<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<pb n="2" />
<pb n="3" />
<pb n="4" />
<pb n="5" />
<p>GAEKWAD'S ORIENTAL SERIES
Published under the authority of
the Government of His Highness
the Maharaja Gaekwad of Baroda.
No. LXXXII
श्रीमदारोहकभगदत्तजल्हणविरचिता
सूक्तिमुक्तावली
चौखम्बा संस्कृत पुस्तकालय
पो. बाक्स ८, बनारस।
वि.
जंगमवाड़ी मठ काश
General Editor :
B. BHATTACHARYYA, M. A., Ph. D.
CC-0. Jangamwadi Math Collection. Digitzed by eGangotri</p>
<pb n="6" />
<pb n="7" />
<p>THE
SŪKTIMUKTĀVALĪ
OF
BHAGADATTA JALHANA
Edited with an introduction in Sanskrit
BY
EMBAR KRISHNAMACHARYA
Sanskrit Pathsala, Vadtal
1938
ORIENTAL INSTITUTE
BARODA
CC-0. Jangamwadi Math Collection. Digitzed by eGangotri</p>
<pb n="8" />
<p>015, IBHA,1
Printed by S. V. Parulekar, at the Bombay Vaibhav Press, Servants of India Society's
Home, Sandhurst Road, Girgaon, Bombay.
AND
Published on behalf of the Government of His Highness the Maharaja Gaekwad
of Baroda by Benoytosh Bhattacharyya, Director, Oriental Institute, Baroda.</p>
<pb n="9" />
<p>विषय-सूची
१ प्रस्तावना                                   .......                         ........                       ........                ७
२  विषयानुक्रमणि                                                                                                                     ६५
३ सूक्तिमुक्तावली                                                                                                                 १-४६३
४ पयानामनुक्रमणी                                                                                                                      १
५ पद्यानुक्रमण्या अनुबन्धः...                                                                                                        ४३
६ पद्यानुक्रमण्याः संशोधनम्                                                                                                        ४४
७ कविनामानुक्रमणी                                                                                                                  ४५
८ ग्रन्थनामानुक्रमणी ( १ )                                                                                                           ८०
९ ग्रन्थनामानुक्रमणी ( २ )                                                                                                          ८३
१० शुद्धिपत्रम्                                                                                                                            ८५
_______________</p>
<pb n="10" />
<pb n="11" />
<p>प्रस्तावना.
_______</p>
<lg>
  <l>जयन्तु कवयो मान्याः सूक्तिरत्नाकरश्रिया ।</l>
  <l>येषां मुखारविन्देषु रमते सा सरस्वती ॥</l>
</lg>
<lg>
  <l>जयन्तु वश्यवचसां कवीनां सूक्तयो भुवि ।</l>
  <l>यासामास्वादनाच्चित्ते व्यज्यते स परो रसः ॥</l>
</lg>
<lg>
  <l>जयन्तु ते सहृदयाः काव्यामृतनिषेविणः ।</l>
  <l>येषामाह्लादनान्नान्यत् कवीनां स्वकृतेः फलम् ॥</l>
</lg>
<p>अयं खलु निबन्धः सुभाषितसङ्ग्रहैकस्वरूपः सूक्तिमुक्तावलीति नाम्नाऽन्वर्थेन ख्यायमानः
काव्यामृतशरीरेणाद्यापि जीवतः कवीन बहून श्रुतचरानश्रुतचरांश्च अद्यतनानां सहृदयानां दृष्टिपथे
