अभिनवा नूतना भानवीया भानवः सावित्रा रश्मयो वो युष्मभ्यं विभूत्यै समृद्ध्यै भूयासुर्भवन्तु । किं कुर्वन्तः । सान्द्रश्चासौ सिन्दूररेणुश्च सान्द्रो बहल: सिन्दूररेणुः सि न्दूररजस्तद्दधत इव । किंभूतम् । जम्भस्यारातिर्जम्भारातिः शक्रस्तस्येभो हस्ती ऐरावणस्तस्य कुम्भौ मस्तकौ तयोस्तौ वा उद्भवो यस्येति विग्रहः । एतदुक्तं भवति -ये स्वर्गस्थास्ते उदयरागभृतस्तानवलोक्यैरावणकुम्भस्थं सिन्दूररेणुं दधत इव मन्यन्ते । उदयश्चासौ गिरिश्च तस्य तटी तस्या धातवो गैरिकादयस्तेषां धाराकारो द्रवो धाराद्रवः प्रपातस्तस्येवोघैः प्रवाहैः समूहैरविच्छिन्नैः सिक्ता अत एव रक्ता इव । उदयगि रिस्थानामेवं बुद्धिर्जायते तुल्यकालं समकालमायान्त्या आगच्छन्त्या पद्मखण्डदीप्त्या इवारुणाः । सहैव सवित्रा कमलवनानां रुगागच्छति । एवं दीप्त्या घरास्थानां प्रतीतिर्भवति । किं कुर्वन्तो भानवः । त्रैलोक्यमुद्भासयन्तः । अभिनवत्वं तेषां दिक्करणापेक्षया ॥
भास्करस्य करा वो युष्माकं कल्याणं क्रियासुर्विधेयासुः । ये कमलवनोद्घाटनं कुर्वते पद्मखण्डानामुन्मीलनं विदधते । उत्प्रेक्षते - लक्ष्मीमाक्रष्टुकामा इवापक्रष्टुमनस इव । यतो लक्ष्मीं सदैव कमलवनेषु कृतसंनिधानामाक्रष्टुमिव । किं कर्तुम् । दातुं वितरितुम् । कस्मै । भक्तिप्रदाय । भक्त्या प्रो नम्रो भक्तिप्रहस्तस्मै । कोदृशीं श्रियम् । मुकुलपुटकुटीकोटरक्रोडलीनाम् । मुकुलशब्देन कुमलमुच्यते । तस्य यः पुटः स एव कुटी शालेव मुकुलपुटकुटी तस्याः कोटरमभ्यन्तरं तस्य क्रोडोऽवनम्रप्रदेशस्तत्र लीनां संश्लिष्टम् । कीदृशाः करा: । कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः । कालस्येवाकारो यस्य स कालाकारः स चासावन्धकारश्च तस्याननं मुखं तत्र पतितं यज्जगत्तस्य साध्वसं भयं तस्य ध्वंसो नाशस्तत्र कल्याः पटवः समर्था एव । पुनः किलक्षणाः । किसलयरुचयः किसलयानामिव रुचिर्येषां तेऽभिनवाङ्कुरभासः ॥
ब्रध्नः सूर्यस्तस्य पादा रश्मयः पान्त्ववन्तु । कान् । वो युष्मान् । किं कुर्वन्तः । अम्भोरुहाणां पद्मानां गर्भेष्वभ्यन्तरेषु शिखरिषु च पर्वतेषु शिताग्रेषु तीक्ष्णप्रान्तेषु तुल्यं समं पतन्तो गच्छन्तः । अन्यस्य हि पादा यथा हरितशाद्वलोपचितायां भूमौ निपतन्ति तथा न शर्करिलायां कण्ठकितायां वा । ब्रध्नस्य पुनर्मार्दवातिशययुक्तेषु पद्मगर्भेषु तीक्ष्णशृङ्गेषु च पर्वतेषु समं पतन्ति । वासरस्य दिवसस्य प्रारम्भे मुखे तस्यैव व्युपरतिसमये चास्तमनकाले तथैव सदृशा एकरूपाः । त्रिभुवनं भवनप्राङ्गणमिव त्रिभुवनभवनप्राङ्गणं तस्मिंस्त्रैलोक्यवेश्माजिरे निष्पर्यायमविद्यमानक्रमं प्रवृत्ताः प्रसृताः । अन्यस्य हि पादाश्चरणा गृहाङ्गणे पर्यायेण प्रवर्तन्ते । तस्य पुनः समकालमेव । ऊष्माणमौष्ण्यं भृशं बिभ्रतोऽत्यर्थे दधतः । उत्प्रेक्षते -- संतताध्वश्रमजमिव । संततश्चासावध्वा च संतताध्वा । अध्वशब्दोऽत्राधिकगमने वर्तते । तेन श्रमस्तस्माज्जातस्तमिव । भृशमविच्छिन्नं गाढं गमनखेदसंभवमिव । अन्यो हि यः पान्थस्तस्य पादा ऊष्माणमेव बिभ्रति दधति ॥
ते रश्मयो मरीचयो मङ्गलं कल्याणं वो दिशन्तु ददतु । यान्किरणांस्तिग्मरोचिस्तीक्ष्णदीधितिः सूर्यो वितनुते विस्तारयति । कथं यथा भवति । अतनु विस्तीर्णे यथा भवति । किं कृत्वा । जन्तून्प्राणिनो वीतावृतीन्, आवरणमावृतिः, वीता गता आवृतिर्येषां ते तान्समवलोक्य समुद्वीक्ष्य । प्राक्पूर्वे तमस्यन्धकारे प्रभ्रश्यति पतति सति । कीदृशे। उत्तरीयस्येव त्विड् यस्य तदुत्तरीयत्विट् तस्मिन्नंशुकनिभे तिमिरे । कानिव । तन्तून्यथा । तन्तवः सूत्राणि यथा तान् । यथा कश्चित्तन्तुवायोऽतनुपटान्वितनुते प्राणभृतो विगतवाससो दृष्ट्वा । ते सान्द्रीभूय घनतां प्राप्याम्बरं वासोऽमलं विमलमुत्पादयन्ति एवं मरीचयोsपि सान्द्रीभूय सद्यस्तत्क्षणमम्बरमाकाशं शश्वत्सर्वदा विमलमुत्पादयन्ति । कीदृशम् । क्रमविशददशाशादशालीविशालम् । क्रमेण पर्यायेण विशदा: परिपाट्या स्पष्टा दश च ता आशाश्च दशाशा दश दिश: क्रमविशदाश्च ता दशाशाश्च ता एव दशास्तासामाली पङ्क्तिस्तया विशालं विस्तीर्णम् । तदपि वासो दशालीविशालम् ॥
तीव्रभानोर्गभस्त्युद्गमः किरणोदयो वो युष्माकमनभिमतनुदे अनभिमतमनभीष्टं पापं शत्रुर्वा तस्य नोदनं नुत् तस्यै स्ताद्भवतात् । कीदृश इव । पूर्व प्रथमं पावकेन वह्निना कृताभ्युद्गतिरिव । अभ्युद्गमनमभ्युद्गतिः । विहितस्वागत इव । किंभूतेन पावकेन । भास्वळावोद्गतेन भास्वतो ग्रावाणो भास्वद्रावाणोऽर्कोपिलाः सूर्यकान्ताभिधाना मणिविशेषास्तेभ्य उद्गतो भास्वद्भावोद्गतः । ते हि रविकरस्पृष्टा अग्निमुमन्ति । ओषधिशब्देनौषधिस्थं तेज्ञ उच्यते । तात्स्थ्यात् । यथा गिरिर्दयते पन्थानो मुष्यन्त इति । तत्तिरस्कुर्वन्नभिभवन् । ओषधीनामीश ओषधीशः । तस्मिन्नोषधीनां भर्तरीन्दौ मुषितरुचि मुषिता रुग्यस्य स तस्मिन्मुषितरुचि हतभासि शुचेव शोकेनेव प्रोषिताभा: प्रोषिता आभा यासामोषधीनां तास्तथोक्ताः । भर्तरि हततेजसि पत्न्यः शोकेन गतवृतयो भवन्ति । प्रातरद्वेरुदयाचलनाम्नो दृषदः शिला दर्शयन्प्रकटयन् । कथंभूता इव । पक्षच्छेदत्रणासृक्स्रुत इव । पक्षाणां छेदः पक्षच्छेदस्तेन व्रणास्तेषामग्रुधिरं पक्षच्छेदत्रणासक् तत्स्रवन्तीति ताः । अङ्गरुहक्षतजस्राविणीर्यथा । यतो गभस्त्युद्गम आताम्रो लोहितोऽतस्तदनुरञ्जिताः शिला एवमुत्प्रेक्ष्यन्ते । पूर्व किल पर्वता: पक्षवन्तोऽभूवंस्तेषामिन्द्रस्तांश्चिच्छेद ॥
धर्माशोरादित्यस्य घृणयो मयूखा वो युष्माकमंहोविघातं पापापनोदं विदधतु कुवन्तु । शीघ्रं तत्क्षणम् । किंविशिष्टाः । दत्ताघी दत्तो विश्राणितोऽर्धो येभ्यस्ते । कैः । सिद्धसंघैः सिद्धा अणिमादियुक्तास्तेषां संघा वातास्तैरिति । किंभूतोऽसौ घर्माशुः । यः पुनरपि भूयोऽपि घटयति करोति । कान् । शीर्णघ्राणाङ्गिपाणीन् । घ्राणं नासा । अङ्घ्री पादौ । पाणी हस्तौ । घ्राणं चाङ्गी च पाणी चेति समाहारद्वन्द्वः । शीणी घ्राणाङ्घ्रीपाणयो येषां सामर्थ्यादङ्गिनां ते तथोक्तान् । तथा अपघनैरङ्गेणिभिरुपलक्षितान् । घर्घराव्यक्तघोषान् घर्घरो जर्जरोऽव्यक्तोऽस्फुटो घोषो ध्वनिर्येषाम् । प्राणादिलुप्ततायां कण्ठौष्ठादित्रणितायां च कारणमुपवर्णयन्नाह --अघौघैः पापसमूहैर्घाघ्रातांविरतरग्रस्तान् । किं कुर्वन् । उल्लाघयनिर्व्याधोकुर्वन् । एकोऽसहाय: । रुद्रादयोऽपि सूर्यमूर्तिमारूढा एव नीरोगं कुर्वन्तीति संबन्ध: (भाव:) । किंभूतस्य भानोः । अन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्तेः। अन्तर्मध्ये चेतसि द्विगुणा घना बहुला घृणा दया । घना चासौ
घृणा च घनघृणा । अन्तद्विगुणा चासौ घनघृणा च तया निम्ना परवशा निर्विघ्न्ना अन्तरायरहिता वृत्तिर्यस्य स तथोक्तः ॥
हारिदश्वाः सूर्यसंबन्धिनोंऽशवो रश्मयो वो युष्माकं कृच्छ्राणि दुःखानि हरन्त्वपन यन्तु । पुनर्विशेष्यन्ते—-उच्छ्रायहेलोपहसितहरयः । उच्छ्राय उच्चैस्त्वं तस्य या हेला लीला तथा उपहसितो विडम्बितस्त्वत्तोऽधिको देशोऽस्मादिति (?) हसितो हरिर्विष्णुस्ते । प्रारब्धविक्रमस्य विष्णोः सदृशा इति तात्पर्यार्थः । किं कुर्वाणाः । बिभ्राणा धारयन्तः । किम् । वामनत्वं खर्वत्वम् । प्रथममादौ । अथानन्तरं प्रांशवो दीर्घास्तथैव यथा भगवान्नारायणः प्रथमं विक्रमकाले वामनत्वं कृत्वा प्रांशुर्घः संजातः । पुनरपि किंभूताः । क्रान्ताकाशान्तरालाः । ऋान्तं व्याप्तमाकाशान्तरालमम्बरमध्यं यैस्ते तथोक्ताः । तदनु अनन्तरं च दश दिशो दशाशा: पूरयन्तः पूर्णा: कुर्वन्तः । ततोऽपि पुनरपि विश्वं जगदश्नुवाना व्याप्नुवन्तः । आशु शीघ्रम् । किं कृत्वा । आच्छिद्याकृष्यापहृत्य । कुतः । ध्वान्तादन्धकारात् । कस्मादिव । देवद्विष इव सुरशत्रोरिव । बलितो बलिनाम्नः, अन्यत्र बलितो बलवतः । पञ्चम्यन्तादुभयस्मात्तस् । विष्णोरेतत्संबन्धनीयम् । सोऽपि वामनो भूत्वा प्रांशुरभूत् । तदनु च क्रान्तगगनान्तरालः । ततः परिपूरितदशदिशो बलेविश्वमाच्छिद्य व्याप्तवानिति ॥
ते मयूखा रश्मयः खरांशोः सवितुः संबन्धिनो वो युष्मभ्यं सुखं शर्म दिशतु ददतु । येऽरुणस्य सारथेररुणत्वं लोहितत्वं बहुलं घनं विदधति कुर्वन्ति । केन । अरुणिन्ना लोहितत्वेन । उद्गाढेन प्रबलेन । रथाश्वाननेषु स्यन्दनतुरगवक्रेषु खलीनक्षतरुधिररुचः क विकाव्रणशोणितच्छायाः । मूर्धोद्धूतौ सत्यां मस्तकोत्कम्पे सति । ये शैलानां पर्वतानां शेखरत्वं मुकुटत्वं तन्वते विस्तारयन्ति । किंभूताः । श्रितशिखरिशिखा: सन्तः समा-
श्रितपर्वताग्रभागाः । अथवा श्रिताः शिखरिण्यः शिखा यैस्ते । किं कुर्वन्तः । प्रेङ्खन्तो गच्छन्तः । क्व। खे व्योम्नि । खचितदिनमुखाः स्पष्टीकृतदिवसप्रारम्भाः ॥
दीप्तांशोरादित्यस्य संबन्धिन्यो गावो दीधितयो वो युष्माकं प्रीतिं सुखमुत्पादयन्तु जनयन्तु । किंभूताः । दत्तानन्दाः दत्तो वितीर्ण आनन्दो याभिस्ताः । कासाम् । प्रजानां लोकानाम् । कैः कृत्वा । पयोभिर्जलैः । समुचितसमयाकृष्टसृष्टैः समुचितो योग्यः समयः कालस्तत्राकृष्टसृष्टैः । भूयोऽपि विशेष्यन्ते– -पूर्वाह्ने विप्रकीर्णाः अह्नः पूर्वो भा गस्तत्र विक्षिप्ताः । क्व । दिशि दिशि सर्वासु दिक्षु । विरमत्यन्हि याति दिवसेऽस्तमनसमये संहारभाजः संहृतिमाश्रिताः । पुनरपि किंभूताः । दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावः । दीर्घं च तद्दुःखं च तस्य प्रभव उत्पत्तिस्थानं स चासौ भवश्च संसारस्तस्माद्भयं तदेवोदन्वान्समुद्रस्तस्मादुत्तारस्तत्र नावो यानपात्राणि । पावनानां पावकानां परमुत्कृष्टम् । किंभूतां प्रीतिम् । अपरिमितामपर्यन्ताम् । गाव इति श्लिष्टमेतदभिन्नम् । गावो धेनवश्चोच्यन्ते । ता अपि पयोभिर्दुग्धैः समुचितसमयाकृष्टसृष्टैः प्रजानां दत्तानन्दा भवन्ति । पूर्वाण्हे प्रत्युषसि विप्रकीर्णा भवन्ति । अन्होऽवसाने संहारभाज: । दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावश्च दत्ताः सत्यः सद्यः । तदीयैः पयोभिर्विप्राग्नितर्पणैर्लोकाः संसारं तरन्तीत्यागमविदः ॥
दिनकरकिरणा रविपादा भवतां कल्मषस्य पापस्य केतवो विनाशका: कल्पन्तां संपद्यन्ताम् । निर्विकल्पमसंशयम् । क्रिविशेषणमिदम् । स्वं च चित्तं च स्वचित्तं तस्य प्रथिता पृथुतरा पृथ्वी सा चासौ प्रार्थना च तस्याः कल्पवृक्षाः । ये लोकानां प्रजानां प्रबोधं तत्त्वज्ञानं विदधति कुर्वन्ति । बन्धस्त्रिविधः -- प्राकृतो वैकारिको दक्षिणासा(?) रूपश्चेति । तेन हि बद्धा देहिनो न मुच्यन्ते । तस्य ध्वंसो नाशस्त त्रैक हेतुः
प्रधानं कारणम् । किंभूतानां प्रजानाम् । शिरसि मस्तके नतिर्नमस्कारस्तत्र रसस्तेनाबद्धो विरचितः संध्याञ्जलिर्यैस्ते तथोक्तास्तेषाम् । कयेव । विपुलाम्भोजखण्डाशयेव । विपुलो विस्तीर्णोऽम्भोजखण्ड: कमलाकरः । विपुलश्वासावम्भोजखण्डञ्च तस्याशा तयेव । बन्धध्वंसैकहेतुतापि मुकुलावस्थाविघातैककारणता । प्रबोधो ज्ञानं विकासश्च ॥
तीव्रभानोरादित्यस्य मयूखाः कल्मषात्पापाद्वो युष्मांस्त्रायन्तां रक्षन्तु । दिवसमुखसुखाः दिवसारम्भे सुखकारिणः । स्वरूपकथनमेतत् । पुनरपि च निरूप्यन्ते -रायो द्रव्यस्य धाराः प्रपाताः । क्व । धनायापदि द्रव्यार्थकायपीडायाम् । धनाया धनेच्छा तस्या आपत्प्रार्थना धनस्य प्राप्तिस्तत्रापि । सपदि तत्क्षणम् । करालम्बभूता इति हस्तेष्वादायोत्तारयन्तीत्यर्थः । क्व । प्रपाते नरके दुर्गतौ । तत्त्वालोकैकदीपाः तत्त्वस्य परमार्थस्यालोके दर्शने एकदीपाः प्रकाशकत्वात् । त्रिदशपतिरिन्द्रस्तस्य पुरं नगरममरावती तत्र प्रस्थितिः प्रस्थानं तत्र वीथ्य एव पन्थान एव । पुनरपि कीदृशाः । निर्वाणोद्योगिनो मोक्षोत्सुकास्ते च ते योगिनश्च तेषां प्रगमोऽपुनरावृत्तिस्तस्य निजा आत्मीया सा चासौ तनुश्च तस्या द्वारं तस्यां वेत्रायमाणाः प्रतीहारा इवाचरन्तः । ये हि सिद्धा योगिनो भवन्ति ते हि सूर्यतनुद्वारेण न स्खलनमासादयन्ति । उद्युक्तानां योगिनां तु सूर्यतनुर्द्वाः तत्र द्वाःस्थाः प्रयातुं न ददति । अथवा प्रगच्छन्त्यनेनेति प्रगमः पन्थाः । निर्वाणोद्योगियोगिनां प्रगमश्चासौ निजतनुद्वाश्चेति तत्समासः ॥
चण्डरोचीरुचो घर्मंघृणिपादाश्चिन्तितानां मनोरथानामुचितं योग्यं वो युष्माकं चेष्टन्तां व्याप्रियन्तां संपादयन्तु वा । किं कुर्वत्यः । आचरन्त्यो विदधत्यः । किं तत् । चारुचूडामणित्वं मनोहरशिखारत्नत्वम् । क्व । अचले पर्वते । किंभूते । प्राचि पूर्वदिक्संबन्धिनि । प्राक्प्रथमम् । अनतिचिरं स्वल्पकालम् । किंभूताः । रोचनाम्भो रोचनाजलं मुञ्चन्त्य इव । प्रचुरं प्रभूतम् । दिशामाशानां चर्चनाय भूषणाय । तादर्थ्ये चतुर्थी । उच्चकैरत्यर्थम् । प्रथममतिलोहितत्वाच्चण्डांशुरोचिषः शिरोरत्नत्वेनोत्प्रेक्षिताः । तदनु पिशङ्ग्यः
