः । किसलयरुचयः किसलयानामिव रुचिर्येषां तेऽभिनवाङ्कुरभासः ॥</p>
<lg>
  <l>गर्भेष्वम्भोरुहाणां शिखरिषु च शिताग्रेषु तुल्यं पतन्तः</l>
  <l>प्रारम्भे वासरस्य व्युपरतिसमये चैकरूपास्तथैव ।</l>
</lg>
<note>'कायद्भयंकरत्वाच्च कालनिभोऽन्धकारः' इति वल्लभः.</note>
<pb n="8" />
<lg>
  <l>निष्पर्यायं प्रवृत्तास्त्रिभुवनभवनप्राङ्गणे पान्तु युष्मा-</l>
  <l>नूष्माणं संतताध्वश्रमजमिव भृशं बिभ्रतो ब्रध्नपादाः ॥ ३ ॥</l>
</lg>
<p>ब्रध्नः सूर्यस्तस्य पादा रश्मयः पान्त्ववन्तु । कान् । वो युष्मान् । किं कुर्वन्तः । अ-
म्भोरुहाणां पद्मानां गर्भेष्वभ्यन्तरेषु शिखरिषु च पर्वतेषु शिताग्रेषु तीक्ष्णप्रान्तेषु तुल्यं
समं पतन्तो गच्छन्तः । अन्यस्य हि पादा यथा हरितशाद्वलोपचितायां भूमौ निप-
तन्ति तथा न शर्करिलायां कण्ठकितायां वा । ब्रध्नस्य पुनर्मार्दवातिशययुक्तेषु पद्मगर्भेषु
तीक्ष्णशृङ्गेषु च पर्वतेषु समं पतन्ति । वासरस्य दिवसस्य प्रारम्भे मुखे तस्यैव व्युपर-
तिसमये चास्तमनकाले तथैव सदृशा एकरूपाः । त्रिभुवनं भवनप्राङ्गणमिव त्रिभुव-
नभवनप्राङ्गणं तस्मिंस्त्रैलोक्यवेश्माजिरे निष्पर्यायमविद्यमानक्रमं प्रवृत्ताः प्रसृताः । अ-
न्यस्य हि पादाश्चरणा गृहाङ्गणे पर्यायेण प्रवर्तन्ते । तस्य पुनः समकालमेव । ऊष्मा-
णमौष्ण्यं भृशं बिभ्रतोऽत्यर्थे दधतः । उत्प्रेक्षते -- संतताध्वश्रमजमिव । संततश्चासा-
वध्वा च संतताध्वा । अध्वशब्दोऽत्राधिकगमने वर्तते । तेन श्रमस्तस्माज्जातस्तमिव ।
भृशमविच्छिन्नं गाढं गमनखेदसंभवमिव । अन्यो हि यः पान्थस्तस्य पादा ऊष्माणमेव
बिभ्रति दधति ॥</p>
<lg>
  <l>प्रभ्रश्यत्युत्तरीयत्विषि तमसि समुद्वीक्ष्य वीतावृतीन्प्रा-</l>
  <l>ग्जन्तूस्तन्तून्यथा यानतनु वितनुते तिग्मरोचिर्मरीचीन् ।</l>
  <l>ते सान्द्रीभूय सद्यः क्रमविशददशाशादशालीविशालं</l>
  <l>शश्वत्संपादयन्तोऽम्बरममलमलं मङ्गलं वो दिशन्तु ॥ ४ ॥</l>
</lg>
<p>ते रश्मयो मरीचयो मङ्गलं कल्याणं वो दिशन्तु ददतु । यान्किरणांस्तिग्मरोचिस्ती-
क्ष्णदीधितिः सूर्यो वितनुते विस्तारयति । कथं यथा भवति । अतनु विस्तीर्णे यथा भ-
वति । किं कृत्वा । जन्तून्प्राणिनो वीतावृतीन्, आवरणमावृतिः, वीता गता आवृतिर्येषां
ते तान्समवलोक्य समुद्वीक्ष्य । प्राक्पूर्वे तमस्यन्धकारे प्रभ्रश्यति पतति सति । की-
दृशे। उत्तरीयस्येव त्विड् यस्य तदुत्तरीयत्विट् तस्मिन्नंशुकनिभे तिमिरे । कानिव । त-
न्तून्यथा । तन्तवः सूत्राणि यथा तान् । यथा कश्चित्तन्तुवायोऽतनुपटान्वितनुते प्रा-
णभृतो विगतवाससो दृष्ट्वा । ते सान्द्रीभूय घनतां प्राप्याम्बरं वासोऽमलं विमलमुत्पाद-
यन्ति एवं मरीचयोsपि सान्द्रीभूय सद्यस्तत्क्षणमम्बरमाकाशं शश्वत्सर्वदा विमलमुत्पा-
दयन्ति । कीदृशम् । क्रमविशददशाशादशालीविशालम् । क्रमेण पर्यायेण विशदा: परि-
पाट्या स्पष्टा दश च ता आशाश्च दशाशा दश दिश: क्रमविशदाश्च ता दशाशाश्च ता
एव दशास्तासामाली पङ्क्तिस्तया विशालं विस्तीर्णम् । तदपि वासो दशालीविशालम् ॥</p>
<lg>
  <l>न्यक्कुर्वन्नोषधीशे मुषितरुचि शुचेवौषधी: प्रोषिताभा</l>
  <l>भास्वद्ग्रावोद्गतेन प्रथममिव [^१]कृताभ्युद्गतिः पावकेन ।</l>
</lg>
<note>'यो हि यत्प्रसादेन लब्धात्मलाभः स तस्याभ्युद्गमनं करोति' इति वल्लभः.</note>
<pb n="9" />
<lg>
  <l>पक्षच्छेदत्रणासृ क्स्रुत इव दृषदो दर्शयन्प्रातरद्रे-</l>
  <l>राताम्रस्तीव्रभानोरनभिमतनुदे स्ताद्गभस्त्युद्गमो वः ॥ ५ ॥</l>
</lg>
<p>तीव्रभानोर्गभस्त्युद्गमः किरणोदयो वो युष्माकमनभिमतनुदे अनभिमतमनभीष्टं पापं
शत्रुर्वा तस्य नोदनं नुत् तस्यै स्ताद्भवतात् । कीदृश इव । पूर्व प्रथमं पावकेन वह्निना
कृताभ्युद्गतिरिव । अभ्युद्गमनमभ्युद्गतिः । विहितस्वागत इव । किंभूतेन पावकेन । भा-
स्वळावोद्गतेन भास्वतो ग्रावाणो भास्वद्रावाणोऽर्कोपिलाः सूर्यकान्ताभिधाना मणिविशे-
षास्तेभ्य उद्गतो भास्वद्भावोद्गतः । ते हि रविकरस्पृष्टा अग्निमुमन्ति । ओषधिशब्देनौ-
षधिस्थं तेज्ञ उच्यते । तात्स्थ्यात् । यथा गिरिर्दयते पन्थानो मुष्यन्त इति । तत्ति-
रस्कुर्वन्नभिभवन् । ओषधीनामीश ओषधीशः । तस्मिन्नोषधीनां भर्तरीन्दौ मुषितरुचि
मुषिता रुग्यस्य स तस्मिन्मुषितरुचि हतभासि शुचेव शोकेनेव प्रोषिताभा: प्रोषिता
आभा यासामोषधीनां तास्तथोक्ताः । भर्तरि हततेजसि पत्न्यः शोकेन गतवृतयो भ-
वन्ति । प्रातरद्वेरुदयाचलनाम्नो दृषदः शिला दर्शयन्प्रकटयन् । कथंभूता इव । पक्षच्छे-
दत्रणासृक्स्रुत इव । पक्षाणां छेदः पक्षच्छेदस्तेन व्रणास्तेषामग्रुधिरं पक्षच्छेदत्रणासक्
तत्स्रवन्तीति ताः । अङ्गरुहक्षतजस्राविणीर्यथा । यतो गभस्त्युद्गम आताम्रो लोहितो-
ऽतस्तदनुरञ्जिताः शिला एवमुत्प्रेक्ष्यन्ते । पूर्व किल पर्वता: पक्षवन्तोऽभूवंस्तेषामिन्द्र-
स्तांश्चिच्छेद ॥</p>
<lg>
  <l>शीर्णघ्राणाङ्घ्रिपाणीन्व्रणिभिरपघनैर्घर्घराव्यक्तघोषा-</l>
  <l>न्दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन्यः ।</l>
  <l>धर्मीशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्ते-</l>
  <l>र्दत्तार्धाः सिद्धसंधैर्विदधतु घृणयः शीघ्रमंहोविघातम् ॥ ६ ॥</l>
</lg>
<p>धर्माशोरादित्यस्य घृणयो मयूखा वो युष्माकमंहोविघातं पापापनोदं विदधतु कु-
वन्तु । शीघ्रं तत्क्षणम् । किंविशिष्टाः । दत्ताघी दत्तो विश्राणितोऽर्धो येभ्यस्ते । कैः ।
सिद्धसंघैः सिद्धा अणिमादियुक्तास्तेषां संघा वातास्तैरिति । किंभूतोऽसौ घर्माशुः । यः
पुनरपि भूयोऽपि घटयति करोति । कान् । शीर्णघ्राणाङ्गिपाणीन् । घ्राणं नासा । अङ्घ्री
पादौ । पाणी हस्तौ । घ्राणं चाङ्गी च पाणी चेति समाहारद्वन्द्वः । शीणी घ्राणाङ्घ्री-
पाणयो येषां सामर्थ्यादङ्गिनां ते तथोक्तान् । तथा अपघनैरङ्गेणिभिरुपलक्षितान् । घ-
र्घराव्यक्तघोषान् घर्घरो जर्जरोऽव्यक्तोऽस्फुटो घोषो ध्वनिर्येषाम् । प्राणादिलुप्ततायां
कण्ठौष्ठादित्रणितायां च कारणमुपवर्णयन्नाह --अघौघैः पापसमूहैर्घाघ्रातांविरतरग्र-
स्तान् । किं कुर्वन् । उल्लाघयनिर्व्याधोकुर्वन् । एकोऽसहाय: । रुद्रादयोऽपि सूर्यमूर्ति-
मारूढा एव नीरोगं कुर्वन्तीति संबन्ध: (भाव:) । किंभूतस्य भानोः । अन्तर्द्विगुणघ-
नघृणानिघ्ननिर्विघ्नवृत्तेः। अन्तर्मध्ये चेतसि द्विगुणा घना बहुला घृणा दया । घना चासौ</p>
<pb n="10" />
<p>घृणा च घनघृणा । अन्तद्विगुणा चासौ घनघृणा च तया निम्ना परवशा निर्विघ्न्ना अन्त-
रायरहिता वृत्तिर्यस्य स तथोक्तः ॥</p>
<lg>
  <l>बिभ्राणा वामनत्वं प्रथममथ तथैवांशवः प्रांशवो वः</l>
  <l>क्रान्ताकाशान्तरालास्तदनु दशदिशः पूरयन्तस्ततोऽपि ।</l>
  <l>ध्वान्तादाच्छिद्य देव[^१]द्विष इव बलितो विश्वमाश्वनुवानाः</l>
  <l>कृच्छ्राण्युच्छ्रायहेलोपहसितहरयो हारिदश्वा हरन्तु ॥ ७ ॥</l>
</lg>
<p>हारिदश्वाः सूर्यसंबन्धिनोंऽशवो रश्मयो वो युष्माकं कृच्छ्राणि दुःखानि हरन्त्वपन
यन्तु । पुनर्विशेष्यन्ते—-उच्छ्रायहेलोपहसितहरयः । उच्छ्राय उच्चैस्त्वं तस्य या हेला
लीला तथा उपहसितो विडम्बितस्त्वत्तोऽधिको देशोऽस्मादिति (?) हसितो हरिर्विष्णु-
स्ते । प्रारब्धविक्रमस्य विष्णोः सदृशा इति तात्पर्यार्थः । किं कुर्वाणाः । बिभ्राणा धार-
यन्तः । किम् । वामनत्वं खर्वत्वम् । प्रथममादौ । अथानन्तरं प्रांशवो दीर्घास्तथैव यथा
भगवान्नारायणः प्रथमं विक्रमकाले वामनत्वं कृत्वा प्रांशुर्घः संजातः । पुनरपि किं-
भूताः । क्रान्ताकाशान्तरालाः । ऋान्तं व्याप्तमाकाशान्तरालमम्बरमध्यं यैस्ते तथोक्ताः ।
तदनु अनन्तरं च दश दिशो दशाशा: पूरयन्तः पूर्णा: कुर्वन्तः । ततोऽपि पुनरपि विश्वं
जगदश्नुवाना व्याप्नुवन्तः । आशु शीघ्रम् । किं कृत्वा । आच्छिद्याकृष्यापहृत्य । कुतः ।
ध्वान्तादन्धकारात् । कस्मादिव । देवद्विष इव सुरशत्रोरिव । बलितो बलिनाम्नः, अ-
न्यत्र बलितो बलवतः । पञ्चम्यन्तादुभयस्मात्तस् । विष्णोरेतत्संबन्धनीयम् । सोऽपि
वामनो भूत्वा प्रांशुरभूत् । तदनु च क्रान्तगगनान्तरालः । ततः परिपूरितदशदिशो ब-
लेविश्वमाच्छिद्य व्याप्तवानिति ॥</p>
<lg>
  <l>उद्गाटेनारुणिम्रा विदधति बहुलं येऽरुणस्यारुणत्वं</l>
  <l>मूर्धोद्धूतौ खलीनक्षतरुधिररुचो ये रथाश्वाननेषु ।</l>
  <l>शैलानां शेखरत्वं श्रि[^२]तशिखरिशिखास्तन्वते ये दिशतु</l>
  <l>प्रेङ्खन्तः खे खरांशोः खचितदिनमुखास्ते मयूखाः सुखं वः ॥ ८ ॥</l>
</lg>
<p>ते मयूखा रश्मयः खरांशोः सवितुः संबन्धिनो वो युष्मभ्यं सुखं शर्म दिशतु ददतु ।
येऽरुणस्य सारथेररुणत्वं लोहितत्वं बहुलं घनं विदधति कुर्वन्ति । केन । अरुणिन्ना लो-
हितत्वेन । उद्गाढेन प्रबलेन । रथाश्वाननेषु स्यन्दनतुरगवक्रेषु खलीनक्षतरुधिररुचः क
विकाव्रणशोणितच्छायाः । मूर्धोद्धूतौ सत्यां मस्तकोत्कम्पे सति । ये शैलानां पर्वतानां
शेखरत्वं मुकुटत्वं तन्वते विस्तारयन्ति । किंभूताः । श्रितशिखरिशिखा: सन्तः समा-</p>
<note>'देवद्रुहः' इति वल्लभपाठ:.</note>
<note>'श्रितशिखर शिखा : ' इति वल्लभपाठः, 'आश्लिष्ट-
शृङ्गकोटयः सन्तः' इति तद्व्याख्यानं च.</note>
<pb n="11" />
<p>श्रितपर्वताग्रभागाः । अथवा श्रिताः शिखरिण्यः शिखा यैस्ते । किं कुर्वन्तः । प्रेङ्खन्तो
गच्छन्तः । क्व। खे व्योम्नि । खचितदिनमुखाः स्पष्टीकृतदिवसप्रारम्भाः ॥</p>
<lg>
  <l>दत्तानन्दाः प्रजानां समुचितसमया[^१]कृष्टसृष्टैः पयोभिः</l>
  <l>पूर्वाह्णे विप्रकीर्णा दिशि दिशि विरमत्यन्हि संहारभाजः ।</l>
  <l>दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो</l>
  <l>गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ॥ ९ ॥</l>
</lg>
<p>दीप्तांशोरादित्यस्य संबन्धिन्यो गावो दीधितयो वो युष्माकं प्रीतिं सुखमुत्पादयन्तु
जनयन्तु । किंभूताः । दत्तानन्दाः दत्तो वितीर्ण आनन्दो याभिस्ताः । कासाम् । प्र-
जानां लोकानाम् । कैः कृत्वा । पयोभिर्जलैः । समुचितसमयाकृष्टसृष्टैः समुचितो योग्यः
समयः कालस्तत्राकृष्टसृष्टैः । भूयोऽपि विशेष्यन्ते– -पूर्वाह्ने विप्रकीर्णाः अह्नः पूर्वो भा -
गस्तत्र विक्षिप्ताः । क्व । दिशि दिशि सर्वासु दिक्षु । विरमत्यन्हि याति दिवसेऽस्तमनस-
मये संहारभाजः संहृतिमाश्रिताः । पुनरपि किंभूताः । दीर्घदुःखप्रभवभवभयोदन्वदुत्ता-
रनावः । दीर्घं च तद्दुःखं च तस्य प्रभव उत्पत्तिस्थानं स चासौ भवश्च संसारस्तस्मा-
द्भयं तदेवोदन्वान्समुद्रस्तस्मादुत्तारस्तत्र नावो यानपात्राणि । पावनानां पावकानां प-
रमुत्कृष्टम् । किंभूतां प्रीतिम् । अपरिमितामपर्यन्ताम् । गाव इति श्लिष्टमेतदभिन्नम् ।
गावो धेनवश्चोच्यन्ते । ता अपि पयोभिर्दुग्धैः समुचितसमयाकृष्टसृष्टैः प्रजानां दत्ता-
नन्दा भवन्ति । पूर्वाण्हे प्रत्युषसि विप्रकीर्णा भवन्ति । अन्होऽवसाने संहारभाज: । दी-
र्घदुःखप्रभवभवभयोदन्वदुत्तारनावश्च दत्ताः सत्यः सद्यः । तदीयैः पयोभिर्विप्राग्नितर्पणै-
र्लोकाः संसारं तरन्तीत्यागमविदः ॥</p>
<lg>
  <l>बन्धध्वंसैकहेतुं शिरसि नतिरसाबद्धसंध्याञ्जलीनां</l>
  <l>लोकानां ये प्रबोधं विदधति विपुलाम्भोजखण्डाशयेव ।</l>
  <l>युष्माकं ते स्वचित्तप्र[^२]थितष्टथुतरप्रायार्थनाकल्पवृक्षाः</l>
  <l>कल्पन्तां निर्विकल्पं दिनकरकिरणाः केतवः कल्मषस्य ॥ १० ॥</l>
</lg>
<p>दिनकरकिरणा रविपादा भवतां कल्मषस्य पापस्य केतवो विनाशका: कल्पन्तां
संपद्यन्ताम् । निर्विकल्पमसंशयम् । क्रिविशेषणमिदम् । स्वं च चित्तं च स्वचित्तं
तस्य प्रथिता पृथुतरा पृथ्वी सा चासौ प्रार्थना च तस्याः कल्पवृक्षाः । ये लोकानां
प्रजानां प्रबोधं तत्त्वज्ञानं विदधति कुर्वन्ति । बन्धस्त्रिविधः -- प्राकृतो वैकारिको दक्षि-
णासा(?) रूपश्चेति । तेन हि बद्धा देहिनो न मुच्यन्ते । तस्य ध्वंसो नाशस्त त्रैक हेतुः</p>
<note>'अक्लिष्टसृष्टैः' इति पाठः, 'समुचिते योग्ये समये वर्षाख्ये अक्लिष्टमयाच्ञया'
इति वल्लभव्याख्या.
[^२] 'प्रथिमपृथुतर' इति पाठः, 'स्वं भवतां यच्चित्तं तस्य यः प्र-
थिमा विस्तारस्तद्वत्' इति वल्लभव्याख्या.</note>
<pb n="12" />
<p>प्रधानं कारणम् । किंभूतानां प्रजानाम् । शिरसि मस्तके नतिर्नमस्कारस्तत्र रसस्तेनाब-
द्धो विरचितः संध्याञ्जलिर्यैस्ते तथोक्तास्तेषाम् । कयेव । विपुलाम्भोजखण्डाशयेव ।
विपुलो विस्तीर्णोऽम्भोजखण्ड: कमलाकरः । विपुलश्वासावम्भोजखण्डञ्च तस्याशा तये-
व । बन्धध्वंसैकहेतुतापि मुकुलावस्थाविघातैककारणता । प्रबोधो ज्ञानं विकासश्च ॥</p>
<lg>
  <l>धारा रायो घनायापदि सपदि करालम्बभूताः प्रपाते</l>
  <l>तत्त्वालोकैकदीपास्त्रिदशपतिपुरप्रस्थितौ वीथ्य एव ।</l>
  <l>निर्वाणोद्योगियोगिप्रगमनिजतनुद्वारि वेत्रायमाणा-</l>
  <l>स्त्रायन्तां तीव्र[^१]भानोर्दिवसमुखसुखा रश्मयः [^२]कल्मषाद्वः ॥ ११ ॥</l>
</lg>
<p>तीव्रभानोरादित्यस्य मयूखाः कल्मषात्पापाद्वो युष्मांस्त्रायन्तां रक्षन्तु । दिवसमुख-
सुखाः दिवसारम्भे सुखकारिणः । स्वरूपकथनमेतत् । पुनरपि च निरूप्यन्ते --
रायो द्रव्यस्य धाराः प्रपाताः । क्व । धनायापदि द्रव्यार्थकायपीडायाम् । धनाया ध-
नेच्छा तस्या आपत्प्रार्थना धनस्य प्राप्तिस्तत्रापि । सपदि तत्क्षणम् । करालम्बभूता
इति हस्तेष्वादायोत्तारयन्तीत्यर्थः । क्व । प्रपाते नरके दुर्गतौ । तत्त्वालोकैकदीपाः त-
त्त्वस्य परमार्थस्यालोके दर्शने एकदीपाः प्रकाशकत्वात् । त्रिदशपतिरिन्द्रस्तस्य पुरं न-
गरममरावती तत्र प्रस्थितिः प्रस्थानं तत्र वीथ्य एव पन्थान एव । पुनरपि कीदृशाः ।
निर्वाणोद्योगिनो मोक्षोत्सुकास्ते च ते योगिनश्च तेषां प्रगमोऽपुनरावृत्तिस्तस्य निजा
आत्मीया सा चासौ तनुश्च तस्या द्वारं तस्यां वेत्रायमाणाः प्रतीहारा इवाचरन्तः । ये
हि सिद्धा योगिनो भवन्ति ते हि सूर्यतनुद्वारेण न स्खलनमासादयन्ति । उद्युक्तानां
योगिनां तु सूर्यतनुर्द्वाः तत्र द्वाःस्थाः प्रयातुं न ददति । अथवा प्रगच्छन्त्यनेनेति प्रगमः
पन्थाः । निर्वाणोद्योगियोगिनां प्रगमश्चासौ निजतनुद्वाश्चेति तत्समासः ॥</p>
<lg>
  <l>प्राचि प्रागाचरन्त्योऽनतिचिरमचले चारुचूडामणित्वं</l>
  <l>मुञ्चन्त्यो रोचनाम्भः प्रचरमिव दिशामुच्चकैश्चर्चनाय ।</l>
  <l>चाटूत्कैश्चक्रनाम्नां [^३]चतुरमविचलैर्लोचनैरर्च्यमाना-</l>
  <l>श्चेष्टन्तां चिन्तितानामुचितमचरमाश्चण्डरोचीरुचो वः ॥ १२ ॥</l>
</lg>
<p>चण्डरोचीरुचो घर्मंघृणिपादाश्चिन्तितानां मनोरथानामुचितं योग्यं वो युष्माकं चे-
ष्टन्तां व्याप्रियन्तां संपादयन्तु वा । किं कुर्वत्यः । आचरन्त्यो विदधत्यः । किं तत् । चा-
रुचूडामणित्वं मनोहरशिखारत्नत्वम् । क्व । अचले पर्वते । किंभूते । प्राचि पूर्वदिक्संब-
न्धिनि । प्राक्प्रथमम् । अनतिचिरं स्वल्पकालम् । किंभूताः । रोचनाम्भो रोचनाजलं
मुञ्चन्त्य इव । प्रचुरं प्रभूतम् । दिशामाशानां चर्चनाय भूषणाय । तादर्थ्ये चतुर्थी । उच्च-
कैरत्यर्थम् । प्रथममतिलोहितत्वाच्चण्डांशुरोचिषः शिरोरत्नत्वेनोत्प्रेक्षिताः । तदनु पिशङ्ग्यः</p>
<note>'तीव्रभासः' इति पाठ:.
[^२] 'कश्मलाद्वः' इति पाठ:.