समवतारयन् समाप्लावयंश्च सुभाषितसुधारसैरवगाहमानानखिलान् समुल्लासयन् सकलसुमनोमनांसि
समुपदर्शयंश्चैकैकस्मिन्विषये कवीन मुपवर्णन वैचित्र्यं कमप्याह्लादमुपजनयति सहृदयानाम् । ईदृशा
निबन्धाः सदुक्तिकर्णामृत कवीन्द्रवचनसमुच्चयप्रभृतय इतः प्राक्तनाः । शार्ङ्गधरपद्धतिप्रभृतय इतः
पश्चात्तना अपि सन्ति नाम ।
अस्याः सूक्तिमुक्तावल्याः कर्ता जल्हण इति व्यक्तं विज्ञायते । उपक्रमे ह्यस्याः पद्यमिदम् –
'तेनेयं क्रियते वीक्ष्य सत्सुभाषितसंग्रहान् । सूक्तिमुक्तावली कण्ठकदलीभूषणं सताम्' इति ।
(५. पृ.) उपस्थापयतिचैतत् जल्हणम् । पूर्वमस्यान्वयो हि समनुवर्ण्यते- 'तस्यान्वयेऽभूत् ।
इत्यादिना 'कीर्त्या यस्ये 'त्यन्तेन पयजातेन ( ५ पृ.) अन्तिमश्लोकश्चायमनुक्रमणिकाप्रकर-
णस्य 'श्रीमता भगदत्तेन जल्हणेन व्यरच्यत' इति । ( ७ ) यदा पुनरादाविवान्तेऽपि दृष्टि:
प्रसार्येत तदा तु निबन्धस्यास्य कर्ता कविवरोऽन्य एव विज्ञायते । तथाचान्ते श्लोकाविमौ - 'शाकेऽ-
डाद्रीश्वरपरिमिते +++ जल्हस्यार्थे व्यरचि भिषजा भानुना सेयमिष्टा ॥ शश्वत्कृष्णमहीपस-
म्पधेर्वृद्धौनिशानायक: +++ भिषजां वरो विजयते श्रीभास्कराख्यः सुधी: ' इति । (पृ. ४६३ )
तदिदं श्लोकद्वयमवहितेन मनसा विमृशन्तो वयमिहैवं संभावयामः-कविरयं वैद्यभानुः जल्हणं
प्रीणयन् विरच्य सूक्तिमुक्तावलीमिमां तस्मै समर्प्य तमेवास्याः कर्तारं जगति ख्यापयन आदौ तस्य
वंशमनुवर्णयन् 'तेनेयं क्रियते +++ सूक्तिमुक्तावली कण्ठकदलीभूषणं सताम् ' इति तमेव जल्हण-
मस्याः कर्तारं कण्ठरवेण प्राहेति । पुरा खलु बहवः कवयः प्रभुं समाराधयन्तः काव्यानि विरच्य तमेव
प्रभुं तस्य काव्यस्य कर्तारं काव्यारम्भे ख्यापयन्तः सम्मानिताश्च तेन प्रभुणा धनकनकादिभि-
रभूवन्निति विख्यातमेतत् ।
किं च सेयं सूक्तिमुक्तावलिः आदावन्ते च वैद्यभानुकवेः सूक्तिरत्नैः सङ्ग्रथितैर्विग्रोतमाना
सूचयतीव कर्तारं वैद्यभानुकविम् । संमुद्रितेव हीयं भाति कविना स्वसूक्तिभिरादावन्ते च । आदौ-
नाङ्गुलीयैर्न केयूरैः न ग्रैवेयैर्न च कङ्कणैः । तथा भाति यथा विद्वान् कण्ठसङ्गतयाऽनया' इति
( ५ पृ. ) अन्तेच 'शौर्य श्लाघाविहीनं x x शङ्कर त्वत्प्रसादात् ' ( ४६३ ) इति । ( श्लोका-
विमौ वैद्यभानुकवेः ) यद्यपि - 'तेनेयं क्रियते वीक्ष्य x x x सताम् ' इत्यस्य श्लोकस्य समनन्तरं</p>
<pb n="12" />
<p>८                                                      सूक्तिमुक्तावली
ग्रथितैः ' विबुधैः सन्निवेशज्ञैः सङ्ग्रहीतान्यनेकशः । सुधारससनाभीनि सन्ति सूक्तानि यद्यपि ।
तथाऽपि स्वर्वतां नीत्वा विबुधैर्गर्वपर्वतम् । शश्वदालोकनीयोऽयं मत्सरः किं गुणेष्वपि । साहित्य-
विद्यां हृदयं ज्ञातुमिच्छसि चेत्सुखम् । तत्पश्य जल्हणकृतां सूक्तिमुक्तावलीमिमाम् । नाङ्गुलीयैर्न केयू-
रैर्न ग्रैवेयैर्न कङ्कणैः । तथा भाति यथा विद्वान् कण्ठसंगतयाऽनया ।' इत्येतैः वैयभानुपण्डितस्येति
नामनिर्देशसहितैरेतद्विज्ञायते-कर्ता जल्हणः, स्तौति वैद्यभानुकविस्तस्य कृतिमिति । तथाऽपि निद-
र्शितेन 'जल्हस्यार्थे व्यराचे भिषजा भानुना सेयमिष्टा ।' इत्यनेन श्लोकेन वयमेवं संभावयामः-
वैद्यभानुकविरेव स्वकृतिमपि सूक्तिमुक्तावलीं 'तेनेयं क्रियते' इत्यन्तेन श्लोकेन जल्हणकर्तृकतयैव
ख्यापयन् तामिमां स्वात्मना स्तौति तैरेतैश्चतुर्भिः श्लोकैरिति ।
अथ वयमधुना करस्यैव मतेन कर्तृतयाख्यायमानं जल्हणमेवास्याः कर्तारं भावयन्तश्चरित -
मस्यानुवर्णयामः । आसीत् पुरा कोऽपि यादववंशसमुत्पन्न: मैलुगि ( मल्लुगि ) नामा क्षोणिपालः ।