सत्यो रोचनाम्बुत्वेनेति । पुनः किंभूताः । अर्च्यमानाः सस्पृहमीक्ष्यमाणाः । कैः । चक्रनाम्नां लोचनाञ्चलैर्नेत्रप्रान्तैः । अविचलैनिश्चलैः । कथम् । चतुरं विदग्धं यथा भवति । चाटूत्कैश्चाटुकाङ्क्षिभिः । चक्रवाकाणां हि भगवति गभस्तिमालिन्यभ्युदिते सति वियु क्तानां परस्परं समागमो भवतीति सादरं तद्रुचोऽर्च्यन्त इत्येवमभिहितम् । अचरमा अप्राचीनाः ॥
भानो: संबन्धीनि दीधितीनां दश शतानि सहस्रमिति यावत् । युष्माकं शिवं भद्रं दधतु पुष्णन्तु कुर्वन्तु वा । अनेकार्थत्वाद्धातूनामिति । किंभूतानीत्याह—-यानि एकं ज्योतिरेकं तेजः प्रधानमालोककारणम् । पुनरपि कीदृशानि, दृशौ द्वे चक्षुषी द्वे । त्रिजगति त्रैलोक्ये गदितानि कथितानि । कैः, अब्जजास्यैः कमलयोनिवदनैः । कियद्भिः, चतुर्भिश्चतुःसंख्योपेतैः । भूतानां पृथिव्यादीनां पञ्चमम् । पञ्चानां भूतानां तेजसि सति पञ्च संख्या संपद्यते । तथा ऋतुषु वसन्तादिषु षट्स्वलमत्यर्थं नानाविधान्युच्चावचप्रकाराणि । तीव्रमन्दादिभेदेन भिद्यमानत्वात् । पुनरपि किंभूतानि । सप्तत्रिदशमुनिनुतानि त्रिदशमुनयो देवर्षयोऽत्रिप्रभृतयः सप्त च ते त्रिदशमुनयश्च तैर्नुतानि । भूयोऽपि किंभूतानि । अष्टदिग्भाञ्जि अष्टाशाश्रितानि । पूर्वाह्णे दिनमुखे नवत्वं प्रत्यग्रत्वं यान्ति भजन्ते । पूर्वं ज्योतिस्त्वेनैकत्वम् । पुनर्हक्त्वेन द्वित्वम् । भुवनत्वेन त्रित्वम् । चतुर्षु ब्रह्मवत्रेषु चतुःसंख्यात्वम् । पृथिव्यादिरूपतया पञ्चधा । वसन्तादिसंख्यायाः षट्त्वम् । अत्रिप्रभृतिभिः सप्तत्वम् । तीव्रमन्दादिभेदेन नानात्वम् । अष्टदिग्भाक्त्वेनाष्टत्वम् । आश्रयभेदाद्भेदः । पूर्वाह्णे नवत्वमिति शब्दसाम्यान्नवत्वं नवसंख्यायोगिता प्रदर्शितेति ॥
मार्तण्डस्य भानोरभीशवो दोधितयो वो युष्माकमशुभभिदेऽकल्याणविनाशाय भवन्तु जायन्ताम् । चिरं बहुकालम् । किंविशिष्टाः । ये धरित्र्या भुवो रसं जलं धयन्ति पिबन्ति । असकृदनेकवारम् । किंभूता इव धयन्ति । शोषिण इव शोषयुक्ता इव ।
शोषिणोऽपि श्रममिव दधतः खेदमिव दधाना बिभ्राणाः । श्रमाधाने हेतुमाह--आवृत्तिभ्रान्तविश्वाः । आवृत्त्या पौनः पुन्येन भ्रान्तं पर्यटितं विश्वं जगद्यैस्ते तथोक्ताः । क्व । ग्रीष्मे निदाघकाले । शोषिणः स्वोष्मणेव । पुनरुत्प्रेक्षते –- दावाग्नितता इव, जलमतीव नरा धयन्ति तद्वदेते इत्युत्प्रेक्षिताः । तेऽभीशव: प्राकृषि वर्षाकाले उद्वान्ततोया उद्गीर्णपयस्का: । किंभूताः । आत्तपानातिशयरुज इव आत्ता प्राप्ता पानातिशयरुग्यैस्ते । हिमर्तौ हेमन्तेऽप्रचण्डा मन्दा अपटवः । यथा कोऽपि पानीयपानातिशयात्प्राप्तवेदनो मन्दो भवति तद्वतेऽपि ॥
भासां दीघितीनां दशशती घर्मत्विषः सूर्यसंबन्धिनी वो युष्मभ्यं शर्म सुखं कल्याणं दिशतु यच्छतु । केव । श्मश्रुश्रेणीव, मुखरोमराजिरिव । किं कुर्वती । किंचिदुद्भिद्यमाना उद्गच्छन्ती । कस्मिन् । दिनमुखे । अन्यत्र यूनां मुखे उद्भिद्यते । किं कुर्वाणा । तन्वाना विस्तारयन्ती । काम् । अवस्थाम् । कासाम् । दिग्वधूनाम् । दिश एव वध्वस्तासाम् । कीदृशीम् । समधिकमधुरालोकरभ्याम् । समधिकः सम्यगधिको मधुरो मृदुर्य आलोकः प्रकाशस्तेन रम्याम् । पुनरपि किंभूता । आरूढप्रौढिलेशोत्कलितकपिलिमा । प्रौढिः प्रौढत्वं तस्या लेशः आरूढश्चासौ प्रौढिलेशश्चेति समासः । तेनोत्कलितो वर्धितः कपिलिमा कपिलत्वं यस्याः सा तथोक्ता । अलंकृतिर्भूषणम् । केवलैव एकैव । किंभूते दिनमुखे । उज्जृम्भा विकासिन्यम्भोजनेत्रद्युतिर्यत्र तत्तथोक्तं तत्रेति । इमश्रुश्रेण्या अपि सर्वमेतत्संबन्धनीयम् । सापि वधूनां समधिकमधुरामालोकरम्यामवस्थां वितनुते । आरूढप्रौढिलेशोत्कलितकपिलिमा भवति । अलंकृतिश्चासौ केवलैव मुखस्य संपद्यत इत्यादि समानम् ॥
तिमिररिपोरादित्यस्य स त्विषां भासामुद्गम उदयस्त्राणाय रक्षायै वो युष्माकं स्ताद्भवतात् । तनीयानपि तनुतरोऽपि । किंभूतः । यः स्तुतः । केन । वृषभाङ्केन पिनाकिना । शङ्किनेव । किमिति । मौलीन्दोमलिचन्द्रस्यैषोऽयं द्युतिं प्रभां मा मोषीन्मा खण्डयत्विति । धात्रा ब्रह्मणा च यः स्तुत इति संबन्धः । किंभूतो नुतः । प्रत्यग्रेति । तत्क्षण-
विकासिसरोरुहान्तरालसुखोपविष्टेनेव । मा संकोचदुःस्थितिं कामपि कार्षीदितीव । तथा कृष्णेन विष्णुना ध्वान्तकृष्णस्वतनुपरिभवत्रस्नुनेव तिमिरश्यामनिजशरीरपरिभूतित्रसनशीलेनेव । अलमत्यर्थम् । इवशब्दः सर्वत्रोत्प्रेक्षायाम् । एव ध्वान्तभ्रान्त्या ममैव तनुं परिभूयादितीव । आद्यैरपि देवैः स्तुत इति महत्त्वं रवेर्दर्शयति ॥
ते सहस्रत्विषः सहस्ररश्मेरुस्रा गभस्तयोऽनभिमतं दुःखं विस्रंसयन्तु ध्वंसयन्तु । वो युष्माकम् । द्रुतं शीघ्रम् । यैः पद्मिनी जगच्चोषसि प्रातःकाले उच्छ्वास्यते । ध्वंसयित्वा । काम् । तमिस्रामन्धकारं रात्रिं वा । किं कुर्वद्भिः । विस्तीर्णं पृथुलं व्योम गगनम्, दीर्घा आयता दश दिशो दशाशाः, सपदि तत्क्षणं व्यस्तवेलाम्भसोऽब्धीन् विक्षिप्तवेलाजलान्समुद्रान्कुर्वद्भिः । पृथ्वीं च घरां कुर्वद्भिः । कथंभूताम् । दृश्यनानानगनगरनगाभोगपृथ्वीम् । नगाः पर्वताः नगराणि पत्तनानि नगा वृक्षास्ते च ते नानाप्रकाराश्चेति समासः । दृश्या उपलभ्याः । दृश्याश्च ते नानानगनगरनगास्तेषामाभोगो विस्तारस्तेन पृथ्वीं विस्तीर्णाम् ॥
तिग्मभानोरादित्यस्यार्चिषां भासामुद्गम उदयो वो युष्मभ्यं शिवं कल्याणं दिशतु यच्छतु । किंविशिष्टोऽसौ । विश्वं जगत्प्रतिहततिमिरं कर्तुमीश: । एकदेशस्थितोऽप्येकदेशे वर्तमानोऽपि । एकदेशस्थितस्यापि तिमिरोच्छेदकारित्वं प्रदीपेन समानो धर्मः । प्रदीपो वेश्मेव । सामान्यदीपात्किंचिदधिकोऽयम् । अस्तव्यस्तत्वशून्यः । अस्तो विनाशस्तेन व्यस्तत्वं व्यसनं तेन शून्यो न भवति । विनाशे नासौ बाध्यते । निजरुचिश्च न भवति । किं त्वनिजरुचिः । तैलादिना आधीयमानत्वात् । तथा अनिशा दिवसस्तत्र नश्वरोऽसौ । अस्तव्यस्तत्वशून्य इति । न स्तव्योऽस्तव्योऽस्तवार्हः । तथा तत्त्वशून्यश्च प्रदीपः । अर्चि॒षामुद्गमस्तु स्तव्यस्तत्त्वभूतश्चेति । किंभूतः । नवाख्यां प्रत्यग्रव्यपदेशं यातो गत इति । क्व । दिशि ककुभि । किंभूतायाम् । शातऋतव्यां पौरन्दर्याम् । तथा दि-
क्कालापेक्षया दिक् प्राच्यादिः कालः पूर्वाह्णादिः प्राच्यां दिशि पूर्वाह्णे दृश्यत इति नव उच्यते । परमार्थतस्त्वनवः पुराण: व्यपदेशशून्योऽसौ । तिग्मभानोस्त्रिभुवनमटतो गच्छतोऽतिक्रामतः ॥
रोचिषामोघो रोचिरोघो दीप्तिपुञ्जः । स तापनः सूर्यसंबन्धी मयूखत्रातो वो गुष्मानवतु रक्षतु । किंभूतः । यो न प्रविष्टोऽहिलोकं फणिसद्म । किमिति । मा गान्मा यासीदिति म्लानिं पीडामयमहिलोको मृणालीकोमलः । ततो यद्यहं पातालं गच्छेयं तदा नूनमयं म्लानिं यास्यतीति । दयया कृपया । लोकालोकस्य परं पार्श्वं तदाख्यार्थमेव तत्संज्ञार्थमेव न प्रतपति न प्रकाशयति । तस्य हि लोकालोकसंबन्धात्तदभावाच्च लोकश्च स आलोकश्च सः । अर्वाचीने पार्श्वे यत्र भगवान्प्रतपति तत्र लोका विद्यन्ते नापरत्र । यदि तत्रापि भगवान्प्रतपति तदा सोऽपि लोक एव स्यात् । तदालोकालोक इत्याख्या तस्य नश्येत् । अनेन कारणेन तस्य परं पार्श्वं न प्रतपति । ऊर्ध्वमुपरिष्टाद्ब्रह्माण्डखण्डस्फुटनभयपरित्यक्तदैर्ध्यः । ब्रह्माण्डखण्डस्य स्फुटनं दलनं तस्माद्भयं तेन परित्यक्तं दैर्ध्यं द्राघिमा येन स तथोक्तः । क्व । द्युसीम्नि गगनमर्यादायाम् । दिवः सीमा द्युसीमा तस्मिन् । किंविशिष्टः । स्वेच्छावश्यावकाशावधिः । स्वेच्छावश्यो वशंगतोऽवकाशावधि: स्थानमर्यादा यस्य सः ॥
दिनपतेरादित्यस्य तद्धाम तत्तेजो वो युष्मभ्यं कामाधिकमभिलाषाधिकं दिशतु यच्छतु । कामाधिकं सामर्थ्यात्प्रस्तावात्प्रार्थितमेव । यत्र यस्मिन्धान्म्युज्जिहाने उद्गच्छति सति न खल्वहर्लक्षणः काल एवाश्यामो भवति अपि तु भुवनान्तोऽपि । कालस्याश्यामत्वं श्यामा रात्रिस्तद्रहितत्वम् । न विद्यते श्यामास्मिन्निति कृत्वा । तेजस्युद्गच्छत्यहर्लक्षणः कालो भवति तस्य राजत्र्या सहानवस्थानलक्षणो विरोध इत्यश्यामः । भुवनान्तः पुनः श्यामगुणरहितः । कस्मिन्नवसरे । अन्धकारे तमसि वीते विगते सति । 'वीतान्धकारः' इति पाठान्तरम् । तत्र वीतं गतमन्धकारं यस्मादवसरादिति योज्यम् ।
किं च स व्यक्तलक्षणः प्रालेयपादो हिमप्रधानप्रत्यन्तनगोऽचलः पर्वत एव न विलयमेति न विलीयते द्रवति अपि तु चन्द्रमा अपि विलयमेति म्लानिं विच्छायतां याति । प्रालेयपादो हिमकिरणश्चन्द्रमा अपि । बन्धो मुकुलभावो न हि सिद्धाञ्जलीनामेव । सिद्धा देवविशेषाः । अञ्जलय उभयकरविन्यासः । तेषां बन्धो रचना । सिद्धा हि भगवन्तमुपतिष्ठमाना अञ्जलोन्विदधति । न हि सिद्धाञ्जलीनां बन्धो भवति, अपि तु कुमुदवनस्यापि । कुमुदान्यपि तस्मिन्काले मीलन्ति संकोचं यान्ति । प्रातः प्रभाते । कीदृशं तद्धाम । प्रेक्षणीयं प्रेक्षणार्हं रमणीयमिति ॥
भास्वतो रवेस्तन्महस्तत्तेजो वो युष्माकमघभित्पापविनाशि स्ताद्भवतु । किंभूतम् । त्रिलोक्या लोकत्रयस्यैकमद्वितीयं चक्षुर्लोचनमिव । किंविशिष्टम् । सामान्यचक्षुर्विसदृशं प्राकृतलोचनविलक्षणम् । तदेव वैलक्षण्यं दर्शयति-- यत्कान्ति पङ्कजानां पद्मानां न हरति न च्छिनत्ति प्रत्युत विशेषेणाधिक्यरम्यामतिशयरमणीयां महत्प्रभां कुरुते । इतरत्तु चक्षुः कान्ति पङ्कजानामादत्ते तदनुकारं किल तद्भवतीति । तथा नो धत्ते न पुष्णाति । तारकाभां नक्षत्रद्युतिम् । तिरयति तिरस्करोति । नितरामतीव । आशु शीघ्रम् । नित्यमेव सदैव । इतरत्तु तारका कनीनिका तथा आभां शोभां धत्ते पुष्णाति । निमेषं कालविशेषं कर्तुमुत्पादयितुमेव नालं समर्थम्, किं तु दिवसमपि । परमुत्कृष्टमेव । इतरत्तु मुहूर्तमपि निर्निमेषं न भवतीति व्यतिरेकः ॥
दिनपतेर्भास्वतो युतिर्दीप्तिर्वो युष्माकं दुर्निमित्तमशुभं दहतु भस्मींकरोतु । किं कुर्वती।उद्यामं द्योतमाना। किंभूता । क्ष्मां पृथ्वीमृता गता प्राप्ता । 'ऋ गतौ' । क्षेपीयः क्षिप्रतरम् । कस्मादिव । क्षपाम्भःशिशिरतरजलस्पर्शतर्षादिव । क्षपाम्भोऽवश्यायजलं तेन शिशिरतरं शीतलतरं च तज्जलं च तस्य स्पर्शस्तत्र तर्षोऽभिलाषस्तस्मादिवेत्यु त्प्रेक्षा । पुनरपि किंभूता । आशा दिशः ऋतेति संबन्धः । द्राक् शीघ्रम् । किं कर्तुमिव ।
नेतुमिव प्रापयितुमिव । कम् । बोधं विकासम् । कानि । आशाद्विरदकरसरःपुष्कराणि । आशासु द्विरदा दिग्गजास्तेषां करा हस्तास्ते सरांसीव त एव वा सरांसि पुष्कराधारत्वात् । तेषां पुष्कराणि कराग्राणि पद्मान्यप्युच्यन्ते । तानि हि विकासयन्तीत्येवमु क्तम् । प्रातः प्रत्युषसि प्रोल्लङ्घ्यातिक्रम्य विष्णोश्चक्रिण: पदं व्योम । घृणयेव जुगुप्सयेव । त्रिपदीकाले विष्णुना व्याप्तं तन्महतामयुक्तमेतावन्मात्राणां पदानां हरणमिति । परपदे किल स्थातुं न युक्तमित्यतिवेगादतिरंहसो दवीयसि दूरतरे ऋतेति संबन्धः । उद्दामं प्रभूतम् । क्रियाविशेषणं वा ॥
उष्णत्विषस्तिग्मभानोर्दीप्तिर्द्युतिर्वो युष्मान्सुखयत्वानन्दयतु सुखिनः करोतु । किंभूतस्य । निखिलद्वीपदीपस्य निखिलानि समग्राणि द्वीपानि जम्बूप्रभृतीति तेषां दीप इव दीपः । प्रकाशकत्वात् । तस्य । सैव वर्तिरन्यरूपा । अन्यद्रूपं यस्याः सान्यरूपा । अभिन्नरूपया दीपस्य वर्त्या भवितव्यम् । वतिः कीदृशी । वतिरिव सामान्यवर्तिरूपान, अन्यरूपा । तद्विलक्षणेत्यर्थः । तदाह —- कल्पापायवायोरपि नो गम्या । कल्पस्यापायः कल्पापायः कल्पान्तस्तस्य वायुः प्रलयमारुतस्तस्यापि न गमनीया । किंभूतस्य । अदयरयदलत्क्ष्माधरस्य । चण्डवेगेन दलन्तः शीर्यमाणाः क्ष्माधराः पृथ्वीधरा यस्मिन्वायौ तस्य तथोक्तस्य प्रचण्डवेगस्फुटद्गिरेः । पुनः किंभूता । अहनि दिवसे, गाढोद्गीर्णोज्ज्वलश्रीर्गाढा उद्गीर्णा उज्ज्वला श्रीर्यया सा गाढोद्गीर्णोज्ज्वलश्रीर्भृशोद्वान्तनिकामदीप्तकान्तिः । किं च न न रहिता न न वर्जिता तमःकज्जलेन तिमिरमध्या । अपि तु रहितैवेत्यर्थः । अन्यच्च, प्राप्तोत्पत्तिर्लब्धजन्मा । कस्मात् । पतङ्गाद्दिनपतेः । न पुनरुपगता नैव प्राप्ता । कम् । मोषं खण्डनम् । इतरा तु वर्तिर्वायुगम्या भवति । दिवसे गाढोद्गीर्णोज्ज्वलश्रीर्न भवति । कज्जलेन रहिता न च । पतङ्गाच्छलभान्मोषमुपैति नोत्पत्तिमिति व्यतिरेकः ॥
ब्रध्नस्य सूर्यस्य रुचिर्दीप्ती रुचितस्याभिलषितस्य वस्तुनः पदार्थस्य वो युष्माकमा-
