Sri Vani Vilas Sanskrit Series. No. 10. Subhashitanivi OF Sriman Vedanta Desika WITH THE COMMENTARY RATNAPETIKA BY SRINIVASA SURI EDITED BY M. T. NARASIMHA AIYANGAR B.A.. M.R.A.S. Central College, Bangalore. SRIRANGAM : SRI VANI VILAS PRESS. 1908. Copyright Registered. - ॥ श्रीः ॥ ॥ सुभाषितनीवी ॥ श्रीमद्वेदान्तदेशिकविरचिता श्रीनिवाससूरिकृतया रत्नपेटिकाख्यया व्याख्यया सहिता श्रीमता म. तो. नरसिंहार्येण संशोधिता । श्रीरङ्गनगरस्थ श्रीवाणीविलासमुद्रायन्त्रालये मुद्रिता । १९०८. - ॥ श्रीः ॥ ॥ सुभाषितनीवी ॥ श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि || अनिपुणपद्धतिः ॥ इह खलु भगवान् वेङ्कटनाथार्यः कवितार्किकसिंहः सर्वतन्त्रस्वतन्त्रः राजमहेन्द्रनगरस्थित(सर्वज्ञ)शिङ्गक्षमावल्लभेन एकलव्यन्यायेन शिष्येण विशिष्टश्रीवैष्णवधर्मविविदिषया श्रीरङ्गनगरस्थितस्य वेदान्तदेशिकपदेऽभिषिक्तस्य स्वस्थ निकटं प्रति श्रीवैष्णवेषु प्रेषितेषु तदर्थं रहस्यसंदेशतत्त्वसंदेशौ श्लोकं च कंचित् - 'सत्त्वस्थान्निभृतं प्रसादय सतां वृत्तिं व्यवस्थापय त्रस्य ब्रह्मविदागसस्तृणमिव त्रैवर्गिकान्भावय । नित्ये शेषिणि निक्षिपन्निजभरं सर्वेसहे श्रीसखे धर्मं धारय चातकस्य कुशलिन् धाराधरैकान्तिनः ॥' --इति विरचय्य स्वरूपशिक्षार्थं तद्व्याजेन लोकहितार्थं सामान्यविशेषधर्मप्रतिपादनपरं द्वादशद्वादशपद्यकद्वादशपद्धतिकं सुभाषितनीव्याख्यं नीतिप्रबन्धं प्रणिनाय । तत्रानिपुणपद्धतिर्दृप्तपद्धतिः खलपद्धतिर्दुर्वृत्तपद्धतिरसेव्यपद्धतिर्महापुरुषपद्धतिः समचित्तपद्धतिः सदाश्रितपद्धतिर्नीतिमत्पद्धतिर्धनधान्यपद्धतिःसत्कविपद्धतिः परीक्षितपद्धतिरिति क्रमः । दोषान्विधूय गुणाः प्रापणीया इति प्रथमं दोषपराः पद्धतयः प्रणीताः, तेष्वात्मोत्तारणनैपुण्याभावादनिपुणत्वं तस्य हेतुर्देहात्मादिविवेकाभावस्तदेवाज्ञानं ततो दृप्तता खलत्वं दुर्वृत्तता च, तेन सज्जनैरसेव्यत्वमिति परस्परसङ्गतिः । तथा चाज्ञानस्य (सर्व) दोषकारणत्वात्तदेवावश्यं परिहरणीयमिति बुद्ध्या अनिपुणपद्धतिः प्रथममारब्धा । तत्र मङ्गलश्लोकस्य दुर्जनेभ्यो ग्रन्थस्य रक्ष्यत्वपरश्लोकस्य च पद्धतिनियमितद्वादशश्लोक्यन्तर्गतत्वात्तयोरप्यनिपुणपरतां प्रतिपादयितुं तद्दोषकीर्तनम् । तत्रायं मङ्गलश्लोकः - प्रथमसुजनाय पुंसे मह्यमपि प्रथमदुर्जनाय नमः । सर्वं हतः कृतं यौ सकृदुपकारापकाराभ्याम् ॥ १ ॥ प्रथमसुजनायेति ॥ प्रथमश्चासौ सुजनः परमपुरुषः, तस्मै नमः । प्रथमचरमजघन्यसमानमध्यमध्यमवीराश्चेति प्रथमशब्दस्य- पूर्वनिपातः । स्वस्य दुर्जनत्वे उच्यमाने सर्वेषां स्वात्मनि दुर्जनत्व- प्रतीतिर्भवत्विति मह्यमित्युक्तम् । परमपुरुषसमानधर्मत्वात् स्वस्यापि नन्तव्यत्वमित्यभिप्रायेणाह सर्वं हत इति । यौ परमपुरुषोऽहं च सकृ- दुपकारापकाराभ्यां कृतं सर्वं हतः नाशयतः । हन हिंसागत्योरित्यस्मा- ल्लटस्तसि तसो ङित्त्वादनुदात्तोपदेशेत्यादिना अनुनासिकलोपः । 'कथं चिदुपकारेण कृतेनैकेन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मव- त्तया ॥ ' इति दासेन क्रियमाणशरणागतिमपि भगवतो निरुपा- धिककारुण्यतया रक्षापेक्षाप्रतीक्षत्वेन स्वस्योपकारं मत्वा सर्वे पापजातं नाशयतीत्यर्थः । आत्मा तु हितवृत्तिमाचरेत्युपदेशमेव स्वस्थापकारं मत्वा भगवत्कृतोपकारं अस्मरन् तस्मै द्रुह्यति; तदेव सर्वकृतना- शनम् । 'प्रथितं पातकिवर्गं कृतघ्न एकोऽपि कृत्स्नमतिशेते । तमिमं क्रियमाणघ्नस्तमपि दुरात्मा करिष्यमाणघ्नः ॥' इति प्रमाण- मजानन् स्वोपकर्तरि अनिष्टमाचरति दुर्जनस्वभाव एषोऽज्ञ इति पद्धत्यन्वयः । अनेन निपुणेन सस्वोपकारिणि नाहितमाचरणीयमिति धर्मबोधः ; 'उपकारिणि यः साधुः साधुत्वे तस्य को गुणः । अपकारिणि यः साधुः स साधुरिति कथ्यते ॥' इति अपकारिण्यपि हिताचरणस्यैव विधानात्, 'कृतघ्ने नास्ति निष्कृति: ' इति महा- दोषस्मरणाच्च । अत्र 'नमः पतनशीलाय खलाय मुसलाय च । कुर्वाते स्वमुखेनैव बहुधान्योपखण्डनम् ||' इतिवत् परमपुरुषसमानधर्म- तया नन्तव्यत्वोक्त्या स्तुत्या निन्दाभिव्यक्तिरिति व्याजस्तुत्यलङ्कारः ; तदङ्गभगवत्तुल्यत्वकीर्तनात्तुल्ययोगितेत्यनयोरङ्गाङ्गिभावसंकरः ॥ करिष्यमाणस्य ग्रन्थस्य नामनिर्देश पूर्वक काव्यार्थचोरेभ्यो रक्ष्य- त्वमाशास्ते -- प्रमितिपरिष्कृतमुद्रा सहृदयहृदये समर्पिता कविभिः । भवति सुभाषितनीवी पटुगुणचोरैरहार्यार्था ॥ २ ॥ प्रमितीति ॥ प्रमित्या यथार्थबुद्ध्या परिष्कृता मुद्रा यस्याः सा तथोक्ता, स्वाधीनप्रमितिमतामेव ग्राह्यार्थवत्त्वमिति प्रमित्यां मुद्रात्व- रूपणं; धनपक्षे इयदत्र धनं निक्षिप्तमिति प्रत्ययाय परिष्कृतमुद्रा भव- तीत्यर्थः । कविभिः सूरिभिर्वणिग्भिश्च, सहृदयहृदये सारग्राहिप्रामाणि- कहृदये, समर्पिता निवेदिता, सुभाषितानां नीतिवाक्यानां नीवी मूलधनं, इयं कृतिः । यथा मूलधनेन धनवृद्धिः संपाद्यते, तथाऽनया बुद्धिमद्भिः सुभाषितवृद्धिः संपाद्यत इति मूलधनत्वरूपणम् । पटवो ये गुणाः काव्योपस्कारकाः