तस्मिनंं प्रशासति पृथिवीमासीत्तस्यैव करिवाहिनीपतिः दादा नाम वात्स्यः कोऽपि प्रथितनयपराक्रमः ।
तस्यासन् चत्वारः पुत्राः- महीधरो जल्हः साम्बो गङ्गाधरः इति । तेषु यश्चरमो गङ्गाधरस्तस्य नप्ता
जनार्दनस्य पौत्रः लक्ष्मदेवस्य पुत्रः सोऽयं जल्हणः । सर्व एवैते तस्यैव राज्येऽन्वयक्रमेण करिवाहिनी-
पतय आसन् ।
अयमन्वयक्रमः
दादा:
महीधरः   --------    जल्हः  ------- साम्बः   ------गङ्गाधरः
अनन्तः                                                                           जनार्दनः
लक्ष्मदेवः
जल्हण:
अयं च क्रमः अस्या एव सूक्तिमुक्तावल्या आरम्भे विज्ञायते -
'तस्यान्वयेऽभूत् करिवृन्दनाथो दादाः सदा दाननिदानभूतः । '
'चत्वारस्तस्य सञ्जातास्तनया नयशालिनः । ख्यातो महीधरो जल्हः साम्बगङ्गाधरावुभौ
वीरश्रियमङ्कस्थां स न कस्य महीधरः स्तुत्यः ।'
'किंचित्रं यदि भोगीन्द्रोऽनन्तस्तत्तनयो महान् । '
'ददाह कामं न जनस्य रुष्टस्तथाऽपि गङ्गाधर एव सोऽभूत् । '
'तस्याभवत् सूनुरनूनसत्वो जनार्दनाख्यः करिवाहिनीशः।'
'तस्मादद्भुतविक्रमः ( समभवत् ) श्रीलक्ष्मदेवः सुधीः । '
'तस्यास्ते तनयो नयोदधिविधुः + + श्रीजल्हणाख्यः सुधीः ।' इति ॥
येषां राज्ञां करिवाहिनीपतय एते अभूवन, ते राजानश्चत्वार इहैव निर्दिश्यन्ते मैलुगिः भिल्लभः
सिंह: (सिंघण:) कृष्णदेव इति । तत्र मैलुगिक्षोणिपालस्य राज्यं महीधरजल्हसाम्बगङ्गा
घरैश्चतुर्भिर पि
काले काले राज्यधूर्वहणे राज्ञः संपूर्ण साहाय्यमाचराद्भः स्वबलनिर्धुतवैरिजलैः परामुन्नतिं गमितम् ।</p>
<pb n="13" />
<p>प्रस्तावना
तेषु महीधरः मैलुगेर्महीपतेर्वैरिणं बिज्जणं विजित्य वीरश्रियासमाश्लिष्टः सर्वेषामेव मान्यतमो-
ऽभवत् । अस्य पुत्रोऽनन्तः विजित्य शत्रून तदीयक रिसैन्यं समानीय स्वस्वामिने ददौ । अथ मिल्लमे
राज्यं प्रशासति जल्हः प्रधानः करिवाहिनीपतिरभूत् । सिंहे (सिंघणे) राज्यं प्रशासति गंगाधरस्य पुत्रो
जनार्दनः करिवाहिनीपतिरासीत् । यस्यैव बलेन संप्रवृद्धपराक्रमेण सिंहेनार्जनो नाम रिपुः समुन्मू-
लितः । अथ कृष्णमहीपतौ प्रशासति जनार्दनस्य पुत्रो लक्ष्मदेवः करिवाहिनीपतिः समभृत् । यस्यैव
मन्त्रैः कृष्णमहीपते राज्यं स्थिरमभूत् । तस्मिन्नेव कृष्णमहीपतौ राज्यधुरं निर्वहति लक्ष्मदेवस्य पुत्रो
जल्हणोऽयं करिवाहिनीपतिरासीत् येनेयं सूक्तिमुक्तावली संग्रथिता प्रथते । तथा चोपक्रमे श्लोका-
' उपायैरिव तैः काले चतुर्भिः सुप्रयोजितः ।
मैलुगिक्षाणिपालस्य राज्यं जातं समुन्नतम्
'बिज्जणजलराशिं विमथ्य भुजमन्दरेण यः कृतवान्
वीरश्रियमङ्कस्थां स न कस्य महीधरः स्तुत्यः । '
'किं चित्रं यदि भोगीन्द्रोऽनन्तस्तत्तनयो बहून् ।
आनीय बलिसस्थान नागान् स्वस्वामिने ददौ "
'विजित्य बिज्जणं याते सुरलोकं महीधरे ।
निनाय मिल्लमं जल्हो राजतां क्षयवर्जिताम् । '
आसीत् गङ्गाधरस्तस्य भ्राता गङ्गाधरोपमः ।
तस्याभवत् सूनुरनूनसत्वो जनार्दनाख्यः करिवाहिनीशः ।
'सिंहोऽप्यध्यापितस्तेन गजशिक्षां तदुद्भुतम् ।
यथार्जुनं लसत्पत्रं समूलमुद मूलयत् ।
'तस्माद्भुतविक्रमः समभवत् श्रीलक्ष्मदेवः सुधीः ।
"राज्यं कृष्णमहीपतेरविकलं दत्त्वा स्थिरं योग्यधात् "' तस्यास्ते तनयः x x श्रीजल्हणाख्यः क्षितौ । मत्पित्रादत्तमस्मै x x राज्यं प्राज्यप्रथितगुण
भृताकृष्णराजाय भक्त्या । तन्निर्वाह्यं मयेति x x विधत्ते सर्व यः स्वामिकार्यम् । " इति ।
राज्ञां चैषामयमन्वयक्रमः
मल्लुगि:
विश्वाराध्य
( अमर ) मल्लुगिः ( मैलगिः ) मिल्लमः (१९८७-११९१) A. D.
।
अमरगाङ्गेयः
कालीयवल्लालः
जैत्रपाल: (१९९१-१२१०) A.D.
कृष्णः ( १२४७–१२६० ) A. D.
।
सिंहः ( सिंघणः ) १२१०–१२४७ A. D.