प्तयेऽस्तु भवतु । कथंभूता । इद्धा दीप्ता । केव । रुचिरिवाभिलाष इव । कस्य । ब्रघ्नस्य । अन्यस्याश्रुतत्वात् । तदेव दर्शयति —- निःशेषाः समस्ता आशा दिशः । निःशेषाश्च ता आशाश्च तासामवपूरो भरणं तत्र प्रवणानुकूला गुरुश्चासौ गुणश्च गुरुगुणस्तेन श्लाघनीयस्वरूपा चेति समासः । इतरा तु रुचि : समस्तमनोरथमरणानुगुणश्लाघात्मा [न] भवति । पुनरपि किंभूता । पर्याप्तमलं दिनादौ दिवसारम्भे उन्नतैव नावनता । किं तत्रैव, नो । किं तु दिनगमसमयोपप्लवेऽपि दिवसापायकालविपद्यपि । इतरापि रुचिरभिलाष उदयकाले तद्विरतौ च नोन्नमत्येव । किं च, अत्यन्तमतीव तमसान्धकारेण साकं सहैकत्रैकस्मिन्प्रदेशे क्षणमपि मुहूर्तमपि वस्तुमासितुमनभिज्ञा अवेदित्री । इतरापि वामसाभावेनेति ॥
अहर्पतेर्दिननाथस्यातप उद्दयोतो वो युष्माकं लक्ष्मीमादध्यात्कुर्यात् । आदध्यादिति प्रार्थनायां लिङ् । किंभूताम् । अपारामपर्यन्ताम् । क इव । अपरोऽन्यो गुह इव कार्तिकेय इव । बालोऽजरठः । किंभूतो गुहः किंभूतश्चातपः । आतपगुहयोः श्लेषं दर्शयति -शक्तिं बिभ्राणो जगद्द्योतनसामर्थ्यं दधानः । कीदृशीम् । प्रशमितबलवत्तारकौर्जित्यगुर्वीम् । प्रशमितं शान्ति नीतं बलवदतीव निःशेषं तारकौर्जित्यं नक्षत्रतेजस्तेन गुर्वीम् । गुहोऽपि शक्तिमायुधविशेषं बिभर्ति । बलवांश्चासौ तारकश्च बलवत्तारकोऽसुरविशेषस्तस्यौर्जित्यं तेजस्विता प्रशमिता यया सा प्रशमितबलवत्तारकौर्जित्या । सा चासौ गुर्वी चेति समासः । आशु शीघ्रम् । पुनरपि किं कुर्वन् । कुर्वाण: । कम् । शिखिनं वह्निम् । कथम् । अधोऽधस्तात् । लीलयानादरेण तिरस्कुर्वाण: परिभवन् । कम् । शिखिनं मयूरमधः कुर्वाणः । लसच्चन्द्रकान्तावभासमपि । चन्द्रकान्ताश्चन्द्रमणयः । लसन्तश्च ते चन्द्रकान्ताश्च तेषामवभासः कान्तिस्तमपि । अथ लसंश्चासौ चन्द्रश्च तस्य कान्तश्चावभासश्च तमपि । शिखिनं वह्निं किंविशिष्टम्, लसच्चन्द्रं वसु सुवर्णं रत्नं वसु मणि (?) सर्वं तस्येव कान्तः कमनीयोऽवभासो दीप्तिर्यस्य तम् । गुहोऽपि शिखिनं मयूरमधः स्थापयति । लीलया विलासेन । किंविशिष्टम् । लसन्तो ये चन्द्रका मेचकास्तेषामन्तास्तैरवभासते यस्तमपि । पुनरपि किं कुर्वन् । आवहन् । काम् । रतिं धृतिम् । किंभूताम् । अतिशयिनीमधिकतराम् । केषाम् । वीक्षणानां त्रिलोचनानां कोकाभिधानविलोचनानाम् । क्व । अन्धकारे तमसि । संसेव्यत्वात् तेजस्तदानीमक्ष्णोः इतरत्तस्यैव संबन्धिना मेलनीयम् (?) । गुहोऽप्यन्धकारेः श्रीशिवस्य दृशामानन्दमादधाति । बालो डिम्भः ॥
तीक्ष्णत्विषस्तिग्मांशोः कान्तिीधितिर्वो युष्माकमक्ष्णां दृशां मुदं हर्षमुपनयतादाहरतात् । अतुलामपरिमिताम् । केव । तूलिकेव चित्रकारलेखनीव । किं कुर्वती । उन्मीलयन्ती प्रकटयन्ती । किं तत् । जगत् । किंभूतम् । चित्रं नानाप्रकारम् । तूलिकापि चित्रं कर्म । किंभूतं चित्रमिति श्लेषयति -- ज्योत्स्ना चन्द्रिका तस्या अंशो लेशस्तस्याकर्ष उपादानं तेन पाण्डुति पाण्डुच्छायं जगत् । चित्रमपि शुक्लवर्णानुप्रवेशात्पाण्डुद्युति । तथा तिमिरशेषकल्माषम् । मषीवत्तिमिरं तिमिरमषी तस्याः शेष उद्धार:(?) तेन कल्माषं कर्बुरम् । इतरदपि मषीलेशशारं भवति । किं च, पिङ्गं पीतम् । केन । सरसिजरजसा पद्मपरागेण । कीदृशेन । ईषज्जृम्भोद्भूतेन किंचिद्विकाससमुद्गतेन । चित्रमपि हरितालादिना । अपि च शोणशोचि अरुणच्छायम् । कथा । संध्यया संध्यासमयेन हेतुना । चित्रं हिङ्गुलादिना । कदेत्याह – प्रातः प्रारम्भकालेऽहर्मुखारम्भसमये । सकलं समस्तमिति वा । जगच्चित्रमिति समस्तं वा । जगच्चित्रमिव जगच्चित्रमिति । 'ज्योत्स्नांशाकृत्स्नपाण्डु' इति पाठान्तरम् । तत्र ज्योत्स्नांशो ज्योत्स्नालेशस्तेनाकृत्स्नपाण्डु असमस्तपाण्डु । स्तोकत्वाज्ज्योत्स्नाया इति योज्यम् ॥
सवितुरादित्यस्य प्रभातप्रभा प्रातर्द्युतिर्वी युष्माकमघनुदे पापनुत्यै स्ताद्भवतु । किंभूता । आलोकिता वीक्षिता । किं कृत्वा । आशङ्क्य वितर्क्य । लोकैर्जनैः । कथम् । एवमित्थम् । तदेव दर्शयति -- किं कुर्वती । आयान्त्यागच्छन्ती । सुमेरोर्देवाचलात् । सरणिर्मार्गः । अरुणिता रक्तीकृता । कैः । परागैः रजोभिः । किमीयैः । पाद्मरागैः पद्मरागमणिजन्मभिः । आहोस्विद्वितर्के । रथस्य स्यन्दनस्य स्वकीयस्य वैजयन्ती पताका । कीदृशी । माहारजनविरचिता । महारजनस्यायं रागो माहारजनः कौसुम्भं (वासः) तेन रचिता निर्मिता । पुनरपि कीदृशी । प्रष्ठवाहेति । प्रष्ठा उत्तमा ये वाहा वाजिनस्तेषामावलिः पङ्क्तिस्तस्या विधुतशिरांसि चलितमूर्धानस्तेषु चामराली चमरपङ्क्तिः सा किं नु । कीदृशी । माञ्जिष्ठी मञ्जिष्ठया रक्तेति । एवमिति प्रत्येकं योज्यम् ॥
सोऽर्कप्रकाशः सूर्यालोको युष्मदाशां भवन्मनोरथं पूरयन्पूर्णं कुर्वन्मा विरंसीन्मा विरामं यासीत् । पुनःपुनः पूरयत्विति यावत् । प्रातरसकलपटिमा अपरिपूर्णतैक्ष्ण्यः । किंभूतः । आशाकाशेति । आशा दिशः । आकाशं खम् । आशाश्चाकाशं चाशाकाशे तयोरवकाशोऽन्तरालं तत्रावतरणमवतारस्तत्र तरुणो नवः प्रक्रमः सामर्थ्यं यस्य स एवमुक्तः । तत्रावतरणे पटुरित्यर्थः । भूयो विशेष्यते – यो ध्वान्तध्वंसं विधत्ते तमश्छेदं कुरुते । न च तपति । कथम् । रुचिमद्दीप्तिमत् । कठोरमिति भावः । तथा नातिरूपं रूपत्वविशिष्टं गुणं व्यनक्ति प्रकटयति । मन्दत्वात् । न्यक्त्वं न्यग्भावं नीत्वापि प्रापय्यापि नक्तं रात्रिं न वितरतितरां नातिशयं तावन्न प्रयच्छति अह्नो दिवसस्य त्विषं दीप्तिम् । स्वरूपकथनमिदम् । अथवा महानुभावानां शर्मोपादानं तमसो ध्वान्तस्य ध्वंसं मोहच्छेदं स्वस्य च परस्य च विधत्ते । न स्वेच्छया तपत्युत्तापयति । नातिरूपं व्यनक्ति आत्मानं न श्लाघते । नक्तं रूपं विपक्षं प्रतिक्षिप्य दिवसकल्पमित्रस्य तेजोवृद्धिं करोति ॥
बाह्यं बहिःकरणपरिच्छेद्यं आभ्यन्तरं योगसमाधिगम्यं ज्योतिः । तीव्रमित्यादिना यथाक्रमं स्वरूपमेवाह—-यत्तीव्रं तीक्ष्णं यन्निर्वाणहेतुर्मुक्तिकारणम् । विपुलं विस्तीर्णं रश्म्याख्यं यत्प्रकर्षेणातिशयेनाणु सूक्ष्मम् । यत्प्रत्यक्षमिन्द्रियादिग्राह्यं यत्परोक्षमतीन्द्रियम् । यदिह संनिकृष्टं यदपरं बिप्रकृष्टम् । यन्नश्वरं नष्टमस्थायि यच्छाश्वतं नित्यम् । यत्सर्वस्य जगतः प्रसिद्धं यत्कतिपये कियन्त एव योगिनो विदन्ति द्विचतुरा व्यासादयो योगिनो जानन्ति तदेवंविधमिति सूर्यतेजो द्विप्रकारं द्विविधं बाह्यमाभ्यन्तरं च युष्मा-न्रक्षत्विति प्रथमोक्तिः ॥
अर्कतेजो रविधाम वो युष्मानवताद्रक्षतु । किंभूतम् । बाहुल्योत्पाद्यकार्याधिकतरम् बाहुल्येन प्राचुर्येणोत्पाद्यं तच्च तत्कार्यं च तेनाधिकतरम् । बाहुल्येनोत्पादनीयानि भूयांसि कार्याणि यस्य तद्बाहुल्योत्पाद्यकार्यम् । अतस्तेभ्योऽधिकतरम् । अमीष्वमीषु तेजो विद्यते । अन्यदीपतेजोभ्यो व्यतिरेकं दर्शयति -– रत्नानां पद्मरागमणिप्रभृतीनां मणीनां मण्डनाय भूषणायैव संपद्यते न दाहाय । कीदृशं तत् । नियतोद्देशलब्धावकाशम् । नियतः परिमितः स चासावुद्देशश्च तस्मिँल्लब्धोऽवकाशो येन तत् । नियतोद्देशवर्ति यत्कर्णादौ न्यस्तं तमेव द्योतयतीत्यर्थः । वह्नेः पावकस्य तेजो दार्वादि काष्ठादि दग्धुं भस्मीकर्तुं प्रभवति न मण्डनाय । इन्दोश्चन्द्रस्यानन्दमाह्लादं कर्तुं प्रभवति न मण्डनाय । कीदृशं तत् । निजजडिमतया सहजशीतलत्वेनोपलक्षितम् । अर्कतेज एकमेव तु त्रैलोक्यस्य भूषाविधिर्जगदलंकारक्रिया । अघदहनं पापापनोदि । ह्लादि वृष्ट्या कृत्वा आशु आनन्दकारि । तथा हि -- 'आदित्याजायते वृष्टि:' । एकस्यैवार्कतेजसो मण्डनाद्यनेकक्रियाकारित्वम् । अत एवाह -- बाहुल्योत्पाद्यकार्येति ॥
अर्कजन्मा भानुप्रभवः प्राक्प्रतापो नवप्रतापो वो युष्माकमश्रियमलक्ष्मीमपहरताद्व्यपनयतु । किं कुर्वन् । जगद्भुवनमुत्थापयन् । किंभूतम् । कालव्यालावलीढम् । व्याल इव काल: समयभुजंगस्तेनावलीढं ग्रस्तम् । क इव । अगद इव विषापहारी भेषजयोग इव । यथा कालसर्पदष्टं जगज्जन्तुचक्रमगद उत्थापयति तद्वदिति । किं कुर्वाणं जगदुत्थापयन् । स्वपत् शयानम् । किं कृत्वा । पतित्वा । कीदृशं तत् । मीलच्चक्षुः मीलन्ती चक्षुषी यस्य तत्संकुचल्लोचनम् । एवं विजिह्मश्रुति । योऽहिना दष्टः सोऽपि मीलच्चक्षुविजिमश्रुतिश्च भवति । जडा विजिह्मा मन्दा रसना रसनेन्द्रियं यस्य तज्जडरसनं अपटु श्रवणेन्द्रियं यस्य तत्तथोक्तम् । मूकजिह्वम् । निघ्नितघ्राणवृत्ति निनितावसादं याता घ्रा-णस्य नासिकाया वृत्तिर्यस्य तत् । स्वविषयगन्धोपलब्धिलक्षणवृत्तिर्निघ्निता यस्य । किं च, स्वव्यापाराक्षमत्वक् स्वव्यापारः स्पर्शपरिच्छित्तिस्तत्राक्षमा त्वग्यस्य तदेवमुक्तम् । परिमुषितमनः परिप्लुषितमनस्कं व्यपहतचित्तम् । इन्द्रियाणि मनोऽधिष्ठितानि । श्वासमात्रावशेषं श्वासैकयोगि । एतेन बुद्धीन्द्रियाणां विषयेऽपाटवत्वमुक्तम् । कर्मेन्द्रियाणां
तु स्वव्यापाराक्षमत्वं दर्शितम् । विस्त्रताङ्गमिति । अगदस्यापि सर्वमेतदस्ति । अगदपक्षे काल इव व्याल: मृत्युहेतुत्वादिति योज्यम् ॥
ब्रघ्नस्यार्चिप्रचारो रश्मिप्रसरो युष्मद्विरुद्धं भवदहितं वध्याद्धन्तु । प्राक्तनः पूर्वकालीयः । कीदृशोऽसौ । सिद्धाञ्जनविधिः सिद्धमव्यभिचरितं च तदञ्जनं च तस्य विधिरिव विधातेव । अपरोऽन्यः । स एव विशेष्यते –- किंभूतः । दाता दृष्टिम् । दातेति ताच्छील्यात्तृच् । अत एव दृष्टिमिति द्वितीया । किंभूताम् । प्रसन्नाम् । (साधु ददातीति दाता । तृन् ।) किं कुर्वन् । अपनुदन् । किम् । नैशमम्भोऽवश्यायजलम् । निःशेषं समस्तम् । प्रसभं प्रकाशम् । कीदृशं तत् । अश्रुलेशानुकारि नयनजलकल्पम् । सिद्धाञ्जनविधिरप्यश्रु व्यपनयति । पुनरपि कीदृशः । स्तोकस्तोकापनीतारुणरुचिः स्तोकस्तोकेन लेशेनापनीता उत्सृष्टा अरुणरुचिर्लोहितद्युतिः (येन) । किंचिदुज्झितबालभावत्वात्स एवमुक्तः । अथवा स्तोकस्तोकं लेशेनापनीताभिभूता अरुणस्य सारथेरनूरो रुचिर्येन । तथा इतरोऽपि लोचनानां शनैःशनैररुणतामपहरति । अचिरात्संक्षेपात् । अस्तदोषानुषङ्गस्त्यक्तरात्रिसंपर्क: । इतरोऽपि निर्धूतकामलादिदोषसंसर्गः । आशु शीघ्रं वध्यादित्यनेन संबन्धनीयम् ॥
वैभाकरी सावित्री सा विभा कान्तिर्वो युष्माकं विभवोद्भूतयेऽर्थसंपत्त्यै विभवतु विभुर्भवतु । किं कुर्वती । भ्राजमाना शोभमाना । विभ्रान्ति । क्रियाविशेषणमेतत् । किं कुर्वाणा । बभ्रुभावं कपिलिमानं बिभ्राणा धारयन्ती । किं कृत्वा । परिभूतेः प्रारम्भभूमिर्भूत्वा संपद्य । शुभ्रभानोर्वलक्षगोः । क्व । ककुभि दिशि । कस्य । जम्भस्य भेत्तुर्जम्भासुरारेरिन्द्रस्य । कथम् । प्रसभं प्रकटम् । किं च । अभिनवाम्भोजजृम्भाप्रगल्भा प्रत्यग्रपङ्केरुहप्रबोधविदग्धा । या भूषा अलंकृतिः । भूयिष्ठशोभा बाहुल्येन । त्रिभुवनभवनस्य त्रिलोकीवेश्मनः । अस्य एतस्येति प्रत्यक्षेण निर्दिशति । यथा कोऽपि बलिनः पक्षे स्थित्वा स्वप्रतिपक्षं हत्वा स्वगृहं समृद्ध्या भूषयति तद्वदत्र बोद्धव्यम् ॥
अर्कालोको भास्वत्प्रतापो मुदं हर्षे वो युष्माकं क्रियात् । कीदृशः । अहःपादपप्राक्प्ररोहः । अहःपादपो दिवसतरुस्तस्य प्राक्प्ररोहः प्रथमाङ्कुरः । किं कुर्वन् । उद्यन्नुद्गच्छन् । उदयशिरश्चक्रवालालवालात् । उदेत्यस्मिन्नित्युदय उदयाचलस्तस्य शिरांसि शृङ्गाणि तेषां चक्रवालं मण्डलं तदेवालवालं जलाधारस्थानं तस्मात् । किंभूतात् । सिक्तमूलात् । कथम् । संसक्तमनवरतम् । कया । यामिन्या रात्र्या । किंभूतया । अभिनवेति । उद्यानमिव भुवनं भवनोद्यानं तस्मिन्कौतूहलं विद्यते यस्याः सा तद्वती तया । कयेव । कन्ययेव कुमार्येव । कुमारीणां किलैष धर्म इति । केन । अमृतेन सुधया । तुषारेणेति परमार्थः । किंभूतेन । अमृतकरकलशावर्जितेन । अमृतकर ओषधीशः स एव कलशस्तेनावर्जितं क्षिप्तं तेन सिक्तमूलात् । अन्यत्रामृतेन जलेन करकलशावर्जितेन । पुनरपि कीदृशः । बालप्रवालप्रतिमरुचिर्नवकिसलयसमानकान्तिः । प्ररोहोऽपि नवविद्रुमसमो भवति ॥
