Google This is a digital copy of a book that was preserved for generations on library shelves before it was carefully scanned by Google as part of a project to make the world's books discoverable online. It has survived long enough for the copyright to expire and the book to enter the public domain. A public domain book is one that was never subject to copyright or whose legal copyright term has expired. Whether a book is in the public domain may vary country to country. Public domain books are our gateways to the past, representing a wealth of history, culture and knowledge that's often difficult to discover. Marks, notations and other marginalia present in the original volume will appear in this file - a reminder of this book's long journey from the publisher to a library and finally to you. Usage guidelines Google is proud to partner with libraries to digitize public domain materials and make them widely accessible. Public domain books belong to the public and we are merely their custodians. Nevertheless, this work is expensive, so in order to keep providing this resource, we have taken steps to prevent abuse by commercial parties, including placing technical restrictions on automated querying. We also ask that you: + Make non-commercial use of the files We designed Google Book Search for use by individuals, and we request that you use these files for personal, non-commercial purposes. + Refrain from automated querying Do not send automated queries of any sort to Google's system: If you are conducting research on machine translation, optical character recognition or other areas where access to a large amount of text is helpful, please contact us. We encourage the use of public domain materials for these purposes and may be able to help. + Maintain attribution The Google "watermark" you see on each file is essential for informing people about this project and helping them find additional materials through Google Book Search. Please do not remove it. + Keep it legal Whatever your use, remember that you are responsible for ensuring that what you are doing is legal. Do not assume that just because we believe a book is in the public domain for users in the United States, that the work is also in the public domain for users in other countries. Whether a book is still in copyright varies from country to country, and we can't offer guidance on whether any specific use of any specific book is allowed. Please do not assume that a book's appearance in Google Book Search means it can be used in any manner anywhere in the world. Copyright infringement liability can be quite severe. About Google Book Search Google's mission is to organize the world's information and to make it universally accessible and useful. Google Book Search helps readers discover the world's books while helping authors and publishers reach new audiences. You can search through the full text of this book on the web at http://books.google.com/ 32101 074220888 VETVS&TESTANOVVM MENTVM DEL-SVB-N PRINCETON UNIVERSITY LIBRARY MINE-VIGET Digitized by Google Digitized by Google Digitized by Google Digitized by Google C Digitized by Google KAVYAMÂLÂ 23. THE STUTIKUSUMÂNJALI OF S'RI JAGADDHARA BHATTA. With the Commentary of Rajânaka Ratnakantha. EDITED BY PANDIT DURGAPRASAD AND KAS'INATH PANDURANG PARAB. PRINTED AND PUBLISHED BY THE PROPRIETOR OF THE "NIRNAYA-SAGARA" PRESS. BOMBAY. 1891. Price 3 Rupees. Digitized by Google (Registered according to Act XXV of 1867.) (All rights reserved by the publisher.) Digitized by Google काव्यमाला. २३. श्रीजगद्धरभट्टविरचितः स्तुतिकुसुमाञ्जलिः । राजानकरत्नकण्ठविरचितया टीकया समेतः । जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह्वपाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः । स च मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः । १८९१ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्यैवाधिकारः ।) मूल्यं रूप्यकत्रयम् । Digitized by Google श्रीजगद्धरभट्टः । अयं स्तुतिकुसुमांञ्जलिकर्ता काश्मीरिको महाकविः श्रीजगद्धरभट्टः स्वसूनोर्यशोधरस्य कृते बालबोधिनीसमाख्यां कातन्त्रवृत्तिं प्रणीतवान्, यस्या अयमारम्भः [^१]'नमः शिवाय निःशेषक्लेशप्रशमशालिने । त्रिगुणग्रन्थिदुर्भेदभवबन्धविभेदिने ॥ दिशि दिश्यमृतद्रवं स्रवन्त्यः प्रथयन्त्यः कृतिनां दृशि प्रसादम् । विशदाः प्रसरन्ति यस्य गावः स महात्मा जयति द्विजाधिराजः ॥ स्वसुतस्य शिशोर्यशोधरस्य स्मरणार्थे विहितो मया श्रमोऽयम् । उपयोगमियाद्यदि प्रसङ्गादपरत्रापि ततो भवेदवन्ध्यः ॥ [^२]इह युक्त्यनुगानवद्यहृद्यक्रमदृब्धाः कृतिनां हरन्तु वाचः । मतिजाढ्यलवं लवङ्गजातीफलपूता[^३]सविलासमासजन्त्यः ॥' इति । समाप्तौ चेदं पद्यम्'इति मितमतिबालबोधनार्थे परिहृतवक्रपथैर्मया वचोभिः । लघुललितपदा व्यधायि वृत्तिर्मृदुसरला खलु बालबोधिनीयम् ॥' इति । न्यासाभिधमेतद्व्याख्यानं च जगद्धरभदृस्य नष्टकन्यातनयातनूजो राजानकशितिकण्ठः कश्मीरान्प्रशासतो हैदरशाहसूनोईस्सनस्य राज्ये विहितवान्, यस्यायमारम्भः'यो निर्माति बिभर्ति संहरति च क्रीडानुकम्पादिभिनिर्देहस्त्रिजगत्प्रमाणपरिषत्ख्यातो यदिच्छां विना । दातुं शक्नुवते कदापि न फलं कर्माणि नो कुत्रचि द्विख्यातः परमेश्वरः स तनुताद्वाग्वैभवं वो विभुः ॥ विद्यातीर्थविहारशालिनि परं श्रीशारदासंश्रये कौबेर्या हरितो ललाटतिलके कश्मीरदेशेऽभये । यच्छ्रीपद्मपुरं पुरंदरपुरप्रोद्यत्प्रभं भासते तत्राचार्यवरो बभूव भगवान्सोमः[^४] स सोमप्रभः ॥ यः सिद्धामृतशंभुदर्शितमहाविद्यः सतां मस्तकः शापानुग्रहकृद्वितानपरमः सोमस्तदीयेऽन्वये । [^१]. स्तुतिकुसुमाञ्जलावयं श्लोकः (२।२). [^२]. "तथा चोक्तमनेनैव कविना स्वकृतायां बालबोधिन्यां कातन्त्रवृत्तौ' इत्युक्त्वा 'इह युक्त्यनु-' इत्यादि पद्यमुपन्यस्तं राजानकरत्न- कण्ठेन टीकायाम् (५।६). [^३]. 'पोतास' इति पाठः पोतासः कर्पूरभेदः [^४]. अयं शिव- दृष्टिशास्त्रप्रणेता श्रीसोमानन्दाचार्य प्रतिभाति. विद्यावानवतारकः समुचितः सूर्योदयेऽर्धोदये धेनूनां प्रददौ सहस्रममलं चक्रे यशश्चन्द्रिकाम् ॥ तत्पुत्रः सुमनोहरो गुरुवरो यज्ञैर्महादक्षिणै- रिन्द्रत्वग्रहशङ्कया सुरपतेर्भीतिं ततान स्फुटम् । तत्पुत्रः स च मोचकः समभवद्वेदान्तसिद्धान्तवि- द्ध्यायं ध्यायमियाय देवसदनं देवं मृडानीपतिम् ॥ स श्रीमानुदपादि योधकगुरुर्यद्दीक्षया भूभुजः प्राज्यं राज्यमपास्तवैरिनिकराः सम्यक्चिरं चक्रिरे । भ्राता यस्य बभूव सर्वविदितः श्रीकण्ठराजानकः शापानुग्रहकृद्विचारचतुरः यः सिद्धतां शिश्रिये ॥ योधाचार्यसुतोऽर्जुनोऽजनि महालक्ष्मी निवासो यतो जातोऽहं शितिकण्ठकोऽन्वयमहं प्रापं गुरोः [^१]श्रीवरात् । नानाशास्त्रविनिर्णयाय बहुशस्तीर्थान्तराण्यभ्रमं पूजां गूर्जरनाथमह्रादसुरत्राणादवापं पराम् ॥ श्रीगोरक्षपुरेऽधिगम्य विबुधात्तर्कं परं कर्कशं श्रीनाथादधिकाशि शेषरचितं मीमांसया मांसलम् । भाष्यं श्रीवरदेश्वराच्च जयिना कश्मीरभूमीभुजा श्रीकण्ठेन सहोदरेण च यतः संप्रार्थितोऽस्मि स्वयम् ॥ यो बालबोधिन्यभिधां बुधेन्द्रो जगद्धरो यां विततान वृत्तिम् । तन्नप्तृकन्यातनयातनूजो व्याख्यामि तां श्रीशितिकण्ठकोऽल्पम् ॥ तत्संप्रार्थनयानया नयविदां दुर्गेऽपि मार्गे मया चापल्यं यदकारि तत्कृतधियो यूयं क्षमध्वं बुधाः । हारंहारमहार्यमोहमहितं शब्दार्थयोः संगतिं कारंकारमिदं भवद्भिरभितो रक्ष्यं गृहीतक्षणैः ॥ ग्रामेग्रामेऽग्रहारान्मठधरणियुतान्कर्मठेभ्यः [^२]कठेभ्यः सभ्येभ्यो यो व्यतारीद्रिपुगुरुनगरीर्यो गरीयानभैत्सीत् । अक्षाण्यक्षीणशक्तिर्व्यवहृतिचतुरो यो व्यजैषीच्च तस्मि- न्भूजानौ हस्सनाख्ये भुवमवति मया तन्यते ग्रन्थ एषः ॥ [^१]. तृतीयराजतरङ्गिणीप्रणेता जोनराजशिष्यः श्रीवरपण्डितोऽयमेव स्यात्. [^२]. कठ शाखाध्यायिभ्यो ब्राह्मणेभ्यः. सर्वक्ष्मापतिमौलिहारितनवप्राज्यस्वराज्यः परं तत्त्वातत्त्वविचारकारिधिषणो गाम्भीर्यशौर्यान्वितः । कश्मीराधिपतिः कृपाजलनिधिर्विख्यातकीर्तिश्चिरं जीयाद्धैदरशाह[^१]सूनुरनघः कंदर्पदर्पापहः ॥' इति ॥ अत्र यदा गुर्जरदेशं महम्मदशाहः कश्मीरं च हस्सन: शशास तदा राजानकशितिकण्ठआसीत् तत्र गुर्जराधिपतेर्महम्मदशाहस्य राज्यकाल: १४५८ मितं ख्रिस्ताब्दमारभ्य १५११ ख्रिस्ताब्दपर्यन्तमासीदिति रासमालाया ज्ञायते. हस्सनस्य कश्मीरेषु राज्यकालः १४७२ मितख्रिस्ताब्दमारभ्य १४८४ मितख्रिस्ताब्दपर्यन्तमासीदिति श्रीवरराजतरङ्गिणीतो ज्ञायते. अयमेव शितिकण्ठस्य ग्रन्थनिर्माणसमयः स च शितिकण्ठो जगद्धरभट्टस्य नप्तृ कन्यातनयातनूज आसीदिति जगद्धरात्षष्ठः पुरुषः प्रतिपुरुषं विंशतिवर्षगणनाक्रमेण १३५२ मितख्रिस्ताब्दासन्नकाले जगद्धरभट्ट आसीदिति निश्चीयते. स्तुतिकुसुमाञ्जलिं बालबोधिनीं चापहाय नान्यः कोऽपि ग्रन्थो जगद्धरप्रणीतः प्राप्यते. वासवदत्ता - वेणीसंहार-मालतीमाधवानां टीकाकारो जगद्धरस्त्वस्माद्भिन्न इति तत्तद्वन्थसमाप्तिस्थप्रशस्तिपर्यालोचनया प्रतीयते. स्तुतिकुसुमाञ्जलिटीकाकारो राजानकरत्नकण्ठस्तु कश्मीरेषु औरङ्गजेबराज्यसमय आसीदिति टीकायां सुव्यक्तमेव काव्यप्रकाशटीकासारसमुच्चय- चित्रभानुशतक-युधिष्ठिरविजयटीकाद्याः कतिपये ग्रन्था रत्नकण्ठप्रणीता अपि प्राप्यन्ते. एतन्मुद्रणोपक्रमे चैकं शुद्धं सटीकं नवीनं २४८ पत्रात्मकं पुस्तकं कश्मीरमहाराजाश्रितैरस्मत्सुहृत्तमैः श्रीज्योतिर्विद्विश्वेश्वरशर्मभिः प्रहितम् अपरं मूलमात्रं शुद्धं प्राचीनं जयपुर एव राजगुरुभट्टलक्ष्मीदत्तसूनुभट्टश्रीदत्तसंग्रहादुपलब्धम् एतत्पुस्तकद्वयाधारेण विहितमस्य ग्रन्थरत्नस्य मुद्रणं काव्यतत्त्वमार्मिकाणां सहृदयानां निर्मत्सराणि मनांसि मोदयत्विति शिवम्. [^१]. इस्सनः. Digitized by Google काव्यमाला । काश्मीरकमहाकविश्रीजगद्ध रभट्टमणीतः स्तुतिकुसुमाञ्जलिः । राजानकरत्नकण्ठविरचितया लघुपञ्चिकाख्यया टीकया समेतः । प्रथमं स्तोत्रम् । श्रेयः शिवाद्वयजुषो दिशतात्स एको वक्षोजहेमकलशो गिरिराजपुत्र्याः । षक्त्रस्तिवदनावमृतं यदीयं पातुं मिथः कलहमातनुतो नितान्तम् ॥ रक्षतु कलहेरम्बस्त्रिजगद्वन्द्यः स हेरम्बः । बहुविधशृङ्गारचितं यद्वदनं शंभुना रचितम् ॥ सेवकजनसिद्धरमां तां देवीं नमत सिद्धरमाम् । या वन्द्या विबुधगणैः स्तुत्या या भूतले च विबुधगणैः ॥ द्विनभोष्टिमिते (१६०२) शाके धौम्यायनकुलोद्भवः । काश्मीरदेशवास्तव्यो रत्नकण्ठाभिधः सुधीः ॥ महेशचरणाम्भोजभावनारसभाविते । जगद्धरकवेः काव्ये करोति लघुपञ्चिकाम् ॥ (युग्मम्) तत्र तावदनेकपूर्वजन्मार्जितसुकृतपरिपाकोपलब्धातिगाढभक्तिरसामृतामोदसुगन्ध्यभिनवस्तवप्रसूनाञ्जलि[वि]तरणोद्योगे त्रिजगत्प्रभोः कृतकृत्यमात्मानमाकलयन्नतिप्रौढसूक्तिनैपुण्येन च निजौद्धत्यं प्रकटयन्ह्लादवद्भिरित्यादिना वृत्तपञ्चकेनास्य वक्ष्यमाणसंदर्भस्य पीठिकां कर्तु कविराह ह्लादवद्भिरमलैरनर्गलैर्जीवनैरघहरैर्नवैरियम् । स्वामिनः क्लमशमक्षमैः क्षणं रोद्धुमर्हति मनः सरस्वती ॥ १ ॥ ह्लादवद्भिरिति । इयं सरस्वती । 'गीर्वाग्वाणी सरस्वती' इत्यमरः । 'सरोऽस्या आ श्रयत्वेनास्ति । मतुपि सरस्वती । इयं च ब्रह्मलोके ब्रह्मसरः समाश्रित्य शापान्नदी भूत्वा भूलोकमवतीर्णा । अत्र च शक्तिशक्तिमतोरभेदाद्वाणीरूपं वचनमपि सरस्वती- शब्दवाच्यम्' इति रायमुकुट्याम् । इयं सरस्वती वाणी । ममेति शेषः । स्वामिनः । 'स्वामिनैश्वर्ये' इत्यैश्वर्यवाचिन: स्वशब्दान्मत्वर्थे आमिनच् । स्वामी महैश्वर्यवान् श्री- शिवभट्टारकः । तस्य मनः क्षणं रोद्धुमर्हतीति संबन्धः । कैः । नवैः स्तवैः । 'णु स्तुतौ धातुः । किंभूतैः । ह्लादवद्भिः । 'ह्लादी सुखे' धातुः । ह्लादोऽत्र विगलितवेद्यान्तरपरमान- न्दवाची । न तु सुखमात्रार्थः । पाठे धातोश्च शब्दाधिक्यात् । अत एव पदांशे श्रुतिक- ट्वपि ह्लादपदं कविना ग्रन्थादिमश्लोके रक्षितम् । श्रीमन्मम्मटाचार्यैरपि काव्यप्रकाशे ग्रन्थादौ भारतीनमस्कारे 'ह्लादेकमयीम्' इति पदांशे श्रुतिकट्वापि ह्लादपदमनेनैवाभिप्रायेण रक्षितम् । यतोऽग्रे दोषनिरूपणावसरे तैरेवोक्तम् – 'दोषोऽपि गुणः क्वचित्क्वचिन्नोभौ' इति । क्वचिदिति शमकथासु भक्तिविषयेऽपि । नोभौ न गुणो न दोषः । श्रुतिकटुपुनरु- क्तादिरित्यर्थः । ह्लादः परमानन्दः कर्तुः सहृदयस्य च विद्यते । येष्वास्वादितेषु यैर्वा ह्लादवन्तस्तैः । ह्लादो वर्णनीयो विद्यते येषु वा । स्तवैः पुनः किंभूतैः । अमलैः । अवि- द्यमानो मलः पददोषः षोडशविधः श्रुतिकटुच्युतसंस्कृतादिः, अर्थदोषश्चापुष्टत्वादि- र्द्वादशविधो येषाम् । तथा अनर्गलैः गङ्गातरङ्गवदविच्छिन्नप्रसरैः । तथा जीवयन्तीति जीवना भवमरुभ्रमणतृषिताप्यायकाः तैः । तथा अघं पापं शिवेतरं च । वातव्याध्या- द्यष्टविधमहारोगं वा कर्तुः सहृदयस्य च हरन्तीति तादृशाः तैः । तथाहि सूर्यशतकम हाकाव्यकृतो मयूरस्य 'शीर्णघ्राणाङ्घ्रिपाणीन्' इत्यादिषष्ठेन श्लोकेन श्रीभास्करप्रसादा- न्महारोगो व्यपगत इति प्रसिद्धिः । तथा क्लमशमक्षमैः क्लमाः क्लेशाः पञ्च अविद्यादयः क्लमः खेदो भवमरुभ्रमणजो वा । तस्य शमे शान्तौ क्षमाः तैः । यथा, सरस्वतीनाम्नी नदी । 'सरस्वती नदीभेदे भूवाग्देवतयारपि' इति विश्वः । जीवनैस्तोयैः । 'जीवनं भु- वनं वनम्' इत्यमरः । स्वामिनो मनो रोद्धुमर्हतीति । तैरपि प्राग्वत् ह्लादवद्भिः परमा- नन्ददायिभिः । अमलैर्निर्मलैः । अघहरैस्त्रिविधपापहरैः। तथा क्लमो मरुभ्रमणादिजस्तस्य शमे क्षमैः । अत्र इवाद्यनुपादानाच्छन्दशक्तिमूल उपमाध्वनिः । अग्रिमश्लोकेष्वपि चतुर्षु । रथोद्धता छन्दः । 'रान्नरौ लघुगुरू रथोद्धता' इति कविशिक्षायाम् । 'रन- रैरन्वितं युक्तं लघुना गुरुणा तथा । ख्यातं रथोद्धता नाम वृत्तमेकादशाक्षरम् ॥" इति क्षेमेन्द्रकृते सुवृत्ततिलके ॥ स्वामिनः स्थिरगुणा सवक्रिमा कर्णयोरमृतवर्षिणी मनः । कर्तुमर्हति मुहूर्तमुज्झितस्वैरचापलमियं सरस्वती ॥ २ ॥ स्वामिन इति । इयं मम सरस्वती वाणी स्वामिनः श्रीशिवभट्टारकस्य मनः उज्झितं स्वैरचापलं स्वेच्छातारल्यं येन तादृशं कर्तुमर्हति । कियन्तं कालम् । मुहूर्तं दिनस्य पञ्च- दशांशो रात्रेर्वा मुहूर्तस्तम् । 'दिनस्य यः पञ्चदशोऽपि भागो रात्रेर्भवेत्तत्तु मुहूर्तमा नम्' इति संहिताविदः । 'मुहूर्तं घटिकाद्वयम्' इति सामान्यलक्षणम् । मुहूर्तमिति 'कालभावाध्वदेशानाम्' इति द्वितीया । किंभूता मम वाणी । स्थिरगुणा । ओजःप्रसाद- माधुर्याख्यास्त्रयः शब्दगुणा अर्थगुणाश्च यस्याम् । सह वक्रिम्णा विद्यते श्लिष्टशब्दा- त्मकेन वैचित्र्येण सह वर्तते या सा सवक्रिमा । यथा 'रम्यरीतिरनघा गुणोज्ज्वला' इत्यादौ रीतिगुणरसादेर्वचनप्रपञ्चस्य श्लेषार्थवशाद्वैचित्र्यम् । तथा सह वक्रिम्णा उपचा- रवऋपदत्वेन वर्तते या । उपचारवक्रभणितिरित्यर्थः । यथाग्रेऽत्रैव तृतीये स्तोत्रे –'खे- लत्यलङ्घयमहिमा स हिमाद्रिकन्याकान्तः कृतान्तदलनो लघयत्वधं वः' इत्यत्र अघं हरतु इत्यस्य स्थाने लघयतु अत्यन्ततनूकरणेन निःशेषं करोतु इत्युपचारवक्रत्वम् । तथा 'अङ्गीकरोत्वरमभङ्गुरङ्गितं वः' इत्यत्र पूर्णमीप्सितं ददातु इत्यस्य स्थाने अभङ्गुरमि ङ्गितमङ्गीकरोतु इत्युपचारवक्रत्वम् । एवमन्यत्राप्यूह्यम् । तथा कर्णयोः कर्तुः सहृदयस्य श्रोत्रयोरमृतवर्षिणी । यथा सरस्वती वीणा स्वामिनो मनो मुहूर्तमुज्झितस्वैरचापलं करोति । सापि किंभूता । स्थिरा गुणास्तन्त्र्यो यस्याः सा । पुनः सवक्रिमा कुटिला, कर्णयोरमृतवर्षिणी च ॥ रम्यरीतिरनघा गुणोज्ज्वला चारुवृत्तरुचिरा रसान्विता । रञ्जयत्वियमलंकृता मनः स्वामिनः प्रणयिनी सरस्वती ॥ ३ ॥ रम्यरीतिरिति । इयं मे सरस्वती वाणी स्वामिनः परमेशस्य मनो रञ्जयत्विति सं- बन्धः । किंभूता वाणी । रम्यरीतिः रम्या रीतिर्मुख्यत्वाद्वैदर्भी रीतिर्यस्याः । तथा अनघा गुणोज्ज्वला च प्राग्वत् । तथा चारूणि वृत्तानि वसन्ततिलकशार्दूलविक्रीडि तादीनि यस्यां सा चारुवृत्ता । तादृशी चासौ रुचिरा च । तथा च रसेन मुख्येन शा- न्तरसादिनान्विता । तथा अलंकृता वक्रोक्त्यादिशब्दालंकारैरुपमाद्यर्थालंकारैश्च युक्ता । पुनः किंभूता । प्रणयिनी । निजाभिष्टं प्रार्थयित्रोत्यर्थः । यथा च प्रणयिनी कामिनी स्वामिनो मनो रञ्जयति । सापि किंभूता । रम्यरीतिः । 'प्रचारस्यन्दयो रीतिः' इत्य- मरः । 'प्रचारो व्यवहारः' इति रायमुकुटीकारः । 'प्रचार: शीलम्' इति क्षीरस्वामी । 'वैदर्भ्यादावारकूटे प्रचारस्यन्दयोस्तथा । मर्यादायां चरीति स्त्री' इति मङ्खः । रम्या रीतिर्व्यवहारः शीलं वा मर्यादा वा कुलस्त्रीगुणानां यस्याः सा रम्यरीतिः । तथा अ नघा निर्दोषा निष्पापा वा । गुणैश्च लावण्यदयादाक्षिण्यादिभिरुज्ज्वला । चारु वृत्तं चारित्रं यस्याः सा चासौ रुचिरा च । 'वृत्तमध्ययने पद्ये चारित्रे वर्तने मृते' इति मङ्खः । रसान्विता रसेन रागेण भर्तृविषये स्थिरेणान्विता । 'रसो गन्धरसे स्वादे ति- क्तादौ विषरागयोः । शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे ॥" इति विश्वः । तथा अलं- कृता हाराद्याभरणयुक्ता ॥ सत्त्वधाम वरलाभयाचितश्लाघ्यवर्णविशदा विशत्वियम् । निर्मलं सघनकालविष्ठवा मानसं स्मरजित: सरस्वती ॥ ४ ॥ सत्त्वधामेति । इयं मे सरस्वती वाणी स्मरजित: परमेशस्य मानसं चित्तं वि- शत्विति संबन्धः । कीदृशं चित्तम् । सत्त्वस्य प्रीत्यात्मकस्य प्रकाशरूपस्य सत्त्वगुणस्य धैर्यस्य वा धाम स्थानम् । किंभूता वाणी । घनः कालस्य कृतान्तस्य विप्लव उपद्रवो मरणत्रासो यस्याः सा । घनो बहलो यः कालविप्लवो यमभोतिस्तदर्थं या सा इति वा । कालस्य वर्तमानतुरीयगुगसमयस्य वा विप्लवो यस्याः सा । पुनश्च किंभूता । वरे- त्यादि । 'वरो विवाहे देवादेः प्रार्थिते स्वीकृतावपि' इति मङ्खः । वरस्य देवादेः प्रार्थि- तस्य लाभः । तदर्थे याचिताः । निजेष्टदेवताध्यानेन । 'पश्चिमाद्यामिनीयामात्प्रसाद- मिव चेतना' इति कालिदासः । तेन श्लाघ्या यथावर्ण्यमानरसोपयोग्या वर्णा अक्षराणि यस्यां तादृशी चासौ विशदा निर्मला च । विशदशब्दो मध्यस्थतालव्य एव ज्ञेयः । अथवा वरलाभस्य याचितं याचनं तेन श्लाघ्या ये वर्णा अक्षराणीति विग्रहः । अ- थवा 'हंसस्य योषिद्वरटा वरलापि' इति स्वामी । व्रियते हंसैर्वरला । यथा वरला हंसी मानसाख्यं सरो विशति । किंभूतं सरः । सत्त्वधाम । सत्त्वानां मकरादिप्राणिनां धाम स्थानम् । हंसी किंभूता। आभया दीप्त्या आचितः पूरितः अत एव श्लाघ्यः स्तुत्य श्वासौ यो वर्णः श्वैत्यगुणः । 'आचितं निचितं पूर्णं पूरितं भरितं भृतम्' इति कोषः । तेन विशदा । पुनः किंभूता । सघनेति । घनस्य मेघस्य कालो वर्षासमयः स एव वि प्लवः सह तेन वर्तते या सा सघनकालविप्लवा । मे सरस्वतीत्यनेन सूचितमेतत् वक्ष्य- माणस्तुतिकुसुमाञ्जलिरूपा स्तुतिर्यमभयनिवारणार्थमेव मया कृता । यदग्रे स्वयमेव वक्ष्यति —'क्रन्दन्तमन्तकभयार्तमुपेक्षसे यत्' इत्यादिना सर्वत्र ॥ भक्तितः सपदि सर्वमङ्गला बोधिता निजधियैव मेनया । आरिराधयिषतीश्वरं वरं लब्धुमीप्सितमियं सरस्वती ॥ ५ ॥ भक्तित इति । इयं मे सरस्वती वाणी ईश्वरमारिराधयिषति आराधयितुमिच्छति । किं कर्तुम् । ईप्सितमभिलषितं वरं लब्धुम् । किंभूता । कायवाङ्मनोभिः शिवैकता- ध्यानात्सर्वाणि मङ्गलानि यस्याः । वाणीपक्षे मेनया इत्यत्र मे अनया इति पदच्छेदः । अनया मे निजधिया बुद्ध्या नित्यधिया वा बोधिता प्रबोधिता । अथ च सर्वमङ्गला पार्वती च वरं भर्तारमीश्वरमाराधयति । 'धवः प्रियः पतिर्भर्ता सेक्ता वरयिता वरः' इति मङ्खः । किं कर्तुम् । ईप्सितं लब्धुम् । कीदृशी । मेनया मेनाख्यया निजमात्रा बोधिता प्रबोधिता । कया हेतुभूतया । निजधिया । कुतः । भक्तितः । यथा सर्वमङ्गला पार्वती ईप्सितं मनोरथेन प्रार्थितमीश्वरमेव वरं भर्तारं लब्धुमाराधितवती । भक्तितः भक्त्या हेतुना । तसिलः सार्वविभक्तिकत्वात् । तथा मदीया सरस्वत्यपि ईश्वरमारिराध- यिषति । एतेन स्वात्मनेऽवश्यमीश्वरदर्शनं स्तुतिकरणेन सूचितं ग्रन्थकारेण । यथा पार्वत्या परमेश्वरो वरो लब्ध एव तथेयमपि सरस्वती प्राप्स्यत्येवेति भावः ॥ अथातः स्तुतिप्रस्तावनाख्यं प्रथमं स्तोत्रमारभमाण आह ओमिति स्फुरदुरस्यनाहतं गर्भगुम्फितसमस्तवाङ्मयम् । दन्ध्वनीति हृदि यत्परं पदं तत्सदक्षरमुपास्महे महः ॥ ६ ॥ ओमितीति । वयं तन्महः परं ज्योतिरुपास्महे सेवामः । तत्किंभूतम् । सत्सत्तामात्रं सत्यं सनातनं च । तथा अक्षरं न क्षरति स्वरूपात्प्रचलतीत्यक्षरम् । अत्र उपासे इति वाच्यमाने अतिगाढभक्त्युद्रेकेण तदेकताभावनोत्कर्षेण श्लाघ्यमात्मानं मन्यमानेन कविना उपास्महे इति बहुवचनक्रियापदोद्देशः कृतः । एवमग्रेऽपि । तत्किमित्याह - ओमि- तीति । यत्परमुत्कृष्टमोमिति पदम् । 'सुप्तिङन्तं पदम्' इति वैयाकरणपरिभाषायास्य पदत्वम् । ओमिति प्रणवरूपमकारोकारमकारात्मकं पदं हृदि हृदाकाशे अनाहतं न केनाप्युच्चारितं सत् दन्ध्वनीति अत्यर्थे ध्वनति । कीदृशम् । हृदाकाशादुत्थाय उरसि वक्षसि स्फुरत् । पुनश्च किंभूतम् । गर्भेत्यादि । गर्भे गुम्फितमन्तलीनं समस्तं वाङ्मयं चतुर्दशविद्यारूपं यस्य । किमधिकेन वयं पारमेश्वरं परं ज्योतीरूपं महः प्रणवरूपेण हृदाकाशे अनाहतशब्दरूपं वन्दामह इत्याशयः । अस्मिन्वृत्ते प्रथमचतुर्थपादयोः 'ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः' इति । हरस्य गर्भत्वं च तज्ज्ञैरूह्यम् ॥ भानुना तुहिनभानुना बृहद्भानुना च विनिवर्तितं न यत् । येन तज्झगिति शान्तिमान्तरं ध्वान्तमेति तदुपास्महे महः ॥ ७ ॥ भानुनेति । वयं तन्महः परं ज्योतिरुपास्महे । तत्किम् । येन आन्तरं ध्वान्तमवि- द्यात्मकमज्ञानं झगिति सहसैव शान्तिमेति । तत्किम् । भानुना सूर्येण तुहिनभानुना च न्द्रेण बृहद्भानुनाग्निना च यन्न विनिवर्तितम् । विशेषेणापुनरागमनरूपेण न निवर्तितं न निवारितम् । तथाविधमज्ञानाख्यं गाढं तमः परं ज्योतीरूपेणैव विनिवार्यम् । सहसैवे- त्यर्थः । तथा हि ——'न तत्र सूर्यो भाति न चन्द्रतारका नेमा विद्युतो भान्ति कुतोऽय- मग्निः । तमेव भान्तमनु भाति सर्वे तस्य भासा सर्वमिदं विभाति ॥' इति श्रुतिः ॥ कीचकादिकुहरेष्विवाम्बरं बिम्बमम्बरमणेरिवोर्मिषु । एकमेव चिदचित्स्वनेकधा यञ्चकास्ति तदुपास्महे महः ॥ ८ ॥ कीचकादीति । वयं तन्महः परं ज्योतिरुपास्महे । तत्किम् । यदेकमेव अद्वितीयं परं ब्रह्म चिदचित्सु चेतनाचेतनेषु चकास्ति देदीप्यमानमस्ति । कुत्र किमिव । कीचका वेणुविशेषाः । 'सरन्ध्राः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः' इति । आदिशब्देन का हलाभेरीढक्कादिपरिग्रहः । तेषु यथाम्बरं गगनमेकमेवानेकधा चकास्ति । तथाम्बरम- णोर्बिम्बं सूर्यबिम्बं यथा एकमेवोर्मिषु जलतरङ्गेष्वनेकधा चकास्ति तद्वत् ॥ तर्ककर्कशगिरामगोचरं स्वानुभूतिसमयैकसाक्षिणम् । मीलिताखिलविकल्पविप्लवं पारमेश्वरमुपास्महे महः ॥ ९ ॥ तर्केति । वयं पारमेश्वरं परमेश्वरसंबन्धि मह उपास्महे । किंभूतम् । अगोचरम् । कासाम् । तर्ककर्कशगिराम् । अनिष्टप्रसञ्जनं तर्कः । 'तर्कोऽनिष्टप्रसङ्गः स्यात्' इति ता- किंकरक्षायाम् । अतर्क्यैश्वर्येऽपि परमेश्वरे किमाधारः किंकाय: किंचेष्टः किमुपायश्च त्रिभुवनं सृजतीत्यादिर्यो मूढधियां तर्कस्तेन याः कर्कशा गिरस्तासामगोचरम् । वाङ्म- नसातीतैश्वर्यमित्यर्थः । 'शास्त्रेणापि न वक्तव्यं स्वसंवेद्यं परं पदम्' इत्युक्तेः । स्वसंवे- द्यत्वमेवाह – स्वानुभूतीति । पुनश्च किंभूतम् । स्वा चासावनुभूतिरनुभवस्तस्य यः समयः स एवैकः साक्षी यस्य । आत्मीयानुभव एव तस्य परज्योतिषः साक्षोत्यर्थः । तथा मी- लिताखिलविकल्पविप्लवं निमीलितसमस्तचिन्ताजालम् ॥ स्वावभासमयमेव मायया येन भिन्नमवभास्यते जगत् । चित्रमिन्द्रधनुरभ्रलेखया भास्वतेव तदुपास्महे महः ॥ १० ॥ स्वावभासेति । वयं तन्मह उपास्महे सेवामहे । येन स्वतन्त्रेण कर्त्री जगत्सुरनर- तिर्यगादिरूपमवभास्यते प्रकाश्यते । किंभूतम् । भिन्नम् । कया । मायया मायातत्त्वेन करणेन । 'स्वस्वरूपेषु भावेषु भेदप्रथा माया' इति पराप्रावेशिकायाम् । तया करणभू- तया भिन्नं सच्चित्रं नानारूपमवभासते। किंभूतम् । स्वावभासमयमेव स्वश्चासाववभासः स एव प्रकृतो यस्य । स्वात्मप्रकाशमेवेत्यर्थः । किं केनेव । इन्द्रधनुर्भास्वतेव । यथा भास्वता कर्त्रा अभ्रलेखया करणभूतया चित्रं नानावर्णे सर्वमवभास्यते । किंभूतम् । स्वावभासमयमेव ॥ हृद्गुहागहनगेहगूहितं भासिताखिलजगत्रयोदरम् । कन्दकंदरदरीमुखोद्गतप्राणमारुतकृतस्थिरस्थितिम् ॥ ११ ॥ त्यक्तसर्वदशमक्षयोदयं रूपवर्जितमभित्तिसंश्रयम् । यं निरञ्जनमनक्षगोचरं दीपमद्भुतमुशन्ति तं स्तुमः ॥ १२ ॥ (युग्मम्) युगलकम् – हृद्गुहेति, त्यक्तेति । वयं तं परमेश्वरं स्तुमः । तं कमित्याह - हृद्गुहेत्यादि । ज्ञानिन इत्यध्याहारः । ज्ञानिनो यं परमेशमद्भुतमाश्चर्यमयं दीपमुशन्ति । 'वश कान्तौ ' धातुः । उशन्त्यभिलषन्ति । वर्णयन्तीत्यर्थः । किंभूतम् । हृदेव गुहा गह्वरम् । 'देवखा- तबिले गुहा' इत्यमरः । सैव गहनं गेहं तत्र गूहितं गोपितम् । 'चिद्धनोऽपि जगन्मूर्त्या- श्यानो यः स जयत्यजः । स्वात्मप्रच्छादनक्रीडाविदग्धः परमेश्वरः ॥' इति योगराजः । अत्र अपिशब्द आर्थ: । गूहितमपि भासितं प्रकाशितमखिलं जगत्रयस्योदरं येन । विरोधाभासः । यद्वस्तु किमपि गोपितं तत्कथं बाह्यं प्रकाशयेत् । पुनश्च किंभूतम् । कन्देति । 'नाभेरधस्तान्मेढ्रोर्ध्वे कन्द इत्यभिधीयते' । मेढ्रादूर्ध्वे नाभेरेधो द्व्यङ्गुलं स्थानं कन्दः । स एव कंदरम् । दरी गुहागह्वरं तस्य मुखं तस्मादुद्गतो यः प्राणमारुतः शरी- रस्थवायुमुख्यस्तेनैव कृता स्थिरा स्थितिर्यस्य । अत्रापि प्राग्वद्विरोधाभासः । मारुतेन हि दीपो निर्वाप्यते । एष तु चिन्मयो दीपः प्राणवायुना स्थिरस्थितिः ॥ पुनः । त्यक्ताः सर्वा दशा बालाद्यवस्था येन । चिदानन्दमयस्य ता न सन्ति । लौकिकस्य तु दशा वर्तयो युज्यन्त एव । पुनश्च किंभूतम् । अविद्यमानौ क्षयोदयौ यस्य तम् । स्वरू- पसदृशस्य क्षयोदयौ भवतः । अतश्चाद्भुतं तम् । तथा रूपेण वर्जितस्तम् । लौकिकस्य दोपस्य रूपं दृश्यत एव । तथा अविद्यमानो भित्तावाधारे संश्रयो यस्य । हृदयाकाश- स्थत्वात् । दीपस्य हि भित्तौ स्थितिरुपपन्ना । न तु षट्त्रिंशत्तत्त्वातीतस्य चिदानन्द- घनस्य । दीपेन हि साञ्जनेन भाव्यम् । तथा अनक्षगोचरम् । अक्षाणामिन्द्रियाणामगो- चरम् । बाह्यो हि दीपो नेत्रगम्यः । चिदानन्दमयस्त्विन्द्रियागम्य एव ॥ यस्य शस्यमहसो निरर्गलं योगमाप्य चरणाब्जरेणुभिः । अद्भुतां दधति नीरजस्कतां तं जगत्पतिमुमापतिं स्तुमः ॥ १३ ॥ यस्य शस्येति । तं जगतां पतिमुमापतिं महेशं स्तुमः । तं कमित्याह – शस्यं स्तुत्यं महो यस्य सः । तादृशस्य यस्य परमेशस्य पादकमलरेणुभिर्योगमवाप्य । भक्ता इति शेषः । अद्भुतां नीरजस्कतां निर्गतरजोगुणत्वं दधति । 'रजो गुणे च रेणौ च योषिता- मार्तवेऽपि च' इति मङ्खः । रजस्तमोरहिता एव सात्त्विका मुक्ता इत्यर्थः । ये हि सर- जस्कास्ते कथं नीरजस्काः स्युरित्यद्भुतम् । अत्र चरणाब्जरजोभिरित्युच्यमाने यति भङ्गभयाद्रेणुभिरिति प्रक्रमभङ्गेऽपि भक्तिविषये न दोषः ॥ चारुचन्द्रकलयोपशोभितं भोगिभिः सह गृहीतसौहृदम् । अभ्युपेतघनकालशात्रवं नीलकण्ठमतिकौतुकं स्तुमः ॥ १४ ॥ चार्विति । वयं तं नीलकण्ठं शितिकण्ठं स्तुमः । किंभूतम् । अतिकौतुकम् । अति शयेन कौतुकं यस्य स तम् । अत्यद्भुतमित्यर्थः । किंभूतम् । चार्वी या चन्द्रकला तयोपशो- भितम् । तथा भोगिभिः सर्पैर्वासुक्याद्यैः सार्धे गृहीतं सौहृदं येन । तथा अभ्युपेतमङ्गी- कृतं घनेन कालेनान्तकेन सह शात्रवं शत्रुभावो येन स तम् । अथ च नीलकण्ठं मयू- रम् । 'नीलकण्ठो भुजंगभुक्' इत्यमरः । तस्याद्भुतत्वमाह । तत्पक्षे चारवो ये चन्द्रका बर्हास्तेषां लयो माशस्तेनोपशोभितम् । मयूरस्य चन्द्रकलयेन शोभा न युक्ता । अत एवाद्भुतत्वम् । पुनश्च । भोगिभिः सर्पैः सह गृहीतं सौहृदं येन । मयूरो हि भुजंगभुक् । अथ अभ्युपेतमङ्गीकृतं घनकालेन वर्षासमयेन सह शात्रवं शत्रुभावो येन । वर्षाकालेन सह मयूरस्य शत्रुत्वं न विद्यते । किं तु प्रीतिरेवेत्यद्भुतत्वम् । श्लेषमूलो व्यतिरेकः ॥ इच्छयैव भुवनानि भावयन्यः प्रियोपकरणग्रहोऽपि सन् । अप्रियोपकरणग्रहोऽभवत्तं स्वशक्तिसचिवं शिवं स्तुमः ॥ १५ ॥ इच्छयैवेति । स्वा चासौ शक्तिः शक्तितत्त्वम् । 'जगत्स्रष्टुमिच्छां परिगृहीतवतः परमेश्वरस्य प्रथमस्पन्द एवेच्छा यास्ति तच्छक्तितत्त्वम्' इति पराप्रावेशिकायाम् । शक्तिः सचिवो यस्य स तम् । स्वशक्तियुक्तं तं श्रीशिवं स्तुमः । तं कम् । यः परम- शिव इच्छयैव इच्छाशक्त्यैव मुख्यया भुवनानि अधः कालाग्निरुद्रभुवनादारभ्य शिव- भुवनान्तं सचतुर्विंशतिशतद्वयमितानि भुवनानि भावयन्संपादयन् । 'कलाः पञ्च च विज्ञेयास्तत्त्वं षट्त्रिंशदेव च । सचतुर्विंशति ज्ञेयं भुवनानां शतद्वयम् ॥" इति श्रीस्व- च्छन्दोक्तेः । किंभूतः । प्रियेत्याद्रिविशिष्टः । प्रिय उपकरणेषूपकारेषु ग्रहो हेवाको यस्य सः । तादृशोऽपि सन्नप्रियोपकरणग्रहः । न प्रिय उपकरणेषु साधनेषु ग्रहो ग्रहणं यस्य स तादृशोऽभवत् । तक्ष्णो हि वास्यादिभिर्निर्माणसाधनैर्भवितव्यम् । अत्रापि विरोधा- भासः - यः प्रियोपकरणग्रहः स कथमप्रियोपकरणग्रहो भवतीति ॥ पद्मसद्मकरमर्दलालितं पद्मनाभनयनाब्जपूजितम् । पद्मबन्धुमुकुटांशुरञ्जितं पादपद्मयुगमैश्वरं स्तुमः ॥ १६ ॥ पद्मसद्मेति । पद्मसद्मा ब्रह्मा तस्य करौ ताभ्यां मर्दो हस्तसंवाहनं तेन लालितम् । तथा पद्मनाभो विष्णुस्तस्य नयनमेवाब्जं तेन पूजितम् । 'हरिस्ते साहस्रं कमलबलि- माधाय पदयोर्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम्' इत्युक्तेः । तथा पद्मबन्धुः सूर्य- स्तस्य ये मुकुटांशवस्तै रञ्जितम् । ऐश्वरमीश्वरस्येदं पादपद्मयुगलं वयं स्तुमः ॥ अङ्घ्रियुग्मममरेशमस्तकस्त्रग्भिरुज्ज्वलमुरश्च भस्मभिः । शेखरं च हिमरश्मिरश्मिभिर्यो बिभर्ति तमुपास्महे विभुम् ॥ १७ ॥ अङ्घ्रियुग्ममिति । अमरेशमस्तकस्रग्भिरिन्द्रशिरः कुसुममालाभिरुज्ज्वलं दीप्तं पा दद्वयम्, तथा भस्मभिरुज्ज्वलमुरो वक्षःस्थलंच, तथा हिमरश्मिरश्मिभिश्चन्द्रकरैरुज्ज्वलं शेखरं मुकुटं च बिभर्ति तं विभुं वयमुपास्महे ॥ मूर्ध्नि चन्द्रकरसुन्दरत्विषं फेनपिण्डपरिपाण्डुरस्मिताम् । देहिनां वहति तापहारिणीं सिद्धसिन्धुमतनुं तनुं च यः ॥ १८ ॥ कर्तुमुत्सहत एव सेवको यस्य कस्य न मनः सकौतुकम् । नौत शान्तनवविग्रहोऽपि सन्भीष्मतां न च विचित्तवीर्यताम् ॥ १९ ॥ आपतन्तमयमं यमं पुरो यः सविग्रहमविग्रहं व्यधात् । दर्पकं व्यधित योऽप्यदर्पकं तं विषादमविषादमाश्रये ॥ २०॥ (तिलकम् ) मूर्ध्नीति, कर्तुमिति, आपतन्तमिति, तिलकम् । अहं तं विषादं विषं कालकूटाख्य- मत्ति समुद्रमथने इति विषात् शिवस्तमाश्रये । किंभूतम् । अविषादम् । अविद्यमानो विषादो यस्य स तम् । परमानन्दस्वरूपमित्यर्थः । तं कम् । यो मूर्ध्नि शिरसि सिद्धसिन्धुं गङ्गां वहति । तथा अतनुं महतीं तनुमाकृतिं च वहति । द्वे अपि विशिनष्टि–चन्द्र- करवत्सुन्दरा त्विड् यस्यास्तां गङ्गाम् । चन्द्रकरैः सुन्दरत्विषं तनुं च । तथा फेनपिण्ड इव जलक्षोभोत्थितनदीकफपिण्ड इव परिपाण्डुरं स्मितमीषद्धासो यस्यास्तां तनुम् । तथा देहिनां शरीरिणां तापहारिणीमध्यात्मिकाधिदैविकाधिभौतिकाख्यतापत्रयनिवा- रिकां तनुं च बिभर्ति । समुच्चयालंकारः ॥ कर्तुमिति । यस्य सेवकः कर्ता कस्य न मनः सकौतुकं कर्तुमुत्सहत एव । अपि तु सर्वस्य साश्चर्यं विधातुं शक्तो भवति । अत्र च यत्तदावार्थौ । कुतस्तत् । यद्यस्मात्कार- णाच्छान्तः शममुपगतो नवोऽपि विग्रहो वैरं यस्य स एवंविधोऽपि सन्भीष्मतां भया- नकत्वं नैति । तथा विचित्तवीर्यतां विगतं चित्तस्य वीर्यं यस्य स विचित्तवीर्यस्तस्य भावस्तत्ता तां बिभर्ति न च । अथ च शन्तनो राज्ञोऽपत्यं शान्तनवः स एव विग्रहो देहं यस्य तम् । 'आत्मा वै पुत्रनामा स्यात्' इति स्मृतेः । शन्तनुनृपतिमूर्ती तत्सुतौ यौ तौ भीष्मविचित्तवीर्याख्यौ कथं न भवेतामिति विरोधाभासः ॥ आपतन्तमिति । तथा तं विभुं कम्। यो विभुः पुरोऽग्रत आपतन्तमागच्छन्तम् । श्वेताख्यनृपतित्रासहेतोरिति शेषः । यममन्तकमयमं अविद्यमानो यमो यत्नो यस्य तम् । तथा सविग्रहं सह विग्रहेण वैरेण वर्तते यः स तं अविग्रहमशरीरं व्यधात् । शर णागतश्वेतत्राणाय ददाहेत्यर्थः । तथा दर्पकं दर्पयति कामिनमिति दर्पकः कामस्तं अदर्पकं अविद्यमाने । दर्पो यस्य स तं व्यधात् । निरहंकारं चकारेत्यर्थः । विरोधा- भासः । त्रिभिर्विशेषकम् ॥ अम्बरेण गगनेन संवृतं जीवनैः शिरसि वारिभिः श्रितम् । भोगिभिश्च भुजगैर्विभूषितं शंकरं शुभकरं भजामहे ॥ २१ ॥ अम्बरेणेति । वयं शंकरं शं कल्याणं निःश्रेयसरूपं करोति शंकरस्तं भजामहे सेवा- महे । किंभूतम् । शुभकरं शुभं त्रिजगन्मङ्गलं करोति तादृशम् । पुनश्च किंभूतम् । गगनेनाकाशेन गच्छन्त्यनेन देवा इति गगनं व्योम तेनैवाम्बरेण वस्त्रेण परिवेष्टितम् । तथा जीवयन्ति तृषातुरानिति जीवनानि तैर्जीवनैराप्यायकैर्वा रिभिर्जलैः । मन्दाकिन्या इति शेषः । तैः श्रितम् । कुत्र । शिरसि । तथा भुजानष्टादश । 'अष्टादशभुजं देवं नीलकण्ठं सुतेजसम्' इति स्वच्छन्दतन्त्रराजोक्तेः । तान्गच्छन्तीति भुजगाः । तादृ- शैर्भोगिभिः सर्पैर्वासुक्याद्यैर्भूषितमलंकृतम् । अत्र श्लोके असमस्तपदपुनरुक्तवदाभासः । तथा हि – अम्बरेण गगनेनेति, जीवनैर्वारिभिरिति, भोगिभिर्भुजगैरिति, शंकरं शुभ- करमिति आभिमुख्ये पौनरुक्त्यं पर्यवसानेऽन्यार्थत्वात्तदभावः । अत्र च 'नौमि पा- र्षदगणान्वितं विभुम्' इत्यपि पाठो दृश्यते । तत्पक्षे पार्षदानां नन्दिमहाकालादीनां प्रमथानां गणाः समूहास्तैरन्वितम् । "परिषदो द्व्यच्कत्वं च । 'ततः पर्षदपार्षदाः' इति संसारावर्तादेः । 'स पार्षदैरम्बरमापुपूरे' इति जाम्बवत्यां पाणिनिः" इति रायमुकुट्याम् । अत्रापि पार्षदगण इत्यामुखे पौनरुक्त्यं पर्यवसाने तदभावः ॥ पावकेन शिखिनोपशोभितं भासितं सितरुचा हिमांशुना । भास्वता च रविणा विराजितं लोचनत्रयमुपास्महे विभोः ॥ २२ ॥ पावकेन शिखिनेति । पावयति पवित्रीकरोतीति पावकस्तेन पावकेन शिखिना व ह्विना उपशोभितम् । ललाट इति शेषः । सिता रुग्यस्य स तादृशेन हिमांशुना चन्द्रेण चामाक्षिकवाटस्थेन, तथा भास्वता भासो विद्यन्ते यस्य स तादृशेन रविणा सूर्येण द- क्षिणाक्षिकवाटस्थेन शोभितम् । विभोः श्रीशिवस्य लोचनत्रयं नेत्रत्रयमुपास्महे वयम् । अत्रापि श्लोके असमस्तपदपुनरुक्तवदाभासः ॥ एतद्वृत्ताभिप्रायच्छायानुसारेण ममापि वृत्तमेकम् – 'भक्तिप्रह्वजनस्य यत्किल तमोध्वान्तं निहत्यान्तरं दृष्ट्यंशेन यमान्तकारि मदनं निर्दर्पकं यद्व्यधात् । भास्वद्भास्करपावकाग्निशशभृच्छीतांशुसंभूषितं तन्नेत्रत्रि- तयं सदा गिरिसुताकान्तस्य वन्दामहे ॥' तमस्तमोगुण एव ध्वान्तम् । विस्प- ष्टमन्यत् ॥ अभयंकरमाश्रितं स्वरूपं दधदुद्दामसमग्रधामयोगम् । शुचितारकमीश्वरस्य नेत्रत्रितयं शूलशिखात्रयं च वन्दे ॥ २३ ॥ अभयंकरमिति । अहमीश्वरस्य नेत्रत्रितयं तथा शूलस्य त्रिशूलस्य शिखात्रयं च वन्दे नौमि । द्वे अपि विशिनष्टि - किंभूतं नेत्रत्रितयम्, अभयंकरम् । न भयं करोती- त्यभयंकरम् । 'भयार्तिमेघेषु कृञः' इति स्वमुञ् । एवंभूतं स्वरूपमाश्रितम् । शूलशिखा- त्रयं च किंभूतम् । अभयम् । अविद्यमानं भयं परेभ्यो भङ्गभयं यस्य । तथा करं कर्म- भूतं इस्तमाश्रितम् । पुनः किंभूतं नेत्रत्रितयम् । उद्दामान्युद्भटानि यानि समग्राणि धामानि सूर्येन्दुवहिरूपाणि तैर्योगं दधत् । शूलशिखात्रयं च किंभूतम् । उद्दामानि सम- ग्राणि यानि धामानि तेजांसि तैर्योगं दधत् । तथा नेत्रत्रितयं किंभूतम् । शुचितारकम् । शुचयस्तारकाः कनीनिकाः । 'तारकाक्ष्णो: कनीनिका' इत्यमरः । यत्र तादृशम् । शूलशिखात्रयपक्षे - शुचि निर्मलम् । तारकं तारयति देवगणान्दैत्यरणोदधेरिति तारकं निस्तारकम् ॥ मीलद्विलोचनसमुद्गसमुद्गताश्रु- स्त्रोतःस्त्रुतिस्त्रपितमूलकपोलभागाः । देवं शशाङ्कशकलाकलितावतंसं शंसन्ति सन्त इह शंकर शंकरेति ॥ २४ ॥ मीलदिति । शशाङ्कशकलेन चन्द्रखण्डेनाकलितोऽवतंसो यस्य तं चन्द्रखण्डमौलिं श्रीशिवं सन्तः कृतिनः शंकर शंकरेति स्तुवन्ति । किंभूताः । मीलद्विलोचनेत्यादि । मीलन्ति तद्ध्यानेन यानि विलोचनानि तान्येव समुद्गाः संपुटकास्तेभ्यः समुद्गतं यदश्रु तस्य स्रोतःप्रवाहस्तेन स्त्रपितं मूलं येषां तादृशाः कपोलभागा येषां ते ॥ भ्रान्तोंSस्मि वैशसमये समयेऽहमत्र मिथ्यैव दिग्भ्रमहतो महतोऽपमार्गान् । विश्रम्य नन्दनवने नवने शिवस्य खेदस्तु संप्रति समेति स मेऽवसानम् ॥ २५ ॥ भ्रान्तोऽस्मीति । दिग्भ्रमेण दिहेन हतः । एकदा परिचितोऽपि वर्त्मनि विस्मृ तमार्ग इत्यर्थः । अत्र वैशसमये दुःखमये समये तुरीययुगसमये तारुण्यातिरिक्ते प्रौढत्व- समये वा महतोऽपमार्गान् अवटवर्त्मनः शिवशास्त्रादन्यशास्त्रोपदेशरूपान्कुमार्गात् मि थ्यैव मृषैव भ्रान्तोऽस्मि । 'दिक्क्लमहतो' इत्यपि पाठोऽत्र दृश्यते । तत्पक्षे दिक् कर्तृ । अस्तु किमित्याह – वैशसमय इत्यादि । अन्यत्प्राग्वत् । क्लमेन खेदेन भवमरुभ्रमणेन इतः । विश्रम्येत्यादि । श्रीशिवस्य नवने स्तवने एव नन्दनवने देवोद्याने विश्रम्य स खेदो भ्रमणजो ममावसानं समाप्तिं संप्रत्यधुना समेति प्राप्रोति च ॥ एतद्वृत्ताशयानु- सारेण ममापीदं वृत्तद्वयम् – 'भ्रान्त्वा निसर्गकुटिलेष्वपथेष्वजस्नं मोहान्धकारपटलेन निमीलितोऽयम् । दिष्टया शिवस्तुतिसुरद्रुमवाटिकायां विश्रान्तिमेति मम मानसचञ्चरो- कः ॥' तथा – 'मोहध्वान्तग्लपनविवशः कापथेषु प्रकामं रे रे चित्तभ्रमर विमते किं मुधा बम्भ्रमीषि । शंभुलाघासुरतरुवने लीन एकान्ततः स्याः संतापस्ते भवमरुभवो नान्यथा शंशमीति ॥' इति ॥ यत्पार्वणेन्दुकरमुन्दरवाहहंस- संवासदुर्ललितयापि वचोधिदेव्या । विश्रम्यते मनसि नः समले सलीलं तत्सौभगं भगवतो जयतीन्दुमौलेः ॥ २६ ॥ यत्पार्वणेन्दुकरेति । भगं विद्यते यस्य । 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्यस्याथ मोक्षस्य षण्णां भग इति स्मृतम् ॥' तद्वतो भगवतश्चन्द्रमौलेर्महेशस्य त- त्सौभगं सौभाग्यं जयति सर्वोत्कृष्टो भवति । तत्किम् । वचोधिदेव्या वचसामधिदेवी अधिष्ठातृदेवता वाग्देवता तया वाग्देवतयापि समले सकालुष्ये मलिने नश्चेतसि यद्वि- श्रम्यते । किंभूतया तया । पर्वणि भवः पार्वणः पूर्णश्चन्द्रस्तस्य करवद्रश्मिवत्सुन्दरो यो वाहहंसः श्वेतगरुत् तस्मिन्संवासेन नित्यवासेन दुर्ललितया । सदैवाभ्यस्तयेत्यर्थः । शिवैकताध्यानतत्परेऽस्माकं मनसि कलुषेऽपि यद्वाग्देव्या विश्रम्यते तत्कामुकसौभाग्य- फलम् । निश्चयेन प्रियासंगम इत्याशयः ॥ यं भूषयन्ति कमनीयमहीनभोगाः स्तुत्वा भवन्ति कृतिनो यमहीनभोगाः । चित्तोचितं तमपहाय महीनभोगाः कर्तुं परत्र घृतसंयम ही न भो गाः ॥ २७ ॥ यमिति । 'ही भर्त्सने खेदे च' इति क्षीरस्वामी । ही खेदे । भोश्चित्त मनः, उचितं कर्तृ न भवति । अर्थात्तवैवेत्यर्थः । किं कर्तुम्, गा वाचः कर्मभूता महीनभोगाः कर्तुम् । मही च नभश्च ते महीनभसी । ते गच्छन्तीति महीनभोगाः । चित्त कीदृश, धृतसं- यम । धृतः संयमः शान्तिस्वरूपो येन तत् । तस्य संबोधनं धृतसंयम । कुत्र । परत्र विषये कर्तुम् । किं कृत्वा । तं पूर्वार्धविशेषणविशिष्टं भगवन्तं श्रीशिवमपहाय त्यक्त्वा । तं कमित्याह – यं भूषयन्तीति । अहीनभोगा अहीनां भुजगानामिना अहीना भुज- गेन्द्रा वासुकिमुख्यास्तेषां भोगा वपूंषि कमनीयं काङ्क्षणीयं भक्तजनैर्ये भूषयन्ति । यं च भगवन्तं स्तुत्वा कृतिनः सुधियोsहीनभोगा न हीना भोगा विषया येषां ते। परि- पूर्णभोगा भवन्तीत्यर्थः । पादान्तयमकम् ॥ अवाप्य गुरुभिर्गुणैर्जगति गौरवं ध्यायत- स्तमीरमणशेखरं भवति गौरवन्ध्या यतः । अतस्तमुमया समं कृतमहाविलासं प्रति स्तुतौ विरचिता मया मतिरनाविला संप्रति ॥ २८ ॥ अवाप्येति । मया कर्त्रा अनाविला अकलुषा मतिर्बुद्धिः [स्तुतौ] विरचिता । कं प्रति । तं प्रति । कदा । संप्रति इदानीम् । किंभूतं तम् । कृतमहाविलासम् । कृता महान्तो विलासा येन तम् । कया समम् । उमया पार्वत्या समम् । कुतो हेतोः । अतः । अतः कुत इत्याह – अवाप्येत्यादि । गौर्वाणी अवन्ध्या सफला यतो भवति । कस्य । तमीरमण- शेखरं चन्द्रमौलिं ध्यायतः । अर्थाद्भक्तस्य । किं कृत्वा । गुरुभिर्गुणैः पाण्डित्यकवित्वा- दिभिर्गौरवमवाप्य । कुत्र । जगति । इदमपि वृत्तं पादान्तयमकम् ॥ मत्वा सद्यः सुकृतसुहृदं दुर्लभं जीवलोकं लब्ध्वा सर्वव्यसनशमनं मित्रमेकं विवेकम् । धन्याः केचित्कृतकुमुदिनीकान्तलेखावतंसं हंसं शंसन्त्यमलमघुरैर्भक्तिसिक्तैर्वचोभिः ॥ २९ ॥ मत्वेति । सुकृतस्य पुण्यस्य सुहृदम् । सुकृतेन मानुष्यकप्राप्तिः । मानुष्यकसाहच- र्येण सुकृतं वर्धत इत्याशयः । भूयो दुर्लभं जीवलोकं मत्वा । तथा सर्वव्यसनानां मृग- यादीनां शमनमेकं मित्रं विवेकं लब्ध्वा । अमलानि च तानि मधुराणि च तैः । तथा भक्त्या वाङ्मनःकायासक्त्या सिक्तैः । भक्तिरसामृतसिक्तैर्वचोभिः केचित्कतिषया एव धन्याः सुकृतिनो हंसं परमात्मानं परमशिवं स्तुवन्ति । 'हंसो विहंगभेदे स्यादर्के विष्णौ हयान्तरे । योगिमन्त्रादिभेदेषु परमात्मनि मत्सरे ॥' इति विश्वः । किंभूतं श्री- शिवम् । कृतेत्यादि । कृतः कुमुदिनीकान्तलेखावतंसश्चन्द्रकलावतंसो येन तम् ॥ अन्तः शून्यं गुणविरहितं नीरसं सर्गहीनं काव्यं हृद्यं ननु सुमनसां न स्थलाम्भोरुहाभम् । तत्रापीशः श्रवणपुलिने गाढरागानुबन्ध- प्रोद्यद्भक्तिप्रगुणितमदः कर्तुमर्हत्यगर्हम् ॥ ३० ॥ अन्तः शून्यमिति । ननु निश्चये । काव्यं निपुणकविकर्म । सुमनसां विदुषाम् । 'सुमनाः स्त्री पुष्पजात्योर्देवपण्डितयोः पुमान्' इति मङ्खः । तेषां हृद्यं हृदयप्रियं न भ वति । किंभूतम् । स्थलाम्भोरुहाभम् । शब्दसाम्येन स्थलकमलतुल्यम् । अत्र हेतुमाह काव्यं किंभूतम् । अन्तः शून्यं लक्ष्यव्यङ्गचार्थरहितम् । तथा गुणैरोजःप्रसादमाधुर्यांख्यैस्त्रिभिर्विरहितम् । तथा नीरसं रसाच्छृङ्गारादेनिर्गतम् । तथा सगैंः सर्गबन्धैर्हीनम् । 'सर्गबन्धो महाकाव्यम्' इत्यभियुक्तोक्तेः । स्थलकमलमपि अन्तः शून्यं कर्णिकावर्जितम् । तथा गुणैः सूक्ष्मतन्तुभिर्विरहितं निर्मुक्तम् । तथा नीरसं सर्गहीनम् । नीरस्य जलस्य यः संसर्गो योगस्तेन हीनम् । स्थलोत्पन्नत्वात् । एतादृशं स्थलकमलं सुमनसां पुष्पाणां मध्ये न हृद्यं न हृदयप्रियं कस्यापि । तत्रापि एवमपि सति ईश: परमैश्वर्यमहाम्भोधिर्मत्काव्यं श्रवणपुलिने कर्णतटे कर्तुमर्हति । अत्र हेतुमाह - गात्यादि । गाढश्चासौ रागो वाङ्मनःकायैस्तदासक्तिस्तस्यानुबन्धोऽव्युच्छिन्नता तेन प्रोद्यन्ती या भक्तिस्तया प्रगुणितं प्रकृष्टगुणं संपादितं यतो मत्काव्यमित्यर्थः । अत एवागर्हे निर्दोषं साधुजनश्लाघ्यम् । स्थलाम्भोजपक्षे - गाढरागानुबन्धो नित्यलौहित्ययोगस्तेन या प्रोद्यन्ती भक्तिर्विच्छित्तिस्तया प्रगुणोकृतम् । अत एवागर्हं निर्दोषम् ॥ पूर्वश्लोकेनापरितुष्यन्नन्यथा तमेव पुनः समर्थयति अथवामृतबिन्दुवर्षिणीन्दुद्युतिरानन्दममन्दमर्पयन्ती । नयति ध्रुवमार्द्रतामियं गीर्गिरिजाजीवितनाथमिन्दुकान्तम् ॥ ३१ ॥ अथवेति । अथवा पक्षान्तरे । इयं गीर्मम वाणी गिरिजाजीवितनाथं पार्वतीप्राणप्रियं शंभुं ध्रुवं निश्चितमार्द्रतां नयति । कृपामृतरसासिक्तचित्तमुमानाथं संपादयतीत्यर्थः । कीदृशं शंभुम् । इन्दुकान्तम् । इन्दुना मौलिस्थेन कान्तस्तम् । इयं मे गीः किंभूता । अमृतबिन्दुवर्षिणी । तथा इन्दुद्युतिः इन्दुवद्द्युतिर्यस्याः । तथा अमन्दं बहुतरमानन्द- मर्पयन्ती । यथा अमृतबिन्दुवर्षिणी अमन्दं चानन्दमर्पयन्ती इन्दुद्युतिश्चन्द्र कान्तिश्च- न्द्रकान्तमणिमार्द्रतां नयति जलार्द्रीकरोतीत्यत्रारोपकार्थः ॥ इति श्रीशारदाचरणसरोजरजःकणपवित्रस्थलवास्तव्यविपश्चिद्वरराजानकशंकरकण्ठात्मजराजानकरत्नकण्ठविरचितया स्तुतिकुसुमाञ्जलिलघुपञ्चिकया समेतः काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ स्तुतिप्रस्तावनाख्यं प्रथमं स्तोत्रम् । द्वितीयं स्तोत्रम् । अथ नमस्कारस्तोत्रं द्वितीयमारभमाण आह ओं नमः परमार्थैकरूपाय परमात्मने । स्वेच्छावभासितासत्यभेदभिन्नाय शंभवे ॥ १ ॥ ओं नम इति । ओमिति मङ्गलार्थः । परमात्मने । परमो जीवात्मनः परतर आत्मा व्यापकः परमात्मा चिदानन्दघनस्वरूपस्तस्मै नमः कर्तृ अस्तु । किंभूताय । परमार्थैकरू- पाय । परम उत्कृष्टो योऽर्थः पुरुषार्थो मोक्षाख्यः स एवैकं रूपं यस्य तस्मै । मोक्षरू- पेणानन्दस्वरूपायेत्यर्थः । 'आनन्दो ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम्' इति श्रुतेः । परमाणुरूपश्चेत्यर्थः । यद्वा परमार्थः संवित् सैवैकं रूपं यस्य । तथा च श्रीमदाचार्यव- रोत्पलदेवविरचितस्तोत्रावल्यां द्वितीये स्तोत्रे – 'संविन्मयाय ते' इति । अत्र हि संविन्मयत्वं स्वातन्त्र्येणोल्लासिताशेषविश्वनिर्भरत्वम् । यद्वा परमार्थत एकरूपाय ए- कस्मै असामान्याय परमात्मने परमशिवाय नमः । तथा च श्रीभट्टनारायणकृते स्तव- चिन्तामणौ – 'मुहुर्मुहुरविश्रान्तस्त्रैलोक्यं कल्पनाशतैः । कल्पयन्नपि कोऽप्येको निर्वि- कल्पो जयत्यजः ॥' इति । पुनश्च किंभूताय । स्वेच्छयावभासितः प्रकटीकृतो यो भेदो द्वैतप्रथाख्यस्ततो भिन्नः पृथक्स्थः । परमशिवो भगवान्परमेश्वर एक एव तत्प्रतिबि- म्बा एव सर्वे देवाद्या इत्यर्थः । तथा च श्रीमदभिनवगुप्ताचार्यविरचिते परमार्थसारे- 'नानाविधवर्णानां रूपं धत्ते यथामलः स्फटिकः । सुरमानुषपशुपादपरूपत्वं तद्वदीशो- ऽपि ॥ इति ॥ नमः शिवाय निःशेषक्लेशप्रशमशालिने । त्रिगुणग्रन्थिदुर्भेदभवबन्धविभेदिने ॥ २ ॥ नमः शिवायेति । शिवाय परमेश्वराय नमोऽस्त्विति संबन्धः । किंभूताय । सूक्ष्मा असूक्ष्माश्च ये क्लेशाः पञ्च अविद्यास्मितारागद्वेषाभिनिवेशास्तेषां यः प्रशमस्त्रैकालिका- भावस्तेन शाली तस्मै । क्लेशशब्दस्योपलक्षणतया कर्मविपाकाशयग्रहणम् । तेन क्लेश- कर्मविपाकाशयैरपरामृष्टायेश्वराय नमोऽस्त्वित्यर्थः । क्लेशशब्देन रागद्वेषमोहा उच्यन्ते । अस्मिताभिनिवेशयोस्तत्रैवान्तर्भावात् । त्रिगुणेति । यतस्त्रित्वसंख्याका ये गुणाः प्री- त्यप्रीतिविषादात्मकाः सत्त्वरजस्तमः पदार्थास्त एव परमतत्त्वसंकोचदायित्वाद्ग्रन्थि- स्तेन दुर्भेदो दुर्वारो यो भवो देहेन्द्रियविषयसंबन्धरूपः संसारः स एव बन्धो बन्धनं तं विभेत्तुं शीलमस्येति तस्मै । यद्वा शिवाय परमशिवाय नमोऽस्तु । ननु किमर्थं परमशिव एव नमस्य: । यावता ब्रह्मादयोऽप्यस्मदुत्तीर्णाः सन्ति तेऽपि नमस्क- रणयोग्या इति नेत्याह – निःशेषेति । निःशेषाः समस्ता ये क्लेशं प्रान्ति पूरयन्तीति क्ले- शप्राः । 'प्रा पूरणे' धातुः । क्लेशप्रमादादयस्तेषां शमोऽत्यन्तोच्छेदस्तेन शाली। मायादयो हि ब्रह्मादीनां विद्यन्ते । न तु परमशिवस्येति । स एव भगवाननवच्छिन्नप्रकाशानन्दस्वा- तन्त्र्यपरमार्थः परमशिव एव नमस्यः । ननु परमशिवस्य मायाद्यभावेऽपि कुतो नम- स्कार्यत्वमित्यत आह – त्रिगुणेति । त्रिगुणानां ग्रन्थः स विद्यते येषां ते त्रिगुणग्रन्थि- नः परतत्त्वानज्ञाः तेषां यो दुर्भेदो भवोऽनिश्चितपरमशिवरूपविशेषः क्षेत्रज्ञो यस्तस्य बन्ध: स्वरूपापरिज्ञानं तस्य विभेदी विनाशकरः यः क्षेत्रज्ञस्य परमशिवत्वं परमशिव इति स एव नमस्य इत्यर्थः । इति प्राचीनाचार्याणां व्याख्या । वृत्त्यनुप्रासोऽलंकारः ॥ नमः समस्तगीर्वाणकिरीटघटिताङ्घ्रये । जगन्नगरनिर्माणनर्मशर्मदकर्मणे ॥ ३ ॥ नमः समस्तेति । कस्मै । प्रस्तुताय श्रीशिवाय । किंभूताय । समस्ता ये गीर्वाणा दे- वास्तेषां किरीटैर्मुकुटैर्घटितौ मिलितावङ्घ्रि यस्य तस्मै । तथा जगदेव नगरं तस्य नि- र्माणं विधानं तदेव नर्म फ्रीडा तदेव शर्म कल्याणं तद्द्दातीति शर्मदं कर्म यस्य स तस्मै । क्रीडयैव जगन्नगरनिर्मात्र इत्यर्थः ॥ नमस्तमस्वतीकान्तखण्डमण्डितमौलये तापान्धकारनिर्वेदखेदविच्छेदवेदिने ॥ ४ ॥ नमस्तमस्वतीति । तमस्वतीकान्तखण्डश्चन्द्रखण्डस्तेन मण्डितो मौलिर्यस्य । तापः आध्यात्मिकाधिदैविकाधिभौतिकरूपस्त्रिविधः । अन्धकारो मोहरूपोऽविद्यामयः । अ- र्थात्संसारिणां भक्तजनानां च । तेन यो निर्वेदस्तेन यः खेदस्तस्य यो विच्छेदस्तं वे- त्तीति तस्मै श्रीशिवाय नमोऽस्तु ॥ नमः समस्तसंकल्पकल्पनाकल्पशाखिने । विकासिकलिकाकान्तकलापाय स्वयंभुवे ॥ ९ ॥ नमः समस्तेति । समस्ता ये संकल्पा भक्तजनस्य ऐहिका आमुष्मिकाश्च । तेषां या कल्पना निष्पत्तिस्तस्यां कल्पशाखी देवतरुर्यथेप्सिताभीष्टदायी तस्मै । विकासिनी या कलिका चन्द्रकला तया कान्तः कलापो जटाजूटो यस्य तस्मै । एवंविधाय स्वयंभुवे स्थाणवे नमोऽस्तु । देवतरुरपि समीहितपूरणं विधत्ते । कलिकाभिर्दिन्त्यकुसुमकुड्मलैः शोभितशाखाकलापश्च भवतीत्यर्थः । अत्रापि वृत्त्यनुप्रासोऽलंकारः ॥ नमस्तमःपराभूत भूतवर्गानुकम्पिने । श्वेतभानुबृहद्भानुभानुभासितचक्षुषे ॥ ६ ॥ नमस्तम इति । तमसा अज्ञानेनाविद्यारूपेण पराभूतो यो भूतवर्गो जनसंघस्तमनु- कम्पते इत्यनुकम्पी तस्मै । अज्ञानपराभूतप्राणियूथदयालवे इत्यर्थः । तथा श्वेतभानुः सोमः, बृहद्भानुरग्निः, भानुः सूर्यः, तैर्भासितानि चक्षूंषि त्रीणि यस्य तस्मै नमोऽस्तु ॥ नमः शमनहुंकारकातरातुरहर्षिणे । भवाय भवदावाग्निविविग्नामृतवर्षिणे ॥ ७ ॥ नमः शमेति । शमनस्य यमस्य यो हुंकारस्तेन कातरा भीता ये आतुरा आर्ता- स्तान्हर्षयतीति तस्मै । तथा भवः संसार एव दावाग्निस्तेन ये विविग्ना भीता व्या- कुला वा तेषाममृतं वर्षतीति तस्मै नमोऽस्तु ॥ नमः समदकंदर्पदर्पज्वरभरच्छिदे । दुर्वारभवरुग्भङ्गभिषजे वृषलक्ष्मणे ॥ ८ ॥ नमः समदेति । सह मदेन वर्तते योऽसौ कंदर्पः कामस्तस्य यो दर्पः स एव ज्वरस्तस्य यो भरस्तं छिनत्तीति भरच्छित् तस्मै । तथा दुःखेन वार्यते दुर्वारा दुर्निवारा चासौ भवरुक् संसाररूपव्याधिस्तस्य भङ्गो नाशस्तस्य भिषक् अगदंकारस्तस्मै । वृषलक्ष्मणे श्रीशिवाय नमोऽस्तु ॥ अत्र वृत्तैरुत्तरार्धाभिप्रायच्छायानुसारेण ममापि वृत्तानि चत्वारि - 'तैस्तैरुग्रै - विविधरचनैः संभृते यत्र दोषैरुत्पद्यन्ते सततमरुचित्रासमोहप्रलापाः । संसाराख्यं तमति- विषमं संनिपातं नराणामेको हर्तुं प्रभवति विभुर्लीलयासौ किरातः ॥' लीलया क्रीडया किरात: शबररूपो विभुरीश्वरः संसाररूपं संनिपातं ज्वरविशेषं हर्तुं प्रभवति । किरातः किराततिक्ताख्य ओषधिविशेषश्च संनिपातहरः । अन्यत्स्पष्टम् । तथा – 'भवजीर्णज्व- रार्ताय मोहकम्पाकुलाय मे । एकं सुदर्शनस्यांशं देहि विश्वचिकित्सक ॥' शोभनं दर्शनं सुदर्शनं तस्यांशम्, सुदर्शनस्य जीर्णज्वरहरस्य चूर्णस्यांशं च । अन्यत्स्पष्टम् । तथा- 'स्मृतिर्यत्र क्वापि स्वपरविषये नैव हि भवेद्व्रथायासा जाताः सततमिह धन्वन्तरिमुखाः। विनैकस्माच्छंभोः सदयनयनोद्वीक्षणलवाद्भवापस्मारोऽयं विषमविषमः शाम्यति क थम् ॥' अत्र भवः संसार एवापस्मारो महारोगः । अन्यत्स्पष्टम् । तथा- 'हा हा म हार्त्यास्मि विमोहितोऽहं जरादिदुःखेन सदैकशूली । त्रिशूलिनं तं त्रिजगत्प्रसिद्धं चिकि त्सकं यामि पदस्य शान्त्यै ॥' एकं शूलं रुग्यस्यास्तीत्येकशूली। 'अस्त्री शूलं रुगायुधम्' इति मङ्खः । त्रिशूलमायुधविशेषः । त्रीणि शूलान्यस्य सन्तीति त्रिशूली तं च । अन्यत्स्पष्टम् ॥ नमो जन्मजरामृत्युभीतिसातङ्कपालिने । करुणामृतसंपर्कपेशलाय कलापिने ॥ ९ ॥ नम इति । कपालं ब्रह्मकपालमस्यास्तीति कपाली तस्मै कपालिने श्रीशिवाय नमोऽस्तु । किंभूताय । जन्मेति । जन्म च जरा च मृत्युश्च तेभ्यो या भीतिस्तया ये सातङ्काः सदुःखास्तान्पालयतीति तादृशाय । तथा करुणैवामृतं तेन यः संपर्कस्तेन पेशलाय तस्मै । नमो निसर्गनिर्विघ्नप्रसादामृतसिन्धवे । संसारमरुसंतापतापितापन्नबन्धवे ॥ १० ॥ नमो निसर्गेति । निसर्गेण विघ्नेभ्यो निष्क्रान्तो यः प्रसादः स एवामृतं तस्य सिन्धुः समुद्रस्तस्मै । तथा संसार एव मरुर्धन्वा तत्र यः संतापः सम्यक् ताप आध्यात्मिका धिदैविकाधिभौतिकरूपेण त्रिविधस्तेन तापिता ये आपन्ना आपद्गताः शरणागता वा तेषां बन्धुस्तस्मै श्रीशिवाय नमोऽस्तु ॥ नमः सान्द्रामृतस्यन्दिघनध्वनितशोभिने । महाकालाय भीष्मोष्मभवग्रीष्मक्लमच्छिदे ॥ ११ ॥ नमः सान्द्रेति । कल्पविरमे संहारकारको महाकालः श्रीशिवस्तस्मै नमोऽस्तु । किंभूताय । सान्द्रेति । सान्द्रं च तदमृतं कृपामृतं निःश्रेयसरूपं वा स्यन्दत इति तादृशं यद्ध्वनितं शब्दो भक्ताभयदानाय प्रसादवाक्यं तेन शोभत इति तादृशाय । तथा भीष्मो भयावह ऊष्मा यस्य तादृशश्वासौ भवः संसार एव ग्रीष्मो निदाघस्तेन यः क्लमः खेदस्तं छिनत्तीति । अथ महाकालः प्रावृदसमयः सोऽपि घनानां मेघानां ध्वनितशोभी बहलजलस्राविमेघशब्दशोभी ॥ नमो वाष्पनसातीतमहिम्ने परमेष्ठिने । त्रिगुणाष्टणागुनन्तगुणनिर्गुणमूर्तये ॥ १२ ॥ नमो वाङ्मनसेति । वाक्च मनश्च वाङ्मनसम् । ततः अतीतो महिमा यस्य तस्मै । वाङ्मनसपदं 'अचतुरविचतुर-' इति सूत्रेण निपातितम् । त्रयो गुणाः सत्त्वरजस्तमांसि यस्याः ,अष्टौ बुद्ध्यादयो विशेषगुणा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्माः । यद्वाष्टौ गुणा दयाक्ष्यान्त्यनसूयाशौचानायासमङ्गलाचाराकार्पण्यास्पृहाख्या अष्टावात्मगुणाः । तथा अनन्ता गुणा यस्याः सा गुणेभ्यो निष्क्रान्ता निर्गुणा मूर्तिर्यस्य सः । तथा च 'वेदोऽखिलो धर्ममूल आचारश्चैव तद्विदाम् । अष्टावात्मगुणास्तस्मिन्प्रधानत्वेन संस्थि- ताः ॥ दया सर्वेषु भूतेषु क्षान्ती रक्षेतरस्य च । अनसूया तथा लोके शौचमन्तर्बहिस्त- था ॥ अस्पृहा च परस्त्रीषु परस्वेषु च सर्वदा । अष्टावात्मगुणाः प्रोक्ताः पुराणेषु तु कोविदैः ॥' एवंभूताय परमेष्ठिने । परमे पदे तिष्ठतीति परमेष्ठी तस्मै । कार्यार्थं ब्रह्मरू- पाय नमोऽस्तु ॥ हंसाय दीर्घदोषान्तकारिणेऽम्बरचारिणे । स्वमहोमहिमध्वस्तसमस्ततमसे नमः ॥ १३ ॥ हंसायेति । हंसाय परमात्मने परमशिवाय नमोऽस्तु । 'हंसो विहंगभेदे स्यादर्के विष्णौ हयान्तरे । योगिमन्त्रादिभेदेषु परमात्मनि मत्सरे ॥" इति विश्वः । हंस इति परमात्मैव, हंसः सूर्यस्तस्मै च । द्वावपि विशिनष्टि – परमेश्वरपक्षे दीर्घा ये दोषाः शि- वाभेदप्रथाया अपरिज्ञानादिरूपास्तेषामन्तं करोतीति तस्मै । सूर्योऽपि दोषाया रात्रे- रन्तं करोति । तथा परमेश्वरपक्षे अम्बरचारिणे हृदयाकाशे परमज्योतीरूपाय । तथा स्वेन महोमहिम्ना ध्वस्तं नाशितं समस्तं तमोऽज्ञानमविद्यापर्यायं तेन । सूर्योऽपि गग- नचारी ध्वस्तध्वान्तश्च ॥ यः सुवर्णेन चन्द्रेण गाङ्गेयेनाग्निजन्मना । कांचनेनश्रियं धत्ते तस्मै स्मरजिते नमः ॥ १४ ॥ य इति । तस्मै स्मरजिते श्रीशिवाय नमोऽस्तु । तस्मै कस्मै इत्याह – यः परमेशः कांचन अनिर्वाच्यामिनश्रियं प्रभुशोभां धत्ते । 'इनः सूर्ये प्रभौ' इत्यमरः । केन । चन्द्रे- ण । किंभूतेन । सुवर्णेन शोभनो वर्णो यस्य तेन । तथा गाङ्गेयेन गणपतिना । 'गाङ्गे- याखुरथौ' इति मङ्खः । अथाग्निजन्मना कुमारेण सुतेन । असमस्तपदपुनरुक्तवदाभासः । शोभनो वर्णो यस्य तत्सुवर्णम् । चन्दत्याह्लादयति चन्द्रः । 'चन्द्रं क्लीबे सुवर्णे च स्वर्णं कम्पिल्लके तु ना' इति मङ्खः । गाङ्गेयमग्निजन्म । यथा – 'यं गर्भं सुषुवे गङ्गा पावकाद्दी- प्ततेजसम् । तदुल्वं पर्वते न्यस्तं हिरण्यं समपद्यत ॥" इति वायुपुराणे । इत्यतो गाङ्गेयम- ग्निजन्म च । कचति । 'कच दीप्तिबन्धनयोः' । नन्द्यादित्वाल्लघुः । पृषोदरादित्वाद्दीर्घ- त्वम् । काञ्चनम् । अत्र च सुवर्णेन चन्द्रेण गाङ्गेयेनाग्निजन्मना काञ्चनेनेत्यामुखे पौन- रुक्त्यप्रतीतिः । पर्यवसानेऽन्यार्थतया तदभावः । असमस्तपदपुनरुक्तवदाभासः ॥ निजाङ्गभङ्गभङ्ग्यापि भक्तानुग्रहकारिणे । नमः स्तम्भितजम्मारिभुजस्तम्भाय शंभवे ॥ १५ ॥ निजाति । नमोऽस्तु शंभवे । किंभूताय । भक्तानामनुग्रहकारिणे । कयापि । निजं च तदङ्गं लिङ्गाख्यं पुंचिह्नं तस्य भङ्गो नाशस्तस्य भङ्गिस्तयापि । पूर्वं किल भगवतो मुनिशापवशाल्लिङ्गभङ्गो भूतः, ततो भूमण्डले स्वयंभूलिङ्गप्रवृत्तिः । तस्मालिङ्गार्चनव्याजेन भक्तानां भगवाननुग्रहकर्ता । तथाहि - 'अपूर्वं लावण्यं विवसनतनोस्ते विमृशतां मुनी- नां दाराणां समजनि स कोऽपि व्यतिकरः । यतो भग्ने गुह्ये सकृदपि सपर्यां विदधतां ध्रुवं मोक्षोऽश्लीलं किमपि पुरुषार्थप्रसवि ते ॥" इत्यादावेतत्प्रसिद्धिः । पुनः किंभूताय । जम्मारिरिन्द्रस्तस्य यो भुज एव स्तम्भः स्थूणा स स्तम्भितो येन तस्मै । 'स्तम्भाः स्थूणागर्वभावाः' इति चतुर्थभान्तेषु मङ्खः ॥ निःसामान्याय मान्याय न्यायमार्गोपदेशिने । मूर्धन्याय वदान्याय धन्याय स्वामिने नमः ॥ १६ ॥ निःसामान्यायेति । नमोऽस्तु । कस्मै । स्वामिने महेशाय । कथंभूताय । समानस्य भा वः सामान्यम्, तस्मान्निष्क्रान्ताय । अनन्यसदृशतया । मान्याय पूज्याय तथा न्यायमार्गः सत्यमार्गस्तमुपदिशतीति तस्मै । भक्तेषु सन्मार्गोपदेष्ट्रे । तथा मूर्धन्याय ब्र- ह्यादीनां वषट्काराणा ( ? ) मग्र्याय । वदान्याय दीनजनेषु यथाभिलषितदात्रे । तथा धन्याय ॥ नमः संहृतकालाय कालायसगलत्विषे । गङ्गाधौतकलापाय कलापायमविन्दते ॥ १७ ॥ नमः संहृतेति । नमोऽस्तु । कस्मै । स्वामिने श्रीशिवाय । किंभूताय । संहृतो दग्धः श्वेताख्यनृपाभयदानेन कालो येन तस्मै । पुनः किंभूताय । कालं च तत् अयो लोहं कालायसम् । तद्वद्गले त्विङ् यस्य । कालकूटविषनिगलनान्नीलकण्ठतयेत्यर्थः । तथा गङ्वया धौतः कलापो जटाजूटो यस्य तस्मै । तथा कलापायं कलायाः शक्तेरपायो ना- शः । यद्वा कलायाश्चन्द्रकलायाः शिरःस्थाया अपायो नाशस्तमविन्दते अलभमानाय । 'कलनाकालशिल्पेषु वृद्धौ मूलधनस्य च । इन्द्वंशेंऽशे तालगुरौ निवृत्त्यादौ छले कला ॥ शक्तावव्यक्तमधुरे ध्वाने त्रिषु मनोहरे ॥" इति मङ्खः ॥ जिष्णुना जिष्णुना लोकान्विष्णुना प्रभविष्णुना । ब्रह्मणा ब्रह्मणाद्येन स्तुताय स्वामिने नमः ॥ १८ ॥ जिष्णुनेति । लोकान् जिष्णुना जिष्णुना इन्द्रेण, तथा प्रभवतीति प्रभविष्णुस्तादृशेन विष्णुना, तथा आद्येन ब्रह्मणा वेदोपनिषदा, ब्रह्मणा परमेष्ठिना स्तुताय स्वामिने नमः । 'वेदस्तत्त्वं तपो ब्रह्म पुमान्विप्रे प्रजापतौ इति मङ्खः ॥ कुलशैलदलं पूर्णसुवर्णगिरिकर्णिकम् । नमोऽधितिष्ठतेऽनन्तनालं कमलविष्टरम् ॥ १९ ॥ कुलेति । अत्रातिप्रसिद्ध्या भूर्लोकेति शेषः । भूलोक एव कमलं तदेवासनं तदधिति - ष्ठते सृष्टिकार्यार्थं ब्रह्मरूपाय ते नमः । कुलशैला मुख्यशैला अष्टौ । 'हिमवान्निषधो विन्ध्यो माल्यवान्पारियात्रकः । गन्धमादनसह्यौ च नीलश्च कुलपर्वताः ॥' इति । कुलशैला एव दलानि यस्य तत् । पूर्णो महान् यः सुवर्णगिरिर्मेरुः सैव कर्णिका यस्य । तथा अनन्तः शेष एव नालं वृन्तं यस्य तदेवंविधं कमलविष्टरम् । अत्र यतिभभया- त्कविना कुवलयस्थाने कमलपदं नेयार्थं रक्षितम् । 'स्यादुत्पलं कुवलयम्' इति कुवलयस्या- पि कमलजातित्वात् । नेयार्थेऽपि भक्तिविषये न दोषः । तस्मादत्र कमलं कुवलयं को- र्भूमेर्वलयं भूमण्डलमित्यर्थः । कमलं कुवलयमेव विष्टरमासनमधितिष्ठते आश्रितवते व्र- ह्यरूपाय महेश्वराय नमः । यत्तु अन्यटीकाकारैः 'कमलाख्यं कुवलयम्' इति व्याख्यातम्, तत्प्रमादेन लिखितमिति तज्ज्ञैरनादरणीयम् ॥ निमित्तमन्तरेणापि यः सपङ्कजनाभये । प्रवर्तते विभुस्तस्मै नमः पङ्कजनाभये ॥ २० ॥ निमित्तमिति । यो विभुः सपङ्कजनाभये सह पङ्केन पापेन वर्तते यः सपङ्कः । तादृश- श्वासौ जनस्तस्याभयं तस्मिन् निमित्तमन्तरेण निमित्तं विना प्रवर्तते नित्योद्युक्तो भवति तस्मै पङ्कजनाभये सृष्टेः स्थित्यर्थं विष्णुरूपाय श्रीशिवाय नमः ॥ नमः सोमार्धदेहाय सोमार्धकृतमौलये । श्वेताभयसमुद्भूतश्वेताभयशसे नमः ॥ २१ ॥ नम इति । सह उमया वर्तते सोमं देहं यस्य स सोमार्धदेहस्तस्मै । तथा सोमस्यार्थं सोमार्धं मौलौ यस्य तस्मै च । श्वेतेत्यादि । श्वेतस्य श्वेतनाम्नो नृपतेरभयं कृतान्तात्रा- णं तेन समुद्भूतमुत्पन्नं श्वेताभं सितदीप्ति यशो यस्य तस्मै श्रीशिवाय नमः ॥ विनतानन्दनं नागविग्रहोग्रमुखं दृशा । विनायकमुपासीनं भजते स्वामिने नमः ॥ २२ ॥ विनतेति । विशिष्टो नायको गणानां विनयते देवरिपून् विनायको गणेशः तथा वी- नां पक्षिणां नायको गरुडः तं चोपासीनं सेवमानं दृशा प्रसन्नदृशा भजतेऽनुगृते स्वा- मिने महेश्वराय कार्यार्थं विष्णुरूपाय नमः । द्वावपि विशिनष्टि - विनतेत्यादि । विनायकं गणेशं किंभूतम् । विनतायां प्राणां नन्दनं हर्षप्रदम् । तथा नागस्य करिणो विग्रहो देहः देहोर्ध्वभागः तेनोग्रं मुखं यस्य तम् । गरुडं च किंभूतम् । विनतानन्दनम् । विनतायाः पक्षिराजमातुर्नन्दनः सुतस्तम् । तथा नागैः सर्पैः सह यो विग्रहो वैरं तेनोग्रं क्रूरं मुखं यस्य तम् । 'विग्रहो वैरदेहयोः' इति कोषः ॥ नमो ब्रह्महरित्र्यक्षश्रवसे भवसेतवे । जगत्सर्गस्थितिह्रासहेतवे वृषकेतवे ॥ २३ ॥ नमो ब्रह्मेति । ब्रह्मा च हरिश्च त्र्यक्षो रुद्रश्च त एव श्रवः श्रूयते दूराञ्जनैरिति श्रवो यशो यस्य स तस्मै । ब्रह्मविष्णुरुद्रयशसे । यशोर्यं तद्रूपायेत्यर्थः । तथा भवस्य संसारस्य जगद्रूपसमुद्रस्य सेतुस्तारकस्तस्मै । तथा जगतो विश्वस्य ये सर्गस्थितिह्रासास्तेषां हेत- वे । कार्यार्थं ब्रह्मविष्णुरुद्ररूपाय । एवंभूताय वृषकेतवे श्रीशिवाय नमः ॥ कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम् । भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥ २४ ॥ कर्णिकादिष्विति । कर्णिका कर्णाभरणं ताटङ्कः सा आदिर्येषां ते कर्णिकादयः पदा- र्थास्तेषु । आदिशब्देन मालाकङ्कणकेयूरनूपुरादिपरिग्रहः । तेषु भेदिषु नामतो भिन्नेषु यथा स्वर्णं कनकमभेदि एकमेव । अर्णवादिषु समुद्रादिषु । आदिशब्देन नदनदीकुल्या- तडागपुष्करिण्यादिपरिग्रहः । समुद्रादिषूदकं जलं यथा नामतो भिन्नं इदं सामुद्रमिदं नादेयमित्यादिप्रकारेण नामतो भिन्नेष्वभेदि एकमेवोदकम् । तथा भेदिषु सुरनरपशुपक्षि- मृगसरीसृपादिनामतो भिन्नेषु पृथग्रूपेषु परमार्थत एकमेव परमार्थरूपं तस्मै परस्मै महसे परज्योतीरूपाय चिदानन्दघनस्वरूपाय परमशिवाय नमः ॥ यमेकमेव श्रयतो न जायते स्पृहा परस्मै महतेऽपि नाकिने । नमः समस्तापदुपेतपालनव्रताय तस्मै विभवे पिनाकिने ॥ २५ ॥ यमिति । 'पिनाकोऽजगवं धनुः' । पिनाकोऽस्यास्तीति पिनाकी महेशः । तस्मै नमोऽस्तु । किंभूताय । समस्ता ये आपदुपेता आपन्नास्तेषां पालनमेव व्रतं यस्य सः । तस्मै । विभवे प्रभवे । तस्मै कस्मै इत्याह – यमेकमेवेति । यमेकमेव प्रभुं श्रयतो भक्तजनस्य महतेऽपि परस्मै अन्यस्मै नाकिने देवाय स्पृहा लोभः सेवया वराप्त्यर्थं न जायते नोत्पद्यते । यं जगदीशं भजतोऽन्येषु देवेषु वराकेषु कैव स्पृहेत्यर्थः ॥ विधौ जगत्सर्गविधौ यदाहितं प्रतिष्ठितं यत्स्थितिकारणे विधौ । समूढमूढार्धविधौ लये च यत्पराय तस्मै महसे नमो नमः ॥ २६ ॥ विधाविति । जगतः सर्गविधौ सर्गस्य सृष्टेर्विधिर्विधानं तस्मिन्निमित्ते । विधत्ते विधिर्ब्रह्मा । विधौ ब्रह्मणि । विधिशब्द इकारान्तः । भगवता यदाहितमात्तम् । उपा- हितमित्यर्थः । 'विधिर्विधायके वाक्ये दैवे स्रष्टृविधानयोः' इति मङ्खः । तथा भगवता यत्प्रतिष्ठितं संस्थापितम् । कस्मिन् । विधौ विष्णौ । विधुशब्द उकारान्तः । कस्मिन्नि- मित्ते । स्थितिकारणे । तथा भगवता यत्समूढं सम्यगूढं धारितम् । कस्मिन् । ऊढार्ध- विधौ ऊढो धारितः, विध्यति विरहिणमिति विधुश्चन्द्रः, अर्धविधुरर्धेन्दुर्येन तस्मिन् । 'विधुर्विष्णुः शशी' इति मङ्खः । ऊढार्धविधौ चन्द्रशेखरे । कस्मिन् । कारणे लये संहारे तस्मिन् ॥ नमः समुत्पादिततारकद्विषे नमस्त्रिधामाश्रिततारकत्विषे । नमो जगत्तारकपुण्यकर्मणे नमो नमस्तारकराजमौलये ॥ २७ ॥ नमः समुत्पादितेति । अत्र श्लोके प्रत्येकपादे भगवन्तं प्रति नमस्कारः । समुत्पादि- तेति । समुत्पादितस्तारकस्य तारकासुरस्य द्विट् शत्रुः कुमारो येन तस्मै । तारकराजमौ- लये चन्द्रमौलये श्रीशिवाय नमः । तथा त्रिधामेति । त्रीणि धामानि सूर्यसोमाग्रयस्तै- राश्रितास्तारकेषु कनीनिकासु त्विङ् यस्य स तस्मै नमोऽस्तु । 'कनीनिकायां नक्षत्रे तारकं तारकापि च' इति विश्वः । तथा जगतो विश्वस्य तारकं पुण्यं मनोज्ञं पवित्रं च कर्म यस्य तस्मै नमोऽस्तु । 'पुण्यं तु धर्मे सुकृते त्रिषु पूतमनोज्ञयोः' इति मङ्खः ॥ नमो नमस्तेऽमृतभानुमौलये नमो नमस्तेऽमृतसिद्धिदायिने । नमो नमस्तेऽमृतकुम्भपाणये नमो नमस्तेऽमृतभैरवात्मने ॥ २८ ॥ नमो नमस्त इति । हे परमेश, अमृतभानुमौलये चन्द्रमौलये ते तुभ्यं नमो नमो- ऽस्तु । तथा अमृतसिद्धिर्निःश्रेयससिद्धिस्तां ददातीति तस्मै ते तुभ्यं नमो नमोऽस्तु । तथा अमृतकुम्भपाणये सुधाकलशपाणये ते तुभ्यं नमो नमोऽस्तु ।तथा अमृतभैरवेत्या- दि । भानि नक्षत्राणि ईरयतीति भेरः कालः तं वायन्ति दूरीकुर्वन्तीति भेरवाः कालग्रा- ससमाधिरसिका योगिनः । तेषामयं भैरवः । यद्वा भैरवो भीषणः संसारवृत्तविघटनपरो भैरवः । अमृतभैरवात्मने अमृतेश्वरभैरवात्मने ते तुभ्यं नमो नमः ॥ नमस्तमः पारपरार्ध्यवृत्तये नमः समस्ताध्वविभक्तशकये । नमः क्रमव्यस्तसमस्तमूर्तये नमः शमस्थार्पितभक्तिमुक्तये ॥ २९ ॥ नमस्तम इति । तमसोऽज्ञानादविद्यापर्यायात्पारे परार्ध्या उत्कृष्टा वृत्तिः स्थितिर्यस्य तस्मै भगवते परमेश्वराय नमः । तथा समस्ता येऽध्वानः षट् । पदाध्वा वर्णाध्वा मन्त्रा- ध्वा तत्त्वाध्वा कालाध्वा भुवनाध्वा चेति षडध्वानः । तेषु विभक्ता शक्तिर्येन तस्मै नमोऽस्तु । तथा क्रमेण परिपाट्या ब्रह्मविष्णुरुद्रादिरूपेण व्यस्ता पृथक्कृता समस्ता मूर्तिर्येन स तस्मै ते नमोऽस्तु । तथा शमे तिष्ठन्तोति शमस्थास्तेषु अर्पिते दत्ते भक्ति- मुक्ती येन तस्मै ते नमोऽस्तु ॥ विजयजयप्रदाय शबराय वराय नमः सकलकलङ्कसंकरहराय हराय नमः । जगदगदप्रगल्भविभवाय भवाय नमः प्रवरवरप्रकाशितशिवाय शिवाय नमः ॥ ३० ॥ विजयेति । किरातार्जुनीयवृत्तान्ते विजयस्यार्जुनस्य जयं प्रददाति वरप्रदानात् विजयजयप्रदः तस्मै ते वराय उत्कृष्टाय शबराय किरातरूपाय नमोऽस्तु । तथा सकला ये कलङ्का वाङ्मनः कायोपार्जितपापसंघातास्तेषां यः संकरस्तं हरतीति तादृशाय हराय महेश्वराय नमोऽस्तु । तथा जगतः अगदं विशल्यीकरणं तत्र प्रगल्भो विभवो यस्य स तादृशाय भवाय शंभवे नमोस्तु । प्रवरा उत्कृष्टा वरा देवादभीप्सितानि तैः प्रकाशितं निःश्रेयसं शिवं येन तस्मै शिवाय निःश्रेयसप्रदाय ते तुभ्यं नमोऽस्तु । इति शिवमोम् इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया स्तुतिकुसुमाञ्जलिलघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ नमस्कारस्तोत्रं द्वितीयं स्तोत्रम् । तृतीयं स्तोत्रम् । अथात आशीर्वादस्तोत्रं तृतीयमारभमाण आह- नित्यं निरावृति निजानुभवैकमान - मानन्दधाम जगदङ्कुरबीजमेकम् । दिग्देशकालकलनादिसमस्तहस्त- मर्दासहं दिशतु शर्म महन्महो नः ॥ १ ॥ नित्यमिति । तन्महन्महः परमं ज्योतिर्नोऽस्मभ्यं कल्याणं दिशतु ददातु । किंभूतम् । नित्यं त्रिष्वतीतवर्तमानभविष्यद्रूपेषु सत्तारूपेण सनातनम् । निर्गता आवृतिरविद्यात्म- कमायावरणं यस्मात् । तदतीतमित्यर्थः । तथा निजोऽनुभव एवैकं मानं प्रमाणं सा- क्षिभूतं यस्य तत् । तथा आनन्दस्य विगलितवेद्यान्तरपरमानन्दस्य धाम स्थानम् । तथा जगन्ति अधः कालाग्निरुद्रभुवनादारभ्य शिवभुवनान्तं सचतुर्विंशतिशतद्वयभुव- नानि तान्येवाङ्कुरास्तेषां बीजं मूलकारणम् । तथा दिग्देशेति । दिशः पूर्वाद्या दश । देशाः स्थानानि । कालोऽतीतवर्तमानभविष्यद्रूपः । तैर्या कलना नियमेन बन्धः । परिच्छेद इति यावत् । तदादीनि यानि वस्तूनि । आदिशब्देनाणुमहद्दीर्घादिपरिग्रहः । तान्येव समस्ता ये हस्तमर्दा हस्तसंवाहनानि तान्न सहत इति तादृशम् । अनन्तत्वा- त्सर्वत्र दिशि काले च तत्सनातनं परं ज्योतिश्चक्रास्त्येवेत्यर्थः । परमेश्वरस्य नित्यं सर्वत्र च स्थितत्वाद्दिक्कालादिभिरग्राह्यत्वाद्धस्तमर्दासहत्वम् । यो हि देशकालादिना परिच्छि- न्नो भवति स एव हस्तग्राह्यतां सहते । यथा घटादिः । परमेश्वरस्तु न तथा । अपरि- च्छेद्यत्वादिति भावः ॥ व्योम्नीव नीरदभरः सरसीव वीचि व्यूहः सहस्रमहसीव सुधांशुधाम । यस्मिन्निदं जगदुदेति च लीयते च तच्छांभवं भवतु वैभवमृद्धये नः ॥ २ ॥ व्योम्नीवेति । यस्मिन्वैभवे नीरदभरो मेघौघो व्योम्नि नभसीव, वीचिव्यूहस्तरङ्ग- समूह: सरसीव, सहस्रमहसि सूर्ये सुधांशुधाम चन्द्रतेज इव उदेति लीयते च इदं जगत् तत् शांभवं शंभोरिदं वैभवं नोऽस्माकमृद्धयेऽस्तु ॥ लोकत्रयस्थितिलयोदयकेलिकारः कार्येण यो हरिहरद्रुहिणत्वमेति । देवः स विश्वजनवाङ्मनसातिवृत्त- शक्तिः शिवं दिशतु शश्वदनश्वरं वः ॥ ३॥ लोकत्रयेति । यः कार्येण परोपकारहेतुना लोकत्रयस्य जगत्रयस्य स्थितिश्च लयश्चो- दयश्च त एव केलिस्तं करोतीति तादृशः यो हरिहरद्रुहिणत्वम् । द्रुह्यत्यसुरेभ्यो द्रुहिणो ब्रह्मा । विष्णुरुद्रब्रह्मत्वं तद्रूपत्वमेति । विश्वेषां जनानां वाङ्मनसातिक्रान्तशक्तिः स देवः शश्वत् सदैव अक्षयं शिवं निःश्रेयसरूपं दिशतु ददातु ॥ सर्वः किलायमवशः पुरुषाणुकर्म- कालादिकारणगणो यदनुग्रहेण । विश्वप्रपश्चरचनाचतुरत्वमेति स त्रायतां त्रिभुवनैकमहेश्वरो वः ॥ ४ ॥ सर्व इति । स त्रिभुवने एको महेश्वरो वो युष्मान् त्रायताम् । स क इत्याह- पुरुषाणुकर्मेति । पुरि देहे शेते इति पुरुष आत्मा । अणवः परमाणवो द्व्यणुकत्र्यणुका- दयः । कर्म शुभाशुभे । कालश्च ते आदौ येषां तानि पुरुषाणुकर्मकालादीनि यानि कारणानि उपादाननिमित्तसहकारिकारणादीनि तेषां गणः अवशोऽस्वतन्त्रः कर्त्रधीनो यदनुग्रहेण यस्य परमेश्वरस्यानुग्रहेण विश्वस्य जगतो यः प्रपञ्चो विस्तारस्तस्य रचनायां निर्माणे नैपुण्यमेति । अत्रायं भावः – परमशिवस्य परमात्मन एवेच्छावैभवोल्लासः कुम्भकारस्थाने, परमात्मन एवाणीयस्तरांशांशप्रतिबिम्बजीवात्मसमवेतपार्थिवाद्यणुका उपादानकारणं मृत्स्थाने, कर्म शुभाशुभं निमित्तकारणं दण्डस्थाने, कालादिसहकारि कारणं च चक्रस्थान इति ॥ एकस्य यस्य सकलः करणानपेक्ष- ज्ञानक्रियस्य पुरतः स्फुरति प्रपञ्चः । पश्यञ्जगत्करतलामलकीफलाभं लाभं स पुष्यतु परं परमेश्वरो वः ॥ ५ ॥ एकस्येति । स परमेश्वरो वो युष्माकं परं लाभं पुष्यतु । स किंभूतः । करतले आ- मलकीफलाभं जगत्पश्यन् । स क इत्याह – यस्यैकस्याद्वितीयस्य पुरतोऽग्रे विश्वप्रपञ्चः स्फुरति । किंभूतस्य । करणेत्यादि । करणानपेक्षे कारणानपेक्षे ज्ञानक्रिये यस्य । सर्वस्य हि ज्ञानं च क्रिया च कारणेन्द्रियायत्तम् । परमेशितुस्तु स्वतन्त्रेच्छैश्वर्यवतः सहजे एव ज्ञानक्रिये इत्यर्थः ॥ यः कन्दुकैरिव पुरंदरपद्मसद्म- पद्मापतिप्रभृतिभिः प्रभुरप्रमेयः । खेलत्यलङ्घ्यमहिमा स हिमाद्रिकन्या- कान्तः कृतान्तदलनो लघयत्वघं वः ॥ ६ ॥ य इति । कृतान्तदलनो यमखण्डनः स हिमाद्रिकन्याकान्तः पार्वतीपतिः वो यु- ष्माकमघं पापं लघयतु अत्यन्ततनूकरणेन निःशेषीकरोतु । इत्युपचारवक्रोक्तिः । अघं हरतु इत्यस्य स्थाने तथोक्तेः । स क इत्याह – यः कन्दुकैरिति । पुराण्यरीणां दारयतीति पुरंदर इन्द्रः पद्मसद्मा ब्रह्मा पद्मापतिर्विष्णुः तदादिभिर्देवैः कन्दुकैरिव खेलनार्थं तेषा- मधःक्षेपणोर्ध्वोत्थापनकारी क्षणे बाल इव कन्दुकैर्यः अप्रमेयो ब्रह्मादिभिरप्यपरिच्छेद्यः अलङ्घ्यमहिमा च खेलति । 'खिल विच्छेदे' धातुः । अनेकार्थत्वाद्धातूनां खेलति क्रीडत इत्यर्थः ॥ सेवानमन्निखिलखेचरमौलिरत्न- रश्मिच्छटापटलपाटलपादपीठः । पुण्णातु धाम कपिशीकृतशैलशृङ्ग- त्वङ्गन्मृगाङ्कमधुराकृतिरीश्वरो वः ॥ ७ ॥ सेवानमदित्यादि । सेवायां नमन्तो ये निखिलखेचराः समस्तदेवा ब्रह्मादयः तेषां यानि मौलिरत्नानि किरीटमणयः तेषां रश्मयः तेषां छटापटलेन पाटलं लोहितीकृतं पादपीठं यस्य सः। अत एव धातुभिर्गैरिकादिभिः कपिशीकृतं यच्छैलस्य शृङ्गं तत्र त्वङ्ग- न्नुल्लसन् । त्वगिर्गत्यर्थः । यो मृगाङ्कश्चन्द्रः तस्येव मधुरा आकृतिर्यस्य स ईश्वरो वः पु- ष्णातु । गैरिकादिकपिशीकृतगिरिशृङ्गे हिमांशुवद्रत्नप्रभारुणे पादपीठे शोभावान्भगवा- नित्यर्थः ॥ अङ्गं भुजंगरचिताङ्गदभङ्गि तुङ्गं त्वङ्गत्तरङ्गगगनाङ्गनसङ्गिगङ्गम् । बिभ्रद्विभुर्विहितर[^१]ङ्गदनङ्गभङ्ग- मङ्गीकरोत्वरमभङ्गुरमिङ्गितं वः ॥ ८ ॥ [^१]. 'रिङ्गदमङ्ग' इति स्व-पाठः. अङ्गं भुजंगेति । भुजंगैः शेषाहिमुख्यै रचिता कृता अदभङ्ग्विः केयूरशोभा यस्मिन् तादृशमङ्गं बाह्वंसकरूपम् । तथा त्वङ्गन्त उल्लसन्तस्तरङ्गा यस्याः सा । तादृशी गगना- ङ्गनसङ्गिनी गङ्गा यस्य तत् । अङ्गं उत्तमाङ्गरूपम् । तथा विहितो रङ्गतो भ्रमतः अनङ्ग- स्य कामस्य भङ्गो येन तादृशमङ्गं ललाटरूपम् । तत्स्थानस्थाग्निना कामस्य दाहात्। एवं- भूतमङ्गं बिभ्रद्विभुः वो युष्माकमभङ्गुरमखण्डितमिङ्गितमभिलषितमङ्गीकरोतु । अवश्यं वितरणेन पूरयत्वित्यर्थः । अत्रापि पूर्णमीप्सितं ददात्वित्यस्य स्थाने अभङ्गुरमिङ्गितमङ्गी- करोत्वित्युपचारेण वक्रोक्तिः ॥ यः कुण्डमण्डलकमण्डलुमन्त्रमुद्रा- ध्यानार्चनस्तुतिजपाद्युपदेशयुक्त्या । भोगापवर्गदमनुग्रहमानतानां व्यानञ्ज रञ्जयतु स त्रिजगद्रुरुर्वः ॥ ९ ॥ यः कुण्डेति । कुण्डमग्निकुण्डं च । मण्डलं यागमण्डलं च । कमण्डलुः कलशोपयो- ग्यश्च । मन्त्रो निष्कलसकलात्मकश्च । मुद्रा आवाहनादिकाश्च । ध्यानं तदेकचित्तता च । अर्चनं पूजा च । स्तुतिः स्तवराजपाठश्च । जपो मानसोपांशुविहितश्च । तदादी- नामुपदेशयुक्त्या योजनयुक्तिस्तया आनतानां भक्तानां दृष्टिपातं विधाय । दैशिकमुखे नेति शेषः । अनुग्रहं प्रसादं भोगापवर्गदं मुक्तिमुक्तिदं व्यानञ्ज प्रकटीचकार स त्रिजग द्गुरुर्महेशो वो रञ्जयतु । यो विभुर्दैशिकमुखेन कुण्डमण्डलाद्युपदेशयुक्त्या भक्तानामनुग्रहं प्रकटीचकार स त्रिजगद्गुरुर्वो रञ्जयत्वित्यर्थः ॥ शंभोरदभ्रशरदभ्रतुषारशुभ्रं भ्राजिष्णुभूतिरभशीभ[^१]रभास्वराभम् । दिश्याद्वपुर्भस[^२]लनीलगलं कलङ्का- लंकारशारदशशाङ्कनिभं शुभं वः ॥ १० ॥ शंभोरदभ्रेति । 'श्लक्ष्णं दभ्रं कृशं तनुः' इत्यमरः । न दभ्रं तनुः अदभ्रं घनं यत् श रदभ्रं वर्षान्ते मेघः । स हि निस्तोयगर्भत्वात्सदा श्वेतो भवति । अम्बरादभ्रं च (?) तु- षारं हिमं च तद्वत् शुभ्रम् । तथा भ्राजिष्णुः शोभमानो यो भूतिभरः भस्मसंघः तेन शीभरा उच्छलन्ती । 'शीभृ कत्थने' भ्वादिः । भास्वरा आभा दीप्तिर्यस्य तत् । तथा भसलो भ्रमरः । भंसते शोभते भसलः । 'भसलो देश्याम्' इति स्वामी । तद्वत् नीलो गलः कण्ठो यस्य । कालकूटाख्यविषनिगरणात् । भसलनीलगलः । तथा कलङ्कः अलंकारो भूषणं यस्य । पूर्णत्वात् । तादृशश्वासौ शारदशशाङ्कः शरदिन्दुः तन्निभं शंभोर्महेशस्य वपुर्वो युष्मभ्यं शुभं श्रेयो दिश्यात् ददातु । अत्र शंभुवपुषः शारदेन्दुरुपमानम् । नील- गलस्य तदङ्क उपमानम् । एतदपि प्राचीनादर्शेषु न दृश्यते ॥ [^१]. 'निर्भरभास्वराभम्' इति ख- पाठः [^२]. 'भ्रमरनीलगलं' इति ख-पाठः. येनोपदिष्टमनपायमुपायमाप्य स्वर्गापवर्गविभवैर्विभवो भवन्ति । देवः स वः सकलकर्मफलोपलम्भ- विस्रम्भभूमिरभिवाञ्छितसिद्धयेऽस्तु ॥ ११ ॥ येनोपदिष्टमिति । सकलं यत्कर्म शुभाशुभं तस्य यत्फलं तस्योपलम्भः प्राप्तिः तस्य विस्रम्भभूमिराश्वासनस्थानम् । आरोपः । स देवो वः अभिवाञ्छितसिद्धयेऽस्तु । स क इत्याह - येन विभुना उपदिष्टम् । कृपया दृष्टिपातं विधाय दैशिकमुखेनेति शेषः । उपदिष्टमनपायं निर्नाशं श्रीस्वच्छन्दतन्त्रराजादिष्वागमशास्त्रेषु श्रीशिवभट्टारकोक्तं आप्य प्राप्य । भक्ता इति शेषः । स्वर्ग: त्रिदिवः । अपवर्गो निःश्रेयसम् । विभवः अ णिमाद्यष्टविभूतिरूपः । तैर्विभवो विभुत्वयुक्ताः । पूर्णा इत्यर्थः । भवन्ति । भक्ता इति ॥ मूलोज्झितेन कलिकाकलितेन ताप- शान्तिक्षमेण नमतामविपल्लवेन । सद्यःफलेन सुभनोभिरुपासितेन स्थाणुः श्रियेऽस्तु भवतां वपुषातेन ॥ १२ ॥ मूलोज्झितेनेति । प्रलयेऽपि तिष्ठति स्थाणुः । अद्भुतेनाश्चर्यकारिणा अनिर्वाच्येन अन्यदेवतागणातिरिक्तेन च वपुषा उपलक्षितः भवतां श्रियेऽस्तु । अथ च अद्भुतेना- श्रर्यकारिणा वपुषा स्थाणुः वृक्षच्छेदोऽपि । 'तिष्ठति स्थाणुः । मुण्ड इति ख्यातः' इति रायमुकुट्याम् । अद्भुतः स्थाणुः श्रीशिवभट्टारकः वः श्रियेऽस्तु । द्वयोरपि वपुषो विशि- नष्टि—–शंभुपक्षे वपुषा कीदृशेन । मूलोज्झितेन मूलमादिकारणं तेनोज्झितं तेन । तस्यैव सर्वेषां ब्रह्मादीनामादिकारणत्वात् । तथा कलैव कलिका चन्द्रकला तया कलितेन शोभितेन । तथा तापशान्तिः आध्यात्मिकाधिभौतिकाधिदैविकाख्यतापत्रयोपशान्तिः तस्यां क्षमेण । केषाम् । नमतां भक्तिप्रह्वाणाम् । तथा अविपल्लवेन । अविद्यमानो विपदो विपत्तेर्लवो यस्य तत् । अणिमाद्यष्टविधभूतीनामपि दासीत्वात्तद्वपुषः । पुनः किंभूतेन । सद्यस्तत्क्षणमेव प्रणत्यैव शुभफलदायिना । पुनः सुमनोभिर्देवैः यद्वा पण्डितै- रुपासितेन पूजितेन । वृक्षच्छेदोऽपि स्थाणुना ( वपुषा) अद्भुतेनेति विशिनष्टि - स्था- णुना ( वपुषा) किंभूतेन । मूलोज्झितेन मूलं वृक्षमूलं तेनोज्झितेन । छिन्नशाखो हि तरु:- स्थाणु समूल एव । नहि निर्मूलो भवतीत्यद्भुतत्वम् । एवं कलिकाभिः कोरकैः कलि- तेन शोभितेन । स हि विकलिको भवति । तथा नमतामुपनमतां जनानां तापस्य मरुभ्रमणाद्यस्य शान्तौ क्षमते । नहि स्थाणुस्तापोपशान्तिक्षमः । तथा विगताः पल्लवा यस्य तद्विपल्लवम् । न विपल्लवमविपल्लवम् । तेन । किं तु पल्लवसहितेनेत्यर्थः । एतद- प्यद्भुतम् । स्थाणुर्हि विगतपल्लवो भवति । तथा सुमनोभिः पुष्पैरुपासितेन सेवितेन । 'सुमनाः स्त्री पुष्पजात्योर्देवपण्डितयोः पुमान्' इति मङ्खः ॥ दिव्यापगाप्लवनपावकसेवनाभ्यां बिभ्रत्तनुं शुचिमपेतकलङ्कशङ्काम् । दोषानुषङ्गरहितस्तिमिरोपशान्त्यै भूयाद्विजाधिषतिरीश्वरवन्दितो वः ॥ १३ ॥ दिव्यापगेति । द्विजानां नक्षत्राणामधिपतिश्चन्द्रः । ईश्वरेण परमेशेन वन्दितः । शिरसि धृतत्वात् । वो युष्माकं तिमिरोपशान्त्यै । तिमिरं ध्वान्तमज्ञानरूपं च । ऊष्मा तापत्रयजः मर्वादिभ्रमणजश्च । तयोः शान्त्यै अपुनरागमाय भूयात् । अथ च द्विजानां ब्राह्मणानामधिपतिः । तिमिरोष्मशान्त्यै अविद्यारूपध्वान्तभवमरुभ्रमणजतापोपशान्त्यै । 'दन्तविजाप्राण्डजा द्विजाः' इत्यमरः । द्वावपि विशिनष्टि - दिव्यापगेत्यादि । चन्द्रपक्षे दिव्यापगाया आप्लवनं समीपस्थत्वाज्जलकणव्यात्युक्षीरूपम् । तथा पावकस्य तृतीय- नेत्रस्थस्य च सेवनम् । तस्यान्तिकस्थत्वात् । ताभ्यां शुचिं निर्मलाम् । अपेतकलङ्क- शङ्कां [गतकलङ्कां] विगतबाह्यान्तर्मलां गतकलङ्कशङ्कां च । एककलत्वाच्चन्द्रस्येत्यर्थः । एवंभूतां तनुं बिभ्रत् । अत एव दोषाया रात्रेरनुषङ्गः संसर्गस्तेन रहितः । ब्राह्मणेन्द्र- पक्षे दिव्यापगायां गङ्गायां यत्प्लवनं त्रिसंध्यं मज्जनम् । तथा पावकसेवनं अग्निहोत्र- सेवा । ताभ्यां मूर्ति शुचिं निर्मलां विगतबाह्यान्तर्मलां गतकलङ्कशङ्कां च बिभ्रत् । तथा दोषेषु मनश्चापल्यादिषु अनुषङ्ग आसक्तिस्तेन रहितः । तथा ईश्वरा देशाधिपतयः तैश्च सेवितो भवति विप्रेन्द्रश्चेति ॥ दानाम्बुनिर्भरकरस्तनयः स यस्य श्रीमान्स [^१]यस्य धनदः सविधे विधेयः । यः संश्रितः शिरसि मुक्तकरेण राज्ञा पुष्णातु वः कनकवर्षघनः स देवः ॥ १४ ॥ दानाम्ब्विति । कनकस्य वर्षं वर्षणं मरुत्ताख्यनृपतेर्गेहे सप्तदिनावधि काञ्चनवर्षणं तत्र घनो मेघः । आरोपः । देवः परमेशो वो युष्मान् पातु । स क इत्याह - दानाम्ब्विति । यस्य महेश्वरस्य तनयः दानाम्बुना मदजलेन निर्भरः पूर्णः करो यस्य । गणपतिस्तनय इत्यर्थः । अथ च यस्य तनयः पुत्रः दानार्थमुदकेन च निर्भरः पूर्णः करः पाणिर्यस्य तादृशो भवति । तथा श्रीमान् महापद्मादिनवसंख्याकनिधिपतिः स प्रसिद्धो धनदः सविधे निकटे यस्य विधेयो भृत्यः आज्ञाकारी । यश्च मुक्तकरेण मुक्ताः सर्वदिक्षु विकीर्णाः कराः किरणा येन तादृशेन राज्ञा चन्द्रमसा शिरसि संश्रितः । तथा [^१]. 'यस्य सविधे धनदो विधेयः' इति क-पाठ: . मुक्तकरेण स्थूललक्षेण च राज्ञा नृपेण संश्रितः । 'राजा मृगाङ्के क्षत्रिये नृपे' इति मङ्खः। यस्य चैवंविधाः पुत्रादयः सदा दानसत्रनिरतास्तस्य स्वामिनः कनकवर्षवित- रणे किमाश्चर्यमित्यर्थः ॥ निर्मत्सरौ निवसतः सममर्कचन्द्रौ नीरानलावमृतहालहलौ च यत्र । राज्ञा नवेन तदधिष्ठित[^१]मुज्ज्वलेन शार्वं वपुर्भवतु वाञ्छितसिद्धये वः ॥ १५ ॥ निर्मत्सराविति । तत् शार्वे शर्वसंबन्धि वपुर्वो युष्माकं वाञ्छितसिद्धये अस्तु । किंभूतम् । नवेनाभिनवेन एककलात्वोपलक्षितेन राज्ञा चन्द्रमसा अधिष्ठितम् । अथ च नेवन पूर्वस्माद्राज्ञोऽभिनवोत्थितेन राज्ञा नृपेण चाधिष्ठितम् । तत्किमित्याह - यत्र वपुषि निर्मत्सरौ मत्सराद्द्वेषान्निष्क्रान्तौ अर्कचन्द्रौ समं संभूय निवसतः । अर्को हि दिवा- करः । चन्द्रश्च निशाकरः । अतस्तयोर्मत्सरः । एवमग्रेऽपि । तथा नीरानलौ । नीरं जटाजूटाश्रितं गङ्गाजलम् । अनलश्च नेत्राग्निः । तावपि यत्र निर्मत्सरौ समं वसतः । तथा अमृतहालहलौ सुधाक्ष्वेडौ च नीरोषौ समं वसतः । सुधा महेशस्य करस्थामृत- कलशे । 'देवं सुधाकलशशोभिकरम्' इत्युक्तेः । हालहल: कालकूटाख्यविषविशेषो गले निगीर्णोऽपि शान्तगदः । 'हालाहलं हालहलं वदन्त्यपि हलाहलम्' इति कोषः । अत्र शब्दश्लेषोक्त्या हेतुमाह - राज्ञेत्यादि । तच्च व्याख्यातम् । यत्र हि नवेन राज्ञा अधि- नेत्रा अधिष्ठितं नवं राज्यं तत्रान्योन्यं जनस्य वैरा भवन्तीत्यर्थः ॥ वक्ता च यः सुखयिता च विभुः श्रुतीनां वक्षः करं च वहते कमलाङ्कितं यः । यो मूर्ध्नि वर्ष्माणि च हैमवतीं बिभर्ति त्रैधं भवन्भवतु वः स शिवः शिवाय ॥ १६ ॥ वक्ता चेति । त्रैधम् । 'द्वित्र्योश्च धमुञ्' स्वार्थे । त्रैधं त्रिभिः प्रकारैः सृष्ट्यादि- कार्यार्थं ब्रह्मविष्णुरुद्ररूपेण क्रमेण संपद्यमानः स वः शिवाय भवतु । स क इत्याह – यो विभुरीश्वरो ब्रह्मरूपेण श्रुतीनां वेदानां चतुर्णां वक्ता । तथा श्रुतीनां तदाकर्णननिष्ठ- विद्वज्जनकर्णानां सुखयिता सुखोत्पादकश्च । 