[^३] 'सुचिरं' इति पाठः.</note>
<pb n="13" />
<p>सत्यो रोचनाम्बुत्वेनेति । पुनः किंभूताः । अर्च्यमानाः सस्पृहमीक्ष्यमाणाः । कैः । चक्र-
नाम्नां लोचनाञ्चलैर्नेत्रप्रान्तैः । अविचलैनिश्चलैः । कथम् । चतुरं विदग्धं यथा भवति ।
चाटूत्कैश्चाटुकाङ्क्षिभिः । चक्रवाकाणां हि भगवति गभस्तिमालिन्यभ्युदिते सति वियु -
क्तानां परस्परं समागमो भवतीति सादरं तद्रुचोऽर्च्यन्त इत्येवमभिहितम् । अचरमा
अप्राचीनाः ॥</p>
<lg>
  <l>एकं ज्योतिर्दृशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भि</l>
  <l>र्भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि ।</l>
  <l>युष्माकं तानि सप्तत्रिदशमुनिनुतान्यष्टदिग्भाञ्जि भानो-</l>
  <l>र्यान्ति प्राह्णे नवत्वं दश [^१]दधतु शिवं दीधितीनां शतानि ॥ १३ ॥</l>
</lg>
<p>भानो: संबन्धीनि दीधितीनां दश शतानि सहस्रमिति यावत् । युष्माकं शिवं भद्रं
दधतु पुष्णन्तु कुर्वन्तु वा । अनेकार्थत्वाद्धातूनामिति । किंभूतानीत्याह—-यानि एकं
ज्योतिरेकं तेजः प्रधानमालोककारणम् । पुनरपि कीदृशानि, दृशौ द्वे चक्षुषी द्वे । त्रि-
जगति त्रैलोक्ये गदितानि कथितानि । कैः, अब्जजास्यैः कमलयोनिवदनैः । कि-
यद्भिः, चतुर्भिश्चतुःसंख्योपेतैः । भूतानां पृथिव्यादीनां पञ्चमम् । पञ्चानां भूतानां ते-
जसि सति पञ्च संख्या संपद्यते । तथा ऋतुषु वसन्तादिषु षट्स्वलमत्यर्थं नानाविधान्यु-
च्चावचप्रकाराणि । तीव्रमन्दादिभेदेन भिद्यमानत्वात् । पुनरपि किंभूतानि । सप्तत्रिद-
शमुनिनुतानि त्रिदशमुनयो देवर्षयोऽत्रिप्रभृतयः सप्त च ते त्रिदशमुनयश्च तैर्नुतानि ।
भूयोऽपि किंभूतानि । अष्टदिग्भाञ्जि अष्टाशाश्रितानि । पूर्वाह्णे दिनमुखे नवत्वं प्रत्यग्रत्वं
यान्ति भजन्ते । पूर्वं ज्योतिस्त्वेनैकत्वम् । पुनर्हक्त्वेन द्वित्वम् । भुवनत्वेन त्रित्वम् ।
चतुर्षु ब्रह्मवत्रेषु चतुःसंख्यात्वम् । पृथिव्यादिरूपतया पञ्चधा । वसन्तादिसंख्यायाः ष-
ट्त्वम् । अत्रिप्रभृतिभिः सप्तत्वम् । तीव्रमन्दादिभेदेन नानात्वम् । अष्टदिग्भाक्त्वेनाष्ट-
त्वम् । आश्रयभेदाद्भेदः । पूर्वाह्णे नवत्वमिति शब्दसाम्यान्नवत्वं नवसंख्यायोगिता प्रद-
र्शितेति ॥</p>
<lg>
  <l>आवृत्तिभ्रान्तविश्वाः श्रममिव दधतः शोषिणः स्वोष्मणेव</l>
  <l>ग्रीष्मे दावाग्रितप्ता इव रसमसकृद्ये धरित्र्या धयन्ति ।</l>
  <l>ते प्रावृष्यात्तपानातिशयरुज इवोद्वान्ततोया हिमर्तौ</l>
  <l>मार्तण्डस्याप्रचण्डाश्चिरमशुभभिदेऽभीशवो वो भवन्तु ॥ १४ ॥</l>
</lg>
<p>मार्तण्डस्य भानोरभीशवो दोधितयो वो युष्माकमशुभभिदेऽकल्याणविनाशाय भ-
वन्तु जायन्ताम् । चिरं बहुकालम् । किंविशिष्टाः । ये धरित्र्या भुवो रसं जलं धयन्ति
पिबन्ति । असकृदनेकवारम् । किंभूता इव धयन्ति । शोषिण इव शोषयुक्ता इव ।</p>
<note>'ददतु' इति पाठः.</note>
<pb n="14" />
<p>शोषिणोऽपि श्रममिव दधतः खेदमिव दधाना बिभ्राणाः । श्रमाधाने हेतुमाह--आवृ-
त्तिभ्रान्तविश्वाः । आवृत्त्या पौनः पुन्येन भ्रान्तं पर्यटितं विश्वं जगद्यैस्ते तथोक्ताः ।
क्व । ग्रीष्मे निदाघकाले । शोषिणः स्वोष्मणेव । पुनरुत्प्रेक्षते –- दावाग्नितता इव, जल-
मतीव नरा धयन्ति तद्वदेते इत्युत्प्रेक्षिताः । तेऽभीशव: प्राकृषि वर्षाकाले उद्वान्ततोया
उद्गीर्णपयस्का: । किंभूताः । आत्तपानातिशयरुज इव आत्ता प्राप्ता पानातिशयरु-
ग्यैस्ते । हिमर्तौ हेमन्तेऽप्रचण्डा मन्दा अपटवः । यथा कोऽपि पानीयपानातिशयात्प्रा-
प्तवेदनो मन्दो भवति तद्वतेऽपि ॥</p>
<lg>
  <l>तन्वाना दिग्वधूनां समधिकमधुरालोकरम्यामवस्था-</l>
  <l>मारूढप्रौढिलेशोत्कलितकपिलिमालंकृतिः केवलैव ।</l>
  <l>उज्जृम्भाम्भोजनेत्रद्युतिनि दिनमुखे किंचिदुद्भिद्यमाना</l>
  <l>श्मश्रुश्रेणीव भासां दिशतु दशशती शर्म घर्मत्विषो वः ॥ १९ ॥</l>
</lg>
<p>भासां दीघितीनां दशशती घर्मत्विषः सूर्यसंबन्धिनी वो युष्मभ्यं शर्म सुखं कल्याणं
दिशतु यच्छतु । केव । श्मश्रुश्रेणीव, मुखरोमराजिरिव । किं कुर्वती । किंचिदुद्भिद्यमाना
उद्गच्छन्ती । कस्मिन् । दिनमुखे । अन्यत्र यूनां मुखे उद्भिद्यते । किं कुर्वाणा । तन्वाना
विस्तारयन्ती । काम् । अवस्थाम् । कासाम् । दिग्वधूनाम् । दिश एव वध्वस्तासाम् ।
कीदृशीम् । समधिकमधुरालोकरभ्याम् । समधिकः सम्यगधिको मधुरो मृदुर्य आलोकः
प्रकाशस्तेन रम्याम् । पुनरपि किंभूता । आरूढप्रौढिलेशोत्कलितकपिलिमा । प्रौढिः
प्रौढत्वं तस्या लेशः आरूढश्चासौ प्रौढिलेशश्चेति समासः । तेनोत्कलितो वर्धितः क-
पिलिमा कपिलत्वं यस्याः सा तथोक्ता । अलंकृतिर्भूषणम् । केवलैव एकैव । किंभूते
दिनमुखे । उज्जृम्भा विकासिन्यम्भोजनेत्रद्युतिर्यत्र तत्तथोक्तं तत्रेति । इमश्रुश्रेण्या अपि
सर्वमेतत्संबन्धनीयम् । सापि वधूनां समधिकमधुरामालोकरम्यामवस्थां वितनुते । आ-
रूढप्रौढिलेशोत्कलितकपिलिमा भवति । अलंकृतिश्चासौ केवलैव मुखस्य संपद्यत इ-
त्यादि समानम् ॥</p>
<lg>
  <l>मौलीन्दोर्मैष मोषीद्द्यु तिमिति वृषभाङ्केन यः शङ्किनेव</l>
  <l>प्रत्यग्रोद्धाटिताम्भोरुहकुहरगुहासुस्थितेनेव धात्रा ।</l>
  <l>कृष्णेन ध्वान्तकृष्णस्वतनुपरिभवत्रस्नेुनेव स्तुतोऽलं</l>
  <l>त्राणाय स्तात्तनीयानपि तिमिररिपोः स त्विषामुद्गमो वः ॥ १६ ॥</l>
</lg>
<p>तिमिररिपोरादित्यस्य स त्विषां भासामुद्गम उदयस्त्राणाय रक्षायै वो युष्माकं स्ताद्भ-
वतात् । तनीयानपि तनुतरोऽपि । किंभूतः । यः स्तुतः । केन । वृषभाङ्केन पिनाकिना ।
शङ्किनेव । किमिति । मौलीन्दोमलिचन्द्रस्यैषोऽयं द्युतिं प्रभां मा मोषीन्मा खण्डय-
त्विति । धात्रा ब्रह्मणा च यः स्तुत इति संबन्धः । किंभूतो नुतः । प्रत्यग्रेति । तत्क्षण-</p>
<pb n="15" />
<p>विकासिसरोरुहान्तरालसुखोपविष्टेनेव । मा संकोचदुःस्थितिं कामपि कार्षीदितीव ।
तथा कृष्णेन विष्णुना ध्वान्तकृष्णस्वतनुपरिभवत्रस्नुनेव तिमिरश्यामनिजशरीरपरिभूति-
त्रसनशीलेनेव । अलमत्यर्थम् । इवशब्दः सर्वत्रोत्प्रेक्षायाम् । एव ध्वान्तभ्रान्त्या ममैव
तनुं परिभूयादितीव । आद्यैरपि देवैः स्तुत इति महत्त्वं रवेर्दर्शयति ॥</p>
<lg>
  <l>विस्तीर्णं व्योम दीर्घाः सपदि दश दिशो व्यस्तवेलाम्भसोऽब्धी-</l>
  <l>न्कुर्वद्भिर्दृश्यनानानगनगरनगाभोगपृथ्वीं च पृथ्वीम् ।</l>
  <l>पद्मिन्युच्छ्वास्यते यैरुषसि जगदपि ध्वंसयित्वा तमिस्रा-</l>
  <l>मुस्रा वि[^१]स्रंसयन्तु द्रुतमनभिमतं ते सहस्रत्विषो वः ॥ १७ ॥</l>
</lg>
<p>ते सहस्रत्विषः सहस्ररश्मेरुस्रा गभस्तयोऽनभिमतं दुःखं विस्रंसयन्तु ध्वंसयन्तु । वो
युष्माकम् । द्रुतं शीघ्रम् । यैः पद्मिनी जगच्चोषसि प्रातःकाले उच्छ्वास्यते । ध्वंसयित्वा ।
काम् । तमिस्रामन्धकारं रात्रिं वा । किं कुर्वद्भिः । विस्तीर्णं पृथुलं व्योम गगनम्, दीर्घा
आयता दश दिशो दशाशाः, सपदि तत्क्षणं व्यस्तवेलाम्भसोऽब्धीन् विक्षिप्तवेलाजला-
न्समुद्रान्कुर्वद्भिः । पृथ्वीं च घरां कुर्वद्भिः । कथंभूताम् । दृश्यनानानगनगरनगाभोगपृ-
थ्वीम् । नगाः पर्वताः नगराणि पत्तनानि नगा वृक्षास्ते च ते नानाप्रकाराश्चेति समासः ।
दृश्या उपलभ्याः । दृश्याश्च ते नानानगनगरनगास्तेषामाभोगो विस्तारस्तेन पृथ्वीं वि-
स्तीर्णाम् ॥</p>
<lg>
  <l>अस्तव्यस्तत्वशून्यो निजरुचिरनिशानश्वरः कर्तुमीशो</l>
  <l>विश्वं वेश्मेव दीपः प्रतिहततिमिरं यः प्रदेशस्थितोऽपि ।</l>
  <l>दिक्कालापेक्षयासौ त्रिभुवनमटतस्तिग्मभानोर्नवाख्यां</l>
  <l>यातः शातक्रतव्यां दिशि दिशतु शिवं सोऽर्चिषामुद्गमो वः ॥ १८ ॥[^२]</l>
</lg>
<p>तिग्मभानोरादित्यस्यार्चिषां भासामुद्गम उदयो वो युष्मभ्यं शिवं कल्याणं दिशतु य-
च्छतु । किंविशिष्टोऽसौ । विश्वं जगत्प्रतिहततिमिरं कर्तुमीश: । एकदेशस्थितोऽप्येकदेशे
वर्तमानोऽपि । एकदेशस्थितस्यापि तिमिरोच्छेदकारित्वं प्रदीपेन समानो धर्मः । प्रदीपो
वेश्मेव । सामान्यदीपात्किंचिदधिकोऽयम् । अस्तव्यस्तत्वशून्यः । अस्तो विनाशस्तेन
व्यस्तत्वं व्यसनं तेन शून्यो न भवति । विनाशे नासौ बाध्यते । निजरुचिश्च न भवति ।
किं त्वनिजरुचिः । तैलादिना आधीयमानत्वात् । तथा अनिशा दिवसस्तत्र नश्वरो-
ऽसौ । अस्तव्यस्तत्वशून्य इति । न स्तव्योऽस्तव्योऽस्तवार्हः । तथा तत्त्वशून्यश्च प्र-
दीपः । अर्चि॒षामुद्गमस्तु स्तव्यस्तत्त्वभूतश्चेति । किंभूतः । नवाख्यां प्रत्यग्रव्यपदेशं यातो
गत इति । क्व । दिशि ककुभि । किंभूतायाम् । शातऋतव्यां पौरन्दर्याम् । तथा दि-</p>
<note>'विस्रावयन्तु' इति पाठ:.
[^२] वल्लभदेवटीकायामस्माच्छलोकादनन्तरम् इति र-
श्मिवर्णनम्' इत्यस्ति.</note>
<pb n="16" />
<p>क्कालापेक्षया दिक् प्राच्यादिः कालः पूर्वाह्णादिः प्राच्यां दिशि पूर्वाह्णे दृश्यत इति नव
उच्यते । परमार्थतस्त्वनवः पुराण: व्यपदेशशून्योऽसौ । तिग्मभानोस्त्रिभुवनमटतो ग-
च्छतोऽतिक्रामतः ॥</p>
<lg>
  <l>मा गान्म्लानिं मृणालीमृदुरिति दययेवाप्रविष्टोऽहिलोकं</l>
  <l>लोकालोकस्य पार्श्वं प्रतपति न परं यस्तदाख्यार्थमेव ।</l>
  <l>ऊर्ध्वं ब्रह्माण्डखण्डस्फुटनभयपरित्यक्तदैर्घ्यो द्युसीम्नि</l>
  <l>स्वेच्छावश्यावकाशावधिरवतु स वस्तापनो रोचिरोघः ॥ १९ ॥</l>
</lg>
<p>रोचिषामोघो रोचिरोघो दीप्तिपुञ्जः । स तापनः सूर्यसंबन्धी मयूखत्रातो वो गुष्मा-
नवतु रक्षतु । किंभूतः । यो न प्रविष्टोऽहिलोकं फणिसद्म । किमिति । मा गान्मा यासी-
दिति म्लानिं पीडामयमहिलोको मृणालीकोमलः । ततो यद्यहं पातालं गच्छेयं तदा
नूनमयं म्लानिं यास्यतीति । दयया कृपया । लोकालोकस्य परं पार्श्वं तदाख्यार्थमेव
तत्संज्ञार्थमेव न प्रतपति न प्रकाशयति । तस्य हि लोकालोकसंबन्धात्तदभावाच्च लो-
कश्च स आलोकश्च सः । अर्वाचीने पार्श्वे यत्र भगवान्प्रतपति तत्र लोका विद्यन्ते ना-
परत्र । यदि तत्रापि भगवान्प्रतपति तदा सोऽपि लोक एव स्यात् । तदालोकालोक
इत्याख्या तस्य नश्येत् । अनेन कारणेन तस्य परं पार्श्वं न प्रतपति । ऊर्ध्वमुपरिष्टाद्ब्रह्मा-
ण्डखण्डस्फुटनभयपरित्यक्तदैर्ध्यः । ब्रह्माण्डखण्डस्य स्फुटनं दलनं तस्माद्भयं तेन परि-
त्यक्तं दैर्ध्यं  द्राघिमा येन स तथोक्तः । क्व । द्युसीम्नि गगनमर्यादायाम् । दिवः सीमा द्यु-
सीमा तस्मिन् । किंविशिष्टः । स्वेच्छावश्यावकाशावधिः । स्वेच्छावश्यो वशंगतोऽवका-
शावधि: स्थानमर्यादा यस्य सः ॥</p>
<lg>
  <l>अश्यामः काल एको न भवति भुवनान्तोऽपि [^१]वीतेऽन्धकारे</l>
  <l>सद्यः प्रालेयपादो न विलयमचलश्चन्द्रमा अप्युपैति ।</l>
  <l>बन्धः सिद्धाञ्जलीनां न हि कुमुदवनस्यापि यत्रोज्जिहाने</l>
  <l>तत्प्रातः प्रेक्षणीयं दिशतु दिनपतेर्धाम कामाधिकं वः ॥ २० ॥</l>
</lg>
<p>दिनपतेरादित्यस्य तद्धाम तत्तेजो वो युष्मभ्यं कामाधिकमभिलाषाधिकं दिशतु य-
च्छतु । कामाधिकं सामर्थ्यात्प्रस्तावात्प्रार्थितमेव । यत्र यस्मिन्धान्म्युज्जिहाने उद्गच्छति
सति न खल्वहर्लक्षणः काल एवाश्यामो भवति अपि तु भुवनान्तोऽपि । कालस्याश्या-
मत्वं श्यामा रात्रिस्तद्रहितत्वम् । न विद्यते श्यामास्मिन्निति कृत्वा । तेजस्युद्गच्छत्य-
हर्लक्षणः कालो भवति तस्य राजत्र्या सहानवस्थानलक्षणो विरोध इत्यश्यामः । भुव-
नान्तः पुनः श्यामगुणरहितः । कस्मिन्नवसरे । अन्धकारे तमसि वीते विगते सति ।
'वीतान्धकारः' इति पाठान्तरम् । तत्र वीतं गतमन्धकारं यस्मादवसरादिति योज्यम् ।</p>
<note>'वीतान्धकार : ' इति पाठः,</note>
<pb n="17" />
<p>किं च स व्यक्तलक्षणः प्रालेयपादो हिमप्रधानप्रत्यन्तनगोऽचलः पर्वत एव न विलयमेति
न विलीयते द्रवति अपि तु चन्द्रमा अपि विलयमेति म्लानिं विच्छायतां याति ।
प्रालेयपादो हिमकिरणश्चन्द्रमा अपि । बन्धो मुकुलभावो न हि सिद्धाञ्जलीनामेव ।
सिद्धा देवविशेषाः । अञ्जलय उभयकरविन्यासः । तेषां बन्धो रचना । सिद्धा हि
भगवन्तमुपतिष्ठमाना अञ्जलोन्विदधति । न हि सिद्धाञ्जलीनां बन्धो भवति, अपि तु
कुमुदवनस्यापि । कुमुदान्यपि तस्मिन्काले मीलन्ति संकोचं यान्ति । प्रातः प्रभाते ।
कीदृशं तद्धाम । प्रेक्षणीयं प्रेक्षणार्हं रमणीयमिति ॥</p>
<lg>
  <l>यत्कान्तिं पङ्कजानां न हरति कुरुते प्रत्युताधिक्यरम्यां</l>
  <l>नो[^१] धत्ते तारकाभां तिरयति नितरामाशु यन्नित्यमेव ।</l>
  <l>कर्तुं नालं निमेषं दिवसमपि परं यत्तदेकं त्रिलोक्या-</l>
  <l>श्चक्षुः सामान्यचक्षुर्विसदृशमघभिद्भास्वतस्तान्महो वः ॥ २१ ॥</l>
</lg>
<p>भास्वतो रवेस्तन्महस्तत्तेजो वो युष्माकमघभित्पापविनाशि स्ताद्भवतु । किंभूतम् । त्रि-
लोक्या लोकत्रयस्यैकमद्वितीयं चक्षुर्लोचनमिव । किंविशिष्टम् । सामान्यचक्षुर्विसदृशं प्राकृ-
तलोचनविलक्षणम् । तदेव वैलक्षण्यं दर्शयति-- यत्कान्ति पङ्कजानां पद्मानां न हरति न
च्छिनत्ति प्रत्युत विशेषेणाधिक्यरम्यामतिशयरमणीयां महत्प्रभां कुरुते । इतरत्तु चक्षुः
कान्ति पङ्कजानामादत्ते तदनुकारं किल तद्भवतीति । तथा नो धत्ते न पुष्णाति । ता-
रकाभां नक्षत्रद्युतिम् । तिरयति तिरस्करोति । नितरामतीव । आशु शीघ्रम् । नित्य-
मेव सदैव । इतरत्तु तारका कनीनिका तथा आभां शोभां धत्ते पुष्णाति । निमेषं का-
लविशेषं कर्तुमुत्पादयितुमेव नालं समर्थम्, किं तु दिवसमपि । परमुत्कृष्टमेव । इतरत्तु
मुहूर्तमपि निर्निमेषं न भवतीति व्यतिरेकः ॥</p>
<lg>
  <l>क्ष्मां क्षेपीयः क्षपाम्भःशिशिरतरज[^२]लस्पर्शतर्षादृतेव</l>
  <l>द्रागाशा नेतुमाशाद्विरदकरसरःपुष्कराणीव बोधम् ।</l>
  <l>प्रातः प्रोल्लङ्घ्य विष्णोः पदमपि घृणयेवातिवेगाद्दवीय-</l>
  <l>स्युद्दामं द्योतमाना दहतु दिनपतेर्दुर्निमित्तं द्युतिर्वः ॥ २२ ॥</l>
</lg>
<p>दिनपतेर्भास्वतो युतिर्दीप्तिर्वो युष्माकं दुर्निमित्तमशुभं दहतु भस्मींकरोतु । किं
कुर्वती।उद्यामं द्योतमाना। किंभूता । क्ष्मां पृथ्वीमृता गता प्राप्ता । 'ऋ गतौ' । क्षेपीयः
क्षिप्रतरम् । कस्मादिव । क्षपाम्भःशिशिरतरजलस्पर्शतर्षादिव । क्षपाम्भोऽवश्यायजलं
तेन शिशिरतरं शीतलतरं च तज्जलं च तस्य स्पर्शस्तत्र तर्षोऽभिलाषस्तस्मादिवेत्यु -
त्प्रेक्षा । पुनरपि किंभूता । आशा दिशः ऋतेति संबन्धः । द्राक् शीघ्रम् । किं कर्तुमिव ।</p>
<note>'नाधत्ते' इति पाठ:.
[^२] 'तल' इति पाठः, 'निशाजलातिशीतलभूपृष्ठसंपर्का-
भिलाषात्' इति वल्लभव्याख्यानम्.</note>
<pb n="18" />
<p>नेतुमिव प्रापयितुमिव । कम् । बोधं विकासम् । कानि । आशाद्विरदकरसरःपुष्कराणि ।
आशासु द्विरदा दिग्गजास्तेषां करा हस्तास्ते सरांसीव त एव वा सरांसि पुष्कराधार-
त्वात् । तेषां पुष्कराणि कराग्राणि पद्मान्यप्युच्यन्ते । तानि हि विकासयन्तीत्येवमु
क्तम् । प्रातः प्रत्युषसि प्रोल्लङ्घ्यातिक्रम्य विष्णोश्चक्रिण: पदं व्योम । घृणयेव जुगुप्स-
येव । त्रिपदीकाले विष्णुना व्याप्तं तन्महतामयुक्तमेतावन्मात्राणां पदानां हरणमिति ।
परपदे किल स्थातुं न युक्तमित्यतिवेगादतिरंहसो दवीयसि दूरतरे ऋतेति संबन्धः । उ-
द्दामं प्रभूतम् । क्रियाविशेषणं वा ॥</p>
<lg>
  <l>नो कल्पापायवायोरदयरयदलत्क्ष्माघरस्यापि [^१]गम्या</l>
  <l>गाढोद्गीर्णोज्ज्वलश्रीरहनि न रहिता नो तमःकज्जलेन ।</l>
  <l>प्राप्तोत्पत्तिः पतङ्गान्न पुनरुपगता मोषमुष्णत्विषो वो</l>
  <l>वर्तिः सैवान्यरूपा सुखयतु निखिलद्वीपदीपस्य दीप्तिः ॥ २३ ॥</l>
</lg>
<p>उष्णत्विषस्तिग्मभानोर्दीप्तिर्द्युतिर्वो युष्मान्सुखयत्वानन्दयतु सुखिनः करोतु । किं-
भूतस्य । निखिलद्वीपदीपस्य निखिलानि समग्राणि द्वीपानि जम्बूप्रभृतीति तेषां दीप
इव दीपः । प्रकाशकत्वात् । तस्य । सैव वर्तिरन्यरूपा । अन्यद्रूपं यस्याः सान्यरूपा ।
अभिन्नरूपया दीपस्य वर्त्या भवितव्यम् । वतिः कीदृशी । वतिरिव सामान्यवर्तिरूपान,
अन्यरूपा । तद्विलक्षणेत्यर्थः । तदाह —- कल्पापायवायोरपि नो गम्या । कल्पस्यापायः
कल्पापायः कल्पान्तस्तस्य वायुः प्रलयमारुतस्तस्यापि न गमनीया । किंभूतस्य । अदय-
रयदलत्क्ष्माधरस्य । चण्डवेगेन दलन्तः शीर्यमाणाः क्ष्माधराः पृथ्वीधरा यस्मिन्वायौ
तस्य तथोक्तस्य प्रचण्डवेगस्फुटद्गिरेः । पुनः किंभूता । अहनि दिवसे, गाढोद्गीर्णोज्ज्व-
लश्रीर्गाढा उद्गीर्णा उज्ज्वला श्रीर्यया सा गाढोद्गीर्णोज्ज्वलश्रीर्भृशोद्वान्तनिकामदीप्त-
कान्तिः । किं च न न रहिता न न वर्जिता तमःकज्जलेन तिमिरमध्या । अपि तु र-
हितैवेत्यर्थः । अन्यच्च, प्राप्तोत्पत्तिर्लब्धजन्मा । कस्मात् । पतङ्गाद्दिनपतेः । न पुनरुप-
गता नैव प्राप्ता । कम् । मोषं खण्डनम् । इतरा तु वर्तिर्वायुगम्या भवति । दिवसे गा-
ढोद्गीर्णोज्ज्वलश्रीर्न भवति । कज्जलेन रहिता न च । पतङ्गाच्छलभान्मोषमुपैति नोत्प-
त्तिमिति व्यतिरेकः ॥</p>
<lg>
  <l>निःशेषाशावपूरप्रवणगुरुगुणश्लाघनीयस्वरूपा</l>
  <l>पर्याप्तं नोदयादौ दिनगमसमयोप्लवेऽप्युन्नतैव ।</l>
  <l>अत्यन्तं यानभिज्ञा क्षणमपि तमसा साकमेकत्र वस्तुं</l>
  <l>ब्रध्नस्येद्धा रुचिर्वो रुचिरिव [^२]रुचितस्याप्तये वस्तुनोऽस्तु ॥ २४ ॥</l>
</lg>
<p>ब्रध्नस्य सूर्यस्य रुचिर्दीप्ती रुचितस्याभिलषितस्य वस्तुनः पदार्थस्य वो युष्माकमा-</p>
<note>'शम्या' इति पाठः, 'विनाश्या' इति वल्लभव्याख्या.
[^२] 'रुचिरस्य' इति पाठ:.</note>
<pb n="19" />
<p>प्तयेऽस्तु भवतु । कथंभूता । इद्धा दीप्ता । केव । रुचिरिवाभिलाष इव । कस्य । ब्रघ्नस्य ।
अन्यस्याश्रुतत्वात् । तदेव दर्शयति —- निःशेषाः समस्ता आशा दिशः । निःशेषाश्च ता
आशाश्च तासामवपूरो भरणं तत्र प्रवणानुकूला गुरुश्चासौ गुणश्च गुरुगुणस्तेन श्लाघनी-
यस्वरूपा चेति समासः । इतरा तु रुचि : समस्तमनोरथमरणानुगुणश्लाघात्मा [न] भ-
वति । पुनरपि किंभूता । पर्याप्तमलं दिनादौ दिवसारम्भे उन्नतैव नावनता । किं त-
त्रैव, नो । किं तु दिनगमसमयोपप्लवेऽपि दिवसापायकालविपद्यपि । इतरापि रुचिर-
भिलाष उदयकाले तद्विरतौ च नोन्नमत्येव । किं च, अत्यन्तमतीव तमसान्धकारेण
साकं सहैकत्रैकस्मिन्प्रदेशे क्षणमपि मुहूर्तमपि वस्तुमासितुमनभिज्ञा अवेदित्री । इतरापि
वामसाभावेनेति ॥</p>
<lg>
  <l>बिभ्राणः शक्तिमाशु प्रशमितबलवत्तारकौर्जित्यगुर्वीं</l>
  <l>कुर्वाणो लीलयाघः शिखिनमपि लसच्चन्द्रकान्तावभासम् ।</l>
  <l>[^१]आदध्यादन्धकारे रतिमतिशयिनीमावहन्वी[^२]क्षणानां</l>
  <l>बालो लक्ष्मीमपारामपर इव गुहोऽहर्पतेरातपो वः ॥ २५ ॥</l>
</lg>
<p>अहर्पतेर्दिननाथस्यातप उद्दयोतो वो युष्माकं लक्ष्मीमादध्यात्कुर्यात् । आदध्यादिति
प्रार्थनायां लिङ् । किंभूताम् । अपारामपर्यन्ताम् । क इव । अपरोऽन्यो गुह इव कार्ति-
केय इव । बालोऽजरठः । किंभूतो गुहः किंभूतश्चातपः । आतपगुहयोः श्लेषं दर्शयति --
शक्तिं बिभ्राणो जगद्द्योतनसामर्थ्यं दधानः । कीदृशीम् । प्रशमितबलवत्तारकौर्जित्यगुर्वीम् ।
प्रशमितं शान्ति नीतं बलवदतीव निःशेषं तारकौर्जित्यं नक्षत्रतेजस्तेन गुर्वीम् । गुहो-
ऽपि शक्तिमायुधविशेषं बिभर्ति । बलवांश्चासौ तारकश्च बलवत्तारकोऽसुरविशेषस्त-
स्यौर्जित्यं तेजस्विता प्रशमिता यया सा प्रशमितबलवत्तारकौर्जित्या । सा चासौ गुर्वी
चेति समासः । आशु शीघ्रम् । पुनरपि किं कुर्वन् । कुर्वाण: । कम् । शिखिनं वह्निम् ।
कथम् । अधोऽधस्तात् । लीलयानादरेण तिरस्कुर्वाण: परिभवन् । कम् । शिखिनं मयू-
रमधः कुर्वाणः । लसच्चन्द्रकान्तावभासमपि । चन्द्रकान्ताश्चन्द्रमणयः । लसन्तश्च ते
चन्द्रकान्ताश्च तेषामवभासः कान्तिस्तमपि । अथ लसंश्चासौ चन्द्रश्च तस्य कान्तश्चा-
वभासश्च तमपि । शिखिनं वह्निं किंविशिष्टम्, लसच्चन्द्रं वसु सुवर्णं रत्नं वसु मणि (?)
सर्वं तस्येव कान्तः कमनीयोऽवभासो दीप्तिर्यस्य तम् । गुहोऽपि शिखिनं मयूरमधः
स्थापयति । लीलया विलासेन । किंविशिष्टम् । लसन्तो ये चन्द्रका मेचकास्तेषामन्ता-
स्तैरवभासते यस्तमपि । पुनरपि किं कुर्वन् । आवहन् । काम् । रतिं धृतिम् । किंभू-
ताम् । अतिशयिनीमधिकतराम् । केषाम् । वीक्षणानां त्रिलोचनानां कोकाभिधानविलो-
चनानाम् । क्व । अन्धकारे तमसि । संसेव्यत्वात् तेजस्तदानीमक्ष्णोः इतरत्तस्यैव संब-
न्धिना मेलनीयम् (?) । गुहोऽप्यन्धकारेः श्रीशिवस्य दृशामानन्दमादधाति । बालो डिम्भः ॥</p>
<note>'आदेयात्' इति पाठ:.