J
जैतगि:
-
महादेवः
CC-0. Jangamwadi Math Collection. Digitzed by eGangotri
ल
A</p>
<pb n="14" />
<p>सूक्तिमुक्तावली
विज्ञायते चायमन्त्रयक्रमो हेमाद्रिविरचिते चतुर्वर्गचिन्तामणौ व्रतखण्डे राजप्रशस्तावेतः
श्लोकैः--</p>
<lg>
  <l>ततो मल्लुगिपुत्रोऽभूत् भूपालोऽमरमल्लुगिः ।</l>
  <l>अथ कालीयवल्लालः पालयामास मेदिनीम् ॥</l>
</lg>
<p>महीपतेस्तस्य विहाय पुत्रान् गुणानुरक्ता यदुवंशलक्ष्मीः
* श्री भिल्लमं तस्य ततः पितृव्यमव्याजराजद्भुजमाजगाम ॥</p>
<lg>
  <l>यः श्रीवर्धनमाससाद नगरं क्षोणीपतेरन्तलात्</l>
  <l>यः प्रत्यण्डकभूभृतं च समरे दुष्टं व्यचेष्ट क्षणात् ।</l>
  <l>यो वा मङ्गलवेष्टकं क्षितिपतिं श्रीविल्लणं जनिवान्</l>
  <l>कल्याणश्रियमप्यवाप्य विदधे यो होसलेशं व्यसुम् ॥</l>
</lg>
<lg>
  <l>स दण्डिकामण्डलमण्डयित्रीमकम्पसम्पद्विभवैर्विलासैः ।</l>
  <l>चक्रे पुरं देवगिरिं गिरीशप्रसादसंसादितदिव्यशक्तिः ॥</l>
</lg>
<lg>
  <l>तदनु मदनमूर्तिः कार्तिकीचन्द्रसान्द्रद्युतिविशदयशोभिः शोभिताशावकाशः ।</l>
  <l>अभवदवनिपालो जैत्रपालः करालप्रहरणरणरिङ्गजङ्गदुत्नुङ्गखङ्गः ॥</l>
</lg>
<lg>
  <l>दीक्षित्वा रणरंगदेवयजने प्रोदस्तशस्त्रस्रुवः श्रेणीभिर्जगतीपतीन् हुतवता येन प्रतापानले ।</l>
  <l>तिल्लिङ्गाधिपतेः यशोविशसनं रौद्रस्य रुद्राकृतेः कृत्वा पूरुषयज्ञ मेधविधिना लब्धस्त्रिलोकीजयः ॥</l>
</lg>
<lg>
  <l>तस्मादभूदभिनवस्मरचारुकीर्तिः कीर्तेः पदं स किल सिंधणदेव भूपः ।</l>
  <l>उद्दण्डदोर्युगलगर्वितवैरिवीरसीमन्तिनी वदनकैरवचण्डभानुः ॥</l>
</lg>
<p>येनानीयत मत्तवारणघटाजज्जल्लभूमीपतेः कुक्कूलादवनीपतेरपहृता येनाधिराज्यश्रियः ।</p>
<lg>
  <l>येन क्षोणिभृदर्जुनोऽपि बलिना नीतः कथाशेषतां ।</l>
  <l>येनोद्दामभुजेन भोजनृपतिः काराकुटुंबीकृतः ॥</l>
</lg>
<lg>
  <l>+कृष्णो महादेव इति प्रतीतौ जातौ ततः सिंहनृपस्य पौत्रौ ।</l>
  <l>तयोस्तु पूर्वप्रभवः पुरस्तात् कृष्णोऽतिविख्यातमतिर्नृपोऽभूत् ॥</l>
</lg>
<p>येनाकारि विशालवीसलचमूसंहारकालानले हेलोन्मूलितमूलराजसमरे निर्वीरमुर्वीतलम् ।
येनानेकमहाफलऋतुकृता संवर्ध्यमानोऽनिशं
क्षीणः कालवशात् पुनस्तरुणतां धर्मोऽपि संप्रापितः ॥ ' इति ।
अयमपरश्च पाठक्रमस्तस्मिन्नेवार्थे-</p>
<lg>
  <l>' वंशो हिमांशोर्जयति प्रसिद्धो यस्मिन् स राजा यदुराविरासीत् ।</l>
  <l>बभूव यस्मिन्नसुरावतारभारापहाराय पुरा मुरारिः ॥</l>
</lg>
<p>______________________________________________________________________________________________
* अयमेव भिल्लमः ' निनाय भिल्लमं जल्हो राजतां क्षयवर्जिताम्।' इत्यनेनात्रत्येन श्लोकेन प्रत्यभिज्ञायते ॥
१ इदमेव चरितं सिंघणस्य (सिंहस्य ) 'सिंहोऽप्यध्यापितस्तेन गजशिक्षां तदद्भुतम् । येनार्जुनं लसत्पत्रं
समूळमुदमूलयत् ॥
+ अयमेव कृष्णमहीपतिः— 'राज्यं कृष्णमहीपतेरविंकलं दत्वा स्थिरं यो व्यधात्' इत्यनेनात्रत्येन श्लोकेन
प्रत्यभिज्ञाप्यते ।
CC-0. Jangamwadi Math Collection. Digitzed by eGangotri</p>
<pb n="15" />
<p>प्रस्तावना
निन्ये नाशं वैरिभूभृत्पतङ्गान् यस्यानेकद्वीपदीपः प्रतापः ॥
वंशे तस्मिन् कंसविध्वसनस्य क्षोणीपालो भिल्लम: प्रादुरासीत् ॥
नम्रीभवत्सकलराजसमाजमौलिमाणिक्यदीधितिविबोधितपादपद्मः ॥
उद्दामदर्परिपुसर्पविहङ्गराजः श्रीभिल्लमादवनिपोऽजनि जैत्रपालः ॥
तस्मादभूदभिनवस्मरचारुकीर्तिः कीर्तेः पदं जगति सिंधणदेवभूपः ॥
उद्दण्डदोर्युगलगर्वितवैरिवर्गसीमन्तिनीवदनकैरवचण्डभानुः ॥
अथ सकलकलानामालयः पालनाय क्षितितलमवतीर्णः पौर्णमासीशशीव ॥
अभवदवनिपालो जैतुगिनीम तस्मादसमसमरधीरो द्वेषिभूपालकालः ॥
स भूमिपालो जनयांवभूव कृष्णं मदादेवमहीपतिं च ॥
+ + + + + + + + धर्मार्थाविव तौ साक्षात्पालयन्तौ वसुन्धराम् ॥
विलोक्य लोकः सस्मार राजानौ रामलक्ष्मणौ ॥ ' इति ॥
भामतीव्याख्यां कल्पतरुमारभमाणः श्रीमानमलानन्दस्तावेनौ कृष्णमहादेवावुपवर्णयन्ति–</p>
<lg>
  <l>'कीर्त्या यादववंशमुन्नमयति श्रीजैत्रदेवात्मजे ।</l>
  <l>कृष्णे क्ष्माभृति भूतलं सह महादेवेन संबिभ्रति ॥</l>
</lg>