'श्रुतिः श्रवसि वेदे च ' इति कोषः । तथा यो विभुर्विष्णुरूपेण कमलया लक्ष्म्या अङ्कितं चिह्नितं वृक्षो बिभर्ति । तथा क मलेन पद्मेनाङ्कितं करं पाणि च वहते । तथा यो विभू रुद्ररूपेण हैमवतीम् । हिमवतो- ऽपत्यं हैमवती गङ्गा । तदुत्पन्नत्वात्तस्याः । तां मूर्ध्नि बिभर्ति । तथा [वपुषि च] हैमवतीं हिमाद्रितनयां गौरीं च वपुषि शरीरे । वामभाग इत्यर्थः । बिभर्ति ॥ [^१]. 'ईश्वरेण' इति क-पाठ: . तापत्रयापहृतये त्रिशिखं त्रिवर्ग- सिद्धये त्रिधामलयनं नयनत्रयं च । त्रिःस्त्रोतसोऽपि सलिलं त्रिमलापनुत्यै भूयात्रिलोकमहितं त्रिपुरद्विषो वः ॥ १७ ॥ तापत्रयेति । त्रिपुरद्विषस्त्रिपुरान्तकस्य त्रिलोकमहितं त्रिषु लोकेषु महितं पूजितं त्रिशिखं तिस्रः शिखा अग्राणि यस्य तत् त्रिशिखं त्रिशूलमायुधविशेषः वो युष्माकं तापत्रयापहृतये आध्यात्मिकाधिदैविकाधिभौतिकाख्यतापत्रयशान्त्यै भूयात् । तथा त्रिलोकमहितं महेश्वरस्य त्रिधामलयनम् । त्रिधाम्नां सूर्येन्द्वग्नीनां लयनम् । गृहमि- त्यर्थः । नयनत्रयं च त्रिवर्गस्य धर्मार्थकामरूपस्य सिद्ध्यै भवतात् भूयात् । तथा त्रिपु- रद्विषः । शिरःस्थमिति शेषः । त्रिःस्रोतसोऽपि त्रिपथागाया अपि लोकमहितं जलं सलिलं त्रयो ये मला आणवमायीयकार्माः तेषामपनुतिरत्यन्तदूरीकरणं तदर्थं भूयात् ॥ यद्दर्शनामृतसुखानुभवेन धन्या नेत्रोत्पलानि चिरमर्धनिमीलितानि । दृङ्मार्गेगोचररवीन्दुकरप्रसङ्ग - भङ्ग्येव बिभ्रति शिवः शिवदः स वोऽस्तु ॥ १८ ॥ यद्दर्शनेति । स विभुर्वः शिवदः अस्तु । शिवमात्यन्तिकदुःखनिवृत्तिरूपं ददातु । स क इत्याह—धन्याः सुकृतिनो जनाः । यद्दर्शनेत्यादि । यद्दर्शनं तदेकचित्ततया व्याप्तं त- द्दर्शनं(?)तदेवामृतं तेन यः सुखानुभवः तेन अर्धनिमीलितानि नेत्रोत्पलानि नेत्रकम- लानि । तद्ध्यानैकसुखेनेषन्निमीलितानीत्यर्थः । अत्र हेतूत्प्रेक्षामाह - दृङ्मार्गेति । दृङ्मा- र्गगोचरौ सव्यापसव्यनेत्रस्थौ यौ रवीन्दू सूर्यचन्द्रौ तयोः करा रश्मयः तेषां प्रकर्षेणा- तिसामीप्यरूपेण सङ्गः संश्लेषः तस्य भङ्गिः तयेव । [नेत्र] कमलानां रविकरप्रसक्त्या विकासः, शशिकरप्रकाशेन च संकोचः । अतो नेत्रोत्पलानामर्धनिमीलितत्वमेव जातमि त्यर्थः । अत्र नेत्रोत्पलानीति "उत्पलशब्दस्य पद्मकुमुदादिषु सामान्येन वृत्तिः । तेन महोत्पलमिति पद्मस्य संज्ञा । अत एव सामान्यवृत्तित्वान्नीलाब्जेऽप्येतयोर्वृत्तिर्दृश्यते । तथा च 'इन्दीवरे मांसशून्ये उत्पलं कुष्ठभूरुहे' इति रभसः । 'श्यामं शितिकण्ठनीलं कुवलयमिन्दीवरं च नीलाब्जम्' इति नाममाला च । ननु यद्येवं कथमुत्पलमित्युक्ते नीलोत्पलादिष्वेव बुद्धिर्जायते, न पद्मादौ । उच्यते - यथा कलायमुद्रादीनां सर्वेषां स- सदशानां धान्यसंज्ञा इत्युक्त्या समानेऽपि धान्यार्थे धान्यमित्युक्ते कलमादिष्वेव बुद्धि- र्भवति, न मुद्गादौ । एवमिहापीत्यदोषः इति स्वामिसर्वधरादयः" इति रायमुकुट्याम् । अन्यैष्टीकाकारैर्नेत्रोत्पलानि नेत्रेन्दीवराण्येव वर्णितानि । तैस्तु तेषां रविकरप्रसक्त्या संकोचः शशिकरप्रकाशेन च विकास इति यदुक्तं तत्तै रायमुकुटटीकासंप्रदायो नावगत इति तज्ज्ञैरुपेक्ष्यम् । अत्र चार्धनिमीलितत्वं मुरारिनाटके मुरारिमिश्रैरपि वर्णितम् - 'याभ्यामर्धविबोधमुग्धमधुरश्रीरर्घनिद्रायितो नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नी- कृतः' इति ॥ कालं दृशैव शमयन्सफलप्रयासं यः श्वेतमुत्तमचमत्कृतिकृच्चकार । श्वेतं यशः प्रशमयन्नसतां सतां च कालं कृतार्थयति यः स शिवोऽवताद्वः ॥ १९ ॥ कालमिति । श्रीशिवो वः कर्मभूतानवतात् । स क इत्याह - उत्तमा अतिशयिता चासौ चमत्कृतिस्तां करोतीति तादृशो यो विभुः दृशैव कालं कृतान्तं शमयन् श्वेतं श्वेतनामानं नृपं सफलप्रयासं कालात्करालादभयप्राप्त्या सफलयत्नं चकार । अत्र च वृत्ते पूर्वार्धोक्तार्थादुत्तरार्धे विपरीतार्थकरणात् विभोः स्वतन्त्रस्योत्तमचमत्कारकारित्वम् । तदेवाह — श्वेतं यश इत्यादि । असतां दुष्टचित्तानां श्वेतं धवलं यशः प्रकर्षेण शमयन्न- त्यन्तं दूरीकुर्वन् यः सतां भक्तिरसामृतसिक्तचेतसां च कालं समयं कृतार्थयति । सर्व- लोकप्रशस्यं संपादयतीत्यर्थः । अत्र पूर्वार्धे कालशान्त्या श्वेतानुग्रहः । उत्तरार्धे श्वेतशान्त्या कालकृतार्थीकरणमिति प्रभोः स्वातन्त्र्येणोत्तमचमत्कारकृत्त्व मित्यर्थः ॥ बभ्रुर्बिभर्त्यलिकपावकसौहृदं यो यत्राहिरेति शिखिना सह सामरस्यम् । जूटः स वः सममरातिभिरप्यमर्ष - मुक्तां स्थितिं प्रथयतु प्रमथाधिपस्य ॥ २० ॥ बभ्रुरिति । प्रमथाधिपस्य प्रमथानां गणानां नन्दिमहाकालादीनामधिपः शंभुस्तस्य जूटो जटाजूट: कपर्दः अरातिभिः शत्रुभिः समं सार्धमप्यमर्षेण रोषेण रहितां स्थितिं वः प्रथयतु विस्तारयतु । स क इत्याह – बभ्रुरित्यादि । यो जूट: अलिकपावकसौहृदम् । अलिके ललाटे । 'ललाटमलिकं गोधिः' इत्यमरः । तत्र यः पावको नेत्राग्निस्तेन सह सौहृदं प्रीतिमतिसमीपस्थत्वं बिभर्ति धारयति । यः किंभूतः । बभ्रुः कपिलः । 'बभ्रुर्वि- शाले नकुले कृशानावजे मुनौ शूलिनि पिङ्गले च' इति विश्वः । अथ च यो बभ्रुर्नकुलो षिलेशयप्राणिविशेषः स कथमग्निना सह प्रीतिं करोतीति विरोधाभासः । तदन्यार्थत्वे तु विरोधपरिहारः । पुनरपि स कः । यत्र अहिर्वासुक्याख्यो नागविशेषः कण्ठोपवी- तीभूतः सामरस्यं परस्परसमरसतां प्रीत्यतिशयं शिखिना अग्निना, अथ च कुमारवाहनेन मयूरेण, सह अत्यन्तासन्नत्वाद्धत्ते । मयूरस्य भुजंगभुक्त्वादत्रापि विरोधाभासः ॥ अव्यात्स वः शिरसि यस्य विलोचनाग्नि- ज्वालावलीढसुरसिन्धुजलोपगूढः । अद्यापि वाडवशिखापरिणद्धमुग्ध- दुग्धाब्धिमध्यग इव श्रितमेति चन्द्रः ॥ २१ ॥ अव्यादिति । स महेशो वो युष्मानव्यात् । स क इत्याह – यस्य विभोः शिरसि विलोचनाग्निज्वालाभिरवलीढं प्रस्तं सर्वतो व्याप्तं यत्सुरसिन्धुजलं गङ्गाजलं तेनोपगूढः सर्वतो व्याप्तश्चन्द्रः श्रियं शोभामेति । अत्रोत्प्रेक्षा–कीदृश इव । अद्यापि वर्तमान- कालेऽपि वाडवशिखाभिर्वडवाग्निज्वालाभिः परिणद्धो व्याप्तो यो रम्यो दुग्धाब्धिः क्षीरसमुद्रस्तन्मध्यग इव ॥ अव्यात्स वः सुकृतिनामलिकेषु धूली- पट्टीकृतेषु पदरेणुभरेण यस्य । धाताक्षराणि लिखति क्षितिपालमौलि- मालार्चिताङ्घ्रिकिमलो भविता भुवीति ॥ २२ ॥ अव्यादिति । स परमेशो वो युष्मान् रक्षतु । स क इत्याह - यस्य श्रीशिवभट्टार- कस्य पदरेणुभरेण पादाम्बुजरेणुपटलेन धूलिपट्टीकृतेषु अलिकेषु ललाटेषु सुकृतिनां धन्यानां भक्त्या संकुचितानां दण्डवत्प्रणत्या धूलिपट्टितललाटानां तेषु धाता विधिरि- त्यक्षराणि लिखति । किमित्याह – असाविति शेषः । असौ नृपतिमौलिमालाभिः पूजिताङ्घ्रिकमलः सम्राट् भुवि भूमौ भविता भविष्यतीति ॥ शैवी [^१]शिवं दिशतु शीतमरीचिलेखा जूटाहिरत्नकिरणच्छुरणारुणा वः । देवी नवीननखलक्ष्मधिया पिधत्ते यत्संक्रमं कुचतटे पटपल्लवेन ॥ २३ ॥ शैवीति । जूटाहिरत्नानां कपर्दस्थाहिरत्नानां ये किरणास्तेषां छुरणं व्याप्तिस्तेना- रुणा शैवी श्रीशिवभट्टारकसंबन्धिनी सा शीतमरीचिलेखा चन्द्रकला वः शिवं दिशतु । सा का इत्याह – यत्संक्रमं यस्याश्चन्द्रकलायाः प्रतिबिम्बं कुचतटे अत्यन्तस्वच्छे पतितं पटपल्लवेन उत्तरीयपटपल्लवेन देवी श्रीभवानी आच्छादयति । अत्र हेतुः - कया । नवीनं नूतनं सान्द्रं यन्नखलक्ष्म नखक्षतचिह्नं तद्धिया । यथा च जयाविजयाद्याः सख्य एतन्न पश्यन्तीत्यर्थः ॥ देव्यास्तदस्तु कुचचूचुकमिन्दुमौलि- देहार्धबद्धवसतेरमृताप्तये वः । अभ्येति यन्मदनपूज्यसुवर्णपीठ- ष्टष्ठप्रतिष्ठितहरिन्मणिलिङ्गभङ्गिम् ॥ २४ ॥ [^१]. "श्रियं दिशतु शीतमयूखलेखा' इति क-पाठ:. देव्यास्तदस्त्विति । इन्दुमौलिः श्रीशिवः तस्य देहार्धे वामभागे बद्धवसतेर्देव्याः पा- र्वत्यास्तदेकं कुचचूचुकम् । 'चूचुकं तु कुचाग्रं स्यात्' इत्यमरः । तदेव कुचाग्रं भवता- ममृताप्तये मोक्षलक्ष्मीप्राप्त्यै अस्तु । तत्किमित्याह - यदेकं चूचुकं मदनेन प्राक्सापरा- धेन....…."इन्द्रनीलमणिलिङ्गं तस्य भङ्गिं विच्छित्तिमभ्येति । अत्र वक्षः- स्थलस्य सुवर्णपीठमुपमानम् । चूचुकस्येन्द्रनीललिङ्गम् ॥ याः क्षीरसिन्धुलहरीवृतमन्दराद्रि- मुद्रामनङ्गदमनस्य नयन्ति जूटम् । द्विर्भाविताविरलसिद्धसरित्तरङ्गा- स्ता लङ्घयन्त्वघमघर्मरुचो रुचो वः ॥ २५ ॥ याः क्षीरेति । द्विर्भाविता द्विगुणीकृता अविरलाः सिद्धसरितो गङ्गायास्तरङ्गा या भिस्ता अघर्मरुचः श्रीशिवभट्टारकशिरः स्थितस्य चन्द्रमसो रुचो दीप्तयो वो युष्माक मघं पापं लघयन्तु दूरीकुर्वन्तु । ता का इत्याह – या रुच: अनङ्गदमनस्य कामरिपोः श्रीशिवस्य जूटं कपर्दे क्षीरसमुद्रलहरीवृतमन्दराख्यगिरिमुद्रां तदाकृतिमुद्रां नयन्ति प्रापयन्ति । नयतिर्द्विकर्मकः ॥ लोकत्रयाभ्युदयजन्ममही महीयः- स्थानाधिरोहणविधावधिरोहिणी या । सा चन्द्रचूडमुकुटध्वजवैजयन्ती जह्नोरनिहुतनया तनयावताद्वः ॥ २६ ॥ लोकत्रयेति । अनिहुतः प्रकटीकृतो नयो नीतिर्यया । त्रिलोकाभ्युदयकरणहेतोः पातकाब्धिमग्नजनोद्धरणाच्च । अन्यरूपेण जाह्नवी का (?) । चन्द्रचूडेति । चन्द्रचूडस्य श्रीशंभोर्मुकुटमेव ध्वजस्तत्र वैजयन्ती पताकेव । सा जहोस्तनया जाह्नवी वो युष्मान- वतात् रक्षतु । सा का इत्याह – लोकाभ्युदयेति । अत्रापि रूपकेण । या जाह्नवी लोकत्रयस्य त्रिजगतः अभ्युदय ऐहिकामुष्मिकस्तस्य जन्ममही जन्मभूमिरूपा । तथा या गङ्गा महीयः अतिमहत् त्रिदिवादप्यधिकं यत्स्थानं तत्राधिरोहणं भक्तजनस्य तदर्थ- मधिरोहिणी निःश्रेणिका ॥ भालाग्निकीलकलिताखिलरन्ध्रभागं भर्गस्य वो दिशतु शर्म शिरःकपालम् । यत्कालवह्निवपुषः पचतः प्रभूत- भूतव्रजं व्रजति तस्य महानसत्वम् ॥ २७ ॥ भालाग्निकीलेति । भालाग्नेर्ललाटस्थाग्नेः कीलैर्ज्वालाभिः । 'वह्नेर्द्वयोर्ज्वालकीलौ' इत्यमरः । तैः कलिताः पूरिता अखिलाः सर्वे रन्ध्रभागा रन्ध्रस्थानानि यस्य तत् । भर्गस्य भृज्यन्तेऽनेन कालादयः भर्गः श्रोशिवस्तस्य शिरःकपालं शिरःस्थं कपालं वो गुष्मभ्यं शर्म मोक्षलक्ष्मीसुखं दिशतु ददातु । तत्किमित्याह - तस्य प्रभोः प्रलये काल- वह्निवपुषः कालाग्निरुद्ररूपस्य प्रभूतभूतव्रजं अनेकलोकसंघं पचतो यत्कपालं महानस- त्वम् । महत् अनोऽस्य । महानसम् । अनसा उपकरणं लक्ष्यते । 'अनोश्मायःसरसां जातिसंज्ञयोः' इति टच् समासान्तः । 'रसवत्यां तु पाकस्थानमहानसे' इत्यमरः । महान- सत्वं रसवतीत्वं व्रजति। महाप्रलये समस्तप्राणिसंघं कालाग्निरुद्रः पचतीत्यागमप्रसिद्धिः ॥ चान्द्रं च धाम सुरनिर्झरिणीजलं च हस्तस्थहेमकलशामृतजीवनं च । स्निग्धं च दृग्विलसितं हसितं सितं च युष्माकमूष्मशमनाय भवन्तु शंभोः ॥ २८ ॥ चान्द्रं चेति । शंभोरेतानि वस्तूनि परमशीतलानि वो युष्माकमूष्मशमनाय भव- मरुभ्रमणजतापहरणाय भवन्तु । एतानि कानीत्याह – चन्द्रस्येदं चान्द्रम् । चान्द्रं धाम प्रकाशः । सुरनिर्झरिणी देवनदी तस्या जलं च । तथा हस्ते तिष्ठतीति हस्तस्थः तादृशश्चासौ हेमकलशः तत्र अमृतजीवनं अमृतरूपं वारि । यदुक्तम् – 'देवं सुधाक- लश -' इति ध्याने । तथा दृशः दर्शनं दृक् तस्य दर्शनस्य विलसितम् । सदयनयनो- द्वीक्षणरूपस्य दर्शनस्येत्यर्थः । किंभूतं तत् । स्निग्धं सकृपम् । मुक्तासारम् (?) । तथा सितमतिश्वेतं हसितमीषद्धासश्च ॥ मूर्ध्नि द्युसिन्धुधवले धवलेन्दुलेखा कैलासशैलशिखरे धवलश्च वाहः । नीहारहारिणि वपुष्यपि भूतिरेषा पुष्णातु वः सदृशसंघटना शिवस्य ॥ २९ ॥ मूर्ध्नाति । एषा सदृशेषु सदृशसंघटना । एकशेषः । वो युष्मान् पुष्णातु । श्रीशिवभ- क्तिरसोत्कर्षं पोषयत्वित्यर्थः । एषा का । द्युसिन्धुर्देवनदी गङ्गा तया घवले मूर्ध्नि शिरसि धवलैवेन्दुलेखा चन्द्रलेखा। तथा कं जलम्, इला भूमिश्च केले । तयोरासः स्थानमस्मि- न्निति केलासः स्फटिकम् । तन्मयः कैलासः स्फटिकगिरिः । तस्य शिखरे स्वनिवासभूते धवलः श्वेतः धवलो वृषश्च वाहो वाहनम् । तथा नीहारस्तुहिनं तद्वत् हारिणि मनोरमे धवले वपुषि स्वदेहे एषा भूतिर्विभूतिः भस्मरूपा । अत्र गङ्गानिवासस्थाने मूर्ध्नि धवले सदृशे धवलचन्द्रकला सदृशी वर्णेन । एवमग्रेऽपि ॥ उत्तप्तहेमरुचि चन्द्रकला कलापे बालप्रवालरुचिरे च करे कपालम् । ताम्रेऽधरे च हसितं सितमद्रुतेयं विच्छित्तिरिन्दुशिरसः कुशलं क्रियाद्वः ॥ ३० ॥ उत्तप्तेति । एषा इन्दुशिरसश्चन्द्रमौलेरद्भुता आश्चर्यकारिणी विच्छित्तिः शोभा । एक- स्मिन्नेकवर्णे वस्तुन्यन्यवर्णमेलनेन विच्छित्तिर्भवति । सेयं विच्छित्तिर्वः कुशलं भवाब्ध्यु- त्तरणरूपं क्रियात् । एषा केत्याह-कलापे कलापो जटाकटप्रं तत्र । किंभूते । उत्त प्तहेमरुचि उत्तप्तं पावकोत्तीर्णं यद्धेम कनकं तद्वद्रुग् दीप्तिर्यस्य तादृशे । रुच्शब्दः । 'स्युः प्रभा रुग्रुचिस्त्विङ्भा' इत्यमरः । तत्र चन्द्रकला चान्द्रीकला । अत्र पीतवर्णे जटाकलापे श्वेतवर्णेन्दुलेखासंघटनेन विच्छित्तिः । एवमग्रेऽपि । तथा बालप्रवालवत् बालविद्रुमवद्रुचिरं तादृशि रक्ते करे पाणौ कपालं धवलम् । तथा ताम्रेऽधरे अधरोष्ठे सितं धवलं च हसितमीषद्धासः ॥ श्रेयः प्रयच्छतु परं सुविशुद्धवर्णा पूर्णाभिलाषविबुधाधिपवन्दनीया । पुण्या कविप्रवरवागिव बालचन्द्र- चूडामणेश्वरणरेणुकणावली वः ॥ ३१ ॥ श्रेयः प्रयच्छत्विति । बालचन्द्रचूडामणेर्बालेन्दुशिरोमणे: श्रीशिवभट्टारकस्य पादपद्म- रजःकणावली वो भवतां परं श्रेयो निःश्रेयसरूपं प्रयच्छतु ददातु । केव। कविप्रवरवा - गिव । 'कवृ वर्णे' । कवते वर्णयति वर्णनीयमिति । महाकविवागिव । उभे अपि विशिनष्टि – सुविशुद्धेत्यादि । चरणरजःकणावली किंभूता । सुष्रु विशुद्धो वर्णः अति- धवलो यस्याः सा । तथा पूर्णाभिलाषैः पूर्णमनोरथैर्विबुधाधिपैरिन्द्रादिदेवैर्विपश्चिद्वरैर्वा वन्दनीया प्रणमनीया । तया पुण्या पातकिनोऽपि प्रणतान्पवित्रीकुर्वती । महाकविवा- गपि सुविशुद्धा वर्णनीयरसोपयोग्या वर्णा यस्याः सा । तथा विबुधाधिपैः पण्डितप्रवरै- र्वन्दनीया स्तुत्या । 'विबुधौ कविगीर्वाणौ' इति कोशः । तथा पुण्या मनोज्ञा हृद्या । 'पुण्यं पूते मनोज्ञे च' इति मङ्खः ॥ हारीकृतोल्बणफणीन्द्रफणेन्द्रनील- नीलच्छविच्छुरणशारमुरःस्थलं वः । पुष्णातु निह्नुतनगेन्द्रसुताकुचाग्र- कस्तूरिकामकरिकाकिणमिन्दुमौलेः ॥ ३२ ॥ हारीकृतेति । इन्दुमौलेश्चन्द्रमौलेरुरःस्थलं वक्षःस्थलं वो युष्मान् पुष्णातु । भक्ति- रसोत्पादनेन पोषयत्वित्यर्थः । किंभूतम् । हारीकृतेति । हारीकृतो हारः संपादित उल्बण: कठिनो यः फणीन्द्रो वासुकिस्तस्य फणेषु इन्द्रनीलमणीनां या नीलच्छविः तस्याश्छुरणं व्याप्तिः तेन शारं कर्बुरीकृतम् । पुनः किंभूतम् । निहुतेति । निहुत: संगोपित आश्ले- षसमये नगेन्द्रसुतायाः पार्वत्या आलिङ्गनवशाल्लग्नो यः कुचाग्रकस्तूरीमकरिकायाः कस्तू- रीपवल्लयाः किणश्चिहपर्यायो यस्य तत् । कस्तूरीमकरिकाकिणस्य इन्द्रनीलमणिप्रभया निडवो जात इत्यर्थः ॥ युष्माकमस्तु नवनीलसरोजदाम- श्यामद्युतिः सुमतये शितिकण्ठकण्ठः । यः केतकीधवलवासुकिभोगयोगा- द्गाङ्गौघभिन्नगगनाङ्गनभङ्गिमेति ॥ ३३ ॥ युष्माकमिति । नवं यन्नीलसरोजं नीलोत्पलं तस्य दाम माल्यं तद्वत् श्यामा युति- र्यस्य स शितिकण्ठकण्ठः श्रीशंभुगलो युष्माकं सुमतये शोभना चासौ मतिः शिवैकता- नेन या मतिः तस्यै अस्तु । स क इत्याह –यः कण्ठः केतकीधवलः केतकीनामा श्वेतः सुगन्धः पुष्पविशेषः तद्बद्धवलो यो वासुकिभोगः हारीकृतवासुकिफणस्तेन यो योगस्तस्मात् गाङ्गौघेन गङ्गाजलप्रवाहेण भिन्नं भिन्नवर्णं शारीकृतं गगनमेवाङ्गनं तस्य भङ्गिः शोभा तामेति प्राप्नोति । श्रीशंभुगलस्य गगनाङ्गनमुपमानम् । वासुकिभोगस्य गङ्गाजलप्रवाह उपमानम् ॥ क्षीरार्णवस्य चरणाब्जतले निवास- मासेदुषस्तनयमप्रतिमप्रसादः । यो मूर्ध्नि लालयति बालमसौ दयाब्धि- र्देवस्तनोतु मुदमा[^१]श्रितवल्लभो वः ॥ ३४ ॥ क्षीरार्णवस्येति । स परमेशो दयाब्धिः कृपामृतसमुद्रः आश्रितवल्लभः आश्रिता वल्लभाः प्रिया यस्य शरणागतत्राता वो युष्माकं मुदं परमानन्दं तनोतु विस्तारयतु । स क इत्याह - यः परमेश्वरः अप्रतिमप्रसादः अनुपमानुग्रहश्चरणाब्जतले स्वकीयपादप- द्मतले निवासं स्थानमासेदुषः प्राप्नुवतः क्षीरार्णवस्य भृत्यस्येव पादसंवाहनं कृतवतस्त- नयं स्वोदरोत्पन्नं बालम् । बालेन्दुमित्यर्थः । तं मूर्ध्नि लालयति कृपया संरक्षति । अत एवास्याश्रितवत्सलता सुप्रसिद्धैवेत्यर्थः ॥ या राजहंसशिखिसंभृतकान्तिरेति सद्यस्तिरोहितघनावरणा प्रसादम् । सा प्रावृडन्तशरदादिदिनेष्विव द्यौः शंभोरभीष्टफलपाककृदस्तु दृग्वः ॥ ३५ ॥ [^१]. 'आश्रितवत्सलो' इति क-पाठः. या राजहंसेति । सा श्रीशंभोर्दृक् । जातावेकवचनम् । नेत्रत्रयीत्यर्थः । सा वो युष्माकं अभीष्टफलपाकं करोतीत्यभीष्टफलपाककृत् अस्तु । केव । द्यौरिव आकाश इव । 'द्व्यौदिवौ द्वे स्त्रियामभ्रम्' इत्यमरः । केषु । प्रावृडन्तशरदादिदिनेषु वर्षान्तशरदारम्भरूपऋतुसंधि- दिनेषु । उभे विशिनष्टि - सा दृक् का । या राजेत्यादि । राजा चन्द्रः । 'राजानौ नृप- शीतांशू' इति मङ्खः । हंसः सूर्यः । 'खगयोगिभिदोर्हंसो निर्लोभनृपसूर्ययोः' इति मङ्खः । शिखी अग्निः । 'वृक्षोऽग्निः कुक्कुटो बर्ही शिखिनः' इति मङ्खः । तैस्त्रिभिः सम्यग्भृता कान्तिर्यस्याः सा । सद्यः प्रणत्यन्त एव तिरोहितं घनं दृढमावरणमविद्यारूपमायावरणं यया सा । भक्तेभ्य इति शेषः । कृपया वैशद्यमेति । अथ च वर्षान्तशरदादिऋतुसं- बन्धिद्यौरपि राजहंसैः श्वेतगरुत्पक्षिभिः तथा शिखिभिर्मयूरैश्च संभृता उपचिता का न्तिर्यस्याः सा । वर्षान्तसद्भावात्कतिपये राजहंसा आगच्छन्ति, प्रावृषोऽप्यन्तिमकति- पयदिनसद्भावात्कतिचिन्मयूराश्च तत्र ऋतुसंधौ भवन्ति । तथा ऋतुसंधिद्यौरपि कीदृशी । तिरोहितं दूरीकृतं घनानां मेघानामावरणं यया सा । प्रसादं नैर्मल्यं च सद्यस्तत्क्षणमेव एति प्राप्नोति । अभीष्टफलानां शाल्यादीनां पाकं करोति तादृक्च । शब्दश्लेषः ॥ अन्तर्धृताहिमकरज्वलनोदितेन्दुः स्वःसिन्धुसङ्गसुभगा परमेश्वरस्य । औदन्वतीव तनुरस्तु गजाश्वरत्न- श्रीलाभकृत्सुमनसाममृताय दृग्वः ॥ ३६ ॥ अन्तर्धृताहिमकरेति । परमेश्वरस्य श्रीशिवभट्टारकस्य दृक् ।जातावेकवचनम् । श्रीशंभोर्नेत्रत्रयी वो युष्माकममृताय निःश्रेयसाय अस्तु । केव । औदन्वती उदन्वत इयमौदन्वती समुद्रस्य तनुरिव । द्वे अपि विशिनष्टि - किंभूता दृक् नेत्रत्रयी । अन्त- र्धृतेत्यादि । अन्तर्धृताः अहिमकर उष्णांशुः सूर्यः ज्वलनोऽग्निः उदितेन्दुः । बालेन्दु- रित्यर्थः । ते यया । तथा स्वःसिन्धोर्वियद्गङ्गाया यः सङ्गस्तेन सुभगा रम्या । तथा गजाश्वेत्यादि । गजानां गजोत्तमानां अश्वानां वनायुजादीनां रत्नानां पद्मरागादीनां श्रियो लक्ष्म्या लाभप्राप्तिस्तं करोति । केषाम् । सुमनसां पण्डितानाम् । 'सुमनाः स्त्री पुष्पजात्योर्देवपण्डितयोः पुमान्' इति मङ्खः । श्रीशंभुदृगंशांशप्राप्त्या कृतिनां गजाश्वा- दिसकलसंपत्प्राप्तिरित्यर्थः । सामुद्री तनुरपि किंभूता । अन्तर्घृतेत्यादि । अन्तर्धृताः अहयः सर्पाः मकरा जलप्राणिनः ज्वलनोऽग्निर्वाडवः उदितेन्दुः पूर्णेन्दुर्यया । उदितेन्दुरिति भिन्नं पदं वा । उदित उत्पन्न इन्दुर्यस्याः सा । तथा स्वःसिन्धोर्गङ्गाया यः सङ्गो योगस्तैन सुभगा रम्या । तथा गजाश्वेत्यादि । गजः स्वर्गज ऐरावणः अश्व उच्चैःश्रवाः रत्नं कौस्तुभः श्रीः हरिप्रिया तेषां लाभं करोतीति तादृक् । केषाम् । सुमनसां देवानामिन्द्रा- दीनाम् ॥ यत्राग्निरीप्सति कणं न विवृत्य जिह्वां नैति प्रतिक्षपमपेतवसुस्तमर्कः । क्षीणस्तमिन्दुरपि न श्रयति श्रियेऽस्तु श्रीधाम तत्पुररिपोर्नयनत्रयं वः ॥ ३७ ॥ यत्राग्निरिति । तत्पुररिपोस्त्रिपुरारेर्नयनत्रयं श्रीधाम श्रियः शोभाया लक्ष्म्याश्च धाम स्थानम् । 'श्रीस्तु शोभालक्ष्मीसमृद्धिषु' इति मङ्खः । वो युष्माकं श्रिये मोक्षलक्ष्म्यै अस्तु । तत्किमित्याह – यत्राग्निर्जिह्वां शिखां रसनां च विवृत्य । 'रसनामिशिखा जि- ह्वा' इति कोषः । कणं लवम् । हव्यस्येति शेषः । कणं धान्यांशं च । 'कणोऽतिसूक्ष्मे धान्यांशे' इत्यमरः । न ईप्सति न काङ्क्षति । नित्यतृप्तत्वात् । अथ च योऽपि श्रीधाम्नि लक्ष्मीगृहे वसति सोऽपि याचनार्थे जिह्वां विवृत्य कणं धान्यांशमपि न याचते । यत्र नेत्रत्रये अपेतवसुः अपेतं निवृत्तं वसु तेजो यस्य । अथ च अपेतं वसु धनं यस्य च एतादृशोऽर्को बाह्याकाशस्थसूर्यवन्नेत्रार्कः प्रतिक्षपं प्रतिनिशं तमग्निं नैति न गच्छति । दिनान्ते सावित्रं तेजोऽग्नौ विशतीत्यागमः । नित्यमेव जाज्वल्यमानस्य सूर्यस्याग्नेश्च तत्र सद्भावात् । अथ च श्रीधाम्नि वसन्कोऽप्यपेतवसुर्गतधनो न भवति । तं च नेत्रस्थं सूर्यं क्षीणः अमावास्यायां क्षीणः संञ्चन्द्रः, अथ च क्षीणो दरिद्रोऽपि, तं सूर्ये न श्रयति । दर्शे चन्द्रोऽधःस्थ उपरिस्थं सूर्यबिम्बं विशतीति संहितायाम् । श्रीधाम्नि च वसन्को- ऽपि न दरिद्रः न च कंचिच्छ्रयति ॥ अर्कस्य नोदगयनं शिशिरेऽपि यत्र शीतत्विषो न बहुलेsपि कलापलापः । क्षामं च धाम न वहत्यपि वह्निरह्नि तत्रायतां पुररिपोर्नयनत्रयं वः ॥ ३८ ॥ अर्कस्येति । तत्पुररिपोस्त्रिपुरारेर्नयनत्रयं वो युष्मान् त्रायताम् । दक्षिणाक्षिण अर्क- स्य सहस्रांशो: शिशिरेऽपि न उदक् वामभागे अयनं गमनमुत्तरायणं च । तत्रैव निश्च- लस्य तस्य सत्त्वात् । 'शिशिरपूर्वमृतुत्रयमुत्तरं त्वयनमाहुरहश्च तदामरम्' इति संहिता- विदः । मकरराशिप्रारम्भे सूर्यस्योत्तरायणं प्रसिद्धम् । यत्र च वामे नेत्रे शीतत्विषश्चन्द्र- स्यापि बहुले कृष्णपक्षे कलानामपलापो हानिर्न । 'कला तु षोडशो भागः' इत्यमरः । 'बहुला: कृत्तिका गाव एलाः पुंस्यग्निपक्षयोः । प्रभूते च प्रायिके च शितौ च स्यात्रि- लिङ्गकः' इति मङ्खः । तस्य सदैव जाज्वल्यमानत्वात् । तथा यत्र ललाटाक्ष्णि वह्विरग्नि- रप्यह्वि दिनेऽपि क्षामं कृशं धाम तेजो न वहति । रात्राविव दिनेऽपि प्रदीप्तत्वात् ॥ यामाश्रितोऽम्बरमणी रमणीयधामा कामान्तकावनलसानलसाद्व्यधाद्या । यापीन्दुसंभवसुधावसुधा दृशस्ताः शर्वस्य वः शिवपुषो वपुषो भवन्तु ॥ ३९ ॥ यामाश्रित इति । ताः शर्वस्य शिवस्य दृशो नेत्राणि वो युष्माकं शिवमात्यन्तिक- दुःखनिवृत्तिं पुष्णन्ति शिवपुषः तादृशो भवन्तु । ता का इत्याह - यां दक्षिणदृशं रम- णीयधामा रम्यतेजा अम्बरमणिर्भास्वानाश्रितः । या च दृग्ललाटगोचरा न अलसा अनलसा अमन्दा । प्रौढैवेत्यर्थः । तादृशी कामान्तकौ मदनयमौ अनलसात् अभ्यधी- नौ व्यधात् । 'तदधीने सातिः कार्त्स्न्ये' इति सातिप्रत्ययः । यापि वामदृक इन्दुसंभ- वसुधावसुधा चान्द्रीसुधाभूमिः । आरोपः ॥ पुष्णातु वः प्रथमसंगमभीरुगौरी- विस्त्रम्भणप्रणयभङ्गभयाकुलस्य । तत्कालकार्यकरदर्पकदेहदाह- जातानुतापमुरगाभरणस्य चेतः ॥ ४० ॥ पुष्णातु व इति । उरगो वासुकिनाग आभरणं कण्ठे हारस्थाने यस्य सः । तस्यो- रगाभरणस्य श्रीशिवस्य चेतो मनः तत्कालेत्यादिविशिष्टं वो युष्मान् श्रीशिवभक्तिर- सोत्कर्षवितरणेन पुष्णातु वर्धयतु । तत्काले प्रथमगौरीसङ्गसमये कार्ये परस्परप्रेमातिश- यरूपं करोति तादृशो दर्पकः कामस्तस्य देहदाहेन जात उत्पन्नोऽनुतापः पश्चात्तापो यस्य तत् । अत्र हेतुमाह - किंभूतस्य शिवस्य । प्रथमसंगमे भीता नवोढात्वात् या गौरी पार्वती तस्या विसम्भणार्थमाश्वासनार्थं यः प्रणयो याच्ञा तद्भङ्गेन यद्भयं तेनाकुलस्य ॥ जूटे कपालशकलानि कलानिधिश्च हस्ते सुधाम्बु सरलं गरलं गले च । शक्रादिभिश्च नमनं गमनं गवा च [^१]यस्यास्तु दुर्गतिहरः स हरः सदा वः ॥ ४१ ॥ जूट इति । स हरः श्रीशिवो वो युष्माकं दुर्गतिं भवामयोत्थां हरतीति तादृशो भवतु । स क इत्याह – जूट इति । यस्य महेशस्य जूटे कपर्दे कपालशकलानि महाप्रल- यादौ हारितब्रह्मादिशिरसां कपालखण्डानि भवन्ति । तथा कलानिधिश्चन्द्रश्च यस्य जूटे भवति । तथा यस्य विभोर्हस्ते सुधाम्बु अमृतोदकं भवति । 'देवं सुधाकलशसो- म-' इति ध्यानोक्तेः । तथा सरलमुदारम् । 'सरल: पूतिकाष्ठे स्यादुदारावक्रयोरपि' इति विश्वः । उदारं गरलं कालकूटाख्यं विषं गले कण्ठे यस्य । तथा शक्रादिभिर्दे- वैः । विहितमिति शेषः । नमनं नतिः । गवा वृषभेण गमनं च यस्य । 'लक्ष्यदृष्टया स्त्रियां पुंसि गौः' इत्यमरः । गोशब्दः पुंसि च लक्ष्ये दृश्यत इत्यर्थः ॥ [^१]. 'यस्यास्ति' इति क-पाठ:: यस्य क्षितिः शिरसि सौमनसीव शेषा शे[^१]षाहिरङ्गदपदे स चकास्ति यस्य । तस्य प्रभोरमृतनिर्झरनिर्विशेषा- शेषाणि हन्तु दुरितानि सरस्वती वः ॥ ४२ ॥ यस्व क्षितिरिति । अमृतनिर्झरनिर्विशेषा सुधाप्रवाहतुल्या । आपन्नाश्वसनेनेत्यर्थः । तस्य प्रमोर्महेश्वरस्य सरस्वती वाणी । 'गीर्वाग्वाणी सरस्वती' इत्यमरः । वो युष्माक मशेषाणि सर्वाणि दुरितानि वाङ्मनःकायोपार्जितानि हन्तु नाशयतु । तस्य कस्ये- त्याह—यस्येत्यादि।,यस्य विभोः श्रीहाटकेश्वरस्य शिरसि मूर्धनि सौमनसी पुष्पसंबन्धिनी शेषा मालेव । 'उपयुक्तेतरच्छेषं त्रिषु ना नागसीरिणोः । प्रसादान्निजनिर्माल्यदाने स्त्री ' इति मङ्खः । यस्य शिरसि पुष्पमालेव क्षितिः शोभते । तथा स प्रसिद्धः शेषाहिः शेष- नागो यस्य विभोरङ्गदपदे केयूरस्थाने चकास्ति शोभते ॥ [^२]श्रीमानकल्पत न कल्पतरुर्यदाप्त्यै तृष्णा रसायनरसाय न यं समेत्य । लभ्यो न यो गहनयोगहवैः स वोऽघ- मप्राकृतो हरकृतो हरतु प्रसादः ॥ ४३ ॥ श्रीमानिति । अप्राकृतो न प्राकृतो गौणः । सर्वथा मुख्यः प्रसादोऽनुग्रहः हरेण श्रीशंभुना कृतो वो युष्माकमघं त्रिविधं पापं हरतु निवारयतु । स क इत्याह - यस्या- नुग्रहस्याप्त्यै लाभाय श्रीमान् लक्ष्मीवान् शोभायुक्तश्च कल्पतरुर्देवद्रुमोऽपि नाकल्पत समर्थो नासीत् । तस्य सर्वपुरुषार्थमुख्यनिः श्रेयसदानासमर्थत्वादित्यर्थः। तथा यं श्री- शिवप्रसादं समेत्य प्राप्य रसायनरसाय जराव्याधिहरौषधायापि तृष्णा लोभो नास्ति । 'रसायनं विडङ्गे स्याजराव्याधिजिदौषधे' इति विश्वः । अत्रापि प्रागुक्तो हेतुः । तथा गहनः । अष्टाङ्गयोगस्यातिकष्टसाध्यत्वात् । योगः अष्टाङ्गो यमनियमादिकः । हवा यज्ञाश्च कृच्छ्रसाध्याः । तैरपि यः श्रीशंभुप्रसादो न लभ्यः ॥ मुक्तिर्हि नाम परमः पुरुषार्थ एक- स्तामन्तरायमवयन्ति यदन्तरज्ञाः । कि भूयसा भवतु सैव सुधामयूख- लेखाशिखाभरणभक्तिरभङ्गुरा वः ॥ ४४ ॥ मुक्तिहिं नामेति । भूयसा बहुनोक्तेन किं भवति । न किंचिदित्यर्थः। सैव सुधामयू [^१]. 'मालाहिरङ्गद' इति क-पाठ:. [^२]. 'अर्केन्दुभौम-' इत्याद्यग्रे वर्तमानः क्षेपक श्लोकः खपुस्तके 'श्रीमान्-' इत्यादिश्लोकात्पूर्वं वर्तते. खलेखाशिखाभरणस्य चन्द्रकलाचूडाभरणस्य श्रीशिवस्य भक्तिर्वो युष्माकमभङ्गुरा अविच्छिन्ना भवतु । सा का इत्याह - यदन्तरज्ञाः यस्याः श्रीशिवभक्तेरन्तरं विशेषम- न्यपुरुषार्थेभ्यो जानन्ति ये ते तमपि मुक्तिरूपं परमपुरुषार्थमन्तरायं विघ्नमवयन्ति जा नन्ति । परमेशदर्शनविघ्नरूपत्वात्तत्सायुज्यस्येत्यर्थः । तां मुक्तिं कामित्याह - हिर्नि- श्चये प्रसिद्धौ वा । मुक्तिरात्यन्तिकी दुःखनिवृत्तिरपुनर्भवरूपा एकः पुरुषार्थः । सर्वपु- रुषार्थमुख्य इत्यर्थः । एतदाशयानुसारेण ममापि वृत्तमेकम् । यथा – 'वीक्षे न यत्र नय- नत्रितयाभिरामं पूर्णेन्दुतर्जि मुखमीश्वर तावकीनम् । दासस्य नाथ कृपया भवता वि तीर्णं सायुज्यमीदृगपि वेद्मि विडम्बनं मे ॥' इति ॥ स यत्र गुहबर्हिणो भवभुजंगजिह्वाञ्चनै- र्गजास्यकरकर्षणैः स च गिरीन्द्रकन्याहरिः । स चार्कसुतसैरिभो रवितुरंगहेषारवै- र्मुदं दधति धाम तद्दिशतु शांभवं धाम वः ॥ ४५ ॥ स यत्रेति । तच्छांभवं श्रीशंभोरिदं धाम महन्महः वो युष्मभ्यं धाम तेजः शिवै- कताध्यानोत्कृष्टं तेजः स्थानं वा दिशतु ददातु । तत्किमित्याह – यत्र शांभवे धाम्नि भक्तानुग्रहार्थं सकलरूपे एते मुदं परस्परसौहार्दं संतोषं दधति । एते के । गुहबर्हिणः स्वामिकुमारवाहमयूरः । गिरोन्द्रकन्याहरिः श्रीपार्वतीवाहनसिंहः । अर्कसुतसैरिभः । अर्कयति तपतीत्यर्कः अर्च्यते वा इति स्वामी । सीरिभिर्दान्तैर्भाति सीरिभः कुटुम्बी । तस्यायं सैरिभः । यमवाहनमहिषश्च । कुमारमयूरः कैस्तोषमेति । भवस्य श्रीशंभोर्ये भु- जंगा वासुक्याद्याः कण्ठभुजाभरणभूतास्तेषां या जिह्वास्ताभिरञ्चना लेहास्तैः । मयूरो हि भुजंगभुक् । मयूरसर्पयोः परस्परविरोधिनोरपि तत्रातिथिनीतत्वात् (?) । एवमग्रेऽपि । श्रीपार्वतीसिंहः कैस्तोषमेति । गजास्यस्य गजमुखस्य गणपतेर्यानि करेण कर्षणानि आ- क्षेपास्तैः । तथा यममहिषः कैः । रवितुरंगाणां नेत्रगोचररवेस्तुरंगाणां सप्तानां हेषारवैः अश्वनिःस्वनैः । 'हेषा द्वेषा च निःस्वनः' इत्यमरः । द्वेषाभिरित्युच्यमाने हेषाशब्दस्य रूढत्वाद्रवशब्दाधिक्यम् । महापुरुषचरणनिकटे परस्परविरोधिनामपि जन्तूनां वैरत्याग इत्यर्थः ॥ यस्मिञ्जातस्त्रिभुवनजयी भग्नकामः स कामो यस्मिंल्लेभे शलभलघुतां प्राप्तकालः स कालः । यस्यौघो न प्रभवति महोनिह्नवे जाह्नवीयः श्रेयः प्रेयः प्रथयतु स वः शांभवो दृक्त्रिभागः ॥४६ ॥ यस्मिन्निति । स शांभवः श्रीशंभुसंबन्धी दृशां तिसृणां त्रिभागस्तृतीयो भागः एकमग्न्यधिष्ठानं तृतीयं नेत्रं वो युष्माकं श्रेयो निःश्रेयसं प्रथयतु तनोतु । श्रेयः किंभू- तम् । प्रेयः अतिशयेन प्रियम् । 'प्रियस्थिर-' इत्यादिसूत्रेण ईयसुन् । स क इत्याह- यस्मिंस्तृतीयनेत्रे....त्रिभुवनजयिनोऽपि तस्य श्रीशंभौ भमशक्तित्वात्। यस्मिन्नग्न्यधिष्ठाने नेत्रे प्राप्तकालः प्राप्तान्तसमयः स प्रसिद्धः कालो यमोऽपि शलभल- घुतां शलभवत्पतंगवल्लघुतां लेभे । तत्र दग्ध इत्यर्थः । शलति शमं लभते वाग्नौ शलभः । तथा जाह्नवीयो गङ्गासंबन्धी ओघः प्रवाहोऽपि यस्य नेत्राग्नेर्महोनिह्नवे तेज:पिधाने न प्रभवति न समर्थो भवति ॥ यः क्रोधाग्नेः समिधमकरोद्दर्पकं दर्पकन्द- च्छेदाभिज्ञं व्यधित जगतां यः कृतान्तं कृतान्तम् । नेतुं यश्च प्रभवति मतिह्नासमस्तं समस्तं निष्प्रत्यूहं प्रथयतु पथि त्रासदे वः स देवः ॥ १७ ॥ यः क्रोधाग्नेरिति । परात्परतरे स्थाने देवः परमेश्वरः अत्र लोके सिंहादिदुष्टसत्त्वभ- यावृते परत्र च रविजकिंकराद्युत्पन्नभयावृते पथि वर्त्मनि निष्प्रत्यूहं विघ्नाभावं प्रथयतु तनोतु । स क इत्याह - यः क्रोधाग्नेरिति । यो देवो निजस्य क्रोधाग्नेः समिधं काष्ठं दर्पकं काममकरोत् । क्रोधाग्निना कामं ददाहेत्यर्थः । 'काष्ठं दार्विन्धनं त्वेध इध्ममेधः समिस्त्रियाम्' इत्यमरः । तथा यो देवो जगतां लोकानां कृतोऽन्तो येन तं कृतान्तं यमं दर्पकन्दच्छेदाभिज्ञं दर्पस्य कन्दो मूलं तस्य च्छेदमभिजानातीति तादृशं व्यधित चकार । यममपि ददाहेत्यर्थः । यश्च विभुः समस्तं सर्वे मतिह्वासं विश्वस्य लोकस्य शिवाद्भेदप्रथारूपो मतिह्वासस्तमस्तं विनाशं नयति दूरीकरोति । धीमतामित्यर्थः ॥ पायाद्वस्त्रिजगद्गुरुः स्मरहरः सोपग्रहाणां शिरः श्यामाकामुकमत्सरेण चरणौ पङ्क्तिर्ग्रहाणामिव । यस्य प्रह्वसुरासुरेश्वरशिरोमन्दारमालागल- त्किंजल्कोत्करपिञ्जरोन्मुखनखश्रेणीनिभेनाश्रिता ॥ ४८ ॥ पायादिति । गृणात्युपदेशं शिवाभेदप्रथारूपं गुरुः । त्रिजगतो गुरुः स स्मरहरः स्म- रारिर्वो युष्मान्पायात् । स क इत्याह - सोपग्रहाणामित्यादि । सोपग्रहाणां उपग्रहै- श्चतुर्भी राहुकेतुध्रुवागस्त्यैः सह वर्तन्ते ये ते सोपग्रहास्तेषां ग्रहाणां सप्तानामादित्या- दीनां पङ्क्तिः । 'ग्रहा आदित्याद्याः सप्त । उपग्रहा राह्वाद्याश्चत्वारः' इति गर्गः । तदेवं सोपग्रहग्रहपङ्क्तिरेकादशसंख्याका मिश्रीभूता श्रीशंभो: शिरःस्थत्वाच्चन्द्रस्य अवशिष्टा दशसंख्याकैव । अत्रैवोत्प्रेक्षापूर्वकमाह–सोपग्रहाणामित्यादि । शिरः श्यामाकामुकम- त्सरेण शिरसि यः श्यामाकामुको रजनीशश्चन्द्रस्तस्य मत्सरेण परोत्कर्षासहनं मत्सर- स्तेन अयं चन्द्रः कथं जगदीश्वरस्य शिरःस्थो वयं किं न प्रिया विभोरिति रोषेणावशि- ष्टसोपग्रहपङ्क्तिः प्रह्वा भक्त्या नम्रा ये सुरासुरेश्वरा देवासुराधीशाश्च तेषां शिरांसि तेषु या मन्दाराख्यसुरपुष्पमालास्ताभ्यो गलन् पतन् यः किंजल्कोत्करस्तेन पिञ्जरा या नखश्रेणी नखानां दशसंख्यनखानां श्रेणी तन्निभेन तद्व्याजेन यस्य विभोश्चरणौ पादयु- गलमाश्रिता । वयमपि स्वामिशिरः स्थचन्द्रवद्विभोः प्रेमभागिनो भवाम इत्येतदर्थं श्रीशं- भोश्चरणौ श्रितेत्यर्थः ॥ अर्केन्दुभौमबुधवाक्पतिकाव्यमन्दा मन्दारकुन्दकुमुदैर्यमुदर्चयन्ति । तस्य प्रभोरघमलोष्मशमादमन्दा मन्दाकिनीव मुदमर्पयतु स्तुतिर्वः ॥ १९ ॥ अर्केन्द्विति । तस्य प्रभोः परमेश्वरस्य स्तुतिः अघमलोष्मशमात् अघानां वाङ्मनः- कायोपार्जितानां मलानां मायीयाणवकार्माणां य ऊष्मा तस्य शमान्मन्दाकिनी वियद्ग- ङ्गेव मुदं प्रमोदं वो युष्मभ्यमर्पयतु ददातु । तस्य कस्येत्याह - अर्केन्द्विति । अर्काद्याः सप्त ग्रहाः प्रसिद्धाः यं विभुं मन्दारकुन्दकुमुदैः मन्दाराख्यैः कुन्दपुष्पैः कुमुदपुष्पैश्च यं देवमुदर्चयन्ति उच्चैः कृत्वा अर्चयन्ति पूजयन्ति । इदं वृत्तं प्राचीनादर्शेषु न दृश्यते त- थापि व्याख्यातम् ॥ भस्मोद्धूलितमूर्तिरिन्दुधवलज्योतीरसोर्वीधर- स्कन्धासक्ततुषारगौरवृषभारूढोऽस्तु भद्राय वः । देवो दुग्धमहाब्धिमध्यविकसत्सत्पुण्डरीकोपरि- क्रीडद्बालमरालनिर्मलरुचिः कात्यायनीकामुकः ॥ ५० ॥ भस्मोद्धूलितेति । कात्यायनीकामुकः श्रीशंभुः । अत्रालंकारिकैः कात्यायनीकामुक इत्यत्र विरुद्धमतिकृद्दुष्टत्वं यद्यपि व्याख्यातं तथापि भक्तिविषये न दोषः । वो युष्माकं भद्राय मङ्गलायास्तु । किंभूतः । भस्मना विभूत्या उद्धूलिता मूर्तिर्यस्य । तथा इन्दुवच्चन्द्र- वद्धवलश्चासौ ज्योतीरसोर्वीधरः स्फटिकशैलस्तस्य स्कन्धः कायः । "स्कन्धः स्यान्नृ- पतावंशे संपरायसमूहयोः। काये तरुप्रकाण्डे च भद्रादौ छन्दसो भिदि ॥' इति धान्तेषु मेदिनिः ।" इति रायमुकुट्याम् । तत्रासक्तो यस्तुषारगौरो हिमधवलो वृषस्तत्रारूढः । पुनः किंभूतः । दुग्धमहाब्धिमध्ये विकसद्यत्पुण्डरीकं सिताम्भोजम् । 'पुण्डरीकं सिता- म्भोजम्' इत्यमरः । तस्योपरि क्रीडन् यो बालमरालो हंसशावस्तद्वन्निर्मला रुचिर्यस्य । अत्र कैलासशैलस्य क्षीराब्धिरुपमानम् । भस्मोद्धूलितमूर्तेर्विभोर्बालमराल उपमानम् ॥ त्राता भीतिभृतां पतिश्चिदचितां क्लेशं सतां शंसतां हन्ता भक्तिमतां मतां स्वसमतां कर्तापकर्तासताम् । देवः सेवकभुक्तिमुक्तिघटनाभूर्भूर्भुवःस्वस्त्रयी- निर्माणस्थितिसंहृतिप्रकटितक्रीडो मृडः पातु वः ॥ ५१ ॥ त्रातेति । एवंविधो मृडः मृडयति सुखयति जगन्निःश्रेयसप्रदानेन मृडः श्रीशिवो वो युष्मान् पातु । भवभयादित्यर्थः । किंभूतः । भीतिभृतां भवरोगभयधारिणां त्राता रक्षि- ता । तथा चिदचितां चेतनाचेतनानां पतिः । तथा सतां स्वात्मनः शिवाभेदप्रथां वि- दुषां शंसतां स्तुवतां क्लेशं मायावरणजं हन्ता । तथा भक्तिमतां वाङ्मनःकायकर्मभिः शिवैकताध्यानं भक्तिस्तद्वतां मतामभिमतां स्वस्य समतां स्वसायुज्यं कर्ता । तथा अस तामज्ञानां श्रीशिवशासनद्वेषिणामपकर्ता हन्ता । तथा देवः सेवकानां भक्तिप्रह्वाणां भु- क्तिर्भोगसंहतिरूपा मुक्तिर्निःश्रेयसमपुनर्जन्मरूपं तयोर्या घटना संप्रदानं तस्या भूः स्था- नम् । आरोपः । भूर्भूलोकश्च भुवो भुवोलोकश्च स्वः स्वर्लोकश्च तानि । एतदुपलक्ष- णम् । तेन महोलोकप्रभृतीनामपि ग्रहणम् । तेषां या निर्माणस्थितिसंहृतयः सर्गस्थि- तिसंहारास्ताभिः प्रकटिता क्रोडा येन सः ॥ कृष्णेन त्रिजगत्प्रसिद्धविजयप्रख्यातिनालोचनं भक्त्या वासवसूनुना कृतवता पादाब्जपूजाविधौ । यस्मादाप्तसुदर्शनेन निखिलं विश्वं विधेयीकृतं कृष्णेनेव स धूर्जटिर्घटयतु श्रेयांसि भूयांसि नः ॥ १२ ॥ कृष्णेनेति । धूर्गङ्गा जटायां मुकुटे यस्य स धूर्जटि: परमेशो भूयांसि बहुतराणि श्रेयांसि ऐहिकामुष्मिकानि शुभानि घटयतु । तत्संघटनां करोत्वित्यर्थः । स कः । यस्मात् श्रीशिवभट्टारकात् आप्तसुदर्शनेन प्राप्तसुदर्शनाख्यचक्रेण [कृष्णेन] देवकीनन्दनेनेव आप्तसुदर्शनेन लब्धशोभनदर्शनेन कृष्णेनार्जुनेन विश्वं जगत् विधेयीकृतं स्वायत्तीकृ तम् । जितमित्यर्थ: । 'कृष्णस्तु केशवे व्यासे वायसे कोकिलेऽर्जुने' इति विश्वः । द्वाव- पि विशिनष्टि-कृष्णेनार्जुनेन कथंभूतेन । त्रिजगति प्रसिद्धा विजय इति प्रख्यातिः प्रसि- द्धिर्यस्य तेन । 'अर्जुनः फाल्गुनो जिष्णुः किरीटी श्वेतवाहनः । बीभत्सुर्विजयः कृष्णः सव्यसाची धनंजयः ॥' इत्यर्जुननाम्नां प्रसिद्धेः । तथा श्रीशिवस्य पादाब्जपूजाविधौ चरणकमलार्चनविधौ आलोचनं नित्यचिन्तनं कृतवता । तथा वासवसूनुना इन्द्रसु- तेन । श्रीकृष्णेनापि कथंभूतेन । त्रिजगत्प्रसिद्धविजयस्य जयशब्दस्य कंसचाणूरादीनां जगद्विध्वंसकराणां विजयात् प्रख्यातिर्यस्य तेन । तथा वासवसूनुना वासवस्येन्द्रस्य सूनुरनुजस्तेन । 'सूनुः पुत्रेऽनुजेऽपि इति विश्वः । पुनः किंभूतेन श्रीकृष्णेन । विभोः श्रीशिवस्य पादाब्जपूजाविधौ चरणकमलार्चनविधौ लोचनं कृतवता दत्तवता । धातूनामनेकार्थत्वात् । तथा चोक्तं महिम्नः स्तवराजे पुष्पदन्तगणाधीशेन–'हरिस्ते साहस्रं कमलबलिमाधाय पदयोर्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् । गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥' इति । अत एव भक्त्युत्कर्षाप्तप्रसादाप्तसुदर्शनेन ॥ श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदारोहिणी ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता । दिश्यादक्षतहस्तमूलघटिताषाढा मघालंकृता श्रेयो वैश्रवणाश्रिता भगवतो नक्षत्रपालीव वः ॥ ५३ ॥ श्रीकण्ठस्येति । श्रीकण्ठस्य श्रोशंभोर्मूर्तिर्वो युष्मभ्यं श्रेयो निःश्रेयसं दिश्यात् ददा- तु । केव । नक्षत्रपालीव नक्षत्राणामश्विन्यादीनां पाली पङ्क्तिरिव । द्वे अपि विशिन- ष्टि — श्रीशिवस्य मूर्तिः किंभूता । सकृत्तिका । कृत्तिर्व्याघ्रचर्मैव कृत्तिका । सह कृत्ति- कया वर्तते या सा । 'व्याघ्रचर्मपरीधानं गजचर्मोत्तरोयकम्' इति श्रीस्वच्छन्दतन्त्रोक्तेः । तथा आर्तानां भवभयातिपीडितानां भरणी पोषिका । तथा सतो भक्तिप्रह्वान्विदुषः आरोहयति स्वपदं प्रापयति तादृशी । तथा ज्येष्ठा । ब्रह्मादिकारणानामप्यादौ सद्भा- वात् । तथा भद्रकारि पदमास्पदं यस्याः सा । तथा पुनरपि च वसुना तेजोरूपेण मह- ता युता । अथवा वसुभिर्देवयोनिभिरष्टाभिर्युता । तथा चित्रा आश्चर्यकारिणी । सूर्या दिधामत्रय्या लोचनत्रयीगतत्वादिनेत्यर्थः । तथा विशाखेन कुमारेणान्विता । 'विशाखः शिखिवाहनः' इत्यमरः । तथा अक्षते अनाहते हस्तमूले करतले घटितो मिलित आषाढ: पालाशो दण्डो यस्याः सा । 'पालाशो दण्ड आषाढः' इत्यमरः । मघेन सौ- ख्येन महता महिम्ना वा अलंकृता भूषिता । तथा वैश्रवणेन धनदेन स्वसख्या आ श्रिता । नक्षत्रपङ्क्तिरपि किंभूता । सकृत्तिका सह कृत्तिकया कृत्तिकाख्येनाग्निदेवतेना- न्विता । तथा आर्तभरणी । आ ईषत् अर्थादेकदेशेन ऋता गता भरणी याम्यं यस्यां सा। 'आत्तभरणी' इति पाठे आत्ता गृहीता भरणी नाम तारा यया सा इति नक्षत्र- पालीविशेषणम् । शिवमूर्तिपक्षे तु आत्ता भक्तत्वेन स्वीकृताः तान्बिभर्ति पोषयतीति । तथा सदारोहिणी सदा नित्यमेव निकटस्था रोहिणी प्राजापत्यभं यस्याः । ज्येष्ठया भद्र- पदाभ्यां पूर्वोत्तरभद्रपदाभ्यां पुनर्वसुना च नक्षत्रविशेषेण युता । तथा चित्रया विशाख- या चान्विता युक्ता । तथा वै निश्चये प्रसिद्धौ वा । श्रवणेन विष्णुदैवतर्क्षेणाश्रिता भव- ति । एतद्द्वृत्तार्थाभिप्रायेण मदीयमप्येकं वृत्तम् – 'आर्द्रा कृपामृतरसेन सकृत्तिका षा (?) शिवस्य समघा सविशाखपार्श्वा । आश्चर्यमात्तभरणी च जगत्रयस्य क्रूरपङ्क्ति- रिव मङ्गलमातनोति ॥' इति ॥ भिन्द्धि क्ष्माधरसंधिबन्धमुदधेरम्भोभरं जृम्भय क्षुन्द्धि क्ष्मापटलं दलत्फणिफणापीठीलुठत्सौष्ठवम् । पिण्ड्ढि प्रौढचपेटपाटितरटत्ताराकुटुम्बं नभः प्रारब्धोद्धतसांध्यताण्डव इति श्रीभैरवः पातु वः ॥ १४ ॥ भिन्द्धीति । 'क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः' इत्यनुवर्त्य 'समु च्चयेऽन्यतरस्याम्' इति सूत्रेण स्यस्तनीप्रथमैकवचने हिआदेशः । तेन भिन्द्धि अभि- दत् । एवमग्रेऽपि । श्रीभैरवः । प्रागुक्तमस्य निर्वचनम् । श्रीशिवभट्टारको वो युष्मान् पातु रक्षतु । समस्तविघ्नेभ्य इति । किमित्याह – भिन्द्धि क्ष्माधरेत्यादि । श्रीभैरवः क्ष्माधरसंधिबन्धं भिन्द्धि अभिदत् । तथा श्रीभैरवः उदधेः समुद्रस्याम्भोभरं जलौघं जृ- म्भय अजजृम्भत् । उद्धते नाट्ये भुजविक्षेपेणेत्यर्थः । तथा श्रीभैरवः क्षमापटलं भूवलयं क्षुद्धि अक्षुदत् । किंभूतं क्षमापटलम् । दलन्त्यो याः फणिनः शेषनागस्य फणाः । चरणविन्यासभरेणेत्यर्थः । ता एव पीठो तया लुठत्सौष्ठवं प्रागल्भ्यं यत्र तत् । तथा प्रौढा ये चपेटा इस्ततलाघातास्तै: पाटितं रटन्नि:स्वनत् ताराणां कुटुम्बं समूहो यस्य तत् । तादृशं नभो व्योम पिण्ड्ढि आपिषत् । इत्थमनेन प्रकारेण प्रारब्धमुद्धतं सांध्यं संध्यासमयभवं ताण्डवं नाट्यं येन सः ॥ भूत्यै वोऽस्तु विडम्बितरिमतरुतं मूर्धोद्धृतस्वर्धुनी- निध्वानध्वनदाननैरभिनये भूषाकपालैः प्रभोः । त्वङ्गत्तुम्बुरुनारदाहतनदद्गम्भीरभेरीरव- व्यावल्गद्गुहवाहबर्हिविहितक्रीडानुकारं वपुः ॥ ५५ ॥ भूत्यै वोऽस्त्विति । प्रभोर्जगत्प्रभोः परमेश्वरस्य वपुः अभिनये संध्यायां नाट्यसमये वो युष्माकं भूत्यै विभूतये मोक्षसंपत्त्यै अस्तु । किंभूतम् । विडम्बितस्मितरुतम् । विड- म्बितमुपमितं स्मितरुतं अत्र योग्यतयां स्मितमट्टहासस्तद्रुतं हासशब्दो यस्य तत् । कैः । मूर्ध्ना उद्धृता चासौ स्वर्धुनो गङ्गा तस्या निध्वानं शब्दस्तेन ध्वनन्ति आननानि मुखानि येषां तैर्भूषाकपालैः भूषार्थे ब्रह्मादिकपालानि तैः । पुनश्च किंभूतं वपुः । त्वङ्गन्तौ नाट्य- रङ्गे भ्रमन्तौ यौ तुम्बरुनारदावृषी ताभ्यामाहता वादिता सती नदन्तो चासौ भेरी तस्या रवस्तेन व्यावल्गन् हर्षान्नृत्यन् यो गुहवाहबर्ही कुमारवाहनमयूरस्तेन विहितः क्रीडानुकारः [क्रोडासादृश्यकारि] क्रीडासाम्यं यस्य तद्विभोर्वपुः ॥ आदौ पादतले कृतस्थितिर[^१]थो प्राप्तः करालम्बनं वाल्लभ्यं शुभदृङ्निवेशनवशोत्पन्नं प्रपन्नस्ततः । अन्ते येन शि[^२]रोधिरोपणमहामाहात्म्यमाप्तो विधु- र्भूत्यै स क्रमवर्धमानमहिमा स्वामिप्रसादोऽस्तु व ॥ ५६ ॥ आदौ पादतल इति । क्रमेण वर्धमानो महिमा यस्य स स्वामिप्रसादः श्रीशंकरा नुग्रहो वो युष्माकं भूत्यै मोक्षसंपदे अस्तु । स क इत्याह – येन श्रीशिवप्रसादेन हेतुना विधुश्चन्द्र आदौ पादतले चरणतले कृतस्थितिः सेवार्थमासीत् । ततोऽनन्तरं करालम्बनं करस्यालम्बनं कर एव वालम्बनमाधारस्तम् । 'देवं सुधाकलशसोम-' इति [^१]. 'अथ' इति ख- पाठ: . [^२]. 'शिरोधिरोहण' इति ख- पाठः . ध्यानमागमोक्तम् । चन्द्रस्यापि द्वादश मूर्तिभेदा द्वादशमासेषु वेदप्रसिद्धाः । ततोऽन- न्तरं शुभा या दृक् स्वनेत्रं तत्र यन्निवेशनं तद्वशेनोत्पन्नं वाल्लभ्यं स्वामिप्रियत्वं तत्प्रपन्नः प्राप्तः । अन्ते परां कोटिमारूढे वाल्लभ्ये येन शिवप्रसादेन हेतुना शिरोधिरोपणं स्वामि- शिरोधिरोपणमेव महामाहात्म्यमनिर्वाच्यं माहात्म्यं विधुश्चन्द्रः प्राप्तः । अनेन सर्वदा वाङ्मनःकायविरचितस्वामिभक्त्याप्तपरमप्रसादमहिम्ना विभूत्यष्टकमणिमादिकं हस्तत- लगतमेव भवतीति भावः ॥ यस्यैकस्य सुवर्णसंभृतपदन्यासानवद्यक्रम- व्यक्तिः प्रेङ्खति गौरनर्गलगतिस्वाच्छन्द्यहृद्याकृतिः । प्रख्याताद्भुतसर्गबन्धरचनासंरब्धिरोजस्विनः काव्यस्योदयभूरसौ भवतु वः प्रीत्यै पुराणः कविः ॥ १७ ॥ यस्यैकस्येति । असौ पुराण: सनातनः कविः सूरिरनादिबोधः परमेशो वो युष्माकं प्रीत्यै परमानन्दाय भवतु । किंभूतः । ओजस्विनस्तेजस्विवरस्य काव्यस्योशनसः उदय- भूरुत्पत्तिस्थानम् । 'शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः' इत्यमरः । रुद्रस्याङ्ग- विक्षेपेण निर्गतत्वाच्छुक्रस्येति क्षीरस्वामी । प्रख्यातेति । प्रकर्षेण ख्याता प्रसिद्धा सर्गस्य सृष्टेर्बन्धस्तस्य रचना तस्याः संरब्धिर्यस्य सः । अतिप्रसिद्धब्रह्माण्डस्तम्बपर्यन्तं सृष्टिरचनासंरम्भ इत्यर्थः । असौ क इत्याह – यस्यैकस्येति । यस्य परमेश्वरस्य एकस्या- द्वितीयस्य गौर्वृषभो वाहनं प्रेङ्खति सर्वत्रोल्लसति । किंभूतो गौः । सुवर्णेन कनकेन सम्य- ग्भृतो यः पदानां चरणानां न्यासस्तेनानवद्या क्रमव्यक्तिश्चरणविक्षेपव्यक्तिर्यस्य । यत्र यत्र श्रीशंभुवाहनवृषश्चरति तत्र तत्र तच्चरणेभ्यो जाम्बूनदं पततीत्यागमः । पुनः किं भूतः । अनर्गला निर्निरोधा गतिस्तस्याः स्वाच्छन्द्यं स्वाधीनता तेन हृद्या हृदयप्रिया आकृतिर्यस्य सः । अथ च असौ पुराणो वृद्धः कविः कविता प्रीत्यै वोऽस्तु । असौ क इत्याह – यस्य वृद्धकवेर्गौर्वाणी प्रेङ्खति सततमुल्लसति । किंभूता । शोभना निजनिजर- सानुकूला ये वर्णा अक्षराणि तैः संभृतः पदानां सुप्तिङन्तानां न्यासो यस्याः सा । तथा अनवद्या निर्दोषा क्रमस्य परिपाट्या व्यक्तिर्यस्याः सा । दुष्क्रमस्य दुष्टत्वात् । पुनः किंभूता । अद्भुता आश्चर्यकारिणी सर्गबन्धस्य रचनायाः संरब्धिराटोपो यस्याः सा । 'सर्गबन्धो महाकाव्यम्' इत्युक्तेः । तथा ओजस्विन ओजोगुणयुक्तस्य काव्यस्य निपुण- कविकर्मण उदयभूरुत्पत्तिस्थानम् ॥ राकेन्दोरपि सुन्दराणि हृदयग्राहीणि बालाङ्गना- मुग्धालापकथामृतादपि परं हारीणि हारादपि । अप्युत्तालशिखालबालवचसः संपूर्णकर्णामृत- स्यन्दीनि त्रिजगद्गुरोः स्तुतिकथासूक्तानि पुष्णन्तु वः ॥ ५८ ॥ राकेन्दोरिति । त्रिजगद्गुरोः परमेश्वरस्य स्तुतीनां कथाः । 'प्रबन्धकल्पना कथा' इत्य- मरः । तासु यानि सूक्तानि शोभनान्युक्तानि वचनानि तानि वो युष्मान् पुष्णन्तु शि- वैकतामृतरसेन वर्धयन्तु । किंभूतानि । सुन्दराणि । कस्मादपि । राकेन्दोः पूर्णिमाच- न्द्रादपि । अर्थादमृतस्यन्दीनि च । तथा षोडशहायनावधि बाला या अङ्गना कामिनी तस्या या मधुरा आलापकथा: सूक्तानि ता एवामृतं तस्मादपि हृदयग्राहीणि हृद्यानि तथा हारादपि मुक्ताहारादपि हारीणि मनोहराणि । तथा उत्तालं चतुरं यत् शिखाल- बालस्य चूडालबालस्य वचस्तस्मादपि संपूर्णं यत्कर्णामृतं तत्स्यन्दीनि ॥ शाणोल्लीढनवेन्द्रनीलमहसि श्रीकण्ठकण्ठस्थले संसक्ता कनकच्छविर्गिरिसुतादोःकन्दली पातु वः । यामालोक्य सनीरनीरददलश्लिष्यत्तडिद्विभ्रम- भ्रान्त्या नोज्झति चण्डताण्डवनवोल्लेखं शिखी षाण्मुखः ॥१९॥ शाणोल्लीढेति । श्रीकण्ठस्य श्रीशंभोः कण्ठस्थले संसक्ता गिरिसुतादोःकन्दली पार्व- तीभुजलता वो युष्मान् पातु रक्षतु । भवभयादिति शेषः । किंभूते श्रीकण्ठकण्ठस्थले । शाणेन निकषोपलेनोल्लीढं नवं यदिन्द्रनीलं मणिविशेषस्तस्येव महस्तेजो यस्य तत् ता- दृशे । दोःकन्दली किंभूता । कनकस्येव च्छविः शोभा यस्याः सा । सा केत्याह - यां दोः कन्दलीमालोक्य षण्मुखस्य कुमारस्यायं षाण्मुखः शिखी कुमारवाहनमयूरश्चण्डता- ण्डवनवोल्लेखं चण्डमुद्धतं यत्ताण्डवम् । ताण्डिर्नृत्यशास्त्रम्, तदस्यास्तीति । 'अन्येभ्यो- sपि दृश्यते इति वः । पृषोदरादित्वादिकारस्याकारः ताण्डवमिति रायमुकुट्याम् । तण्डुना नन्दिकेश्वरेण प्रोक्तमिति तु स्वामी । 'ताण्डवं नटनं नाट्यम्' इत्यमरः । उद्धतं यन्नट्यं तस्य नवोल्लेखं नोज्झति । सनीरेत्यादि । सनीरो यो नीरदो मेघः । अतिश्यामल इत्यर्थः । तस्य दलेन खण्डेन श्लिष्यते या तडित्तस्या विभ्रमो विलासस्तस्य भ्रान्त्या ॥ यत्सर्गाभरणायमानवपुषः केचित्ककुप्कामिनी- कर्णालंकरणायमानयशसः स्वर्गायमाणश्रियः । दुष्कालानलसन्नसज्जनसुधावर्षायमाणोक्तयः प्रेक्ष्यन्ते महिमा स यस्य कुरुतां शार्वः स्तवः शं स वः ॥ ६०॥ यत्सर्गेति । एवंभूताः केचित् ........ । शर्वसंबन्धी स्तवो वो युष्माकं शं सुखं ऐहिकामुष्मिकरूपं कुरुताम् । कीदृशाः प्रेक्ष्यन्त इत्याह - सर्गस्य जगत्सृष्टेराभरणाय- मानं आभरणवदाचरतीति तादृशं वपुर्येषाम् । तथा ककुभो दश दिश: । 'दिशस्तु ककुभः काष्ठाः' इत्यमरः । ता एव कामिन्यः तासां कर्णालंकरणायमानं कर्णावतंसा- यमानं यशः कीर्तिर्येषां ते । तथा स्वर्गीयमाणा स्वर्गवदाचरमाणा श्रीर्येषाम् । तथा दुष्कालो वर्तमानस्तुरीययुगसमयः स एवानलस्तेन सन्नाः खेदिता ये सज्जना विद्वज्ज- नास्तेषां सुधावर्षायमाणा अमृतायमाना उक्तयः सूक्तयो येषाम् । अत्रायं संक्षेपार्थ:- अनिर्वाच्यवदान्यतया त्रिजगद्व्यापियशसो लक्ष्मोवन्तः कविवराश्च यल्लोके दृश्यन्ते स महिमा परमेश्वरस्तवस्यैवेत्यर्थः । अतः सर्वथा वाङ्मनः कायैस्तदेकताध्यानेन श्रीशिवभ- क्तिपरैरेव भाव्यमित्यर्थः ॥ इति श्रीशारदाचरणसरोजरजःकणपवित्रस्थलवास्तव्यविपश्चिद्वरराजानकशंकरकण्ठात्मजराजानकरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ आशीर्वादाख्यं तृतीयं स्तोत्रम् । चतुर्थं स्तोत्रम् । अथातः श्रीपरमशिवेन निष्कलनाथेन स्वतन्त्रेण स्वेच्छया सकलमूर्तिना शिवभक्तमुख्यं हरिं प्रेम्णा निजशरीरार्धप्रदानेनानुगृह्णता अर्धनारीश्वरवदद्भुतं हरिहररूपं यद्व्यधायि तदेव मङ्गलाष्टकाख्ये चतुर्थस्तोत्रे संगृह्णन्नाह श्रीकम्बुकौस्तुभसुधांशुविषामृतानां सौदर्यसौहृदसुखानुभवैकधाम । यत्सत्यधर्मकृतनिष्प्रतिघप्रतिष्ठं तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ १ ॥ श्रीकम्बुकौस्तुभेति । तत् हारिहरं हरिहरसंबन्धि वपुर्वो मङ्गलं निःश्रेयसरूपं दिशतु वितरतु । तत्किमित्याह – श्रीकम्ब्वित्यादि । श्रयति हरिं श्रीः हरिप्रिया । "कम्बति गच्छति जलान्तः । 'जत्र्वादयश्च' इति निपातनात्कम्बुः" इति रायमुकुटः । 'काम्यते मङ्गलेष्विति कम्बुः' इति स्वामी । कम्बुरत्र सुदर्शनाख्य: ( पाञ्चजन्याख्यः) । कुं भूमिं स्तुभ्नाति व्याप्नोति कुस्तुभोऽब्धिः । ततो जातः कौस्तुभो मणिविशेषः । सुधांशुश्चन्द्रः । विषं कालकूटाख्यो विषभेदः । अमृतं पीयूषम् । तेषाम् । अत्र कस्मिन् हर्यर्धभागे श्रीकम्बुकौस्तुभानां पार्श्वकरवक्षःस्थलेषु निवासः । अपरत्र हरार्धभागे सुधांशुविषामृतानां मुकुटगलकरतलेषु निवासः । यद्वपुर्लक्ष्मीप्रभृतीनां सौदर्यसौहृदसुखानुभवैकधाम भवति । सोदरस्य भावः सौदर्यम् । समानमुदरं यस्य स सोदरः । सोदरशब्दोऽपि भ्रातृवाचकः । 'अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति' इति लक्ष्यदर्शनात् । सौदर्येण सहोदरभावेन एकस्मादेव क्षीराब्धेर्जातत्वात् यत्सौहृदं तेन यत्सुखं तस्य योऽनुभवः परस्परं ........ तदेकस्थानम् । किंभूतम् । सत्यधर्मेति । सत्यो गरुड: । 'सत्यस्तु गरुडे चैव' इति कोषः । धर्मो वृषः तयोः कृता निष्प्रतिघा प्रतिष्ठा येन तत् । हरिपक्षे गरुडो वाहनम् । श्रीशिवपक्षे वृष इत्यर्थः । अथ कदाचित्सहोदराणामपि उपरिमध्याधोनिवसनेन परस्परं विरोधोऽपि संभवतीति तत्परिहारार्थं शब्दश्लेषेणाप्याह- सत्यध. र्मेति । सत्यधर्मे तथ्यन्याये कृताप्रतिहतप्रतिष्ठम् । यच्च राज्यमेत्तादृग्भवति तत्र लक्ष्मी४ स्तोत्रम्] प्रभृतीनां ……। विषामृतयोः सहोदरत्वेऽप्यतिविनीतत्वात्परस्परं विरोधाभाव इति भावः ॥ आपीडबन्धनविधौ शयने च वर्ष्म पर्याप्तभोगविभवं बहुमन्यमानः । यत्र प्रहृष्यतितरामुरगाधिराज- स्तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ २ ॥ आपीडेति । तत् हारिहरं वपुर्वो मङ्गलं दिशतु । तत्किमित्याह – यत्र वपुषि उरगा- धिराजः शेषनागः प्रकर्षेण हृष्यति । किंभूतः । वर्ष्म निजदेहं बहुमन्यमानः धन्यं मन्यमानः । कुत्र । एकत्र हरार्धभागे आपीडस्य मौलेर्जटाजूटस्य बन्धनविधौ । अन्यत्र हर्यर्धभागे शयने शय्यायाम् । शेषशायीति प्रसिद्धत्वात् । किंभूतं वर्ष्म । पर्याप्तो भोगस्य फणिकायस्य विभवो भोगानां च विभवो यस्मिन् ॥ अर्धं यदुत्पलदलैरुमयेन्दुगौर- मर्धं श्रियार्चितमलिद्युति मालतीभिः । विच्छित्तिमेत्यनिमिषेक्षणशुक्तिपेयां तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ३ ॥ अर्धं यदिति । तत् हारिहरं वपुर्वो मङ्गलं दिशतु । तत्किमित्याह – यत् अर्धं हरस्य इन्दुगौरं शीतांशुशुभ्रं उत्पलदलैः कुवलयदलैः । 'स्यादुत्पलं कुवलयम्' इत्यमरः । उमया पार्वत्यार्चितं विच्छित्तिं परमां शोभामुपैति । सितं वस्तु नीलेन सहातिशोभत इत्यर्थः । तथा अलिद्युति अलिवद्भ्रमरवद्द्युतिः शोभा यस्य तत् अर्धं हर्यर्धं श्रिया लक्ष्म्या मालतीभिर्जातीभिरर्चितं सत् विच्छित्तिमुपैति । कृष्णं वस्तु श्वेतेन सहातीव विराजते । किंभूतां विच्छित्तिम् । अनिमिषेत्यादि । अनिमिषाणां देवानाम् । 'अनिमिषा मत्स्याः सुराः' इति मङ्खः । यानीक्षणानि नेत्राणि तान्येव शुक्तयः पानपात्राणि ताभिः पेयाम् । यद्वा अविद्यमानो निमिषो निमेषो येषां तान्य- निमिषाणि तानि च तानीक्षणानि तान्येव शुक्तयस्ताभिः पेयाम् । अत्यन्तं दर्शनीया- मित्यर्थः । निमेषरहितानां नेत्राणामेव शुक्त्यारोपः संगच्छते, न तु सनिमेषाणाम् । मधुचषकतुल्ये अस्या नयने इति हि लोके प्रसिद्धम् । तस्मादनिमिषेक्षणान्येव शुक्तय इति विग्रहः पुष्कलः (?) । देवा अपि निमेषरहिता एव स्वभावात् । अतो देवानां नेत्राण्यपि शुक्तितुल्यान्येव । अतोऽनिमिषाणामीक्षणानीत्यपि विग्रहः साधुरेव ॥ केशाश्रिता नयनवह्निशिखाभ्रसिन्धु- झांकारगर्भवपुषो जलदा वहन्ति । यत्राद्भुतं स्थिरतडिद्रसितप्रसङ्गं तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ४ ॥ केशाश्रिता इति । तत् हारिहरं वपुर्वो मङ्गलं श्रेयो दिशतु । तत्किमित्याह - यत्र वपुषि हर्यर्धभागे केशाश्रिता जलदा मेघाः । 'यस्य केशेषु जीमूताः' इति स्मृत्युक्तेः । अद्भुतमाश्चर्यकारिणं स्थिरा या तडित् क्षणप्रभा तस्या रसितस्य शब्दस्य प्रसङ्गं प्रकर्षेण सङ्गं वहन्ति । प्रथमतस्तडित् स्थिरैव न भवति । तस्याः पुनरपि रसितं च स्थिरं न भवति । अत आश्चर्यम् । पुनर्जलदाः किंभूताः । नयनेत्यादि । नयने तृतीये नेत्रे या वह्निशिखा अग्निज्वालाः, तथा अभ्रसिन्धोर्गङ्गायाश्च यो झांकारस्तरङ्गनिर्ह्रादः स च गर्भे यस्य तत्तादृशं वपुर्येषाम् । अत्र हरार्धभागे वह्निशिखागङ्गातरङ्गनिर्ह्रादः ॥ हीनार्धनाभिनलिनालयसंकटत्व- सातङ्कसंकुचितवृत्तिकदर्थिताङ्गः । अर्धीचिकीर्षति तनुं द्रुहिणोऽपि यत्र तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ५ ॥ हीनार्धनाभीति । तत् हारिहरं वपुर्वो मङ्गलं निःश्रेयसं दिशतु । तत्किमित्याह- द्रुह्यते परेभ्यो द्रुहिणो ब्रह्मापि यत्र वपुषि तनुं स्वकलेवरमर्धीचिकीर्षति । अर्धं कर्तु- मिच्छति । अत्र हेतुमाह - पद्मनाभार्धे इत्यर्थात् । हीनार्धेति नाभ्या अर्धमर्धनाभि । तत्र हीनो यो नलिनालयः पद्मगृहं तत्र संकटत्वमविस्तृतत्वं तेन सातङ्कं सखेदं संकु- चितवृत्त्या अङ्गसंकोचनस्थित्या कदर्थितानि पीडितान्यङ्गानि यस्य सः ॥ दृग्वर्तिनौ रवितमीरमणावखण्ड- मूर्ती निजं च वपुरर्धमवेत्य वह्निः । यत्राधिकं ज्वलति लाघवमागतोऽपि तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ६ ॥ [^१]दृग्वर्तिनाविति । तत् हारिहरं वपुर्वो मङ्गलं दिशतु । तत्किमित्याह – यत्र वह्निर- ग्निस्तृतीयनयनस्थोऽधिकं ज्वलति । क्रुधेति शेषः । किंभूतोऽपि । लाघवं लघुत्वमागतो- ऽपि । स्वस्याप्यर्धीकरणादित्यर्थः । तत्राधिकज्वलने हेतुमाह - रवितमीरमणौ सूर्य- चन्द्रौ अखण्डमूर्ती अखण्डितदेहावेव दृग्वर्तिनौ दक्षिणवामनयनस्थौ दृष्ट्वा स्वं च वपुरर्धं खण्डितमवेत्य ज्ञात्वा । अत्र हरेर्हरस्य च दक्षिणवामनयनस्थौ सूर्यचन्द्रावित्यागमप्रसिद्ध्या हरिहरवपुषि सामान्यं तयोस्तत्राखण्डितमूर्तित्वम् । अग्नेस्तु हरस्यैव तृतीयनयनस्थत्वादर्धीकरणमित्यर्थः ॥ [^१]. ख पुस्तके षष्ठसप्तमश्कयोर्व्यत्ययः. स्तुतिकुसुमाञ्जलिः । यस्मिन्गुणी सहृदयः सफलः समूलः स्वातन्त्र्यधामनि करात्पतितः स पद्मः । कम्बुः स्थितस्तु धृततद्विपरीतरीति- स्तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ७ ॥ यस्मिन्निति । तत् हारिहरं वपुर्वो युष्मभ्यं मङ्गलं भद्रं दिशतु । तत्किम् । यस्मिन् हरिहरवपुषि हरार्धभागे स प्रसिद्धः पद्मः करात्पतितः न धृतः । दूरीकृत इत्यर्थः । पद्यते लक्ष्मीरत्रेति पद्मः । 'पद गतौ' । किंभूतः पद्मः । गुणास्तन्तवः गुणाः सौन्दर्यविद्वत्ता- दयश्च यस्य । पुनः किंभूतः । सहृदयः सह हृदयेन कर्णिकारूपेण वर्तते यः । सहृदयो हृदयालुश्च । 'हृदयालुः सहृदयः' इत्यमरः । तथा सफलः सह फलैः पद्माक्षैर्वर्तते योऽसौ सफलः । सार्थकञ्च । तथा समूलः सह मूलेन शालूकेन वर्तते यः । समूलकारणश्च । अत्र हेतुमाह - वपुषि किंभूते । स्वातन्त्र्यधामनि स्वतन्त्रतास्थाने । 'न खलु परतन्त्राः प्रभुधियः' इति स्तोत्रराजोक्तेः । शब्दश्लेषः । गुणिनः सहृदयस्य सार्थकस्य समूलका- रणस्य च जनस्य दूरीकरणे , यत्स्वातन्त्र्यमेव प्रभूणां प्रसिद्धमित्यर्थः । तथा यस्मिन्व- पुषि हर्यर्धे तद्विपरीतरीतिः । ततः पद्माद्विपरीतरीतिः कम्बुः शङ्खः पाञ्चजन्यः । अगुणः अहृदयः अफलः निर्मूलश्च यच्छस्तत्र स्थितस्तत्रापि स्वातन्त्र्यधामनीति हेतुः ॥ पादाग्रनिर्गतमवारितमेव वारि यत्राधिरोहति शिरस्त्रिदशापगायाः । अत्यद्भुतं च रुचिरं च निरङ्कुशं च तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ८ ॥ पादाग्रनिर्गतमिति । अत्यद्भुतं महाश्चर्यकारि रुचिरमतिरम्यं निरङ्कुशं स्वतन्त्रं च तत् हारिहरं वपुर्वो मङ्गलं श्रेयो दिशतु । तत्किमित्याह - यद्वपुषि हरार्धे त्रिदशापाया गङ्गाया वारि जलं शिरोऽधिरोहति । गङ्गाधर इति विभुनाम प्रसिद्धमित्यर्थः । किंभूतं गङ्गाया वारि । अवारितं निर्निरोधम् । पुनः किंभूतम् । हर्यर्धभागे पादाग्रान्निर्गतम् । गङ्गा विष्णुपदी जह्नुतनया इति प्रसिद्धेविष्णुपादाग्रनिर्गतत्वात्तस्याः । अत्राद्भुतत्वं वा- रिण ऊर्ध्वगमनात् । जलस्य हि निम्नाधोगामित्वं प्रसिद्धम् । गङ्गाया ईदृग्वारिधारणा- द्वपुषोऽद्भुतत्वम् । तथा रुचिरत्वं सितकरकरधवलस्वर्गङ्गाधारणात् । निरङ्कुशत्वं स्वत- न्त्रत्वं च पादाधः स्थस्य वारिणः शिरस्यारोपणादिति भावः ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरकमहाकविश्रोजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ मङ्गलाष्टकं नाम चतुर्थं स्तोत्रम् । पञ्चमं स्तोत्रम् । अथातः कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रं वर्णयन्नाह आपन्नतापहरणप्रवणा घृणेव त्वङ्गत्तरङ्गसुभगा गगनापगेव । पीयूंषसारशिशिरा शशभृत्कलेव वाणी शिवैकशरणा जयतीश्वरीव ॥ १ ॥ आपन्नतापेति । अत्रोपमानीकृतासु घृणादिषु सर्वत्र शिवैकशरणा इति संबन्धः । शिव एवैकः शरणं स्थानं रक्षिता वा यस्याः । 'शरणं गृहराक्षत्रोः' इत्यमरः । ईदृशी वाणी अर्थात्कवेर्जयति सर्वोत्कृष्टा भवति । धातोरनेकार्थत्वाज्जयतिरत्र धातुः सर्वोत्कृ- ष्टार्थे । शिंवैकशरणा वाणी कीदृशी। आपन्नतापहरणप्रवणा आपन्नानां जन्मजरामरणातु- राणां ताप आध्यात्मिकाधिदैविकाधिभौतिकभेदेन त्रिविधः । तस्य हरणं तत्र प्रवणा लग्ना । केव । शिवैकशरणा घृणेव । श्रीशंभुकृपापि तादृशी । तथा वाणी कीदृशी । त्वङ्ग- दित्यादि । त्वङ्गन्त उल्लसन्तो ये तरङ्गास्तद्वत्सुभगा रम्या । केव । गगनापगेव स्वर्गङ्गेव । सापि त्वङ्गन्त उल्लसन्तो ये तरङ्गास्तैः सुभगा रम्या शिवैकशरणा च । पुनः किंभूता वाणी । पीयूषसारशिशिरा पीयूषस्यामृतस्य यः सारो दध्न इव शरः तद्वच्छिशिरातिशी- तला । केव । शशभृत्कलेव चन्द्रकलेव । सापि पीयूषसारेण शिशिरा शिवैकशरणा च भवति । पुनः कीदृशी । शिवैकशरणा शिव एवैकं शरणं स्थानं यस्याः सा । केव । ई- श्वरी पार्वतीव । ईष्टे ईश्वरी । 'अश्नोतेराशुकर्मणि वरट् च । टित्त्वात् ङीप् । ईश्वरी ।' इति स्वामी । सापि शिवैकशरणा भवति ॥ यो मूर्धनि स्रजमिवोद्वहते धरित्री- मुष्णीषतां श्रयति यस्य स भोगिराजः । यस्यामसौ वसति वाक्पतिरुक्तिदेवीं तां ये वहन्ति हृदि ते कवयो जयन्ति ॥ २ ॥ यो मूर्धनीति । ते कवयो निपुणाः कविकर्मकर्तारो जयन्ति सर्वोत्कृष्टा भवन्ति । अत्र हेतुमाह—मूर्धनीत्यादि । ये कवयस्तां वाग्देवीम् । अपिशब्दस्त्वार्थः । तामपि सर्वोत्कृष्टामित्यर्थः । हृदि चेतसिं वहन्ति धारयन्ति । तां कामित्याह - असौ वाक्प- तिर्वाचां परापश्यन्तीमध्यमावैखरीभेदेन चतुर्विधानां पतिः परमात्मा परमशिवो यस्यां वाग्देव्यां निजशक्तिस्वरूपायं वसति अन्तरुल्लसति । परनादस्वरूपेणेत्यर्थः । असौ श्रीशिवभट्टारकः । कः । यस्य शंभोरुष्णीषतां शिरोवेष्टनतां स भोगिराजः शेषनागः श्रयाति, यो धरित्रीं भूमिं पश्चाशत्कोटिविस्तारामपि मूर्धनि शिरसि स्रजं मालामिव निरायास- मुद्वहति धारयाति ॥ धन्याः शुचीनि सुरभीणि गुणोम्भितानि वाग्वीरुधः स्ववदनोपवनोद्गतायाः । उच्चित्य सूक्तिकुसुमानि सतां विविक्त- वर्णानि कर्णपुलिनेष्ववतंसयन्ति ॥ ३ ॥ धन्या इति । धन्या भाग्यवन्तः । कवय इति शेषः । शुचीनि पदार्थदोषरहितानि निर्मलानि पवित्राणि च । सुरभीणि शंभुभक्तिरसामृतामोदसुगन्धीनि । तथा गुणैर्मा- धुर्यौजःप्रसादाख्यैस्त्रिभिः । पक्षे गुणैस्तन्तुभिरुम्भितानि ग्रथितानि । तथा विविक्तव- र्णानि । 'विविक्तौ पूतविजनौ' इत्यमरः । विविक्ताः शुद्धा वर्णा अक्षराणि । पक्षे विविक्तः शुद्धो वर्णः श्वेतपीतादिर्येषां तानि सूक्तिकुसुमानि शोभनोक्तिप्रसूनानि । स्ववदनेति । स्ववदनमेवोपवनं तस्मादुद्गताया उत्पन्नाया वाग्वीरुधः वाग्वाण्येव वीरुल्लता तस्याः प्रागुक्तविशेषणानि सूक्तिकुसुमान्युञ्चित्य सूक्तिकुसुमावचयं कृत्वा सतां विदुषां सहृद- यानां कर्णपुलिनेषु कर्णतटेष्ववतंसयन्त्यवतंसीकुर्वन्ति । ते धन्या इत्यर्थः ॥ श्रोत्राण्यनर्गलगलन्मधुबिन्दुगर्भ- संदर्भसुन्दरपदोपचितैर्वचोभिः । धन्याः सतां सुकवयः सुखयन्ति तेऽपि तेषामकृत्रिमचमत्कृतिसाधुवादैः ॥ ४ ॥ श्रोत्राणीति । शोभनाश्च ते कवयो महाकवयो धन्या भाग्यवन्तः सतां विदुषां सहृदयानां श्रोत्राणि सुखयन्ति । श्रोत्रसुखं वितरन्तीत्यर्थः । कैः । वचोभिः सूक्तैः । किंभूतैः। अनर्गलमव्युच्छिन्नं गलन्तो ये मधुबिन्दवः । 'मधु क्षौद्रे जले क्षीरे मद्ये पुष्परसे मधु' इति विश्वः । ते गर्भे यस्य स तादृशश्चासौ संदर्भो ग्रन्थस्तत्र यानि सुन्दराणि रम्याणि निर्दोषाणि च पदानि सुप्तिङन्तानि तैरुपचितानि तादृशैः । एता- दृशैर्वचोभिः सतां कियदुपकुर्वन्तीत्यर्थः । तेऽपीत्याह- तेऽपि सन्तोऽपि विद्वांसोऽपि सहृदयास्तेषां कवीनां श्रोत्राणि कर्णान्सुखयन्ति । अकृत्रिमेत्यादि । सहजचमत्कार- पूर्वकप्रशंसावचनैस्ते सन्तोऽपि तान्प्रत्युपकुर्वन्तीत्यर्थः ॥ ते केचिदस्खलितबन्धनवप्रबन्ध- संधान [^१]बन्धुरगिरः कवयो जयन्ति । येषामचर्वितरसापि चमत्करोति कर्णे कृतैव भणितिर्मधुरा सुधेव ॥ ५ ॥ ते केचिदिति । अस्खलितो बन्धः क्रमो रचना च येषां तादृशा ये नवा अपूर्वाः [^१]. 'बन्धुरधियः' इति ख-पाठः. प्रबन्धाः साहित्योक्तयस्तेषां संघाने बन्धने बन्धुरा रम्या गीर्वाणी येषां ते कवयो जयन्ति सर्वोत्कृष्टा भवन्ति । ते के इत्याह - येषां मधुरा हृद्या भणितिरुपचारवक्रलक्ष्यव्यङ्गथार्थसंनिबद्धोक्तिः कर्णे कृतैव श्रुतमात्रैव चमत्करोति । किंभूता । आचर्वितो न सम्यगास्वादितो रसो यस्याः सा । केव । सुधेव । यथा सुधाया रसनाग्रस्पर्शमात्रेणापि च मत्कारस्तथा महाकविप्रौढोक्त्येत्यर्थः । एतद्वृत्ताभिप्रायेण कविकाव्यप्रशंसाप्रसङ्गे ममापीदं वृत्तद्वयम् –'एकः श्लोकवरो रसौघमधुरो हृद्यः सतां सत्कवेर्नैवेष्टः कुकवेः प्रलापबहुलः कृत्स्नः प्रबन्धोऽपि वा । वक्रोक्त्या वलितः सहासरभसः पौराङ्गनाविभ्रमो हर्षोत्कर्षकरो यथा नहि तथा ग्रामीणवध्वा रतम् ॥' तथा – 'व्यङ्ग्य प्रोतरसानुकूलमधुरस्पष्टाक्षराणि क्रमात्पीयूषद्रवगर्वहृन्ति निपुणं दृब्धानि धौताशयैः । नृत्यन्तीव पदानि यत्र सुजनश्लाघास्पदान्येव तत्काव्यं काव्यमतः परं जनमनोहाराय भावेव सा (?) ॥' तेऽनन्तवाङ्मयमहार्णवदृष्टपाराः सांयात्रिका इव महाकवयो जयन्ति । यत्सूक्तिपेलवलवङ्गलवैरवैमि सन्तः सदःसु वदनान्यधिवासयन्ति ॥ ६ ॥ तेऽनन्तेति । अनन्तो यो वाङ्मयमहार्णवः । वाङ्मयं चतुर्दशविद्यास्थानरूपमेव महा- र्णवः तस्य दृष्टं पारं यैस्ते महाकवयः । द्वित्रा इति शेषः । जयन्ति सर्वोत्कृष्टा भवन्ति । क इव । सांयात्रिका इव । समुदितानां यात्रा संयात्रा सा प्रयोजनमस्य सांयात्रिकः पो- तवणिगिव । 'सांयात्रिकः पोतवाणक्' इत्यमरः । सोऽप्यनन्तमहोदधिदृष्टपारो भवति । ते के इत्याह – येषां शोभनाश्च ता उक्तयः सूक्तय एव कोमललवङ्गलवास्तैः सन्तो वि- द्वांसः सहृदयाः सदःसु सभासु वदनानि स्वाननानि अधिवासयन्ति । अद्भुतरसचर्वणेन सुरभीकुर्वन्ति । लवङ्गजातीफलपूगादिसुरभिवस्तुचर्वणेन मतिजाड्यापगम इत्यायुर्वेदे । तथा चोक्तमनेनैव कविना स्वकृतायां बालबोधिन्यां कातन्त्रवृत्तौ – 'इह युक्त्यनुमान- वद्यहृद्यक्रमदृब्धाः कृतिनां हरन्तु वाचः । मतिजाढ्यलवं लवङ्गजाती फलपूतासविला- समासृजन्त्या (?) ॥' इति ॥ जिह्वाग्ररङ्गभुवि सत्कवितुर्विलास- लास्योत्सवव्यसनिनी स्वयमुक्तिदेवी । भ्रूकाण्डकुण्डलकिरीटशिरोधराणां नृत्तोपदेशगुरुतां कृतिनामुपैति ॥ ७ ॥ जिह्वाग्रेति । सत्कवितुर्महाकवेः कस्यचित् जिह्वाग्रमेव रङ्गभू रङ्गस्थानं तत्र स्वयमेव साक्षादेव विलासः । प्रौढोक्तीनामिति शेषः । स एव लास्यम् । पक्षे विलासश्च लास्यं च । तस्योत्सवस्तत्र व्यसनिनी व्यसनयुक्ता उक्तिदेवी वाग्देवी कृतिनां विपश्चितां सहृदयानाम् । 'धीमान्सूरिः कृती कृष्टिः' इत्यमरः । भ्रूकाण्डं च कुण्डले च किरीटं च शिरोधरा च तासां नृत्तोपदेशे गुरुतां दैशिकतामुपैति । तत्प्रौढोक्तिश्रवणेन विप श्चितः शिरो घूर्णयन्तीत्यर्थः । तथा चोक्तं नलचम्पूनिबन्धे महाकविना त्रिविक्रमभट्टेन - 'कि कवेस्तस्य काव्येन कि काण्डेन धनुष्मतः । परस्य हृदये लग्नं न घूर्णयति य च्छिरः ॥ इति ॥ आवर्जयन्ति मठराञ्जठरार्थमात्र- पात्रीकृतार्थकणिका गणिकाविटाद्याः । प्रौढान्पुनर्भुजगभूषणभक्तिसिक्त- सूक्तावलीविरचनाचतुराः कवीन्द्राः ॥ ८ ॥ आवर्जयन्तीति । जठरार्थमात्रमुदरपूरणार्थमात्रं पात्रीकृता व्यथिता अर्थकणिका धनकणाः वेश्यापक्षे । विटानां पक्षे तु- अर्थकणा श्चाटुकरणोपहासवचनकणिका यैस्ते तादृशा गणिकाविटाद्या वेश्याषिङ्गाद्या मठरान्मूर्खान् । मठर इति रूढिपदम् । आव- र्जयन्ति वशीकुर्वन्ति । पुनः पक्षान्तरे । भुजगेति । भुजगभूषण: फणिहार: श्रीशिव- स्तस्य या भक्तिर्वाङ्मनः कायैस्तदेकतासक्तिस्तया सिक्ता या सूक्तावली तस्या विरच नायां चतुराः प्रगल्भाः कवीन्द्राः कतिपये महाकवयः प्रौढान्प्रगल्भधिषणानावर्जयन्ति वशीकुर्वन्ति ॥ धन्यः स कोऽपि सुकविः कविकर्म कृत्त- लोकार्ति कार्तिकतुषारकरानुकारि । गायन्ति यस्य कृतिनस्त्रिजगत्पवित्रं चित्रं चरित्रमिव बालमृगाङ्कमौलेः ॥ ९ ॥ धन्य इति । स कोऽपि विरलः सुकविः कविवरो धन्यो भाग्यवान्भवति । कृतिनो विद्वांसः बालशशाङ्कमौलेर्बालेन्दुचूडामणेः श्रीशिवस्य चरित्रमिव चित्रमनेकविधमाश्चर्य- मयं च त्रिजगत्पवित्रं त्रिजगति पवित्रं कविकर्म काव्यं यस्य सुकवेर्गायन्ति । किंभू- तम् । कृत्तलोकार्ति । कृत्ता छेदिता लोकानां जनानामार्तिर्मन:पीडा येन तत् । पुनः किंभूतम् । कार्तिकतुषारकरानुकारि । कृत्तिकाभिर्युक्ता पौर्णमासी कार्तिकी सा यस्मिन्स कार्तिकः । अत्र पूर्णेत्यर्थात् । कार्तिकपूर्णेन्द्वनुकारीत्यर्थः । चरित्रपक्षेऽपि तथैव ॥ त्रैलोक्यभूषणमणिर्गुणि[^१]वर्गबन्धु रेकश्चकास्ति सविता कविता द्वितीयः । शंसन्ति यस्य महिमातिशयं शिरोभिः पादग्रहं विदधतः पृथिवीभृतोऽपि ॥ १० ॥ [^१]. 'गुणवर्ग' इति ख-पाठः त्रैलोक्येति । सूते जगत् तमोहरणादिति सूर्यः । स एकः सविता चकास्ति । गगने इति शेषः । कवयति वर्णयति वर्णनीयं स कविता द्वितीयश्चकास्ति । भूतल इति शेषः । द्वावपि विशिनष्टि—स एकः सविता किंभूतः । त्रैलोक्यभूषणमणिः । कविता च तादृगेव त्रैलोक्येऽपि तद्यशःसंचारात् । सविता किंभूतः । गुणिवर्गबन्धुः । कविता च गुणिनां विदुषां बन्धुः । स एकः सविता क इत्याह – यस्येत्यादि । पृथिवीभृतः पर्वता अपि शिरोभिः शिखरैर्यस्य सवितुः पादग्रहं पादानां रश्मीनां ग्रहं ग्रहणं विदधतः कुर्वन्तो महिमातिशयं माहात्म्योत्कर्षं शंसन्ति कथयन्ति । शब्दश्लेषः ॥ यस्य स्त्रवन्त्यमृतमेव मुखे तुषार- हाराभिरामरुचिरञ्चितवक्रभङ्गिः । सूक्तिर्द्युसिन्धुरिव मूर्ध्नि हरस्य चन्द्र- लेखेव वा वसति तं सुकविं नमामः ॥ ११ ॥ यस्येति । वयं तं सुकविं कविवरं नमामः । तं कमित्याह – सूक्तिः शोभना प्रौढा उक्तिर्यस्य मुखे वदने वसति । वसतीति क्रियाया मुखे इति दूरस्थपदेनान्वयेऽपि भक्ति- विषये न दोषः । केव । हरस्य मूर्ध्नि शिरसि द्युसिन्धुः स्वर्गङ्गेव । तथा हरस्यैव मूर्ध्नि च- न्द्रलेखेव चन्द्रकलेव वा वसति । त्रयमपि विशिनष्टि – स्रवन्तीत्यादिना । कविसूक्तिः किंभूता । अमृतं सुधारसं स्रवन्ती । चन्द्रकलापि तादृशी । द्युसिन्धुः किंभूता । अमृतं वारि स्रवन्ती । 'अमृतं मोक्षवारिणोः । अयाचिते यज्ञशेषे देवान्नसुधयोरपि' इति मङ्खः । पुनः किंभूता कविसूक्तिः । तुषारं हिमं हारश्च मुक्तामयः तद्वदभिरामा निर्दोषा रुचि- र्यस्याः । गङ्गा चन्द्रकलापि तादृश्येव । तथा सूक्तिः कीदृशी । अश्चिता रम्या वक्रभङ्गि- रुपचारवक्रपदभङ्गिर्यस्याः । द्युसिन्धुः किंभूता । अञ्चिता रम्या वक्राः कुटिला भङ्ग्यस्त- रङ्गभङ्गयो यस्याः । चन्द्रकलापि अञ्चिता रम्या एककलात्वाद्वका कुटिला भङ्गिः शोभा यस्याः ॥ याता गुणैरुपचयं विमला[^१] प्रकृत्या नैसर्गिकीं परिणतिं प्रथमां [^२]वहन्ती । बुद्धिः सतां शशिकलामुकुटप्रसादा- द्वाणी च न क्वचिदपि प्रतिघातमेति ॥ १२ ॥ यातेति । एवंविधा सतां विपश्चितां कवीनाम् । 'सन्सुधीः पण्डितः कविः' इति मङ्खः । बुद्धिर्वाणी च शशिकलामुकुटप्रसादात् श्रीशिवप्रसादात्क्वचिदपि कुत्रापि प्र तिघातं नैति । क्वापि न प्रतिहन्यत इत्यर्थः । द्वे अपि विशिनष्टि-बुद्धिः किंभूता । गुणैर्नैपुण्यगाम्भीर्यकोमलात्वांदिभिरुपचयमाधिक्यं याता । वाणी च किंभूता । गुणैर्मा [^१]. 'विमलं' इति ख- पाठः [^२]. 'वहन्तां' इति ख-पाठः धुर्यौजःप्रसादाख्यैस्त्रिभिरुपचयं परिपूर्णत्वं याता । तथा प्रकृत्या विमला निर्मला बुद्धिर्वाणी च निर्दोषा । तथा वृद्धिर्वाणी च किंभूता । प्रथमामाद्यां परिणांत परिपाकं प्रौढत्वं वहन्ती । सांख्यमते बुद्धिर्गुणैस्त्रिभिः सत्वरजस्तमोभिरुपचयं परिपूर्णतां प्राप्ता भवति । तथा विमला प्रकृत्या सत्त्वरजस्तमसामाद्यावस्था प्रकृतिः । तस्या नैसर्गिक्रीं स्वाभाविकीं प्रथमां परिणतिं परिणामं वहन्ती । प्रकृतेराद्यः परिणामो बुद्धितत्वमिति सांख्याः । तथा च – 'प्रकृतेर्महांस्ततोऽहंकारस्तस्माच्च गणः षोडशकः । तस्मादपि षो- डशकात्पश्चभ्यः पञ्चभूतानि ॥' परिणती रूपान्तरम् ॥ [^१]चन्द्रावचूडचरणस्मरणप्रसाद- संदर्भनिर्भरगभीरगिरां कवीनाम् । सूक्तिर्बिभर्ति मुखपङ्कजरङ्गनृत्य- द्वाग्देवताकनकनूपुरनादलीलाम् ॥ १३ ॥ चन्द्रावचूडेति । चन्द्रावचूडस्य चन्द्रमौले: श्रीशिवस्य चरणस्मरणेन यः प्रसादस्तस्य संदर्भो गुम्फः प्रसादरूपो वा संदर्भो ग्रन्थस्तेन निर्भरा पूर्णा गभीरा गीर्येषां ते । तादृ- शानां कवीनां सूक्तिः शोभना उक्तिः मुखमेव पङ्कजं पद्मं तदेव रङ्गो नाट्यस्थलं तत्र नृ- त्यन्ती या वाग्देवता तस्याः कनकनूपुरयोः स्वर्णमञ्जीरयोर्नादलीलां नादोपमां वहतीत्यर्थः ॥ काव्यं विभाव्य निजमर्धनिमीलितानि नैसर्गिकं जहति चापलमीक्षणानि । गृह्णन्ति तन्मसृणतां सहजां विहाय भ्रूवल्लयस्तु कृतिनां कविपुंगवानाम् ॥ १४ ॥ काव्यमिति । कृतिनां धन्यानां कविपुंगवानां महाकवीनां निजं काव्यम् । शिवै- कशरणमिति शेषः । विभाव्य विचार्य पश्चिमे यामिनीयामादौ तद्रसास्वादचमत्काराद- र्धनिमीलितानि पिहितानि नैसर्गिकं स्वाभाविकं चापलं जहति त्यजन्ति । निःस्पन्दानि भवन्तीत्यर्थः । तेषां कविपुंगवानां भ्रूवल्लयो भ्रूलताः । तुः पक्षान्तरे । तच्चापलं गृह्णन्ति । किं कृत्वा । मसृणतां मन्थरतां विहाय त्यक्त्वा ॥ नीहारहारधवलस्य जयत्यपूर्वः पाकः स कोऽपि सुकृतस्य कृतस्य पूर्वम् । यः संप्रति प्रतिफलत्यमलासु बाल- चन्द्रावचूलनुतिसूक्तिषु सत्कवीनाम् ॥ १५ ॥ नीहारेति । सत्कवीनां कविवराणां पूर्वं प्राचीनानेकजन्मसुकृतस्य पुण्यस्य नीहार [^१]. 'चन्द्रार्धचूड' इति ख-पाठः हारधवलस्य हिमहारशुभ्रस्यापूर्वोऽद्भुतः स कोऽपि पाकः परीपाको जयति सर्वोत्कृष्टो भवति । यः संप्रतीदानीं वर्तमानजन्मनि अमलासु निर्मलासु निर्दोषासु बालचन्द्रावचू- लस्य चन्द्रकलावतंसस्य श्रीशिवस्य नुतिरूपा याः सूक्तयस्तासु प्रतिफलति प्रतिबिम्बते । प्रकटीभवतीत्यर्थः । प्राचीनानेकजन्मोपार्जितसुकृतपरिपाकेन परमेश्वरस्तुतिसूक्तिषु स- त्कविबुद्धिः प्रसरतीत्यर्थः ॥ सूक्ष्मार्थदर्शनविमर्शवशप्ररूढ- भ्रूकाण्डताण्डवनिवेदितचिद्विकासम् । आस्वाद्य यत्सुमतयो मुखमुद्वहन्ति सूक्तामृतं जयति तत्कविकुञ्जराणाम् ॥ १६ ॥ सूक्ष्मार्थेति । कविकुञ्जराणां श्रेष्ठाः कवयः कविकुञ्जरास्तेषाम् । 'स्युरुत्तरपदे व्या- घ्रपुंगवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः ॥' इत्यमरः । तत्सूक्तामृतं जयति सर्वोत्कृष्टं भवति । तत्किमित्याह – सूक्ष्मार्थेति । सुमतयो विमलबुद्धयः सहृ- दयाः सूक्ष्मार्थेत्यादिविशिष्टम् । श्रीशिवस्तुतिप्रबन्धे इति शेषः । यः सूक्ष्मो लक्ष्यो व्यङ्ग्यश्चार्थस्तस्य दर्शनं विचारणं तस्य विमर्शवशेन प्रकर्षेण रूढमुत्पन्नं यन्त्रकाण्डताण्डवं तेन निवेदितश्चिद्विकासश्चैतन्योल्लासो यस्य तत् । तादृशं मुखं स्ववदनं यत्काव्यामृत- मास्वाद्योद्वहन्ति धारयन्ति । प्रौढोक्तिविचारणध्यानासक्तनिःस्पदनकरणग्रामस्य मु खस्य भ्रूताण्डवेनैव चेतनावत्त्वज्ञानमनुमेयमिति भावः ॥ शब्दार्थमात्रमपि ये न विदन्ति तेऽपि यां मुर्छनामिव मृगाः श्रवणैः पिबन्तः । संरुद्धसर्वकरणप्रसरा भवन्ति चित्रस्थिता इव कवीन्द्रागिरं नुमस्ताम् ॥ १७ ॥ शब्दार्थमात्रमिति । वयं तां कवीन्द्रगिरं महाकविवाणीं स्तुमः । तां कामित्याह - यां गिरं वाणीं श्रवणैः पिबन्तश्चित्रस्थिता इव चित्रलिखिता इव भवन्ति । किंभूताः । संरुद्धेति । संरुद्धः सर्वकरणानां सर्वेन्द्रियाणां ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च प्रसरः संचारो येषां तादृशाः । कां के इव । मृगा अत्र हरिणा मूर्छनामारोहावरोहाभ्यां गी- तसारणा मूर्छना तां श्रवणैः कर्णैः पिबन्तो यथा निःस्पन्दसर्वकरणग्रामा भवन्ति तथे- त्यर्थः । तथा चोक्तम् – 'हरति हरिणचित्तं का कथा चेतनानाम्' इत्यादि । ते के इत्याह – ये मुढाः शब्दार्थमात्रमपि शब्दस्य घटपदा देरर्थस्तन्मात्रमपि न विदन्ति न जानन्ति । परमार्थस्य तु कैव कथेत्यर्थः ॥ लभ्यः स कुत्र सुजनः स्वकृतीः प्रदर्श्य भ्रूकन्दलीयुगलमाकलयन्ति यस्य । नेत्रोत्पलोपरि परिस्फुरदुत्तरङ्ग- भृङ्गावलिद्वितयाविभ्रमभृत्कवीन्द्राः ॥ १८ ॥ लभ्य इति । कविभिः स सुजनः सहृदयजनः कुत्र लभ्यः । चेल्लभ्यस्तर्हि भाग्यवत्ते- त्यर्थः । स सुजनः क इत्याह –स्वकृतीः स्वकाव्यानि अग्रे प्रदर्श्य यस्य सुजनस्य भ्रूक- न्दलीयुगलं भ्रूलतायुग्मं नेत्रेत्यादि विशिष्टमाकलयन्ति पश्यन्ति । नेत्रे एवोत्पले तयो- रुपरि परिस्फुरत् यदुत्तरङ्गं चपलं भृङ्गावलिद्वितयं भृङ्गपङ्क्तिद्वयं तस्य विभ्रमं विलासं विभर्तीिति तादृग्भ्रूलतायुग्मम् । स्वकृतीः प्रदर्श्य हर्षोत्तरलितभ्रूलतः सहृदयजनः कविवरैर्दुर्लभ इत्यर्थः ॥ स्फारेण सौरभभरेण किमेणनाभे- स्तद्धानसारमपि सारमसारमेव । स्त्रक्सौमनस्यपि न पुष्यति सौमनस्यं प्रस्यन्दते यदि मधुद्रवमुक्तिदेवी ॥ १९ ॥ स्फारेणेति । उक्तिदेवी वाग्देवी मधुद्रवं रसायनरसद्रवं यदि प्रस्यन्दते प्रकर्षेण स्र- वति तदा स्फारेणोद्भटेन सौरभभरेण सौगन्ध्यातिशयेन एणनाभे: कस्तूरिकायाः किं भवति । न किंचित्तेन कार्यमित्यर्थः । तदा तद्धानसारं घनसारस्य कर्पूरस्येदं घानसार- मपि सारमसारमेव भवति । 'सारो बले स्थिरांशे च न्याय्ये क्लीबे वरे त्रिषु' इत्यमरः । वरे उत्कृष्टे । तदा सुमनसां पुष्पाणामियं सौमनसो स्रक् मालापि सौमनस्यं प्रमोदं न पुष्यति न वर्धयति ॥ संसारमारवपथप्रथमानखेद - विच्छेदकोविदमिदं कविकर्म जीयात् । विस्मारितं यदमुना यमुनासनाथं पाथः प्रसिद्धमपि वैबुधसैन्धवं नः ॥ २० ॥ संसारेति । संसार एव मारवपथो मरुमार्गः । मरुर्निर्जलो देश: । 'समानौ मरुध- न्वानौ' इत्यमरः । तत्र प्रथमानो वर्धमानो यः खेदस्तस्य विच्छेदे कोविदं निपुणं इद- मित्यध्यक्षं श्रीशिवभक्तिरसामृतसिक्तमित्यर्थः । जीयात् जयतु । तत्कुत इत्याह- यद्यस्मात्कारणादमुना निपुणकविकर्मणा यमुनासनाथं प्रसिद्धमपि यामुनीयमिहानत्या (?) संगतं वैबुधसैन्धवं विबुधसिन्धोरिदं देवनद्याः पाथो वारि विस्मारितम् । जनस्येति शेषः । श्रीशिवभक्तिरसामृतसिक्तनिपुणकविकर्मास्वादनेनैव संसारमरुभ्रमणोत्थतापखेद- विच्छेदः । किं गङ्गायमुनासंगमसेवनेनेति भावः ॥ गाम्भीर्यशालिनि शुचावमृतौघशीते नीते सदा सदनतां मदनान्तकेन । यस्यैकपिङ्गलगिरेरिव मानसेऽन्त- रर्थाः स्फुरन्ति स विना [^१]सुकृतैः क्व लम्यः ॥ २१ ॥ गाम्भीर्येति । जनेन स कविर्विना सुकृतैः पुण्यैः क्व लभ्यः । स क इत्याह -गा- म्भीर्यशालिनि प्राकृतैरलब्धाभिप्राये शुचावनघे अमृतौघवत्सुधाप्रवाहवच्छीते अत एव मदनान्तकेन श्रीशंभुना सदनतां निजालयतां नीते यस्य मानसे चित्ते एकपिङ्गलगिरे- र्वैश्रवणाद्रेः कैलासस्येव मानसे मानसाख्ये सरोवरे गाम्भीर्यशालिनि निम्नताशोभिनि शुचौ निर्मले अमृतौघेन वारिप्रवाहेण शीते । मनःपक्षे - अर्थावाच्यलक्ष्यव्यङ्ग्यास्त्रयः । मानससरोवरपक्षे – अर्थाः पदार्था नानाविधा अन्तः स्फुरन्ति विलसन्ति प्रतिबि म्बत्वेन लगन्ति च ॥ यस्य द्युसिन्धुलहरीशुचयो न कस्य दृष्टिप्रसादमवलोकयतोऽर्पयन्त्यः । गावः सुधारसमुचः प्रसरन्ति दिक्षु विश्वैकभूषणमसौ जयति द्विजेन्द्रः ॥ २२ ॥ यस्येति । असौ द्विजेन्द्रो जन्मना वैदिकसंस्कारेण च द्वाभ्यां जातो द्विजो जयति सर्वोत्कृष्टो भवति । असौ क इत्याह – यस्येत्यादि । यस्य द्विजेन्द्रस्य महाकवेर्द्युसिन्धु- लहरीवद्गङ्गातरङ्गवच्छुचयो निर्मला निर्दोषाः, तथा कस्य न अवलोकयतो विचारयतो दृष्टेर्ज्ञानस्य प्रसादं प्रसन्नतामर्पयन्त्यो ददत्यः, तथा सुधारसमुचोऽमृतरसमुचो गावो वाचो दिक्षु स्फुरन्ति स द्विजेन्द्रः कवीन्द्रो जयतीत्यर्थः । अथ च स द्विजानां नक्षत्रा- णामिन्द्रो द्विजेन्द्रश्चन्द्रो जयति । सोऽपि विश्वैकभूषणीभूतः । स क इत्याह – यस्य चन्द्रमसो गङ्गातरङ्गवन्निर्मला: कस्य न जनस्य दृष्टीनां नेत्राणां प्रसादममृतमयत्वादर्प- यन्त्यो ददत्यः, तथा सुधारसमुचोऽमृतमुचो गावो रश्मयो दिक्षु प्रसरन्ति ॥ संयोगमेत्य परमर्थपरिष्कृतस्य पादान्तगोऽपि गुरुतां लघुरेति यस्य । तं शंकरस्तुतिपरं [^३]परिशुद्धवृत्तं सुश्लोकमाप्य मुदमेति न कस्य चेतः ॥ २३ ॥ संयोगमिति । तं परिशुद्धवृत्तं परिशुद्धं वृत्तं सच्चरित्रं यस्य तादृशम् । सुश्लोकं सु शोभनः श्लोको यशो यस्य तम् । 'श्लोको यशसि पद्ये च' इत्यमरः । एवंविधं शंकरस्तुतिपरं श्रीशिव तुतिसक्तं जनमाप्य कस्य न चेतो मुदं हर्षमेति । अपि तु सर्वस्य । तं कमित्याह - यस्य शंभुभक्तस्य संयोगं समागममेत्य पादान्तगः पादयोश्चरणयोरन्तं [^१]. 'सुकृतैरलभ्यः' इति ख-पाठ: [^२]. 'परमार्थ' इति ख-पाठः [^३]. 'सुविशुद्ध' इति क-पाठः. समीपं गच्छति तादृशो लघुरपि प्राकृतोऽपि जनो गुरुतां गौरवमेति प्राप्नोति । यस्य कथंभूतस्य परमत्यर्थमर्थेन धनेन परिष्कृतो भूषितस्तस्य । आढ्यस्येत्यर्थः । अथ च तं शंकरस्तुतिपरं शंभुस्तोत्रलीनं सुशोभनं श्लोकं चतुष्पादीलक्षितं परिशुद्धवृत्तं परिशुद्धं वृत्तं छन्दो वसन्ततिलकशार्दूलविक्रीडितादि यस्य तमाप्य कस्य न चेतां मुदमेति । 'वृत्तं छन्दश्चरित्रयोः' इति विश्वः । तं सुश्लोकं कम् । अर्थेन वाच्येन परिष्कृतस्य शो- भितस्य यस्य श्लोकस्य परमग्रन्थं संयोगमेत्य लघुरपि वर्णो 'हृस्वं लघु' इति वैयाकरण- परिभाषया प्रसिद्धो गुरुतां गुर्वक्षरभावं दीर्घो गुरुः' इति परिभाषितमेति प्राप्नोति । तथा पादान्तगोऽपि श्लोकचरणान्तस्थितो लघुर्वर्णो गुरुतां गुर्वक्षरतामेति प्राप्नोति । 'संयोगे गुरु:' पादान्ते लघुरपि गुरुतां भजत इति च्छन्दःशास्त्रे परिभाषितम् ॥ इह हि महिमा मायामोहप्ररोहतिरोहित- त्रिजगदगदंकारः सारस्वतः [^१]प्रथते सताम् । प्रभवति जरामृत्युव्याधिप्रबन्धनिबन्धन- व्यसनजनितव्यापत्तापक्कलमापगमाय यः ॥ २४ ॥ इह हीति । हि निश्चये । माया अविद्या श्रीशिवतत्त्वाज्जगद्भेदप्रथा तया यो मोहो- ऽज्ञानम् । सैव मोहो वा । तस्य प्ररोह उद्भवस्तेन तिरोहितं समावृतं यत्रिजगत्तस्या- गदंकारश्चिकित्सकः । तन्निवारक इत्यर्थः । 'रोगहार्यगदंकारो भिषग्वैद्यश्चिकित्सके' इत्यमरः । एवंभूतः सारस्वतः सरस्वत्या वाग्देव्याः संबन्धी महिमा निपुणकविकर्मो- ल्लासरूपः सतां विदुषां प्रथते विस्तारमेति । स क इत्याह - यो वाग्देवीमहिमा प्रभ- वति समर्थो भवति । कस्मै । जरा विस्रसा च मृत्युश्च व्याधिश्च जरामृत्युरूपो व्याधिर्वा तस्य यः प्रबन्धस्तस्य निबन्धनेनानुसंधानेन जनिता या व्यापद्विशेषेणापत्तस्यास्तापेन यः क्लमः क्लेशस्तस्यापगमायात्यन्त दुःखनिवृत्त्यै ॥ चमत्कारोत्कर्षं कमपि कमनीयं विमृशतां दिशन्ती सा काचिज्जयति कविवाचां परिणतिः । [^२]यदासृष्टे चेतस्यमृतमिति निःश्रेयसमिति प्रियं धामेत्युच्चैः पदमिति समुद्यन्ति मतयः ॥ २५ ॥ चमत्कारेति । विमृशतां विचारयतां कमप्यनिर्वाच्यं कमनीयं चमत्कारोत्कर्षं दि शन्ती सा काचिदनिर्वाच्या कविवाचां कविवरवचसां परिणतिः प्रौढत्वमया जयति सर्वोत्कृष्टा आस्ते । सा केत्याह - यया कविप्रौढोक्त्या श्रीशिवभक्तिरसामृतसिक्तया आसृष्टे स्पृष्टे चेतसि इदमेवामृतमिति इदं निःश्रेयसं कैवल्यमिदमेवेति प्रियं ब्रह्मादिका रणातीतत्वात्प्रेमास्पदमिदमेव स्थानमिति तेजो वेति इदमुच्चैः पदं द्वादशान्तपदस्थित [^१]. 'प्रथतेतराम्' इति क-पाठ: [^२]. 'यदातुष्टे' इति ख- पाठः. त्वात्तत्पदस्य इदमेवोच्चैःपदमिति च मतयः समुद्यन्ति उत्पद्यन्ते । शिवैकताध्यायिनां भजमानानामित्यर्थः ॥ मधुस्यन्दी मन्दीकृतविपदुपाधिर्भवमरु- भ्रमक्केशावेशप्रशमकमनीयो विजयते । [^१]अखण्डश्रीखण्डद्रवनवसुधासारसरसः प्रसादो वाग्देव्याः प्रवरकविकाव्यामृतवपुः ॥ २६ ॥ मध्वितिः । एवंभूतो वाग्देव्याः सरस्वत्याः प्रसादो विजयते सर्वोत्कृष्टो भवति । 'विप राभ्यां जेः' इति नित्यमात्मनेपदम् । किंभूतः । मधु रसायनरसं स्यन्दते तादृशः, तथा मन्दो कृता विपदेवोपाधिर्विपदा वा उप समीपे आधिर्मनःपीडा येन सः । तथा भवः पुनरावृ- त्तिरूपः संसार एव मरुर्जलरहितो गहनो देशस्तस्य भ्रमेण यः क्लेशावेशस्तस्य प्रशमे क मनीय: काङ्क्षणीयः । तथा अखण्ड: पूर्णो यः श्रीखण्डस्य मलयजस्य द्रवो रसः स च नवसुधासारश्च तद्वत्सरसः । पुनः किंभूतः । प्रवरकविकाव्यामृतवपुः महाकविकाव्यामृ- तमेव वपुर्यस्य सः । श्रीसरस्वत्या मूर्ते शरीरं महाकविकाव्यमेवावगन्तव्यमित्यर्थः ॥ घनानन्दस्यन्दोद्गतविपुलबाष्पार्द्रनयनं [^२]सलीलभ्रूवल्लीवलनविवलद्भालपुलिनम् । उदञ्चद्रोमाञ्चस्तबकितकपोलं विदधते सुधार्द्रा धन्यानां वदनमनवद्याः कविगिरः ॥ २७ ॥ घनेति । अनवद्या निर्दोषाः पददोषार्थदोषरहिताः सुधाद्री अमृतसिक्ताः कविगिरो महाकविवाचो धन्यानां भाग्यवतां शिवभक्तिरसामृतसिक्तचेतसां वदनं मुखमेवंविधं विदधते कुर्वन्ति । कीदृगित्याह – घनो विगलितवेद्यान्तरो य आनन्दः परमानन्दस्तेन यः स्पन्दः कम्पः । 'स्यन्द' इति पाठे परमानन्दप्रवाहस्तेनोद्गत उत्पन्नो यो बाष्पस्तेनार्द्रे नयने यस्य तत् । परमानन्दाश्रुपूरार्द्रलोचनमित्यर्थः । पुनः किंभूतम् । सलीलं सखेलं यद्भ्रूवल्लीवलनं भ्रूलताचलनं तेन विवलद्विशेषेण वलद्भालमेव ललाटमेव पुलिनं यत्र तत् । सलीलभ्रूलतापरिवलनोर्ध्वपरिवृत्तललाटस्थलमित्यर्थः । पुनः किंभूतम् । उदञ्चदु- ल्लसन्यो रोमाञ्चस्तेन स्तबकितौ सस्तबकौ कृतौ कपोलौ गण्डौ यस्य तत् ॥ धन्यानाममृतद्रवन्ति हृदये कर्णे वलन्मल्लिका- लंकारस्तबकन्ति कण्ठपुलिने मुक्ताकलापन्त्यपि । शैलान्दोलितदुग्धसिन्धुलहरीभङ्गाभिरामोद्गमाः श्यामाकामुकखण्डमण्डनकथासंदर्भगर्भा गिरः ॥ २८ ॥ [^१]. 'अखण्डं' इति ख- पाठ: [^२]. 'सलीलं' इति ख- पाठः धन्येति । श्यामाकामुकखण्ड: खण्डेन्दुः स एव मण्डनं भूषणं यस्य स तस्य श्री- शिवभट्टारकस्य कथासंदर्भो गर्भे यासां ता गिरः कविवरवाचो धन्यानां भाग्यवतां हृदये अमृतद्रववदाचरन्ति । क्विबन्तो धातुत्वं न जहाति लिङ्गत्वं च प्रतिपद्यते । 'सर्वप्राति- पदिकानां क्किप् वा वक्तव्यः' । तथा तेषां कर्णे वलंश्चासौ मल्लिकालंकारस्तबको जाती- स्तबकालंकारस्तद्वदाचरन्ति । तथा कण्ठपुलिने कण्ठतटे मुक्ताकलापवन्मुक्ताहारव- दाचरन्ति । किंभूता गिरः । शैलेन मन्दरेणान्दोलितो मथितो यो दुग्धसिन्धुः क्षीरार्ण- वस्तस्य लहरीभङ्गवदभिराम उद्गमो यासां ताः । एतद्वृत्तार्थच्छायानुसारेण ममापीदं घृ- त्तम् - 'या हीरन्तकि कैरवन्तकि सतां कण्ठेषु हारन्तकि प्रौढेन्दोः किरणन्तकि प्रति- दिशं कैलासशैलन्तकि । गीर्वाणाधिपकुञ्जरन्तकि भुवि त्वत्किंकरस्येह ताः कस्यापीश जयन्तकि त्रिजगति ख्याताः परं कीर्तयः' ॥ धन्यानां भणितिच्छलेन वदनेषूद्यन्ति हृत्कर्णिका- धाम्रः सूक्तिसुधावबोधविधुतापीडस्य चण्डीपतेः । किं जूटाहिकिरीटरत्नरुचयः किं स्त्रग्रजःसूचयः किं मौलीन्दुमरीचयः किममरस्त्रो[^१]तस्वतीवीचयः ॥ २९ ॥ धन्यानामिति । धन्यानां शिवभक्तिरसामृतसिक्तचेतसां कविवराणां वदनेषु भणि तिच्छलेन प्रौढोक्तिच्छलेन तेषामेव हृत्कर्णिकाधाम्नः हृदेव कर्णिका तस्मिन्धाम स्थानं यस्य तादृशस्य चण्डीपतेः श्रीशिवस्य तेषामेव सूक्तिसुधावबोधेन प्रौढोक्त्यमृताकर्णनेन विघुतापीडस्य विधुतमौलेर्जूटाहिकिरीटरत्नरुचयः कपर्दफणिमुकुटरत्नद्युतयः किमुद्यन्त्यु- द्गच्छन्ति । किं वा श्रीशिवस्यैव स्रग्रजःसूचयः स्रजां मालानां रजांसि तान्येव सूचय उद्गच्छन्ति । किं वा शंभोर्मौलीन्दुमरीचयः किं वा अमरस्रोतस्वतीवीचयो देव- नदीवीचयः ॥ सान्द्रानन्दकरे भृतामृतकरे [^२]नास्त्येष राकाकरे न प्रौढसरे निसर्गशिशिरे स्वर्गापगानिर्झरे । गाढप्रेम[^३]भरे स्मरज्वरहरे नोद्दामरामाघरे यः शंभोर्मधुरे स्तुतिव्यतिकरे ह्रादः सुधासोदरे ॥ ३० ॥ सान्द्रेति । सुधायाः सोदरे सहोदरे मधुरे शंभोः स्तुतिव्यतिकरे स्तुतीनां व्यतिकरस्तस्मिन् यो ह्लादः परमानन्दः एष धृतामृतकरे धृता अमृतमयाः करा रश्मयो येन तादृशे, तथा सान्द्रानन्दकरे सान्द्रो य आनन्दस्तं करोतीति तादृशे राकाकरे पूर्णचन्द्रेऽपि परमानन्दो नास्ति । तथा प्रौढप्रसरे प्रौढ: प्रसरो निर्गमो यस्य तादृशे निसर्गशिशिरे [^१]. 'स्रोतस्विनी' इति ख- पाठ: [^२]. 'नास्त्येव' इति क-पाठः [^३]. 'प्रेमतरे' इति ख-पाठः. स्वभावतः शिशिरेऽपि स्वर्गापगानिर्झरे स्वर्गङ्गाप्रवाहे एष ह्रादो नास्ति । तथा गाढ: प्रेमभरः स्नेहातिशयो यस्य तस्मिन् स्मरज्वरहरे कामरोगापहे उद्दामरामाघरे लौहित्या- दिगुणोद्भटे कान्ताधरोष्ठेऽपि स परमानन्दो नास्ति ॥ ओज[^१]स्वी मधुरः प्रसादविशदः संस्कारशुद्धोऽभिधा- भक्तिव्यक्तिविशिष्टरीतिरुचितैरर्थैर्धृ[^२]तालंकृतिः । वृत्तस्थः परिपाकवानविरसः सद्वृत्तिरप्राकृतः शस्यः कस्य न सत्कविर्भुवि यथा तस्यैव सूक्तिक्रमः ॥३१॥ ओजस्वीति । सत्कविर्महाकविः विशेषतः शिवभक्तिरसामृतसिक्तचेताः कस्य न शस्यः स्तुत्यः किंभूत ओजस्वी महातेजस्वी तथा मधुरो रम्यः प्रसादेन श्रीशिवानुग्र- हेण विशदो निर्मलः । तथा संस्कारेणोपनयनादिसंस्कारेण शुद्धः तथा अभिधा अभि- धानं नामधेयं भक्तिः शंभुभक्तिः व्यक्तिः प्रसिद्धिः ताभिर्विशिष्टा रीतिः प्रथा यस्य सः । तथा उचितैर्निजविद्योपार्जितैरर्थैधनैर्धृता अलंकृतिर्भूषा येन । तथा वृत्तस्थः वृत्ते आचारे स्थितः । परिपाकवान् गाम्भीर्यगुणवान् न विरसः अविरसः वैरस्यरहितः सद्वृत्तिः सतो वृत्तिर्जीविका यस्य तथा अप्राकृतः सत्कविः । को यथा क इव । यथाशब्द इवार्थे । तस्यैव सत्कवेः सूक्तिक्रमः काव्यपरिपाटीरूपः । यथा सोऽपि ओजस्वी ओजोगुण- वान् । तथा मधुरो माधुर्याख्यगुणवान् । प्रसादविशदः प्रसादाख्यशब्दगुणेन विशदो निर्मलः । संस्कारेण लोकवृत्तशास्त्रकाव्याद्यवेक्षणोत्पन्नव्युत्पत्त्या शुद्धः । तथा अभिधा मुख्यः शब्दव्यापारः भक्तिर्भाक्तो गौणोपचारः व्यक्तिव्यङ्गार्थप्रतीतिः ताभिर्विशिष्टा रीतिर्वैदर्भी यस्य उचितैरर्यैर्वाच्यलक्ष्यव्यङ्ग्यैस्त्रिभिर्धृता अलंकाराः पुनरुक्तवदाभासादयः शब्दालंकाराः उपमादयश्चार्थालंकारा येन सः । वृत्तेषु वसन्ततिलकशार्दूलविक्रीडिता- दिवृत्तेषु तिष्ठति तादृशः । परिपाकवानतिप्रौढः । तथा अविरसो वर्णनीयोचितरसयुक्तः सरसः । तथा सत्यः शोभना वृत्तयः कैशिक्याद्या यस्य सः । तथा अप्राकृतः न प्राकृतं प्राकृतभाषारूपं यत्र सः ॥ प्राप्ता कल्पलतेव चेद्भगवती वागीश्वरी कैरपि प्राक्पुण्यैः स्वपरोपकारकरणप्रौढा पुनर्दुर्लभा । अझैस्तज्ज्ञजनोपदेशविहितावज्ञैर्दुराशाहतै- रस्ता दुर्मदकर्दमे फलति किं पापं सशापं विना ॥ ३२ ॥ प्राप्तेति । कैरपि कृतिभिर्जनैः प्राक्पुण्यैः प्राचीनानेकजन्मोपार्जितपुण्यवशाद्वागीश्वरी भगवती कल्पलतेव स्वर्द्रुमलतेव सकलेष्टदात्री चेद्यदि प्राप्ता तर्हि सा वाग्देवी स्वस्य परस्य चोपकारकरणे विगलितवेद्यान्तरपरमानन्दरूपोपकारकरणे प्रौढा पुनर्दुर्लभास्ति । [^१]. 'तेजस्वी' इति क-पाठः [^२]. 'वृतालंकृतिः' इति क-पाठः. सैव पुनरज्ञैः कुकविभिस्तज्ज्ञास्तत्त्वज्ञा ये जनास्तेषामुपदेशे कृतावज्ञैः । तथा दुराशया वित्तलोभेन हतास्तैर्दुर्मदकर्दमे दुर्मदो दुविदग्धः शठः श्रीशिवभक्तिपराङ्मुखञ्च स एव कर्दमः पङ्कस्तत्रास्ता क्षिप्ता । तत्प्रशंसयेत्यर्थः । सशापं सह शापेन वर्तते यत्तादृशं पापं विना किं फलति । तदेव प्रत्युत फलतीत्यर्थः ॥ विस्रब्धं विलसन्त्युपस्कृतपदन्यासा विलासालसा साहंकारमकारणारिभिरभिध्याताभिजाताकृतिः । क्षिप्ता दृप्तनृपान्धकूपकुहरे दाशैरिवाशाग्रह- ग्रस्तैः सूक्तिनिभेन तारकरुणं गौरीदृशी[^१] रोदिति ॥ ३३ ॥ विस्रब्धमिति । विस्रब्धं सविश्वासं एष मां सम्यक् संरक्ष्य स्थान एव गमयतीति विलसन्ती निजोल्लासान्कुर्वती । तथा उपस्कृतः शब्दार्थोभयालंकारयुक्तः पदानां सु- प्तिङन्तानां न्यासो यस्याः । तथा विलासैर्नवनवनिपुणकविकर्मभिरलसा संभृता । यद्वा न विलासेष्वलसा मन्दा अविलासालसा । विलासवतीत्यर्थः । तथा अभिजाताकृतिः अभिजाता सुकुमारा कुलोद्भवा चाकृतिर्यस्याः ईदृश्यपि गौर्वाणी अकस्मात् साहंकारं समदमकारणारिभिर्निष्कारणवैरिभिः कुकविभिरभिध्याता दुष्टत्वेन चिन्तिता तैरव पुन- राशाग्रहग्रस्तैर्वित्ताशालोभग्रस्तैर्दाशैः किरातैरिव शसयोरैक्याद्दासैश्वेटैरिव वा दृप्तनृपा- न्धकूपकुहरे दृप्ताः समदा अपरीक्षका ये नृपा अत एव अन्धकूपास्तेषां कुहरं विवरं तस्मिन् क्षिप्ता अत एव सूक्तिनिभेन प्रौढोक्तिव्याजेन तारमत्युच्चैः करुणं दीनं च रो- दिति । अथ च गौर्धेनुर्विस्रब्धं साश्वासं एष मां रक्षतीति विलसन्ती उपस्कृतः सशोभः पदन्यासश्चरणन्यासो यस्याः अत एव विलासेनालसा अभिजाता कृतिः ईदृशी काम- धेनुः कुलोद्भवा अकस्मादकारणवैरिभिर्वनचण्डालैरन्धकूपविवरे क्षिप्ता तारमत्युच्चैः क- रुणं दीनं च रोदितीति ॥ उष्णं निःश्वसिति क्षितिं विलिखति प्रस्तौति न प्रेयसः प्रीतिं सूक्तिभिरीशितुः करतले धत्ते कपोलस्थलम् । वाग्देवी हृदयज्वरेण गुरुणा [^२]क्रान्ता हताशैर्वृथा नीताविष्कृतकोपनिष्कृपनृपस्तोत्रत्रपापात्रताम् ॥ ३४ ॥ उष्णमिति । वाग्देवी वाग्देवता हताशैर्धनलवलोभग्रस्ताशैः कुकविभिर्वृथा व्यर्थम् आविष्कृतेति । कदर्यभावेनाविष्कृतः कोपो यैस्ते तादृशा ये निष्कृपा निर्दया नृपाः कुनृपास्तेषां यत्स्तोत्रं प्रशंसारूपं तत्र या त्रपा मन्दाक्षं तत्पात्रतां नीता गुरुणा महता हृदयज्वरेणाक्रान्ता सती उष्णं निःश्वसिति निःश्वासान्क्षिपति । तथा क्षितिं भूमिं वि [^१]. 'वागीश्वरी' इति ख-पाठः. [^२]. 'क्लान्ता' इति ख-पाठः. लिखति धरण्यां रेखाः करोति । तथा ईशितुर्वाक्पतेः सूक्तिभिः शोभनोक्तिभिः प्रेय- सोऽतिप्रियस्यापि वस्तुनः प्रीतिं न प्रस्तौति नारभते । तथा करतले कपोलं धत्ते । त- स्मादेतदवधार्यते श्रीशंभुचरणस्तुतिसूक्तिभिर्निजवाणीसाफल्यं कविभिर्विधेयमिति ॥ अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते धिक्काराय पराभवाय महते तापाय पापाय वा । स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये चेतोनिर्वृतये परोपकृतये प्रान्ते शिवावाप्तये ॥ ३५ ॥ अस्थान इति । इतधियां धनलोभेन प्रमादेन वा प्रस्तधिषणानां कुकवीनां वाग्देवता वाणी अस्थाने कुत्सितस्थाने दुर्विदग्धे शठे विशेषतः श्रीशिवशासनपराङ्मुखे लयं प्रलयं गमिता । हतधीभिरेवेत्यर्थः । ईदृशी वाणी धिक्काराय धिगितिकरणं निन्दारूपं तस्मै तथा महते पराभवाय । प्रत्युत तादृशो दुर्विदग्धाभिसंज्ञितो गुरोरपि पराभवं विदध्यात् । तथा तापाय पश्चात्तापाय । पापाय दुष्कृतायापि । तादृशस्य कुमार्गेऽपि लीनचित्तत्वात्प्रत्युतोपदेशकस्य दुष्कृतस्पर्शापत्तेः । स्थाने तु । तु इति पक्षान्तरे । सद्भिः पण्डितैः स्थाने गुरोराज्ञाकारिणि कृतज्ञे सरले सहृदये सर्वथा शिवशासनैकनिरते व्ययिता सतो सतां विदुषां गुरूणां प्रख्यातये तन्नाम प्रख्यापनाय, भूतये संपत्त्यै, चेतोनिर्वृतये मनः सौख्याय, परोपकृतये शिष्यप्रशिष्यमुखेन परोपकाराय तथा प्रान्ते पश्चात्समये शिवस्यात्यन्तिकदुःखनिवृत्तिरूपस्य निःश्रेयसस्य प्राप्तये भवति ॥ एतत्स्तोत्रसमाप्तौ ग्रन्थकृत्प्रथमं प्राचीनमहाकवीनां निपुणकविकर्मावधारणेन निजौचित्यम् 'एता: पूर्व-' इत्यादि श्लोकार्धेन वर्णयित्वापि तान्सर्वथा शिवभक्तिपराङ्मुखांस्तृणवदवधूयानेकजन्मपरम्परोपार्जितसुकृतावाप्तश्रीशिवभक्तिरसायनपानव्यसनिनां कृतिनां निजकाव्यस्य स्वयमतिस्पृहणीयतया निजवाण्याः साफल्यं प्रतिजानीते एताः पूर्वकविप्रणीतविविधग्रन्थामृतास्वादन- क्रीडादुर्ललितं हरन्ति हृदयं वाचः कथं धीमताम् । केषांचित्पुनरीश्वरस्तुतिपदव्याहारहेवाकिनां यास्यन्ति स्टहणीयतां भुवि भवक्लेशस्पृशां मादृशाम् ॥ ३६ ॥ एता इति । एता मदीया वाचो धीमतां सुमनसां हृदयं मनः कथं हरन्ति । तेषां हृद्याः कथं भवन्तीत्यर्थः । अत्र हेतुमाह - हृदयं किंभूतम् । पूर्वकवीत्यादि । पूर्वकविभिः कालिदासप्रभृतिभिः प्रणीता ये विविधा ग्रन्थाः संदर्भास्त एवामृतं तस्यास्वादस्तत्र या क्रीडा तस्यां दुर्ललितं तदास्वादे नित्याभ्यस्तम् । 'नित्याभ्यस्तं दुर्ललितम्' इति कोषः । तर्हि एतज्ज्ञात्वापि तव कोऽत्र संदर्भः कर्तव्य इति व्यसनातिशय इत्याह- केषांचिदिति । केषांचित्कतिपयानां विरलानां मादृशां भवत्क्लेशस्पृशां संसृतिजक्ले- शस्पृशां शिवस्तुतिपदव्याहारहेवाकिनां श्रीशिवस्तुत्यर्थपदानि यानि सुप्तिङन्तानि तेषां व्याहारः सम्यक्कथनं तत्र हेवाकोऽभिलाषो विद्यते येषां तादृशां पुनः स्वयमेवेत्यर्थात् । स्वयमेव स्पृहणीयतां भुवि भूमौ यास्यन्ति । एतद्वृत्तार्थाभिप्रायेण ममापीदं वृत्तम्- 'शिवमुद्दिश्य हि मन्ये धन्यो हालाककर्तापि । न पुनस्तदनुद्देशी संस्कृतबहुशास्त्र- कर्तापि' ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक महाकविश्रीजगद्धरभट्टविरचित भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ कविकाव्यप्रशंसास्तोत्रं पञ्चमम् । षष्ठं स्तोत्रम् । अथातो हराष्टकं षष्ठं स्तोत्रमारभमाण आह - जयत्यखिलखेचरप्रवरमौलिरत्नप्रभा- प्ररोहपरिपीवरीकृतनखांशुपादाम्बुजः विशालनयनत्रयीरचितधामधामत्रयी- तिरस्कृतजगत्रयीपरिणतान्धकारो हरः ॥ १॥ जयतीति । एवंभूतो हरः श्रीशिवो जयति सर्वोत्कृष्टो भवति । किंभूतः । खे स्वर्गे चरन्तीति खेचरा देवा अलक्ष्यभासः । 'खानि स्वर्गेन्द्रियाकाशाः' इति मङ्ख। तेषां ये प्रवरा ब्रह्मविष्णुशक्रादयस्तेषां मौलिषु मुकुटेषु यानि रत्नानि पद्मरागमणयस्तेषां प्रभाप्र- रोहा दीप्त्युत्थरशम्यग्राणि तैः परिपीवरीकृता मांसलीकृता नखांशवो नखकिरणाः स्व- भावतोऽतिलोहिता ययोस्तादृशे पादाम्बुजे पादकमले यस्य सः । पुनः किंभूतः । वि शाला अतिविस्तीर्णा । सूर्यचन्द्रवह्नीनामपि तत्रासंकुचितस्थत्वात् । तादृशी चासौ न- यनत्रयी नेत्रत्रयी तस्यां रचितं धाम स्थानं यया सा तादृशी चासौ धामत्रयी धाम्नां सूर्यचन्द्रवह्नीना त्रयी तथा तिरस्कृतं जगत्रय्यां परिणतं प्रौढमन्धकारं येन सः ॥ जयत्यमरदीर्घिकासलिलसेकसंवर्धेित- प्रचण्डनयनानलग्लपिततीव्रतापव्यथः । अचिन्त्यचरितोज्ज्वलज्वलदनन्यसाधारण- प्रभावमहिमाहितत्रिभुवनोपकारो हरः ॥ २ ॥ हरो जयति सर्वोत्कृष्टो भवति । किंभूतः । अचिन्त्येति । अचिन्त्यानि चिन्तितुम- शक्यानि यानि चरितानि तैरुज्ज्वलो ज्वलन्देदीप्यमानो योऽनन्यसाधारणो न परा- धीनो यस्तस्य प्रभावस्य महिमा महत्त्वं तेनाहितः कृतस्त्रिभुवन उपकारो येन सः । अत्राचिन्त्यचरितत्वे हेतुमाह - अमरदीर्घिकेत्यादि । अमराणां देवानां दीर्घिका पुष्क- रिणी स्वर्गङ्गा तस्या यत्सलिलं तस्य सेकः सेचनं तेन संवर्धितः प्रागल्भ्यं नीतो यो न- यनानलो नेत्राग्निस्तेन ग्लपिता शासिता तीव्रा कठिना तापव्यथा भवमरुभ्रमणजता- पस्य आध्यात्मिकाधिदैविकाधिभौतिकरूपस्य त्रिविधस्य तापस्य व्यथा येन सः । अत्र सलिलसेकादग्नेः प्रशम एव भवति तत्रापि तेन नयनाग्नेर्यत्प्राबल्येन ज्वलनमित्येकमद्भु- तम् । तत्रापि तेनैव नयनाग्निना तापव्यथाशम इत्यद्भुतं द्वितीयम् । अग्निना तु तापः प्रथत एवेति भावः ॥ जयत्यचलकन्यकाललितदोर्लतालिङ्गित- स्फुरद्गरलका[^१]लिकाकलितकान्तकण्ठस्थलः । तडिद्वलयलङ्घितोल्लसदमोघमेघभ्रम- प्रमत्तगुहबर्हिणोपहृतनृत्तहृष्टो हरः ॥ ३ ॥ हरः श्रीशिवो जयति सर्वोत्कृष्टो भवति । किंभूतः । अचलेत्यादि । अचलकन्यकायाः पार्वत्या या ललिता रम्या दोर्लता भुजलता तयालिङ्गितं स्फुरद्गरलकालिकाकान्तं क लितकालकूटाख्यविषविशेषकालिमकान्तं कण्ठस्थलं यस्य स तादृशः । पुनः किंभूतः । तडिद्वलयेन विद्युद्वलयेन लङ्गितः क्रान्तो य उल्लसन्नमोघः सनीरो मेघः । अतिश्यामल इत्यर्थः । तस्य भ्रमेण प्रमत्तो यो गुहस्य कार्तिकेयस्य बर्हिणो मयूरस्तेन उपहृतं स्वीकृतं यन्नृत्तं तेन तुष्टः । अत्र नीलकण्ठस्य सजलनीरद उपमानम् । अचलकन्यकादोर्लता- यास्तडिद्वलयमुपमानम् । भ्रान्तिमदलंकारः ॥ जयत्यविरलोच्छलद्गरलवह्निहेतिच्छटा- सटालफणभीषणक्षपणपाशमोक्षक्षमः । उदारकरुणारसप्रसरसारसिक्ताशयः प्रपन्नविपदर्णवोत्तरणकर्णधारो हरः ॥ ४ ॥ हरः श्रीशंभुर्जयति सर्वोत्कृष्टो भवति । किंभूतः । अविरलमुच्छलदुद्गच्छद्यद्गरलं विषं स एव वह्निस्तस्य या हेतिच्छटा शिखापङ्क्तिस्तया सटाला: सटाभिरिव युक्ता ये फणास्तैभीषणो यः क्षपणपाशो यमपाशः । 'क्षपणौ यमनिर्धनौ' इति कोषः । तस्मान्मोक्षः । शरणागतानामित्यर्थः । तस्मिन्क्षमः समर्थः । पुनः किंभूतः । उदारो यः क रुणारसः कृपामृतरसस्तस्य यः प्रवाहस्तस्य सारेण सिक्त आशयो यस्य सः । पुनः शंभुः किंभूतः । प्रपन्नाः शरणार्थमागतास्तेषां यो विपदर्णव आपत्समुद्रस्तस्योत्तरणे पारनिर्वाहे कर्णधारो नाविकः । 'कर्णधारस्तु नाविकः' इत्यमरः ॥ इदानीं परमेश्वरस्यापदानं वर्णयन्नाह जयत्युदधिनिःसरद्गरनिगारलब्धाभय- प्रमोदभरनिर्भरत्रिदशदैत्यवृन्दस्तुतः । रसातलतलोद्गतज्वलदलङ्घ्यलिङ्गोल्लस- न्महामहिममोहितद्रुहिणवासुदेवो हरः ॥ ५ ॥ जयत्युदधीति । हरः श्रीशंभुर्जयति सर्वोत्कृष्टो भवति । किंभूतः । उदधेः क्षीरोदधेर्निःसरन्यो गरः कालकूटाख्यो विषभेदस्तस्य यो निगारो निगलनं तेन यल्लब्धमभयं त्रिजगद्दाहकतादृशविषभयाभावस्तेन यः प्रमोदभरो हर्षभरस्तेन निर्भरं पूर्णं यत्रिदशदैत्यनृन्दं तेन स्तुतः । अन्यदप्यपदानमाह रसातलेत्यादि । रसातलतलात्पातालतलाद [^१]. 'कालिमा' इति क-पाठ:. नादि उद्गतं यदलङ्ग्यमलङ्गनीयं लिङ्गमनलस्कन्धरूपं तस्योल्लसंश्चासौ महामहिमा तेन मोहितौ द्रुहिणवासुदेवौ ब्रह्मविष्णू येन सः । तथा हि - 'तवैश्वर्यं यत्नाद्यदुपरि विरिञ्चो हरिरधः परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः । ततो भक्तिश्रद्धाभरगुरु गृणद्भ्यां गिरिश यत्स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥' इति श्रीपुष्पदन्तगणाधीशविरचिते महिम्नः (पार)स्तवराजे । द्रुह्यत्यसुरेभ्यो द्रुहिणो ब्रह्मा । वसन्त्यस्मिन्सर्वे देवा वासुः स चासौ देवः । वसुदेवनृपनन्दनो वासुदेवः ॥ अन्यदपि प्रभोरपदानमाह जयत्यतुलविक्रमोन्मिषदखर्वगर्वज्वर- ज्वलच्चपलमन्मथोन्मथनभग्नभोगस्पृहः दशास्यभुजमण्डलीतरलितैकपिङ्गाचल- त्रसद्गिरिसुताहठग्रथितकण्ठपीठो हरः ॥ ६ ॥ अतुलविक्रमेणोन्मिषन्नुल्लसन्नस्वर्वोऽनल्पो यो गर्वज्वरो दर्पज्वरस्तेन ज्वलन्यश्चपलो मन्मथः कामस्तस्योन्मथनं दाहेन भस्मीकरणं तेन भग्ना निवारिता भोगस्पृहा आत्मनो येन सः । कामदहन इत्यर्थः । पुनरपादानमाह - दशास्येति । दशास्यस्य दशमुखस्य रावणस्य या भुजानां विंशतिसंख्यानां मण्डली पङ्क्तिस्तया तरलित उत्थापितो य एकपिङ्गाचलो वैश्रवणाद्रिः कैलासस्तत्र त्रसन्ती सत्रासा चासौ गिरिसुता पार्वती तया ह ठेन बलात्कारेण ग्रथितमालिङ्गितं कण्ठपीठं यस्य सः । तथाहि — 'अमुष्य त्वत्सेवासमधिगतसारं भुजवनं बलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः । अलभ्या पातालेऽप्यलस चलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्यासीद्ध्रुवमुपचितो मुह्यति खलः ॥ इति श्रीगणाधीशपुष्पदन्तोक्तिः ॥ पुनरपदानमाह जयत्यकलितोल्लसन्मदभरोद्धरान्धासुर- प्रतिष्करणसान्त्वनप्रथितनिग्रहानुग्रहः । जगत्रयभयंकरत्रिपुरघोरदावावली- सलीलकवलीकृतिप्रलयवारिवाहो हरः ॥ ७ ॥ एवंभूतो हरः श्रीशंभुर्जयति । किंभूतः । अकलित :..। कलतिर्धातुः कामधे- नुरित्यभियुक्ताः । उल्लसन्यो मदभरस्तेनोद्धुर उद्भटश्वासावन्धासुरोऽन्धकासुरस्तस्य प्र तिष्करणं हिंसनं सान्त्वनं च ताभ्यां प्रथितौ निग्रहानुग्रहौ यस्य सः । तथा किंभूतः । जगत्रयेति । जगत्रये त्रिजगति भयंकराणि त्रिपुराणि त्रिपुरासुरपुराणि त्रीणि तान्येव घोरा चासौ दावावली दावाग्निपङ्क्तिः । 'दवदावौ वनारण्यवह्नी' इत्यमरः । तस्याः सलीलं कवलीकृतिर्निवापणं तत्र प्रलयवारिवाहः कल्पान्तमेघः । संवर्तक इ त्यर्थः । आरोपः । त्रिपुरदाहक इत्यर्थः ॥ जयत्यघवनाशनिः सुमतिमाधवीमाधवः कृपामृतपयोनिधिर्भवमहार्णवैकप्लवः । विपत्तृणसमीरणः प्रणयिचित्तचिन्तामणिः समस्तभुवनोदयप्रलयकेलिकारो हरः ॥ ८ ॥ हरः श्रीशिवो जयति । अत्रारोपः - श्रीशंभुः कः । अघवनाशनिः । अघमेव वाङ्मनः- कायकृतं त्रिविधं पापमेव वनं काननं तत्राशनिर्दम्भोलिः । पुनः श्रीशिवः कः । सुमति- रेव माधवीलता तस्या माधवो वसन्तः । विकासक इत्यर्थः । पुनः कः । कृपैवामृतं तस्य पयोनिधिः समुद्रः । पुनः कः । भवः संसार एव महार्णवस्तत्र एकप्लव एक उ डुपः । पुनश्च कः । विपदेव तृणं तत्र समीरणो वातः । निवारक इत्यर्थः । पुनः कः । प्र- णयिनां यच्चित्तं तात्स्थ्याल्लक्षण्या चित्तस्थं तत्र चिन्तामणिः । यथेप्सितप्रद इत्यर्थः । पुनः । समस्तानि यानि भुवनानि सचत्वारिंशच्छतद्वयप्रमितानि तेषां यावुदयप्रलयौ स- र्गनाशी तावेव केलिस्तं करोतीति तादृशः । परम्परितरूपकम् । इति भद्रम् ॥ इति श्रीशारदाचरणसरोजरजःकणपवित्रस्थलव्यास्तव्यविपश्चिद्वरराजानकशंकरकण्ठात्मजराजानकरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ हराष्टकं नाम षष्ठं स्तोत्रम् । सप्तमं स्तोत्रम् । अथात: सेवाभिनन्दनाख्यं सप्तमं स्तोत्रमारभमाण आह निशान्तनिद्रेव दशेव शैशवी नवीनवध्वाश्चकितेव दृक्छटा सुरस्रवन्तीव कथेव शांभवी कवीन्द्रवाङ्निर्वृतिमातनोतु वः ॥ १ ॥ कवीनां निपुणकविकर्मकृतामिन्द्रा महाकवयस्तेषां वाणी वो युष्माकं निर्वृतिं निः - श्रेयसमात्यन्तिकदुःखनिवृत्तिमातनोतु विस्तारयतु । केव । निशाया अन्तोऽवसानं तत्र निद्रा स्वाप इव । सापि यथा निर्वृतिं सुखं करोति । पुनश्च केव। शिशोरियं शैशवी दशा अवस्थेव बाललीलेव । तत्र बालस्य सर्वतो निश्चिन्तत्वादित्यर्थः । पुनश्च केव। न- वोनवध्वा नवोढायाः स्त्रियश्चकिता सत्रासा । वरमुद्दिश्य झगिति वक्रविलोकनात्सापि तथैव । पुनश्च केव । सुरस्रवन्ती स्वर्नदी गङ्गेव । सापि स्नानजलपानादिना निर्वृतिं क रोति । एताभ्योऽप्युपमाभ्यः सर्वोत्कृष्टामुपमामाह - पुनः केव । शांभवी परमशिवसंब- न्धिनी कथेव श्रीशिवमुद्दिश्य प्रबन्धकल्पनेव। 'प्रबन्धकल्पना कथा' इत्यमरः । मालो- पमालंकारः ॥ प्रस्तुतं वर्णयति अलौकिकाह्लादनिबन्धनं मनःप्रसादनं स्वानुभवैकसाक्षिकम् । प्रकाशतां वो हृदि पारमेश्वरं महो रहस्यं सुकवेर्गिरामिव ॥ २ ॥ पारमेश्वरं परमेश्वरसंबन्धि महः सच्चिदानन्दघनज्योतिःस्वरूपं वो हृदि हृदये प्रकाशतां प्रकटीभवतु । किंभूतम् । अलौकिकेति । लोके भवो लौकिकः । न लौकिकोऽलौकिकः । तादृशश्चासावानन्दः परमानन्दस्तं निवध्नातीति । अपूर्वं परमानन्दमुत्पादयतीत्यर्थः पुनः किंभूतम् । मनःप्रसादनम् । मनः प्रसादयति मायावरणाद्याच्छिद्य निर्मलीकरोति । पुनः किंभूतम् । स्वानुभव एवैकः साक्षी यस्य तत् । किमिव । कवेर्महाकवेर्गिरां वाचां रहस्यमिव । गुरुसंप्रदायादवगतमित्यर्थः । तदपि किंभूतम् । अलौकिको य आह्लादो वि गलितवेद्यान्तरः परमानन्दस्तन्निबन्धनम् । तथा मनःप्रसादनम् । स्वानुभवैकसाक्षिकं च । अन्यैर्दुर्बोधत्वादित्यर्थः ॥ स यस्य चापात्सपदि च्युतोऽच्युतः शिखाभिरुग्रो विशिखः शिखावतः । पुराण्यकार्षीदपुराणि भैरवो भयानि भिन्द्यादभवो भवः स वः ॥ ३ ॥ स भवः श्रीशंभुः अविद्यमानो भव उत्पत्तिर्यस्य सः । अनादित्वात् । वो युंष्माकं भयानि ऐहिकामुष्मिकानि भिन्द्यात् । स क इत्याह - यस्य श्रीशंभोः स प्रसिद्धोऽच्युतो विष्णुर्विशिखः शरस्त्रिपुरदाहार्थं शरीभूतो यस्यैव चापाद्धनुषः । मन्दराद्रेरिति शेषः । ध नुर्भूतान्मन्दराद्रेश्च्युतः पतितः । तथाहि महिम्नः स्तवराजे – 'रथः क्षोणी यन्ता शत- धृतिरगेन्द्रो धनुरथो स्थाङ्गे चन्द्रार्कौ रथचरणपाणि: शर इति' इत्यादि । शिखावतो- ऽग्नेः । मार्गणफलभूतादिति शेषः । शिखाभिः पुराणि त्रिपुरस्वरूपाणि अपुराणि अन- गराण्यकार्षीद्व्यधित । अत्र च्युतः अच्युत इति, विशिखः शिखाभिरुग्र इति, पुराणि अ- पुराणि इति भवति विरोधाभासोऽलंकारः ॥ स यस्य पृष्ठे चरणार्पणं वृषा वृषाधिरोहे कलयत्यनुग्रहम् । त्रि[^१]लोकनाथः स गिरा सुधावृषा वृषाकपिस्तापमपाकरोतु वः ॥ ४ ॥ स त्रिलोकनाथो वृषाकपिः श्रीशिवः । 'वृषाकृपी वह्नि (विष्णु) शिवावग्निरिन्द्रो दिवाकरः' इति मङ्खः । वो युष्माकं तापमाध्यात्मिकाद्यं त्रिविधमपाकरोतु । कया । गिरा वाचा । किंभूतया । सुधावृषा सुधां वर्षतीति सुधावृट् तया । स क इत्याह-वृषा इन्द्रः । 'वासवो वृत्रहा वृषा' इत्यमरः । पृष्ठे स्वस्य पृष्ठे यस्य चरणार्पणं चरणस्य श्री- शिवपादस्यार्पणं न्यासमनुग्रहं महाप्रसादं कलयति जानाति । कदा । वृषाधिरोहे वृषस्य वृषभस्य शंभुवाहनस्याधिरोह आरोहणे ॥ स यस्य पादद्वयमिद्धशासनः सदा समभ्यर्चति पाकशासनः । प्रभुः प्रसादामलया दृशा स नः क्रियाद्विपद्भङ्गमनङ्गशासनः ॥ ५ ॥ स प्रभुः अनङ्गं शासति हन्तीति । 'शासु हिंसायाम्' धातुः । अनङ्गशासनः श्रीशिवः प्रसादेन कृपानुग्रहेणामलया निर्मलया दृशा दृष्टया नो विपदो जरामरणोत्थव्यापद- स्तासां भङ्गो नाशस्तं क्रियात् करोतु । स क इत्याह-पाकशासनो दितिगर्भाणां शासनो घातक इन्द्रः इद्धं दीप्तं शासनमाज्ञारूपं यस्य स तादृशो यस्य श्रीशिवस्य पादद्वयमङ्घ्रि युगं सदा समभ्यर्चति सम्यक् सावधानचित्ततयाभ्यर्चति पूजयति ॥ [^१]. 'प्रसन्नभावः स गिरा सुधावृषा' इति ख-पाठः. चमूर्जयन्भीजनकानका न काः स यस्य सूनुः क्लमहा महामहाः । जटाः स बिभ्रत्तरुणारुणारुणाः श्रियः क्रियाद्वः शुभयाभयाभयाः ॥ ६॥ शुभया आभया नित्यप्रभया दीप्त्या उपलक्षितः श्रीशंभुः अविद्यमानं भयं नाशभयं यासां ताः श्रियो लक्ष्मीरूपा वो युष्माकं क्रियात् । स श्रीशिवः किंभूतः । जटा बिभ्रत् । कीदृशीः । तरुणारुणारुणाः तरुणो योऽरुणः सूर्य: । 'मिहिरारुणपूषण:' इत्यमरः । तद्व- दरुणा रक्ताः । यतो 'धूर्जटिर्नीललोहितः' इत्यत्र 'नीलः कण्ठे लोहितः केशेषु' इति स्वामी । जटा बिभ्रत् । कपिलकेशो भगवान् इत्यागमः । स क इत्याह - महामहाः महन्महस्तेजो यस्य स महामहा अतितेजस्वी । क्लमहा क्लमं भक्तजनस्य दुःखं हन्तीति तादृशः । तथा का न चमूर्जयन् । अर्थाद्दैत्यानां चमूः सेनाः । किंभूता । भीजनकानकाः भियं परसैन्यस्य जनयन्तीति भीजनका आनकाः पटहा यासु ताः । एवंभूता अपि चमूर्जयन्यस्य सूनुः स कुमार: सेनानीर्भवति ॥ मयि [^१]ध्रुवं दृग्भवता बताबता कृपामृतार्द्रा महिता हिताहिता । अतस्तवास्तप्रमयामया मया कृता नुतिः सातिशयाशयाशया ॥ ७ ॥ ध्रुवं निश्चये । हे शंभो इति शेषः । कृपामृतार्द्रा कृपैवामृतं तेनार्द्रा सरसा । तथा म हिता पूजिता । सकलजगत्येवेत्यर्थः । तथा हिता हितकारिणी च (दृक् ) अवता रक्षता भवता त्वया मयि ध्रुवं निश्चयेनाहिता निहिता ( बत) अतो हेतोरस्तप्रमयामया प्रमयो मृत्युः । 'प्रमयोऽस्त्री दीर्घनिद्रा हिंसा संस्था निमीलनम्' इत्यमरः । आमयो रोगः । अस्तौ दूरीकृतौ प्रमयामयौ मृत्युरोगौ यया सा । अस्तः प्रमयो मृत्युरेव वा रोगो महा- रोगो यया तादृशी तव नुतिः स्तुतिः (मया) कृता । कया । सातिशयाशयाशया । सह अतिशयेन दयादाक्षिण्यादिगुणोत्कर्षेण वर्तते योऽसावाशयः तत्र या आशा परमेश्वरा- नुग्रहेण शिवाभेदप्रथापरिज्ञानाप्त्याशा तया ॥ अनभ्रवर्षप्रतिमं विमत्सरा नरा जरारुड्मरणार्तिभीरवः । [^२]मेधा सुधासूतिवतंसशंसनं विहाय धावन्ति रसायनाय किम् ॥ ८ ॥ विमत्सरा विगतो मत्सरः परोत्कर्षासहनं येषां ते । शान्तमनस्का इत्यर्थः । तथा जरा रुजो नाना व्याधयः मरणं कालधर्मश्च तैर्या आर्तिः पीडा तस्या भीरवस्त्रस्ता नरा रसायनाय । जरामृत्युहरणार्थमौषधं रसायनम् । 'कल्प' इति भाषायां प्रसिद्धम् । तस्मै किं मुधा व्यर्थे धावन्ति । किं कृत्वा । सुधासूतिवतंसशंसनं सुधासूतिश्चन्द्रोऽवतंसे यस्य स चन्द्रावतंसः श्रीशिवः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । तस्य श्रीशिवस्य शंसनं स्तुतिं विहाय । किंभूतम् । अनभ्रवर्षेण प्रतिमा यस्य तत् । अनभ्रव- र्षवदकस्मात्तदनुग्रहेणाप्तम् । श्रीशिवस्तुतिरसायनामृतेन हि मृत्युत्रासापगमः । अतः केवलं जरापमृत्युमात्रहरणसमर्थेन रसायनेन किं कार्यमिति भावः ॥ मणिः सुसूक्ष्मोऽपि यथोल्बणं विषं कृशोऽपि वह्निः सुमहद्यथा तृणम् । शिशुर्मृगेन्द्रोऽपि तथा गजव्रजं तनुः प्रदीपोऽपि यथा तमोभरम् ॥ ९ ॥ [^१]. 'ध्रुवं या भवता' इति क-पाठ: [^२]. 'सुधा' इति ख-पाठः यथाल्पमप्यौषधमुन्मदं गदं यथामृतं स्तोकमपि क्षयाद्भयम् । [^१]ध्रुवं तथैवाणुरपि स्तवः प्रभोः क्षणादघं दीर्घमपि व्यपोहति ॥१०॥ (युग्मम् ) मणिः सुसूक्ष्मेति, यथाल्पमिति च युग्मम् । ध्रुवं निश्चये । अणुरप्यतिसूक्ष्मोऽपि वृत्तैकमात्रः पदैकमात्रः यया कयापि भाषया कृतो वा स्वल्पोऽपि प्रभोस्त्रिजगदीशस्य श्रीशिवस्य स्तवो दीर्घमप्यनेकजन्मशतोपार्जितमप्यघं वाङ्मनःकायोपार्जितं पापं क्ष- णाद्व्यपोहति विशेषेणापोहति दूरीकरोति । कः कमिवेत्याह- यथा सुसूक्ष्मोऽप्यत्यन्त सूक्ष्मोऽपि मणिर्गारुत्मताख्यो मणिभेद उल्बणमुद्भटं विषं गरं व्यपोहति । यथा वा कृ- शोsपि कणिकामात्रोऽपि वह्निरग्निः सुमहद्बहुभारसमुञ्चितं तृणं व्यपोहति दहति । यथा वा शिशुरेकद्विमासीयोऽपि मृगेन्द्र सिंहो गजव्रजं हास्तिकं व्यपोहति हन्ति । तनुर- त्यन्तसूक्ष्मोऽपि प्रदीपो यथा तमोभरं समस्तमन्धकारं व्यपोहति हन्ति । यथा वाल्प- मपि रक्तिकामात्रमप्यौषधमुन्मदं महोग्रं रोगमपोहति हन्ति । यथा च स्तोकमपि चु- लकमात्रमप्यमृतं रसायनं क्षयं जरामृत्युसमर्थं रोगं क्षयं यक्ष्माणं महारोगं वा । 'यक्ष्मा क्षयः शोषः' इत्यमरः ॥ युग्मम् ॥ अमन्दसंदर्भगभीरविभ्रमः [^३]प्रेगल्भवैदर्भपरिश्रमः क्रमः । अवश्यमासाद्य गुणोचितं विभुं बिभर्ति सौभाग्यमभङ्गुरं गिरः ॥ ११ ॥ कवेरिति शेषः । कवेर्धन्यस्य अमन्दो महान्यः संदर्भः प्रबन्धस्तत्र गभीर: कुशाग्रीयधिषणैरेव गम्यो विभ्रम उल्लासो यस्य स तादृशः तथा प्रगल्भः प्रौढो वैदर्भो विदर्भदेशजः परिश्रमो वैदर्भीरीतिरचनापरिश्रमो यस्य सः । गिरो वाण्या: क्रमः परिपाट्या विन्यासो गुणैस्त्रिजगदनुग्रहसंसाराम्बुध्युत्तारणादिगुणैरप्युचितं योग्यं विभुं परमेशमासाद्य प्राप्यावश्यमभङ्गुरं पूर्णं सौभाग्यं बिभर्ति । यथा कामिन्याः क्रमो व्यवहारः सगुणं कामिनमासाद्य सौभाग्यं परमं बिभर्ति तथेत्यर्थः । 'गुणोर्जितं' इति पाठे गुणैः सर्वज्ञतातृप्त्यादिभिः षड्भिरूर्जितं सबलमित्यर्थः ॥ अधुना तद्वैपरीत्येन कविवाण्याः शोच्यतां वृत्तत्रयेणाह यथा हि शीलेन विना कुलाङ्गना यथा विवेकेन विना मनीषिता । सदर्थबोधेन विना यथा श्रुतिर्महीभुजंगेन विना यथा मही ॥ १२ ॥ यथा विना द्यौररविन्दबन्धुना विना शशाङ्केन [^३]यथा निशीथिनी । वि[^४]दग्धवर्गेण विना यथा समा विना विभूतिर्विनयेन वा यथा ॥१३॥ [^१]. ' एवं तथैवाणुरपि' इति ख- पाठ : [^२]. प्रसन्नवैदर्भ' इति ख- पाठः [^३].'निशीथिनी यथा' इति ख-पाठ: [^४]. स्व पुस्तके 'विदग्धवर्गेण -' इत्यादेः, 'कृपाविपाकेन-' इत्यादेश्चार्धस्य व्यत्ययोऽस्ति. कृपाविपाकेन विना यथा मतिर्यथा सुपुत्रेण विना गृहस्थितिः । तथैव शोच्या हरिणाङ्कशेखरस्तवोपयोगेन विना सरस्वती ॥ १४ ॥ (तिलकम्) यथा हि शीलेनेति, यथा विना द्यौरिति, कृपाविपाकेनेति, तिलकम् । शीलेन स- दाचारेण विना यथा कुलस्त्री शोच्या शोचनीया भवति, विवेकेन कार्याकार्यविचारेण विना यथा मनीषिता वैदुष्यं शोच्या भवति, यथा च श्रुतिः श्रवणं सदर्थबोधेन संस्ता- त्त्विको योऽर्थस्तस्य बोधो ज्ञानं तेन विना यथा शोच्या भवति । 'भुजङ्गः खिङ्गसर्पयोः । कामुकेऽपि' इति मङ्खः । महीभुजंगेन पृथ्वीपतिना नेत्रा विना यथा पृथ्वी शोच्या, अरविन्दबन्धुना कमलबान्धवेन रविणा विना यथा द्यौर्विंयच्छोच्या, यथा शशाङ्केन चन्द्रमसा विना निशीथिनी रात्रिः शोच्या भवति, विदग्धवर्गेण विदग्धानां मनोषिणां निपुणकविकर्मकृतां वर्गेण समूहेन विना यथा सभा परिषच्छोच्या भवति । विभूतिर्महै- श्वर्यमपि विनयेन क्षमापरपर्यायेण विना यथा शोच्या, मतिर्धिषणा कृपाया दीनजनोप- काररूपाया विपाक आधिक्यं तेन विना यथा शोच्या, सुपुत्रेण गुणवता तनयेन विना गृहस्थितिः । तात्स्थ्यात्ताच्छन्द्य (?) इति गृहशब्देन गृहस्थ उच्यते । गृहस्थितिर्गृहस्थ स्थितिर्गृहमर्यादा वा यथा शोच्या, तथैव हरिणाङ्कशेखरस्तवोपयोगेन चन्द्रशेखरस्तुत्यु - पयोगेन विना सरस्वती । कवेरिति शेषः । कविवाणी तथैव शोच्येत्यर्थः । 'भगवत्प- दाम्बुजस्तवोपयोगेन' इति च पाठो दृश्यते । कुनृपतिप्रभृतिस्तुतिरूपं प्रलापं विहाय श्रीशिवस्तुत्यमृतरसासिक्तचेतोभिः कविवरैस्तत्स्तुतिकथास्वेवाहर्निशं यत्नो विधेय इत्यर्थः ॥ तिलकम् ॥ इदानीं सकलं विहाय श्रीशिवभक्तिप्रसङ्गेण मनो विनोदयति रमापि देवी मम नो मनोरमा क्षमापि मा[^१]मभ्यवपत्तुमक्षमा । मम क्षमैका भगवत्परा पुनर्भवार्तिभङ्गे सरसा सरस्वती ॥ १५ ॥ रमादेवी लक्ष्मीरपि मम संयतचित्तस्य मनोरमा हृद्या न । तथा क्षमापि । अत्रापि देवीत्यध्याहारः । 'क्षितिक्षान्त्यौ क्षमे' इत्यमरः । क्षमादेवी पृथ्वीदेव्यपि मामभ्यवपत्तु- माश्वासयितुम् । जन्मजरामरणार्दितमातुरमित्यर्थ: । सापि न क्षमा न समर्था । अत्र सिद्धान्तपक्षमाह - ममैषा सरस्वती वाणी सरसा सह रसेन तदेकताभावनारसेन वर्तते या सा तादृशी भवार्तिभङ्गे भवस्य जन्मनः । उपलक्षणमेतत् । भवार्तेर्जन्ममरणार्तेर्भङ्ग- स्तस्मिन्सैवैका मम वाणी क्षमा भवति । आत्यन्तिकदुःखनिवृत्तिविधायिनी सैवैका भव- तीत्यर्थः ॥ अचेतनो यः किल कुस्थितिप्रियः पृथग्विधोपाधिशतक्षताशयः । निषेव्यते पादतले स यद्गिरिश्चिरं मुनीन्द्रैरपि [^२]शुद्धमानसः ॥ १६ ॥ [^१]. 'अभ्यवपातुं' इति क पाठ: [^२]. 'शुद्धमानसैः' इति ख- पाठः निसर्गतः सत्पथगर्हितस्थितिर्मलीमसो जिह्मगतिश्च यः फणी । स कुण्डली यन्मणिमौलिमण्डितो महाभुजंगः पृथुभोगभागपि ॥ १७ ॥ यदप्यजस्त्रं जडसंगमोचितः स्वभावतुच्छः शशभृत्कलामयः । कलङ्कमुक्तं वहते सुधामयं विधूतदोषोदयमुज्ज्वलं वपुः ॥ १८ ॥ स एष गौरीश्वरसंश्रयात्मनः फलोद्गमः कल्पमहामहीरुहः । अमुं समासादयितुं हितायतिर्यतेत को नाम न चेतनो जनः ॥ १९ ॥ (संदानितकम् )[^१] अचेतन इति, निसर्गत इति, यदपीति, स एष इति, चतुर्भिः संदानितकम् । संदानितकं चतुर्भिर्वृत्तैरेकान्वयसंबन्धेन । गौरीश्वरोऽर्धनारीश्वरः स्वेच्छया श्रीशिवः तस्य संश्रयो वाङ्मनःकायकर्मभिस्तत्पादाश्रयणं स एवात्मा स्वरूपं यस्य स तादृशात् । क ल्पयति सकलाभीष्टकल्पनाः प्रार्थयितुर्जनस्य कल्पः कल्पश्चासौ महामहीरुट् महावृक्षः । हलन्तो महीरुह्शब्दः । तस्मात्कल्पमहामहीरुहः श्रीशिवाश्रयणकल्पवृक्षात् स एष अचेतन इत्यादिवृत्तत्रये वर्णितः फलोद्गमो भवति । स एष क इत्याह – अचेतन इत्यादि । किल प्रसिद्धौ । अचेतनो निश्चेतनः । स्थावरत्वात् । तथा च कुर्भूमिः कौ भूमौ स्थितिः सैव प्रिया हृद्या यस्य । तथा पृथग्विधानि नानाविधानि यान्युपाधिशतानि उप समीपे आधय: पीडा वनगजदुष्टसत्त्वादिकृतास्तेषां शतेन क्षत आशयो मध्यं यस्य स ईदृशो यो गिरिः शैलः कैलासः स श्रीशिवनिवासस्थानौचित्यात् । किंभूतः । शुद्धमानसः शुद्धं मानसं मानसाख्यसरोविशेषो यस्य सः । मुनीन्द्रैश्चिरं बहुकालं पादतले पादाः प्रत्यन्तपर्वतास्तेषां तले यन्निषेव्यते स एष गौरीश्वरसंश्रयणकल्पवृक्षफलोद्गम इत्यर्थः । अथ च यः किल मर्त्योऽचेतनो मन्दबुद्धिः कुत्सिता चासौ स्थितिर्मर्यादा सैव प्रिया यस्य स तादृशः तथा पृथग्विधानि यान्युपाधीनां छिद्राणां शत्रुविहितपराभवानेकविधव्याधिरूपाणां शतानि तैः क्षत आशयश्चित्तं यस्य स तादृशोऽपि गौरीश्चरचरणाम्बुरुहैकाश्रयः सञ्शुद्धमानसः शुद्धं मानसं चित्तं यस्य स तादृशः सन्मुनीन्द्रैरपि पादतले चरणतले निषेव्यते स एष शंभुचरणाश्रयणकल्पवृक्षफलोद्गम इत्यर्थः ॥ निसर्ग इति । फणी निसर्गतः स्वभावतः सत्पथे राजमार्गादौ गर्हिता कुत्सिता गतिर्यस्य । भुजंगत्वात् । तथा मलीमस: श्यामवर्णः । जिह्मगतिः कुटिलगतिश्च भवति सोऽपि फणी नाग एवंविधविशेषणविशिष्टो यो ज्ञातः । किंभूतः । कुण्डली "आसीनस्य कुण्डलमिवास्येति कुण्डली' इति पूर्वे । वयं तु – कुण्डलमनुकरोतीति कुण्डलशब्दात्प्रातिपदिकात्स्वार्थणिज न्ताद् घञर्थणिजर्थके कुण्डली इति ब्रूमहे" इति रायमुकुट्याम् । मणिमौलिमण्डितो मणियुक्तश्वासौ मौलिस्तेन मण्डितः शोभितः । तथा महाभुजंगः भुजं कुटिलं गच्छतीति भुजंगः महांश्चासौ भुजंगः फणिराजः । तथा पृथुभोगान् पृथुफणान् पृथुभोगं शरीरं वा [^१]. ख- पुस्तके 'संदानितकम्' इत्यस्य स्थाने 'चक्कलकम्' इत्यस्ति. भजतीति तादृशो वासुकिर्यदीयमौल्याश्रयणाजात इत्यर्थः । अथ च यो निसर्गतः स्वभा वात्सतां विदुषां पथे गर्हिता निन्दिता स्थितिर्यस्य स तादृशो भवति । तथा मलीमसो मलिनाशयः । जिह्यं न्याय्याद्विपरीतं गच्छतीति तादृशोऽपि यदाश्रयणात् कुण्डली कु- ण्डले कर्णकुण्डले यस्य स तादृशः तथा मणियुक्तमौलिमण्डितः । तथा महाभुजंगो महाकामी । पृथुभोगान्महतो विषयान्भजति तादृशोऽपि भवति स एष गौरीश्वरसंश्रय- णकल्पवृक्षस्य फलोद्गमो भवतीत्यर्थः ॥ यदपीति । अजस्रं सदैव जडेन जलेन । लडयो- रैक्यात् । अब्धेर्जातत्वात्सततं जलसंगमे उचितः । तथा कलामय एककलामयः । अत एव स्वभावेन तुच्छः । एवंभूतो यद्विधूतदोषोदयं विधूतो दूरीकृतो दोषा रात्रावुदयो येन । दिवा च रात्रावपि तत्रभासनात् । तथा सुधामयममृतमयमुज्ज्वलं शुभ्रं वपुर्यद्वहति स एष गौरीश्वरसंश्रयणकल्पवृक्षोत्थफलोद्गम इत्यर्थः । अथ च योऽपि नरो जडानां मूढानां संगमे उचितस्तथा स्वभावेन तुच्छो नीचप्रकृतिः तथा कलामयः शिल्पी सोऽपि गौरी- श्वरचरणाश्रयणात्कलङ्केन पातकादिकलङ्केन निर्दयतया वा मुक्तं सुधामवममृतमयमिव विधूतो गतो दोषाणामुदयो यस्य तत्तादृशमुज्ज्वलं वपुर्वहति यत्स एष श्रीशिवानुग्रह फलोद्गम इत्यर्थः । इदानीं पूर्वोक्तार्थसमुच्चयेन सहृदयजनं बोधयत्यवशिष्टवृत्तार्धेनामुमि- त्यादिना – हि निश्चये । अमुं गौरीश्वराश्रयं हिता आयतिरागामिकालो यस्य स तादृशः को नाम सचेतनश्चेतनावाञ्जनः समासादयितुं प्राप्तुं न यतेत यत्नवान्भवेत् ॥ संदानि- तकम् ॥ निदाघनिर्दग्धमहामरुभ्रमक्लमच्छिदो मार्गमहीरुहादपि । कलिन्दकन्या[^१]सलिलौघसंगतत्रिमार्गगाम्भोभरसंप्लवादपि ॥ २० ॥ सरस्वतीसौभगसारसंभृतप्रसन्नगम्भीरपदक्रमादपि । कुरङ्गनाभीघनकुङ्कुमाङ्कितस्तनाङ्गनालिङ्गनविभ्रमादपि ॥ २१ ॥ अमन्दमानन्दसुधारसद्रवं स्रवन्नवन्ध्यं भवदुःखिते हृदि । इयत्यमुष्मिन्भुवनाध्वनि ध्वनिर्नमः शिवायेति चमत्करोति मे ॥ २२ ॥ (तिलकम्) निदाघेति, सरस्वतीति, अमन्देति, तिलकम् । इयति दूरे भुवनाध्वनि भूलोकमार्गे भुवनाध्वनि वा आगमशास्त्रप्रसिद्धेऽमुष्मिन् श्रीशिवचरणाम्बुजभावनयोक्तो नमः शिवायेतिशब्दो भवदुःखिते भवेत्युपलक्षणम् । भवादिदुःखिते जन्मजरामरणादिदुःखिते मे मम हृदि हृदये अवन्ध्यं सफलम् । परं विश्रान्तिदायित्वात् अमन्दमानन्दसुधारसद्रवं परमानन्दामृतरसप्रवाहं स्रवन्मे मम एतेभ्यः सर्वेभ्यः सकाशाच्चमत्करोति अत्यन्तं चमत्करोति । एतेभ्यः केभ्य इत्याह - निदाघेति । 'अथ ग्रीष्मे निदाघः स्वेदतापयोः ' इति··· । निदाघेन ग्रीष्मोत्थसंतापेन निर्दग्धो यो महामरुर्महान्निर्जलो देशः । 'समानौ [^१]. 'सलिलौघलङ्गित' इति ख- पाठः. मरुधन्वानौ' इत्यमरः । तत्र ये भ्रमन्तो जनास्तेषां क्लमः खेदस्तं छिनत्तीति तादृशा- न्मार्गमहीरुहान्मार्गे छायातरोरप्यमन्दानन्ददायी नमः शिवायेति शब्द इत्यर्थः । तथा कलिन्दकन्यायाः कालिन्द्या यमुनायाः सलिलौघेन संगतो मिलितो यस्त्रिमार्गगाम्भोभरो गङ्गासलिलौघस्तस्य यः संप्लवो जलपूरस्तस्मादपि, तथा सरस्वत्या वाग्देव्या यः सौ- भगसारः सूक्तिपाटवं तेन संभृतः पूर्णो यः प्रसन्नः प्रसादगुणयुक्तो गम्भोरो मन्द- धिषणैर्दुरवबोधाभिप्रायः कविक्रमः कविपदक्रमस्तस्मादपि तथा कुरङ्गनाभी एणनाभी कस्तूरिका सा च घनं कुङ्कुमं कश्मीरजं च ताभ्यामङ्कितौ स्तनौ यस्यास्तादृशी या अङ्गना वरस्त्री तस्या आलिङ्गनस्य विलासो दृढालिङ्गनमालिङ्गनमेव वा विलासस्तस्मा- दप्यमन्दमानन्दरसामृतद्रवं स्रवन्नित्यर्थः ॥ तिलकम् ॥ विचिन्तयञ्जीवनमेव जीवनं समर्थयन्पार्थिवमेव पार्थिवम् । विभावयन्वैभवमेव वैभवं कदाश्रये शंकरमेव शंकरम् ॥ २३ ॥ अहं कदा कस्मिन्काले शुभसमये शंकरं शं कैवल्यमात्यन्तिकदुःखनिवृत्तिरूपं करो- ति शंकरः । तं शंकरं श्रीशिवभट्टारकं श्रये शरणं व्रजामि । किं कुर्वन् । जीवनं जीव- धारणं जीवनं सलिलमर्थाच्चपलं प्रवहद्विचिन्तयञ्जानन् । यद्वा जीवनं जलं विभुसंबन्धि गङ्गाजलम् । 'जीवनं भुवनं वनम्' इत्यमरः । जीवनमाप्यायकं स्वदेहधारणतृप्तिकरं वि- चिन्तयन् । कोऽर्थः । गङ्गाजलमात्रपानेनैव देहतर्पणं करिष्य इति चिन्तयन्नित्यर्थः । तथा पार्थिवं राजानं पृथिव्या मृद्रूपया पञ्चमहाभूत[व्यापि]मुख्यया निर्मितः पार्थिवस्तादृशं विशेषेण चिन्तयन् । यद्वा पार्थिवं मृण्मयं लिङ्गमेव पार्थिवं वदान्यं राजानं समर्थयन्दृढीकुर्वन् । य एत ) दुक्तं भवति - मृण्मयशिवलिङ्गार्चनेनैव सर्वम नोरथपूरणं भविष्यति किंचिन्मात्रदायिनृपतिसेवनं न विधास्य इति संभावयन्नित्यर्थः । 'अश्लीलं किमपि पुरुषार्थप्रसवि ते' इत्युक्तेः । तथा वै प्रसिद्धौ । भवं संसारं वैभवमा- धिपत्यमेव कतिपयदिनस्थापिनमसारं विचिन्तयन् । अथवा भवं संसारं वैभवं विभुसं- बन्धि एव विभावयन् विशेषेण भावयन् । 'सर्वे शिवमयं जगत्' इति निश्चिन्वन्सन्कदा परमेश्वरमाश्रय इति ॥ वरं भवेदप्यवरं कलेवरं परं हराराधनसाधनं हि यत् । न तु क्रतुध्वंसिनिषेवणोत्सवं विनिघ्नती मुक्तिरयुक्तिपातिनी ॥२४॥ अपिशब्दो भिन्नक्रमः । अवरमधमं वस्तुतो विचार्यमाणेऽपवित्रमेव तत्कलेवरं शरीरं वरमुत्कृष्टमतीवमान्यं भवति । तत्किमित्याह – यत्कलेवरं परं केवलं हराराधन- साधनं हारस्याराधनं साधयतीति तादृशम् । धन्यं तदेवेत्यर्थः । न पुनरुक्तिः (?) वरं मा भवत्वित्यर्थः । अत्र हेतुमाह - 'क्रतुध्वंसी वृषध्वजः' इत्यमरः । क्रतुध्वंसिनः श्री- शिवस्य निषेवणं वाङ्मनःकायकर्मभिर्नित्यमुपासनं स एवोत्सवो महोत्सवस्तं विनिघ्नती विशेषेण घ्नती । श्रीशंभुसेवानन्दं हन्यमानेत्यर्थः । अन्यच्च किंभूता । अयुक्त्या अकस्मा- देव युक्तिं विना श्रीशिवानुग्रहेणापतन्ती । अपि मुक्तिर्न वरा श्रेष्ठेत्यर्थः । कलेवरे शिरः- करचरणादिभिः परमेश्वरसेवा तावत्साध्यते मुक्तिस्तु निर्देहत्वाच्छिवार्चाविघ्नकारिणी- त्याशयः । तथा चैतद्द्वृत्ताभिप्रायानुसारेण ममापि वृत्तमिदम् – 'वीक्षे न यत्र नयनत्रि- तयाभिरामं राकेन्दुतर्जि मुखमीश्वर तावकीनम् । दासस्य नाथ कृपया भवता वितीर्णं सायुज्यमीदृगपि वेद्मि विडम्बनं मे ॥" इति ॥ इदानीं 'वरं भवेदप्यवरं कलेवरं' इत्यस्यैव वृत्तस्याभिप्रायं विस्तरेण समर्थयति- क्व नीलकण्ठायतनोपसर्पणस्फुटोपकारौ चरणौ महागुणौ । क्व चाञ्जनोद्वर्तनचर्चनादिभिः पुरारिपूजार्पणतत्परौ करौ ॥ २५ ॥ क्व नाम नामग्रहणोत्सवं विभोरभि प्रवृत्ता रसना दिने दिने । क्व चाद्रिपुत्रीपतिपादपङ्कजस्फुरद्रजोराजिविराजितं शिरः ॥ २६ ॥ क्व दृक्चिरं पारितचन्द्रशेखरस्वरूपसौभाग्यविलोकनस्पृहा । क्व संतताकर्णितदर्पकद्विषद्विचित्रिचारित्रवित्रिता श्रुतिः ॥ २७ ॥ क्व निर्धुतानल्पविकल्पविप्लवत्रिलोचनध्याननिबन्धनं मनः । क्व [^१]चापवर्गोऽयममार्ग एव यः स्मरारिसेवासुखसर्वसंपदाम् ॥२८॥ इदं [^२]विदन्तः सुधियो भियोज्झिताः समाधिमाधिच्छिदमाश्रिता अपि । प्रभुप्रणामस्तुतिचिन्तनार्चनस्फुटोपयोगं बहु मन्वते वपुः ॥ २९ ॥ (पञ्चभिः कुलकम् ) क्व नीलकण्ठेति, क्व नामेति, क्व दृक्चिरमिति, क्व निर्धूतेति, इदं विदन्त इति, पञ्चभिः कुलकम्। इदं विदन्तोऽपीति । अष्टाङ्गेन योगेनात्ममनसोरैक्यं समाधिः । तथा चोक्तम्'अम्बुसैन्धवयोरैक्यं यथा भवति योगतः । तथात्ममनसोरैक्यं समाधिरभिधीयते ॥' इति । समाधिः तं उप समीपे आधयो जन्मजरामरणादिपीडा उपाधयः । तान्भिनत्तीति तादृशं समाधिमाश्रिता अपि भिया संसारजत्रासेनोज्झिता अपि सुधियो विमलधिय इदं पूर्वो क्तप्रकारेण निर्णीतं विदन्तो जानन्तो वपुः शरीरमेव बहु मन्वते । अत्र हेतुमाहभुस्त्रिजगदीशः परमेश्वरस्तस्य यः प्रणामोऽष्टाङ्गः, स्तुतिः कीर्तनम्, चिन्तनं तदेकताध्यानम्, अर्चनं च तेषु स्फुटो व्यक्तः तान्येव वा स्फुटो व्यक्त उपयोगः प्रयोजनं यस्य स तादृशम् । इदं किं विदन्त इत्याह – क्व नीलकण्ठेति । नीलकण्ठस्य श्रीशिवभट्टारकस्य यदायतनं स्वयंभ्वादिस्थानेषु देवागाररूपं तत्र यदुपसर्पणं समोपगमनं तेन स्फुट उपकारो ययोस्तौ अत एव महान्गुण उक्तलक्षणो ययोस्तौ चरणौ पादौ । भक्तानामिति शेषः । क्व भवतः, स्मरारिसेवायाः सुखं परमानन्द एव सर्वसंपदः तासाममार्गोऽगोचरोऽपवर्गो मोक्षः क्व वा भवति । 'दुःखेभ्योऽपवर्जनमपवर्गः' इति स्वामी । इत्यग्रिमे चतुर्थे वृत्ते संबन्धः । एतादृशौ चरणौ क्व । कदाचित्परमेश्वरानुग्रहेण लब्धायामपि [^१]. 'वापवर्गो' इति ख-पाठ: [^२]. 'वदन्तः' इति ख- पाठः. मुक्तौ श्रीशिवैक्यावाप्तेर्निर्देहत्वेन श्रीशिवप्रणामस्तुत्यादिसेवाविघ्नकारिणी मुक्तिः क्वेत्यर्थः। तथा श्रीशंभुध्यानाक्तप्रकारेण मनोदार्ढ्याय विहितबहिःप्रतिमादौ भावनया अञ्जनं सौ- वोरं च,उद्वर्तनं सुगन्धद्रव्यचूर्णेन निर्मलीकरणं च, चन्दनकुङ्कुमघनसारादिभिश्चर्चनमनु- लेपनं च, तदादिभिः पुरारिपूजार्पणे श्रीशंभुपूजावितरणे करौ पाणी क्व, क्व चापवर्गो मोक्षः ॥ तथा रसना जिह्वा क्व भवति । किंभूता । प्रवृत्ता । कं अभि । नामग्रहणोत्स- वमभि । कस्य । विभोः परमेश्वरस्य । कदा । दिने दिने । ईदृशी जिह्वा क्व, अपवर्गः क्व । तथा अद्रिपुत्रीपतिपादपङ्कजयोः पार्वतीकान्तपादपद्मयोः स्फुरच्च तद्रजस्तस्य राजिः पङ्क्तिस्तया विराजितं शोभितं शिरः क्व, क्व चापवर्गः ॥ तथा पारिता निष्पादिता चन्द्रशेखरस्य श्रीशिवस्य सकलस्य प्रतिमाचित्रादौ स्वं च तद्रूपं स्त्ररूपं तस्य यत्सौभाग्यं सुभगत्वं तस्य विलोकनं तत्र स्पृहा यया सा पारितचन्द्रशेखरस्वरूपसौभाग्यविलोकनस्पृहा । दृग्दृष्टिः क्व च भवति, क्व चापवर्गः । तथा संततं प्रतिक्षणमाकर्णितं श्रुतं यद्दर्पकद्विष- द्विचित्रचारित्रं स्मरारिविचित्रचरित्रं यया सा तादृशी श्रुतिः कर्णः क्व, क्व चापवर्गः ॥ तथा निर्धृतास्त्यक्ता अनल्पा विकल्पानां चिन्ताभराणामनेकप्रकाराणां विप्लवा उपद्रवा विकल्पा एव विप्लवा वा येन तत् तादृशं त्रिलोचनध्याननिबन्धनं श्रीशिवभट्टारकध्या- नैकनिरतं मनश्चित्तं क्व, क्व चापवर्गो मोक्षः श्रीशिवसेवापरमानन्दसंपदामगोचरः ॥ पञ्चभिः कुलकम् ॥ किमङ्ग मङ्गल्यमनङ्गभङ्गदप्रसादनादन्यदधन्य मन्यसे । यदर्थमर्थक्षतिकृत्सुदुष्करप्रयाससाध्येषु मखेषु खिद्यसे ॥ ३० ॥ इमा हिमानीविमला हविर्भुजां प्रभुप्रसादप्रभवा विभूतयः । करोषि यत्तर्पणमात्रकाम्यया दयास्पदप्राण्युपघातपातकम् ॥ ३१ ॥ सखे सखेदस्य धनार्जनं प्रति प्रतिग्रहाध्यापनयाजनादिभिः । प्रयाति ते वायुरिवायुरिङ्गितं विहन्ति हन्त ऋतवे तवेहितम् ॥३२॥ अतः स्वतःप्रार्थितसंपदां[^१] पदं कदर्थनाहीनमदीनमेनसा । निदानमानन्दभुवः स्वयंभुवो भजस्व पादाम्बुजसेव[^२]नोत्सवम् ॥ ३३ ॥ [^३](चैक्कलकम्) किमिति । अङ्गेति संबोधने । हे अङ्ग अधन्य अभाग्यग्रस्त, अनङ्गभङ्गदप्रसादनात्स्मररिष्वाराधनादन्यत्किं मङ्गल्यं मङ्गले संसाराम्बुधिनिस्तरणरूपे साधु वस्तु मन्यसे । कुतस्तत् । तत्किं यदर्थमित्यादि । हे अधन्यजन, अर्थक्षतिकृतो धनक्षयकराः सुदुष्करा ये प्रयासाः प्रयत्नास्तैः साध्येषु मखेषु क्रतुषु यदर्थं त्वं खिद्यसे । बहुकष्टसाध्यानेकक्रतुभिर्यत्पुण्यं तदेक श्रीशिवनामस्मरणमात्रेणावाप्यमित्यर्थः ॥ इमा इति । महद्धिमं हि [^१]. 'संपदास्पदं' इति ख-पाठ: [^२]. 'पूजनोत्सवम्' इति ख-पाठः [^३]. 'चक्कलकम्' इति ख-पुस्तके नास्ति. मानी तद्वद्धवलास्तेषां हविर्भुजां देवानामिमा विभूतयः संपदोऽणिमाद्यष्टकरूपा प्रभुप्रसा- दप्रभवाः श्रीशिवानुग्रहलभ्यास्तत्प्रसादेनैव लभ्याः । तेषां हविर्भुजां केषामित्याह - हे अधन्येत्यध्याहारः । यत्तर्पणमात्रकाम्यया येषां देवानां तर्पणमात्रस्य संतर्पणमात्रस्य काम्या अभिलाषस्तया हेतुभूतया दयास्पदं दयाकरणपात्रं ये प्राणिनः पशवस्तेषामुप- घातेन हिंसया पातकं करोषि । यत्प्रसादलेशादणिमाया अष्टौ विभूतयो देवैरपि प्राप्ता- स्तस्यैवाराधनं किं न करोषीत्यर्थः ॥ सखे इति । हे सखे प्रतिग्रहो दानादिः, अध्या- पनं शिष्याणाम्, तथा याजनम्, तान्यादौ येषां तैः कर्मभिर्धनस्यार्जनं प्रति सखेदस्य सयत्नस्य ते वायुरिव प्रतिक्षणं सदागतिरायुः प्रयाति गच्छति । अतस्ते तवेहितं पूर्वो- क्तमध्यापनादिचेष्टितं कर्तृ इङ्गितमभिप्रेतम् । श्रीशिवाराधनमित्यर्थः । निहन्ति । कस्य । तव । ईहितं किमर्थम् । ऋतवे यज्ञाय । पूर्वोक्तवृत्ताभिप्रायस्यैवैतत्समर्थनम् ॥ अत इति । सखे इत्यध्याहारः । हे सखे, अतः पूर्वोक्तकिमङ्ग मङ्गल्येत्यादि वृत्तत्रयार्थाभिप्रायाद्धेतोः स्वतः प्रार्थितानां संपदामणिमाद्यष्टविभूतीनां पदं स्थानं कदर्थनया पीडया हीनम्, ए- नसा पातकेनाप्यदीनं न दीनम्, तथा आनन्दस्य परमानन्दस्य भुव उत्पत्तेर्निदानमा- दिकारणम्, स्वयंभुवोऽनादेः श्रीपरमशिवस्य पादाम्बुजसेवनोत्सवं पदब्जसेवोत्सवं भज- स्व ॥ चक्कलकम् ॥ अक्लेशपेशलमलङ्घ्यकृतान्तदूत- हुंकार [^१]भङ्गभिदुरं दुरितेन्धनाग्निम् । को नाम नामयहरं हरपादपद्म- सेवासुखं सुमतिरन्वहमाद्रियेत ॥ ३४ ॥ अक्लेशेति । अविद्यमानाः क्लेशा: पश्च अविद्यादयो यस्मिंस्तत्तादृशं पेशलं कोमलं च । अक्लेशेनानायासेन पेशलं वा । तथा अलङ्घया अनिवार्या ये कृतान्तदूता रविज दूतास्तेषां हुंकारस्तेन भङ्गः कम्पस्तस्य भिदुरं भेदनशीलम् । तथा दुरितं पापमेवेन्धनं काष्ठं तस्याग्निम् । दाहकमित्यर्थः । तथा आमयं जन्मजरामरणमहारोगं हरति तादृ- शम् । हरपादपद्मसेवासुखं श्रीशिवपादाब्जसेवासुखं को नाम न सुमतिर्धीमानन्वहं प्र- त्यहमाद्रियेत । अपि तु सर्व एवाद्रियेतेत्यर्थः ॥ रोमन्थमन्थरकुरङ्गशताश्रितेषु भागीरथीशिशिरशीकरशीतलेषु । रोहन्महार्हफलकन्दलसुन्दरेषु बद्धास्पदास्तुहिनभूधरकंदरेषु ॥ ३५ ॥ धन्याः समाधिमवधानधना धनादिसंबन्धबन्धमवधूय धि[^२]याधियन्तः । [^१]. 'भङ्गिभिदुरं' इति ख- पाठ:. [^२]. 'धिया धयन्तः' इति ख-पाठः. ज्योतिः परं गलदनल्पविकल्पजालमालोकयन्ति भगवन्तमनन्तमन्तः ॥ ३६ ॥ (युग्मम् ) रोमन्थेति द्वाभ्यां युग्मम् । रोमन्थेन चर्वितचर्वणेन मन्थराण्यलसानि यानि कुरङ्ग- शतानि कुरङ्गाणां विन्दुचित्राणां मृगभेदानां शतानि तैराश्रितेषु सेवितेषु तथा भागीर- थ्याः स्वर्णद्याः शिशिरशीकरैः शीतलजलकणैः शीतलेषु । तथा रोहन्ति महार्हाण्युत्त मानि फलानि कन्दलानि मूलानि च तैः सुन्दरेषु । 'कन्दली वीरुत्तद्भेदमृगभेदयोः । कपालमूलयोः' इति मङ्खः । एवंविधेषु तुहिनभूधरस्य हिमालयस्य कंदरेषु गुहासु । 'दरी तु कंदरा वा स्त्री' इत्यमरः । बद्धमास्पदं निवासो यैस्ते ॥ धन्या भाग्यवन्तः अवधानधना अवधानमेकाग्रतैव धनं येषां ते धनादिसंबन्धबन्धं धनादेः आदिशब्देन कान्तासुतादेः संबन्ध एव बन्धो बन्धनं तमवधूय त्यक्त्वा समाधिमात्ममनसोरैक्यं धिया बुद्ध्या अधियन्तोऽधिगच्छन्तः गलदनल्पं महद्विकल्पानां जालं यत्र तत् परं ज्योतिः परज्योतीरूपं परमात्मानं भगवन्तं परमशिवमनन्तमपारमन्तर्हृदि अव- लोकयन्ति । ज्ञानचक्षुषेत्यर्थः ॥ युग्मम् ॥ धन्या भजन्ति नृपवेश्मसु वेत्रिवक्त्र- हुंकारकातरधियस्तरुणेन्दुमौलिम् । वैराग्यनिर्वृतमनस्विजनावकीर्ण- स्वर्गापगापुलिनबाललतालयेषु ॥ ३७ ॥ धन्या इति । नृपवेश्मसु राजसद्मसु वेत्रिणां द्वाःस्थानां यानि वक्राणि तैर्हुंकारः मा याह्यन्तरिति हुंकरणं तेन कातरा दीना धीर्बुद्धिर्येषां तादृशाः प्राग्धन्या भाग्यवन्तो जनाः । पुनर्विरक्तो वैराग्येण निर्वृतः संयतचित्तश्चासौ मनस्विजनस्तेनावकीर्णानि यानि स्वर्गापगापुलिनानि गङ्गातटानि तेषु या बाला लतास्तासामालयेषु स्थानेषु पर्णशा- लादिकेषु तरुणेन्दुमौलिं बालेन्दुचूडामणिं श्रीशिवं भजन्ति । वाङ्मनःकायकर्मभि राराधयन्तीत्यर्थः ॥ सन्तः स्मरन्ति शशिखण्डशिखण्डसेवा- हेवाकिनः सुरसरित्पुनस्थ[^१]लेषु । लक्ष्मीलवोल्लसदमन्दमदावलेप - भूपालबालिशविलङ्घनविप्लवानाम् ॥ ३८ ॥ सन्त इति । सन्तः पण्डिताः । 'सन्सुधीः कोविदो बुधः' इत्यमरः । सज्जनाश्च । शशिखण्ड: शिखण्डे यस्य स तस्य श्रीशिवस्य सेवायां हेवाकिनो व्यसनिनः सुरसरित्पुलिनस्थलेषु गङ्गातीरभूमिषु लक्ष्मीलवेनोल्लसन्नमन्दो मदेनावलेपोऽहंकारो येषां ते तादृशा ये [^१]. 'स्थलीषु' इति ख-पाठः. भूपालास्त एव बालिशा मूर्खा: बालिशभूपाला भूपालबालिशा वा । परनिपातः । तेषां विलङ्घनाम्यवमानास्तान्येव विप्लवास्तेषां कर्मभूतानां स्मरन्ति । स्मृत्यर्थकर्मणि षष्ठी ॥ इदं मधुमुखं विषं हरति जीवितं तत्क्षणा- दपथ्यमिदमाशितं व्यथयते विपाके वपुः । इदं तृणगणावृतं बिलमधो विधत्ते क्षणा- द्यदत्र मलिनोल्बणैर्द्रविणमर्जितं कर्मभिः ॥ ३९ ॥ अतः प्रतनुवैभवोद्भवदखर्वगर्वक्षमापतिप्रणयसंभवं भुवि विडम्बनाडम्बरम् । विहाय सुरवाहिनीपुलिनवासहेवाकिनो भजन्ति कृतिनस्तमीरमणखण्डचूडामणिम् ॥ ४० ॥ (युग्मम् ) इदमिति द्वाभ्याम् । अतो तोः प्रकर्षेण तनु अचिरस्थायि यद्वैभवं विभुत्वं तेनो- द्भवन्नखर्वो महान्गर्वोऽहंकारो येषां तादृशा ये क्षमापतयो नृपास्तेषां प्रणयो यात्रा । 'प्र- णयो याचनार्थना' इति कोषः । ततः संभवो यस्य स तादृशं विडम्बना उपहासस्तस्या आडम्बरमाटोपं विहाय त्यक्त्वा सुरवाहिनीपुलिने गङ्गातीरे वासो वसतिस्तत्र हेवा- किनो व्यसनिनः कृतिनो विपश्चितः सहृदयास्तमीरमणखण्डचूडामणिं श्रीशिवं भ- जन्ति सेवन्ते । अतः कुत इत्याह - अत्रास्मिन्संसारे अत्र जगति वा मलिनानि राज- सतामसप्रकृतित्वादत्यन्तमलीमसानि उल्बणान्युद्भटानि च तादृशैः कर्मभिः करणभूतैः । मनुष्यैरिति शेषः । मनुष्यैः कर्तृभिर्यद्द्रविणं धनमर्जितमुपार्जितं तदिदं मधुमुखं विषम् । 'वसन्तदैत्यचैत्रमधूका मधवो मधु । मद्यं पुष्परसं क्षौद्रं मधुरे वाच्यलिङ्गक्रः ॥' इति मङ्ख । मधुमधुरं मुखमामुखं यस्य तत् । मधुमधुरं विषं स्थावरमादौ चर्वणे मधुरं परिपाकेऽन्तर्दाहकारि तत्क्षणाज्जीवितं हरति यथा तथैव मलीमसानि कर्माण्यादावत्य- न्तमधुराणि परिपाके निरयभ्रंशप्रदानीत्यर्थः । तथा मलीमसोल्बणैः कर्मभिर्यद्द्रविण- मुपार्जितमिदमाशितं भक्षितमपथ्यं यथा कफपित्ताधिक्ये माषमत्स्यादिभक्षितमामुखे स्वादु विपाके पुनर्वपुः शरीरं व्यथयते तद्वत् । तथा मलिनोल्बणैः कर्मभिर्मनुष्यैर्यद्धनमु - पार्जितं तदिदं तृणगणावृतं तृणसमूहादिकैर्गुप्तं बिलं कृपादिप्रायं तदेवोपवेशनात्क्षणादे- वाधो विधत्ते ॥ युग्मम् ॥ किं भूयोभिः [^१]परुषविषयैः श्रीविकारैरसारैः किं वा भूयः पतनविरसैः स्वर्गभोगाभिलाषैः । मन्ये नान्यद्भवभयविपत्कातराणां नराणां मुक्त्वा [^२]भक्तिं भगवति भवे शस्यमाशास्यमस्ति ॥ ४१ ॥ [^१]. 'परुषविषमैः' इति ख-पाठः [^२]. 'मुक्तिं' इति ख- पाठः. दूरोदञ्चच्चटुललहरीहारिहस्तव्युदस्तव्यापत्तापत्रिदशतटिनीमज्जनोन्मज्जनेषु । श्रद्धाबन्धं शशधरशिरःपादराजीवसेवाहेवाकैकव्यसनमनसस्तेन तन्वन्ति सन्तः ॥ ४२ ॥ (युग्मम् )[^१] किमिति । असारैर्निःसारैर्भूयोभिर्बहुभिः परुषविषयैः परुषाः कठिनाः । परिपाके- ऽत्यन्तविरसत्वात् । विषयाः शब्दाद्या भोगाश्च तैः किं वा । असारैः क्षणप्रभावदाशु- गामिभिः श्रीविकारैरैहिकैर्लक्ष्मीविकारैः किं भवति । न किंचित् । तहि स्वर्गभोगा एवाशास्यास्तदपि न किंचिदित्याह - किं वेत्यादि । स्वर्गे ये भोगा रसायनपानाप्स- रोगणाम्लानमालाद्यास्तेषामभिलाषास्तैरप्यामुष्मिकैर्भोगैः किं वा भवति । अत्र है- तुमाह - भूयः पुनः पतनेन स्वर्गाद्भ्रंशेन विरसा नीरसास्तैः । 'क्षीणे पुण्ये मर्त्यलोकं विशन्ति' इति स्मृतेः । तैरपि किमित्यर्थः । तदिदमुपसंहारेणावश्यं कर्तव्यं मनसि कृ- त्वाह — मन्ये नान्यदित्यादि । अहं मन्ये निश्चयेन जानामि । भवादित्युपलक्षणम् । भवादेर्जन्मजरामरणादेर्भयं त्रासस्तदेव विपत्कालकर्णी तया कातराणां दीनानां ग्र स्तानां नराणां देहिनां भवति । अस्मादुपासिता निःश्रेयसोदया (?) इति भावः । त- स्मिन्भगवति भवे परमेश्वरे भक्तिं वाङ्मनःकायकर्मभिस्तदेकताध्यानासक्तिं विना अन्य- दाशास्यं काङ्क्षणीयं वस्तु नास्ति । तदेव प्रतिक्षणमाकाङ्क्षणीयमिति भावः ॥ दूरोदञ्च- दिति । तेन पूर्वोक्तहेतुना सन्तो विचक्षणाः साधवः शशधरशिरः पादराजीवसेवाहेवा- कैकव्यसनमनसः शशधरशिरश्चन्द्रमौलेः श्रीशिवस्य ये पादराजीवे पादकमले तयोः से- वायां यो हेवाकस्तदेकं व्यसनमैकाग्र्यं यस्य तादृङ्मनो येषां ते तादृशाः सन्तो दूरमुद श्चन्त्यो या श्चटुललहर्यश्चपललइर्यस्ता एव हस्ताः पाणयस्तैर्व्युदस्तौ व्यापद्विपत्तिस्तापो मरुभ्रमणादिजः व्यापजन्मजरामरणादिमहाव्याधिर्वा ताप आध्यात्मिकाधिदैविकाधि- भौतिको वा त्रिविधः । तौ व्यापत्तापौ यया सा । तादृशी चासौ सुरतटिनी स्वर्णदी गङ्गा तस्यां यानि मज्जनान्युन्मज्जनानि च तेषु । अपिशब्द आर्थः । मज्जनोन्मज्जने- ष्वेव श्रद्धाबन्धं भक्तिदार्ढ्यं तन्वन्तीति भद्रम् ॥ इति श्रीशारदाचरणसरोजरजःकणपवित्रस्थल वास्तव्यविपश्चिद्वरराजानकशंकरकण्ठात्मजराजानकरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जली सेवाभिनन्दनं नाम सप्तमं स्तोत्रम् । अष्टमं स्तोत्रम् । कल्याणिनः सुरगिरेरिव संश्रितस्य लक्ष्म्या हरेरिव रवेरिव दीप्तिभाजः । [^१]. 'युग्मम्' इति पुस्तकद्वयेऽपि नास्ति पद्यस्य शंभुविषयस्य जयन्ति पादा ये मण्डयन्ति च पुनन्ति च विष्टपानि ॥ १ ॥ कल्याणिन इति । शंभुः श्रीशिवो विषयः स्थानं यस्य तच्छंभुविषयम् । तादृशस्य पद्यस्य श्लोकस्य । 'पद्यं श्लोके सृतौ पद्या पद्यः शूद्रो निगद्यते' इति विश्वः । पद्यस्य श्लोकस्य पादाश्चत्वारश्चरणा जयन्ति सर्वोत्कृष्टा भवन्ति । ते क इत्याह - ये पादाः श्लोकस्य विष्टपानि भुवनानि । विशन्त्यस्मिन्विष्टपं भुवनम् । मण्डयन्ति भूषयन्ति पुन न्ति च पवित्रीकुर्वन्ति च । पद्यस्य श्लोकस्य किंभूतस्य । कल्याणं मङ्गलमस्यास्तीति कल्याणि तस्य । 'कल्याणमक्षये हेम्नि कल्याणं मङ्गलेऽपि च ' इति विश्वः । श्लोकस्य पादाः कस्येव । सुरगिरेर्देवगिरेः कल्याणिनः कल्याणमक्षयं सुवर्णमस्यास्तीति कल्या णी तादृशस्य कल्याणिनः । सुरगिरेर्मेरोर्यथा पादाः प्रत्यन्तपर्वता विष्टपानि भूषयन्ति पवित्रयन्ति च । तथा पद्यस्य पादाः कस्य क इव । हरेर्विष्णोः पादाः पादप्रक्रमा बलि- बन्धनावसरे त्रयो विक्रमा इव । तेऽपि जयन्ति भूषयन्ति च । हरेः किंभूतस्य । संश्रित- स्य । कया । लक्ष्म्या हरिप्रियया । पद्यस्य किंभूतस्य । लक्ष्मीर्वर्णशोभा तया संश्रितस्य । तथा श्लोकपादाः क इव कस्य । रवेः सूर्यस्य पादा रश्मय इव । यथा रवे रश्मयो जग- न्ति मण्डयन्ति पुनन्ति च । 'पादा रश्म्यङ्घ्रितुर्यांशा: पादाः प्रत्यन्तपर्वताः' इति को- षः । रवेः किंभूतस्य । दीप्तिः किरणद्युति भजतीति दीप्तिमाक् । तस्य । पद्यस्य किंभु- तस्य । दीप्तिभाजः । दीप्तिः कान्तिः । दीप्तिः सत्त्वरूपोऽर्थगुणादिर्यस्य तद्दीप्तिभाक् । तादृशस्य । अत्र च 'पद्यस्य' इति पदं विरुद्धमतिकृदिति तस्मात् 'वृत्तस्य' इति पाठः साधुः । 'वृत्तं मध्ये नगे (?) पद्ये चरित्रे वर्तने मृते' इति मङ्खः ॥ याः पङ्किलेन कलिलेन वियोजयन्ति नित्योज्ज्वलेन कुशलेन च योजयन्ति । ता धूर्जटेरमरनिर्झरिणीतरङ्ग- भङ्गाभिरामगतयः स्तुतयो जयन्ति ॥ २ ॥ या इति । अमरनिर्झरिणीतरङ्गभङ्गवत् गङ्गातरङ्गभङ्गवदभिरामा गतिर्यासां ताः शंभोः श्रीशिवस्य स्तुतयो जयन्ति सर्वोत्कृष्टा भवन्ति । ता का इव । याः स्तुतयः पङ्को विद्यते यस्य तत्पङ्किलं तेन कलिलेन मालिन्येन । कालुष्येणेत्यर्थः । भक्तजनमिति शेषः । भक्तजनं वियोजयन्ति । निष्पापं कुर्वन्तीत्यर्थः । तथा या नित्योज्ज्वलेन निर्मलेन कुशलेन मङ्गलेन च भक्तजनं योजयन्ति । सकुशलं कुर्वन्तीत्यर्थः ॥ संसारदारुणदवानलदह्यमान- वाक्चित्तकायकुशलीकरणौषधानि । श्रीभुक्तिमुक्तिवशकर्मणि कार्मणानि शंभोर्जयन्ति नुतिचिन्तनपूजनानि ॥ ३ ॥ संसारेति । नुतिः स्तुतिश्च चिन्तनं ध्यानं च पूजनमर्चनं च नृतिचिन्तनपूजनानि श्रीशंभोः श्रीशिवस्य जयन्ति सर्वोत्कृष्टानि भवन्ति । एतानि कानीत्यारोपेणाह-सं- सारेति । संसार एव दारुणो दवानलो दावाग्निः । दाहकत्वात् । तेन दह्यमाना ये वा क्चित्तकायास्तेषां कुशलीकरणे उल्लाघत्वकरणे औषधानि महौषधानि । तथा पुनः कानि । श्रीभुक्तीति । श्रीर्लक्ष्मीः भुक्तिर्भोगपरम्परारूपा मुक्तिरात्यन्तिकदुःखनिवृत्तिश्च । तासां वशकर्म वशीकरणं स्वीकरणं तत्र कार्मणानि वशीकरणचूर्णानि ॥ दोषाकरस्य शिरसि स्थितिमुत्तमाङ्ग- च्छेदं[^१] विधेरविरहं नरवाहनस्य । भस्मीकृतिं त्रिपुरपाशधरस्मराणां वश्यं दिशां च दशकं दशकंधरस्य ॥ ४ ॥ दोषाकरेत्यादि पञ्चभिः कुलकम् । ईश्वरस्य परमेश्वरस्य निरङ्कुशं निरनुरोधमप्रति- इतमप्रतिघातं तदेतत्स्वातन्त्र्यं जयति सर्वोत्कृष्टं भवति । तत्किमित्याह - येन स्वात- न्त्र्येण क्रीडन्निव खेलन्निव दोषाकरस्य दोषा रात्रिं करोतीति दोषाकरश्चन्द्रस्तस्य । अथ च दोषाणामाकरो दोषाकरस्तस्य । अत्रापिशब्द आर्थः । दोषाकरस्यापि शिरसि स्थितिं धारणं व्यधित तज्जयतीति संबन्धः । तथा उत्तमाङ्गच्छेदं शिरश्छेदं वामकनि- ष्ठाङ्गुलिनखेन विधेः पितामहस्यापि येन स्वातन्त्र्येण व्यधित । तथाहि – 'तवैश्वर्यं य- त्नाद्यदुपरि विरिञ्चो हरिरधः परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः' इत्येतस्मिन्नेव वृत्ते ब्रह्मणोऽसत्यवादिनः शिरश्छेदः परमेश्वरेण कृत इति पौराणिकाः । तथा येन स्वा तन्त्र्येण नरवाहनस्य । 'रुद्रदत्तनरवाहनत्वान्नरवाहनः' इति रायमुकुट्याम् । नरवाहनस्य कुबेरस्याप्यविरहं सख्यं व्यधित । तथा येन स्वातन्त्र्येण त्रिजगज्जयिनामपि त्रिपुरपुराणि च पाशधरो यमश्च स्मरः कामश्च तेषां भस्मीकृतिं व्यधित । तथा येन स्वातन्त्र्येण द- शकंधरस्य श्रीशिवभक्तशिरोमणेर्वश्यमधीनं दिशां दशकमपि व्यधित ॥ शौर्यानलस्य परशुव्यजनेन दीप्तिं रामस्य बाहुपरिघप्रतिघं मघोनः । हैमं मरुत्तनृपतेर्दिवसानि सप्त वर्षं सुदर्शनसमर्पणमच्युतस्य ॥ ९ ॥ तथा येन स्वातन्त्र्येण रामस्य परशुरामस्य स्वभक्तस्य परशुमायुधविशेषं प्रसादीकृत्य स परशुरेव व्यजनं तालवृन्तं तेन तस्यैव जामदग्न्यस्य शौर्यानलस्य शौर्याग्नेर्दीप्ति व्य [^१]. 'भङ्गं' इति ख- पाठः, धित । तथा येन स्वातन्त्र्येण मघोन इन्द्रस्य बाहुपरिघप्रतिघं दक्षिणबाह्वर्गलस्तम्भं व्य- धित । तथा सप्तदिवसानि सप्तदिनावधि मरुत्तनृपतेर्मरुत्ताख्यराज्ञः । पुर इति शेषः । हैमं वर्षं सुवर्णवर्षणं व्यधित । तथा येन स्वातन्त्र्येणाच्युतस्य विष्णोः सुदर्शनसमर्पणं सु- दर्शनाख्यचक्रप्रसादीकरणं व्यधित । अत्रापि 'तवैश्वर्यं यत्नाद्यदुपरि' इति वृत्ते ॥ श्वेतस्य कण्ठपुलिनात्समवर्तिपाश- प्रोत्सारणं नयननिर्हरणं भगस्य । दुग्धाब्धिदानमुपमन्युमुनेः क्रियासु दक्षस्य विघ्नकरणं मखदीक्षितस्य ॥ ६ ॥ तथा श्वेतस्य श्वेताख्यनृपतेरन्तकत्रासे स्वयंभूलिङ्गमालिङ्गन्तः कण्ठपुलिनात्कण्ठतटात्समवर्तिपाशप्रोत्सारणं यमफणिपाशप्रोत्सारणं येन स्वातन्त्र्येण व्यधित। तथा येन स्वातन्त्र्येणोपमन्युमुनेरुपमन्युनाम्नो मुनेर्बालस्य क्षोराब्धिदानं क्षीरसमुद्रदानं व्यधित । तथा येन स्वातन्त्र्येण मखे क्रतौ निमन्त्रितसर्वदेवतागणे दीक्षितस्य दक्षस्य दक्षप्रजापतेः क्रियासु कर्मसु विघ्नं व्यक्ति । शूलाधिरोह[^१]णपराभवमन्धकस्य पूष्णो हनुग्रहमनुग्रहमर्जुनस्य । नन्दीश्वरस्य रविजादभयं भुजंग- भङ्ग्याभिमानमथनं मुनिमानिनीनाम् ॥ ७ ॥ तथा येन स्वातन्त्र्येणान्धकस्यान्धकासुरस्य शूले वधार्थं काष्ठमये वधदण्डेऽधि- रोहणमारोहणमेव पराभवस्तं व्यधित । तथा येन स्वातन्त्र्येण पूष्णो रवेर्हनुः कपोल- लग्ना । 'कपोलौ तत्परा हनुः' इत्यमरः । इन्वोर्ग्रहो हनुग्रहस्तं व्यधित । तथार्जुनस्य पार्थस्यानुग्रहं जयद्रथकर्णादिमहारथजेतृत्वाख्यं व्यधित । तथा येन स्वातन्त्र्येण नन्दी- श्वरस्य गणाधीशस्य रविजाद्यमादभयं त्राणं व्यधित । तथा येन स्वातन्त्र्येण मुनिमा- निनीनां मुनिस्त्रीणां भुजंगभङ्ग्या भुजंगस्य कामुकस्य भङ्गिर्विच्छित्तिस्तयाभिमानस्य चारित्राभिमानस्य मथनं व्यधित ॥ कि [^२]वापरं द्रुहिणकृष्णहरत्वमेत्य सर्गस्थितिप्रशमनानि जगत्रयस्य । क्रीडन्निव व्यधित येन निरङ्कुशं तत्स्वातन्त्र्यमप्रतिहतं जयतीश्वरस्य ॥ ८ ॥ (पञ्चभिः कुलकम् ) [^१]. 'रोपण' इति क-पाठः [^२]. 'चापरं' इति ख- पाठः कि वापरं बहु ब्रूमः श्रीशिवभट्टारकः सकलमूर्तिद्रुहिणकृष्णहरत्वं ब्रह्मविष्णुरुद्रत्वमेत्य जगत्रयस्य त्रिजगतः सर्गस्थितिप्रशमनानि सृष्टिस्थितिलयान् येन स्वातन्त्र्येण व्यधित । क्रीडन्निवेति सर्वत्र संबध्यते । तत्स्वातन्त्र्यं जयतीति संबन्धः । अन्यत्र उत्तमाङ्गच्छेदं विधेरित्यादि । श्रीशंभोरवदानानि पुराणेषु प्रसिद्धानीति तदूहोऽत्र न लिखितः ॥ पञ्च- भिः कुलकम् ॥ इतः प्रभृति पञ्चविंशतिश्लोकैर्महाकुलकमाह - यस्यातिघोरगरलादपि कण्ठपीठा- त्संजीवनौषधमुदेति वचो नतानाम् । यस्य ज्वलद्धनकृशानुशिखोल्बणापि वर्षात्यमोघममृतद्रवमेव दृष्टिः ॥ ९ ॥ यस्येति । अतिघोरगरलं कालकूटाख्यविषविशेषो यस्मिंस्तादृशादपि यस्य परमे- श्वरस्य कण्ठपीठात्संजीवनौषधं संजीवनाख्यौषधं वचो नतानां भक्तिप्रह्लानां संजीवन मा भैष्टेत्यादिकमुदेति । अग्रे पञ्चविंशतितमे श्लोके तं विभुं शरणमाश्रयामीति संबन्धः । एवमग्रिमश्लोकेष्वपि । तथा घना या कृशानुशिखा अग्निशिखा ताभिरुल्बणा उद्भटापि दृष्टिस्तृतीयनेत्ररूपा नतानां भक्तिप्रह्वानाममृतद्रवमव सुधारसमेवामोघं वर्षति । इत्येत- दत्याश्चर्ये यदतिदारुणविषादपि जीवनमग्नेरप्यमृतप्रवाहप्रसर इति भावः ॥ दंष्ट्राकरालमपि घोरमघोरवक्त्रं यस्य प्रपन्नभयभञ्जनभङ्गिमेति । यस्याङ्गभस्मकणिकाश्चरणाश्रितेषु कर्पूरधूलिपटलश्रियमाश्रयन्ति ॥ १० ॥ दंष्ट्रेति । दंष्ट्राभिः करालं विकरालमपि यस्य सकलनाथस्य पञ्चमुखस्य घोरं क ठिनम् । नीलोत्पलाभमिति शेषः । (अघोराख्यं वक्त्रं) प्रपन्नानां शरणागतानां भयस्य भञ्जनं तस्य भङ्गिर्विच्छित्तिस्तामेति । अद्भुतमेतत् । दंष्ट्राकरालादपि परमेश्वराघोरव- क्राद्भक्तभयभङ्गः । एतदघोरवकध्यानमपि दशमुखेन वदनपञ्चकस्तुतौ कथितं यथा- 'कालाभ्रभ्रमराञ्जनद्युतिनिभं व्यावृत्तपिङ्गेक्षणं भालन्दूज्ज्वलितं हिमा॑शुवदनप्रोद्भिन्नदं- ष्ट्राङ्कुरम् । सर्पप्रोतकपालशुक्तिशकलव्याकीर्णसच्छेखरं वन्दे दक्षिणमीश्वरस्य कुटिल- भ्रूभङ्गरौद्रं मुखम् ॥' इति । यस्य चाङ्गे भस्मकणिका विभूतिकणाश्चरणाश्रितेषु भक्त- जनेषु कर्पूररजःपटलश्रियमाश्रयन्ति तं विभुं शरणं श्रयामीति संबन्धः ॥ यस्यापि कृष्णभुजगा भुजगा भजन्त- मिन्दीवरस्रज इव प्रविनन्दयन्ति । किं[^१] चाङ्गसङ्गि मरुदीरितमेति यस्य मुण्डं नमत्स्वमलमङ्गलकम्बु[^२]शोभाम् ॥ ११ ॥ यस्येति । भुजानष्टादश गच्छन्तीति भुजगाः कृष्णभुजगाः कृष्णसर्पा इन्दीवरस्रज इव नीलोत्पलमाला इव भजन्तं भक्तजनं प्रकर्षेण विनन्दयति तोषयन्ति । किं चाधिकं वच्मि यस्य विभोरङ्गसङ्गि अङ्गे सङ्गो विद्यते यस्य तन्मुण्डं ब्रह्मशिरः कपालं मरुदीरितं मरुता ईरितं प्रध्मातम् । अत एव ध्वनदित्यर्थात् । नमत्सु भक्तेष्वमलमङ्गलकम्बुशोभाममलो निर्मलो मङ्गलार्थं यः कम्बुः शङ्खस्तस्य शोभामेति प्राप्नोति । रसवदलंकारोऽत्र ध्वन्यते । एवमग्रेऽपि ॥ यस्येमचर्म घनशोणित[^३]पङ्कलिप्त- मङ्गेषु मङ्गलदुगूलविलासमेति । यस्यापि तापविधुरेषु करे कपाल- मालम्बतेऽमृतकमण्डलुखण्डलीलाम् ॥ १२ ॥ यस्येति । यस्य विभोर्घनं यच्छोणितपङ्कः तेन लिप्तमिभचर्म गजचर्म मङ्गलदुगूलविलासं मङ्गलार्थं दुगूलम् । 'बहुमूल्यं महाधनम् । क्षौमं दुगूलं स्यात्' इत्यमरः । 'दुह्यते क्षुमाया आकृष्यते' इति क्षीरस्वामी । वैदेशिकादर्शेषु प्रायशो 'दुकूलं' इत्येव पाठो दृश्यते । तत्र प्राचीनकविभिरपि तथैव ग्रन्थेषु स्वकृतेषु पाठो लिखितः । तथापि म हाकविश्रीजयदेवमिश्रेण गीतगोविन्दे दुगूलशब्द उपन्यस्तः । यथा – केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले । मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुगूले ॥' इति । मङ्गलदुगूलस्य विलासमेति प्राप्नोति । तथा यस्य विभोः करे कपालमपि । अपिशब्दोऽत्र भिन्नक्रमः । तापास्त्रय आध्यात्मिकाद्यास्त एव तापास्तैर्विधुरा विह्वलास्तेष्वभूतेन पूर्णो यः कमण्डलुः कुण्डी तस्य लीलां विलासं श्रयति तमहं श्रयामीति संबन्धः । यत्पादपांसुपरिमर्शशुचि श्मशानं श्रीशैलनैमिषमुखान्यधरीकरोति । यत्संस्तवादविकलं कुशलं कपाल- पाली करोति कृतिनां कमलावलीव ॥ १३ ॥ यदिति । यस्य विभोः पादयोः पांसू रजस्तेन यः परिमर्श: स्पर्शस्तेन शुचि पवित्रीकृतं सत् श्मशानं पितृवनं श्रीशैलः सिद्धगिरिर्नैमिषं तीर्थविशेषस्ते मुखे येषां तानि तीर्थान्यधरीकरोति तिरस्करोति । तथा यस्य विभोः संस्तवात्परिचयात्स्पर्शरूपात्कपालानां कालाग्निरुद्ररूपेण महाप्रलयादौ संहृतानां ब्रह्मविष्ण्वादिमुण्डानां पाली पङ्क्तिः । [^१]. 'खट्वाङ्गसङ्गि' इति ख-पाठः [^२]. 'लीलाम्' इति क-पाठ: [^३]. 'पङ्किपिङ्ग' इति ख- पाठः 'पाली ख्यश्र्यङ्कपङ्क्तिषु' इति मङ्खः । कृतिनां विपश्चितां धन्यानां कमलावलीव पद्मश्रे. णीवाविकलं पूर्णं कुशलं करोति तं शरणमाश्रयामि ॥ यं देवमस्तशिरसं सुरभर्तुरङ्के लङ्केशवैरिकरवीजिततालवृन्तम् । आसीनसुप्तसुखितं शतरुद्रियादि- मन्त्रैः स्वरेण मधुरेण गृणाति वेधाः ॥ १४ ॥ यस्येति । सुरभर्तुरिन्द्रस्याङ्के अस्तं न्यस्तं शिरो येन स तादृशम् । तथा लङ्केशवैरिणो दशमुखशत्रोर्विष्णोर्यः करो हस्तस्तेन वीजितं तालवृन्तं यस्य स तादृशम् । तथासीनस्य सुप्तमासीनसुप्तम् । आसीनसुप्तेनासीनीभूतनिद्रया जानुनिद्रया त्रिजगदुपकाराय त्रिपुरा- न्धकादिसंहारार्थविहितयद्धोद्भूतातिखेदागतया सुखितं सन्तं यं देवमीश्वरं वेधा ब्रह्मा शतरुद्रियादिमन्त्रैः 'षट्षष्टिर्नीलसूक्तं च पुनजर्पति षोडशीम्' इत्यादिलक्षणलक्षितैर्वैदि- कैर्मन्त्रैर्मधुरेण स्वरेणोदात्तानुदात्तादिना सप्तविधेन गृणाति स्तौति । तं विभुं शरण- माश्रयामि ॥ हेलावलीढभुवनत्रितयेन येन गीर्णाः पुरंदरमुकुन्दरवीन्दवोऽपि । यस्य ज्वलद्विपुलभालविलोचनाग्नि- ज्वालावली[^१]शलभतामगमत्स कालः ॥ १९ ॥ हेलेति । स कालोऽन्तकः । अपिशब्द आर्थः । अन्तकोऽपि यस्य श्रीशिवस्य वि पुले विस्तीर्णे भाले ललाटे यो विलोचनाग्निस्तृतीयनेत्रानलस्तस्य या ज्वालानामावली तत्र शलभतां पतङ्गत्वमगमत् । स कालः क इत्याह - येन कालेन हेलावलीढभुवन- त्रितयेन हेलयावलीढं ग्रस्तं भुवनत्रितयं येन स तादृशेन सता पुरंदरमुकुन्दरवीन्दवो- ऽपि इन्द्रविष्णुसूर्यचन्द्रा अपि गीर्णा निगीर्णाः । प्राग्वत्संबन्धः ॥ श्वेतं विधोरुदयहेतुम[^२]वेत्य पक्षं कालं च यः क्षयकरं दृशमाश्रितस्य । श्वेतं दयाविशदयाशु दृशानुगृह्य कालं दृशैव नयति स्म शमं विपक्षम् ॥ १६ ॥ श्वेतमिति । यो विभुर्दृशं दृष्टिं वामलोचनरूपामाश्रितस्य विधोश्चन्द्रस्योदयहेतुं श्वेतं पक्षं शुक्लपक्षमवेत्य ज्ञात्वा । कालं पक्षं कृष्णं पक्षं च विधोः क्षयकरं ज्ञात्वा । अत एव श्वेतकालयोरनुग्रहनिग्रहौ शब्दश्लेषेणान्यथा संभावयति — श्वेतं दयेति । अत एव हेतोः [^१]. 'शरभतां' इति क-पाठ: [^२]. 'अवेक्ष्य' इति ख-पाठः. श्वेतं श्वेतनामानं नृपं रविजत्रासेन स्वयंभुलिङ्गमालिङ्गन्तमाशु शीघ्रमेव त्राहीतिनिवेदना- नन्तरमेवानुगृह्य दृशैव तृतीयलोचनरूपया यमं शमं भस्मावशेषतां नयति स्म । किंभू- तम् । विपक्षं रिपुं पूर्वोद्दिष्टपक्षविपरीतं च । तमहं शरणं श्रयामीति संबन्धः ॥ चक्री मुखाग्रविलसज्ज्वलनोग्रजिह्वा- लीढाम्बरः क्षितिधरेन्द्रधनुर्धरस्य । यस्यागमन्निधनसाधनतां पुराणां बाणीकृतश्च रणमूर्ध्नि गुणीकृतश्च ॥ १७ ॥ चक्रीति । यस्य श्रीशिवस्य रणमूर्ध्नि सङ्ग्रामशिरसि चक्री चक्रं सुदर्शनाख्यमस्या- स्तीति चक्री विष्णुर्बाणीकृतः शरीकृतः शरभावं संपन्नः । तथा चक्रं कुण्डलाकारत्वम्- स्यास्तीति चक्री (सूर्यो) वासुकिश्च । 'चक्री व्यालः सरीसृपः' इत्यमरः । 'चक्रिणौ हरिपन्नगौ' इत्यप्यमरः । गुणीकृतः । गुणो ज्या । अगुणो गुणः संपन्नः । धनुषो ज्या- भूतश्च । पुराणां त्रिपुराख्यासुराणां निधनसाधनतां मृत्युनिमित्ततामगमत् । प्राप्येत्यर्थः । द्वावपि विशिनष्टि— मुखाग्रेति । चक्री विष्णुः शरभूतः कीदृक् । मुखस्य शरफलस्याग्रं तत्र विलसञ्ज्वलनः साक्षादग्निस्तस्य या उग्राः कठिना ज्वालाः शिखास्ताभिर्लीढं व्या- प्तमम्बरं येन सः । चक्री (सूर्यो) वासुकिश्च । धनुर्गुणः किंभूतः । मुखस्य वदनस्याग्रं तत्र विशेषेण लसन्त्यो या ज्वलनवदग्निवदुग्रा जिह्वा रसनास्ताभिर्लीढमम्बरं युद्धवस्त्रं येन सः । यस्य विभोः किंभूतस्य । क्षितिधराणां पर्वतानामिन्द्रो मन्दराख्यो गिरिः स एव धनुस्तं धारयतीति तादृशस्य ॥ चक्रायुधं विशिखतामुडुचक्रवर्ति चक्राभिधानसुहृदौ रथचक्रभावम् । नीत्वासृजत्रिदशधाम्नि रसातले च यो हर्षशोकमयमश्रु पुराङ्गनानाम् ॥ १८ ॥ चक्रेति । यो विभुश्चक्रायुधं विष्णुं विशिखतां शरभावं नीत्वा प्रापय्य तथा उडूनां नक्षत्राणां चक्रवर्ती इन्दुः चक्राभिधानसुहृत्सूर्यस्तौ च रथचक्रभावं क्षोणीरूपस्य रथस्य चक्रद्वयभावं नीत्वा त्रिदशधाम्नि देवालये स्वर्गे पुराङ्गनानां पुरे नगरे या अङ्गनाः का मिन्यः । पौराङ्गना इत्यर्थः । तासां हर्षमयमश्रु असृजत् । तथा रसातले पाताले च पुराङ्गनानां पुराणां त्रिपुराख्यासुराणां या अङ्गनास्तासां शोकमयमश्रु असृजत् । तासां भर्तृवधाच्छोकाश्रूद्गमो जात इत्यर्थः ॥ आरूढरीढ[^१]मपि येन समर्पितेन प्रीतिं रतिं च हृदि विस्मरति स्म कामः । [^१]. 'इव' इति ख-पाठ: तं दृष्टिपातमधिगम्य बिभर्ति यस्य प्रीतिं रतिं च हृदि को न सुंसिद्धकामः ॥ १९ ॥ यस्य विभोस्तं दृष्टिपातमधिगस्य को न भक्तजनो हृदि हृदये प्रीतिमानन्दं रतिं सुखं च धत्ते । रतिं क्रीडां वा धत्ते । अपि तु सर्व एवेत्यर्थः । किंभूतः । सुसिद्धकामः सुसिद्धः परिपूर्ण: कामो मनोरथो यस्य । तं दृष्टिपातं कमित्याह – आरूढेति । आरूढरीढमिति क्रियाविशेषणम् । आरूढा उत्पन्ना रीढा अवज्ञा यत्र तम् । 'रीढावमाननावज्ञा' इत्यमरः । आरूढरीढं सावहेलमपि हृदि समर्पितेन दत्तेन येन शरेण प्रीतिं प्रीतिनाम्नीं भार्यो रतिं रतिनाम्नीं च भार्यामपि कामोऽनङ्गो विस्मरति स्म । 'रतिप्रीती कामभार्ये' इति लक्ष्यद- र्शनात् । तथाहि कविवरजह्रणकृते सोमपालविलासे – 'शङ्खपद्मनिधी यूनां कम्बुक- ण्ठ्याः पयोधरौ । शृङ्गारानङ्गभृङ्गारी रतिप्रीतिसमुद्गकौ ॥' अस्यार्थः श्रीराजानकरुचक- विरचितायामलंकारानुसारिण्याम् – 'भृङ्गारौ हेमकलशौ । रतिप्रीती कामभार्ये अपि । निधेः सर्वस्वायमानत्वाद्रूपक्रमेव दृष्टम् । कम्बुसदृशरेखत्वेन कण्ठो यस्याः ( ? ) ' इति । तं शरणं श्रयामीति प्राग्वत्संबन्धः ॥ कृष्णोपदर्शितपथः पृथुलोष्मभीष्म- श्लाध्यं दधद्वपुरुपात्तवनान्तवासः । व्याधाकृतेरपि धनंजय एव यस्य दृग्गोचरे कृतपदो महसा दिदीपे ॥ २० ॥ धनंजय एवाग्निरेव यस्य विभोर्दृग्गोचरे तृतीयनयनगोचरे कृतं पदं स्थानं येन स ता- दृङ् महसा तेजसा दिदीपे दीप्तोऽभूत् । अथ च यस्य विभोर्महेश्वरस्यार्जुनानुग्रहाय व्या- धाकृतेः शबररूपिणोऽपि दृग्गोचरे नेत्रवर्त्मनि कृतपदो धनंजय एवार्जुन एव पार्थानां मध्ये समरसत्त्वे दिदीपे । 'हुतभुक्पार्थयोः स्याद्धनंजयः' इति मङ्खः । द्वावपि विशि- नष्टि – धनंजयोऽग्निः किंभूतः । कृष्णो धूम्र उपदर्शितः पन्थाः पथो वा यस्य स कृष्णवर्मा अग्निरिति प्रसिद्धः । अकारान्तोऽपि पथशब्दोऽस्ति । तथा बहुलोष्मणा भीष्मं भयान- कं श्लाघ्यं च वपुर्देहं दधत् । पुनः किंभूतः । उपात्तो वनस्य नीरस्यान्ते समीपे वासिनी गङ्गासत्कस्य अन्तः समीपं वासस्तत्र कृतः स्थानं (?) येन सः । 'जीवनं भुवनं वनम्' इत्यमरः । धनंजयोऽर्जुनः किंभूतः । कृष्णोपदर्शितपथ: कृष्णेन श्रीकृष्णेनोपदर्शितः पन्था 'विना श्रीशिवप्रसादं जयद्रथवधः प्रातर्न संभाव्यः' इति श्रीकृष्णोपदेशरूपो यस्य सः । तथा उपात्तो वनान्तेऽरण्ये वासो येन स तादृशः । दुर्योधनेन दुरोदरच्छद्मनापहृतरा- ज्यत्वात् । तमहं शरणं श्रयामीति संबन्धः ॥ युक्तं सुधाकरसुधाकरकद्युसिन्धुतोयादि यन्मनसि तापमपाकरोति । [^१]. 'समिद्ध' इति ख-पाठः, यस्याङ्गसङ्गि शवभस्मकपालमाला- हालाहलाहिदहनाद्यपि हृद्यमेव ॥ २१ ॥ तदेतद्युक्तम् । किमित्याह - सुधाकरश्चन्द्रः । सुधाकरकः सुधाकमण्डलुः । 'कमण्डली दाडिमेना करकः करिकः पुनः । मद्यभाण्डे च करका भवेद्वर्षोपले द्वयोः ॥ इति मङ्खः । द्युसिन्धुस्तस्यास्तोयं गङ्गाजलं तदादिर्यस्य तत् तापं त्रिजगत्सर्गादिव्यापारजं संतापं यस्य विभोर्मनस्यपाकरोति दूरीकरोति । यदिति भिन्नपदं वा । यस्य मनसि सुधाकरादि तापं यदपाकरोति तदेतद्युक्तम् । अद्भुतं त्वेतदित्याह—यस्य महेश्वरस्याङ्गसङ्गि शवभस्म च कपालमाला च हालाहलं कालकूटाख्यं विषं च अहयो वासुक्यादयश्च दहनोऽग्निस्तृ- तीयनेत्रस्थस्तदाद्यपि हृद्यमेव ॥ मूर्तिः क्रिमेः शतपदी श्रवणं प्रविष्टा दृष्टा रुजामसुहृतं सृजती जनानाम् । सौरी तनुर्ननु सहस्रपदी यदीय- नेत्रस्थिता हरति मृत्युभयं श्रितानाम् ॥ २२ ॥ मूर्तिरिति । जनेनेति शेषः । श्रवणं कर्णं प्रविष्टा शतपदी शतं पदानि सूक्ष्माणि यस्याः सा तादृशी क्रिमेः कीटस्य मूर्तिर्भाषया 'कर्णसर्पिणी' नाम्नी । 'कर्णजलौकाशत- पद्युभे इत्यमरः । जनानां लोकानामसुहृतं असून्प्राणान्हरतीत्यसुहृत्तां रुजं सृजत्युत्पाद यन्ती जनेन दृष्टा । अत्राप्यत्यद्भुतमाह - ननु निश्चये । यदीयं यस्य विभोरिदं यदीयं नेत्रं दक्षिणं तत्र स्थिता सहस्रपदी सहस्रं पदानि पादाः किरणाश्च यस्याः सा । पदश- ब्दोऽपि दृश्यते लक्ष्ये । तादृशी सहस्रपदी सौरी सूरस्य रवेरियं सौरी । 'सूरसूर्यार्यमादि- त्य-' इत्यमरः । सूर्यस्य सहस्रांशुत्वात् । सहस्रपदी तनुर्यत्तृतीय नेत्रस्थिता श्रितानां शर णमापन्नानां मृत्युभयं हरति । तदेतच्चित्रमित्यर्थः । तं शरणं श्रयामीति संबन्धः ॥ आकर्ण्य यः कृपणमार्तवचः [^१]कृपाब्धि- राधूतमूर्धसुरनिर्झरिणीकणौघैः । उत्सङ्गसंगतगिरीन्द्रसुताकुचाग्र- संसक्तमौक्तिकमणीन्द्विगुणीकरोति ॥ २३ ॥ कृपाब्धिर्दयासमुद्रो यः श्रीशिव आर्तवचः 'कृपणमतिदीनं पाहि परमेश्वर' इत्याकर्ण्य श्रुत्वा तद्वचसो मनसि निलीनत्वाद्दययाधूतः कम्पितो यो मूर्धा तत्र या सुरनिर्झरिणी गङ्गा तस्याः कणौघैर्जलकणौघैरुत्सङ्गसंगताङ्कस्थिता गिरीन्द्रसुता पार्वती तस्याः कुचाग्रे संसक्ता ये मौक्तिकमणयो मुक्तारत्नानि तान्द्विगुणीकरोति । तमहं शरणं श्र यामीति संबन्ध: । [^१]. 'दयाब्धिः' इति ख-पाठः. [^१]उद्गाढभक्तिविधुरव्यपनीततीव्र- दोषान्धकारमतिमात्रशुचिप्रकाशम् । पीयूषमद्वमति यस्य विविक्तवर्णं कर्णान्तगामि वचनं च विलोचनं च ॥ २४ ॥ एतादृशं यस्य विभोर्वचन तथा विलोचनं नेत्रं च । जातावेकवचनम् । लोचनत्रयं च पीयूषममृतमुद्वमति स्रवति । द्वे अपि विशिनष्टि - यस्य विभोर्वचनं किंभूतम् । उद्गाढात्यन्तदृढा भक्तिर्वाङ्मनःकायकर्मभिस्तदेकताध्यानासक्तिर्येषां तादृशा ये वि धुरा भवभयार्तास्तेषां व्यपनीतः श्रीशिवभेदप्रथावबोधरूपो दोष एवान्धकारो येन तत् । पुनः किंभूतम् । अतिमात्रं शुचि निर्मलं पवित्रं च । तथा प्रकाशं व्यक्तम् । तथा विविक्ताः पृथक्पृथक्स्थिता वर्णा अक्षराणि यस्मिंस्तत् । तथा कर्णान्तगामि । भक्तजनस्येत्यर्थः । विलोचनं लोचनत्रयमपि किंभूतम् । उद्गाढात्यन्तदृढा भक्तिर्वि- च्छित्तिर्ययोस्तौ विधुरवी विधुश्चन्द्रो रविः सूर्यश्च तौ । ताभ्यां विधुरविभ्यामपनीतो दोषाया रात्रेरन्धकारो येन तत् । रविचन्द्रयोर्दक्षिणवामनेत्र स्थितत्वाद्विभोः । पुनः किंभूतम् । अतिमात्रं शुचेरग्नेः प्रकाशो यस्मिन् । तथा विविक्ताः पृथक्पृथक्स्थिता वर्णाः श्वेतकृष्णलोहिता यस्मिंस्तत् । तथा कर्णान्तगामि कर्णान्तायतमित्यर्थः ॥ पात्रीभवन्ति न यदङ्घ्रिसरोजरेणु- मैत्रीपवित्रशिरसः स्थिरसत्यवाचः । साटोपकोपविकट[^२]भ्रुकुटिच्छटाना- मुत्तालकालभटवक्त्रविभीषिकाणाम् ॥ २९ ॥ स्थिरा सत्यवाग्येषां ते स्थिरसत्यवाचो यस्य प्रभोरङ्घ्रिसरोजरेणूनां चरणकमलरजसां मैत्र्या परिचयेन पवित्रं शिरो येषां ते तादृशा धन्या जनाः सह आटोपेनाडम्बरेण व- र्तते यः स चासौ कोपस्तेन विकटा विस्तीर्णा भ्रुकुटिच्छटा यासु तासाम् । उत्ताला उद्भटा ये कालभटा यमकिंकरास्तेषां वक्त्रेषु या विभीषिका भयविकृतिसंदर्शनानि ता- साम् । यद्वा उत्तालं त्वरितं कृत्वा या विभीषिकास्तासां न पात्रीभवन्ति । कटिनय मभटवक्त्रभीतिसंदर्शनविकृतीर्न पश्यन्तीत्यर्थः ॥ सूक्तिं शुचिं श्रवणयोरमृतं [^३]स्रवन्तीं वक्रामभङ्गुरगुणां महतीं वहन्तः । [^४]गायन्ति यं श्रितवतः परिशुद्धवंश - विद्या यशांसि कवयः परिवादकाश्च ॥ २६ ॥ [^१]. 'यद्गाढ' इति ख-पाठ: [^२]. 'भ्रुकुटीछलानां' इति ख-पाठः [^३]. 'वहन्तीं' इति क-पाठः [^४]. 'शंसन्ति' इति क-पाठः. कवयो निपुणकविकर्मकर्तारः परिवादका वैणिकाश्च यस्य (श्रीशिवस्य) यशांसि मह- दपदानोद्भूतानि गायन्ति । कस्य यं विभुं श्रितवतः श्रीशिवभक्तजनस्य । द्वावपि वि शिनष्टि—महतीं सूक्तिं शोभनोक्तिं वहन्तः । किंभूताम् । शुचिं विमलां निर्दोषाम् । तथा श्रोतृसहृदयजनस्य श्रवणयोरमृतं स्रवन्तीम् । तथा वक्रामुपचारवक्रपदयुक्ताम् । वक्र भणितिमित्यर्थः । 'वक्रभणितिः प्रसिद्धप्रस्थानव्यतिरेकिणी समुज्ज्वला भक्तिः' इत्यालं- कारिकाः । तथा अभङ्गुरा दृढा गुणा ओजः प्रसादमाधुर्याणि यस्यां तादृशी । किंभूताः कवयः । वंशः कुलम्, विद्या च चतुर्दशविधा, ते परिशुद्धे येषाम् । परिवादका वैणिकाश्च किंभूताः । महतीं शततन्त्रीकामेकविंशतितन्त्रीकां वा वीणां वहन्तः । किंभूतां महतीम् । सूक्ति शोभना उक्तिर्यस्यास्ताम् । तथा शुचि सुस्वराम् । श्रोतृकर्णयोरमृतं स्रवन्तीम् । वक्रां कुटिलाम् । अभङ्गुरा दृढा गुणास्तन्त्र्यो यस्यास्ताम् ॥ यत्सेवकस्य मदनोल्बणबाणपूग- क्रान्तालिकान्तविकसत्तिलकोज्ज्वलश्रीः । सेव्या[^१] भवत्यवसरे कलकण्ठनाद- हृद्या वधूः कुसुमितोपवनस्थली च ॥ २७ ॥ यस्य श्रीशंभोः सेवको भक्तजनस्तस्यावसरे रहःस्थानावसरे कुसुमिता ऋतुमती अवसरे ऋतौ गर्भग्रहणकाले वा सेव्या भवति । तथा कुसुमिता प्रफुल्ला कुसुमयुता उ पवनस्थली च अवसरे सेव्या भवति । उभे अपि विशिनष्टि-वधूः किंभूता । मदनस्य कामस्योल्बणः कठिनो यो बाणपूगः शोषणमोहनसंदीपनतापनोन्मादनाख्यपञ्चबाणानां पूगस्तेन क्रान्ता । तथा अलिकस्य ललाटस्यान्तः । 'ललाटमलिकं गोधिः' इत्यमरः । तत्र विकसन्तो तिलकस्य चित्रकस्योज्ज्वला श्रीः शोभा यस्याः सा । तथा कलो म धुरो यः कण्ठनादः स्वरस्तेन हृद्या । उपवनस्थली च किंभूता । मदना वृक्षविशेषा उ ल्बणा उन्नताश्च बाणा वृक्षविशेषाः पूगाश्च वृक्षविशेषास्तैः क्रान्ता व्याप्ता । तथा अलि- भिर्भ्रमरैः कान्तश्चासौ विकसंश्च तिलको वृक्षभेदः । यः कान्ताकटाक्षैर्विकसति । तेनो- ज्ज्वला रम्या श्रीर्यस्याः । तथा कलकण्ठानां कोकिलानां नादेन कुहूरुतेन हृद्या रम्या ॥ यस्मिन्नखिन्नमनसो व्यसनावसन्न- संतापशान्तिकृतसंम[^२]तयो वसन्ति । कात्यायनी च करुणा च कला च चान्द्री स्निग्धा च दृक्सुरसरिच्च सरस्वती च ॥ २८ ॥ यस्मिन्भगवत्येताः कात्यायनीप्रभृतयोऽखिन्नमनुद्वेगं मनो यासां ताः । तथा व्यसनेन भवमरुभ्रमणजसंतापकष्टेनावसन्नाः खेदिता ये भक्तलोकास्तेषां संतापशान्तौ [^१]. 'देव्या' इति ख-पाठ: [^२]. 'संगतयः' इति क-पाठः. कृता संमतिरेकीभूय सम्यक्प्रकारेण मतिर्याभिस्ता वसन्ति । एता का इत्याह-का- त्यायनीत्यादि । कात्यायनी भगवती । करुणा कृपा । चान्द्री कला । सुरसरिद्गङ्गा । स्निग्धा सदया दृक् । सरस्वती वाग्वादिनी च ॥ संतापसंपदपहारपटूनि सिद्ध- सिन्धोरिवेन्दुधवलानि जलानि यस्य । आकल्पयन्ति मदयन्ति पवित्रयन्ति संजीवयन्ति च जगन्ति भृशं यशांसि ॥ २९ ॥ सम्यक्ताप आध्यात्मिकादिर्भवमरुभ्रमणजो वा तस्य संपत् तदपहारे दूरीकरणे पटूनि प्रगल्भानि । तथा इन्दुधवलानि सुधांशुवद्धवलानि सिद्धसिन्धोर्गङ्गाया जलानीव जगन्ति त्रीण्यपि भृशमाकल्पयन्ति भूषयन्ति मदयन्त्यानन्दयन्ति पवित्रयन्ति संजी- वयन्ति च ॥ दुष्कालसंकटकटाहकदर्थितानां तीव्राभिमानमनसां घनसारभांसि । [^१]भिन्दन्त्यमन्दहरिचन्दनबिन्दुवृन्द- संदोहदोहदमहो चरितानि यस्य ॥ ३० ॥ यस्य विभोश्चरितानि रविजभयत्रस्तश्वेतनृपाभयप्रदानादीनि घनसारभांसि । 'घ नसारश्चन्द्रसंज्ञः कर्पूरः' इत्यमरः । घनसारवत्कर्पूरवद्भा दीप्तिर्येषां तानि । दुष्टश्चासौ कालो वर्तमानतुरीययुगसमयः स एव संकटकटाहः संकुचितकटाहस्तेन कदर्शिता व्य- थितास्तत्र वा ये तेषाम् । तीवाभिमानमनसां मनस्विजनानां तीव्राभिमानयुक्तं मनो येषां ते । अमन्दा बहवो ये हरिचन्दनबिन्दवः । 'हरि कपिलं तद्वर्णत्वात् । हरेरिन्द्रस्य वा चन्दनं हरिचन्दनम्' इति रायमुकुट्याम् । 'श्रीखण्डाख्यम्' इति स्वामी । तेषां वृ- न्दम् । संदोहो वृन्दप्रवाहस्तत्र दोहदमभिलाषं भिन्दन्ति वारयन्ति ॥ तीरारविन्दमकरन्दधृत[^३]प्रसङ्ग- भृङ्गाङ्गनागुमगुमारवगीतिगर्भम् । गायन्ति यस्य चरितं हरितामधीशा धीशालिनः कमलिनीपुलिनस्थलीषु ॥ ३१ ॥ अहो आश्चर्यम् हरितामधीशा दिक्पाला दश । 'सूर्याश्वेषु हरित्पुंसि नीले त्रिषु दिशि स्त्रियाम्' इति मङ्खः । धोशालिनो धिया शालन्ते तादृशाः कमलिनीनां पुष्करिणीनां देवकासाराणां पुलिनस्थल्यस्तीरभूमयस्तासु । 'कमलिनी स्यात्कासारे पद्मिनी [^१]. 'निन्दन्ति' इति ख-पाठ: [^२]. 'प्रसङ्गात्' इति क-पाठः पद्मयोरपि' इति विश्वः । तीरे अरविन्दानि कमलानि । 'फुल्लारविन्द' इति पाठः । फुल्लानि यान्यरविन्दानि पद्मानि तेषां मकरन्दे परागे धृतः प्रकर्षेण सङ्गो याभिस्ता भृ- ङ्गाङ्गना अलिन्यस्तासां यो गुमगुमारवः । गुमगुमेति शब्दानुकरणम् । गुमगुमेत्यारवः स एव गीतिर्गर्भे यस्य तत्। यस्य विभोः पूर्वोक्तानेकापदानस्तुतिरूपं चरितं गायन्ति ॥ व्यक्तोज्ज्वलालिकचितं मुखमायताक्षं विस्तीर्णकर्णिकमनर्गलरूढनालम् । यं शंसतोऽधिवसति स्वयमुक्तिदेवी राजीवसद्मकमलाविजिगीषयेव ॥ ३२ ॥ स्वयमेवोक्तिदेवी वाग्देवी यं विभुं शंसतो भक्तजनस्य मुखं वदनमधिवसत्याश्रयति । कयेव । राजीवसद्मकमलाविजिगीषयेव पद्मालयलक्ष्मीजिगीषयेव । भक्तजनवदनं कमलं च द्वे अपि विशिनष्टि – मुखं किंभूतम् । व्यक्तमुज्ज्वलं धवलं चालिकं ललाटम् । 'ललाटमलिकं गोधिः' इत्यमरः । तेन चितं व्याप्तम् । तथा आयते अक्षिणी नेत्रे यस्य तत् । तथा विस्तीर्णा कर्णिका कर्णाभरणं यस्य तत् । तथा अनर्गलं विषमतारहितं रूढं नालं कण्ठो यस्य तत् । राजीवं पद्मं च किंभूतम् । व्यक्ता उज्ज्वलाश्चालयो भ्रम- रास्तैः कचितं शोभितम् । 'व्यक्तोज्ज्वलालि' इति भिन्नपदं वा । तथा आयतान्य- क्षाणि पद्मबीजानि यस्य तत् । 'रथांशेऽक्षो दैत्यभेदे पाशकद्यूतयोरपि । बीजे बिभी- तके कर्षे स्रोतोग्रे क्लीब इन्द्रिये ॥ सौवर्चले' इति मङ्खः । तथा विस्तीर्णा कर्णिका यस्य तत् । 'कर्णिका कर्णभूषणे । करिहस्ताङ्गुलौ पद्मकोषे इत्यमरः । तथा अनर्गलं रूढं नालं वृन्तं यस्य तत् । लक्ष्म्या पद्ममधिष्ठितमिति तत्स्पर्धया शब्दश्लेषेण तत्समा- नगुणं श्रीशिवभक्तमुखमाश्रयामीत्यर्थः ॥ आपन्नबान्धवमवन्ध्यवचोविलासमासन्नम[^१]ज्जननमज्जन सान्त्वनेषु । देवं सुधाकरकिशोरकृतावतंसं तं संश्रितातिहरणं शरणं श्रयामि ॥ ३३ ॥ (पञ्चविंशत्या कुलकम् ) आपन्नानां शरणागतानां बान्धवस्तम् । तथा अवन्ध्यः सफलो मनोतिगवरप्रदानाद्वचनानां विलासो यस्य तम् । केष्वित्याहआसन्नेत्यादि । आसन्नं मज्जनं भवोदधौ मायामोहतरङ्गाकुले ब्रुडनं येषां ते तादृशा ये नमन्तो भक्तिप्रह्वा जनास्तेषां सान्त्वनानि 'मा भैष्ट' इत्याद्याश्वसनानि तेषु । तथा सुधाकरकिशोरो बालचन्द्रस्तेन कृत अवतंसो [^१]. 'सज्जन' इति ख- पाठः. यस्य स तम् । तथा संश्रितानां शरणोपनतानामार्तिस्तं हरतीति तादृशं विभुं श्रीशि- वट्टारकं शरणं श्रयामीति पूर्वेण सह संबन्धः ॥ पञ्चविंशत्या कुलकम् ॥ देवं श्रयामि तमहं मुकुटोरगेन्द्र- स्फूर्जत्फणामणिसहस्रमिषेण यस्य । भालानलेन सुरसिन्धुजलोक्षितेन प्रोन्मुक्तमङ्करसहस्रमिवाचकास्ति ॥ ३४ ॥ अहं तं देवं श्रीशंभुं शरणं श्रयामीति संबन्धः । तं कमित्याह – मुकुटेत्यादि । यस्य श्रीशिवस्य मुकुटे य उरगेन्द्रः सहस्रफणः शेषस्तस्य याः फणास्तासु मणयस्तत्सहस्रस्य मिषेण व्याजेन सुरसिन्धुजलोक्षितेन गङ्गाजलसेचितेन भालानलेन ललाटस्थतृतीयने- त्राग्निना प्रोन्मुक्तमङ्कुरसहस्रमिवाचकास्ति शोभते । सेकादनन्तरं हि प्रणेहोत्पत्तिर्भवति । अद्भुतं जलसेचनादग्निशिखोद्दीपनम् ॥ सानुग्रहोत्तमगणाश्रितपादमूलं मूर्ध्ना धृताभ्रसरितं सतुषारमूर्तिम् । आसेवितं विषधरैः कटकेषु ताप- शान्त्यै गिरीशमतिहृद्यगुहं श्रयामि ॥ ३५ ॥ अहं गिरीशम् । 'गिरेः कैलासस्येशो गिरीशः' इति रायमुकुटीकारः । 'गिरेः कैलास- स्येश उपभोग्यत्वाद्गिरीशः' इति सौगतमुनिटीकायाम् । अथ च गिरीणां पर्वतानामोशो गिरीशो हिमवांस्तम् । रूपकम् । हिमवन्तमिव वा । तापस्याध्यात्मिकाधिदैविकाधिमौ- तिकरूपस्य शान्त्यै श्रयामि । अन्योऽप्यतितापशान्त्यै हिमवन्तं श्रयति । उभावपि विशि- नष्टि – गिरिशं श्रीशिवं किंभूतम् । सहानुग्रहेण प्रसादेन वर्तन्ते ये ते सानुग्रहा उत्तमानां प्रधानानां गणाः समूहाः । 'समवायश्चयो गणः' इत्यमरः । तैराश्रितं पादयोश्चरणयोर्मूलं यस्य तम् । तथा मूर्ध्ना शिरसा धृता अभ्रसरिङ्गा येन स तम् । तुषारा शीतला अमृ तमयी मूर्तिर्यस्य स तुषारमूर्तिश्चन्द्रः । सह तुषारमूर्तिना चन्द्रेण वर्तते यः स तम् । तथा कटकेषु कङ्कणेषु विषधरैः सर्पैरासेवितम् । तथा अतिहृद्योऽतिशयेन प्रियो गुहः षण्मुखो यस्य तम् । हिमवन्तमपि कीदृशम् । सानूञ्शेखरान्गृह्णन्तीति सानुग्रहा ये गणा रुद्रानु- चरा नन्दिभृङ्गिरिटाद्यास्तैराश्रितं पादानां प्रत्यन्तपर्वतानां मूलं यस्य स तम् । पुनः किंभूतम् । मूर्ध्ना शिरसा धृताभ्रसरितं धृतगङ्गम् । धृतान्यभ्राणि मेघा याभिस्ता गृही तमेघाः सरितो नद्यो यत्र तमिति वा । पुनः किंभूतम् । सतुषारा सहिमा मूर्तिर्यस्य सः । हिमाश्रयत्वात् । तम् । पुनः किंभूतम् । कटकेषु पर्वतनितम्बेषु । 'कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः । विषधरैः सर्वैर्जलधरैर्मेघैर्वा । 'मेघानां ह्यद्रयो मित्राणि' इत्युक्त- त्वात् । आसेवितम् । पुनः किंभूतम् । अतिहृद्या गुहा देवखातबिलानि यस्य स तम् । विषशब्दो जलवाचकश्च ॥ यः क्षीरनीरनिधिमङ्घ्रितले सुधाम्म:- कुम्भं करे शिरसि देव[^१]नदीमदीनाम् । हर्तुं बिभर्ति भविनामणुकर्ममाया- मूलं मलत्रयमयं तमहं श्रयामि ॥ ३६ ॥ अयमहं तमीश्वरं श्रयामीति संबन्धः । यः श्रीशंभुरङ्घ्रितले पादतल क्षीरनीरधिं क्षी- रोदधिं बिभर्ति । तथा सुधाकुम्भं सुधाकलशं च करे पाणौ बिभात । 'देवं सुधाकलशसो- मकरं' इति ध्यानोक्तेः । तथा अदीनामुद्भटाम् । तरङ्गभङ्ग्येत्यर्थः । गङ्गां च शिरसि बिभर्ति । अत्र विभीर्निजाङ्गेषु चरणादिषु त्रिष्वमृतरसापूर्णमहाशीतलक्षीरोदध्यादिवस्तुत्रयधारणे उत्प्रेक्षाध्वनिपूर्वकहेतुं युक्तमाइ । किं कर्तुम् । भविनां जन्मिनामणुकर्ममायामूलमणुः पुद्गल आत्मा, कर्म शुभाशुभम्, माया अविद्यापरपर्यायं परमात्मनः परमशिवाद्विश्वस्य भेदप्रथारूपमज्ञानम्, सैव मूलं कारणं यस्य तत्तादृशं मलत्रयमाणवमायीयकार्मरूपं हर्तुं दूरीकर्तुम् । अत्रेवशब्दस्यार्थत्वाद्गम्यमानोत्प्रेक्षा । हर्तुमिव बिभर्तीति भावः ॥ यस्यापगा स्रगिव सौमनसी जटासु यः कौमुदीं विरचनामिव मूर्ध्नि धत्ते । देवीं वराभयकरामपि यो बिभर्ति प्रीतः शिवां दृशमिव प्रभुमाश्रये तम् ॥ ३७ ॥ अहं त्वां प्रभुं त्रिजगदधीशं श्रीशिवमाश्रये शरणं भजामि । तं कमित्याह – यस्य प्रभोर्जटास्वापगा आपेन अप्संबन्धिना वेगेन गच्छतीत्यापगा नदी गङ्गा सौमनसी । 'सुमना मालती जातिः' इत्यमरः । स्रगिव मालतीकुसुममालेव । अनायासकारिणी हृद्या च जटासु भातीति शेषः । तथा यः प्रभुः कौमुदीं कुमुदस्य कैरवस्येयं प्रियत्वा- त्कौमुदी ज्योत्स्ना तां विरचनामिव विलेपनमिव मूर्ध्नि शिरसि धत्ते । तथा यः प्रभुः शिवां देवीं वरश्चाभयं च वरमुद्रा चाभयमुद्रा चं करयोर्वामदक्षिणयोर्यस्याः सा वराभय- करा । तथा चोक्तं श्रीस्वच्छन्दतन्त्रराजे - 'वामं भुजं प्रसार्यैव जानूपरि निवेशयेत् । प्रसृतं दर्शयेद्दक्षं वरः सर्वार्थसाधकः ॥ अग्रे प्रसारितो हस्तः श्लिष्टशाखो वरानने । परा- ङ्मुखं च तं कृत्वा अभयः परिकीर्तितः ॥' इति । कमिव । दृशमिव । प्रीतः संस्तुष्टः स न्यथा दृशं धत्ते । दृष्टि: सापि कीदृशी । वरं देवाद्वतमभीष्टमभयं भयाभावं च करोतीति वराभयकरा ताम् ॥ गौरीं गजास्यजननीं हिमवत्प्रसूतिं सद्यः पवित्रित जगत्रितयां य एकः । [^१]. 'सिद्धनदीं' इति ख- पाठ:. कात्यायनीं सुरधुनीं च विभुर्बिभर्ति निर्वाणदं शरणमेमि तमिन्दुमौलिम् ॥ ३८ ॥ अहं तमिन्दुमौलिं चन्द्रशेखरं श्रीशिवं निर्वाणदमात्यन्तिकदुःख निवृत्तिरूपं मोक्षं द- दातीति निर्वाणदस्तादृशं शरणं रक्षितारमेमि व्रजामि । 'शरणं गृहरक्षित्रोः' इत्यमरः । तं कमित्याह – यो विभुः कात्यायनीं गौरीं पार्वतीम् । 'गौर्यजातरजःकन्या पार्वतो त्रिषु पाण्डुनि । पोतेऽरुणे च' इति मङ्खः । सुरनदीं गङ्गां च बिभर्ति धारयति । किंभूतां गौरीं पार्वतीम् । गजास्यजननीं गजास्यस्य गणपतेर्जननी ताम् । तथा हिमवतो गिरी- न्द्रात्प्रसूतिरुत्पत्तिर्यस्यास्ताम् । तथा सद्य एव स्मरणदर्शनांद्यनन्तरमेव पवित्रितं जग- त्रितयं यया । गङ्गापक्षे गौरीं विमलां धवलां च । अन्यत्समानम् ॥ क्वाप्युद्धृतक्रतुविधातृमृगोत्तमाङ्ग- मुत्सङ्गसंगतमृगं [^१]क्वचिदोषधीशम् । क्रूरं क्वचिन्मृगवधैकरतिं किरातं वातं क्वचिन्मृगरथं विभुमाश्रयामि ॥ ३९ ॥ अहमेवंभूतं विभुं त्रिजगदधीशं स्वतन्त्रमाश्रयामि । शरणमिति शेषः । किंभूतम् । क्वापि कस्मिन्नपि काले उद्धृतमुच्चैर्हतं छेदितं विधातुर्ब्रह्मणो मृगस्य मृगरूपस्योत्तमाङ्गं शिरो येन स तम् । तथा हि पुराणेषु प्रसिद्धम् - ब्रह्मा स्वां दुहितरं संध्यामतिरूपवतीं विलोक्य कामोद्रेकाद्बलात्तामुपगन्तुमुद्यतः । सा च पिता भूत्वा मामयमुपगच्छतीति लज्जया मृगी बभूव । ततस्तां तथाभूतां दृष्ट्वा ब्रह्मापि मृगरूपमधारयत् । तच्च दृष्ट्वा त्रि- जगन्नियन्त्रा महेश्वरेण श्रीशिवभट्टारकेणायं प्रजानाथो धर्मप्रवर्तको भूत्वाप्येतादृशं जुगु- प्सितमाचरतीति महतापराधेन दण्डनीयो मयेति पिनाकमाकृष्य शरः प्रक्षिप्तः । तेन ब्रह्मणः शिरश्छिन्नम् । तन्मृगशिरो नक्षत्ररूपं बभूवेति । तथा क्वचित्कदाचित्काले उत्सङ्गे मध्यभागे संगतो मिलितो मृगोऽत्र शशो यस्य स तादृशमोषधीशं चन्द्रं चन्द्ररूपम् । चन्द्रमूर्तिधरमित्यर्थः । अष्टसु मूर्तिषु मध्ये चन्द्रमूर्तिधरत्वात् । तथा क्वचिन्मृगाणां ह रिणादीनां वधे एका रतिः सुखं यस्य स तादृशं किरातरूपम् । तथा क्वचिद्वातं वायुरूपं वायुमूर्तिधरम् । अष्टसु मूर्तिषु वायुमूर्तिधरत्वादपि विभोः । वातं किंभूतम् । मृगरथं मृगो रथभूतो यस्य स तादृशम् । पृषदश्व इति वायोः प्रसिद्धेः । तदेवं भगवाञ्श्रीशि- वभट्टारकोऽनेकरूपः स्वतन्त्र इत्यर्थः । क्वचिन्मृगस्य वधात्क्वचिद्रक्षणादत्र स्वतन्त्रत्वं विभोः ॥ उद्दामदोषमपि दीर्घगुणं भुजंगभोगोपगूढमपि रूढ[^२]शिखिप्रसङ्गम् । [^१]. 'दधदोषधीशम्' इति क-पाठ: [^२]. 'शिवप्रसङ्गम्' इति ख- पाठः, कापालिकव्रत[^१]समेतमपि द्विजेन्द्र- चूडामणिं विभुमनङ्कुरामाश्रयामि ॥ ४० ॥ अहं निरङ्कुशं केनापि न निरुद्धं स्वतन्त्रं स्वेच्छया यथाभिलषितविधायिनं विभुमा- श्रयामि। एतदेवाह - किंभूतम् । उद्दामदोषमुद्दामान उद्भटास्त्रिपुरान्धकासुराद्यनेकदैत्य- वधोद्धुरा दोषो भुजा अष्टादश यस्य तम् । दोष्शब्दो हलन्तः । 'अष्टादशभुजं देवं नी- लकण्ठं सुतेजसम्' इत्यागमोक्तिः । तथा दीर्घा गुणा अणिमादयोऽष्टौ अनन्यसामान्य- शौर्यादिगुणा वा यस्य तम् । यश्चोद्दामदोषः स कथं सगुणो भवतीति विरोधः । अन्या र्थत्वेन तदभावः । तथा किंभूतम् । भुजंगभोगा वासुकिनागादिकाया स्तैरुपगूढमालिङ्गित मपि रूढ उत्पन्नः शिखिनोऽग्नेस्तृतीयनेत्रस्थस्य प्रकर्षेण सङ्गो यस्य स तादृशम् । यश्च सर्पभोगोपगूढः स कथं रूढः शिखिभिर्मयूरैः सह प्रसङ्गो यस्य स तादृशो भवति । म यूराणामहिभुक्त्वादिति विरोध: । अन्यार्थत्वेन तदभावः । तथा कपालैर्महाप्रलयादौ का- लाग्निरुद्ररूपधारिणा श्रीशिवभट्टारकेण संहृतब्रह्मादीनां कपालैर्दीव्यति कापालिकस्तस्य व्रतेन समेतस्तादृशमपि द्विजेन्द्रचूडामणि द्विजानां नक्षत्राणामिन्द्रो द्विजेन्द्रश्चन्द्रः स चूडामणिर्यस्य स तादृशम् । योऽपि कापालिकव्रतधरः स कथं द्विजेन्द्राणां विप्रवराणां चूडामणिर्भवतीति विरोधः । अन्यार्थत्वेन विरोधाभावः ॥ अङ्गे धृताङ्गनमनङ्गकृताङ्गभङ्गं विश्वाधिनाथमथ खण्डकपालपाणिम् । उग्रं शिवं [^२]हरमघोरमजं च सद्यो- जातं च विस्मयनिधि विभुमाश्रयामि ॥ ४१ ॥ अहं विभुं त्रिलोकनाथं श्रीशिवं विस्मयनिधिमत्याश्चर्याश्रयमाश्रयामि । एतदेव विशेषणमहिम्ना स्पष्टयति—अङ्गेत्यादि । किंभूतम् । धृताङ्गनम् । प्रशस्तान्यङ्गानि यस्याः सा अङ्गना देवी स्वातन्त्र्यशक्तिरूपा । धृता अङ्गना येन स तम् । कुत्र । अङ्गे निजाङ्गे । वामभाग इत्यर्थः । तथा किंभूतम् । अनङ्गस्य कामस्य कृतोऽङ्गभङ्गो दाहेन भस्मीकरणरूपो येन तम् । अत्र योऽङ्गे निजाङ्गसविधे धृतस्त्रीकः स कथं कृतानङ्गभङ्गो भवतीत्याश्चर्यम् । तथा किंभूतम् । विश्वाधिनाथं विश्वं ब्रह्मादि स्तम्बपर्यन्तं तस्याधिनाथोऽधिको नाथस्तम् । पुनः किंभूतम् । खण्डकपालपाणिम् । खण्डं कपालं ब्रह्मकपालं पाणौ यस्य स तादृशम् । यश्च विश्वाधिनाथो जगति सम्राड् भवति स कथं खण्डकपालपाणि: खण्डघटकर्परपाणिर्भवति । तथा किंभूतम् । उग्रम् । 'उच समवाये' धातुः । उच्यति प्रलयकाले रौद्रत्वात्क्रुधा समवैतीत्युग्रः । उद्गतः सर्वोपरि वर्तते वा उग्रस्तम् । तथा शिवम् । भक्तलोकानां भवोदध्युत्तरणरूपशिवकारित्वात् । यश्चोग्रः क्रूरो भवति स कथं शिव इ [^१]. 'समीपमपि' इति ख- पाठ. [^२]. 'हरममोघ' इति क-पाठः त्याश्चर्यम् । तथा कं विभुम् । हरम् । प्रलये कृत्स्नं हरतीति हरस्तम् । तथा अघोरम् । परचैतन्यानन्दघनाद्वयमहाभैरवात्मकस्वस्वरूपे प्रत्यभिज्ञापकत्वात् । तथानाश्रितसदाशिवे- श्वरादिरूपभेदात्मपदप्रदत्वादघोरः परमानन्दप्रदस्तम्। यश्च हरो भवति स कथमघोरो न घोरः परमसुखदायीत्याश्चर्यम् । तथा अजम् । न जातोऽजोऽभवोऽनादिर्ब्रह्मादिकार- णानामपि कारणत्वात्सत्तामात्ररूपः । तथा सद्यस्तत्क्षणमेव जातः शिवादिक्षित्यन्तविश्व- स्य निजप्रतिबिम्बभूतस्य नवनवोल्लासात्सद्योजातरूपः । ईशानतत्पुरुषाघोरवामदेवसद्यो- जातानां पञ्चब्रह्मणां मध्ये सद्योजातस्तद्रूपमित्यर्थः । यश्चाजः स कथं सद्यो जातो भव- तीत्याश्चर्यम् । एतेषां सर्वेषां पदानामन्यार्थत्वेऽविरोधः ॥ अस्मिन्भवाध्वनि महाविषमे ऽसमेषु- रोषादितस्करतिरस्करणैकवीरम् । भीरुः श्रयामि शरणं क्षणदाकुटुम्ब लेखाशिखामणिमनुत्तमशक्तिमीशम् ॥ ४२ ॥ अहमस्मिन्भवाध्वनि संसाराध्वनि महाविषमेऽत्यन्तदुर्गमे भीरुः सन्नसमेषुर्विषमेषुः कामः रोषः क्रोधस्तदाद्या ये तस्करा दस्यवस्तेषां तिरस्करणेऽत्यन्तदमने एकवीरमीशं परमेश्वरमनुत्तमशक्तिमविद्यमान उत्तमो यस्यास्तादृशी शक्तिः स्वातन्त्र्यशक्तिर्यस्य स तादृशं क्षणदा कुटुम्बलेखाशिखामणि परमेश्वरं श्रयामि । एतद्वृत्तानुसारेण ममापि वृत्तमेकम् । यथा –'पश्चेषुणा हृतविवेकधनं कृतान्तपञ्चास्यघोरतरहुंकृतिकातरं माम् । पञ्चेन्द्रियारिकृतवञ्चनपश्चभद्रं पातुं क्षमोऽस्ति किल पञ्चमुखः स देवः ॥ इति । 'पञ्च- भद्र उपप्लुतः' इत्यमरः । अन्यत्स्पष्टम् ॥ किं मेरुमन्दरमुखैर्गिरिभिर्गरीया - न्कैलास एव जगदेकगुरुर्गिरीशः । यस्याभयंकरमसंकरमस्तशङ्क- मङ्कः सुटङ्कमकलङ्कमलं करोति ॥ ४३ ॥ मेरुः स्वर्णाचलः मन्दरो मन्थाचलस्तत्प्रभृतिभिर्गिरिभिः किम् । न किंचित्कृत्य- मित्यर्थः । सिद्धान्तमाह–कैलास एव गिरिर्गरीयानत्यन्तं गुरुर्गौरववान्भवति । अत्र हेतुमाह - स कैलासः कः । यस्य कैलासस्य गिरेरभयंकरं रक्षितारम् । सर्वसत्त्वानामिति शेषः । असंकरम् अविद्यमानः संकरोऽवकरो मार्जनीक्षिप्तधूल्यादिर्यस्य तम्। 'संकरो- ऽवकरस्तया । क्षिप्ते' इत्यमरः । तथा सुटङ्कम् शोभनष्टङ्को विच्छित्तिरूपो यस्य स तम् । तथा अकलङ्कं विमलमङ्कं मध्यं जगतामेकगुरुरेकः शासको गिरीशो गिरेः कैलासस्येशो गिरीशः श्रीशिवोऽलंकरोति भूषयति । निजनिवासानुग्रहेणेत्यर्थः ॥ उल्लङ्घ्य शासनमनन्यजशासनस्य कोऽप्यन्यशासनमुपासितुमेति निष्ठाम् । हित्वा वनं हि नवनागरपर्णपूर्ण- मुष्ट्रः श्रयत्यवटमेव सकण्टकौघम् ॥ ४४ ॥ अनन्यजशासनस्य कामरिपोः श्रीशंभोः शासनं शास्त्रमुल्लङ्ग्य कोऽपि मूडो विरलोऽन्यशासनमन्यशास्त्रमुपासितुं निष्ठां स्थितिमेति । अत्र दृष्टान्तमाह - हित्वेत्यादि । हि यस्मात्कारणान्नवान्यार्द्राणि यानि नागरपर्णानि ताम्बूलवल्लीदलानि तैः पूर्णं वनं हित्वा त्यक्त्वा उष्ट्रः उष्यते दह्यते मरावुष्ट्रः क्रमेलकः सकण्टकौघं सुतीक्ष्णकण्टकमव टमेव भृगुमेव श्रयति । 'प्रपातस्त्ववटो भृगुः' इत्यमरः । अवन्त्यस्माल्लोका इत्यवटः । अत्र चोष्ट्र इति पदांशे श्रुतिकटुत्वेऽपि भक्तिविषये न दोषः । एतद्वृत्ताशयानुसारेण ममापीदं वृत्तमेकम् – 'हृद्यं विहाय शिवशास्त्ररसायनं यो धत्तेऽन्यशासनमतश्रवणेऽभिलाषम् । हित्वाभ्रसिन्धुजलमिन्दुकलावदातं चुण्टीजलं पिबति कुण्ठमतिः स मर्त्यः ॥' इति ॥ यदाकदापि यत्रकुत्रापि येनकेनचित्प्रसङ्गेन श्रीशिवसेवा विहिता सर्वाभीप्सितदैवेत्याह अन्यार्थमप्युपहिता शितिकण्ठसेवा लोकस्य कल्पलतिकेव फलत्यवश्यम् । उद्दीपिता खलु परस्य कृतेऽपि येन तस्यापि दर्शयति दीपशिखार्थसार्थम् ॥ ४५ ॥ अन्यो यजमानादिः प्रेरकोऽर्थः प्रयोजनं यत्र तदन्यार्थमप्युपहिता कृता शितिक- ण्ठस्य श्रीशंभोः सेवा लोकस्य पूजकस्य कल्पलतिकेव सर्वाभीष्टफलप्रदावश्यं फलत्येव । अत्रापि दृष्टान्तमाह – उद्दीपितेति । खलु निश्चये । येन चानेनान्यस्य लोकस्य कृते दीपशिखा उद्दीपिता तस्याप्युद्दीपकस्याप्यर्थसार्थं घटपटादिपदार्थजातं दर्शयति ॥ [^१]यद्यर्चितः स भगवानपि जीविकार्थं तत्रापि किल्बिषविपाकमपाकरोति । योऽपि द्युसिन्धुपयसि प्लवते निदाघ- घर्मच्छिदे भवति सोऽपि हि धौतपापः ॥ ४६ ॥ स भगवाञ्श्रीशिवः । अपिर्भित्रक्रमः । जीविकार्थं जीवनोपायार्थमपि केनापि यद्यर्चितस्तत्रापि तस्यार्चकस्य किल्बिषविपाकमपाकरोति नाशयति । अत्र दृष्टान्तयतिद्युसिन्धुपयसि त्रिपथगावारिणि निदाघघर्मच्छिदे ग्रीष्मोष्मशमनाय योऽपि प्लवते मज्जते सोऽपि धौतपापो निर्धूतपातको भवति । हि निश्चये ॥ पूर्वोक्तमपि पुनरपि समर्थयति कुर्वन्ति भक्तिमपरैरपि ये नियुक्ता भर्गस्य तेऽपि भवदुर्गतिमुत्सृजन्ति । [१]. 'यद्यर्थितः' इति ख-पाठ:. स्तन्यार्थमप्युपहिता ष्टयुकस्य धात्री पात्रीभवत्यखिलभोगसुखासिकानाम् ॥ ४७ ॥ अपरैरन्यैर्नियुक्ता दत्ताज्ञा अपि ये मर्त्या भर्गस्य श्रीशंभोर्भक्तिं कुर्वन्ति तेऽपि भव- दुर्गतिं जन्मजरामरणव्यापदमुत्सृजन्ति त्यजन्ति । अत्र च दृष्टान्तमाह - स्तन्यार्थ- मिति । आढ्यजनेनेतिं शेषः । आढ्यजनेन पृथुकस्य बालकस्य स्तन्यप्रदानायोपहिता गृहीतापि धात्री उपमाता । 'धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि' इति शा- श्वतः । अखिलभोगसुखासिकानां सर्वभोगाश्च सुखासिका: सुखेनासनक्रियाश्च तासां पात्रीभवति । ताः प्राप्नोतीत्यर्थ: । 'उपचिता' इत्यपि पाठः ॥ दम्भादपि ध्रुवमनङ्गजितः प्रयुक्तः सेवाविधिः [^१]प्रेमदसंपदमादधाति । वेश्याजनस्य न सुखाय किमङ्गराग- मालादुगूलधवलः कृतकोऽपि वेषः ॥ ४८ ॥ ध्रुवं निश्चये । दम्भादपि दम्भेनापि प्रयुक्तः कृतोऽनङ्गजित: स्मरारे: पूजाविधिः प्रमदसंपदं परमानन्दसमृद्धिमादधात्युत्पादयति । अत्रापि दृष्टान्तमाह–वेश्येति । अत्रापि परार्थं विहित इति शेषः । परार्थे विहितोऽप्यङ्गरागो विलेपनं च मालाश्च दुगूलं धौतकौशेयं च तैर्धवल उज्ज्वलः कृतकोऽपि वेषो नेपथ्यं वेश्याजनस्य रूपाजीवाजनस्य सुखाय निजसुखाय किं न भवति । भवत्येवेत्यर्थः ॥ पूर्वोक्तप्रकारेण श्रोतृजनं सम्यग्बोधयित्वा पूत्कृत्य वक्ष्यमाणमाह तस्मादुपेत विभुमेव यथातथापि मुक्तिर्न चेद्भवति किं न गलन्त्यघानि । यः स्वेच्छयैव निपतत्यमृतह्रदेऽन्त- र्मज्जत्यसौ न यदि तत्किमुदेत्यसिक्तः ॥ ४९ ॥ भोः सहृदया इति शेषः । भोः सहृदयाः, पूर्वोक्तशासनाद्विभुमेव परमकारुणिकं श्रीशंभुमेव येनकेनापि प्रकारेण स्वेच्छया प्रेरणया वा केनापि प्रसङ्गेन वा शरणमुपेत व्रजत । किं बहुनेत्यर्थः । भवतां चेत्सुदुर्लभा मुक्तिरात्यन्तिकदुःखनिवृत्तिर्निजभाग्य- महिम्ना न भवति तर्ह्यघानि पातकानि प्राक्तनजन्मवृन्दार्जितानि किं न गलन्ति न दूरीभवन्ति । भवन्त्येव । अत्र प्रमाणमाह - यः पुरुषो निजेच्छयैवामृतह्रदे सुधाह्रदे निपतत्यसौ पुरुषश्चेत्तत्र सुधाह्रदे न मज्जति न ब्रुडति तर्ह्यसिक्तोऽमृतबिन्द्वसिक्तः कि- मुदेति । नोदेति । अमृतरसबिन्दुसिक्त एवोदेतीत्यर्थः ॥ [^१]. 'प्रमदसम्मद' इति ख- पाठः . क्षीराब्धेरवहेलया वितरणं निर्यन्त्रणं वर्षणं हेम्रः क्रुद्धकृतान्तमुक्तफणभृत्पाशग्रहोद्दर्हणम् । यच्चाप्युत्कटकालकूटकवलीकारादि कर्माद्भुतं क्रीडामात्रकमेव यस्य तदसौ देवः कथं वर्ण्यते ॥ ५० ॥ यस्य देवस्य श्रीशिवस्य तदेतत्क्रीडामात्रकमेव बालस्य यथा क्रीडनकक्रीडा तथैव भवति । स देव: । 'दिवु क्रीडायाम्' धातुः । दीव्यतीति देवः शिवादिक्षित्यन्ताशेष- सृष्ट्यादिक्रीडापरः परशिवः कथमस्माभिश्चर्मचक्षुर्भिर्वर्ण्यते । तदेतत्किमित्याह - यत्क्षी- राब्धे: क्षीरोदधेरवहेलया सावहेलनं वितरणं दानम् । बालस्योपमन्युमुनेरित्यर्थः । तथा यन्निर्यन्त्रणमव्युच्छिन्नं हेम्नो जाम्बूनदस्य वर्षणं सप्तदिनानि वृष्टिः । मरुत्तस्य नृपतेः पुर इत्यर्थः । तथा यत्क्रुद्धेन कृतान्तेन यमेन मुक्तः प्रक्षिप्तो यः फणभृत्पाशः सर्पपाशस्तेन यो ग्रहो दृढग्रहणं तस्मादुद्वर्हणं मोचनम् । श्वेताख्यनृपतेरित्यर्थः । यच्चो- त्कटो महोद्भटश्चासौ कालकूटो विषभेदस्तस्य कवलीकारो निगरणं समुद्रमथनावसरे । तदादि कर्माद्भुतमपदानं यस्य ॥ स्वच्छन्दस्य यदृच्छया गमयतः [^१]प्रेङ्खोलतां भूलता- माज्ञानुग्रहलाभकत्थनघनस्पर्धानुबन्धोद्धुराः । सोष्माणः कलयन्ति यस्य कलहं सेवासु देवासुरा देवस्यास्य महेश्वरस्य महिमश्लाघाविधौ के वयम् ॥ ११ ॥ अस्य देवस्य शिवादिक्षित्यन्ताशेषसृष्ट्यादिक्रीडापरस्य महेश्वरस्य परमशिवस्य म हिम्नः श्लाघाविधौ महत्त्वस्तुतिविरचने के 'वयं भवामः । यस्य महिमावबोधे ब्रह्मविष्ण्वा- दयोऽप्यसमर्थास्तत्रास्माकं का गतिरित्यर्थः । अस्य कस्येत्याह – स्वच्छन्दस्येति । यस्य विभोः स्वच्छन्दस्य स्वातन्त्र्यशक्तियुक्तस्य यदृच्छया निजेच्छाया शक्त्या भ्रूलतां प्रेङ्खोलतां मनाग्दोलारूपतां चाञ्चल्यं गमयतः प्रापयतः सतः आज्ञैवानुग्रहो महान् प्रसा- दस्तस्य लाभेन कत्थनं विकत्थनं तेन घनः परस्परं स्पर्धाया अनुबन्धोऽविच्छेदस्तेनो. द्धुराः । अत एव सहोष्मणा वर्तन्ते ये ते देवासुरा ब्रह्मादिदेवा असुराश्च कलहं कल- यन्ति कुर्वन्ति । ममैवानुग्रहस्त्रिजगदीशेन कृतो ममैवेति ॥ उर्वीनीरसमीरणारुणशिखिव्योमात्मसोमात्मकै- रष्टाभिर्विभवैर्बिभर्ति भुवनं भोक्ता च भोग्यश्च यः । ब्रूमस्तस्य किमीश्वरस्य महतः स्वैरी स्वकैरेव यः स्फारैर्ब्रह्मपुरंदरप्रभृतिभिः शारैरिव क्रीडति ॥ १२ ॥ [^१]. 'प्रेङ्खोल्लतां' इति पुस्तकद्वयपाठः तस्य महत ईश्वरस्य ब्रह्मादिकारणानामपि कारणस्य किं ब्रूमः । महिमानमिति शेषः । तस्य कस्येत्याह–यः परमेश्वरो भोक्ता स्वतन्त्रकर्तृरूपो भोग्यः कार्यरूपश्चो- र्व्यादिभिः क्षितिजलपवनादिभिः । अरुणः सूर्यः । शिखी अग्निः । अष्टाभिर्मूर्तिभिर्भु- वनं त्रिजगद्बिभर्ति धारयति रक्षति पुष्णाति च । यच विभुः स्फारैर्निजोल्लासरूपैरंशै- र्ब्रह्मपुरंदरप्रभृतिभिर्ब्रह्मेन्द्रादिभिः स्वकैः स्वेच्छयोत्थापितैः शारैरिवाक्षैरिव स्वयमेवो- त्थापितनिर्नाशितैः क्रीडनकैरिव स्वैरी स्वातन्त्र्यशक्तियुक्तः सदा खेलति क्रीडतीति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ शरणाश्रयणं नामाष्टमं स्तोत्रम् । नवमं स्तोत्रम् । दीपोत्करै रविरुचां परिपूरणेयं नीहारवारिभिरिदं भरणं पयोधेः । अस्मादृशां मितदृशां नियतैर्वचोभिः प्रस्तूयते [^१]मव तव स्तवचापलं यत् ॥ १ ॥ रूयते स्तूयते त्रिलोक्या इति रविः । तस्य रवेस्रिजगञ्चक्षुषो या रुचः सहस्रपरि- मिता रश्मयस्तासां दीपोत्करैर्गृहमणिसमूहैरियं परिपूरणा । विडम्बनायैव भवतीत्यर्थः । तथा पयोनिधेर्महार्णवस्य नीहारवारिभिरवश्यायजलैरिदं भरणं परिपूर्णीकरणम् । तदपि विडम्बनाय । इयं परिपूरणा, इदं च भरणं किमित्याह – हे भव, भवत्यस्माच्छिवादि क्षित्यन्तं समस्तमिति भवः । परमशिवः । तत्संबोधनं हे भव । मितदृशां मिता दृग् ज्ञानं येषां ते तादृशामत्यल्पज्ञानवतामस्मादृशां वराकाणाम् । 'दृग्बुद्धौ दर्शने च स्त्री' इति मङ्खः । चर्मचक्षुषां नियतैः परिमितैर्वचोभिस्तव स्तवचापलं स्तुत्युद्योगिता यत्प्र- स्तूयत आरभ्यते तद्विडम्बनायैवेत्यर्थः । निदर्शनालंकारः ॥ अत्रापराध्यति गिरो हरधृष्टतेय- मेषा निसर्गमुखरा मुखरागिणी यत् । प्रौढिं पराम[^२]नुपयत्यपि वाञ्छति त्वां स्वामिन्हठादिव परं पुरुषं ग्रहीतुम् ॥ २ ॥ अत्र विषये । ममेति शेषः । मम गिरो वाण्या इयं धृष्टता प्रागल्भ्यम् । एवशब्द आर्थः । धृष्टतैवापराध्यति । अत्र कुत्रेत्याह – यद्यस्मात्कारणात् हे स्वामिन, एषा मम [^१]. 'तव भव' ख. [^२]. 'अनुनयन्त्यपि' ख. गीः परामुत्कृष्टां प्रौढिं पदार्थे वाक्यरचनादिरूपो गुणविशेषः प्रौढिस्तामनुपयत्यपि अ- प्राप्नुवन्त्यपि निसर्गेण स्वभावेन मुखरा अत्यन्तवाचाटा मुखे आमुख एव रागः किं- चिद्वर्णनाभिलाषो यस्या ईदृशी सती यद्धठादिव बलादिव परमुत्कृष्टतरं परात्परतरं पु- रुषं परमात्मानं परमशिवं त्वां ग्रहीतुं यद्वाञ्छति तत्तस्या धृष्टतैवापराध्यतीत्यर्थः । अथ च काचित्स्वभावतो वाचाटा मुख एवानुरागवती च परां वाल्यात्परां प्रौढिं यौवनाव- स्थामप्राप्नुवत्यपि परमन्यं पुरुषं कामुकं यद्वाञ्छति तत्र तस्या धृष्टतैवापराध्यतीत्यर्थः ॥ यद्वा भवत्यसुलभो भवदाश्रितस्य शस्यः स कोऽपि महिमा न हि मादृशोऽपि । स्वच्छन्दमन्दमपि यत्र पदं त्वदुक्षा धत्ते मही भवति हेममयी हि तत्र ॥ ३ ॥ यद्वा पक्षान्तरे । अथवा हे स्वामिन्, मादृशोऽपि वराकस्य यदाश्रितस्य भवन्तं विभुमाश्रितस्य अर्थान्ममैव शस्यः स्तुत्यः स कोऽप्यनिर्वाच्यो महिमा असुलभो दुर्लभो न भवति । हि निश्चये । किं तु सुलभ एवेत्यर्थः । ममैवैष महिमा भवदाश्रितत्वाद्गिरः । दृष्टं चैतत् । हे विभो, त्वदुक्षा भवदीयवाहनशाक्वरो यत्र स्वच्छन्दं स्वतन्त्रं मन्दमपि पदं धत्ते तत्र मही हेममयी जाम्बूनदमयी भवति । हि निश्चये ॥ भीष्मो विषादपि विषादपिनद्धमेत- च्चेतश्च्कार सविकारमकारणारिः । मोहामयस्तमयमस्तमयं नयामि स्वामिंस्तव स्तवरसायनसेवनेन ॥ ४ ॥ विषाद्गरलादपि भीष्मो घोरः अकारणारिर्निष्कारणवैरी मोहामयः । 'मीङ् हिंसा- याम्' । आमिनोति हिनस्ति बलमामयः । मोहोऽविद्यापरपर्याय मज्ञानमेवामयो रोगः । विषादपिनद्धं विषादेन दुःखेन पिनद्धं परिवलितं सविकार मनेकचिन्ताजालदोषदुष्टमेत- न्मदीयं चेतश्चकार । हे स्वामिन्परमेश्वर, अयमहं तव विभोः स्तवः स्तुतिरेव रसायनं जरामरणव्याधिहरं महौषधं तस्य सेवनेन तमामयं मोहामयमस्तमयं नाशं नयामि । रसायनसेवया हि महामयः शाम्यति ॥ एष स्तवस्तव नवप्रमदोपदेश- मादेशयञ्जयति कोऽपि गुरुर्गिरीशः । सद्यः पुरः स्फुरति मे दुरतिक्रमेण यत्संक्रमक्रमवशेन वचोधिदेवी ॥ ५ ॥ हे गिरीश । गिरे: कैलासस्येशस्तस्यामन्त्रणं हे गिरीश शंभो, नवप्रमदोपदेशमादे- शयन्कुर्वन्कोऽप्यनिर्वाच्यमहिमा गुरुर्महान्दैशिकश्च तव विभोः स्तवः स्तुतिरूपो जति सर्वोत्कृष्टो भवति । एष क इत्याह – यस्य स्तवस्य संक्रमस्तत्त्वार्थान्तःप्रवेशः स एव संक्रमः सोपानं तस्य क्रमस्तद्वशेन मे मम वाणी सद्यः पुरोऽग्रे स्फुरति । किंभूतेन दुरतिक्रमेण दुरारोहेण । दैशिकोऽपि शिष्यस्य मनसि धारणयान्तः प्रवेशेन संक्रमण - दीक्षां विधत्त इत्याममोक्तिः ॥ नास्य स्पृहास्ति सरसाय रसायनाय नायन्त्रितेन्दुवदनावदनामृताय । निर्बन्धमेति तु भवत्सविधे विधेहि निर्बन्धमन्धकरिपो तदिदं मनो मे ॥ ६ ॥ हे अन्धकरिपो परमेश्वर, अस्य मम मनसः सरसं सह रसैः षड्भिः स्वादुप्रभृति भिर्वर्तते यत्तत्सरसम् । षड्रसममृतमित्यायुर्वेदे । सरसाय रसायनायामृताय स्पृहा नास्ति । तथा अयन्त्रितमव्युच्छिन्नमिन्दुवदनावदनामृतं चन्द्रमुखीमुखामृतं तस्मै । तु पक्षे । हे विभो, भवतः सविधं निकटं तत्र निर्बन्धं हेवाकमेति । अतो हे विभो, इदं मे मम मनो बन्धाद्भवबन्धान्निर्मुक्तं निर्बन्धं विमुक्तमायाबन्धं वा विधेहि कुरु ॥ आभाति शक्रनगरी न गरीयसी मे प्रीतिं च सिञ्चति न कांचन काञ्चनाद्रिः । जाने परं हर शरण्यमरण्यमेव यत्र त्वदङ्घ्रिनलिनार्चननिर्वृतिः स्यात् ॥ ७ ॥ हे हर, शक्रनगरी अमरावती गरीयसी अतिशयेन गुर्वी मे मम न आभाति । तथा काश्चनाद्रिश्च मेरुगिरिश्च कांचन प्रीतिं न सिञ्चति । तुष्टिं नोत्पादयतीत्यर्थः । हे विभो, यत्रारण्ये त्वच्चरणपङ्कजपूजासुखं स्यात्तदेवारण्यं शरण्यं शरणे साधु परं केवलं जाने। परमुत्कृष्टं वा ॥ पुष्पेषुदोहदवशा[^१]दवशा भृशं या बभ्राम वामनयनामुजमञ्जरीषु । सा सांप्रतं दृगलिनी [^२]बलिनी व्यनक्ति त्वद्भक्तिकल्पलतिकाफलभोगतृष्णाम् ॥ ८ ॥ बलं विद्यते यस्याः सा बलिनी । सा मे मम दृगलिनी दृग्दृष्टिरेवालिनी भ्रमरी सांप्रतमिदानीं तव भक्तिर्वाङ्मनः कायैस्तदेकविषयतासक्तिः सैव कल्पलतिका तस्याः फलं परमानन्दरूपं तस्य भोगे तृष्णामभिलाषं व्यनक्ति प्रकटोकरोति । सा केत्याइ - येत्या [^१]. 'अवशं' क. [^२]. 'बलिनीं' ख. दि । पुष्पेषुः प्रसूनेषुः कामस्तस्य दोहदवशादभिलाषहेतोरवशास्वतन्त्रा या मे दृग्भ्रमरी वामनयनाभुजमञ्जरीषु कामिनीभुजलतासु भृशमत्यर्थं बभ्राम । अथ च यालिनी मञ्जरीषु लतासु पुष्पेषु कुसुमेषु दोहदवशात् पुष्पफलप्रदानौषधं दोहदस्तद्वशादुत्पन्नेषु भृशं बभ्राम सा कल्पलतिका भोगेच्छां प्रकटीकरोति ॥ अधुना परमेश्वरानुग्रहेण कदाचित्प्राप्यायाः शिवभक्तेर्महिमानं स्तौति किं निर्मिता मुकुटचन्द्रकलां निपीड्य किं वा शिरः शरणनिर्झरिणीजलेन । किं वा करस्थकलशामृतसंप्लवेन भक्तिस्त्वया प्रणयिनां भवतापशान्त्यै ॥ ९ ॥ हे हरेति प्रस्तुतम् । मुकुटस्थेन्दुकलां निपीड्येयं भक्तिर्वाङ्मनः कायकर्मभिस्त्वदेक- विषयासक्तिः प्रणयिनां शरणापन्नानां भवतापशान्त्यै संसारमरुभ्रमणजतापोच्छ्रित्यै त्वया कृपया किं निर्मिता । किं वा शिरः शरणं स्थानं यस्याः सा निर्झरिणी गङ्गा तस्या जलेनातिशीतलेन निर्मिता । किं वा करस्थ: कलशस्तदमृतप्रसेकेन । एवं नो चेत्स्याद्भवे जन्मन्यतिकठिनेऽध्यात्मिकाधिदैवाधिभौतिकरूपतापत्रयहर्त्री भविनां कथं स्यादित्यर्थः ॥ स्वामिन्विचित्रचरितस्य [^१]तवापदान- गीतामृतेषु दृढरूढरतिर्ममेयम् । दूरीकृतान्यसरणिर्हरिणीव वाणी सत्यं पदात्पदमपि क्षमते न गन्तुम् ॥ १० ॥ हे स्वामिञ्शंभो, विचित्राणि नानाविधानि चरितानि त्रिपुरदाहान्धकासुरवधश्वेताभ- यदानक्षीराब्धिदानादीनि यस्य स तादृशस्य तवापदानगीतामृतेष्वद्भुतकर्मगीतसुधारसेषु दृढं गाढं रूढोत्पन्ना रतिः परमानन्दो यस्याः सा ममेयं वाणी दूरीकृतान्यसरणिर्दूरीकृता अन्यसरणयोऽन्यमार्गाः श्रीशिवशासनादन्ये यया सा तादृशी सती तत्रैव गीतामृते जा तरतिः पदात्पदमेकपदमपि गन्तुं न क्षमते । सत्यमेतत् । केव । हरिणीव । सापि गीतेषु रूढरतिः पदादेकं पदमपि गन्तुं न क्षमते। 'हरति हरिणचित्तं का कथा देवतानां रम- यति च महेशं को वराको नरेशः' इति संगीतशास्त्रोक्तेरिति ॥ आश्वासनं यमभयाकुलतामृतानां संजीवनं भवदवव्यथया मृतानाम् । आलम्बनं सुकविराजगिरामृतानां संकीर्तनं जयति ते चरितामृतानाम् ॥ ११ ॥ [^१]. 'तवावदान' ख. यमः कालस्तस्य भयेन त्रासेन याकुलता तां यमभयाकुलतामृतानां गतानाम् । 'ऋ गतौ' धातुः । तथा भवदवव्यथया भवो जन्म । उपलक्षणमेतत् । जन्मजरामरणरूयो यो दवो दवाग्निस्तेन या व्यथा तया मृतानां कथाशेषतां गतानाम् । तथा सुकवीनां रा- जान: सुकविराजा महाकवयस्तेषां गिरां वाचामालम्बनमाधारभूतम् । किंभूतानां गिराम् । ऋतानां सत्यानाम् । 'सत्यं तथ्यमृतं सम्यक्' इत्यमरः । हे स्वामिन्, ते तव चरितामृतानां चरितान्येवामृतानि तेषां संकीर्तनं जयति सर्वोत्कृष्टं भवति ॥ दानं तरङ्गतरलः किल दुग्धसिन्धु- र्मुक्तिः करालतरकालभयात्प्रसादः । त्यागोऽपि सप्त दिवसानि सुवर्णवृष्टिः किं किं न चारुचरितं भवतः प्रशस्यम् ॥ १२ ॥ हे विभो, चारु रम्यं भवतः परमेश्वरस्य किं किं न चरितं जनेन प्रशस्यं स्तुत्यम् । तदेवाह – तत्रानन्यसामान्यतया प्रसिद्धान्दानप्रसादत्यागान्माहेश्वरानाह– दानं चे- त्परीक्ष्यमीश्वरस्य तर्हि किलेत्यागमे तरङ्गैस्तरलश्चलो दुग्धसिन्धुः क्षीरार्णवो दानम् । उपमन्युमुनेर्बालस्येत्यर्थः । तथातिभयानककालत्रासान्मोचनं मुक्तिः प्रसादोऽनुग्रहः । श्वेताख्यनृपतेरित्यर्थः । तथा सप्तदिवसानि सुवर्णवृष्टिः कनकवर्षणं मरुत्तनृपतेः पुरे । एष त्यागः । अतः किं किं न चरित्रं विभोः स्तुत्यम् । अत्र च दानत्यागयोर्विशेषः- पात्रापात्रविवेकेन यद्वितरणं तद्दानम् । तदभावेन यद्वितरणं स त्याग इति । यत्तु - 'त्यागो विहापितं दानमुत्सर्जनविसर्जने' इत्यमरसिंहेन स्वकोष उक्तं तत्सामान्येन त- ज्ज्ञैरूह्यम् ॥ [^१]स्वामिन्न्रजः परिचितं चपलस्वभावं जात्या मलीमसमिदं हृदयं मदीयम् । त्वत्पादपद्मविषये [^२]कृतपक्षपातं धत्ते प्रमोदभरनिर्भरभृङ्गलक्ष्मीम् ॥ १३ ॥ भोः स्वामिन्, रजसा पापेन रजोगुणेन परिचितं स्पृष्टम् । तथा चपलः स्वभावो यस्य तम् । तथा जात्या आजन्मतो मलीमसं कलुषम् । इदं मदीयं हृदयं मनस्त्वत्पाद- पद्मविषये भवदीयचरणाम्बुजस्थले कृतः पक्षपातः स्नेहो येन तादृशं सत्प्रमोदभरेण पर- मानन्दभरेण निर्भरः पूर्णो यो भृङ्गश्चञ्चरीकस्तस्य भङ्गिं विच्छित्तिं धत्ते । भृङ्गोऽपि रजसि परागे परिचितस्तथातिचपलस्वभावः । जात्या मलीमसः कृष्णवर्णोऽपि । तथा पद्मे कमले दृढ: पक्षाणां सूक्ष्मपक्षाणां पातो यस्य तादृशो भवति ॥ [^१]. स्व -पुस्तकेऽस्याग्रिमस्य च श्लोकस्य व्यत्ययः. [^२]. 'दृढपक्षपातं' क-ख. त्वां वामदेवमपि दक्षिणमाश्रितेषु सर्वत्र शंकर वसन्तमपि स्मरारिम् । [^१]अप्यन्तकोपशमहेतुमनन्तकोप- शान्त्येककारणमचिन्त्यगतिं श्रयामि ॥ १४ ॥ हे शंकर कैवल्यदायिन्, अहं त्वां विभुमचिन्त्यगतिं अचिन्त्या मनोतिगाद्भुता गति- र्यस्य स तं श्रयामि । एतदेवाह – वामदेवमिति । त्वां किंभूतमपि वामदेवमपि । 'लोकाचारविपरीतत्वाद्वामश्चासौ देवः' इति रायमुकुटीकारः । वामः सुन्दरो देवः । संसारवामत्वाद्वेति वामदेव इति... । पुनः किंभूतम् । आश्रितेषु शरणागतेषु दक्षिणमनु- कूलम् । 'अनुकूले दक्षिणस्त्रिषु ऋजौ दक्षिणदिग्भवे' इति मङ्खः । यो वामो भवति स कथं दक्षिण इति विरोधः । अन्यार्थत्वे तदभावः । तथा त्वां किंभूतम् । सर्वत्र सचराचरे जगति वसन्तं निवसमानम् शतृप्रत्ययेनास्य सिद्धिः । तथा किंभूतम् । स्मरारिं कामदहनम् । अथ च यो वसन्तः ऋतुराट् । वसति कामोऽत्र वसन्तः । 'तृभूवहिवस–' इत्यादिना झच् । वसन्तः पुष्पसमयः ऋतुराट् स कथं स्मरस्य काम- स्यारिरिति विरोधः । अन्यार्थत्वे तदभावः । पुनः किंभूतमपि । अन्तकोपशमहेतुमपि अन्तकस्योपशमः शान्तिस्तस्यैकहेतुम् । पुनः किंभूतम् । अनन्तोऽव्युच्छिन्नो यः को- पस्तस्य शान्तेर्दूरीकरणस्यैककारणम् । यश्चान्तकोपशमहेतुः स कथमनन्तकोपशमहे- तुरिति विरोधः । अन्यार्थत्वे तदभावः ॥ क्वापि प्रसीदास दिशन्विशदं प्रकाशं क्वापि प्रयच्छसि घनावरणोपरोधम् । कुर्मः किमत्र महनीयमहामहिम्नो नास्त्येव नाम नियतिर्नभसः प्रभोश्च ॥ १९ ॥ हे स्वामिन्, क्वापि कुत्रापि विशदमत्यन्तनिर्मलं प्रकाशं चित्प्रकाशं दिशन्वितरन्प्र- सीदस्यनुग्रहं करोषि । धन्यस्य कस्यापि गाढभक्तिरतस्येत्यर्थः । पुनः क्वापि कुत्रापि धनं यदावरणं मायावरणं तेन य उपरोधः सर्वतः संरोधस्तं प्रयच्छसि । तत्तस्माद्वयमत्र किं कुर्मः । नाम निश्चये । नियतिर्नियमनं परेण विहितं स्तवनीयमहा महत्त्वस्य प्रभोः श्रीशिवस्य नभस आकाशस्य च नास्ति । अत्रार्चितं (?) द्वयोरिति प्रभोर्नभसश्चेत्यु- च्यमाने नभसोऽपि श्रीशिवभट्टारकस्यैकमूर्तित्वात्तदंशेऽपि पूर्वमुद्दिष्टे न दोषः । नभो- ऽपि क्वचिदनभ्रत्वात्प्रकाशम्, तथा क्वापि घनानां मेघानामावरणेन समन्तादाच्छादने- नोपरोधो यस्य तादृशं च भवति ॥ [^१]. 'अत्यन्तकोप' क. चित्तं नतापदुपतापहृतिप्रवृत्तिं भीताभयार्पणपणप्रवणां च वाणीम् । लोकोपकारपरतन्त्रमिदं वपुश्च कस्त्वत्परः परमकारुणिको बिभर्ति ॥ १६ ॥ हे स्वामिन, परमकारुणिकोऽत्यन्तदयालुस्त्वत्परस्त्वदन्यः कः । नतानां भक्तिप्रह्रा- णामापज्जन्मजरामरणव्याधिश्च, उपतापश्च त्रिविध आध्यात्मिकादितापः । यद्वा आ- पदा य उपतापस्तस्य हृतौ हरणे प्रवृत्तं चित्तं मनो बिभर्ति । त्वमेको दयालुस्त्रिजग- दुद्धरणैकहेतुरित्यर्थः । तथा त्वत्परः को भीतानां करालकालभ्रुकुटीत्रस्तानां यदभया- र्पणं स एव पणो नियमस्तत्र प्रवणा लीना प्रगल्भा वा वाणी तां च को बिभर्ति । तथा त्वत्परः को लोकानां त्रयाणां लोकानां य उपकारस्त्रिभुवन विध्वंसकारित्रिपुरान्ध- कासुरादिवधेनाभयदानं तत्र परतन्त्रं परविधेयमिदं वपुः शरीरं सकलमूर्तिना भवता त्रिजगदुपकाराय 'अष्टादशभुजं पञ्चवदनं' इत्यादिध्यानोक्तं कस्त्वत्परो बिभर्ति ॥ चित्तं विषादमगमग्न परं [^१]प्रसाद - मौज्झद्विचारमुचितं न बहिः प्रचारम् । लेभे न कुत्र विवरं प्रवरं न बोध- मेतत्त्वयैव भगवन्धृतविप्रयोगम् ॥ १७ ॥ हे भगवनैश्वर्यादिषट्क्युक्त, त्वयैव प्रभुणा कृतो विप्रयोगो विश्लेषो येन तत्तादृशरूपं सदिदं मदीयं मनो विषादं दुःखं प्राप । न पुनः प्रकाशं चित्प्रकाशम् ( प्रसादम्) । तथा त्वयैव कृतविप्रयोगं कृतविरहमेतन्मम चित्तमुचितमवश्यकर्तव्यं विचारं विवेकमौज्झत् तत्याज । न च बहिः प्रचारं समाधिधारणाविघातिनं बाह्यजनसङ्गमौज्झत् । तथा त्व- यैव प्रभुणा धृतविप्रयोगमेतन्मम चित्तं कुत्र न विवरं छिद्रं लेभे, अपि तु सर्वत्र । न पुनः प्रबोधं तत्त्वज्ञानावबोधं लेभे । अथ च धृतविप्रयोगं विश्च प्रश्च विप्रावुपसर्गौ ताभ्यां योगो विप्रयोगः । धृतो 'वि' इत्यस्य, 'प्र' इत्यस्य च योगः संयोगो येन तत् । त्वयैव कृतमित्यर्थः । अत्र च वृत्ते त्रिषु चरणेषु विषादमित्यत्र विरुपसर्ग आदिः, प्रकाश (प्र- साद, मित्यत्र प्र उपसर्गः । तथा विचारमित्यत्र विः, प्रचारमित्यत्र प्रः । विवरमित्यत्र विरुपसर्ग आदौ प्रवरमित्यत्र च प्र उपसर्गः । एतादृशं विप्रोपसर्गयुतप्राप्त्यप्राप्तियुतं त्वयैव भगवता कृतमित्यर्थः ॥ अश्रान्तमान्तरमशान्तरजोविकारं सारङ्गकेतुमुकुट स्फुटमन्धकारम् । [^१]. 'प्रकाशं' क. युक्तं यदन्धयति यद्बघिरीकरोति कोऽतिप्रसङ्ग इति तत्र न तर्कयामि ॥ १८ ॥ 'चातके हरिणे पुंसि सारङ्गः शबले त्रिषु' इति मङ्खः। सारङ्गो हरिणः केतौ यस्य स सारङ्गकेतुश्चन्द्रः । स मुकुटे यस्य स तत्संबोधनं हे सारङ्ग केतुमुकुट श्रीशंभो, शान्तः शमं गतो रजोविकारो रजोगुणविकारी यस्य तत् तादृशं स्फुटं प्रकटमान्तरमन्धकारं तमः। 'अन्धकारोऽस्त्रियाम्' इत्यमरः । आन्तरं तमः । अज्ञानरूपमित्यर्थः । पुरुषं यद- न्धयति कार्याकार्यविवेकानवलोकेनान्धयति तदिदं युक्तम् । रजोविकारेण धूलिविका- रेण युक्तं तमः पुरुषमन्धयत्येव । तदेवान्तरमन्धकारं पुरुषं यद्बधिरीकरोत्येडीकरोति स कोऽतिप्रसङ्गः । अतिशयेन प्रसक्तिरित्यर्थः । को भवति । बाह्यमन्धकारं रजसा धूल्या विमिश्रं पुरुषमन्धयति, न तु बधिरीकरोति । एतत्त्वान्तरमज्ञानरूपं तमः पुरु- षमन्धं बधिरं च करोत्येवेत्यर्थः ॥ लीलाविलोलललनानयनान्तवासमासाद्य यः क्व न भनक्ति मनस्विनोऽपि । सोऽयं निविश्य विमले हृदये मदीये धिङ्यर्ममर्म न भिनत्ति कथं मनोभूः ॥ १९ ॥ स्वामिन्नसन्तमिव तत्र वसन्तमेव स त्वामवैति किमिदं यदि वा किमन्यत् । दग्धोऽपि यं पुनरवाप्य बिभर्ति गर्वं सर्वंकषो विजयते स तव प्रसादः ॥ २० ॥ (युग्मम्) लीलाविलोलेति युग्मम् । यो मनोभूर्मनसिजः । मनोभूरिति साभिप्रायम् । न बहिः कुतोऽप्यागत इति । लीलया विलासेन विलोलं तरलं यल्ललनानयनं कामिनीलोचनं तस्यान्तोऽपाङ्गः स एव वासो निवासस्तमासाद्य प्राप्य मनस्विनोऽपि वयं संयतचित्ता इति मानिनोऽपि क्व न भनक्ति । 'भञ्जो आमर्दने' धातुः । मनोभङ्गेन जयति । धिगस्तु । सोऽयं मनोभूः कामो विमले श्रीशिवभट्टार कभक्त्यासक्तत्वान्मलरहिते । अपिशब्द आर्थः । विमले इत्येतदग्रिमवृत्ते प्रकटयति । 'विपुले' इत्यपि पाठः । विमलेऽपि मदीये हृदये निविश्य मर्ममर्म कथं न भिनत्ति । भिनत्त्येवेत्यर्थः । मनोभुवस्त्रिलोकविजयित्वा दिति भावः ॥ हे स्वामिन्, कामो मनोभूस्तत्र मदीये हृदये विमलेऽपि वसन्तमेव त्वां विभुमसन्तमिव असन्नवर्तमानस्तमसन्तमिव त्वां स्वामिनं यदवैति जानाति तदिदं किम् । यदि वा प क्षान्तरे अथवा किमन्यत् । तत्त्वं तत्र ब्रूमः –यं प्रसादं तव पुनरवाप्य दग्धोऽपि भ वन्नेत्राग्निना भस्मीकृतोऽपि स मनोभूर्यद्गर्वमहंकारं हरकिंकरलक्ष्यीकरणाहंकारं त्रिज- गज्जयित्वाइंकारं वा बिभर्ति सर्वंकषः सर्वं कषति व्याप्नोतीति सर्वत्रिजगजयित्वरूपः प्र सादोऽनुग्रहस्तवैव स तस्य कामस्य विजयते सर्वोत्कृष्टो भवति ॥ युग्मम् ॥ श्रीखण्डचन्दननिघृष्टकुरङ्गनाभि- कर्पूरकुङ्कुमकरम्बशुभाङ्गरागम् । उद्यन्नवीनकदलीदलसौकुमार्यं बिभ्रत्यनङ्गनटमङ्गलरङ्गमङ्गम् ॥ २१ ॥ फुल्लारविन्दवदना विकसच्छिरीष- मालाभुजाभिनवनीलसरोजनेत्रा । ब्रह्मास्त्रमप्रतिहतं विहिता हिताय पुष्पायुधस्य कुसुमैरिव माधवेन ॥ २२ ॥ नाथेति जीवितहरेति दयापरेति सप्रेमकोपमतिकोमलमालपन्ती । गाढानुरागविष्टताखिलगूढभाव- मावर्जयन्त्यविषयैर्वचसां विलासैः ॥ २३ ॥ किं वापरं कुपितनिर्घृणपञ्चबाण- बाणौघमिन्नहृदया परिरम्य गाढम् । मुग्धाजनस्य सहजामवजित्य लज्जा- मौत्सुक्यसान्द्रमधरामृतमर्पयन्ती ॥ २४ ॥ आक्षिप्तसिन्धुमथनोत्थमहामृतौघभावत्कभक्तिरसपारणनित्यतृप्तम् । प्रत्याहृतेन्द्रियमवाप्तसमाधिसौख्यं न त्वत्परं हरति सा [^१]हरिणेक्षणापि ॥ २५ ॥ ( पञ्चभिः कुलकम् ) श्रीखण्डेति पञ्चभिः कुलकम् । हे स्वामिन्, विशेषणविशिष्टा सा प्रसिद्धा हरिणेक्षणापि मृगाक्ष्यपि त्वयि परमेश्वरे परमासक्तं न हरति न वशीकर्तुं क्षमते। कं त्वत्परम् । आक्षिप्तेत्यादि । आक्षिप्तो निर्जितः सिन्धुमथनोत्थः क्षीरोदमथनोत्थो महानमृतौघः सुधाप्रवाहो येन स तादृशो यो भावत्कभक्तिरसो भवदीयभावनारसस्तस्य पारणमाहार [^१]. 'हरिणायताक्षी' क. स्तेन नित्यतृप्तस्तादृशम् । तथा प्रत्याहृतानि प्रत्याहाराख्ययोगाङ्गेन प्रत्याहृतानीन्द्रि- याणि येन स तम् । तथा अवाप्तं समाधेरात्ममनसोरैक्यस्य सौख्यं परमानन्दो येन तादृशम् ॥ हरिणेक्षणा किंभूता । श्रीखण्डचन्दनं श्रीखण्डाख्यश्चन्दनविशेषस्तेन निघृ ष्टानि यानि कुरङ्गनाभिः कस्तूरी, कर्पूरं, कुङ्कुमं कश्मीरजं चैतानि तेषां करम्बो मे- लनं तेन शुभो रम्योऽङ्गरागो यस्य तत् । तथा उद्यन्नवीनं कदलीदलं कदलीलतादलं तद्व- त्सौकुमार्यं यस्य तत् । तथा अनङ्गः काम एव नटस्तस्य मङ्गलार्थं रङ्गं स्थानभूतमङ्गम् । जातावेकवचनम् । बिभ्रती धारयन्ती ॥ पुनः किंभूता हरिणेक्षणा । फुल्लं यदरविन्दं नलिनं तत्सदृशं वदनं यस्याः सा । तथा विकसन्ति यानि शिरीषाणि शिरीषकुसु- मानि तेषां माला तत्सदृशे भुजे भुजलते यस्याः सा । तथाभिनवं नवोत्पलं यन्नी- लसरोजं नीलोत्पलं तत्तुल्ये नेत्रे यस्याः । अत एव माधवेन वसन्तेन । 'माधवस्तु व सन्ते स्याद्वैशाखे गरुडध्वजे' इति विश्वः । कुसुमैररविन्दशिरीषनीलोत्पलैः कुसुमा- युधस्य कामस्य स्वसख्युर्हिताय । जगद्वशीकरणरूपं हितं तदर्थमप्रतिहतमनाहतं ब्र- ह्मास्त्रं पाशुपतास्त्रं विहितेव । ब्रह्मास्त्रमित्यस्य 'वेदाः प्रमाणं श्रुतयः प्रमाणम्' इतिव- दजहल्लिङ्गता ॥ 'हे नाथ स्वामिन्,' इति सस्नेहमतिकोमलमालपन्ती । तथा जीवित- हरेति जीवितमपि हरति क्षणमपि वियोगेन जीवितहरस्तत्संबोधनं हे जीवितहरेति सकोपम्, तथा दयापर दयालो इति सप्रेम, अतिकोमलमालपन्ती। तथा गाढानु- रागेण दृढप्रेम्णा विवृतः प्रकटीकृतोऽखिलो गूढो भावो निजाभिप्रायो यत्र तत् । क्रिया- विशेषणमेतत् । एवं वचसामविषयैरगोचरैरनिर्वाच्यैर्विलासैर्विभ्रमैरावर्जयन्ती वशीकु- र्वती । प्रियतममन इत्यर्थः ॥ किं वा परमन्यमः – कुपितेत्यादि । हरिणेक्षणा किं भूता। कुपितः प्रेयसोः परस्परप्रेम्णि कतिपयक्षणविलम्बात्कुपितः अत एव निर्घृणः, नि- र्दयो यः पञ्चबाण: कामस्तस्य बाणानां पश्चानामोघः समूहस्तेन भिन्नं हृदयं यस्याः सा । एवंभूता सती गाढं दृढं परिरभ्याश्लिष्य मुग्धाजनस्य बालाजनस्य सहजां स्वाभाविकीं लज्जां त्रपामवजित्य सान्द्रमुत्कण्ठया घनं कृत्वा अधरामृतमधरपानामृतमर्पयन्ती । प्रिय- तमस्येति शेषः । केचित्तु 'सहजां स्वाभाविकीं लज्जामवजित्य कामावेगान्मुग्धाजनस्य बालाजनस्याप्यधरामृतमर्पयन्तीति व्याचख्युः' तद्विचार्यम् । नाथेति पूर्वोदीरितवृत्ते एतदर्थप्रयोजनात् ॥ पञ्चभिः कुलकम् ॥ हेलावलन्मलयमारुतकम्पितानां शीर्णैः फलैः स्वयमरण्यमहीरुहाणाम् । वृत्तिर्हरस्मरणघूर्णितचेतसः क्व दीनं मुखं क्व च पुरः कुमहीपतीनाम् ॥ २६ ॥ हेलया शनैर्वलंश्चासौ मलयमारुतो दक्षिणानिलस्तेन कम्पितानामरण्यमहीरुहाणां वनशाखिनां स्वयं शीर्णैः फलैर्वृत्तिः शरीरयात्रा क्व । कस्य । हरस्मरणधूर्णितचेतसः हर- स्मरणेन घूर्णितमत्युत्कण्ठया तत्रैव घूर्णच्चेतो मनो यस्य स तादृशस्य भक्तजनस्य । एतत्क्व प्राक्तनानेकजन्मार्जितपुण्यपरम्परया लभ्यम् । तथा कुमहीपतीनां कुनृपाणामग्रे याचनया दीनं मुखं क्व । अत्यन्तगर्ह्यमित्यर्थः ॥ नेत्रत्वमीश तव मूर्तिविलोकनेषु वाक्त्वं भवञ्चरितचर्वणविभ्रमेषु । त्वत्संकथाश्रवणकर्मणि कर्णभाव- मिच्छन्ति गन्तु[^१]मपराणि ममेन्द्रियाणि ॥ २७ ॥ हे ईश जगदधीश, ममापराणि नेत्रेन्द्रियादन्यानि कर्णादीनि तव स्वच्छस्य निष्क- लस्यापि दीनानुकम्पया सकलमूर्तेर्मूर्तिविलोकनेषु देवप्रतिमादर्शनेषु नेत्रत्वं गन्तुमि च्छन्ति । वयमप्येतद्दर्शनोत्सवे नेत्रभिवाम इत्यर्थः । तथा मम वागिन्द्रियादपराणि नेत्रादीनीन्द्रियाणि हे स्वामिन्, भवञ्चरितं त्रिपुरदाहकालदहनाद्यद्भुतं कर्म तच्चर्वणमा- स्वादनं तद्विभ्रमेषु विलासेषु वाक्त्वं जिह्वात्वं गन्तुमिच्छन्ति । अत्रापि प्राग्वत् । तथा मम कर्णादपराणीन्द्रियाणि नेत्रादीनि च त्वत्संकथा श्रवणकर्मणि कर्णभावं गन्तु- मिच्छन्ति । रसवदलंकारः ॥ यच्छन्त्रचामरसिता कृतिनां विभूतिः स स्वल्प एवं भगवन्भवतः प्रसादः । [^२]त्वत्साम्यमेव तु सतामधिकस्ततोऽपि यद्वल्कलं च वसनं विपिनं च वासः ॥ २८ ॥ कृतिनां पुण्यवतां छत्रमातपत्रं च चामरं च ताभ्यां सिता धवला विभूतिर्यद्भवति हे भगवन् त्रिजगदधीश, स तव प्रसादस्तेषां स्वल्प एवात्यल्प एव । हे भगवन्, तु प- क्षान्तरे । सतां विपश्चितां धन्यानां त्वत्साम्यं भवत्सायुज्यं ततोऽपि पूर्वस्मात्प्रसादादप्य- धिकं भवति । अत्यन्तदुर्लभत्वात् । अधुना ततोऽप्युत्तरपक्षमाह - ततोऽपि तस्मादपि भवत्सायुज्यावाप्तेरप्यधिकोऽयमेव महान्प्रसादः यद्भवच्चरणाम्बुजध्यानासक्तचेतसः शरी- रिणो वल्कलं भूर्जत्वग्वसनं वस्त्रम् तथा विपिनं वास आवासो यद्भवति । भवत्सायुज्य परानन्दादपि गाढतरभवत्सेवारसमहामहनीयपरानन्द इति भावः । तथा चैतदाशयानुसारेण ममापि वृत्तम् – 'वीक्षे न यत्र नयनत्रितयाभिरामं राकेन्दुतर्जि मुखमीश्वर तावकीनम् । दासस्य नाथ कृपया भवता वितीर्णं सायुज्यमीदृगपि वेद्मि विडम्बनं मे ॥" इति ॥ त्वत्पादपङ्कजरजश्छुरितौ च पाणी वाणी भवच्चरितचर्वणगर्विता च । [^१]. 'इतराणि' ख. [^२]. 'तत्साम्यं' ख. चित्तं भवद्गुणगणस्मरणव्रतं च भूयो भवन्ति मम चेदहहास्मि धन्यः ॥ २९ ॥ अतिशयेन बहु भूयः । क्रियाविशेषणमेतत् । एतानि त्रीणि भूयो नितरां त्वदासक्ता- नि चेद्भवन्ति तर्ह्यहं धन्यो नितरां भाग्यवानस्मि । अहह आनन्दे । "अहहेत्यद्भुते खेदे परिक्लेशप्रहर्षयोः । संबोधनेऽपि' इति मेदिनी" इति रायमुकुट्याम् । एतानि त्रीणि कानि । पाणी वाणी चित्तं च । पाणी हस्तौ कथंभूतौ । भूयो नितरां त्वञ्चरणपङ्कजरजोव्याप्तौ । वाणी कथंभूता । भूयो भवच्चरितानां त्रिपुरवधादीनां चर्वणमास्वादनं तेन गर्विता साहं - कारा । तथा चित्तं किंभूतम् । भूयो नितरां भवद्गुणगणानां स्मरणं तदेव व्रतमवश्यक- र्तव्यं यस्य तत् । यथा च मम वाङ्मनः कायाः श्रीशिवभट्टारकचरणाब्जसेवारसासक्ताः स्युस्तथा आशासे इत्यर्थः । एतद्वृत्ताभिप्रायेण च ममापि गाथाचतुष्टयम् – 'शंकरपूज- ननिरतौ पाणी शर्वस्य तीर्थगौपादौ । शंभुकथा श्रवणपरौ कर्णौ नित्यं च भूयास्ताम् ॥', 'हरमूर्ति दर्शनपरं चक्षुर्भवपादवासनाघ्रायि । घ्राणं रसनं च मम श्रीकण्ठगुणाभिधायकं भूयात् ॥', 'नीलगलस्पर्शवशान्माद्यतु मम संततं च त्वक् । शिवचिन्तनकारि पर चित्तं नित्यं च भूयान्मे ॥', 'किमपरमधुना वक्ष्ये यत्कर्म कृतं करोमि कर्तास्मि । शुभशुभं वा कृपया तस्यैव शिवार्चनं भूयात् ॥' इति ॥ भिक्षाशनोऽपि भगवंस्त्वमकिंचनोऽपि जीर्णश्मशाननिलयोऽपि दिगम्बरोऽपि । किं [^१]वापरं वरद घस्मर भस्मरूक्ष- गात्रोऽपि सन्मम विभुः प्रतिजन्म भूयाः ॥ ३० ॥ हे भगवन् वरद, तथा हे घस्मर प्रलयकाले त्रिजगद्भक्षक परम शिव, किं वापर- मन्यद्भ्रूमः । भिक्षैव माधुकरी भिक्षैवाशनं यस्य स तादृशोऽपि, तथा अकिंचनोऽपि न विद्यते किंचन यस्य स दरिद्रोऽपि, तथा जीर्णं पुराणं च तच्छ्मशानं पितृवनमालयो नि- वासो यस्य स तादृशोऽपि, तथा दिगम्बरोऽपि दिग्वासा अपि ,तथा भस्मरूक्षगा- त्रोऽपि भस्मना रूक्षं गात्रं कलेवरं यस्य स तादृशोऽपि सन् प्रतिजन्म जन्मनि जन्मान त्वं त्वमेव विभुः स्वामी मम भूयाः । एतद्वृत्तानुसारेण ममाप्येकं वृत्तम् – 'लक्ष्मीकान्त- मुरःस्थकौस्तुभमणिं भ्राजिष्णुपक्षावलौ राजन्तं गरुडे सुरालयकृतावासं भजन्तेऽपरे । मच्चेतस्तु दिगम्बरे स्मरहरे स्फारास्थिमालाधरे पादाब्जश्रित[^१]शाक्वरे पितृवनागारे नि- लीनं सदा ॥" इति ॥ याचे न किंचिदपरं वसतिर्गिरीन्द्रे कैलासनाम्नि [^३]भवदध्युषिते ममास्तु । [^१]. 'च' ख. [^२]. शाक्वरो वृष: [^३]. 'भवताध्युषिते' ख, किं वा न तत्र भगवन्मम ये सखाय- स्तेऽन्येऽपि सन्ति गवयाः कपयः कुरङ्गः ॥ ३१ ॥ अहं भगवन्तं श्रोशिवमपरं न किंचिद्याचे किं स्वेतदेव । एतत्किम् । कैलासाख्ये गि- रीन्द्रे पर्वतवरे भवता स्वामिनाधिष्टिते मम भवदनुग्रहेण वसतिरस्तु । हे भगवन्, ये मम सखायः सुहृदस्ते तत्र किं न सन्ति अवश्यं सन्त्येव । मादृशाः श्रीशिवभक्तिरसामृत- सिक्तचेतसस्तत्र शैले सन्त्येव । किं वान्येऽपि तत्र कैलासे पर्वतेन्द्रे गवया मृगविशेषाः कपयो वानराः अन्येऽपि कुरङ्गा मृगास्तत्र सखायः किं न सन्त्येव । अयं भावः - यः पर्वतेन्द्रः कैलासः श्रीशिवचरणाम्भोजरजःपवित्रितस्थलस्तत्र गवयैः कपिभिः कुरङ्गैः सह वासोऽप्यन्याभ्यः सुरभूमिभ्यो देवसभाधिष्ठिताभ्योऽधिकानन्दप्रदो मम रोचते । अत्र रसवदलंकारो ध्वन्यते ॥ वाचाममी न विषये विषयेषु येषु तृष्णान्वभावि विषमा विषमाकिरन्ती । तन्मां भजोज्ज्वलविलोलविलोचनान्त- विन्यास[^१]भासुरसुधारसुधारसेन ॥ ३२ ॥ अमी विषयाः पञ्चेन्द्रियानुभूताः शब्दाद्या भोगा वाचां विषये गोचरे न सन्ति । अमी के इत्याह - विषं गरलमासमन्तात्किरन्ती विकिरन्ती तृष्णा येषु विषयेषु म यान्वभावि अनुभूता । तत्तस्मात्कारणात् हे स्वामिनू, उज्ज्वलो धवलो विलोलश्च यो नयनान्तः । नेत्रत्रिभागावलोकनरूप इत्यर्थः । तस्य विन्यासः पातः स एव भा- सुरः सुधारः शोभनधारः सुधारसः पीयूषरसस्तेन मां पूर्वोक्तविषदग्धं तृष्णातुरं भज । दयस्वेत्यर्थः ॥ नानुग्रहस्तव विना त्वयि भक्तियोगं नानुग्रहं तव विना त्वयि भक्तियोगः । बीजप्ररोहवदसावनयोर्न कस्य भूत्यै परस्परनिमित्तनिमित्तिभावः ॥ ३३ ॥ अत्र एवशब्द आर्थः । हे स्वामिन्, तव भक्तियोगमेव विना तवानुग्रहः प्रसादो न भवति । तथा तवैवानुग्रहं विना त्वयि भक्तियोगो न भवति । अनयोस्तवानुग्रहभक्ति- योगयोर्बीजप्ररोहवद्बीजाङ्कुरवदसौ परस्परं निमित्तनिमित्तिभावः कार्यकारणभावः कस्य न भूत्यै विभूत्यै भवति । यथा बीजादङ्कुरोत्पत्तिः अङ्कुरादपि प्रवर्धमानाद्बीजोत्पत्तिरेवं भवत्प्रसादभक्तियोगयोरपीत्यर्थः ॥ [^१]. 'भास्वर' क. शान्तं मनो यदि यमैर्नियमैः किमन्यै- र्वाणी यदि प्रियहिता स्तुतिचाटुभिः किम् । कारुण्यमस्ति यदि किं व्रतहोमदानै- र्भक्तिर्भवे यदि किमन्यसुखाभिलाषैः ॥ ३४ ॥ यदि मनः शान्तं परहिंसापरद्रव्यस्पृहादिभ्यो निवृत्तं तर्हि यमैर्बहिः शौचाचारा- दिभिः, नियमैर्व्रतादिभिश्चान्यैः किम् । न किंचित्कृत्यमित्यर्थः । तथा कस्यापि वाणी सूक्तिः प्रिया मधुरा हिता च हितोपदेशकारिणी च यदि भवति तर्हि स्तुतिचाटुभिः स्तुतिरूपाणि यानि चाटूनि तैः किम् । तथा कारुण्यं भूतानुकम्पा यदि भवति तर्हि व्रतं कृच्छ्रचान्द्रायणादि, होमः शान्तिककर्मादिः, दानं च तैः किम् । न किंचिदित्यर्थः । तथा भवे श्रीशिवे यदि भक्तिर्वाङ्मनःकर्मभिस्तदासक्तिर्यदि भवति तर्ह्यन्यसुखेष्व- स्थिरेष्वभिलाषैः किम् । न किंचित् । विगलितवेद्यान्तरपरमानन्ददायिनी श्रीशिवभ- क्तिरेवाशास्येत्यर्थः ॥ भुक्तं विकल्पकवलैः सुरलोकसौख्य- मालोकिता विविधशास्त्रदृशैव मुक्तिः । पीता सुधा श्रवणशुक्तिपुटैः समक्ष- मास्वादिता पुनरियं शिवभक्तिरेव ॥ ३५ ॥ विकल्पः कुतर्कोहः स एव कवलं ग्रासो येषां ते विकल्पकवला वैकल्पिकाः केचि- न्मन्दधियः । तैः कर्तृभिः सुरलोकसौख्यमप्सरः सुधापाननन्दनोद्यानविहारादि भुक्तं मुक्तिरालोकिता विचारिता । सौख्यमिति 'वेदाः प्रमाणम्' इतिवदजहल्लिङ्गं कर्म । स्वर्गभोग एव मुक्तिरिति तैर्निर्णीतमित्यर्थः । अधुना स्वमतमाह - अस्माभिरिति शेषः । अस्माभिस्तु विविधानि यानि शास्त्राणि शिवशासनानुसारीणि तेषां दृग् ज्ञानं तया शिवभक्तिरेव परमेश्वरभक्तिरेव मुक्तिरालोकिता निर्णीता । किंभूता पुनः शिव- भक्तिः । समक्षं साक्षादेव सुधा अमृतं पोता तदासक्तमनोभिः पीता । कैः । श्रवणशुक्ति- पुटैः श्रवणान्येव शुक्तयः पानपात्राणि तत्पुटानि तैः ॥ दीर्घाण्यघान्यधिशुचीव भवन्त्यहानि हानिर्बलस्य शरदीव नदीजलस्य । दुःखान्यसत्परिभवा इव दुःसहानि हा निःसहोऽस्मि कुरु निःशरणेऽनुकम्पाम् ॥ ३६ ॥ ममेति शेषः । हे विभो, अधिशुचि आषाढमास इव अहानि दिवसानि दीर्घाणि मम अघानि पातकानि भवन्त्येव सन्त्येव । तथा शरदि शरत्काले नदीजलस्येव बलस्य देहसामर्थ्यस्य मम हानिः प्रतिदिनमस्ति । तथा मम असतां दुर्जनानां हेतूनां परिभ- वास्तैः: कृता यथा परिभवा दुःसहास्तथैव मम दुःखानि दुःसहानि । हा कष्टे । अहं निःसह एतत्कष्टासहोऽस्मि । तस्मान्मयि निःशरणेऽनुकम्पां दयां कुरु ॥ निर्भर्त्सितो विपदि बन्धुरिवाभिमानी मा नीरसं स्पृशतु नाम मनो विवेकः । विद्यां निदाघ इव धर्मरुचिर्हिमानी- मानीय नाशमुपतापयते तु मोहः ॥ ३७ ॥ नाम निश्चये । विपदि विपत्काले शरणार्थमागतोऽभिमानी अहंकृतो बन्धुरिव वि वेकः कार्याकार्यविचारो नीरसं शास्त्राभ्यासरसं विनाकृतं मम चित्तं मा स्पृशतु न स्पृ. शताम् । तु पक्षान्तरे । मोहोऽज्ञानं निदाघे ग्रीष्मे घनरुचिः सूर्य इव हिमानीं हिमसंततिं नाशमानीय प्रापय्य यथा जनमुपतापयते तथा विद्यां तत्त्वज्ञानमयीं विद्यां नाशमानीय मनश्चित्तमुपतापयते संतापयति । अर्थान्ममैव । एतद्द्वृत्तं प्राचीनादर्शेषु न दृश्यते तथापि व्याख्यातम् ॥ तस्मादुपैति न तनुस्तरसावसायं सायंतनी प्रतिपदिन्दुकलेव यावत् । तावत्कृपां कुरु हतोऽस्म्यहमंहसायं सा यन्त्रिता मयि तवास्तनयेन येन ॥ ३८ ॥ हे स्वामिन् तस्माद्धेतोः । ममेति शेषः । सायंतनी सायं संध्याकाले भवा सायं- तनी प्रतिपदिन्दुकला पर्वेन्दुकलेव तनुस्तरसा बलेन शीघ्रं वा .… यावन्न ह तोऽस्मि । तेन केनेत्याह - अस्तनयेन अस्तो दूरीकृतो नयो नीतिर्येन तत्तादृशेन ये- नांहसा पापेन । ममेति शेषः । तव सा कृपा मयि विषये यन्त्रिता । निरुद्धेत्यर्थः ॥ अभ्येति मृत्युभटसंहतिरस्तकम्पा कम्पामहे मनसि यां विनिवेशयन्तः । एका गतिर्गिरिश तत्र तवानुकम्पा कं षात्रतां नयति या न शुभोदयानाम् ॥ ३९ ॥ भौः स्वामिन्, यो यमभटसंहतिं मनसि विनिवेशयन्तो वयं कम्पामहे अस्तकम्पा अस्तस्त्यक्तः कम्पो यया सास्तकम्पा निर्भया यमभटश्रेणी अभ्येति समीपमेति । तत्र विषये तवैव सानुकम्पा दया ममैका गतिः । सानुकम्पा का । या तवानुकम्पा शुभोदयानां शुभानां मङ्गलानामुदयाः शुभानि चोदयाश्च तेषां वा कं न भक्तजनं पात्रतां नयति ॥ यग्निः स्पृहोऽप्यजनयस्तनयं कुमारं मारं विधाय शलमं नयनानलस्य । तत्ते परार्थमिति विश्रुतमा कुमारं मा रंहसा जहिहि देहि तदेहि वाचम् ॥ ४० ॥ निःस्पृहोऽपि निष्कामोऽपि हे स्वामिन्, मारं म्रियन्तेऽनेन विरहिणो मारः का- मस्तं नयनानलस्य नेत्राग्नेः शलभं पतङ्गं विधाय कुमारं षडाननं यत्सुतमजनय उत्पा- दितवानसि तच्चरितं तव परार्थं परप्रयोजनं तारकासुराद्देवांस्त्रातुमाकुमारं बालपर्यन्तं वि- श्रुतं प्रसिद्धम् । तत्तस्माद्विभो, त्वं रंहसा वेगेन एहि मा जहिहि । मामित्यर्थः । मां मा त्यज । वाचमभयप्रदानार्थं देहि ॥ सर्वस्वमेव मम दत्तमहाप्रहारा हारामलं हर हरन्त्यरयो विवेकम् । रक्षाकरी तव कृपात्र कृतावहारा हा राजशेखरमणेः पुरतो हतोऽहम् ॥ ४१ ॥ हे विभो हर, दत्ता महान्तः प्रहाराः क्षतानि यैस्तेऽरयः । आन्तरा इति शेषः । शत्रवः षट् कामादयः । हारवदमलं धवलतरं निर्मलं विवेकं कार्याकार्यविचारं सर्वस्वं सर्वस्वभूतम् । हा कष्टे । तव राजशेखरमणे: । 'राजा नृपे शशाङ्के च' इति मङ्खः । च- न्द्रचूडामणेः । अथ च राज्ञां नृपाणां चूडामणेः सार्वभौमस्य तव पुरतस्तत्सर्वस्वं मम ह- रन्ति । अत्र विषये तवैव कृपा दया रक्षाकरी । किंभूता । कृतोऽवहारोऽवहेला यया सा । हा कष्टं राजशेखरमणेरपि पुरतोऽहं हतः । चौरैर्मुषित इत्यर्थः ॥ देवालये वसतिमर्थयते कपोतः सिन्धौ वणिग्भजति वृत्तिमशङ्कपोतः । पृष्ठे श्रियं वहति नित्यमनेकपोऽत- स्त्वद्भक्तिमेमि सरसीमिव भेकपोतः ॥ ४२ ॥ हे विभो, कपोत: पारावतो देवालये देवगृहे वसतिं प्रार्थयते । तथा सिन्धौ समुद्रे वणिक् पोतवणिक् वृत्तिं स्थितिं जीवनोपायं भजति सेवते । किंभूतः । अशङ्कः पोतो यस्य । तथानेकपो द्विपो वाहनभूतः पृष्ठे नित्यं श्रियं लक्ष्मीं वहति । 'पद्मां गजगतां नुमः' इत्यागमोक्तेः । अतो हेतोरहं त्वद्भक्तिमेमि प्राप्नोमि । कः कामिव । भेको मण्डूकः सरसीमिव ॥ लब्धा धृतिर्दिवि कदाचन वासवेन सैन्येन सा परिवृतेन न वासवेन । नो वा बलेन भुवि पीतनवासवेन त्वां भेजुषो भवति याभिनवा सवेन ॥ ४३ ॥ हे विभो, सवेन यज्ञेन त्वां विभुं भेजुषः सेवमानस्याभिनवा नूतना या धृतिर्भवति सा धृतिः स्थितिर्वासवेनेन्द्रेण कदाचन न लब्धा । जातुचिन्न लब्धेत्यर्थः । किंभूतेन वासवेन । परिवृतेन परिवलितेन । केन । सैन्येन बलेन । किंभूतेन सैन्येन । वासवेन वसूनामष्टानां देवयोनीनामिदं वासवं तेन ...................॥ या दुर्लभा दिवि महर्षभयान कस्य कालस्य या निधनधाम भयानकस्य । वाचा तया कृतनतेरभयानकस्य तुल्यश्रियार्पयसि शं शुभया न कस्य ॥ ४४ ॥ हे महर्षभयान, महांचासौ ऋषभः शाक्वरो वाहनं यस्य तत्संबोधनं हे महर्षभयान । या तव वाक् दिवि स्वर्गे कस्य ब्रह्मणः । कशब्दो ब्रह्मवाचकः । 'मारुते वेधसि ब्रध्ने पुंसि कः कं शिरोऽम्बुनोः' इत्यमरः । कस्य ब्रह्मणो दुर्लभा । ब्रह्मणोऽपि दुर्लभेत्यर्थः । तथा या वाक् भयानकस्य घोरस्य कालस्य कृतान्तस्य निधनस्य मरणस्य धाम स्थानं भवति । कृता नतिर्येन स कृतनतिः । तस्य भक्तजनस्य कृतेऽभयस्यानकः पटहस्तस्य तुल्यश्रिया सदृशशोभया । तया शुभया अतिमधुरया शुभप्रदया च वाचा कस्य न भ क्तिप्रह्वजनस्य शं कल्याणमर्पयसि ददासि । अपि तु सर्वस्यैव ॥ यं वीक्षसे क्षतमहाकलिकाल सन्तं क्लिष्टं कृतीकृतबृहत्कलिकाल सन्तम् । इन्दोरिवामृतमयी कलिका लसन्तं बालावलोकयति सोत्कलिकालसं तम् ॥ ४५ ॥ हे क्षतमहाकलिकाल महान्कलिः कलहो यस्य स महाकलिः तादृशश्वासौ कालः कृतान्तो महाकलिकालः । क्षतो महाकलिकालो येन स तादृशः । तथा हे स्वामिन् की- दृश, कृतीकृतमहाकलिकाल । 'कृतं युगेऽपि पर्याप्ते विहिते' इति विश्वः । कृतं कृतयुगम् । अकृतं कृतं कृतः कृतीकृतः कृतयुगीकृतो बृहत्कलिकालस्तुरीययुगसमयो येन स तस्य संबोधनं कृतीकृत बृहत्कलिकाल । क्लिष्टं सन्तं खेदितं वर्तमानं सन्तं साधुं भक्तजनं य द्वीक्षसे प्रसन्नदृशा ईक्षसे । इन्दोश्चन्द्रमसोऽमृतमयी कलेव मनोहरा सोत्कलिका सो- त्कण्ठा बाला षोडशहायना वरस्त्री लसन्तं क्रीडन्तमलसं लक्ष्मीमदेन सालसं तं भवद्दृ- ष्टिगोचरीभूतं भक्तजनमवलोकयति पश्यति । स्नेहार्द्रया दृशेति शेषः ॥ मुक्तावलीव रहिता शिव नायकेन मुक्ता भवद्गणसभेव विनायकन । वाणी त्वया परिहृताखिलनायकेन संभाव्यते हृदयसंवननाय केन ॥ ४६ ॥ हे शिव निःश्रेयसप्रद, नायकेन । मध्यमो मणिर्नेता च नायकः । 'नायको……. भूम्न्युत्तमे द्वयोः' इति मङ्खः । नायकेन हारमध्यमणिना रहिता मुक्तावलीव मुक्तालतेव । विनायकेन गणपतिना विना भगवद्गणानां नन्दिमहाकालभृङ्गिरीटप्रभृतीनां सभेव अखिलस्य त्रिजगतो नायकेन स्वामिना परिहृता व्यक्ता वाणी हृदयसंवननाय हृदयस्य चेतसः संवननं वशीकरणं तदर्थं केन जनेन संभाव्यते । न केनापीत्यर्थः । श्रीशिवस्तुति- सूक्तिविनाकृता कविवाणी सर्वैरनादरणीयेत्यर्थः ॥ यस्योचितः प्रथितमान समाधिनान्त- स्तेनार्तिमुद्दहति मानसमाधिनान्तः । शुद्धां मतिं स्टशति पांसुलभावलेप- स्तत्राप्युपैषि न कृपां सुलभावलेपः ॥ ४७ ॥ हे प्रथितमान प्रथितो मानोऽभिमानो यस्य तस्य संबोधनं प्रथितमान । यस्य आधे- र्मन:पीडापर्यायस्य समाधिना आत्ममनसोरैक्येन योगाभ्यासोचितेनान्तो नाश उचितो युक्तः । तेनाधिना मनःपीडया । 'आधिर्ना मानसी पीडा' इत्यमरः । अन्तरन्तरे मा- नसं चित्तमार्ति पीडामुद्वहति । हे प्रथितमान स्वामिन्, पांसुलो मलिनश्वासौ भावोऽभि- प्रायस्तेन लेपः शुद्धां विमलां सात्त्विकीं मतिं बुद्धिं स्पृशति । हे स्वामिन्, तत्रापि एव- मपि सति कृपां दयां नोपैषि । मादृशे जन इति शेषः । त्वं किंभूतः । सुलभावलेपः सुलभोऽवलेपोऽवगणना यस्य । सावलेप इत्यर्थः ॥ कामं भवेऽत्र बहवः सुभगस्वभावा भावा भवन्तु मम तु द्वितयं स्पृहायै । शब्दार्थ[^१]पाकरुचिरा कविराजगीर्वा गीर्वाणसिन्धुधरभक्तिरभङ्गुरा वा ॥ १८ ॥ हे स्वामिन्, कामं निश्चये । अत्रास्मिन्भवे संसारे बहवो भावाः पदार्थाश्चन्द्रमुखी [^१]. 'मात्ररुचिरा' ख. चन्द्रिकाचन्दनोद्यानसौधादयः सुभगस्वभावा रमणीयस्वभावा भवन्तु । सन्त्वित्यर्थः । तु पक्षान्तरे । एतद्द्वितयमेव मम स्पृहायै अभिलाषाय भवति । ममाभीप्सितमेतदेव द्व- यमित्यर्थः । एतत्किमित्याह - शब्दार्थेति । शब्दस्त्रिविधः - वाचकलाक्षणिकव्यञ्जकभे- दभिन्नः । अर्थोऽपि त्रिविधः-वाच्यलक्ष्यव्यङ्गथरूपः । तयोर्यः पाकः प्रौढिस्तेन रम्या कविराजगीर्महाकविवाणी वा । गीर्वाणसिन्धुधरो गङ्गाघर: श्रीशिवस्तस्य भक्तिरभङ्गुरा- नश्वरा वा । द्वौ वाशब्दौ द्वयोरपि प्राधान्याभिधायकौ । महाकविवाणी श्रीशिवभक्ति- श्चेत्येतद्द्वयमेव ममाभीप्सित मित्यर्थः ॥ ज्योत्स्नाछटाभिरिव देव चकोरकस्य भास्वत्प्रभाभिरिव पङ्कजकोरकस्य । दैवीभिरद्भिरिव बर्हिकिशोरकस्य प्रीतिर्न ते नुतिकथाभिरघोर कस्य ॥ ४९ ॥ हे अघोर घोरो जन्मजरामरणत्रासदः । न घोरोऽघोर: शिवप्रदः कल्याणदायी तस्य संबोधनं हे अघोर, देव दीव्यति क्रीडति क्रीडनकैरिव ब्रह्मादिभिर्देवस्तस्य संबोधनं हे देव अघोर, चकति चन्द्रामृतपायित्वाद्विषं प्रतिहन्ति । 'चक तृप्तौ प्रतिघाते च' । 'चकिकठिभ्यामोरन्' । चकोर: । कनि चकोरकः । 'चकति तृप्यते ज्योत्स्नया इति चकोरः । कनि चकोरकः' इति स्वामी । एष स्वनामप्रसिद्धो ज्योत्स्नापायी पक्षिविशेषः । तस्य चकोरकस्य यथा ज्योत्स्नाछटाभिश्चन्द्रिकालहरीभिः प्रीतिर्भवति । यथा च भास्व- त्प्रभाभिः सूर्यप्रभाभिः पङ्कजकोरकस्य पद्ममुकुलस्य प्रीतिः । यथा च बर्हिकिशोरकस्य मयूरपोतकस्य दैवीभिः देवस्य मेघस्येमा दैव्यस्ताभिरद्भिर्मेघजलैः प्रीतिः । 'देवः सुरे घने राज्ञि दैवमाख्यातमिन्द्रियम्' इति शाश्वतः । तथा ते तव नुतिकथाभिः स्तुतिक- थाभिः कस्य न प्रीतिर्भवति ॥ वृत्तं क्व ते सकलवाङ्मनसातिवृत्तं चेतः स्खलद्गति भवावरणात्क्व चेतः । वित्रासवन्तमिति मामनुदत्पवित्रा भक्तिः स्तुतिस्तव कृतेयमतः सुभक्तिः ॥ ५० ॥ हे विभो, वाङ्मनसातिवृत्तं वाक्च मनश्च ते वाङ्मनसी ते अतिवृत्तमतिक्रान्तं ते तव वृत्तं चरितं क्व भवति । तथा इतो भवावरणात् भवे जन्मन्यावरणमाच्छादकमज्ञानरूपं तस्मात् स्खलन्ती गतिर्यस्य तच्चेतो मनः अर्थान्मम क्व भवति । इत्यतो हेतोर्विशेषेण त्रासवन्तं मां पवित्रा तव भक्तिरनुदत् । 'णुद प्रेरणे' । प्रेरयामास । अतो हेतोर्मया तव स्वामिनः स्तुतिः कृता । किंभूता स्तुतिः । सुभक्तिः शोभना भक्तिर्विच्छित्तिर्यस्याः ॥ वन्दामहे च विविधं विवदामहे च लज्जामहे च कलुषाणि भजामहे च । ईहामहे च कुवचांसि सहामहे च दह्यामहे च दुरितैर्जठरस्य हेतोः ॥ ११ ॥ वन्दामह इति । कुनृपतीनित्यर्थात् । वयं कुनृपतीन्वन्दामहे । अत्रापि जठरस्य हेतो- रिति संबन्धः । तथा विविधं नानाविधं विवदामहे च विवादं कुर्महे च । वादिभिः स- हेति शेषः । जठरस्य हेतोः । तथा क्वापि लज्जामहे । तथा वयं कलुषाणि मलिनानि वस्तूनि पापानि वा भजामहे सेवामहे च । तथा ईहामहे च चेष्टां शुभाशुभां कुर्मः । तथा वयं कुवचांसि खलानामिति शेषः । सहामहे च । तथा वयं दुरितैः कुकर्मोपा- र्जितैः पापैरन्तर्दह्यामहे च । जठरस्य हेतोरुदरपूरणार्थम् ॥ लब्धं चिरेण सुकृतैरचिरस्थिरं च मानुष्यकं पुनरिदं सुलभं न चेति । जानीम एव च न च स्वहितं विधातु- मीहामहे वयमहो बत यद्भविष्याः ॥ ५२ ॥ चिरेणानेकजन्मार्जितसुकृतैः पुण्यैर्लब्धमचिरस्थिरं स्वल्पकालस्थायि इदं मानुष्यकं मनुष्यत्वं मनुष्यजन्म पुनः सुलभं नास्तीति वयं जानीम एव । चशब्दोऽवधारणे । तथापि स्वहितं दुस्तरभवार्णवोत्तरणोपायं विधातुं कर्तुं न चेहामहे काङ्क्षामहे । अहो । बत आश्चर्ये । 'खेदानुकम्पासंतोषनिश्चयामन्त्रणे बत' इत्यमरः । अत्याश्चर्यमित्यर्थः । वयं यद्भविष्या दैवपरा भवामः । 'यद्भविष्यो दैवपरः' इति क्षीरस्वामी ॥ तस्मादवश्यमवशानविशङ्कमेव भोगोपभोगरसिकानसमाप्तकृत्यान् । यावन्न धीवर इवैत्य तिमीनकस्मा- न्मृत्युः क्षणादशरणान्हरते हठेन ॥ १३ ॥ तावत्प्रसीद कुरु नः करुणाममन्दमाक्रन्दमिन्दुधर मर्षय मा विहासीः । ब्रूहि त्वमेव भगवन्करुणार्णवेन त्यक्तास्त्वया कमपरं शरणं व्रजामः ॥ ५४ ॥ (युग्मम्) तस्मादिति युग्मम् । तस्मात्पूर्वोक्ताद्धेतोरवशानस्वतन्त्रान् भोगोपभोगे रसिकान् न समाप्तं संपादितं कृत्यं संसारोत्तरणोपायरूपं यैस्तान् अशरणान् शरणरहितान् । अर्था दस्मान् अवश्यं निश्चितमविशङ्कमकस्मादेत्यागत्य धीवरः कैवर्त इव तिमीन्मत्स्यान्मृ त्युर्हठेन क्षणाद्यावन्न हरते है स्वामिन्निन्दुधर चन्द्रमौले, प्रसीद प्रसन्नो भव नोऽस्माकं करुणां कृपां कुरु । तथा अमन्दं महान्तमाक्रन्दं विलापं मर्षय शृणु। मां मा विहासीः मा त्याक्षीः । दधाति मत्स्यानिति धीवरः । 'धीवरपीवर-' इत्यादिना ष्वरच् । कैवर्ते दाशधीवरौ' इत्यमरः । पुनरपि दीनमाक्रन्दं करोति – हे स्वामिन्, त्वमेव ब्रूहि वद कृपासमुद्रेण त्वया त्यक्ताः कमपरं शरणं व्रजामः ॥ युग्मम् ॥ जातस्य मृत्युरिति चेत्स न लङ्घितः किं श्वेतेन शीतकरशेखर नन्दिना च । ताभ्यामसौ यदि जितो विपुलैस्तपोभि- रस्माकमल्पतपसां त्वनिवार्य एव ॥ ५५ ॥ तर्ह्यर्चनान्तसमये तव पादपीठमालिङ्ग्य निर्भरमभङ्गुरभक्तिभाजः । निद्रानिभेन विनिमीलितलोचनस्य प्राणाः प्रयान्तु मम नाथ तव प्रसादात् ॥ ५६ ॥ (युग्मम्) हे शीतकरशेखर चन्द्रमौले, 'जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मा- दपरिहार्येऽर्थे नानुशोचितुमर्हसि ॥ इति पुराणोक्तेर्जातस्योत्पन्नस्य जन्तोर्मृत्युरिति चे- द्वदन्ति सन्तस्तर्हि श्वेतेन श्वेताख्यनृपतिना नन्दिना च शैलादिना गणवरेण स मृत्युः किं न लङ्घितो नोत्तीर्णः किम् । ताभ्यां श्वेतनन्दिभ्यामसौ मृत्युर्विपुलैर्विस्तीर्णैस्तपो- भिः कृच्छ्रचान्द्रायणव्रतविशेषैर्यदि जितः । तु पक्षान्तरे । अल्पतपसामस्माकं कर्तॄणा- मसौ मृत्युस्तर्ह्यनिवार्य एव । 'तव्यानीय ….काराणां षष्ठी कर्मणि वा स्मृता ॥' इति कर्तरि षष्ठी ॥ पुनरपि श्रीशिवभक्त्युत्कर्षेण निजमात्मानं समर्थयति-तर्हीति । यदि मृत्युर्दुर्निवारस्त र्हि हे नाथ मृत्युंजय, अर्चनान्तसमयेऽभङ्गुरभक्तिभाजो गाढतरभक्तियुतस्य तवैव पादपीठं निर्भरं दृढमालिङ्गय निद्राव्याजेन विशेषेण निमीलिते लोचने येन स तादृशस्य मम भ वत्प्रसादेन प्राणाः प्रयान्तु निर्गच्छन्तु ॥ एते न किं निबिडबन्धभृतो भुजंगाः किं वा न वक्रिमविलासविकासभाजः । किं तु क्रमादपचिताः पदगुम्फहीनाः सूक्तामृतानुकरणे कथमुत्सहन्ते ॥ १७ ॥ तस्माद्भयंकरमदः फणिकर्णपूर- हेवाकदुर्व्यसनमस्तनयं विहाय । स्वामिन्निमाः श्रवणयोः प्रणयोपचार- गर्भा गिरश्चतुरमाभरणीकुरुष्व ॥ १८ ॥ एतेनेति युग्मम् । हे श्रीशिव, एते भुजंगा वासुकिप्रभृतयः अर्थात्तवातिप्रियाः नि- बिडो दृढो यो बन्धो ग्रन्थिस्तं बिभ्रतीति । तथा एते भुजंगा: शेषादयो वक्रिम्णः कौ- टिल्यस्य विलासस्तस्य विकासस्तं भजन्त इति तादृशाः किं वा न भवन्ति । भवन्त्येवे- त्यर्थः। किं तु पक्षान्तरे। एते भुजंगा मम भक्तिरसोयुक्तचेतसः सूक्तामृतानुकरणे सूक्तामृ- तोपमायां कथमुत्सहन्ते कथं प्रभवन्ति । अत्र हेतुमाह - यत एते भुजंगा: क्रमात्पद- न्यासादपचिता हीनाः । तथा पदगुम्फेन चरणरचनया वर्जिताः । सर्पाणां गूढपाद- त्वात् । एतद्विशेषणद्वयविशिष्टत्वं यतो मदीयसूक्तामृतस्य नास्ति अतो हेतोर्मदीयसू- क्तामृतस्योत्कर्ष इत्यर्थः । तथाहि — अत्र निबिडेति विशेषणद्वयेन भुजंगसूक्तामृतयोः समत्वम् । तथा मम सूक्तामृतमपि निबिडो यो बन्धो रचनाभेदस्तं बिभर्तीति निवि- डबन्धभृत् । तथा वक्रिमविलासभागपि भवति । वक्रिमविलासो वक्रिमभणितिः प्रसि- द्धप्रस्थानव्यतिरेकिणी समुज्ज्वला उक्तिः । विलासस्य विकासो विस्तरस्तं भजतीति तादृग्भवति सूक्तामृतमपि मम । किं त्वित्यनेन मदीयसूक्तामृतमपि क्रमादुद्दिष्टक्रमादप- चितं हीनं न भवति । किं तु सक्रममेवेत्यर्थः । दुष्क्रमस्यार्थस्य दुष्टत्वात् । तथा मदीयसू- क्तामृतं पदगुम्फेन पदबन्धेन हीनं न भवति । यथोचितपदबन्धमित्यर्थः । अतश्च भुजं- गा मम सूक्तामृतानुकरणे कथं क्षमन्त इत्यभिप्रायः ॥ हे स्वामिन् अस्तस्त्यक्तो नयो यत्र तत् । क्रियाविशेषणमेतत् । अदः भयंकरं फणिनः सर्पा एव कर्णपूरास्तेषु हेवाक एव दुष्टं व्यसनं विहाय त्यक्त्वा प्रणयो याच्ञा उपचारः पूजा तौ गर्भे यासां ता इमा मम गिरश्चतुरं शीघ्रमाभरणीकुरुष्व । आभरणानि कर्णाभरणानि संपादयेत्यर्थः ॥ युग्मम् ॥ स्वामिन्नबान्धवतया बत या तवेयं वाणी मया निजगदे जगदेकबन्धोः । तामन्तकान्तकर शंकर शंसतो मे कर्णे कुरुष्व करुणां करुणाम्बुराशे ॥ १९ ॥ हे अन्तकान्तकर मृत्युंजय, करुणाम्बुराशे दयासमुद्र, शंकर, शंसतः स्तुवतो मे मम करुणां दीनां तां वाणीं कर्णे कुरुष्व । तां वाणीं किमित्याह - हे स्वामिन्, बध्नाति स्नेहपाशेन बन्धुः । जगतामेकबन्धोस्तवाग्रे । बत अनुकम्पायाम् । अबान्धवतया आ श्वासनकारणबन्धुराहित्येनोपलक्षितेन मया इयं या वाणी निजगदे उक्ता ॥ पश्यन्तमन्धमभिमानिनमस्तमानं विस्तीर्णकर्णमपि या बधिरं करोति । सार्तिर्न नर्तयति किं कुनृणामिव श्री- स्तस्मात्क्षमस्व भगवन्नतिलङ्घनानि ॥ ६० ॥ हे भगवन् महेश्वर, या आर्तिः रिक्तहस्ततया धनिनं प्रति वीप्सया याच्ञापर्याया प श्यन्तं वीक्षमाणमपि सम्यक् । पुरुषमिति शेषः । पुरुषमन्धमदृशं करोति । अन्धीक रोतीत्यर्थः । तथा अभिमानिनमपि साहंकारमपि गतमानं करोति तथा विस्तीर्णकर्णमपि सम्यक्श्रवणसमाहितकर्णमपि बधिरमेडं करोति । सा आतिः कुनृणां कुपुरुषाणा मिव श्रीर्यथा तं कुपुरुषं किं न नर्तयति । तथा मामपि किं न नर्तयतीत्यर्थः । हे भगवन्, तस्माद्धेतोरतिलङ्घनानि स्वामिनिवेदनायुक्तासंबद्धप्रलापरूपाणि क्षमस्व ॥ अथ कतिपयवृत्तैः कालोपालम्भकुलकमारभमाण आह उच्छृङ्खलं खलमलङ्घ्यबलं ज्वलन्त - मन्तः कृतान्तमविकल्पमनल्पदर्पम् । आशङ्क्य शंकरचरित्रपवित्रचित्र- सूक्तिष्वपि स्थिररुषं प्रति बोधयामः ॥ ६१ ॥ वयं कर्तारः कृतान्तं रविजं प्रति बोधयामः । यथा उचितकर्मकृत्स भवति तथा तं प्रति बोधयामः । किं कृत्वा । तमेव कृतान्तं स्थिररुषं दीर्घरोषमाशङ्क्य विज्ञाय । का- स्वपि । शंकरस्य श्रीशंभोश्चरितानि त्रिपुरदाहादीनि तैः पवित्राश्चित्रा रम्या याः सूक्तयः प्रौढोक्तयस्तास्वपि । पुनः किंभूतम् । उच्छृङ्खलमनियन्त्रणम् । तथा खलं खं शून्यं लाति खलः, खलति चलति वा निग्रहाय खलः पिशुनस्तम् । तथा अलङ्घ्यबलम् । त्रिजगति केनाप्यलङ्घनीयसामर्थ्यम् । तथा अन्तः क्रोधाग्निना ज्वलन्तम् । तथा अविकल्पं सम- वर्तित्वान्निर्विकल्पम् । तथा अनल्पदर्पं महादर्पयुक्तम् ॥ प्रत्यग्र कर्कशमशल्कमुदर्कपथ्यं तथ्यं सतोषमपदोषमरोषपोषम् । संधित्सवस्तव कृतान्त हितं मितं च यद्द्ब्रूमहे तदवधारय सावधानः ॥ ६२ ॥ हे कृतान्त, सह अवधानेन एकाग्रतया वर्तते यः स तादृक् त्वं तदवधारय । अव- धारणं निश्चयः । तत्किमित्याह - तव हितं तथा मितं स्वल्पमपि बह्वर्थं यद्द्ब्रूमहे । पुनः किंभूतम् । प्रत्यग्रकर्कशं प्रत्यग्रे आमुखे कर्कशं कटु । पर्यवसाने मधुरमित्यर्थः । तथा अ शल्कं निर्दोषमकलुषम् । तथा उदर्के आगामि फले पथ्यं परिणामहितम् । तथा तथ्यं सत्यम् । सतोषं सहर्षम् । अपगता दोषा यस्य तत् । अविद्यमानो रोषेण पोषश्च यस्य तत् । वयं किंभूताः । संघित्सवस्त्वया सह संधि कर्तुमभीप्सवः ॥ अन्यत्र दर्शय निरङ्कुश हुंकृतानि कीनाश नाशय दुराशय माभिमानम् । नाथीकृतेन्दुमुकुटानपि नाम मन्ये निर्भर्त्सयिष्यसि हतैव तवेयमाशा ॥ ६३ ॥ हे निरंकुश निर्निरोध, कीनाश कृतान्त । कुत्सितं नाशयति कीनाशस्तत्संबोधनम्, कीनाशः क्षुद्रस्तत्संबोधनं च । 'कृतान्ते पुंसि कीनाशः क्षुद्रकार्षिकयोस्त्रिषु' इत्यमरः । हे दुराशय, दुष्ट आशयो यस्य तत्संबोधनम् । त्वमन्यत्र जने हुंकृतानि निर्भर्त्सनहुंका- रान्दर्शय । त्वमभिमानं निजाभिमानं मा नाशय । एतदेवाह - हे क्षुद्र कृतान्त । नाम निश्चये संभावनायां वा । त्वं कर्ता किं मन्ये मन्यसे । अहं कर्ता नाथीकृतेन्दुमुकुटान्, नाथीकृतश्रीशिवभट्टारकानपि निर्भर्त्सयिष्यसि निर्भर्त्सयिष्यामि तवेयमाशा हतैव निन्दि- तैव । अत्र मन्ये निर्भर्त्सयिष्यसीत्यत्र प्रहासे पुरुषव्यत्ययस्य व्यञ्जकत्वम् । यथा— रेरे चञ्चललोचनाश्चितरुचे चेतः प्रमुच्य स्थिरप्रेमाणं महिमानमेणनयनामालोक्य किं नृ- त्यास । किं मन्ये विहरिष्यसे बत हतां मुश्चान्तराशामिमामेषा कण्ठतटे कृता खलु शिला संसारवारां निधौ ॥' अत्र पुरुषव्यत्ययस्य पुरुषः प्रथममध्यमोत्तमरूपः । रेरे इति । स्थिरं प्रेम यत्र तं महिमानं प्रमुच्येत्यन्वयः । चञ्चलाभ्यां लोचनाभ्यामाविष्कृता रुचिरभिलाषो यत्र तदिति चेतोविशेषणम् । लोचनाभ्यामाविष्कृत रुचित्वाच्चेतसो लो- चनचेतसोर्द्वयोरपि निन्द्यत्वम् । हतां निन्दिताम् । कि मन्यसे विहरिष्यामीति मध्यमो- त्तमपुरुषयोरुत्तममध्यमपुरुषव्यत्ययः । तथा चानुशासनं सूत्रम् – 'प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च ।' इति । रे चेतः, किं त्वमेवं मन्यसे यदहमनया सह विहरिष्या- मीति पुरुषव्यत्ययः । एतद्वृत्तानुसारेण ममापीदं वृत्तमेकम् । यथा - 'नित्यं दुर्ललितो- ऽसि दीनदमने त्वं चेत्तथापि ध्रुवं रे रे कालकराल मुश्च विमते व्यर्थां दुराशामिमाम् । किं मन्ये प्रहरिष्यसे जनमिवानाथं बतैनं हठात्ख्यातं शंकरकिंकरं त्रिभुवने प्रेमैकपात्रं विभोः ॥' अत्रापि प्रहासे अहं प्रहरिष्यामीति पुरुषव्यत्ययस्य व्यञ्जकत्वं ज्ञेयम् ॥ येनेश्वरेण महता विहितागसस्ते कृत्वापि शासनमकारि पुनः प्रसादः । तत्सेवका वयमतस्तव विद्विषोऽपि यद्ब्रूमहे हितमदो मनुषे रुषेति ॥ ६४ ॥ रे काल, विहितागसः कृतापराधस्यापि तव शासनं दाहरूपं कृत्वापि महता ईश्वरेण महेश्वरेण दयालुना तव पुनः प्रसादः सजीवीकरणरूपो विहितस्तस्यैव सेवका दासा वयम् । अतो हेतोस्तव विद्विषोऽपि शत्रवोऽपि वयं यद्धितं ब्रूमहे तत्त्वं रुषेति ईदृग्वचनं रुषैव ममैते वदन्तीति मनुषे जानीषे ॥ रे दुर्विनीत खल काल पुरा पुरारे- र्यामाप्तवानसि निजा[^१]विनयप्रशास्तिम् । श्रुत्वैव तां धृतिमतामपि कम्पमेति चेतः कथं पुनरुपक्रमसे तदेव ॥ ६९ ॥ रे इति हीनसंबोधने । रे दुर्विनीत दुविनययुक्त, रे खल दुर्जन अधम काल, पुरारे- र्मृत्युंजयसकाशात् पुरा निजाविनयस्य शंकरैककिंकरविभीषिकारूपस्य प्रशास्तिं शा- सनं दाहरूपमाप्तवानसि । तां तव प्रशास्तिं श्रुत्वैव धृतिमतां सधैर्याणामपि चेतः क- म्पमेति । रे काल, कथं पुनस्तदेव निजदुर्विनीतत्वं प्रक्रमसे आरभसे ॥ पाणौ पिधेहि पवनाशनपाशमाशु नास्तीह ते पुरुषपाश रुषोऽवकाशः । निःसंकरेषु शरणीकृतशंकरेषु रे काल कातरभयंकर किं करोषि ॥ ६६ ॥ कुत्सितः पुरुषः पुरुषपाशस्तस्य संबोधनं हे पुरुषपाश । 'याप्ये पाशप्' । 'कुपुरुष' इत्यपि पाठो दृश्यते (?) । कुत्सितः पुरुषस्तस्यामन्त्रणं हे कुपुरुष, तं पाणी हस्ते पवनाशनपाशं सर्पपाशमाशु शीघ्रं पिधेहि । इह विषये तव रुषोऽवकाशः स्थानं न भ वति । हे कातरभयंकर । कातरेषु भयंकरस्तस्यामन्त्रणम् । रे इत्यधमामन्त्रणे निःसंकरेषु संकरान्निष्क्रान्तेषु तथा शरणीकृतशंकरेषु किं करोषि । न किंचित्करोषीत्यर्थः । एतद्वृत्तार्थानुसारेण ममापि वृत्तद्वयं यथा - 'अन्यत्र प्रसरति ते कृतान्त शक्तिर्नैतेषु क्वचिदपि शंभुकिंकरेषु । एकस्य प्रणयनतस्य पालनार्थं निर्दग्धस्त्वमसि पुरा पुरारिणा यत् ॥', 'क्रोधोद्धुरो जलधरध्वनिधीरघोरहुंकारतर्जितसमस्तजनो नितान्तम् । शर्वाङ्घ्रिभक्तिकवचेन समावृतस्य किं मे करिष्यति यमोऽपि स दण्डहस्तः ॥' व्यापारय स्वपुरुषं पुरुषं परेषु मा रोषमङ्करय शंकरकिंकराणाम् । किं[^२] विस्मृतं विषधरायुध निर्निरोध- क्रोधप्रबोधपटहं हरहुंकृतं ते[^३] ॥ ६७ ॥ हे कीनाश, स्वपुरुषं स्वानुचरं स्वदूतं परेषु शंकरकिंकरेभ्योऽन्येषु व्यापारय प्रेषय । त्वं शंकरकिंकराणां शंभुसेवकानां रोषं मा अङ्कुरयोत्पादय । हे विषधरायुध । वि [^१]. 'निजाविनयस्य शास्तिम्' ख. [^२]. 'किं विस्मृतोऽसि भुजगायुध' ख. [^३]. 'तत्' ख. षधरः सर्प एवायुधं पाशरूपं यस्य स तस्यामन्त्रणम् । हे काल, निर्निरोधो निर्यन्त्रणो यः क्रोधस्तस्य प्रबोधस्तत्र पटहं पटहरूपं हरहुंकृतं मृत्युंजयहुंकृतं ते किं विस्मृतम् । 'आनकः पटहोऽस्त्री स्यात्' इत्यमरः ॥ कीनाश बालिश निरङ्कुश निर्विमर्श निस्त्रिश निष्करुण निःशरणेषु चेत्त्वम् । निष्कारणं निरनुरोध करोषि रोषं तत्किं चिकीर्षसि महेश्वरसंश्रिषु ॥ ६८ ॥ हे कीनाश, बालिश मूढ, निरङ्कुश निर्यन्त्रण, निर्विमर्श विगतकार्याकार्यविवेक, निस्त्रिंश निर्मर्याद, निष्करुण निर्दय, हे काल, त्वं चेन्निःशरणेष्वशरणेष्वगतिकेषु । हे निरनुरोध । निर्गतः कस्याप्यनुरोधो यस्य तस्यामन्त्रणम् । तादृशेषु चेद्रोषं करोषि तर्हि महेश्वरसंश्रितेषु नाथोकृतशंकरेषु तत्किं चिकीर्षसि कर्तुमिच्छसि ॥ कुर्वन्विरोधमनिरोधमबान्धवेषु धत्से मुधा यम समुद्धतकंधरत्वम् । तीव्रापराधविधुरेष्वपि साधवो हि बाधां विधातुमधमेष्वपि न क्षमन्ते ॥ ६९ ॥ यमयति जनम्, यमलजातत्वाद्वा यमस्तत्संबोधनं हे यम, अबान्धवेष्वाश्वासंकवि- नाकृतेषु विरोधं कुर्वन् समुद्धतकंधरत्वं स्तब्धग्रीवत्वं त्वं मुधा व्यर्थं धत्से । अनाथे- ष्वपि लोकेषु दयालवः प्रभवो यतः सन्तीत्यर्थः । दृष्टं चैतत् । हि निश्चये, यस्मात्का. रणाद्वा । तीव्रापराधविधुरेषु भीतेष्वपि अधमेष्वपि पामरजनेष्वपि बाधां पीडां स्वमु- खेन परमुखेन वा विधातुं कर्तुं न क्षमन्ते न सहन्ते । तथा च चाणक्य: – 'उपका- रिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुरिति कथ्यते ॥" इति ॥ यत्प्राणिषु प्रभवसि प्रसभं प्रहर्तुं प्राप्य प्रभोः प्रमथनाथपितुः प्रसादम् । तत्प्राक्कृतस्य दुरितस्य दुरुत्तरस्य तेषां फलं तव किमन्तक पौरुषं तत् ॥ ७० ॥ रे काल, प्रमथनाथपितुः प्रमथानां गणानां नाथो गणपतिस्तस्य पिता जनकस्तस्मा- न्महेश्वरात्प्रभोः प्रसादं प्राप्य यत्त्वं प्राणिषु जन्तुषु प्रसभं बलात्प्रहर्तुं प्रभवसि तत्तेषां प्राणिनां दुरुत्तरस्य दुस्तरस्य प्राक्कृतस्य दुरितस्य फलम् । प्राक्तनदुरितपरिपाकेन तत्ते- षां फलम् । हे अन्तक, तत्ते पौरुषं किम् । 'अन्तं करोतीत्यन्तकः । तत्करोतीति णिजन्तात् ण्वुल्' इति रायमुकुट्याम् । तत्संबोधनम् ॥ तत्तथ्यमेव किमकारणकण्टकं त्वां यद्धर्मराज इति काल जनाः स्तुवन्ति । लोका न कि जगदमङ्गलमूल कोषं शंसन्ति मङ्गलविहंगम इत्युलूकम् ॥ ७९ ॥ "कलति प्राणिनां धर्माधर्माविति कालः । 'कल संख्याने' भौवादिकाद्बहुलवचना- द्धञ् ।" इति रायमुकुटीकारः । 'कलयत्यायुः' इति स्वामो । हे काल, जना अकारण- कण्टकं निष्कारणवैरिणं त्वां यद्धर्मराज इति स्तुवन्ति । धर्मश्चासौ राजा चेति, धर्म- प्रधानो वा राजा धर्मराजः । टच् । 'धर्मस्य राजा' इति स्वामी । ......... दृष्टं चैतत् । जना जगदमङ्गलस्य मूलकोषं मूलकोषभूतमुलूकं घूकम् । उलति नेत्राभ्यां दहत्युलूकः । 'ऊर्ध्वं लोकात्' इति नैरुक्तः । तमुलूकं मङ्गलविहङ्गम इति यच्छंसन्ति कथयन्ति । भद्रमुखीवद्विपरीतलक्षणया मङ्गल उलूकः । 'स्यान्मङ्गलः कुजे घूके मङ्गलं कुशले स्मृतम्' इति शाश्वतः ॥ त्वां जीवितेश इति यत्स्तुवते रुदत्यः कापालिकाः शवदहो गुरवो द्विजाश्च । तद्युक्तमन्तक यतः परमः सुहृत्त्वं तेषामकारणरिपुस्त्वसुहृत्परेषाम् ॥ ७२ ॥ हे अन्तक यम, रुदत्यो मृतमुद्दिश्य रोदनं कुर्वत्यः स्त्रियः 'अह्नन् हारी' इति विदेशे प्रसिद्धाः कश्मीरेषु 'नीरीश्य' इति प्रसिद्धाः । कापालिकाः प्रसिद्धाः । शवं कुणपं दह- न्तीति शवदहः । गुरव आगमशास्त्रोदितान्त्येष्टिकर्मकुशलाः । द्विजाश्च वेदोक्तपराची (?)