अर्कावभासः सूर्यालोको भवदघप्लुष्टये युष्मत्पापभस्मीकरणाय स्ताद्भवतु । क इव । अपूर्वोऽन्यः पूर्वोपि प्राक्तनोऽप्यौर्वोऽग्निरिव वडवानल इव । किं कुर्वन् । ध्वान्तराशिं तिमिरपुञ्जं पिबन्ग्रसन् । कमिव । उदधिमिव समुद्रमिव । ध्वान्तिराशिसमुद्रयोस्तुल्यतां दर्शयति -- क्वचितप्रदेशेऽरुणस्यानूरोर्भासा दीत्याभिनवया प्रत्यग्रया भिन्नं विशेषितम् । कयेव । विद्रुमाणां त्विषा रुचेव । यथोदधिरपि विद्रुमाणां प्रवालानां त्विषा भिन्नो भवति । क्वचित्प्रदेशे । पुनरपि किंभूतम् । त्वङ्गन्ति कम्पन्ते रत्नानीव यानि नक्षत्राणि तेषां युतिस्तस्या निकरस्तेन करालं विषमोन्नतमन्तरालं मध्यं यस्य स तथोक्तस्तम् । समुद्रोऽपि त्वङ्गन्ती या नक्षत्रकल्परत्नद्युतिस्तस्या निकरेण करालान्तरालो भवति । पुनरपि किंभूतम् । नान्तर्नि:शेषकृष्णश्रियम् । अन्तर्मध्ये नि:शेषावशेषस(र)हिता कृष्णश्रीः कृष्णशोभा यस्य सोऽन्तर्नि:शेषकृष्णश्रीस्तन्न, अपि तु कृष्णशोभायुक्तमेव । अन्यत्र शेषः फणी । कृष्णो नारायणः । श्रीः पद्मा । शेषश्च कृष्णश्च श्रीश्च शेषकृष्णश्रियः । अन्तर्मध्ये निर्गताः शेषकृष्णश्रियो यस्मादुदधेः सोऽन्तर्नि:शेषकृष्णश्रीस्तन्न, अपि त्वन्तःशेषकृष्णश्रीयुक्तमेव ॥
दिवसकृत आदित्यस्योद्द्योतोऽवभासो वो युष्माकमवद्यानि पापानि यतु खण्डयतु । असावयम् । किंविशिष्टः । योतितद्यौः प्रकाशितान्तरिक्षः । पुनः किंभूतः । अभिनुतः । कैः। गन्धर्वैर्देवविशेषैः । कथम् । गद्यपद्यव्यतिकरितवचोहृद्यम् । अपादपदसंतानं गद्यम् । नियतपादपरिमाणं पद्यम् । गद्यं च पद्यं च गद्यपद्ये ताभ्यां व्यतिकरितं मिश्रितं तच्च तद्वचश्च तेन हृद्यम् । मनोहरमिति यावत् । क्रियाविशेषणमेतत् । आतोद्यवाद्यैर्मनोहरमिति संबध्यते । आतोद्यानि च तानि वाद्यानि च तैरिति । आतोद्यवाद्यं चतुर्विधम् -ततं विततं (आनद्धम् ) घनं सुषिरमिति । ततं वीणादिकम् । विततं (घनं) कांस्यतालादिकम् । घनं (आन) मुरजादिकम् । सुषिरं वंशादिकम् । गन्धर्वैरेव किम् । न । मुनिभिश्च नारदाद्यैर्नारदप्रमुखैः । आद्यैरादिभूतैः । वेदेषु वेद्या यथा तैः । विभिद्य विभागीकृत्य । यमासाद्य जगद्यौवनमापद्यते प्राप्यते । पुनरपि भूयोऽपि । सद्यस्तत्क्षणम् । उद्यन्नुद्गच्छन् । यौवनमिति मनोज्ञत्वं लक्षयति । यथा यौवने सर्वोऽपि भावो मनोहरो भवति । तथा यमप्यासाद्य मनोहरो भवतीति यौवनमित्युक्तम् ॥
अहिमांशोश्चण्डार्चिष आभा कान्तिर्वो युष्मानवतु । कीदृशी । प्राभातिकी औषसी । किं क्रियमाणा । उत्प्रेक्ष्यमाणानुमीयमाना । न तु नैव नितरां स्पष्टमाविर्भवन्ती प्रकटीभवन्ती । तावदिति ततोऽनन्तरमाविर्भवन्तीति संबध्यते । कीदृशस्य । क्षणं क्षणमात्रमुदयतटीव्यवहितस्य । कैरनुमीयमाना । चन्द्रकान्तैर्मणिभिः । आवानैः शुष्यद्भिः । ते हिमकरस्पृष्टास्तोयं स्यन्दन्ते चन्द्रालोकाभावाच्छुष्यन्ति । अपि च तारकाणामुडूनां तानवात्तनुत्वात् । कुतस्तानवम् । च्युततिमिरतया गलितध्वान्ततया । ओषधीनां लयेन विलीनतया । कीदृशाम् । उपहतमहसां नष्टतेजसाम् । कुत उपहतमहस इत्याह--एणाङ्कालोकलोपाच्चन्द्रोद्द्योतपरिमोषात । ओषधयोऽपि चन्द्रमसि विलुप्तभासि विच्छाया भवन्ति । आरादित्यवाग्भाग इति योज्यम् ॥
सा दिनपतेरर्कस्य भा दीप्तिर्वो युष्मभ्यमभावोपशान्तिमभाग्योपशमं दिशतु यच्छतु । किं कुर्वती । भासमाना द्योतमाना । यस्याः समसमयमेककालं राजीवरेणोः पद्मपरागस्य राजी पङ्क्तिरुदेत्युद्गच्छति । वयस्येव सखीव या [^२]समाना तुल्या । या वनानां काननानामालीं पङ्क्ति न न [^३]आलीढपूर्वा, अपि त्वालीढपूर्वेव । द्वौ नञौ प्रकृतार्थं गमयतः । कीदृशानां वनानाम् । अरुणितदलपुनर्यौवनानाम् । अरुणितान्यरुणीकृतानि तानि दलानि च तैः पुनर्यौवनं येषां तानि तथोक्तानि । सानौ भूधरभूमौ । कीदृशि । औदये उदयस्यायमौदयस्तत्र । कीदृशी सा । परिहृतकुहरोपान्तनिम्ना । कुहराणामुपान्तानि कुहरोपान्तानि तानि च निम्नानि च परिहृतानि कुहरोपान्तनिम्नानि रन्ध्रप्रान्तागाधानि यया सा परिहृतकुहरोपान्तनिम्ना । तनिम्ना तानवेन हेतुना ॥
विभा दीप्तिः इनस्येयमैनी सावित्री एनांसि पापानि वो युष्माकं नुदतु विघटयतु । नुतिपदैकास्पदं स्तुतिपदैकप्रतिष्ठा । प्राक्तनी प्राभातिकी । या पयसां जलानां श्रिये लक्ष्म्यै प्रभवति विभुर्भवति नोष्णतायै औष्ण्याय । कीदृशानाम् । उज्जृम्भाम्भोरुहाणामुज्जृम्भानि विकसितान्यम्भोरुहाणि येषु पयःसु तानि तेषां विकचकुशेशयानाम् । किं च, दृशामालोकमात्रं पुष्णाति न तु दृश्यमानोपलभ्यमाना विघातं व्यथां दिशति यच्छति । या पूर्वं प्रथममुदयाद्रेरेवोदयाचलस्यैव पावनी पवित्रयित्री । तदनु द्यां दिवं लक्षीकृत्य पावनी भवति । पुनरपि दिङ्मुखानामाशास्यानाम् । एतदुक्तं भवति –- पुनरपि (पूर्वं) उदयाचले तदनु दिवि तदनन्तरमाशामुखेषु भवति ॥
चण्डाचिषस्तिग्मभासो वर्चस्तेजो वो [^४]युष्माकमुपचिनुतादुपचयं करोतु । चिरं चिरकालम् । चकासद्दीप्यमानम् । प्राच्यं प्राचीभवम् । यस्यैवंविधं चरितमनुष्ठानमर्चासु प्रतिमासु स्तुतिषु उच्चैरत्यर्थं विविच्य विभिद्य नोच्येत नाभिधातुं शक्येत । अपर्यन्ततामनेन दर्शयति । कीदृशं तत् । वाच्यच्युतिशुचि वाच्यमवद्यं तस्य च्युतिस्तद्रहितता तया शुचि विशुद्धम् । कैर्नोच्येत । प्रपञ्चैर्विस्तारैः । कासाम् । वाचां गिराम् । कस्य वाचस्पतेरपि । किं पुनरस्मादृशाम् । कीदृशां वाचाम् । अचलभिदिन्द्रस्तस्योचितं योग्यमाचार्यकमाचार्यत्वं यासां तास्तथोक्तास्तासाम् । किं च, वैरञ्चानां विरञ्चसंबन्धिनां चतुर्णामाननानां वाचां प्रपञ्चैरिति योज्यम् । कीदृशाम् । उच्चारितचतुरऋचाम् । उच्चारिताश्चतुरा अघविघातपटव ऋचो यैस्तानि तथोक्तानि तेषामिति ॥
खरांशोस्तीक्ष्णतेजसः प्रकाश: शोभैकदेश: शोभैकास्पदं वो युष्मभ्यं शर्म सुखं दिशतु यच्छतु । यो जायते धातुराग इव परार्थे शोणिम्ना हेतुना । प्रत्येकं संबन्धनीयम् । उषसि प्रातः । मूर्ध्नि शिरसि । कस्य । अद्रेः । युज्यमानशब्दो वतिमन्तरेणापि वत्यर्थं गमयति । यथा सिंह: सिंह इत्याह । सिंहवदिति गम्यते । एवं सर्वत्र द्रष्टव्यम् । किं च, किसलयः पल्लववत्तरुषु शाखिषु । किसलय इति पुंलिङ्गनिर्देश: । न पुनर्लिङ्गमशिष्यं लोकाश्रयत्वादिति । यथा पल्लवशब्दस्य पुंलिङ्गस्यापि लोकाश्रयं नपुंसकत्वं दृश्यते यथा (तथा) किसलयस्य नपुंसकस्यापि पुंस्त्वमिति नोच्यते । शोमैकदेश: सामानाघिकरण्यात्पुंलिङ्गता । आविष्टलिङ्गत्वात् । अन्यथा आवथनमियमुष्ट्रिका (?) कुलहेतुर्धनमिति स्त्रीत्वनपुंसकत्वसामानाधिकरण्येनावथनहेत्वोः स्त्रीनपुंसकता स्यात् । यैस्तु किसलयमिति नपुंसकमेवाभिधीयते तेषां नेदं नोद्यम् । समुद्रे वारिधौ विद्रुमौघः । दिङ्मातङ्गोत्तमाङ्गेषु दिग्वारणशिरः स्वभिनवनिहितः प्रत्यग्रस्थापित: सान्द्रसिन्दूररेणुर्बहुल-
सिन्दूररेणुः । व्योम्नो गगनस्य सीनि मर्यादायामलंकारायोज्ज्वलरूपकर्तृभूतत्वात्सुरशिखरिभुवो मेरुसंभवस्य हेम्नः कनकस्य प्रकाशः ॥
तीक्ष्णभानोर्लक्ष्मीः श्रीः श्रेयसे पुष्टयेऽभ्युदयायास्तु भवतु । केव । लक्ष्मीरिव पद्मेव । स्फुटकमलपुटापाश्रया विकसिताम्भोरुहपुटाधिवासा । किं कुर्वती । उद्यन्ती उद्गच्छन्ती । कस्याम् । पुरस्तात्पूर्वस्यां दिशि । कस्मिन्नवसरे । अस्ताद्रीशोत्तमाङ्गे अस्ताद्रिरेवेशो महादेवस्तस्योत्तमाङ्गे अस्ताचलेशशिरसि श्रितशशिन्यधिरूढचन्द्रमसि । इतरेऽपीशोत्तमाङ्गे परमेश्वरमूर्धनि इन्दुयुजि । तमःकालकूटे निपीते ग्रस्ते कालकूट इव तमस्तत्र निपीते ग्रस्ते । अन्यत्र तम इव कालकूटो मोहात्मकत्वात् । तत्र शंभुना पीते सति । अस्ताद्रिरिवेशः । किं च, याति गच्छति सति । व्यक्तिं प्रकटताम् । प्रत्युष:पारिजाते । किंविशिष्टे । अरुणकिसलयेऽनुरुप्रवाले । अन्यत्र पारिजाततरावरुणपल्लव इति योज्यम् । किंभूता । आरक्तपीताम्बरविशदतरोद्वीक्षिता ईषद्रक्तपीतभावभाजि संध्यया नभसि स्फुटतरं दृष्टा । इतरापि आरक्तोऽनुरक्तः पीताम्बरो विष्णुस्तेन व्यक्तं विलोकिता ॥
सा श्रीर्लक्ष्मीः श्रेयांसि वो युष्मभ्यं दिश्याद्देयात् । अशिशिरमहस उष्णरश्मेर्मण्डलाग्रोद्गता मण्डलप्रान्तसमुत्थिता । कीदृशी । तेजोरूपा महःस्वभावा । अपरैवान्यैव । प्रसिद्धश्रीविलक्षणेत्यर्थः । तदेव वैलक्षण्यं दर्शयति-- यस्या जन्मभूमिर्नोदन्वान्समुद्रो नोत्पत्तिस्थानम् । कौस्तुभाद्या न बान्धवा यस्याः । तदुदरभुव उदन्वदुदरजन्मनः । यस्याः पद्मं न पाणौ कमलं हस्ते न । न च यस्या नरकरिपूरःस्थली वासवेश्म । नरको
भौमासुरस्तस्य रिपुर्नारायणस्तस्योरःस्थली सैव वासवेश्म वासगृहमिति । त्रिषु भुवनतलेषु त्रैलोक्ये । आदधाना कुर्वती । व्यवस्थां व्यवस्थानम् । इतरा अनवस्थानेति व्यतिरेकः ॥ इति द्युतिवर्णनव्याख्यानम् ॥
ते पातङ्गाः सावित्रा वाजिनस्तुरङ्गा जगन्ति भुवनानि रक्षन्तु पान्तु । किं कुर्वन्तः । उत्पतन्तः । कथम् । अक्षुण्णहेमोपलपटलम् । अक्षुण्णमचूर्णितं हेमोपलपटलं सुवर्णाश्मजालं यत्रोत्पतने । खुरैर्व्योम स्पृशन्त इति भावः । कुतः । लाघवाल्लघुभावात् । अलम. त्यर्थम् । मेराविति वक्ष्यति । तत्रोत्पतन्त इत्यस्य संबन्ध: । कीदृशास्ते । [^१]पङ्ग्वज्ञयाजितपवनजवा: । पङ्ग्वज्ञया जितः पवनजवो वायुवेगो यैस्ते । वायुः किल चरणरहितस्तस्य कियान्वेगो भविष्यतीत्यवज्ञा । येषां मार्गे वर्त्म आख्याति सूचयति । कः कर्ता । द्युमणिमणिशिलावेदिकाजातवेदाः । दिवो मणिर्द्युमणिरादित्यः । मणिरिव मणिः । अलंकारभूतत्वात् । तस्य मणयः सूर्यकान्तास्तेषां वेदिकाश्चतुष्कास्तासु जातवेदा आशुशुक्षणिः । 'जातका जातवेदाः' इति पाठान्तरे जातकाशब्दो वेदिकापर्यायः । किं कुर्वन् । उद्यन्नुद्गच्छन् । उद्दामदीप्तिः प्राज्यप्रकाशः । किं कुर्वतां वाहानाम् । वहतां गच्छताम् । क्व । मेरौ पूर्वाचले । वीतान्यचिह्नोन्नयमपि मार्गे विगतापरलिङ्ग इत्यह(?)मपि । अपिशब्दश्चिह्नान्तराभावेऽपि मार्गप्रख्यापनसामर्थ्ये जातवेदसो दर्शयति ॥
सप्तसप्तेः सप्ततुरगस्य सप्तयोऽश्वा अहितविहतये दुरितविनाशाय वो युष्माकं त्वरन्तामुत्सहन्ताम् । किंभूताः । तीव्रोदन्या उदग्रपिपासाः । उदन्याया हेतुं दर्शयति-प्लुष्टा दग्धाः पृष्ठे । कैः । अंशुपातै रश्मिप्रसरैः । अतिनिकटतया प्रत्यासन्नत्वेन । कथंभूतैः। दत्तदाहातिरेकैर्वितीर्णतापाधिक्यैः । कीदृशास्ते । एकाहेति । एकं च तदहश्चैका -
हस्तेनाक्रान्त एकाहाक्रान्तः । कृत्स्त्रश्चासौ त्रिविदपथश्च कृत्स्नत्रिदिवपथः । एकाहाऋान्तश्चासौ कृत्स्नत्रिदिवपथश्चेति समासः । तेन पृथुः श्वासो येषां त एवमुक्ताः । श्र मेण हेतुना । पुनरपि किंभूताः । अभ्याशे समीपे आकाशगङ्गा तस्या जलं तस्मिन्सरलगलानि अवाङ्नताप्राणि आननानि येषां ते तथोक्ताः । समीपमन्दाकिनीसलिलऋजुकंधराधोगतकोटिमुखाः ॥
ब्रनवाहावलिः सूर्याश्वपङ्क्तिर्वो युष्मानवतु पातु । कीदृशी । क्लिष्टसूता कदर्थितसारथिः । क्व । मेरोर्मूर्धनि देवाचलशिरसि । तदेव दर्श्यते । द्रवन्ती गच्छन्ती । कीदृशी सती -- स्फटिकतटदृषदृृष्टदेहा । स्फटिकस्य तटास्तेषु दृषदस्तासु दृष्टो देहः प्रतिबिम्बितो यया सा तथोक्ता । किं कृत्वा । मत्वावगम्य । पार्श्वतः पार्श्वयोः । अन्यानश्वानपरान्वाजिनः । स्वां छायामेव स्फटिकतटदृषत्क्रान्तामपरानश्वान्बुद्द्वावधार्य द्रवन्ती धावन्तीत्यर्थः । शैलीयं वाजिनां यदन्यमश्वं दृष्ट्वा धावन्ति । किं च पद्मरागोपलेषु पद्मरागमणिषु मृदुपदा मन्दपदविक्षेपा । किं च, व्यस्तेऽहनि विगतवासरे अस्तसंधेयमिति भ्रान्त्या । भ्रान्तिहेतुरक्ततादिनास्तसंध्यायामध्वा किल विच्छिन्न इति मृदुपदताहेतुः । अपि च, मरकतकटके मरकतमेखलायां सादृश्येनादृश्या मूर्तिर्यस्याः सैवमुक्ता । सा हरिता मरकतकटकश्च हरितस्ततो विभ्रम: स्यात् किं मरकत उताश्वालीति । अदृश्यानवधारिता मूर्तिर्यस्या इत्यर्थः । कीदृशी । आवृत्तिलवब्धध्रुवगतिः । आवृत्त्यावर्तनेन लब्धा ध्रुवा अचपला गतिर्यया सा तथोक्ता ॥
अश्वपकिस्तुरगावली वो युष्माकमश्रेयांसि पापानि शमयतु । किंभूता । तापनी सावित्री । किं च यमुनेव कालिन्दी यथा । अश्वपङ्क्तिकालिन्द्योः साम्यमभिधोयते-किं कुर्वती । वहन्ती गच्छन्ती । कथम् । हेलालोलं विलासचञ्चलमनायासचञ्चलं वा । किंभूताश्वपङ्क्तिः । अवकृष्टा संयमिता । केन । विषधरदमनस्याग्रजेन गरुत्मतो ज्येष्ठेनारुणेन । पुनः किंभूता । स्वर्वाहिन्या गङ्गाया जनितजवजया कृतवेगाभिभवा । स्यन्दनस्य
रथस्य स्यदेन वेगेन । कथम् । सुदूरमतीव । निजस्फीतफेनाहितश्रीः स्वकीयोपचितडिण्डीरकृतशोभा । कस्मिन्सति । तायमाने विस्तारं याति सति । हरितिमनि हरितगुणे । कथम् । निर्व्याजं निरुपधि । यमुनाप्युच्छाचल(?)चञ्चलं वहन्ती विषधरदमनस्य श्रीकृष्णस्याग्रजेन पूर्वजेन बलेनावकृष्टा वृन्दावनं प्रति नीता । पार्श्ववाहिन्या गङ्गाया जवं जयति । स्यन्दनस्य पर्वतादेः क्षरणस्य प्रस्रवणस्य स्यदेन रयेण हरितत्वेन (?) प्रसृतनिजफेनेनाहितशोभा भवति । तापनी तपनस्येयं तापनीति कृत्वा अपरा द्वितीयेति योज्यम् ॥