<p>भोगीन्द्रे परिमुञ्चति क्षितिभवप्रोद्भूतभूरिश्रमं ।
वेदान्तोपवनस्य मण्डनकरं प्रस्तौमि कल्पद्रुमम् ॥ ' इति
अन्ते चैवं वर्णयति-</p>
<lg>
  <l>शास्त्राम्बुधेः पारगता द्विजेन्द्रा यद्दत्तचामीकरवारिराशेः ।</l>
  <l>ज्ञातुं न पारं प्रभवन्ति तस्मिन् कृष्णक्षितीशे भुवनैकवीरे ॥</l>
</lg>
<p>भ्रात्रा महादेवनृपेण साकं पाति क्षितिं प्रागिव धर्मसूनौ ।
कृतो मयाऽयं प्रवरः प्रबन्धः प्रगल्भवाचस्पतिभावभेदी ॥ ' इति ।
अनेन श्रीमदमलानन्दवचनेन राज्यभारनिर्वहणे भ्रात्रोरनयोः साहित्यं गम्यते । 'धर्मार्था-
विव तौ साक्षात् पालयन्तौ वसुन्धराम् । विलोक्य लोक: सस्मार राजानौ रामलक्ष्मणौ' इत्यनेन हेमाद्रे-
वचनेन च साहित्यमिदमवगम्यते । एतेन वयमिदं भावयामः- अग्रजे भ्रातरि महाराजपदवीं सम-
लङ्कृत्य राज्यं प्रशासति अनुजो युवराजपदवीमलङ्कुर्वन् राज्यभारनिर्वहणे चाग्रजस्य सहायोऽभू-
दिति । अयमपि भानुकविः साहित्यमिदं द्योतयति- 'मत्पित्रा दत्तमस्मै ××× × × सार्धं यः स्वामि-
कार्यं हितमनयहृता भावुकेनानुजेन' इति । जल्हणस्यास्यान्वयं जिज्ञासमानान्, आलक्ष्य भिल्लमादीन-
विमर्शसरण्या यादवान्वयमिममनुप्रविष्टानस्मान्, महादेवेन लब्धप्रतिष्ठो हेमाद्रिः श्रावयति आभिल्लमादा-
महादेवं स्वभुजबलनिर्जितारातिमण्डलान् अनुदिनमभिवर्धमानराज्यलक्ष्मीसंपन्नान् । अयं भिषग्वरो
भानुकविः जल्हणेन लब्धप्रतिष्ठः तानेतान् यादवकुलालङ्कारभूतान् मौलुगिभिल्लमसिंहकृष्णान् महीधर-
जल्ह गङ्गाधर जनार्दनलक्ष्मदेवजल्हणानां अन्वयक्रमानुवृत्तानां करिवाहनीशानां प्रज्ञापराक्रमबलेनैव
क्रमशः समभिवृद्धराज्यलक्ष्मीकान् श्रावयति । वयं पुनर्जल्हणस्य कुलं विमृशन्तः कुलमस्य
यादवकुलभूपालानां वाहिनीनायकत्वेन परां प्रतिष्ठां प्रापेति मन्महे ।</p>
<pb n="16" />
<p>सूक्तिमुक्तावली
अथैषां राज्ञां चरितात् प्रासङ्गिकात्प्रतिनिवृत्य जल्हणस्यास्य देशकालावुत्पश्यामि: । अस्मि-
नन्वये अस्मादयमजनीतिवदयमस्मिन् देशे अजनीति विशेषावबोधकं वचनं नैकमप्युपलभ्यते,
अतोऽयं यस्य राज्ञः करिवाहिनीपतिरासीत् तस्य देश एवास्य देश इति स्वरसतः संभाव्यते ।
राज्ञश्च तस्य देवगिरिः आभिल्लमात् पूर्वपुरुषादनुवर्तमाना राजधानीति हेमाद्रेर्वचनेनावगम्यते । समय
श्वास्यामेव सूक्तिमुक्तावल्यां अन्त्येन श्लोकेन–' शाकेद्रीश्वरपरिमिते ( १९७९ ) वत्सरे पिङ्ग-
लाख्ये चैत्रे मासि प्रतिपदि तिथौ वासरे सप्तसप्तेः । पृथ्वीं शासत्यतुलमहसा यादवे कृष्णराजे जल्ह-
स्यार्थे व्यराच भिषजा भानुना सेयमिष्टा' इत्यनेन विज्ञायते । ( A. D. 1258 )
प्राचीन नेक सुकविसूक्तिसंग्रहरूपेऽस्मिन् निबन्धे त्रयस्त्रिंशदधिका: शतं पद्धतयः
सन्ति संविभक्ताः । कविरेवायमारम्भे तासां पद्धतीनामनुक्रमं विषयनिर्देशमुखेन ज्ञापयति । तेनैवानु
क्रमणिकाप्रकरणेन विषयाश्वास्याः सूक्तिमुक्तावल्याः प्रायो विज्ञायेरन् । वयमपि विषयान् विवेच-
यिष्यामो विषयसूच्याम् ।
कविरयं वैग्रभानुर्विशेषकविकाव्यप्रशंसायां ग्रथ्यमाने व्यासवाल्मीकिपाणिनिप्रभृतिक विरत्न-
हारे आत्मानं ग्रथयत्यन्ते - ' नव्या न व्याकरणसरणिर्यस्य माधुर्यधुर्य नो सौन्दर्ये नवनवरसः
स्रोतसो न प्रवाहः । यादृक्प्रीत्या कथयति गिरां देवता देव तादृक् काव्यं श्राव्यं कवयति भिष-
ग्भानुनामा स एषः । ' इत्यनेन श्लोकेन । उपसंह्रियते च कविकाव्यप्रशंसासमनन्तरं ' इत्थं कवि-
कुटुंबस्य वचसि विचिनोति यः । ' इत्येनन ( ४९ )
अस्यां विशेषकविकाव्यप्रशंसायां ये वर्णिताः कवयः प्रायस्ते निबन्धेऽस्मिन् तत्तत्सुभा-
षितस्य कर्तृतया तत्र तत्र नामनिर्देशमुखेन निर्दिश्यमानेष्वन्तर्भवन्ति । तेषां च कवीनामकारादि
क्रमेणानुक्रमणी तत्तत्कृतसुभाषिताकरप्रदर्शनपूर्वकं निबन्धस्यान्ते ( परिशिष्टभागे ) प्रदर्शिता
नाम ! तत् कविकाव्य प्रशंसायामुपवर्णितानां कवीनामनुक्रमणी नास्माभिः पृथक् प्रदर्श्यते ।
प्रसङ्गादिदं स्मारयामः । तादृशः कोऽपि समयोऽभूत् - यस्मिन स्त्रियोऽपि कवीनां सदसि प्रतिष्ठिता
आसन्–शिलाभट्टारिका, विकटनितंबा, विजयाङ्का, प्रभुदेवी, बिज्जाका, इत्यायाः । एवं जात्या
अवरेष्वपि कविवरैरपि श्लाघनीयाः कवय आसन् । यानधिकृत्येयमुपवर्णना– ' शब्दार्थयोः समो-