[^२]. 'ईक्षणानां' इति पाठ:.</note>
<pb n="20" />
<lg>
  <l>ज्योत्स्नांशाकर्षपाण्डुद्युति तिमिरमषीशेषकल्माषमीष-</l>
  <l>ज्जृम्भोद्भूतेन पिङ्गं सरसिजरजसा संध्यया शोणशोचिः ।</l>
  <l>प्रातः प्रारम्भकाले सकलमपि जगच्चित्रमुन्मीलयन्ती</l>
  <l>कान्तिस्तीक्ष्णत्विषोऽक्ष्णां मुदमुपनयतात्तूलिकेवातुलां वः ॥ २६ ॥</l>
</lg>
<p>तीक्ष्णत्विषस्तिग्मांशोः कान्तिीधितिर्वो युष्माकमक्ष्णां दृशां मुदं हर्षमुपनयतादा-
हरतात् । अतुलामपरिमिताम् । केव । तूलिकेव चित्रकारलेखनीव । किं कुर्वती । उ-
न्मीलयन्ती प्रकटयन्ती । किं तत् । जगत् । किंभूतम् । चित्रं नानाप्रकारम् । तूलिकापि
चित्रं कर्म । किंभूतं चित्रमिति श्लेषयति -- ज्योत्स्ना चन्द्रिका तस्या अंशो लेशस्त-
स्याकर्ष उपादानं तेन पाण्डुति पाण्डुच्छायं जगत् । चित्रमपि शुक्लवर्णानुप्रवेशात्पा-
ण्डुद्युति । तथा तिमिरशेषकल्माषम् । मषीवत्तिमिरं तिमिरमषी तस्याः शेष उद्धार:(?)
तेन कल्माषं कर्बुरम् । इतरदपि मषीलेशशारं भवति । किं च, पिङ्गं पीतम् । केन ।
सरसिजरजसा पद्मपरागेण । कीदृशेन । ईषज्जृम्भोद्भूतेन किंचिद्विकाससमुद्गतेन ।
चित्रमपि हरितालादिना । अपि च शोणशोचि अरुणच्छायम् । कथा । संध्यया सं-
ध्यासमयेन हेतुना । चित्रं हिङ्गुलादिना । कदेत्याह – प्रातः प्रारम्भकालेऽहर्मुखारम्भस-
मये । सकलं समस्तमिति वा । जगच्चित्रमिति समस्तं वा । जगच्चित्रमिव जगच्चित्र-
मिति । 'ज्योत्स्नांशाकृत्स्नपाण्डु' इति पाठान्तरम् । तत्र ज्योत्स्नांशो ज्योत्स्नालेशस्ते-
नाकृत्स्नपाण्डु असमस्तपाण्डु । स्तोकत्वाज्ज्योत्स्नाया इति योज्यम् ॥</p>
<lg>
  <l>आयान्ती किं सुमेरो: सरणिररुणिता पाद्मरागैः परागै-</l>
  <l>राहोस्वित्स्वस्य [^१]माहारजनविरचिता वैजयन्ती रथस्य ।</l>
  <l>माञ्जिष्ठी प्रष्ठवाहावलिविधुतशिरश्चा[^२]मराली नु लोकै-</l>
  <l>राशङ्क्यालोकितैवं सवितुरघनुदे स्तात्प्रभातप्रभावः ॥ २७ ॥</l>
</lg>
<p>सवितुरादित्यस्य प्रभातप्रभा प्रातर्द्युतिर्वी युष्माकमघनुदे पापनुत्यै स्ताद्भवतु । किं-
भूता । आलोकिता वीक्षिता । किं कृत्वा । आशङ्क्य वितर्क्य । लोकैर्जनैः । कथम् । एव-
मित्थम् । तदेव दर्शयति -- किं कुर्वती । आयान्त्यागच्छन्ती । सुमेरोर्देवाचलात् । सर-
णिर्मार्गः । अरुणिता रक्तीकृता । कैः । परागैः रजोभिः । किमीयैः । पाद्मरागैः पद्मराग-
मणिजन्मभिः । आहोस्विद्वितर्के । रथस्य स्यन्दनस्य स्वकीयस्य वैजयन्ती पताका ।
कीदृशी । माहारजनविरचिता । महारजनस्यायं रागो माहारजनः कौसुम्भं (वासः) तेन
रचिता निर्मिता । पुनरपि कीदृशी । प्रष्ठवाहेति । प्रष्ठा उत्तमा ये वाहा वाजिनस्तेषामा-
वलिः पङ्क्तिस्तस्या विधुतशिरांसि चलितमूर्धानस्तेषु चामराली चमरपङ्क्तिः सा किं नु ।
कीदृशी । माञ्जिष्ठी मञ्जिष्ठया रक्तेति । एवमिति प्रत्येकं योज्यम् ॥</p>
<note>'माहारजनेन कौसुम्भवाससा' इति वल्लभः.
[^२]. 'चामरालीव' इति पाठः,</note>
<pb n="21" />
<lg>
  <l>ध्वान्तध्वंसं विधत्ते न तपति रुचिमन्नातिरूपं व्यनक्ति</l>
  <l>[^१]न्यक्त्वं नीत्वापि नक्तं न वितरतितरां तावद[^२]ह्नस्त्विषं यः ।</l>
  <l>स प्रातर्मा विरंसीदसकलपटिमा पूरयन्युष्मदाशा-</l>
  <l>माशाकाशावकाशावतरणतरुणप्रक्रमोऽर्कप्रकाशः ॥ २८ ॥</l>
</lg>
<p>सोऽर्कप्रकाशः सूर्यालोको युष्मदाशां भवन्मनोरथं पूरयन्पूर्णं कुर्वन्मा विरंसीन्मा
विरामं यासीत् । पुनःपुनः पूरयत्विति यावत् । प्रातरसकलपटिमा अपरिपूर्णतैक्ष्ण्यः ।
किंभूतः । आशाकाशेति । आशा दिशः । आकाशं खम् । आशाश्चाकाशं चाशाकाशे
तयोरवकाशोऽन्तरालं तत्रावतरणमवतारस्तत्र तरुणो नवः प्रक्रमः सामर्थ्यं यस्य स
एवमुक्तः । तत्रावतरणे पटुरित्यर्थः । भूयो विशेष्यते – यो ध्वान्तध्वंसं विधत्ते तम-
श्छेदं कुरुते । न च तपति । कथम् । रुचिमद्दीप्तिमत् । कठोरमिति भावः । तथा ना-
तिरूपं रूपत्वविशिष्टं गुणं व्यनक्ति प्रकटयति । मन्दत्वात् । न्यक्त्वं न्यग्भावं नीत्वापि
प्रापय्यापि नक्तं रात्रिं न वितरतितरां नातिशयं तावन्न प्रयच्छति अह्नो दिवसस्य
त्विषं दीप्तिम् । स्वरूपकथनमिदम् । अथवा महानुभावानां शर्मोपादानं तमसो ध्वा-
न्तस्य ध्वंसं मोहच्छेदं स्वस्य च परस्य च विधत्ते । न स्वेच्छया तपत्युत्तापयति ।
नातिरूपं व्यनक्ति आत्मानं न श्लाघते । नक्तं रूपं विपक्षं प्रतिक्षिप्य दिवसकल्पमित्रस्य
तेजोवृद्धिं करोति ॥</p>
<lg>
  <l>तीव्रं निर्वाणहेतुर्यदपि च विपुलं यत्प्रकर्षेण चाणु</l>
  <l>प्रत्यक्षं यत्परोक्षं यदिह यदपरं नश्वरं शाश्वतं च ।</l>
  <l>यत्सर्वस्य प्रसिद्धं जगति कतिपये योगिनो यद्विदन्ति</l>
  <l>ज्योतिस्तद्द्विप्रकारं सवितुरवतु वो बाह्यमाभ्यन्तरं च ॥ २९ ॥</l>
</lg>
<p>बाह्यं बहिःकरणपरिच्छेद्यं आभ्यन्तरं योगसमाधिगम्यं ज्योतिः । तीव्रमित्यादिना
यथाक्रमं स्वरूपमेवाह—-यत्तीव्रं तीक्ष्णं यन्निर्वाणहेतुर्मुक्तिकारणम् । विपुलं विस्तीर्णं र-
श्म्याख्यं यत्प्रकर्षेणातिशयेनाणु सूक्ष्मम् । यत्प्रत्यक्षमिन्द्रियादिग्राह्यं यत्परोक्षमतीन्द्रि-
यम् । यदिह संनिकृष्टं यदपरं बिप्रकृष्टम् । यन्नश्वरं नष्टमस्थायि यच्छाश्वतं नित्यम् । य-
त्सर्वस्य जगतः प्रसिद्धं यत्कतिपये कियन्त एव योगिनो विदन्ति द्विचतुरा व्यासादयो
योगिनो जानन्ति तदेवंविधमिति सूर्यतेजो द्विप्रकारं द्विविधं बाह्यमाभ्यन्तरं च युष्मा-न्रक्षत्विति प्रथमोक्तिः ॥</p>
<lg>
  <l>रत्नानां मण्डनाय प्रभवति नियतोद्देशलब्धावकाशं</l>
  <l>वह्नेर्दार्वादि दग्धुं निजजडिमतया कर्तुमानन्दमिन्दोः ।</l>
</lg>
<note>'न्यक्तां' इति पाठः.
[^२]. 'अह्नि' इति पाठ:.</note>
<pb n="22" />
<lg>
  <l>[^१]यच्च त्रैलोक्यभूषाविधिरघदहनं ह्लादि वृष्ट्याशु तद्वो</l>
  <l>बाहुल्योत्पाद्यकार्याधिकतरमवतादेकमेवार्कतेजः ॥ ३० ॥</l>
</lg>
<p>अर्कतेजो रविधाम वो युष्मानवताद्रक्षतु । किंभूतम् । बाहुल्योत्पाद्यकार्याधिकतरम्
बाहुल्येन प्राचुर्येणोत्पाद्यं तच्च तत्कार्यं च तेनाधिकतरम् । बाहुल्येनोत्पादनीयानि भू-
यांसि कार्याणि यस्य तद्बाहुल्योत्पाद्यकार्यम् । अतस्तेभ्योऽधिकतरम् । अमीष्वमीषु
तेजो विद्यते । अन्यदीपतेजोभ्यो व्यतिरेकं दर्शयति -– रत्नानां पद्मरागमणिप्रभृतीनां
मणीनां मण्डनाय भूषणायैव संपद्यते न दाहाय । कीदृशं तत् । नियतोद्देशलब्धावका-
शम् । नियतः परिमितः स चासावुद्देशश्च तस्मिँल्लब्धोऽवकाशो येन तत् । नियतोद्देश-
वर्ति यत्कर्णादौ न्यस्तं तमेव द्योतयतीत्यर्थः । वह्नेः पावकस्य तेजो दार्वादि काष्ठादि दग्धुं
भस्मीकर्तुं प्रभवति न मण्डनाय । इन्दोश्चन्द्रस्यानन्दमाह्लादं कर्तुं प्रभवति न मण्डनाय ।
कीदृशं तत् । निजजडिमतया सहजशीतलत्वेनोपलक्षितम् । अर्कतेज एकमेव तु त्रैलो-
क्यस्य भूषाविधिर्जगदलंकारक्रिया । अघदहनं पापापनोदि । ह्लादि वृष्ट्या कृत्वा आशु
आनन्दकारि । तथा हि -- 'आदित्याजायते वृष्टि:' । एकस्यैवार्कतेजसो मण्डनाद्यनेक-
क्रियाकारित्वम् । अत एवाह -- बाहुल्योत्पाद्यकार्येति ॥</p>
<lg>
  <l>मीलच्चक्षुर्विजिह्मश्रुति जडरसनं निम्नितघ्राणवृत्ति</l>
  <l>स्वव्यापाराक्षमत्वक्परिमुषितमनः श्वासमात्रावशेषम् ।</l>
  <l>विस्त्रस्ताङ्गं पतित्वा स्वपदपहरताद[^२]श्रियं वोऽर्कजन्मा</l>
  <l>कालव्यालावलीढं जगदगद इवोत्थापयन्प्राक्प्रतापः ॥ ३१ ॥</l>
</lg>
<p>अर्कजन्मा भानुप्रभवः प्राक्प्रतापो नवप्रतापो वो युष्माकमश्रियमलक्ष्मीमपहरताद्व्य-
पनयतु । किं कुर्वन् । जगद्भुवनमुत्थापयन् । किंभूतम् । कालव्यालावलीढम् । व्याल
इव काल: समयभुजंगस्तेनावलीढं ग्रस्तम् । क इव । अगद इव विषापहारी भेषजयोग
इव । यथा कालसर्पदष्टं जगज्जन्तुचक्रमगद उत्थापयति तद्वदिति । किं कुर्वाणं जगदु-
त्थापयन् । स्वपत् शयानम् । किं कृत्वा । पतित्वा । कीदृशं तत् । मीलच्चक्षुः मीलन्ती
चक्षुषी यस्य तत्संकुचल्लोचनम् । एवं विजिह्मश्रुति । योऽहिना दष्टः सोऽपि मीलच्चक्षु-
विजिमश्रुतिश्च भवति । जडा विजिह्मा मन्दा रसना रसनेन्द्रियं यस्य तज्जडरसनं अपटु
श्रवणेन्द्रियं यस्य तत्तथोक्तम् । मूकजिह्वम् । निघ्नितघ्राणवृत्ति निनितावसादं याता घ्रा--
णस्य नासिकाया वृत्तिर्यस्य तत् । स्वविषयगन्धोपलब्धिलक्षणवृत्तिर्निघ्निता यस्य । किं
च, स्वव्यापाराक्षमत्वक् स्वव्यापारः स्पर्शपरिच्छित्तिस्तत्राक्षमा त्वग्यस्य तदेवमुक्तम् ।
परिमुषितमनः परिप्लुषितमनस्कं व्यपहतचित्तम् । इन्द्रियाणि मनोऽधिष्ठितानि । श्वास-
मात्रावशेषं श्वासैकयोगि । एतेन बुद्धीन्द्रियाणां विषयेऽपाटवत्वमुक्तम् । कर्मेन्द्रियाणां</p>
<note>'यत्तु' इति पाठः.
[^२] 'अप्रियं' इति पाठान्तरम्.</note>
<pb n="23" />
<p>तु स्वव्यापाराक्षमत्वं दर्शितम् । विस्त्रताङ्गमिति । अगदस्यापि सर्वमेतदस्ति । अगदपक्षे
काल इव व्याल: मृत्युहेतुत्वादिति योज्यम् ॥</p>
<lg>
  <l>निःशेषं नैशमम्भः प्रसभमपनुदन्नश्रुलेशानुकारि</l>
  <l>स्तोकस्तोकापनीतारुणरुचिरचिरादस्तदोषानुषङ्गः ।</l>
  <l>दाता दृष्टिं प्रसन्नां त्रिभुवननयनस्याशु युष्मद्विरुद्धं</l>
  <l>वध्याद्ब्रध्नस्य सिद्धाञ्जनविधिरपरः प्राक्तनोऽर्चिःप्रचारः ॥ ३२ ॥</l>
</lg>
<p>ब्रघ्नस्यार्चिप्रचारो रश्मिप्रसरो युष्मद्विरुद्धं भवदहितं वध्याद्धन्तु । प्राक्तनः पूर्वका-
लीयः । कीदृशोऽसौ । सिद्धाञ्जनविधिः सिद्धमव्यभिचरितं च तदञ्जनं च तस्य विधि-
रिव विधातेव । अपरोऽन्यः । स एव विशेष्यते –- किंभूतः । दाता दृष्टिम् । दातेति ता-
च्छील्यात्तृच् । अत एव दृष्टिमिति द्वितीया । किंभूताम् । प्रसन्नाम् । (साधु ददातीति
दाता । तृन् ।) किं कुर्वन् । अपनुदन् । किम् । नैशमम्भोऽवश्यायजलम् । निःशेषं स-
मस्तम् । प्रसभं प्रकाशम् । कीदृशं तत् । अश्रुलेशानुकारि नयनजलकल्पम् । सिद्धाञ्ज-
नविधिरप्यश्रु व्यपनयति । पुनरपि कीदृशः । स्तोकस्तोकापनीतारुणरुचिः स्तोकस्तो-
केन लेशेनापनीता उत्सृष्टा अरुणरुचिर्लोहितद्युतिः (येन) । किंचिदुज्झितबालभाव-
त्वात्स एवमुक्तः । अथवा स्तोकस्तोकं लेशेनापनीताभिभूता अरुणस्य सारथेरनूरो रु-
चिर्येन । तथा इतरोऽपि लोचनानां शनैःशनैररुणतामपहरति । अचिरात्संक्षेपात् ।
अस्तदोषानुषङ्गस्त्यक्तरात्रिसंपर्क: । इतरोऽपि निर्धूतकामलादिदोषसंसर्गः । आशु शीघ्रं
वध्यादित्यनेन संबन्धनीयम् ॥</p>
<lg>
  <l>[^१]भूत्वा जम्भस्य भेत्तुः ककुभि परिभवारम्भभूः शुभ्रभानो-</l>
  <l>र्बिभ्राणा बभ्रुभावं प्रसभमभिनवाम्भोजजृम्भाप्रगल्भा ।</l>
  <l>भूषा भूयिष्ठशोभा त्रिभुवनभवनस्यास्य वैभाकरी प्रा-</l>
  <l>[^२]ग्विभ्रान्ति भ्राजमाना विभवतु विभवोद्भूतये सा विभा वः ॥ ३३ ॥</l>
</lg>
<p>वैभाकरी सावित्री सा विभा कान्तिर्वो युष्माकं विभवोद्भूतयेऽर्थसंपत्त्यै विभवतु
विभुर्भवतु । किं कुर्वती । भ्राजमाना शोभमाना । विभ्रान्ति । क्रियाविशेषणमेतत् । किं
कुर्वाणा । बभ्रुभावं कपिलिमानं बिभ्राणा धारयन्ती । किं कृत्वा । परिभूतेः प्रारम्भभू-
मिर्भूत्वा संपद्य । शुभ्रभानोर्वलक्षगोः । क्व । ककुभि दिशि । कस्य । जम्भस्य भेत्तुर्ज-
म्भासुरारेरिन्द्रस्य । कथम् । प्रसभं प्रकटम् । किं च । अभिनवाम्भोजजृम्भाप्रगल्भा प्र-
त्यग्रपङ्केरुहप्रबोधविदग्धा । या भूषा अलंकृतिः । भूयिष्ठशोभा बाहुल्येन । त्रिभुवनभव-
नस्य त्रिलोकीवेश्मनः । अस्य एतस्येति प्रत्यक्षेण निर्दिशति । यथा कोऽपि बलिनः
पक्षे स्थित्वा स्वप्रतिपक्षं हत्वा स्वगृहं समृद्ध्या भूषयति तद्वदत्र बोद्धव्यम् ॥</p>
<note>'स्थित्वा' इति पाठान्तरम्,
[^२] 'निर्भान्ति' इति पाठान्तरम्.</note>
<pb n="24" />
<lg>
  <l>संसक्तं सिक्तमूलादभिनवभुवनोद्यानकौतूहलिन्या</l>
  <l>यामिन्या कन्ययेवामृतकरकलशावर्जितेनामृतेन ।</l>
  <l>अर्कालोकः क्रियाद्वो मुदमुदयशिरश्चक्रवालालवाला-</l>
  <l>दुद्यन्बालप्रवालप्रतिमरुचिरहः पादपप्राक्प्ररोहः ॥ ३४ ॥</l>
</lg>
<p>अर्कालोको भास्वत्प्रतापो मुदं हर्षे वो युष्माकं क्रियात् । कीदृशः । अहःपादपप्राक्प्र-
रोहः । अहःपादपो दिवसतरुस्तस्य प्राक्प्ररोहः प्रथमाङ्कुरः । किं कुर्वन् । उद्यन्नुद्गच्छन् ।
उदयशिरश्चक्रवालालवालात् । उदेत्यस्मिन्नित्युदय उदयाचलस्तस्य शिरांसि शृङ्गाणि
तेषां चक्रवालं मण्डलं तदेवालवालं जलाधारस्थानं तस्मात् । किंभूतात् । सिक्तमूलात् ।
कथम् । संसक्तमनवरतम् । कया । यामिन्या रात्र्या । किंभूतया । अभिनवेति । उद्यानमिव
भुवनं भवनोद्यानं तस्मिन्कौतूहलं विद्यते यस्याः सा तद्वती तया । कयेव । कन्ययेव
कुमार्येव । कुमारीणां किलैष धर्म इति । केन । अमृतेन सुधया । तुषारेणेति परमार्थः ।
किंभूतेन । अमृतकरकलशावर्जितेन । अमृतकर ओषधीशः स एव कलशस्तेनावर्जितं
क्षिप्तं तेन सिक्तमूलात् । अन्यत्रामृतेन जलेन करकलशावर्जितेन । पुनरपि कीदृशः ।
बालप्रवालप्रतिमरुचिर्नवकिसलयसमानकान्तिः । प्ररोहोऽपि नवविद्रुमसमो भवति ॥</p>
<lg>
  <l>भिन्नं भासारुणस्य क्वचिदभिनवया विद्रुमाणां त्विषेव</l>
  <l>त्वङ्गन्नक्षत्ररत्नद्युतिनिकरकरालान्तरालं क्वचिच्च ।</l>
  <l>नान्तर्निःशेषकृष्णश्रियमुदधिमिव ध्वान्तराशिं पिबन्स्ता-</l>
  <l>दौर्वः पूर्वोऽप्यपूर्वोऽग्निरिव भवदघप्लुष्टयेऽर्कावभासः ॥ ३५ ॥</l>
</lg>
<p>अर्कावभासः सूर्यालोको भवदघप्लुष्टये युष्मत्पापभस्मीकरणाय स्ताद्भवतु । क इव ।
अपूर्वोऽन्यः पूर्वोपि प्राक्तनोऽप्यौर्वोऽग्निरिव वडवानल इव । किं कुर्वन् । ध्वान्तराशिं ति-
मिरपुञ्जं पिबन्ग्रसन् । कमिव । उदधिमिव समुद्रमिव । ध्वान्तिराशिसमुद्रयोस्तुल्यतां
दर्शयति -- क्वचितप्रदेशेऽरुणस्यानूरोर्भासा दीत्याभिनवया प्रत्यग्रया भिन्नं विशेषितम् ।
कयेव । विद्रुमाणां त्विषा रुचेव । यथोदधिरपि विद्रुमाणां प्रवालानां त्विषा भिन्नो भ-
वति । क्वचित्प्रदेशे । पुनरपि किंभूतम् । त्वङ्गन्ति कम्पन्ते रत्नानीव यानि नक्षत्राणि
तेषां युतिस्तस्या निकरस्तेन करालं विषमोन्नतमन्तरालं मध्यं यस्य स तथोक्तस्तम् । स-
मुद्रोऽपि त्वङ्गन्ती या नक्षत्रकल्परत्नद्युतिस्तस्या निकरेण करालान्तरालो भवति । पु-
नरपि किंभूतम् । नान्तर्नि:शेषकृष्णश्रियम् । अन्तर्मध्ये नि:शेषावशेषस(र)हिता कृ-
ष्णश्रीः कृष्णशोभा यस्य सोऽन्तर्नि:शेषकृष्णश्रीस्तन्न, अपि तु कृष्णशोभायुक्तमेव । अ-
न्यत्र शेषः फणी । कृष्णो नारायणः । श्रीः पद्मा । शेषश्च कृष्णश्च श्रीश्च शेषकृष्ण-
श्रियः । अन्तर्मध्ये निर्गताः शेषकृष्णश्रियो यस्मादुदधेः सोऽन्तर्नि:शेषकृष्णश्रीस्तन्न,
अपि त्वन्तःशेषकृष्णश्रीयुक्तमेव ॥</p>
<pb n="25" />
<lg>
  <l>गन्धर्वैर्गद्यपद्यव्यतिकरितवचोहृद्यमातोद्यवाद्यै-</l>
  <l>राद्यैर्यो नारदाद्यैर्मुनिभिरभिनुतो वेद[^१]वेद्यैर्विभिद्य ।</l>
  <l>आसाद्यापद्यते यं पुनरपि च जगद्यौवनं सद्य उद्य-</l>
  <l>न्नुद्द्योतो द्योतितद्यौर्द्यतु दिवसकृतोऽसाववद्यानि वोऽद्य ॥ ३६ ॥</l>
</lg>
<p>दिवसकृत आदित्यस्योद्द्योतोऽवभासो वो युष्माकमवद्यानि पापानि यतु खण्डयतु ।
असावयम् । किंविशिष्टः । योतितद्यौः प्रकाशितान्तरिक्षः । पुनः किंभूतः । अभिनुतः ।
कैः। गन्धर्वैर्देवविशेषैः । कथम् । गद्यपद्यव्यतिकरितवचोहृद्यम् । अपादपदसंतानं गद्यम् ।
नियतपादपरिमाणं पद्यम् । गद्यं च पद्यं च गद्यपद्ये ताभ्यां व्यतिकरितं मिश्रितं तच्च
तद्वचश्च तेन हृद्यम् । मनोहरमिति यावत् । क्रियाविशेषणमेतत् । आतोद्यवाद्यैर्मनोहर-
मिति संबध्यते । आतोद्यानि च तानि वाद्यानि च तैरिति । आतोद्यवाद्यं चतुर्विधम् --
ततं विततं (आनद्धम् ) घनं सुषिरमिति । ततं वीणादिकम् । विततं (घनं) कांस्य-
तालादिकम् । घनं (आन) मुरजादिकम् । सुषिरं वंशादिकम् । गन्धर्वैरेव किम् ।
न । मुनिभिश्च नारदाद्यैर्नारदप्रमुखैः । आद्यैरादिभूतैः । वेदेषु वेद्या यथा तैः । विभिद्य
विभागीकृत्य । यमासाद्य जगद्यौवनमापद्यते प्राप्यते । पुनरपि भूयोऽपि । सद्यस्तत्क्ष-
णम् । उद्यन्नुद्गच्छन् । यौवनमिति मनोज्ञत्वं लक्षयति । यथा यौवने सर्वोऽपि भावो म-
नोहरो भवति । तथा यमप्यासाद्य मनोहरो भवतीति यौवनमित्युक्तम् ॥</p>
<lg>
  <l>[^१]आवानैश्चन्द्रकान्तैश्च्युततिमिरतया तानवात्तारकाणा-</l>
  <l>मेणाङ्कालोकलोपादुपहतमहसामोषधीनां लयेन ।</l>
  <l>आरादुत्प्रेक्ष्यमाणा क्षणमुदयतटान्तर्हितस्याहिमांशो-</l>
  <l>राभा प्राभातिकी वोऽवतु न तु नितरां तावदाविर्भवन्ती ॥ ३७ ॥</l>
</lg>
<p>अहिमांशोश्चण्डार्चिष आभा कान्तिर्वो युष्मानवतु । कीदृशी । प्राभातिकी औषसी ।
किं क्रियमाणा । उत्प्रेक्ष्यमाणानुमीयमाना । न तु नैव नितरां स्पष्टमाविर्भवन्ती प्रकटी-
भवन्ती । तावदिति ततोऽनन्तरमाविर्भवन्तीति संबध्यते । कीदृशस्य । क्षणं क्षणमात्रमु-
दयतटीव्यवहितस्य । कैरनुमीयमाना । चन्द्रकान्तैर्मणिभिः । आवानैः शुष्यद्भिः । ते
हिमकरस्पृष्टास्तोयं स्यन्दन्ते चन्द्रालोकाभावाच्छुष्यन्ति । अपि च तारकाणामुडूनां
तानवात्तनुत्वात् । कुतस्तानवम् । च्युततिमिरतया गलितध्वान्ततया । ओषधीनां लयेन
विलीनतया । कीदृशाम् । उपहतमहसां नष्टतेजसाम् । कुत उपहतमहस इत्याह--ए-
णाङ्कालोकलोपाच्चन्द्रोद्द्योतपरिमोषात । ओषधयोऽपि चन्द्रमसि विलुप्तभासि विच्छाया
भवन्ति । आरादित्यवाग्भाग इति योज्यम् ॥</p>
<note>'वीतवेद्यैर्विविद्य' इति पाठ:.