असमहरेर्विषमाश्वस्य रवेर्वाहानां वाजिनां हेषितं शब्दायितं सममेककालं युष्माकं कल्मषाणि पापानि व्यस्यताद्व्यपनयतु । किं कुर्वताम् । वहतां गच्छताम् । कथम् । ईषज्जडगति किंचिन्मन्दगति । प्रायेण सूतो नोत्तेजयति तन्न । सूतेऽरुणेऽसूयत्यपि सारथौ कुप्यत्यपि । कैरुपलक्षितानाम् । कंधरार्धैः । किं कुर्वद्भिः । वलद्भिः परिवर्तमानैः । किं कृत्वा । वीक्ष्य दृष्ट्वा । कानि । मुखानि । कासाम् । किंनरीणामश्वमुखीनाम् । कीदृशीनाम् । व्रीडानतानां व्रीडावतीनाम् । भानुदर्शनोत्सुकाः किंनर्यः प्रतिकुहरमुखेषु तिष्ठन्ति । कस्मिन्नवसरे। नाकधाम्नां देवानां निकाये व्राते नुवति स्तुवाने सति । किंभूते । कृतनुतौ विहितप्रणामे । क्व। मार्गोपान्तेऽध्वसमीपे । कस्य । सुमेरोर्देवाचलस्य ॥
अर्कवाहा रवितुरगाः क्षेमं कल्याणं वो युष्माकं क्रियासुः कुर्वन्तु । किंभूताः । हृद्यो हृदयप्रियः स चासौ द्रुमश्च हृद्यद्रुमः स एव हेमाद्रिस्तस्य शिखराणि तेषां शिरांसि तेषां श्रेणिः सैव शाखा तस्याः शुका इव शुकाः । किं कुर्वन्तः । व्रजन्तो गच्छन्तः । क्व । वियति खे । किं कृत्वेव । उड्डीयेव । कुतः । गतिवशागत्यनुरोधात् । पुनरपि कि कुर्वन्तः । धुन्वन्तः कम्पयन्तः । काः । नीरदालीर्मेघपङ्क्तीः । क्व । पार्श्वयोः । कीदृशीः । निजरुचिहरिताः स्वकीयद्युतिहरितगुणयुक्ताः । पक्षतुल्याः । शुका अपि सहजहरितवपुषः पक्षान्धूनयन्ति
उड्डीय व्रजन्ति च । अपि च, अर्काश्वाः, खचितमुखरुचो रचितमुखशोभाः । केन । लोहितेन शोणितेन । किं कुर्वता । श्रोतता क्षरता । कैर्हेतुभिः । खलोनैः कविकाभिः । किंभूतैः । तालूत्तानैः । तालूषूत्तानानि तालत्तानानि तानि हि यदा भवन्ति । तदा क्षतं कुर्वन्ति । ततोऽसृक् स्रवति । स्वभावोक्तिरियम् । शुकास्तु स्वभावाल्लोहिततुण्डा भवन्ति ॥ इत्यश्ववर्णनव्याख्यानम् ॥
सूर्यसूतो रविसारथिर्वो युष्मानव्याद्रक्षतु । किं कुर्वन् । प्रस्तावयन्प्रारभमाणः । काम् । जगदटनमहानाटिकाम् । जगतामटनं भ्रमणं तदेव महानाटिका ताम् । क्व । प्रातःशैलाग्ररङ्गे । प्रातःशैल उदयाचलस्तस्याग्रं तदेव रङ्गो नर्तनभूमिस्तत्र । कीदृशः सः । रजनिजवनिकापायसंलक्ष्यलक्ष्मीः । रजनी रात्रिः सैव जवनिका प्रतिसीरा तस्यां अपायस्तेन संलक्ष्योपलक्ष्या लक्ष्मीः श्रीर्यस्यारुणस्य स तथोक्तः । किं कृत्वा । विक्षिप्य विकीर्य । कम् । उडुनिकरं तारकासंघम् । किंभूतम् । अपूर्वपुष्पाञ्जलिम् । किंभूतः । सूत्रधारायमाण: सूत्रधार इवाचरन् । सूत्रधारोऽपि नाटिकां रङ्गे प्रस्तावयति । जवनिकापगमदृश्यलक्ष्मीर्भवति । उडुनिकरतुल्यां पुष्पाञ्जलिं विकिरति । किंभूतां ताम्। जातप्रतिष्ठामुत्पन्नस्थितिम् । क्व । अह्नो यामेषु प्रहरेषु । कियत्सु । चतुर्ष्वेव । अङ्केष्विव । नाटिकापि चतुरङ्का भवति । किंभूतेषु । कृतरुचिषु विहितदीप्तिषु । अन्यत्र कृतशोभेषु ॥
नूतनो नवोऽनूरुररुणो भवदघनुदे युष्मत्पापविनाशाय स्ताद्भवतात् । कीदृशः । स्थाम्नां स्थिराणां धाम्नां तेजसां निधिर्निधानम् । नेत्रश्रुतीनां सर्पाणां शत्रुं गरुत्मन्तमवजयत्यभिभवति । प्रायेण सामर्थ्यं किमनयोर्नास्तीत्याह –- वयोज्येष्ठभावे समेऽपि सति । एकत्र वयसा कालकृतशरीरावस्थया ज्येष्ठोऽधिकः । अन्यत्र वयसां पक्षिणां ज्येष्ठ: प्रधानं तद्भावे समेऽपि तुल्येऽपीति शब्दच्छलमेतत् । अत्र जयमेव दर्शयति-किंभूतं नेत्रश्रुतिशत्रुम् । वाह्यमानं वाहनीक्रियमाणम् । हरिणा विष्णुना । आक्रान्त्या
विक्रमेण बलात्कारेण । पशुमिव अश्वादिर्यथा । असावपि कदाचिदेवंभूतः स्यादित्याह-वाहको वाहयिता । अग्र्यः प्रधानम् । केषाम् । हरीणां वाजिनाम् । हरिशब्दसाम्येनावजयं दर्शयति –- एक एकेन हरिणा वाह्यते । अपरस्तु बहून्हरीन्वाहयति । किं च भ्राम्यन्तं पर्यटन्तम् । जगति लोके । कस्मात् । पक्षपातात्पक्षविक्षेपात्पतनाद्धूननाद्वा । अयं तु जगति समरुचिस्तुल्यानुरागः पक्षपातरहितः । सर्वकर्मैकसाक्षी सर्वेषां कर्मणामेकः साक्षी द्रष्टा । पक्षपातादिति शब्दच्छलेनावजयं दर्शयति--पक्षपातो हि राग उच्यते । गरुडस्तु पक्षपातवान् । इतरस्तद्रहितः ॥
दशशतरुचेर्भानोः सूतो युष्माकं सानाथ्यं सनाथतां करोतु क्रियात् । सातिरेकं सातिशयम् । किंभूतः । यः पृष्ठेनार्कमादित्यं भजते । अग्रे काष्ठादीपनो दिगुद्द्योतनः । किं कृत्वा । प्रभात एव चन्द्रदीप्तो: पीत्वा । कीदृशी: । प्रततहिमपयःस्यन्दिनी । संततप्रसृतमिहिकाम्बुस्राविणोः । क इव । जडित इव शीतार्दित इव । भृशं सुष्टु । जडितोऽपि पृष्ठेऽर्कं निषेवते काष्ठान्यग्रे दीपयति । तथा च 'पृष्ठतोऽर्कं निषेवेत जठरेण हुताशनम्' इत्यागमविदः । पुनरपि किंभूतः । वीक्षितो दृष्टः । कैः । सिद्धार्थैः । कीदृशैः । विश्राणितार्घैः । दूरनम्रैर्भक्तिप्रह्वैः । वियत्याकाशे । विनयात्प्रश्रयात् ॥
सोऽरुणोऽनूरुर्वो युष्मांस्त्रायतां पातु । यः पूष्णा आत्मसम इव कृतः स्वतुल्य इव वि हितः । किंभूतेन । सेवाप्रीतेन आराधनतुष्टेन । किं कुर्वन् । रश्मीनश्वसंयमनरज्जून्मुञ्च ञ्शिथिलयन् । क्व । दिनादौ वासरमुखे । भगवानपि दिनादौ रश्मीन्भासो विसृजति । दिनगमसमये दिनावसाने संहरंश्च । स्वतन्त्रः स्वैरी । तथा देवोऽपि दिनावसाने । अन्यत्र तु (?) तोत्रप्रख्यातवीर्यः प्राजनकर्मणि प्रसिद्धशक्तिः । देवपक्षे [^४]स्तोत्रैर्वेदोक्तैर्मन्त्रैः प्रसिद्धं वीर्यं यस्य स तथोक्तः । पुनः कीदृशोऽरुणः । अविरतहरिपदेति । अविरता इत-
स्ततस्त्रास्ता हरयोऽश्वास्तेषां पदानि चरणन्यासास्तेषामाक्रान्तौ सत्यां बद्ध आदरो यस्यासौ । अथवा तुरगपदैराक्रान्तो बद्ध उद्यमो यस्य सः । देवपक्षे अविरतं निरन्तरं हरिपदस्याकाशस्याक्रमणे बद्धोद्यमः । अपरं किं कुर्वन् । योऽरुणो द्विजानामीश्वरे गरुड़े बलाल्लघुत्वमवरजत्वं योजयन् । समयाधिक्यात्पूर्वकालोत्पन्नत्वात् । देवपक्षे द्विजानां ब्राह्मणानामधिपतौ चन्द्रे बलाल्लघुत्वमदृश्यतां योजयन् । कालस्याधिक्यात् । दिनकर किरणोदयकालः प्रकृष्ट इति भावः । अरुणदिनकरयोः साम्याच्छब्दश्लेषोक्तिरलंकारः ॥
धामाधिपस्य सूर्यस्य वाहानामश्वानां विनेतारुणो वो युष्माकं या काचिद्विपत्तिस्तनाम व्यपनयतु विनाशयतु । किंभूतः । शातस्तीक्ष्णः । उत्प्रेक्षते –- श्यामालतायाः परशुरिव । श्यामा रात्रिः सैव लता । 'श्यामा रात्रिर्लता स्मृता' । परशुरिव कुठार इव । तच्छेदकत्वात् । अपरं किंभूतोऽरुणः । तमोरण्यवह्नेरर्चिरिव । तम एवारण्यं तमोरण्यं तत्र वह्निस्तमोरण्यवह्निस्तस्यार्चिरिव ज्वालेव । दावाग्निरित्यर्थ: । अपरं किंभूतोऽरुणः । प्राच्या पूर्वया दिशाग्रे पुरस्ताद्ग्राहा एव कुमुदानि तेषां वनं तद्ग्रहीतुं प्राक्प्रत्युषसि उदस्त उत्क्षिप्तोऽग्रहस्तो हस्ताग्रं इव । यथा हस्ताग्रेणानायासेनैव कुमुदानि गृह्यन्ते एवमयं ग्रहान्गृह्णाति । अपरं क इव । आकाशघरित्र्योरैक्यमेकीभावं भिन्दन्नपनयन्सन्नवधिरिव मर्यादेव । अपरं किंभूतोऽरुण: । विश्वं जगत्तस्य प्रबोधं विधाता । क इव । प्रजापतिरिव । यथा विधाता विश्वं प्रसुप्तमव्यक्तैकरूपं प्रबोधयति, एवमयं सुप्तं प्रबोधयति ॥
सौरस्य सूर्यसंबन्धिनः स्यन्दनस्य रथस्याग्रे स विनतानन्दनोऽरुणो वो युष्माकं सुखं वितरतु । किंभूतः । पौरस्त्यः पूर्वदिग्भवस्तोयदर्तोः प्रावृट्कालस्याग्रे पवन इव । यथैव प्रावृषोऽग्रे पौरस्त्यो वायुरुपलभ्यमानो वर्षा: सूचयंस्तत्कालोपस्थितेषु कृष्यादिकार्येषु लोकान्व्यापारयति एवमयमपि स्यन्दनस्यात्रे उपलभ्यमानः सौरं रथं सूचयंस्तत्कालभाविषु ग्रामनगरादिकार्येषु लोकान्व्यापारयति । अपरं किंभूतः । पतंश्चासौ
पावकश्च पतत्पावकस्तस्याग्रे धूम इव । यथा अरण्यां मथ्यमानायामग्रे प्रथमं धूम उपलभ्यमानो वैश्वानरस्य पतनं सूचयति । दर्शपौर्णमासादिना यजमानं प्रवर्तयन् । अनुदिते सूर्ये तेषामप्रवृत्तिरित्यतोऽयं धूम इव भवतोति भावः । विश्वस्येवादिसर्गस्त्रैलोक्यस्य प्रथमा सृष्टिरिव प्रधानान्महान्महतोऽहंकार इत्यादिलक्षणा पञ्चभूतात्मिका । आदिग्रहणेनावान्तरप्रलयसर्गान्व्यवच्छिनत्ति । यथादिसर्गो विश्वस्याविर्भावकारणतामुपगच्छंल्लोकानां स्वस्वपुरुषार्थेष्वपवर्गपर्यन्तेषु प्रवर्तमानानां हेतुतामुपयाति एवमयमप्यग्रे व्यवस्थितः सौरस्य रथस्याविर्भावविज्ञानं प्रति कारणभावमुपगच्छन्समयाध्युषितत्वमुपलक्ष्यते । तस्यामेव वेलायां तेषां होमः प्रवर्तते नानुदिते ॥ (नृत्योत्सवे) आदिसर्ग इवासौ भवतीति भावः प्रणव इव परं पावनो वेदराशेरिति वेदचतुष्टयस्याग्रे व्यवस्थितः प्रणव इवौंकार इव । परमुत्कृष्ट: । पावनः सकलकल्मषक्षयकारी । स हि वेदानामग्र एवोच्चार्यते । स च जपस्मरणोच्चारणद्वारेण पुरुषं पुनाति । एवमनूरुरपि सौरस्य रथस्याग्रे व्यवस्थितः । स्नानदानजपहोमादिप्रवृत्तिद्वारेण पुरुषं पुनात्येव । एवमस्मिन्ननुदिते स्नानादेरसंभवात् । अतोऽसौ प्रणव इव भवतीत्यभिप्रायः । संध्यानृत्योत्सवोच्छोरित्यादि । संध्यायां नृत्यं तदेवोत्सवस्तमिच्छतीति संध्यानृत्योत्सवेच्छुस्तस्य मदनरिपोः श्रीमहादेवस्याग्रे नन्दिनान्दीनिनादः अग्रे प्रथममुपजायमानः । नृत्याभिलाषिणि (शिवे) गणेन नन्दिना नन्दिकेश्वरेण कृतो नान्द्या मुरजविशेषेण नादः शब्दः । नन्दिनान्दीनिनाद इवासौ भवतीति भावः ॥
काद्रवेयद्विषो गरुडस्य गुरुर्ज्येष्ठो भ्रातारुणो वो युष्माकमेनांसि पापान्यह्नाय झटिति दूरं गमयतु । स क इत्याह –- योऽरुण: कुलक्ष्माभृदीशस्य कुलपर्वतेश्वरस्य मेरो: सोत्कर्षां सातिशयिनीं विभूषां कुरुत इव । कथम् । पर्याप्तं प्रभूतम् । यः पद्मरागायमाणः । क्व । तप्तचामीकरकटकतटे । तप्तं यच्चामीकरमिति तप्तग्रहणेनोज्ज्वलतां दर्शयति । तथा श्लिष्टः संलग्नः शीतेतरांशुरादित्यो यस्मिन्स तथाभूतस्तीस्मन् । पुनः किंभूते । आसीदन्तो ढौकमानाः स्यन्दनाश्वास्तेषामनुकृति: प्रतिबिम्बं तदेव मरकतं यस्मिंस्तत्तथोक्तमित्येके । इतरे तु आसीदन्त ईषदवसादं गच्छन्तो ये स्यन्दनाश्वास्तैरनुकृतं मरकतं यस्मिन् । तप्तचामीकरकटकतटे सौवर्णपाषाणे रथस्य प्रज्वलनात् (प्रतिफलनात्) । यथा कस्यचित्कुलक्ष्माभृदीशस्य कुलेनैव ये क्ष्माभृतो राजानस्तेषामीशस्य राज्ञः सौवर्ण उपर्युपरि निबद्धमरकतपद्मरागाभरणविशेषो भूषां कुरुत एवमस्यापि ॥
दिवसपतेः श्रीसूर्यस्य प्राक्प्रतीहारपालो महाप्रतीहारो वो युष्मांस्त्रायताम् । किं कुर्वन् । क्षितिभृदधिपतीन्मेरुप्रमुखान्दर्शयन् । किंभूतः । रथस्य प्रष्ठोऽग्रगामी । तथा वेत्रकल्पो दण्डसदृशः प्रतोदो यस्य स तथोक्तः । किं कृत्वा, सप्ताश्वान्नियमवशं नीत्वा । सप्त कक्षा इव सप्तकक्षाद्वाराणीव । यथा प्रतीहारोऽपि सप्तद्वाराणि नियमवशं नयति एवमश्वान्नीत्वा । सप्तशब्दः काकाक्षिगोलकन्यायेनाश्वैः कक्षाभिश्च संबध्यते । क्व सति । ध्वान्तस्य राशावन्धतमसस्य समूहे तूर्णं क्षिप्रमुत्सारिते दूरभाजि सति । कस्मिन्निव । इतरजन इव । यथेतरजनो दूरमुत्सार्यते गले धृत्वा क्षिप्यते । कीदृशस्य । त्रैलोक्येति । त्रिलोकीसंबन्धि यदास्थानदानं तत्रोद्यतो यो दिवसपतिस्तस्य । मुख्यः प्रतीहारराज इत्यर्थः ।
पूष्ण आदित्यस्याग्रणीररुणो वो युष्मान्पातु । किं कुर्वन् । प्रतिदिशमधिपान्दिक्पालानिति जल्पन् । इतीति किम् । हे वज्रिन्, ईक्षणान्येव कमलानि तेषां वनं तद्भवतो विकासि जातमुन्निद्रतां गतम् । हे वह्ने, त्वं न भासि न दीप्यसे । कथं यथा भवति आभासि यथा भवति । आ समन्ताद्भासनमाभासः स विद्यते यस्येत्याभासि यथा भवति । बहे, स्वामिन्युदिते सति त्वमतिशयेन दीप्तिमद्यथा भवति तथा न दीप्यस इत्यर्थः । दक्षिणतो यममभिनन्तुमागतमादिशति –- हे यम, इमं महिषमश्वपार्श्वान्नयापसारय । किं कृत्वा । तातं सूर्यं नत्वा । अन्योन्यस्यैतेषामत्यन्तविरोधात् । नैर्ऋत्यां दिशि राक्षसांश्च मानयति —- हे राक्षसाः, यूयं स्वामिना वीक्षिताः स्थ दृष्टा भवथ । देवानामधमजातयोऽपि ते दिक्पालननियुक्तत्वाद्वीक्षिताः स्थेति संवादेन सुखिनः क्रियन्ते । भृत्यो हि स्वामिना यथार्हं संमानितोऽत्यन्तभक्त्या स्वाधिकारेऽप्रमत्तो भवति । पश्चिमायां वरुणमादिशति-हे प्रचेतः, सप्तीनश्वान्सिञ्च । जलोत्पादकत्वादसाविममेवादेशमर्हति । अनेन स्वामिना संमानितो भवति । भृत्यो हि स्वामिनः सकाशादादेशं लब्ध्वात्मानं कृतार्थं मन्यते । तदवसरप्राप्ये कर्मणि वायुमादिशति –- हे पवन, जवं वेगं भज सेवस्व । येन वरुणाल्लव्धा-
सेका वाजिनस्त्वत्पार्श्वाच्छैत्यमनुभवन्तः सुखेनैव व्रजन्तीति भावः । उत्तरस्यां दिशि कुबेरमाभाषते -– वित्तं द्रव्यं पातीति वित्तपस्तमामन्त्र्य संभाषते -- हे वित्तप धनद, त्वमावेदितः कथितो मया स्वामिनः । यथायं स्वाधिकारेऽप्रमत्तः संस्त्रैलोक्यस्थितेरेको हेतुर्निधिद्वयस्यापि शङ्खपद्माख्यस्य पालने नियुक्तोऽतोऽसौ गौरवाद्भगवतो रवेरावेद्यत एव । ईशान्यां शर्वं दृष्ट्वा हे शर्व, त्वां वन्दे । अष्टमूर्तित्वाद्रविरेव शर्वः । तथा चोक्तम् -–'आदित्यं च शिवं विद्याच्छिवमादित्यरूपिणम् । [ उभयोरन्तरं नास्ति आदित्यस्य शिवस्य च ॥ ] ' इति ॥