गुम्फः पाञ्चाली रीतिरुच्यते । शिलाभट्टारिकावाचि बाणोक्तिषु सा यदि ॥ के वैकटनितम्बेन गिरां
गुम्फेन रञ्जिताः । निन्दन्ति निजकान्तानां स्वमौग्ध्यमधुरं वचः । सरस्वतीव कर्णाटी विजयाङ्का
जयत्यसौ । या वैदर्भगिरां वासः कालिदासादनन्तरम् । सूक्तीनां स्मरकेलीनां कलानां च विलासभूः ।
प्रभुदेवी कविर्लाटी गताऽपि हृदि तिष्ठति ॥ ' (४६) 'सरस्वतीपवित्राणां जातिस्तन्त्रं न देहिनाम् ।
व्यासस्पर्धी कुलालोऽभूत् यत् घ्रोणो भारते कविः । अहो प्रभावो वाग्देव्या यच्चण्डालदिवाकरः ।
श्रीहर्षस्याभवत् सभ्यः समो बाणमयूरयोः ।' (४५.पृ.) अनेन विज्ञायते सरस्वती पवित्रयति जात्या
अपवित्रमपि । यदसौ कवीनां सभां समलकुर्वन् मननीयो भवति महतामपीति । ननु केयमपवित्रता,
वियया तदपनोदनप्रकारश्च कः, इतिजिज्ञासा काऽपि समुत्यत्र । अथापि प्रासङ्गिकादस्मात् प्रकृता-
नपेक्षितात् विचारादपसरामो वयं प्रकृतं परिसमापयन्तः ।
अथास्मिन निबन्धे तत्र तत्र पद्यमनूय अमुककवेरिति कर्तुर्नाम निर्दिश्यते । त एते निर्देशाः
प्रायो न विसंवादिनः । कतिचन विसंवादिनोऽपि, यदन्यस्य कृतिरन्यस्य नाम्ना निर्दिश्यते ।</p>
<pb n="17" />
<pb n="18" />
<pb n="19" />
<pb n="20" />
<pb n="21" />
<pb n="22" />
<pb n="23" />
<pb n="24" />
<pb n="25" />
<pb n="26" />
<pb n="27" />
<pb n="28" />
<pb n="29" />
<pb n="30" />
<pb n="31" />
<pb n="32" />
<pb n="33" />
<pb n="34" />
<pb n="35" />
<pb n="36" />
<pb n="37" />
<pb n="38" />
<pb n="39" />
<pb n="40" />
<pb n="41" />
<pb n="42" />
<pb n="43" />
<pb n="44" />
<pb n="45" />
<pb n="46" />
<pb n="47" />
<pb n="48" />
<pb n="49" />
<pb n="50" />
<pb n="51" />
<pb n="52" />
<pb n="53" />
<pb n="54" />
<pb n="55" />
<pb n="56" />
<pb n="57" />
<pb n="58" />
<pb n="59" />
<pb n="60" />
<pb n="61" />
<pb n="62" />
<pb n="63" />
<pb n="64" />
<pb n="65" />
<pb n="66" />
<pb n="67" />
<pb n="68" />
<pb n="69" />
<pb n="70" />
<pb n="71" />
<pb n="72" />
<pb n="73" />
<pb n="74" />
<pb n="75" />
<pb n="76" />
<pb n="77" />
<pb n="78" />
<pb n="79" />
<pb n="80" />
<pb n="81" />
<pb n="82" />
<pb n="83" />
<pb n="84" />
<pb n="85" />
<pb n="86" />
<pb n="87" />
<pb n="88" />
<pb n="89" />
<pb n="90" />
<pb n="91" />
<pb n="92" />
<pb n="93" />
<pb n="94" />
<pb n="95" />
<pb n="96" />
<pb n="97" />
<pb n="98" />
<pb n="99" />
<pb n="100" />
<pb n="101" />
<pb n="102" />
<pb n="103" />
<pb n="104" />
<pb n="105" />
<pb n="106" />
<pb n="107" />
<pb n="108" />
<pb n="109" />
<pb n="110" />
<pb n="111" />
<pb n="112" />
<pb n="113" />
<pb n="114" />
<pb n="115" />
<pb n="116" />
<pb n="117" />
<pb n="118" />
<pb n="119" />
<pb n="120" />
<pb n="121" />
<pb n="122" />
<pb n="123" />
<pb n="124" />
<pb n="125" />
<pb n="126" />
<pb n="127" />
<pb n="128" />
<pb n="129" />
<pb n="130" />
<pb n="131" />
<pb n="132" />
<pb n="133" />
<pb n="134" />
<pb n="135" />
<pb n="136" />
<pb n="137" />
<pb n="138" />
<pb n="139" />
<pb n="140" />
<pb n="141" />
<pb n="142" />
<pb n="143" />
<pb n="144" />
<pb n="145" />
<pb n="146" />
<pb n="147" />
<pb n="148" />
<pb n="149" />
<pb n="150" />
<pb n="151" />
<pb n="152" />
<pb n="153" />
<pb n="154" />
<pb n="155" />
<pb n="156" />
<pb n="157" />
<pb n="158" />
<pb n="159" />
<pb n="160" />
<pb n="161" />
<pb n="162" />
<pb n="163" />
<pb n="164" />
<pb n="165" />
<pb n="166" />
<pb n="167" />
<pb n="168" />
<pb n="169" />
<pb n="170" />
<pb n="171" />
<pb n="172" />
<pb n="173" />
<pb n="174" />
<pb n="175" />
<pb n="176" />
<pb n="177" />
<pb n="178" />
<pb n="179" />
<pb n="180" />
<pb n="181" />
<pb n="182" />
<pb n="183" />
<pb n="184" />
<pb n="185" />
<pb n="186" />
<pb n="187" />