[^२] 'आवान्तैः' इति पाठ: ईषत्सलिलबिन्दुस्रा-
विभिरिति तदर्थः.</note>
<pb n="26" />
<lg>
  <l>सानौ सा नौदये नारुणितदल[^१]पुनर्यौवनानां वनाना-</l>
  <l>मालीमालीढपूर्वा परिहृतकुहरोपान्तनिम्ना तनिम्ना ।</l>
  <l>भा वोऽभावोपशान्तिं दिशतु दिनपतेर्भासमाना समाना</l>
  <l>राजी राजीवरेणोः समसमयमुदेतीव यस्या वयस्या ॥ ३८ ॥</l>
</lg>
<p>सा दिनपतेरर्कस्य भा दीप्तिर्वो युष्मभ्यमभावोपशान्तिमभाग्योपशमं दिशतु य-
च्छतु । किं कुर्वती । भासमाना द्योतमाना । यस्याः समसमयमेककालं राजीवरेणोः प-
द्मपरागस्य राजी पङ्क्तिरुदेत्युद्गच्छति । वयस्येव सखीव या [^२]समाना तुल्या । या वनानां
काननानामालीं पङ्क्ति न न [^३]आलीढपूर्वा, अपि त्वालीढपूर्वेव । द्वौ नञौ प्रकृतार्थं गम-
यतः । कीदृशानां वनानाम् । अरुणितदलपुनर्यौवनानाम् । अरुणितान्यरुणीकृतानि तानि
दलानि च तैः पुनर्यौवनं येषां तानि तथोक्तानि । सानौ भूधरभूमौ । कीदृशि । औदये
उदयस्यायमौदयस्तत्र । कीदृशी सा । परिहृतकुहरोपान्तनिम्ना । कुहराणामुपान्तानि
कुहरोपान्तानि तानि च निम्नानि च परिहृतानि कुहरोपान्तनिम्नानि रन्ध्रप्रान्तागाधानि
यया सा परिहृतकुहरोपान्तनिम्ना । तनिम्ना तानवेन हेतुना ॥</p>
<lg>
  <l>उज्जृम्भाम्भोरुहाणां प्रभवति पयसां या श्रिये नोष्णतायै</l>
  <l>पुष्णात्यालोकमात्रं न तु दिशति दृशां दृश्यमाना विघातम् ।</l>
  <l>पूर्वाद्रेरेव पूर्वं दिवमनु च [^४]पुनः पावनी दिङ्मुखाना-</l>
  <l>मेनांस्यैनी विभासौ नुदतु नुतिपदैकास्पदं प्राक्तनी वः ॥ ३९ ॥</l>
</lg>
<p>विभा दीप्तिः इनस्येयमैनी सावित्री एनांसि पापानि वो युष्माकं नुदतु विघटयतु ।
नुतिपदैकास्पदं स्तुतिपदैकप्रतिष्ठा । प्राक्तनी प्राभातिकी । या पयसां जलानां श्रिये
लक्ष्म्यै प्रभवति विभुर्भवति नोष्णतायै औष्ण्याय । कीदृशानाम् । उज्जृम्भाम्भोरुहाणा-
मुज्जृम्भानि विकसितान्यम्भोरुहाणि येषु पयःसु तानि तेषां विकचकुशेशयानाम् । किं च,
दृशामालोकमात्रं पुष्णाति न तु दृश्यमानोपलभ्यमाना विघातं व्यथां दिशति यच्छति ।
या पूर्वं प्रथममुदयाद्रेरेवोदयाचलस्यैव पावनी पवित्रयित्री । तदनु द्यां दिवं लक्षीकृत्य
पावनी भवति । पुनरपि दिङ्मुखानामाशास्यानाम् । एतदुक्तं भवति –- पुनरपि (पूर्वं)
उदयाचले तदनु दिवि तदनन्तरमाशामुखेषु भवति ॥</p>
<note>'लसद्यौवनानां' इति पाठ:.
[^२] 'असमाना अनुपमा' इति यज्ञेश्वरशास्त्रिया-
ख्यानम्.
[^३] 'वनानां वृक्षसमूहानामाली पङ्क्तिं पूर्वमालीढा पूर्वमास्वादयितुमारब्धवती-
त्यालीढपूर्वी सा तथाविधा न भवतीति न । किं त्वितरवनराज्या आस्वादनतः पूर्वमुद-
याद्रिस्थवनराजीमास्वादितुमारब्धवतीत्यर्थः । आदिकर्मणि क्तः । कर्तरि चेति कर्तरि
निष्ठा । अत एव कर्मणोऽनुक्तत्वादालीमिति द्वितीयान्तम्' इति शास्त्रिव्याख्यानम्.
[^४] 'ततः' इति पाठः.</note>
<pb n="27" />
<lg>
  <l>वाचां वाचस्पतेरप्यचलभिदुचिताचार्यकाणां प्रपञ्चै-</l>
  <l>र्वैरञ्चानां तथोच्चारित[^१]चतुरऋचां चाननानां चतुर्णाम् ।</l>
  <l>उच्ये[^२]तार्चासु वाच्यच्युतिशुचि चरितं यस्य नोच्चैर्विविच्य</l>
  <l>प्राच्यं वर्चश्र्वकासच्चि[^३]रमुपचिनुतात्तस्य चण्डार्चिषो वः ॥ ४० ॥</l>
</lg>
<p>चण्डाचिषस्तिग्मभासो वर्चस्तेजो वो [^४]युष्माकमुपचिनुतादुपचयं करोतु । चिरं चि-
रकालम् । चकासद्दीप्यमानम् । प्राच्यं प्राचीभवम् । यस्यैवंविधं चरितमनुष्ठानमर्चासु
प्रतिमासु स्तुतिषु उच्चैरत्यर्थं विविच्य विभिद्य नोच्येत नाभिधातुं शक्येत । अपर्यन्तता-
मनेन दर्शयति । कीदृशं तत् । वाच्यच्युतिशुचि वाच्यमवद्यं तस्य च्युतिस्तद्रहितता
तया शुचि विशुद्धम् । कैर्नोच्येत । प्रपञ्चैर्विस्तारैः । कासाम् । वाचां गिराम् । कस्य वा-
चस्पतेरपि । किं पुनरस्मादृशाम् । कीदृशां वाचाम् । अचलभिदिन्द्रस्तस्योचितं योग्य-
माचार्यकमाचार्यत्वं यासां तास्तथोक्तास्तासाम् । किं च, वैरञ्चानां विरञ्चसंबन्धिनां चतु-
र्णामाननानां वाचां प्रपञ्चैरिति योज्यम् । कीदृशाम् । उच्चारितचतुरऋचाम् । उच्चारिता-
श्चतुरा अघविघातपटव ऋचो यैस्तानि तथोक्तानि तेषामिति ॥</p>
<lg>
  <l>मूर्ध्न्यद्रेर्धातुरागस्तरुषु किसलयो विद्रुमौघः समुद्रे</l>
  <l>दिङ्मातङ्गोत्तमाङ्गेष्वभिनवनिहितः[^५] सान्द्रसिन्दूररेणुः ।</l>
  <l>सीम्नि व्योम्नश्च हेम्नः सुरशिखरिभुवो जायते यः प्रकाशः</l>
  <l>शोणिम्नासौ खरांशोरुषसि दिशतु वः शर्म शोभैकदेशः ॥ ४१ ॥</l>
</lg>
<p>खरांशोस्तीक्ष्णतेजसः प्रकाश: शोभैकदेश: शोभैकास्पदं वो युष्मभ्यं शर्म सुखं दि-
शतु यच्छतु । यो जायते धातुराग इव परार्थे शोणिम्ना हेतुना । प्रत्येकं संबन्धनीयम् ।
उषसि प्रातः । मूर्ध्नि शिरसि । कस्य । अद्रेः । युज्यमानशब्दो वतिमन्तरेणापि वत्यर्थं ग-
मयति । यथा सिंह: सिंह इत्याह । सिंहवदिति गम्यते । एवं सर्वत्र द्रष्टव्यम् । किं
च, किसलयः पल्लववत्तरुषु शाखिषु । किसलय इति पुंलिङ्गनिर्देश: । न पुनर्लिङ्गमशिष्यं
लोकाश्रयत्वादिति । यथा पल्लवशब्दस्य पुंलिङ्गस्यापि लोकाश्रयं नपुंसकत्वं दृश्यते
यथा (तथा) किसलयस्य नपुंसकस्यापि पुंस्त्वमिति नोच्यते । शोमैकदेश: सामाना-
घिकरण्यात्पुंलिङ्गता । आविष्टलिङ्गत्वात् । अन्यथा आवथनमियमुष्ट्रिका (?) कुलहेतु-
र्धनमिति स्त्रीत्वनपुंसकत्वसामानाधिकरण्येनावथनहेत्वोः स्त्रीनपुंसकता स्यात् । यैस्तु
किसलयमिति नपुंसकमेवाभिधीयते तेषां नेदं नोद्यम् । समुद्रे वारिधौ विद्रुमौघः । दि-
ङ्मातङ्गोत्तमाङ्गेषु दिग्वारणशिरः स्वभिनवनिहितः प्रत्यग्रस्थापित: सान्द्रसिन्दूररेणुर्बहुल-</p>
<note>'रुचिर' इति पाठः.
[^२] 'अर्चास्ववाच्य' इति पाठ:.
[^३] 'श्रियं' इति पाठः
[^४] 'युष्मानुपचिनुताद्वधर्यत्वित्यर्थः' इति शास्त्रिव्याख्यानम्.
[^५] 'विहितः' इति पाठः.</note>
<pb n="28" />
<p>सिन्दूररेणुः । व्योम्नो गगनस्य सीनि मर्यादायामलंकारायोज्ज्वलरूपकर्तृभूतत्वात्सुरशि-
खरिभुवो मेरुसंभवस्य हेम्नः कनकस्य प्रकाशः ॥</p>
<lg>
  <l>अस्ताद्रीशोत्तमाङ्गे श्रितशशिनि तमःकालकूटे निपीते</l>
  <l>याति व्यक्तिं पुरस्तादरुणकिसलये प्रत्युष:पारिजाते ।</l>
  <l>उद्यन्त्यारक्तपीताम्बरवि[^१]शदतरोद्वीक्षिता ती[^२]क्ष्णभानो-</l>
  <l>र्लक्ष्मीर्लक्ष्मीरिवास्तु स्फुटकमलपु[^३]टापाश्रया श्रेयसे वः ॥ ४२ ॥</l>
</lg>
<p>तीक्ष्णभानोर्लक्ष्मीः श्रीः श्रेयसे पुष्टयेऽभ्युदयायास्तु भवतु । केव । लक्ष्मीरिव पद्मेव ।
स्फुटकमलपुटापाश्रया विकसिताम्भोरुहपुटाधिवासा । किं कुर्वती । उद्यन्ती उद्ग-
च्छन्ती । कस्याम् । पुरस्तात्पूर्वस्यां दिशि । कस्मिन्नवसरे । अस्ताद्रीशोत्तमाङ्गे अस्ता-
द्रिरेवेशो महादेवस्तस्योत्तमाङ्गे अस्ताचलेशशिरसि श्रितशशिन्यधिरूढचन्द्रमसि । इतरे-
ऽपीशोत्तमाङ्गे परमेश्वरमूर्धनि इन्दुयुजि । तमःकालकूटे निपीते ग्रस्ते कालकूट इव
तमस्तत्र निपीते ग्रस्ते । अन्यत्र तम इव कालकूटो मोहात्मकत्वात् । तत्र शंभुना पीते
सति । अस्ताद्रिरिवेशः । किं च, याति गच्छति सति । व्यक्तिं प्रकटताम् । प्रत्युष:-
पारिजाते । किंविशिष्टे । अरुणकिसलयेऽनुरुप्रवाले । अन्यत्र पारिजाततरावरुणपल्लव इति
योज्यम् । किंभूता । आरक्तपीताम्बरविशदतरोद्वीक्षिता ईषद्रक्तपीतभावभाजि संध्यया
नभसि स्फुटतरं दृष्टा । इतरापि आरक्तोऽनुरक्तः पीताम्बरो विष्णुस्तेन व्यक्तं
विलोकिता ॥</p>
<lg>
  <l>नोदन्वाञ्जन्मभूमिर्न तदुदरभुवो बान्धवाः कौस्तुभाद्या</l>
  <l>यस्याः पद्मं न पाणौ न च नरकरिपूरःस्थली वासवेश्म ।</l>
  <l>तेजोरूपापरैव त्रिषु[^४] भुवनतलेष्वादधाना व्यवस्थां</l>
  <l>सा श्रीः श्रेयांसि दिश्यादशिशिरमहसो मण्डलामोद्गता वः ॥ ४३ ॥</l>
</lg>
<p>सा श्रीर्लक्ष्मीः श्रेयांसि वो युष्मभ्यं दिश्याद्देयात् । अशिशिरमहस उष्णरश्मेर्मण्ड-
लाग्रोद्गता मण्डलप्रान्तसमुत्थिता । कीदृशी । तेजोरूपा महःस्वभावा । अपरैवान्यैव ।
प्रसिद्धश्रीविलक्षणेत्यर्थः । तदेव वैलक्षण्यं दर्शयति-- यस्या जन्मभूमिर्नोदन्वान्समुद्रो नो-
त्पत्तिस्थानम् । कौस्तुभाद्या न बान्धवा यस्याः । तदुदरभुव उदन्वदुदरजन्मनः ।
यस्याः पद्मं न पाणौ कमलं हस्ते न । न च यस्या नरकरिपूरःस्थली वासवेश्म । नरको</p>
<note>. 'रुचिरतरोद्वीक्षिता' इति पाठ:.
[^२]. 'तीव्रभासः' इति पाठ:.
[^३]. 'पुटोपाश्रया' इति पाठः
[^४]. 'त्रिभुवनभवने' इति पाठः.
[^५]. 'तेजोवर्णनम्' इति पाठ:.</note>
<pb n="29" />
<p>भौमासुरस्तस्य रिपुर्नारायणस्तस्योरःस्थली सैव वासवेश्म वासगृहमिति । त्रिषु भुवन-
तलेषु त्रैलोक्ये । आदधाना कुर्वती । व्यवस्थां व्यवस्थानम् । इतरा अनवस्थानेति
व्यतिरेकः ॥ इति द्युतिवर्णनव्याख्यानम् ॥</p>
<lg>
  <l>रक्षन्त्वक्षुण्णहेमोपलपटलमलं लाघवादुत्पतन्तः</l>
  <l>पातङ्गाः पङ्ग्वज्ञाजितपवनजवा वाजिनस्ते जगन्ति ।</l>
  <l>येषां वीतान्यचिह्नोन्नयमपि वहतां मार्गमाख्याति मेरा-</l>
  <l>वुद्यन्नुद्दामदीप्तिर्द्युमणिमणिशिलावेदिकाजातवेदाः ॥ ४४ ॥</l>
</lg>
<p>ते पातङ्गाः सावित्रा वाजिनस्तुरङ्गा जगन्ति भुवनानि रक्षन्तु पान्तु । किं कुर्वन्तः ।
उत्पतन्तः । कथम् । अक्षुण्णहेमोपलपटलम् । अक्षुण्णमचूर्णितं हेमोपलपटलं सुवर्णाश्म-
जालं यत्रोत्पतने । खुरैर्व्योम स्पृशन्त इति भावः । कुतः । लाघवाल्लघुभावात् । अलम.
त्यर्थम् । मेराविति वक्ष्यति । तत्रोत्पतन्त इत्यस्य संबन्ध: । कीदृशास्ते । [^१]पङ्ग्वज्ञयाजित-
पवनजवा: । पङ्ग्वज्ञया जितः पवनजवो वायुवेगो यैस्ते । वायुः किल चरणरहितस्तस्य
कियान्वेगो भविष्यतीत्यवज्ञा । येषां मार्गे वर्त्म आख्याति सूचयति । कः कर्ता । द्युमणि-
मणिशिलावेदिकाजातवेदाः । दिवो मणिर्द्युमणिरादित्यः । मणिरिव मणिः । अलंकार-
भूतत्वात् । तस्य मणयः सूर्यकान्तास्तेषां वेदिकाश्चतुष्कास्तासु जातवेदा आशुशुक्षणिः ।
'जातका जातवेदाः' इति पाठान्तरे जातकाशब्दो वेदिकापर्यायः । किं कुर्वन् । उद्यन्नुद्ग-
च्छन् । उद्दामदीप्तिः प्राज्यप्रकाशः । किं कुर्वतां वाहानाम् । वहतां गच्छताम् । क्व ।
मेरौ पूर्वाचले । वीतान्यचिह्नोन्नयमपि मार्गे विगतापरलिङ्ग इत्यह(?)मपि । अपिशब्द-
श्चिह्नान्तराभावेऽपि मार्गप्रख्यापनसामर्थ्ये जातवेदसो दर्शयति ॥</p>
<lg>
  <l>प्लुष्टाः पृष्ठेंऽशुपातैरतिनिकटतया दत्तदाहातिरेकै-</l>
  <l>रेकाहाक्रान्तकृत्स्नत्रिदिवपथपृथुश्वासशोषाः श्रमेण ।</l>
  <l>तीव्रोदन्यास्त्वरन्तामहितविहतये सप्तयः सप्तसप्ते -</l>
  <l>रभ्याशाकाशगङ्गाजलसरल[^२]गलावाङ्मताग्रानना वः ॥ १९ ॥</l>
</lg>
<p>सप्तसप्तेः सप्ततुरगस्य सप्तयोऽश्वा अहितविहतये दुरितविनाशाय वो युष्माकं त्वर-
न्तामुत्सहन्ताम् । किंभूताः । तीव्रोदन्या उदग्रपिपासाः । उदन्याया हेतुं दर्शयति--
प्लुष्टा दग्धाः पृष्ठे । कैः । अंशुपातै रश्मिप्रसरैः । अतिनिकटतया प्रत्यासन्नत्वेन । कथं-
भूतैः। दत्तदाहातिरेकैर्वितीर्णतापाधिक्यैः । कीदृशास्ते । एकाहेति । एकं च तदहश्चैका -</p>
<note>'पङ्गोर्निजप्रेरकस्यारुणस्यावज्ञयावहेलनेन यद्वा पङ्गोः पादविकलस्य वायोरवज्ञया'
इति शास्त्रिव्याख्यानम्.
[^२] 'गलावर्जिताग्राननाः' इति पाठ:.</note>
<pb n="30" />
<p>हस्तेनाक्रान्त एकाहाक्रान्तः । कृत्स्त्रश्चासौ त्रिविदपथश्च कृत्स्नत्रिदिवपथः । एकाहा-
ऋान्तश्चासौ कृत्स्नत्रिदिवपथश्चेति समासः । तेन पृथुः श्वासो येषां त एवमुक्ताः । श्र
मेण हेतुना । पुनरपि किंभूताः । अभ्याशे समीपे आकाशगङ्गा तस्या जलं तस्मिन्सरल-
गलानि अवाङ्नताप्राणि आननानि येषां ते तथोक्ताः । समीपमन्दाकिनीसलिलऋजुकं-
धराधोगतकोटिमुखाः ॥</p>
<lg>
  <l>मत्वान्यान्पार्श्वतोऽश्वान्स्फटिकतटदृषदृृष्टदेहा द्रवन्ती</l>
  <l>व्यस्तेऽहन्यस्तसंध्येयमिति मृदुपंदा पद्मरागोपलेषु ।</l>
  <l>सादृश्यादृश्यमूर्तिर्मरकतकटके क्लिष्टसूृता सुमेरो-</l>
  <l>मूर्धन्यावृत्तिलब्ध[^१]ध्रुवगतिरवतु ब्रघ्नवाहावलिर्वः ॥ ४६ ॥</l>
</lg>
<p>ब्रनवाहावलिः सूर्याश्वपङ्क्तिर्वो युष्मानवतु पातु । कीदृशी । क्लिष्टसूता कदर्थितसारथिः ।
क्व । मेरोर्मूर्धनि देवाचलशिरसि । तदेव दर्श्यते । द्रवन्ती गच्छन्ती । कीदृशी सती -- स्फ-
टिकतटदृषदृृष्टदेहा । स्फटिकस्य तटास्तेषु दृषदस्तासु दृष्टो देहः प्रतिबिम्बितो यया
सा तथोक्ता । किं कृत्वा । मत्वावगम्य । पार्श्वतः पार्श्वयोः । अन्यानश्वानपरान्वाजिनः ।
स्वां छायामेव स्फटिकतटदृषत्क्रान्तामपरानश्वान्बुद्द्वावधार्य द्रवन्ती धावन्तीत्यर्थः । शैलीयं
वाजिनां यदन्यमश्वं दृष्ट्वा धावन्ति । किं च पद्मरागोपलेषु पद्मरागमणिषु मृदुपदा म-
न्दपदविक्षेपा । किं च, व्यस्तेऽहनि विगतवासरे अस्तसंधेयमिति भ्रान्त्या । भ्रान्तिहे-
तुरक्ततादिनास्तसंध्यायामध्वा किल विच्छिन्न इति मृदुपदताहेतुः । अपि च, मरकत-
कटके मरकतमेखलायां सादृश्येनादृश्या मूर्तिर्यस्याः सैवमुक्ता । सा हरिता मरकतकट-
कश्च हरितस्ततो विभ्रम: स्यात् किं मरकत उताश्वालीति । अदृश्यानवधारिता मूर्ति-
र्यस्या इत्यर्थः । कीदृशी । आवृत्तिलवब्धध्रुवगतिः । आवृत्त्यावर्तनेन लब्धा ध्रुवा अचपला
गतिर्यया सा तथोक्ता ॥</p>
<lg>
  <l>हेलालोलं वहन्ती विषधरदमनस्याग्रजेनावकृष्टा</l>
  <l>स्वर्वाहिन्याः सुदूरं जनितजवजया स्यन्दनस्य स्यदेन ।</l>
  <l>निर्व्याजं तायमाने हरितिमनि निजे [^२]स्फीतफेनाहितश्री-</l>
  <l>रश्रेयस्यश्वपङ्किः शमयतु यमुनेवापरा तापनी वः ॥ ४७ ॥</l>
</lg>
<p>अश्वपकिस्तुरगावली वो युष्माकमश्रेयांसि पापानि शमयतु । किंभूता । तापनी सा-
वित्री । किं च यमुनेव कालिन्दी यथा । अश्वपङ्क्तिकालिन्द्योः साम्यमभिधोयते--
किं कुर्वती । वहन्ती गच्छन्ती । कथम् । हेलालोलं विलासचञ्चलमनायासचञ्चलं वा ।
किंभूताश्वपङ्क्तिः । अवकृष्टा संयमिता । केन । विषधरदमनस्याग्रजेन गरुत्मतो ज्येष्ठेनारु-
णेन । पुनः किंभूता । स्वर्वाहिन्या गङ्गाया जनितजवजया कृतवेगाभिभवा । स्यन्दनस्य</p>
<note>' द्रुतगति:' इति पाठ:.