रविर्यं शास्ति शिक्षयति सोऽरुणो वो युष्मानवतु रक्षतु । यथा शास्ति तं प्रकारं दर्शयन्नाह –- पाशानाशान्तपालादित्यादि । आशान्तमपरां दिशं पालयतीत्याशान्तपालस्तस्माद्वरुणतो वरुणात् हे अरुण, पाशान्मा ग्रहीर्मा गृहाण । सर्वलकाराणामपवादः 'माङि लुङ्' । किमर्थं प्रग्रहार्थं रश्मिनिमित्तम् । सारथित्वात् । सारथिर्यद्यदुपयुज्यते तत्सर्वमभिलषति । आदित्यस्तु तत्सर्वे निषेधयति । किं च, कृष्णस्य विष्णोश्चक्रे तृष्णामभिलाषं जहिहि । कुतः । न हि रथो याति मे नैकचक्रः । हि यस्मान्मम रथो न याति । कथम् । एकचक्रः । इत्येतन्न । अपि तु यात्येव । प्रतिषेधतया प्रकृतार्थावगतिः । किंच, वृत्रशत्रोरिन्द्रसकाशादुच्चैःश्रवसमश्वविशेषमष्टमं योक्तुं किमभिलषसि मा त्वमभिलषेत्यर्थः । किंभूतम् । युग्यम् । युगमर्हतीति युग्यस्तम् । किंभूतो रविरित्याह———त्यक्ता अन्यापेक्षविश्वोपकृतिर्जगदुपकरणं येन स त्यक्तान्यापेक्षविश्वोपकृतिः । जगदुपकरणं प्रति जनं कंचनाशापालादिकं सहायं नापेक्षत इत्यर्थः ।
मूर्छया मोहेन च्छिन्नापनीता वाञ्छा इच्छा यस्य स तथोक्तः । स तथा नो भवति नास्ति । इतरः पान्थस्तु तथाभूत एव भवति । किं च, श्रमविवशवपुर्नैव । श्रमेण विवशमनवस्थं वपुर्यस्य स तथोक्तः । तथा नैव । नाप्यास्यशोषी । आस्यशोषों मुखशोषो विद्यते यस्य स आस्यशोषी । अस्यास्यमपि न शुष्यति । एवंविधः श्रीसूर्यस्याग्रेसरः
पान्थोऽरुणो युष्माकं पथ्येतराण्याहितानि क्षपयतु । किंभूतः स क इत्याह –- योऽरुणोऽश्वपङ्किं संश्रित्य नित्यं त्रिलोकीमटत्यतिक्रामति । किंभूतो यः । पटुतरैस्तीक्ष्णैः किरणैस्ताप्यमानः । कीदृशीमश्वपङ्क्तिम् । समीपवर्तिनीमारामलेखामुपवनलेखामिव । यथा क श्चित्पान्थः किरणैस्ताप्यमानः समीपस्थितामुपवनतरुच्छायामाश्रित्य पन्थानमत्येति त थायमरुणः ॥
पूष्णोऽग्रगोऽरुणो वो युष्मानवतु रक्षतु । किं कुर्वन् । पूरयन्पूर्णं कुर्वन् । यत्स्थानमश्वा न याता न लङ्घितवन्तस्तत्स्थानं हुंकारेण हेतुना जवनैस्तैरेव पूरयन् । किं कुर्वन्तो न याताः । सीदन्तः सन्ना भवन्तः । क्व । सैकते सिकताप्रदेशे नाकनद्याः स्वर्धुन्याः । अन्तर्निमज्जज्जडखुरमुसलाः । अन्तर्मध्ये निमज्जन्ति प्रविशन्ति जडानि खुरमुसलानि येषां ते तथोक्ताः । अत एव सीदन्तः । स्कन्दन्त उल्लङ्घ्यमानाः कंदराली: कनकशिखरिणो मेरोः । मेखलासु कटकेषु स्खलन्तो गतिवैक्लव्यमापद्यमानाः । किं च, मरकतदृषदि मरकतशिलायां स्थास्नवः स्थातारः । दूरमत्यर्थं दूर्वास्थलोकाः ॥ इत्यरुणवर्णनव्याख्यानम् ॥
सवितुर्भानो रथः स्यन्दनो वो युष्मभ्यं श्रेयः पुण्यं विधत्तां कुरुताम् । अवतरन्नधिरोहन् । व्योमवीथीं व्योममार्गम् । प्राह्णे पूर्वाह्णे । उदस्त उत्क्षिप्तः । हरिभिर्वाजिभिः । किंभूतैः । पीनोरःप्रेरिताभ्रैरुपचितवक्षोनुन्नघनैः । चरमखुरपुटाग्रस्थितैः पाश्चात्यशफपुटप्रान्तावस्थितैः । क्व । प्रातरद्रौ मेरौ । पुनरपि किंभूतैः । आदीर्घाङ्गैरायतशरीरैः । किं भूतोऽसौ । अपगतासङ्गनिःशब्दचक्रः । अपगतासङ्गं सङ्गरहितमत एव निःशब्दं चक्रं यस्य स तथोक्तः । अपि च, उत्तानो योऽनूरुस्तस्य यो मूर्धा तस्यावनतिस्तया कृत्वा हठेन भवन् विप्रतीपो विपरीतः प्रणामो यस्य स उत्तानानूरुमूर्धावनतिहठभवद्विप्रतीपप्रणाम इति ॥
भास्वतो भानो: स्यन्दनो रथो वो युष्माकं वृजिनविजियते पापावजयायास्तु भूयात् । किंभूतोऽसौ । अर्यम्णा सूर्येण गरिम्णो गौरवस्य पदमुपानीयत नीतः। अध्यासनेनाध्यर्हणेन (उपवेशनेन) कृत्वा । अतुलमसदृशमपरिमाणं वा । प्राक् पूर्वम् । किं कुर्वता । कराणां किरणानां भासां सहस्रं दशशतीं वहता धारयता । कीदृशम् । ध्वान्तौघध्वंसदीक्षाविधिपटु । ध्वान्तं तिमिरं तस्यौघः संघातस्तस्य ध्वंसो विनाशः स एव दीक्षा तस्या विधिस्तत्र पटु कल्पम् । किं कुर्वन् । व्रजन्गच्छन् । स्कन्धात्स्कन्धम् । केषाम् । मरुतां वायूनाम् । वायुस्कन्धा हि रविरथाधीनाः किलाधाराः । ते च बहवः । तान्त्रमेणोल्लङ्घमानो भगवान्मेरुं प्रदक्षिणीकरोतीत्यागमविदः । एतदेवोत्प्रेक्षते –- श्रान्तानां नितान्तमत्यर्थं भरं भारं सोढुमक्षमाणामधिकं धर्तुमसमर्थानामिव । इवोत्प्रेक्षायाम् । भारासहनेऽक्षमत्वे च गौरवपदनयनं हेतुः । यथैको भारस्यातिगुरुतयैकेन नेतुं न शक्यते स बहुभिः पर्यायेण नीयमानः स्कन्धात्स्कन्धं व्रजति तद्वदयमपि । एष लोकव्यवहारोऽत्र दर्शयितुं साभिप्रायेण विवक्षितः ॥
असौ स्यन्दनो रथ एनः पापं वो युष्माकं हरत्वपनयतु । किमीयः । सावित्रो भाववीयः । क्षेपीयः क्षिप्रतरम् । क इव । गरुत्मानिव गरुडो यथा । निरतिशयरयप्रीणितानूरुः । निरतिशयोऽनतिशयनीयो रयो वेगस्तेन प्रीणितोऽनूरुररुणो येन स तथोक्तः । गरुत्मानप्येवम् । अरुणो हि तस्य भ्राता । स तदीयेन निरतिशयेन रंहसा प्रीयते । तथा हरीच्छाविधेयप्रचारः । हरयो वाजिनस्तेषामिच्छां तद्विधेयस्तत्कार्यः प्रचारो गतिर्यस्य स तथोक्तः । अन्यत्र हरिर्विष्णुस्तदिच्छाविधेयस्तदिच्छाधीनः प्रचारो यस्येति योज्यम् । किं कुर्वन् । दन्दशूकान्फणिनो दधानो बिभ्राणः । योक्रीभूतान्योक्रभावप्रपन्नान् । युगस्य .... । पुरोऽग्रतः ग्रसितुमिव । गरुत्मानपि खादितुं दन्दशूकान्पुरो धत्ते । किंच, द्वेधा व्यस्ता येऽम्बुवाहास्तेषामावलिविहितौ बृहन्तौ पक्षो तयोर्विक्षेपस्तेन शोभा यस्य स तथोक्तः । अन्यत्र द्वेधा व्यस्ता अम्बुवाहावलयो घनावल-
य: । काभ्याम् । गरुत्मत्पक्षाभ्याम् । तौ च तौ विहितबृहत्पक्षौ च तयोर्विक्षेपस्तेन शोभा यस्येति ॥
ब्रध्नस्य गभस्तिमतः स्यन्दनो रथो वो युष्मानव्याद्रक्षतु । एवमनया भङ्ग्या दुरधिंगमपरिस्पन्दनो दुरवधारव्यापारः । तदेव दर्श्यते -- एकाहेनैव एकदिनेनैव दीर्घामायतां त्रिभुवनपदवीं त्रिलोकमार्गं लङ्घयन् यो लघिष्टो लघुतरः । एतेन शीघ्रगतिमत्ता दर्शिता । तथा गरीयान्गुरुतरः । पृष्ठे मेरोर्देवालयस्य । किं कुर्वन् । पिंषंश्चूर्णयन् । शिरांसि शिखराणि । कीदृशानि । दलिता खण्डिता या मणिदृषदस्ताभिस्त्विषो येषु । यदि वा दलिता इतस्ततो विक्षिप्ता मणिदृषत्त्विषो येषु तानि तथोक्तानि । एतेन गुरुतरता ख्यापिता । य: सर्वस्य निःशेषस्य लोकस्योपरिष्टादुपरि पूज्यत्वेन दिक्संबन्धेन वा । अथ च पुनर्भूयोऽध्यधस्तादिवाध इव अस्ताद्रिमूर्धन्यस्तपर्वतमस्तके । एतेनाधउपरिभावो दर्शितः । एकान्ततः परमार्थतो न लघुर्न गुरुर्नोपरि नाथ इति व्यपदेष्टुं न शक्यते । अत एव दुरधिगमपरिस्पन्दन इत्युक्तम् ॥
भद्रं कल्याणं वो युष्मभ्यं देवासुर्दिशन्तु । स्यन्दनप्रस्थितानि रथगतानि । कस्यासौ रथः । दिवसपतेर्दिनपतेः । स्यन्दनप्रस्थितानीति सापेक्षत्वेऽपि समासो गमकत्वात् । क्व प्रस्थितानि । दवीयो दिवि दूरतरगगने । भद्रदानक्रियाविशेषणं वा दवीय इति । तदा द वीयोऽतीवतरामित्यर्थः । तान्येव विशेष्यन्ते—-धूर्ध्वस्ताग्र्यग्रहाणि धुरा ध्वस्ता विक्षिप्ता अग्र्या अग्रे भवा ग्रहा: कुजादयो यैस्तानि तथोक्तानि । किंच । ध्वजपटपवनेन ध्वजांशुकमरुता आन्दोलितो विकम्पित इन्दुश्चन्द्रमा येषु तानि । तथा दूरमतीवतया राहौ तमसि पुनर्भूयोऽपि दत्ता चक्रेण व्यथा भयं यैस्तानि । ग्रासाभिलाषादनुसरति । अनुसरंश्चक्रमपेक्षमाणस्ततो बिभेति । श्रान्ताश्वश्वासहेलाधुतविबुधधुनीति धुतानि कम्पि तानि विबुधधुनीनिर्झराम्भांसि सुरनदीप्रस्रवणजलानि येषु तान्येवंभूतानि ॥
अंशुमत्स्यन्दनो भास्वद्रथः स वो युष्माकं पापानि दुरितानि नुदत्वपनयतु । यं सि द्धवध्वः सिद्धस्त्रियो वन्दन्ते नमस्यन्ति । युमार्गे विहायसि । त्रिसंध्यं त्रिकालम् । तिस्रः संध्या वन्दन्ते । क्रियाविशेषणम् । किं कृत्वा । रक्षां मङ्गलविशेषं निबध्य बद्द्वा । अक्षे रथावयवविशेषे । प्रतिसरवलयैः कौतुकोर्णकङ्कणैर्योजयन्त्यो युगाग्रं युगप्रान्तम् । पुनरपि स्तम्भ इव धूर्धूःस्तम्भस्तत्र दग्धधुपाः । प्रहितसुमनसो विक्षिप्तपुष्पाः । क्व । गोचरे विषये कूबरस्य युगंधरोद्देशस्य । चर्चाः स्थासकान् चक्रे पादे ददत्यो यच्छन्त्यः । केन । मलयजपयसा चन्दनाम्भसा ॥
रवेरादित्यस्य स्यन्दनस्यैकवीथी एकमार्गो वो युष्माकमधं पापं विघटयतु । केव । स्वर्धुनीव गङ्गेव । किंभूतासौ । द्रुतखुरदलिता चटुलशफदारिता पार्श्वयोः । कैः। अश्वैः । शश्वदनवरतम् । कथम् । उत्कीर्णः स्वर्णरेणुर्यत्र दलने तत् । उत्कीर्णस्वर्णरेणवश्च ते द्रुताः खुराश्चेति (वा) विशेषणसमासः । किं च, अश्रान्तभ्रान्तचक्रक्रमनिखिलमिलन्नेमिनिम्ना । अश्रान्तमनवरतं यद्भ्रान्तं चक्रं चरणस्तस्य क्रमः क्रमणं तेन निखिला समग्रा मिलन्ती घटमाना या नेमिश्चक्रधारा तथा निम्ना अवनता । भरेण प्राग्भारेण हेतुना । मेरोर्देवाचलस्य मूर्ध्नि शिरसि । किं च, स्वोष्मणा उदक्तमाकृष्टं तच्च तदम्बु चेति तेन रिक्तं रिक्तत्वादेव प्रकटितं तच्च तत्पुलिनं च तेनोद्धूसरा पाण्डुः । स्वर्धुन्यप्यूष्मोदक्ताम्बुरिक्तप्रकटितपुलिनोद्धूसरा भवति ॥
तीव्रभानोरादित्यस्य रथो वो युष्मानव्यात्पायात् । दिवि खे व्यक्तचिह्नो विस्पष्टलक्ष्मा । भुवि यथा भूम्यामिव । सा यस्य नाकालयानां घुसदां पङ्क्तिर्विततिरेव पद्धतिः पदवी । किंभूतानाम् । अनुयतामनुगच्छताम् । नन्तुं प्रणामाय । अनिशमहर्निशम् । किं च, नक्षत्रराशेर्भचक्रस्य क्षोदश्चूर्ण एव धूलि: परागः । अदयरयमिलन्नेमिपिष्टस्य प्रखरवेगसंसक्तचक्रधारानिर्दलितस्य । हेषाह्रादो हेषाध्वनिः । हरीणां वाजिनां यः स एव नेमेर्नादः प्रतिध्वानः सुरशिखरिदरी: पूरयन् देवाचलकंदराणि पूर्णा: कुर्वन् । अथ वा हेषाह्रादो हरीणां सुरशिखरिदरी: पूरयन्नेमिनादश्चेति सुरशिखरिदरी: पूरयन्यस्येति पृथगेव संबन्धनीयम् । भुवि यानि चिह्नानि धूलिहेषानेमिध्वनयस्तान्यनया भङ्ग्या वियत्यपि दर्शितानि ॥
दिनकृतः स्यन्दनो रविरथो वो युष्माकं मुदे हर्षाय स्ताद्भूयात् । किं कुर्वन् । दधद्बिभ्रत् । अरि चक्रम् । मण्डितारं विभूषितारम् । कैः । मन्दारैर्वृक्षविशेषपुष्पैः । यश्चामन्दः शीघ्रो मन्दाकिन्यां पुलिनभृति पुलिनभाजि । देववृन्दारकाणां सुरमुख्यानां व न्दितुं स्तोतुं विन्दतां लभमानानां नो नेति । किं कुर्वताम् । वहतां धावताम् । कैः । वृन्दैः संघातैः पूगशः । निःस्पन्दानां श्रान्तानाम् । विमानावलिविततदिवां विमानश्रेणिप्रच्छादितनभसाम् । कथं वहताम् । आनन्दसान्द्रोद्यमं संहर्षप्रभूतोत्साहम् । मन्दरे पर्वतविशेषे मृदुर्मन्दः । मन्दिराभे नगरानुकारे । मन्दिरशब्दो नगरैकदेशेऽप्युपचारात्समुदाये वर्तते । नगरं हि स्थपुटत्वाद्रथस्य वेगं स्खलयति । ततस्तत्र मन्दता युज्यते । देववृन्दारकाणां वृन्दैः कर्तृभिर्मन्दारैः करणभूतैर्मण्डितारमिति च ॥
अहिमरुचेरादित्यस्य स्यन्दनो रथो वो युष्मानवताद्रक्षतु । यस्यान्वहं प्रतिदिवसमेतदेतदयमयं स्तौति । प्रीतिप्रसन्नः प्रीतितुष्टः । तदेव दर्श्यते –- चक्री विष्णुश्चक्रारपङ्क्तिं चरणारपङ्क्तिं स्तौतीति संबन्ध: । हरिरिन्द्रो हरीनश्वान । धूर्जटिर्भगवानीश्वरो धूर्ध्व-
जान्तान्ध्वजाग्रान् । अक्षं चक्राधारकाष्ठं नक्षत्रनाथश्चन्द्रमाः । अरुणमनूरुं वरुणः पाशभृत् । कूबराग्रं युगंधरप्रान्तं कुबेर ऐलविलः । रंहो वेगं संघ: समूहः पूगः सुराणां देवानाम् । नित्ययुक्तस्य नित्योद्यतस्य जगदुपकृतये विश्वोपकाराय ॥
अशिशिरकिरणस्यन्दनस्तीव्रमयूखरथो वो युष्मभ्यं संततमनवरतं लक्ष्मीं श्रियं दिश्याद्दयात् । अपारामनल्पीयसीम् । अतुलितमहिमा अपरिमितमाहात्म्यः । किं कुर्वन् । भ्राम्यन्व्योमाम्बुराशौ नभः पयोधौ । क इव । मन्दराद्रिरिव मन्दराचल इव । अपरोऽन्यः । तयोः साम्यं दर्श्यते –- नेत्रा सारथिना हीनेन विकलेन मूलेऽधोभागे विहितपरिकरः कृतोद्यमः । मन्दरेऽपि नेत्रं वेष्टनरज्जुः । अहीनो नागराजः । नेत्रं च तद हीनश्चेति समासः । यदि वा नेत्रभूतोऽहीनः । शाकपार्थिवादित्वान्मध्यमपदलोपी समासः । तेन विहितपरिकरः कृतवेष्टनः । क्व । मूले मूलप्रदेशे । किं च, स्तुतो वन्दितः । सिद्धसाध्यैर्देवविशेषैः । पादोपान्ते चरणसमीपे स्थितैः । तस्य पूज्यत्वात् । म न्दरोऽपि तैः स्तुतो वर्णितः । तस्यासन्नत्वात् । पादोपान्ते प्रत्यन्तनगर(पर्वत)समीपे । मरुद्भिर्देवैर्वायुभिर्वा । अलमत्यर्थम् । किं च बलिनो बलवन्तस्ते च ते हरयश्च तेषां र भसो हेला तेनाकर्षणं तेनाबद्धो गृहीतो वेगो यस्य स तथोक्तः । इतरस्तु बलिर्वैरोचनिः हरिः शतमखस्तयो रभस इति । शेषं समानम् । मन्दरविषये व्योमवदम्बुराशौ विस्तीर्णत्वादिति योज्यम् । संततमिति भ्रमणस्य विशेषणम् ॥ इति रथवर्णनव्याख्यानम् ॥