<pb n="188" />
<pb n="189" />
<pb n="190" />
<pb n="191" />
<pb n="192" />
<pb n="193" />
<pb n="194" />
<pb n="195" />
<pb n="196" />
<pb n="197" />
<pb n="198" />
<pb n="199" />
<pb n="200" />
<pb n="201" />
<pb n="202" />
<pb n="203" />
<pb n="204" />
<pb n="205" />
<pb n="206" />
<pb n="207" />
<pb n="208" />
<pb n="209" />
<pb n="210" />
<pb n="211" />
<pb n="212" />
<pb n="213" />
<pb n="214" />
<pb n="215" />
<pb n="216" />
<pb n="217" />
<pb n="218" />
<pb n="219" />
<pb n="220" />
<pb n="221" />
<pb n="222" />
<pb n="223" />
<pb n="224" />
<pb n="225" />
<pb n="226" />
<pb n="227" />
<pb n="228" />
<pb n="229" />
<pb n="230" />
<pb n="231" />
<pb n="232" />
<pb n="233" />
<pb n="234" />
<pb n="235" />
<pb n="236" />
<pb n="237" />
<pb n="238" />
<pb n="239" />
<pb n="240" />
<pb n="241" />
<pb n="242" />
<pb n="243" />
<pb n="244" />
<pb n="245" />
<pb n="246" />
<pb n="247" />
<pb n="248" />
<pb n="249" />
<pb n="250" />
<pb n="251" />
<pb n="252" />
<pb n="253" />
<pb n="254" />
<pb n="255" />
<pb n="256" />
<pb n="257" />
<pb n="258" />
<pb n="259" />
<pb n="260" />
<pb n="261" />
<pb n="262" />
<pb n="263" />
<pb n="264" />
<pb n="265" />
<pb n="266" />
<pb n="267" />
<pb n="268" />
<pb n="269" />
<pb n="270" />
<pb n="271" />
<pb n="272" />
<pb n="273" />
<pb n="274" />
<pb n="275" />
<pb n="276" />
<pb n="277" />
<pb n="278" />
<pb n="279" />
<pb n="280" />
<pb n="281" />
<pb n="282" />
<pb n="283" />
<pb n="284" />
<pb n="285" />
<pb n="286" />
<pb n="287" />
<pb n="288" />
<pb n="289" />
<pb n="290" />
<pb n="291" />
<pb n="292" />
<pb n="293" />
<pb n="294" />
<pb n="295" />
<pb n="296" />
<pb n="297" />
<pb n="298" />
<pb n="299" />
<pb n="300" />
<pb n="301" />
<pb n="302" />
<pb n="303" />
<pb n="304" />
<pb n="305" />
<pb n="306" />
<pb n="307" />
<pb n="308" />
<pb n="309" />
<pb n="310" />
<pb n="311" />
<pb n="312" />
<pb n="313" />
<pb n="314" />
<pb n="315" />
<pb n="316" />
<pb n="317" />
<pb n="318" />
<pb n="319" />
<pb n="320" />
<pb n="321" />
<pb n="322" />
<pb n="323" />
<pb n="324" />
<pb n="325" />
<pb n="326" />
<pb n="327" />
<pb n="328" />
<pb n="329" />
<pb n="330" />
<pb n="331" />
<pb n="332" />
<pb n="333" />
<pb n="334" />
<pb n="335" />
<pb n="336" />
<pb n="337" />
<pb n="338" />
<pb n="339" />
<pb n="340" />
<pb n="341" />
<pb n="342" />
<pb n="343" />
<pb n="344" />
<pb n="345" />
<pb n="346" />
<pb n="347" />
<pb n="348" />
<pb n="349" />
<pb n="350" />
<pb n="351" />
<pb n="352" />
<pb n="353" />
<pb n="354" />
<pb n="355" />
<pb n="356" />
<pb n="357" />
<pb n="358" />
<pb n="359" />
<pb n="360" />
<pb n="361" />
<pb n="362" />
<pb n="363" />
<pb n="364" />
<pb n="365" />
<pb n="366" />
<pb n="367" />
<pb n="368" />
<pb n="369" />
<pb n="370" />
<pb n="371" />
<pb n="372" />
<pb n="373" />
<pb n="374" />
<pb n="375" />
<pb n="376" />
<pb n="377" />
<pb n="378" />
<pb n="379" />
<pb n="380" />
<pb n="381" />
<pb n="382" />
<pb n="383" />
<pb n="384" />
<pb n="385" />
<pb n="386" />
<pb n="387" />
<pb n="388" />
<pb n="389" />
<pb n="390" />
<pb n="391" />
<pb n="392" />
<pb n="393" />
<pb n="394" />
<pb n="395" />
<pb n="396" />
<pb n="397" />
<pb n="398" />
<pb n="399" />
<pb n="400" />
<pb n="401" />
<pb n="402" />
<pb n="403" />
<pb n="404" />
<pb n="405" />
<pb n="406" />
<pb n="407" />
<pb n="408" />
<pb n="409" />
<pb n="410" />
<pb n="411" />
<pb n="412" />
<pb n="413" />
<pb n="414" />
<pb n="415" />