[^२] 'स्फीतफेनस्मितश्री:' इति पाठः.</note>
<pb n="31" />
<p>रथस्य स्यदेन वेगेन । कथम् । सुदूरमतीव । निजस्फीतफेनाहितश्रीः स्वकीयोपचितडिण्डी-
रकृतशोभा । कस्मिन्सति । तायमाने विस्तारं याति सति । हरितिमनि हरितगुणे । क-
थम् । निर्व्याजं निरुपधि । यमुनाप्युच्छाचल(?)चञ्चलं वहन्ती विषधरदमनस्य श्रीकृ-
ष्णस्याग्रजेन पूर्वजेन बलेनावकृष्टा वृन्दावनं प्रति नीता । पार्श्ववाहिन्या गङ्गाया जवं
जयति । स्यन्दनस्य पर्वतादेः क्षरणस्य प्रस्रवणस्य स्यदेन रयेण हरितत्वेन (?) प्रसृतनि-
जफेनेनाहितशोभा भवति । तापनी तपनस्येयं तापनीति कृत्वा अपरा द्वितीयेति
योज्यम् ॥</p>
<lg>
  <l>मार्गोपान्ते सुमेरोर्नुवति कृतनतौ नाकधाम्नां निकाये</l>
  <l>वीक्ष्य त्रीडानतानां प्रतिकुहरमुखं किंनरीणां मुखानि ।</l>
  <l>सूतेऽसूयत्यपीषज्जडगति वहतां कं[^१]धराधैर्वलद्भि-</l>
  <l>र्वाहानां व्यस्यताद्वः सममसमहरेर्हेषितं कल्मषाणि ॥ ४८ ॥</l>
</lg>
<p>असमहरेर्विषमाश्वस्य रवेर्वाहानां वाजिनां हेषितं शब्दायितं सममेककालं युष्माकं
कल्मषाणि पापानि व्यस्यताद्व्यपनयतु । किं कुर्वताम् । वहतां गच्छताम् । कथम् । ईष-
ज्जडगति किंचिन्मन्दगति । प्रायेण सूतो नोत्तेजयति तन्न । सूतेऽरुणेऽसूयत्यपि सारथौ
कुप्यत्यपि । कैरुपलक्षितानाम् । कंधरार्धैः । किं कुर्वद्भिः । वलद्भिः परिवर्तमानैः । किं
कृत्वा । वीक्ष्य दृष्ट्वा । कानि । मुखानि । कासाम् । किंनरीणामश्वमुखीनाम् । कीदृशीनाम् ।
व्रीडानतानां व्रीडावतीनाम् । भानुदर्शनोत्सुकाः किंनर्यः प्रतिकुहरमुखेषु तिष्ठन्ति ।
कस्मिन्नवसरे। नाकधाम्नां देवानां निकाये व्राते नुवति स्तुवाने सति । किंभूते । कृतनुतौ
विहितप्रणामे । क्व। मार्गोपान्तेऽध्वसमीपे । कस्य । सुमेरोर्देवाचलस्य ॥</p>
<lg>
  <l>धुन्वन्तो नीरदालीर्निजरुचिहरिताः पार्श्वयोः पक्षतुल्या-</l>
  <l>स्तालूत्तानैः खलीनैः खचितमुखरुचश्र्व्योतता लोहितेन ।</l>
  <l>उड्डीयेव व्रजन्तो वियति गतिवशादर्कवाहाः क्रियासुः</l>
  <l>क्षेमं हेमाद्रिहृद्यद्रुमशिखरशिरःश्रेणिशाखाशुका वः ॥ ४९ ॥</l>
</lg>
<p>अर्कवाहा रवितुरगाः क्षेमं कल्याणं वो युष्माकं क्रियासुः कुर्वन्तु । किंभूताः । हृद्यो
हृदयप्रियः स चासौ द्रुमश्च हृद्यद्रुमः स एव हेमाद्रिस्तस्य शिखराणि तेषां शिरांसि तेषां
श्रेणिः सैव शाखा तस्याः शुका इव शुकाः । किं कुर्वन्तः । व्रजन्तो गच्छन्तः । क्व । वियति
खे । किं कृत्वेव । उड्डीयेव । कुतः । गतिवशागत्यनुरोधात् । पुनरपि कि कुर्वन्तः । धुन्वन्तः
कम्पयन्तः । काः । नीरदालीर्मेघपङ्क्तीः  । क्व । पार्श्वयोः । कीदृशीः । निजरुचिहरिताः
स्वकीयद्युतिहरितगुणयुक्ताः । पक्षतुल्याः । शुका अपि सहजहरितवपुषः पक्षान्धूनयन्ति</p>
<note>'कंधराग्रैः' इति पाठः.</note>
<pb n="32" />
<p>उड्डीय व्रजन्ति च । अपि च, अर्काश्वाः, खचितमुखरुचो रचितमुखशोभाः । केन ।
लोहितेन शोणितेन । किं कुर्वता । श्रोतता क्षरता । कैर्हेतुभिः । खलोनैः कविकाभिः ।
किंभूतैः । तालूत्तानैः । तालूषूत्तानानि तालत्तानानि तानि हि यदा भवन्ति । तदा क्षतं
कुर्वन्ति । ततोऽसृक् स्रवति । स्वभावोक्तिरियम् । शुकास्तु स्वभावाल्लोहिततुण्डा
भवन्ति ॥ इत्यश्ववर्णनव्याख्यानम् ॥</p>
<lg>
  <l>प्रातःशैलाग्ररङ्गे रजनिजवनिकापायसंलक्ष्यलक्ष्मी-</l>
  <l>र्विक्षिप्यापूर्वपुष्पाञ्जलिमुड्डुनिकरं सूत्रधारायमाणः ।</l>
  <l>यामेष्वङ्केष्विवाह्नः कृतरुचिषु चतुर्ष्वेव [^१ ]जातप्रतिष्ठा-</l>
  <l>मव्यात्प्रस्तावयन्वो जगदटनमहानाटिकां सूर्यसूतः ॥ ५० ॥</l>
</lg>
<p>सूर्यसूतो रविसारथिर्वो युष्मानव्याद्रक्षतु । किं कुर्वन् । प्रस्तावयन्प्रारभमाणः । काम् ।
जगदटनमहानाटिकाम् । जगतामटनं भ्रमणं तदेव महानाटिका ताम् । क्व । प्रातःशै-
लाग्ररङ्गे । प्रातःशैल उदयाचलस्तस्याग्रं तदेव रङ्गो नर्तनभूमिस्तत्र । कीदृशः सः । रज-
निजवनिकापायसंलक्ष्यलक्ष्मीः । रजनी रात्रिः सैव जवनिका प्रतिसीरा तस्यां अपाय-
स्तेन संलक्ष्योपलक्ष्या लक्ष्मीः श्रीर्यस्यारुणस्य स तथोक्तः । किं कृत्वा । विक्षिप्य वि-
कीर्य । कम् । उडुनिकरं तारकासंघम् । किंभूतम् । अपूर्वपुष्पाञ्जलिम् । किंभूतः । सूत्र-
धारायमाण: सूत्रधार इवाचरन् । सूत्रधारोऽपि नाटिकां रङ्गे प्रस्तावयति । जवनि-
कापगमदृश्यलक्ष्मीर्भवति । उडुनिकरतुल्यां पुष्पाञ्जलिं विकिरति । किंभूतां ताम्। जा-
तप्रतिष्ठामुत्पन्नस्थितिम् । क्व । अह्नो यामेषु प्रहरेषु । कियत्सु । चतुर्ष्वेव । अङ्केष्विव । ना-
टिकापि चतुरङ्का भवति । किंभूतेषु । कृतरुचिषु विहितदीप्तिषु । अन्यत्र कृतशोभेषु ॥</p>
<lg>
  <l>आक्रान्त्या वाह्यमानं पशुमिव हरिणा वाहकोऽग्र्यो हरीणां</l>
  <l>भ्राम्यन्तं पक्षपाताज्जगति समरुचिः सर्वकर्मैकसाक्षी ।</l>
  <l>शत्रुं नेत्रश्रुतीनामवजयति वयोज्येष्ठभावे समेऽपि</l>
  <l>स्थाम्नां धाम्नां निधिर्यः स भवदवनुदे नूतनः स्तादनूरुः ॥ ५१ ॥</l>
</lg>
<p>नूतनो नवोऽनूरुररुणो भवदघनुदे युष्मत्पापविनाशाय स्ताद्भवतात् । कीदृशः ।
स्थाम्नां स्थिराणां धाम्नां तेजसां निधिर्निधानम् । नेत्रश्रुतीनां सर्पाणां शत्रुं गरुत्मन्त-
मवजयत्यभिभवति । प्रायेण सामर्थ्यं किमनयोर्नास्तीत्याह –- वयोज्येष्ठभावे समेऽपि
सति । एकत्र वयसा कालकृतशरीरावस्थया ज्येष्ठोऽधिकः । अन्यत्र वयसां पक्षिणां
ज्येष्ठ: प्रधानं तद्भावे समेऽपि तुल्येऽपीति शब्दच्छलमेतत् । अत्र जयमेव दर्शयति--
किंभूतं नेत्रश्रुतिशत्रुम् । वाह्यमानं वाहनीक्रियमाणम् । हरिणा विष्णुना । आक्रान्त्या</p>
<note>. 'यातः प्रतिष्ठां' इति पाठः,</note>
<pb n="33" />
<p>विक्रमेण बलात्कारेण । पशुमिव अश्वादिर्यथा । असावपि कदाचिदेवंभूतः स्यादित्याह--
वाहको वाहयिता । अग्र्यः प्रधानम् । केषाम् । हरीणां वाजिनाम् । हरिशब्दसाम्येनाव-
जयं दर्शयति –- एक एकेन हरिणा वाह्यते । अपरस्तु बहून्हरीन्वाहयति । किं च भ्रा-
म्यन्तं पर्यटन्तम् । जगति लोके । कस्मात् । पक्षपातात्पक्षविक्षेपात्पतनाद्धूननाद्वा ।
अयं तु जगति समरुचिस्तुल्यानुरागः पक्षपातरहितः । सर्वकर्मैकसाक्षी सर्वेषां कर्मणा-
मेकः साक्षी द्रष्टा । पक्षपातादिति शब्दच्छलेनावजयं दर्शयति--पक्षपातो हि राग
उच्यते । गरुडस्तु पक्षपातवान् । इतरस्तद्रहितः ॥</p>
<lg>
  <l>दत्तार्घैर्दूरनम्रैर्वियति विनयतो वीक्षितः [^१]सिद्धसार्थैः</l>
  <l>सानाथ्यं सारथिर्वः स दशशतरुचेः सातिरेकं करोतु ।</l>
  <l>आपीय प्रातरेव प्रततहिमपयःस्यन्दिनीरिन्दुभासो</l>
  <l>यः काष्ठादीपनोऽग्रे जडित इव भृशं सेवते पृष्ठतोऽर्कम् ॥ ५२ ॥</l>
</lg>
<p>दशशतरुचेर्भानोः सूतो युष्माकं सानाथ्यं सनाथतां करोतु क्रियात् । सातिरेकं
सातिशयम् । किंभूतः । यः पृष्ठेनार्कमादित्यं भजते । अग्रे काष्ठादीपनो दिगुद्द्योतनः ।
किं कृत्वा । प्रभात एव चन्द्रदीप्तो: पीत्वा । कीदृशी: । प्रततहिमपयःस्यन्दिनी । संतत-
प्रसृतमिहिकाम्बुस्राविणोः । क इव । जडित इव शीतार्दित इव । भृशं सुष्टु । जडितो-
ऽपि पृष्ठेऽर्कं निषेवते काष्ठान्यग्रे दीपयति । तथा च 'पृष्ठतोऽर्कं निषेवेत जठरेण हुता-
शनम्' इत्यागमविदः । पुनरपि किंभूतः । वीक्षितो दृष्टः । कैः । सिद्धार्थैः । कीदृशैः । वि-
श्राणितार्घैः । दूरनम्रैर्भक्तिप्रह्वैः । वियत्याकाशे । विनयात्प्रश्रयात् ॥</p>
<lg>
  <l>मुञ्चन्रश्मीन्दिनादौ दिनगमसमये संहरंश्च स्वतन्त्र-</l>
  <l>स्तोत्रप्रख्यातवीर्योऽविर[^२]तहरिपदाक्रान्तिबद्धाभियोगः ।</l>
  <l>कालोत्कर्षाल्लघुत्वं प्रसभमधिपतौ योजयन्यो द्विजानां</l>
  <l>सेवाप्रीतेन पूष्णा[^३]त्मसम इव कृतस्त्रायतां सोऽरुणो वः ॥ ५३ ॥</l>
</lg>
<p>सोऽरुणोऽनूरुर्वो युष्मांस्त्रायतां पातु । यः पूष्णा आत्मसम इव कृतः स्वतुल्य इव वि
हितः । किंभूतेन । सेवाप्रीतेन आराधनतुष्टेन । किं कुर्वन् । रश्मीनश्वसंयमनरज्जून्मुञ्च
ञ्शिथिलयन् । क्व । दिनादौ वासरमुखे । भगवानपि दिनादौ रश्मीन्भासो विसृजति ।
दिनगमसमये दिनावसाने संहरंश्च । स्वतन्त्रः स्वैरी । तथा देवोऽपि दिनावसाने । अ-
न्यत्र तु (?) तोत्रप्रख्यातवीर्यः प्राजनकर्मणि प्रसिद्धशक्तिः । देवपक्षे [^४]स्तोत्रैर्वेदोक्तैर्मन्त्रैः
प्रसिद्धं वीर्यं यस्य स तथोक्तः । पुनः कीदृशोऽरुणः । अविरतहरिपदेति । अविरता इत-</p>
<note>'सिद्धसाध्यैः' इति पाठः.
[^२] 'वितत' इति पाठ:.
[^३] 'स्वसमः' इति पाठः.
४. देवपक्षे स्वतन्त्रस्तोत्रेत्यत्र 'खर्परे शरि वा विसर्गलोपो वक्तव्यः' इति विसर्ग-
लोपो ज्ञेयः.</note>
<pb n="34" />
<p>स्ततस्त्रास्ता हरयोऽश्वास्तेषां पदानि चरणन्यासास्तेषामाक्रान्तौ सत्यां बद्ध आदरो य-
स्यासौ । अथवा तुरगपदैराक्रान्तो बद्ध उद्यमो यस्य सः । देवपक्षे अविरतं निरन्तरं ह-
रिपदस्याकाशस्याक्रमणे बद्धोद्यमः । अपरं किं कुर्वन् । योऽरुणो द्विजानामीश्वरे गरुड़े
बलाल्लघुत्वमवरजत्वं योजयन् । समयाधिक्यात्पूर्वकालोत्पन्नत्वात् । देवपक्षे द्विजानां
ब्राह्मणानामधिपतौ चन्द्रे बलाल्लघुत्वमदृश्यतां योजयन् । कालस्याधिक्यात् । दिनकर कि-
रणोदयकालः प्रकृष्ट इति भावः । अरुणदिनकरयोः साम्याच्छब्दश्लेषोक्तिरलंकारः ॥</p>
<lg>
  <l>शातः श्यामालतायाः परशुरिव तमोऽरण्यवह्नेरिवार्चिः</l>
  <l>प्राच्येवाग्रे ग्रहीतुं ग्रहकुमुदवनं प्रागुदस्तोऽग्रहस्तः ।</l>
  <l>ऐक्यं भिन्दन्द्युभूम्योरवधिरिव विधातेव विश्वप्रबोधं</l>
  <l>वाहानां वो विनेता व्यपनयतु विपन्नाम धामाधिपस्य ॥ ५४ ॥</l>
</lg>
<p>धामाधिपस्य सूर्यस्य वाहानामश्वानां विनेतारुणो वो युष्माकं या काचिद्विपत्तिस्त-
नाम व्यपनयतु विनाशयतु । किंभूतः । शातस्तीक्ष्णः । उत्प्रेक्षते –- श्यामालतायाः प-
रशुरिव । श्यामा रात्रिः सैव लता । 'श्यामा रात्रिर्लता स्मृता' । परशुरिव कुठार
इव । तच्छेदकत्वात् । अपरं किंभूतोऽरुणः । तमोरण्यवह्नेरर्चिरिव । तम एवारण्यं त-
मोरण्यं तत्र वह्निस्तमोरण्यवह्निस्तस्यार्चिरिव ज्वालेव । दावाग्निरित्यर्थ: । अपरं किं-
भूतोऽरुणः । प्राच्या पूर्वया दिशाग्रे पुरस्ताद्ग्राहा एव कुमुदानि तेषां वनं तद्ग्रहीतुं प्राक्प्र-
त्युषसि उदस्त उत्क्षिप्तोऽग्रहस्तो हस्ताग्रं इव । यथा हस्ताग्रेणानायासेनैव कुमुदानि गृ-
ह्यन्ते एवमयं ग्रहान्गृह्णाति । अपरं क इव । आकाशघरित्र्योरैक्यमेकीभावं भिन्दन्नप-
नयन्सन्नवधिरिव मर्यादेव । अपरं किंभूतोऽरुण: । विश्वं जगत्तस्य प्रबोधं विधाता ।
क इव । प्रजापतिरिव । यथा विधाता विश्वं प्रसुप्तमव्यक्तैकरूपं प्रबोधयति, एवमयं सुप्तं
प्रबोधयति ॥</p>
<lg>
  <l>पौरस्त्यस्तोयदर्तोः पवन इव [^१]पतत्पावकस्येव धूमो</l>
  <l>विश्वस्येवादिसर्गः प्रणव इव परं पावनो वेदराशेः ।</l>
  <l>संध्यानृत्योत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादः</l>
  <l>सौरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य ॥ ५५ ॥</l>
</lg>
<p>सौरस्य सूर्यसंबन्धिनः स्यन्दनस्य रथस्याग्रे स विनतानन्दनोऽरुणो वो युष्माकं
सुखं वितरतु । किंभूतः । पौरस्त्यः पूर्वदिग्भवस्तोयदर्तोः प्रावृट्कालस्याग्रे पवन इव ।
यथैव प्रावृषोऽग्रे पौरस्त्यो वायुरुपलभ्यमानो वर्षा: सूचयंस्तत्कालोपस्थितेषु कृष्यादि-
कार्येषु लोकान्व्यापारयति एवमयमपि स्यन्दनस्यात्रे उपलभ्यमानः सौरं रथं सूचयं-
स्तत्कालभाविषु ग्रामनगरादिकार्येषु लोकान्व्यापारयति । अपरं किंभूतः । पतंश्चासौ</p>
<note>'पतन्' इति पाठः,</note>
<pb n="35" />
<p>पावकश्च पतत्पावकस्तस्याग्रे धूम इव । यथा अरण्यां मथ्यमानायामग्रे प्रथमं धूम उ-
पलभ्यमानो वैश्वानरस्य पतनं सूचयति । दर्शपौर्णमासादिना यजमानं प्रवर्तयन् । अनु-
दिते सूर्ये तेषामप्रवृत्तिरित्यतोऽयं धूम इव भवतोति भावः । विश्वस्येवादिसर्गस्त्रैलो-
क्यस्य प्रथमा सृष्टिरिव प्रधानान्महान्महतोऽहंकार इत्यादिलक्षणा पञ्चभूतात्मिका । आ-
दिग्रहणेनावान्तरप्रलयसर्गान्व्यवच्छिनत्ति । यथादिसर्गो विश्वस्याविर्भावकारणतामुपग-
च्छंल्लोकानां स्वस्वपुरुषार्थेष्वपवर्गपर्यन्तेषु प्रवर्तमानानां हेतुतामुपयाति एवमयमप्यग्रे
व्यवस्थितः सौरस्य रथस्याविर्भावविज्ञानं प्रति कारणभावमुपगच्छन्समयाध्युषितत्व-
मुपलक्ष्यते । तस्यामेव वेलायां तेषां होमः प्रवर्तते नानुदिते ॥ (नृत्योत्सवे) आदिसर्ग
इवासौ भवतीति भावः प्रणव इव परं पावनो वेदराशेरिति वेदचतुष्टयस्याग्रे व्यवस्थितः
प्रणव इवौंकार इव । परमुत्कृष्ट: । पावनः सकलकल्मषक्षयकारी । स हि वेदानामग्र
एवोच्चार्यते । स च जपस्मरणोच्चारणद्वारेण पुरुषं पुनाति । एवमनूरुरपि सौरस्य रथ-
स्याग्रे व्यवस्थितः । स्नानदानजपहोमादिप्रवृत्तिद्वारेण पुरुषं पुनात्येव । एवमस्मिन्ननुदिते
स्नानादेरसंभवात् । अतोऽसौ प्रणव इव भवतीत्यभिप्रायः । संध्यानृत्योत्सवोच्छोरि-
त्यादि । संध्यायां नृत्यं तदेवोत्सवस्तमिच्छतीति संध्यानृत्योत्सवेच्छुस्तस्य मदनरिपोः
श्रीमहादेवस्याग्रे नन्दिनान्दीनिनादः अग्रे प्रथममुपजायमानः । नृत्याभिलाषिणि
(शिवे) गणेन नन्दिना नन्दिकेश्वरेण कृतो नान्द्या मुरजविशेषेण नादः शब्दः । न-
न्दिनान्दीनिनाद इवासौ भवतीति भावः ॥</p>
<lg>
  <l>पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतरांशा-</l>
  <l>वासीदत्स्यन्दना[^१]श्वानुकृतिमरकते पद्मरागायमाणः ।</l>
  <l>यः सोत्कर्षीं विभूषां कुरुत इव कुलक्ष्माभृदीशस्य मेरो-</l>
  <l>रेनांस्यह्नाय दूरं गमयतु स गुरुः काद्रवेयद्विषो वः ॥ ५६ ॥</l>
</lg>
<p>काद्रवेयद्विषो गरुडस्य गुरुर्ज्येष्ठो भ्रातारुणो वो युष्माकमेनांसि पापान्यह्नाय झटिति
दूरं गमयतु । स क इत्याह –- योऽरुण: कुलक्ष्माभृदीशस्य कुलपर्वतेश्वरस्य मेरो: सो-
त्कर्षां सातिशयिनीं विभूषां कुरुत इव । कथम् । पर्याप्तं प्रभूतम् । यः पद्मरागाय-
माणः । क्व । तप्तचामीकरकटकतटे । तप्तं यच्चामीकरमिति तप्तग्रहणेनोज्ज्वलतां दर्श-
यति । तथा श्लिष्टः संलग्नः शीतेतरांशुरादित्यो यस्मिन्स तथाभूतस्तीस्मन् । पुनः
किंभूते । आसीदन्तो ढौकमानाः स्यन्दनाश्वास्तेषामनुकृति: प्रतिबिम्बं तदेव मरकतं
यस्मिंस्तत्तथोक्तमित्येके । इतरे तु आसीदन्त ईषदवसादं गच्छन्तो ये स्यन्दनाश्वास्तै-
रनुकृतं मरकतं यस्मिन् । तप्तचामीकरकटकतटे सौवर्णपाषाणे रथस्य प्रज्वलनात्
(प्रतिफलनात्) । यथा कस्यचित्कुलक्ष्माभृदीशस्य कुलेनैव ये क्ष्माभृतो राजानस्तेषा-
मीशस्य राज्ञः सौवर्ण उपर्युपरि निबद्धमरकतपद्मरागाभरणविशेषो भूषां कुरुत
एवमस्यापि ॥</p>
<note>'अश्वानुकृतमरकते' इति पाठः</note>
<pb n="36" />
<lg>
  <l>नीत्वाश्वान्सप्त [^१]कक्षा इव नियमवशं वेत्रकल्पप्रतोद -</l>
  <l>स्तूर्णं ध्वान्तस्य राशावितरजन इवोत्सारिते दूरभाजि ।</l>
  <l>पूर्वं प्रष्ठो रथस्य क्षितिभृदधिपतीन्दर्शयंस्त्रायतां व-</l>
  <l>स्त्रैलोक्यास्थानदानोद्यतदिवसपतेः प्राक्प्रतीहारपालः ॥ ५७ ॥</l>
</lg>
<p>दिवसपतेः श्रीसूर्यस्य प्राक्प्रतीहारपालो महाप्रतीहारो वो युष्मांस्त्रायताम् । किं कु-
र्वन् । क्षितिभृदधिपतीन्मेरुप्रमुखान्दर्शयन् । किंभूतः । रथस्य प्रष्ठोऽग्रगामी । तथा वे-
त्रकल्पो दण्डसदृशः प्रतोदो यस्य स तथोक्तः । किं कृत्वा, सप्ताश्वान्नियमवशं नीत्वा ।
सप्त कक्षा इव सप्तकक्षाद्वाराणीव । यथा प्रतीहारोऽपि सप्तद्वाराणि नियमवशं नयति
एवमश्वान्नीत्वा । सप्तशब्दः काकाक्षिगोलकन्यायेनाश्वैः कक्षाभिश्च संबध्यते । क्व सति ।
ध्वान्तस्य राशावन्धतमसस्य समूहे तूर्णं क्षिप्रमुत्सारिते दूरभाजि सति । कस्मिन्निव ।
इतरजन इव । यथेतरजनो दूरमुत्सार्यते गले धृत्वा क्षिप्यते । कीदृशस्य । त्रैलोक्येति ।
त्रिलोकीसंबन्धि यदास्थानदानं तत्रोद्यतो यो दिवसपतिस्तस्य । मुख्यः प्रतीहारराज
इत्यर्थः ।</p>
<lg>
  <l>वज्रिञ्जातं विकासीक्षणकमलवनं भासि [^२]नाभासि वह्ने</l>
  <l>तातं नत्वाश्वपार्श्वान्नय यम महिषं राक्षसा वीक्षिताः स्थ ।</l>
  <l>सप्तीन्सिञ्च प्रचेतः पवन भज जवं वित्तपावेदितस्त्वं</l>
  <l>वन्दे शर्वेति जल्पन्प्रतिदिशमधिपान्पातु पूष्णोऽग्रणीर्वः ॥ १८ ॥</l>
</lg>
<p>पूष्ण आदित्यस्याग्रणीररुणो वो युष्मान्पातु । किं कुर्वन् । प्रतिदिशमधिपान्दिक्पा-
लानिति जल्पन् । इतीति किम् । हे वज्रिन्, ईक्षणान्येव कमलानि तेषां वनं तद्भवतो
विकासि जातमुन्निद्रतां गतम् । हे वह्ने, त्वं न भासि न दीप्यसे । कथं यथा भवति आभा-
सि यथा भवति । आ समन्ताद्भासनमाभासः स विद्यते यस्येत्याभासि यथा भवति ।
बहे, स्वामिन्युदिते सति त्वमतिशयेन दीप्तिमद्यथा भवति तथा न दीप्यस इत्यर्थः । द-
क्षिणतो यममभिनन्तुमागतमादिशति –- हे यम, इमं महिषमश्वपार्श्वान्नयापसारय । किं
कृत्वा । तातं सूर्यं नत्वा । अन्योन्यस्यैतेषामत्यन्तविरोधात् । नैर्ऋत्यां दिशि राक्षसांश्च
मानयति —- हे राक्षसाः, यूयं स्वामिना वीक्षिताः स्थ दृष्टा भवथ । देवानामधमजातयोऽपि
ते दिक्पालननियुक्तत्वाद्वीक्षिताः स्थेति संवादेन सुखिनः क्रियन्ते । भृत्यो हि स्वामिना
यथार्हं संमानितोऽत्यन्तभक्त्या स्वाधिकारेऽप्रमत्तो भवति । पश्चिमायां वरुणमादिशति--
हे प्रचेतः, सप्तीनश्वान्सिञ्च । जलोत्पादकत्वादसाविममेवादेशमर्हति । अनेन स्वामिना
संमानितो भवति । भृत्यो हि स्वामिनः सकाशादादेशं लब्ध्वात्मानं कृतार्थं मन्यते । त-
दवसरप्राप्ये कर्मणि वायुमादिशति –- हे पवन, जवं वेगं भज सेवस्व । येन वरुणाल्लव्धा-</p>
<note>'कक्ष्याः' इति पाठ:.
[^२] 'नो भासि' इति पाठः.</note>
<pb n="37" />
<p>सेका वाजिनस्त्वत्पार्श्वाच्छैत्यमनुभवन्तः सुखेनैव व्रजन्तीति भावः । उत्तरस्यां दिशि
कुबेरमाभाषते -– वित्तं द्रव्यं पातीति वित्तपस्तमामन्त्र्य संभाषते -- हे वित्तप धनद, त्व-
मावेदितः कथितो मया स्वामिनः । यथायं स्वाधिकारेऽप्रमत्तः संस्त्रैलोक्यस्थितेरेको हे-
तुर्निधिद्वयस्यापि शङ्खपद्माख्यस्य पालने नियुक्तोऽतोऽसौ गौरवाद्भगवतो रवेरावेद्यत एव ।
ईशान्यां शर्वं दृष्ट्वा हे शर्व, त्वां वन्दे । अष्टमूर्तित्वाद्रविरेव शर्वः । तथा चोक्तम् -–'आ-
दित्यं च शिवं विद्याच्छिवमादित्यरूपिणम् । [ उभयोरन्तरं नास्ति आदित्यस्य शिव-
स्य च ॥ ] ' इति ॥</p>
<lg>
  <l>पाशानाशान्तपालादरुण वरुणतो मा ग्रही: प्रग्रहार्थं</l>
  <l>तृष्णां कृष्णस्य चक्रे जहिहि नहि रथो याति मे नैकचक्रः ।</l>
  <l>योक्तुं युग्यं किमुच्चैःश्रवसमभिलषस्यष्टमं [^१]वृत्रशत्रो-</l>
  <l>स्त्यक्तान्यापेक्षविश्वोपकृतिरिति रविः शास्ति यं सोऽवताद्वः ॥ ५९ ॥</l>
</lg>
<p>रविर्यं शास्ति शिक्षयति सोऽरुणो वो युष्मानवतु रक्षतु । यथा शास्ति तं प्रकारं
दर्शयन्नाह –- पाशानाशान्तपालादित्यादि । आशान्तमपरां दिशं पालयतीत्याशान्तपा-
लस्तस्माद्वरुणतो वरुणात् हे अरुण, पाशान्मा ग्रहीर्मा गृहाण । सर्वलकाराणामपवादः
'माङि लुङ्' । किमर्थं प्रग्रहार्थं रश्मिनिमित्तम् । सारथित्वात् । सारथिर्यद्यदुपयुज्यते
तत्सर्वमभिलषति । आदित्यस्तु तत्सर्वे निषेधयति । किं च, कृष्णस्य विष्णोश्चक्रे तृष्णा-
मभिलाषं जहिहि । कुतः । न हि रथो याति मे नैकचक्रः । हि यस्मान्मम रथो न याति ।
कथम् । एकचक्रः । इत्येतन्न । अपि तु यात्येव । प्रतिषेधतया प्रकृतार्थावगतिः । किंच,
वृत्रशत्रोरिन्द्रसकाशादुच्चैःश्रवसमश्वविशेषमष्टमं योक्तुं किमभिलषसि मा त्वमभिलषेत्यर्थः ।
किंभूतम् । युग्यम् । युगमर्हतीति युग्यस्तम् । किंभूतो रविरित्याह———त्यक्ता अन्यापेक्षवि-
श्वोपकृतिर्जगदुपकरणं येन स त्यक्तान्यापेक्षविश्वोपकृतिः । जगदुपकरणं प्रति जनं कंच-
नाशापालादिकं सहायं नापेक्षत इत्यर्थः ।</p>
<lg>
  <l>नो मूर्छाछिन्नवाञ्छः श्रमविवशवपुर्नैव नाप्यास्यशोषी</l>
  <l>पान्थः पथ्येतराणि क्षपयतु भवतां भास्वतोऽग्रेसरः सः ।</l>
  <l>यः संश्रित्य त्रिलोकीमटति पटुतरेस्ताप्यमानो मयूखै-</l>
  <l>रारादाराम लेखामिव [^२]हरितमणिश्यामलामश्वपङ्किम् ॥ ६० ॥</l>
</lg>
<p>मूर्छया मोहेन च्छिन्नापनीता वाञ्छा इच्छा यस्य स तथोक्तः । स तथा नो भवति
नास्ति । इतरः पान्थस्तु तथाभूत एव भवति । किं च, श्रमविवशवपुर्नैव । श्रमेण वि-
वशमनवस्थं वपुर्यस्य स तथोक्तः । तथा नैव । नाप्यास्यशोषी । आस्यशोषों मुखशोषो
विद्यते यस्य स आस्यशोषी । अस्यास्यमपि न शुष्यति । एवंविधः श्रीसूर्यस्याग्रेसरः</p>
<note>'त्वाष्ट्रशत्रोः' इति पाठः.