तदेवंभूतं मण्डलं भासामीशस्य भानोः संबन्धि वो युष्मभ्यं मङ्गलं कल्याणम वि कलं संपूर्णमलमत्यर्थं दिश्यात् । तदेव निरूप्यते -– यहां दिनानां बीजं कारणम् । ज्यायः प्रशस्यतरम् । यच्चक्षुषां नेत्राणामञ्जनं प्रकाशकम् । अपहततिमिरं विनाशितान्धकारम् ! अञ्जनमपि चक्षुषां तिमिरं रोगविशेषमपहरति । यन्मुक्तिभाजां योगिनां
द्वारम् । ते हि सूर्यमण्डलद्वारेण मुक्ति प्रयान्ति । यदखिलभुवनज्योतिषां सकलजगत्तेजसामेकमद्वितीयमतुलमाश्रयः । यद्वृष्ट्या हेतुभूतयाम्भसां पानीयानां निधानमाश्रयः । यद्धरणिरससुधापानपात्रं पृथिव्युदकामृतपानपात्रम् । महद्बृहत् ॥
पूष्णो रवेर्मण्डलं वो युष्माकमशुभानि दुरितानि प्रशमयतु ध्वंसयतु । प्रातः प्रभाते । अद्रेः पर्वतस्य शिरःशेखरीभूतं मूर्धालंकारभूतम् । पुरस्तात्पूर्वस्यां दिशि भवः पौरस्त्यः प्राच्यस्तस्य । उद्गभस्ति उदंशु । प्रकृष्टं स्तिमितं स्तिमिततमं बहुलतमं यत्तमस्तिमिरं तस्य ध्वंसनम् । तदेव विशेषयितुमाह -- यत्सिन्धोः पयोधेः पय इव जलमिव वेलावर्धिष्णु । वेलया कालमुहूर्तसमयेन वर्धनशीलम् । उदधेरपि पयोवेला जलवृद्धि तथा वर्धिष्णु भवति । अत्र वेला समुद्रक्षोभः । किं च, खमिव नभ इव अधोद्गताग्र्यग्रहोडु मनागुद्भिन्नप्रधानग्रहनक्षत्रम् । अन्यत्र अर्धोद्गता अग्रेभवा: पौरस्त्या ग्रहा नक्षत्राणि यस्य तत्तथोक्तम् । तत्तेजसाभिभूतत्वात्किंचिदुपलभ्यमाना उक्ताः । किं च मधोरास्यमिव वसन्तस्य प्रवेश इव । किंभूतम् । स्तोकोद्भिन्नस्वचिह्नप्रसवमीषदुद्भिन्ननिजचिह्नाविर्भावम् । अन्यत्र स्तोकमुद्भिन्नरुच (?) आविर्भावो यत्र तत्स्वचिह्नं लक्षणं यस्येति । प्रसवं पुष्पं यत्र मध्वास्ये (अन्यत्र ) । किं कुर्वन् । अपहरन्मनांसि चेतांसि । जनानामित्यध्याहारः ॥
तदेवंभूतं दीप्तांशोर्भानोः संबन्धि मण्डलं वो युष्मानव्याद्रक्षतु । प्रातरुषसि । किंभूतम् । अविकलं जगन्मण्डनं विश्वालंकारः । पुनरपि कीदृशं तत् । येन मण्डलेनाचलः पर्वतः प्रत्युप्तः प्रोतः । पद्मरागेण पद्मभासा । कीदृशः । तप्तहेमोज्ज्वलरुचिस्तप्तकाञ्चनदीप्तिः। पद्मरागेणेति शब्दच्छलेन पद्मरागमणितां दर्शयति । किंभूतं यत् । ज्याय: प्रशस्यतरम् । किंजल्कपुञ्जः पद्मपराग(केसर)राशिरिव । कस्य । अम्बरेन्दीवरस्य गगनकुवलयस्य । अलिकुलशितेर्भ्रमरवृन्दनीलस्य । चिह्नं शिरोरत्नं (कालव्यालस्य) अहोमूर्ध्नि
मार्तण्डीयं सावित्रं मण्डलं वो युष्मान्पुनीतात्पुनातु । किं कुर्वन् । मुष्णन्खण्डयन् । कानि । महांसि तेजांसि । कानीव । तमांसीव तिमिराणि यथा । क्व । दिवि खे । किं तत्रैव । न । भुवि च भूमौ च । यत्रोदयगते उदयस्थे कस्त्राता तारकाणां को रक्षिता न क्षत्राणाम् । न कश्चिदित्यर्थः । किं पुनः कारणमित्याह –- तत्र पतति ध्वंसते इन्दुश्चन्द्रः । क इव । अवश्यायबिन्दुर्यथा तुषारकणवत् । कथंभूतः । तनुरल्पः । इन्दुर्हि तारकाणां नाथः । तत्र पतति कस्त्रायते । किं च, विद्राणा म्लाना दृग्दृष्टि: स्मरारे: शंभोः । मुरारेरुरसि विष्णोर्वक्षसि कौस्तुभो मणिविशेषो नोद्गभस्ति नोन्मयूखः । अपि च वह्नेरग्नेः सापह्नवेव सापलापेव युतिः कान्तिः । एतेन सर्वतेजसां मोषः कथितः । उदयगते यत्रेति प्रत्येकं मेलनीयम् ॥
रवेरादित्यस्य तन्मण्डलं वो युष्माकं मुक्तये निर्वाणांयास्तु भूयात् । वेदे 'एतस्मिन्मण्डले पुरुषोऽप्येतदमृतं यदेतदचिर्दीप्यते' इति श्रुतिः । अतोऽमृतायास्तु । यद्विश्वानुग्राहि जगदनुग्राहि विश्वं सृजदपि विश्वं विदधदपि । तदेव दर्श्यते –- यत्प्राच्यामैन्द्र्यां प्राक्प्रथमं चकास्ति दीप्यते । यतश्चोज्जिहानादुद्गच्छतोऽसौ प्राची प्रभवति जयति । य दह्नो दिवसस्य मध्ये इद्दं दीप्तं भवति । येन च ततरुचा विस्तारितभासा उत्पाद्यते जन्यते अहो दिवसः । यच्च पर्यायेण लोकाञ्जगन्त्यवति रक्षति । यच्च जगतां जीवितं प्राणितम् । यथोक्तम् –- 'आदित्याजायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । प्रजासौख्याच देवानां परा तृप्तिरिति श्रुतिः' ॥
चण्डांशोस्तीव्रभानोर्मण्डलं वो युष्माकं मुदे हर्षाय स्ताद्भवतु । किं कुर्वतः । धाम विदधतः । प्रलघु स्तोकम् । आलोकमात्रं आलोको मात्रा प्रमाणं यस्य तत् । आलोक एव तिष्ठते । किं कृत्वा । संहृत्य संक्षिप्य संकोच्य । कृच्छ्रादायासात् । कया । अकाण्डत्रिभुवनदहनाशङ्कया । अकाण्डेऽकाले जगत्प्लोषभीत्या । अकाले त्रिभुवनदाहो सा संपद्यतामिति । येनोत्तप्ता मकरवसतयः समुद्राः शुष्यन्ति शोषं यान्ति । मारवीणां स्थलीनां मरुस्थलीनामूढानुकारा वृतसादृश्या: । क्व । युगान्ते क्षयसमये । अगेन्द्राश्च राजपर्वताः पर्वतराजानो वा तिलतुलां यान्ति । अतितापात्तडिति स्फुटन्तः सतडत्कारं विशीर्यमाणाः ॥
चण्डभानोस्तीव्रांशोः संबन्धि मण्डलं वो युष्माकं कल्याणानि क्रियात्करोतु । यत्कमलमिव पद्ममिव । महद्बृहत् । अन्वीतमनुसृतम् । राहुणा सैंहिकेयेन । अलिकुलाकारिणा भ्रमरतव्रातविभ्रमेण । असकृदनेकवारम् । किं कुर्वन् । उद्यनुद्गच्छन् । द्यूद्यानवाप्यां द्यौरेवोद्यानं द्यूद्यानं द्यूद्यानस्य वापी गगनोपवनपुष्करिणी तत्रेति । कमलमपि गगनाकारतया(रायां)उपवनपुष्करिण्यामुद्गच्छति । किं कृत्वा । विदार्य भित्त्वा । किम् । बहुलतमतम पङ्कपूरं घनतरतिमिरसंघातम् । कमलमपि घनतरतिमिरकल्पो यः पङ्कौघस्तं विदार्योदेति । किं च, प्रोद्भिन्नं रञ्जितम् । पत्रपार्श्वेषु वाहनोपान्तेषु । अविरलं निरन्तरम् । अरुणच्छाययानुरुप्रभया । विस्फुरन्त्या प्रोल्लसन्त्या । कमलमप्यरुणच्छायया लोहितभासा पत्रोपान्तेषु दलोपान्तेषु भिन्नं रञ्जितं भवति । अलिकुलेनानुगतं सेवितं च । कस्य हेतोः । तृप्तिहेतोः । पानस्य (?) ॥
ब्रध्नस्य रवेर्मण्डलं वो युष्मानव्याद्रक्षतु । विरुद्धक्रियं विरुद्धव्यापारम् । अथ च हिताधायि तथापि हितकारि । तदेव दर्शयति –- चक्षुर्दक्षद्विषो यत् लोचनं भगवतो महेश्वरस्य । न तु कामं दहति प्रत्युत पूरयतीति विरोधः । भगवतश्चक्षुषा कामो मन्मथो दग्धो न तु पूरितः । कामोऽभिलाषस्तं न दहति प्रत्युत पूरयतीति परिहारः । पुरोऽग्रतः । दक्षद्विषश्चक्षुरित्यागमविदः । नियमिनां योगिनां भवाब्धौ संसारसमुद्रे यन्मण्डलं यानपात्रं प्रवहणम् । यज्जगतां भ्रान्तिं मिथ्याज्ञानं हन्ति । भ्रमदपि पर्यटदपि । शश्वदनवरतम् । वीतश्रान्ति विगतश्रमम् । शश्वत्सदा गमनचिह्नाङ्ग(?)मभ्रान्तीति विरोधः । भ्रान्तिशब्दोऽयं संशये । अभ्रान्ति असंशयमित्यदोषः ॥ इति मण्डलवर्णनव्याख्या ॥
विश्ववन्द्योदयो रविर्वो युष्मानवतु रक्षतु । कीदृशोऽसौ भगवान् । प्रातः प्रभाते प्रारभ्यमाणस्तुतिरुपक्रम्यमाणस्तोत्रः । कैः कैः कथं कथमित्याह –- सिद्धैर्देवविशेषैः सिद्धान्तमिश्रं सिद्धान्तशब्देन सिद्धान्तोक्तविधिरुच्यते । उपचारात् । तन्मिश्रं तदुपेतम् । क्रियाविशेषणम् । एवं प्रतिपदं योज्यम् । तथा विबुधैर्देवैः श्रितविधि विधियुक्तम् । चारणैर्देववर्णकैश्चाटुगर्भं सचाटु गुरुगुणोद्गारसारम् । गन्धर्वमुख्यैर्विश्वावसुप्रभृतिभिर्गीत्या गानेन । मुहुः पुनः पुनरहिपतिभिः फणीन्द्रैः । यातुधानैः पिशाचैर्यतात्म । सार्घमर्धवत्साध्यैर्देवविशेषैः । मुनीन्द्रैर्महर्षिभिर्मुदिततममनः सातिशयहृष्टचित्तम् । मोक्षिभिः पक्षपातात् । योगिभिरात्मभावादिति भावः ॥
तप्तांशुरादित्यो वो युष्मान्पात्ववतु । किं कुर्वन् । पर्यटन्परिसर्पन् । हाटकाद्रिं सुवर्णाचलम् । क इव । तत्परीक्षापर इव तस्य परीक्षा तन्निष्ठ इव । परितः समन्तात् । कथं तत्परोक्षापरः । त्रिप्रकारं त्रिधा । स्वर्णं हि तद्दाहच्छेदकषणैस्त्रिधा परीक्ष्यते तद्वदत्रापि दर्शयति —- भासां चक्रवालस्य रुचां कदम्बकस्यासन्नभावान्निकटत्वाद्यस्तापस्त-
स्मात्तापात् । अनेन दाहं दर्शयति । कीदृशस्य । अधिकतरपटोरतिशयतीव्रस्य तस्य च्छेदात् । कैः कृत्वा । अच्छिन्नमनवरतं गच्छन्तो वल्गन्तस्ते च ते तुरगाश्च तेषां खुरपुटास्तेषां न्यासास्त एव निःशङ्कङ्कास्तैरिति । टङ्काः शस्त्रविशेषाः । अनेन च्छेदं दर्शयति । किं च, निःसङ्गस्यन्दनाङ्गभ्रमणनिकषणादपगतसङ्गरथाङ्गभ्रामोल्लेखनात् । अनेन निकषणमाह ॥
सोऽर्को रविरादित्योऽरुणपादो दयया वो युष्मानवताद्रक्षतु । यत्रेद्धं दीप्तं धाम तेजो द्युमार्गे वियत्पथे म्रदयति मृदु विदधति सति नाकनद्या नो शुष्कं गङ्गया न शुष्यते स्म । अपि तु भ्राजितं राजितमेव । किंभूतया । विकसितकनकाम्भोजया विकस्वरस्वर्णकमलया । किं च प्लष्टा नैव न दग्धा नन्दनोद्यानलक्ष्मीर्नन्दनोपवनशोभा । अपि तु भृशतरं भोग्या भोगार्हा भवति । अमरगिरेर्मेरोः शृङ्गाणि शिखराणि नो द्रुतानि न द्रवभावं गतानि । प्रत्युत द्रुतं शीघ्रं धौतानि । कालधौतानि हिरण्मयानि ॥
सोऽर्यमा सूर्यो वो युष्मानव्यात् । कीदृशः । एकोद्यमेच्छाविहितबहुबृहद्विश्वकार्यः । एकश्चासावुद्यमश्च तेन कृत्वा इच्छया विहितानि बहूनि बृहन्ति विश्वकार्याणि येन स तथोक्तः । केवलं ध्वान्तस्यैव तमस एव केवलस्य मलिनैकात्मनो मलीमसैकरूपस्यान्तहेतुर्विनाशकारणं न भवति किं तु पाप्मनोऽपि एनसोऽपि । कथम् । प्राक्पूर्वम् । पादोपान्तभाजां पुनरपि यो न केवलं पङ्कजानां पद्मानां चरणाभ्यर्णवृत्तीनामपि प्रबोधं तत्त्वदर्शनं योजयति । खलु निश्चयेन न केवलं वासराणां कर्ता निःश्रेयसानामप्यपवर्गाणामपि । अपिशब्दः समुच्चये । खलु वाक्यालंकारे ॥
सोऽर्को वो युष्मानवतात् । यत्रान्यलोकानुदयकरे गते सति जायते जीवलोक इत्थंभूतो भवति । शोकेनेव विषादेनेव । किमवस्थः । लोटन् विवर्तमानः । लोष्टाविचेष्टो लोष्टवच्चेष्टारहितः । श्रितशयनतलः शय्यापतितः । निःसहीभूतदेहो विक्लवगात्रः । प्राणितव्ये जीवितव्ये संदेही संशयितः किं जीविष्याम्युत न जीविष्यामीति संशयानः । किं कुर्वन् । सपदि तत्क्षणं दश दिशोऽन्धकारा(निरा)लोकाः प्रेक्षमाणः पश्यन् । निःश्वासायासनिष्ठः खेदवान् । परमपरवशोऽतीव दुःस्थितः । शोकेनाप्येवं भवति ॥
सोऽर्को युष्माकं श्रिये विभूत्यै भूयात् । प्रागवस्थाधिकतरपरिणामोदयः पूर्वदशाप्रकर्षाधिकपरिणत्युद्गतिः । कीदृशोऽसौ । यः ऋामँलङ्घयन् लोलोऽपि तरलोऽपि लोकाञ्जगन्ति स्थैर्यकोटिं स्थिरतापक्षमाश्रितः । क्व । तदुपकृतिकृतौ लोकोपकारविधानविषये । किं च, नृृणां पुंसां दृष्टिं चक्षुर्विजिह्यां मन्दां विदधन्नपि कुर्वन्नप्यन्तःकरणानुरूपामत्यन्तभद्रां नितान्तकृतार्थां करोति विधत्ते । यस्तापस्यापि हेतुः कारणं भवति जायते । नियमिनां योगिनामेको निर्वाणदायी मुक्तिदायी ॥
स सूर्योऽ वो भवतां श्रिये विभूत्यै स्तात् । व्यापन्नतुर्विनष्टर्तुः कालो वसन्तादिर्न भवति ऋतूननुवर्तते । ओषधीः कर्मतापन्नाः फलं कर्तृ न व्यभिचरति न विसंवदति । वृष्टिरिष्टा वर्षणमभिमतं भवति । इष्टैर्यागैर्देवा दिवौकसो न नहि तृप्यन्ति । अपि तु तृप्यन्ति । वहति मरुद्वाति वातः । निर्मलाभानि विमलद्युतीनि भानि नक्षत्राणि । आशा दिशः शान्ताः प्रसन्नाः । उदधयः समुद्रा मर्यादां न भिदन्ति । क्षमाभृतः क्ष्मां बिभ्रति । यस्मिंस्तपति सति त्रैलोक्यमेवमुक्तप्रकारेण न चलति न विप्लवं याति ॥
स भास्वान्वोऽव्यात् । यत्र भास्वति भुवनविभौ लोकपाले त्रैलोक्यचिन्ताभृति ब हुजगच्चिन्ताधारे सति ब्रह्मादीनां चिन्ता नास्ति । एतदेव दर्शयति —- कृत्तिवासा महादेवः कैलासे भूरिगिरौ (?) विहरति क्रीडते । विरहत्रासदेहोढकान्तः वियोगभयाद्देहे धृता प्रिया पार्वती येन सः । श्रान्तः खिन्नः । शेते स्वपिति । महाहौ महोरगे । अधिजलधि पयोधौ । विना छद्मनाव्याजेन । योगस्तापादिच्छलं विना (?) । पद्मनाभो नारायणः । किं च, स्वयंभूर्ब्रह्मा स्वमात्मीयं वासरं दिवसं गमयति यापयति । योगोद्योगैकतानः । योगश्चित्त[वृत्ति]निरोधस्तत्रोद्योग उद्यमस्तत्रैकतान एकाग्रः । सकलं निरवशेषम् । एते भुवनपतयो नाम[मात्रेण] स्वकार्येकनिष्ठास्तिष्ठन्ति, अयं तु भगवान्कर्मणि कृतपरिकर इति दर्शितम् ॥