<pb n="416" />
<pb n="417" />
<pb n="418" />
<pb n="419" />
<pb n="420" />
<pb n="421" />
<pb n="422" />
<pb n="423" />
<pb n="424" />
<pb n="425" />
<pb n="426" />
<pb n="427" />
<pb n="428" />
<pb n="429" />
<pb n="430" />
<pb n="431" />
<pb n="432" />
<pb n="433" />
<pb n="434" />
<pb n="435" />
<pb n="436" />
<pb n="437" />
<pb n="438" />
<pb n="439" />
<pb n="440" />
<pb n="441" />
<pb n="442" />
<pb n="443" />
<pb n="444" />
<pb n="445" />
<pb n="446" />
<pb n="447" />
<pb n="448" />
<pb n="449" />
<pb n="450" />
<pb n="451" />
<pb n="452" />
<pb n="453" />
<pb n="454" />
<pb n="455" />
<pb n="456" />
<pb n="457" />
<pb n="458" />
<pb n="459" />
<pb n="460" />
<pb n="461" />
<pb n="462" />
<pb n="463" />
<pb n="464" />
<pb n="465" />
<pb n="466" />
<pb n="467" />
<pb n="468" />
<pb n="469" />
<pb n="470" />
<pb n="471" />
<pb n="472" />
<pb n="473" />
<pb n="474" />
<pb n="475" />
<pb n="476" />
<pb n="477" />
<pb n="478" />
<pb n="479" />
<pb n="480" />
<pb n="481" />
<pb n="482" />
<pb n="483" />
<pb n="484" />
<pb n="485" />
<pb n="486" />
<pb n="487" />
<pb n="488" />
<pb n="489" />
<pb n="490" />
<pb n="491" />
<pb n="492" />
<pb n="493" />
<pb n="494" />
<pb n="495" />
<pb n="496" />
<pb n="497" />
<pb n="498" />
<pb n="499" />
<pb n="500" />
<pb n="501" />
<pb n="502" />
<pb n="503" />
<pb n="504" />
<pb n="505" />
<pb n="506" />
<pb n="507" />
<pb n="508" />
<pb n="509" />
<pb n="510" />
<pb n="511" />
<pb n="512" />
<pb n="513" />
<pb n="514" />
<pb n="515" />
<pb n="516" />
<pb n="517" />
<pb n="518" />
<pb n="519" />
<pb n="520" />
<pb n="521" />
<pb n="522" />
<pb n="523" />
<pb n="524" />
<pb n="525" />
<pb n="526" />
<pb n="527" />
<pb n="528" />
<pb n="529" />
<pb n="530" />
<pb n="531" />
<pb n="532" />
<pb n="533" />
<pb n="534" />
<pb n="535" />
<pb n="536" />
<pb n="537" />
<pb n="538" />
<pb n="539" />
<pb n="540" />
<pb n="541" />
<pb n="542" />
<pb n="543" />
<pb n="544" />
<pb n="545" />
<pb n="546" />
<pb n="547" />
<pb n="548" />
<pb n="549" />
<pb n="550" />
<pb n="551" />
<pb n="552" />
<pb n="553" />
<pb n="554" />
<pb n="555" />
<pb n="556" />
<pb n="557" />
<pb n="558" />
<pb n="559" />
<pb n="560" />
<pb n="561" />
<pb n="562" />
<pb n="563" />
<pb n="564" />
<pb n="565" />
<pb n="566" />
<pb n="567" />
<pb n="568" />
<pb n="569" />
<pb n="570" />
<pb n="571" />
<pb n="572" />
<pb n="573" />
<pb n="574" />
<pb n="575" />
<pb n="576" />
<pb n="577" />
<pb n="578" />
<pb n="579" />
<pb n="580" />
<pb n="581" />
<pb n="582" />
<pb n="583" />
<pb n="584" />
<pb n="585" />
<pb n="586" />
<pb n="587" />
<pb n="588" />
<pb n="589" />
<pb n="590" />
<pb n="591" />
<pb n="592" />
<pb n="593" />
<pb n="594" />
<pb n="595" />
<pb n="596" />
<pb n="597" />
<pb n="598" />
<pb n="599" />
<pb n="600" />
<pb n="601" />
<pb n="602" />
<pb n="603" />
<pb n="604" />
<pb n="605" />
<pb n="606" />
<pb n="607" />
<pb n="608" />
<pb n="609" />
<pb n="610" />
<pb n="611" />
<pb n="612" />
<pb n="613" />
<pb n="614" />
<pb n="615" />
<pb n="616" />
<pb n="617" />
<pb n="618" />
<pb n="619" />
<pb n="620" />
<pb n="621" />
<pb n="622" />
<pb n="623" />
<pb n="624" />
<pb n="625" />
<pb n="626" />
<pb n="627" />
<pb n="628" />
<pb n="629" />
<pb n="630" />
<pb n="631" />
<pb n="632" />
<pb n="633" />
<pb n="634" />
<pb n="635" />
<pb n="636" />
<pb n="637" />
<pb n="638" />
<pb n="639" />
<pb n="640" />
<pb n="641" />
<pb n="642" />
</body>
</text>
</TEI>