[^२] 'हरिततृण' इति पाठ:.</note>
<pb n="38" />
<p>पान्थोऽरुणो युष्माकं पथ्येतराण्याहितानि क्षपयतु । किंभूतः स क इत्याह –- योऽरुणो-
ऽश्वपङ्किं संश्रित्य नित्यं त्रिलोकीमटत्यतिक्रामति । किंभूतो यः । पटुतरैस्तीक्ष्णैः किरणै-
स्ताप्यमानः । कीदृशीमश्वपङ्क्तिम् । समीपवर्तिनीमारामलेखामुपवनलेखामिव । यथा क
श्चित्पान्थः किरणैस्ताप्यमानः समीपस्थितामुपवनतरुच्छायामाश्रित्य पन्थानमत्येति त
थायमरुणः ॥</p>
<lg>
  <l>सीदन्तोऽन्तर्निमज्जज्जडखुरमुसलाः सैकते नाकनद्याः</l>
  <l>स्कन्दन्तः कंदरालीः कनकशिखरिणो मेखलासु स्खलन्तः ।</l>
  <l>दूरं दूर्वास्थलोत्का मरकतदृषदि स्थास्नवो यन्न याताः</l>
  <l>पूष्णोऽश्वाः [^१]पूरयंस्तैस्तदवतु जवनैर्हुं[^२]कृतेनाग्रगो वः ॥ ६१ ॥</l>
</lg>
<note>इत्यरुणवर्णनम् ।</note>
<p>पूष्णोऽग्रगोऽरुणो वो युष्मानवतु रक्षतु । किं कुर्वन् । पूरयन्पूर्णं कुर्वन् । यत्स्थान-
मश्वा न याता न लङ्घितवन्तस्तत्स्थानं हुंकारेण हेतुना जवनैस्तैरेव पूरयन् । किं कुर्वन्तो
न याताः । सीदन्तः सन्ना भवन्तः । क्व । सैकते सिकताप्रदेशे नाकनद्याः स्वर्धुन्याः ।
अन्तर्निमज्जज्जडखुरमुसलाः । अन्तर्मध्ये निमज्जन्ति प्रविशन्ति जडानि खुरमुसलानि येषां
ते तथोक्ताः । अत एव सीदन्तः । स्कन्दन्त उल्लङ्घ्यमानाः कंदराली: कनकशिखरिणो
मेरोः । मेखलासु कटकेषु स्खलन्तो गतिवैक्लव्यमापद्यमानाः । किं च, मरकतदृ-
षदि मरकतशिलायां स्थास्नवः स्थातारः । दूरमत्यर्थं दूर्वास्थलोकाः ॥ इत्यरुणवर्ण-
नव्याख्यानम् ॥</p>
<lg>
  <l>पीनोरःप्रेरिताभ्रैश्चरमखुरपुटाग्रस्थितैः प्रातरद्रा-</l>
  <l>वादीर्घाङ्गैरुदस्तो हरिभिरपगतासङ्गनिःशब्दचक्रः ।</l>
  <l>उत्तानानूरुमूर्धावनतिहठभवद्विप्रतीपप्रणामः</l>
  <l>प्राह्णे श्रे[^४]यो विधत्तां सवितुरवतरन्व्योमवीथीं रथो वः ॥ ६२ ॥</l>
</lg>
<p>सवितुर्भानो रथः स्यन्दनो वो युष्मभ्यं श्रेयः पुण्यं विधत्तां कुरुताम् । अवतरन्नधि-
रोहन् । व्योमवीथीं व्योममार्गम् । प्राह्णे पूर्वाह्णे । उदस्त उत्क्षिप्तः । हरिभिर्वाजिभिः ।
किंभूतैः । पीनोरःप्रेरिताभ्रैरुपचितवक्षोनुन्नघनैः । चरमखुरपुटाग्रस्थितैः पाश्चात्यशफपुट-
प्रान्तावस्थितैः । क्व । प्रातरद्रौ मेरौ । पुनरपि किंभूतैः । आदीर्घाङ्गैरायतशरीरैः । किं
भूतोऽसौ । अपगतासङ्गनिःशब्दचक्रः । अपगतासङ्गं सङ्गरहितमत एव निःशब्दं चक्रं
यस्य स तथोक्तः । अपि च, उत्तानो योऽनूरुस्तस्य यो मूर्धा तस्यावनतिस्तया कृत्वा
हठेन भवन् विप्रतीपो विपरीतः प्रणामो यस्य स उत्तानानूरुमूर्धावनतिहठभवद्विप्रती-
पप्रणाम इति ॥</p>
<note>'प्रेरयंस्तान्' इति पाठ:.
[^२] 'हुंकृतैरग्रणीः' इति पाठ:
[^३] 'इति सूतवर्ण-
नम्' इति पाठ:.
[^४] 'प्रेयो' इति पाठः.</note>
<pb n="39" />
<lg>
  <l>ध्वान्तौघध्वंसदीक्षाविधिप[^१]टु वहता [^२]प्राक्सहस्रं कराणा-</l>
  <l>मर्यम्णा यो गरिम्णः पदमतुलमुपानीयताध्यासनेन ।</l>
  <l>स श्रान्तानां नितान्तं भरमिव मरुतामक्षमाणां विसोढुं</l>
  <l>स्कन्धात्स्कन्धं व्रजन्वो वृजिनविजितये भावतः स्यन्दनोऽस्तु ॥६३ ॥</l>
</lg>
<p>भास्वतो भानो: स्यन्दनो रथो वो युष्माकं वृजिनविजियते पापावजयायास्तु भूयात् ।
किंभूतोऽसौ । अर्यम्णा सूर्येण गरिम्णो गौरवस्य पदमुपानीयत नीतः। अध्यासनेनाध्य-
र्हणेन (उपवेशनेन) कृत्वा । अतुलमसदृशमपरिमाणं वा । प्राक् पूर्वम् । किं कुर्वता ।
कराणां किरणानां भासां सहस्रं दशशतीं वहता धारयता । कीदृशम् । ध्वान्तौघध्वंस-
दीक्षाविधिपटु । ध्वान्तं तिमिरं तस्यौघः संघातस्तस्य ध्वंसो विनाशः स एव दीक्षा
तस्या विधिस्तत्र पटु कल्पम् । किं कुर्वन् । व्रजन्गच्छन् । स्कन्धात्स्कन्धम् । केषाम् ।
मरुतां वायूनाम् । वायुस्कन्धा हि रविरथाधीनाः किलाधाराः । ते च बहवः । तान्त्र-
मेणोल्लङ्घमानो भगवान्मेरुं प्रदक्षिणीकरोतीत्यागमविदः । एतदेवोत्प्रेक्षते –- श्रान्तानां
नितान्तमत्यर्थं भरं भारं सोढुमक्षमाणामधिकं धर्तुमसमर्थानामिव । इवोत्प्रेक्षायाम् । भा-
रासहनेऽक्षमत्वे च गौरवपदनयनं हेतुः । यथैको भारस्यातिगुरुतयैकेन नेतुं न शक्यते स
बहुभिः पर्यायेण नीयमानः स्कन्धात्स्कन्धं व्रजति तद्वदयमपि । एष लोकव्यवहारोऽत्र
दर्शयितुं साभिप्रायेण विवक्षितः ॥</p>
<lg>
  <l>योक्रीभूतान्युगस्य ग्रसितुमिव पुरो दन्दशकान्दधानो</l>
  <l>द्वेधाव्यस्ताम्बुवाहावलिविहितबृहत्पक्षविक्षेपशोभः ।</l>
  <l>सावित्रः स्यन्दनोऽसौ निरतिशयरयप्रीणितानूरुरेनः-</l>
  <l>क्षेपीयो वो गरुत्मानिव हरतु हरीच्छाविधेयप्रचारः ॥ ६४ ॥</l>
</lg>
<p>असौ स्यन्दनो रथ एनः पापं वो युष्माकं हरत्वपनयतु । किमीयः । सावित्रो भाव-
वीयः । क्षेपीयः क्षिप्रतरम् । क इव । गरुत्मानिव गरुडो यथा । निरतिशयरयप्रीणिता-
नूरुः । निरतिशयोऽनतिशयनीयो रयो वेगस्तेन प्रीणितोऽनूरुररुणो येन स तथोक्तः ।
गरुत्मानप्येवम् । अरुणो हि तस्य भ्राता । स तदीयेन निरतिशयेन रंहसा प्रीयते ।
तथा हरीच्छाविधेयप्रचारः । हरयो वाजिनस्तेषामिच्छां तद्विधेयस्तत्कार्यः प्रचारो
गतिर्यस्य स तथोक्तः । अन्यत्र हरिर्विष्णुस्तदिच्छाविधेयस्तदिच्छाधीनः प्रचारो य-
स्येति योज्यम् । किं कुर्वन् । दन्दशूकान्फणिनो दधानो बिभ्राणः । योक्रीभूतान्योक्र-
भावप्रपन्नान् । युगस्य .... । पुरोऽग्रतः ग्रसितुमिव । गरुत्मानपि खादितुं दन्दशू-
कान्पुरो धत्ते । किंच, द्वेधा व्यस्ता येऽम्बुवाहास्तेषामावलिविहितौ बृहन्तौ पक्षो तयो-
र्विक्षेपस्तेन शोभा यस्य स तथोक्तः । अन्यत्र द्वेधा व्यस्ता अम्बुवाहावलयो घनावल-</p>
<note>'गुरु' इति पाठः.
[^२] 'द्राक्' इति पाठः,</note>
<pb n="40" />
<p>य: । काभ्याम् । गरुत्मत्पक्षाभ्याम् । तौ च तौ विहितबृहत्पक्षौ च तयोर्विक्षेपस्तेन
शोभा यस्येति ॥</p>
<lg>
  <l>[^१]एकाहेनैव दी[^२]र्घां त्रिभुवनपदवीं लङ्घयन्यो लविष्ठः</l>
  <l>पृष्ठे मेरोर्गरीयान्दलितमणिदृषविषि पिंषञ्शिरांसि ।</l>
  <l>सर्वस्यैवोपरिष्टादथ च पुनरधस्तादिवास्ताद्रिमूर्ध्नि</l>
  <l>ब्रघ्नस्याव्यात्स एवं दुरधिगमपरिस्पन्दनः स्यन्दनो वः ॥ ६५ ॥</l>
</lg>
<p>ब्रध्नस्य गभस्तिमतः स्यन्दनो रथो वो युष्मानव्याद्रक्षतु । एवमनया भङ्ग्या दुरधिं-
गमपरिस्पन्दनो दुरवधारव्यापारः । तदेव दर्श्यते -- एकाहेनैव एकदिनेनैव दीर्घामायतां
त्रिभुवनपदवीं त्रिलोकमार्गं लङ्घयन् यो लघिष्टो लघुतरः । एतेन शीघ्रगतिमत्ता दर्शिता ।
तथा गरीयान्गुरुतरः । पृष्ठे मेरोर्देवालयस्य । किं कुर्वन् । पिंषंश्चूर्णयन् । शिरांसि शि-
खराणि । कीदृशानि । दलिता खण्डिता या मणिदृषदस्ताभिस्त्विषो येषु । यदि वा द-
लिता इतस्ततो विक्षिप्ता मणिदृषत्त्विषो येषु तानि तथोक्तानि । एतेन गुरुतरता ख्या-
पिता । य: सर्वस्य निःशेषस्य लोकस्योपरिष्टादुपरि पूज्यत्वेन दिक्संबन्धेन वा । अथ च
पुनर्भूयोऽध्यधस्तादिवाध इव अस्ताद्रिमूर्धन्यस्तपर्वतमस्तके । एतेनाधउपरिभावो
दर्शितः । एकान्ततः परमार्थतो न लघुर्न गुरुर्नोपरि नाथ इति व्यपदेष्टुं न शक्यते । अत
एव दुरधिगमपरिस्पन्दन इत्युक्तम् ॥</p>
<lg>
  <l>धूर्ध्वस्ताग्र्यग्रहाणि ध्वजपटपवनान्दोलितेन्दूनि [^३]दूरं</l>
  <l>राहौ ग्रासाभिलाषादनुसरति पुनर्दत्तचक्रव्यथानि ।</l>
  <l>श्रान्ताश्वश्वासहेलाधुतविबुधधुननिर्झराम्भांसि भद्रं</l>
  <l>देयासुर्वो दवीयो दिवि दिवसपतेः स्यन्दनप्रस्थितानि ॥ ६६ ॥</l>
</lg>
<p>भद्रं कल्याणं वो युष्मभ्यं देवासुर्दिशन्तु । स्यन्दनप्रस्थितानि रथगतानि । कस्यासौ
रथः । दिवसपतेर्दिनपतेः । स्यन्दनप्रस्थितानीति सापेक्षत्वेऽपि समासो गमकत्वात् । क्व
प्रस्थितानि । दवीयो दिवि दूरतरगगने । भद्रदानक्रियाविशेषणं वा दवीय इति । तदा द
वीयोऽतीवतरामित्यर्थः । तान्येव विशेष्यन्ते—-धूर्ध्वस्ताग्र्यग्रहाणि धुरा ध्वस्ता विक्षिप्ता
अग्र्या अग्रे भवा ग्रहा: कुजादयो यैस्तानि तथोक्तानि । किंच । ध्वजपटपवनेन ध्वजां-
शुकमरुता आन्दोलितो विकम्पित इन्दुश्चन्द्रमा येषु तानि । तथा दूरमतीवतया राहौ
तमसि पुनर्भूयोऽपि दत्ता चक्रेण व्यथा भयं यैस्तानि । ग्रासाभिलाषादनुसरति । अनु-
सरंश्चक्रमपेक्षमाणस्ततो बिभेति । श्रान्ताश्वश्वासहेलाधुतविबुधधुनीति धुतानि कम्पि
तानि विबुधधुनीनिर्झराम्भांसि सुरनदीप्रस्रवणजलानि येषु तान्येवंभूतानि ॥</p>
<note>अयं श्लोकः पुस्तकान्तर एकोनसप्ततितमो वर्तते.
[^२] 'कृत्स्नां' इति पाठः.
[^३] 'दूरात्' इति पाठ:.</note>
<pb n="41" />
<lg>
  <l>अक्षे रक्षां निबध्य प्रतिसरवलयैर्योजयन्त्यो युगाग्रं</l>
  <l>धूःस्तम्भे दग्धधूपाः प्रहितसुमनसो गोचरे कूबरस्य ।</l>
  <l>[^१]चर्चाश्चक्रे चरन्त्यो मलयजपयसा सिद्धवध्वस्त्रिसंध्यं</l>
  <l>वन्दन्ते यं द्युमार्गे स नुदतु दुरितान्यंशुमत्स्यन्दनो वः ॥ ६७ ॥</l>
</lg>
<p>अंशुमत्स्यन्दनो भास्वद्रथः स वो युष्माकं पापानि दुरितानि नुदत्वपनयतु । यं सि
द्धवध्वः सिद्धस्त्रियो वन्दन्ते नमस्यन्ति । युमार्गे विहायसि । त्रिसंध्यं त्रिकालम् ।
तिस्रः संध्या वन्दन्ते । क्रियाविशेषणम् । किं कृत्वा । रक्षां मङ्गलविशेषं निबध्य बद्द्वा ।
अक्षे रथावयवविशेषे । प्रतिसरवलयैः कौतुकोर्णकङ्कणैर्योजयन्त्यो युगाग्रं युगप्रान्तम् ।
पुनरपि स्तम्भ इव धूर्धूःस्तम्भस्तत्र दग्धधुपाः । प्रहितसुमनसो विक्षिप्तपुष्पाः । क्व ।
गोचरे विषये कूबरस्य युगंधरोद्देशस्य । चर्चाः स्थासकान् चक्रे पादे ददत्यो यच्छन्त्यः ।
केन । मलयजपयसा चन्दनाम्भसा ॥</p>
<lg>
  <l>उत्कीर्णस्वर्णरे[^२]णुद्रुतखुरदलिता पार्श्वयोः शश्वदश्वै-</l>
  <l>रश्रान्तभ्रान्तचक्रक्रमनिखिलमिलन्नेमिनिम्ना भरेण ।</l>
  <l>मेरोर्मूर्धन्यघं वो विघटयतु रवेरेकवीथी रथस्य</l>
  <l>[^३]स्वोष्मोदक्ताम्बुरिक्तप्रकटितपुलिनोद्धूसरा स्वर्धुनीव ॥ ६८ ॥</l>
</lg>
<p>रवेरादित्यस्य स्यन्दनस्यैकवीथी एकमार्गो वो युष्माकमधं पापं विघटयतु । केव ।
स्वर्धुनीव गङ्गेव । किंभूतासौ । द्रुतखुरदलिता चटुलशफदारिता पार्श्वयोः । कैः।
अश्वैः । शश्वदनवरतम् । कथम् । उत्कीर्णः स्वर्णरेणुर्यत्र दलने तत् । उत्कीर्णस्वर्णरेण-
वश्च ते द्रुताः खुराश्चेति (वा) विशेषणसमासः । किं च, अश्रान्तभ्रान्तचक्रक्रमनिखि-
लमिलन्नेमिनिम्ना । अश्रान्तमनवरतं यद्भ्रान्तं चक्रं चरणस्तस्य क्रमः क्रमणं तेन नि-
खिला समग्रा मिलन्ती घटमाना या नेमिश्चक्रधारा तथा निम्ना अवनता । भरेण प्रा-
ग्भारेण हेतुना । मेरोर्देवाचलस्य मूर्ध्नि शिरसि । किं च, स्वोष्मणा उदक्तमाकृष्टं तच्च
तदम्बु चेति तेन रिक्तं रिक्तत्वादेव प्रकटितं तच्च तत्पुलिनं च तेनोद्धूसरा पाण्डुः । स्व-
र्धुन्यप्यूष्मोदक्ताम्बुरिक्तप्रकटितपुलिनोद्धूसरा भवति ॥</p>
<lg>
  <l>नन्तुं नाकालयानामनिशम[^४]नुयतां पद्धतिः पङ्किरेव</l>
  <l>क्षोदो नक्षत्रराशेरदयरयमिलच्चक्रपिष्टस्य धूलिः ।</l>
  <l>हेषाह्रा [^५]दो हरीणां सुरशिखरिदरीः पूरयन्नेमिनादो</l>
  <l>यस्याव्यात्तीव्रभानोः स दिवि भुवि यथा व्यक्तचिह्नो रथो वः ॥ ६९ ॥</l>
</lg>
<note>'चर्चा' इति पाठः.
[^२] 'रेणुद्रुत' इति पाठ:.
[^३] 'स्वोष्मोदस्ताम्बु' इति पाठ :.
[^४] 'उपयतां' इति पाठ:.
[^५] 'नादो' इति पाठ:.</note>
<pb n="42" />
<p>तीव्रभानोरादित्यस्य रथो वो युष्मानव्यात्पायात् । दिवि खे व्यक्तचिह्नो विस्पष्ट-
लक्ष्मा । भुवि यथा भूम्यामिव । सा यस्य नाकालयानां घुसदां पङ्क्तिर्विततिरेव पद्धतिः
पदवी । किंभूतानाम् । अनुयतामनुगच्छताम् । नन्तुं प्रणामाय । अनिशमहर्निशम् ।
किं च, नक्षत्रराशेर्भचक्रस्य क्षोदश्चूर्ण एव धूलि: परागः । अदयरयमिलन्नेमिपिष्टस्य
प्रखरवेगसंसक्तचक्रधारानिर्दलितस्य । हेषाह्रादो हेषाध्वनिः । हरीणां वाजिनां यः स
एव नेमेर्नादः प्रतिध्वानः सुरशिखरिदरी: पूरयन् देवाचलकंदराणि पूर्णा: कुर्वन् । अथ
वा हेषाह्रादो हरीणां सुरशिखरिदरी: पूरयन्नेमिनादश्चेति सुरशिखरिदरी: पूरयन्यस्येति
पृथगेव संबन्धनीयम् । भुवि यानि चिह्नानि धूलिहेषानेमिध्वनयस्तान्यनया भङ्ग्या वि-
यत्यपि दर्शितानि ॥</p>
<lg>
  <l>निःस्पन्दानां विमानावलिवित[^१]तदिवां देववृन्दारकाणां</l>
  <l>वृन्दैरानन्दसान्द्रोद्यममपि वहतां विन्दतां वन्दितुं नो ।</l>
  <l>मन्दाकिन्याममन्दः पुलिनभृति मृदुर्मन्दरे [^२]मन्दिराभे</l>
  <l>मन्दारैर्मण्डितारं दधदरि दिनकृत्स्यन्दनः स्तान्मुदे वः ॥ ७० ॥</l>
</lg>
<p>दिनकृतः स्यन्दनो रविरथो वो युष्माकं मुदे हर्षाय स्ताद्भूयात् । किं कुर्वन् । दध-
द्बिभ्रत् । अरि चक्रम् । मण्डितारं विभूषितारम् । कैः । मन्दारैर्वृक्षविशेषपुष्पैः । यश्चा-
मन्दः शीघ्रो मन्दाकिन्यां पुलिनभृति पुलिनभाजि । देववृन्दारकाणां सुरमुख्यानां व
न्दितुं स्तोतुं विन्दतां लभमानानां नो नेति । किं कुर्वताम् । वहतां धावताम् । कैः ।
वृन्दैः संघातैः पूगशः । निःस्पन्दानां श्रान्तानाम् । विमानावलिविततदिवां विमानश्रे-
णिप्रच्छादितनभसाम् । कथं वहताम् । आनन्दसान्द्रोद्यमं संहर्षप्रभूतोत्साहम् । मन्दरे
पर्वतविशेषे मृदुर्मन्दः । मन्दिराभे नगरानुकारे । मन्दिरशब्दो नगरैकदेशेऽप्युपचारात्स-
मुदाये वर्तते । नगरं हि स्थपुटत्वाद्रथस्य वेगं स्खलयति । ततस्तत्र मन्दता युज्यते ।
देववृन्दारकाणां वृन्दैः कर्तृभिर्मन्दारैः करणभूतैर्मण्डितारमिति च ॥</p>
<lg>
  <l>चक्री चक्रारपङ्क्तिं हरिरपि च हरीन्धूर्जटिर्धूर्ध्वजान्ता-</l>
  <l>नक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूबराग्रं कुबेरः ।</l>
  <l>रंहः संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य</l>
  <l>स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरु[^३]चेः सोऽवतात्स्यन्दनो वः ॥ ७१ ॥</l>
</lg>
<p>अहिमरुचेरादित्यस्य स्यन्दनो रथो वो युष्मानवताद्रक्षतु । यस्यान्वहं प्रतिदिवसमे-
तदेतदयमयं स्तौति । प्रीतिप्रसन्नः प्रीतितुष्टः । तदेव दर्श्यते –- चक्री विष्णुश्चक्रारपङ्क्तिं
चरणारपङ्क्तिं स्तौतीति संबन्ध: । हरिरिन्द्रो हरीनश्वान । धूर्जटिर्भगवानीश्वरो धूर्ध्व-</p>
<note>'वलित दिशां' इति पाठ:.
[^२] 'मन्दराभे' इति पाठ:. 'मन्दर: स्वर्गः' इति त्रि-
काण्डशेषः तेन स्वर्गाभे इत्यर्थ:
[^३] 'रुचः' इति पाठ:.</note>
<pb n="43" />
<p>जान्तान्ध्वजाग्रान् । अक्षं चक्राधारकाष्ठं नक्षत्रनाथश्चन्द्रमाः । अरुणमनूरुं वरुणः पा-
शभृत् । कूबराग्रं युगंधरप्रान्तं कुबेर ऐलविलः । रंहो वेगं संघ: समूहः पूगः सुराणां
देवानाम् । नित्ययुक्तस्य नित्योद्यतस्य जगदुपकृतये विश्वोपकाराय ॥</p>
<lg>
  <l>नेत्राहीनेन मूले विहितपरिकरः सिद्धसाध्यैर्मरुद्भिः</l>
  <l>पादोपान्ते स्तुतोऽलं बलिहरिरभसा कर्षणाबद्धवेगः ।</l>
  <l>भ्राम्यन्व्योमाम्बुराशावशिशिरकिरणस्यन्दनः संततं वो</l>
  <l>दिश्यालक्ष्मीम[^१]पारामतुलितमहिमेवापरो मन्दराद्रिः ॥ ७२ ॥</l>
</lg>
<p>अशिशिरकिरणस्यन्दनस्तीव्रमयूखरथो वो युष्मभ्यं संततमनवरतं लक्ष्मीं श्रियं दि-
श्याद्दयात् । अपारामनल्पीयसीम् । अतुलितमहिमा अपरिमितमाहात्म्यः । किं कुर्वन् ।
भ्राम्यन्व्योमाम्बुराशौ नभः पयोधौ । क इव । मन्दराद्रिरिव मन्दराचल इव । अपरो-
ऽन्यः । तयोः साम्यं दर्श्यते –- नेत्रा सारथिना हीनेन विकलेन मूलेऽधोभागे विहि-
तपरिकरः कृतोद्यमः । मन्दरेऽपि नेत्रं वेष्टनरज्जुः । अहीनो नागराजः । नेत्रं च तद -
हीनश्चेति समासः । यदि वा नेत्रभूतोऽहीनः । शाकपार्थिवादित्वान्मध्यमपदलोपी स-
मासः । तेन विहितपरिकरः कृतवेष्टनः । क्व । मूले मूलप्रदेशे । किं च, स्तुतो व-
न्दितः । सिद्धसाध्यैर्देवविशेषैः । पादोपान्ते चरणसमीपे स्थितैः । तस्य पूज्यत्वात् । म
न्दरोऽपि तैः स्तुतो वर्णितः । तस्यासन्नत्वात् । पादोपान्ते प्रत्यन्तनगर(पर्वत)समीपे ।
मरुद्भिर्देवैर्वायुभिर्वा । अलमत्यर्थम् । किं च बलिनो बलवन्तस्ते च ते हरयश्च तेषां र
भसो हेला तेनाकर्षणं तेनाबद्धो गृहीतो वेगो यस्य स तथोक्तः । इतरस्तु बलिर्वैरोचनिः
हरिः शतमखस्तयो रभस इति । शेषं समानम् । मन्दरविषये व्योमवदम्बुराशौ विस्ती-
र्णत्वादिति योज्यम् । संततमिति भ्रमणस्य विशेषणम् ॥ इति रथवर्णनव्याख्यानम् ॥</p>
<lg>
  <l>[^१]यज्ज्यायो बीजमह्नाम[^३]पहततिमिरं चक्षुषामञ्जनं य-</l>
  <l>द्दूरं यन्मुक्तिभाजां यदखिलभुवनज्योतिषामेकमोकः ।</l>
  <l>यद्वृष्ट्यम्भोनिधानं धरणिरससुधापानपात्रं महद्य-</l>
  <l>द्दिश्यादी[^४]शस्य भासां [^५]तदविकलमलं मङ्गलं मण्डलं वः ॥ ७३ ॥</l>
</lg>
<p>तदेवंभूतं मण्डलं भासामीशस्य भानोः संबन्धि वो युष्मभ्यं मङ्गलं कल्याणम वि
कलं संपूर्णमलमत्यर्थं दिश्यात् । तदेव निरूप्यते -– यहां दिनानां बीजं कारणम् ।
ज्यायः प्रशस्यतरम् । यच्चक्षुषां नेत्राणामञ्जनं प्रकाशकम् । अपहततिमिरं विनाशिता-
न्धकारम् ! अञ्जनमपि चक्षुषां तिमिरं रोगविशेषमपहरति । यन्मुक्तिभाजां योगिनां</p>
<note>'अतुल्यां' इति पाठ:.
[^२] 'ज्यायो यत्' इति पाठ:.
[^३] 'अपहृत' इति पाठः.