स सूर्यो वो युष्माकं श्रिये स्तादस्तु । कीदृशः । स्वर्गापवर्गप्रकृतिः संसारनिर्वाणस्वभावः कारणम् । स्वयमविकृतिर्विकाररहितः । यं सूर्यमयं वर्ग एष गणो वेदवेदी वेदवेत्ता मण्डलाचिः पुरुषलसमान(?)ज्योतिरिति शेषः । एवं वेद जानाति । कथंभूतम् । वेदत्रितयमयं त्रिवेदीप्रकृतिकम् । तथा च 'त्रयी वा एषा विद्या तपति' इति श्रुतिः । तन्मयम् । कथमेवम् । इत्थंभूतं देवं यं वेद । यदैतन्मण्डलं दिनकृत आदित्यस्य संबन्धि खे तपति ता ऋचः स ऋग्वेदः । 'ता ऋचः स ऋचां लोकः' इति श्रुतिः । यान्यर्चींषि दीप्तयो द्योतन्ते भासन्ते तानि सामानि सामवेदः । 'यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानि स साम्नां लोकः' इति श्रुतिः । अयमपि मण्डले पुरुष आत्माणुः सूक्ष्मो योगगम्यस्तानि यजूंषि स यजुर्वेदः । 'य एष एतस्मिन्मण्डले पुरुषः सोऽग्निस्तानि यजूंषि स यजुषां लोकः' इति श्रुतिः । एतेन वेदत्रितयमयत्वं कथितम् ॥
सोंऽशुमान्वो युष्माकं श्रेयसे कल्याणायास्तु । किंभूतोऽसौ । स्तुत्यो वन्द्यः । कैः । त्रिदशमुनिगणैः सुरर्षिसंघैः । किंभूतैः । त्रैलोक्यवन्द्यैस्त्रिभुवननमस्करणीयैः । येनांशुमता आदित्याभिधानमादित्यसंज्ञा आत्मनि स्वस्मिन्विषये न्यस्तमारोपिता । मध्ये वासवाग्रेसराणां शक्रप्रभृतीनाम् । देवानां प्रायेणादित्यसंज्ञा । अदितेर्देवमातुरात्मजत्वे समेऽपि सत्यविशेषेऽपि सति । तर्हि ते तेजस्विनो न भविष्यन्ति । किंभूतानां तेषाम् । नाकौकः प्रत्यनीकक्षतिपटुमहसां देवप्रतिपन्थिक्षयकल्पतेजसाम् । तर्हि जगन्ति विश्वानि......साधु सम्यक्पातां रक्षतां सताम् । किं तत् । जगद्भुवन मिदम् । एतदुक्तं भवति –- यद्यप्यदितेरपत्यमिति व्युत्पत्तिः सर्वेषामप्यस्ति । तन्निमित्तस्यादित्य(त्व)स्य साधारणत्वात् । तथापि भगवानेवादित्य इति लोकप्रसिद्धिः । सूर्यस्यापि हेतुर्दर्शितो निरतिशयगुणैरिति ॥
सूर्योऽक भवतो युष्मान्रक्षतु । किं कुर्वन् । बिभ्रद्दधत् । काम् । स्वमूर्तिम् । अष्टभेदामष्टप्रकाराम् । क इव । भव इव भगवान्महेश्वरो यथा । 'क्षितिजलपवनहुताशनयजमानाकाशसोमसूर्याख्या:' अष्टमूर्तयः । सूर्ये ता दर्शयितुमाह -- किंभूतः । भूमिं निधानम् । कस्य । धाम्नस्तेजसः । किं च, जलमयीं जलप्रायाम् । अभिवृष्ट्याभिवर्षणेन । जगति लोके । किं च, [^४]पावनीं वायुमयीम् । (जनानां भक्तानाम्) । तथाग्नेयीमग्निमयीम् । दाहशत्तया दाहसामर्थ्येन । मुहुः पुनःपुनर्यजमानां याजकमयीम् । यथाप्रार्थितार्थैः । तथाकाशे लीनां संबद्धाम् । अमृतकरघटितां चन्द्रेण संगताम् । क्व । ध्वान्तपक्षस्य पर्वण्यमावास्यायाम् । तत्र हि सूर्याचन्द्रमसौ संगच्छेते । एवमुक्तया नीत्या सूर्यः स्वयमेवाष्टमूर्ति: श्रीमहादेवतुल्य इति ॥
अह्नां पतिरादित्यो वो युष्मान्पायात् । योऽपर इव मुरारातिर्द्वितीय इव मुरारिः । कीदृशो मुरारातिः कीदृशश्चाह्नां पतिस्तदुच्यते –- मुरारिपक्षे प्राक्काले पूर्वकाले उन्निद्रा जागरिता सावधाना पद्मा श्रीस्तस्याः करौ हस्तौ ताभ्यां परिमलनं हस्तसंवाहनं तेनाविर्भवन्ती प्रादुर्भवन्ती पादयोः शोभा कान्तिर्यस्य मुरारे: स तथोक्तः । कीदृशोऽहर्पतिः । प्राक्काले पूर्वाह्णे उन्निद्रा विकसिता ये पद्माकरास्तेषां परिमलनमवगाहनं तेनाविर्भवन्ती पादानां किरणानां शोभा यस्य सः । किं च, विनतासूनुनारुणेन नीयमान उह्यमानः । क्व । दिवि गगने । भक्त्या भावेन । [^१]त्यक्तोरुखेदोद्गति व्यक्त(बृहत् )जङ्घाखेदोदयं यथा भवति । किं कुर्वन्स्तुत: । अधरयँल्लङ्घयन् । जगन्ति भुवनानि । मुरारिपक्षे तु जगन्ति कति । सप्त । आशु शीघ्रम् । आप्तापरान्तानि प्राप्तपरपाराणि । रविपक्षे तु -- सप्ताश्वाप्तापरान्तानि सप्तभिरश्वैराप्तापरान्तानि आश्रितपश्चिमाशापर्यन्तानि ॥
सोऽचिषामाकरो निधानं खनिर्वा सूर्यः सिद्ध्यै सिद्ध्यर्थं वो युष्माकं स्ताद्भूयात् । सद्यः सपदि । क इव । वेधा इव ब्रह्मेव । किंविशिष्टः । विभक्तः । कथम् । द्वेधा । कीदृशश्च सूर्यः कीदृशो ब्रह्मा तदेव दर्श्यते –- योऽपां पयसां पुरस्तात्पूर्वं स्रष्टा विधाता कर्ता । वेधा हि पूर्वं पयः सृजतीत्यागमविदः । सूर्योऽपि प्रागपां स्रष्टा भवति । 'आदित्याज्जायते वृष्टिः' इति । अचलवरसमभ्युन्नतेर्हेतुरेक इति । अचलवराः कुलशैलास्तेषां समभ्युन्नतिरुच्छ्रायस्तस्य हेतुः कारणम् । एकोऽद्वितीयः । रविपक्षे तु पुरस्तात्पूर्वस्यां दिशि अचलवरो मेरु: ( उदयाद्रिः) तत्र समभ्युन्नतिरुदयस्तस्य हेतुरेक: । मेरुर्हि भगवतोदयता गौरवं नीयते उदयाचल इति । यस्त्रयाणां लोकानां भूर्भुवःस्वर्लक्षणानामुपर्युपरिष्टात्स्थितः । सूर्योsपि त्रिलोक्या उपरि वर्तते । धाम्ना तेजसा । दुर्विलङ्घ्येनानभिभवनोयेन । वेधा तु धाम्ना स्थानेन दुर्विलङ्घ्येन दुष्प्रापेणोपरिस्थितः । परमतीव । तथा प्रसन्नद्युतीनि शुभानि
शोभमानानि चत्वार्याशामुखानि दिग्वदनानि यत्रोदिते सति स तथोक्तः । अन्यत्र चतस्र आशा इव महत्वान्मुखान्याननानि यस्य स तथाभूतः ॥
दीप्तांशुः सूर्यो वो युष्मभ्यं शं सुखं दिश्याद्यच्छतु । यस्याश्वाञ्शास्ति नियमयति । कः । दन्दशूकाशनाद्यः । दन्दशूकाः सर्पास्तदशनो गरुडस्तस्याद्यो ज्येष्ठः प्रथमोऽरुणः । आशयविदभिप्रायज्ञः । अतिशयाद्विशेषतः । कीदृशो दीप्तांशुः । अशिवयुगदशादर्शितद्वादशात्मा अशिवयुगं क्षयसमयस्तत्र दशा तथा दर्शिता द्वादशात्मानो येन सः । यो दृशो दिशति चक्षूंषि ददाति । दशदिशो दर्शयन्दशाशाः प्रकाशयन् । किंभूताः । साद्रिद्यूर्वी नदीशाः । अद्रयः पर्वताः द्यौर्नभः उर्वी पृथ्वी नदीशा: समुद्राः । अद्रयश्चेति संबन्धः । तैः सह वर्तन्त इति ता: तुल्ययोग इति पुनर्बहुव्रीहिः । प्राक् प्राचीम् । किं च, यस्य सादृश्यं नो दृश्यते तुल्यत्वं नोपलभ्यते । त्रैदशे देशे देवानां स्थाने स्वर्गे । सह दशशतदृशा शक्रेण वर्तत इति [तस्मिन् ] देशे ॥
स दिवसस्यैकहेतुर्दिनस्य प्रधानकारणं भानुर्वो युष्मभ्यं दिशतु यच्छतु । किं तत् । हितं पथ्यम् । यत्रान्यलोकानपरजगन्ति त्रातुं पातुं याते गते सति तीर्थानि पुण्यस्थानानि व्यर्थकानि जायन्ते । अकिंचित्करत्वात् । भास्वत्युदिते सति फलं दातुं समर्थानि तत्सेवकानाम् । न तद्विरहे । कासां संबन्धितीर्थानि । ह्रदनदसरसीनिर्झराम्भोजिनीनाम् । ह्रदा अगाधा जलाशयाः । नदाः शोणादयः । सरस्यो महासरांसि । निर्झराः प्रस्रवाः । अम्भोजिन्यः पुष्करिण्यः । ह्रदाश्च नदाश्चेति समासः । अपि च, उदन्वन्तः समुद्रा न प्रतिभयं नुदन्ति न पापमपनयन्ति । प्रतिशब्देनात्र पापं विवक्षितम् । अशुभश्वभ्रपातानुबन्धि । अशुभश्वभ्रं नरकः । श्वभ्रमिव सः । अधोगतिहेतुत्वात् । तत्र पातस्तदनुभवकारणम् । नाकापगाया अप्यापो जलानि कलुषमुषो नैव पापापहा न । एतानि सर्वाणि तीर्थानि भानुमताधिष्ठितानि स्वकार्यक्षमाणि भवन्तीति वाक्यार्थः । केषाम् । मज्जतां स्नानं कुर्वताम् ॥
असौ रविर्भास्वान्वोऽवतु । किंभूतः । सर्गतुल्योदयः सृष्टिसमानोदयः । यद्वियोगाद्यद्विरहादेतत्रैलोक्यमिदं त्रिभुवनं निशि निशि रात्रौ रात्रौ तादृगेव जायते यादृशं सृष्टे: पुरस्तात्पूर्वमासीदस्ति स्म । किंभूतम् । पातालपङ्कप्लुतमिव । पातालमधः पङ्कः कर्दमस्तत्र प्लुतं मग्नमिव । केन । तमसा । एकमद्वितीयम् । उद्गाढं प्रबलम् । अप्रज्ञाताप्रतर्क्यम् । न प्रज्ञायते स्माप्रज्ञातो बोद्धव्यप्रतीत्यविषयः । अप्रतर्क्यस्तर्कयितुमशक्यः । अप्रज्ञातं चाप्रतर्क्यं च तदेवंविधम् । सुप्तमन्तस्ततश्च निरवगति प्रत्यक्षस्याविषयम् । तथा अलक्षणं लक्षणस्याविषयम् । सांप्रतमप्येवंभूतमेव भवति ॥
सोऽह्नां दिनानां हेतुः कारणमिनोऽर्को वोऽव्यात् । कीदृशोऽसौ । स्वप्रभुत्वाहितभुवनहितः । स्वं च तत्प्रभुत्वं च तेनाहितं कृतं भुवनहितं लोकपथ्यं येन स तथोक्तः । नो तु पुनर्यमिनं देशकालौ नियमयतः इनस्य नियामकौ न भवतः । कथंभूतौ । यद्वश्यौ यदधीनौ । देशकालौ प्रदेशसमयौ । देश: पूर्वादिदिग्विशेषः । कालः समयः प्रभातादिः । अस्मिन्द्वीपे योऽस्ताचलोऽस्तपर्वतः स खल्वपरत्र द्वीपान्तरे उदयाद्रिरुदयाचलः । अन्यत् । इह देशे या निर्मलचन्द्रकान्ती रात्रिः सोऽन्यत्र दुःसहातपो दिवसः । यदा किल सहस्रकिरणो भगवान्मेरोर्दक्षिणस्यामुदेति तदा मेरोरुत्तरस्यामस्तमेति । मेरोः पूर्वस्यां मध्यदिनं पश्चिमायां मध्यरात्रं च । अतो हेतोः पूर्वादिदेशः पूर्वादिसंध्याकालः एतो यस्य रवेर्वश्यौ भवतः न तु रविरेतयोर्देशकालयोर्वश्यः । एतेन सूर्यचक्रभ्रमात् पृथक्पृथग्देशकालनिर्माणं गणितशास्त्रे प्रसिद्धमस्तीति भावः ॥
स ग्रहग्रामणीः सूर्यो वो युष्माकं गहनं पापमघं ग्लपयतु स्फोटयतु । उद्गाढाश्च ता अर्चिषश्च ता विलीना हृतास्ते च ते अमरनगरनगग्रावाणश्च तद्गर्भा यस्याः सा तथोक्ता । अमरनगरं त्रिदशवासः । नगः शैलः । अमरनगरं च तन्नगश्चेति समासः । क्व । अग्रे मुखे । अह्नां वासराणाम् । किं कुर्वन् । गां गौरयन् । कैः । गोगणै रश्मिस मूहैः । किंभूतैः । व्यग्रैः । अग्र्यग्रहेन्दुग्रसनगुरुभरैः अग्र्याः पौरस्त्यास्ते च ग्रहाश्चाग्र्यग्रहाः ते चेन्दुश्चन्द्रमाश्चाग्र्यग्रहेन्दवस्तेषां ग्रसनमभिभवस्तस्य गुरुभरो महाभारो येषां तैः । नो समग्रैरपरिपूर्णैः । बालत्वात् । उदग्रैर्बृहद्भिः । प्रत्यग्रैर्नवत्वात् । ईषदुग्रैः किं चित्तीक्ष्णैः । बालत्वात् । एवंभूतैर्मयूखैर्गां गौरयन् । द्रुतसुवर्णगर्भामिव करोतीति तात्पर्यार्थः । इन्दोर्ग्रहणमिन्दोर्महातेजसोऽप्यभिभवप्रदर्शनार्थम् ॥
स सूर्यो वो युष्मानवतात्पातु । यास्तासां संज्ञानां एकः प्रधानमभिधेयो वाच्यः । कासाम् । या अमृतभुजां देवानां यदृच्छानिरभिधेयं प्रवृत्ता भूताः । किमिव । डवित्था दिवत् डवित्थादयो यथा । डित्थो डवित्थ इत्यादयः संज्ञा जातिक्रियादिनिमित्तमन्तरेण यथासंकेतं वाचकत्वेन प्रवर्तन्ते यथा एता अपि संज्ञा एतेषु देवेषु निमित्तमन्तरेणैव प्रवर्तन्त इत्युक्तं भवति । यथैतेषु तथा रवावपि प्रवृत्ताः कदाचिद्भविष्यन्तीत्याह -- तदनुगुणगुणैः गुणशब्दप्रवृत्तिनिमित्तास्तदनुगुणाः संज्ञानुकूला ये गुणास्तैः कृत्वा । एतदुक्तं भवति —- तासां संज्ञानां यानि यानि प्रवृत्तिनिमित्तानि तैरेव निमित्तैर्भास्वन्तमभिदधते न ब्रह्मादिवद्यदृच्छमिति । कास्ता: संज्ञा: । योनिः साम्नां विधाता । योनिः प्रभवः । साम्नां सामवेदस्य । विधाता वेधाः । तथा मधुरिपुर्विष्णुरजित इति । धूर्जटिर्महादेवः शंकर इति । मृत्युरन्तकः काल इति । अलकायाः पतिः कुबेरो धनद इति । जातवेदा वह्निः पावक इति । एतासां हि संज्ञानां यथाक्रमं सामवेदकारणत्वं........ कलनक्रिया हेतुत्वं धनकर्ट(दातृ)त्वं पावनक्रियाकर्तृत्वं प्रवृत्तिनिमित्तम् । तत्तु भास्वत्येव न तेषु ॥
असौ दशशताभीपुः सहस्रांशुर्वो युष्मभ्यमभ्यर्थितं दिशतु यच्छतु । एवमित्थं न निर्णीयते नावधार्यते जगतामेषां मध्ये क इति । किं देवः सुरः । किं बान्धवो ज्ञाति: स्याद्भवेत् । अथ किं प्रियसुहृदिष्टमित्रम् । किंवा आचार्यं उपदेष्टा । आहोस्विदर्यः स्वामी महाकुलीनः । रक्षा त्राणम् । चक्षुर्लोचनम् । नु वितर्के । दीपः प्रदीपः । गुरुः पूज्य: । उत किं जनकः पिता । अथ जीवितं प्राणितम् । उत बीजं कारणम् । उत ओजो बलम् । ननु चैकतमकार्येणैव देवादीनामन्यतमा इति निश्चेष्यत इत्याह -- सर्वाकारोपकारी यतः सर्वैर्देवाद्याकारैरुपकारे रतः । अतः क इति निर्णेतुमशक्य एव । सर्वथा सर्वप्रकारैः । सर्वदा सर्वकालम् । केचिद्भिन्ना वा अभिज्ञार्थं मन्यमाना गुरुरिति (?) । तस्मान्नानात्वं सर्वव्यापकत्वं च । नानाकारं सर्वोपकारं कुर्वन्न(तो)ऽपि बान्धवादिभेदैः सर्वात्मकत्वं दर्शितम् ॥
श्रीमयूरेण कविना लोकस्य जगतो भूत्यै समृद्ध्यर्यं शतं श्लोका इत्युक्तप्रकारेण र चिताः । सन्तीति शेषः । 'विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः' इत्यनुशासनात्संख्येयपरमपि शतमितिपदमेकवचनान्तं प्रयुज्यते । 'श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम्' इति श्रुतबोधाद्युक्तेर्यद्यपि श्लोकशब्दोऽनुष्टुप्छन्दोभेदे वर्तते, तथापि नानार्थकत्वात्तस्य पद्यमात्रेऽपि वृत्तिः । तथा चामरसिंह: –- 'पद्ये यशसि च श्लोकः' इत्यनुशिष्टवान् । अत एव निर्णयसिन्धूप्रथमपरिच्छेदे संक्रान्तिनिर्णये कमलाकरभट्टेन 'प्रागूर्ध्वं दश पूर्वतः षडवनिस्तद्वत्पराः पूर्वतः' इत्यादीनि पद्यानि 'अत्र मामकाः संग्रहश्लोकाः' इत्युक्त्वावतारितानि । उपक्रान्तस्य सूर्यस्तवस्यैवमुपसंहारं कृत्वास्य लोकहितावहत्वलक्षणप्रयोजनान्तरं दर्शयितुमाह -- भक्त्या युक्त इत्यादिना । एतांश्च श्लोकान्यः पुरुषो भक्त्या युक्तः सन्पठेत्स सर्वपापैर्विमुक्तः । भवतीति शेष: । एतेन स्वर्गादिफलं स लभत इति सूचितम् । सर्वपापक्षयस्य चित्तशुद्धिद्वारा मोक्षान्तफलसाधनत्वस्यान्यत्रोक्तत्वादिति भावः । किं चात्र लोकेऽपि सूर्यप्रसादादारोग्यादिकं यद्यत्कामयते तत्तत्फलं लभते । प्राप्नोतीत्यर्थः ॥ ]