शब्दार्थविशेषास्तेषां चारैः; अन्यत्र, पटवो गुणाः भित्तिभेदनचातुर्यादिगुणा येषां तैस्तथोक्तैः, चोरैरपहर्तृभिः, अहार्यो ग्रहीतुमशक्योऽर्थोऽभिधेयं धनं च यस्याः सा तथोक्ता भ- वति, कुकविदुर्ग्रहार्था भवतीति भावः । अनेन सत्कविभिः स्वस्वप्रणी- तसुभाषितग्रन्था रक्षणीया इति प्रतीतिः फलम्, कुकवयः परोच्छिष्टो- पजीविनो बहिष्कार्या इति निन्दाप्रतीतिश्च । स्वकीयापूर्वशब्दार्थस्फुर- णाभावे सति परकीयशब्दार्थान् गृहीत्वा अस्माभिः कृतमिति प्रकाशनं सरस्वतीचौर्यरूपं आत्मनाशकरमित्यजानतामनिपुणपद्धत्यन्तःप्रवेशः । 'बद्धवैराणि भूतानि ' इति न्यायेन दोषवर्णनं शिक्षारूपं न निन्दा- तात्पर्यमाचार्याणामिति मन्तव्यम् । अत्र ग्रन्थे वणिग्व्यवहारप्रतीतेः ममासोक्तिः । अन्येऽपि काव्यार्थचोरेभ्यः स्वग्रन्थस्य रक्ष्यतामाशा- साना दृष्टाः ; तथा हि -- 'साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः । यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचोराः प्रगुणीभवन्ति' इति ॥ २ ॥ पश्यति परेषु दोषा- नसतोऽपि जनः सतोऽपि नैव गुणान् । विपरीतमिदं स्वस्मि- न्महिमा मोहाञ्जनस्यैषः ॥ ३ ॥ पश्यतीति ॥ जनः पामरजन:, 'जनो महर्लोकात्परलोके च पामरे ' इति विश्वः । अज्ञ इति यावत् । परेष्वसतः अविद्यमा- नानपि दोषान् पश्यति विचारयति, सतो विद्यमानानपि गुणान्न पश्यत्येव ; इदं स्वस्मिन्विपरीतं पश्यति, अविद्यमानान् गुणान् पश्यति विद्यमानान् दोषान्न पश्यतीत्यर्थः । इदमन्यथादर्शनं तमोमूला- ज्ञानमूलमित्याह -- महिमा मोहाञ्जनस्यैष इति । लोके ह्यञ्जनं भूतला- दिच्छन्नं विद्यमानं वस्तु साक्षात्कारयति, अदृश्याञ्जनं परेभ्यस्तद्धारिणं विद्यमानमेवादृश्यं करोति, तथा मण्डूकवसाञ्जनादिकं वंशोरगत्वाद्य- विद्यमानमपि दर्शयति; एवं मोहाञ्जनमात्मन्यविद्यमानानपि गुणान् दर्शयति परेषु विद्यमानान् गुणान्न दर्शयतीत्यज्ञानेऽञ्जनत्वारोपः । तत्र प्रतिनियतविपरीतदर्शनहेतुत्वाल्लोकसिद्धाञ्जनापेक्षया वैलक्षण्यम् । तद्वाक्यार्थस्य पश्यतीत्यादिपूर्ववाक्यार्थसमर्थनार्थत्वात् काव्यलिङ्गालं- कार: । 'राजन् सर्षपमात्राणि परच्छिद्राणि पश्यसि । आत्मनो मेरु- मात्राणि पश्यन्नपि न पश्यसि ॥' इत्यादि स्मारितम् । स्वदोषस्य स्व- ज्ञातत्वेऽपि निर्दोष इवाभिनयतीत्यर्थः ॥ ३ ॥ यो यदीयं क्षीरान्नादिकं भुक्त्वा तद्विषये द्रोहमाचरति, तस्मिन् कृतघ्नेऽज्ञानिनि कीर्ति: करुणा सदाचारश्च नास्तीत्यमुमर्थं श्लेषेण सनिदर्शनमाह- यत्र पयःप्रभृति स्वं भुक्त्वासत्यानुषक्तधीश्चोरः । पशुवृत्तिगणे तस्मि- न्नपि नाम यशोदयावृत्तम् ॥ ४ ॥ यत्रेति || यत्र यस्मिन्, पशूनां (वृत्तिः) स्थितिरिव स्थितिर्येषां तेषां गणे समूहे, विद्यमान इति शेषः, पयःप्रभृति स्वं भुक्त्वा क्षीरादि द्रव्यं भुक्त्वा, चोरः सन् असत्यानुषक्तधीर्भवति, तस्मिन्समूहे, यशः गुणवत्त्वप्रसिद्धिः, दया करुणा, वृत्तं सद्वृत्तिः सदाचारः, अपि नाम भवति किं । अत्र बुद्धिसंप्रतिपत्त्यर्थे श्लेषेण निदर्शयति – चोरः कृष्णः, पशूनां वृत्तिः स्थितिर्यस्मिन् तस्मिन् गणे नन्दव्रजे, पयःप्रभृति स्वं भुक्त्वा । असत्यानुषक्तधी: सत्यभामासक्तबुद्धिर्न भवति, तदानीं सत्यभामाविवाहाभावात्; तस्मिन् गणे यशोदया कृष्णमात्रा, वृत्तं वर्तनं, अपि नाम भवेत् । पूर्वत्र गर्हायामपिः, इह संभावनायां ; यद्वा तत्र गणे गोव्रजे यशोदया वृत्तं अपि नाम भवेत्किं, न भवत्येव, यशोदाया गृहे वर्तमानत्वादिति भावः ॥ ४ ॥ हरिकरपुष्करहंसं हारमणीनां प्रसूतिमिव लक्ष्म्याः । पित्तेन पाञ्चजन्यं पीतं पश्यन्भिषज्यति कम् ।। ५ ।। हरीति ।। हरे: करपुष्करे हस्तारविन्दे हंसमिव स्थितं, अनेन धा- वल्योक्तिः, लक्ष्म्याः हारमणीनां प्रसूतिमिव कारणमिव स्थितं, अनेन अतिधावल्योक्तिः, कारणगुणा हि कार्यगुणानारभन्त इति न्यायात् । पाञ्चजन्यं भगवच्छङ्खं, पित्तेन स्वनयनगतपैत्त्यदोषेण, पीतं पश्यन्, अज्ञ इति शेषः; कं भिषज्यति भिषजं करोति स्वदोषनिवर्तकमिच्छ- ति, न कमपीत्यर्थः । भिषज् चिकित्सायामित्यस्मात् कण्ड्वादित्वाद्यक् । स्वदोषमजानन् पीतः शङ्ख इति मनुते, न स्वदोषनिवर्तनाय प्रयतते; एवमनात्मज्ञोऽपि स्वाज्ञानादिनिवर्तनाय सत्सहवासादिकं न करोति, परं तु देहात्मैक्यादिकमेव मनुते; अहो किमस्यानिपुणतेत्यर्थे प्रस्तुते, तद्विहाय तत्सरूपाप्रस्तुतार्थनिबन्धनादप्रस्तुतप्रशंसालंकारः ॥ ५ ॥ स्फटिकः स्वभावशुद्धः स एव सन् सहति सर्वमारोपम् । भवति न तत्रानास्था तदुपाधिषु वा भवत्यास्था ॥ ६ ॥ स्फटिक इति ॥ स्वभावशुद्धः स्फटिकः स एव सन्, स्फटिकत्वाकारेणेत्यर्थः; सर्वमारोपं जपाकुसुमादिसान्निध्येन रक्तत्वाद्यारोपं, This book is a preservation photocopy. It was produced on Hammermill Laser Print natural white, a 60 # book weight acid-free archival paper which meets the requirements of ANSI/NISO Z39.48-1992 (permanence of paper) Preservation photocopying and binding by Acme Bookbinding Charlestown, Massachusetts 1996