[^४] 'देवस्य भानो:' इति पाठ:
[^५] 'तदधिकममलं मण्डलं मङ्गलं' इति पाठ:.</note>
<pb n="44" />
<p>द्वारम् । ते हि सूर्यमण्डलद्वारेण मुक्ति प्रयान्ति । यदखिलभुवनज्योतिषां सकलजगत्ते-
जसामेकमद्वितीयमतुलमाश्रयः । यद्वृष्ट्या हेतुभूतयाम्भसां पानीयानां निधानमाश्रयः ।
यद्धरणिरससुधापानपात्रं पृथिव्युदकामृतपानपात्रम् । महद्बृहत् ॥</p>
<lg>
  <l>वेलावर्धिष्णु सिन्धोः पय इव खमिवार्धोद्गताग्र्यग्रहोडु</l>
  <l>स्तोकोद्भिन्नस्य चिहप्रसवमिव मधोरास्यमस्यन्म[^१]नांसि ।</l>
  <l>प्रातः पूष्णोऽशुभानि प्रशमयतु शिरःशेखरीभूतमद्रेः</l>
  <l>पौरस्त्यस्योद्गभस्तिस्तिमिततमतमःखण्डनं मण्डलं वः ॥ ७४ ॥</l>
</lg>
<p>पूष्णो रवेर्मण्डलं वो युष्माकमशुभानि दुरितानि प्रशमयतु ध्वंसयतु । प्रातः प्रभाते ।
अद्रेः पर्वतस्य शिरःशेखरीभूतं मूर्धालंकारभूतम् । पुरस्तात्पूर्वस्यां दिशि भवः पौरस्त्यः
प्राच्यस्तस्य । उद्गभस्ति उदंशु । प्रकृष्टं स्तिमितं स्तिमिततमं बहुलतमं यत्तमस्तिमिरं
तस्य ध्वंसनम् । तदेव विशेषयितुमाह -- यत्सिन्धोः पयोधेः पय इव जलमिव वेलाव-
र्धिष्णु । वेलया कालमुहूर्तसमयेन वर्धनशीलम् । उदधेरपि पयोवेला जलवृद्धि तथा व-
र्धिष्णु भवति । अत्र वेला समुद्रक्षोभः । किं च, खमिव नभ इव अधोद्गताग्र्यग्रहोडु
मनागुद्भिन्नप्रधानग्रहनक्षत्रम् । अन्यत्र अर्धोद्गता अग्रेभवा: पौरस्त्या ग्रहा नक्षत्राणि
यस्य तत्तथोक्तम् । तत्तेजसाभिभूतत्वात्किंचिदुपलभ्यमाना उक्ताः । किं च मधोरास्य-
मिव वसन्तस्य प्रवेश इव । किंभूतम् । स्तोकोद्भिन्नस्वचिह्नप्रसवमीषदुद्भिन्ननिजचिह्ना-
विर्भावम् । अन्यत्र स्तोकमुद्भिन्नरुच (?) आविर्भावो यत्र तत्स्वचिह्नं लक्षणं यस्येति ।
प्रसवं पुष्पं यत्र मध्वास्ये (अन्यत्र ) । किं कुर्वन् । अपहरन्मनांसि चेतांसि । जनानामि-
त्यध्याहारः ॥</p>
<lg>
  <l>प्रत्युप्तस्तप्तहेमोज्ज्वलरुचिरचल: पद्मरागेण येन</l>
  <l>ज्यायः किंजल्कपुञ्जो यदलिकुलशितेरम्बरेन्दीवरस्य ।</l>
  <l>कालव्यालस्य चिह्नं महिततममहोमूर्ध्नि रत्नं महद्य-</l>
  <l>द्दीप्तांशोः प्रातरव्यात्तदविकलजगन्मण्डनं मण्डलं वः ॥ ७५ ॥</l>
</lg>
<p>तदेवंभूतं दीप्तांशोर्भानोः संबन्धि मण्डलं वो युष्मानव्याद्रक्षतु । प्रातरुषसि । किंभू-
तम् । अविकलं जगन्मण्डनं विश्वालंकारः । पुनरपि कीदृशं तत् । येन मण्डलेनाचलः
पर्वतः प्रत्युप्तः प्रोतः । पद्मरागेण पद्मभासा । कीदृशः । तप्तहेमोज्ज्वलरुचिस्तप्तकाञ्च-
नदीप्तिः। पद्मरागेणेति शब्दच्छलेन पद्मरागमणितां दर्शयति । किंभूतं यत् । ज्याय: प्रश-
स्यतरम् । किंजल्कपुञ्जः पद्मपराग(केसर)राशिरिव । कस्य । अम्बरेन्दीवरस्य गगनकुव-
लयस्य । अलिकुलशितेर्भ्रमरवृन्दनीलस्य । चिह्नं शिरोरत्नं (कालव्यालस्य) अहोमूर्ध्नि</p>
<note>'महांसि' इति पाठ:.</note>
<pb n="45" />
<p>दिवसशिरसि । रत्नं मणिः । महिततमं पूजितम् । महद्रुहत् । 'यदेतन्मण्डलं तपति'
इति श्रुतिरित्यपेक्षते ॥</p>
<lg>
  <l>कस्त्राता तारकाणां पतति तनुरवश्यायबिन्दुर्यथेन्दु-</l>
  <l>विद्राणा दृक्स्मरारेरुरसि मुररिपोः कौस्तुभो नोद्गभस्तिः ।</l>
  <l>वह्नेः सापह्नवेव द्युतिरुदयगते यत्र तन्मण्डलं वो</l>
  <l>मार्तण्डीयं पुनीताद्दिवि भुवि च तमांसीव मुष्णन्महांसि ॥ ७६ ॥</l>
</lg>
<p>मार्तण्डीयं सावित्रं मण्डलं वो युष्मान्पुनीतात्पुनातु । किं कुर्वन् । मुष्णन्खण्डयन् ।
कानि । महांसि तेजांसि । कानीव । तमांसीव तिमिराणि यथा । क्व । दिवि खे । किं
तत्रैव । न । भुवि च भूमौ च । यत्रोदयगते उदयस्थे कस्त्राता तारकाणां को रक्षिता न
क्षत्राणाम् । न कश्चिदित्यर्थः । किं पुनः कारणमित्याह –- तत्र पतति ध्वंसते इन्दुश्चन्द्रः ।
क इव । अवश्यायबिन्दुर्यथा तुषारकणवत् । कथंभूतः । तनुरल्पः । इन्दुर्हि तारकाणां
नाथः । तत्र पतति कस्त्रायते । किं च, विद्राणा म्लाना दृग्दृष्टि: स्मरारे: शंभोः ।
मुरारेरुरसि विष्णोर्वक्षसि कौस्तुभो मणिविशेषो नोद्गभस्ति नोन्मयूखः । अपि च वह्ने-
रग्नेः सापह्नवेव सापलापेव युतिः कान्तिः । एतेन सर्वतेजसां मोषः कथितः । उदयगते
यत्रेति प्रत्येकं मेलनीयम् ॥</p>
<lg>
  <l>यत्प्राच्यां प्राक्चकास्ति प्रभवति च यतः प्राच्यसावुज्जिहाना-</l>
  <l>दिद्धं मध्ये यदह्नो भवति ततरुचा येन चोत्पाद्यतेऽहः ।</l>
  <l>यत्पर्यायेण लोकानवति च जगतां जीवितं यच्च तद्वो</l>
  <l>विश्वानुग्राहि विश्वं सृजदपि च रवेर्मण्डलं मुक्तयेऽस्तु ॥ ७७ ॥</l>
</lg>
<p>रवेरादित्यस्य तन्मण्डलं वो युष्माकं मुक्तये निर्वाणांयास्तु भूयात् । वेदे 'एतस्मिन्म-
ण्डले पुरुषोऽप्येतदमृतं यदेतदचिर्दीप्यते' इति श्रुतिः । अतोऽमृतायास्तु । यद्विश्वानु-
ग्राहि जगदनुग्राहि विश्वं सृजदपि विश्वं विदधदपि । तदेव दर्श्यते –- यत्प्राच्यामैन्द्र्यां
प्राक्प्रथमं चकास्ति दीप्यते । यतश्चोज्जिहानादुद्गच्छतोऽसौ प्राची प्रभवति जयति । य
दह्नो दिवसस्य मध्ये इद्दं दीप्तं भवति । येन च ततरुचा विस्तारितभासा उत्पाद्यते ज-
न्यते अहो दिवसः । यच्च पर्यायेण लोकाञ्जगन्त्यवति रक्षति । यच्च जगतां जीवितं
प्राणितम् । यथोक्तम् –- 'आदित्याजायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । प्रजासौख्याच देवानां
परा तृप्तिरिति श्रुतिः' ॥</p>
<lg>
  <l>शुष्यन्त्यूढानुकारा मकरवसतयो मारवीणां स्थलीनां</l>
  <l>येनोत्तप्ताः स्फुटन्तस्त[^१]डिति तिलतुलां यान्त्यगेन्द्रा युगान्ते ।</l>
</lg>
<note>'चटिति' इति पाठः.</note>
<pb n="46" />
<lg>
  <l>तच्चण्डांशोरकाण्डत्रिभुवनदहनाशङ्कया धाम [^१]कृच्छ्रा-</l>
  <l>[^२]त्संहृत्यालोकमात्र [^३]प्रलघु विदधतः स्तान्मुदे मण्डलं वः ॥ ७८ ॥</l>
</lg>
<p>चण्डांशोस्तीव्रभानोर्मण्डलं वो युष्माकं मुदे हर्षाय स्ताद्भवतु । किं कुर्वतः । धाम
विदधतः । प्रलघु स्तोकम् । आलोकमात्रं आलोको मात्रा प्रमाणं यस्य तत् । आलोक
एव तिष्ठते । किं कृत्वा । संहृत्य संक्षिप्य संकोच्य । कृच्छ्रादायासात् । कया । अकाण्ड-
त्रिभुवनदहनाशङ्कया । अकाण्डेऽकाले जगत्प्लोषभीत्या । अकाले त्रिभुवनदाहो सा संप-
द्यतामिति । येनोत्तप्ता मकरवसतयः समुद्राः शुष्यन्ति शोषं यान्ति । मारवीणां स्थ-
लीनां मरुस्थलीनामूढानुकारा वृतसादृश्या: । क्व । युगान्ते क्षयसमये । अगेन्द्राश्च
राजपर्वताः पर्वतराजानो वा तिलतुलां यान्ति । अतितापात्तडिति स्फुटन्तः सतडत्कारं
विशीर्यमाणाः ॥</p>
<lg>
  <l>उद्यद्दच्यानवाप्यां [^४]बहुलतमतमः पङ्कपूरं विदार्य</l>
  <l>प्रोद्भिन्नं पत्रपार्श्वेष्वविरलमरुणच्छायया विस्फुरन्त्या ।</l>
  <l>कल्याणानि क्रियाद्वः कमलमिव महन्मण्डलं [^५]चण्डभानो-</l>
  <l>रन्वीतं तृप्तिहेतोरसकृदलिकुलाकारिणा राहुणा यत् ॥ ७९ ॥</l>
</lg>
<p>चण्डभानोस्तीव्रांशोः संबन्धि मण्डलं वो युष्माकं कल्याणानि क्रियात्करोतु । यत्कम-
लमिव पद्ममिव । महद्बृहत् । अन्वीतमनुसृतम् । राहुणा सैंहिकेयेन । अलिकुलाका-
रिणा भ्रमरतव्रातविभ्रमेण । असकृदनेकवारम् । किं कुर्वन् । उद्यनुद्गच्छन् । द्यूद्यानवाप्यां
द्यौरेवोद्यानं द्यूद्यानं द्यूद्यानस्य वापी गगनोपवनपुष्करिणी तत्रेति । कमलमपि गगना-
कारतया(रायां)उपवनपुष्करिण्यामुद्गच्छति । किं कृत्वा । विदार्य भित्त्वा । किम् ।
बहुलतमतम पङ्कपूरं घनतरतिमिरसंघातम् । कमलमपि घनतरतिमिरकल्पो यः पङ्कौ-
घस्तं विदार्योदेति । किं च, प्रोद्भिन्नं रञ्जितम् । पत्रपार्श्वेषु वाहनोपान्तेषु । अविरलं
निरन्तरम् । अरुणच्छाययानुरुप्रभया । विस्फुरन्त्या प्रोल्लसन्त्या । कमलमप्यरुणच्छायया
लोहितभासा पत्रोपान्तेषु दलोपान्तेषु भिन्नं रञ्जितं भवति । अलिकुलेनानुगतं सेवितं
च । कस्य हेतोः । तृप्तिहेतोः । पानस्य (?) ॥</p>
<lg>
  <l>चक्षुर्दक्षद्विषो यर्न्[^६] तु दहति [^७]पुरः पूरयत्येव कामं</l>
  <l>नास्तं जुष्टं मरुद्भिर्यदिह नियमिनां यानपात्रं भवाब्धौ ।</l>
  <l>यद्वीतश्रान्ति शश्वद्भद्रमदपि जगतां भ्रान्तिमभ्रान्ति हन्ति</l>
  <l>ब्रध्नस्याव्याद्विरुद्धक्रियमथ च हिताधायि तन्मण्डलं वः ॥ ८० ॥</l>
</lg>
<note>'कृत्स्नं' इति पाठः
[^२] 'आहृत्य' इति पाठ:.
[^३] 'प्रतनु' इति पाठः
[^४] 'बहल' इति पाठः.
[^५] 'चण्डरश्मे:' इति पाठ:
[^६] 'न दहति नितरां' इति पाठः,
[^७] 'पुन:' इति पाठ:.</note>
<pb n="47" />
<p>ब्रध्नस्य रवेर्मण्डलं वो युष्मानव्याद्रक्षतु । विरुद्धक्रियं विरुद्धव्यापारम् । अथ च
हिताधायि तथापि हितकारि । तदेव दर्शयति –- चक्षुर्दक्षद्विषो यत् लोचनं भगवतो महेश्व-
रस्य । न तु कामं दहति प्रत्युत पूरयतीति विरोधः । भगवतश्चक्षुषा कामो मन्मथो
दग्धो न तु पूरितः । कामोऽभिलाषस्तं न दहति प्रत्युत पूरयतीति परिहारः । पु-
रोऽग्रतः । दक्षद्विषश्चक्षुरित्यागमविदः । नियमिनां योगिनां भवाब्धौ संसारसमुद्रे यन्म-
ण्डलं यानपात्रं प्रवहणम् । यज्जगतां भ्रान्तिं मिथ्याज्ञानं हन्ति । भ्रमदपि पर्यटदपि ।
शश्वदनवरतम् । वीतश्रान्ति विगतश्रमम् । शश्वत्सदा गमनचिह्नाङ्ग(?)मभ्रान्तीति
विरोधः । भ्रान्तिशब्दोऽयं संशये । अभ्रान्ति असंशयमित्यदोषः ॥ इति मण्डलवर्णन-
व्याख्या ॥</p>
<lg>
  <l>सिद्धैः सिद्धान्तमिश्रं श्रितविधि विबुधैश्चारणैश्चाटुगर्भं</l>
  <l>गीत्या गन्धर्वमुख्यैर्मुहुरहिपतिभिर्यातुधानैर्यतात्म ।</l>
  <l>सार्घं साध्यैर्मुनीन्द्रैर्मुदिततममनो [^१]मोक्षिभिः पक्षपाता-</l>
  <l>त्प्रातः प्रारभ्यमाणस्तुतिरवतु रविर्विश्ववन्द्योदयो वः ॥ ८१ ॥</l>
</lg>
<p>विश्ववन्द्योदयो रविर्वो युष्मानवतु रक्षतु । कीदृशोऽसौ भगवान् । प्रातः प्रभाते प्रारभ्य-
माणस्तुतिरुपक्रम्यमाणस्तोत्रः । कैः कैः कथं कथमित्याह –- सिद्धैर्देवविशेषैः सिद्धान्तमिश्रं
सिद्धान्तशब्देन सिद्धान्तोक्तविधिरुच्यते । उपचारात् । तन्मिश्रं तदुपेतम् । क्रियाविशे-
षणम् । एवं प्रतिपदं योज्यम् । तथा विबुधैर्देवैः श्रितविधि विधियुक्तम् । चारणैर्देवव-
र्णकैश्चाटुगर्भं सचाटु गुरुगुणोद्गारसारम् । गन्धर्वमुख्यैर्विश्वावसुप्रभृतिभिर्गीत्या गानेन ।
मुहुः पुनः पुनरहिपतिभिः फणीन्द्रैः । यातुधानैः पिशाचैर्यतात्म । सार्घमर्धवत्साध्यै-
र्देवविशेषैः । मुनीन्द्रैर्महर्षिभिर्मुदिततममनः सातिशयहृष्टचित्तम् । मोक्षिभिः पक्षपा-
तात् । योगिभिरात्मभावादिति भावः ॥</p>
<lg>
  <l>भासामासन्नभावादधिकतरपटोश्चक्रवालस्य तापा-</l>
  <l>च्छेदादच्छिन्नगच्छत्तुरगखुरपुटन्या[^२]सनिःशङ्कटङ्कैः ।</l>
  <l>निःसङ्गस्यन्दनाङ्गभ्रमणनिकषणात्पातु वस्त्रि[^३]प्रकारं</l>
  <l>तप्तांशुस्तत्परीक्षापर इव परितः पर्यटन्हाटकाद्रिम् ॥ ८२ ॥</l>
</lg>
<p>तप्तांशुरादित्यो वो युष्मान्पात्ववतु । किं कुर्वन् । पर्यटन्परिसर्पन् । हाटकाद्रिं सु-
वर्णाचलम् । क इव । तत्परीक्षापर इव तस्य परीक्षा तन्निष्ठ इव । परितः समन्तात् ।
कथं तत्परोक्षापरः । त्रिप्रकारं त्रिधा । स्वर्णं हि तद्दाहच्छेदकषणैस्त्रिधा परीक्ष्यते तद्व-
दत्रापि दर्शयति —- भासां चक्रवालस्य रुचां कदम्बकस्यासन्नभावान्निकटत्वाद्यस्तापस्त-</p>
<note>'मोक्षभिः' इति पाठ:.
[^२] 'न्यस्त' इति पाठ:.
[^३] 'त्रिप्रकारैः' इति पाठः.</note>
<pb n="48" />
<p>स्मात्तापात् । अनेन दाहं दर्शयति । कीदृशस्य । अधिकतरपटोरतिशयतीव्रस्य तस्य च्छे-
दात् । कैः कृत्वा । अच्छिन्नमनवरतं गच्छन्तो वल्गन्तस्ते च ते तुरगाश्च तेषां खुर-
पुटास्तेषां न्यासास्त एव निःशङ्कङ्कास्तैरिति । टङ्काः शस्त्रविशेषाः । अनेन च्छेदं दर्श-
यति । किं च, निःसङ्गस्यन्दनाङ्गभ्रमणनिकषणादपगतसङ्गरथाङ्गभ्रामोल्लेखनात् । अनेन
निकषणमाह ॥</p>
<lg>
  <l>नो शुष्कं नाकनद्या विकसित[^१]कनकाम्भोजया भ्राजितं तु</l>
  <l>प्लुष्टा नैवोपभोग्या भवति भृशतरं नन्दनोद्यानलक्ष्मीः ।</l>
  <l>नो शृङ्गाणि द्रुतानि द्रुतममरगिरेः कालधौतानि धौता-</l>
  <l>नीद्धं धाम द्युमार्गे म्रदयति दयया यत्र सोऽर्कोऽवताद्वः ॥ ८३ ॥</l>
</lg>
<p>सोऽर्को रविरादित्योऽरुणपादो दयया वो युष्मानवताद्रक्षतु । यत्रेद्धं दीप्तं धाम तेजो
द्युमार्गे वियत्पथे म्रदयति मृदु विदधति सति नाकनद्या नो शुष्कं गङ्गया न शुष्यते
स्म । अपि तु भ्राजितं राजितमेव । किंभूतया । विकसितकनकाम्भोजया विकस्वरस्वर्ण-
कमलया । किं च प्लष्टा नैव न दग्धा नन्दनोद्यानलक्ष्मीर्नन्दनोपवनशोभा । अपि तु
भृशतरं भोग्या भोगार्हा भवति । अमरगिरेर्मेरोः शृङ्गाणि शिखराणि नो द्रुतानि न द्र-
वभावं गतानि । प्रत्युत द्रुतं शीघ्रं धौतानि । कालधौतानि हिरण्मयानि ॥</p>
<lg>
  <l>ध्वान्तस्यैवान्तहेतुर्न भवति मलिनैकात्मनः पाप्मनोऽपि</l>
  <l>प्राक्पादोपान्तभाजां जनयति न परं पङ्कजानां प्रबोधम् ।</l>
  <l>कर्ता निःश्रेयसानामपि न तु खलु यः केवलं वासराणां</l>
  <l>सोऽव्यादेकोद्यमेच्छाविहितबहुबृहद्विश्वकार्योऽर्यमा वः ॥ ८४ ॥</l>
</lg>
<p>सोऽर्यमा सूर्यो वो युष्मानव्यात् । कीदृशः । एकोद्यमेच्छाविहितबहुबृहद्विश्वकार्यः ।
एकश्चासावुद्यमश्च तेन कृत्वा इच्छया विहितानि बहूनि बृहन्ति विश्वकार्याणि येन स
तथोक्तः । केवलं ध्वान्तस्यैव तमस एव केवलस्य मलिनैकात्मनो मलीमसैकरूपस्यान्त-
हेतुर्विनाशकारणं न भवति किं तु पाप्मनोऽपि एनसोऽपि । कथम् । प्राक्पूर्वम् । पादो-
पान्तभाजां पुनरपि यो न केवलं पङ्कजानां पद्मानां चरणाभ्यर्णवृत्तीनामपि प्रबोधं तत्त्व-
दर्शनं योजयति । खलु निश्चयेन न केवलं वासराणां कर्ता निःश्रेयसानामप्यपवर्गाणा-
मपि । अपिशब्दः समुच्चये । खलु वाक्यालंकारे ॥</p>
<lg>
  <l>लोटँल्लोष्टाविचेष्टः श्रितशयनतलो निःसहीभूतदेहः</l>
  <l>संदेही प्राणितव्ये सपदि दश दिशः प्रेक्षमाणोऽन्धकाराः ।</l>
</lg>
<note>'कनकाम्भोरुहा' इति पाठ:.</note>
<pb n="49" />
<lg>
  <l>निःश्वासायासनिष्ठः [^१]परमपरवशो जायते जीवलोकः</l>
  <l>शोकेनेवान्यलो[^२]कानुदयकृति गते यत्र सोऽर्कोऽवताद्वः ॥ ८५ ॥</l>
</lg>
<p>सोऽर्को वो युष्मानवतात् । यत्रान्यलोकानुदयकरे गते सति जायते जीवलोक इत्थं-
भूतो भवति । शोकेनेव विषादेनेव । किमवस्थः । लोटन् विवर्तमानः । लोष्टाविचेष्टो
लोष्टवच्चेष्टारहितः । श्रितशयनतलः शय्यापतितः । निःसहीभूतदेहो विक्लवगात्रः । प्रा-
णितव्ये जीवितव्ये संदेही संशयितः किं जीविष्याम्युत न जीविष्यामीति संशयानः ।
किं कुर्वन् । सपदि तत्क्षणं दश दिशोऽन्धकारा(निरा)लोकाः प्रेक्षमाणः पश्यन् । निः-
श्वासायासनिष्ठः खेदवान् । परमपरवशोऽतीव दुःस्थितः । शोकेनाप्येवं भवति ॥</p>
<lg>
  <l>क्रामँल्लोलोऽपि लोकाँस्तदुपकृतिकृतावाश्रितः स्थैर्यकोटिं</l>
  <l>नृृणां दृष्टिं विजिह्मां विदधदपि करोत्यन्तरत्यन्तभद्राम् ।</l>
  <l>यस्तापस्यापि हेतुर्भवति नियमिनामेकनिर्वाणदायी</l>
  <l>भूयात्स प्रागवस्थाधिकतरपरिणामोदयोऽर्कः श्रिये वः ॥ ८६ ॥</l>
</lg>
<p>सोऽर्को युष्माकं श्रिये विभूत्यै भूयात् । प्रागवस्थाधिकतरपरिणामोदयः पूर्वदशा-
प्रकर्षाधिकपरिणत्युद्गतिः । कीदृशोऽसौ । यः ऋामँलङ्घयन् लोलोऽपि तरलोऽपि लो-
काञ्जगन्ति स्थैर्यकोटिं स्थिरतापक्षमाश्रितः । क्व । तदुपकृतिकृतौ लोकोपकारविधान-
विषये । किं च, नृृणां पुंसां दृष्टिं चक्षुर्विजिह्यां मन्दां विदधन्नपि कुर्वन्नप्यन्तःकरणा-
नुरूपामत्यन्तभद्रां नितान्तकृतार्थां करोति विधत्ते । यस्तापस्यापि हेतुः कारणं भवति
जायते । नियमिनां योगिनामेको निर्वाणदायी मुक्तिदायी ॥</p>
<lg>
  <l>व्यापन्नर्तुर्न कालो व्यभिचरति फलं नौषधीर्वृष्टिरिष्टा</l>
  <l>नेष्टैस्तृप्यन्ति देवा नहि वहति मरुन्निर्मलाभानि भानि ।</l>
  <l>आशाः शान्ता न भिन्दत्यवधिमुदधयो बिभ्रति क्ष्माभृतः क्ष्मां</l>
  <l>यस्मिंस्त्रैलोक्यमेवं न चलति तपति तात्स सूर्यः श्रिये वः ॥ ८७ ॥</l>
</lg>
<p>स सूर्योऽ वो भवतां श्रिये विभूत्यै स्तात् । व्यापन्नतुर्विनष्टर्तुः कालो वसन्ता-
दिर्न भवति ऋतूननुवर्तते । ओषधीः कर्मतापन्नाः फलं कर्तृ न व्यभिचरति न विसंव-
दति । वृष्टिरिष्टा वर्षणमभिमतं भवति । इष्टैर्यागैर्देवा दिवौकसो न नहि तृप्यन्ति ।
अपि तु तृप्यन्ति । वहति मरुद्वाति वातः । निर्मलाभानि विमलद्युतीनि भानि नक्ष-
त्राणि । आशा दिशः शान्ताः प्रसन्नाः । उदधयः समुद्रा मर्यादां न भिदन्ति । क्षमा-
भृतः क्ष्मां बिभ्रति । यस्मिंस्तपति सति त्रैलोक्यमेवमुक्तप्रकारेण न चलति न विप्लवं
याति ॥</p>
<note>'चिरतरमवशो' इति पाठ:.
[^२] 'लोकाभ्युदय' इति पाठः</note>
<pb n="50" />
<lg>
  <l>कैलासे कृत्तिवासा विहरति विरहत्रासदेहोढकान्तः</l>
  <l>श्रान्तः शेते महाहावधिजलधि विना छद्मना पद्मनाभः ।</l>
  <l>योगोद्योगैकतानो गमयति सकलं वासरं स्व स्वयंभू-</l>
  <l>र्भूरित्रैलोक्यचिन्ताभृति भुवनविभौ यत्र भास्वान्स वोऽव्यात् ॥ ८८ ॥</l>
</lg>
<p>स भास्वान्वोऽव्यात् । यत्र भास्वति भुवनविभौ लोकपाले त्रैलोक्यचिन्ताभृति ब
हुजगच्चिन्ताधारे सति ब्रह्मादीनां चिन्ता नास्ति । एतदेव दर्शयति —- कृत्तिवासा महा-
देवः कैलासे भूरिगिरौ (?) विहरति क्रीडते । विरहत्रासदेहोढकान्तः वियोगभयाद्देहे
धृता प्रिया पार्वती येन सः । श्रान्तः खिन्नः । शेते स्वपिति । महाहौ महोरगे । अधि-
जलधि पयोधौ । विना छद्मनाव्याजेन । योगस्तापादिच्छलं विना (?) । पद्मनाभो ना-
रायणः । किं च, स्वयंभूर्ब्रह्मा स्वमात्मीयं वासरं दिवसं गमयति यापयति । योगोद्योगै-
कतानः । योगश्चित्त[वृत्ति]निरोधस्तत्रोद्योग उद्यमस्तत्रैकतान एकाग्रः । सकलं
निरवशेषम् । एते भुवनपतयो नाम[मात्रेण] स्वकार्येकनिष्ठास्तिष्ठन्ति, अयं तु भगवा-
न्कर्मणि कृतपरिकर इति दर्शितम् ॥</p>
<lg>
  <l>एतद्यन्मण्डलं खे तपति दिनकृतस्ता ऋचोऽर्चींषि यानि</l>
  <l>द्योतन्ते तानि सामान्ययमपि पुरुषो मण्डलेऽणुर्यजूंषि ।</l>
  <l>एवं यं वेद वेदत्रितयमयमयं वेदवेदी समग्रो</l>
  <l>वर्गः स्वर्गापवर्गप्रकृतिरविकृतिः सोऽस्तु सूर्यः श्रिये वः ॥ ८९ ॥</l>
</lg>
<p>स सूर्यो वो युष्माकं श्रिये स्तादस्तु । कीदृशः । स्वर्गापवर्गप्रकृतिः संसारनिर्वाण-
स्वभावः कारणम् । स्वयमविकृतिर्विकाररहितः । यं सूर्यमयं वर्ग एष गणो वेदवेदी वेद-
वेत्ता मण्डलाचिः पुरुषलसमान(?)ज्योतिरिति शेषः । एवं वेद जानाति । कथंभूतम् ।
वेदत्रितयमयं त्रिवेदीप्रकृतिकम् । तथा च 'त्रयी वा एषा विद्या तपति' इति
श्रुतिः । तन्मयम् । कथमेवम् । इत्थंभूतं देवं यं वेद । यदैतन्मण्डलं दिनकृत आदित्यस्य
संबन्धि खे तपति ता ऋचः स ऋग्वेदः । 'ता ऋचः स ऋचां लोकः' इति श्रुतिः ।
यान्यर्चींषि दीप्तयो द्योतन्ते भासन्ते तानि सामानि सामवेदः । 'यदेतदर्चिर्दीप्यते तन्म-
हाव्रतं तानि सामानि स साम्नां लोकः' इति श्रुतिः । अयमपि मण्डले पुरुष आत्माणुः
सूक्ष्मो योगगम्यस्तानि यजूंषि स यजुर्वेदः । 'य एष एतस्मिन्मण्डले पुरुषः सोऽग्निस्तानि
यजूंषि स यजुषां लोकः' इति श्रुतिः । एतेन वेदत्रितयमयत्वं कथितम् ॥</p>
<lg>
  <l>नाकौकः प्रत्यनीकक्षतिपटुमहसां वासवाग्रेसराणां</l>
  <l>सर्वेषां साधु पातां जगदिदमदितेरात्मजत्वे समेऽपि ।</l>
</lg>
<pb n="51" />
<lg>
  <l>येनादित्याभिधानं निरतिशयगु[^१]णैरात्मनि न्यस्तमस्तु</l>
  <l>स्तुत्यस्त्रैलोक्यवन्द्यैस्त्रिदशमुनिगणैः सोंऽशुमाञ्श्रेयसे वः ॥ ९० ॥</l>
</lg>
<p>सोंऽशुमान्वो युष्माकं श्रेयसे कल्याणायास्तु । किंभूतोऽसौ । स्तुत्यो वन्द्यः । कैः ।
त्रिदशमुनिगणैः सुरर्षिसंघैः । किंभूतैः । त्रैलोक्यवन्द्यैस्त्रिभुवननमस्करणीयैः । येनांशु-
मता आदित्याभिधानमादित्यसंज्ञा आत्मनि स्वस्मिन्विषये न्यस्तमारोपिता । मध्ये वा-
सवाग्रेसराणां शक्रप्रभृतीनाम् । देवानां प्रायेणादित्यसंज्ञा । अदितेर्देवमातुरात्मजत्वे स-
मेऽपि सत्यविशेषेऽपि सति । तर्हि ते तेजस्विनो न भविष्यन्ति । किंभूतानां तेषाम् ।
नाकौकः प्रत्यनीकक्षतिपटुमहसां देवप्रतिपन्थिक्षयकल्पतेजसाम् । तर्हि जगन्ति वि-
श्वानि......साधु सम्यक्पातां रक्षतां सताम् । किं तत् । जगद्भुवन मिदम् । एतदुक्तं
भवति –- यद्यप्यदितेरपत्यमिति व्युत्पत्तिः सर्वेषामप्यस्ति । तन्निमित्तस्यादित्य(त्व)स्य
साधारणत्वात् । तथापि भगवानेवादित्य इति लोकप्रसिद्धिः । सूर्यस्यापि हेतुर्दर्शितो नि-
रतिशयगुणैरिति ॥</p>
<lg>
  <l>भूमिं [^२]धाम्नोऽभिवृष्ट्या जगति जलमयीं पावनीं संस्मृताव-</l>
  <l>प्याग्नेयीं दाहशक्त्या मुहुरपि [^३]यजमानां यथाप्रार्थितार्यैः ।</l>
  <l>लीनामाकाश एवामृतकरघटितां ध्वान्तपक्षस्य पर्व-</l>
  <l>ण्येवं सूर्योऽष्टभेदां भव इव भवतः पातु बिभ्रत्स्वमूर्तिम् ॥ ९१ ॥</l>
</lg>
<p>सूर्योऽक भवतो युष्मान्रक्षतु । किं कुर्वन् । बिभ्रद्दधत् । काम् । स्वमूर्तिम् । अष्ट-
भेदामष्टप्रकाराम् । क इव । भव इव भगवान्महेश्वरो यथा । 'क्षितिजलपवनहुताशन-
यजमानाकाशसोमसूर्याख्या:' अष्टमूर्तयः । सूर्ये ता दर्शयितुमाह -- किंभूतः । भूमिं
निधानम् । कस्य । धाम्नस्तेजसः । किं च, जलमयीं जलप्रायाम् । अभिवृष्ट्याभिवर्ष-
णेन । जगति लोके । किं च, [^४]पावनीं वायुमयीम् । (जनानां भक्तानाम्) । तथाग्नेयी-
मग्निमयीम् । दाहशत्तया दाहसामर्थ्येन । मुहुः पुनःपुनर्यजमानां याजकमयीम् । यथा-
प्रार्थितार्थैः । तथाकाशे लीनां संबद्धाम् । अमृतकरघटितां चन्द्रेण संगताम् । क्व ।
ध्वान्तपक्षस्य पर्वण्यमावास्यायाम् । तत्र हि सूर्याचन्द्रमसौ संगच्छेते । एवमुक्तया
नीत्या सूर्यः स्वयमेवाष्टमूर्ति: श्रीमहादेवतुल्य इति ॥</p>
<lg>
  <l>प्राक्वालोन्निद्रपद्माकरपरिमलनाविर्भवत्पादशोभो</l>
  <l>भक्त्या त्यक्तोरुखेदोद्गति दिवि विनतासूनुना नीयमानः ।</l>
</lg>
<note>'गुणेनात्मनि' इति पाठ:.
[^२] 'धाम्नोऽथ' इति पाठ:.
[^३]. 'यजमानात्मिकां प्रा-
र्थितार्थैः' इति पाठः. प्रार्थितार्था याचकास्तैर्ज्ञापकभूतैर्यजमानात्मिकामिति तदर्थः.
[^४] 'तथा संस्मृतौ स्मरणेऽपि कृते सति पावनीं शुद्धिकरीम् । एतेन पवनस्य वायो-
रिमां पावनीमिति श्लेषमहिम्ना वायुस्वरूपिणीमिति सूचितम्' इति शास्त्रिव्याख्यानम्.</note>
<pb n="52" />
<lg>
  <l>सप्ताश्वाप्तापरान्तान्यधिकमधरयन्यो जगन्ति स्तुतोऽलं</l>
  <l>देवैर्देवः स पायादपर इव मुरारातिरह्नां पतिर्वः ॥ ९२ ॥</l>
</lg>
<p>अह्नां पतिरादित्यो वो युष्मान्पायात् । योऽपर इव मुरारातिर्द्वितीय इव मुरारिः ।
कीदृशो मुरारातिः कीदृशश्चाह्नां पतिस्तदुच्यते –- मुरारिपक्षे प्राक्काले पूर्वकाले उन्निद्रा
जागरिता सावधाना पद्मा श्रीस्तस्याः करौ हस्तौ ताभ्यां परिमलनं हस्तसंवाहनं तेना-
विर्भवन्ती प्रादुर्भवन्ती पादयोः शोभा कान्तिर्यस्य मुरारे: स तथोक्तः । कीदृशोऽहर्पतिः ।
प्राक्काले पूर्वाह्णे उन्निद्रा विकसिता ये पद्माकरास्तेषां परिमलनमवगाहनं तेनाविर्भवन्ती
पादानां किरणानां शोभा यस्य सः । किं च, विनतासूनुनारुणेन नीयमान उह्यमानः ।
क्व । दिवि गगने । भक्त्या भावेन । [^१]त्यक्तोरुखेदोद्गति व्यक्त(बृहत् )जङ्घाखेदोदयं यथा
भवति । किं कुर्वन्स्तुत: । अधरयँल्लङ्घयन् । जगन्ति भुवनानि । मुरारिपक्षे तु जगन्ति
कति । सप्त । आशु शीघ्रम् । आप्तापरान्तानि प्राप्तपरपाराणि । रविपक्षे तु -- सप्ताश्वाप्ता-
परान्तानि सप्तभिरश्वैराप्तापरान्तानि आश्रितपश्चिमाशापर्यन्तानि ॥</p>
<lg>
  <l>यः स्रष्टापां पुरस्तादचलवरसमभ्युन्नतेर्हेतुरेको</l>
  <l>लोकानां यस्त्रयाणां स्थित उपरि परं दुर्विलङ्घ्येन धाम्ना ।</l>
  <l>सद्यः सिद्ध्यै प्रसन्नद्युति[^२]शुभचतुराशामुखः स्ताद्विभक्तो</l>
  <l>द्वेधा वेधा इवाविष्कृतकमलरुचिः सोऽर्चिषामाकरो वः ॥ ९३ ॥</l>
</lg>
<p>सोऽचिषामाकरो निधानं खनिर्वा सूर्यः सिद्ध्यै सिद्ध्यर्थं वो युष्माकं स्ताद्भूयात् । सद्यः
सपदि । क इव । वेधा इव ब्रह्मेव । किंविशिष्टः । विभक्तः । कथम् । द्वेधा । कीदृशश्च
सूर्यः कीदृशो ब्रह्मा तदेव दर्श्यते –- योऽपां पयसां पुरस्तात्पूर्वं स्रष्टा विधाता कर्ता । वेधा
हि पूर्वं पयः सृजतीत्यागमविदः । सूर्योऽपि प्रागपां स्रष्टा भवति । 'आदित्याज्जायते वृष्टिः'
इति । अचलवरसमभ्युन्नतेर्हेतुरेक इति । अचलवराः कुलशैलास्तेषां समभ्युन्नतिरुच्छ्रा-
यस्तस्य हेतुः कारणम् । एकोऽद्वितीयः । रविपक्षे तु पुरस्तात्पूर्वस्यां दिशि अचलवरो
मेरु: ( उदयाद्रिः) तत्र समभ्युन्नतिरुदयस्तस्य हेतुरेक: । मेरुर्हि भगवतोदयता गौरवं नी-
यते उदयाचल इति । यस्त्रयाणां लोकानां भूर्भुवःस्वर्लक्षणानामुपर्युपरिष्टात्स्थितः । सू-
र्योsपि त्रिलोक्या उपरि वर्तते । धाम्ना तेजसा । दुर्विलङ्घ्येनानभिभवनोयेन । वेधा तु
धाम्ना स्थानेन दुर्विलङ्घ्येन दुष्प्रापेणोपरिस्थितः । परमतीव । तथा प्रसन्नद्युतीनि शुभानि</p>
<note>'त्यक्ता उरुमेहती खेदस्य परिश्रमस्योद्गतिरुद्गमो यत्र कर्मणि यथा स्यात्तथा ।
यद्वा रथमारुह्याश्वानां नियन्त्रणादनूरुत्वाद्वा त्यक्तो विसृष्ट ऊर्वोर्जङ्घयोः खेदः परि-
श्रमो यस्यां सा तथाविधा उद्गतिरूर्ध्वगमनं यस्मिन्नयने तत्त्यक्तोरुखेदोद्गति यथा
स्यात्तथा दिवि अन्तरिक्षमार्गे नीयमानः । मुरारातिरपि विनतासूनुना गरुडेन--
सुरलोके नीयमान उह्यमानः' इति शास्त्रिव्याख्यानम्.
[^२] 'शुचि' इति पाठ:.</note>
<pb n="53" />
<p>शोभमानानि चत्वार्याशामुखानि दिग्वदनानि यत्रोदिते सति स तथोक्तः । अन्यत्र
चतस्र आशा इव महत्वान्मुखान्याननानि यस्य स तथाभूतः ॥</p>
<lg>
  <l>साद्रिद्यूर्वीनदीशा दिशति दश दिशो दर्शय[^१]न्प्राक्दृशो यः</l>
  <l>सादृश्यं दृश्यते नो सदशशतदृशि त्रैदशे यस्य देशे ।</l>
  <l>दीप्तांशुर्वः स दिश्यादशिवयुगदशादर्शितद्वादशात्मा</l>
  <l>शंशास्त्यश्वांश्च यस्याशयविदतिशयाद्दन्दशूकाशनाद्यः ॥ ९४ ॥</l>
</lg>
<p>दीप्तांशुः सूर्यो वो युष्मभ्यं शं सुखं दिश्याद्यच्छतु । यस्याश्वाञ्शास्ति नियमयति ।
कः । दन्दशूकाशनाद्यः । दन्दशूकाः सर्पास्तदशनो गरुडस्तस्याद्यो ज्येष्ठः प्रथमोऽरुणः ।
आशयविदभिप्रायज्ञः । अतिशयाद्विशेषतः । कीदृशो दीप्तांशुः । अशिवयुगदशादर्शितद्वा-
दशात्मा अशिवयुगं क्षयसमयस्तत्र दशा तथा दर्शिता द्वादशात्मानो येन सः । यो दृशो
दिशति चक्षूंषि ददाति । दशदिशो दर्शयन्दशाशाः प्रकाशयन् । किंभूताः । साद्रिद्यूर्वी
नदीशाः । अद्रयः पर्वताः द्यौर्नभः उर्वी पृथ्वी नदीशा: समुद्राः । अद्रयश्चेति संबन्धः ।
तैः सह वर्तन्त इति ता: तुल्ययोग इति पुनर्बहुव्रीहिः । प्राक् प्राचीम् । किं च, यस्य सा-
दृश्यं नो दृश्यते तुल्यत्वं नोपलभ्यते । त्रैदशे देशे देवानां स्थाने स्वर्गे । सह दशशत-
दृशा शक्रेण वर्तत इति [तस्मिन् ] देशे ॥</p>
<lg>
  <l>तीर्थानि व्यर्थकानि हृदनदसरसीनिर्झराम्भोजिनीनां</l>
  <l>नोदन्वन्तो नुदन्ति प्रतिभयमशुभं श्वभ्रपातानुबन्धि ।</l>
  <l>आपो [^२]नाकापगाया अपि कलुषमुषो मज्जतां नैव यत्र</l>
  <l>त्रातुं यातेऽन्यलो[^३]कान्स दिशतु दिवसस्यैकहेतुर्हितं वः ॥ ९५ ॥</l>
</lg>
<p>स दिवसस्यैकहेतुर्दिनस्य प्रधानकारणं भानुर्वो युष्मभ्यं दिशतु यच्छतु । किं तत् ।
हितं पथ्यम् । यत्रान्यलोकानपरजगन्ति त्रातुं पातुं याते गते सति तीर्थानि पुण्यस्था-
नानि व्यर्थकानि जायन्ते । अकिंचित्करत्वात् । भास्वत्युदिते सति फलं दातुं समर्थानि
तत्सेवकानाम् । न तद्विरहे । कासां संबन्धितीर्थानि । ह्रदनदसरसीनिर्झराम्भोजिनी-
नाम् । ह्रदा अगाधा जलाशयाः । नदाः शोणादयः । सरस्यो महासरांसि । निर्झराः
प्रस्रवाः । अम्भोजिन्यः पुष्करिण्यः । ह्रदाश्च नदाश्चेति समासः । अपि च, उदन्वन्तः
समुद्रा न प्रतिभयं नुदन्ति न पापमपनयन्ति । प्रतिशब्देनात्र पापं विवक्षितम् । अ-
शुभश्वभ्रपातानुबन्धि । अशुभश्वभ्रं नरकः । श्वभ्रमिव सः । अधोगतिहेतुत्वात् । तत्र
पातस्तदनुभवकारणम् । नाकापगाया अप्यापो जलानि कलुषमुषो नैव पापापहा न । ए-
तानि सर्वाणि तीर्थानि भानुमताधिष्ठितानि स्वकार्यक्षमाणि भवन्तीति वाक्यार्थः । के-
षाम् । मज्जतां स्नानं कुर्वताम् ॥</p>
<note>'द्राक्' इति पाठः.
[^२] 'स्वर्गापगायाः' इति पाठ:.
[^३] 'लोकं' इति पाठः.</note>
<pb n="54" />
<lg>
  <l>एतत्पातालपङ्कप्लुतमिव तमसैवैकमुद्गाढमासी-</l>
  <l>दप्रज्ञाताप्रतर्क्यं निरवगति तथालक्षणं सुप्तमन्तः ।</l>
  <l>यादृक्सृष्टेः पुरस्तान्निशि निशि सकलं जायते तादृगेव</l>
  <l>त्रैलोक्यं यद्वियोगादवतु रविरसौ सर्गतुल्योदयो वः ॥ ९६ ॥</l>
</lg>
<p>असौ रविर्भास्वान्वोऽवतु । किंभूतः । सर्गतुल्योदयः सृष्टिसमानोदयः । यद्वियोगाद्य-
द्विरहादेतत्रैलोक्यमिदं त्रिभुवनं निशि निशि रात्रौ रात्रौ तादृगेव जायते यादृशं सृष्टे:
पुरस्तात्पूर्वमासीदस्ति स्म । किंभूतम् । पातालपङ्कप्लुतमिव । पातालमधः पङ्कः कर्दम-
स्तत्र प्लुतं मग्नमिव । केन । तमसा । एकमद्वितीयम् । उद्गाढं प्रबलम् । अप्रज्ञाताप्रत-
र्क्यम् । न प्रज्ञायते स्माप्रज्ञातो बोद्धव्यप्रतीत्यविषयः । अप्रतर्क्यस्तर्कयितुमशक्यः ।
अप्रज्ञातं चाप्रतर्क्यं च तदेवंविधम् । सुप्तमन्तस्ततश्च निरवगति प्रत्यक्षस्याविषयम् ।
तथा अलक्षणं लक्षणस्याविषयम् । सांप्रतमप्येवंभूतमेव भवति ॥</p>
<lg>
  <l>द्वीपे योऽस्ताचलोऽस्मिन्भवति खलु स एवापरत्रोदयाद्रि-</l>
  <l>र्या यामिन्युज्ज्वलेन्दुद्युतिरिह दिवसोऽन्यत्र तीव्रातपः सः ।</l>
  <l>यद्वश्यौ देशकालाविति नियमयतो नो तु[^१] यं देशकाला-</l>
  <l>वव्यात्स स्वप्रभुत्वाहितभुवनहितो हेतुरह्नामिनो वः ॥ ९७ ॥</l>
</lg>
<p>सोऽह्नां दिनानां हेतुः कारणमिनोऽर्को वोऽव्यात् । कीदृशोऽसौ । स्वप्रभुत्वाहितभु-
वनहितः । स्वं च तत्प्रभुत्वं च तेनाहितं कृतं भुवनहितं लोकपथ्यं येन स तथोक्तः । नो
तु पुनर्यमिनं देशकालौ नियमयतः इनस्य नियामकौ न भवतः । कथंभूतौ । यद्वश्यौ यद-
धीनौ । देशकालौ प्रदेशसमयौ । देश: पूर्वादिदिग्विशेषः । कालः समयः प्रभातादिः ।
अस्मिन्द्वीपे योऽस्ताचलोऽस्तपर्वतः स खल्वपरत्र द्वीपान्तरे उदयाद्रिरुदयाचलः । अ-
न्यत् । इह देशे या निर्मलचन्द्रकान्ती रात्रिः सोऽन्यत्र दुःसहातपो दिवसः । यदा किल
सहस्रकिरणो भगवान्मेरोर्दक्षिणस्यामुदेति तदा मेरोरुत्तरस्यामस्तमेति । मेरोः पूर्वस्यां
मध्यदिनं पश्चिमायां मध्यरात्रं च । अतो हेतोः पूर्वादिदेशः पूर्वादिसंध्याकालः एतो
यस्य रवेर्वश्यौ भवतः न तु रविरेतयोर्देशकालयोर्वश्यः । एतेन सूर्यचक्रभ्रमात् पृथ-
क्पृथग्देशकालनिर्माणं गणितशास्त्रे प्रसिद्धमस्तीति भावः ॥</p>
<lg>
  <l>व्यग्रैरग्र्यग्रहेन्दुग्रसन[^२]गुरु भरैर्नो समग्रैरुदग्रैः</l>
  <l>प्रत्यग्रैरीषदुग्रैरुदयगिरिगतो गोगणैर्गौरयन्गाम् ।</l>
  <l>उद्गाढार्चिर्विलीनामरनगरनगग्रावगर्भामिवाह्ना-</l>
  <l>मग्रे श्रेयो विधत्ते ग्लपयतु गहनं स ग्रहग्रामणीर्वः ॥ ९८ ॥</l>
</lg>
<note>'नु' इति पाठ:.
[^२] 'गुरुतरै: ' इति पाठः.</note>
<pb n="55" />
<p>स ग्रहग्रामणीः सूर्यो वो युष्माकं गहनं पापमघं ग्लपयतु स्फोटयतु । उद्गाढाश्च ता
अर्चिषश्च ता विलीना हृतास्ते च ते अमरनगरनगग्रावाणश्च तद्गर्भा यस्याः सा त-
थोक्ता । अमरनगरं त्रिदशवासः । नगः शैलः । अमरनगरं च तन्नगश्चेति समासः ।
क्व । अग्रे मुखे । अह्नां वासराणाम् । किं कुर्वन् । गां गौरयन् । कैः । गोगणै रश्मिस -
मूहैः । किंभूतैः । व्यग्रैः । अग्र्यग्रहेन्दुग्रसनगुरुभरैः अग्र्याः पौरस्त्यास्ते च ग्रहाश्चाग्र्य-
ग्रहाः ते चेन्दुश्चन्द्रमाश्चाग्र्यग्रहेन्दवस्तेषां ग्रसनमभिभवस्तस्य गुरुभरो महाभारो येषां
तैः । नो समग्रैरपरिपूर्णैः । बालत्वात् । उदग्रैर्बृहद्भिः । प्रत्यग्रैर्नवत्वात् । ईषदुग्रैः किं
चित्तीक्ष्णैः । बालत्वात् । एवंभूतैर्मयूखैर्गां गौरयन् । द्रुतसुवर्णगर्भामिव करोतीति तात्प-
र्यार्थः । इन्दोर्ग्रहणमिन्दोर्महातेजसोऽप्यभिभवप्रदर्शनार्थम् ॥</p>
<lg>
  <l>योनिः साम्नां विधाता मधुरिपुरजितो धूर्जटिः शंकरोऽसौ</l>
  <l>मृत्युः कालोऽलकायाः पतिरपि धनदः पावको जातवेदाः ।</l>
  <l>इत्थं संज्ञा डवित्थादिवदमृतभुजां या यदृच्छाप्रवृत्ता-</l>
  <l>स्तासामेकोऽभिधेयस्तदनुगुणगु[^१]णैर्यः स सूर्योऽवताद्वः ॥ ९९ ॥</l>
</lg>
<p>स सूर्यो वो युष्मानवतात्पातु । यास्तासां संज्ञानां एकः प्रधानमभिधेयो वाच्यः । का-
साम् । या अमृतभुजां देवानां यदृच्छानिरभिधेयं प्रवृत्ता भूताः । किमिव । डवित्था -
दिवत् डवित्थादयो यथा । डित्थो डवित्थ इत्यादयः संज्ञा जातिक्रियादिनिमित्तमन्तरेण
यथासंकेतं वाचकत्वेन प्रवर्तन्ते यथा एता अपि संज्ञा एतेषु देवेषु निमित्तमन्तरेणैव प्र-
वर्तन्त इत्युक्तं भवति । यथैतेषु तथा रवावपि प्रवृत्ताः कदाचिद्भविष्यन्तीत्याह -- तदनु-
गुणगुणैः गुणशब्दप्रवृत्तिनिमित्तास्तदनुगुणाः संज्ञानुकूला ये गुणास्तैः कृत्वा । एतदुक्तं
भवति —- तासां संज्ञानां यानि यानि प्रवृत्तिनिमित्तानि तैरेव निमित्तैर्भास्वन्तमभिदधते
न ब्रह्मादिवद्यदृच्छमिति । कास्ता: संज्ञा: । योनिः साम्नां विधाता । योनिः प्रभवः ।
साम्नां सामवेदस्य । विधाता वेधाः । तथा मधुरिपुर्विष्णुरजित इति । धूर्जटिर्महादेवः
शंकर इति । मृत्युरन्तकः काल इति । अलकायाः पतिः कुबेरो धनद इति । जात-
वेदा वह्निः पावक इति । एतासां हि संज्ञानां यथाक्रमं सामवेदकारणत्वं........
कलनक्रिया हेतुत्वं धनकर्ट(दातृ)त्वं पावनक्रियाकर्तृत्वं प्रवृत्तिनिमित्तम् । तत्तु भास्व-
त्येव न तेषु ॥</p>
<lg>
  <l>देवः किं बान्धवः स्यात्प्रियसुहृदथवाचार्य आहोस्विद[^२]र्यो</l>
  <l>रक्षा चक्षुर्नु दीपो गुरुरुत जनको जीवितं बीजमोजः ।</l>
  <l>एवं निर्णीयते यः क इव न जगतां [^३]सर्वथा [^४]सर्वदासौ</l>
  <l>सर्वाकारोपकारी दिशतु दशशताभीपुरभ्यर्थितं वः ॥ १०० ॥</l>
</lg>
<note>'गणैः' इति पाठः.
[^२] 'आर्यः' इति पाठ:.
[^३] 'सर्वदा' इति पाठः .
[^४] 'सर्वदः' इति पाठ:.</note>
<pb n="56" />
<p>असौ दशशताभीपुः सहस्रांशुर्वो युष्मभ्यमभ्यर्थितं दिशतु यच्छतु । एवमित्थं न
निर्णीयते नावधार्यते जगतामेषां मध्ये क इति । किं देवः सुरः । किं बान्धवो ज्ञाति:
स्याद्भवेत् । अथ किं प्रियसुहृदिष्टमित्रम् । किंवा आचार्यं उपदेष्टा । आहोस्विदर्यः
स्वामी महाकुलीनः । रक्षा त्राणम् । चक्षुर्लोचनम् । नु वितर्के । दीपः प्रदीपः । गुरुः
पूज्य: । उत किं जनकः पिता । अथ जीवितं प्राणितम् । उत बीजं कारणम् । उत
ओजो बलम् । ननु चैकतमकार्येणैव देवादीनामन्यतमा इति निश्चेष्यत इत्याह -- सर्वा-
कारोपकारी यतः सर्वैर्देवाद्याकारैरुपकारे रतः । अतः क इति निर्णेतुमशक्य एव । स-
र्वथा सर्वप्रकारैः । सर्वदा सर्वकालम् । केचिद्भिन्ना वा अभिज्ञार्थं मन्यमाना गुरुरिति (?) ।
तस्मान्नानात्वं सर्वव्यापकत्वं च । नानाकारं सर्वोपकारं कुर्वन्न(तो)ऽपि बान्धवादिभेदैः
सर्वात्मकत्वं दर्शितम् ॥</p>
<lg>
  <l>[ [^१]श्लोका लोकस्य भूत्यै शतमिति रचिताः श्रीमयूरेण भक्त्या</l>
  <l>युक्तश्चैतान्पठेद्यः सकृदपि पुरुषः सर्वपापैर्विमुक्तः ।</l>
  <l>आरोग्यं सत्कवित्वं मतिमतुलबलं कान्तिमायुःप्रकर्षं</l>
  <l>विद्यामैश्वर्यमर्थं [^२]सुतमपि लभते सोऽत्र सूर्यप्रसादात् ॥ १०१ ॥</l>
</lg>
<p>श्रीमयूरेण कविना लोकस्य जगतो भूत्यै समृद्ध्यर्यं शतं श्लोका इत्युक्तप्रकारेण र
चिताः । सन्तीति शेषः । 'विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः' इत्यनुशासना-
त्संख्येयपरमपि शतमितिपदमेकवचनान्तं प्रयुज्यते । 'श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु
पञ्चमम्' इति श्रुतबोधाद्युक्तेर्यद्यपि श्लोकशब्दोऽनुष्टुप्छन्दोभेदे वर्तते, तथापि नानार्थक-
त्वात्तस्य पद्यमात्रेऽपि वृत्तिः । तथा चामरसिंह: –- 'पद्ये यशसि च श्लोकः' इत्यनुशिष्ट-
वान् । अत एव निर्णयसिन्धूप्रथमपरिच्छेदे संक्रान्तिनिर्णये कमलाकरभट्टेन 'प्रागूर्ध्वं दश
पूर्वतः षडवनिस्तद्वत्पराः पूर्वतः' इत्यादीनि पद्यानि 'अत्र मामकाः संग्रहश्लोकाः' इत्यु-
क्त्वावतारितानि । उपक्रान्तस्य सूर्यस्तवस्यैवमुपसंहारं कृत्वास्य लोकहितावहत्वलक्षण-
प्रयोजनान्तरं दर्शयितुमाह -- भक्त्या युक्त इत्यादिना । एतांश्च श्लोकान्यः पुरुषो भक्त्या
युक्तः सन्पठेत्स सर्वपापैर्विमुक्तः । भवतीति शेष: । एतेन स्वर्गादिफलं स लभत इति
सूचितम् । सर्वपापक्षयस्य चित्तशुद्धिद्वारा मोक्षान्तफलसाधनत्वस्यान्यत्रोक्तत्वादिति
भावः । किं चात्र लोकेऽपि सूर्यप्रसादादारोग्यादिकं यद्यत्कामयते तत्तत्फलं लभते ।
प्राप्नोतीत्यर्थः ॥ ]</p>
<p>इति श्रीमदुज्जयिनीसामान्यपुत्रोदासीनभट्टसाधारणसुनुना (?) त्रिभुवनपालेन विरचिता
श्रीसूर्यशतकटीका समाप्ता ।</p>
<note>अयं श्लोकस्त्रिभुवनपालव्याख्यायां न लभ्यते. मूलपुस्तके यज्ञेश्वरशास्त्रिव्याख्यायां
च वर्तत इति शास्त्रिव्याख्यासमेत एवात्र गृहीतः
[^२] 'सुखं' इति पाठ:
[^३]. 'इति श्रीमयूरपण्डितविरचितं सूर्यशतकं विशेषाचार्यव्याख्या च' इति पुस्तकान्तरपाठः,</note>
</body>
</text>
</TEI>