- कर्मनिपुणाः । एते सर्वे यत्त्वां जीवितेश इति जीवितस्येशो जीवितेश इति स्तुवन्ति तद्युक्तम् । तत्कुत इत्याह—यतो हेतोस्तेषां रुदत्यादिद्विजान्तानां परमः सुहृत् मित्र- मसि । अतस्त्वां ते जीवितस्येशो नाथः प्राणप्रिय इति स्तुवन्ति । हे यम, परेषां तेभ्यः पूर्वोक्तेभ्योऽन्येषामकारणरिपुर्निर्हेतुवैरी असुहृत् असून् हरतीत्यसुहृद्भवसि ते त्वां जीवि- तस्येशो नेता प्राणहर इति स्तुवन्ति । यश्च सुहृत्स कथमसुहृद्भवतीति विरोधः । अन्यार्थत्वे तदभावः ॥ क्लिश्यन्त्यवश्यमपमार्जनभूतयाग- निर्याणकर्मचरमेष्टिशिवक्रियाद्यैः । ये दैशिकाः परमकारुणिकाः परार्थे त्वां श्राद्धदेव इति ते रविज स्तुवन्ति ॥ ७३ ॥ हे रविज, मृतमुद्दिश्यावश्यमेवापमार्जनं पञ्चगव्योष्णोदकादिभिर्मृतस्नपनमपमार्ज- नम् । भूतयागश्चितिवास्तुयागः । निर्याणकर्म । चरमेष्टिः । शिवक्रिया च - 'तत्र दग्ध्वा शवं मुख्यं कल्पितं वा मृतोद्धृतौ । स्नात्वा दूर्वाक्षतजलैः प्रेते दत्त्वा जलाञ्जलिम् ॥ क्रिया कार्या नदीतीरे तीर्थे वाथ शिवाश्रमे ।' इत्याद्यागमशास्त्रे प्रसिद्धा शिवक्रिया तदाद्यैः । आदिशब्देन तन्त्रोक्तविधिना दशाहादिकर्म । तैः कर्मभिः परमकारुणिका अतिदयालवो ये दैशिका गुरवः परार्थे क्लिश्यन्ति क्लेशं भजन्ते ते त्वां श्राद्धदेव इति स्तुवन्ति । श्राद्धं पितृक्रिया । तदंशभागित्वात्पितृपतित्वाद्वा श्राद्धदेव इति रायमु कुटीकारः ॥ देशं न[^१] यत्त्यजति सन्तमसन्तमन्तं ध्वान्तं नयंस्तव पिता समवर्त्यतो ऽर्कः । त्वं सत्स्वसत्स्वपि समं प्रहरस्यतोऽपि स[^२]द्यः स्तुवन्ति समवर्तिनमन्तक त्वाम् ॥ ७४ ॥ कोपं विधाय तव येन कृतः प्रसाद स्तत्सेवकेष्वपि चिकीर्षसि यत्प्रसादम् । किं[^३] तत्र वर्तयसि मां समवर्त्यतोऽपि त्वं स्तूयसे विषमवर्त्यपि मर्मविद्भिः ॥ ७५ ॥ (युग्मम्) हे अन्तक, तव पिता जनकोऽर्कः । देवैरर्च्यत इत्यर्क: सूर्यः ध्वान्तमन्धकारमन्तं नयन्सन् यत्सन्तं शोभनं देशमसन्तमशोभनमपि न त्यजति अतः समवर्ती अर्क एव भवतीत्यर्थः । त्वं तु सत्सु साधुष्वसत्स्वसाधुष्वपि समं प्रहरस्यतः समवर्ती स्तूयसे । त्वं किंभूतोऽपि । विषमवर्त्यपि साध्वसाधुविचाररहितोऽपि मर्मविद्भिर्भर्मज्ञै रहस्यवेदिभिः समवर्ती स्तूयस इत्यर्थः । निन्दारूपा स्तुतिः । किं तु येन शंभुना तव प्रसादः कृतः । किं कृत्वा । आदौ क्रोधं कृत्वा । तस्य सेवकेष्वपि त्वं प्रसादमनुग्रहं चिकीर्षसि कर्तुं किमिच्छसि यदि चेन्मां प्रति किं वर्तयसि ॥ युग्मम् ॥ भालस्थलानि कलयस्यमलेन्दुमौलि- पादारविन्दमकरन्दसितानि येषाम् । त्वं मानवानसि विमानय मा नयज्ञ तन्मानवानवसि रौद्र यदि स्वमौद्रम् ॥ ७६ ॥ हे नयज्ञ । नयं कार्याकार्यविवेकं जानातीति नयज्ञस्तत्संबोधनं हे नयज्ञ, त्वं मानवानसि मानोऽभिमानोऽस्य विद्यते मानवान् तादृगसि । हे रौद्र, स्वमौद्रं मुद्रा एव मौ [^१]. 'देशं नयन्मृशति संतमसं तमन्त' ख. [^२]. 'सत्यं' ख. [^३]. 'संतत्र' ख. द्रम् । स्वार्थेऽण् । स्वमानमुद्रां यद्यवसि रक्षसि तदा तान्मानवान्मनुष्यान्मा विमानय मा सावमानान्कुरु । तान्कानित्याह – भालेत्यादि । अमला: स्वच्छा ये इन्दुमौलिपा- दारविन्दमकरन्दाश्चन्द्रमौलिपादपद्मरेणवस्तैः सितानि शुभ्राणि येषां नृणां धन्यानां भालस्थलानि ललाटस्थलानि कलयसि पश्यसि ॥ दुर्वृत्तदर्पशमनाच्छमनोऽसि यत्त्वं यद्वा यमोऽस्यधमसंयमनात्तदन्यत् । मन्ये मदं शमयितुं प्रभवस्तवैव त्वामेव वा यमयितुं भवभक्तिभाजः ॥ १७ ॥ हे अन्तक, दुर्वृत्तानां दुराचाराणां दर्पोऽहंकारस्तच्छमनाद्यत्त्वं शमनोऽसि तथाध- मानां पापिनां संयमनात् यमयतीति यमः यत्त्वमसि तदन्यत् । अयुक्तिमदित्यर्थः । अत्र स्वमतमाह–अहमिति मन्ये । युक्तिमदेतदित्यर्थः । यद्भवे महेशे भक्तिभाजस्तवैव मदं शमयितुं प्रभवः समर्थाः । तथा त्वामेव यमयितुं ते प्रभवः । श्रीशिवभक्ता एव तव शमना यमाश्चेत्यर्थः ॥ उद्वृत्तमन्तक नृशंस भृशं सगर्व शर्कस्तव व्यवसितेष्वपि चेष्टसे यत् । तद्भावि भाविभवभैरवभैरवोग्र- भालानलोद्भवपराभवकृत्पुनस्ते ॥ ७८ ॥ हे नृशंस पुरुषघातक, भृशमत्यर्थं सह गर्वेण वर्तते यः स सगर्वः । तस्यामन्त्रणं हे सगर्व साहंकार, अन्तक यम, त्वं कर्ता शर्वस्तव व्यवसितेष्वपि शंभुभक्त्युद्युक्तेष्वपि भृशं यदुद्वृत्तं चेष्टसे । उद्वृत्तमिति क्रियाविशेषणम् । उत्क्रान्तमुल्लङ्घितं वृत्तमाचारो यत्र तत् । तदुद्वत्तव्यापारविधानं भानां दीप्तीनां विभावः । भाशब्द आकारान्तः । भा- विभावेन भैरवो भयानको यो भैरवोग्रभालानलस्तस्मादुद्भवो यस्य स तादृग्यः पराभवो दाहरूपस्तं करोतीति तादृशं पुनस्ते तव भावि । भविष्यतीत्यर्थः ॥ किं वान्यदर्कज विशङ्क विशङ्कटास्य हास्यं चिकीर्षसि यदीश्वरसंश्रयाणाम् । तन्मा कृथा न हि तवाश्रितवत्सलोऽसौ सानुग्रहोऽप्यनुचितं क्षमते महेशः ॥ ७९ ॥ (कालोपालम्भकुलकम्) विगता शङ्का यस्य स विशङ्कस्तस्यामन्त्रणं हे विशङ्क, तथा विशङ्कटं विकरालमास्य यस्य स तस्य संबोधनं हे विशङ्कटास्य, अर्कज यम, किं वान्यद्ब्रूमः । तवेति शेषः । यत्त्वमीश्वरसंश्रयाणां नाथीकतेन्दुमुकुटानां हास्यमुपहासं चिकीर्षसि कर्तुमिच्छसि तन्मा कृथाः । तवोचितं वच्मीत्यर्थः । हि यस्मात्कारणादसौ महेश्वरस्त्रिलोकनाथो द- यालुराश्रिताः शरणागता वत्सला अतिप्रिया यस्य स तादृक्सानुग्रहोऽपि सप्रसादोऽपि तवानुचितं पूर्वोक्तं न क्षमते न सहते । यद्वा दग्धस्यापि तव ब्रह्मादिप्रार्थनया सजीवी- करणेन सानुग्रहोऽपीदमनुचितं न सहत इत्यर्थः ॥ कालोपालम्भकुलकम् ॥ भालस्थलीव तिलकेन वधूकटाक्ष- विक्षोभितेन तिलकेन वनावलीव । विज्ञप्तिरेणतिलकेन विभावरीव शोभां वसन्ततिलकेन बिभर्ति शंभोः ॥ ८० ॥ तिलकेन विशेषकेण । 'तिलकं तु विशेषकम्' इति कोषः । भालस्थलीव ललाटस्थ- लीव यथा शोभां बिभर्ति । यथा च वधूकटाक्षविक्षोभितेन वध्वा वरकामिन्या यः कटाक्षो नेत्रान्तस्तदालोकनेन विशोभितेन प्रफुल्लेन तिलकेन वृक्षविशेषेण वनावली वनपङ्क्तिः शोभते । 'आलिङ्गनैः कुरबकस्तिलकः कटाक्षैः शिञ्जाननूपुरपदाहननैरशोकः । गण्डूषसीधुपतनैर्बकुलोऽङ्गनानामभ्येति माधवमये समये विकासम् ॥' इति । यथा चै- णतिलकेन मृगाङ्केण चन्द्रेण विभावरी रात्रिः शोभते तथेयं मम विज्ञप्तिः श्रीशंभोः कृता वसन्ततिलकेन वृत्तविशेषेण शोभां बिभर्ति । 'ख्याता वसन्ततिलका तभजा जगौ गः ॥ निजावस्थां प्रभोर्निवेदयति- वासः क्षीणदशं वयश्च करणग्रामं मनश्चाक्षमं निःसारेषु दुरीश्वरेष्वपचितेरुद्वेगमङ्गेष्वपि । व्यर्थं वेश्म नृजन्म चाखिलमिदं कल्याणशून्यं वपुः कोषं चोद्वहतः कुरुष्व करुणां चित्ते गिरं च श्रुतौ ॥ ८१ ॥ ममेत्यध्याहारः । क्षीणा दशा वस्त्रान्ता यस्य तत्तादृशं वासः । तथा क्षीणा दशा बाल्यादयोऽवस्था ज्योतिः शास्त्रप्रसिद्धा आयुर्दायदशा वा यस्य तत्तादृशं वयश्च देहा- वस्थाविशेषमुद्वहतो धारयतः करुणां दीनां गिरं श्रुतौ कर्णे कुरुष्व स्वामिन्नित्यर्थः । तथा करुणां कृपां चित्ते कुरुष्व । एवमग्रेऽपि । 'अथो दशा वर्तिरन्ते तु वाससो भूमनि स्त्रियाम्' इति मङ्खः । 'देहावस्था वयः पक्षी' इति च । तथा करणग्रामं करणानां बु. द्धीन्द्रियकर्मेन्द्रियाणां ग्राम: समूहस्तमक्षममसमर्थे निजव्यापारासमर्थम्, न क्षमा क्षा- न्तिर्यस्य तत्तादृशमक्षमं मनश्चोद्वहतः । तथा निःसारेष्वनुदारचित्ततयान्तःशून्येषु दु- रीश्वरेषु कुनृपतिषु सत्सु अपचितेरपमानादुद्वेगं दैन्यमुद्वहतः । तथापचितेः क्षीणत्वा- दङ्गेषु करचरणादिषूद्वेगमुच्चैर्वेगं जरया सकम्पत्वादुद्वहतः । तथा इदं वेश्म व्यर्थं वि- गता अर्थां धनानि यस्य तत्तादृशमुद्वहतः तथा व्यर्थं निरर्थकं पारलौकिकमार्गशम्बल- रूपसुकृतलेशाकरणार्थमखिलं नृजन्म मनुष्यजन्म चोद्वहतो मम । तथा इदं वपुः श रीरं कल्याणशून्यं कल्याणेन मुक्त्युपायरूपेण मङ्गलेन शून्यम्, कोषं गञ्जगारं च कल्या- णेन सुवर्णेन शून्यमुद्वहतो मम करुणां कृपां चित्ते कुरुष्व करुणां दीनां च गिरं श्रुतौ कर्णं कुरुष्व ॥ अज्ञस्तावदहं न मन्दधिषणः कर्तुं मनोहारिणी- श्चाटूक्तीः प्रभवामि यामि भवतो याभिः कृपापात्रताम् । आर्तेनाशरणेन किं तु कृपणेनाक्रन्दितं कर्णयोः कृत्वा सत्वरमेहि देहि चरणं मूर्धन्यधन्यस्य मे ॥ ८२ ॥ हे स्वामिन्, तावत्प्राथम्ये अहमज्ञो भवामि अत एव मन्दधिषणो मन्दबुद्धिरहं याभिः स्तुतिभिर्भवतः स्वामिनः कृपापात्रतां प्रेमास्पदत्वं यामि, ता मनोहारिणीर्मनो- ज्ञाश्चाटूक्तीः कर्तुं न प्रभवामि न समर्थो भवामि । किं तु पक्षान्तरे। अशरणेन विगत- शरणेनार्तेन कृपणे दीनेनाक्रन्दितं कर्णयोः कृत्वा सत्वरमविलम्बेन एहि । अधन्यस्याभा- ग्यवतो मम मूर्धनि शिरसि चरणं पादकमलं देहि निधत्स्व ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ कृपणाक्रन्दनं नाम नवमं स्तोत्रम् । दशमं स्तोत्रम् । जयति चित्तचकोरकचन्द्रिका सुकृतिनां वदनाब्जरविच्छविः । श्रवणबर्हिणवर्षणवर्तनी हरिणकेतुकलामुकुटस्तुतिः ॥ १ ॥ हरिणकेतुकलामुकुटस्य चन्द्रकलामुकुटस्य श्रीशिवभट्टारकस्य स्तुतिर्जयति सर्वोत्कृष्टा भवतीति संबन्धः । सा का । सुकृतिनां विशिष्टपुण्यभाजां चित्तमेव चकोरकः स्वनामप्रसिद्धो ज्योत्स्नापायी पक्षिविशेषः । तस्य चन्द्रिका ज्योत्स्नेत्यारोपः । तथा तेषामेव सुकृतिनां वदनमेवाब्जं पद्मं तस्मिन् रविच्छविः सूर्यप्रभाधन्यानां मुखारविन्दविकासविधायिनीत्यर्थः । तथा तेषामेव श्रीशंभुकथाकर्णनोत्सुकानां श्रवणानि कर्णा एव बर्हिणा मयूरास्तेषु वर्षणवर्तनी वृष्टिधारा ॥ पुनरपि रूपकेण श्रीशिवभट्टारकस्तुतिप्रशंसां करोति जयति भक्तिलतानवमाधवः सुकृतपादपपक्वफलोद्भवः । विपदुपद्रवविल्लवबान्धवः सुकविसूक्तिवधूवदनासवः ॥ २ ॥ भवमहार्णवनिस्तरणप्लवः प्रवरसूरिमयूरघनारवः । हृदयदाहहृतावमृतद्रवः कुमुदिनीरमणाभरणस्तवः ॥ ३ ॥ (युग्मम् ) कुमुदिनीरमणाभरणस्तवश्चन्द्राभरणस्य श्रीशिवस्य स्तवो जयति सर्वोत्कृष्टो भवति । स कः । भक्तिलतानवमाधवः । कायवाङ्मनोभिस्तदुपासनासक्तिर्भक्तिः सैव लता तस्या नवः प्रत्यग्रागतो माधवो वसन्तः । विकासक इत्यर्थः । पुनः कः । सुकृतं प्राक्तनानेकजन्मार्जितं पुण्यमेव पादपः शाखी तस्य यत्पक्वं परिपाकवत्फलं तस्योद्भव उदयः । पुनश्च कः । विपज्जन्मजरामरणव्याधिरूपैवोपद्रव उपप्लवस्तेन ये विक्लवास्तेषां बान्धवः । आश्वासक इत्यर्थः । पुनः कः । सुकवीनां महाकवीनां या सुशोभना प्रौढा उक्तिः सैव वधूर्वराङ्गना तस्य वदनासवो मुखासवः । पुनः कः । भवः संसार एव महार्णवस्तस्मान्निस्तरणं तत्र प्लवः पोतः । पुनः कः । प्रवरा वरेण्या ये सूरयः पण्डितास्त एव मयूरास्तेषां घनारवः प्रावृषेण्यमेघशब्दः । पुनः कः । अमृतद्रवः । कुत्र । हृदयस्य दाहस्तस्य हृतिस्तस्याम् ॥ वृत्तेनैकेन कविकाव्यप्रशंसां करोति मधुरमिन्दुमुखीवदनादपि क्लमहरं सुरसिन्धुजलादपि । त्रिभुवनाधिपतिस्तुतिपावनं जयति सत्कविसूक्तिरसायनम् ॥ ४ ॥ सत्कविसूक्तिरसायनं सत्कवीनां महाकवीनां शोभनाः प्रौढा या उक्तयस्ता एव रसायनममृतं जयति सर्वोत्कृष्टं भवति । किंभूतम् । त्रिभुवनाधिपतेस्त्रिलोकनाथस्य या स्तुतिस्तया पावनं पवित्रम् । इन्दुमुखीवदनादपि चन्द्रवदनामुखादपि मधुरं रमणीयम् । 'स्वादे रम्ये च मधुरं' इति । तथा सुरसिन्धुजलादपि गङ्गाजलादपि क्लमहरं खेदहृत् । भवमरुभ्रमणजक्लमहरं च ॥ नवनवभ्रमरस्वनशोभिनी भवमरुभ्रमघर्मशमक्षमा । हृदयनन्दचन्दनकन्दली जयति शंकरभक्तिरभङ्गुरा ॥ ५ ॥ अभङ्गुरा अव्युच्छिन्ना शंकरभक्तिः श्रीशिवभक्तिर्जयति सर्वोत्कृष्टा भवति । सा का इत्यारोपेण विशेषयति — हृदयमेव नन्दनं देवोद्यानं तत्र चन्दनकन्दली चन्दनलता हृद- यस्य नन्दनं परमानन्दस्तत्र वा । किंभूता श्रीशिवभक्तिः । नवाः प्रत्यग्राश्च ते नवाः स्तवास्त एव भ्रमरास्तेषां स्वनेन शब्देन शोभते तादृशी । पुनः किंभूता । भवः संसार एव मरुर्निर्जलो देशस्तत्र भ्रमेण यो घर्मस्तस्य शमे क्षमा । चन्दनलतापि नवनवालि- स्वनशोभिनी मरुभ्रमघर्मशमक्षमा च भवति ॥ अथ कथंचन रूढमपि क्षणं मनसि वीक्ष्य विवेकनवाङ्करम् । बहुविधव्यसनौघविघट्टितं सपदि विज्ञपयामि जगद्गुरुम् ॥ ६ ॥ अथानन्तरं कथंचन कष्टे सति मनसि चित्ते रूढमपि क्षणं विवेकनवाङ्कुरं विचाररू- पनव्याङ्करं बहुविधं यद्व्यसनं कामक्रोधादि तदेव ओघा जलपूरस्तेन विघट्टितं संलग्नं स- पदि तत्क्षणमेव जगद्गुरुं जगन्नाथं श्रीशिवं विज्ञपयामि निवेदयामि ॥ अपि जगद्विदितः करुणापरः परहिताहितमूर्तिपरिग्रहः । किमिति हंसि न हंस हृदम्बुजे कृतपदो विपदः शरणार्थिनाम् ॥ ७ ॥ हे हंस परमात्मन्परमशिव । 'स्वगयोगिभिदोर्हंसो निर्लोभनृपसूर्ययोः । विष्णौ प्राणे चात्मनि च' इति मङ्खः । जगद्विदितस्त्रि जगत्प्रसिद्धोऽपि । करुणापरो दीनद- यालुः । तथा परहितार्थे भवोदधिमग्नजगदुद्धरणार्थमाहितो धृतो मूर्तिपरिग्रहः सकलना- थरूपस्त्वं शरणार्थिनां शरणागतानाम् । मादृशामित्यर्थः । हृदम्बुजे हृत्सरोजे कृतपदः कृतस्थितिः किमिति विपदो जन्मजरामरणत्रासविपदो न हंसि । हंसोऽप्यम्बुजे पद्म- समीपे कृतस्थितिर्दर्शनेनार्थिनां विपदो हन्तीति ज्योतिर्विदः ॥ यदि भवान्विदधीत हृदि स्थितिं व्यसनसंपदसौ प्रसरेत्कथम् । यदि न सा प्रसरेत्प्रसजेत्कथं बुधजनोऽप्यसमञ्जसकर्मसु ॥ ८ ॥ हे स्वामिन्, भगवान्परमकारुणिको यदि हृदि स्थितिं कुर्वीत तदासौ व्यसनसंपज्जन्मजरामरणरूपव्यसनसंपत् । व्यसनानां कामक्रोधादीनां वा संपत् कथं प्रसरेत् । यदि च सा न प्रसरेत्तदा बुधजनोऽपि विपश्चिज्जनोऽप्यसमज्जसकर्मस्वसमीचीनकर्मसु कथं प्र. सजेत्प्रसक्तो भवेत् ॥ इतः परं वृत्ताष्टादशकेन महाकुलकमारभमाण आह इह बृहद्भिरुदग्रपरिग्रहग्रहगृहीतमतिर्व्यसनोद्गमैः । यदि न कातरतां परतन्त्रतामफलतां खलतां च भजेज्जनः ॥ ९ ॥ हे महेश परमेश, इह जगति बृहद्भिर्व्यसनोद्गमैर्मृगयाक्षपानादिभिरुदग्रो महान्परिग्र- हग्रहो ग्रहणहेवाकस्तेणन गृहीता मतिर्यस्य स जनः कातरतां दैन्यं परतन्त्रतां पराधीन- त्वमफलतां व्यर्थतां खलतां दौर्जन्यं च यदि न भजेत्तदा भवत्पदारविन्दपूजाव्यसन- परमानन्दविश्रान्तिमपहाय को विभूतिलेशोन्मिषन्मदकंदर्पविकारकदर्थनां सहेतेत्यग्रे स्थितेन संबन्धः । एवमग्रेऽपि ॥ यदि भजेत न सज्जनसञ्जनव्यसनसर्पदनल्पकृपास्पदम् । हृदयमिन्दुमयूखसुखाहतिव्यतिकरद्रुतचन्द्रमणिश्रियम् ॥ १० ॥ जमस्येति शेषः । सज्जनानां सञ्जनं सङ्गः । 'संगमव्यसन' इति पाठे सज्जनसङ्ग एव व्यसनं तेनोल्लसन्ती अनल्पा महती कृपा तस्या आस्पदं स्थानं जनस्य हृदयमिन्दुम- यूखानां चन्द्रकिरणानां सुखेन या आहतिस्तस्या व्यतिकरेण संपर्केण द्रुतस्य चन्द्रका न्तस्य श्रियं यदि न भजेत सेवेत तदेति पूर्ववत्संबन्धः ॥ अमिलषेयुरनर्गलदुर्गतिप्रसरदीर्घनिदाघनिपीडिताः । यदि घनागमवन्न धनागमं प्रणयिनस्तृषिता हरिणा इव ॥ ११ ॥ प्रणयिनोऽर्थिनो जना अनर्गला अव्युच्छिन्ना या दुर्गतिर्जन्मजरामरणव्यापत् बहि- र्व्यापारेण वा कालकर्णी तस्याः प्रसर एव दीर्घो निदाघस्तेन निपीडिता व्यथितास्तृ- षिता हरिणा घनागममिव धनागमं यदि नाभिलषेयुस्तदा ॥ यदि न पीनघनस्तनमङ्गुरत्रिवलिभङ्गितरङ्गितमध्यमाः । इह हरेयुरपाङ्गविलोकितैर्धृतरतिप्रमदाः प्रमदा मनः ॥ १२ ॥ पीनाः पीवरा घना दृढा ये स्तनास्तैर्भङ्गुरं त्रिवलिभङ्गि तरङ्गितं मध्यममुदरं यासां ताः । तथा धृतरतिप्रमदाः धृतौ रतिप्रमदौ परमसुखसंतोषौ याभिस्ताः प्रमदा वरका मिन्य इद्द जगत्यपाङ्गविलोकितैर्नेत्रत्रिभागावलोकनैर्यदि न मनश्चित्तं हरेयुस्तदा ॥ बलवदिन्द्रियतस्करसंकुले विषयभीमभुजंगमभीषणे । दुरितदीर्घदवानलदुःसहे बहलमोहतमोहतसंविदि ॥ १३ ॥ कृतधियोऽपि भवाध्वनि धावतः प्रबलकर्मरयापहृतात्मनः । अवसरे प्रहरेयुरमी न चेन्मदनमानमुखाः परिपन्थिनः ॥ १४ ॥ (युग्मम्) बलवन्ति यानीन्द्रियाणि बुद्धीन्द्रियाणि तान्येव तस्करा दस्यवस्तैः संकुले भृते । तथा विषयाः पञ्च शब्दाद्यास्त एव भीमा भुजंगा अहयस्तैर्भीषणे भयंकरे । तथा दुरितं दिनाद्दिनमुपचीयमानं दीर्घो दवानलो दवाग्निस्तेन दुःसहे । तथा बहलो यो मोहोऽविद्या- परपर्यायमज्ञानं तदेव तमो ध्वान्तं तेन हता संविच्चैतन्यप्रकाशो यस्मिन्नेवंविधे भवाध्व- मि संसारदीर्घाध्वनि धावतो जनान् । प्रबलेन कर्मवायो रयेण वेगेनापहृत आत्मा येषां ते सादृशान् । अवसरे शिवैकताध्यानावसरेऽमी मदनमानमुखाः कामाहंकारक्रोधाद्याः परिपन्थिनो दस्यवो यदि न प्रहरेयुस्तदा । गर्भे युग्मम् ॥ उपचितोऽभिनवाम्रदलावलीकवलनाकुलकोकिलकूजितैः । यदि न तर्जयितुं प्रभवेन्मघौ मदनदिग्विजयोद्यमडिण्डिमः ॥ १५ ॥ अभिनवान्याम्रदलानि रसालदलानि तेषामावलिः पङ्क्तिस्तस्याः कवलने आस्वादे आकुला ये कोकिलास्तेषां कूजितैः कुहूशब्दैरुपचितो वर्धितो मदनस्य कामस्य दि. ग्विजयोद्योगे डिण्डिमः पटहः । जनानिति शेषः । जनांस्तर्जयितुं 'मदाज्ञाकारिणः प्रति- क्षणं भवत' इति यदि न प्रभवेद्यदि न शक्नुयात् । " डिण्डीति शब्दं मिनोति डिण्डिमः । 'अन्येषामपि' इति ड: " इति रायमुकुटीकारः ॥ यदि मधौ मधुपानमदोन्मदभ्रमरगायनगुञ्जितगीतयः । सुखलवानुभवाय कृतस्तृहं हर हरेयुरिमं न मनोमृगम् ॥ १६ ॥ हरति पापानि सर्वाणीति हरः । तत्संबोधनं हे हर, मधुनः किंजल्कस्य पानं तेनो- न्मदाः सहर्षा ये भ्रमरास्त एव गायनास्तेषां गुञ्जितान्येव गीतयः सुखलवस्यानुभवाय कृतलोभमिमं मनोमृगं चित्तहरिणं मधौ वसन्ते यदि न हरेयुस्तदा । सुखलवेति वचनं परिणामे सर्वस्यैव दुःखकारित्वात् ॥ अभिनवस्तबकस्तनसंनताः पवननर्तितपलवपाणयः । यदि न बन्धनिबन्धनमृध्नुयुर्मधुपगुञ्जितमञ्जुगिरो लताः ॥ १७ ॥ एवंविधा लता वल्लयः विशेषणसाम्याल्लता एव वराङ्गना यदि न ऋध्नुयुः समृद्धिं प्रा- प्नुयुः । लताकामिन्यः किंभूताः । अभिनवा ये स्तबकास्त एव स्तनास्तैः संनताः । तथा पवनेन मलयानिलेन नर्तिताः पल्लवा एव पाणयः करा यासाम् । तथा मधुपानां रोल म्बानां गुञ्जितमेव मञ्जुर्मधुरा गीर्यासां ता लताः । किम् । बन्धनिबन्धनम् । मनोमृग- स्येति शेषः । मनोमृगबन्धनिबन्धनभूताः । समासोक्तिरलंकारः । तदा ॥ यदि शुचौ मनसीव न मालिनां घनमनेहसि तापमुपावहेत् । सरजसो हरितस्तरुणैः करैरविरलं परिरिप्सुरहर्पतिः ॥ १८ ॥ तरुणैर्नवैः करैः किरणैरेव हस्तैः सह रजसा धूल्या वर्तन्ते यास्ताः सरजसः सधू- लिकाः सह रजसा आर्तवेन वर्तन्ते यास्ताश्च सरजसो रजस्वलाश्च । 'स्याद्रजः पुष्प- मार्तवम्' इत्यमरः । हरितो दिशोऽविरलं गाढं परिरिप्सुः परिरब्धुमालिङ्गितुमिच्छुर- हर्पतिः सूर्यः समासोक्तिबलेन कामी च मानिनां मानवतां 'वयं कामिनीसविधं न या स्याम:' इति मानिनां शुचौ निर्मले मनसि चित्त इव शुचौ ग्रीष्मे अनेहसि ग्रीष्मकाले यदि घनं तापं संतापमुत्पादयेत् । अत्रापि समासोक्तिरलंकारः । तदा । पूर्ववत्संबन्धः ॥ पृथुलसज्जघनोरुपयोधरा गुरुमरुच्चपलाकुलिताम्बराः । यदि भवेयुरिमा न घनागमे मृगदृशश्च दिशश्च धृतिच्छिदः ॥ १९ ॥ इमा मृगदृशो मृगाक्ष्यो दिशो हरितश्च घनागमे प्रावृषि धृतिच्छिदो धैर्यच्छिदो यदि न भवेयुः । द्वे अपि विशिनष्टि - मृगदृशः किंभूताः । जघनं च ऊरू च पयोधरौ च तज्जघनोरुपयोधरम् । प्राण्यङ्गानां समाहारः । पृथु महत् लसज्जघनोरुपयोधरं यासां ताः । पुनः किंभूताः । गुरुणा महता मरुता वायुना चपलमाकुलितमम्बरं वासो यासां ताः । दिशश्च किंभूताः । पृथुला महान्तः सज्जा घना उरवः पयोधरा मेघा यासां ताः । तथा गुरुणा महत्ता वातेन चपलया विद्युता चाकुलितमम्बरमाकाशं यासु ताः । समुच्चयालंकारः ॥ सुरभिगन्धिसहासमुखाम्बुजा धृतमनोहरहंसकविभ्रमाः । यदि न मज्जनधाम नतभ्रुवः शरदि संस्मरयेयुरगापगाः ॥ २० ॥ एवंभूता अगापगाः पर्वतनद्यः शरदि शरत्समये । पुरुषानिति शेषः । पुरुषान् कर्म- भूतान् नतभ्रुवः कर्मभूता यदि न संस्मरयेयुः संस्मृताः प्रयुञ्जीरन् । अगापगाः किंभूताः । सुरभिगन्धयुक्तं सहासं विकासयुक्तं मुखमग्रं येषां तादृशान्यम्बुजानि यासु ताः । न- तभ्रूणां पक्षे ताः कथंभूताः । सुरभिगन्धि सुगन्धं सहासमीषद्धासयुक्तं मुखं वदनमेवा - म्बुजं यासां ताः ।......पुनः किंभूताः । धृतो मनोहरो रम्यो हंसा एव हंसका- स्तेषां विभ्रमो याभिस्ताः ।............ 'हंसकः पादकटकः' इत्यमरः । अगा- पगाः किंभूताः । मज्जनधाम मज्जनस्य स्नानस्य धाम गृहम् । नतभ्रुवोऽपि किंभूताः । मज्जनस्य भवाब्धौ ब्रुडनस्य स्थानम् । शब्दश्लेषोपमया स्मृतिरलंकारः ॥ यदि न दीर्घतमाः समवाप्नुयुः सहसि दुर्विषहोल्बणवायवः । धृतघनोष्मबृहत्तरुणीस्तनस्मरणकारणतामपि रात्रयः ॥ २१ ॥ सहसि हेमन्ते । 'स...... च बले मार्गशीर्षहेमन्तयोः पुमान्' इत्यमरः । दुविंषह उल्बण उद्भटो वायुर्यासु ताः तथा दीर्घतमा अतिदीर्घा रात्रयो निशाः धृतघन ऊष्मा यैस्ते तादृशा ये बृहन्तस्तरूणीस्तनास्तेषां स्मरणे कारणतां यदि न समवाप्नुयुः तदा- पूर्वोक्तेन संबन्धः ॥ यदि भवेन्न घनावरणोद्गमग्लपितधामनि धामनिधौ बहिः । तपसि चेतसि च व्यसनाकुले तपास रूढरसोऽप्यलसो जनः ॥ २२ ॥ तपसि कृच्छ्रादिव्रते रूढो रसो यस्य स तादृशो जनस्तपस्विजनोऽपि व्यसनाकुले वीनां पक्षिणामसनं हिमवायुना संकुचितपक्षतया दूरीभवनं तेनाकुले तपसि शिशिरे । 'तपस्तु शिशिरे माघे क्लीबं कृच्छ्रादिके व्रते' इति मङ्खः । तथा चेतसि च सर्वलोकस्य व्यसनैर्मृगयाक्षपानादिभिराकुले सति जनोऽलसो यदि न भवेत् । तथा कस्मिंश्च सति बहिर्घनानां मेघानां यदावरणं सर्वत आच्छादनं तस्योद्गमस्तेन ग्लपितं धाम यस्य स तस्मिन् धामनिधौ सूर्ये सति ॥ तदखिलापदुपोद्धरणक्षमं समधिगम्य दुरापमिदं पुनः । पवनवेल्लितबालमृणालिनीदलचलज्जलबिन्दुनिभं वपुः ॥ २३ ॥ भवभवत्पदपङ्कजपूजनव्यसनसौमनसीमपहाय कः । इह सहेत विभूतिलवोन्मिषन्मदकदर्यविकारकदर्थनाम् ॥ २४ ॥ (युग्मम् । [^१]अष्टादशभिः कुलकम् ) [^१]. 'अष्टादशभिः कुलकम्' इति क-पुस्तके नास्ति. [^१]इदमुदञ्चति मेघमयं महत्पिहितभास्वदमन्दमहस्तमः । घनबलोऽपि स काल उपस्थितस्तदिह हंस पदं कुरु मानसे ॥ २५ ॥ हे हंस परमात्मन् परमशिव। 'हंसो विहंगभेदे स्यादर्के विष्णौ हयान्तरे । योगिम- न्त्रादिभेदेषु परमात्मनि मत्सरे ॥ निर्लोभनृपतौ हंसः शरीरमरुदन्तरे।' इति विश्वः । मेघमयमित्यत्र मे, अघमयमित्यपि पदच्छेदः । हे हंस परमात्मन्, राजहंसच, पिहित- माच्छादितं भास्वत्कान्तिमत् अमन्दं बहु महस्तेजो ज्ञानस्वरूपं येन तत्तादृशं महत्तमो विषादात्मकस्तमोगुण उदञ्चत्युल्लसति । घनं सान्द्रं बलं सामर्थ्यं यस्य स तादृशः स कालः कृतान्तः, महाबली तुरीययुगसमयो वा काल उपस्थितः सविधं प्राप्तः । तत्त- स्मात्कारणादिहास्मिन्समये इहास्मिन्मामके वा मानसे चित्ते पदं सर्वदा स्थितिं कुरु । अथ च, इदं मेघमयं जलदप्रचुरम्, पिहितं भास्वतो विवस्वतोऽमन्दं बहु महस्तेजो येन तत्तादृशं तमोऽन्धकारमुदञ्चत्युल्लसति । तथा च घनानां मेघानां बलं यत्र स तादृक्काल: समयो वर्षाकालोऽप्युपस्थितः । अतो हेतोः हे हंस, त्वं मानसे मानसाख्य एव सरसि स्थिति कुर्वित्यर्थान्तरम् । हंसा वर्षाकाले मानसं सरो यान्तीति प्रसिद्धिः ॥ इति यदन्तरनन्त तिरो दधन्मुदमुदञ्चति मोहमहातमः । तव रवीन्दु[^२]हुताशनचक्षुषो हृदि निवेदयतीदमसंनिधिम् ॥ २६ ॥ हे अनन्त ब्रह्मादिभिरपि दुष्प्रापान्त, अन्तः हृदि मुदं परमानन्दं तिरो दधदन्तर्हितं कुर्वत् यन्मोहमहातमः अज्ञानरूपं मोहान्धकारं इति पूर्वोक्तप्रकारेणोदञ्चत्युल्लसति । हे अनन्त, इदं महातमो हृदि चित्ते मादृशामिति शेषः । मादृशां हृदि रवीन्दुहुताशनचक्षुषस्त्रिधामनयनस्य विश्वप्रकाशकस्य तवासंनिधिमसांनिध्यं निवेदयति वक्ति । मादृशां हृदि परज्योतीरूपस्य तवासांनिध्येन मोहमहातमः प्रादुर्भाव इति भावः ॥ एतद्वृतोक्तं समर्थयति न हि महेश मनस्त्वदधिष्ठितं भ्रमयितुं प्रभवन्ति भवोर्मयः । न हि वनं हरिणाधिपरक्षितं क्षपयितुं कपयः क्वचन क्षमाः ॥ २७ ॥ हे महेश परमेश्वर, हि यस्मात्कारणात्त्वयातिकृपालुनाधिष्ठितं मनश्चित्तं भक्तजनस्य भ्रमयितुं जन्मजरामरणावर्ते भ्रमयितुं भवोर्मयः संसारलहर्यो न प्रभवन्ति समर्था न भ वन्ति । दृष्टं चैतत् । हि निश्चये । हरिणाधिपरक्षितं सिंहपालितं वनं काननं क्षपयितुं बाधितुं कपयो वानराः क्वचन क्षमाः कदापि न क्षमा भवन्ति ॥ [^३]'वरमरण्यसरित्पुलिनस्थलीतरुतले फलमूलजलाशिनः । स्थितिरनर्गलवल्कलवाससो न शिवभक्तिमृते त्रिदशेन्द्रता ॥ ( प्रक्षिप्तमेतत्) [^१]. ख-पुस्तकेऽयं श्लोको नास्ति. [^२]. 'विभावसु' ख [^३]. अयं श्लोकः ख-पुस्तकेत्रुटितः. भवति पश्यति नश्यति दुर्गतिः स्फुरति शक्तिरुपैति धृतिं मतिः । स्तुतिकृति प्रतिपत्तिमति श्रुतिस्मृतिभृति स्थितिमेति च निर्वृतिः ॥ २८ ॥ हे महेश, भवति पश्यति कृपयावलोकयति दृष्ट्यंशेन दुर्गतिर्नश्यति । तथा शक्तिः सामर्थ्यं स्फुरत्युल्लसति । तथा मतिर्बुद्धिर्धृतिं स्थैर्यमुपैति । तथा स्तुतिकृति स्तुतिं करो- तीति स्तुतिकृत् तस्मिन्स्तुतिकृति तव स्तुतिकृति भक्तजने मादृशे निर्वृतिः परमा- नन्दः स्थितिमेति । कीदृशे स्तुतिकृति । प्रतिपत्तिमति प्रतिपत्तिः सर्वतः पूज्यता त- द्वति । पुनः किंभूते । श्रुतिस्मृतिभृति श्रुतिस्मृतिधारके । तत्पारंगम इत्यर्थः । अत्र विशेषणसामर्थ्येन भवत्पादाम्भोरुहस्तुतिपरस्य सर्वतः पूज्यतां श्रुतिस्मृतिपारंगमत्वमात्य- न्तिकदुःखनिवृत्तिरूपः परमानन्दश्च भवतीत्यर्थः (व्यज्यते) ॥ कति न बुद्बुदवद्भववारिधाविह लसन्ति गलन्ति च जन्तवः । समजनि स्पृहणीयजनिः पुनर्जगति कश्चन यः शिवसेवकः ॥ २९ ॥ इहास्मिन्भववारिधौ संसाराणवे कति न जन्तवोऽसंख्याता लसन्त्युद्भवन्ति गलन्ति लीयन्ते च । कथम् । बुद्बुदवत् बुद्बुदा इव जलापूरे तद्विक्षोभेणोद्भूता जलस्फोटा बुद्बुदा- स्तद्वत् ।………. श्रीशिवभक्तोऽजनि स एव धन्य इत्यर्थः ॥ सपदि पीठविलोठितमूर्तिभिर्भगवतः शुचिभिर्धृतभक्तिभिः । चरणरेणुकणैरिव मादृशैर्दिविषदामपि मूर्ध्नि पदं कृतम् ॥ ३० ॥ दिष्ट्येति शेषः । मादृशैर्बहुभिर्धृतभक्तिभिर्धृता भक्तिर्वाङ्मनःकायकर्मभिस्तदुपासास- क्तिर्यैस्तादृशैः । तथा शुचिभि: स्वच्छहृदयैः । सपदि इदानीं पीठे विलोठिता पातिता मूर्तिर्निजतनुर्यैस्ते तादृशैः श्रीभगवतश्चरणरेणुकणैरिव । धृतभक्तिभिर्धृता भक्तिर्विच्छि त्तिर्यैस्ते । शेषं प्राग्वत् । दिविषदामपि समस्तदेवानामपि मूर्ध्नि शिरसि पदं धृतम् । यथा भगवत्पदारविन्दरेणुभिर्देवानां देवानां शिरसि स्थानं कृतम् । प्रणामावसरे तेषां मूर्ध्नि धारणात् । तथा मादृशैरपि बहुभिर्देवशिरसि पदं कृतमिति प्रतिक्षणं श्रीशिवैकताध्या. नान्निश्चितं संपन्नमेवेति । श्रीकाव्यप्रकाशे – 'पदैकदेशरचनावर्णेष्वपि रसादयः' इत्यत्र कारिकायां 'रमणीयः क्षत्रियकुमार आसीदितिवत् 'विच्छिन्नाभ्रविलापं वा विलीये न- गमूर्धनि ।' मूर्ध्न्यपि पदं कृतमिति कालस्य व्यञ्जकत्वं तज्ज्ञैरूह्यम् (?) ॥ निपततां विषमे विपदम्बुधौ यदवलम्बनमस्तविडम्बनम् । जगदमङ्गलभङ्गविधायि तज्जयति रत्नमहो शिवसेवनम् ॥ ३१ ॥ विषमे कठिनेऽतिदुस्तरे विपदम्बुधौ जन्मजरामृतिरूपार्णवे निपततां जन्तूनां यदस्त विडम्बनं अस्ता त्यक्ता वारिता वा विडम्बना यस्मिन्येन वा अवलम्बनमाधारो भवति तत् । विश्वस्यामङ्गलस्य संसाररूपाभद्रस्य भङ्गकारि रत्नमद्भुतं जयति सर्वोत्कृष्टं वर्तते । अहो आश्चर्ये ॥ जयति जन्मजरामरणव्यथाशमसमर्थमनर्थनि[^१]बर्हणम् । सकलमङ्गलधाम सुधामयं भगवदर्चननाम महौषधम् ॥ ३२ ॥ जन्मजरामरणैर्व्यथा तस्याः शमे समर्थम् । तथा अनर्थानामविद्यादिपञ्चक्लेशानां नि- बर्हणम् । सकलमङ्गलस्य कैवल्यरूपस्य धाम स्थानम् । सुधामयं रसायनमयम् । श्रीशि- वचरणाम्बुजपूजननामकं महौषधं जयति। संजीवनाद्यौषधवरेभ्योऽपि दुष्प्रापमित्यर्थः ॥ इदमसाधितमेव रसायनं निरुपभोगमिदं सुखमक्षयम् । अमृतमेतदनम्बुधिमन्थनं यदविनश्वरमीश्वरसेवनम् ॥ ३३ ॥ वृद्धत्वेऽपि वलीपलितजराहरमनेकरसौषधिसाधितं रसायनमित्यायुर्वेदे । इदं पुनर साधितमेव रसायनं भवति । इदं पुनर्निरुपभोगमनुच्छिष्टमक्षयमै कान्तिकात्यन्तिककर्म- दुःखनिवृत्तिरूपं सुखम् । इदं पुनरम्बुधिमथनं विनैवामृतं पीयूषम् । किमित्येतदाह - अविनश्वरमेकनिमेषमात्रेऽप्यभङ्गुरमच्छिद्रमीश्वरसेवनं परमेश्वरसेवनम् । विभावनाध्वनिः ॥ किमफलैरपरैर्भवशम्बरैः करितुरंगरथाम्बरडम्बरैः । भगवदङ्घ्रिसरोरुहसेवनव्यसनमस्तु [^२]ममानिधनं धनम् ॥ ३४ ॥ संसारेन्द्रजालैर्हस्त्यश्वरथवस्राणामाडम्बरैराटोपैः किं ममास्ति । न किंचिदित्यर्थः । श्रीशिवभट्टारकचरणकमलसेवाव्यसनमेव मम अनिधनं निर्नाशं धनमस्तु । एतद्द्वृत्तानु- सारेण ममाप्येकं वृत्तम् – 'तातस्त्राता नहि न सहजाश्वासनं यत्र चाम्बास्नेहारम्भो भ- वति च मृषा बन्धवो यत्र वन्ध्याः । चौराहार्यं क्षयविरहितं खिद्यतां देहभाजामेकं त स्मिन्पथि सुमधुरं शम्बलं शंभुनाम ॥ वहतु सा रमणी रमणीयताममृतमस्त्वमृतं मधु वा मधु । भवतु निर्वृतिधाम तु यामिनीरमणमण्डनसेवनमेव नः ॥ ३५ ॥ सा प्रसिद्धा रमणी वराङ्गना रमणीयतामन्यजनमनोहारिणीत्वं वहतु धारयतु । अ- मृतं निर्जरत्वविधायि अमृतमेवास्तु । मधु माक्षिकं मधु वा…।निर्वृति धाम परमानन्दधाम कैवल्यविश्रान्तिदमस्तु ॥ अहमहर्निशमेकमना मनागुपरमन्मदमन्मथमत्सरः । भवगतीरवगत्य दुरत्ययाः शशधराभरणं शरणं श्रये ॥ ३६ ॥ दुरत्यया अक्षया भवगतीरवगत्य ज्ञात्वा अहर्निशं सर्वदा उपरमन्त उपरमं प्राप्ता [^१]. 'निवारणम्' क. [^२]. 'ममातिघनं' ख. मदमन्मथमत्सरा गर्वकामक्रोधा यस्य सः । एकमना एकाग्रचित्तो मनाक् सन्नहं शशधराभरणं चन्द्रमौलिं श्रये ॥ आत्मानं विनोदयति कविः इदमहं करुणामृत सागरं शशिकिशोरशिरोमणिमर्थये । व्रजतु जन्मनि जन्मनि मे वपुर्भवदुपासनसाधनतामिति ॥ ३७ ॥ करुणामृतसागरं कृपामृताम्भोधिं शशिकिशोरशिरोमणिं बालेन्दुवतंसमिदमेवार्थये । एवशब्द आर्थ: । इति किमित्याह - जन्मनि जन्मनि भवे भवे मे वपुः कलेवरं भवदु- पासनसाधनतां भवदाराधनहेतुतां गच्छत्विति ॥ कमपि नाम निकाममनोहरं वहति टङ्कमनङ्कुशमेव यत् । तदकलङ्कमलंकरणं मुखे भवतु मे शिवनाम निरामयम् ॥ ३८ ॥ नाम निश्चये । यच्छिवनाम शिवशिवेति नाम निरङ्कुशं निर्यन्त्रणं कमपि टङ्कं वि च्छित्तिविशेषं निकामं मनोहरमतिरम्यं वहति तदेव शिवनाम निरामयं निर्गता आमयाः क्लेशा अविद्यादयः पञ्च यस्य तन्निरामयं, षडूर्मिरहितं वा । अकलङ्कं निष्कलङ्कमलंकरणं मे मम मुखेऽस्तु ॥ स्वहृदयमुपदिशति हृदय भावय भावमनाविलं निरवधान बधान दृढां [^१]मतिम् । त्वमसमर्थ समर्थयसे मुखं किमविनाशि विना शिवसेवनम् ॥ ३९ ॥ हे हृदय, त्वं कर्तृ अनाविलमकलुषं भावं स्वभावं भावय धारय । हे निरवधान स दैवावधानरहित हृदय, दृढां भक्तिविषये मतिं बुद्धि बधान । हे असमर्थ अक्षम, शिव- सेवनं श्रीशिवोपासनं विना अविनाशि अनपायं कि सुखं समर्थयसे जानासि ॥ भवरसं प्रति संप्रति तृष्णया त्यजसि मानस मानसमुन्नतिम् । मदनशासनशासनतः परं कमनपायमुपायमुदीक्षसे ॥ ४० ॥ हे मानस चित्त, संप्रतीदानीं भवे संसारे रसस्तं प्रति तृष्णया लोभेन मानस्य मानेन वा समुन्नतिस्तां त्यजसि । मदनशासनशासनतः श्रीशिवदर्शनतोऽनपायं; निर्नाशं कमुपायं भवाम्भोध्युत्तरणोपायमुदीक्षसे ॥ उपवने पवनेरितमाधवीधवलते वालेते तरुपङ्किभिः । अमलकोमलकोषनिषण्णषट्चरणपारणपावनपङ्कजे ॥ ४१ ॥ [^१]. 'धृतिम्' ख. समदने मदनेन वशीकृता वरवधूरवधूय भज प्रभुम् । अशरणोद्धरणोद्धतधीः शुचामुपरमं परमं स करोति ते ॥४२॥ (युग्मम् )[^१] पवनेन वायुना ईरिता या माधव्यो माधवीलतास्ताभिर्धवलिते। तथा तरुपङ्क्तिभिर्वलिते । तथा अमलाः कोमला ये कोषा बीजकोषास्तत्र निषण्णानां षट्चरणानां भ्रमराणां पारणं किंजल्कस्य तेन पावनानि पङ्कजानि यत्र तादृशे । समदने मदनवृक्षसहिते उपवने मदनेन वशीकृताः सकामोद्रेका वरवधूर्वराङ्गीरवधूय त्यक्त्ता प्रभुं श्रीशिवभट्टारकं भज सेवस्व । कुत इत्याह –स एव प्रभुरशरणानां जनानामुद्धरणे उद्धता धीर्बुद्धिर्यस्य स ते तव परममुत्कृष्टं शुचां जन्मजरामरणदुःखानामुपरमं नाशं करोति ॥ युग्मम् ॥ पुनरपि मानसमेवोपदिशति जहिहि मोहमुपेहि निजां स्थितिं त्यज शुचं भज मानपरिग्रहम् । अहरहर्हरपादसरोरुहस्मृतिरसायनपानपरं भव ॥ ४३ ॥ हे मानस, मोहमविद्यापर्यायमज्ञानं जहिहि । त्वं निजां स्थितिं मर्यादामुपेहि । शुचं शोकं त्यज । मानपरिग्रहं भज । श्रीशिवपदाम्भोजस्य स्मृतिरेव रसायनपानममृतपानं तत्र परं लीनं भव ॥ तदसमञ्जसमङ्ग यदङ्गनानयनचापलशापमुपेयताम् । नयसि नित्यबहिर्मुख शंकरस्मरणसौमनसीमपि हेयताम् ॥ ४४ ॥ हे नित्यबहिर्मुख, नित्यं बहिर्बाह्यव्यापारेषु पर्यवसानविरसेष्वेव मुखं यस्य तत् तादृशं, हे चित्त, अङ्ग इष्टमन्त्रणे । त्वमङ्गनानयनचापलं वरकामिनीनेत्रचापलमेव शापः निर- यप्राप्तिरूपातिदुःखदः तमुपेयतां प्राप्यतां नयसि । तदेव साधु मन्यस इत्यर्थः । तथा शंकरस्मरणसौमनस श्रीशिवस्मरणपरमसुखविश्रान्तिमपि हेयतां त्याज्यतां नयसि यत्स- र्वथा त्यजसि तदेतदसमञ्जसम् । अयुक्तमित्यर्थः ॥ यदि समर्थयसे दुरतिक्रमं कुपितकालभटभ्रुकुटीभयम् । तदचिकित्स्यभवामयभेषजं भज भुजंगमभूषणतोषणम् ॥ ४५ ॥ हे चित्त, त्वं कुपिता ये कालभटा यमभटास्तेषां भ्रुकुटी असौम्याक्षिविकारस्तस्या भयं दुरतिक्रममलङ्घ्यं यदि समर्थयसे मन्यसे तत्तस्मात्कारणादचिकित्स्यस्यासाध्यस्य भवरोगस्य भेषजमगदं भुजंगमभूषणतोषणं फणिहारश्रीशिवभट्टारकसंतोषणं भज ॥ यदि चिकीर्षसि सौहृदमात्मनः परिजिहीर्षसि यद्यघबन्धनम् । यदि तितीर्षसि संसृतिसागरं श्रय [^२]मयस्करमीश्वरसेवनम् ॥ ४६ ॥ [^१]. 'युग्मम्' ख- पुस्तके नास्ति. [^२]. 'यशस्करं' ख. हे चित्त, त्वं यद्यात्मनः सौहृदं चिकीर्षसि कर्तुमिच्छसि तथा त्वं यद्यधैः पातकैर्ब- न्धनं कारागृहरूपं परिजिहीर्षसि परिहर्तुमिच्छसि, तथा संसृतिसागरं भवार्णवं यदि ति- तीर्षसि तर्तुमिच्छसि तदा मयस्करं मयः कल्याणं परमानन्दरूपं करोतीति मयस्कर- मीश्वरसेवनं परमशिवसेवनं श्रय । छन्दसि मयः शब्दः कल्याणवाचको दृश्यते । यथा रुद्रानुवाके – 'शंकराय च मयस्कराय च' इति । अत्र भाषायामप्रयुक्तोऽपि मयस्कर- शब्दो भक्तिविषयेऽदुष्टः । यद्वा 'छन्दोवत्कवयोऽपि प्रयुञ्जते' इति न्यायेन समाधेयम् ॥ यदि वराक सुकर्मविपाकतः करतले पतितस्तव शेवधिः । तमखिलापदपाकरणक्षमं नयसि मूढ निरर्थकतां कथम् ॥ ४७ ॥ हे वराक चित्त, सुकर्मविपाकतः । शोभनं च तत्कर्म सुकर्म । प्राचीनानेकजन्मपुण्यपरम्पराविपाकतस्तव करतले शेवधिर्निधिः पतितः अखिला या आपदो जन्मजरामरणरूपव्यापदस्तासामपाकरणे दूरीकरणे क्षमं तं शेवधिं श्रीशिवोपासनपरतन्त्रं मा नुषजन्मरूपं हे मूढ, निरर्थकतां व्यर्थतां कथं नयसि ॥ एतदग्रिमश्लोके प्रकटयति अमलशीलकुलश्रुतविश्रुतं सदसदर्थविचारविशारदम् । पुरजिदर्चनसौख्यपराङ्मुखं नयसि मानस मानुषजन्म यत् ॥ ४८ ॥ (दशभिश्चित्तोपदेशकुलकम् ) हे मानस, अमलं स्वच्छं निर्मलं शीलं च कुलं च श्रुतं च तैर्विश्रुतं ख्यातं तथा सदसदर्थविचारे कार्याकार्यविवेके विशारदं निपुणं मानुषजन्म यत्पुरजिदर्चनसौख्यपरा- ङ्मुखं सत् नयस्यतिवाहयसि ॥ दशभिश्चित्तोपदेशकुलकम् ॥ भ्रमदमन्थरमन्थरयाहतिध्वनदमुद्रसमुद्र समानया । शमितशापदशापदमेहि मे हर गिरा वितरावितथं वरम् ॥ ४९ ॥ हे हर महेश स्वामिन्, त्वमेहि भ्रमंश्चासावमन्थरश्चासौ मन्थो मन्दराख्यः शैलो वैशा- खस्तस्य यो रयो वेगस्तेनाहतिस्तया ध्वनंश्वासावमुद्रो निर्मर्यादः समुद्रस्तस्य समा- नया गिरा वाण्या शमितशापदशापदं शमिता शापदशा पुनः पुनर्जन्ममरणमहाक्लेशरू- पशापावस्था एव आपद्येन स तादृशमवितथं सत्यं वरं मे मह्यं वितर देहि कृपां कुरु ॥ अनुगृहाण गृहाण घृणार्णव प्रणयिनः प्रणयानुगुणं वचः । उपकुरुष्व कुरुष्व दृढं मनागशरणोद्धरणप्रवणं मनः ॥ ५० ॥ हे घृणार्णव करुणासमुद्र शंभो, अनुगृहाणानुग्रहं कुरु । प्रणयिनो याचकस्य । अर्था- न्मम प्रणयानुगुणं याच्ञानुरूपं वचो गृहाण । त्वमुपकुरुष्व उपकारं भवार्णवोत्तरणरूपं कुरु । त्वं मनागीषत् अशरणोद्धरणप्रवणं विगतशरणमादृशजनोद्धरणलीनं मनश्चित्तं दृढं कुरु ॥ पृथुशिरस्त्रिदशापगया श्रितं करुणया हृदयं शिवया वपुः । कथमतिप्रमिते भगवन्धृतिः श्रवणरन्ध्रपदेऽपि न मे गिरः ॥ ११ ॥ हे भगवन् शंभो, तव पृथु विस्तीर्णं शिरस्त्रिदशापगया देवनद्या गङ्गया श्रितम् । तथा पृथु उदारं हृदयं करुणया कृपया जगदुद्धारकारिण्या श्रितम् । तथा पृथु वि स्तीर्णं वपुः शिवया गिरिजया श्रितम् । हे शंभो तवातिप्रमितेऽत्यन्तसूक्ष्मेऽपि श्रव- णरन्ध्रपदे कर्णरन्ध्रस्थाने मे मम गिरो वाण्याः ........। मदीयां वाचं किं न शृ णोषीत्यर्थः । 'धृतिर्धारणधैर्ययोः' ॥ त्वदनुरागभरेण कदर्थिता त्वदनुरञ्जनकर्मणि चाक्षमा । इति मतिर्मम चाटुपराङ्मुखी हर करोति निजार्तिनिवेदनम् ॥ १२ ॥ है हर, त्वयि विषयेऽनुरागभरेण कदर्थिता व्यथिता तथा त्वदनुरञ्जनकार्ये चाक्षमा असमर्था इत्यतो हेतोश्चाटुभ्यः पराङ्मुखी सती निजा चासावार्तिस्तस्या निवेदनं करोति । यथैवंविधा कामिनी निजार्तिं स्वामिनो निवेदयति तथेत्यर्थः ॥ प्रियतमोऽसि मतेर्मम सा पुनर्न गुणवत्यपि ते हृदयंगमा । इति महेश भवद्विरहातुरा भजति कामपि कामकदर्थनाम् ॥ ५३ ॥ हे महेश, मम मतेर्बुद्धेः प्रियतमोऽस्ति अत्यन्तप्रियोऽसि प्राणप्रियोऽसि । सा पुनर्मम मतिर्गुणवत्यपि ते तव हृदयंगमा न भवति । गुणवती, गुणाः सत्त्वरजस्तमांसि तद्वती, दयादाक्षिण्यादिगुणयुक्ता च । इत्यतो भवद्विरहेणातुरा सती कामप्यनिर्वाच्यां कामक- दर्थनां कामो मनोरथस्तेन कदर्थनां व्यथां भजति । कामिनीपक्षे – कामेनानङ्गेन व्यथां प्राप्नोति । या च कामिनी गुणवत्यपि कामुकस्याप्रिया सा कामप्यनङ्गव्यथां प्राप्नोती- त्यर्थः ॥ भव भवत्परिरम्भरसोऽस्तु मा त्वदुपभोगविधौ तु कथैव का । तव तु दर्शनमात्रककाङ्क्षिणीं मम मतिं कथमित्थमुपेक्षसे ॥ १४ ॥ हे भव, तस्या मम मतेः भवत्परिरम्भस्य भवदालिङ्गनस्य रसो मास्तु । सा कथं भवत्परिरम्भं लभत इत्यर्थः । तु पक्षान्तरे । त्वदुपभोगविधौ त्वया विहितो य उपभोग आस्वादस्तस्य कथैव का भवति । हे स्वामिन् । तु पक्षान्तरे । तव दर्शनमात्रकका- ङ्क्षिणीं मम मतिमित्थमनेन प्रकारेण कथमुपेक्षसे ॥ कुटिलतां न जगाम निकामतो न सहजं मलिनत्वमुपेयुषी । वहसि कि घनरागकदर्थितां मम मतिं प्रति कर्कशमाशयम् ॥ १५ ॥ हे हर, मम मतिरेव कामिनी कुटिलतां कर्मशाट्यं कुटिलाशयत्वं च निकामतः स्वभावतो न जगाम । तथा न च मम मतिर्मलिनत्वं सदोषत्वं मालिन्यं चोपेयुषी न भवति । हे स्वामिन्, घनेन रागेण स्नेहेन भवद्विषये स्थितेन कदर्थितां व्यथितां मम बुद्धिं प्रति कर्कशं कठिनमाशयं किं वहसि । तदुपरि कृपां कुर्वित्यर्थः ॥ अथ गता परिणामदशामिति त्यजसि चेन्मम मुग्धतमां मतिम् । किमपरं घनमोहविमूर्छिता प्रथयतां तव निर्दयतामियम् ॥ ५६ ॥ अथानन्तरमियं मतिः परिणामदशां गता । प्रकृतिपरिणामो बुद्धिरिति सांख्याः । तथा परिणामदशां प्रौढत्वं च प्राप्तेयमिति हेतोर्मुग्धतमामतिरम्यामतिमूढां च मम मति चेत्त्यजसि तर्हि किमपरं वच्मि । सा मम मतिर्घनमोहेनाज्ञानेन मूर्छिता व्यथिता अथ च मोहेन कामोद्रेकेण च मूर्छिता सती तवैव निर्दयतां निष्कृपतां प्रथयतां प्रकटीकु- रुताम् । यथा कामिनीत्यर्थः ॥ एतदाशयानुसारेण ममापि वृत्तमेकम् 'किं सुप्तो- ऽसि किमाकुलोऽसि जगतः सृष्टस्य रक्षाविधौ किं वा निष्करुणोऽसि नूनमथवा क्षीब : स्वतन्त्रोऽसि किम् । किं वा मादृशनिःशरण्यकृपणाभाग्यैर्जडोऽवागसि स्वामिन्यन्न - णोषि मे विलपितं यन्नोत्तरं यच्छसि ॥" इति ॥ इदमनङ्गजनंगमसंगम [^१]भ्रमदमन्दमलं चपलं मनः । अमृतकुम्भकर द्युतरङ्गिणीधर सुधाकरशेखर शोधय ॥ १७ ॥ है अमृतकुम्भकर अमृतकलशपाणे, 'देवं सुधाकलश-' इत्यागमशास्त्रे श्रीमृत्युं जयध्यानोक्तेः । तथा द्युतरङ्गिणीधर स्वर्नदीधर, तथा हे सुधाकरशेखर चन्द्रमौले, अ. नङ्गः काम एव जनंगमञ्चण्डालस्तस्य संगमेन भ्रमत्प्रसृमरं अमन्दं प्रचुरं मलं कालुष्यं यस्य तत्तादृशं चपलं मनः अर्थान्मम शोधय निर्मलीकुरु । एतच्छोधने साभिप्रायममृ- तकुम्भकरेत्यादिविशेषणत्रयम् ॥ भवमरुभ्रमखेदकदर्थितं सुविषमैस्तृषितं [^२]विषयोष्मभिः । मदयते हृदयं मम निर्भरं भव भवच्चरणस्मरणामृतम् ॥ १८ ॥ हे भव श्रीशंभो, भवः संसार एव मरुर्निर्जलो देशस्तत्र भ्रमेण यः खेदस्तेन कद- र्थितं व्यथितम् । तथा सुष्टु विषमैर्विषयोष्मभिः शब्दादीन्द्रियार्थोष्मभिस्तृषितं मम हृ- दयं कर्मभूतं निर्भरं घनं भवच्चरणस्मरणामृतं कर्तृ मदयते आनन्दयति । भवच्चरणस्म- रणामृतेन भवमरुभ्रमणखेदसंतप्तं मम हृदयं परमानन्दं लभत इत्यर्थः ॥ विषमपन्नगपाशवशीकृतं भवमहार्णवमग्नमनीश्वरम् । बहलमोहमहोपलपीडितं हर समुद्धर मां शरणागतम् ॥ १९ ॥ हे हर महेश, विषयाः शब्दादय एव पन्नगपाशा भुजगबन्धनानि तैर्वशोकृतम् । [^१]. 'प्रसृमरप्रचुरावरणं मनः' ख. [^२]. 'विषयोर्मिभिः' ख. तथा भव एव महार्णवस्तत्र भग्नम् । तथानीश्वरमनाथम् । बहलो यो मोहोऽविद्यापर- पर्यायमज्ञानं स एव महोपलो बृहदश्मा तेन पीडितं मां शरणागतं समुद्धर ॥ यमभटैर्ह्वियमाणमयन्त्रणैरशरणं शरणं चरणौ श्रितम् । घनघृणामृतनिर्भरया दृशा मदनमर्दन मामवलोकय ॥ ६० ॥ मदनं कामं मर्दयतीति मदनमर्दनः । तत्संबोधनं है मदनमर्दन शंभो, अयन्त्रणैरनि- यन्त्रितैर्यमभटै रविजकिंकरैर्ह्रियमाणम् तथा अशरणम् । तथा चरणौ भवदीयचरणौ शरणं श्रितम् मां घनं यद्धृणामृतं कृपामृतं तेन निर्भरया परिपूर्णया दृशावलोकय ॥ अभयघोषमिषोन्मिषितामृतद्रवमवन्ध्यधृतस्मितचन्द्रिकम् । वदनचन्द्रमसं तव पश्यतो मम कदा नु तमः शममेष्यति ॥ ६१ ॥ हे मदनमर्दन, मा भैषीरिति योऽभयशब्दस्तस्य मिषेण व्याजेमोन्मिषितोऽमृतद्रवो यस्य स तादृशम् । तथा अवन्ध्या सफला भक्तजनाभीप्सितदानेन धृता स्मितचन्द्रिका ईषद्धासज्योत्स्ना येन स तादृशं तव वदनचन्द्रमसं मुखेन्दुं पश्यतो मम तमो विषादात्म- कतमोगुणस्वरूपमज्ञानाख्यमन्धकारं कदा नु शममेष्यति । नु वितर्के ॥ प्रबलतापकदर्थितविग्रहं द्विजपति परिपालयितुं शिशुम् । वहसि किं न विभो हृदये दयां शिरसि निर्जरनिर्झरिणीमिव ॥ ६२ ॥ हे विभो, प्रबला ये तापा आध्यात्मिकाधिदैविकाधिभौतिकास्त्रयस्त एव तापास्तैः कदर्थितो व्यथितो विग्रहो यस्य स तादृशं शिशुं द्विजपतिं द्विजानां विप्राणां पतिं ब्रह्मे- न्द्रमर्थान्माम् द्विजपतिं नक्षत्रेशं च चन्द्रं शिशुं बालं पालयितुं रक्षितुं निर्जरनिर्झरिणीं देवनदीं गङ्गामिव शिरसि हे विभो हृदये दयां किं न वहसि ॥ प्रणततापविपत्क्षपणक्षमां दलितसंततसंतमसस्थितिम् । हृदि निधेहि दयाममृतस्त्रुतं हरिणकेतुकलामिव मूर्धनि ॥ ६३ ॥ हे विभो, प्रणतानां प्रह्राणां तापा आधिदैविकाद्यास्त्रय एव तापास्त एव विपत्तस्याः क्षपणे दूरीकरणे क्षमां समर्थाम् तथा दलिता संततं संतमसस्याज्ञाननाम्नस्तमसः स्थि- तिर्यया सा तादृशी ताममृतस्रुतं दयां हरिणकेतुकलामिव चन्द्रकलामिव शिरसि हृदि हृदये निजे निधेहि । चन्द्रकलापि तादृशी भवति ॥ अभिमताधिकसिद्धिविधायिनीं भवदवच्छिदमव्यभिचारिणीम् । वह विभो हृदये दयितां दयां वपुषि भूधरराजसुतामिव ॥ ६४ ॥ हे विभो, अभिमतादभिलषितादप्यधिकं सिद्धिदात्रीं भवः संसार एव दवो दावा- ग्निस्तं छिनत्तीति तादृशीं तथा अव्यभिचारिणीं न व्यभिचरति न निवर्तत इति ता- दृशीं स्थिरां वपुषि देहार्धभागे भूधरराजसुतां पार्वतीमिव हृदये निजे वह धारय । पा- र्वत्यपि तादृशी भवति ॥ चिन्तामणिः स्फटिकजातिरचेतनोऽपि कल्पद्रुमः कठिनकाष्ठविनिर्मितोऽपि । तिर्यग्दशामपि गता किल कामधेनु- र्भाग्यैरभीष्टफलदाः कृतिनां भवन्ति ॥ ६९ ॥ त्वं तु प्रभो त्रिभुवनैकमहेश्वरोऽपि पर्याप्तशक्तिरपि पूर्णकृपार्णवोऽपि । आक्रन्दतोऽपि करुणं विधिवञ्चितस्य त्यक्तादरोऽसि मम दर्शनमात्रकेऽपि ॥ ६६ ॥ (युग्मम्) एते कृतिनां धन्यानां भाग्यैर्निजैरभीष्टफलदा भवन्ति । एते के इत्याह – चिन्ता मणिः कल्पद्रुमः कामधेनुश्च । तत्र स्फटिकजातिरपलजातिश्चिन्तामणिश्चिन्तार- त्नम् । अचेतनो जडश्च । कल्पद्रुमश्च कठिनं यत्काष्ठं तेन निर्मितः । काष्ठमय इत्यर्थः । किल प्रसिद्धौ । कामधेनुः स्वर्धेनुश्चापि तिर्यग्दशां गता । तिर्यग्रूपेत्यर्थः । त्वं विति । हे प्रभो जगदीश, त्रिभुवने एकोऽद्वितीयो महेश्वरो महैश्वर्यवानपि पर्याप्ता परिपूर्णा श- क्तिर्यस्य तादृशोऽपि पूर्णा या कृपा तस्या अर्णवः समुद्रोऽपि मम दर्शनमात्रकेऽपि दृ- ष्ट्यंशदानेऽपि त्यक्तादरोऽसि । ममैवाभाग्यचातुरीयमित्यर्थः ॥ युग्मम् ॥ एतद्वृत्तद्वयाश- यानुसारेण ममाप्येकं वृत्तम् – 'निश्चेतनं तृणमणिस्तृणमाददाति लोहं च लोहमणिरा- त्मवशं करोति । रे चित्त चेतनमपि त्वमभाग्यतो मे स्वाधीनमाचरसि नो स्वविभुं दया- लुम् ॥' इति ॥ चिरं द्वारोपान्ते स्थितमवसरो[^१]द्वीक्षणधिया तिरस्कारः सोढः[^२] कुपितमुखरद्वाःस्थविहितः । मुखं दीनं [^३]कृत्वा विभवलवगर्वान्धितदृशां कदीशानामग्रे क इव न विसोढः परिभवः ॥ ६७ ॥ परिम्लानो मानस्तनुरपि तनुस्ताम्यतितमां मनो मोहावर्ते भ्रमति धृतिरस्तं व्रजति च । कथापि क्लेशानामवतरति नोच्छेदपदवीं दवीयस्यामस्यां भवभुवि मुधा धावति मतिः ॥ ६८ ॥ [^१]. 'उदीक्षण' ख. [^२]. 'प्राप्तः' ख. [^३]. 'धृत्वा' ख. तदेवं दुर्वारव्यसनशतसंपातविषमं विशन्नेव स्वामिन्नहह सुमहन्मोहगहनम् । अविन्दन्नाश्वासक्षममपरमापन्नसुहृदं जनोऽवज्ञापात्रं भवति करुणाब्धेर्न भवतः ॥ ६९ ॥ (तिलकम्) हे विभो, कुत्सिता ईशा: कदीशास्तेषां कदीशानां कुनृपतीनामग्रेऽस्माभिः क इव न परिभवस्तिरस्क्रियारूपो विसोढः । किं कृत्वा । दीनं मुखं कृत्वा । एतदेवाह - चि रमित्यादि । अस्माभिरवसरोद्वीक्षणधिया अवसरस्योद्वीक्षणं तत्र धीस्तया कदावसरं प्राप्नुम इति धिया कदीशानां द्वारोपान्ते द्वारसविधे चिरं स्थितम् । तथास्माभिस्तत्रैव कुपिता ये मुखरा द्वाःस्था याष्टीकास्तैर्विहितस्तिरस्कारः परिभवः सोढः । 'प्राप्तः' इति च पाठः । कदीशानां किंभूतानाम् । विभवलवेन यो गर्वस्तेनान्धितान्धीकृता दृशो ये- षाम् ॥ परिम्लान इति निजावस्थां वर्णयति कविः – हे विभो, मानः अहमप्येकोऽस्मी- त्येवंरूपोऽभिमानः परिम्लानो म्लानिं गतः । ममेति शेषः । तथा तनुरपि देहयष्टिरपि तनुः कृशापि ताम्यतितमामतिशयेन ताम्यति ग्लानिं भजते । 'तमु ग्लानौ' धातुः । मोहावर्तेऽज्ञानरूपाम्भोभ्रमे मनश्चित्तं भ्रमति । तथा मम धृतिधैर्यमप्यस्तं नाशं व्रजति गच्छति च । तथा क्लेशानामविद्यादीनां पञ्चानामपि कथा उच्छेदपदवीं नावतरति । अस्यां दवीयस्यामतिशयेन दूरायामनन्तायां भवभुवि भवः संसार एव भूस्तस्यां मम मतिर्मुधा व्यर्थं धावति ॥ तदेवमिति । हे स्वामिन्, अहह खेदे । तत्तस्मात्कारणादेवम- नेनोक्तप्रकारेण दुर्वाराणि यानि व्यसनशतानि तेषां संपातस्तेन विषमं कठिनं तथा सुष्ट्रु महद्दीर्घमोहमेव गहनं दुर्गममिर्जलस्थानं विशन् अत एवाश्वासनसमर्थमपरं विभोरन्यं नाथं बान्धवं वा तथापन्नसुहृदमापद्गतसुहृदमाश्वासनक्षममपरमलभमान एष मल्लक्षणो जनः करुणाब्धेः कृपासमुद्रस्य भवतोऽवज्ञापात्रं न भवति । अवज्ञापात्रं भवितुं नाईती- त्यर्थः ॥ तिलकम् ॥ कदर्याणामग्रे तरलनलिनीपल्लवतल- प्रलीनप्रालेयप्रचलकमलामूढमनसाम् । अदभ्रभ्रूभङ्ग[^१]प्रभवमवमानं हतधियः सहन्ते हन्तेह द्रविणकणतृष्णान्धितदृशः ॥ ७० ॥ अहं तु प्रत्यग्रप्रभुचरणराजीवरजसा पवित्रं मूर्धानं दधदधिकभक्तिग्रहगुरुम् । [^१]. 'प्रसवमवसानं' ख. भ्रुकुंसत्वं बिभ्रत्प्रमदभरसंदर्भरभसा द्भजेयं भूतेशभ्रुकुटिघटनाभाजनभुवम् ॥ ७९ ॥ (युग्मम्) हे स्वामिन्, हन्त कष्टे । तरलश्चासौ नलिनीपल्लवस्तस्य तलं तत्र प्रलीनं यत्प्रालेय- मवश्यायस्तद्वत्प्रचला क्षणस्थायिनी या कमला लक्ष्मीस्तया मूढं मोहान्धं मनो येषां ते तादृशानां कदर्याणां कृपणानामग्रे अदभ्रो घनो यो भ्रूभङ्गस्तत्प्रभवमवमानं हतधियः कुधियः परमेश्वरभक्तिरसादन्यत्र लीनबुद्धयः इह जगत्यवमानं लभन्ते । किंभूताः । द्रवि- णकणे या तृष्णा तयान्धिता दृग्येषां ते ॥ अहं त्विति । तु पक्षान्तरे । अहं पुनः प्रत्यग्रं नवं यत्प्रभुचरणराजीवरजः श्रीशिवचरणाम्भोजरजस्तेन पवित्रम् अधिकश्चासौ भक्ते- र्ग्रहो हेवाकस्तेन गुरुं सगौरवं मूर्धानं दधदहं तेन भक्तिरसासवेन यः प्रमदभरः परमान- न्दोत्कर्षस्तस्य संदर्भ आटोपस्तस्य रभसादौत्सुक्याद्भ्रुकुंसत्वं स्त्रीवेषधारिनटत्वं बिभ्रत् भूतेशभ्रुकुटिघटनाभाजनभुवं भूतेशस्य श्रीभैरवस्य भ्रूभङ्गरचनापात्रास्पदत्वं भजेयम् । 'भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः । स्त्रीवेषधारी पुरुषः' इत्यमरः । स्त्रीवेषधारी नटो भ्रुकुंसः । अयं भावः - हतधियो मूढाः कंदर्पभ्रूभङ्गभाजनत्वं व्रजन्ति, अहं तु धन्यः श्रीशिवभक्तिरसानन्देन स्त्रीवेषधारिनटत्वं बिभ्रदत एव श्रीभैरवभ्रुकुटिरचनाभा- जनत्वं भजेयम् ॥ युग्मम् ॥ अधुना श्रीशिवभक्तिरसामृतानन्देनात्मानं वृत्तद्वयेन कविर्विनोदयात- सुरस्त्रोतस्वत्यास्तटविटपिपुष्पौघसुरभौ गिरिग्रावग्रामस्खलनमुखरस्त्रोतसि जले । श्रमक्षामैरङ्गैरगणितभवल्लेशविपदां कदा स्यान्नस्तृप्तिर्हरचरणसेवासुखरसैः ॥ ७२ ॥ तटविटपिपुष्पौघसुरभौ तीरतरुकुसुमसमूहसुगन्धे पर्वतशिलासमूहस्खलनसशब्द- स्त्रोतसि सुरस्रोतस्वत्या देवनद्या गङ्गाया जले श्रमेण भवमरुभ्रमणजखेदेन क्षामैः कृशै- रङ्गैरुपलक्षितानां अत एवागणिता भवक्लेशविपत्संसारकष्टव्यापद्यैस्ते तादृशां नोऽस्माकं हरचरणसेवासुखरसैः श्रीशिवपादारविन्दसेवामहासौख्यरसैस्तृप्तिः कदा स्यात् ॥ अमन्दानन्दानां दलदलबुसंतापविपदां पदाम्भोजद्वन्द्रं शिरसि दधतामिन्दुशिरसः । कदा नः कालिन्दीसलिलशबलैरम्बरसरि- त्तरङ्गैरङ्गारीभवति भवबन्धेन्धनचयः ॥ ७३ ॥ इन्दुशिरसश्चन्द्रमौलेः पदाब्जद्वन्द्वं स्वशिरसि दधतामत एवामन्दानन्दानाम्, तथा द- लन्ती अलघुर्महती संतापोऽध्यात्मिकादिस्त्रिविधः सैव विपद्येषां ते तादृशां नोऽस्माकं कालिन्दीसलिलशबलैर्यमुनाजलकर्बूरैरम्बरसरित्तरङ्गैर्गङ्गातरङ्गैः । गङ्गायमुनासंगमे प्रया- ग इत्यर्थः …...शान्ताग्न्यङ्गारत्वं याति ॥ सान्द्रानन्दस्तिमितकरणः पुण्यनैपुण्यभागी भागीरथ्यास्तटविटपिनः क्वापि मूले निलीनः । सर्वाकारं गिरिपतिसुताकान्तमेकं प्रपन्नः स्वात्मारामः शमसुखसुधास्वादमभ्येति धन्यः ॥ ७४ ॥ सर्वाकारं वाङ्मनःकायकर्मभिः सर्वप्रयत्नेनैकमेव गिरिसुताकान्तं श्रीशिवभट्टारकम- नन्यगामिचित्ततया प्रपन्नः शरणं गतः । अत एव सान्द्रेण विगलितवेद्यान्तरेणानन्देन स्तिमितानि सात्त्विकभावं गतानि करणानीन्द्रियाणि चक्षुरादीनि यस्य सः । तथा स्वा त्मारामः स्वात्मन्येवारमत इति । जितेन्द्रिय इत्यर्थः । तथा पुण्यं च नैपुण्यं च पु- ण्यानां नैपुण्यं वा भजते तादृशः भागीरथ्या गङ्गायास्तटविटपिनस्तीरतरोः क्वापि कु- त्रापि मूले निलीनो निषण्ण: सन् शमसुखसुधास्वादं शान्तिसुखामृतास्वादं धन्यो भाग्यवानभ्येति ॥ अभिजनगुणख्यातिप्रज्ञाभिमानभरोद्धुरां क इव सदसि प्रह्वीकर्तुं [^१]क्षमेत शिरोधराम् । विदधति मुहुर्हेलाखेलं भवत्यवधीरणं भ्रमयितुममी युक्ता न स्युर्यदीन्द्रियवैरिणः ॥ ७९ ॥ भो: स्वामिन्, मुहुः पुनःपुनर्हेलया खेलं मन्थरं कृत्वा भवति त्वयि अवधीरणम वज्ञां कुर्वति सति अमी इन्द्रियवैरिणो हृषीकशत्रवो भ्रमयितुम् । जन्तुमिति शेषः । जन्तुं भ्रमयितुं मथितुं यदि न युक्ताः संनिहिताः सज्ञानास्तद्युक्ता वा यदि न स्युस्तदा क इव पुमान्सदसि सभायामभिजनेन कुलेन गुणो दाक्षिण्यादिः ख्यातिः कीर्तिश्च प्रज्ञा शैमुषी च अभिमानभरोऽहंकारातिशयश्च तैरुद्धुरां स्तब्धां शिरोधरां कृकाटिकां प्रह्वी कर्तुं नम्रीकर्तुं क्षमेत क्षान्तिं सहेत । कुलाद्युद्धरां शिरोधरां नम्रीकर्तुं क्षान्तिर्भवदवज्ञाफ- लमित्यर्थः ॥ एतदेव पूर्वोक्तं पुनः समर्थयतिमानः कस्य न वल्लभः खलमुखप्रेक्षित्वदुःस्था स्थितिः कस्य प्रीतिकरी त्रपाभरनतं कस्मै शिरो रोचते । [^१]. 'सहेत' ख. किं तु स्वामिनि सावलेपहृदये दासीकृताः शत्रुभिः क्षुद्रानद्यतनेश्वरान्धनमदक्षीबान्निषेवामहे ॥ ७६ ॥ कस्य जन्तोर्मानोऽभिमानः पूज्यत्वं वा वल्लभो न भवति । अपि तु सर्वस्यैव । नि- जार्तिवशेन यत्खलमुखप्रेक्षित्वं तेन दुःस्या कष्टा स्थितिः कस्य प्रोतिकरी भवति । तथा याच्ञावशादिति शेषः । याचनावशात्रपाभरेण लजाभरेण नतं शिरः कस्मै रोचते । किं तु पक्षान्तरे । स्वामिनि परमेश्वरे सावलेपहृदये सावज्ञमनसि सति शत्रुभी रिपुभिरौ- चित्यादान्तरैः कामादिभिर्दासीकृता भुजिष्यीकृता वयं धनमदेन क्षीबानद्यतनेश्वरा- न्वर्तमानसमयेश्वरान्क्षुद्रान्सामान्यान्कुनृपतीन्निषेवामहे ॥ स्तब्धा द्वारि यदास्महे क्षितिभुजां निर्भर्त्सिता वेत्रिभि- र्यद्गर्वाढ्यनरेन्द्रवल्लभदुरुद्गारैर्विदह्यामहे । यन्मिथ्यास्तुतिपातकैर्भगवतीं वाचं तिरस्कुर्महे तत्सर्वं तव वक्रवक्रवलनामात्रस्य विस्फूर्जितम् ॥ ७७ ॥ क्षितिभुजां राज्ञां द्वारि वेत्रिभिः वेत्रं दण्डो विद्यते येषां ते वेत्रिणस्तैर्याष्टीकैर्नि- र्भर्त्सिता न्यक्कृता यदास्महे । तथा गर्वेणाइंकारेण येऽन्धा नरेन्द्रवल्लभा राजपुरुषास्तेषां दुष्टा ये उद्गारास्तैर्यच्च विदह्यामहे । तथा । कुनृपतीनामिति शेषः । कुनृपतीनां मि- थ्यास्तुतिपापैश्च यद्भगवतीं वाचं वाग्देवतां तिरस्कुर्महे हे विभो, तत्सर्वमेतत्तवैव वक्रं कुटिलं यद्वक्रं तस्य वलनामात्रं परिवर्तनमात्रं तस्य विस्फूर्जितम् ॥ दृष्ट्वा पाटलगण्डलेखमरुणोद्बाष्पेक्षणं प्रस्फुर- द्बिम्बोष्ठं प्रथमापराधकुपितं वक्त्रं कुरङ्गीदृशः । यत्सप्रेम सविस्मयं सविनयं सापत्रपं सस्पृहं संत्रासं च मनोऽभवत्तदधुना श्रान्तं च शान्तं च नः[^१] ॥ ७८ ॥ पाटले लोहिते गण्डलेखे यत्र तत्तादृशम् ।....तथा प्रस्फुरन्प्रकर्षेण स्फुर- माणो बिम्बसदृश ओष्ठो यस्य तत् तथा प्रथमापराधेन कौमारहरत्वाख्येन कुपितं कु- रङ्गीदृशो मृगाक्ष्या वक्रं मुखं दृष्ट्वा नोऽस्माकं मनः सप्रेम सस्नेहातिशयं सविस्मयं सा- श्चर्यं सविनयं सहापत्रपया वर्तते यत्तादृक्सापत्रपं सस्पृहं सत्रासं चाभवद्बभूव तदेवाधुना श्रीशिवभक्तिरससिक्तं श्रान्तं खिन्नं च शान्तं शमोपेतं च जातम् ॥ यत्खर्वीक्रियते सुखं विषयजं त्वद्भावनाजन्मना ह्लादेन क्षणिकं स्थिरेण महता स्वल्पं किमत्राद्भुतम् । [^१]. 'मे' ख. तच्चित्रं भवदुःखजं भवदनुध्यानप्रमोदाश्रुणा बाष्पाम्बु ध्रुवमध्रुवेण सुमहत्सूक्ष्मेण यद्भिद्यते ॥ ७९ ॥ हे विभो, क्षणिकमस्थिरं तथा स्वल्पं च विषयजं विषयेभ्य इन्द्रियार्थेभ्यः शब्दा- दिभ्यो जातं सुखं स्थिरेण ध्रुवेण तथा महता च त्वद्भावनाजन्मना त्वदेकताध्यानज न्मना ह्लादेनानन्देन यत्खर्वीक्रियतेऽल्पीक्रियते किमत्राद्भुतम् । न किंचिदित्यर्थः । तत्तु चित्रम्, अध्रुवेण क्षणिकेन तथा सूक्ष्मेण च भवतो यदनुध्यानं चिन्तनं तेन यत्प्रमोदाश्रु आनन्दाश्रु तेन ध्रुवं स्थिरं सुमहच्च भवदुःखजं संसारदुःखजातं बाष्पाम्बु अश्रुजलं य- द्भिद्यते तदतीव चित्रमित्यर्थः । स्थिरतरं सुमहद्भवदुःखं भवदनुध्यानेन क्षणिकेन सू. क्ष्मेणापि निराक्रियत इति भावः ॥ अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षाभिधैः क्षिप्तं मोहमहान्धकूपकुहरे दुर्हृद्भिराभ्यन्तरैः । क्रन्दन्तं शरणागतं गतधृतिं सर्वापदामास्पदं मा मा मुञ्च महेश पेशलदृशा सत्रासमाश्वासय ॥ ८० ॥ हे महेश परमेश, अज्ञानान्धतमसरूपेणान्धम् तथा अबान्धवं अविद्यमानो बान्धव आश्वासकारी यस्य स तादृशम्, तथा अक्षाभिधैरिन्द्रियनामभी रक्षोभिः कौणपैः कवलितं ग्रस्तम्, आभ्यन्तरैर्दुर्हृद्भिः शत्रुभिः कामक्रोधादिभि: मोहोऽविद्यारूप एव महान्धकू- पस्तस्य कुहरं रन्ध्रं तत्र क्षिप्तम्, तथा क्रन्दन्तं विलपन्तं शरणार्थमापन्नम्, तथा गता धृतिः पारोत्तरणधैर्यं यस्य स तादृशम्, तथा सर्वा जन्मजरामरणत्रासरूपा या आपद- स्तासामास्पदं स्थानं मां कर्मभूतं मा मुश्च मा त्यज । पेशलया कोमलया सकृपया दृशा सत्रासं मां कर्मभूतमाश्वासय ॥ यद्विश्वोद्धरणक्षमाप्यशरणत्राणैकशीलापि ते मामार्तं दृगुपेक्षते स महिमा दुष्टस्य मे कर्मणः । देव्यां दिव्यमतैः पयोधर[^१]धृतैः पृथ्वीं [^२]पृणत्यां कणा द्वित्राश्चेन्न मुखे पतन्ति शिखिनः किं वाच्यमेतद्दिवः ॥ ८१ ॥ हे स्वामिन्, विश्वस्य त्रिजगत उद्धरणे भवार्णवोत्तारणे क्षमा समर्थापि, तथा अशरणानां त्राणं रक्षणमेवैकं शीलं स्वभावो यस्याः सा तादृश्यपि ते तव दृग्दृष्टिरार्तं भव रोगार्तं मां यदुपेक्षते स महिमा मम मत्कस्य दुष्टस्य विरुद्धस्य कर्मणो भवति । युक्तं चैतत् – पयोधरधृतैर्मेघधारितैरमृतैर्जलैः पृथ्वीं पृणत्यां पूरयन्त्यां सत्यां देव्यां भगवत्यां दिवि आकाशे द्वित्राः कणाः शिखिनो मयूरस्य मुखे चेन्न पतन्ति तद्दिवो नभसः किं [^१]. 'भृतैः' ख. [^२]. 'स्तृणन्त्यां' ख. वाच्यं का निन्दा भवति । 'पयः कीलालममृतम्' इत्यमरः । 'शिखावलः शिखी केकी' इति च । द्वौ वा त्रयो वा द्वित्राः ॥ शुभ्रं बिभ्रत्तरुणकरुणाक्रान्तमश्रान्तमन्तः स्वान्तं शान्तप्रणतजनता क्लेशलेशप्रवेशम् । प्राणत्राणप्रणयकृपणप्राकृतप्राणिवर्ग- व्यापत्तापक्षपणनिपुणां मुञ्च चण्डीश वाणीम् ॥ ८२ ॥ हे चण्डीश शंभो, अश्रान्तमविरतं तरुणा नवा या करुणा कृपा तयान्तः कान्तम् । तथा जनानां समूहो जनता । शान्तः शमं प्राप्तः प्रह्वजनताक्लेशलेशस्य प्रवेशो यत्र तत्तादृशं स्वान्तं हृदयं शुभ्रं स्वच्छं बिभ्रत्त्वं प्राणानां त्राणं तस्य प्रणयो याच्ञा तेन कृपणा दीना ये प्राकृताः पामराः प्राणिनो जन्तवस्तेषां वर्गः समूहस्तस्य या व्यापजन्मजरामरणक्ले- शव्यापत्तया यस्तापस्तस्य क्षपणे दूरीकरणे निपुणा दक्षा या तादृशीं वाणीं भारतीं मुञ्च ॥ अदभ्रश्वभ्रेयं भवसरणिरातङ्कबहुला गलद्बोधज्योत्स्ना निरवधिरसौ मोह[^१]रजनी । नयन्त्येते शान्तिं विषमविषयोत्पातमरुतः प्रदीपं प्रज्ञाख्यं प्रतिदिश दशं क्लेशशमनीम् ॥ ८३ ॥ श्वभिर्भ्रान्तं श्वभ्रमिति स्वामी । 'रन्ध्रं श्वभ्रं वपा सुषिः' इत्यमरः । आत ङ्कैर्दुःखै रोगैश्च बहुलेयं भवसरणिः संसारपद्धतिः अदभ्राणि श्वभ्राणि रन्ध्राणि च्छलानि यस्यां सा तादृश्यस्ति । असौ निरवधिरनन्ता मोहरजनी अज्ञानरूपा रात्रिर्गलन्ती निवृत्य स्थिता बोधो ज्ञानमेव ज्योत्स्ना यस्याः सा । निवृत्तज्ञानप्रकाशेत्यर्थः । एते विषमाः सु- कठिना विषया इन्द्रियार्थाः शब्दादय एवोत्पातमरुतः कल्पान्तवायवः प्रज्ञाख्यं चेत- नारूपं प्रदीपं शान्तिं शमं नयन्ति ।हे स्वामिन्, अतो हेतोः क्लेशं भवमरुभ्रमणजं क्ले- शान्पञ्चाविद्यादीन्वा शमयतीति तादृशीं दृशं दृष्टिं प्रतिदिश प्रयच्छ । भक्तिप्रह्वजना- येति शेषः ॥ शरीरं नीरोगं नवमपि वयः संस्कृतिमती मतिर्वन्द्या जातिः प्रभुरपि भवान्भक्तिसुलभः । इतीयं सामग्री सुकृतशतलभ्या विघटते न यावत्तावन्मे शृणु करुणमाक्रन्दितमिदम् ॥ ८४ ॥ निर्गता रोगा ज्वरातीसारादयो यस्मात्तत्तादृशं शरीरम् । तथा वयः शरीरावस्थारूपं [^१]. 'मोहजननी' ख. नवं तरुणम् । तथा संस्कृतिः शब्दानुशासनसंस्कारस्तद्वती मतिर्बुद्धिः । तथा वन्द्या वन्दनीया सर्वैर्जातिर्ब्राह्मणजातिः । एतान्सर्वान्पूर्वपक्षीकृत्योत्तरपक्षमाह-प्रभुरपी- त्यादि । भक्त्या भक्तिमात्रेणैव सुलभो भवानपि भवादृशोऽपि प्रभुः स्वामी । सकलजग- दुद्धारकारीत्यर्थः । इत्यनेन प्रकारेणेयं सामग्री नीरोगशरीरादिरूपा यावन्न विघटते विश्लेष याति विशृङ्खला भवति । हे विभो, तावदेवेदं समाक्रन्दितं विलपितं शृणु कर्णगोचरं नय । अर्थान्ममैव । यावत्सामग्री संपूर्णा भवति तावदेव परमेश्वरोपासा सर्वथा मतिम- द्भिर्विधेयेत्यर्थः ॥ जयन्ति कृतिनः कवेरमृतसारसिक्ताक्षरा विकस्वरशरत्सुधाकरकरानुकारित्विषः । पुरारिपदपङ्कजस्तव पवित्रचित्रक्रमाः समुन्मिषितमालतीमुकुलकोमलाः सूक्तयः ॥ ८५ ॥ पुरारे: श्रीशिवभट्टारकस्य पदाम्भोजस्तुतिपवित्रश्चित्रो रम्यः क्रमो यासां ताः । तथा अमृतसारेण सिक्तान्यक्षराणि वर्णानि यासां ताः । तथा विकस्वरः पूर्णो यः शर- त्सुधाकरः शारदचन्द्रस्तस्य किरणानुकारिकान्तयः । अतिस्वच्छा इत्यर्थः । तथा समु- न्मिषितानि यानि मालतीमुकुलानि जातीकुड्मलानि तद्वत्कोमलाः सूक्तयः प्रौढोक्तयः कृतिनो धन्यस्य कस्यापि कवेर्जयन्ति सर्वोत्कृष्टा भवन्ति ॥ शिवस्तवकृतो मधौ मलयवायुवेल्लल्लता- गलन्मधुमदोन्मदभ्रमरपुञ्जगुञ्जच्छलात् । नदन्मदनशिञ्जिनीझणितभीतसीमन्तिनी- भुजाकलितकंधरा अधिवसन्ति लीलावनम् ॥ ८६ ॥ ..मलयवायुना वेल्लन्तो या लतास्ताभ्यो गलन्मधु किंजल्कस्तेन मदस्तेनोन्मदा ये भ्रमरास्तेषां पुञ्जः समूहस्तस्य गुञ्जारवस्तस्य च्छलादतिगुञ्जारवमिषेण कामधनुर्ज्याशब्दभीतकामिनीभुजाश्लिष्टकंधरा मधौ वसन्ते नदन्ती शब्दायमाना या मदनशिञ्जीनी । अत्र धनुरित्यध्याहारः । मदनधनुर्गुणस्तस्य झणितं विस्फारस्तेन भीता याः सीमन्तिन्यो वराङ्गनास्तासां भुजा बाहास्ताभिराकलिता आश्लिष्टा: कंधरा ग्रीवा येषां ते तादृशाः ॥ अदूरबहिरङ्गनोपवनजातचूतावली - विलीनकलकोकिलाकलितकाकलीकूजितैः । वलन्मलयमारुतप्रचलदुल्लसन्मल्लिका- विकासिकुसुमस्खलद्भसलमण्डली गुञ्जितैः ॥ ८७ ॥ निगूढतिमिघट्टनस्फुरितदीर्घिकासंभ्रम- त्रसत्कमलकोटरस्थितमरालबालस्वनैः रटत्पटहझल्लरीमुरजतूर्यभेरीगण- प्रणादमुखरीभवद्भवनबर्हिकारवैः ॥ ८८ ॥ सुधामधुरवारुणीरसकषायकण्ठोद्भव- न्नवश्रुतिरसायनप्रगुणगायनीगीतकैः । प्रवीणपरिवादकोदितविभासरागस्वर- क्रमानुगतवल्लीकीविकचकीचकप्रक्कणैः ॥ ८९ ॥ प्रभातगुणवर्णनप्रवणबन्दिवृन्दस्तुति - प्रबुद्धशुकशारिकाकलहकेलिकोलाहलैः बहिर्विहरदङ्गनारणितरत्नकाञ्चीगुण- क्वणत्कनककिङ्किणीझणझणारवाडम्बरैः ॥ ९० ॥ खुरक्षतवसुंधरोद्धुरतुरंगहेषोन्मिष त्प्रबोधधुतकंधरद्विरदकण्ठघण्टारवैः । स्मरालसविलासिनीस्तनभरोपरुद्धोरसस्त्यजन्ति शयनं शनैरुषसि शंभुशंसाजुषः ॥ ९१ ॥ (पञ्चभिः कुलकम् ) शंभोः श्रीशिवभट्टारकस्य शंसा स्तुतिस्तां जुषन्ति सेवन्ते निपुणकविकर्मणा श्रवणेन च ये ते शंभुशंसाजुषः परमेश्वरस्तुतिकर्तारः कवयः श्रोतारः सहृदयाश्च शयनं त्यजन्ति निद्रारसं परिहरन्ति । कदा । उषसि प्रभाते । कैः । अदूरं समीपवर्ति यद्बहिरङ्गनं तत्रो- पवनमुद्यानं तत्र जाता याश्चूतवल्ल्यो रसालवृक्षपङ्क्तयस्तासु विलीनाः कला मधुरभाषिणो ये कोकिलाः पुंस्कोकिलास्तैराकलितानि काकलीस्वरविशेषरूपाणि यानि कूजितानि कुहूशब्दास्तैः । 'काकली तु कले सूक्ष्मे इत्यमरः । पुंस्कोकिलकुहूरवैः शयनं त्यजन्ती- त्यर्थः । एवमग्रेऽपि । तथा वलन्मन्दं भ्रमन्यो मलयमारुतस्तेन प्रचलन्त्य उल्लसन्त्यः सोल्लासा या मल्लिकास्तासां विकासीनि प्रफुल्लानि यानि कुसुमानि तेभ्यः स्खलन्ती या भसलमण्डली भ्रमरसमूहस्तस्या गुञ्जितानि स्वनास्तैः शयनं त्यजन्तीति योजना । 'भस- लश्चञ्चरीकश्च रोलम्बेन्दिन्दिरौ समौ' इति कोषः । तथा निगूढा जलान्तर्निलीना ये तिमयो मत्स्यास्तेषां घट्टनेन हननेन स्फुरितो यो दीर्घिकाणां संभ्रमः कम्पस्तेन त्रसन्तः सत्रासा ये कमलकोटरे पद्ममध्ये स्थिता मरालबाला हंसशिशवस्तेषां स्वनास्तैः शयनं त्यजन्ति । तथा रटन्तः पटहा आनकाः झल्लरी मुरजस्तूर्यो भेरी इति वाद्यभाण्डविशे- षास्तासां गणस्तस्य प्रणादेन मुखरीभवन्तो नृत्यन्तो ये भवनबर्हिणो गृहमयूरास्तेषां केकारुतानि तैः शयनं त्यजन्ति । 'केका वाणी मयूरस्य' इत्यमरः ॥ सुधावन्मधुरश्चासौ वारुणीरसो मद्यं तेन कषायः स्निग्धो यः कण्ठस्तस्मादुद्भवद्यन्नवं श्रुतिरसायनं तेन प्रगुणानि यानि गायनी गीतकानि तैः शयनं त्यजन्ति………….॥ तथा प्रभाते यद्रुणवर्णनं तत्र प्रवणानि यानि बन्दिवृन्दानि तेषां स्तुत्या प्रबुद्धा याः शुकशा- रिकास्तासां कलह एव केलिस्तस्य कोलाहलैः कलकलैः शयनं त्यजन्ति । तथा बहि- र्विहरन्त्यो या अङ्गनास्तासां रणितः सशब्दश्चासौ रत्नकाञ्चीगुणस्तत्र क्वणन्त्यो याः कन- ककिङ्किण्यो हेमघण्टिकास्तासां झणझणेतिशब्दानुकाररूपा ये आरवास्तेषामाडम्बरैरा- टोपैः शयनं त्यजन्ति ॥ तथा खुरैः क्षता वसुंधरा भूमिर्यैस्ते तादृशा उद्धुरा ये तुरंगा- स्तेषां हेषारवस्तेनोन्मिषन्नुल्लसन्प्रबोधस्तेन धुता कंधरा यैस्तादृशा ये द्विरदा हस्तिन स्तेषां कण्ठेषु या घण्टास्तासां रवास्तैरेतैरदूरेत्यादि प्रागुक्तशब्दैः स्मरेण कामोद्रेकेणा- लसा या विलासिन्यस्तासां स्तनभरेणोपरुद्धमालिङ्गितमुरो वक्षो येषां ते तादृशाः शंभु- शंसाजुषः शयनं त्यजन्ति निद्रारसं परिहरन्तीति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ करुणाक्रन्दनं नाम दशमं स्तोत्रम् । एकादशं स्तोत्रम् । धन्योऽस्मि सम्यगमृतं किमपि स्रवन्ती संजीवनं भगवती विदधाति यस्य । स्नेहस्नुतस्तनयुगा जननीव जीव- रक्षार्थमार्तिविधुरस्य ममोक्तिदेवी ॥ १ ॥ स्नेहेन स्नुतं स्तनयुगं यस्या यया वा तादृशी किमप्यमृतं क्षीरं स्रवन्ती शिशोर्जीवर- क्षार्थं जननी मातेव किमपि सम्यगनिर्वाच्यममृतं रसायनं स्रवन्ती भगवती उक्तिदेवी वाग्देवी यस्य मम संजीवनं विदधात्याप्यायनं करोति सोऽहं धन्योऽस्मि कृती अस्मि ॥ धन्योऽस्मि दुःसहविपत्पतितस्य यस्य वाणीधृतोन्नतिरपुण्यकृतामभूमिः । कल्याणिनी सुमनसामुपसेवनीया सौमेरवीव पदवी न दवीयसीयम् ॥ २ ॥ धृता उन्नतिः शब्दार्थौद्धत्यं यया तादृशी । तथा पुण्यकृतां दुष्कृतिनामभूमिरगम्या । अप्राप्येत्यर्थः । तथा कल्याणिनी समस्तमङ्गलवती । सुमनसां पण्डितानामुपसेवनीया सेव्या इयं वाणी भारती दुःसहा या विपजन्मजरामरणत्रासरूपा आपत् तत्र पतितस्य यस्य मम दवीयसी अतिशयेन दूरस्थिता न भवति । किं तु निकटस्थितैव । स्वमुख एव तत्स्थानात् । केव । सौमेरवी सुमेरुगिरिसंबन्धिनी पदवी सरणिरिव । सापि दुःसहविप त्पतितस्य कठिनव्यापत्पतितस्य धृतोन्नतिर्धृता उन्नतिर्यया सा तथा अपुण्यकृतां दुष्कृ तिनामभूमिः [^१]कल्याणिनी श्वःश्रेयसमयी सुमनसां देवानामुपसेवनीया ॥ धन्योऽस्मि मोहतिमिरान्धदृशोऽपि यस्य सानुग्रहेण विधिना परिकल्पिता मे । वल्गुस्वना गुणवती धृतवक्रभङ्गि- राराधनाय गिरिशस्य सरस्वतीयम् ॥ ३ ॥ सहानुग्रहेण वर्तते यः स तादृशेन विधिना स्रष्ट्रा वल्गवः स्वनाः शब्दा यस्याः सा । तथा गुणा माधुर्यौजःप्रसादाख्यास्त्रयः शब्दगुणा अर्थगुणाश्च विद्यन्ते यस्याः सा । तथा धृता वक्रभङ्गिरुपचारवक्रोक्तिर्यया सा तादृशी चेयं सरस्वती भारती मोहोऽज्ञान- मेव तिमिरं तेनान्धा दृक् ज्ञानमेव दृक् नेत्रं यस्य स तादृशस्य मम गिरिशस्य शंभो- राराधनायोपासार्थं परिकल्पिता सोऽहं धन्योऽस्मि । अथ च सरस्वती वीणापि वल्गुस्वना मधुरस्वना गुणास्तन्त्र्यो विद्यन्ते यस्या गुणवती धृतवक्रभङ्गिः कुटिला च तिमिरेण तिमिराख्येण नेत्रदोषेणान्धदृशः पुरुषस्य गिरिशस्याराधनाय सप्रसादेन विधिना क्रियते ॥ संजीवनौषधिरवैमि न वा भवाग्नि- भस्मीकृतस्य विधिना मम निर्मितेयम् । वाणी शिवैकविषयाभिनवोढगौरी- दृष्टिच्छटेव चकिता मकरध्वजस्य ॥ ४ ॥ अहमित्यवैमि जाने । इति किम् । भवस्य शंभोरग्मिना तृतीयनेत्रोत्थवह्निना भस्मीकृ तस्य मकरध्वजस्य कामस्य नवा संजीवनौषधिः शिव एवैको विषयः स्थानं यस्याः सा चकिता अभिनवोढा चासौ गौरी पार्वती तस्या दृष्टिच्छटेव दृष्टिलहरीव विधिना सृष्टा । भवः संसार एवाग्निस्तेन भस्मीकृतस्य मम नवा संजीवनौषधिः संजीवनीनाम्नी ओषधिः शिवैकविषया भारती वाणी सृष्टा निर्मिता ॥ जाने कथंचिदुदिता मम शोकवह्नि- तप्तात्स्खलन्मृदुपदा हृदयादियं गौः । चेतः प्रवेक्ष्यति शनैः करुणामृतौघ- निःष्यन्दशीतमपि शीतमयूखमौलेः ॥ ५ ॥ [^१]. कल्याणं सुवर्णं तन्मयी. कनकमयत्वात्सुमेरो:. जाने इति किमिति । शोको जन्मजरामरणजः स एव वह्निस्तेन तप्तान्मम हृदयात्कथं- चिदुदिता उत्पन्ना उत्थिता च स्खलन्ति गद्गदानि मृदूनि कोमलानि पदानि सुप्तिङ्ङन्तानि यस्याः सा तादृशी इयं मम गौर्वाणी करुणैवामृतप्रवाहनिःष्पन्दस्तेन शीतं शीतमयूख- मौलेः श्रीशिवभट्टारकस्य चेतोऽपि शनैः प्रवेक्ष्यति । अथ च गौर्धेनुर्वह्निसंतप्तात्स्थाना- न्निर्याता लुठन्मन्दचरणा जलप्रवाहशीतलमास्पदं प्रविशति ,तथेयं मम वाण्यपि भगव- तश्चेतः प्रवेक्ष्यतीत्यर्थः ॥ यच्चाटुचापलमलङ्घ्यभवभ्रमोऽहं मोहं वहन्निह मुहुर्मुहुराचरामि । तत्र स्पृहावहमहार्यमहार्यपुत्री- भर्तुः परार्ध्यमपराध्यति सौकुमार्यम् ॥ ६ ॥ मोहमविद्यापर्यायमज्ञानं वहन्नलङ्घ्यो लङ्घयितुमशक्यो भवे संसारे भ्रमो यस्य स ता- दृशोऽहमिह जगति मुहुर्मुहुश्चाटुचापलं चाटून्येव चापलं यदाचरामि करोमि तत्र चा- टुचापलकरणे अहार्यपुत्रोभर्तुरहार्यस्य पर्वतस्य हिमाद्रेः पुत्री पार्वती तस्या भर्तुः श्री- शंभोरहार्यं केनापि हर्तुमशक्यं परार्ध्यमुत्कृष्टं सौकुमार्यं सुकुमारभाव एवापराध्यति । 'अहार्यधरपर्वताः' इत्यमरः । यदि श्रीभगवतः पेशलाशयत्वं न स्यात्तदा ममापि चाटु- चापलकृतिर्न भवेदित्याशयः ॥ यो मूर्धनि ध्वनदनर्गलनिर्झरौघ- झांकारिणीममरनिर्झरिणीं दधानः । गृह्णाति भक्तजनतः कलशाभिषेकं कस्तं न विज्ञपयितुं विभुमुत्सहेत ॥ ७ ॥ यो विभुर्मूर्धनि शिरसि निजे ध्वनन्तोऽनर्गला अव्युच्छिन्ना ये निर्झरा: प्रवाहास्ते- षामोघाः समूहास्तैर्झांकारिणीं सशब्दाममरनिर्झरिणीं देवनदीं गङ्गां दधानः । स्वयमिति शेषः । स्वयं गङ्गां शिरसि दधानः कृपया भक्तजनतो निजोपासकादर्चनावसरे कलशा- भिषेकं मन्त्रगकाभिषेकं गृह्णाति तं दयालुशिरोमणि विभुं श्रीशिवभट्टारकं विज्ञपयितुं निजावस्थां निवेदयितुं को न उत्सहेत । अपि तु सर्व एवेत्यर्थः ॥ दग्धोऽस्मि तावदमुना दमुना ममान्त- र्यः प्रज्वलत्यघनिदाघनिदानजन्मा । मुक्तस्य मे प्रतिभयातिभयाकुलस्य वाणी कथं विगलतो गलतोऽभ्युदेति ॥ ८ ॥ तावत्प्राथम्ये । अमुना दमुनसा अग्निना अहं दग्धोऽस्मि । अमुना केनेत्याह – द- मुना ममान्तरित्यादि । "दमुना 'दम उपशमे' धातुः । अन्तर्भावितण्यर्थाद्दमेः ……दम्य- तीति दमुना इति स्वामी । दमूना दीर्घमध्योऽपि । 'दमूना, दमुना: प्राचीनबर्हिःशुचि- बहिषौ' इति नामनिदानात्" इति रायमुकुटीकारः । यो दमुना अग्निरघान्येव निदाघ- स्तस्य निदानं तस्माज्जन्म यस्य सोऽघनिदाघनिदानजन्मा ममान्तः प्रज्वलति जाज्व लीति । अतश्च प्रतिभया 'मतिर्नवनवोल्लेखशालिनी प्रतिभा मता' तथा मुक्तस्य रहि- तस्य मे अतश्चातिभयेन जन्मजरामरणत्रासेनाकुलस्य विगलतः पततो मम गलतः कण्ठतो वाणी कथमभ्युदेति ॥ क्रन्दाम्यतः किमपि नाम पिनाकपाणे तीव्रार्तिनिस्तरणकारण कातरोऽहम् । मोहाटवीविकटसंकटसंस्थि[^१]तस्य तन्मेऽवधारय शिवाय शिवातुरस्य ॥ ९ ॥ नाम संभावनायाम् । हे पिनाकपाणे, तीव्रार्तिनिस्तरणकारण श्रीशिव, अतः पूर्वो क्तकारणात्कातरो दीनोऽहं किमप्युच्चावचं क्रन्दामि विलपामि । शिव कैवल्यदायिन्, मोहोऽविद्यैवाटवी अरण्यं सैव विकटसंकटो महासंकटो देशस्तत्र संस्थितस्य मम शि वायात्यन्तिकदुःखनिवृत्तये तद्विलपितमवधारय विचारय ॥ आक्रन्दमिन्दुधर धारय देव कर्णे कस्त्वत्परः परमकारण कर्णधारः । मूर्ध्ना वहन्नुडपखण्डमखण्डपुण्यं कं कं न तारयसि संसृतिसागराद्यः ॥ १० ॥ हे इन्दुधर चन्द्रमौले, त्वं ममाक्रन्दं कर्णे धारय । शृणुष्वेत्यर्थः । हे परमकारण ब्रह्मा- दीनां षट्कारणानामपि कारण परमशिव, स कस्त्वत्परः कर्णधारः श्रुतौ (?) अथ च कर्ण- धारो नाविकः । कर्णमरित्रं धारयति कर्णधारो नाविकः । स क इत्याह – मूर्ध्नेत्यादि । य ईश्वरः कर्णधारः उडून्नक्षत्राणि पातीत्युडुपश्चन्द्रस्तस्य खण्डस्तं चन्द्रशकलं मूर्ध्ना शिरसा वहन्संसृतिसागराद्भवसागरात्कं कं नाखण्डपुण्यं पूर्णपुण्यं जनं तारयति । अथ चोडुपं प्लवः । "उडु जलम् । यथा 'उडुहस्तिनीसहस्रवर्णम्' इति हरिप्रबोधः । अत्रोडुहस्तिनी जलहस्तिनीत्यर्थे । उडव आपः इति शिक्षाकरगुप्तः । उडुनि जले उडुनो जलाद्वा । उडुपं ह्रस्वादि ह्रस्वमध्यम् । 'उडुपश्चन्द्रभेलयोः' इति धरणिः, चन्द्रगोमी च । अतः पुंस्यपि । उत्तारयत्यद्भथ इति उदुपधादप्शब्दस्याकारस्योत्वे नैरुक्ते वर्णविकारे उडुप इत्युज्ज्वलदत्तः ।" इति रायमुकुटीकारः । उडुपखण्डं प्लवखण्डं धारयन्कर्णधारो ना- विकः सागरात्परिपूर्णं तारयति यथा । एतद्द्वृत्ताशयानुसारेण ममापीदं वृत्तद्वयम् । यथा – 'बहुविधपरिभ्राम्यन्मायातरङ्गशताकुलाद्भवजलनिधेः को वा त्रासो ममास्ति सुदुस्तरात् । तरणिमुडुपं रक्षन्नित्यं विलोचनगोचरे स भवति विभुर्यस्य स्वामी कृपैक सुधाम्बुधिः ॥' तथा – 'कथं न लोके परिहास्यतामहं व्रजाम्यतीवार्तिकदर्थिताशयः । भवाम्बुधिं तर्तुमकर्णधारकं जडो यतो याम्युडुपार्धधारिणम् ॥' इति । ईश्वरपक्षे अक र्णांश्चक्षुःश्रवसः सर्पान्वासुक्यादीन्धारयत्यकर्णधारकस्तं तथा उडुपस्य चन्द्रस्यार्धं धार- यतीति तादृशम् । तथा कर्णमरित्रं धारयतीति कर्णधारः । कर्णधार एव कर्णधारकः । अकर्णधारकमुडुपस्य प्लवस्यार्धं धारयतीति तादृशं च ॥ अस्मादृशैरशुचिभिश्चटुचापलानि क्लृप्तान्यवैमि न मनस्तव नन्दयन्ति । आवर्जनाय विहितान्यपि चन्द्रमौले कौलेयकस्य लडितानि किमाद्रियन्ते ॥ ११ ॥ हे स्वामिन्, अशुचिभिरपवित्रैः क्लृप्तानि विहितानि चटुचापलानि चाटून्येव चाप- लानि तव प्रभोर्मनो न नन्दयन्तीत्यवैमि। दृष्टं चैतत् । हे चन्द्रमौले श्रीशिव, आवर्ज- नाय विहितान्यपि कौलेयकस्य शुनो लडितान्यभितः परिवर्तनानि जनेन किमाद्रियन्ते । नाद्रियन्त इत्यर्थः । 'कौलेयकः सारमेयः' इत्यमरः । कुले गृहे वसतीति कौलेयकः श्वा ॥ यद्वा न मुग्धचरितान्यपि न प्रसाद- मुत्पादयन्ति भवतः करुणार्णवस्य । स्वामिन्दरत्पुरविहारपरस्य किं न चेतो हरन्ति तव बालकवल्गितानि ॥ १२ ॥ यद्वा पक्षान्तरे । हे स्वामिन् मुग्धानां मूढानां चरितान्यपि कृपासमुद्रस्य भवतः प्रसादमनुग्रहं न नोत्पादयन्ति अपि तूत्पादयन्ति । तथा हि हे विभो, दरत्पुरं लम्पाक- देशैकविषयः । दरत्पुरे विहारः खेलनं तत्र परः तादृशस्य स्वतन्त्रस्य भवतस्तद्देशीय बालकै: सह क्रीडापरस्य बालकवल्गितानि बालकानां वल्गितानि नृत्तानि किं न चेतो हरन्ति । अपि तु चेतो हरन्त्येव ॥ दीनैर्विमुग्धवचनैरसमञ्जसार्थै- र्यद्वद्द्रवन्ति हृदयानि दयानिधीनाम् । तद्वन्न दृष्टसभसप्रतिभप्रगल्भ- संदर्भगर्भरचनाञ्चितवाक्प्रपञ्चैः ॥ १३ ॥ दोनैः करुणोत्पादकैः असमञ्जसार्थैरप्रकटार्यैः विशेषेण मुग्धानां विमुग्धानां वचनैर्य- द्वद्दयानिधीनां दयालूनां विभूनां हृदयानि द्रवन्ति कृपारसेनाद्रींभवन्ति दृष्टा सभा वि- द्वत्सभा यैस्ते च तथा सह प्रतिभया नवनवोल्लेखशालिन्या बुद्ध्या वर्तन्ते ये ते च तथा प्रगल्भाः प्रौढोक्तयश्च तेषां संदर्भगर्भरचनयाञ्चिता ये वाक्प्रपञ्चास्तैर्दयानिधीनां हृदयानि तद्वन्न द्रवन्ति ॥ पूर्वोक्तमेव पुनः समर्थयति- दुग्धाब्धिदोऽपि पयसः प्टषतं वृणोषि दीपं त्रिधामनयनोऽप्युररीकरोषि । वाचां प्रसूतिरपि मुग्धवचः शृणोषि किं किं करोषि न विनीतजनानुरोधात् ॥ १४ ॥ हे स्वामिन्, दुग्धाब्धिदो बालायोपमन्यवे क्षीरसमुद्रदोऽपि त्वं पयसः क्षीरस्य पृषतं कणमर्चनसमये भक्तजनेन वितीर्णं वृणोषि गृह्णासि । तथा त्रीणि धामान्यर्केन्दुवह्निरू. पाणि नयनेषु यस्य तादृशोऽपि त्वं दीपं प्रदीपमुररीकरोष्यङ्गीकुरुषे । तथा वाचां ब्रा- ह्मीणां शब्दानां च प्रसूतिरुत्पत्तिकारणमपि त्वं मुग्धानां मादृशानां वचः स्तुतिवचनं शृणोषि । एतत्कारणं संग्रहेणा- किं किमित्यादि । हे दयालो, त्वं विनीतजना भ क्तिरसामृतसिक्तचेतसस्तेषामनुरोधादुपरोधात्किं किं न करोषि । एतदभिप्रायानुसारेण ममापीदमेकं वृत्तम्–'गङ्गाधरोऽपि वृणुषे पयसोऽभिषेकं गृह्णासि चार्ध्यकणिकाः स्वय- मप्यनर्घ्यः । ज्योतिः परं त्वमसि दीपमुरीकरोषि किं किं करोषि न विनीतजनानुरो धात् ॥' इति ॥ यत्सत्यवत्यपि जगद्विदितानसूया वाणी ममेयमिदमेव हि देव चित्रम् । अत्यद्भुतं पुनरिदं यदरुन्धतीयं त्वामारिराधयिषुरेवमुदीरितापि ॥ १५ ॥ हे स्वामिन्देव, जगद्विदिता जगति प्रसिद्धा सत्यवती सत्यं विद्यते यस्याः सा तादृशी सत्यवत्यपि वर्तते सा ममेयं वाणी अनसूया अविद्यमाना असूया रोषो यस्याः सानसूया यद्भवति इदमेव चित्रमाश्चर्यम् । या च सत्यवती पराशरमुनिवर्यस्त्री सा कथमनसूया अत्रिमुनिपत्नी स्यात् । इदमेकमाश्चर्यम् । इदं पुनरत्यद्भुतमत्याश्चर्यम् । एवमनेन प्रकारेण पूर्वोक्तेनोदीरितापि त्वामरुन्धती न रुन्धती प्राप्नुवती अरुन्धती । अत एव त्वामेवारि- राधयिषुराराधयितुमिच्छुरियं मम वाणी यदस्ति तत्पुनरत्याश्चर्यम् । विरोधाभासोऽलं- कारः । यैव सत्यवती पतिव्रतास्ति सा कथमनसूया स्यात् । या चानुसूया सा कथमरुन्धती वसिष्ठधर्मपत्नी स्यादिति विरोध: । अन्यार्थत्वेन तदभावः ॥ स्वे धाम्नि मे हृदि कृतस्थितिमुक्तिदेवीं कृत्वा प्रवेशमनयः स्वयमुन्मुखत्वम् । धाराधिरूढविरहव्यथितामिदानी- माधाय धैर्यमवधीरयसीत्ययुक्तम् ॥ १६ ॥ हे स्वामिन्, स्वे धाम्नि निजगृहे मे मम हृदि प्रवेशं कृत्वा तत्रैव कृतस्थितिं विहित स्थितिमुक्तिदेवीं वाग्देवीं स्वयमेवोन्मुखत्वं त्वमेवानयः नीतवानसि । त्वं पुनस्तस्या धै र्यमाधाय त्वामहं गृह्णामीत्येवं रूपं धैर्यं दत्त्वा इदानीं परां धारां काष्ठामधिरूढो यो वि रहस्तेन व्यथितां तामवधीरयस्यवगणयसीति यदित्येतदयुक्तम् ॥ इदानीं प्रेमोत्कर्षेण निजकलेवरे शिवार्धघटनेन श्रीशिवस्य हृदि नान्यस्या अवकाश इत्याशङ्कामपहरन्कविराह एका त्वमेव भवितासि मम प्रियेति दत्तं वरं स्मरसि चेद्गिरिराजपुत्र्याः । प्रेम्णा बिभर्षि कथमम्बरसिन्धुमिन्दु- लेखां च मूर्ध्नि हृदये दयितां दयां च ॥ १७ ॥ त्वमेवैका अपर्णा मम प्रिया प्रियतमा भवितासीति दत्तं वरं गिरिराजपुत्र्याः पार्वत्याः स्मरसि चेत्, हे स्वामिन्, तर्हि प्रेम्णा प्रेमभरेणाम्बरसिन्धुं गङ्गां मूर्ध्नि किं वहसि । इन्दुलेखां चन्द्रलेखां च मूर्ध्नि किं वहसि । हृदये निजे हृदये दयितां प्रियां दयां कृपां च कथं बिभर्षि धारयसि । अतो मदीयामपि वाणीं हृदि धारयेत्यर्थः ॥ एतां निसर्गसरलामभिजातमुग्धा- मद्धावधीरयसि धीरगभीरमानी । जानासि किं न शतशो नतसान्त्वनेषु यहृद्धया करुणया नरिनर्तितोऽसि ॥ १८ ॥ अद्धा निश्चये । हे स्वामिन्, धीरं गभीरं चात्मानं मन्यत इति धोरगभीरमानी त्वं निसर्गतः सरलामवक्राम् । स्वभावविमलामित्यर्थः । अभिजातमुग्धामभिजाता चासौ मुग्धा सुकुमारा च तामवधीरयसि । हे विभो, तत्किं न जानासि । तत्किमित्याह- शतश इत्यादि । शतशः शतवारं नतानां भक्तिप्रह्वाणां सान्त्वनेष्वाश्वासाय मधुरवचनेषु वृद्धया वृद्धिंगतया जरत्या च करुणया कृपया यन्नरिनर्तितोऽस्यत्यर्थं नर्तितोऽसि । अतो मदीयां वाचं मुग्धां किं त्यजसीत्यर्थः ॥ प्रस्तौति निस्त्रपतयार्तिकदर्थितेयं चाटूनि कर्तुमपि मौग्ध्यविसंस्थुलानि । कात्यायनीवचनदुर्ललितस्य तानि [^१]मुक्तोपमानि न मनस्तव नन्दयन्ति ॥ १९ ॥ हे स्वामिन्, इयं मम वाणी आर्त्या केन केन विधिना नाथस्य प्रियतमा स्यामि त्यार्त्या कदर्थिता पीडिता निस्त्रपतया निर्लज्जतया मौग्ध्येन विसंस्थुलानि विशृङ्खलानि चाटूनि सान्त्ववचनान्यपि कर्तुं प्रस्तोत्यारभते । किं तु तानि मदोयवाण्याश्चाटुवचनानि कात्यायनीवचनेषु दुर्ललितः श्रवणे नित्याभ्यस्तस्तादृशस्य तव मनो न नन्दयन्ति न रञ्ज- यन्ति । अत्र कात्यायनीति पदं साभिप्रायम् । यश्च कात्यायन्या अर्धवृद्धाया.......... बालाया वचनानि न शृणोतीत्युपहासश्च । 'कात्यायन्यर्धवृद्धा या' इत्यमरः ॥ अस्यामसह्यविरहज्वरकातरायां प्रीतिर्न ते यदि परं निरवग्रहस्य । [^२]सर्वान्तरार्तिदलनाय दृढा प्रतिज्ञा विज्ञाततत्त्व कथमीश्वर विस्मृता ते ॥ २० ॥ हे विज्ञाततत्त्व विज्ञातं तत्त्वं हृदन्तर्गतमन्तर्यामितया येन स तादृश ईश्वर, निरवग्र- हस्य निरङ्कुशस्य तव प्रीतिरसह्यो यो विरहो भवद्वियोगः स एव ज्वरस्तेन कातरायां दीनायामस्यां मम वाचि परं केवलं यदि न भवति तदा सर्वेषामान्तरान्तर्गता यार्तिः, अथ वा सर्वे ये आन्तरा मनोगता दोषास्तेषामार्तिदलनाय दृढानपायिनी प्रतिज्ञा कथं ते विभो, विस्मृता ॥ सत्यं कलां वहसि बिभ्रदुमां यदर्धे धत्से दयां हृदि ययार्तिषु नर्तयन्त्या । नीतोऽसि नीलगल नीलगलत्वमेव मद्वाचि साचि तु मुखं कुरुषे रुषेव ॥ २१ ॥ हे नीलगल नीलो गलः कालकूटाख्यविषविशेषनिगरणाद्यस्य स तादृश,सत्यमेतत् यत्त्वं चन्द्रकलां वहसि । अथ च कलां शिल्पविशेषं वा वहसि । त्वमेव कलावदग्रणीरसीति भावः । एतदेवाह-यदुमां पार्वतीमर्धे शरीरार्धे बिभ्रत्वं तां तां दयां कृपां हृदि मनसि धत्से । तां कामित्याह - यया कृपयार्थिषु सामर्थ्याद्ब्रह्मादिदेवेषु त्वां नर्तयन्त्या त्वमेव नीलगलत्वं तन्त्राणाय कालकूटविषभक्षणान्नीलकण्ठत्वं तथार्थिषु शरणं प्रार्थयत्सु त्रिलोकीजनेषु नीलगलत्वं मयूरत्वं नीतोऽसि । नर्तितोऽसीत्यर्थः । एतत्तावदास्ताम् । तुः पक्षान्तरे । हे स्वामिन्, त्वं तु मद्वाचि त्वद्विरहातुरायां रुषेव मुखं साचि वक्रं कुरुषे । [^१]. 'शक्तोपमानि' ख. [^२]. 'सर्वातुरार्ति' ख. गृह्णासि मूर्धनि जलैर्धवलैर्विलोलै- [^१]रुद्वेलितां निजपदस्खलितां द्युसिन्धुम् । एतामनन्यगतिमुज्झसि साधुवृत्तां वाचं स्वतन्त्रचरितस्य किमुच्यते ते ॥ २२ ॥ हे स्वामिन्, धवलैः स्वच्चैर्विलोलैर्जलैर्वा रिभिर्डलयोरैक्याज्जडैश्चोद्वेलितां कम्पिताम् । वेलां धर्ममर्यादामुत्क्रान्ता उद्वेला तामुद्वेलितामिति साध्वीपक्षे । तथा निजपदान्निज- स्थानात्, निजं दृढं च तत्पदं साध्वीपदं तस्मात्स्खलितां च द्युसिन्धुं गङ्गां गृह्णासि । हे स्वामिन्, अनन्यगतिं नान्यस्मिन्प्रभुव्यतिरिक्ते वर्णनीये गतिर्यस्याः सा तथानन्य- गतिं पतिव्रतां च । साधूनि शोभनानि वृत्तानि वसन्ततिलकशार्दूलविक्रीडितादीनि यस्याः सा तां साधु चारु वृत्तं चरितं यस्याः सा तां चैतां मदोयां वाचं त्यजसि । अतो द्दोतोः स्वतन्त्रचरितस्य सदा स्वतन्त्रस्य ते तव विभोः किमुच्यते ॥ किं भूयसा यदि न ते हृदयंगमेय- मस्या गृहे वससि किं हृदये मदीये । सार्धं प्रियेण वसनं तदुपेक्षणं च दुःखावहं हि मरणादपि मानिनीनाम् ॥ २३ ॥ किं भूयसा बहुनोक्तेन किम् । हे विभो, इयं मदीया वाणी चेन्न ते हृदयंगमा भवति तर्ह्यस्या गृहे निवासे मदीये हृदये किं वससि । अत्र लौकिकेन व्यवहारेण समाधत्ते - सार्धमित्यादि । हि यस्मात्कारणात्सार्धं प्रियेण मनोहरेण भर्त्रा च सह वसनं तत्रापि तदुपेक्षणं तेन कृतमुपेक्षणमवगणनं मानिनीनां मरणादपि दुःखावहं दुःखदायि भवति ॥ मातः सरस्वति बधान धूतिं त्वदीयां विज्ञप्तिमार्तिविधुरां विभवे निवेद्य । देवी शिवा शशिकला गगनापगा च कुर्वन्त्यवश्यमबलाजनपक्षपातम् ॥ २४ ॥ हे सरस्वति वाग्देवि मातर्जननि, धृतिं धैर्यं बधान । 'बध बन्धने' धातुः । चेन विभु- र्विज्ञप्तिं शृणोति कैव मम धृतिरित्याशङ्क्याह—देवीत्यादि । शिवा देवी पार्वती वामाङ्गस्था, शशिकला च शिरःस्था, गगनापगा च जटाजूटे आर्त्या विधुरां करुणां विज्ञप्तिं त्वदीयां विभवे स्वामिने परमेश्वराय निवेद्य निवेर्दायत्वावश्यमेवाबलाजनपक्षपातं स्त्रीजनस्नेहं तव कुर्वन्ति । ता देव्यः स्त्रीजनस्नेहेन विभुं त्वभिमुखं कुर्वन्तीत्यर्थः ॥ [^१]. उद्वेल्लितां' ख. पुनरपि निजां वाचं सधैर्यां करोति एषा निसर्गकुटिला यदि चन्द्रलेखा स्वर्गापगा च यदि नित्यतरङ्गितेयम् । देवी दयार्द्रहृदया तु नगेन्द्रकन्या धन्या करिष्यति न ते निबिडामवज्ञाम् ॥ २५ ॥ हे मातः सरस्वति, निसर्गतः स्वभावेन कुटिला वक्राशया च चन्द्रलेखा तथा स्व- र्गापगा गङ्गा नित्यतरङ्गिता संजातलहरीका वाक्प्रपञ्चचतुरा च यदि भवति तर्हि नगे- न्द्रतनया देवी पार्वती । नगेन्द्रतनयेति पदं साभिप्रायम् । शिलेव क्षमाशीला धन्या म हाभागा दययार्द्रहृदया ते तव दृढामवज्ञामवहेलां न करिष्यति । सैव विभुनिवेदनेन त्वदाश्वासं करिष्यतीत्यर्थः ॥ त्वामेव देवि शरणीकरवाणि वाणि कल्याणि सूक्तिभिरुपस्तुहि चन्द्रमौलिम् । मातर्नयामि न पुनर्भवतीमलीक- वाचालबालिशविलङ्घनभाजनत्वम् ॥ २६ ॥ हे देवि वाणि कल्याणि मङ्गलावहे वाग्देवि, अहं त्वामेव शरणीकरवाणि । त्वमेव सूक्तिभिः शोभनाभिरुक्तिभिश्चन्द्रमौलिं श्रीशिवमुपस्तुहि । हे मातः, अहं भवतीं वाग्दे- वीमलीकेन मिथ्यावादेन ये वाचाला बालिशा मूर्खास्तैर्विहितं यद्विलङ्घनं तिरस्कार- स्तस्य भाजनत्वं पात्रत्वं न पुनर्नयामि । 'तिरस्कृतिभाजनत्वम्' इति पाठः साधुः ॥ देवि प्रपन्नवरदे गुणगौरि गौरि यद्गौरियं परिमितं स्त्रवतीह किंचित् । तत्स्वामिने समुचिते समये सुपाक- माकूतवेदिनि निवेदयितुं प्रसीद ॥ २७ ॥ ....आकूतवेदिन्याशयज्ञे........स्वामिने परमेश्वराय निवेदयितुं विज्ञप्तुं प्रसीद । अथ च गौर्धेनुर्यत्किंचित्परिमितं क्षीरं स्रवति तच्च सुपाकं वह्निना सुपक्वं कृत्वा यथा कोऽपि प्रभवे निवेदयति ॥ स्वेच्छाविकल्पितमदृष्टविशिष्टपाकं मात्राविहीनमिदमार्यजनैरजुष्टम् । उन्मत्तभाषितमथापि भवत्यवश्यं सद्भेषजं विषमयस्य भवामयस्य ॥ २८ ॥ स्वेच्छया स्वातन्त्र्येण विकल्पितं निर्मितम् । तथा न दृष्टो विशिष्टपाकः प्रौढत्व रूपो येन तत् । तथा मात्रया इदमियदेव वाच्यमिति परिमाणेन विहीनम् । प्रलापरूप- मित्यर्थः । तथा आर्यजनः पूज्यतमलोकस्तेनाजुष्टमसेवितमिदं मम वचनं भवति अथा- प्येवमपि सति इदं मम वचनं विषमयस्य विषप्रकृतेर्भवामयस्य भवरोगस्य भेषजमौषधं भवति । सुखस्यापि परिणामदुःखत्वाद्विषमयस्येत्यर्थः । यद्यपि मम वचनमुन्मत्तजल्पि- तमिवासमञ्जसं तथापि श्रीशिवभक्तिरसामृतमयत्वात्कस्यापि भक्तजनस्य भवरोगौषधं भवतीत्यर्थः ॥ भालानलं तव यथा मुकुटस्थितैव शक्नोति नो शमयितुं [^१]किल सिद्धसिन्धुः । तद्वज्ज्वलन्तमनिशं हृदि शोकवह्निं वक्त्रे वसन्त्यपि ममात्र सरस्वतीयम् ॥ २९ ॥ हे स्वामिन्, तव मुकुटस्थितैव सिद्धसिन्धुर्गङ्गा तव भालानलं ललाटस्थितनेत्राग्निं शमयितुं यथा न शक्नोति न क्षमते। किल निश्चये । तद्वत्तथा दिवानिशं मम हृदि ज्व- लन्तं शोकवह्निं जरामरणचिन्ताजनितदुःखाग्निं शमयितुं अत्र वक्त्रेऽपि मुखेऽपि वसन्तोयं मम सरस्वती वाण्येव सरस्वती नदी न शक्नोति । त्वत्कृपां विनेति शेषः ॥ प्राक्चेन्मया विहितमाविलमेव कर्म स्वामिन्कुतस्त्वयि ममैष दृढोऽनुरागः । एकान्तशुक्लमथ चेदतिदुःसहोऽयं शोकानलो हृदयदाहकरः किमन्तः ॥ ३० ॥ हे स्वामिन्, प्राग्जन्मनि मया आविलं कलुषमेव कर्म चेद्यदि विहितं कृतं तदा एष दृढोऽनुरागो भक्तिरसग्रहस्त्वयि विषये कुतो मम स्यात् । अथानन्तरं यदि मया कर्म शुक्लमेव कृतं तर्हि हृदयदाहकरो ममान्तर्दाहकरोऽतिशयेन दुःसहो जरामरणशोकाग्नि- रन्तः किं स्यात् ॥ क्वाप्यन्यजन्मनि विधाय विभोरवश्य- माराधनामनुशयालु मनो ममाभूत् । नो चेत्कथं कुलगुणादिपवित्रमेत- त्सर्वं नृजन्म मम निष्फलमेव जातम् ॥ ३१ ॥ हे स्वामिन्, कापि प्राग्जन्मनि विभोः श्रीशंभोराराधनां वाङ्मनः कर्मभिः श्रीशि षभट्टारकोपासां कृत्वापि मम मनोऽवश्यमेवानुशयालु सपश्चात्तापमभूदिति जाने। 'रन्ध्रे [^१]. 'शिव' ख. शब्देऽथानुशयो दीर्घद्वेषानुतापयोः' इति शाश्वतः । एवं नो चेत्स्यात्कथं तर्हि कुलगुणा- दिभिः पवित्रमप्येतन्मम नृजन्म मनुष्यजन्म निष्फलं कथं जातम् । कतिपयफलमिति शेषः । त्वद्भक्तिरसग्रहे तु तस्य सर्वथा साफल्यमेवेति भावः ॥ मानुष्यनावम[^१]धिगम्य चिरादवाप्य निस्तारकं च करुणाभरणं भवन्तम् । यस्याभवद्भरघशस्तरितुं भवाब्धिं सोऽहं ब्रुडामि यदि कस्य विडम्बनेयम् ॥ ३२ ॥ हे विभो, चिरात्प्राचीनानेकजन्मान्तरं मानुषस्य भावो मानुष्यं मनुष्यजन्मैव नौस्त- रणिस्तामधिगम्य लब्ध्वा तथा चिरात्प्राक्तनानेक जन्मपरम्परोपार्जितसुकृतपरिपाकेन करुणाभरणं कृपालंकरणं भवन्तं त्वादृशं निस्तारकम् । अपार भवार्णवादिति शेषः । एवंभूतं विभुं प्राप्य यस्य मम भवाब्धिं संसाराब्धि तरितुं भरवशो महान्प्रत्ययः । 'भरोसा' इति भाषया । अभूत् स एवाहं यदि तत्रैव भवाम्बुधौ ब्रुडामि मज्जामि तर्हीयं विडम्बनालोकोपहासः कस्य भवति । अर्थात्तवैव ॥ स्वामी प्रसादमुपकारिषु सेवकेषु योग्येषु साधुषु करोति किमत्र चित्रम् । सन्तस्त्वभाजनजनेष्वपि निर्निमित्तं चित्तं वहन्ति करुणामृतसारसिक्तम् ॥ ३३ ॥ स्वामी विभुरुपकारिषु वाङ्मनःकायकर्मभिर्नित्यमुपासनारूपोपकारकर्तृषु सेवकेषु नि- तान्तमेव सेवापरेषु योग्येषु कुलाचारशीलादिगुणैरलंकृतेषु साधुषु विनीतेषु भक्तजनेषु यदि प्रसादं करोति अत्र विषये किं चित्रम् । न किंचिदित्यर्थः । तुः पक्षान्तरे । सन्तः सहृदया अभाजनजनेष्वपात्रेष्वपि निष्कारणं कृपामृतसारेण सिक्तं चित्तं वहन्ति । अ पात्रेष्वपि निर्हेतु दयां विदधतीत्यर्थः ॥ एतद्वृत्तानुसारेण मदीयमपि वृत्तमेकम् – 'भव- दङ्घ्रिसरोजसेविनि प्रकटं चेत्तनुरेव ते कृपा । यदि नाथ तदास्थताश्रिते मयि दृश्येत तदैव ते कृपा (?) ॥' इति ॥ तस्मात्समाप्तसकलाभ्युदयाभ्युपाय- मायस्तचेतसमसंभवभग्नवृत्तम् । सीदन्तमन्तकभयादभयार्पणेन संभावय स्वयमनर्थकदर्थितं माम् ॥ ३४ ॥ तस्माद्धेतोः समाप्ताः समाप्तिं गता अविद्यमानाः सकला अभ्युदयाभ्युपाया उदयो [^१]. 'अधिरुह्य' क. पाया यस्य तादृशम् । तथा आयस्तं सायासं चेतो यस्य स तादृशम् । तथा असंभवेन कस्यापि प्रयोजनभूतवस्तुनोऽभावेन दारिद्र्यपर्यायेण भग्नं वृत्तमाचारो यस्य स तादृशम् । तथा अन्तकभयान्मृत्युभयात्सीदन्तम् । तथा अनर्थैर्जरामरणत्रासादिभिः कदर्थितं व्य थितं मां वराकमभयार्पणेन मा भैषीरिति वचनामृताभयदानेन स्वयं संभावय सादरं कुरु ॥ त्वां नीतिमान्भजति यः स भवत्यनीति- र्मुक्तः स यो हि भविता हृदयान्न मुक्तः । यस्ते रतोऽपचितयेऽपचितिं स नैति तत्त्वां श्रितोऽस्मि भवमस्म्यभवो न कस्मात् ॥ ३५ ॥ हे नाथ, नीतिः कार्याकार्यविचारो यस्य स तादृग्यो मर्त्यः सोऽनीतिरविद्यमाना ईतय उपद्रवा यस्य स तादृग्भवति । तथा यो नरो भवता प्रभुणा हृदयात्स्वचेतसो न मुक्तः । हि निश्चये । स मुक्त ऐकान्तिकाद्यन्तिकदुःखान्मुक्तो मोक्षपदवीं प्राप्तः । तथा यः पु- मान् तव विभोरपचितये पूजायै रतः सोऽपचितिमपचयं हीनतां नैति न प्राप्नोति । एत- द्वृत्तपादत्रयार्थान्वये सत्यपि व्यतिरेकमाह - तत्त्वामिति । हे शंभो, तत्तस्मात्कारणात्त्वां भवं भवत्यस्माद्ब्रह्मादिकारणषट्कप्रादुर्भाव इति भवस्तं त्वां श्रितोऽस्मि शरणं प्रपन्नो- ऽस्मि । अहं त्वभवोऽविद्यमानसंसार : कस्मान्नास्मि । अत्र नीतिमाननीतिः, मुक्तो न मुक्तः, अपचितिरतोऽपचितिं नैतीति विरोधाभासः । अन्यार्थत्वे तदभावः ॥ स्वापः सचिन्तमनसो निशि मे दुरापो निर्दाह एव गमयामि कदा सदाहः । रक्ष त्वदेकवशगं शिव मामवश्यं कस्माद्भवस्यपरुषो मम कर्कशस्त्वम् ॥ ३६ ॥ हे शिव, निशि रात्रौ सचिन्तमनसः सचिन्तं जरामरणचिन्तासहितं मनो यस्य स तादृशस्तस्य मे स्वापो निद्रापरपर्यायो दुरापो दुष्प्रापो भवति । कविः स्वात्मानं विनो- दयति — निर्दाह इति । भवदनुग्रहेणेति शेषः । भवदनुग्रहेण कदा निर्दाहोऽन्तर्दाहरहितो- ऽहः दिनम् । जातावेकवचनम् । अहानि गमयाम्यतिवाहयामि । हे शिव, त्वयि विषये एकश्चासौ वशगस्तं त्वदधीनं मामवश्यं निश्चितमेव रक्ष । तथा अपरुषोऽपगता रुट् रोषो यस्य स तादृशस्य मम त्वं कर्कशो निर्दयः कस्माद्भवसि । अत्रापि विरोधाभासो- ऽलंकारः । यः स्वापः सुखेनाप्यते स कथं दुरापः । तथा यो निर्दाहः स कथं सदाहः । तथा यो वशगः स कथमवश्यः । तथा योऽपरुषः (कोमलः) स कथं कर्कश इति विरोधः । अन्यार्थत्वे तदभावः ॥ पापः खलोऽयमिति नार्हसि मा विहातुं किं रक्षया कृतमतेरकुतोभयस्य । यस्मादसाधुरधमोहमपुण्यकर्मा तस्मात्तवास्मि सुतरामनुकम्पनीयः ॥ ३७ ॥ अयं खलः पिशुनः पापः पापीयानिति हेतोर्मां वराकं विहातुं नार्हसि । अत्र हेतु- माह–कृतमतेः प्राज्ञस्याकुतोभयस्य कुतोऽपि भयरहितस्य रक्षया पालनेन किम् । एतदेव पुनरपि समर्थयति — अहं त्वसाधुरसज्जनः अधमो नीच: अपुण्यकर्मा पापी यतो- ऽस्मि तस्मात्तव दयालोः सुतरामनुकम्पनीयोऽस्मि ॥ स्वैरेव यद्यपि गतोऽहमघः कुकृत्यै- स्तत्रापि नाथ न तवास्म्यवलेपपात्रम् । दृप्तः पशुः पतति यः स्वयमन्धकूपे नोपेक्षते तमपि कारुणिको हि लोकः ॥ ३८ ॥ हे नाथ शंभो, अहं पापी कुकृत्यैरतिकुत्सितकर्मभिर्यद्यप्यधोगतोऽस्मि अधोगतिं प्राप्तोऽस्मि तथापि तव विभोर्दयालोरवलेपपात्रमवगणनापात्रं नास्मि । दृष्टं चैतत् - यः पशुर्वर्करादिर्दृप्तस्तारुण्यमदेन सवर्गः स्वयमेवान्धकूपे सान्धतमसान्धौ पतति । हि नि- श्चये । तमपि पशुं कारुणिकोऽत्यन्तदयालुर्लोको नोपेक्षते नावगणयति । तं तादृशं मग्नं दृष्ट्वा ततो यत्नेनोद्धरतीत्यर्थः ॥ अत्युन्नतान्निजपदाच्चपलश्र्व्युतोऽयं भूरीन्भ्रमिष्यति जडप्रकृतिः कुमार्गान् । त्वेति चेत्त्यजसि मामयमीदृगेव गाङ्गस्त्वया किमिति मूर्ध्नि धृतः प्रवाहः ॥ ३९ ॥ [^१]हन्तायमार्तिमपि नारकिणां धृतश्चे- न्मूर्ध्ना [^२]किलेति वहसे यदि गाङ्गमोघम् । एतत्तवोचितमनाथजनार्तिभङ्ग- हेवाकिनो घनघृणामृतसागरस्य ॥ ४० ॥ अस्मादृशस्य रसना तु सहस्त्रधेयं गच्छेदवाप्य तव शीर्षमितीरयन्ती । [^१]. 'हर्ता' ख. [^२]. 'मयेति' ख. किं तूद्धरामि भवदग्रपदावमर्शमात्रादहं त्रिजगतीमिति मे प्रतिज्ञा ॥ ४१ ॥ (तिलकम्)[^१] हे नाथ, निजं स्वकीयं यत्पदं सद्भिः सहनीयं तस्माद्यतोऽयं जडप्रकृतिर्दुष्टात्मा च- पलश्चलस्वभावः कुमार्गाञ्शिवशासनव्यतिरिक्तानत्यन्तकुत्सितमार्गान्भूरीन्बहून्भ्रमिष्यतीति मत्वा चेन्मां त्यजसि तर्हीदृगेवायं निजपदात्सत्यलोकाच्युतश्चपलो लोलो जडप्र- कृतिः । लडयोरैक्याज्जडप्रकृतिः । कुमार्गान्कोभूमेर्मार्गास्तान्भ्रमति । अत एवेदृगेवायं गाङ्गस्त्रिस्रोतःसंबन्धी प्रवाहो मूर्ध्नि शिरसि त्वया किमिति धृत इति शिवैकताध्यानाद- त्यन्तपरिचितमात्मानं मन्यमानस्य कवेरुक्तिः । शब्दश्लेषोऽलंकारः ॥ किल निश्चये मूर्ध्ना शिरसा धृतश्चेत्तदायं गाङ्ग ओघो नारकिणां नरको विद्यते येषां ते नारकिणः पात- किनस्तेषामार्ति हन्ता दूरोकर्तेति हेतोर्हे नाथ, त्वं चेद्गाङ्गमोघं शिरसि वहसे धारयसि तदा घना या घृणा दया सैवामृतं रसायनं तत्सागरस्य तथा नाथजनस्याशरणजनस्या- र्तिभङ्गे हेवाकिनो व्यसनिनस्तव विभोरेतदुचितमेव । 'स्यान्नारकस्तु नरकः' इत्यमरः । 'धृतश्चेन्मूर्ध्ना मया' इति पाठे पौनरुक्त्याशङ्का । तुः पक्षान्तरे । अस्मादृशस्य भक्तजन- स्येयं रसना जिह्वा इतीरयन्ती सहस्रधा गच्छेत्खण्डशो गच्छतु । इति किमिति । तव शीर्षं शिरोऽवाप्यापरिमितजन्मपरम्परोपार्जितसुकृतपरीपाकेण प्राप्याहं सुखं तिष्ठामि । गङ्गावदित्यध्याहारः । स्वाभिमतमाह - किं त्वित्यादि । किं तु पक्षान्तरे । भवच्छोर्ष- प्राप्तिमनोरथस्य कैव कथा । भवदीयचरणाग्रस्पर्शमात्रादपि यद्यहं चरणाग्रमात्रस्पर्शमपि कदाचिल्लभेय तदा त्रिजगतीं त्रैलोक्यमपि क्षणादुद्धरामीति मे प्रतिज्ञा । नारकिणामुद्ध- रणे तु कैव कथेति भावः ॥ क्षामो निकामजडिमा कुटिलः कलावा- न्दोषाकरोऽयमिति चेत्त्यजसि प्रभो माम् । एतादृशैरुपगतोऽपि समस्तदोषैः कस्मात्त्वया शिरसि नाथ धृतः शशाङ्कः ॥ ४२ ॥ हे नाथ, अयं क्षामोऽत्यन्तकृशः निकामं नितरां जडिमा मौर्ख्यं यस्य स तादृक् कु- टिलः कुटिलाशयः कलावान्परवञ्चनचातुर्ययुक्तः । तथा दोषाणां परद्रव्यहरणपरहिंसादो- नामाकर उत्पत्तिस्थानमिति हेतोश्चेन्मां त्यजसि तह्येतादृशैरव क्षामत्वादिभिरुपगत- श्चन्द्रः । चन्द्रपक्षे क्षामः कृशः । एककलात्वात् । निकामजडिमात्यन्तशीतांशुः । क- लावान् । पूर्वोक्तहेतोः । दोषां रात्रि करोतीति दोषाकरः । अत एवैतादृशोऽपि शशा- ङ्कस्त्वया कस्माच्छिरसि धृतः ॥ शान्ता कृतिर्द्विजपतिर्विमलः कलङ्कमुक्तः किलेति यदि मूर्ध्नि विधुं बिभर्षि । [^१]. 'संदानितकम्' ख. एवंविधोऽपि भवता कथमङ्घ्रिपीठ- प्रान्तेऽपि धर्तु[^१]मुचितो न समर्थितोऽहम् ॥ ४३ ॥ हे नाथ, शान्ता अतिशीतलांशुत्वादाकृतिर्यस्य स तादृशः । तथा द्विजानां नक्षत्राणां पतिः । तथा कलङ्केन मुक्तः । एककलात्वात् । अत एव विमलः स्वच्छः । किल नि श्चये । अयं चन्द्र इति चेन्मूर्ध्नि शिरसि विधुं विभर्षि । एवंविधोऽपि यथा - शान्ता श मदमादियुक्ता आकृतिर्यस्य तथा द्विजानामग्न्यजन्मनां पतिः । तथा कलङ्केनाकुलीन- त्वदुःशीलवादिना मुक्तः । अत एव विमलो निष्पापोऽहम् । तिष्ठतु तावच्छिरसि धार णमङ्घ्रिपीठप्रान्तेऽपि पादपीठप्रान्ते धर्तुं समुचितः सन् किं न भवता प्रभुणा समर्थितः सादरीकृतः ॥ पापग्रहो धृतिमुपैति विना परेषां न स्वापहारमयमित्यथ मां जहासि । एवंविधोऽपि तव दक्षिणदृष्टिपात- पात्रत्वमीश्वर कथं रुचिमानुपेतः ॥ ४४ ॥ हे ईश्वर परमेश्वर, अथानन्तरं पापे ग्रहो हेवाको यस्य स पापग्रहोऽयं मल्लक्षणः परेषां जनानां स्वापहारं स्वस्य धनस्यापहारोऽपहरणं विना धृतिं धैर्यं नैति न लभते इति है- त्तोर्मां चेत्त्यजसि एवंविधोऽपि रुचिमान्सूर्यः पापग्रहोऽनिष्टफलदायी ग्रहः । क्षीणे- न्द्वर्कयमाराः पापाः' इति संहिताविदः । तथापरेषां जनानां स्वापस्य निद्राया हारो ह रणं तं विना धृतिं स्थैर्यं न लभते ईदृशोऽपि भास्वांस्तव विभोर्दक्षिणा या दृष्टिर्लों- चनं तत्र पातो दर्शनं पक्षपातः स्नेहश्च तत्पात्रत्वं कथमुपेतो गतः । अत्रापि शब्दश्लेषः पूर्वत्र च ॥ मित्रत्वमेष भवतो गुणिबन्धुतां च प्रख्याप्य चेदुपगतस्तव वल्लभत्वम् । दासत्वमेव तव नित्यमुपेत्य भूत्वा सेवापरश्च गुणिनां कथमप्रियोऽहम् ॥ ४५ ॥ हे नाथ, भवतस्तव मित्रत्वं मेद्यति स्नेहयति भूमिं मित्रः सूर्यस्तत्त्वं सखित्वं च तथा गुणाः सूक्ष्मतन्तवो विद्यन्ते येषां ते गुणिनः पद्मास्तेषां बान्धवः । विकासकत्वात् । तथा गुणिनां दयादाक्षिण्यादिगुणयुक्तानां बन्धुस्तद्भावं च प्रख्याप्य प्रकाश्य यद्येष रु- चिमान्सूर्यस्तव विभोर्वल्लभत्वं प्रियत्वमुपगतस्तर्हि तत्र नित्यं दासत्वं दीयतेऽस्मै स्वामिना सर्वे यथाभिलषितमिति दासस्तस्य भावस्तत्वमुपेत्य प्राप्य गुणिनां विदुषां सेवापरश्च भूत्वाहं कथं तवाप्रियोऽवल्लभोऽस्मि ॥ [^१]. 'उचितं' ख. अत्यूष्मलं मलिनमार्गमनेकजिह्वं स्पर्शेऽप्यनर्हमवधार्य जहासि चेन्माम् । एतादृशोऽपि शुभदृष्टिनिवेशनस्य पात्रीकृतः कथमयं भवताश्रयाशः ॥ ४६ ॥ हे विभो, अत्यूष्मलमतिशयेन संतापकरं सगर्वम् । तथा मलिनः पापो मार्गो वर्त्म यस्य स तादृशम् । तथानेका जिह्वाः क्षणं क्षणमसत्यवादितया यस्य स तादृशम् । तथा स्पर्शेऽप्यनर्हमयोग्यमवधार्य निश्चित्य चेन्मां जहासि तह्येतादृशोऽपि अत्यूष्मलोऽतिसं- तापवान् मलिनमार्गः कृष्णवर्त्मा अनेकजिह्वः सप्तजिह्वः स्पर्शेऽप्यनर्होऽयमाश्रयाशो हु ताश: शुभा दृष्टिस्तृतीयलोचनं सपक्षपातावलोकनं च तस्यां निवेशनं स्थापनं तस्य कथं त्वया पात्रीकृतः । आश्रयाश इति पदं साभिप्रायम् । आश्रयमेव निजमश्नातीति ॥ यद्बन्धुजीवदलसद्रुचिरर्थिभाव- मायाति साधु विबुधव्रजजीवनाय । यन्मित्रमण्डलमुखेन च विश्वमेष पुष्णाति तेन दहने यदि सादरोऽपि ॥ १७ ॥ आप्यायनं सुमनसामनिशं विधातु- मर्थीभवामि यदि कोऽपि न मेऽस्ति दाता । कर्तुं च बन्धुजनजीवनमक्षमोऽहं विश्वं च पोषयितुमीष सुहन्मु[^१]खेन ॥ ४८ ॥ तेनात्र मां निरपराधमवेहि देहि दृष्टिं प्रसादविशदाममृतद्रवार्द्राम् । दीनं दयास्पदमदभ्रमदभ्रमेण भ्रूविभ्रमेण सदयं भज भङ्गुरेण ॥ १९ ॥ (तिलकम् )[^२] बन्धुजीवाख्यानि लोहितपुष्पाणि तेषां दलानि तद्वत्सती शोभना रुचिर्यस्य सः । तथा बन्धूनां बान्धवानां जीवं ददाति या तादृशी लसन्ती रुचिर्यस्य स तादृशश्च साधु कृत्वा एषोऽग्निर्विबुधानां देवानां व्रजः समूहस्तस्य जीवनायाप्यायनाय यदर्थिभावं साज्याद्याहुतिप्रार्थकत्वमायाति तथा विबुधानां विदुषां च व्रजस्तेषां जीवनायार्थिभावमा याति । तथा मित्रस्य सूर्यस्य मण्डलं बिम्बं तन्मुखेन दिनान्ते । 'रात्रौ सावित्रं तेजोऽग्नौ प्रविशति' इति स्मृति: । तथा मित्राणां सुहृदां मण्डलं समूहस्तन्मुखेन । यच्चैषो [^१]. 'मुखेषु' ख. [^२]. 'संदानितकम्' ख. ऽग्निर्विश्वं जगत्पुष्णाति तेन हेतुना हे नाथ, दहनेऽग्नौ यदि सादरोऽसि । पूर्ववृत्तप्रस्तुतार्थ- साम्येन समर्थयति – आप्यायनमिति । हे ईश, सुमनसां देवानां पण्डितानां चानिशं स- दाप्यायनं जीवनं विधातुं यद्यर्थीभवामि तादृशः कोऽपि तावदन्यो नास्ति यो मन्मुखेन तानाप्याययेत् । बन्धुजनस्य जीवनमाप्यायनं च कर्तुं स्वयमक्षमो विश्वं च जगत्सुहृन्मु- खेन मित्रमुखेन पोषयितुमसमर्थोऽहम् । तेन हेतुना हे ईश, अत्र विषये पूर्वोक्ते मां नि- रपराधमवेहि वेत्सि । प्रसादेन नैर्मल्येन विषदां दृष्टिममृतद्रवेण कृपामृतरसेनार्द्रो देहि । दयापात्रं मां दीनं कातरं सदयं सकृपं भजस्व । केन । भ्रूविभ्रमेण भ्रुवोर्विभ्रमो विलासस्तेन भ्रूविक्षेपेण । किं भूतेन । अदभ्रमदभ्रमेण अदभ्रो घनो मदेन हर्षेण भ्रमो यस्य स तादृशेन । तिलकम् ॥ अन्वग्रहीरमलदृष्टिसमर्पणेन मित्रं शुचिं द्विजपतिं यदि युक्तमेतत् । एवंविधेऽपि भगवन्दृशमप्रसन्नां धत्से मयीति विधिरेष पराङ्मुखो मे ॥ १० ॥ हे भगवञ्शंभो, त्वममलेन निर्मलेन दृष्टिसमर्पणेन दृष्टीनां समर्पणं तेन मित्रं सूर्यं शुचिमग्निं द्विजपतिं नक्षत्रेशं चन्द्रं च यद्यन्वग्रहीरनुगृहीतवानसि तदेतद्युक्तम् । एवंवि धेऽपि मित्रे सकलजनसुहृदि शुचौ पवित्रे निर्दोषे द्विजपतौ ब्राह्मणश्रेष्ठे चाप्रसन्नां क लुषां दृष्टिं मयि दीने धत्स इति यत्तदेष विधिर्दैवं पराङ्मुखो मे ममास्ति । अभाग्यचातुरी ममैषेत्यर्थः ॥ निष्कर्ण एष कुसृतिव्यसनी द्विजिह्वो मत्वेऽति चेत्त्यजसि निःशरणं प्रभो माम् । एतादृशोऽपि पवनाशन एष कस्मा- च्छ्रीकण्ठ कण्ठपुलिने भवता गृहीतः ॥ ११ ॥ हे प्रभो, निष्कर्ण: कुसृतिव्यसनयुक्तस्तथा द्विजिह्वोऽसत्यवादित्वात् । इति मत्वा मां निःशरणं दीनं चेत्त्यजसि तदेतादृशोऽपि निष्कर्णश्चक्षुःश्रवत्वात् । कौ भूमौ सृतिः सरणं तत्र व्यसनी द्विजिह्वश्चैष पवनाशनः सर्पो वासुकिः हे श्रीकण्ठ, भवता किं कण्ठपुलिने कण्ठतटे गृहीतः ॥ जिह्वासहस्रयुगलेन पुरा स्तुतस्त्व- मेतेन तेन यदि तिष्ठति कण्ठपीठे । एकैव मे तव नुतौ रसनास्ति तेन स्थानं महेश भवदङ्घ्रितले ममास्तु ॥ १२ ॥ हे महेश परमशिव, एतेन शेषनागेन पुरा पूर्वं जिह्वासहस्रयुगलेन । सहस्रशिरस्त्वा- च्छेषस्य । यतस्त्वं स्तुतस्तेन हेतुना यदि तव कण्ठपीठेऽत्यन्तदुर्लभे स तिष्ठति तदा मे मम तव नुतौ स्तुतावेकैव रसना जिह्वास्ति तेन हेतुना हे शंभो, भवदङ्घ्रितल एव मम स्थानमस्तु । एवशब्दश्चार्थः ॥ शृङ्गी विवेकरहितः पशुरुन्मदोऽयं मत्वेति चेत्परिहरस्यतिकातरं माम् । एवंविधोऽपि वृषभश्चरणार्पणेन नीतस्त्वया कथमनुग्रहभाजनत्वम् ॥ १३ ॥ हे महेश, शृङ्गी अत्यन्तगर्ववान् निर्विवेकः पशुः पशुप्राय उन्मदश्चायं मल्लक्षण इति मत्वा चेदतिकातरमतिदीनं त्यजसि हे महेश, एवंविधोऽपि वृषभः शाक्वरश्चरणार्पणेना- नुग्रहभाजनत्वं प्रसादपात्रत्वं त्वया कथं नीतः ॥ एतद्वृत्तानुसारेण ममापीदं वृत्तमेकम् – 'अज्ञेऽपि पामरजनादरभाजनेऽपि मय्यातनोति करुणां गिरिशो दयालुः । हित्वा श तानि गजराजहयोत्तमानामङ्गीचकार स जरद्गवमेव देवः ॥' इति । जरद्गृद्धो गौर्वृषभो जरद्गवस्तम् ॥ पृष्ठे भवन्तमयमुद्वहते कदाचि- देतावता यदि तवैति दयास्पदत्वम् । स्वामिन्नहं तु हृदयेऽन्वहमुद्वहामि त्वामित्यतः कथमहो न तवानुकम्प्यः ॥ ५४ ॥ हे महेश, अयं वृषभः कदाचिद्भवन्तमिच्छानुसारेण पृष्ठे निजपृष्ठे धारयते यत् ए तावता हेतुना यदि स तव दयास्पदत्वं कृपापात्रतामेति तर्हि हे स्वामिन्, तुः पक्षा- न्तरे । अहं तु हृदये स्वहृद्यन्वहं प्रतिक्षणं त्वामुद्वहामीत्यतो येतोः अहो आश्चर्ये कथं न तवानुकम्पनीयोऽस्मि ॥ पूर्वोक्तवृत्तानामाशयानुसारेण ममापीदं वृत्तद्वयम् – 'दो- षाकरः शिरसि कण्ठतले द्विजिह्वः शृङ्गी च यस्य वृषभोऽपि हि पादमूले । द्वारान्तिकं कथमुपैमि हि भैरवस्य तस्य प्रभोर्विशरणः कृपणोऽतिसाधुः ॥ दोषाकरः सकुटिलो व सतिश्च शृङ्गी कोपी सदा बहुतरामपि स द्विजिह्वः । एते यदि प्रियतरा भवतस्तदाहमे- कोऽस्मि तादृगिह मां शिव किं त्यजेथाः ॥' इति ॥ क्रूरः पराङ्मुखमसावनृजुर्जहाति योग्यं गुणग्रहणकर्मणि मार्गणौघम् । मत्वेति चेत्त्यजसि मां कथमीदृगेव स्वामिन्धृतः करतले भवता पिनाकः ॥ १९ ॥ मार्गणौघं मार्गणानां याचकानामोघं समूहं पराङ्मुखं कृत्वा जहाति इति मत्वा चेन्मां त्यजसि हे स्वामिन्, तादृगेव क्रूरः कर्कशः गुणस्य प्रत्यश्चाया ग्रहणकर्मणि योग्यं मार्गणौघं शरसमूहं पराङ्मुखं त्यजन्पिनाकोऽजगवं धनुर्विशेषः करतले त्वया कथं धृतः ॥ कोटिं परामुपगतेऽपि गुणे नितान्तं नम्रं विमृश्य यदि नाजगवं जहासि । स्वल्पे गुणेऽपि नतिमानतिमात्रमेव किं [^१]तच्च येन न भवामि तवानुकम्प्यः ॥ १६ ॥ परां कोटिं धनुरग्रं संख्याविशेषं चोपगते गुणे प्रत्यञ्चायां दयादाक्षिण्यादौ च निता- न्तमत्यन्तमेव नम्रं नतं विनीतं च विमृश्य हे स्वामिन्, अजगवं धनुर्विशेषं यदि न त्य- जसि तदा स्वल्पे गुणे दयादाक्षिण्यादावप्यतिमात्रमत्यन्तं नतिमान् विनीतोऽस्मि । तच्च किं भवति येन तव नानुकम्प्यो भवामि ॥ अत्यन्ततीक्ष्णमतिकर्कशमार्जवेन कृत्वा प्रवेशमतिमात्रमरुंतुदं माम् । मत्वा जहासि यदि नाथ किमर्थमेत- देवंविधं वहसि हस्तगतं त्रिशूलम् ॥ १७ ॥ अत्यन्तं तीक्ष्णं सरोषमतिकर्कशं कठोरहृदयमभिमुखे आर्जवेन सरलतया प्रवेशं कृत्वा पश्चादतिमात्रमतिशयेनारुंतुदं मर्मव्यथाजनकं मां हे नाथ, यदि जहासि तर्ह्येवं- विधमतितीक्ष्णधारमतिकठोरमार्जवेनान्तःप्रवेशं कृत्वात्यन्त मर्मव्यथाजनकं हस्तगतं त्रि- शूलमायुधविशेषं किं वहसि ॥ ज्ञात्वाथ चेत्समरसंहितकर्मयोग्यं कोटित्रयोज्ज्वलमुखं त्रिशिखं बिभर्षि । निःस्वं न किं समरसं हितकर्मयोग्यं मां वेत्सि येन कुरुषे मयि न प्रसादम् ॥ १८ ॥ समरसंहितकर्मयोग्यं समरे युद्धे संहितं यत्कर्म तत्र योग्यम् । तथा समरसं तथा हितकर्मयोग्यं च । तथा कोटित्रयोज्ज्वलमुखं कोटीनामग्राणां शिखापर्यायाणां त्रयेणो- ज्ज्वलानि मुखान्यग्राणि यस्य तत एवंविधं ज्ञात्वा त्रिशिखं त्रिशूलं चेद्बिभर्षि तर्हि हे विभो, मां निःस्वं विधनं समरसं सर्वत्र तुल्यरसं हितकर्मणि सर्वेषां योग्यं च किं न वेत्सि । अपि तु वेत्स्येव । येन हेतुना मयि विषये प्रसादं न कुरुषे ॥ [^१]. 'नास्मि' ख. न्यग्भावितद्विजमखर्वितपूर्वदेव- गुर्वापदर्पणपरं कृतगोत्रभेदम् । संभाव्य चेत्त्यजसि मां कथमीदृगेव नेत्रोत्सवस्तव जगद्विजयी कुमारः ॥ ५९ ॥ हे स्वामिन्, न्यग्भाविता न्यक्कृता द्विजा ब्राह्मणा येन स तादृशम् । तथा पूर्वमख- र्विता देवा आचार्याश्च तेषामापदर्पणे दौःस्थ्यदाने परं रतम् । कृतो दौःशील्याद्गोत्रभेदो येन स तादृशम् । संभाव्य मत्वा चेन्मां त्यजसि तर्हीदृगेव न्यग्भावितोऽधोकृतो वाह- नत्वाद्द्विजो मयूरो येन स तादृशः । तथाखर्विता महान्तो ये पूर्वदेवगुरवः सुरद्विषां गुर- वस्तेषामापदर्पणे परस्तत्परः । तथा कृतो गोत्रस्य गिरेः क्रौञ्चाख्यस्य भेदो येन स कृतगोत्रभेदः जगद्विजयी त्रैलोक्यजेता कुमारो महासेनः कथं तव नेत्रोत्सवो नयनप्र- काशकरः । अतिप्रियः सुत इत्यर्थः । अर्थवशाद्विभक्तिविपरिणामः ॥ मत्वाथ नाथ शुचिजातिममुं विशाख- मस्मिन्मनो यदि बिभर्षि दृढप्रसादम् । एवंविधोऽप्यहमनन्यपरायणस्ते कस्माद्भवामि भगवन्नवलेपभूमिः ॥ ६० ॥ हे नाथ, अथानन्तरं शुचिजातिं शुचेरग्नेः सकाशाज्जातिर्जन्म यस्य स तादृशस्तम् । उमया त्रैयम्बकं वीर्यं वोडुमक्षमयाग्नौ तद्वीर्यं क्षिप्तमित्यग्निभूः कुमार इति स्मृतिः । विशाखं कुमारं मत्वास्मिन्कुमारे यदि मनो दृढप्रसादं बिभर्षि तह्येवंविधोऽपि शुचि- जातिः शुचिः पवित्रा अग्र्यजन्मत्वाज्जातिर्यस्य सः । तथा विशाखो निःशाखोऽहमन- न्यपरायणोऽनन्यगतिकः हे नाथ कस्मात्तवावलेपभूमिरवगणनास्पदमहं भवामि ॥ सर्वापहाररतिरुन्मदवक्रवक्त्र- स्त्याज्योऽस्मि कर्णचपलो यदि तुन्दिलस्ते । एवंविधोऽपि भगवन्गणनायकत्वे कस्मादयं गजमुखो भवता नियुक्तः ॥ ६१ ॥ हे भगवन्, सर्वस्य वस्तुनो यत्र कुत्रापि लब्धस्यापहारस्तत्र रतिः सुखं यस्य सः । तथोन्मदं सहर्षं वक्रं कुटिलं वक्त्रं यस्य स तादृक् । तथा कर्णाभ्यां चपलो मुहुर्मुहुः कर्णतालकरः । तथा तुन्दिलो बृहज्जठरोऽयं गजमुखो गणपतिस्त्वया कस्माद्गणानां महा- कालनन्दिप्रभृतीनां नायकत्वे नियुक्त आज्ञप्तः । 'सर्वापहारो गजास्यः' इत्यमरमाला ॥ हस्तं सदा वहति दानजलावसिक्तं तेनैष[^१] चेदलभत प्रमथाधिपत्यम् । [^१]. 'तेनैव' ख. दानं प्रदातुमधनो यदि न क्षमोऽहं दासत्वमस्तु मम देव भवद्गणानाम् ॥ ६२ ॥ हे देव शंभो, एष गणमुखो दानजलेन मदाम्भसावसिक्तं तथा दानजलेन दानार्थं जलेन वारिणावसिक्तं च हस्तं करं यतः सदा वहति तेन हेतुना एष गजमुखश्चेत्प्रमथा- धिपत्यं गणाधिपत्वमलभत तर्हि दानं प्रदातुमधनत्वाद्यदि न क्षमोऽहमस्मि तदा भवद्ग- णानां भवदीयसेवकानां नन्दिमहाकालप्रभृतीनामेव दासत्वं ममास्तु । इति काङ्क्ष इत्यर्थः ॥ हेयोऽस्म्यसेवकतया [^१]तव चेद्ग्रहेषु कुर्वत्सु तुल्यमखिलेष्वपि राशिभोगम् । द्वावुज्झतस्तव न दृक्पथमर्कचन्द्रा- वेतावता परिहृता भवता किमन्ये ॥ ६३ ॥ हे नाथ, असेवकतया वाङ्मनःकर्मभिरनिशं भवच्चरणसरोजस्यासेवकतुल्यमेव राशिभोगं मेषादिद्वादशराशिभोगं भुक्तवत्सु सत्सु द्वावेवार्कचन्द्रौ तव विभोदृक्पथं दृक्स्थानं नोज्झतः । तयोरेव सव्यापसव्यदृक्स्थत्वात् । अथ च दृक्पथं दर्शनगोचरं नोज्झतः । हे विभो, एतावतैव भवता स्वामिना अन्ये भौमाद्या ग्रहाः किमुज्झिताः । अहं तु प्रतिक्षणं भवश्चिन्तनपरः कथं हेयोऽस्मीत्यर्थः । बालावुभौ द्विजपती तव नाथ भक्ता- वेकस्तयोर्हरति संतमसं [^१]प्रजानाम् । तेनावृतं यदि परं सहसे महेश द्रष्टुं ततो विषमदृष्टिरिति श्रुतोऽसि ॥ ६४ ॥ हे नाथ, बालौ कुमारौ उभौ द्विजपती द्विजानां नक्षत्राणां पतिः, द्विजानां ब्राह्म- णानां च पतिः । तौ । एको बालो द्विजपतिर्बालेन्दुः । अन्यो बालो द्विजपतिर्मल्ल- क्षणः । तौ तव भक्तौ सदा भक्त्यासक्तौ । तयोर्मध्ये एको द्विजपतिर्बालेन्दुस्त्वन्मौ लिस्थ: प्रजानां संतमसं विष्वक्तमो हरति । परं बालं द्विजपतिमर्थान्मल्लक्षणं तेन संतम- सेनाज्ञानलक्षणेना समन्ताद्वृतं छादितं द्रष्टुं हे महेश, यदि त्वं सहसे क्षमसे ततस्त्वं वि षमदृष्टिरिति प्रसिद्धोऽसि । विषमा अयुग्मा त्रित्वाद्दृष्टिर्यस्य स तथा पूर्वो दृष्टि(?)रिति प्रसिद्धोऽसि ॥ युक्तं रिपौ सुहृदि वा समदर्शनस्य दोषोद्धतेऽपि यदि ते हृदयं दयार्द्रम् । [^१]. 'यदि ' ख. [^२]. 'परेषाम्' ख. तत्सांप्रतं गतिविहीनमनात्मनीनं दीनं जनं प्रति कुतः करुणावलेपः ॥ ६५ ॥ हे नाथ, दोषैर्मात्सर्यादिभिरुद्धते उद्भटे रिपौ शत्रौ सुहृदि नितान्तमिषे वा समदर्श- नस्य समदृष्टेस्तव यदि दयार्दे कृपारसार्द्रे हृदयमस्ति तद्युक्तमुचितम् । दोषोद्धते इति दूरस्थपदत्वेऽपि भक्तिविषये न दोषः । तत्तस्माद्धेतोः सांप्रतमिदानीं गतिविहीनं निर्गतिं कांदिशीकं च । आत्मनो हित आत्मनीनः पुण्यकृत्त्वात् । नात्मनीनोऽनात्मनीनस्तादृशं दीनं जनं मल्लक्षणं प्रति हे नाथ, तव कुतः करुणावलेपः करुणायाः कृपाया अवलेपो- Sवगणनम् ॥ अभ्युद्गमोऽयमशनेरमृतांशुबिम्बा- त्स्वामिन्नसौ दिनमणेस्तिमिरप्ररोहः । युष्मादृशस्य करुणाम्बुनिधेरकस्मा- दस्मादृशेष्वशरणेष्ववधीरणं यत् ॥ ६६ ॥ हे स्वामिन्, युष्मादृशस्य एकनिमेषेणैव त्रिजगदुद्धारकस्य कृपाम्बुधेरकस्मान्निर्हेतु • कमशरणेषु रक्षितारमलभमानेष्वस्मादृशेषु वराकेषु यदवधीरणमस्ति अमृतांशुबिम्बात्सु - धांशुमण्डलात्सोऽयमशनेस्तडित उद्गमः प्रभवो भवति । तथा दिनमणेर्भास्करादसौ ति- मिरप्ररोहोऽन्धकारोत्पत्तिः । असंभाव्यमेतत्स्वयं यथा तथाशरणजनावधीरणमपि विभो- रित्यर्थः । एतद्वृत्ताभिप्रायेण ममाप्येकं वृत्तम् – 'सर्वतो वृतमघैः कृपानिधिः सोऽपि मां ध्रुवमुपेक्षते प्रभुः । मृण्मयं समधिगम्य भाजनं स्पर्शरत्नमपि किं करिष्यति ॥' इति । यस्य स्पर्शमात्रेण सप्तानामपि धातूनां काञ्चनीभावस्तत्स्पर्शरत्नम् ॥ स्वामिन्मृडस्त्वमुरुदुःखभरार्दितोऽहं मृत्युंजयस्त्वमथ मृत्युभयाकुलोऽहम् । गङ्गाधरस्त्वमहमुग्रभवोपताप- तप्तः कथं कथमहं न तवानुकम्प्यः ॥ ६७ ॥ हे स्वामिन्, त्वं विभुर्मृड: । मृडयति सुखयति परामृतदानेन त्रिजगदिति मृडः । त्वं मृडोऽसि । अहं तूरुणा महता दुःखभरेण जन्मजरामरणजदुःखभरेणार्दितः पीडितोऽस्मि । हे नाथ, त्वं मृत्युं यमं जयति दाहकत्वादिति मृत्युंजयोऽसि । अथानन्तर्ये । अहं मृत्युभयेन महता मरणजत्रासेनाकुलोऽस्मि । हे स्वामिन्, त्वं गङ्गाधरो जटाजूटे गङ्गां धारयसि अहं तूग्रः कठिनो यो भवोपतापो भवमरुभ्रमणज उपतापस्तेनोपतप्तोऽस्मि । अतः कारणात् हे स्वामिन, अहं तव कथं कथं नानुकम्प्पोऽस्मि । स्वमेवात्र चिकित्सक इत्यर्थः । तथा च मदीयमपि वृत्तमेकम् – 'भवजीर्णज्वरातापमोहकम्पाकुलाय मे । एकं सुदर्शनस्यांशं देहि विश्वचिकित्सक ॥" सुदर्शनाख्यस्य जीर्णज्वरहरस्य चूर्णविशेषस्य चांशम् ॥ पूर्वोक्तमेव समर्थयति कविः भक्तप्रियः स्वयमपि क्षुधयान्वितस्य पानोत्सवैकरसिकोऽपि पिपासितस्य । तापातुरस्य घनसेवनसादरोऽपि जानासि नाथ न कथं सहसा ममार्तिम् ॥ ६८ ॥ हे नाथ, त्वं स्वयमपि भक्तप्रियः भक्ता वाङ्मनः कर्मभिस्त्वयानासक्तास्ते प्रिया यस्य स तादृक् । क्षुधया त्वद्दर्शनबुभुक्षया भोक्तमिच्छया चान्वितस्य ममार्ति मनःपोडां कथं न जानासि । अथ च भक्तमग्नं प्रियं यस्य स भक्तप्रियः । यस्तुच्छोऽपि सोऽन्यस्य क्षुदन्वितस्यार्ति जानाति । 'भक्तमन्धोऽन्नं' इत्यमरः । पानं रसायनपानं स एवोत्सवस्त- त्रैकरसिकोऽपि त्वम् । तथा पानं रक्षणं त्रिजगतः । 'पा पाने रक्षणे च ।' तत्रैकरसि- कोsपि त्वं पिपासितस्य त्वद्दृष्टित्रिभागैकांशावलोकनपिपासायुक्तस्य च मम सहसा इदानीमार्ति कथं न जानासि । तथा तापैराध्यात्मिकाधिदैविकाधिभौतिकैस्त्रिभिरेव तापैः संतापैश्चातुरस्य मम धनं च तत्सेवनं भक्तजनेन कृतं सादरम् अथ च घनानां मेघानां सेवने सादरोऽपि त्वं मम तापातुरस्य कथं नार्ति जानासि ॥ सर्वज्ञ सर्वमवगच्छसि भूतभावि भाग्यक्षयः पुनरसौ भगवन्ममैव । जानासि यस्य हृदयस्थित एव नार्ति ज्ञात्वापि वा गजनिमीलितमातनोषि ॥ ६९ ॥ सर्वे जानातीति सर्वज्ञस्तत्संबोधनं हे सर्वज्ञ, त्वं सर्वं भूतमतीतं भावि भविष्यच्चावगच्छसि जानासि । हे भगवन्, यस्य ममैव हृदयस्थित एव ममार्ति न जानासि । वा पक्षान्तरे । ज्ञात्वापि वा ममार्तिं गजनिमीलितं गजस्येव निमीलितमक्षिनिमीलनमवज्ञापर्यायमातनोषि विधत्से । भालेऽनलं तव गले गरलं करे च शूलं प्रकाशमखिलोऽयमवैति लोकः । अन्तर्गतं त्रयमिदं तु मम त्वमेव जानासि नासि च दयालुरतो हतोऽहम् ॥ ७० ॥ हे नाथ, तव भाले ललाटेऽनलमग्निं गले कण्ठे गरलं विषं कालकूटाख्यं करे हस्ते च शूलं त्रिशिखं प्रकाशं स्फुटमेवायमखिलो लोको जानाति । तुः पक्षान्तरे । ममान्त- र्गतं हृदयस्थितं त्रयमग्निमाश्वासकारणशुद्धज्ञानवियोगशोकाग्निम् । विषं परिणामदारुणं दुष्कर्म मधुमुखं विषम् । तथा शूलं जन्मजरामरणत्रासोत्यं शूलाख्यरोगविशेषं त्वमेवा- न्तर्यामिधुरीणो जानासि । दयालुर्नासि । अत एवाहं हतः ॥ एकस्त्वमेव भविनामनिमित्तबन्धु- र्नैसर्गिकी तव कृपा सवितुः प्रभेव । वामः पुनर्मम विधिः परिदेवितानि [^१]जातान्यरण्यरुदितेन समानि यस्य ॥ ७९ ॥ हे ईश परमेश्वर, भविनां संसारिणां त्वमेवैकोऽनिमित्तबन्धुर्निष्कारणबान्धवः ना- परः । सवितुस्त्रिजगच्चक्षुषः सूर्यस्येव प्रभा कान्तिनैसर्गिकी सहजा तवैव कृपा नान्यस्य । एवं सत्यपि यस्य मम परिदेवितानि पूत्कृतान्यरण्यरुदितेन केनाप्याश्वासकेनानिर्वा र्येण (?) समानि जातानि । तस्य मम पुनर्वामः प्रतिकूलो विधिर्दैवं भवति ॥ अत्यन्तदुर्भगमयोग्यमभाग्यभाज- माजन्मनर्मविमुखं मुखरोग्रवाचम् । दैवादवाप्य सकलापसदं महेश नैवात्यजत्कुलवधूरिव दुर्गतिर्माम् ॥ ७२ ॥ हे महेश परमेश्वर, अत्यन्तदुर्भगमत्यन्तदौर्भाग्यवन्तम् अयोग्यमनर्हम् अभाग्यभाज मभाग्ययुक्तम् तथा जन्मन आरभ्य आजन्म नर्मणि क्रीडायां सुखे विमुखम् तथा मुखरा असंबद्धा उग्रा कठिना वाग्यस्य स तादृक् तम् । तथा सकलापसदं सकले- भ्योऽपसदमवरम् दैवान्मामेवाप्य कुलवधूः कुलस्त्रीव दुर्गतिर्जन्मजरामरणोत्थभीति- रूपा विपत् बाह्या वा व्यापत् यथा कुलवधूरेवंविधमपि पुरुषं दैवबलेन प्राप्य त्रपा- कुला मानिनी न त्यजति तथा मां नात्यजत् ॥ मुक्त्वा समाधिमसमाधिहरं परं च प्रोद्दामधाम शिवधाम सुधामयं ते । भ्रान्तोऽस्मि तेन मलयानिलवेल्ल्यमान- कल्लोललोलनिधनानि धनानि लब्धुम् ॥ ७३ ॥ हे शिव कैवल्यदायिन्, यतो दुर्गतिर्मो नात्यजत् । तेन हेतुना असमाश्च ते आध- यश्च तान्हरतीति तादृशमसमाधिहरं समाधिं योगबलेनात्ममनसोरैक्यरूपं समाधिं मुक्त्वा ग्रोद्दामधाम प्रोद्दाममुद्भटं धाम तेजो यत्र तत्तादृशं ते तव सुधामयममृतरूपं धाम स्थानं परसंवित्प्रकाशमयं च मुक्त्वा मलयानलेन वेल्लथमाना: कम्प्यमाना ये कल्लोला महात- रङ्गास्तद्वल्लोलं निधनं विनाशो येषां तानि धनानि लब्धुं भ्रान्तोऽस्मि । दश दिश इति शेषः ॥ [^१]. 'जानाति' क. आराधिताः प्रचपलाश्चपलावदेव दुष्टेश्वरा न गुरवो गुरवो गुणौधैः । यातानि तानि मम हानिमहानि मिथ्या श्रान्तोऽस्मि हा विततमोहतमोहतोऽहम् ॥ ७१ ॥ हे स्वामिन्, चपला विद्युत्तद्वत्प्रकर्षेण चपलाश्चञ्चलाश्चलचित्ता दुष्टेश्वरा दुरीश्वरा आराधिताः । मया मूढेनेति शेषः । गुणौघैः पाण्डित्यदयादिभिर्गुरवो महान्तो गुरवो दैशिका नाराधिता नोपासिताः । अतो हेतोर्मम तान्यहानि दिनानि मिथ्या व्यर्थमेव हानिं क्षयं यातानि । हा कष्टे । विततं विस्तीर्णं यन्मोहतमोऽज्ञानरूपं तमस्तेन हतो- ऽहं श्रान्तोऽस्मि खिन्नोऽस्मि ॥ तृष्णा दिनाद्दिनमबृंहत बंहिमान- मायामिनी मनसि हैमनयामिनीव । नाथ त्रिधामनयनार्पय दृक्प्रसादं सादं नयान्धतमसं भ्रमसंभृतं मे ॥ ७५ ॥ हे त्रिधामनयन । त्रीणि धामानि सूर्येन्दुवह्निरूपाणि नयनेषु यस्य स तत्संबोधनम् । आयामिनी विस्तारवती हैमनयामिनी हेमन्तरात्रिरिव मम मनसि तृष्णा एतावदेव लब्धं कदापरं लप्स्ये इत्यादिरूपा दिनाद्दिनं बंहिमानं बहलस्य भावो बंहिमा तं बहलीभाव- मबृंहतावर्धयत् । हे नाथ, त्वं दृक्प्रसादमर्पय प्रसन्नां दृशमर्पय तथा भ्रमसंभृतं भ्रमे- णासत्येsपि सत्यभ्रमेण संभृतं संचितमन्धतमसमज्ञानरूपं गाढं तमः सादं विनाशं नय प्रापय ॥ स्तम्भं विजृम्भयति दम्भमयं भ्रमं च कंचित्प्रपञ्चयति यच्छति वाचि मुद्राम् । कं नाम नामयमयं प्रथयत्यखर्व- गर्वज्वरज्वलनदुःसहसंनिपातः ॥ ७६ ॥ हे स्वामिन्, अयमखर्वेत्यादि । अखर्वोऽलघुर्महान्यो गर्वोऽहंकारः स एव ज्वरस्तेन योऽग्निर्महासंतापरूपः स एव दुःसहः संनिपातो दुर्निवारसंनिपातमयो ज्वरो दम्भमयं छग्रमयं स्तम्भं स्तब्धीभावं विजृम्भयति । भ्रमं चासत्येऽपि सत्यरूपमकार्येऽपि कार्य- भ्रमं कंचित्प्रपश्चयति विस्तारयति । तथा वाचि मुद्रां मौनं च यच्छति ददाति । तथा कं नामामयं कम्पमूर्छालस्यादिकं रोगं प्रथयति विस्तारयति । संनिपातज्वरोऽपि वात- वैषम्येण स्तम्भं काष्ठवत्स्तब्धीभावं विजृम्भयति । तथा पित्तवैषम्येण भ्रमं विस्तार- यति । 'न पित्तेन विना भ्रमः' इत्यायुर्वेदोक्तेः । तथा श्लेष्मवैषम्येण वाचि मुद्रां मौनं प्रयच्छति । तथेत्यर्थः । एतद्द्वृत्तानुसारेण ममाप्येकं वृत्तम् - तैस्तैरुग्रैर्विविधरचनैः सं- भृते यत्र दोषैरुत्पद्यन्ते सततमरुचित्रासमोहप्रलापाः । संसाराख्यं तमतिविषमं संनि- पातं नराणामेको हन्तुं प्रभवति विभुर्लीलयासौ किरातः ॥" इति ॥ तत्सांप्रतं भुवनविश्रुतहस्तसिद्धिं त्वामोषधीपतिशिखामणिमाश्रयामि । [^१]मौनं विमुद्रय दरिद्रय मोहनिद्रां विद्रावय द्रुतमुपद्रवमिन्द्रियाणाम् ॥ ७७ ॥ तत्तस्मात्कारणात् हे स्वामिन्, भुवनेषु विश्रुता हस्तानामष्टादशभुजानां सिद्धिर्यस्य स तादृशम् । 'अष्टादशभुजं देवं नीलकण्ठं सुतेजसम्' इति श्रीस्वच्छन्दोक्तेः । एवंविधं त्वामोषधीपतिश्चन्द्रः शिखामणिश्चूडामणिर्यस्य स तं चन्द्रचूडामणिं त्वामाश्रितोऽस्मि । ओषधीशानां वैद्यानां शिखामणिमुत्तमं तं च । किंभूतम् । भुवनेषु विश्रुता ह स्तसिद्धिर्हस्तप्राशस्त्यं यस्य स तादृक् तं च । हे विभो, मौनं विमुद्रय निवारय । भवदयस्तुतेरवर्णनीयत्वरूपं मौनं मम विमुद्रय । दूरीकुर्वित्यर्थः । ममेति शेषः । मोहनिद्रामज्ञानरूपनिद्रां मम दरिद्रयाल्पीकुरु । तथा द्रुतं शीघ्रमेवेन्द्रियाणां चक्षुरादीनामुपद्रवमतिचाञ्चल्यं विद्रावय दूरीकुरु । तथा विख्यातहस्तसिद्धिः सिद्धवैद्योऽपि मौनं वाक्स्तम्भं मोहं मूर्च्छां निद्रां च प्रबलामिन्द्रियाणां दोषं च हरत्येव । एतद्वृत्तानुसारेण ममाप्येकं वृ तम् – 'मोहान्ध्यहरणात्तीव्रभवज्वरनिवारणे । देहिनां दक्ष एकस्स्वमोषाधीशशिखामणिः ॥' विस्रम्भमम्भसि भजे भगवन्नगाधे बाघे रिपुव्यवसितेऽप्यलसीभवामि । जागर्मि यन्न समवर्तिनि हन्तुकामे का मे गतिर्यदि करोषि मनागवज्ञाम् ॥ ७८ ॥ हे भगवञ्शंभो, अहं मूढ इति शेषः । अहं मूढोऽगाधेऽतलस्पर्शेऽम्भसि जले इदं गाधमिति मत्वा विस्रम्भमाश्वासं भजे । तथा रिपुभिः शत्रुभिर्व्यवसिते निश्चितेऽपि बाधे मारणेऽप्यहमलसीभवामि निरुद्योगोऽस्मि । कुत इत्याह – यद्यस्माद्धन्तुकामे समवर्तिनि- यमे न जागर्मि जागरूको भवामि । हे विभो, त्वं दयालुर्यदि मनागेवावज्ञामवगणनां करोषि तर्हि मे मम का गतिः । न कापीत्यर्थः ॥ यस्ते ददाति रवमस्य वरं ददासि यो वा मदं वहति तस्य दमं विधत्से । इत्यक्षरद्वयविपर्ययकेलिशीलः किं नाम कुर्वति नमो न मनः करोषि ॥ ७९ ॥ हे विभो, यो धन्यो जनो रवं पूजासमये मुखवाद्यं विलापैनाक्रन्दं वा ददाति तस्य त्वं वरं ददासि । यो वा यश्च मदं गर्वं वहति धारयति तस्य दमं विधत्से कुरुषे । इत्य नेन प्रकारेणाक्षरद्वयस्य रव इत्यस्य मद इत्यस्य च वर्णद्वयस्य विपर्ययकेलिः शीलं यस्य स तादृक् त्वं नमो नमस्कारं कुर्वति मयि मनश्चित्तं किं नाम न करोषि । युक्तमत्रापि विपर्ययं कर्तुमित्यर्थः । नमःशब्दोऽव्ययं नाम च ॥ चन्द्रं करे शिरसि चक्षुषि पादमूले मूर्तावपीति शिव चन्द्रसुभिक्षमेतत् । तापान्धकारविधुरं शरणागतं कि- मायातु लङ्घितवतस्तव मोघभावम् ॥ ८० ॥ हे शिव, तव करे चन्द्रः । 'देवं सुधाकलशसोमकरं' इति ध्यानोक्तेः । तथा तव शिरसि चन्द्रः । चन्द्रमौलित्वात्तव । तथा चक्षुषि वामनेत्रे च चन्द्रः । तथा पादमूले च तव चन्द्रः सेवाकारी । मूर्तौ च चन्द्रः । शुभ्रमूर्तित्वाच्छंभोः । इत्यत एतच्चन्द्राणां सु भिक्षमस्ति तव । अत्र चन्द्रस्य प्रतिमासं द्वादशमूर्तित्वाद्बहुचन्द्रता । तदेतश्चन्द्रसुभिक्ष मपि तापेनाध्यात्मिकादिभेदात्रिविधेन महासंतापरूपेण तथान्धकारेणाज्ञानरूपेण च वि- धुरं व्याकुलं मां वराकं लङ्घितवतोऽवगणनया दूरीकुर्वतस्तव मोघभावं वैफल्यं किमा- यातु किं प्राप्नोतु किमर्थं प्राप्नोतु । एतेन चन्द्रसुभिक्षेण स्वायत्तेन मदीयं तापमन्धकारं च निर्वाप्य तत्साफल्यं कुर्वित्यर्थः ॥ कौटिल्यमिन्दुदलतो न सुधामयत्व- मूष्माणमूर्ध्वनयनान्न परं प्रकाशम् । मालिन्यमेव गलतो न गभीरभावं त्वत्तोऽपि मे तितउकल्पमवाप चेतः ॥ ८१ ॥ हे नाथ, मे मम चेतः प्रतिक्षणं भवदीयध्यानासक्तं सततं ध्यानेनावाप्तसाक्षात्कारस्य तव मौलिस्थेन्दुदलतश्चन्द्रखण्डात्कौटिल्यं वक्रत्वमेवावाप न तु सुधामयत्वममृतमयत्वम् । तथा तवैवोर्ध्वनयनाद्भालस्थानलादूष्माणं सगर्वत्वेन संतापमेवावाप न तु परमुत्कृष्टं प्र काशम् । तथा तवैव गलतः कण्ठाद्ध्यानावाप्तौ सकालकूटान्मलिनत्वमेवावाप न तु गभीरत्वम् । मदीयं चेतः किंभूतम् । तितउकल्पं परिपवनसदृशम् । तनोति तन्यते वा तितउः । 'तनोतेर्डउः सन्वच्च' इति डउप्रत्ययः । सन्त्वत्त्वाद्द्वित्वमित्त्वं च । 'चालनी तितउः पुमान्' इत्यमरः । ईषदसमाप्तं तितउ तितउकल्पम् । यथा तितउरसारं गृह्णाति सारं त्यजति तद्वन्मम चेत इत्यर्थः किं वर्णयामि गुरुतां विपदः पदे मां स्थाणोर्न्ययुङ्क्त यदियं सहसोपदिश्य । [^१]निःशाखतां सुमनसामनुपेयभावं [^२]विच्छायतां विफलतां रसहीनतां च ॥ ८२ ॥ अहं विपदो जन्मजरामरणजत्रासोत्थविपदो गुरुतां महत्वं किं वर्णयामि । यद्यस्मा- त्कारणादियं विपत्स्थाणोः तिष्ठति सर्वोपरिष्टात्स्थाणुः श्रीशंभुस्तस्य पदे स्थाने निःशा- खतां निराधारत्वं सुमनसां देवानां विदुषां चानुपेयमावं विच्छायतां विगतश्वेतपीतादि- कान्तित्वं तथा विफलतां विगतकाम्यफलतां रसेनैहिकरसेन च हीनतां चोपदिश्य मां न्ययुक्त नियुक्तवती । अथ च बाह्यविपदो गुरुत्वं किं वर्णयामि या स्थाणोरिछन्नशाख- द्रुमस्य पदे स्थाने निःशाखतां विगतशाखत्वं तथा सुमनसां पुष्पाणामनुपेयभावमप्रा- प्यत्वं तथा विच्छायतां स्कन्धलताद्यभावाद्विगतच्छायत्वं तथा विफलत्वं फलराहित्यं रसेन हीनतां चोपदिश्य या विपन्मां न्ययुङ्क्त नियुक्तवती ॥ सर्वज्ञशंभुशिवशंकरविश्वनाथ- मृत्युंजयेश्वरमृडप्रभृतीनि देव । नामानि तेऽन्यविषये फलवन्ति किं तु त्वं स्थाणुरेव भगवन्मयि मन्दभाग्ये ॥ ८३ ॥ हे देव, दीव्यति क्रीडते परमे पदे इति देवस्तत्संबोधनं हे देव । ते तव सर्वज्ञेत्यादि नामान्यन्य विषयेऽन्यस्थाने फलवन्ति सफलानि । सर्वे जानातीति सर्वज्ञः । शं सुखमैकान्तिकात्यन्तिकदुःखनिवृत्तिरूपं भवत्यस्माच्छंभुः । शिवः कल्याणदायी । शंकरः शं... भुवत् । विश्वस्य शिवादिक्षित्यन्तस्य जगतो नाथः स्वामी । मृत्युं यमं जयतीति मृत्युंजयः । .…..….…... । मृडयति सुखयति जगदिति मृडः । एतानि नामान्यन्येभ्यो भक्तेभ्यो नानाफलदायित्वेन भवन्नामानि फलवन्ति सन्ति । किं तु पक्षान्तरे । हे विभो, मन्दपुण्ये मयि त्वं स्थाणुरेव शंभुरेव । अथ च स्थाणुरिछन्नशाखो द्रुमोऽफल एव । श्वेते सुदर्शनसमर्पणतत्परस्य कृष्णे च यस्य न बभूव विशेषबुद्धिः । स त्वं श्रियं सृजसि पुण्यजनेषु मां च मुञ्चस्यपुण्यजनमेष विधिः क्षतो मे ॥ ८४ ॥ हे विभो, श्वेते श्वेताख्यनृपतौ सु शोभनं दर्शनं तस्य समर्पणे प्रदाने तत्परस्य । तथा कृष्णे श्रीकृष्णे (सुदर्शनाख्यचक्रस्य समर्पणं तत्परे) । अथ च श्वेते धवले कृष्णे मेचके च । यस्य तव विशेषबुद्धिर्न बभूव । स त्वं पुण्यजनेषु वैश्रवणादियक्षेषु श्रियं लक्ष्मीं सृजसि वितरसि मां चापुण्यजनं पुण्यहीनं जनं मुञ्चसि दूरीकरोषि इति यदेष विधि [^१]. 'विच्छायतां' ख. [^२]. 'निःशाखतां विरसतां फलहीनतां च' ख. र्भाग्यपर्यायो मे मम क्षतश्चलितः । यथा तव श्वेतकृष्णयोः समबुद्धिरासीत्तथा पुण्य- जनापुण्यजनयोरपि युक्ता भवितुमर्हति । यतो नैवं तन्ममैवाभाग्यचातुरीत्यर्थः ॥ आवर्जनं क्रतुभुजां गजवाजिरत्न श्रीपारिजात[^१]मदिरेन्दुसुधार्पणेन । कृत्वाग्रहीर्गरलमात्मनि यन्महिम्ना सा ते क्व संप्रति कृपा मयि [^२]मन्दभाग्ये ॥ ८५ ॥ गजरत्नमैरावणस्तसमर्पणेनेन्द्रस्य तथा वाजिरत्नमुच्चैःश्रवास्तत्समर्पणेन तस्यैव । यद्वा गजश्च वाजी च रत्नं कौस्तुभश्च । श्रीर्लक्ष्मीस्तत्समर्पणेन हरेः । पारिजातः सुरद्रुमः मदिरा सुरा तत्समर्पणेन.....श्रीशंभोः । सुधायाः पीयूषस्य समर्पणेन देवानां चेति क्रतुभुजामावर्जनं वशीकरणं परमसंतोषं च कृत्वा हे विभो, त्वमात्मनि यस्याः कृ- पायाः सुरासुररक्षार्थमुत्पन्नाया महिम्ना माहात्म्येन गरलं विषं कालकूटाख्यं विषविशेष- मेवाग्रही: सा ते कृपा संप्रतीदानीं मयि भाग्यहीने क्व भवति ॥ दृप्तेषु ते मदनदक्षयमान्धकेषु प्रादुर्भवन्मनसि रोषविषप्ररोहः । सिक्तः सुधामयमसूत यया प्रसादं सा ते क्व संप्रति कृपा मयि [^३]भाग्यहीने ॥ ८६ ॥ दृप्तेषु त्रिजगज्जयित्वेनातिदर्पवत्सु मदनदक्षयमान्धकेषु कामदक्षप्रजापतियमान्धका- सुरेषु यस्ते तव मनसि रोष एव विषं गरलं तस्य प्ररोहोऽङ्कुरः प्रादुर्बभूव स एवाङ्कुरो यया त्रिजगदुद्धारिण्या कृपया कृपामृतरसेन । सजीवतां यया कृपया अनयदित्यर्थः (?)। सा कृपा संप्रति मयि भाग्यहीने क भवति ॥ केचिद्वरस्य भगवन्नभयस्य केचि- [^४]त्सौन्द्रस्य केचिदमृतस्य करस्थितस्य । प्रापुः कृपाप्रणयिनस्तव भाजनत्वं शूलस्य केवलमभाग्यपरिक्षतोऽहम् ॥ ८७ ॥ हे भगवन्केचित्कृपाप्रणयिनः कृपाप्रार्थका भक्तजनास्तव विभोरायुधस्थानीयस्य वरस्य भाजनत्वं पात्रत्वं प्रापुः । केचित्पुनरभयस्यायुधस्थानीयस्य । तथा केचित्करस्थितस्य पाणौ स्थितस्य सान्द्रस्योत्पन्नस्या (?) मृतस्य भाजनत्वं प्रापुः । अभाग्येन परिक्षतो बाधितोऽहं केवलं शूलस्य त्रिशिखस्यायुधविशेषस्य अथ च शूलस्य शूलाख्यहृद्रोगविशेषस्य केवलं पात्रत्वमापम् । 'अस्त्री शूलं रुगायुधम्' इति मङ्खः । एतद्वृत्ता [^१]. 'मदिराब्जसुधा' ख, [^२]. 'भाग्यहीने' क. [^३]. 'मन्दपुण्ये' ख. [^४]. 'सार्द्रस्य' ख. नुसारेण मदीयमप्येकं वृत्तम् - 'हा हा महार्त्यास्मि विमोहितोऽहं जरादिदुःखेन सदैक- शूली । त्रिशूलिनं तं त्रिजगत्प्रसिद्धं चिकित्सकं यामि यदस्य शान्त्यै ॥" इति ॥ अभ्रान्तवृत्ति भवतान्तरधिष्ठितं मे चेतः प्रकाशवपुषा रविणेव बिम्बम् । सोपप्लवं यदि कृतं तमसा कदाचि- दक्षीणपुण्यमहिमैव तदा विभाति ॥ ८८ ॥ हे प्रभो, प्रकाशरूपं स्फुटं प्रसिद्धं च वपुर्यस्य स तादृशेन रविणा सूर्येण अभ्रान्तवृत्ति अभ्रस्याकाशस्यान्तस्तत्र वृत्तिः स्थितिर्यस्य तद्बिम्बं मण्डलमिवान्तरधिष्ठितं प्रकाशव- पुषा चित्प्रकाशवपुषा परमज्योतीरूपेण भवताधिष्ठितमभ्रान्तवृत्ति न भ्रान्ता भ्रमयुक्ता वृत्तिर्यस्य तत्तादृशमनन्यगतिकम् । त्वत्परायणमित्यर्थः । मे मम चेतो यदि तमसः अज्ञानेन कदाचित्सोपप्लवं सोपद्रवं कृतं तत्राप्यक्षीणपुण्यमहिम न क्षीणः पुण्यस्य महिमा. यस्य तत्तादृशमेव तत्रापि विभाति । अथ च रविबिम्बं सोपप्लवं राहुग्रस्तं सोपरागं सत्तदप्यक्षीणपुण्यमहिम विभाति । 'तमस्तु राहुः स्वर्भानुः' इत्यमरः । 'सोपप्लवोपरक्तौ द्वौ इति च ॥ जानामि नामृतमयं हृदयं प्रवेष्टु- मुद्दामदुःखदवदाहहतस्तवाहम् । धर्तुं हृदि त्रिदशसिन्धुसुधासुधांशु शीतं भवन्तमपि न प्रभवामि धिङ्माम् ॥ ८९ ॥ हे विभो, उद्दामं च तद्दुःखं जरामरणादि दुःखं तदेव दवो दावाग्निस्तेन यो दाह- स्तेन हतोऽहममृतमयममृतप्रकृतिकं तव हृदयं प्रवेष्टुं न जानामि । मदीयदुःखदावाग्नि- दाहेनामृतरसस्य भवदीयहृदयस्थस्य शोषभयेनान्तस्तव हृदयं प्रवेष्टुं न जानामीत्यर्थः । तथा त्रिदशसिन्धुर्गङ्गा सुधा अमृतं सुधांशुश्चन्द्रस्तैः शीतमतिशीतलं भवन्तमपि हृदि स्वमनसि धर्तुं न प्रभवामि । महाशीतत्वेन शीताङ्गज्वरप्रादुर्भावशङ्कया त्वामपि हृदि धर्तुं न शक्नोमीत्यर्थः । अतो मां धिगस्तु । अहं न त्वदीयहृदये प्रवेष्टुं शक्तस्त्वामपि स्वहृदये धर्तुं न शक्त इत्युभयथा मां धिगस्त्वित्यर्थः ॥ क्षीणः क्षताखिलकलः प्रविलीनधामा त्वामाश्रितोऽस्मि सवितारमिवामृतांशुः । नास्त्येव जीवनकला मम काचिदन्या पादार्पणेन कुरुषे यदि न प्रसादम् ॥ ९० ॥ अहं क्षीणो जन्मजरामरणत्रासचिन्तया । तथा क्षता अखिलाः कलाः शिल्पाद्या यस्य । तथा प्रकर्षेण विलीनं क्षोणं धाम तेजो यस्य सः । तादृशोऽहम् । क्षीणः क्षययुक्तः । क्षताः क्षयं गता अखिलकलाः षोडश यस्य सः । तथा प्रकर्षेण विलीनं धाम तेजो यस्य सः । एवंविधोऽमृतांशुश्चन्द्रः सवितारं सूर्यमिव त्वामाश्रितोऽस्मि । चन्द्रो ह्यमाव- स्यायां सूर्यमाश्रयतीत्यागमः । हे प्रभो, सुधांशुतुल्यस्य मम जीवनकला आप्यायनकला अन्या नास्त्येव । अतस्त्वं पादार्पणे चरणदाने यदि न प्रसादं कुरुषे तदा ममान्या आप्यायनकला कापि नास्तीत्यर्थः । अथ च यदि रविः पादानां रश्मीनां प्रदानेन सुधांशोश्चन्द्रस्य प्रसादं न कुरुते तदा सुधांशोरन्या जीवनरूपा कला कापि नास्तीत्यर्थः ॥ घोरान्धकारविधुरं विविधोपताप- तप्तं विपद्गुरुतुषारपराहतं माम् । त्वं चेज्जहासि वद कस्तपनेन्दुवद्वि- नेत्रो हरिष्यति परस्त्रिविधां ममार्तिम् ॥ ९९ ॥ हे विभो, घोरान्धकारविधुरं घोरो योऽन्धकारोऽज्ञांनरूपस्तेन विधुरस्तम् । तथा विविधास्त्रित्वाद्ये उपसमीपे तापा आध्यात्मिकाद्यास्त्रयस्तापास्त एवोपतापा महासंतापा- स्तैरुपतप्तं संतापितम् । तथा विपज्जन्मजरादित्रासव्यापत्सैव गुरुर्महांस्तुषारो हिमं तेन पराहतं बाधितं मां वराकं त्वं चेज्जहासि त्यजसि तदा त्वं वद तपनेन्दुवहिनेत्रस्त्रिधाम- नयनः परः कस्त्रिविधां मनस्तापतुषारकृतां ममार्ति हरिष्यति । एतदार्तिहरणे त्वदृते नान्यः समर्थ इति भावः ॥ व्यक्तिर्न यस्य न मतिर्न गतिर्न शक्ति- र्नापि स्मृतिर्विपदपस्मृतिपीडितस्य । तस्यौषधीशमुकुटं त्रिजगद्गुरुं त्वां मुक्त्वा करिष्यति परो मम कश्चिकित्साम् ॥ ९२ ॥ हे विभो, विपज्जन्मजरामरणमहाचिन्तारूपा विपत् । बाह्यक्रमेण विपद्दारिद्र्यरूपा । सैवापस्मृतिरपस्माराख्यो महारोगस्तपा पीडितस्य यस्य मम न व्यक्तिरङ्गानां प्राकट्यं न । मतिबुद्धिर्न । गतिर्गमनशक्तिर्न । न च शक्तिः कुत्रापि व्यापारे सामर्थ्यम् । नापि स्मृतिः स्मरणलेशः । तस्य विपदपस्मारग्रस्तस्य मम त्रिजगद्गुरुमोषधीशमुकुटं चन्द्र- मौलिं त्वां मुक्त्वा कः परश्चिकित्सां रुक्प्रतिक्रियां करिष्यति । न कश्चिदित्यर्थः । अथ च यस्यापस्मारपोडितस्य व्यक्तिमत्यादयो न सन्ति तस्यौषधीशमुकुटं वैद्यचूडामणिं मुक्त्वा कोऽपरश्चिकित्सां करोति ॥ त्वं निर्गुणः शिव तथाहमथ त्वदीयं शून्यं परं किमपि धाम [^१]तथा मदीयम् । [^१]. 'यथा' ख. त्वं चेद्गवि प्रविदधासि धृतिं तथाहं कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९३ ॥ हे शिव, गुणेभ्यः सत्त्वरजस्तमोभ्यो मूलप्रकृतिकारणेभ्यो निष्क्रान्तो निर्गुणः पु रुषः । 'सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः' इति सांख्या: । 'न प्रकृतिर्न विकृतिः पुरुष: ' इति च । यथा त्वं निर्गुणस्तथाहमपि गुणेभ्यः पाण्डित्यदयादाक्षिण्यादिभ्यो नि ष्क्रान्तः । अथशब्दो यद्यर्थे । यथा त्वदीयं परमुत्कृष्टं धाम स्थानं शून्यम् । ब्रह्मा- ण्डोर्ध्वे शून्यास्पदत्वात्परज्योतिः स्वरूपस्य परमात्मनः । तथा मदीयमपि धाम गृहं परं केवलं शून्यम् । व्यावहारिकोपकरणासंभवात् । तथा चेद्यदि त्वं गवि वृषभे धृतिं स्थितिं वाहनत्वात्प्रकर्षेण विदधासि तथाहमपि गवि वाण्यां धृतिं प्रीतिं विदधामि । 'लक्ष्यदृष्टया स्त्रियां पुंसि गौः' इत्यमरः । कष्टं त्वेतत् - हे विभो, त्वं शिवोऽसि । अहं तु दैवेन विधिना क्षत उपहतोऽशिवोऽविद्यमानशर्मास्मि ॥ कामस्त्वयीव मयि निष्फलतामवाप क्षिप्तो मयापि विफलो भवतेव कालः । विध्वस्तधाम मम देव वपुस्तवेव कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९४ ॥ हे विभो, यथा त्वयि विषये कामो मदनः ......कामोऽभिलाषो वैफल्यमाप । तथा यद्वद्भवता विभुना कालो मृत्युः श्वेतनृपतेः प्रसङ्गेन विफलः क्षिप्तो निरस्तस्तथा मयापि विफलो निरर्थकः कालः समयः क्षिप्तोऽतिवाहितः । हे देव श्रीशंभो, यथा तव वपुः शरीरं विध्वस्तधाम विधुना चन्द्रेणास्तं क्षिप्तं धाम तेजः कान्तिस्वरूपं शिरसि चन्द्रमौलित्वाद्यत्र । तथा मदीयमपि वपुर्विध्वस्तं नष्टं धाम तेजो यस्य तत्तादृशम् । कष्टं त्वेतत् — हे विभो, त्वं शिवस्त्रिजगतः शिवदः । अहं तु विधिक्षतो दैवोपहतो- sशिवोऽस्मि ॥ यद्वद्विभो तव हृदि प्रविभाति नाग- स्तद्वन्ममापि भवदेकपरायणस्य । यद्वत्स्वधर्मनिरतस्त्वमहं तथैव कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९९ ॥ हे प्रभो, यथा तव हृदि वक्षसि नागः सर्पो वासुकिः प्रविभाति तथा ममापि हृदि मनस्यपि नागः । अत्र पदच्छेदे न आगः अपराधोऽस्ति वराकस्य । अत्र हेतुः - भवति विषये एकपरायणस्य । तथा हे विभो, यथा त्वं स्वे धर्मे वृषे निरतः सक्तस्त- थाहमपि । अत्रापि पूर्वोक्तो हेतुः । यद्वा सुष्टु अत्यर्थमधर्मे वेदाविहिते कार्ये नितरां सक्तोऽहम् । कष्टमित्यादि पूर्ववत्॥ मूर्तिस्तवेव शिव मे विधुरोचितेयं दृष्टिस्तवेव भगवन्विषमा ममापि । शूली विषादहतशक्तिरहं यथा त्वं कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९६ ॥ हे शिव विभो, विधुरोचिता विधुना चन्द्रमसा रोचिता शोभिता तव मूर्तिरस्ति । तथा ममापि मूर्तिस्तनुर्विधुरा दीना उचिता युक्ता । हे भगवन्, यथा तव विषमा त्रि- त्वाद्दृष्टिस्तथा ममापि दृष्टिविषमा उग्रा सरोषत्वात् । यथा च त्वं शूली त्रिशूली । तथा विषादहतशक्तिर्विषं कालकूटाख्यं तस्मादहतशक्तिर्न हता शक्तिर्यस्य स तादृगसि तथाहमपि जन्मजरामरणत्रासरूपशूलरोगवान् । तथा तदुत्थेनैव विषादेन दुःखेन हता शक्तिः सामर्थ्यं यस्य स तादृगस्मि । कष्टमित्यादि पूर्ववत् ॥ कण्ठे विषं वसति मे विषमं तवेव भूतेश्वरः पशुपतिश्च भवानिवाहम् । अङ्गं ममापि गुरुरुग्ज्वलितं तवेव कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९७ ॥ हे विभो, यथा तव कण्ठे विषं कालकूटाख्यं वसति तथा ममापि विषं मात्सर्यरू- पम् । यथा त्वं भूतानां चतुर्दशविधसर्गभूतानामीश्वरस्तथा पशुपतिराणवमायीवकार्मा- ख्यपाशत्रयबद्धाः पञ्चकलाकलिता जनाः पशवस्तेषामीशो यथासि तथाहमपि भूतानां लक्षणया महोग्राणां तथा पशूनामुपचारेणाज्ञानां पतिः । हे विभो, यथा तवाङ्गं गुरुरु- ग्गुर्वी रुक् शोभा यस्य तादृशं तथा ज्वलितं दीप्तै तथा ममाप्यङ्गं गुरुरुग्ज्वलितं गुर्वी चासौ रुग्जन्मजरादिव्याधिस्तया रुजा ज्वलितम् । 'स्त्री रुग्रुजा च' इत्यमरः । कष्ट मित्यादिपूर्ववत् ॥ स्वर्भानुगीर्णमिव पूर्णशशाङ्कबिम्बं बालाङ्गनाङ्गमिव दारुणरुग्विरुग्णम् । श्रीखण्डचन्दनमिवाजगरोपगूढं व्यूढं नृपस्य पिशुनैरिव पादमूलम् ॥ ९८ ॥ हालाहलाक्तमिव दुग्धमहाब्धिनीरं तीरं महामकररुद्धमिव द्युसिन्धोः । दारिद्र्यदग्धमिव साधुगृहस्थवृत्तं चित्तं समत्सरमिव श्रुतविश्रुतस्य ॥ ९९ ॥ विद्याविहीनमिव सत्कुलजस्य रूपं निर्दानभोगमिव कापुरुषस्य वित्तम् । मानुष्यमुज्ज्वलकुलश्रुतशीलशुद्धं जातं विपद्विधुरितं मम शोचनीयम् ॥१०० ॥ (तिलकम् ) यथा स्वर्भानुना राहुणा गीर्णं प्रस्तं पूर्णेन्दुबिम्बं शोचनीयं भवति । यथा च दारु गया रुजा महारोगेण रुग्णं भग्नं षोडशहायनाङ्गनाङ्गं शोच्यम् । यथाजगरेण 'अजं गिलतीत्यजगरः, अजो नित्यो गरोऽस्य वा' इति स्वामी । अजगरेण महता सर्पविशेषेणोपगूढमालिङ्गितं यथा श्रीखण्डाख्यचन्दनमिव शोच्यम् । यथा पिशुनैः खलैर्व्यूढं व्याप्तं नृपस्य पादमूलमिव शोच्यम् । यथा च दुग्धमहाब्धिनीरं क्षीरसमुद्रजलं हालाहलेन विषविशेषेणाक्तं मिलितं शोच्यम् । यथा च महामकरैर्जलप्राणिभी रुद्धं गङ्गातीरं शोच्यम् । यथा च दारिद्र्येणाकिंचनत्वेन दुग्धं दाहयुक्तं साधोः सतो गृहस्थस्य वृत्तं शोच्यम् । यथा च श्रुतेन शास्त्रेण पठितेन विश्रुतस्य प्रसिद्धस्य जन्तोः समत्सरं सरोषं चित्तं मनः शोच्यम् । यथा च विद्यया विहीनं निर्मलकुलीनस्य रूपं शोच्यम् । यथा च कापुरुषस्य कृपणस्य वित्तं दानभोगरहितं शोच्यम् । तथैव हे विभो, ममापि मानुष्यं मनुष्यजन्म उज्ज्वलेन निर्मलेन कुलेन श्रुतेन शास्त्रेण शीलेनाचारेण शुद्धं विमलमपि विपदा दारिद्र्येण विधुरितं कातरीकृतं शोचनीयं जातम् ॥ तिलकम् ॥ इदानीं तद्वृत्तांसक्तचेतस्त्वात्पर इव पश्यन्विलपति पश्चात्पुरः प्रतिदिशं च विमृश्य पश्य- न्क्रूरं कृतान्तहतकं फणिपाशपाणिम् । भूमौ पतामि कृपणं प्रलपामि पाद- पीठे लुठामि शठवत्कठिनोऽसि कस्मात् ॥ १०१ ॥ हे विभो, क्रूरं नितान्तं क्रूराशयं फणिपाशपाणिं सर्पपाशहस्तं कृतान्तहतकं दुष्टय- मम् । अपिशब्दोऽन्वर्थ: (?) । पश्चादपि पुरोऽपि प्रतिदिशं च विमृश्यागतं पश्यन्भमौ पतामि लुठामि । कृपणं दीनं च प्रलपामि निरर्थकं वच्मि । तवैव विभोः प्रतिमायाः पादपीठे लुठामि शठवत्कितववत्कठिनः कठिनहृदयः कस्मादसि । एतद्वृत्तानुसारेण म मापीदं वृत्तद्वयम् - 'जलधर इव गर्जितं वितन्वन्नयमयमागत एव पाशहस्तः । शरण- मशरणस्य को दयालो मम कृपणस्य कृपां कुरु त्वमत्र ॥' तथा – 'कि सुप्तोऽसि कि- माकुलोऽसि जगतः सृष्टस्य रक्षाविधौ किं वा निष्करुणोऽसि नूनमथवा क्षीबः स्वतन्त्रो ऽसि किम् । किं वा मादृशनिःशरण्यकृपणाभाग्यैर्जडोऽवागसि स्वामिन्यन्न शृणोषि मे विलपितं यन्नोत्तरं यच्छसि' ॥ आः किं न रक्षसि मयत्ययमन्तको मां हेलावलेपसमयः किमयं महेश । मा नाम भूत्करुणया हृदयस्य पीडा व्रीडापि नास्ति शरणागतमुज्झतस्ते ॥ १०२ ॥ हे महेश परमशिव निमेषमात्रेणापि त्रिजगदुद्धारक, । आः कोपे । अयमन्तको यमो मां नयति । हठादिति शेषः । अतो हे विभो, त्वं मां किं न रक्षसि । हेलया क्री- डयावलेपोऽवगणनं तस्य समयोऽयं किं भवति । नाम संभावनायाम् । ईदृशं पूकृत्या- क्रन्दन्तं मृत्युग्रस्तं पुरो मामवलोक्य करुणया कृपया तव हृदयस्य चित्तस्य पीडा मा भून्मा भवतु परंतु शरणागतं मामुज्झतस्त्यक्तवतस्तव व्रीडा लज्जापि नास्ति । काक्वा नास्तीत्यर्थः ॥ अज्ञोऽसि किं किमबलोऽसि किमाकुलोऽसि व्यग्रोऽसि किं किमघृणोऽसि किमक्षमोऽसि । निद्रालसः किमसि किं मदघूर्णितोऽसि क्रन्दन्तमन्तकभयार्तमुपेक्षसे यत् ॥ १०३ ॥ है विभो, त्वं किमज्ञोऽसि परपीडानभिज्ञोऽसि । किं वाबलो बलरहितोऽसि । ईदृशसंकटस्थशरणागतरक्षणासामर्थ्यात् । अथवाकुलो व्याकुलोऽसि । किं वा व्यग्रो जगद्रक्षाविधानकार्ये व्यग्रोऽसि । किं वाघृणो निष्करुण एवासि । किं वाक्षमोऽसमर्थो ऽसि । किं वा त्रिजगद्धारणे श्रान्तः सन्निद्रयैवालसोऽसि । किं वा मदेनाम्बुधिमथनो दितमदिरामदेन घूर्णितोऽसि । अत्र हेतुमाह - कस्मात्कारणादीदृशं पूत्कृत्याक्रन्दन्तमपि मामन्तकभयार्तं मृत्युभयपीडितमुपेक्षसे त्यजसीति । तव त्रिजगदुद्धारकस्यैतन्न युक्तमित्यर्थः ॥ पुनरप्येतदेव समर्थयति द्वेषः किमेष कृपणे किमुताक्षमेयं निस्त्रिंशता किमथवा किमशक्तिरेव । हुंकारमात्रकनिराकरणीयगर्वे सर्वेश कालहतके यदियत्युपेक्षा ॥ १०४ ॥ हे सर्वेश विश्वनाथ, कृपणेऽतिकातरेऽर्थान्मयि एष द्वेषः किमदृष्ट्यवलोकनं किम् । उत पक्षान्तरे अक्षमा किम् । अथ वा निस्त्रिंशता निर्दयता किमियं भवति । अथेयमशक्तिः किं भवति । असामर्थ्यमित्यर्थः । यद्यस्मात्केवलं हुंकारमात्रकेणैव निराकरणीया हंकारे दुष्टकृतान्तेऽपीयती बहुतरा उपेक्षा भवति ॥ पूर्वोतं संगृह्णाति इत्यादि दूढ्य इव निष्ठुरपुष्टभाषी यत्किंचन ग्रहगृहीत इवास्तशङ्कः । आर्त्या मुहुर्मुहुरयुक्तमपि ब्रवीमि तत्रापि निष्कृप भिनत्सि न मौनमुद्राम् ॥ १०९ ॥ हे स्वामिन्, दुरूहाशयः पुरुषो दूढ्यः । 'दुष्टाशयस्तु दूढ्यः स्यात्' इति हलायुधः । दूढो निपातितः ररूहो दूढ्य इति (?) । हव्यकव्यविधाषनिमन्त्रितः स्वयमागतो दूढ्य इति कश्मीरेषु भाषया विप्रो 'डोड' इति प्रसिद्ध इति च । यथा दूढ्यो निष्ठुरं क्रूरं पुष्टं च भाषत इति निष्ठुरपुष्टभाषी भवति । यथा ग्रहो हेवाक एव ग्रहो भूतप्रेतादिस्तेन गृहीतो यथास्तशङ्को यत्किंचन प्रलपितुं निःशङ्को भवेदेवमार्त्या मुहुर्मुहुरयुक्तमप्यनुचित मपि इत्यादिपूर्वोक्तं यत्किंचन ब्रवीमि तत्रापि तथापि हे निष्कृप निर्दय विभो, मौनमुद्रां मौनेन मुद्रा तां न भिनत्सि । न वदसीत्यर्थः ॥ पुनरपि स्वावस्थां निवेदयति भीते भवार्तिविधुरे चरणाग्रलग्ने भग्नेप्सिते गतिमपश्यति कांचिदन्याम् । कस्मादनागसि मनागसि विश्वसाक्षि- न्दाक्षिण्यदिग्धहृदयोऽपि पराङ्मुखस्त्वम् ॥ १०६ ॥ हे विश्वसाक्षिन् त्रिजगत्येकदृष्टित्वेन व्यवस्थित, भीते सर्वत उपद्रुते तथा भवार्त्या सं- सारोदितमनःपीडया विधुरे व्याकुले चरणाग्रलग्ने पादाम्बुजाग्रलुठिते तथा भग्नमी- प्सितं संसारार्णवोत्तरणरूपं यस्य स भग्नेप्सितस्तादृशे कांचिदन्यां गतिमुपायमपश्यति न पश्यन्नपश्यंस्तादृशे तथानागसि निरपराधेऽर्थान्मयि दाक्षिण्येन लक्षणया स्नेहेन दीनज- नोपरि स्थितेन दिग्धं व्याप्तं हृदयं यस्य तादृशोऽपि त्वं मनागीषदपि पराङ्मुखोऽसि ॥ स्वामिन्निसर्गमलिनः कुटिलश्चलोऽह- मेतादृगेव च रिपुर्मम मृत्युपाशः । भ्रूपल्लवस्तव तथाविध एव तस्य शान्त्यै विषे हि विषमे विषमेव पथ्यम् ॥ १०७ ॥ हे स्वामिन्, निसर्गतः स्वभावतो मलिनो मलिनाशयोऽत एव कुटिलो वक्रश्चलश्च- ञ्चलप्रकृतिश्चास्मि । एतादृगेव निसर्गमलिन: स्वभावेन श्यामवर्णो वक्रश्चलश्च रिपुः । रेपयति गच्छति विघातार्थं रिपुः । 'रेट गतौ' । मम रिपुर्घातको मच्छत्रुर्मृत्युपाशोऽन्त- कसर्पपाशोऽप्यस्ति । हे स्वामिन्परमेश, तव भ्रूपल्लवोऽपि तथाविध एव निसर्गमलिनः स्वभावतः श्यामलरोमशो वक्रो धनुराकृतिश्चलश्च भवति । अत एव तस्य मद्वधोयुक्त- स्यैतादृशस्यैव मृत्युपाशस्य शान्त्यै निश्चेष्टीकरणाय । क्षम इति शेषः । क्षमो भवति । ए तदेव वृद्धसंमत्या द्रढयति- हि यस्मात्कारणाद्विषमेऽत्युग्रे विषे गरले पथ्यं हितं नीरोग- त्वविधायि विषमेव भवति । 'हिमेनैव हिमं शाम्येत्' इतिवदित्यर्थः । तथा च दुःखो- पहतजनवर्णनप्रस्तावे ममापि वृत्तमेकम् – 'दुःखितस्य बहुदुःखसंचयैर्दुःखमुग्रमपि किं करिष्यति । नाहिफेनमहिफेनसेविनः क्वापि दुर्जरतरं भविष्यति ॥" इति ॥ किं कार्यमेभिरनिशं पुनरुक्तशुतै- रुद्वेगकारिभिरलब्धफलैः प्रलापैः । एवं विदन्नपि मुहुर्मुखरं विरौमि पश्यामि न त्वदितरं हि परं शरण्यम् ॥ १०८ ॥ पुनरुक्ताः पुनः पुनः सगद्गदमुक्ता अत एव शुक्ताः पर्युषिताः । 'शुक्तः पर्युषितौ• दनः' इत्यायुर्वेदे । 'शुक्तमन्नं न भुञ्जीत सद्यो दोषकरं हि तत्' इति च । शुक्तौदन- तुल्यैरित्यर्थः । तथोद्वेगं वैमनस्यं कुर्वन्ति तादृशास्तैः । तथालब्धफलैर्निष्फलैः प्रलापैर्नि- रर्थकसगद्गदवचनैरनिशं सर्वदा कि कार्यं विधेयं स्यात् । न किंचिदित्यर्थः । एवं विद ञ्जानन्नप्यहं मुखरं विरौमि घोरं क्रन्दामि । एवं कृतेऽपि हे विभो, त्वदन्यं परमुत्कृष्टं शरण्यं न हि पश्यामि । शरणे साधुः शरण्यस्तम् ॥ त्वं चेत्प्रसादसुमुखः प्रणयोक्तिभिः किं त्वं चेदनादरपरः प्रणयोक्तिभिः किम् । भाग्योदये सति वृथैव गुणेषु यत्न- स्तस्मिन्नसत्यपि वृथैव गुणेषु यत्नः ॥ १०९ ॥ हे विभो, प्रसादेन मुखप्रसन्नतयानुग्रहेण वा सुमुखः शोभनवदनस्त्वं चेत्कस्यापि सु- कृतिनो भवसि तर्हि तस्य जनस्य विभुं प्रति प्रणयोक्तिभिः सविनयवचनैः प्रतिवचनैर्वा किं भवति । न किंचिदित्यर्थः । सर्वदा स्वातन्त्र्याद्विभोरनभ्रे व्योम्नीवाकस्मात्तत्कृपावृ `ष्टेरुदयादित्यर्थः । हे विभो, त्वं चेत्कस्यापि दुष्कृतिनोऽनादरपरो मुखप्रत्यावर्तनेनादरपरोऽसि तदा प्रणयोक्तिभिः किं स्यात् । न किंचिदित्यर्थः । दृष्टं चैतत् । पुंसो भाग्योदये भाग- धेयोदये सति गुणेषु विद्वत्तादिषु यत्नः प्रयत्नो वृथैव भवति । तस्मिन्नसत्यपि गुणेषु यत्नौ वृथैव । व्यर्थ इत्यर्थः ॥ जानन्नपीति विरमामि न यत्प्रलापा- दार्तेर्महेश महिमैष दृशस्तवेव । या रात्रिमेव दिवसं तिमिरं प्रकाश- मग्निं हिमं गरलमप्यमृतं करोति ॥ ११० ॥ हे महेश परमेश, इति पूर्वोक्तप्रकारेण जानन्नप्यहं यत्प्रलापात्सगद्गदव्यर्थवचनान्न विरमामि विराममवसानं न भजे मौनं न करोमि स एष तस्या आर्तेरेव महिमा । आर्तेः कस्या इव, तव दृश इव तवानुग्रहद्दष्टेरिव । तस्या आर्तेः कस्या इत्याह – रा- त्रिमित्यादि । या आर्ती रात्रिमेव तमस्विनीमेव दिवसं सप्रकाशं करोति । आर्तो न जानात्वेषा रात्रिरिति । तथा तिमिरमपि तमोऽपि प्रकाशं तेजोरूपं करोति । अग्निं ज्वलनमपि हिमं करोति । आर्तो ह्यतिशीतलोऽयमिति मत्वानावपि झम्पां ददातीत्यर्थः। तथा गरलमपि विषमप्यमृतं करोति । रसायनं जानाति । हे विभो, भवदीयानुग्रहदृ- ष्टिरप्येवमेव । तथा हि कस्यापि परमेश्वरभक्तस्येदं वृत्तम् – 'अरिर्मित्रं विषं पथ्यम- धर्मो धर्मतामियात् । अनुकूले जगन्नाथे विपरीते विपर्ययः ॥' इति ॥ आर्तिः श्रुतैव कृपणात्करुणां तवान्त- रुत्पादयत्यनिशमग्निशिखां शमीव । जातैव निर्दहति तामियमित्यमुत्र किं ब्रूमहे महदनङ्कुशमीश्वरत्वम् ॥ ११९ ॥ आर्तिर्जन्मजरामरणत्रासाद्भूता कृपणाद्दीनजनान्मादृशाच्छ्रुतैव श्रुतमात्रैव तव विभो- र्दयालोरन्तः करुणां दयां सदैवोत्पादयति । का कामिव । शमी शमीतरुशाखाग्निशिखा- मिव । यथा शमीशाखाग्निज्वालामुत्पादयति तद्वत् । इदं त्वतिचित्रं तव विभोरियं क रुणा जातैव जातमात्रैव तां दीनजनार्तिम् । यस्या दीनजनार्तेः करुणा तथोत्पन्ना ता. मेव निर्दहति भस्मीकरोति । यथा शमीशाखाया एवोत्पन्नाग्निज्वाला जातमात्रैव शमीं निर्दहति तद्वदित्यर्थः । इति हेतोरमुत्र विषये विभोर्महदनङ्कुशं निर्निरोधमीश्वरत्वमैश्वर्यं वयं किं ब्रूमहे ॥ यन्नाम पामरजनोचितमत्र किंचि- दौचित्यमुक्तमसमञ्जसमभ्यधायि । तत्रापि भर्तुरुचिता रुचिरीश्वराणां चेतश्चमत्कृतिकरी कपिझम्पिकापि[^१] ॥ ११२ ॥ हे विभो, औचित्येन परमार्थरूपेण मुक्तं रहितमसमञ्जसं वितथप्रायम् । नाम नि- श्चये । अत्र स्तुतिप्रसूनाञ्जलिप्रबन्धे यत्पामरजनोचितं पामरवचनसदृशमभ्यधाय्युक्तं तत्रापि मादृशपामरजनविरचितस्तुतिवचनेऽपीश्वराणां सदैव स्वतन्त्राणां रुचिरभिलाष उचिता युक्त एव । दृष्टं चैतत् – यथा कपिझम्पिका वानरोत्प्लुतिरीश्वराणां प्रभूणां चेतश्चमत्कारकरी तद्वन्ममापि पामरस्येयमुक्तिरित्यर्थः ॥ [^१]. 'एव'. चौरैर्गृहीतमपि दृष्टमपि द्विजिह्वै- र्ग्रस्तं ग्रहैरपि निरुद्धमपि द्विषद्भिः । व्याघ्रैरुपद्रुतमपि द्रुतमाक्षिपद्भि- रन्विष्टमप्यवनिभृत्पुरुषैः सरोषैः ॥ ११३ ॥ भूताभिभूतमपि सिन्धुजलेऽपि मग्नं भग्नं रणेऽपि पतितं दवपावकेऽपि । किं भूयसा यमभटैरपि कृष्यमाणं कस्त्रातुमर्हति महेश्वरमन्तरेण ॥ ११४ ॥ (युग्मम्) चौरैः स्तेनैर्गृहीतमपि तथा द्विजिह्वैः सर्पैर्दष्टमपि । ग्रहैर्ब्रह्मराक्षसवेतालादिभिर्ग्र- स्तमपि । द्विषद्भिः शत्रुभिर्निरुद्धमपि । द्रुतमाक्षिपद्भिर्व्याघ्रैः शार्दूलैरुपद्रुतमपि । तथा सरोषैरतिक्रुद्धैरवनिभृत्पुरुषै राजपुरुषैरन्विष्टं गवेषितमपि । भूतैर्ग्रहविशेषैरभिभूतं परा- भूतमपि । तथा सिन्धुजलेऽपि समुद्रजलेऽपि भग्नपोतत्वान्मग्नम् । तथा रणेऽपि सङ्ग्रा- मेऽपि भग्नं पराजितम् । तथा दवपावकेऽषि दवाग्नावपि पतितम् । एतेभ्योऽप्यतिसंकटं महाभयमाह - किं भूयसेति । भूयसा बहूक्तेन किम् । यमभटैरपि यमकिंकरैरपि फ णिपाशदण्डपाणिभिः कृष्यमाणं क्रन्दन्तं दीनं पुरुषं महेश्वरं परमेश्वरं दयालुमन्तरेण बिना कोऽन्यस्त्रातुमर्हति ॥ युग्मम् ॥ तज्ज्ञो बतास्म्यभिलषन्सुखमक्षयं य द्दुःखैकधाम वपुरस्थिरमर्थयामि । यद्वा भवाब्धितरणाय पुराणमुग्र शीलं पुमांसमुडुपार्धधरं श्रयामि ॥ ११९ ॥ बताश्चर्ये । अहं तज्ज्ञोऽस्मि विचक्षणोऽस्मि । सविडम्बनमात्मानं प्रत्युक्तिः । तज्ज्ञो नास्मीत्यर्थः । यदहमक्षयं निर्नाशं सुखमिच्छन्दुःखैकधाम दुःखस्यैवैकं स्थानम् । सुख- स्यापि परिणामदुःखत्वात् । "मनुष्या नित्यदुःखिनः' इत्युक्तेः । ईदृशमस्थिरं वपुः श- रीरं यदर्थयामि याचे । पक्षान्तरमाह—यद्वेत्यादि । यद्वा पक्षान्तरे भवः संसार एवा- पारत्वादब्धिस्तस्य तरणायोग्रशीलमुग्रं कठिनं शीलं स्वभावो यस्य स रौद्रत्वादुग्रशी- लस्तं पुराणं पुमांसं पुराणपुरुषमतिवृद्धं पुरुषं च उडुपार्धधरमुडूनि नक्षत्राणि पातीत्यु- डुपश्चन्द्रस्तस्यार्धं शकलं धारयतीति तादृशस्तं महेश्वरम् । तथा 'उडुपं' ह्रस्वादि ह्र- स्वमध्यम् । 'उडुपश्चन्द्रभेलयोः' इति धरणिः । अतः पुंस्यप्युडुपो भेल इति ख्यातः" इति रायमुकुट्याम् । 'उडुपस्तृणप्लवः' इति क्षीरस्वामी । उडुपस्य तृणप्लवस्य कश्मीरेषु भाषया 'तरपतुल' इति ख्यातस्यार्धं धारयतीति तं च । यथातिवृद्ध उडुपार्धधारी च स कथं समुद्रात्तारयतीति निन्दाप्यन्यार्थत्वेन स्तुतिपर्यवसायिनी ॥ दृड्यार्गमात्रपतिताः सहसैव यस्य पञ्चत्वमिन्दुरविहभुजोऽप्यवापुः । धीमानहं बत तमेव सदाशिवं य- देवं श्रयामि शरणं मरणार्तिभीरुः ॥ ११६ ॥ यस्य श्रीशिवभट्टारकस्य दृशां तिसृणां नेत्रत्रयस्य गोचरमात्रपतिताः सहसैव तत्क्ष- णमेव रवीन्दुहव्यभुजोऽपि सूर्येन्द्वग्नयोऽपि पञ्चत्वं पञ्चसंख्यावत्त्वमवापुः । अथ च प ञ्चत्वं मरणमपि । 'स्यात्पञ्चता कालघर्मः' इत्यमरः । यतः सद्योजाततत्पुरुषाघोरवाम देवेशाना इति भगवतः पञ्चवक्त्राणि । 'पञ्चवक्त्रं विशालाक्षं सर्पगोनासमण्डितम्' इति स्वच्छन्दमहातन्त्रे । पञ्चसु वक्त्रेषु प्रत्येकं नेत्रगोचरस्थत्वेन सूर्येन्द्वग्नीनामपि पञ्चत्वं प ञ्चसंख्यात्वं कालधर्मश्च । अहं धीमान् । बताश्चर्ये । मरणार्तिभीरुस्तमेव सदाशिवं देव- माश्रयामीति प्राग्वन्निन्दा स्तुतिपर्यवसायिनी ॥ स्थाणुः स यत्र विभुरस्य वधूरपर्णा सा यत्र यत्र च तयोस्तनयो विशाखः । प्रज्ञावतामहमहो प्रवरः प्रवेष्टु- मिच्छामि धाम तदभीष्टफलाप्तये यत् ॥ ११७ ॥ यत्र धामन्यास्पदे स्थाणुः । तिष्ठति महाप्रलयेऽप्यनश्वरः स्थाणुर्महेश्वरश्छिन्नशाखो द्रुमश्च । यत्र विभुः स्वामी । यत्र च तस्यापि स्थाणोर्वधूः सा प्रसिद्धा अपर्णा । शंभो- राराधनाय तपसि पर्णानामप्यनशनादपर्णा पार्वती । तथा अपर्णा पर्णरहिता च च्छि- न्नशाखद्रुमस्य वधूः । तयोः स्थाण्वपर्णयोरपि तनयः सुतो विशाखः । "विशाखायां जातो विशाखः । 'नक्षत्राल्लुग्बहुलम्" इति स्वामी । स प्रसिद्धो विशाखः कुमारः शाखा- रहितश्च यत्र । अहो आश्चर्ये । अहं प्रज्ञावतां धीमतां प्रवरोऽभीष्टफलप्राप्तये तद्धाम तदास्पदं प्रवेष्टुमिच्छामि यत्तदहमतिप्राज्ञ इत्यत्रापि निन्दा स्तुतिपर्यवसायिनी ॥ मार्जारसूकरसृगालकरालवक्त्र- वेतालभूतशतसंकुलमीश्वरस्य । भीष्मं निशाचरपिशाचरवैः प्रवेष्टु- मिच्छामि धाम मतिमानतिमात्रभीरुः ॥ ११८ ॥ मार्जारो विडालः । सूकरो वराहः । सगालः क्रोष्टा । द्वन्द्वात्परः श्रूयमाणः प्रत्येक मभिसंबध्यते । मार्जारवक्त्राणि च सूकरवक्त्राणि च सृगालवक्त्राणि च वेतालभूतश- तानि तैः संकुलम् । भूताधिष्ठितं शवशरीरं वेतालः । भूतो ग्रहविशेषः । एवंभूतम् । तथा निशाचराणां रक्षसां पिशाचानां च रवैः शब्दैर्भीष्मं भयानकमीश्वरस्य धाम प्र वेष्टुमतिमात्रं भीरुर्मतिमानहमिच्छामि । प्राग्वदत्रापि निन्दा स्तुतौ पर्यवस्यति ॥ कर्णेक्षणादचरणान्त्रिफणात्कृतान्त- पाशान्त्रसन्धृतसहस्रफणोरगेन्द्रम् । प्राज्ञः सहस्रशिरसं पुरुषं सहस्र- नेत्रं सहस्रचरणं शरणं श्रयामि ॥ ११९ ॥ अहं प्राज्ञो धीमान्कर्णावेवेक्षणे यस्य स तादृशस्तस्माच्चक्षुःश्रवसः । तथाचरणादवि- द्यमानाश्चरणाः पादा यस्य स तादृशस्तस्मात् । गूढपादत्वात्सर्पस्य । तथा त्रिफणात्फ- णत्रयमात्रयुक्तात्कृतान्तपाशाद्यमसर्पपाशान्त्रसन्धृतः सहस्रफण उरगेन्द्रो वासुकिर्येन स तादृशस्तम् । तथा सहस्रशिरसम् । सहस्रं नेत्राणि यस्य स तादृशम् । सहस्रचरणं सहस्र- पादम् । पुरुषं पुरि पुरि शेते पुरुषः परमात्मा । 'सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्र- पात्' इति श्रुतेः । तं शरणं श्रयामि । इत्यत्रापि प्राग्वत्स्तुतिपर्यवसायिनी निन्दा ॥ त्रस्तः समस्तजनतापहृतिप्रगल्भा- द्दीप्तानलोल्बणदृशः शिव जीवितेशात् । प्राज्ञः समस्तजनतापहृतिप्रगल्भं त्वां जीवितेशमनलोग्रदृशं श्रयामि ॥ १२० ॥ हे शिव कैवल्यद, जनानां समूहो जनता । समस्तजनताया अपहृतिः संहारस्तत्र प्र- गल्भस्तस्मात् । तथा क्रोधेन दीप्तानलवदुल्बणे उद्भटे दृशौ यस्य स तादृशस्तस्मात् । जीवितेशाद्यमात्रस्तो भीतः सन्नहं प्राज्ञो धीमान्समस्तजनानां शिवादिक्षित्यन्तलोकानां तापास्त्रय आध्यात्मिकाधिदैविकाधिभौतिकास्तेषां हृतिस्तत्र प्रगल्भस्तादृशम् । अनलेना- ग्निनोग्रा दृक् तृतीयनेत्रं यस्य स तादृशस्तम् । जीवितेशं परमात्मानं श्रीशिवं श्रयामि ॥ निर्भर्त्सितक्रतुमृगं समशिश्रियत्त्वां संन्यस्तलाञ्छनमृगः कलया मृगाङ्कः । यत्कामवैरिणमवेत्य सकाम एव त्वामाश्रितोऽस्मि सुधियामधिकस्ततोऽहम् ॥ १२१ ॥ दक्षक्रतुध्वंसने निर्भर्त्सितो इत: क्रतुरेव मृगो येन स तादृशस्तं त्वां विभुं कलया षो- डशांशरूपया नितरामस्तो दूरीकृतो लाञ्छनमृगो येन स तादृशः । कलया वृद्धिरूपेण व्याजेन च । एवंभूतो मृगाङ्कश्चन्द्रोऽशिश्रियत् । तयुक्तमेवेत्यर्थः । यत्तु कामस्य स्मरस्य वैरिणं दाइकं त्वां विभुमवेत्य सकाम एव साभिलाष एव त्वां देवं यदाश्रितोऽस्मि ततो- ऽहं सुधियां मनीषिणां मध्येऽधिकः । इत्यत्रापि निन्दा स्तुतिपर्यवसायिनी । कामारिं सकामः कथमाश्रयतीति विरोधः । अन्यार्थत्वेन तदभावः ॥ पद्माश्रितः शतधृतिश्चतुराननोऽपि यस्मात्पराभवमवापदवाच्यमेव । त्यक्तः श्रिया गतधृतिर्मृदुमन्दवक्त्रः प्राज्ञस्तमीश्वरमनुग्रहमर्थयेऽहम् ॥ १२२ ॥ पद्मं निजासनमाश्रितः श्लेषोक्त्या पद्मां रमां श्रितश्च । शतं धृतयोऽस्य शतधृतिर्दे- श्यामिति (?) क्षीरस्वामी । चत्वार्याननानि यस्य स चतुराननः श्लेषेण चतुरमाननं यस्य स तादृशोऽपि ब्रह्मा यस्मादीश्वरादवाच्यं वक्तुमनर्हमेव पराभवं शिरश्छेदरूपमवाप । 'तवैश्वर्यं यत्नाद्यदुपरि विरिञ्चो हरिरधः परिच्छेत्तुं यातौ' इत्यत्रापि वृत्ते एत- दाकर्ण्याप्यहं प्राज्ञो धीमांस्तद्विपरीतः श्रिया व्यक्तः । अपद्माश्रित इत्यर्थः । एवमग्रे- ऽपि । गतधृतिर्निर्धैर्यः । मृदुमन्दं वक्त्रं यस्य स तादृशोऽपि तमेवेश्वरं परमेश्वरमनुग्रह- मर्थये । इत्यत्रापि प्राग्वत् ॥ आ जन्म कर्म विरचय्य फलं यदाप्तं हृत्वा क्षणात्तदखिलं चिरकालभोग्यम् । यः स्वीकरोत्यपुनरागमनाय भक्तं सेवे तमीश्वरमहो मतिमत्तमोऽहम् ॥ १२३ ॥ जन्मन आरभ्य आ जन्म कर्म शुभाशुभं विरचय्य । भक्तेनेति शेषः । भक्तजनेन यत्फलं शुभाशुभमाप्तं तदेव चिरकालभोग्यमखिलं फलं क्षणाद्धृत्वा अपुनरागमनाय ऐकान्तिकात्यन्तिकदुःखनिवृत्तये यो विभुर्भक्तं भक्तजनं स्वीकरोति निजसायुज्यं प्राप- यति । अहो आश्चर्ये । तमेवेश्वरं मतिमत्तमो बुद्धिमत्तमः सेवे । अत्रापि प्राग्वद्योजना ॥ श्मशानैकस्थानव्यसनमनलोत्तालनयनं विषज्योतिर्ज्वालाजटिलकुटिलव्यालवलयम् । विभुं मुण्डश्रेणीविकटमुकुटं भीरुहृदयः श्रयन्भीमं धीमानहमहसनीयः कृतधियाम् ॥ १२४ ॥ श्मशानमेवैकं प्रियतमं स्थानमस्य तादृशस्तम् । तथानलेनाग्निनोत्तालमुद्भटं नयनं तृतीयं यस्य स तादृशस्तम् । तथा विषज्योतिर्ज्वालाभिर्विषा ग्निज्वालाभिर्जटिलो जटा- वानिव यः कुटिलो व्यालः सर्पो वासुकिः स एव वलयः कङ्कणं यस्य स तादृशस्तम् । तथा मुण्डानां महाप्रलयेषु संहृतानां ब्रह्मादीनां ये मुण्डाः कपालास्तेषां श्रेण्येव विकटो विस्तीर्णो मुकुटो यस्य स तादृशं भीमं श्रीशिवं भयानकं च श्रयन्नहं कृतधियां विदुषा- महसनीयोऽहास्योऽस्मि । काक्वा हास्योऽस्मि किं नेत्यर्थः ॥ अहो तत्त्वज्ञोऽहं करतलविलीनैकफणिनः समुन्त्रस्यन्कालात्क्रमकवलितैकैकभविनः । महाकालं सर्वावयवसुलभानल्पभुजगं सकृद्विश्वग्रासप्रवणमतिमभ्येमि शरणम् ॥ १२५ ॥ अहो आश्चर्ये । करतले विलीन एकः फणी फणिपाशो यस्य स तादृशात् । तथा क्रमेण यथाक्रमं कवलितो ग्रस्त एक एको भवी देही येन स तादृशात् । कालात्समुन्त्र स्यन्नहं भीरुहृदयो भीतहृदयः सन्सर्वावयवेषु करचरणादिषु सुलभा अनल्पा महान्तो भुजगा: सर्पा: शेषादयो यस्य स तादृशम् । तथा सकृदेकवारमेव विश्वग्रासप्रवणमतिं जगसप्रवृत्तमतिं महाकालं कालाग्निरुद्रं श्रीशिवभट्टारकं शरणं यदभ्येमि गच्छामि तत्तत्वज्ञः परमार्थज्ञोऽस्मि । अत्रापि प्राग्वद्योजना ॥ शृङ्गी यत्र स्फटिकशिखरी यत्र शृङ्गी पिनाकः शृङ्गी सोऽपि स्फुरति वृषभो वल्लभो यत्र भर्तुः । तत्र त्रस्तः प्रकृतिसरलः स्वल्पवागप्रगल्भः प्राज्ञः सेवासमयमुचितं स्वामिनः प्रार्थयेऽहम् ॥ १२३ ॥ यत्र शिवभट्टारकद्वारि भर्तुः श्रीशंभोर्वल्लभः प्रेमभाजनं स्फटिकशिखरी कैलासः शृङ्गी शिखरी भवति । अथ च शृङ्गी गर्वी । 'शृङ्गं प्राधान्यसान्वोच गर्वे च' इति कोषः । यत्र पिनाकोऽजगवं धनुर्भर्तुः श्रीशिवस्य वल्लभः सोऽपि शृङ्गी शृङ्गेन रचितो दर्पोद्धतश्च । तथा सोऽपि वृषभ: स्वामिनो वल्लभः शृङ्गी शृङ्गद्वयवान् गर्वी च स्फुरति तत्र महाराजद्वारि त्रस्तो भीतः प्रकृत्या स्वभावेन सरल ऋजुः स्वल्पवागस्यन्दगद्गदवचनोऽप्रगल्भोऽप्रौढः प्राज्ञो धीमानुचितं सेवासमयं सेवावसरं स्वामिनः श्रीशंभोरहं प्रार्थये । अतोऽपि नितरां हसनीयोsस्मीत्यर्थः । एतद्द्वृत्ताभिप्रायेण मदीयमपि वृत्तद्वयम् – 'दोषाकरः शिरसि कण्ठतले द्विजिह्वः पादान्तगोऽपि सततं खलु यस्य शृङ्गी । द्वारान्तिकं कथमुपैमि हि भैरवस्य तस्य प्रभोर्विशरणः कृपणोऽतिसाधुः ॥,' 'दोषाकरः स कुटिलो विमतिश्च शृङ्गी कोपी सदा बहुतरामपि स द्विजिह्वः । एते यदि प्रियतमा भवतस्तदाहमेकोऽपि तादृगिह मां शिव किं त्यजेथाः ॥' विश्रान्तिर्न क्वचिदपि विपीद्ग्रीष्मभीष्मोष्मतप्ते चित्ते वित्ते गलति फलति प्राक्प्रवृत्ते कुवृत्ते । तेनात्यन्धं सपदि पतितं दीर्घदुःखान्धकूपे मामुद्धर्तुं प्रभवति भव त्वां दयाब्धिं विना कः ॥ १२७ ॥ हे विभो, विपदेव संतापकारित्वाद्रीष्मो निदाघस्तस्य भीष्मोष्मणा तप्ते मम चित्ते विश्रान्तिर्नास्ति । तथा गलति क्षयमागच्छति वित्ते धने च सति । तथा प्राक्प्रवृत्ते पू र्वजन्मोपार्जिते च कुवृत्ते दुष्टाचारे फलति सति । मम चित्ते विश्रान्तिर्न भवति तेन हेतुनात्यन्धं हे भव विभो, सपदीदानीं दोर्घदुःखमेवान्धकूपस्तत्र पतितं मामुद्धर्तुं त्वां दयार्णवं विना कोऽन्यः प्रभवति समर्थो भवति ॥ येषामेषा तनुधनलवप्रार्थनानर्थकन्था पन्थानं न प्रदिशति परं स्थानमानन्दि लब्धुम् । तेषामेषामकृपण कृपाभाजनानां जनाना- माशापाशाकुलितमनसां दृष्टिमिष्टां निधेहि ॥ १२८ ॥ एषा तनुधनलवेति तनुरल्पो यो धनलवस्तस्य याः प्रार्थना याञ्चास्ता एवानर्थकन्था एषा आनन्दि आनन्दः परमानन्दो विद्यते यत्र तत्परमुत्कृष्टं स्थानं लब्धुं पन्थानं मार्गं येषां न प्रदिशति न ददाति अकृपण वदान्य, तेषामेषामस्मल्लक्षणानां दयापात्राणां जनानामाशापाशेनाकुलितमनसामिष्टां स्निग्धां सानुग्रहां दृष्टिं निधेहि मुश्च ॥ उदञ्चय मुखं मनागभयघोषमुद्घोषय प्रयच्छ विशदां दृशं [^१]गतिविहीनमाश्वासय । किमन्यदयमागतः कुपितदृष्टिरुत्कंधरः कृतान्त इति मा स्म भूरविरलावलेपालसः ॥ १२९ ॥ हे विभो, मनागीषन्मुखमुदञ्चय प्रकटीकुरु दर्शय । त्वं च मां प्रत्यभयघोषं मा भैषीरिति वचनमुद्धोषयोच्चैरुच्चारय । त्वं विशदां निर्मलां दृशं प्रयच्छ देहि । त्वं च गतिविहीनमगतिकमाश्वासय किमन्यदधिकं वच्मि क्रन्दामि च । उच्चैः कंधरा यस्य स उत्कंधरः कुपितदृष्टिः क्रोधोद्धुरदृष्टिरयं कृतान्तो यम आगत इत्यतो हेतोरविरलावलेपेन घनावलेपेनालसो मा स्म भूः । एतद्वृत्तानुसारेण ममाप्येकं वृत्तम् - 'त्रैलोक्योद्धरणैकदक्ष करुणासिन्धो बतेमं जनं त्वं श्वेताभयदानविश्रुतयशः स्तोमो न चेद्रक्षसि । क्रुध्यत्कालकराल हुंकृतिपरित्रस्तोऽहमुच्चैस्तरामब्रह्मण्यमुदीरयाम्यशरणः स्वामिन्नये कं प्रति ॥' मुहुः किमपरं ब्रुवे भुजगपाशपाणिं पुरः- स्फुरन्तमिव रोषणं रविजकिंकरं पश्यतः । धृतिश्चलति मे गतिः स्खलति मूर्तिरुद्वेल्लति [^२]स्थितिर्ज्वलति निर्वृतिर्विगलति स्मृतिर्मीलति ॥ १३० ॥ हे विभो, मुहुः पुनः किं ब्रुवे । रोषणं क्रुद्धं भुजगपाशपाणिं सर्पपाशहस्तं पुरःस्फु [^१]. धृतिविहीनं ' ख. [^२]. 'क्षितिः' ख. Digitized by Google रन्तमिव यमकिंकरं पश्यता मम धृतिश्चलति गतिरपि स्खलति मूर्तिरुद्वेल्लति कम्पते स्थितिरासनं शय्यापि ज्वलति निर्वृतिः सुखं विगलति स्मृतिर्मीलति निहुता भवति ॥ दुर्गं यत्सुगमत्वमेति भजते दूरं यदभ्यर्णतां यत्क्रीडोपवनत्वमेति मरुभूर्मिन्त्रायते यद्रिपुः । यस्याः सा भुवि शक्तिरप्रतिहता सार्तिस्त्वदाक्रन्दने स्वामिन्मामनुदत्कृपापि नुदतु त्वां मत्समाश्वासने ॥ १३१ ॥ यद्यस्या आर्तेः सामर्थ्याद्दुर्गमपि महागहनमपि सुगमत्वमेति । तथा यस्या आर्तेः सामर्थ्याद्दूरमपि निकटतां भजते । मरुभूमिरपि क्रीडोपवनत्वं प्रमदवनत्वमेति । यस्या आर्तेः सामर्थ्याद्रिपुरपि शत्रुरपि मित्रायते । इत्येवंप्रकारेण भुवि भूमौ यस्या आर्तेरप्रतिहता दुर्निवारा शक्तिः सार्तिस्त्वदाक्रन्दने त्वां विभुं प्रत्याक्रन्दने पूत्करणे मामनुदत्प्रेरयामास । 'नुद प्रेरणे ।' हे दयालो, ममाश्वासने कृपापि त्वां नुदतु प्रेरयतु । सर्वथा मामार्तं समाश्वासयेत्यर्थः । तथा च ममापि वृत्तमेकं 'दर्शनस्पर्शनालापैः परीक्षेन्नवरोगिणम्' इत्यायुर्वेदवचनानुसारेण – 'मां पश्य कोमलदृशातुलतापतप्तं मामातुरं भवरुजा स्पृश पाणिना लम् ।…………………………………………॥' द्वारि श्रीश्च सरस्वती च वसतः स्वामिंस्तवास्तक्रुधौ मां तु श्रीर्भवदङ्घ्रिविष्टरतले नित्यप्ररूढस्थितिम् । यावन्मात्रसरस्वतीपरिचयद्वेषादहासीदतो वह्निं दुर्वहमुद्वहामि हृदये ग्लायन्नुदन्वानिव ॥ १३२ ॥ हे स्वामिन्, अस्तक्रुधौ गतरोषे श्रीश्च सरस्वती चेत्युभे अपि तव द्वारि वसतः । तुः पक्षान्तरे । भवदङ्घ्रिविष्टरतले भवत्पादासनतले नित्यं सदैव प्ररूढस्थितिं स्थितिमन्तं यावन्मात्रं स्वल्पमात्रं यः सरस्वत्याः परिचयस्तस्य द्वेषस्तस्माच्छ्रीर्लक्ष्मीर्मामत्यजत् । अत एव हृदये मनसि वह्निं वडवाग्निमुद्वहन्…………॥' नाथ प्राथमिकं विवेकरहितं तिर्यग्वदस्तं वय - स्वारुण्य विहतं विराधितवधूवि[^१]स्रम्भणारम्भणैः । स्वामिन्संप्रति जर्जरस्य जरसा यावन्न धावन्नयं मृत्युः कर्णमुपैति तावदवशं पादाश्रितं पाहि माम् ॥ १३३ ॥ हे नाथ, प्रथमं भवं प्राथमिकं बाल्यं वयो विवेकेन कार्याकार्यविचारेण रहितं मया तिर्यग्वत्पशुवदस्तमतिवाहितम् । तथा विराधितेत्यादि । विराधिता प्रणयकोपयुक्ता चासौ वधूस्तस्या विस्रम्भणमाश्वासनं तस्यारम्भणैर्मुहुर्मुहुरारम्भैस्तारुण्यं वयो मया वि [^१]. 'विस्रम्भणाडम्बरैः' ख. हतं निर्नाशितम् । हे स्वामिन् संप्रतीदानीं जरसा विस्रसया जर्जरस्य जीर्णीकृतस्य मम धावन्नतिवेगेन परिक्रामन्मृत्युर्यावन्न कर्णमुपैति कर्णाभ्यर्णमायाति तावदेवावशमस्वतन्त्रं पादाश्रितं मां पाहि रक्ष ॥ एतद्वत्ताशयेन च मत्कृते शंभुकृतामनोहर (?) स्तवे ममापि वृत्तमेकम् - 'बाल्ये मोहमहान्धकारपटलग्लानेन्द्रियस्य प्रियावकाम्भोरुहसौरभोद्भवमदोन्मत्तात्मनो यौवने । वृद्धत्वे किल घोरयातिजरसा ग्रस्तस्य नष्टस्मृ तेस्त्वं चेन्नाद्य कृपां करोषि मम कस्त्रातास्ति शंभोऽपरः ॥" इति । आसीद्यावदखर्वगर्वकरणग्रामाभिरामाकृति- स्तावन्मोहतमोहतेन न मया श्वभ्रं पुरः प्रेक्षितम् । अद्याकस्मिकपातकातरमतिः कं प्रार्थये कं श्रये किं शक्नोमि करोमि किं कुरु कृपामात्मद्रुहं पाहि माम् ॥१३४॥ हे स्वामिन् । ममेति शेषः । अस्वर्वोऽनल्पो गर्वोऽहंकारो यस्य स तादृग्यः करण- ग्राम इन्द्रियवर्गस्तेनाभिरामा रम्या यावन्ममाकृतिरासीत्तावन्मोहोऽज्ञानमेव तमोऽन्धका- रस्तेन हतेन मया पुरः स्थितं श्वभ्रं महारन्धं न प्रेक्षितम् । 'रन्ध्रं श्वभ्रं वपा सुषिः' इ- त्यमरः । अद्य त्वकस्माद्भव आकस्मिको यः पातः पतनं तेन कातरा दीना मतिर्यस्य स तादृशोऽहं कं प्रार्थये याचे । कं श्रये शरणं श्रयामि । किं शक्नोमि पुनरुत्थातुमसाम- र्थ्यात् । किं करोमि । कृपां कुरु । आत्मने द्रुह्यत्यात्मद्रुट् तादृशं मां पाहि ॥ जात्यन्धः पथि संकटे प्रविचरन्हस्तावलम्बं विना यातश्चेदवटे निपत्य विपदं तत्रापराधोऽस्य कः । धिग्धिड्यां सति शास्त्रचक्षुषि सति प्रज्ञाप्रदीपे सति स्निग्धे स्वामिनि मार्गदर्शिनि शठः श्वभ्रे पतत्येव यः ॥१३९॥ हे विभो, जात्यन्धो जन्मतोऽन्धः पुरुषस्तत्रापि संकटे पथि मार्गे हस्तावलम्बं विना प्रविचरन्नव (त) टे प्रपाते निपत्य चेद्विपदं मृतिं यातस्तत्रास्य कोऽपराधः । निन्दापात्रं न भवतीत्यर्थः । इदं तु निन्दापात्रस्थानम् । तं मां धिग्धिगस्तु । तं कम् । शास्त्रमेव चक्षु- स्तृतीयं तस्मिन्सत्यपि प्रज्ञैव प्रदीपस्तस्मिंश्च सति मार्गदर्शिनि सन्मार्गदर्शके स्निग्धे स्वामिनि च सत्यप्ययं शठो मादृशः श्वभ्रे पतत्येव ॥ त्राता यत्र न कश्चिदस्ति विषमे तत्र प्रहर्तुं पथि द्रोग्धारो यदि जाग्रति प्रतिविधिः कस्तत्र शक्यक्रियः । यत्र त्वं करुणार्णवस्त्रिभुवनत्राणप्रवीणः प्रभु- स्तत्रापि प्रहरन्ति चेत्परिभवः कस्यैष गर्हावहः ॥ १३६ ॥ यत्र विषमेऽतिसंकटे पथि कश्चिदपि त्राता नास्ति तत्र द्रोग्धारो वधका यदि जा ग्रति वधार्थं तत्र कः प्रतिविधिः प्रत्युपायः शक्यक्रियः कर्तुं शक्यः । तत्र निन्दा कापि नास्तीत्यर्थः । यत्र तु त्वं विभुः करुणार्णवः कृपार्णवस्तथा त्रिभुवनत्राणे प्रवीणो दक्षस्तत्रापि द्रोग्धार आन्तराः षट् कामक्रोधाद्याश्चेत्प्रहरन्ति शरणागतं जनमेष परि- भवः कस्य गर्हावहः । स्वामिन्, त्वमेवात्र विचारं कुर्वित्यर्थः ॥ किं शक्तेन न यस्य पूर्णकरुणापीयूषसिक्तं मनः किं वा तेन कृपावता परहितं कर्तुं समथा न यः । शक्तिश्चास्ति कृपा च ते यमभयाद्भीतोऽपि दीनो जनः प्राप्तो निःशरणः पुरः परमतः स्वामी स्वयं ज्ञास्यति ॥१३७॥ यस्य पुंसः पूर्णा महती या करुणा कृपा सैव पीयूषममृतं तेन सिक्तं मनो यस्य नास्ति तेन शक्तेन समर्थेनापि पुंसा किम् । न किंचिदित्यर्थः । तथा यः परहितं परोपकारं कर्तुं न समर्थस्तेन कृपावता दयालुनापि पुंसा किम् । न किंचिदित्यर्थः । एतत्स्वयमेव पूर्वपक्षीकृत्योत्तरपक्षमाह — हे विभो, शक्तिरनश्वरी कृपा चापारा तवैवास्ति । वदान्य- प्रार्थनीयामर्थिप्राप्तिमप्याह – यमभयादित्यादि । यमभयात्कृतान्तत्रासाद्भीतोऽपि निः- शरणो दीनो जनो मल्लक्षणः पुरोऽग्रे विभोः प्राप्तः । अतः परं स्वामी स्वयमेव ज्ञा- स्यति । स्वयमेव निःशरणत्राणं विधास्यतीत्यर्थः ॥ भृङ्गारे करपुष्करप्रणयिनि स्वर्निम्नगानिर्झरे संपूर्णे करुणारसे परिणतस्फारे तुषारत्विषि । अस्ति स्वादु च शीतलं च सुलभं पीयूषमो[^१]षच्छिदे प्राप्तश्च प्रणयी पुरः परमतः स्वामी स्वयं ज्ञास्यति ॥ १३८ ॥ कर एव पुष्करं कमलं तत्र प्रणयः प्राप्तिरस्यास्तीति तादृशे । भृङ्गारः । बिभर्ति शोभामिति । 'भृङ्गारः कनकालुका' इत्यमरः । कनकमयी गलन्तिका भृङ्गारः । हे स्वा मिन्, तव कराम्भोजस्थे भृङ्गारे कनकगलन्तिकायां स्वादु शीतलं च पोयूषममृतमोषच्छिदे । ओषो दाहः । 'उष दाहे' । भविनां भवदावाग्निजो दाइ ओषस्तस्य च्छि. च्छेदनं तस्यै। सुलभं तव पुरस्तवाग्रेऽस्ति । 'देवं सुधाकलशसोमकरं' इति ध्यानोक्तेः । तथा स्वर्निम्नगानिर्झरे स्वर्गङ्गाप्रवाहे तव जटाजूटस्थे स्वादु शीतलं चामृतमस्ति । तथा तव संपूर्ण करुणारसेऽपि स्वादु शीतलं च पीयूषमस्ति । परिणतस्फारे परिणतः परि पूर्णः स्फार उल्लासो यस्य स तादृशे परिपूर्णे तुषारत्विषि चन्द्रमसि स्वादु शीतलं च पीयूषमस्ति । 'देवं सुधाकलशसोमकरं' इत्युक्तेः । एतेषु सर्वेष्वपि स्वादु शीतलं चामृतमोषच्छिदे भक्तजनभवदावाग्निजदाहशान्त्यै तव विभोः पुरः स्थितम् । प्रणयी अर्थी [^१]. 'ऊष्मच्छिदे' ख. च । अर्थादहम् । प्राप्तः अतः परं स्वामी स्वयमेव ज्ञास्यति । अवश्यमेव कृपां विधा यामृतं प्रदास्यतीत्यर्थः ॥ आर्तिः शल्यनिभा दुनोति हृदयं नो यावदाविष्कृता सूते लाघवमेव केवलमिय व्यक्ता खलस्याग्रतः । तस्मात्सर्वविदः कृपामृतनिधेरावेदिता सा विभो- र्यद्युक्तं कृतमेव तत्परमतः स्वामी स्वयं ज्ञास्यति ॥ १३९ ॥ शल्यनिभान्तः शल्यसदृशी आर्तिर्जन्मजरामरणभयार्तिः । सहृदयाग्र इति शेषः । सहृदयाग्रे यावन्नाविष्कृता न प्रकटीकृता ।………………….केवलं वक्तुर्लाघवमेव सूते न तु निर्वाहं यातीति हेतोः सर्वविदः सर्वज्ञस्य कृपापीयूषनिधिभूतस्य तव विभोः पुरो निवेदिता । यद्युक्तमासीत्तन्मया कृतमेव । अतः परं स्वामी स्वयमेव ज्ञास्यति । ममार्तिमवश्यं दूरीकरिष्यतीत्यर्थः ॥ लेखाः सन्तु प्रसन्ना बुधसदसि शुचेरागमस्यास्तु लब्धि- र्मिथ्यादृष्टिश्च मा भूदनुपधिरहतो दीर्घकालोऽस्तु भोगः । सम्याः सर्वेऽनुवृत्तिं विदधतु तदपि न्यायतो नास्ति मुक्तिः सम्यग्दर्शी प्रमाता रचयति न भवानीश्वरश्चेद्विचारम् ॥ १४० ॥ लेखा देवाः । लिख्यन्ते चित्रे ध्यानार्थं लेखा: । 'लेखा अदितिनन्दनाः' इत्यमरः । बुधसदसि देवसभायां लेखा ब्रह्मविष्ण्वाद्याः प्रसन्नाः सन्तु । तथा बुधसदसि देवसभायां पण्डितसदसि वा शुचेनिर्दोषस्यागमस्य शास्त्रस्य लब्धिर्लाभोऽस्तु । निर्मलशास्त्राध्ययनमप्य- स्त्वित्यर्थः । मिथ्यादृष्टिरज्ञानं नास्तिकता च मा भून्मास्तु । अनुपधिश्छद्मरहितो दीर्घका- लोऽतिदीर्घकालस्थायी भोग ऐहिक आमुष्मिको वास्तु । 'व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः । सर्वे सभ्या विपश्चितोऽनुवृत्तिं तदनुवर्तनं विदधत्वङ्गीकुर्वन्तु । तदप्येवमपि सति न्यायत औचित्यवशान्मुक्तिरात्यन्तिकी दुःखनिवृत्तिर्मोक्षो न भवति । यावन्न स- म्यग्दर्शी विश्वसाक्षी स्वयं प्रमाता भवानीश्वरः श्रीशिवभट्टारको विचारं न रचयति । भवान् ईश्वर इति द्वे पदे वा । अथ च लिख्यन्त इति लेखा लेख्यपत्राणि प्रसन्नाः प्र- सन्नानि निर्मलानि सन्तु । बुधसदसि पण्डितसभायां शुचेरागमस्य प्राक्तनभूर्जस्य लब्धिः प्राप्तिरस्तु । दृष्टिर्मिथ्या मा भूत्साक्षित्वमनुचितं मास्तु । भोगो भुक्तिरपि दीर्घकालो- ऽस्तु दीर्घकालिक्यस्तु । दीर्घकालोऽपि किंभूतः । अनुपधिः कालरहितः । अहतो- ऽन्येन केनापि न हतो न भुक्तः । तथा सर्वे सभ्या अनुवृत्तिमङ्गीकारमपि विदधतु कु- र्वन्तु । एवं सत्यपीश्वरविचाराभावे न्यायनिर्वाहो न संभवतीत्यर्थान्तरम् ॥ जानुभ्यामुपसृत्य रुग्णचरणः को मेरुमारोहति श्यामाकामुकबिम्बमम्बरतलादुत्प्लुत्य गृह्णाति कः । को वा बालिशभाषितैः प्रभवति प्राप्तुं प्रसादं प्रभो रित्यन्तर्विमृशन्नपीश्वर बलादार्त्यास्मि वाचालितः ॥ १४१ ॥ हे ईश्वर परमेश, अन्तर्मनसीति विमृशन्नप्यहं.....जानुभ्यामुपसृत्य मेरुं मेरुगिरिमारोहति । तथा क उत्प्रत्याकाशतलाच्छ्यामाकामुकबिम्बं चन्द्रबिम्बं गृह्णाति । न कोऽपि । तथा को बालिशभाषितैर्मूर्खवचनैर्विभोः स्वामिनः प्रसाद प्राप्तुं प्रभवति शक्नोति ॥ अस्य स्तोत्रस्योपसंहारश्लोकावाह धत्ते [^१]पौण्ड्रकशर्करापि कटुतां कण्ठे चिरं चर्विता वैरस्यं वरनायिकापि कुरुते सक्त्या भृशं सेविता । उद्वेगं गगनापगापि जनयत्यन्तर्मुहुर्मज्जना- द्विश्रद्धां मधुरापि पुष्यति कथा दीर्घेति विश्रम्यते ॥ १४२ ॥ पुण्ड्रदेशोद्भव इक्षुः पौण्ड्रः। 'रसाल इक्षुस्तद्भेदाः पौण्ड्रकान्तारकादयः' इत्यमरः । पौण्ड्र एव पौण्ड्रकः । तदुत्था शर्करा पौण्ड्रकशर्करापि चिरं चिरकालं चर्विता सती कण्ठे कटुतां धत्ते । तथा वरनायिकापि वराङ्गनापि भृशं सक्त्या सेविता वैरस्यं नीर- सत्वं कुरुते । तथान्तर्मुहुर्मुहुर्मज्जनाद्गगनापगा गङ्गाप्युद्वेगं वैरस्यं जनयति यथा तथा मधुरापि कथा दीर्घा सती विश्रद्धां श्रद्धाभावं वैरस्यं पुष्यतीति मया विश्रम्यते विश्रामः क्रियते ॥ इत्थं तत्तदनन्तसंततलसच्चिन्ताशतव्यायत- व्यामोहव्यसनावसन्नमनसा दीनं यदाक्रन्दितम् । तत्कारुण्यनिधे निधेहि हृदये त्वं ह्यन्तरात्माखिलं वेत्स्यन्तःस्थमतोऽर्हसि प्रणयिनः क्षन्तुं ममातिक्रमम् ॥१४३॥ इत्थं पूर्वोक्तप्रकारेण तानि तान्यनन्तानि संततं लसन्ति यानि चिन्ताशतानि तैर्वि- शेषेणायतो यो व्यामोहस्तेन व्यसनं तेनावसन्नं सावसादं मनो यस्य स तादृशस्तेन मया यद्दानमाक्रन्दितं हे कारुण्यनिधे श्रीशिव, तद्धृदयेऽन्तर्निधेहि । हि यस्मात्कारणात्त्वम- न्तरात्माखिलं सर्वमेवान्तःस्थं वेत्सि जानासि । अतः कारणात्प्रणयिनोऽर्थिनः शरणाग- तस्य ममातिक्रममतिप्रागल्भ्यपुष्टवचनोपन्यासरूपं क्षन्तुमर्हसीति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ दीनाक्रन्दनं नामैकादशं स्तोत्रम् । [^१[. 'पुण्ड्रक' ख. द्वादशं स्तोत्रम् । अथातस्तमः शमनाख्यं द्वादशं स्तोत्रमारभमाण आह- मखैरुपास्योऽपि नयज्ञसेव्यो निरामयोऽपि प्रथितोग्रशूलः । वेदप्रियोऽप्यश्रुतिवल्लभो यः श्रयामि तं देवमचिन्त्यशक्तिम् ॥ १॥ यो देवः श्रीशंभुर्मखैर्यज्ञैरुपास्योऽपि तथा नयज्ञसेव्यः । नयं जानन्तीति नयज्ञा नी- तिशास्त्रनिपुणास्तैः सेव्यः । तथामयाः शीतातपाद्याः षडूर्मयस्तेभ्यो निष्क्रान्तः । 'शी- तातपौ शरीरस्य लोभमोहौ च चेतसः । प्राणस्य क्षुत्पिपासे द्वे षडूर्मिरहितः शिवः ॥' इत्युक्तेः । तथा प्रथितमुग्रं शूलं त्रिशूलं यस्य सः । तथा वेदाश्चत्वारः प्रिया यस्य सः । तथा अश्रुतिवल्लभः । अश्रुतयो निष्कर्णाः सर्पा वल्लभा यस्य स तादृग्भवति । तदेवं शिवमचिन्त्यशक्तिं ब्रह्माद्यैरप्यचिन्त्या शक्तिर्यस्य स तादृशं श्रयामि भजे । अत्र च यो मखैरुपास्यः स कथं यज्ञसेव्यो नेति विरोध: । अन्यार्थत्वेन तदभावे विरोधाभासः । तथा यो निरामयो नीरोगो भवति स कथमुग्रं शूलं रोगविशेषो यस्य स तादृशो भवति । तथा यो वेदप्रियो भवति स कथं न श्रुतयो वल्लभा यस्य स ताहग्भवतीति विरोधः । अन्यार्थत्वेन तदभावः ॥ स्तुत्यस्त्वमेव स्तुतिकृत्त्वमेव स्तुतिस्त्वमेव त्वदृतेऽस्ति नान्यत् । इयं त्वविद्या यदहं स्तुवे त्वां स्तुत्येति मिथ्या पृथगर्थबुद्धिः ॥ २ ॥ हे विभो, स्तुत्यः स्तवनीयो जनेन त्वमेवासि । स्तुतिं करोति स्तुतिकृदपि त्वमे वासि । स्तुतिरपि त्वमेवासि । कर्तृकरणकर्मरूपस्त्वमेवासीत्यर्थः । त्वदृतेऽन्यत्किंचि- न्नास्ति । तुः पक्षान्तरे । यदहं चर्मचक्षुर्मन्दबुद्धिस्त्वां स्तुत्या स्तुवे इयमविद्याज्ञानं पृ- थगर्थबुद्धिः स्तुतिस्तुतिकृत्स्तुत्यरूपा मिथ्या बुद्धिः । सर्वथा सर्ववस्तुषु स्वतन्त्रकर्ता त्वमेवेत्यर्थः ॥ स्तौम्येव तत्रापि पुनः पुनस्त्वां नश्यत्यविद्या यदविद्ययैव । रजः प्ररूढं मुकुरे प्रमार्ष्टुं रजो विना नह्यपरोऽस्त्युपायः ॥ ३ ॥ तत्राप्येवमेव सत्यहं त्वां यत्पुनः पुनः स्तौम्येव तत्कुतः । यद्यस्मात्कारणात्......॥ विजृम्भमाणे तमसि प्रगल्भे यथा भवासक्तमतिः स्थितोऽहम् । हतेऽपि तस्मिन्नुदितावबोधस्तथा भवासक्तमतिर्भवेयम् ॥ ४ ॥ प्रगल्भेऽत्युद्भटे तमस्यविद्यापर्यायेऽज्ञाने विजृम्भमाणे उल्लसति सति यथाहं भवास- क्तमतिर्भवे संसारे आसक्ता मतिर्बुद्धिर्यस्य स तादृग्यथा स्थितोऽस्मि तथा तस्मिंस्तम- स्यज्ञाने हतेऽपि सत्युदितज्ञानो भवासक्तमतिर्भवत्युत्पद्यतेऽस्माच्छिवादिक्षित्यन्तं जग- दिति भवः परमशिवस्तत्रासक्ता मतिर्यस्य स तादृग्भवेयम् ॥ [^१]जगद्विधेयं ससुरासुरं ते भवान्विधेयो भगवन्कृपायाः । सा दीनताया नमतां विधेया ममास्त्ययत्नोपनतैव सेति ॥ ५ ॥ ......... ...........॥ जाने न शैथिल्यमुपैष्यवश्यं ममार्तिभङ्गे भगवंस्तथापि । विज्ञप्यसे कर्म ममैव माभून्मयि प्रसादप्रतिघस्तवेति ॥ ६ ॥ हे भगवञ्शंभो, अवश्यं मम दीनस्यार्तिभङ्गे शैथिल्यं शिथिलतां कदापि नोपैषीति यद्यपि जाने तथापि मया त्वं विज्ञप्यस एव निजाभिप्रायनिवेदने । किमर्थमित्याह - इति हेतोः । इति किमिति, ममैव कर्म शुभाशुभत्वे संदिग्धं मयि विषये तव विभोः प्रसादप्रतिघः प्रसादेऽनुग्रहे प्रतिघोऽर्गलं मा भूदित्यतो हेतोर्विज्ञप्यस इत्यर्थः ॥ पथ्यं च तथ्यं च भरक्षमं च स्निग्धं च मुग्धं च मनोहरं च । सलीलमुन्मील्य वचः प्रसन्नं प्रपन्नमाश्वासय चन्द्रमौले ॥ ७ ॥ पथ्यं भवामयध्वंसि तथ्यमप्रत्यावर्ति भरक्षमं जगदुद्धारभारक्षमं स्निग्धं प्रह्वजनेषु स पक्षपातं मुग्धं मधुराक्षरं मनोहरं जगच्चेतोहरं सलीलं सविलासं प्रसन्नं प्रसादगुणयुक्तं वच उन्मील्य प्रकाश्य हे चन्द्रमौले सुधांशुवतंस, प्रपन्नं शरणागतमर्थान्मामाश्वासय ॥ मधुद्रवार्द्रं विषमाहरामः पिण्डीनिगूढं बडिशं गिलामः । अन्तर्निविष्टोत्कटकण्टकौघं ग्रसामहे [^२]पौण्डुकपिण्डखण्डम् ॥ ८ ॥ यदामुखे कामधुरानजस्रं विपाकरूक्षान्विषयान्भजामः । विभो विदन्तोऽपि किमत्र कुर्मो जहाति सक्तिं न मतिर्वराकी ॥ ९ ॥ (युगलकम्) आमुखे आस्वादारम्भकाले कामधुरानीषन्मधुरान्विपाके पर्यवसाने रूक्षान्पर्यन्तवि रसान्विषयाञ्शब्दादीन्यद्भजामः सेवामस्तदेतन्मधुद्रवेण क्षौद्ररसेनार्द्रं विषं गरलमा- हरामो भक्षयामः । तथा तदेतत्पिण्ड्यान्नपिण्डेन निगूढं गुप्तं बडिशं मत्स्यवेधनं गिलामो निगिरामः । मत्स्यवदित्यर्थः । तदेतदन्तर्मध्ये निविष्ट उत्कटः कठिनः कण्टकानमोघो यस्य स तादृशं पौण्डूकपिण्डखण्डं पुण्ड्रदेशे भवः पौण्ड्रः पौण्ड्र एव पौण्ड्रक इक्षुविशेष- स्तस्य पिण्डस्तस्य खण्डस्तं ग्रसामहे । अज्ञानादिति शेषः सर्वत्र । 'रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः' इत्यमरः । हे विभो, एवं पूर्वोक्तप्रकारेण विदन्तोऽपि जानन्तोऽप्यत्र विषये वयं किं कुर्मः । वराकी जडा मतिः सक्तिं विषयेष्वासक्तिं न जहाति ॥ युग्मम् ॥ [^१]. अयं श्लोकः क पुस्तके टीकासमेतस्रुटितः [^२]. 'पुण्ड्रकखण्डपिण्डम्' ख. मुक्तामया दीर्घगुणाः सुवृत्ता नैर्मल्यभाजो दधतः फलर्द्धिम् । कथं न हारा इव भक्तिमन्तः पदं हृदीशस्य भजन्ति सन्तः ॥ १० ॥ भक्तिमन्तः सन्तः साधवः पण्डिताश्च । 'सन्सुधोः कोविदो बुधः' इत्यमरः । ईशस्य परमेशस्य हृदि पदं स्थानं कथं भजन्ति । यथा हारा ईशस्य प्रभोर्हृदि पदं कुर्वन्ति । भक्तिमतः सतो हारांश्च विशिनष्टि सन्तः किंभूताः । मुक्तामयाः मुक्त आमयो ज न्मजरामरणत्रासरूपो रोगो बाह्यो रोगो वा यैस्ते । तथा दीर्घा गुणा वैदुष्यकवित्वदा- क्षिण्यादयो येषां ते । तथा सुवृत्ताः सदाचाराः । तथा नैर्मल्यं निर्दोषत्वं दधतः । तथा फलानां सुकृतफलानामृद्धिं दधतः । हाराश्च किंभूताः । मुक्तामया मौक्तिकप्रचुराः । तथा दीर्घा गुणास्तन्तवो येषां ते । तथा सुष्टु वृत्ता वर्तुलाकाराः । तथा फलानां मुक्ता- फलानामृद्धिं च दधतः । तथा भक्तिमन्तो विच्छित्तियुक्ताः । शब्दश्लेषोऽलंकारः ॥ गुहाश्रितो धर्मरतिर्गिरीशप्रथां दधानो भवतः प्रसादात् । सत्याहितप्रीतिरहीनभक्तिर्भवानिवाहं भगवन्भवेयम् ॥ ११ ॥ हे भगवन् । कदेति शेषः । भवत्प्रसादाद्भवानिव कदाहं भवेयम् । अहं किंभूतः । गु- हाश्रितः गुहां देवखातषिलं तपोर्थमाश्रितः । तथा धर्मे सुकृते रतिर्यस्य । सः ....... । पुनः किंभूतोऽहम् । सत्ये सत्यवचने आहिता प्रीतिर्येन सः । पुनः किंभूतः । अहीना भक्तिः श्रीशिवोपासनासक्तिर्यस्य सः । भवानपि कथंभूतः । गुहेन कुमारेणा- श्रितः । तथा धर्मे वृषे रतिर्यस्य सः । 'वृषो हि भगवान्धर्मः' इति श्रुतेः । गिरीश इति प्रथां दधानः । पुनः किंभूतः । सती दक्षसुता । या हिमाचलगृहे जन्म गृहीत्वा पार्वती जाता । तस्यां पार्वत्यामाहिता प्रीतिर्येन सः । अहीनैर्भुजगेन्द्रैर्वासुक्यादिभिर्भक्तिः शोभा यस्य सः । अत्रापि शब्दश्लेषः ॥ यमेकमाराध्य महारिसंगमादसंशयं भक्तजनः प्रमुच्यते । उपस्थितस्तस्य भवत्प्रसादतः कथं हरेरुग्र महारिसंगमः ॥ १२ ॥ हे उम्र विभो, यमेकं हरिमाराध्य महारिसंगमान्महान्तश्च तेऽरयः शत्रवस्तेषां संग- मस्तस्मान्निः संशयं भक्तजनः प्रमुच्यते मोक्षं लभते । तस्यैव हरेर्भवत्प्रसादतः कथं म हारिसंगम उपस्थितः । महान्तोऽरा आश्रया यस्य तन्महारि । यद्वा महच्च तदरि चक्रं सुदर्शनाख्यं तेन संगमः कथं भवत्प्रसादादुपस्थितः प्राप्तः । 'हरिस्ते साहस्रं कमलब लिमाधाय पदयोः' इत्यत्र वृत्ते श्रीशिवभट्टारकेण प्रसन्नीभूतेन विष्णवे सुदर्शनाख्यं चक्रं दत्तमिति पौराणिकाः । अत्रापि शब्दश्लेषेणाश्चर्यवर्णनम् ॥ सुदुर्लभोऽयं भवति ग्रहः पुनर्मुखेऽप्यसौ संनिहिता सरस्वती । इदं कुरुक्षेत्रमतीव पावनं किमर्थमर्थिन्युचिते विलम्बसे ॥ १३ ॥ हे विभो, भवति भवद्विषयेऽयं ग्रहो हेवाको भक्तिसक्तिः । ममेति शेषः । मम पुनः पञ्चात्सुदुर्लभः सुष्टुं दुर्लभः । मुखेऽपि ममासौ सरस्वती वाणी संनिहितास्ति । हे स्वा- मिन्, त्वं चेदं क्षेत्रं मलक्षणमतीव पावनं शुचितरं कुरु । उचिते युक्तेऽर्थिन्यर्थान्मयि किमर्थं विलम्बसे विलम्बं करोषि । अथ च ग्रहो ग्रहणमृपरागापरपर्यायः सुदुर्लभः सूर्य- ग्रहणसंभवो भवति । असौ संनिहिता सरस्वती नदी च । अतीव पावनं कुरुक्षेत्रं ती- र्थविशेषश्च । एतानि वस्तूनि संघटितानि । अर्थी च समुचितः संनिहितः । अत्रावलेपो न युक्त इत्यर्थः ॥ न कस्य सौभाग्यवती चमत्कृतिं दिशत्यसौ भाग्यवती सरस्वती । विभुं जितक्लेशमपि स्थिराजिनं करोति यत्संमुखमस्थिराजिनम् ॥१४॥ सौभाग्यवती सुभगत्वयुक्ता भाग्यवती भाग्ययुक्ता चासौ सरस्वती वाणी कस्य न चमत्कृतिं चमत्कारं दिर्शात ददाति । कुतस्तदित्याह — विभुमिति । सा सरस्वती विभुं श्रीशिवमपि संमुखं यत्करोति । किंभूतमपि । जिता: क्लेशा अविद्यादयः पञ्च येन स तादृशस्तम् । पुनः किंभूतम् । स्थिरमजिनं कृत्तिवासो यस्य स तादृशस्तम् । पुनः किं- भूतम् । अस्थिराजिनम् । अस्थिभी राजतेऽस्थिराजी तम् । अत्र सौभाग्यवती असौ- भाग्यवती, स्थिराजिनमप्यस्थिराजिनमिति विरोधः । अन्यार्थत्वे विरोधाभासोऽलंकारः ॥ अनुज्झितानुत्तमदानसंपदः सदाखिलज्ञानविहीनचेतसः । अकालभीतिग्लपितान्करोति यः प्रभुः प्रसन्नः कुपितश्च देहिनः ॥१५॥ पुरा चिरं यो विदधे वनान्तरे विधुः पदं रूढकुरङ्गसौहृदः । सदा परस्खापहरोऽपि यो रविस्तयोः समत्वं दृशि यस्य भासते ॥१६॥ कथं [^१]विभो तस्य तव प्रवर्ततां सतामसेव्ये पथि पातितात्मसु । दयाविधेयस्य सदास्मदादिषु प्रसादपात्रेषु मनागनादरः ॥ १७ ॥ (तिलकम्) यः प्रभुः श्रीशिवः प्रसन्नः सन्ननुज्झितेत्यादिविशेषणविशिष्टान्देहिनः करोति कुपितश्च । प्रसन्नपक्षे देहिनः किंभूतान् । अनुज्झितात्यक्तानुत्तमात्युत्तमा दानसंपद्यैस्ते तादृशान् । पुनः किंभूतान् । सदाखिलज्ञान् । तथाविहीनचेतसोऽखण्डितचेतसः । पुनः किंभूतान् । अकालेत्यादि । न कालभीत्या यमभयेन ग्लपिता बाधितास्तानकालभीतिग्लपितान् । कुपितपक्षे देहिनः किंभूतान् । अनुज्झितानुत्तमदान् । 'णुद प्रेरणे' धातुः । अनुत्त: केनाप्यप्रेरितो मदो मदाख्यं व्यसनम् । अनुज्झितोऽत्यक्तोऽनुत्तो मदो यैस्ते तांस्तादृशान् । मदाख्यव्यसनयुक्तानित्यर्थः । तथासंपदः संपद्रहितान् । पुनः किंभूतान् । अखिलज्ञानेन विहीनं चेतो येषां ते तादृशास्तानखिलज्ञानविहीनचेतसः । पुनः किंभूतान् । अकालेऽनवसरे या भीतिस्तया ग्लपितान्ग्लानिं प्रापितान् ॥ रूढः कुरङ्गेण शशेन सौ [^१]. 'विभोः' ख. हृदं सौहार्दं यस्य स तादृशो यो विधुश्चन्द्रो वनान्तरे जलान्तरे समुद्रस्य पदं स्थितिमकरो- दिति । तथा यो रविः सूर्यश्च सदा परेषां स्वापं हरतीति तादृशोऽभूत् । तयोश्चन्द्रसूर्ययोः समत्वं यस्य दृशि भासते । समत्वं समदृक्त्वम् । सह मया लक्ष्म्या वर्तेते यौ समौ । तयोर्भावः समत्वं च । अथ च पुरातीतयुगे रूढः कुरङ्गैर्मृगैः सह सौहृदं संवासो यस्य स विधुर्विष्णुः । रामरूप औचित्यात् । वनान्तरेऽरण्यान्तरे चिरं चतुर्दशसमाः पदं स्थितिं चकार । तथा परस्वं परद्रव्यं हरतीति परस्वापहरोऽपि यो भवति पुरुषस्तयो रामभ- द्रपरद्रव्यापहरपुरुषयोरुपरि यस्य श्रीशिवस्य दृशि समत्वं भासते । समदृष्ट्या तौ वि- लोकयतीत्यर्थः । 'विधुर्विष्णौ चन्द्रमसि' इत्यमरः । 'जीवनं भुवनं वनम्' इति च ॥ हे विभो, सदा दयाविधेयस्य कृपायत्तस्य तस्य पूर्वोक्तसमदृष्टित्वस्य तव सतां विदुषाम- सेव्ये कुत्सिते पथि पातितोऽज्ञानेनात्मा यैस्ते तादृशेषु दयापात्रेष्वस्मदादिषु कथं मना- गनादरस्तिरस्कारः प्रवर्तताम् ॥ तिलकम् ॥ विभो भवद्भालविलोचनानलप्रसूतधूमैरिव साश्रुलोचनः । सघर्मलेशस्तव दक्षिणेक्षणप्ररूढचण्डद्युतिभाभरैरिव ॥ १८ ॥ घनप्ररोहत्पुलकाङ्कुरो भवच्छिखण्डखण्डेन्दुकरोत्करैरिव। सदन्तवीणस्तुहिनौघशीतलत्वदुत्तमाङ्गद्युनदीजलैरिव ॥ १९ ॥ तरङ्गिताङ्गो भवदङ्गदस्फुरत्फणीन्द्रफूत्कारसमीरणैरिव । भवेयमानन्दसुधापरिप्लुतः प्रसन्नमालोक्य भवन्तमग्रतः ॥ २० ॥ (तिलकम्) हे विभो, भवदेकध्यानादग्रतः प्रसन्नं भवन्तमालोक्यानन्दसुधया परमानन्दामृतेन परिप्लुतः सिक्तो भवेयम् । अहं किंभूतः । भवद्भाले भवतो ललाटे विलोचनानलाग्नेत्राग्ने: प्रसूतैर्धूमैरिव साश्रुनेत्रः । आनन्दाश्रुरूपकमिदम् । पुनः किंभूतः । तव दक्षिणेक्षणे दक्षिणनेत्रे प्ररूढो यश्चण्डद्युतिः सूर्यस्तस्य भाभरैर्दीप्तिपुञ्जैरिव सस्वेदलवः । अत्रापि स्वेदः सात्त्विकभावः ॥ पुनः किंभूतः । भवच्छिखण्डे भवत्किरीटे यः खण्डेन्दुस्तस्य करोत्करैः किरणसमूहैरिव घनाः प्ररोहन्तः पुलकाङ्कुरा यस्य स तादृशः । पुनः किंभूतः । तुहिनौघवच्छीतला या त्वदुत्तमाङ्गगङ्गा तज्जलैरिव सदन्तवीणः । शीतवशाद्दन्तटणत्कारो दन्तवीणा । सदन्तटणत्कार इव ॥ पुनः किंभूतः । भवदङ्गंदे भवत्केयूरे स्फुरन्तो ये फणीन्द्रा वासुक्रिप्रभृतयस्तेषां ये फूत्कारपवनास्तैरिव तरङ्गिताङ्गः कम्पिताङ्गः । कम्पो हि सात्त्विको भावः ॥ तिलकम् ॥ अथ श्रीशिवभट्टारकस्य पूजार्हचन्दनपुष्पगन्धादीनां धन्यत्वं वर्णयन्नाह यदेष सेहे परशुक्षतव्यथां प्रभोः प्रियः स्यामिति चन्दनद्रुमः । भुजंगमालिङ्गितकंधरो ध्रुवं बिभर्ति साम्यं गिरिजापतेरतः ॥ २१ ॥ एष चन्दनद्रुमोऽहं प्रभोः श्रीशिवस्य प्रियः स्यामिति हेतोः परशुना क्षतव्यथां यतः सेहेऽत एव गिरिजापतेः श्रीशंभोः साम्यं ध्रुत्रं बिभर्ति । कमित्याह – किंभूतचन्दन- द्रुमः । भुजंगमैरालिङ्गिता कंधरा मूलादूर्ध्व पृथुशाखा यस्य सः । शंभुरपि नागालिङ्गि- तकंधरः ॥ यच्चक्रिरे धूतनखान्तनिपातपीडाः प्रीतिं प्रभोः सुमनसां सुमनस्त्वमेतत् । यत्स्वामिनो न दहनेऽपि निपत्य सेवा- हेवाकमौज्झदगुरोरपि गौरवं तत् ॥ २२ ॥ सुमनसः पुष्पाणि पूजार्थं पुष्पावचयसमये धृता नखान्तानां निपातेन पीडा या भिस्ताः सुमनसो यत्प्रभोः शंभो: प्रीति चक्रिरे एतदेव सुमनसां पुष्पाणां सुमनस्त्वं पु- ष्पत्वं सुशोभनं मनो यासां ताः सुमनसस्तत्त्वं च । अगुरुर्दहनेऽग्नावपि निपत्य स्वामिनः शंभोः सेवाहेवाकं न औज्झन्न तत्याज तदगुरोरपि न गुरुरगुरुस्तस्यापि गौरवं भवति ॥ आदौ प्रदर्श्य परमामृजुतामथान्त- राविश्य मर्मणि न यन्निशितास्तुदन्ति । स्वामिञ्शरा इव खलाः कृतिनो वनेषु स त्वत्पदाम्बुजरजःकणजः प्रसादः ॥ २३ ॥ हे स्वामिन्, आदौ परामुत्कृष्टामृजुतां सरलत्वं प्रदर्श्य अथानन्तरमन्तः प्रविश्य नि- शितास्तीक्ष्णाः शरा इव यद्वनेषु विपिनेषु स्थितान्कृतिनो विदुषो न तुदन्ति व्यथयन्ति त्वत्पदाम्बुजरजःकणोद्भूतः स प्रसादः ॥ त्वन्नाम पामरजनैरपि गीयमान- मानन्दमर्पयति यं हृदि भक्तिभाजाम् । स्वामिन्नमानवयवेष्वखिलेषु नून- मुद्भिद्यते बहिरसौ पुलकच्छलेन ॥ २४ ॥ हे स्वामिन्, पामरजनैर्नीचजनैरपि [^१]हालाकादौ गीयमानं भक्तिभाजां हृदि यमानन्दं समर्पयति । नूनं संभावनायाम् । अखिलेष्वङ्गेष्वमान् न मान्वर्तमानोऽसावानन्दो बहिः पुलकच्छलेन रोमाञ्चव्याजेनोद्भिद्यते निर्याति ॥ धर्मः प्रकम्पपुलकौ गिरि गद्गदत्व मित्यादयोऽन्त्यसमये प्रभवन्त्यवस्थाः । [^१]. हालाको देशभाषानिबद्धो गीतविशेषः. त्वद्दर्शनात्कृतधियां दधताममन्द- मानन्दमन्तकभयाद्भगवन्परेषाम् ॥ २९ ॥ हे भगवन्, घर्मः स्वेदः । प्रकम्पः । पुलको रोमाञ्चः । गिरि वाण्यां गद्गदत्वं स्ख- लद्गतित्वम् । इत्यादयोऽवस्थास्त्वदेकध्यानेन त्वद्दर्शनादमन्दमानन्दं दधतां कृतधियां धीमतामन्त्यक्षणे निर्याणसमये प्रभवन्त्युत्पद्यन्ते परेषामकृतधियां पापिनामेता अवस्था अन्तकभयाद्यमभयान्मृत्युक्षणे भवन्ति ॥ अन्त्यक्षणे भव भवच्चरणाब्जसेवा- हेवाकिनो दधति केचन कण्ठपीठे । भोगीन्द्रभोगमधिगम्य भवद्गणत्व- मन्ये कृतान्तकरकोटरकोटिकृष्टम् ॥ २६ ॥ हे भव शंभो, भवच्चरणाब्जसेवायां हेवाकिनो धन्याः सुकृतिनो जनाः केचन वि रला अन्त्यक्षणे मृत्युक्षणे भवद्गणत्वं भवत्प्रमथत्वमवाप्य कण्ठपीठे निजे भोगीन्द्रभोगं नागेन्द्रफणं दधति । अन्ये पुनः पापिनः कृतान्तस्य यमस्य करमध्यप्रान्तकृष्टम् ॥ भीताभयार्पणविधौ किल कालनाशं कर्तुं न यः क्षणमपि क्षमते कदापि । श्वेताभयार्पणपरस्य कथं नु काल- नाशक्षमत्वमभवत्तव तस्य देव ॥ २७ ॥ हे देव । किल निश्चये । भीतानां जनानामभयार्पणविधाने कालस्य समयस्य नाशः क्षेपस्तं कालनाशं कालक्षेपं क्षणमपि कर्तुं यो भवान्न क्षमते । अहं वेद्मीति शेषः । तस्य तव श्वेतस्य श्वेताख्यनृपतेः यदयं मा भैषीरित्यभयवचनामृतं तदर्पणविधौ कालस्य य- मस्य नाशस्तत्र क्षमत्वं कथं न्वभवत् । कालः समयो यमश्च । भीतत्राणार्पणे कालना- शाक्षमस्यापि कालनाराक्षमत्वं श्वेताभयदान इत्यद्भुतमित्यर्थः ॥ भङ्क्तुं न पारयति यः क्वचिदेव देव कामं कृपामृतमृदुस्तव दृष्टिपातः । उद्दामरोषपरुषः किल कामभङ्ग- मङ्गीचकार कथमेष महेश पूर्वम् ॥ २८ ॥ हे देव, दीव्यति परमपदे देवस्तत्संबोधनम् । कृपामृतेन कोमलो यस्तव दृष्टिपातः । प्रह्वजनस्येति शेषः । प्रह्वजनस्य काममभिलाषं भङ्क्तुं क्वचिदपि न पारयत्येष एव तव दृष्टि- पात उद्दामरोषेण प्रचण्डरोषेण परुषः सन् हे महेश परमशिव । किलेत्यागमे । कामभङ्गं कामस्य मदनस्य भङ्गस्तं पूर्वं पुरा कथमङ्गीचकार । कामोऽभिलाषो मदनश्च । यः प्रह्रज नस्य कामभङ्गं नाङ्गीकरोति स कथं कामभङ्गं करोतीत्यद्भुतम् ॥ कि मेरुमन्दरमुखा गिरयः शिरोभि- रत्युन्नतैर्दधति गर्वमखर्वमेते । एतत्तुषारकिरणाभरणप्रणाम- प्रह्वं जगज्जयति मामकमुत्तमाङ्गम् ॥ २९ ॥ मेरुर्हेमाद्रि: । मन्दरो मन्थाद्रिः । तत्प्रभृतयो गिरय एते शैला अत्युन्नतैः शिरोभिः शिखरैरखर्वमनल्पं गर्वमहंकारं किं दधति । तच्छिरसामौन्नत्यस्य चलत्वादित्यर्थः । तु पक्षान्तरे । तुषारकिरणाभरणस्य शंभोः प्रणामेन प्रह्वं नम्रं मामकमुत्तमाङ्गं शिरो जगज्ज- यति । शंभुप्रणामनम्रं मामकं शिर एव कृतार्थं धन्यमित्यर्थः ॥ गात्रान्तरातिशयशंसि यदेतदुच्चै- र्नामोत्तमाङ्गमिति नाथ शिरो बिभर्ति । तद्युज्यते भव भवच्चरणारविन्द- पीठप्रणामपरमस्य नमस्यमस्य ॥ ३० ॥ हे भव, भवत्युत्पद्यतेऽस्माच्छिवादि क्षित्यन्तं समस्तमिति भवस्तस्यामन्त्रणं हे भव नाथ, गात्रान्तरेभ्यः करचरणादिभ्योऽतिशयं शंसतीति तादृगुत्तमाङ्गमित्युच्चैर्नाम शिरो यद्विभर्ति तदस्य नाम नमस्यं युज्यत एव । अत्र हेतुमाह - किंभूतस्य । भवतश्चरणार- विन्दपीठे पादपीठे प्रणामपरमस्य प्रणामपरायणस्य । अत एव तस्योत्तमाङ्गत्वं न तु गात्रान्तरातिशयेनेत्यर्थः ॥ कि श्रीघनोऽप्यसुगतः किमुमाधवोऽपि न त्वं कदाचन जनार्दनतां विभर्षि । स्वामिन्गजारिरपि किं नगजाप्रियस्त्वं स्वातन्त्र्यमस्ति [^१]यदिवा भवतः किमन्यत् ॥ ३१ ॥ हे स्वामिन् श्रिया परमैश्वर्यकैवल्यरूपया घनः श्रीघनोऽपि त्वमसुगतोऽसून्प्राणांस्त्रिजगतोऽपि गतोऽसुगतोऽसि । अथ च यः श्रीघनो बुद्धः स कथं सुगतो न भवतीति विरोधाभासः । 'सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः । मुनीन्द्रः श्रीघनः शास्ता' इत्यमरः । उमाधव उमाया: पार्वत्या धवो वल्लभस्त्वं जनार्दनतां जनानर्दयति पीडयतीति जनार्दनस्तद्भावं कदाचन जातु न बिभर्षि । अथ च किमु पक्षान्तरे । माधवो हरिरपि सन् जनार्दनतां विष्णुत्वं न बिभर्तीति विरोधाभासः । हे विभो, त्वं गजारिर्ग [^१]. 'भवतो यदिवा' ख. जस्य गजासुरस्यारिर्घातकोऽपि नगजायाः पार्वत्याः प्रियो वल्लभः किं भवसि । यो ग जारिः स कथं न गजाप्रियो गजस्याप्रियो रिपुर्गजाप्रिय इति विरोधाभासः । यदि वा पक्षान्तरे । भवतः स्वातन्त्र्यं स्वतन्त्रकर्तृत्वमेव भवति किमन्यद्द्रूमहे ॥ अरुणद्युतिग्लपितशीतदीधिति प्रकटीकृतालिकमलं विलोक्य मे । भवतः प्रभातमिव भाललोचनं भजते कदा नु विषमं शमं तमः ॥ ३२ ॥ हे स्वामिन् अलमत्यर्थमरुणा लोहिता चासौ द्युतिर्दीप्तिस्तया ग्लपितो ग्लानिं प्रापितः शीतदीधितिर्येन तत् । तथा प्रकटीकृतं सुप्रकाशीकृतमलिकं ललाटं येन तत् । 'ललाटमलिकं गोधिः' इत्यमरः । एवंभूतं प्रभातमिव भवतो भाललोचनं विलोक्य मे मम विषमं कठिनं तमोऽज्ञानरूपमन्धकारं शमं कदा नु भजते । प्रभातमपि किंभूतम् । अरुणस्यानूरो: सूर्यसूतस्य द्युत्या ग्लपितो ग्लानिं प्राप्तः शीतदीधितिर्यत्र तत् । पुनः किंभूतम् । प्रकटीकृतालिकमलं प्रकटीकृता अलयो भ्रमरा येषु तानि प्रकटीकृतालीनि कमलानि पद्मानि यत्र तत् । यथा प्रभाते समस्तं तमः शाम्यति तथा ममापीत्यर्थः ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ तमः शमनं नाम द्वादशं स्तोत्रम् । त्रयोदशं स्तोत्रम् । अथातः प्रभुप्रसादनाख्यं त्रयोदशं स्तोत्रमारभमाण आह अथ नुतिभिरमन्थराक्षराभिः सुजनमनोमृगवागुराभिराभिः । विभुमभयदमादरादरातिक्षपणपणप्रवणं प्रसादयामः ॥ १ ॥ अथानन्तरममन्थराणि प्रगल्भानि पदानि यासां तास्तादृशीभिः । तथा सुजनानां विपश्चितां भक्तजनानां मनांस्येव मृगास्तेषां वागुरा मृगबन्धनपाशरूपास्ताभिः । सुज- नचेतोबन्धनैकहेतुभिरित्यर्थः । आभिर्वक्ष्यमाणाभिर्नुतिभिः स्तुतिभिरभयदं जगदभयप्रदं तथारातीनां शत्रूणामान्तराणां कामक्रोधादीनां बाह्यानां च रिपूणां यत्क्षपणं दूरीक रणं स एव पणो नियमस्तत्र प्रवणं लग्नं विभुमीश्वरमादराद्भक्त्युल्लासादरेण प्रसादयाम: प्रसन्नं कर्तुमिच्छामः ॥ सुरमुकुटविटङ्करत्नरोचिःखचितनखाङ्करकेसराभिरामम् । पुरहरचरणारविन्दयुग्मं शिरसि विधत्त किरीटवाञ्छया किम् ॥ २ ॥ सुराणां देवानां यानि मुकुटानि तान्येव विटङ्कानि बहिःस्था अग्रभागास्तेषु रत्नरो- चिर्भिः खचिता ये नखाङ्कुरास्तेषां केसराणि तैरभिरामं पुरहरचरणारविन्दयुग्मं श्रीशं- भुपादाब्जयुगलं हे भक्तजनाः शिरसि विधत्त कुरुत । किरीटवाञ्छया किम् । न किंचि दित्यर्थः ॥ कलयतु भवतामभग्न[^१]वृत्तिर्हरहरशंकरशंकरेति सूक्तिः । अविरलगलमण्डनप्रतिष्ठां किममलमौक्तिकदामकामनाभिः ॥ ३ ॥ हे भावुकजनाः, अभग्ना क्षणमपि न भग्ना वृत्तिर्यस्याः । सर्वदैव कण्ठस्थितेत्यर्थः । एवंभूता हरहर शंकरशंकरेति प्रहर्षोत्कर्षेण या सूक्तिः शोभनोक्तिः सैव भवतामनल्प- कण्ठभूषणस्थितिं कलयतु । करोत्वित्यर्थः । अमलमौक्तिकदामकामनामिः स्वच्छमौ- क्तिकदामकामनाभिः किं भवति ॥ कलयत मणिकुण्डलेऽवलेपं श्लथयत निर्मलमल्लिकाभिलाषम् । हरचरितनुतिक्रमैरजस्रं कुरुत नवश्रवणावतंसलीलाम् ॥ ४ ॥ हे भक्तलोकाः, यूयं....निर्मलमल्लिकानां जातीकुसुमानामभिलाषं श्लथं कुरुत । हरचरणनुतिक्रमैः शंभुस्तुतिक्रमैः नवकर्णावतंसलीलां कुरुत ॥ इह वि[^२]हतभवोपतापमापत्प्रशमसमर्थमनर्थनाशहेतुम् । नमति न मतिमानमानवीयप्रमदविधानपरं परं हरं कः ॥ ५ ॥ इह लोके विशेषेण हतो निःशेषीकृतो भवोपतापो भवमरुभ्रमो येन स तादृक् तम् । तथा आपज्जन्मजरामरणत्रासविपत्तस्याः प्रकर्षेण शमे समर्थस्तम् । तथा अनर्थाः पञ्चा- विद्यादयः क्लेशास्तेषां नाशे कारणभूतम् । तथा अमानवीयो लोकोत्तरो यः प्रमदः प्रहर्षः परमानन्दरूपस्तस्य विधाने परो रतस्तं हरं श्रीशिवभट्टारकं परं परादपि परमत्युत्कृष्टं परं केवलं को मतिमान्धीमान्न नमति । अपि तु सर्वः ॥ त्रिजगति भजति स्थितिं बुधानां धुरि दुरितक्षतिशिक्षितः स एकः । शशिशकलशिखामणिप्रणामप्रणयि बिभर्ति शिरश्चिरस्थिरं यः ॥ ६ ॥ त्रिजगति यो भाग्यवाञ्शशिशकलशिखामणिप्रणामाथि चिरस्थिरं बहुकालं निजं शिरो बिभर्ति स एको दुरितक्षतौ सकलपापक्षये शिक्षितो निपुणः । बुधानां पण्डिता- नामैहिकस्थित्या परत्र च बुधानां देवानां धुरि त्रिजगत्यपि त्रिलोकमध्येऽपि स्थितिं भजति ॥ स जयति जगदीश शक्तिपातस्तव कवितुर्यदसक्तमुक्तिदेवी । रसमसमचमत्कृतिप्रसूतिं वितरति काञ्चनसिद्धिमेति येन ॥ ७ ॥ हे जगदीश त्रैलोक्यनाथ, स तव शक्तिपातोऽदूरमनुग्रहृदृष्ट्यवलोकनरूपशक्तिपातो जयति सर्वोत्कृष्टो भवति । स क इत्याह – यद्यस्मादुक्तिदेवी वाग्देवी असमा चमत्कृ तिप्रसूतिर्लोकोत्तरा चमत्कारप्रसूतिर्यस्मात्स तादृक् तं तथाविधं रसं वितरति ददाति । तं कमित्याह – येनाद्भुतेन रसेन कां च न सिद्धिमपि तु सर्वामष्टविधामाणिमादिकामेति । [^१]. 'भक्तिः' ख. [^२]. 'विहित' ख. प्राप्नोति । अथ च रसविद्भिषक्प्रवरस्तं रसं मृतं पारदं वितरति येन रसेन काश्चनसिद्धिं हेमसिद्धिमेति प्राप्नोति । तथा चायुर्वेदविदः - कृष्णाभ्रं मारितं येन पारदं च वशीकृ- तम् । द्वारमुद्धाटितं तेन कुबेरस्य यमस्य च ॥ इति । 'अथ चपलो रसः सूतश्च पारदे इत्यमरः ॥ इह विदधतु नाम पामराणां प्रणतिकृतामपरे प्रभुप्रतीतिम् । प्रभवति न तु मृत्युभीतिभङ्गे जगति भवन्तमृतेऽमृतेश कश्चित् ॥ ८ ॥ अपरेऽन्ये लोकाः प्रणतिकृतां क्वापि स्वस्मादधिके पुंसि प्रह्वशिरसां पामराणां नीचजनानां प्रभुप्रतीतिमयं नः प्रभुः स्वामीति प्रतीतिस्तां विदधतु । तु पक्षान्तरे । इह सकलेऽपि जगति हे अमृतेश मृत्युंजय, भवन्तं प्रभुमृते मृत्युभीतिभङ्गे यमभयनाशे कश्चिन्न प्रभवति समर्थो भवति ॥ पूर्ववृत्तोक्तमेव दर्शयति वियदियति महस्विमण्डले कः श्रितवति कर्तुमनष्टचेष्टमीष्टे । विषमतमतमःप्रबन्धमन्धं जगदगदं घृणिमन्तमन्तरेण[^१] ॥ ९ ॥ इयति महति महस्विमण्डले तेजस्विमण्डलेऽपि वियदाकाशं श्रितवति विषमतमतमः- प्रबन्धमतिविषमान्धतमसमन्धं जगदनष्टचेष्टं पूर्णसकलचेष्टमगदं नीरोगं कर्तुं क ईष्टे स- मर्थो भगवति । कमन्तरेण । घृणिमन्तं सूर्यमन्तरेण । यथैतत्तथैव मृत्युभीतिभङ्गे एक एव श्रीमृत्युंजयः प्रभवति नान्य इत्यर्थः । 'वियद्विष्णुपदं' इत्यमरः ॥ शकलितकलितर्ष सप्रकर्ष प्रकटितहर्ष महर्षभाधिरूढ । दिश विशदमदभ्रमभ्रसिन्धुद्रवधवलं भवलङ्घनं प्रसादम् ॥ १० ॥ प्रभवति भवति प्रसादरम्यां दिशति दृशं न विभा विभावरीणाम् । सवितरि वितरिष्यति प्रकाशं नहि महिमप्रभवो विभावरीणाम् ॥ ११ ॥ (युगलकम्) हे महर्षभाधिरूढ शंभो । किंभूत । शकलितकलितर्ष । शकलितः कलितर्षः कलि- युगलिप्सा येन तस्य संबोधनम् । तथा सह प्रकर्षेण सर्वोत्कृष्टत्वेन वर्तते यः स तस्याम- न्त्रणम् । तथा प्रकटितो हर्षः परमानन्दो येन स तस्य संबोधनम् । एवंविध विभो । अदभ्रमनल्पमभ्रसिन्धुद्रवधवलं गङ्गाप्रवाहवद्धवलं भवलङ्घनं संसारोल्लङ्घनं प्रसादं प्रसन्न - ताजनितमनुग्रहं दिश देहि ॥ हे शंभो, भवति त्वयि विभौ प्रसादेन रम्यां दृशं दृष्टिं दिशति सति अरीणां शत्रूणां कामादीनां बाह्यानां वा विभा दीप्तिर्न प्रभवति समर्था भवति । दृष्टं चैतत् । हि यस्मात्कारणात्सवितरि सूर्ये प्रकाशं वितरिष्यति दास्यति सति विभावरीणां रात्रीणां महिमप्रभवः प्रभावोत्पत्तिर्न भवति । विभाति चान्द्रेण महसा विभावरी रात्रिः ॥ युग्मम् ॥ [^१]. स्व-पुस्तकेऽस्माच्छ्लोकादनन्तरं 'युगलकम्' इत्यस्ति. समुचितसदसद्विचारचर्याचतुरतरः कतरः कलौ मदन्यः । इह परमशिवं भवं विजेतुं परमशिवं भवमेव सेवते यः ॥ १२ ॥ सम्यगुचिता या सदसतोर्विचारचर्या तस्यामतिशयेन चतुरः कलौ तुरीययुगे स कः पुमान्मदन्योऽस्ति । अहमेव चतुरतरोऽस्मीत्यर्थः । स क इत्याह – यो मल्लक्षण: परम- त्यर्थमशिवमसुखदं भवं संसारं विजेतुं विशेषेण जेतुं कथाशेषतां प्रापयितुं भवत्यस्माच्छि- वादिक्षित्यन्तमिति भवस्तं परमशिवं परमेश्वरं चिदानन्दघनस्वरूपं सेवते ॥ शमयितुमलमग्निमग्निरेव ग्लपयति हन्त हिमं हिमं विवृद्धम् । जरयति च पयः पयः किमन्यद्धरति भवं भव एव भक्तिभाजाम् ॥१३॥ विवृद्धमग्निमग्निरेव शमयितुमलं समर्थः । हन्त हर्षे आश्चर्ये वा । विवृद्धं महद्धिमं हिममेव हन्ति । पय एव पयः । अग्निना तप्तमित्यौचित्यात् । अत्यन्तं पीतं जलं जर- यति । भवः श्रीशिव एव भवं संसारं भक्तिभाजां नृणां हरति । मुक्तिं वितरतीत्यर्थः ॥ वरमजिनजटाभृतः कपालप्रणयिकरस्य नरस्य भैक्ष्यवृत्तिः । स्मरहरचरणारविन्दसेवाविरहवती न तु चक्रवर्ति[^१]मूर्तिः ॥ १४ ॥ भिक्षैव भैक्ष्यम् । स्वार्थे ण्यः । भैक्ष्येण वृत्तिर्भिक्षाजीवनं वरं भवति । कस्य । न- रस्य । किंभूतस्य । अजिनं मृगचर्म जटाश्च बिभर्तीति तादृशस्य । पुनश्च किंभूतस्य । कपालं घटशकलं हस्ते यस्य स तादृशस्तस्य न त्वीश्वरपादकमलसेवाविरहवती चक्रव- र्तिमूर्तिर्वरं भवति ॥ मरुभुवि वरमुष्णरश्मिरश्मिप्रकरकदर्थितमूर्तिरेकभेकः । न तु भवदनुरागभागधेयग्लपनविपद्वि[^२]कलीकृतो मनुष्यः ॥ १५ ॥ उष्णरश्मीत्यादि सूर्यांशुनिकरसंतप्तमूर्तिरेको भेको मण्डूको मरुभुवि वरमस्तु । हे विभो, भवच्चरणोपासनानुराग एव भागधेयं तस्य ग्लपनं हानिः सैव विपत्तया विकली- कृतो जडीकृतो मनुष्यो न वरम् ॥ कलिमलपटली मलीमसत्वं नयति मतिं हतदर्प दर्पणाभाम् । इति शितिगल शीतरश्मिरश्मिप्रसरसितं रसितं तवार्थयामः ॥ १६ ॥ हे हतदर्प । हतो दूरीकृतो दर्पोऽहंकारो व्यसनानां मध्ये एकमुद्भटं व्यसनं येन तत्सं- बोधनम् । कलिमलपटली तुरीययुगमलसंहतिर्दर्पणाभां निर्मलमुकुरसदृशीं मति बुद्धिं मलीमसत्वं मलिनत्वं नयति । इत्यतो हेतोर्हे शितिगल नीलकण्ठ, शीतरश्मिरश्मिप्रसर- सितं चन्द्रांशुप्रसरधवलं प्रसन्नं तव रसितं शब्दमभयवाक्यमर्थयामः काङ्क्षामहे ॥ [^१]. 'भूमि:' ख. [^२]. 'कवलीकृतः' ख. नुतिमुखरमुखः प्रसादपात्रं भवति ममेति यदैष ते' कृतान्तः । अपि कवलितसप्तलोकलोकः प्रभवति नैव तदैष मे कृतान्तः ॥ १७ ॥ हे विभो, नुत्या स्तुत्या मुखरं प्रगल्भं मुखं यस्य स तादृशः पुरुषो मम प्रसादपात्रं मत्कृतप्रसादपात्रं भवतीत्येष कृतान्तः सिद्धान्तो निश्चयस्ते तव यदि भवति अवश्यमेतस्य स्तुतिपरस्य प्रसादं करोमीति यदि ते निश्चयो भवति तदा ग्रस्तसप्तलोकजनोऽप्येष कृ- तान्तो यमो मे मम न प्रभवति समर्थो भवति । त्रासयितुमित्यर्थः । 'कृतान्तो यमसि- द्धान्तदैवाकुशलकर्मसु' इति कोषः ॥ तव रविजपुरान्धकप्रमाथे दृशि विशिखे त्रिशिखे च यः कृतास्थः । परिचरणपरः पुराविरासीत्स जयति दैवतमुत्तमं कृशानुः ॥ १८ ॥ हे विभो, रविजो यमः । पुराणि त्रिपुरासुराः । अन्धकश्चासुरः । तेषां प्रमाथे संह- रणे क्रमेण दृशि दृष्टौ तृतीयलोचने विशिखे शरे विष्णुरूपे त्रिशिखे त्रिशूले च कृतास्थो विहितस्थितिरन्तकदाहे भाललोचनस्थस्त्रिपुरदाहे शरीभूतविष्णुमुखाग्रस्थो ऽन्धकसंहारे त्रिशूलस्थस्तव विभोः परिचरणे सेवायां परस्तत्परो योऽग्निः पुरा पूर्वमावि- रासीत्प्रकटीबभूव स कृशानुरुत्तमं दैवतमष्टास्वपि मूर्तिषूत्तमो देवो जयति सर्वो- त्कृष्टो वर्तते ॥ समजनि जनितस्पृहः स एकस्त्रिजगति चन्द्रकिरीट कृष्णसारः । उपकरणपदं जगाम कृत्तिस्तव चरणास्तरणक्रमेण यस्य ॥ १९ ॥ हे चन्द्रमौले, जनितस्पृह उत्पादिताभिलाषः । त्वद्भक्तथासक्तजनस्येत्यर्थः । स एवैकः कृष्णसारो मृगविशेषस्त्रिजगति त्रैलोक्ये समजनि समुत्पन्नः । क इत्याह – उपकरणेति । यस्य धन्यस्य कृष्णसारस्य कृत्तिश्चर्म तव चरणारविन्दयोरास्तरणं तस्य क्रमेण शय- नसुखेनोपकरणपदं साधनास्पदं जगाम ॥ जनिरपि जयिनी विनीतरीतिर्जगति भुजंगमपुंगवस्य तस्य । मणिकटकमुदस्य यस्य शस्यं भव भवदङ्गदभङ्गिमेति भोगः ॥ २० ॥ हे भव विभो, विनीता विनयवती रीतिः सौभाग्यं यस्याः सा जनिरपि जन्मापि भुजंगमपुंगवस्य भुजगेन्द्रस्य तस्य जगति त्रिजगति जयिनी सर्वोत्कर्षवती भवति । तस्य कस्येत्याह – शस्यं प्रशस्यं मणिकटकं रत्नकङ्कणमुदस्यापास्य यस्य फणीन्द्रस्य भोगो वपुर्भवत्केयूरविच्छित्तिमेति प्राप्नोति ॥ अलभत भगवन्नवन्ध्यमेकस्त्रिभुवनसीमनि जन्म पुंगवेन्द्रः । तव भव शवभस्मरूषितोऽङ्घ्रिः शिरसि धृतो विनयानतेन येन ॥ २१ ॥ [^१]. 'मे' ख. हे भगवन्परमशिव, प्रशस्तो गौः पुंगवः । पुंगवानामिन्द्रो महावृषभः स एकस्त्रिभुव- नसीमनि त्रिजगद्वर्त्मन्यप्यवन्ध्यं सफलं धन्यं जन्मालभत । स क इत्याह - हे भव शंभो, विनयानतेन विनयप्रह्वेन येन महावृषभेण । शवति यात्यस्माज्जीव इति शवः । श वभस्मना रूषितो व्याप्तस्तव विभोश्चरणः शिरसि निजे धृतः ॥ जनयति जगति स्पृहां न केषां जनिरपि कुञ्जरशेखरस्य तस्य । त्रिभुवनमहितस्य यस्य कृत्तिर्भव भवदम्बरडम्बरं बिभर्ति ॥ २२ ॥ हे भव शंभो, कुञ्जौ कुम्भाधोभागौ दंष्ट्रे वास्य स्त इति कुञ्जरो इस्ती त्रिभुवने पूजितस्य तस्य गजेन्द्रस्य जनिरपि जन्मापि केषां न भक्तजनानां स्पृहामभिलाषं जनयति । अपि तु सर्वेषाम् । तस्य कस्येत्याह – यस्य कृत्तिश्चर्म भवदम्बरडम्बरं भवद्वस्त्राटोपं बिभर्ति । स जयति जितकाल कालकूटः स्वजनिपवित्रितमुग्धदुग्धसिन्धुः । तव कवलभुवं जवादवाप्तः कलयति यः शितिकण्ठ कण्ठपीठम् ॥२३॥ हे जितान्तक शितिकण्ठ, स्वजन्या स्वजन्मना पवित्रितो मुग्धो रम्यो दुग्धसिन्धुः क्षीरोदधिर्येन स तादृशः कालकूटो विषविशेषो जयति सर्वोत्कृष्टो भवति । स क इ- त्याह—यः कालकूटस्तव कवलभुवं प्रासपदवीं जवाद्वेगेनावाप्तः संस्तव कण्ठपीठं कल- यति भूषयति ॥ परिणतशरदिन्दुसुन्दराभं वदनमनभ्रनभोनिभश्च कण्ठः । इति शुभमुभयं विभोरभिन्नत्रिदशधुनीयमुनाविडम्बि वन्दे ॥ २४ ॥ पूर्णशरच्चन्द्रमनोहराभं विभोः श्रीशंभोर्मुखं तथानभ्रनभोनिभो गतमेघाकाशतुल्यो नीलो गलश्चेति शुभं शुभकारि उभयं द्वयमभिन्ने समवेते ये त्रिदशधुनीयमुने गङ्गायमुने ते विडम्बयत्यनुकरोतीति तादृशं वन्दे ॥ हिमहिमकरहारि वारि गाङ्गं कुवलयकान्ति कलिन्दकन्यकाम्भः । इति शुभमुभयं प्रभुप्रसादाद्वपुरिव हारिहरं वरं प्रपद्ये ॥ २५ ॥ हिमं च हिमकरश्चन्द्रश्च तद्वद्धारि मनोहारि गाङ्गं जलं तथा कुवलयकान्ति नीलो- त्पलाभं यमुनाम्भश्चेति शुभदमुभयं वरमुत्कृष्टं प्रभुप्रसादात्प्रपद्ये प्राप्स्यामि । कदेति शेषः । किमिव । हारिहरं हरिहरसंबन्धि वपुरिव ॥ धृतकुटिलकलः किलान्धकारी [^१]रुचितमलीमसभोगिभोगयोगः । त्वयि सपदि पराङ्मुखे यथाहं त्वमिव महाकलिकालभग्नशक्तिः ॥ २६ ॥ [^१]. 'रुचिर' ख. कवलितविषमक्लमं दधानः सततसमाश्रिततारकारिरूपम् । द्विजपतिमुकुटस्तथैव जातु त्वमिव शिव त्वयि संमुखे भवेयम् ॥२७॥ (युगलकम्) हे शिव, सपदीदानीं त्वयि पराङ्मुखे सति यथैवंविधोऽहं त्वमिवास्मि तथैव त्वयि संमुखे त्वमिवाहं जातु भवेयम् । कदा भविष्यामीत्यर्थः । उभावपि विशेषणैर्विशिनष्टि- अहं किंभूतः । धृताः कुटिला अधमाः कलाः शिल्पानि येन सः । तथान्धकारी अज्ञा- नरूपान्धकारवान् । तथा रुचितः प्रियो मलीमसो भोगिनां भोगयुक्तानां भोगैर्विषयैः सह योगो यस्य सः । पुनः किंभूतः । महांश्चासौ कलिकालस्तुरीययुगकालस्तेन भग्ना शक्तिर्यस्य सः । श्रीशिवपक्षे - त्वं किंभूतः ।.....अन्धकस्यासुरविशेष- स्यारिरन्धकारिः । पुनः किंभूतः । रुचितः प्रियो मलीमसैर्भोगिभोगैः फणिकलेवरैः सह योगो यस्य सः । पुनः किंभूतः । महाकलिर्महावैरवान्यः कालस्तस्य भग्ना शक्तिर्येन सः । यथा त्वयि पराड्मुखे स्वमिवाहमस्मि तथैव च त्वयि संमुखे विभो, अहं कदा जातु भवेयम् । अहं किंभूतः । रूपं दधानः । किंभूतं रूपम् । कवलितो दूरं गतो वि- षमः क्लमो भवमरुभ्रमणजो यस्य तत् । पुनः किंभूतम् । सततं समाश्रितानां सेव- कानां तारं विपदो निस्तारं करोतीति सततसमाश्रिततारकारि । अहं किंभूतः । द्विज पतिमुकुटो ब्राह्मणेन्द्रमौलिः । 'मुकुटं पुंनपुंसकम्' इत्यमरः । श्रीशिवपक्षे – त्वं किंभूतः । रूपं दधानः । किंभूतम् । कवलितं ग्रस्तं विषं कालकूटाख्यं येन तत् । पुनः किंभूतम् । अक्लमम् । अविद्यमानाः क्लमा: क्लेशाः पश्चाविद्यादयो यस्य तत् । पुनः किंभूतम् । ता- रकस्य तारकासुरस्यारिः कुमारः । सततं समाश्रितस्तारकारिः कुमारो यत्र येन वा ॥ युगलकम् ॥ जय जयद वचो विमुञ्च मुञ्चन्मधु मधुरं जनरञ्जनप्रगल्भम् । हर हर दुरितं ममाद्य माद्यद्भव भव भीमदभीमदर्शनस्त्वम् ॥ २८ ॥ जयं जगज्जयं ददातीति तस्य संबोधनं हे जयद, मधुरं स्वादु तथा जनानां रञ्जने प्रगल्भं मध्वमृतं मुञ्चत्स्रवद्वचोऽभयवचो विमुञ्च । है हर भवदुःखहर, अद्येदानीं माद्य- दतीवोल्लसद्दुरितं पापं मम हर दूरीकुरु । हे भव शंभो, भीर्भयं संसारजं विद्यते येषां ते भीमन्तो मादृशास्तेषामभीमं सौम्यं दर्शनं यस्य स तादृशोऽभीमदर्शनो भव ॥ निजवृजिनविजृम्भितं ममैतन्त्रिजगदनुग्रहनित्यदीक्षितस्त्वम् । क्वचिदपि भगवन्नदृष्टपूर्वं प्रथयसि यन्मयि विह्वलेऽवलेपम् ॥ २९ ॥ हे भगवन्परमैश्वर्यादिषट्कयुक्त, क्वचिदपि क्वाप्यदृष्टपूर्वं न पूर्व दृष्टमवलेपं शरणागता- वगणनां मयि वराके यत्प्रथयसि विस्तारयसि तदेतन्ममैव निजदुरितविलसितम् । य तस्त्वं सदैव त्रिजगदनुग्रहे नित्यं दीक्षितो व्रती ॥ प्रणमति विधुरे पुरोऽ[^१]वलग्ने दधति मयि प्रसभं गदाभियोगम् । किमिति परिजने दयामृतार्द्रां दृश[^२]मपकारवतीव नो ददासि ॥ ३० ॥ अपकारो विद्यते यस्य स तादृशेऽपकारवति रिपाविव प्रणमति प्रह्वे । तथा पुरोऽग्रतो- sवलग्ने लीने । तथा गदेन जन्मजरामरणत्रासरोगेणाभियोग आक्षेपस्तं दधति परिजने दासे मयि कृपामृतेनार्द्रां दृशं किं नो ददासि किं न वितरसि । अथ च मथ्येवं पूर्वोक्त- विशेषणविशिष्टेऽपकारवति । न पकारो विद्यते यस्य सोऽपकारवांस्तादृशे । अस्वरप- काररहितविशेषणविशिष्ट इत्यर्थः । तथा च 'प्रणमति विधुरे' इत्यत्र स्वररहितपकारेण 'प्' इत्यनेन रहिते रणमतिविधुरे रणे युद्धे या मतिस्तया विधुरे व्याकुले । तथा 'पुरो- वलग्ने' इत्यत्रास्वरेण पकारेण रहिते उरोवलग्ने………… रसभङ्गदाभियोगं दधति रसस्य भङ्गो नाशस्तं ददातीति रसभङ्गदश्चासावभियोग आक्षेपस्तं दधति । तथा 'परिजने' इत्यत्र स्वररहितपकाररहिते अरिजने इव मयीत्यर्थः ॥ स्फुटविकटविकस्वरप्रदीप्तज्वलनमहीनमहीन्द्रहार चक्षुः । बलवदलवदर्पकालकामक्षयकरमाकरमाशु मुञ्च सिद्धेः ॥ ३१ ॥ अहीनां सर्पाणामिन्द्रो वासुकिः स एव हारो यस्य स तादृश हे अहीन्द्रहार श्रीशिव, सिद्धेरष्टविधाया अणिमादिकाया आकरमुत्पत्तिस्थानं स्फुटो व्यक्तो विकटोऽतीवोत्कटो विकस्वरो विततः प्रदीप्तो ज्वलनोऽग्निर्यत्र तादृशमहीनं परिपूर्णं चक्षुस्तृतीयं चक्षुर्मुञ्च क्षिप । दीनजनं प्रतीत्यर्थः । किंभूतम् । अविद्यमाना लवाः कणा यस्य स तादृशः । पूर्ण इत्यर्थः । अलवो दर्पोऽहंकारो ययोस्तौ बलवन्तौ पूर्णदर्पौ च यौ कालकामौ तयोः क्षयं करोति तादृशम् ॥ हिमकरमकरध्वजौ न रूपं कविधिषणौ धिषणौचितीं न तीव्राम् । रणमरुणमरुत्सखौ जिगीषोरनुहरतो हरतोषिणो न तेजः ॥ ३२ ॥ हरं श्रीशिवं तोषयतीति हरतोषी श्रीशिवभक्तजनस्तस्य रूपं चन्द्रकामौ नानुहरतो नानुकुरुतः । तथा कविधिषणौ शुक्रबृहस्पती अपि तीव्रामतितीक्ष्णां धिषणौचितीं शिवभक्तस्य नानुहरतः । तथा अरुणमरुत्सखौ सूर्याग्नी अपि । 'मिहिरारुणपूषणा: ' इत्यमरः । तावपि शिवभक्तस्य रणं सङ्ग्रामं (तेजश्च) नानुहरतः । किंभूतस्य जिगीषोः । जेतुमिच्छुर्जिगीषुस्तस्य ॥ रविकरविकसत्सिताब्जशुभ्रप्रसृमरचामरचारुहासिनी श्रीः । भव न भवनमुज्झति क्षणं यत्सुकृतवतां तव तां प्रणौमि शक्तिम् ॥३३॥ हे भव शंभो, सूर्यकिरणफुल्लपुण्डरीकशुभ्रचामरच्छत्रचारुहासवती लक्ष्मीर्भवनं गृहं सुकृतवतां पुण्यवतां जनानां यन्न क्षणं मुञ्चति तां तव शक्तिमनन्तस्वतन्त्रपारमैश्वर्य- रूपां शक्तिं प्रकर्षेण नौमि । 'भक्तिम्' इत्यपि पाठः साधुः । त्वद्भक्तिफलमेतदित्यर्थः ॥ [^१]. 'विलग्ने' ख. [^२]. 'उपकारवति' ख. यदभयद भवत्यवस्थितेऽन्तः समहिम नो हि मनो विशोकमासीत् । विशदविशदकर्मकर्दमे तत्सपदि विषादि विषाद केन जातम् ॥ ३४ ॥ हे अभयद । विषमत्ति विषादस्तत्संबोधनं हे विषाद । हि निश्चये । भवति सच्चिदा- नन्दघने परमेश्वरेऽन्तरवस्थिते सति समहिम महत्त्वयुक्तं नोऽस्माकं मनो यद्विशोकं वि- गतजन्मजरामरणदुःखमासीत्तदेवैतन्नो मनः सपदीदानीमविशदकर्मकर्दमे कलुषकर्मपङ्के विशत्पतत्सद्विषादि विषादो दुःखं विद्यते यस्य तत्तादृशं केन हेतुना जातम् । न जान इति शेषः ॥ नयविनयविशुद्धमन्तरुद्यद्दहनसमानसमाप्तरोषदोषम् । यमनियमनियन्त्रितं मनो मे कुरु सविलासविलासिनीविरक्तम् ॥ ३९ ॥ हे विभो, नयेत्यादिविशेषणविशिष्टं मे मम मनः कुरु । इति प्रार्थये इत्यर्थः । नयो नीतिः कार्याकार्यविचारः । विनयो ज्ञानवयोवृद्धेषु प्रह्वता । ताभ्यां विशुद्धं निर्मलम् । तथा अन्तरुद्यन्तौ दहनसमानावग्निसमौ समाप्तौ नाशितौ रोषदोषौ यत्र तत्तथा । य मेन दशविधेन नियमेन चैतावता नियन्त्रितम् । तथा सविलासा या विलासिनी तस्यां विरक्तं निरनुरागम् । 'आनृशंस्यं क्षमा सत्यमहिंसा च दया स्पृहा । ध्यानं प्र सादो माधुर्यमार्जवं च यमा दश ॥' 'शौचमिज्या तपो दानं स्वाध्यायोपस्थनिग्रहौ । व्रतोपवासौ मौनं च स्नानं च नियमा दश ॥' अवसरसरसालसालघूद्यन्मधुरवधूरवधूतचित्तचिन्तः । स सकलकलधौतधौतमूर्तिस्तव नतिमानतिमात्रचित्रचिद्यः ॥ ३६ ॥ हे विभो, अतिमात्रं चित्रा विस्मयकारिणी चित्संविद्यस्य स तादृशः । 'प्रेक्षोपल- ब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः' इत्यमरः । एवंविधो यः पुरुषस्तव नतिमान्प्रणाम- प्रह्वो भवति स पुरुषोऽवसरे रतिप्रसङ्गे सरसोऽलसोऽलघुर्बहुरुद्यन्यो मधुरो वधूरवो म णितसीत्काररूपस्तेन धूता निर्नाशिता चित्तचिन्ता मनोव्यथा यस्य स तादृशो भवति । पुनः किंभूतः । सकला सर्वा कलधौतधौता स्वर्णस्वच्छा मूर्तिर्यस्य स तादृग्भवति॥ मलमलमलघुं वि[^१]हन्तुमाप्तुं मुदमुदयं समयं समर्थ्य चान्तः । महमहमहहेश्वरप्रशंसामयमयमाश्रयमाश्रयं [^२]सुखानाम् ॥ ३७ ॥ अहहेत्यानन्दे । अन्तर्मनस्युदयं निजोदयं समयं च समर्थ्य ज्ञात्वा अलघुं महान्तं मलं दुरितमलं विहन्तुम् । तथा मुदं परानन्दमयीं निर्वृतिमाप्तुं सुखानामाश्रयमीश्वर- प्रशंसामयं श्रीशिवस्तुतिप्रकृतिकं महं महोत्सवमयमहमाश्रयं श्रितोऽस्मि ॥ गुणिभिर्विबुधैर्हरीन्द्रमुख्यैर्भव संसाररिपोर्द्विषः स्तुतस्य । हितमातनुते तव प्रसादादसुहृत्प्राणहरोऽपि पुण्यभाजाम् ॥ ३८ ॥ [^१]. 'विहर्तुं' ख. [^२]. 'गुणानाम्' ख. हे भव परमेश, गुणिभिर्गुणाः पाण्डित्यदयादाक्षिण्यादयो विद्यन्ते येषां ते तैः । तथा विबुधैर्देवैः । हरीन्द्रमुख्यैश्च हरिर्विष्णुरिन्द्रः शक्रो मुख्यो येषां ते तादृशैस्तुतस्य तव संसार एव च्छिद्रान्वेषित्वाद्रिपुस्तस्य द्विषो निवारकस्य तत्र प्रसादात्प्राणहरोऽपि घात- कोऽप्यसुहृत् न सुहृदसुहृच्छत्रुः पुण्यभाजां सुकृतिनां हितमातनुते । अत्र गुणिभिर्विबुधै- रिति हरोन्द्र इति भवसंसार इति रिपोर्द्विष इति असून्प्राणान्हरतीत्यसुहृत्प्राणहर इति 'आमुखे पौनरुक्त्यं पर्यवसाने तदभावः' इत्यसमस्तपदोत्थः पुनरुक्तवदाभासः ॥ अपि नाथ जनार्दनस्य विष्णोरपि वैकुण्ठ इति प्रसिद्धिभाजः । अधिकंसरुषोऽपि चेद्भवत्तो झगिति प्रागभवत्सुदर्शनाप्तिः ॥ ३९ ॥ अपि सर्वजनाविरुद्धबुद्धेरपि तीक्ष्णस्य परं जितक्रुधोऽपि । न कथं मम साधुनापि यद्वा जगदीशोऽसि विभुः किमुच्यते ते ॥४०॥ (युगलकम् ) हे नाथ, जनान्धर्मग्लानिकरानर्दयति पीडयतीति जनार्दनस्तस्य तादृशस्यापि जनपी- डकस्यापि । तथा विकुण्ठस्यापत्यं वैकुण्ठ इति प्रसिद्धिभाजोऽपि । अथ च वै प्रसिद्धौ कुण्ठ इति । तथा अधिकंसं कंसेऽसुरे रुड्रोषो यस्य स तादृशस्य । अथ चाधिकमत्यर्थं सरुषोऽपि विष्णोर्नारायणत्य सुदर्शनाप्तिः सुदर्शनाख्यचक्राप्तिर्भवत्तस्त्वत्तो विभोः स काशाज्झगिति शीघ्रमेव चेद्यदि प्राक्पुरा अभवत्तर्हि सर्वजनेष्वविरुद्धबुद्धेरपि तथा कु- ण्ठाद्भिन्नस्य तीक्ष्णस्य तीक्ष्णमतेरपि तथा परं केवलं जितक्रुधोऽपि गतरुषोऽपि ममा- धुनेदानीमपि सा सुदर्शनाप्तिः शोभनदर्शनप्राप्तिः कथं न भवति भवत्सकाशात् । यद्वा पक्षान्तरे । जगदीशोऽसि त्रिलोकनाथोऽसि । विभुः स्वतन्त्रः । मया ते तव किमुच्यते । अत्राप्यसमस्तपदः पुनरुक्तवदाभासः ॥ सुमनःसुलभे तथा न नाके सुमनः सुन्दरसौरभे न चास्थाम् । सुमनःसु च नाश्नुते सुधार्द्रासु सुमनः सुष्टु यथा भवत्कथासु ॥ ४१ ॥ भक्तजनस्येति शेषः । भक्तजनस्य मनश्चित्तं सुमनोभिर्देवैः सुलभे सुप्राप्ये नाके स्वर्गेऽप्यास्थां नाश्नुते भजते । 'आस्थानीयत्नयोरास्था' इत्यमरः । तथा सुमनसां पुष्पाणां सुन्दरं मनोहारि घ्राणतर्पणं च यत्सौरभं तत्रापि भक्तजनमनो नास्थां भजते । तथा सुमनःसु मालतीपुष्पेषु (पण्डितेषु वा) चास्थां भक्तजनमनो न भजते । तथा कथमित्याह – सुधयामृतरसेनार्द्रासु सुधार्द्रासु भवत्कथासु भवच्चरितकथासु यथा भक्तजनमनः सुष्ट्रु अत्यर्थमास्थां भजते । 'सुमनाः पुष्पमालत्योस्त्रिदशे कोविदे शनौ' इति विश्वः । अत्र च सुमनः शब्द प्रसङ्गेन ममापि वृत्तमेकम् – 'उन्मत्तानां यदि सुमनसां वृन्दमेत त्सुमालां धृत्वा नित्यं त्वमतिकृपया प्रेमपात्रोकरोषि । हा धिक्कष्टं किमपरमतो मोहमद्येन कस्मादुन्मत्तं मामपि सुमनसं न त्वमङ्गीकरोषि ॥' अथात एतत्स्तोत्रस्योपसंहारार्थं वृत्तद्वयमाह श्रीर्देवी जयति यया कटाक्षितानां हस्तस्था सकलसमीहितार्थसिद्धिः । सा यस्मादजनि तमब्धिमर्भकाय प्रादाद्यः कथमिव वर्ण्यते स देवः ॥४२॥ यया लक्ष्म्या कटाक्षितानां सकलो यः समीहितार्थस्तस्य सिद्धिर्हस्तस्था भवति सा देवी श्रीलक्ष्मोर्जयति सर्वोत्कृष्टा भवति । सा तादृश्यपि लक्ष्मीर्यस्मात्समुद्रःत्क्षीरोदधेर्जाता तमब्धिमप्यर्भकाय बालायोपमन्यवे यो विभुर्दयालुः प्रादात्स देवः परमशिवः कथमिव वर्ण्यते व्याख्यायते । ब्रह्मादिभिरपि वर्णयितुमशक्यत्वादित्यर्थः ॥ नार्हत्यमन्दरयमन्दरयत्नलब्धा स्पर्धां सुधा न वसुधानवधिश्च यस्य । सोऽयं नवः शिवनवः [^१]शिवतातयेऽस्तु विद्वत्सभाजनसभाजनभाजनं वः ॥ ४३ ॥ अमन्दरयो महावेगो यो मन्दरो मन्थाद्रिस्तस्य यत्नेन लब्धा सुधा पीयूषमपि त थानवधिरनन्ता वसुधा भूमिरपि यस्य नवस्य स्तवस्य स्पर्धां साम्यं मार्हति नवो नूतनः सोऽयं शिवनवः शिवस्य नवः स्तवः प्रभुप्रसादनाख्यो वो युष्माकं शिवतातये शिवस्य तातिस्तस्यै । कल्याणविस्तारायेत्यर्थः । अस्तु । नवः स्तवः किंभूतः । विदुषां या सभा गोष्टी तस्यां जनस्य सभाजनं प्रीतिदर्शनं तस्य भाजनं पात्रमिति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ प्रभुप्रसादनं नाम त्रयोदशं स्तोत्रम् । चतुर्दशं स्तोत्रम् । अथातो हिताख्यं स्तोत्रं चतुर्दशमारभमाण आह येन नेत्रकरशेखरस्पृशा हन्ति सन्तमसमन्तरीश्वरः । ऐन्दवं दवथुहारि हारि तद्धाम कामदमदभ्रमस्तु वः ॥ १ ॥ नेत्रं वामनेत्रं च करो वामकरश्च शेखरं मुकुटं च तानि स्पृशतीति नेत्रकरशेखरस्पृक् तादृशेन येन चन्द्रतेजसान्तर्मनसि स्थितं सन्तमसमझानाख्यमीश्वरः श्रीशिवो इन्ति । भक्तजनस्येति शेषः । हारि मनोहरं दवथुहारि संतापहरं तदैन्दवं चान्द्रं धामादभ्रमनल्पं कृत्वा वो युष्माकं कामदमीहितप्रदमस्तु । भक्ति निर्भरगभीरभारतीवैभवो भव भवन्नवेषु यः । शुष्कशष्पमिव तस्य भासते वासवासनपरिग्रहग्रहः ॥ २ ॥ [^१]. 'शिवताप्तये' ख. हे भव शिवादिक्षित्यन्तोत्पादक, यः पुरुषो धन्यो भवन्नवेषु भवत्स्तुतिषु भक्त्या निर्भरं पूर्णं गभीरं च यद्भारतीवैभवं वागुलासो यस्य स तादृशो भवति तस्य धन्यस्य वासवासनपरिग्रहग्रह इन्द्रासनग्रहणहेवाकः शुष्कशष्पमिव शुष्कतृणप्रायो भासते । नि- तरामवहेलास्पदं भवतीत्यर्थः ॥ उल्लसत्पुलकलाञ्छितं वपुर्बाप्पपूरितपुटे विलोचने । गद्गदा हरहरेति भारती संभवन्ति भवभक्तिशालिनाम् ॥ ३ ॥ भवस्य श्रीशंभोर्भक्त्या शालन्त इति भवभक्तिशालिनस्तेषामेतानि वस्तून्येवंविधानि संभवन्ति । कानीत्याह-वपुर्लोचने भारती च । वपुः किंभूतम् । उल्लसत्पुलकलाञ्छित मुल्लसद्भिरतिप्रमोदेन पुलकै रोमाञ्चैन्छितं संभवति । लोचने किंभूते। बाप्पेण हर्षा- श्रुणा पूरितौ पुटौ ययोस्ते तादृशे संभवतः । भारती च किंभूता । हरहरेति गद्गदा मुहुः स्खलिताक्षरा ॥ नीलकण्ठ तरुणेन्दुशेखर त्र्यम्बक त्रिनयनेति भक्तितः । गद्गदं निगदतस्तृणोपमं हेमपूर्णमखिलं महीतलम् ॥ ४ ॥ हे नीलकण्ठ । तरुणेन्दुशेखर बालेन्दुमौले । त्रीण्यम्बकानि नेत्राणि यस्य स त्र्य- म्बकः । त्रयाणां लोकानामम्बकः पितेत्यागमः । 'द्यौर्भूमिरापस्तिस्रोऽम्बा अस्य' इति भारते । तत्संबोधनं हे त्र्यम्बक । हे त्रिनयन। मां पाहीति शेषः । इति भक्तितो ग द्गदं स्खलत्पदं निगदतो धन्यस्य कस्याप्यखिलमपि महीतलं हेमपूर्णमपि तृणोपमं शु- ष्कतृणप्रायम् । अतीवावहेलास्पदमित्यर्थः ॥ एतदनुसारेण ममापीदमेकं वृत्तम् – 'शंभो जगन्नाथ दयाम्बुराशे दीनं जनं पाहि महेश्वरेति । संसारकाकोदरदष्ट लोकसंजीवने मन्त्र- वरः प्रदिष्टः ॥' इति ॥ अन्तकभ्रुकुटिमीतिविह्वलश्वेतसान्त्वनविधौ बभूव यत् । मां प्रति प्रतिपदं कदर्थितं तत्क्व संप्रति कृपामृतं तव ॥ ९ ॥ अन्तकस्य भ्रुकुटिस्ततो भीत्या विह्वलो यः श्वेतः श्वेतनृपस्तस्य सान्त्वनविधौ मा भैषीरित्याश्वासनविधौ यत्तव कृपामृतं बभूव तदेव कृपामृतं करुणामृतवाक्यं मां प्रति प्रतिपदं कदर्थितं व्यथितं (स्खलद्वहिर्निःसरत्) संप्रतीदानीं क्व । गतमिति शेषः ॥ वह्निशीतकरघर्मरश्मयो लोचनत्रितयवर्तिनस्तव । शीततापतिमिरार्दितस्य मे नाथ चित्रलिखिता इव स्थिताः ॥ ६ ॥ हे नाथ, वह्निरग्निः । शीतकरश्चन्द्रः । घर्मरश्मिः सूर्यश्चेति त्रयस्तव लोचनानां भा- लस्थवामदक्षिणानां त्रितये वर्तन्ते तादृशाः सन्ति जरामरणत्रासमहावायुना शीतम् । आध्यात्मिकाधिदैविकाधिभौतिकभेदेन त्रिविधस्ताप एव तापः । तिमिरमज्ञानरूपं त मस्तैस्त्रिभिरर्दितस्य पीडितस्य मे हे नाथ, ते त्रयोऽपि वह्व्यादयो मदीयव्याधित्रयाप्रती- काराच्चित्रलिखिता इवाकिंचित्करा इव स्थिताः । मदभाग्यादिति शेषः ॥ संभ्रमभ्रमदमन्दमन्दरक्षीरनीरधिगभीरया गिरा । त्रातुमर्हसि कृतान्तकिंकरैर्मामशर्मभिरभिद्रुतं द्रुतम् ॥ ७ ॥ संभ्रमेण वेगेन भ्रमन्नमन्दो मन्दरो मन्थाद्रिर्यस्मिन्स चासौ क्षीरनीरधिः क्षीराब्धि- स्तद्वद्गभीरया गिरा वाण्या अशर्मभिरकल्याणकारिभिः कृतान्त किंकरैर्यमदूतैरभिद्रुतं विहितसमीपागमनं द्रुतं शीघ्रं मां त्रातुमर्हसि ॥ कालकिंकरकरान्तरस्फुरद्भो[^१]गभोगिपरिणद्धकंधरम् । अन्तरेण भवदीयहुंकृतिं नाथ मोचयितुमुत्सहेत कः ॥ ८ ॥ हे नाथ शंभो, कालकिंकराणां यमदूतानां करान्तरे स्फुरन्भोगः कायो यस्य स ता दृशो यो भोगी सर्पस्तेन परिणद्धा वलिता कंधरा ग्रीवा यस्य स तादृशस्तं महासंकटपतितं पुरुषं मोचयितुं भवदीयहुंकृति दूतान्प्रति विहितं हुंकारमन्तरेण क उत्सहेत कः क्षमेत । न कोऽपीत्यर्थः । एतद्वृत्तानुसारेण ममापीदं वृत्तम्- 'देवाः सन्तु सहस्रशः क मलभूकंसारिमुख्याः पुरो विश्वाभीप्सितदानकल्पतरवो भक्त्यन्वितानां नृणाम् । क्रोधाक्रान्तललाटलक्ष्मविषमभ्रूभङ्गसंतर्जनत्रस्तानां परिपालनैकनिरतो मृत्युंजयान्नापरः ॥' उत्कटभ्रुकुटिभीमदर्शनद्वाःस्थहुंकृतिखलीकृतात्मभिः । द्वारि यः क्षितिभुजां पराभवः सह्यते द्रविणलेशतृष्णया ॥ ९ ॥ स त्वदायतनदेहलीतले पुष्पपात्रकरपत्रिकाकरम् । कंचिदेव [^३]भवदर्चनोत्सुकं चन्द्रशेखर करोति कातरम् ॥१०॥ (युगलकम्) हे चन्द्रमौले, उत्कटा या भ्रुकुटिस्तया भीमदर्शना ये द्वाःस्था याष्टीकास्तैः खली- कृत आत्मा येषां तैः पुरुषैः क्षितिभुजां राज्ञां द्वारि द्रविणलेशतृष्णया धनलवतृषा यः पराभवः सह्यते स पराभवस्त्वदायतने त्वदीयदेवालये या देहली तस्यास्तलं बुध्नं तत्र भवदर्चने भवत्पूजायामुत्सुकं कंचिदेव विरलं धन्यं पुष्पपात्रं कुसुमपात्रं च करपत्रिका गलन्तिका च पाणौ यस्य स तादृशं सन्तं कातरं भवद्दर्शनावसरप्राप्तिः करोति ॥ अन्तरेण भवदङ्घ्रिसेवनं देव केवलमियं विडम्बना । यन्नृणां कमलिनीदलस्खलन्नीरशीकरचला विभूतयः ॥ ११ ॥ हे देव शंभो, कमलिनीदले पद्मपत्रे स्खलद्यन्नीरं जलं तस्य शीकराः कणास्तद्वञ्चला विभूतयः संपदो नृणां यद्भवन्ति सेयं नृणां केवलं विडम्बना भवति । किमन्तरेण भव- दङ्घ्रिसेवनं भवत्पादकमलसेवनमन्तरेण विना ॥ [^१]. 'भोगिभोग' ख. [^२]. 'भव दर्शनोत्सुकं' ख. यत्तु निर्जरतरङ्गिणीतटे सौहृदं हरिणबालकैः समम् । भूभृतां च तृणवद्विलोकनं श्रीरियं भव भवत्प्रसादतः ॥ १२ ॥ तु पक्षान्तरे । निर्जरतरङ्गिणीतटे देवनदीतटे कस्यचिद्धन्यस्य हरिणशावकैः समं वने यत्सौहृदमेकत्र निवाससौख्यं भूभृतां राज्ञामुपरि च तृणवत्सावहेलं यद्विलोकनमि- यमद्भुता श्रीः संपत्तिः पूर्वोदितविडम्बनारूपसंपत्तेः परमानन्ददायिनी हे भव, भवत्प्र- सादादेव भवति ॥ त्वामुपेत्य शरणं महेश्वरं देव निःशरण एव चेदहम् । दोष एष मम जाह्नवीजले तर्षुलो हि शफरः स्वदुष्कृतैः ॥ १३ ॥ हे नाथ शंभो, त्वां त्रिलोकनाथं महेश्वरं शरणमनाथदीनजनत्रातारमुपेत्य लब्ध्वा चेद्यद्यहं मन्दभाग्यो निःशरण एव विमुखो व्रजामि स एष दोषो ममैव मन्दभाग्याना- मित्यर्थ: । दृष्टं चैतत् । हि यस्मात्कारणाज्जाह्नवी जले गङ्गाजले शफरो मत्स्यस्तर्षुलस्तृ- षितः स्वदुष्कृतैरेव भवति ॥ गद्गदोद्गतगिरश्चिरस्थि[^१]रप्रेमहेमनिकषोपलोपमम् । शंसतः शिवशिवेति शांभवं नाम कामपि दशां प्रशास्ति मे ॥१४॥ गद्गदा हर्षेण स्खलितपदा उद्गता गोर्वाणो यस्य स तादृशस्य शंसतः स्तुवतो मम चिरं स्थिरं यत्प्रेम श्रीशिवभक्तिविषयं तदेव हेम सुवर्णं तस्य निकषोपलतुल्यं शिवशि- वेति शांभवं नाम कामप्यनिर्वाच्यां परानन्दामृतरसाप्लाविततनुमयीं प्रशस्तिं ददाति ॥ वारि वारितभवार्ति मूर्ध्नि ते भाति भातिधवले हिमत्विषः । तेन ते नतिमिमो दवच्छिदे देहि देहिषु करावलम्बनम् ॥ १५ ॥ हे विभो, हिमत्विषश्चन्द्रस्य मौलिस्थस्य भातिधवले भया दीप्त्यातिधवलेऽतिस्वच्छे तव मूर्ध्नि वारि गङ्गाजलं भाति । किंभूतम् । वारितभवार्ति वारिता दूरीकृता भवार्ति- र्जन्मजरामरणत्रासरूपा आर्तिर्येन तत् । तेन हेतुना दवः संतापः । 'टु दु उपतापे- धातुः । दवस्य भवमरुभ्रमणजसंतापस्य च्छित्तस्यै नतिं प्रणतिं वयमिमः प्राप्नुमः । 'इण् गतौ' धातुः । हे स्वामिन् देहिषु प्राणिषु मादृशेषु करावलम्बनं हस्तालम्बं देहि ॥ मूढमूढविपदं पदं शुचामन्धमन्धकरिपोऽरिपोथितम् । मोघमोघमितमेतमेनसां मां तमान्तकरतार तारय ॥ १६ ॥ अन्धकस्यासुरविशेषस्य रिपुस्तत्संबोधनं हे अन्धकरिपो । हे तमान्तकरतार । त माया रात्रेरन्तं करोतीति तमान्तकरः सूर्यः स एव तारायां कनीनिकायां यस्य स तत्संबोधनम् । मूढं मोहार्दितं तथा ऊढा धारिता विपज्जन्मजरामृतिरूपा येन स तादृ [^१]. 'स्थित' क. शम् । तथा अन्धमज्ञानतमसा । तथा अरिभिः षङ्भिः कामक्रोधादिभिरान्तरैः पोथितो मदिंतस्तादृशम् । तथा मोघं व्यर्थजन्मानम् । तथा एनसां पापानामोघं प्रवाहमितं प्रा- प्तम् । 'इण् गतौ' धातुः । एवंविधमेतं मां तारय । भवोदधेरिति शेषः ॥ यं स्वयं स्वरसभैरवै रवैरक्षर क्षपितराक्षसेक्षसे । मारमार भुवि भासते स ते भानुभानुभरभासुरः सुरः ॥ १७ ॥ स्वरसेन भैरवा उग्रास्तादृशे रवैः शब्दैर्हे क्षपितराक्षस क्षपिता राक्षसा देवरिपवो येन तत्संबोधनम् । हे अक्षर । न क्षरति स्वरूपात्प्रचलतीत्यक्षरः । हे मारमार। मारं कामं मारयतीति मारमारस्तत्संबोधनम्। त्वं यं धन्यं स्वयं प्रसाददृष्टया ईक्षसे त्रिलोक- यसि स ते तव सुरो देवो भुवि भूमौ भासते । किंभूतः । भानोः सूर्यस्य भानवः कि- रणास्तेषां भरः समूहस्तद्वद्भासुरः प्रदीप्तः । स देव एव मनुष्यरूपेण भासत इत्यर्थः ॥ बाणबाणकृतपूजनैर्जनैरादरादघटि यैस्तव स्तवः । वास्तवास्तव त एव तावता बन्दिवन्दितयशोगणा गणाः ॥ १८ ॥ हे विभो, बाणैर्बाणाख्यकुसुमैर्दासीकुरण्ट इति ख्यातैर्षाणे जागेश्वरप्रतिमाख्ये सूक्ष्म- लिङ्गे कृतं पूजनं यैस्तादृशैर्जनैर्यैर्धन्यैरादरात्तव स्तवोऽघटि अकारि तावता तावतैव जनविधिना वास्तवा वस्तुभूताः सारभूता बन्दिभिः स्तुतिपाठ कैर्वन्दितः स्तुतो यशोग- णो येषां ते तादृशा गणाः प्रमथास्तवानुचरा भवन्ति । 'बाणो बलिसुते शरे । देवभेदे स्त्रियां वाचि द्वयोर्दासीकुरण्टके' इति मङ्खः ॥ त्वां सतामरसवासवा सवाज्ञातदुर्गमगमागमागमाः । अर्चयन्ति सदिनं दिनंदिनं गीर्भिरम्बरसदः सदःसदः ॥ १९ ॥ अम्बरसदः सदः सदोऽम्बरसदां देवानां सदसि सभायां सीदन्ति तिष्ठन्ति तादृशा देवास्त्वां सदिनं सञ्शोभनश्वासाविनः स्वामी तं सदिनं दिनंदिनं प्रतिदिनमर्चयन्ति स्तुवन्ति । काभिः । गीर्भिर्वाणीभिः । 'इनः सूर्ये प्रभौ' इत्यमरः । किंभूता देवाः । स- तामरसवासवासवाः । सह तामरसेन पद्मेन वर्तते यः स तादृशो वासवस्येन्द्रस्यासवो दिव्यौषधिरस इन्द्रोचित आसवो येषां ते । 'वासवासनाः' इत्यपपाठः । पादान्ते वर्णयु- गलकत्रयस्य समत्वे सति प्रथमपादे तदभावेन यमकोच्छेदात् । पुनः किंभूताः । गम श्चागमश्च गमागमौ । दुर्गमौ गमागमौ येषां ते तादृशाः । ज्ञाता निर्णीता दुर्गमगमागमा आगमाः शास्त्राणि यैस्ते तादृशाः ॥ न मे तथा प्रीतिमनेकपाली करोति नो वा दयिताङ्कपाली । यथोक्तिदेवी स विभुः कपाली ययार्च्यते सेवकलोकपाली ॥ २० ॥ अनेकपानां हस्तिनामाली पङ्क्तिरनेकपाली करिघटा तथा मे प्रीतिं न करोति । तथा दयितायाः प्रियतमाया अङ्कपाली आलिङ्गनमपि तथा मे प्रीतिं न करोति । तथा कथमित्याह – यथेत्यादि । सा उक्तिदेवी वाग्देवी यथा मे प्रीतिं परमानन्दं करोति । सा वाग्देवी केत्याह–सेवकानां भक्त्यासक्तजनानां लोकं पालयतीति सेवकलोकपाली कपाली श्रीशिवभट्टारको यया वाग्देव्यार्च्यते स्तूयते ॥ भवन्तमाराध्य परार्ध्यवैभवं भवं विधाय द्विषतां पराभवम् । भवं च जित्वा जहतः पुनर्भवं भवन्ति मुक्ताः पदमाप्य शांभवम् ॥२१॥ भक्तजनास्तं भवं श्रीशंभुं भवन्तं परार्ध्यं वैभवं यस्य स तादृशमाराध्य । अत एव द्विषतां शत्रूणामान्तराणां कामादीनां षण्णां बाह्यानां वा पराभवं विधाय। भवं संसारं च जित्वा पुनर्भवं पुनरागनरूपं पुनर्जन्म जहतस्त्यजन्तः शांभवं पदमाप्य मुक्ता मुक्ति- मापन्ना भवन्ति ॥ न वंशवृत्तेर्गणयामि तानवं न बन्धुरं कंचन नौमि मानवम् । नवं तवानन्दितदेवदानवं न वञ्चितोऽहं रचयन्सदा नवम् ॥ २२ ॥ अहं वंशवृत्तेः कुलस्थितेस्तानवमल्पतां न गणयामि । तथा कंचन बन्धुरं रम्यं मानवं च न नौमि । हे स्वामिन्, आनन्दिता देवा दानवाश्च येन स तादृशस्तं तव नवं स्तवं नवं नूतनं रचयन्कुर्वन्विधिना न वञ्चितोऽहम् ॥ धनंजयाक्षं सकलार्थसाधनं धनंजयाराधितमाधिबाधनम् । धनं विदित्वा विपदां विशोधनं धनन्ति धन्या विभुमृद्धिवर्धनम् ॥ २३॥ 'धनंजयौ वह्निपार्थौ' इति मङ्खः । धनंजयोऽग्निरक्ष्णि यस्य स तादृशस्तम् । सकला- र्थसाधनं सकलपुरुषार्थकारणम् । तथा धनंजयेनार्जुनेन वैरिजयार्थमाराधितम् । तथा आधीन्मानसीः पीडा बाधयतीति तादृशम् । ॠद्धिवर्धनं संपद्वर्धनं विभुं शंभुं धन्या धनन्ति याचन्ते । किं कृत्वा । विपदां संसृतिभयानां विशोधनं धनं शिवस्तुतिरूपं विदित्वा ॥ कलापिनः प्रावृषि यद्वदम्बुदध्वनिर्घनानन्दविशङ्कलापिनः । कलापिनद्धस्फुटजूटधारिणस्तथामृतं वर्षतु गीः कलापिनः ॥ २४ ॥ कलापि मधुरस्वरापि कलापिनद्धस्फुटजूटधारिणः कलया चन्द्रकलया पिनद्धो बद्धः स्फुटश्चासौ जूटः कपर्दस्तं धारयतीति तस्य श्रीशिवस्य गीर्वाणी नोऽस्माकममृतं पीयूषं वर्षतु । कथम् । तद्वत् । तद्वत्कथमित्याह-कलापिन इति । घनेनानन्देन विशङ्कं लपति भणतीति घनानन्दविशङ्कलापी तादृशस्य कलापिनो मयूरस्यामृतं वारि यद्वदम्बुदध्व. निर्धनध्वनिर्वर्षति तद्वत् ॥ नृजन्म तस्यैव भवानवद्यं भवानवद्यन्दवभीक्षते यम् । त्यजत्यजातोपरमा समानं रमासमानन्दकरी न चैनम् ॥ २९ ॥ हे भव शंभो, दवं संतापमवद्यन्खण्डयन्भवान्विभुर्यं पुरुषं धन्यमीक्षते प्रसाददृष्ट्या तस्यैव नृजन्म मनुष्यजन्मानवद्यं निर्दोषम् । अजातो न जात उपरमो विनाशो यस्यास्तादृशी असमानन्दकरी अनन्यसाधारणपरमानन्ददायिनी रमा मोक्षलक्ष्मीश्च समानं सह मानेन पूजया वर्तते यस्तादृशं न त्यजति ॥ एतत्स्तोत्रोपसंहारार्थं वृत्तत्रयमाह अतः परं जगति किमस्ति नीरसं यदुक्तमप्यसकृदुदीर्यते वचः । सहस्रशश्चिरमपि चर्विता पुनर्नवं नवं स्रवति रसं शिवस्तुतिः ॥ २६ ॥ असकृत्पुनः पुनरुक्तमपि वचो यत्केनाप्युदीर्यते जगत्यतः परं नीरसं किमस्ति । न किंचित् । इदं त्वद्भुतमित्याह - सहस्रश इति । सहस्रशः सहस्रवारं चिरमपि बहुकाल- मपि चर्विता आस्वादिता पुनः शिवस्तुतिः परमेश्वरस्तुतिर्नवं नवं रसं परमानन्द- रसं स्रवति ॥ मृत्युं मृत्युंजय जय जगद्धस्मरं भस्मभावं कामं कामं नय नयनजोद्दामधामच्छटाभिः । भव्याभ व्याकुलकुलवधूरुत्कयेत्याचरन्तं सत्रासत्राणचण चरितान्यद्भुतानि स्तुमस्त्वाम् ॥ २७ ॥ मृत्युं जयतीति मृत्युंजयोऽमृतेशः । तस्य संबोधनं हे मृत्युंजय । किंभूत । सत्रा- सत्राणचण । सह त्रासेन संसृतिजन्मना वर्तन्ते ये सत्रासा जनास्तेषां त्राणे रक्षणे चणः प्रख्यातस्तत्संबोधनं तादृश । इत्यनेन प्रकारेणाद्भुतानि कर्माण्याचरन्तं निजभक्तजनां- श्वासनेनापदानकर्माणि कुर्वन्तं त्वां स्तुमः । इति किमिति । हे मत्सेवक, जगद्धस्मरं विश्वभक्षकं मृत्युं कालं जय । मदनुग्रहेणेति शेषः । तथा नयनात्स्वनेत्राज्जाता उद्दामा उद्भटा धामच्छटास्तेजच्छटास्ताभिः कामं निश्चयेन कामं मदनं भस्मभावं नयेति मुमुक्षं प्रति भव्या आभा दीप्तिर्यस्य तत्संबोधनं हे भव्याभ मत्सेवक, विशेषेणाकुलास्त्व- द्दर्शनाभिलाषेण याः कुलवध्वस्ता उत्कयोत्कण्ठिताः कुर्विति भक्तं प्रति संबोधनम् ॥ यत्तत्सर्गनिसर्गनिर्मितिकरं यद्रावणद्रावण- व्यापारावसरावसक्तमथ यत्संवर्तसंवर्तकम् । स्वाभासं भवसंभवस्थितिलयस्फारोचितं रोचितं भासा कारणकारणं दिशतु तद्धामेहितं मे हितम् ॥ २८ ॥ तत्प्रसिद्धं सर्गस्य जगत्सृष्टेनिसर्गतः स्वभावतः स्वातन्त्र्येण निर्मितिं निर्माण करो - तीति तादृशं ब्रह्मरूपेण यद्धाम परमं तेजः । तथा रावणस्य दशमुखस्य यद्द्रावणं निश्चेष्टी- करणं तदेव व्यापारस्तस्यावसरस्तत्रावसक्तं लीनम् । रामरूपविष्णुरूपेणेत्यर्थः । यद्धाम भवति । तथा यद्धाम संवर्तस्य प्रलयस्य संवर्तकं निवर्तकं रुद्ररूपेण भवति । तद्धाम परमज्योतीरूपं स्वाभासं स्वानुभवैकमानं भवस्य संसारस्य संभव उत्पत्तिः स्थि तिश्च लयो नाशश्च तेषां स्फारोऽवतारस्तत्रोचितं योग्यम् । भासा स्वप्रकाशेन रोचितं दीप्तम् । कारणानां ब्रह्मविष्णुरुद्रेश्वरसदाशिवशिवानां षण्णां कारणं हेतुभूतं परमशि- वाख्यमीहितमभीष्टं हितं मे मह्यं दिशतु ददात्विति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ हितं नाम चतुर्दशं स्तोत्रम् । पञ्चदशं स्तोत्रम् । अथात: करुणाराधनाख्यं पञ्चदशं स्तोत्रमारभमाण आह अधुना तपसेव देवतामभियोगेन सरस्वतीमिव । सुहृदेव समीहितां श्रियं प्रगुणेनेव गुणेन संसदम् ॥ १ ॥ प्रतिभामिव काव्यकर्मणा वसुना कीर्तिमिवार्थिगामिना । मनसीव शमेन निर्वृतिं सुकृतेनेव परत्र सद्गतिम् ॥ २ ॥ करुणां हरिणाङ्कलक्ष्मणः सकलार्थार्पणकल्पवल्लरीम् । विपदन्तकरीमुपासितुं स्तुतिलेशेन मनः प्रवर्तते ॥ ३ ॥ (तिलकम्) सकलपुरुषार्थप्रदानकल्पलतां विपन्नाशकरीं देवतां तपसोपासितुं यथा कश्चित्प्रवर्तते तथा तादृशीमेव पारमेश्वरीं करुणां स्तुतिलेशेनोपासितुं मम मनः प्रवर्तत इति संबन्धः । एवमग्रेऽपि । यथा च कश्चिदभियोगेनाभ्यासेन सरस्वतीमुपासितुं प्रवर्तते, यथा च सुहृदा समूहेन तन्मुखेन (?) समीहितां लक्ष्मीमुपासितुं प्रवर्तते, यथा च प्रकृष्टा गुणा दयादानदाक्षिण्यादयो यस्य स तादृशेन गुणेन पाण्डित्येन कश्चित्संसद सभामुपासितुं प्रवर्तते, यथा काव्यकर्मणा काव्यं निपुणकविकर्मैव कर्म व्यवहारस्तेन प्रतिभां नवन- वोल्लेखशालिनीं प्रज्ञामुपासितुं कश्चिद्वर्तते यथा चार्थिगामिना सत्पात्रप्रतिपादितेन व- सुना धनेन कीर्तिमुपासितुं कश्चित्प्रवर्तते, यथा च शमेन जितेन्द्रियत्वपर्यायेण पुण्येनो- पार्जितेन सद्गतिं शोभनां गतिमुपासितुं कश्चित्प्रवर्तते, तथैवाहमप्यधुनेदानीं सकलार्थानां चतुर्णां पुरुषार्थानां धर्मादीनामर्पणं दानं तत्र कल्पवल्लरीं कल्पलतां तथा विपदो जन्मजरामरणमहात्रासरूपाया अलक्ष्म्या बाह्याया वा नाशकरीं हरिणाङ्कलक्ष्मणश्चन्द्र- मौलेः श्रीशिवभट्टारकस्य करुणां कृपां स्तुतिलवेनोपासितुं मे मनः प्रवर्तते । तिलकम् ॥ एतदाशयानुसारेण ममापीदं वृत्तचतुष्टयम् - 'प्रभातलेखेव रथाङ्गनाम्नां मल्लीप्रफुल्तेव मधुव्रतानाम् । दीप्तिः खरांशोरिव पङ्कजानां वृष्टिर्घनोत्थेव दबार्दितानाम् ॥ छायेव वृक्षस्य सदाध्वगानां शीताम्बुधारेव तृषातुराणाम् । वाणीव साधोः कलिखेदितानां सुधेव दुर्मृत्युभयाकुलानाम् ॥................ शंभुस्तुतिस्तत्पदभा- वितानामश्रान्तमानन्दमरं तनोति ॥ तिलकम् ॥ दिष्टया प्रपेव तृषितेन मरुप्रचारा- त्क्लित्रेक्षणेन घनसारशलाकिकेव । छाया तरोरिव परिश्रमिणाध्वगेन तापातुरेण समवापि महेशभक्तिः ॥' इति । घनसारशलाकिका कर्पूरशलाका नेत्रयोरतिशयेन सुखदा । तथा च कस्यापि प्राचीनमहाकवेः कृतिः– 'सुपूरकर्पूरशलाकिका दृशोः' इति ॥ करुणां भवतो विकासिनीममलैरीश गुणैरलंकृताम् । नलिनीमलिनीव भारती भजतीयं मम वल्गुवादिनी ॥ ४ ॥ हे ईश शंभो विकासिनीं विस्तारवतीममलैर्निर्व्याजैर्गुणैरशरणदीनजनोपकारादि- भिरलंकृतां शोभितां भवतः करुणां कृपां वल्गुवादिनीयं मम भारती भजति सेवते । का कामिव । अलिनी भ्रमरी नलिनीं पद्मिनीमिव । नलिनीमपि किंभूताम् । विकासिनीं प्रफुल्लाम् । पुनः किंभूताम् । अमलैः स्वच्छैर्गुणैः सूक्ष्मतन्तुभिरलंकृतां भूषिताम् । भ्रमरी च किंभूता । वल्गुवादिनी मधुरस्वना ॥ उपलक्ष्य तवान्धकारितां मयि धत्ते पदमन्धकारिता । विषमामवलोक्य ते दृशं मम दृष्टिर्विषमत्वमश्नुते ॥ ५ ॥ हे विभो, अन्धकस्यासुरविशेषस्यारिरन्धकारिस्तद्भावमन्धकारितां तव वीक्ष्य अन्ध- कारिताज्ञानरूपा मयि विषये पदं स्थितिं करोति । तथा विषमां त्रित्वाद्विषमसंख्याकां ते तव दृशमालोक्य ममापि दृष्टिर्विषमत्वमुग्रत्वं भजते । शब्दश्लेषोऽलंकारः ॥ तव वीक्ष्य वृषाधरीकृतिं घटते मेऽपि वृषाधरीकृतिः । धृतवक्रकलत्वमीक्ष्य ते प्रथते वक्रकलत्वमेव मे ॥ ६ ॥ हे विभो, वृषभस्याधरीकृतिं वाहनत्वात्तव वीक्ष्य ममापि वृषस्य धर्मस्याधरीकृतिर- धोगतिरस्ति । 'वृषो हि भगवान्धर्मः' इति श्रुतेः । तथा धृता वक्रकला एककलत्वा- चन्द्रस्य येन सः । तस्य भावं वीक्ष्य ममापि वक्रकलत्वं वक्राः कलाः शिल्पकला यस्य स तादृशस्तस्य भावस्तत्वमेव प्रथते विस्तारं भजते ॥ तव वीक्ष्य च भग्नकामतामुदितेयं मम भग्नकामता । करुणामपि ते समीक्ष्य मे करुणा गीर्न कथं प्रवर्तताम् ॥ ७ ॥ हे विभो, भग्नो निर्नाशितः कामोऽनङ्गो येन स तादृशस्य भावं तव वीक्ष्य ममापीयं- भग्नकामता भग्नो विगतः कामो मनोरथो यस्य स तद्भावस्तत्ता ममाप्युदिता । ते तव करुणामपि त्रिजगदुद्धारकारिणीं समीक्ष्य मे ममापि सा करुणा दीना गीर्वाणी कथं न प्रवर्तताम् ॥ ससुरासुरमानुषं जगद्यदधीनं स भवानपीश्वरः । वशवर्तिपदे ययार्पितो जयतीयं करुणैव तावकी ॥ ८ ॥ सह सुरैरसुरैर्मानुषैश्च विद्यते यत्तत्ससुरासुरमानुषमपि जगत्रिभुवनं यस्य परमेश्वर- स्याधीनमायत्तं भवति सोऽपि भवानीश्वरस्रिजगत्स्वाम्यपि यया करुणया वशवर्तिपदे निजाधीनत्वपदेऽर्पितः । विधेयो विहित इत्यर्थः । सेयं तव करुणैव सर्वोत्कृष्टत्वेन जयति ॥ करुणा तव जीवितेश्वरीमतिशेते भगवन्नुमामपि । उमया हृतमर्धमेव यत्सकलस्त्वं पुनरेतया हृतः ॥ ९ ॥ हे भगवन्नैश्वर्यादिषट्कपूर्ण, तव त्रिजगदधीशस्य करुणा कृपा निमेषेण त्रिजगदुद्धा- रकारिणी उमामपि पार्वतीमपि तव जीवितेश्वरीं प्राणाधिकामतिशेते । तस्या अप्यति- शयं भजत इत्यर्थ: । कुत इत्याह – उमयापर्णया तादृशानन्यसाधारणतपोविशेषक्लिष्टयापि तव वपुषोऽर्धमेवार्धनारीश्वररूपत्वेन हृतम् । एतया पुनः करुणया सकल: सकलवपुस्त्वं हृतः । नीत इत्यर्थः ॥ करुणा तव शस्यते यया जितकामोऽपि भवान्वशीकृतः । इदमन्यदियं यदम्बिकामपि देवीमनयद्विधेयताम् ॥ १० ॥ अस्माभिः सा तव करुणा शस्यते स्तूयते । सा केत्याह—यया जितकामोऽपि जि- तानङ्गोऽपि जितेन्द्रियोऽपि भवांस्त्रिजगदधीशोऽपि वशीकृतः । इदं चान्यदद्भुतम् न केव- लमियं करुणा त्रिजगदधीशं त्वामेव वशीकुरुते यावदम्बिकामपि त्रिलोकजननीमपि देवीं विधेयतां निजवश्यतामनयत् ॥ जगदम्बुभुवा भुवाम्भसा सितभासा नभसा नभवता । धृतमुष्णरुचात्मना च यत्करुणाया महिमा तवेश सः ॥ ११ ॥ स्वेच्छयोत्पादितजगद्रक्षणायाष्टमूर्तिधरेण अम्बुभुवाग्मिना । 'अद्भ्योऽग्निजार्तः' इति श्रुतेः । अग्निमूर्तिधरेण । तथा भुवा पृथिव्या । तथाम्भसा जलेन । सितभासा चन्द्र- मसा । नभसाकाशेन । नभस्वता वायुना । उष्णरुचा सूर्येण । आत्मना प्रकृतिविकृति- पृथक्स्थितेन यजमानरूपेण च जगत्रैलोक्यं यद्धृतं स महिमा तव करुणाया एव । अप्रतिहतशक्तेरित्यर्थः ॥ अहतप्रसरां प्रसादिनीं सहसापोहिततापसंपदम् । शरणं करुणातरङ्गिणीं प्रतिपद्ये तव देव पावनीम् ॥ १२ ॥ हे विभो, पावनीं पवित्रीकरणहेतुं तरङ्गिणीं मोहोल्लासवतीमहतप्रसरामनाहतशक्ति प्रसादिनीमनुग्रहवतीं तथा अपोहिता निःशेषीकृता तापस्याध्यात्मिकादेस्त्रितयस्य संपद्यया सा तादृशीं करुणामेव तरङ्गिणीं नदीं शरणं प्रतिपद्ये । नदी चाप्रतिहतप्रवाहा प्रसन्नतायुक्ता दूरीकृततापसंपत्पावनी च भवति ॥ प्रणयेन चिरं प्रसादिता मदनाशाकुलितेन चेतसा । तरुणी करुणा करोति ते न कथं नाथ हृदि स्थिरं पदम् ॥ १३ ॥ हे नाथ त्रिलोकस्वामिन् मदनाशाकुलितेन मदस्याहंकार स्यान्तरशत्रोर्नाशेनाकु- लितं तादृशेन चेतसा चिरं बहुकालं प्रणयेन प्रार्थनया प्रीत्या वा प्रसादिताराधिता तरुणी प्रत्यग्रा करुणा ते तव हृदि स्थिरं पदं स्थानं कथं न करोति । अपि तु करोत्येव । अथ च मदनाशाकुलितेन मदने कामे या आशा तयाकुलितेन मनसा प्रणयेनातिप्रेम- भरेण चिरं प्रसादिता प्रसन्नीकृता तरुणी षोडशवर्षादुपरि त्रिंशद्वर्षपर्यन्तं तरुणवयस्का नायकस्य हृदि पदं कथं न धत्त इति श्लेषोक्तिः ॥ भुजगा इव चन्दनद्रुमं ग्लपयन्तो विषमा नयन्ति माम् । परिहार्यदशामरातयो मदमानप्रमुखा धृतिच्छिदः ॥ १४ ॥ हे विभो, धृतिं धैर्यं छिन्दन्तीति तादृशाः तथा विषं गरलं ग्लपयन्तो वमन्तो भुजगाः सर्पाश्चन्दनद्रुमं यथा परिहार्यदशां त्याज्यावस्थामानयन्ति प्रापयन्ति तथा धृतिं धैर्यं सुखं च च्छिन्दन्तीति तादृशा विषमाः कठिना मां ग्लपयन्तो हन्यमानाः (घ्नन्तः) मदमानमुखा मदश्च मानश्च तौ मुखे येषां तादृशा अरातयः शत्रवः षडान्तरा मां परिहार्यदशां सर्वैरव जनैस्त्याज्यामवस्थां नयन्ति प्रापयन्ति । करुणामरुणानुजन्मनस्तनुमुच्चैरिव पक्षपातिनीम् । समुपैमि धृताच्युतश्रियं शरणं भूधरपुत्रिकापतेः ॥ १५ ॥ उच्चैः पक्षाभ्यां द्वाभ्यां प्रपतति पक्षपातिनी तां तथा धृताच्युतश्रियं धृतोऽच्युतो विष्णुः श्रीर्लक्ष्मीश्च तदङ्कगामिनी यया सा तादृशीमरुणानुजन्मनो गरुडस्य तनुमिव पक्षपातिनीं पक्षपातः स्नेहो भक्तजनेषु यस्याः सा तादृशीम् । तथा धृताच्युतश्रियं धृता अच्युतास्खलिता श्रीर्यया तादृशीं भूधरपुत्रिकापतेरुमापतेः करुणां समु- पैमि प्रपद्ये ॥ स्फुरितारुणचारुचक्षुषा वपुषा निर्भरघर्मविप्रुषा । परुषाशयतामुपेयुषा सरुषो यप्रहरन्ति योषितः ॥ १६ ॥ भगवन्दृढबद्धमूलयोर्द्विषतोरेष सहस्रशाखयोः । अविषह्यनिपातपीडयोरनुभावः कुसुमेषुरोषयोः ॥ १७ ॥ अनयोः करुणैव तावकी नियतं मूलनि[^१]कृन्तनक्षमा । यमलार्जुनयोरिवोर्जिता शिशुलीला नरकान्तकारिणः ॥ १८ ॥ (तिलकम्) स्फुरिते अरुणे चारुणी चक्षुषी यस्य तादृशेन । तथा निर्भरघर्मविप्रुषा घनघर्मबि न्दुना । परुषाशयतां कर्कशचित्ततां प्राप्तवता । तथा सरुषा सरोषेण वपुषा देहेन यो- षितो यत्प्रहरन्ति । पुरुषानिति शेषः । हे भगवञ्शंभो, दृढं बद्धं मूलं याभ्यां तयोः । तथा सहस्रं शाखा ययोः । तथा अविषह्यनिपाता पीडा ययोः । कुसुमेषुरोषयोः का- मक्रोधयोरेषोऽनुभावः प्रभावः । अनयोः पुनर्नियतं निश्चितं तावकी कृपैव मूलस्य नि कृन्तने छेदने क्षमा । यथा नरकान्तकारिणो विष्णोरूर्जिता दीप्ता शिशुलीला बाललीला यमलार्जुनयोस्तरुरूपापन्नयोर्मूलच्छेदकरी बभूव ॥ तिलकम् ॥ न विधिर्निधिलाभसंभृतो न विनोदो मृगनाभिसंभवः । न च शारदचन्द्रचन्द्रिका न कलं कोकिलकण्ठकूजितम् ॥ १९ ॥ न शिशोरसमञ्जसं वचो न मृगाक्षीपरिरम्भविभ्रमः । मधुरा न कवीन्द्रभारती न च साम्राज्यविभूतिजृम्भितम् ॥ २० ॥ न रसायनपानकौतुकं न च शक्रासनवासवासना । परिपूरयितुं क्षमेत ते करुणाया हर षोडशीं कलाम् ॥ २१ ॥ (तिलकम्) है हर, निधेर्लाभेन संभृतो विधिरुपायस्ते तव करुणायाः कृपायाः षोडशीं कलां षोडशांशमपि पूरयितुं न क्षमेत न शक्नुयात् । एवमग्रेऽपि । तथा मृगनाभिसंभवः क- स्तूरिकोद्भवो विनोद आनन्दोऽपि शंभुकृपाषोडशांशमपि पूरयितुं न क्षमेत ......... ............। तथा कलं मधुरं कोकिलकण्ठकूजितमपि श्रीशंभुकृपाषोडशांशमपि पू- रयितुं न क्षमेत । तथा शिशोर्बालस्यासमञ्जसमसंगतं वचो न । मृगाक्ष्याः परिरम्भ आलिङ्गनं तस्य विभ्रमोऽपि न । तथा कवीन्द्रस्य महाकवेर्भारती वाणी मधुरापि न । तथा साम्राज्यविभूतेश्चक्रवर्तिवैभवोल्लासस्य जृम्भितमपि न । तथाजरामरत्वकृन्महौषधि- रसो रसायनं तस्य पाने कौतुकमपि न । तथा शकस्येन्द्रस्यासनं तत्र वासे वासना इ- न्द्रासनस्थित्यभिलाषोऽपि श्रीशंभुकृपाषोडशांशमपि पूरयितुं न क्षमः ॥ तिलकम् ॥ सुरभिर्न मम स्पृहास्पदं सुरभिर्दक्षिणमारुतोऽपि वा । सुरभिक्षुवितीर्णवाञ्छिता सुरभिर्नो करुणा यथा तव ॥ २२ ॥ हे विभो, यथा तव करुणा मम स्पृहास्पदम् । भवतीति शेषः । तथा सुरभिः [व- सन्तः] ........... .........। तथा सुरभिः सुगन्धोऽपि दक्षिणमारुतो मलयमारुतोऽपि न मम स्पृहास्पदम् । तथा सुरा एव भिक्षवस्तेषु वितीर्णं दत्तं वा- ञ्छितं यथेष्टं यया तादृशी सुरभिः सुरभिनामा स्वर्गे कामधुक् च मम न स्पृहावहा । 'सुरभिः स्त्री कामधेनुः सल्लकी चैव वालुकी । सुरायां स्यात्सुगन्धौ तु मनोज्ञे त्रिषु ना मधौ ॥' इति मङ्गः ॥ समुदेति यदश्रु शोकजं रुचिरानन्दमयं विभाति तत् । पुलकः प्रथते भयेन यः स चमत्कारकृतः प्रवर्तते ॥ २३ ॥ क्लमजं दृशि यन्निमीलनं परमार्थानुभवादुदेति तत् । शरणं करुणामुपेयुषां कृतिनां चन्द्रकिरीट तावकीम् ॥ २४ ॥ (युगलकम्) हे चन्द्रकिरीट चन्द्रमौले शंभो, हे भगवन्, शोकजं जन्मजरामरणत्रासदुःखजातं यदश्रु समुदेत्युत्पद्यते तदेव तावकीं कृपां शरणं प्राप्नुवतां धन्यानां भक्तजनानां रुचिरा- नन्दमयं परमानन्दमयं विभाति । तथा भयेन जन्मजराद्युत्पन्नेन यः पुलको रोमाञ्चः प्रथते स एव भक्तिरसाद्भुतविहितः प्रवर्तते प्रकटीभवति । तथा क्लमेन भवमरुभ्रमणज- स्वेदेन दृशि यन्निमीलनं संकोचनं स एव परमार्थानुगमात्तत्त्वाभ्यासादुदेति । तव कृपां शरणं प्राप्नुवतां धन्यानामित्यर्थः । अश्रुपुलकादयः शोकजा आनन्दजाश्च भवन्तीति विशेषोक्तिः । युगलकम् ॥ भजतः सरलेव भारती नरकङ्कालकृतग्रहस्य मे । करुणा प्रथतामुमापते कलिकालाञ्छितविग्रहस्य ते ॥ २५ ॥ हे उमापते, कालेन कलिकालेन तुरीययुगकालेनाञ्छितो विस्तारितो विग्रहो वैरं यस्य स तादृशस्य मे मृत्युना कृतो ग्रहो ग्रहणं यस्य स तादृशस्य नरकं निरयं भजतः सरला साध्वी स्त्रीव भारती वाणी प्रथतां विकासमेतु । तथा नरकङ्कालकृतग्रहस्य न राणां कङ्कालाः शिरोस्थीनि तेषु कृतो ग्रहो हेवाको येन तस्य । नरकपालधारिण इत्यर्थः । कलैव कलिका चन्द्रकला तथा लाञ्छितः शोभितो विग्रहो यस्य स तादृ शस्य ते करुणापि कृपापि प्रथतां विकासमेतु । मां दृष्ट्वेत्यर्थः ॥ भगवन्मदिरामदोन्मदप्रमदापाङ्गतरङ्गभङ्गुरम् । जरसा तरसावसादितं वपुरायाति न यावदापदम् ॥ २६ ॥ कुपितान्तककिंकरेरितः कुटिलां तद्भुकुटिं विडम्बयन् । न घनाञ्जनपुञ्जसंनिभो भुजगो यावदुपैति कंधराम् ॥ २७ ॥ न कुकर्मविपाककल्पिता नरके यावदुदेति वेदना । गदिता शमनानुगामिभिः परुषा गीरिव मर्मभेदिनी ॥ २८ ॥ यदि तावदियं न गाहते हृदयं ते करुणातरङ्गिणी । बत दुःसहतापसंपदामितरा का शरणार्थिनां गतिः ॥ २९ ॥ (चक्कलकम् ) हे भगवञ्शंभो, मदिरायाः सुराया मदेन या उन्मदा प्रमदा वरनारी तस्या अपाङ्ग- तरङ्गो नेत्रान्तावलोकनं तद्वद्भङ्गुरमस्थिरं जरसा विस्रसया तरसा बलेनावसादितं जीर्णी- कृतं वपुः । ममेति शेषः । यावदापदं विनाशं नैति । कुपितः क्रोधोद्धुरो योऽन्तककिं- करो यमदूतस्तेनेरितः क्षिप्तः कुटिलां वक्रां तद्भुकुटिं यमदूत भ्रुकुटिमनुकुर्वन् घनकज्ज- लराशिसदृशो भुजगः सर्पपाशो यावन्न मे कंधरां ग्रीवामुपैति तथा कुत्सितकर्मविपाकेन प्राप्ता वेदना निरये यावन्नोदेति । कठिना मर्मभेदिनी । तथा शमनानुगामिभिर्यमभटैर्ग- दिता गीरिव परुषा मर्मभेदिनी च यावन्न ममोदेति । हे दयालो, तावत्प्राथम्ये ते तवेयं करुणातरङ्गिणी कृपानदी ते तव हृदयमर्थाद्धृदयाम्भोधिं यदि न गाहते हे विभो, वद तदा दुःसहा तापसंपद्येषां ते तादृशानां शरणार्थिनां मादृशां का गतिः । न काचिदि- त्यर्थः ॥ चक्कलकम् ॥ न समानसमागमा तथा प्रमदाय प्रमदा यतात्मनाम् । शिवदा शिवदास्यकृद्यथा स्वदमानस्वदमानघा मतिः ॥ ३० ॥ स्वदमानः स्वो निजो दमः शमो यस्याः सा स्वदमानस्वदमा । तथा शिवदा कैव- ल्यदायिनी । तथा शिवस्य परमेश्वरस्य दास्यं दासभावं करोति तादृशी शिवदास्यकृत् । अनघा निरवद्या मतिर्बुद्धिर्यथा यतात्मनां जितेन्द्रियाणां प्रमदाय परानन्दाय भवति तथा प्रमदा वरकामिनी प्रमदायानन्दाय न भवति । किंभूता प्रमदा । समानो मानसहितः समागमो यस्याः ॥ एक: पुरंदरपुरं दरवेल्लितभ्रूः किंस्विज्जनंगमजनं गमयेन्महर्षिः । किं तामसं पदमसंपदमिन्द्रमन्यो धन्योदया भव दया भवतो न चेत्स्यात् ॥ ३१ ॥ 'दरो भये दरीगुहाल्पार्थेऽत्वव्ययम्' इति मङ्खः । दरमीषद्वेल्लिते भ्रुवौ येन स तादृश एको महर्षिरौचित्यादत्र विश्वामित्रो जनंगमजनं वसिष्ठर्षिशापेन चण्डालीभूतं त्रिशङ्कुं पुरंदरपुरं स्वर्गं किंस्विद्गमयेत्किं गमयेत् । कथं गमयेदित्यर्थः । अन्यो महर्षिरौचित्यादत्र गौतम इन्द्रमसंपदमविद्यमानसंपदं विश्रान्तिरहितं तामसं पदं तमोभयं सहस्रभगीभूत- भवनदं(?) किं गमयेत्तदा कथं प्रापयेत् । तदा कदेत्याह - हे भव शंभो, घन्य उदयो यस्याः सा दया भवतो यदि न तयोः स्यात् । भवद्दययैव तयोस्तादृशशापानुग्रहशक्तिरासी- दित्यर्थः । पूर्वं त्रिशङ्कुनाम्ना नृपेणारब्धे मखे स्वकीयपुरोहितोऽपि वसिष्ठो मदान्धेन न निमन्त्रितः। ततो वसिष्ठेन स्वयजमानाय त्रिशङ्कवे जनंगमो भूया इति शापो दत्तः । यावदन्येन यज्ञयन्त्रा(?) विश्वामित्रेण स त्रिशङ्कुर्भगवद्दयया वचनात्स्वर्गमारोहित इत्याख्यायिका तथा पूर्वं गौतमभार्यया सहेन्द्रः संगतः ………। ततो गौतमभयात्पलाय्य स इन्द्रस्तद्योन्यन्तरं गतः । ततो गौतमः कृतस्नानोऽग्निहोत्रसमये 'इन्द्राय स्वाहा' इत्याहुतिं दत्तवान् । ततो योन्यन्तरात्स इन्द्रो हस्तमाकृष्य निर्गतः । गौतमोऽप्यतिक्रुद्ध इन्द्राय सहस्रभगो भूया इति शापमदात् । इन्द्रोऽपि तत्तपोमाहा- त्म्येन सहस्रभगः संपन्न इत्याख्यायिका । आर्द्रे मनस्युदितमार्तजनोपताप- संपर्कतोऽथ दृशि कन्दलितं शुभायाम् । वाचि क्षणात्कुसुमितं फलितं च कृत्ये कारुण्यबीजमजरं जयतीन्दुमौलेः ॥ ३२ ॥ आर्तजनस्याशरणजनस्योपतापः संतापस्तस्य संपर्काद्विभोर्मनसि कृपयार्द्रे उदितमु- त्पन्नम् । अथ शुभायां...........वाच्यभयवाचि क्षणात्कुसुमितं पुष्पितम्। पुनः कृत्ये रक्षाकर्मणि फलितं सफलं जातमिन्दुमौलेः श्रीशिवभट्टारकस्य कारुण्यबीजं कारुण्यमेवाजरमद्भुतं बीजं जयति सर्वोत्कृष्टं भवति ॥ अथेदानीं देहिनामन्त्यावस्थां वर्णयन्कविः परमेश्वरकरुणोत्पादकं दीनाक्रन्दनं 'रोगै: ' इत्यादिवृत्तचतुष्टयेनाह रोगैरुग्रैरखिलविगलत्सौष्ठवो नष्टचेष्टः पर्यास्ताङ्गोऽशुचिनि शयने भग्नसर्वाभ्युपायः । यावज्जीवं विहितमहितं कर्म कर्तव्यमूढः स्मृत्वा स्मृत्वा दलितहृदयः कातरः कांदिशीकः ॥ ३३ ॥ तर्षोत्कर्षात्कलुषपरुषैः कर्मभिः शर्महृद्भि- र्यत्संप्राप्तं [^१]कथमपि भृशं क्लेशयित्वा शरीरम् । रिक्थग्राहैर्द्रविणमखिलं लुण्ठ्यमानं तदग्रे पश्यन्नश्यत्सकलकरणो दह्यमानः [^२]शुचान्तः ॥ ३४ ॥ शोकोद्रेकादविरलगलद्बाप्पपूर्णेक्षणाभिः सत्पत्नीभिश्च[^३]कितचकितं लोचनैरीक्ष्यमाणः । पुत्रैर्मित्रैः सहजसचिवैर्बन्धुभिर्भृत्यवर्गै राक्रन्दद्भिः करुणकरुणैः पीड्यमानः प्रलापैः ॥ ३९ ॥ स्वस्थावस्थैर्भृशमशुचिताशङ्किभिर्वेश्मगर्भादन्तर्लीनस्मृतिरपि हठान्निष्ठुरैः कृष्यमाणः । यस्मिन्काले कवलितवपुर्मृत्युनाभ्येति भीतिं तत्र त्राता क इव करुणामैश्वरीमन्तरेण ॥ ३६ ॥ (संदानितकम्) [^१]. 'कृशमपि' ख. [^२]. 'शुचार्त: ' ख [^३]. 'चकितचकितैः' ख. उग्रैर्दुस्तरै रौगैर्ज्वरादिभिरसाध्यैरखिलं विगलत्सौष्ठवं यस्य स तादृशः । अत एवा- शुचिन्यपवित्रे शयने शय्यायां पर्यस्तानि विस्तीर्य प्रक्षिप्तान्यङ्गानि करचरणादीनि येन सः । यावज्जीवं जननसमयादारभ्याहितं दुष्कृतं विहितं कर्म स्मृत्वा स्मृत्वा स्मारं स्मारं मया मूढेन किं कृतमिति पश्चात्तापेन दलितं खण्डितं हृदयं यस्य सः । कातरो दीनः । कांदिशीकः को दिशं यामीति भयेन त्रस्तः । 'कांदिशीको भयद्रुतः' इत्यमरः । तर्षस्यालोभस्योत्कर्षादतिलालसत्वात्कलुषैः परुषैः क्रूरैश्च शर्महृद्भिः कल्याणहरैः कर्म- भिभृशमत्यर्थं शरीरं क्लेशयित्वा कथमप्यतियत्नेन यत्प्राप्तमखिलं द्रविणं धनं रिक्थग्राहै- र्भागिभिरंशहरैः सहजादिभिस्तद्धनमग्रे लुण्ठथमानं पश्यन् । पुनः किंभूतः । नश्यन्त्यत्यु- ग्रव्यथया नष्टचेष्टानि सकलानि करणानि कर्मेन्द्रियबुद्धीन्द्रियाणि यस्य । अत एवान्त- र्मनसि शुचा शोकेन दह्यमानः । एतादृगवस्थमग्रे दृष्ट्वा अविरलं बहु गलद्यद्वाष्पं तेन पूर्णेक्षणाभिः पूर्णनेत्राभिः सत्पत्नीभिः पतिव्रताभिर्भार्याभिश्चकितचश्यकितमतिशयेन दीनं लोचनैरीक्ष्यमाणो दृश्यमानः । पुत्रैस्तनयैर्मित्रैः सुहृद्भिः सहजाश्च सचिवाश्च तैर्बन्धुभि भृत्यानां वर्गाः समूहास्तैस्तादृगवस्थं दृष्ट्वा आक्रन्दद्भिः पूत्कृत्य विलपद्भिः । करुणकरु- णैरतिकरुणैः प्रलापैर्हेतुभिरन्तर्लीनकिंचित्स्मृतित्वात्पीड्यमानः । ततः किंचिदन्तर्लीना स्मृतिर्यस्य स तादृशोऽपि सन्स्वस्थावस्थैर्मीरोगैर्भृशमत्यर्थमशुचिताशङ्किभिरपवित्रत्वश- ङ्किभिः किंचिदन्तर्लीनस्मृतिरपि स देही वैश्मगर्भाद्रृहान्तरान्निष्नुरैः कठिनाशयैईठाद्बलेन हस्तपादादि गृहीत्वा कृष्यमाणः । दाहार्थमिति शेषः । यस्मिन्समये मृत्युनान्तकेन कव- लितं ग्रस्तं वपुर्यस्य स तादृशो भीतिं महासंकटमभ्येति प्राप्नोति तत्र तादृशि समये ऐश्वरीं परमेश्वरसंबन्धिनीं करुणां विना क इव त्राता पालकः । न कोऽपीत्यर्थः । केवल- मीश्वरकृपैव तत्र शरणमिति भावः ॥ संदानितकम् ॥ वपुःखण्डे खण्डः प्रतिवसति शैलेन्द्रदुहितुः शिखण्डे खण्डेन्दुः स्वयमपि विभुः खण्डपरशुः । तथापि प्रत्यग्रं शरण[^१]मुपयातं प्रति विभो- रखण्डो व्यापारो जगति करुणाया विजयते ॥ ३७॥ वपुःखण्डे महेशितुः शरीरार्धे शैलदुहितुः पार्वत्याः खण्डोऽर्धम् । वामभाग इत्यर्थः । प्रभोः शिखण्डे किरीटे खण्डेन्दुरर्धेन्दुः । स्वयमपि स्वामी शंभुः खण्डपरशुः । 'खण्ड: परशुरस्य जामदग्न्येन सह कुठारविनिमयात्' इति जिनेन्द्रकृतटीकायाम् । तथाप्येव- मपि सति सर्वथैव खण्डत्वेऽपि सति प्रत्यग्रं नवं शरणमुपयातं शरणागतं प्रति विभोः स्वामिनः परमेशस्य जगति त्रिभुवने करुणाया अखण्डो व्यापारो विजयते सर्वोत्कृष्टो भवति । सर्वत्र खण्डत्वेऽप्यखण्डैव करुणा शंभोः शरणागतं प्रतीत्यद्भुतमित्यर्थः ॥ [^१]. 'उपयन्तं' ख. जय जि[^१]तामय जय सुधामय जय धृतामृतदीधिते जय हतान्धक जय पुरान्तक जय कृतान्तकसंहृते । जय परापर जय दयापर जय नतार्पितसद्गते जय जितस्मर जय महेश्वर जय जय त्रिजगत्पते ॥ ३८ ॥ हे विभो । कथंभूत । जिताः षडूर्मयः शीतातपाद्या जरामरणादयो वा बाला- द्यवस्था वा आमयाः पर्यवसाने दुःखदायित्वाद्येन जितामय त्वं जय ब्रह्मा- दिकारणेभ्योऽप्युत्कृष्टो जय । पुनः किंभूत । सुधा परानन्दरूपा प्रकृतिर्यस्य स त्वं जय । तथा हे धृतामृतदीधिते । अमृतदीधितिश्चन्द्रो मुकुटे करे च यस्य तत्संबो- धनम् । जय । तथा हतोऽन्धकोऽन्धकासुरो येन तत्संबोधनम् । तादृशस्त्वं जय । तथा पुराणां त्रिपुरासुराणामन्तकस्तत्संबोधनम् । त्वं जय । हे कृतान्तकसंहृते । कृता अन्तक- संहतिर्यमनिःशेषीकरणं येन तत्संबोधनम् । त्वं जय । हे परापर ब्रह्मादिभ्य उत्कृष्ट त्वं..................॥ स्थानास्थाननियन्त्रणाविरहितो निर्हेतुरप्रार्थितः सत्यं सत्त्वहितार्थ एव तरणेरम्भोभृतश्चोद्यमः । तृष्णातापशमक्षमस्तु न रविर्न ध्वान्तशीतान्तकृ- न्मेघः स त्वखिलार्तित्दृद्विजयते माहेश्वरोऽनुग्रहः ॥ ३९ ॥ ....................॥ बहुना किमत्र करुणामुमापतेः सुदशावतारकृतमूर्जितश्रियम् । भजतान्निरुद्धत्दृदयेप्सितागमप्रवणां विभूतिमिव कैटभद्विषः ॥ ४० ॥ ............. कमिव । कैटभद्विषो हरेर्विभूतिमिवाधिपत्यमिव । तामपि किंभूताम् । सु शोभना ये दशसंख्या अवतारा अंशा दिव्यमत्स्यदिव्यकच्छपाद्यास्तान्करोतोति तादृशीम् । तथा ऊर्जिता प्रदीप्ता श्रीईरिप्रिया यस्याः सा ताम् । तथानिरुद्धस्य श्रीकृष्णपौत्रस्य यद्धृदयेप्सितं बाणासुरकन्याया उषायाः प्राप्तिरूपं तस्यागमः प्राप्तिस्तत्र प्रवणा तादृशीम् । पूर्वं पाताले उषा बाणासुर दुहिता स्वप्ने पुरुषमेकमपश्यत् । ततः स प्रद्युम्नतनयोऽनिरुद्धः पातालं प्रविष्ट उषासख्याश्चित्रलेखाया वातायने आत्मानं गोपयित्वा स्थितः । तत्र तयोः स्वयंवररूपः संगोऽभूत् । बाणासुरस्तज्ज्ञात्वानिरुद्धेन सह युद्धमकरोत् । तदनु नारदाभिहितवृत्तान्तेन [^१]. 'निरामय' ख. [^२]. 'त्वं' अस्मादनन्तरं 'कमिव' इत्यस्मात्प्राक्सर्वं क-पुस्तके त्रुटितमस्ति. कृष्णेन कृतदुर्गारूपेण पातालं प्रविश्य बाणासुरस्य भुजच्छेदं विधाय सा उषानिरुद्धस- मीपं प्रापितेत्याख्यायिकेति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ करुणाराधनं नाम पञ्चदशं स्तोत्रम् । षोडशं स्तोत्रम् । वृषलक्ष्मणः प्रणतलोकबन्धवः कलितालिकस्खलितसिद्धसिन्धवः । द्युतिभिर्जयन्ति तुलितोदितेन्दवश्चरणारविन्दमकरन्दबिन्दवः ॥ १ ॥ प्रकर्षेण नता भक्तिप्रह्वा ये लोकास्तेषां बन्धव आश्वासकारिणः । तथा कलिता शोभायुक्ता अलिकाल्ललाटात्स्खलिता सिद्धसिन्धुर्गङ्गा येषाम् । तथा द्युतिभिर्दीप्तिमिस्तु- लित उदितेन्दुः पूर्णेन्दुर्यैस्त एवंभूता वृषलक्ष्मणो वृषाङ्कस्य श्रीशिवभट्टारकस्य पादपद्म- परागकणा जयन्ति सर्वोत्कृष्टत्वेन वर्तन्ते ॥ अमलैः फलैरविरलैरलंकृता हरितारुणप्रणतशालिशालिनी । प्रतिभाति जीर्णतृणवत्तव स्तवं वसुधा सुधाधुतिवतंस शंसतः ॥ २ ॥ हे सुधाद्युतिवतंस चन्द्रमौले, अविरलैर्घनैरमलैः स्वच्छैः फलैर्मृद्वीका प्रभृतिभिरलंकृता भूषिता । तथा आदौ हरिता नीलाः परिपाकेऽरुणा ये प्रणता नम्राः शालयस्ताभिः शा- लते तादृश्यपि वसुधा भूमिस्तव विभोः स्तवं शंसतस्त्वां स्तुवतो जीर्णतृणवत्प्रति- भाति भासते ॥ तिमिरं चिरंतनमनन्त संततग्लपितावलोकमवलोकनार्थिनः । सृजतामृतं दशसु दिक्षु चक्षुषा कलिकालकल्मषमुषा मुषाण मे ॥ ३ ॥ हे अनन्त निर्विनाश विभो, अवलोकनं प्रसाददर्शनमर्थयतीति तादृशस्य मम चिर- न्तनमनेकजन्मोपार्जितं तिमिरमज्ञानरूपं तमः । कोदृशम् । संततं नित्यं ग्लपितो म्ला- नीकृतोऽवलोको येन तत् । अमृतं निःश्रेयसं सृजता वितरता कलिकाले तुरीययुगस मये कल्मषं पातकं मुष्णातीति तादृशेन चक्षुषा प्रसन्नेन नेत्रेण मुषाण निःशेषीकुरु ॥ वहता हतान्धतमसामसादितां द्युतिभिः कलामविकलां कलावतः । दिशता प्रकाशविशदाशमाशयं वपुषा शिवं शिवपुषा पुषाण मे ॥४॥ हे विभो, असादितामविनाशितां द्युतिभिरविकलां पूर्णां कलावतश्चन्द्रस्य कलां व- हता धारयता । तथा प्रकाशेन विशदा निर्मला आशाभिलाषो यस्य स तादृशस्तमाशयं मनो दिशता । तथा शिवं पुष्णातीति शिवपुट् तादृशेन शिवपुषा वपुषा कलेवरेण मे मम शिवं पुषाण वर्धय । घनघर्मलङ्घितकपोलभित्तयः श्वसितानुबन्धविधुरीकृताधराः । धनिनां पुरः प्रकटयन्ति दुर्गतिं द्युतिहीनदीनवदना धनार्थिनः ॥ ५ ॥ तदनन्तरं तरलताक्षरां गिरं चिरसंभृतप्रमदसादगद्गदाम् । विहितावहेलजगतीपतीक्षितास्त्रपयापयापितमुखाः प्रयुञ्जते ॥ ६ ॥ [^१]अवधीर्यमाणमथ दीर्घमत्सरैरवबोधवन्ध्यहृदयैरनादृतम् । गुणकौशलं शलभजृम्भितोपमं प्रथयन्ति [^२]यान्ति च परं पराभवम् ॥ ७ ॥ इति दीर्घदुर्भर कुटुम्बडम्बरा धनसंग्रहग्रहगृहीतचेतसः । सुधियोऽपि यान्ति निबिडं विडम्बनं वनवासिभिः प्रहसितप्रवृत्तयः ॥८॥ [^३](चक्कलकम्) धनलवप्रात्याशया धावंधावं दूरगमनाद्धनेन घर्मेण स्वेदेन लङ्गिता कपोलभित्तिर्येषां ते । तथा दूरधावनेन यः श्वसितस्यानुबन्धस्तेन विधुरीकृतो म्लानीकृतोऽधरो येषां ता- दृशाः। तथा......... ।धनार्थिनो वित्ताभिलाषिणो जना धनिनामा- ढ्यानां पुरः स्वां दुर्गतिं प्रकटयन्ति । तदनन्तरं च विहितावहेलाः कृतावगणना ये जग- तीपतयो नृपास्तैरीक्षिताः । त्रपया लज्जयापयापितमधोमुखं मुखं येषां तादृशाः । त एव धनार्थिनो याच्ञया तरलितान्यक्षराणि यस्यां सा तादृशोम्, तथा चिरसंभृतो बहुकालं मनसि धृतो यः प्रसादः किंचिद्धनप्राप्तिहर्षस्तस्य यः सादो नाशो दातुर्वक्रमुखत्वादिवी- क्षणात् । तेन गद्गदा पदे पदे स्खलन्ती ताम् । एवंविधां गिरं वाचं प्रयुञ्जते कथयन्ति । अथानन्तरं दीर्घो मत्सरः परोत्कर्षासहनं येषां तादृशैर्ज्ञानलवदुर्विदग्धैरवधीर्यमाणमवग- ण्यमानम् । तथावबोधेन तत्त्वार्थावबोधेन वन्ध्यं हृदयं येषां तादृशैरनभिज्ञैरनादृतमकृता- दरम् । शलभस्य पतङ्गस्य जृम्भितमुत्प्लुतिस्तत्तुल्यं निजगुणकौशलं त एव धनार्थिनः प्रथयन्ति प्रकाशयन्ति । परमुत्कृष्टं पराभवं च यान्ति । इति पूर्वोक्तप्रकारेण दीर्घो विततो दुर्भरो दुर्धरः कुटुम्बडम्बर: कुटुम्बाटोपो येषां तादृशाः । धनसंग्रहार्थं यो ग्रहो हेवाकः स एव ग्रहो भूतादिस्तेन गृहीतं मानसं येषां तादृशाः । अत एव वनवासिभि- र्जाङ्गलिकलोकैर्मुनिभिः प्रहसिता हसितुं प्रवृत्ता विडम्बिता प्रवृत्तिर्व्यापारो येषां तादृशा निबिडं दृढं विडम्बनं यान्ति प्राप्नुवन्ति ॥ चक्कलकम् ॥ कृतिनः पुनर्मृदुमृदङ्गमङ्गलस्वनसंनिभध्वनितनिर्झरोर्मिषु । कृतवृत्तयः सुलभशाद्वलावलीवलितस्थ[^४]लेषु तुहिनाद्रिसानुषु ॥ ९ ॥ सुरसिन्धुरोधसि गृहीतकेतकी[^५]चलिताङ्गुलीकिसलयेन पाणिना । विविधां विधाय विधिना पिनाकिनः करुणार्णवस्य चरणाब्जसत्क्रियाम् ॥ [^१]. 'अवदीर्य' ख. [^२]. 'यन्ति' ख. [^३]. ख- पुस्तके 'चक्कलकम्' इति नास्ति. [^४].'स्थलीषु' ख. [^५]. 'दलित' ख. हरिणैः कुशाग्रकवलाभिलाषिभिर्भरणार्थिमिश्च कलकिङ्कशावकैः । अतिथीभवद्भिरहताह्निकक्रियाः फलमूलकल्पितशरीरवृत्तयः ॥ ११ ॥ दिवसावसानसमये सरन्मरुत्परिकीर्णजीर्णतृणपर्णमर्मराः । तनुजाह्नवीसलिलशीकरोत्करैः शिशिराः [^१]शिवाय चरिता वनस्थलीः ॥ १२ ॥ धवलीकृतास्वमलभानुभानुभिर्ज्वलितौषधीषु रजनीष्वनन्तरम् । कलकण्ठकण्ठकुहरोद्गतस्वरस्वरसार्पितश्रुतिसुखासु शेरते ॥ १३ ॥ इति बिभ्रतः परिकरं प्रियंकरं हरपादपङ्कजरजःप्रसादजम् । विहसन्ति मूढमनसां महीभुजां गजकर्णतालतरलाश्रयाः श्रियः ॥ १४ ॥ [^२](षड्भिः कुलकम्) पुनः पक्षान्तरे । पूर्वोक्तधनलवलुब्धासंतुष्टजनेभ्यो व्यतिरिक्ताः सदा संतोषयुक्ताः कृतिनो धन्याः कोमलमृदङ्गध्वनिनिभस्वनिता निर्झरोर्मयो येषां तादृशेषु । सुलभहरि- ततृणावलीभिर्वलितं स्थलं येषां तादृशेषु । 'ललित' इति पाठः । एवंभूतेषु तुहिनाद्रि- सानुषु शिखरेषु कृतवृत्तयो रचितस्थितयः सन्तः । सुरसिन्धुरोधसि गङ्गातटे गृहीताः पूजार्थंमुच्चिता याः केतक्यः केतकीकुसुमानि ताभिश्चलितान्यङ्गुल्य एव किसलयानि पल्लवानि यस्य स तादृशेन पाणिना कृपाब्धेः श्रीशिवस्य विविधां पञ्चोपचारपूर्विकां वि धिना आगमोक्तेन पादपद्मपूजां विधाय कृत्वा त कृतिनो धन्याः पूजार्थमानीतानां कुशाग्राणां ग्रासाभिलाषुकैईरिणैः । तथा भरणार्थिभिः पोषणाभिलाषिभिः कलविङ्कशा- वकैश्चटकपोतैः । अतिथीभवद्भिरथिरूपैः न हता आह्निकक्रिया संध्याजपादिविधानं येषां ते तादृशाः । फलेन वनफलेन मूलेन च शरीरयात्रापर्याप्तेन कृता शरीरवृत्तिर्यैस्ते तादृशाः । तथा दिनान्तसमये सरन्प्रचलन्यो मरुद्वायुस्तेन परिकीर्णानि यानि जीर्णतृ णपर्णानि तैर्मर्मरा: सशब्दाः । तथा तदनन्तरं तनवोऽल्पा ये गङ्गाजलशीकरास्तेषामु- त्करैः समूहैः शिशिरा वनस्थलीः कर्मभूताश्चरिताः संचारिता: । किमर्थम् । शिवाय कै- वल्यार्थम् । एवंभूता धन्याः । अमृतभानुभानुभिश्चन्द्रांशुभिर्धवलोकृतासु निर्धौतासु ज्व लितमहौषधीषु । कलकण्ठानां कुहूमुखानां यः कण्ठस्तस्य कुहरं विवरं तस्मादुद्गतो यः स्वरः कुहूरवस्तेन स्वरसतोऽर्पितं श्रुतिसुखं याभिस्तास्तादृशीषु रजनीषु शेरते सुखं निद्रां कुर्वन्ति । इति पूर्वोक्तेन प्रकारेण श्रीशिवचरणपङ्कजरजःप्रसादोत्यं प्रियंकरमतीव मनोहरं परिकरं सहायसामग्रीरूपं बिभ्रतो गजानां हस्तिनां कर्णतालवच्चपल आश्रयः स्थितिर्यासां तादृशीः श्रियो लक्ष्मीर्मूढमनसां महीभुजां राज्ञां विशेषेणादृहासरूपेण ह- सन्ति ॥ षड्भिः कुलकम् ॥ [^१]. 'चिराय' ख. [^२]. 'दशभिः' ख. अथातः कामक्रोधादीनत्यक्तमनसोऽन्तःप्रहरतो वर्णयति दषदुद्धतं हर पुरः पुरंध्रिभिः प्रबलं बलं वलदपाङ्गभङ्गिभिः । हृदयं भिनत्ति मम घस्मरः स्मरः [^१]शरपातकातरदृशो भृशं कृशम् ॥ १५ ॥ जनयन्नयं नयनयोरधीरतां भ्रमयन्भ्रुवं भृशमदभ्रसंभ्रमाम् । श्लथयन्प्रयत्नकृतसंगमं शमं हसनीयतां नयति रोष ईश माम् ॥ १६ ॥ धनलाभसंभृतविलासवासनाव्यथमानमानसमसत्यसंगरम् । [^२]नविशोभिलोभविवशं स्पृशन्ति मां सुहृदोऽपि कोपितकदर्थितार्थिनम् ॥ १७॥ उचितत्रिवर्गरहितं तिरोहितं घनमोहमूढमनसं हसन्ति माम् । कृतमेधसामधिसदः सदः सदः सदसद्विवेकविकलं कलङ्कितम् ॥ १८ ॥ इति तर्जयन्ति रिपवः सुदुर्जयाः परिवर्जयन्ति च विशुंद्धबुद्धयः । न पुनर्जयन्ति विधुरं यथा तथा कुरु हे महेश दृशमेहि देहि नः ॥ १९ ॥ (पञ्चभिः कुलकम् ) है हर भवामयहर, पुरोऽग्रे वलन्ती सविभ्रममपाङ्ग भङ्गिनेत्रान्तविच्छित्तिर्यासां तास्तादृशीभिः पुरंन्ध्रिभिः सुचरित्राभिर्वरवधूभिः प्रबलमुद्धतं बलं दधत् । शरपातेन कामशरपातेनातिकातरा दृग्यस्य स तादृशस्य मम भृशमतीव कृशं हृदयं घस्मरो जगद्भक्षकः स्मरो भिनत्ति । हे ईश त्रिलोकनाथ, नयनयोर्नेत्रयोरधीरतां तारल्यं जनयन् । तथा भृशमत्यर्थमदभ्रसंभ्रमां घनव्याकुलीभूतां भ्रुवं भ्रमयन्घूर्णयन् । तथा प्रकृष्टयत्नेन कृतः संगमो येन स तादृशं बहुयत्नलभ्यमपि शमं जितेन्द्रियभावं श्लथं कुर्वन् । एष रोष: क्रोधो मां इसनीयतां विडम्बनीयतां नयति । धनस्य लाभस्तेम संभृता ये विलासास्तेषु वासना तया व्यथमानं मानसं यस्य स तादृशम् । तथा असत्यसंगरं मिथ्याप्रतिज्ञम् । तथा विशोभो निःश्रीको यो लोभस्तेन विवशो विह्वलस्तादृशम् । तथा कोपिता: सकोपीकृताः कदर्थिता विमुखीकृता अर्थिनो येन स तादृशं मां सुहृदोऽपि सखायोऽपि न स्पृशन्ति । किं पुनरपरे जनाः । उचितो युक्तो यस्त्रिवर्गो धर्मार्थकामानां त्रयाणां वर्गस्तेन रहितम् । तथा तिरोहितं तिरस्कृतम् । साधुजनेनेत्यर्थात् । तथा घनश्चासौ मोहोऽज्ञानं तेन मूढं मनो यस्य स तादृशस्तम् । तथा सदसतोः कार्याकार्ययोर्विवेकस्तेन विकलो रहितस्तादृशम् । कलङ्कितं सकलङ्क मां कृतधियां मनीषिणामधिसदः सदसि सदः सदः सभ्यजना हसन्ति विडम्बयन्ति । हे महेश ब्रह्मादीनामप्यधीश, सुष्ठु अत्यर्थं दुर्जया रिपवः शत्रवः कामक्रोधलोभमोहाख्या मां तर्जयन्ति भर्त्सयन्ति । तथा विशुद्धबुद्धयो [^१]. 'शरघात' ख. [^२]. 'नवशोभि' क. धौतचेतसो विद्वांसोऽपि मां परितो वर्जयन्ति । हे महेश, ते आभ्यन्तराः कामक्रो- धाद्याः शत्रवो विधुरं भीतं मां यथा न जयन्ति तथा कुरु । त्वमेह्यागच्छ । शीघ्रमित्य- र्थात् । दृशमनुग्रहदृष्टिं च नोऽस्मभ्यं देहि ॥ पञ्चभिः कुलकम् ॥ क्व महेश्वरस्मरणसंभवं भवभ्रमभीमघर्मशमसंमुखं सुखम् । विपदां पदं मृदुमृणालिनीदलस्खलदम्बुबिन्दुतरलाः क्व संपदः ॥ २० ॥ क्व शिवेश्वरेति कृतगण्डमण्डलीपुलकोद्गमप्रमदमन्थरा गिरः । क्व यथार्थपार्थिवनिरर्थकानृतस्तुतिविस्तरैरपथपातपातकम् ॥ २१ ॥ क्व समाधिबाधितदुराधिसाधिमा भवसंभव[^१]श्रमदमक्षमः शमः । क्व मदः प्रदर्शितसमग्रविग्रहः प्रहसन्मनस्विजनगर्हितस्थितिः ॥२२॥ इति मामनर्गलममार्गमार्गणप्रवणाविवेकविकलीकृताशयम् । करुणानिधान परिबोधय क्षणं क्षणदाविशेषकशिखाशिखामणे ॥२३॥ [^२](चक्कलकम् ) महेश्वरस्य ब्रह्मविष्णुरुद्रेश्वरसदाशिवशिवानामपि षण्णां कारणानामीश्वरो महेश्वरः परमशिवस्तस्य स्मरणं तस्मात्संभवो यस्य तत्तादृशं सुखं विगलितवेद्यान्तरपरमानन्दरूपं क्व भवति । अत्युत्कृष्टं भवतीत्यर्थः । किंभूतम् । भवे संसारेऽर्थान्मरुरूपे यो भ्रमो भ्रमणं स एव भीमो धर्मो निदाघस्तस्य शमे शान्तौ संमुखम् । तथा मृदु कोमलं थन्मृणालिनीदलं कमलिनीदलं तत्र स्खलन्पतन्योऽम्बुबिन्दुर्वारिकणस्तद्वत्तरला चञ्चलाः । तथा विपदां संपत्स्वपि दुष्कृतकर्मस्खलितचित्तत्वेन परिणामेऽत्यन्तदुःखदायित्वात्पदं स्थानं संपदः श्रियः क्व भवन्ति । नित्यगर्ह्या इत्यर्थः । हे शिव, आत्यन्तिकदुःखनिवृत्तिरूपकैवल्यदायिन्, हे ईश्वर त्रिजगदधीश । मां पाहीत्यर्थात् । एवंभूता गिरो वाचः क्व भवन्ति । सकलविद्वज्जनमनोहरा इत्यर्थः । किंभूताः । कृतेत्यादि । कृतो गण्डमण्डल्यां कपोलपाल्यां पुलकोद्गमो रोमाञ्चोद्भवो येन स तादृशो यः परमानन्दस्तेन मन्थरा अलसाः । तथा यथार्थ : सार्थः पञ्चानामपि महाभूतानां पृथ्वीतत्त्वेनैवाधिकेन मनुष्यसृष्टेः पार्थिवः पृथिव्या निर्मित इति सार्थकः । अत्र 'वृथार्थ' इत्यपि पाठः । तत्पक्षे सम्यक्प्रजापालनादीनां पार्थिवगुणानामसंभवाद्वृथार्था ये पार्थिवास्तेषां या निरर्थका व्यर्था अनृतासत्या स्तुतिस्तस्या विस्तारैः कुमार्गपातरूपं पातकं क्व । अत्यन्तग ईणीयमित्यर्थः । योगेनात्ममनसोरैक्यं समाधिस्तेन बाधितो दुराधीनां जन्मजरामरणत्रासरूपाणां मनःपीडानां साधिमा बाढत्वं येन स तादृशो भवसंभवो भवमरुभ्रमणजो यः श्रमस्तस्य दमे क्षमः शमो जितेन्द्रियत्वम् । जितात्मत्वमिति यावत् । तत्क्व । [^१]. 'भ्रमशमक्षमः' ख. [^२]. 'संदानितकम्' ख. अतिप्रशस्यमित्यर्थः । तथा प्रकर्षेण दर्शितः समग्रः सकलो विग्रहो वैरं येन स तादृशः । तथा प्रकर्षेण इसन्सादृहासो यो मनस्विजनस्तेन गर्हिता स्थितिर्यस्य स तादृशो मदो गर्वः क्व । नितान्तगर्ह्य इत्यर्थः । हे क्षणदाविशेषकशिखाशिखामणे चन्द्रकलाशिरोमणे शंभो, इत्यनेन प्रकारेणानर्गलमकार्यकरणेऽपि निर्निरोधं तथा कुमार्गमार्गणे प्रवणो ली- नश्चासावविवेकस्तेन विकलीकृतो विह्वलीकृत आशयो यस्य स तादृशं मां हे करुणा- निधान शंभो, क्षणं परिबोधय सावबोधं कुरु । संदानितकम् ॥ प्रमदा मदारुणदृशः कृशोदरास्तनया नयानतसमस्तमस्तकाः । सुहृदो हृदन्तरगतेङ्गितस्पृशः प्रणयार्द्रनिर्भरगिरिश्च बन्धवः ॥ २४ ॥ दधतः प्रसादमधुरां धुरामपि प्रभवोऽमृतद्रवसमानमानसाः । मुखवीक्षणप्रणयिनः प्रतिक्षणं परिचारकाश्च जयजीववादिनः ॥ २५ ॥ न भयं भयंकरकृतान्तकिंकरभ्रुकुटीभवं झटिति हन्तुमीशते । भजतामतः क्षपयदापदं पदं हृदये दयामृतनिधे निधेहि नः ॥ २६ ॥ (तिलकम्) हे दयामृतनिधे कृपामृताम्बुधे श्रीशिव, अतः कारणादापदं जन्ममरणसंकटरूपां वि पदं क्षपयन्नाशयत्पदं स्थानं नोऽस्माकं हृदये चित्ते निधेहि । अतः कुत इत्याह - प्र मदेत्यादि । यत एते प्रमदाप्रभृतयो भयानकयमदूतभ्रुकुटीभवं भयं हन्तुं शीघ्रमेव भ जतां भक्तजनानां न क्षमन्ते अतः । के ते इत्याह - प्रमदाः कृशोदर्यस्तनूदराः । मदेन क्षैब्योनारुणा रक्ता दृशो यासां तादृशाः प्रमदा वरकामिन्यः क्रुद्धयमदूतभ्रुकुटीभवं भयं हन्तुं यतो न क्षमन्ते । एवमग्रेऽपि । तथा नयेन नीत्या विनयेन चासमन्तान्नतं प्रह्वं समस्तं मस्तकं शिरो येषां तादृशास्तनयाः सुताश्च प्रागुक्तं भयं हन्तुं न क्षमन्ते । तथा हृदन्तरगतं मनोगतं यदिङ्गितप्रायरूपं तत्स्पृशन्ति तादृशाः सुहृदः सखायोऽपि न क्षमन्ते । तथा प्रणयेन स्नेहेनार्द्रा निर्भरा पूर्णा च गीर्वाग्येषां तादृशा बन्धवश्च न क्षमन्ते । प्रसादेनानुग्रहेण मधुरां रम्यां धुरं ज्येष्ठतामपि दधतो बिभ्रतः । तथामृतप्रवाहसमानं मानसं येषां ते तादृशाः प्रभवो विभवोऽपि न क्षमन्ते पूर्वोक्तं भयं हन्तुम् । तथा प्रतिक्षणं मुखदर्शनं काङ्क्षमाणा त्वं जयेति त्वं जीवेति च वादिनः परिचारका भृ त्याश्च प्रागुक्तं भयं हन्तुं भजतां जनानां न क्षमन्तेऽतस्त्वं दयां विधायास्मद्धृदये पदं निधेहीति ॥ तिलकम् ॥ एतद्वृत्तार्थानुसारेण ममाप्येकं वृत्तम् - 'तातस्त्राता न हितसहजाश्वासनं यत्र चाम्बास्नेहारम्भो भवति च मृषा बन्धवो यत्र वन्ध्याः । चौराहार्यं क्षयविरहितं खिद्यतां देहभाजामेकं तस्मिन्पथि सुमधुरं शम्बलं शंभुनाम ॥" इति ॥ अथात एतस्य स्तोत्रस्योपसंहारवृत्तमाह हन्ताहन्ता प्रथयति मतिह्रासमासञ्जयन्ती मायामायासितसितशमायामिनी यामिनीव । तस्मादस्मान्रविशशिशिखिप्रेङ्खितोद्दामधाम क्षिप्त्वा चक्षुर्मुदितमुदितावन्ध्यबोधान्विधेहि ॥ २७ ॥ हन्त खेदे । हे विभो, आयासितस्तनूकृतः सितः स्वच्छः शमो जितात्मत्वरूपो यया सा तादृशी मायामविद्यारूपमज्ञानपर्यायं तम आसञ्जयन्त्युत्पादयन्ती आयामिनी वि स्तारवती यामिनी रात्रिरिव अहन्ता नश्वरेऽपि देहेन्द्रियादावहंभावपर्याया मतेः प्रज्ञाया ह्रासो नाशस्तं प्रथयति विस्तारयति । न इति शेषः । तस्माद्धेतोः हे महेश, रविशशि- शिखिभी रवीन्दुवह्निभिः प्रेङ्खितं प्रदीप्तमुद्भटं धाम तेजो यस्य तत्तादृशं मुदितं प्रसा- दमधुरं चक्षुर्नेत्रं क्षिप्त्वा उदित उत्पन्नोऽवन्ध्यः सफलो बोधस्तत्वज्ञानं येषां ते तादृ- शास्तान्नोऽस्मान्विधेहि कुर्विति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलावुपदेशनस्तोत्रं षोडशम् । सप्तदशं स्तोत्रम् । अथातो भक्तिस्तोत्रं सप्तदशमारभमाण आह मन्दस्पन्दे मनसि रसिकीभावमासाद्य सद्यो हृद्योद्योगा विहर वरदे भारति स्वा रतिस्ते । मातर्जातस्पृहमिह महामोहनिद्रावसाने जानीहीमं जनमनलसं शंसितुं शंभुभक्तिम् ॥ १ ॥ वरं ददातीति वरदा तस्या आमन्त्रणं हे मातर्वरदे भारति सरस्वति, भक्त्यासक्तिं विनानन्यगतित्वान्मन्दस्पन्दे निःस्पन्दे मनसि । अर्थान्मे । सद्यस्तत्क्षणमेव रसिकी- भावं समासक्तित्वमासाद्य हृद्यो मनःप्रिय उद्योगो यस्यास्तादृशी मदीये मनसि विहर क्रीडां कुरु । ते तव स्वा रतिः स्वकीयेच्छा भवति । हे मातर्भारति, इहास्मिन्महां- श्वासौ मोहोऽविद्यापरपर्यायोऽज्ञानमेव निद्रा तस्यावसाने श्रीशिवशक्तिपातावलब्धमो- हनिद्रावसाने इमं जनं मल्लक्षणं श्रीशंभुभक्तिं शंसितुं वर्णयितुमनलसमालस्यरहितं जा तस्पृहमुदिताभिलाषं जानीहि ॥ द्राक्षा साक्षादमृतलहरी कर्कशात्काष्ठकोषा- द्भूरिच्छिद्रात्प्रकृतिमधुरा मूर्छना वंशगर्भात् । सूक्तिव्याजान्मम च वदनात्कर्णपेया सुधेयं निर्गच्छन्ती जनयति न कं विस्मयस्मेरवक्रम् ॥२॥ कर्कशात्कठोरात्काष्ठकोषाद्वल्लीरूपकाष्ठान्तरात्साक्षात्प्रत्यक्षत एव सुधालहरी द्राक्षा फलोत्तमा । 'द्राति रसमिति द्राक्षा' इति स्वामी । कं न सचेतनं विस्मयेनाद्भुतेन स्मेर- मुखं जनयति । तथा भूरिच्छिद्राद्बहुरन्ध्राद्वंशगर्भाद्वेण्वन्तरादुत्पन्ना प्रकृत्या स्वभावेन मधुरा मनोहरा मूर्छना स्वराणामारोहावरोहरूपा कं न विस्मयस्मेरवक्त्रं करोति । एवमेव मम मुखात्सूक्तिव्याजेन निर्गच्छन्ती श्रोत्रपेयेयं सुधा श्रीशिवभट्टारकस्तुतिरूपा कं न जनं विस्मयेन स्मेरमुखं जनयति ॥ ध्यात्वा देव प्रमयसमयत्रासमासन्नकल्पं स्वल्पं ज्ञात्वा सुलभशलभच्छायसच्छायमायुः । मत्वा च त्वा सदयहृदयं भक्तिवाल्लम्यलभ्यं सभ्यंमन्यास्तव नवविधौ धौतचित्ता यतन्ते ॥ ३॥ हे देव, दीव्यति परमे धाम्नीति देवस्तत्संबोधनम् । प्रमयसमयान्मृत्युसमयात्रासं भ यमासन्नकल्पमीषदसमाप्त आसन्न आसन्नकल्पस्तादृशं निकटस्थं ध्यात्वा संचित्य तथा शलभानां छाया शलभच्छायं तत्सदृशमायुः स्वकीयं ज्ञात्वा तथा (त्वा) त्वां च सदय- हृदयं कृपामृतार्द्रमनस्कं भक्तिवाल्लभ्येन केवलभक्तिस्नेहेन लभ्यं च मत्वा सभ्यमात्मानं मन्यन्त इति सभ्यंमन्या धौतचित्ता धौताशया यतन्ते यत्नं कुर्वन्ति । कुत्र । तव वि भोर्नवविधौ स्तवविधौ । 'णु स्तुतौ' धातुः ॥ कण्ठे कण्ठीरवरवसदृग्दृक्समुद्गोद्गताश्रो- र्हेलोन्मीलद्विपुलपुलकोद्भूतभूतेशभक्तेः । यस्योदेति ध्वनिरनिभृतः शर्वशर्वेत्यखर्वं गर्वं बिभ्रद्धसति वसतिं वासवीयां स एकः ॥ ४ ॥ दृशौ नेत्रे एव समुद्गौ·····उद्गताश्रोः । तथा हेलयोन्मीलन्तः पुलका यस्यां सा तादृशी उद्भूता भूतेशभक्तिः परमेशभक्तिर्यस्य स तादृशस्य यस्य धन्यस्य । कण्ठ्यां गले रवो यस्य स कण्ठीरवः सिंहः । कण्ठशब्दस्त्रिलिङ्गः । सिंहनादसदृगनिभृतः प्रस्फुटः । हे शर्व । शृणाति हिनस्ति कालाग्निरुद्ररूपेण महाप्रलये शिवादिक्षित्यन्तं जगदिति शर्वः । हे शर्व, त्वं पाहीति ध्वनिरुदेति स एकः सुकृती अखर्वं महान्तं गर्वं बिभ्रद्वासवीया- मिन्द्रसंबन्धिनीं वसतिं हसति । ऐन्द्रं पदं विडम्बयतीत्यर्थः ॥ तन्मानुष्यं प्रभवति सतामुत्तमा यत्र जातिः सैका जातिः प्रसरति यशो यत्र पाण्डित्यहेतु[^१] । तत्पाण्डित्यं सरसमधुरा जृम्भते यत्र वाणी वाणी सापि प्रथयति रतिं शांकरी यंत्र भक्तिः ॥ ९ ॥ [^१].हेतोः' क. मानुष्यं जन्म तत् । देव, धन्यमित्यर्थः । तत्किमित्याह -साधूनां यत्रोत्तमा जाति- र्ब्राह्मणजातिर्यत्र प्रभवत्युत्पद्यते । तथा सैवैका ब्राह्मणजातिः शस्या यत्र पाण्डित्यहेतु पाण्डित्यमेव हेतुर्यस्य तद्यशः प्रसरति संचरति । वैदुष्यभूषिता ब्राह्मणजातिर्धन्येत्यर्थः । पाण्डित्यमपि तदेव यत्र सरसा सह रसैः शृङ्गारादिभिर्वर्तते या सा तादृशी अत एव मधुरा च यत्र वाणी जृम्भते । सापि वाणी धन्यतमा यत्र यस्यां वाण्यां शांकरी श्रीप- रमेश्वरसंबन्धिनी भक्ती रतिं परमानन्दं प्रथयति विस्तारयति ॥ येषां वक्त्रे समदमुदितत्वच्चरित्राः पवित्रा द्वित्रा वित्रासितरविसुतभ्रूविभङ्गप्रसङ्गाः । नोज्जृम्भन्ते मधुकणमुचः सूक्तयो भक्तिसिक्ता धिक्तान्रिक्तान्भुवि भव भवत्पादसेवारसेन ॥ ६ ॥ हे भव, विशेषेण त्रासितो निवारितो रविसुतस्य यमस्य भ्रूविभङ्गप्रसङ्गो भ्रुकुटिप्र सङ्गो याभिस्ताः । तथा मधुककणमुचोऽमृतकणमुचः । तथा भक्त्या भक्तिरसामृतेन सिक्ताः । तथा पवित्राः ।...... त्रिपुरदाहान्धकवधादीनि यासु ताः । द्वित्रा द्वे वा तिस्रो वा द्वित्राः सूक्तयः प्रौढोक्तयो येषामभाग्यवतां वक्त्रे मुखे नोज्जृम्भन्ते नोल्लसन्ति भुवि भूमौ भवच्चरणसेवारसेन रिक्तान्हीनानधमांस्तान्धिगस्तु । धिक्छब्द- प्रयोगे द्वितीया ॥ नाथ ज्योत्स्ना बहुलरजनौ कार्तिकीयेव कान्ता कान्तारान्तर्मथितपथिकप्रौढतापा प्रपेव । मा मा भैषीरिति यमभये तावकीनेव वाणी भावत्की मे सततममृतस्यन्दिनी भाति भक्तिः ॥ ७ ॥ हे नाथ शिवादिक्षित्यन्तजगन्नाथ परमशिव, बहुलरजनौ कृष्णपक्षरात्रौ कार्तिकीया कार्तिकमाससंबन्धिनी ज्योत्स्ना कान्ता मनोहरा यथा सततममृतस्यन्दिनी भाति । तथा कान्तारं दूरशून्योऽध्वा कान्तारान्तर्मरुभूमध्ये मथितो दूरीकृतः पथिकानामध्वन्यानां प्रौढो महांस्तापो यया सा तादृशी प्रपा पानीयशालिका यथामृतस्यन्दिनी भवति । तथा रे कातर, त्वं मा भैषीः क्रोधोद्धतादन्तकात्त्वं मा भैषीरिति तव वाणी यमभयेऽन्तकविहितसंकटे यथामृतवर्षिणी भवति तथैव तावकीना भक्तिर्वाङ्मनः कायकर्मभिस्त्वदासक्तिर्मे मम सततममृतस्यन्दिनी भाति येषामन्तः सुकृतसरणिः स्थाणवीया न भक्ति- र्व्यक्तिं धत्ते रसकृदसकृन्नास्मि तेषु स्मितेषु । लोकः शोकं त्यजति सहसा यत्र तद्भक्तियुक्तं युक्तं मन्ये रुदितमुदितश्लाघमुल्लाघहेतुम् ॥ ८ ॥ येषां प्रमोदोद्भूतानामीषद्धसितानामन्तः सुकृतस्य पुण्यस्य सरणिर्मार्गः पदवी स्था णवीया श्रीशंभुसंबन्धिनी भक्तिर्व्यक्तिं प्रकटतां न धत्ते तेषु स्मितेषु प्रहर्षोद्भूतेष्वपीष- द्धसितेष्वसकृद्बहुवारं रसं तदासक्तिरसं करोतीति तादृङ्नास्मि । तान्नाशास इत्यर्थः । यत्र श्रीशंभुभक्तियुक्ते रुदिते रोदनेऽपि लोक: सामान्यलोकोऽपि सहसा तत्क्षणमेव शोकं जन्मजरामरणदुःखं त्यजति तदेवोदितश्लाघमुत्पन्नस्तुति उल्लाघहेतुं नीरोगता- कारणभूतं रुदितमपि युक्तं मन्ये । अपिशब्दश्चार्थ: । 'उल्लाघो निर्गतो गदात्' इत्यमरः ॥ ध्वान्तं शान्तप्रशममहरद्यन्न सद्यः समुद्य- न्नुद्योतश्रीकलितकमलोल्लासभानुः स भानुः । तद्विध्वस्तप्रमदमदनोद्दीपितोद्दामदोषं प्लोषं नेतुं प्रभवति भवे शांभवी भक्तिरेव ॥ ९ ॥ उद्योतस्य प्रकाशस्य श्रिया कलितो विहितः कमलानामुल्लासो विकासो यैस्तादृशा भानवः किरणा यस्य स तादृशः स प्रसिद्धो भानुः सद्यस्तत्क्षणं समुद्यन्नुदयं कुर्वन् । शा न्तः प्रकर्षेण शमो जितेन्द्रियत्वं येन तद्ध्वान्तमविद्यारूपं तमो यन्नाहरन्न दूरीचकार भवे संसारे विध्वस्तो नाशितः प्रमदो हर्षो येन तत् । तथा अदमेनेन्द्रियसंयमाभावेनोद्दीपिता उद्दामा दोषा दुरितहेतवो येन तत्तादृशं तमोऽज्ञानरूपं प्लोषं दाहं नेतुं शांभवी श्रीशं- भुसंबन्धिनी भक्तिरेव प्रभवति समर्था भवति ॥ ये संतोषप्रशमपिशुने क्लेशराशौ निमग्ना भग्नाशाभिर्विषमविषयोपासनावासनाभिः । तेषामेषा भवभयभिदारम्भसंभावनाभू- र्भूत्यै [^१]भूयस्त्रिजगति गतिः शांभवी भक्तिरेव ॥ १० ॥ भग्नाशाभिर्विषमा ये विषयाः पञ्च शब्दाद्यास्तेषामुपासना सेवा तस्या वासनाभिर्हे- तुभिः संतोषस्य प्रशमः शान्तिस्तस्य पिशुने सूचके । 'पिशुनौ खलसूचकौ' इत्यमरः । तादृशे क्लेशाराशौ क्लेशनामविद्यास्मितादीनां पञ्चानां राशि: समूहस्तत्र ये जना निमग्ना ब्रुडितास्तेषां जनानामेषा शांभवी शंभुसंबन्धिनी भक्तिस्त्रिजगति त्रिभुवनेऽगतीनां गतिर्भूयोऽतिशयेन भवात्संसाराद्यद्भयं तस्य भिदा तस्या आरम्भस्तस्य संभावनाङ्गी- कारस्तस्य भूः स्थानं भूत्यै संपदे भूयात् ॥ दम्भस्तम्भस्थगितगतयः सावहेला महेलाहेलालापभ्रमितमतयः सन्त्यसंख्याः पुमांसः । [^१]. 'भूयात्' क. भार्गीं भक्ति दधति हृदये निस्तरङ्गामभङ्गां गङ्गातीरे विहितरतयो दुर्लभाः पूरुषास्ते ॥ ११ ॥ दम्भस्य स्तम्भस्तेन स्थगिता रुद्धा मतिर्येषां ते । तथा 'मह्यन्ते पूज्यन्ते कामिजनेन महिला महेलाश्च' इति स्वामी । सावहेला रूपगर्वेण कामिषु सावगणना या महेला वराङ्गनास्तासां हेलालापास्तैर्भ्रमिता मतिर्बुद्धिर्येषां ते तादृशा असंख्याः संख्योत्तीर्णाः पुमांसो मर्त्याः सन्ति । ये पुनर्गङ्गातीरे जाह्नवीतटे विहिता रतिः स्थानं यैस्तादृशाः सन्तो निस्तरङ्गां निश्चलामभङ्गामक्षयां भार्गी भक्तिं भुज्यन्ते दह्यन्तेऽनेन कालकामाद्या भर्गः श्रीशंभुस्तत्संबन्धिनीं भक्तिं हृदि हृदये दधति त एव पूरुषा नरा दुर्लभाः ॥ शंभो दम्भो दहति कुहकारम्भसंभावनाभिः साभिद्वेषस्त्विषमपकषत्येष रोषप्रदोषः । सावष्टम्भं भ्रमयति बृहन्मामहंकारभारः पारं नेतुं प्रभवति भवद्भक्तिरेका भवाब्धेः ॥ १२ ॥ हे शंभो, कुहकस्य द्रोहस्य य आरम्भस्ताभिर्हेतुभिरेष दम्भो मां दहति । तथा सहामिद्वेषेण परोत्कर्षासहिष्णुत्वेन वर्तते यः साभिद्वेषो रोष एव प्रदोषो रजनीमुखं त्विधं दीप्तिं ममापकषति निवारयति । 'कष विलेखने' धातुः । तथा बृहन्महानहंकार- भारो गर्वभारः सावष्टम्भं सगर्वं मां भ्रमयति । कुपथेष्वित्यर्थः । अतो भवाब्धौ पतितं मां भवाब्धेः पारं नेतुमेका भवद्भक्तिरेव प्रभवति ॥ द्राक्संधत्ते युधमधिधनुर्बद्धबाणाभिरामैः सभ्रूभङ्गैर्लटभललनापाङ्गभङ्गैरनङ्गः । दोषप्लोषक्षमशमपथापातमातन्वती मे भीमे भक्तिर्भगवति गतिश्चक्षुषश्चन्द्रिकेव ॥ १३ ॥ अधिधनुर्धनुषि बद्धा योजिता ये बाणास्तद्वदभिरामै र्भ्रूभङ्गसहितैर्लटभललनानां प्र गल्भाङ्गनानामपाङ्गभङ्गा नेत्रान्ततरङ्गास्तैरनङ्गः कामो युधं समरं द्राक् शीघ्रं संधत्ते । मां प्रति युद्धाय सज्जोऽस्तीत्यर्थः । अतो हेतोर्दोषाः कामक्रोधाद्यास्तेषां प्लोषे दाहे क्षमो यः शमो जितेन्द्रियत्वं तस्य पन्थास्तत्रापातमातन्वती कुर्वती भगवति भीमे श्रीशिवे भक्तिरेका मे गतिः । नान्या गतिरित्यर्थः । केव । चक्षुषो मरुभ्रमणसंतप्तस्य चन्द्रिका ज्योत्स्नेवैका गतिः । सापि दोषाणां पित्तधातुकृतानां प्लोषे क्षमा ॥ कामः कामं धनुरनुनिशं कौसुमः संवृणोतु व्यालं कालः स्वकरकुहरे भग्नभोगं विधत्ताम् । भार्गी भक्तिः सपदि सकलप्रार्थनाकल्पवल्ली लब्धा दृब्धा जगति कति न क्लेशपाशा हताशाः ॥१४॥ कामं निश्चये । अनुनिशं निशिनिशि कौसुमं कुसुमसंबन्धि धनुः स्वकीयं कामो म दनः संवृणोतु गोपयतु । मां प्रति हताशो भूत्वा स्वं धनुः क्वापि संगोप्य रक्षत्वित्यर्थः । तथा कालोऽपि स्वकरकुहरे स्वपाणिमध्ये व्यालं सर्पं भग्नभोगं मृदितफणमेव विधत्तां करोतु । स्वकर एव मृदितफणं सर्पपाशं मत्रासाय गृहीतमपि संगोप्य स्थापयत्वित्यर्थः । अत्र हेतुमाह - सकलप्रार्थनानां सर्वकामानां कल्पलता पुनः सपदीदानीं भार्गी भक्तिः श्रीशिवभट्टारकभक्तिर्मया प्राचीनसुकृतपरिपाकेन लब्धा इह जगति । अतश्च क्लेशा अविद्यादय एव पाशा दुर्भेदाः पाशाः कति न मया दृब्धा ग्रथिताः । किंभूताः । इता नष्टा आशा मद्बन्धनशक्तिर्येषां ते हताशाः । मन्त्रमथितसर्पवन्निर्वीर्या जाता इत्यर्थः ॥ राज्ञामाज्ञाविहतिविहितानीकिनीनीरसश्रीः स श्रीलेशस्तनुरनुचितप्रार्थनस्तदावास्ताम् । ऐन्द्रं यत्र त्रिभुवनजयप्राज्यसाम्राज्यलक्ष्मी- लक्ष्मावज्ञास्पदमपि पदं तां स्तुमः शंभुभक्तिम् ॥ १५ ॥ तावत्प्राथम्ये । राज्ञां नृपाणां स प्रसिद्धः श्रीलेशो लक्ष्मीलवस्तनुरल्पः । कतिपय ग्रामाधीश्वरत्वात् । अत एवानुचिता प्रार्थना यस्य स तादृशो लक्ष्मीलवस्तावदा- स्ताम् । यत्र श्रीशिवभक्तिरसामृतलाभे त्रिभुवनजयेन प्राज्या उत्कृष्टा या साम्राज्य- लक्ष्मीश्चक्रवर्तित्वलक्ष्मीस्तस्या लक्ष्म चिह्नमैन्द्रं पदमपि लब्धमवज्ञास्पदं भवति तां शं- भुभक्तिं स्तुमः ॥ कान्तैकान्तव्यसनमनसां वल्कलालंकृतानां ज्ञानाम्भोभिः क्षपितरजसां जाह्नवीतीरभाजाम् । गाढोत्सेकप्रकटितजटामण्डलीमण्डनानां नानाकारा भवति [^१]कृतिनां मुक्तये भर्गभक्तिः ॥ १६ ॥ नानाकारा बहुप्रकारा भर्गभक्तिः श्रीशिवभक्तिः कृतिनां विदुषां धन्यानां मुक्तये कैवल्याय भवति । नानाकारत्वमेव विशेषणसामर्थ्यादाह - किंभूतानाम् । कान्तोऽति- प्रियो य एकान्तो विजनप्रदेशस्तत्र व्यसनं हेवाकस्तत्र मनो येषां तादृशानाम् । तथा वल्कलेन भूर्जत्वचालंकृतास्तेषाम् । तथा ज्ञानमेवाम्भांस्यमृतानि तैः क्षपितं धौतं रजो रजोगुणोत्थितं दुरितमेव रजो रेणुर्येषां ते तादृशानां तथा जाह्नवीतीरभाजां गङ्गातटकृत- स्थितीनां तथा गाढो य उत्सेकः श्रीशंभुभक्तिरसोत्सेकस्तेन प्रकटिता या जटामण्डली सैव मण्डनं येषाम् ॥ [^१]. 'भविनां' ख. इदानीं स्वावस्थां निवेदयति कविः मूर्तिर्धूर्तिं प्रथयति यथा मञ्जरी जीर्णपर्णा कर्णाभ्यर्णं प्रसरति जरा सत्यतो मृत्युदूती । भोगा भोगा इव विदधतश्चेष्टितं वेष्टयन्ते हन्तेदानीं शरणमपरं नास्ति नः शंभुभक्तेः ॥ १७ ॥ नोऽस्माकं मूर्तिस्तनुधूर्ति 'धुर्वी हिंसायां' धातुः । धातू नामनेकार्थत्वाद्धूर्ति कम्पं ज राशैथिल्येन प्रथयति विस्तारयति । का यथा । यथाशब्द इवार्थे । जीर्णपर्णा मञ्जरी लता यथा धूर्ति कम्पं प्रथयति । यथा सत्यतो निश्चितं मृत्युदूती यमदूती जरा पलितं नः कर्णाभ्यर्णं श्रोत्रसमीपं प्रसरति याति । तथा भोगा विषयाः शब्दाद्या वेष्टितं बहिः स्पन्दं वेष्टयन्ते परिवलितं नः कुर्वते । हन्त कष्टे । इदानीमस्यामवस्थायां शंभुभक्तेः श्रीशिवभक्तेः सकाशान्नोऽस्माकमपरं शरणं पालयितृपर्यायं नास्ति ॥ यत्र ध्वान्तक्षपणनिपुणं [^१]दुर्बलं धाम चान्द्रं सान्द्रं यत्र ग्लपयति तमस्तापनो यन्न तापः । यत्र प्रेङ्खन्न [^२]कचति शिखी तेजसान्येन सत्रा तत्रालोकं दिशति विषमे शांभवी भक्तिरेका[^३] ॥ ध्वान्तस्य बाह्यतिमिरस्य क्षपणं निराकरणं तत्र निपुणं कोविदं चान्द्रं धाम महो यत्र मोहान्धतमसे निराकर्तव्ये दुर्बलमसमर्थे भवति । यत्र च तापनः सूर्यसंबन्धी ताप उद्द्योतोऽपि तमोऽविद्यापर्यायं न ग्लपयति न नाशयति । यत्र च प्रेङ्खन्नुल्लसञ्शिखी अग्निरन्येन तेजसा ग्रहतारामणिविशेषादिजेन सत्रा सह न कचति न दीप्यते तत्र विषमेऽतिसंकटे मोहान्धतमसे एकैव शांभवी भक्तिरालोकं प्रकाशं दिशति ददाति । तथा च 'न तत्र सूर्यो भाति न चन्द्रतारके नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनु भाति सर्वे तस्य भासा सर्वमिदं विभाति ॥' इति रहस्यश्रुतिः । अतश्च तस्यैव परज्योतिषो भावनयाज्ञानतमोनिवृत्तिरात्यन्तिकी भवतीत्यर्थः ॥ मा भूद्भूयोऽभ्यसनसुलभान्वीक्षिकी नाम विद्या हृद्या दूरे विहरतु वियत्खण्डिनी दण्डनीतिः । क्वापि स्थेम्ना लसतु कलितोल्लाघवार्तापि वार्ता नार्तावर्हं किमपि शरणं शंभुभक्ति विनान्यत् ॥ १९ ॥ नाम निश्चये । अतिशयेन बहुर्भूयः । तादृग्यदभ्यसनमभ्यासस्तेन सुलभा भूयोऽभ्यसनसुलभा आन्वीक्षिकी प्रत्यक्षागमाभ्यामीक्षितस्य पश्चादीक्षणमन्वीक्षा सा प्रयोजनं [^१]. 'दुर्लभं' ख. [^२]. 'खचति' ख. [^३]. 'एव' ख. यस्या आन्वीक्षिकी तर्कविद्या मा भूत् । सुशिक्षिता मा भूदित्यर्थः । यतः सापि ज- न्मिनो भवार्ति हर्तुं न क्षमा । 'आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः' इत्य- मरः । दम्यतेऽनेनेति दमनं वा दण्डः । स नीयते दम्यं जनं प्रति प्राप्यते यया सा दण्ड- नीतिरर्थशास्त्रं राजनीतिर्विपत्खण्डिनी ब्राह्माया विपदः खण्डिन्यपि दूरे विहरतु संचरतु । सापि भवहरी नास्तीत्यर्थः । तथा कलिता विहिता उल्लाघस्यारोग्यस्य वार्ता वृत्तान्तो यया सा तादृशी वार्तापि वर्तनं वृत्तिरस्त्यस्यां वार्ता । 'प्रज्ञाश्रद्धार्चाभ्यो णः' (वृत्तेश्च)। 'आजीवो जीविका वार्ता' इत्यमरः । 'स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः' इति च । वार्ता कृषिपाशुपाल्यवाणिज्यादिरूपा सापि स्थेम्ना स्थैर्येण क्वापि देशे लसतु । तयापि न प्रयोजनमित्यर्थः । सिद्धान्तमाह —–नार्तावईमित्यादि । आर्तौ भविनां जन्म- जरामरणत्राससंकटे शंभुभक्तिं श्रीशिवभक्तिं विनान्यच्छरणं नार्हं योग्यं न भवति ॥ संसाराब्धेः प्रथमलहरी पातकापातकामा रामा नाम स्थगयति गति मज्जतां सज्जनानाम् । मोहावर्तभ्रमसमुदयत्खेदविच्छेदहेतुः सेतुर्दूरीभवति च भृशं शेमुषी शेमुषीयम् ॥ २० ॥ तस्मादस्माज्जननमरणक्लेशवेशन्तपङ्काच्छङ्कातङ्काकुलितमतयो ये तितीर्षन्ति तेषाम् । आशापाशग्रथितवपुषां[^१] क्रन्दतामातुराणां प्राणापाते वितरति करालम्बनं शंभुभक्तिः ॥ २१॥ (युगलकम्) नाम निश्चये । संसार एवाब्धिरनन्तत्वात् । तस्य भवाब्धेः प्रथमलहरी आद्या वीचिर्महावेगवती पातके दुष्कृते आपातस्तं कामयते तस्यां कामो वा यस्याः सा । रमते कामिजने रामाङ्गना । मतां संसाराब्धौ सज्जनानां साधूनां गतिमूर्ध्वगमनं स्थगयति रुणद्धि । अत्रोपायविशेषमाह —–—मोहावर्तेति । मोहोऽज्ञानरूप आवर्तोऽम्भसां भ्रमः स एव भ्रमो भ्रमणं तेन समुदयन्यः खेदस्तस्य विशेषेण च्छेदस्तत्र हेतुः । सेतुः 'सिन्वन्ति बध्नन्ति यमुत्तरणार्थमिति सेतुः' इति रायमुकुट्याम् । सेतुः सेतुरूपा । भृशमत्यर्थं शेमुषी शमप्रधाना इयं शेमुषी बुद्धिरेव दूरीभवति । इन्द्रियप्रशमस्याति कष्टसाध्यत्वात् । 'शेते मनसि शे मोहस्तं मुष्णातीति शेमुषी' इति रायमुकुटीकारः । यतो भवाब्धौ मज्जतां साधूनां रामा गतिं स्थगयति तस्माद्धेतोर्जननमरणाभ्यां यः क्लेशः प्रयासः स एव वेशन्तः । विशन्ति मजन्त्यस्मिन् । 'वेशन्तः पल्वलं चाल्पसरः' इत्यमरः । तत्र यः पङ्को दुष्कृतरूपकर्दमस्तस्माच्छङ्कैवातङ्कस्तेनाकुलिता मतिर्येषां ते तादृशा ये तितीर्षन्ति तर्तुमिच्छन्ति तेषां जनानामाशैव पाशस्तेन प्रथितं वपुः कलेवरं [^१]. 'मनसां' ख. येषां ते तादृशानां क्रन्दतामुच्चैर्विलपतामातुराणां दीनानामशरणानां प्राणापातेऽन्तसमये केवलं श्रीशंभुभक्तिरेव करालम्बनं वितरति ददाति ॥ अथातो मुख्यं विषयासक्तिदोषं वर्णयन्कविराह एणाक्षीणां स्मरशरशिखाकोटिशौटीर्यभीमाः प्रेमाकृष्टा झगिति कुटिला ये कटाक्षाः पतन्ति । कालेनैते कुलिशनिशितास्तुण्डदण्डा जडानां भिन्दन्त्यन्तर्हृदयमदयं पत्रिणां नारकाणाम् ॥ २२ ॥ बाहुद्वन्द्वं तुलितविवलद्बालमार्णालनालं सालंकारं रणितवलयं वेष्टितं कण्ठपीठे । मोहान्धानां महति पततां यातनातङ्कपङ्के शङ्के पङ्केरुहदलदृशः पाशतामेतदेति ॥ २३ ॥ यत्साकूतं मुकुलितदृशः केतकामोदहृद्यं सद्यः स्विद्यद्वदनममृतस्यन्दि पीतं नताङ्ग्याः । रागान्धानां निरयनिलये तद्दुरापावसाने जाने भूयः पतनशपथाक्रोशकोषत्वमेति ॥ २४ ॥ रागोद्रेकात्कनककलशाकारमालम्बिहारं सारङ्गाक्ष्याः पृथुकुचयुगं गाढमालिङ्गितं यत् । तन्मूढानां नरककलिले मज्जतामन्तकाले नाले लग्नस्थिरतरगुरुग्रावभावं बिभर्ति ॥ २५ ॥ किं भूयोभिर्वचनरचनाडम्बरैर्दीर्घशोका लोका युक्तं शृणुत सुतरां पश्चिमं वाक्यमेतत् । दुःखोदर्कं प्रमुखसुखदं सङ्गमुत्सृज्य साङ्गं गाङ्गं लब्ध्वा सलिलममलं शंभुभक्तिं भजध्वम् ॥ २६ ॥ (पञ्चभिः कुलकम् ) स्मरस्य कामस्य ये शरा: पञ्च शोषणमोहनसंदीपनतापनोन्मादनाख्यास्तेषां शिखाः कोटयः शराग्राणि तेषां शौटीर्यं तीक्ष्णता प्रागल्भ्यं वा तद्वद्भीमाः प्रेम्णा स्नेहेनाकृष्टा झगिति शीघ्रमेव एणाक्षीणां मृगदृशां ये कटाक्षा नेत्रान्तावलोकाः पतन्ति । तदासक्त- कामिजनं प्रतीति शेषः । त एत्र कटाक्षशराः कालेन समयेन वज्रवग्निशितास्तीक्ष्णाः सन्तो नारकाणां नरकस्थानां पत्रिणां पक्षिणां तुण्डदण्डाश्चञ्चुदण्डा अदयं निर्दयं कृत्वा जडानां मूढानां तेषामन्तर्हृदयं भिन्दन्ति । 'पत्रिणौ शरपक्षिणौ' इत्यमरः ॥ तुलितं विशेषेण वलद्बालं मार्णालनालं मृणालसंबन्धि नालं येन तत्तादृशम् । तथा सालंकारं केयूरकङ्कणाद्युपेतम् । तथा रणिताः सशब्दा वलयाः कटका यस्मिंस्तत् । पङ्केरुहदल- दृश: पद्मपत्राक्ष्या वरकामिन्या बाहुद्वन्द्वमेतन्मोहान्धानां रागान्धानां कण्ठपीठे वेष्टितं तदेव कालेन महति यातना नरकयातनैवातङ्कः स एव पङ्कः कर्दमस्तस्मिन्पततां पुंसां पाशतां लोहमयपाशतामेति एतदहं शङ्के ॥ साकूतं साभिप्रायं सविलासं च मुकुलित- दृशः संकुचिताक्ष्याः केतककुसुमामोदवद्धृद्यम् । सद्यस्तत्क्षणमेव स्विद्यत्स्वेदं सात्त्विकभावं भजत् । अमृतस्यन्दि रसायनरसस्यन्दि नताङ्ग्याश्चार्वङ्ग्या वदनं मुखं रागान्धैः पीतं परिचुम्बनेनास्वादितमहं जाने देव, भूयः पुनर्दुरापावसाने दुष्प्रापान्तेनरकगृहे पतनार्थं यः शपथः स एवाक्रोशः शापो गर्ह्यवचनं नाम तस्य कोष: [शपथविशेष:] तद्भावमेति प्राप्नोति ॥ कनककलशाकारं स्वर्णकलशाकृति । आलम्बि लम्बमानो हारो यस्य तत्तादृशम् । पृथु विस्तीर्णं पीनं च सारङ्गाक्ष्या मृगाक्ष्याः कुचद्वन्द्वं मूढै रागोद्रेकाद्रा- गान्धत्वाद्यद्गाढमालिङ्गितं तदेव कुचयुगमन्तकाले निर्याणावसरे नरककलिले नरकपङ्के मज्जतां तेषां मूढानां कण्ठे लग्नातिस्थिरगुरुशिलाभावं बिभर्ति धारयति ॥ वचनानां स्वविवेकोत्पादकवैराग्यवचनानां रचनाडम्बरै रचनाटोपैर्भूयोभिर्बहुतरैः किं भवति । एतत्पूर्वोक्तं मदीयं सूक्तमवधार्य हे दीर्घशोका लोकाः, सुतरामतिशयेन युक्तं युक्तिम त्पश्चिमं ममैतद्वाक्यं सावधानाः शृणुत । दुःखो दुःखदायी उदर्क उत्तरं फलं यस्य स तादृशम् । परिणामदु:खदमित्यर्थः । प्रमुख आमुख एव सुखदं साङ्गं संपूर्ण त्यक्त्वा गाङ्गं सलिलं जाह्नवीजलं चामलं निर्मलं लब्ध्वा शंभुभक्तिमेव भजध्वं सेवध्वम् ॥ त्रैलोक्यं लम्भयन्तस्तृणगणगणनां रोहिणीकान्तलेखा- रेखालंकारभक्तिप्रमुदितमनसो निर्मलं घाम लब्धुम् । धन्याः संन्यासिनोऽन्तः कलिमलपटलं भूरिभिन्दन्त्यमन्दा मन्दाकिन्याः पयोभिः शशिमुकुटजटावैजयन्तीदुकूलैः ॥ २७ ॥ त्रैलोक्यं त्रिजगदपि सावहेलं तृणगणगणनां लम्भयन्तः प्रापयन्तः । अतीव निः- स्पृहा इत्यर्थः । चन्द्रकलालंकारस्य श्रीशंभोर्भक्त्या प्रमुदितं प्रकर्षेण मुदितं मनो येषां ते । तथा अमन्दा अजडाः । प्राज्ञा इत्यर्थः । संन्यासिनः श्रीशिवार्पणं विधाय कर्म संन्यासा धन्याः सुकृतिनो निर्मलं स्वच्छतरं परं ज्योतीरूपं धाम स्थानं परमपदं लब्धुं श्रीशशिमुकुटजटावैजयन्तीदुकूलैर्हरजटापताकाधवल पट्टाम्बरभूतैर्गङ्गाया वारिभि र्भूरि बहुलं कलौ तुरीययुगे मलानामाणवमायीयकार्मत्वेन त्रिविधानां समूहं भिन्दन्ति ॥ एवं देव प्रमेव स्मरहर सकलद्वीपदीपस्य भर्तु- र्भासामासादयन्ती विषमतमतमःखण्डने चण्डिमानम् । कारागारानुकारे परिभवति भवे बद्धमोहान्धकारे भावत्की भक्तिरेका शरणमशरणत्राणविश्राणिनी नः ॥ २८ ॥ हे देव स्मरहर श्रीशंभो, एवं पूर्वोक्तप्रकारेण वर्णिता विषमतममत्युत्कटं यत्तमोऽवि- द्यापरपर्यायमज्ञानं तस्य खण्डने चण्डिमानमुत्कटत्वमासादयन्ती प्राप्तवती बद्धः समु- न्नद्धो मोहोऽज्ञानमेवान्धकारो यस्मिंस्तादृशे कारागृहसदृशे बन्धके भवे संसारे परि- भवति परिभवं कुर्वति एका भावत्की भक्तिरेवाशरणानां नोऽस्माकं त्राणं परिपालनं तस्य विश्राणिनी दात्री शरणं भवति । केव । सकलद्वीपदीपस्य दिनमणे: प्रभा दीप्ति- रिव । सापि ध्वान्तच्छेदे चण्डिमानमासादयन्ती भवति ॥ ये विश्वस्थितिसर्गसंहृतिकृतो देवास्त्रयस्तेऽपि यं सेवन्ते मुखवीक्षणप्रणयिनो दृक्पातमात्रार्थिनः । यस्याः स प्रभुरप्रमेयमहिमा क्रीडाशकुन्तायते तां भक्ति भुवनत्रयाद्भुतमहामाहात्म्यशक्तिं स्तुमः ॥ २९ ॥ ये त्रयो देवा ब्रह्मविष्णुरुद्रा विश्वस्य सृष्टिस्थितिसंहारकार्यकृतस्तेऽपि किमयं परमेश आज्ञां विधास्यतीति मुखवीक्षणे परास्तत्परा दृगंशमात्रापेक्षिणो यस्य देवस्य सन्ति स प्रभुः शिवादिक्षित्यन्तस्य सर्गस्य स्वामी अमेयमहिमा यस्या भक्तेः क्रीडाशकुन्तवदाचरति । तदधीनो बद्धो भवतीत्यर्थः । तां त्रिभुवनेऽप्यद्भुतप्रभावशालिनीं श्रीशिवभक्तिं स्तुमः ॥ अथैतदारम्भेण कृतार्थमात्मानं मन्यमानः कविराह गावस्तावद्दुहाना रसमसमसुधासोदरास्वादबन्धुं भक्तिर्भर्गे निसर्गक्लमशमनचमत्कारभोगैकभूमिः । तृप्तिः स्वात्मावभासादनुपमपरमानन्दनिःस्यन्दसंवि- द्विश्रान्त्येकान्तहेतोरिति सपदि विपत्किंकरी किं करोतु ॥ ३० ॥ तावत्प्राथम्ये । असमोऽनन्यसमः सुधासोदरो य आस्वादस्तस्य बन्धुः लक्षणया सदृशस्तादृशं रसं मुख्यमत्र शान्तं रसं दुहाना गावो वाचोऽर्थान्मदीयाः । अथ गावोऽपि रसममृतं दुहानाः सन्ति । तथा निसर्गतः स्वभावेन क्लमः कष्टं तस्य शमनेन यश्चमत्कारयोगोऽत्यद्भुतत्वं तस्यैव भूमिर्भर्गे भक्तिरस्ति यदि । तथा स्वश्चासावात्मा तस्यावभासः प्रबोधस्तस्मादनुपमो यः परमानन्दस्तेन निःस्यन्दा या संविदात्मज्ञानं तस्यां विश्रान्तिः सैव एकान्तेन हेतुस्तस्माद्विश्रान्तिहेतोस्तृप्तिश्च । अमृतरसास्वादश्चमत्कारभोगस्तर्पणं चेति मे सन्ति । इति हेतोः किंकरी वराकी विपत्किं करोतु किं विधत्ताम् । एतानि वस्तूनि चेद्भवेयुस्तदाविपदवकाशो न भवतीत्यर्थ इति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरक महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ भक्तिस्तोत्रं नाम सप्तदशं स्तोत्रम् । अथातः सिद्धिस्तोत्रमारभमाण आह जयति जितविकारः क्लृप्तलोकोपकारः कृतविपदपकारः शान्तमोहान्धकारः । अतुलपुरुषकारः प्राप्तविश्वाधिकारः स्मररचितनिकारः पार्वतीचाटुकारः ॥ १ ॥ जिता विकाराः षडूर्मयः शीतातपाद्या येन सः । यद्वा जिता विकाराः षोडश, शब्दा- दयः पञ्च, बुद्धीन्द्रियाणि पञ्च, कर्मेन्द्रियाणि पञ्च, मनश्चेति येन सः । 'न प्रकृतिर्न विकृतिः पुरुषः' इति सांख्या: । तथा क्लृप्तो विहितो लोकोपकारो विश्वोद्धरणरूपो येन । तथा कृता विपदो जन्मजरामरणत्रासरूपाया अपकारो नाशो येन । तथा शान्तः शमं नीतो मोहोऽज्ञानमेवान्धकारो येन । तथातुलोऽसामान्यः पुरुषकारस्त्रिपुर- दाहान्धकवधकालकामदाहरूपोऽवदानविधिर्यस्य । तथा प्राप्तो विश्वस्य शिवादिक्षित्य- न्तस्याधिकारः परधामस्थितिर्येन स तादृशः । तथा स्मरस्य रचितः कृतो निकारो दाहरूपो येन सः । पार्वतीचाटुकार: पार्वतीप्राणसमः श्रीशिवो जयत्युत्कृष्टो भवति ॥ अतनुमतनुतामुं प्राणिनां पूर्णशक्ति- स्तनुभुवनगणं यः शर्मदः कर्मभुक्त्यै । दिशमदिशदशङ्कां शास्त्ररूपां च मुक्त्यै स भवतु भवदोषप्लोषकद्वो महेशः ॥ २ ॥ पूर्णशक्तिः स्वातन्त्र्यपरमैश्वर्यपूर्णः शर्म कैवल्यं ददातीति शर्मदो यो विभुः प्राणिनां देहिनां कर्मभुक्त्यै शुभाशुभकर्मभोगायातनुमनन्तममुं तनुभुवनगणं स्वतनुरूपभुवनानां कालाग्निरुद्रभुवनादारभ्य शिवभुवनान्तानां सचतुर्विंशतिशतद्वयपरिमितानां निवृत्त्या- दिपञ्चकलान्तर्गतानां भुवनानां गणं तमतनुत विस्तारयामास । तथा यः परमशिवो- शङ्कां शङ्कारहितां वेदागमशास्त्ररूपां दिशं मार्गमुपायं वा प्राणिनां देहिनां मुक्त्यै अ- दिशद्व्यूघत्त । 'दिगुपाये निदर्शने । मार्गे ककुभि च स्त्री स्यात्' इति मङ्खः । स महेशो भवस्य संसारस्य दोषाणां प्लोषकृद्दाहकृद्वो युष्माकं भवतु ॥ अनलसहितवृत्तौ सत्कलाभासशुद्धे बुधवरमुखपद्मे भारती निर्मलोर्मिः । वरद परमतापक्लेशजित्त्वत्प्रसादा- त्प्रभवति भवदीये मूर्धनि स्वर्धुनीव ॥ ३ ॥ हे वरद परमेश, त्वत्प्रसादाद्द्रुधानां पण्डितानां वरस्तस्य मुखपद्मे भारती सरस्वती प्रभवति । किंभूते मुखपद्मे । अनलसा आलस्यरहिता श्रीशिवस्तुत्युद्योगानुकूला हिता च वृत्तिः शब्दव्यापारो यस्मिंस्तादृशे । पुनः किंभूते । सत्यः शोभनाः कलाश्चतुःषष्टि- स्तासामाभासः शोभा तथा शुद्धे । भारती किंभूता । निर्मलोर्मि निर्मला ऊर्मय उल्लास- रूपास्तरङ्गा यस्याः सा तथा किंभूता। परमा उत्कटा ये तापा आध्यात्मिकाधिदैवि- काधिभौतिकास्तथा क्लेशा: पञ्चाविद्यादयस्ताञ्जयतीति तादृशी । भारती केव । भवदीये तावके मूर्ध्नि स्वर्धुनी गङ्गेव । सापि किंभूता । निर्मला ऊर्मयो वीचयो यस्याः । तथा परमो यस्तापः संतापस्तेन यः क्लेशस्तं जयतीति तादृशी । भवदीये मूर्ध्नि शिरस्यपि की दृशे । अनलेनाग्निना सहिता वृत्तिः स्थितिर्यस्य स तादृशे । पुनः किंभूते । सती या कला चन्द्रकला तस्या आभासेन प्रकाशेन शुद्धे । शब्दश्लेषोऽलंकारः ॥ भव भवमरुचारश्रान्तसंतापतान्ति- प्रशमनघनवर्षावारिवाहं तवाहम् । नमदमरकिरीटप्रोतरत्नांशुपूर- स्फुरदुरुसुरचापं पादपीठं प्रपद्ये ॥ ४ ॥ हे भव मद्देश, भवः संसार एव मरुर्निर्जलप्रदेशस्तत्र चारेण श्रान्तानां देहिनां यः स म्यगाध्यात्मिकादिस्त्रिविधस्तापः स एव संतापस्तस्य तान्तिर्विस्तारस्तत्प्रशमने घनं सान्द्रं प्रावृट्कालवारिवाहम् । तथा नमन्तो येऽमरा ब्रह्मविष्ण्वाद्यास्तेषां किरीटेषु मौ- लिषु प्रोतान्युम्भितानि यानि रत्नानि तदंशुपूर एव स्फुरदुरु इन्द्रचापं यस्मिंतादृशं त्वत्पादपीठमहं प्रपद्ये शरणमाश्रयामि ॥ करकलितकपोला बालशेवालशय्या- तललुलितमृणालीपेलवम्लानमूर्तिः । चिरविरहविनिद्रा रुद्रदृक्पातपात्रं दिशि दिशि निशि पश्यत्यङ्गनानङ्गभीरुः ॥ ५ ॥ करे दक्षिणेतरे कलितो न्यस्तः कपोलो वियोगवशाद्यया सा । तथा बालानि यानि शेवालानि जलनील्यस्ता एव शय्यातलं तत्र लुलिता लुठिता मृणालीवत्पेलवा कोमला म्लाना मूतिर्यस्याः सा । तथा चिरविरहेणोन्निद्रा । तथानङ्गभीरुः कामोद्रेककातरा अ ङ्गना वरकामिनी रुद्रस्य श्रीशंभोर्यो दृक्पातोऽनुग्रहदृष्ट्यंशपातस्तस्य पात्रं पुरुषं दिशि दिशि निशि रात्रौ पश्यति ॥ हरचरणसरोजद्वन्द्वभक्तिप्रसादा- दुपरि करिवराणां संचरन्तः सहेलम् । घनमदभरनिर्यन्निर्भरामोदलोभ- स्खलदलिकुलगीतं स्फीतमाकर्णयन्ति ॥ ६ ॥ श्रीशंभुपादाब्जभक्तिप्रसादाद्गजेन्द्राणामुपरि सहेलं संचरन्तः श्रीशंभुभक्ता घनो यो मदभरो मदाम्बुभरस्तस्मिन्निर्यन्निर्भरामोदस्तस्य लोभेन स्खलद्यदलिकुलं तस्य गीतं स्फीतं पूर्णमाकर्णयन्ति शृण्वन्ति ॥ चरणकमलयुग्मं देव निर्दम्भभक्ति- ग्रहपुलकितदेहस्तावकं यो ननाम । अधिवसति स सेवानम्रसामन्तमौलि- स्खलितबकुलमालालालितं पादपीठम् ॥ ७ ॥ हे देव परमेश, निर्दम्भा निश्छद्मा या भवद्भक्तिस्तस्या ग्रहेण रोमाञ्चितो देहो यस्य तादृग्यो धन्यस्तावकं पादाब्जयुगलं ननाम स सुकृती पुण्यवान्सेवायां नम्रा ये सामन्ता मण्डलेश्वरा नृपास्तेषां मौलिभ्यः स्खलिता या बकुलाख्यकुसुम मालास्ताभिर्लालितं सुर- भितं पूरितं च पादपीठमधितिष्ठति ॥ शशिशकलशिखण्ड त्वत्प्रसादेन धन्याः सितकरधवलाभ्यां चामराभ्यां विभान्ति । उभयत इव वक्त्रं भाविरुद्रत्वलाभ- प्रकटनपिशुनाभ्यां स्वर्णदीनिर्झराभ्याम् ॥ ८ ॥ हे शशिशकलशिखण्ड चन्द्रार्धमौले, धन्याः सुकृतिनस्त्वत्प्रसादेन वक्त्रमुभयतः पार्श्व- द्वयेऽपि स्वर्धुनीनिर्झराभ्यामिव सितकरधवलाभ्यां चामराभ्यां विभान्ति । स्वर्धुनीनिर्झ- राभ्यां किंभूताभ्याम् । भावी यो रुद्रत्वलाभस्तस्य प्रकटनं तस्य पिशुनौ सूचकौ ता- भ्याम् । 'पिशुनौ खलसूचकौ' इत्यमरः ॥ क्षितिधरपतिपुत्रीवल्लभ त्वत्प्रसादा- द्दधति जगति धन्या मूर्ध्नि धौतातपत्रम् । घटयितुमधिकत्वं स्वात्मनोऽपि त्वयैत- त्सकलमिव वितीर्णं मण्डलं शीतरश्मेः ॥ ९ ॥ हे पार्वतीवल्लभ श्रीशंभो, धन्याः सुकृतिनो जगति भूमण्डले त्वत्प्रसादान्मूर्ध्न्यापत्रं छत्रं दधति । अत्रोत्प्रेक्षामाह—स्वात्मनोऽर्धेन्दुधारिणोऽपि सकाशादधिकत्वं लम्भयितुं तेषां त्वया विभुना एतत्सकलं शीतरश्मेर्मण्डलं वितीर्णं दत्तमिव ॥ अयि हृदय दयार्द्रः स्वर्धुनीनीरधारी त्वयि विहरति हस्तन्यस्तपीयूषकुम्भः । यदि हिमकरलेखाशेखरः कोऽपरस्ते भवदवविनिवृत्तौ शंस शीतोपचारः ॥ १० ॥ अयि आमन्त्रणे । अयि हृदय, दयया कृपयामृतरसेनार्द्रः । तथा स्वर्धुनीनीरधारी स्वर्गङ्गाजलप्रवाहधारी । तथा हस्ते न्यस्तः पीयूषकुम्भोऽमृतकलशो येन स तादृशः । तथा हिमकरलेखाशेखरः स्वामी यदि त्वयि विहरति रमते त्वं शंस तर्हि भवः संसार एव दवाग्निस्तस्य विनिवृत्तौ शान्तौ कोऽपरः शीतोपचारः ॥ सुरवरनुतधैर्या वैरिदुर्वारवीर्या जगति विविधशास्त्रप्रस्तुताचार्यचर्याः । दधति भुवनतन्त्रं कोटिशो रुद्रवर्याः कृतसततसपर्या ये पुरा शंकरस्य ॥ ११ ॥ पुरा पूर्वजन्मनि ये धन्याः शंकरस्य कैवल्यदायिनो महेशस्य कृता सततं सपर्या पूजा यैस्ते तादृशा भवन्ति ते सुकृतिनः सुरवरैर्ब्रह्मादिभिरपि नुतं धैर्यं येषां ते तादृशाः । तथा वैरिभिर्दुर्वारं दुर्निवारं वीर्यं येषां ते तादृशाः । तथा जगति भूमण्डले विविधानि यानि शास्त्राणि चतुर्दशविद्यास्थानानि तैः प्रस्तुता कृता आचार्यचर्या दैशिकक्रमो येषां तादृशाः । तथा रुद्रवद्वर्या वरणीयाः । उत्कृष्टा इत्यर्थः ।.......…॥ गिरि गिरिवरकन्याकान्त शान्तप्रथायां करकरणगणेऽपि क्षामतामश्नुवाने । गलगलदवकाशे वापि कीनाशपाशे भव भवति विना त्वां प्राणिनां त्राणकृत्कः ॥ १२ ॥ हे गिरीशकन्याकान्त श्रीशंभो, प्राणिनां देहिनां वृद्धत्वावस्थायां गिरि वाचि शान्त- प्रथायां शान्ता प्रथा विस्तारो यस्याः सा तादृश्यां मिवृत्तविस्तारायां गद्गदायां स त्याम् । तथा कराः पाणयः करणानि बुद्धीन्द्रियकर्मेन्द्रियाणि तेषां गणस्तस्मिंश्च क्षा- मतां कार्श्यमश्नुवाने प्राप्ते । तथा कीनाशपाशे यमपाशेऽपि गलगलदवकाशे वा । वाश- ब्दश्चार्थे । गले गलन्पतन्नवकाशो यस्य तस्मिन्गलगलदवकाशे च । गलापतिते यमपाश इत्यर्थः । एतत्संकटे च हे विभो भव, प्राणिनां देहिनां त्वां विना कस्नाणकृत् । शरणं न कोऽपीत्यर्थः ॥ शयशयननिविष्टं वक्त्रमापाण्डुगण्डं मतिमतिविरहेण [^१]ग्लानिभाञं वहन्ती । तनुतनुलतिकार्तिं मानिनी व्याहरन्ती हर हरति न धैर्यं त्वत्समाधौ बुधानाम् ॥ १३ ॥ [^१]. 'ग्लानिभावं' ख. हे हर शंभो, शयः कर एव शयनं तत्र निविष्टम् । आ समन्तात्पाण्डू गण्डौ यस्य त त्तादृशं वक्रं वहन्ती । तथातिविरहेण चिरविरहेण ग्लानिभाजं खेदभाजं मतिं बुद्धिं व हन्ती । तथा तनुः कृशा तनुलतिका यस्याः सा तादृशी । आर्ति रागान्धत्वं व्याह- रन्ती सखीं प्रति मानिनी मानवत्यङ्गनापि त्वत्समाधौ त्वामुद्दिश्य यः समाधिर्ध्यानसंली- नमनस्कत्वं तस्मिन्बुधानां जितेन्द्रियाणां विदुषां धैर्यं न हरति । 'पञ्चशाखः शयः पाणिः' इत्यमरः ॥ दलदलघुविवेकं व्यक्तशोकातिरेकं विश विशदमनन्त स्वान्तमन्तः प्रशान्तम् । भव भव भवदाहध्वंसवर्षाम्बुवाहः कलिकलितरुजानां सप्रजानां प्रजानाम् ॥ १४ ॥ हे अनन्त, ब्रह्मादिभिरप्यलब्धपार, विशदं निर्मलं भवदीयध्यानादन्तः प्रशान्तमि- न्द्रियशौटीर्यं तिरस्कुर्वत् । तथा दलन्खण्डशो गच्छन्नलघुर्महान्विवेको यस्य तत् । तथा व्यक्तः शोकस्य जन्मजरामरणदुःखस्यातिरेको यस्य तादृशम् । कलिना तुरीययुगेन क लिता कृता पीडा येषां तादृशाः कलिकलितरुजास्तासाम् । रुजाशब्द आकारान्तः । सप्रजानां सह प्रजया संतत्या वर्तन्ते यास्ताः सप्रजास्तासां सप्रजानां प्रजानां भव एव दवो दवाग्निस्तेन दाहस्तस्य ध्वंसे वर्षाम्बुवाहो वर्षाकालिको मेघो भव संपद्यस्व ॥ दहदहतममोघं पाप्मनां दीर्घमोघं रुचिरुचिरममन्दं सुन्दरानन्दकन्दम् । दिश दिशदुपदेशं नाशितक्लेशलेशं मधुमधुरमुदारं वाक्यपीयूषसारम् ॥ १५ ॥ हे नाथ, त्वं वाक्यपीयूषसारं वाक्यामृतसारं दिश देहि । किंभूतम् । अहतं केनापि न हतम् । तथा किंभूतम् । पाप्मनां पापानां दीर्घं विस्तीर्णमोघं समूहं दहत् । पुनः किं- भूतम् । रुच्याभिलाषेण रुचिरं रम्यम् । पुनः किंभूतम् । अमन्दमनल्पम् । पुनः किंभू- तम् । सुन्दरो य आनन्दः परमानन्दस्तस्य कन्दं मूलम् । पुनः किंभूतम् । उपदेशं कर्म- भूतं दिशद्ददत् । किंभूतमुपदेशम् । नाशितः क्लेशानां लेशो येन तत् । तथा किंभूतम् । मधुवन्मधुरम् । पुनः किंभूतम् । उदारम् ॥ सरति सरतिरन्तर्घस्मरो मारवीर- श्चलति च लतिकेव स्फीतभीतिर्मनीषा । तमहितमहिमानं नाथ निक्षिप्य चक्षुः शमय शमयमेति प्रीतिमान्येन लोकः ॥ १६ ॥ हे नाथ, घस्मरो जगद्भक्षकः सह रत्या स्वस्त्रिया वर्तते यः स सरतिर्मारवीरोऽन्तर्ह- दये सरति संचरति । 'सृ गतौ' धातुः । तथा स्फीता भीतिर्यस्याः सा स्फीतभीतिर्ज- न्मजरामरणादित्रासेन मनीषा बुद्धिश्चलति कम्पते । केव । लतिकेव सूक्ष्मलतेव । हे नाथ, अहितो न हितकारी महिमा यस्य स तादृशस्तं मारवीरं स्मरभटं शमय प्रशान्तं कुरु । किं कृत्वा चक्षुर्निक्षिप्य । कुतस्तत्कुर्वित्याह- येन हेतुना प्रीतिमान्संतुष्टोऽयं लोको मादृशः शं कल्याणमेति लभते ॥ जघनजघनशोभा स्पर्धमाना सभृङ्गं कमलकमलकान्तक्रान्तभासा मुखेन । मुदितमुदितरागा सेवते देव रामा मदनमदनवीनैस्त्वत्प्रपन्नं विलासैः ॥ १७ ॥ हे देव शंभो, जघनाज्जाता घना शोभा यस्याः सा तादृशी । तथालकानां चूर्णकुन्त- लानामन्तास्तैः क्रान्ता भा यस्य तदलकान्तक्रान्तभास्तेन तादृशेन मुखेन सभृङ्गं भ्र मरसहितं कमलकं पद्मं स्पर्धमाना । कमलमेव कमलकम् । स्वार्थे कः । तथा उदितो रागो यस्याः सा उदितरागा रामा रमणी मदनश्च मदश्च ताभ्यां नवीनैर्विलासैस्त्वत्प्रप- न्नस्त्वां शरणं प्राप्तस्तं सेवते । कीदृशम् । मुदितम् ॥ जनितजनितरङ्गं जृम्भयन्ती भवाब्धिं कलितकलितमिस्रा नाथ कादम्बिनीव । हरति हर तितिक्षोन्माथिनी मोहमूर्छा महितमहित[^१]वृद्धिः शुद्धबोधप्रकाशम् ॥ १८ ॥ हे हर हे नाथ, 'जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः' इत्यमरः । जनिता जनयो जन्मान्येव तरङ्गा येन स तं भवाब्धिं संसाराब्धिं जृम्भयन्त्युल्लासयन्ती तथा कलितं वि- हितं कलिस्तुरीययुगः कलहो वा स एव तमिस्रं यया सा कादम्बिनी मेघमालेव । सापि विहिततमिस्रा । तथा तितिक्षां क्षमामुन्मथ्नातीति तितिक्षोन्माथिनी । तथा अ हितवृद्धिर्यस्याः सा मोहमूर्छा अविद्यापर्यायाज्ञानमूर्छा महितं पूजितं शुद्धबोध एव प्र- काशस्तं हरति ॥ भजति भज तिरश्चीं दृष्टिमिष्टप्रसादां कृतसुकृतसुमेधःप्रैधिताभीष्टसिद्धिम् । तिरयति रयमीश व्यापदां दुःसहानां शमनशमनदक्षं त्वां विना नाथ कोऽन्यः ॥ १९ ॥ [^१]. 'बुद्धिः' ख. हे ईश जगदीश तिरश्चीं तिर्यक्पातिनीं इष्टः प्रसादो यस्यास्तां दृष्टिं भज आश्रय । कस्मिन् । भजति सेवमाने मयि । तिर्यक्कटाक्षं मयि मुश्चेत्यर्थ: । दृष्टिं किंभूताम् । कृतं सुकृतं यैस्ते तादृशा ये सुमेधसस्तेषु प्रकर्षेणैघिता वर्धिताभीष्टसिद्धिर्यया सा तादृशीम् । शमनस्य यमस्य शममं शान्तिस्तत्र दक्षस्तं तादृशं त्वां विना हे नाथ, दुःसहानां व्या- पदां जन्मजरामरणरूपव्यापत्तीनां रयं वेगं कोऽन्यस्तिरयति तिरस्करोति ॥ समरसमरजोभिः स्वान्तमन्तर्वहद्भि- र्हितविहितवियोगं मोहमाहन्तुकामैः । भवविभवविमुक्तैर्योगिभिर्योऽभ्युपेत- स्तमहतमहनीयश्लाघमीशं प्रपद्ये ॥ २० ॥ समः स्वर्णलोष्टयोस्तृणस्त्रैणयोः सर्पहारयो रसो यस्य तत्समरसमन्तः स्वान्तं व हद्भिः । तथा अरजोभिर्निष्पापैः । तथा हितस्य भवाब्ध्युत्तरणस्य विहितः कृतो वि- योगो येन स तादृशं मोहमज्ञानमाहन्तुकामैः । तथा भवे जन्मनि ये विभवास्तैर्विमुक्ता- स्तादृशैर्योगिभिरष्टाङ्गयोगरतैर्य ईशो जगदीशः परमशिवोऽभ्युपेत आश्रितस्तमीशं स्वा- मिनमहता न हता महनीया श्लाघा स्तुतिर्यस्य तादृशं प्रपद्ये शरणं यामि ॥ अकलितमहिमानं ध्वस्तमिथ्याभिमानं [^१]दददमृतसमानं बोधमाभासमानम् । प्रकटितलघिमानं दुर्वहं वर्धमानं भवभवमवमानं भिन्द्धि मे बाधमानम् ॥ २१ ॥ हे विभो, अकलितः केनापि न ज्ञातो महिमा यस्य स तादृशम् । तथा ध्वस्तो मिथ्याभिमानो मिथ्याहंकारो येन स तादृशम् । अमृतसमानं पीयूषतुल्यमा समन्ता- द्भासमानं प्रकाशमानं बोधं तत्त्वज्ञानं ददद्वितरत् । भक्तजनायेति शेषः । प्रकटितो ल- घिमा लघुत्वं येन तादृशम् । तथा दुर्वहम् । तथा वर्धमानं वृद्धिं भजन्तम् । तथा बाध- मानं चावमानं तिरस्कारं त्वं मे भिन्द्धि ॥ एतस्य स्तोत्रस्योपसंहारार्थं वृत्तचतुष्टयमाह–किमिवेत्यादि- किमिव मणिभिः किं वा मन्त्रैः किमौषधसंग्रहै- रिह बहुविधैः किं वा कार्यं परैरपि भेषजैः । अमृतमपि न प्रायः पापोपतापशमक्षमं व्रजत शरणं तस्मादेकं हरं करुणापरम् ॥ २२ ॥ मणिभिर्हीरकपद्मरागमरकतादिभिः किमिव भवति । तथा मन्त्रैः प्रत्यङ्गिराविद्यादि [^१]. 'दधत्' क- ख. महामन्त्रैः किं वा भवति । तथा औषधसंग्रहैरौषधानां विशल्याद्योषघिविशेषाणां ये सं ग्रहाः समुदायास्तैश्च किं भवति । परैर्मेषजैरगदैः पथ्यैरपि किं वा कार्यं भवति । प्रायो निश्चये । अमृतमपि रसायनमपि जन्मजरामरणत्रासकारणेन य उपतापस्तस्य शमस्तत्र क्षमं न भवति । तस्मात्करुणापरं दयानिधिं तं प्रसिद्धमेकं हरं शरणं व्रजत गच्छत यू- यम् । स एव केवलं मोक्षदायीत्यर्थः ॥ इह हि गिरिषु प्रालेयाद्रिर्महःसु विभावसु- र्गुरुषु जननी मन्त्रेष्वेकाक्षरं परमं पदम् । सखिषु सुकृतं वैरिष्वंहो नदीषु नभोनदी प्रभुषु च परः स्वामी देवः शशाङ्कशिखामणिः[^१] ॥ २३ ॥ हि निश्चये प्रसिद्धौ वा । गिरिषु निषधविन्ध्यादिषु मध्ये प्रालेयाद्रिर्हिमाचल: पर उत्कृष्टो भवति । कुत्र । इह भूर्लोके । तथा महःसु तेजःसु मध्ये विभावसुः विभा दीप्ति- र्वसु धनमस्य विभावसुः सूर्यः परो भवति । तथा गुरुष्वाचार्येषु मध्ये जननी माता प राभवति । 'पतिता गुरवस्त्याज्या न तु माता कदाचन । गर्भधारणपोषाभ्यां तेन माता गरीयसी ॥' इति स्मृतेः । तथा मन्त्रेषु मननधर्मेषु मध्ये एकं च तदक्षरं न क्षरति स्व- रूपात्प्रचलतीत्यक्षरं परमुत्कृष्टं पदम् । अकारोकारमकारात्मकं प्रणवाख्यं परमुत्कृष्टं भ वति । सखिषु मित्रेषु बाह्येषु मध्ये सुकृतमेव परं मित्रम् । परस्मिंल्लोकेऽपि साहायकवि- धानात् । वैरिषु शत्रुषु बाह्येषु मध्येंऽहः पापमेव परः शत्रुः । तस्यैव पुनःपुनर्जन्मयात नाहेतुत्वात् । नदीषु यमुनादिषु च नभोनदी स्वर्गङ्गैव परा उत्कृष्टा भवति । प्रभुषु ब्रह्म- विष्ण्वादिषु च मध्ये एकः शशाङ्कशिखामणिचन्द्रशेखरः परोऽत्युत्कृष्टः ॥ न यावदवहीयते धृतिधुरा जराविप्लवै- र्न जीयेति सरस्वती न च विशीर्यते शेमुषी । न चामयभुजंगमैरवशमङ्गमालिङ्ग्यते भजध्वमजरं विभुं भवजयाय तावद्बुधाः ॥ २४ ॥ हे बुधाः सचेतसः, जराया विस्रुसाया विप्लवैः करचरणादिवैकल्यदायिभिर्धृतेर्धैर्यस्य धुरा भारो यावन्नावहीयते हीना भवति । यावन्न सरस्वती वाणी जीर्यति गद्गदा भवति यावन्न शेमुषी बुद्धिर्विशीर्यते जीर्णा मन्दतरा न भवति । तथा आमया रोगा एव क्रूर- त्वाद्भुजंगमास्तैरवशं न स्वायत्तमङ्गं शिरःप्रभृति यावन्नालिङ्ग्यते तावदेवाजरमक्षरमनन्तं विभुं परमशिवं भवजयाय जन्मशृङ्गलोत्तरणाय भजध्वं सेवध्वम् ॥ अथेदानीं पूर्वोक्तनवनवस्तवप्रसूनसमर्पणया कृतकृत्यमात्मानं मन्यमानः कविरुपसंहारश्लोकेनाह [^१]. 'शिरोमणिः' ख. अराणि करुणं मुहुर्मुहुरकारि चाटु प्रभो - रभावि भवभावनामुदितचेतसान्तर्मुहुः । अलोठि मुकुटं मुहुश्चरणपीठिकाविष्टरे किमन्यदखिलं जितं करतले कृताः सिद्धयः ॥ २५ ॥ मया वराकेण मुहुर्मुहुस्तव प्रभोः पुरः करुणं दीनमराणि अकथि । तथा मया मुहु- र्मुहुः प्रभोर्जगदीशस्य चाटु चाटुवचनमकारि । तथा मया भवत्यस्मात्सर्वं शिवादि क्षित्यन्तं विश्वमिति भवः । तस्मिन्या भावना शिवैकताध्यानं तेन मुदितं चेतो यस्य स तेन मुहुरभावि संपनम् । तथा चरणपीठिकाविष्टरे श्रीशंभुचरणपीठिकासने मया मु- कुटं स्वकीयमलोठि लोठितं मृदितम् । किमन्यदाशासे । एतदभीष्टावश्यविधेयविधा- नातू । मयाखिलं विश्वं जितम् । अस्माभिर्निजकरतले समस्ताः सिद्धयः कृता इति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ सिद्धिस्तोत्रमष्टादशम् । एकोनविंशं स्तोत्रम् । अथातः श्रीभगवद्वर्णनं नामैकोनविंशं स्तोत्रमारभमाण आह यत्ते परं वरद रूपमतीतमेव मार्गं गिरां तदिह कः क्षमते [^१]गृणातुम् । अग्राहि यत्तु नतलोकमनुग्रहीतुं बालेन्दुलक्ष्म भवता तदिदं गृणामि ॥ १ ॥ हे वरद, यत्ते स्वामिनः परं रूपं परादपि परतरं निष्कलाख्यमल्लक्षणार्थम् । मनसो- ऽप्यतीतमित्यर्थः । 'अवाङ्मनसगोचरम्' इति स्मृतेः । तत्ते रूपमिह जगति को गृणातुं स्तोतुं क्षमते । 'गृ स्तुतौ' धातुः । ब्रह्मादिभिरपि तन्महिम्नोऽदृपाष्टरत्वात्तत्स्तोतुं न श क्यत इत्यर्थः । हे दयालो, यत्तु भवता स्वामिना नतलोकं प्रह्वजनमनुग्रहीतुं रूपं बाले- न्दुलक्ष्म चन्द्रलाञ्छनम् । एतदप्युपलक्षणार्थम् । त्रिनेत्रं मुकुटमण्डितमित्यादि स कलं रूपं गृहीतं तदेवेदानीं लेशेन गृणामि ॥ आस्तां परं यदपरं तदपि त्वदीयं दिव्यं वपुर्नहि महेश विमर्शयोग्यम् । [^१]. 'गरीतुं' ख. यत्किंचिदेव तु विकल्पविकल्प्यमान- मानन्दधाम तदपीह [^१]भवार्तिभाजाम् ॥ २ ॥ हे महेश, परं रूपं त्वदीयमास्तां तिष्ठतु । भावत्कं रूपं लोकोत्तरमवाङ्मनसगोचरं न तावदस्माभिर्वर्णयितुं शक्यमित्यर्थः । हे महेश, यत्तु तव रूपं अपरं न परं तदपि त्वदीयं दिव्यं वपुर्दिव्यचक्षुषां विमर्शयोग्यं न भवति । अस्मादृशां तु चर्मचक्षुषां कैव कथेत्यर्थः । तु पक्षान्तरे । यत्किंचिद्विकल्पैर्बुद्धिविकल्पैर्विचार्यमाणं बालेन्दुकलाघरत्रिनेत्रजटामुकुटमण्डितत्वादिविकल्पितं तदपीह जगति भवे संसारे आर्तिभाजामानन्दधाम । मूर्तिर्ध्रुवं तव [^२]शिवामृतवर्तिरेना- मासाद्य यत्कतिचिदश्रुलवाः पतन्ति । नश्यत्यघौघपटलं तिमिरं व्यपैति रागः प्रशाम्यति दृशः प्रथते प्रसादः ॥ ३ ॥ हे शिव, कैवल्यदायिन्, ध्रुवं निश्चयेन तव मूर्तिरमृतवर्ती रसायनवर्तिः । सुधागुलि- कास्तीत्यर्थः । यद्यस्मात्कारणादेनां भवन्मूर्तिवर्तिमासाद्य शिवैकताध्यायिनो भक्तजनस्य कतिचिदश्रुकणाः प्रमोदाश्रुकणा यत्पतन्ति तथाघौघस्य पटलं समूहो नश्यति । तिमिरं मोहान्धकारो व्यपैति दूरे गच्छति । तथा रागो विषयेष्वासक्तिः प्रशाम्यति । तथा दृशो ज्ञानस्य प्रसादोऽनुग्रहः प्रथते प्रकटीभवति । अथ च स्वच्छरसगुलिकयापि कतिचित्क- लुषदुष्टाश्रुलवाः पतन्ति । तथा पटलमप्यायुर्वेदप्रथितो नेत्ररोगविशेषोऽपि नश्यति । तथा तिमिरमपि नेत्ररोगविशेषो नश्यति । रागो नेत्रयो रक्तता च दूरीभवति । दृ- शश्चक्षुषः प्रसादो नैर्मल्यं भवति । अत्र शब्दशक्तिमूलोत्प्रेक्षा ॥ सत्यं महार्धगुणरत्ननिधानमेत दालम्बनं तव वपुर्विपदर्दितानाम् । नो चेन्नखांशुभरकेसरितं किमत्र पादाभिधं युगपदुद्गतमब्जयुम्मम् ॥ ४ ॥ सत्यं निश्चितम् हे विभो, विपदर्दितानां विपदा भवार्त्यार्दितानां पीडितानामालम्ब- नमाधारस्तव वपुर्महार्घा बहुमूल्या ये गुणाः सार्वज्ञपारमैश्वर्यस्वातन्त्र्यासुरविजयत्वाद- यस्त एव रत्नानि, तेषां निधानं निधिभूतमेतत्तव वपुः सत्यमस्ति न चेदेतन्नखांशुसमूह- केसरितं किंजल्कयुक्तं तव पादयुग्मनामकमब्जयुग्ममत्र किमुत्पन्नम् । अब्जद्वयसां- निध्ये निघानमनुमीयत इत्याशयः । अनुमानालंकारः ॥ पादद्वयं तव भव प्रणतिप्रकर्षहर्षाश्रुबिन्दुभरदन्तुरिताङ्गुलीकम् । [^१]. 'भवार्दितानाम्' क. [^२]. 'अमृतमूर्ति:' ख. नीहारशीकरपरिष्कृतपत्रपङ्क्ति पङ्केरुहद्वितयकान्ति भजन्ति धन्याः ॥ ९ ॥ हे भव श्रीशंभो, प्रणतीनां प्रकर्षः पुनःपुनर्दण्डवत्प्रणामानां प्रकर्षस्तेन यो हर्षः पर- मानन्दस्तेन य उद्भूतोऽश्रुबिन्दुप्रवाहस्तेन दन्तुरिता विचित्रीकृता अङ्गुलयो यस्य त त्तादृशं तवाङ्घ्रिद्वयं धन्याः सुकृतिनो भजन्ति सेवन्ते । किंभूतम् । नीहारकणैरवश्याय- कणैर्भूषितपद्मयुग्मसदृशम् ॥ भस्मोज्ज्वलं त्रिदशशेखर पद्मराग- दीप्रप्रभारुणितमङ्घ्रिसरोजयुग्मम् । वन्दामहे घुसृणरेणुपरागगर्भ- कर्पूरपांसुभिरिव च्छुरितं स्मरारेः ॥ ६ ॥ भस्मना भूत्योज्ज्वलं धवलम् । 'उज्ज्वलो दीप्तशृङ्गारविशदेषु विकासिनि' इति विश्वः । तथा त्रिदशानां ब्रह्मादीनां शेखरेषु मुकुटेषु ये पद्मरागा मणिविशेषास्तेषां या दीप्राः प्रभास्ताभिररुणितमारक्तीकृतं स्मरारे: श्रीशंभोः पादद्वयं वयं वन्दामहे । की- दृशमिव । घुसृणरेणूनां कुङ्कुमकेसराणां यः परागो धूलिः स गर्भे येषां तादृशा ये कर्पूर- पांसवस्तैश्छुरितं व्याप्तमिव । 'देवताः पादतो वर्ण्या मनुष्या मुखतस्तथा' इति कवि- शिक्षायां कविसंप्रदायः ॥ जङ्घ्यालतायुगलमाश्रितगुल्फमूल- भोगीन्द्रभोगसुभगाभिनवालवालम् । शंभोरभीष्टफलदं भवतापतान्ति- शान्तिक्षमं शमयितुं विपदं श्रयामि ॥ ७ ॥ अहं श्रीशंभोर्जङ्घालतायुगलम् । अत्र लता औचित्यात्कल्पलता बाह्या । अत एव विपदं शमयितुमिति चोक्तम् । जङ्घाकल्पलतायुग्मं विपदं भवार्तिरूपां शमयितुं श्र- यामि । किंभूतम् । आश्रितं गुल्फयोः पादग्रन्थ्योर्मूलं यैस्ते तादृशा ये भोगीन्द्राः फणी- न्द्रास्तेषां भोगाः फणा एव सुभगं रम्यं नवमालवालं यस्य तत् । लतायुग्मस्य च मूले आलवालेन भाव्यम् । तथा किंभूतं जङ्घाकल्पलतांयुगलम् । अभीष्टफलदम् । तथा भवे संसारे यस्तापस्त्रिविध आध्यात्मिकादिः स एव तापः संतापस्तेन या तान्तिः क्लान्ति- स्तस्याः शान्तौ क्षमम् ॥ वन्दे युगान्तसमयोषितसप्तलोकं लोकोत्तरं जठरमीश्वरभैरवस्य । यत्रैति नाभिकुहरं जगदादिसर्ग- निर्यज्जनौघनवनिर्गममार्गभङ्गिम् ॥ ८ ॥ युगान्तसमये कल्पान्तकाले उषिता अन्तःस्थिताः भूर्लोकायाः सप्तलोका यस्मिंस्तत्तादृशं लोकोत्तरं दिव्यमीश्वरभैरवस्य ईश्वरश्चासौ भैरवस्तस्य श्रीशंभोर्जठरं तदुदरं वन्दे प्रणौमि । तत्किमित्याह – यस्मिञ्शंभुजठरे नाभिकुहरं नामिरन्ध्र जगतो भूर्लोकादिजगतो यः सर्गस्तत्र निर्यच्चासौ जनौघस्तस्य नवो निर्गमनार्थं मार्गस्तस्य विच्छित्तिमेति । यदा स्वतन्त्रो विभुर्निजेच्छया विश्वस्य निर्माणं विधत्ते तदीयनाभिविवरात्सप्तभुवनानि निर्यान्तीत्याशयः । सिन्दूरितामरमतङ्गजकुम्भशोभि संध्याभिताम्रशरदम्बुधरानुकारि । वन्दे फणीन्द्रफणरत्नरुचारुणाभं भस्मौघभास्वरमुरः [^१]पुरशासनस्य ॥ ९ ॥ भस्मौघेन भासुरो धवलश्चायम् । तथा फणीन्द्राणामर्थात् हारीकृतानां वासुकिप्रभृ तीनां ये फणास्तेषु यानि रत्नानि तेषां रुचारुणाभं पुरशासनस्य त्रिपुरारे: श्रीशिवस्योरः- स्थलं वन्दे । किंभूतम् । सिन्दूरितः सिन्दूरेण शृङ्गारितो योऽमरमतङ्गजस्यैरावणस्य स्वतो धवलवर्णस्य धवलवर्णो यः कुम्भस्तद्वच्छोभत इति सिन्दूरितामरमतङ्गजकुम्भशोभि । पुनः किंभूतम् । संध्यया प्राक्संध्ययाभिताम्रो यः शरदम्बुधरस्तमनुकरोतीति तादृक् ॥ स्वामिन्नमी तव भुजा भुजगाधिराज- भोगोपगूढवपुषो हृदयं मदीयम् । आनन्दयन्ति बत भीमभवोपताप- निर्वापणेन विटपा इव चन्दनस्य ॥ १० ॥ हे स्वामिञ्जगदीश, भजगाधिराजानां वासुकिप्रभृतीनां भोगैः कायैरुपगूढं वपुर्यस्य स तादृशस्य तवामी भुजा मदीयं हृदयमानन्दयन्ति । भीमश्चासौ भवोपतापो जन्मा- द्युपतापस्तस्य निर्वाणं शमनं तेन । संसारसंतापनिवारणेनेत्यर्थः । भुजाः क इव । च- न्दनद्रुमस्य विटपा इव । चन्दनस्यापि किंभूतस्य । फणीन्द्रभोगोपगूढवपुषः । भुजगेत्या- दिविटपविशेषणं वा । तेऽपि संतापनिवारणेन हृदयमानन्दयन्ति ॥ मध्यस्थितेरुभयपार्श्वगता चकास्ति हस्तस्य मेरुपरिमर्शविनाकृतेयम् । अव्याहतग्रहवशाहितयोगसिद्धि- र्नक्षत्रपङ्क्तिरिव देव तवाक्षमाला ॥ ११ ॥ [^१]. 'स्मरशासनस्य' ख. हे देव परमेश, अव्याहतोऽव्युच्छिन्नो यो ग्रहो हेवाकस्तस्य वशेनाहिता धृता यो- गस्याष्टाङ्गस्य सिद्धिर्यया सा तादृशी । मध्ये मालाया मध्ये स्थितिर्यस्य स तादृशस्य ह- स्तस्य करस्य त्वदीयस्योभयपार्श्वे उभे पार्श्वे गता । तथा मेरोर्मध्यस्थरुद्राक्षफलस्य प रिमर्श: स्पर्शस्तेन विनाकृता रहिता । 'मेरुं नैव तु लङ्घयेत्' इति तन्त्रोक्तेः । तवाक्ष- माला रुद्राक्षमाला चकास्ति राजते । 'श्रियेऽस्तु' इति च पाठो दृश्यते । अकारादि- क्षकारान्तवर्णानां पञ्चाशतां शिवशक्तिमयत्वेन द्विगुणितानां भवादिमूर्त्यष्टकेन सहिताना- मष्टोत्तरमालाक्षमालेति । तन्त्रराजे - 'अकारादिक्षकारान्तवर्णाः पञ्चाशतिः प्रिये । शिवशक्तिस्वरूपेण द्विगुणाः साष्टमूर्तिकाः ॥ अष्टोत्तरशतं तेषामक्षमाला प्रकीर्तिता ॥' इति । नक्षत्रपङ्क्तिरिव । किंभूता । मध्यस्थितेर्नक्षत्रमध्यस्थितस्य हस्तस्य सवितृदैवतस्य हस्तर्क्षस्योभयपार्श्वगता । तथा मेरोर्देवगिरेः परिमर्शेन स्पर्शेन विनाकृता रहिता । त दन्तेऽन्तरिक्ष एव तद्गतेः । पुनः किंभूता । अव्याहता ये ग्रहाः सूर्यादयस्तेषां वशेना- हिता योगानां विष्कम्भादीनामानन्दादीनां वा सिद्धिर्यया सा ॥ त्वं कालभैरववपुर्ज्वलितानलाश्रि लोलाङ्गुलीवलनमण्डलितं दधानः । संहाररात्रिषु निनर्तिषुरीश शूलं बालार्कचुम्बितनवाम्बुदभङ्गिमेषि ॥ १२ ॥ ज्वलितानला अश्रयो धारा यस्य तत्तादृशम् । तथा लोला या अङ्गुल्यस्ताभिर्वल- नेन भ्रामणेन मण्डलितं मण्डलाकारं भ्रामितं शूलं त्रिशूलं दधानः संहाररात्रिषु महाप्र- लययामिनीषु निनर्तिषुर्नाट्यं विधित्सुः शूलं निनर्तिषुश्च त्वं कालभैरवः कालाग्निरुद्र- मूर्तिः । तथा कालं कृष्णं भैरवं भयानकं च वपुर्यस्य स तादृशः । बालार्केण चुम्बितो मिलितो यो नवाम्बुदः कृष्णमेघस्तद्भङ्गिं तद्विच्छित्तिमेषि प्राप्नोषि । त्रिशूलस्य भ्रामि- तस्य बालार्क उपमानं कालभैरवस्य कृष्णाम्बुद उपमानम् ॥ शाणोपलोत्कषणशुद्धनवेन्द्रनील- नीलद्युतिर्जयति ते शितिकण्ठ कण्ठः । यस्मिन्घनाञ्जनरुचिर्भुजगः कलिन्द- कन्याह्रदान्तरितकालियभङ्गिमेति ॥ १३ ॥ शितिर्नीलः कालकूटाख्यविषविशेषनिगरणात्कण्ठो यस्य तस्य संबोधनं हे शितिकण्ठ, शाणोपलेन निकषोपलेन यदुत्कषणं तेन शुद्धं यदिन्द्रनीलं तस्येव नीला द्युतिर्यस्य स तादृशस्ते तव कण्ठो जयति सर्वोत्कृष्टो भवति । स क इत्याह – यस्मिन्निति । घनं च तदञ्जनं कृष्णाञ्जनं तद्वद्रुचिर्यस्य स तादृग्भुजगो नागो वासुकिर्यस्मिन्गले कलिन्दक- न्याया यमुनाया ह्रदेऽन्तरितोऽन्तर्गतो यः कालियो नागस्तस्य कान्तिमेति लभते ॥ कण्ठो वहन्नपि विषं विषमं तवैव सद्यः श्रियं सृजति यद्वचसाश्रितेषु । स्वामिन्नतस्त्रिभुवनप्रथितप्रतिष्ठं श्रीकण्ठ इत्युचितमेव तवाभिधानम् ॥ १४ ॥ हे स्वामिन्, विषमत्युत्कटं कालकूटाख्यं विषविशेषं वहन्नप्येष तव कण्ठो वचसा कृपामृतरसार्द्रेण सद्यस्तत्क्षणमुत्थानानन्तरमेवाश्रितेष्वापन्नेषु विषये यस्मात्कारणाच्छ्रियंलक्ष्मीं सृजति ददाति अत एव कारणात्रिजगत्यपि लब्धप्रतिष्ठं श्रीकण्ठ इति श्रीः शोभा लक्ष्मीश्च कण्ठे यस्य स श्रीकण्ठ इति युक्तमेव तव नाम ॥ अन्तर्विमृश्य गरलेन गले सलील- मालिङ्गितं विमलमाननमिन्दुमौलेः । हृष्यामि हन्त मुहुरम्बुरुहभ्रमाप्त- रोलम्बडम्बरविडम्बनपण्डितेन ॥ १९ ॥ हन्त हर्षे । अहं मुहुः पुनः पुनर्हष्यामि प्रमोदं भजे । कुत इत्याह – अन्तर्मनसि वि- मृश्य गरलेन कालकूटेनेन्दुमौलेः श्रीशंभोर्विमलं शुभ्रमाननं मुखं यद्गले कण्ठे गरलेन विषेणालिङ्गितं गृहीतम् । किंभूतेन विषेण । अम्बुरुहभ्रमेण कमलभ्रान्त्या आप्ताः प्राप्ता ये रोलम्बा भ्रमरास्तेषां यो डम्बर आटोपस्तस्य विडम्बने स्पर्धायां पण्डितेन कुशलेन । कमलसौरभागतभृङ्गपङ्क्ति………….॥ यद्वद्विषं सदमृतं शिरसि प्रसिद्ध- मम्भस्तवेश विशदं सुमनःस्रवन्त्याः । मन्ये तथैव भगवन्भवतो गलस्थं संपद्यतेऽमृतमिदं नतसान्त्वनेषु ॥ १६ ॥ हे ईश परमशिव । 'विषमप्सु च' इत्यमरः । 'विषं तु गरले तोये' इति विश्वः । सु- मनःस्रवन्त्या गङ्गाया अम्भः वेवेष्टि कायं पानेनेति विषं जलं विषं सत् अथ च विषं गरलं सत्तव विभोः शिरसि विशदं निर्मलममृतं जलमथ चामृतं पीयूषमिति यद्वत्प्र- सिद्धं जगति जातम् । 'न म्रियतेऽनेनेत्यमृतम्' इति रायमुकुट्याम् । 'अप्सु घृतामृते' इत्यमरः । 'अमृतं यज्ञशेषे स्यात्पीयूष गरले घृते । अयाचिते च मोक्षे चाथ धन्वन्तरि देवयोः ॥' इति मेदिनी । अहं मन्ये हे भगवन्, भवतः स्वामिनो दयालोर्गलस्थमिदं विषं कालकूटाख्यं नतानां भक्तिप्रह्वानां सान्त्वनेष्वाश्वासनेषु तवैवामृतं पीयूषं संपद्यते । रसवदलंकारोऽयम् । यथा भावोपहारस्तवे महामाहेश्वराचार्यचूडामणिश्रीमदुत्पलदेव- विरचिते—'कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् । अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि मे न रोचते ॥" इति ॥ तधुक्तमीश वदनाद्भवतः [^१]सुधाच्छ- कान्तेर्यदग्निरपतद्वपुषि स्मरस्य । यो लङ्घनं त्रिभुवनैकगुरोर्विधित्सु - रुल्का न किं पतति चन्द्रमसोऽपि तस्य ॥ १७ ॥ हे ईश जगदीश, अग्निस्तृतीयनयनानलरूपः सुधाच्छकान्तेः पीयूषादप्यतिनिर्मलच्छ- वेरमृतमयाद्भवतो वदनान्मुखात्स्मरस्य कामस्य त्रिलोकनाथमपि भवन्तं लिलङ्घयिषो- र्वपुषि देहे यदपतत्तद्युक्तमुवि मेव । यः स्मरस्त्रिभुवनैकगुरोरपि भवत उल्लङ्घनमाक्रान्ति- रूपं पराभवं विधित्सुः कर्तुमिच्छुस्तस्य चन्द्रमसोऽप्युल्का विद्युद्भेदः किं न पतति । अपि तु पतत्येव ॥ दिष्ट्या विरुद्धजनता दमयन्त्यपीयं दृष्टिस्तवेश्वर बिभर्त्यनलाश्रितत्वम् । दृष्ट्या वनैकरतिरप्यवनैकसक्ति- रेकस्त्वमद्भुतनिधे भगवन्नमस्ते ॥ १८ ॥ हे ईश्वर शंभो, दिष्ट्या आनन्दे । 'दिष्ट्या शमुपजोषं च आनन्दे' इत्यमरः । ज- नानां समूहो जनता । 'ग्रामजनबन्धुसहायेभ्यस्तल् ।' विरुद्धजनता नास्तिकजनसमूहा- न्दमयन्ती खण्डयन्त्यपि तवेयं दृष्टिस्तृतीयदृगनलाश्रितत्वमग्न्याश्रितभावं बिभर्ति । अथ च या दमयन्ती भीमराजदुहिता सा कथमनलाश्रितत्वं नलान्नलनाम्नो राज्ञोऽन्य- स्तदाश्रितत्वं भजत इति विरोधः । अन्यार्थत्वेन तदभावे विरोधाभासः । एतदपि दिष्ट्या आनन्दकारि । वने कानने एका रतिः सुखं यस्य स तादृगपि भवांस्त्रिजगतो- ऽवने रक्षणे एका सक्तिर्यस्य स तादृगेकस्त्वमसि । यो वनैकसक्तिः स कथमवनैकस- क्तिर्भवतीति विरोधः । अन्यार्थत्वेन तदभावे विरोधाभासः । हे अद्भुतनिधे भगवन्, ते तुभ्यं नमोऽस्तु ॥ धन्यस्य यस्य वपुषि ग्लपिते तपोभिः स्वामिन्पतन्ति विषमाणि तवेक्षणानि । मुष्णन्ति मुग्धमृगशावदृशां न धैर्य- सर्वस्वमस्य विषमाणि विलोचनानि ॥ १९ ॥ हे जगदीश स्वामिन्, तपोभिर्ग्लपितेऽत्यन्तक्षीणे यस्य धन्यस्य कृतिनो वपुषि कलेवरे त्रिनेत्रत्वाद्विषमसंख्यानि तवेक्षणानि नेत्राणि पतन्ति मुग्धमृगशावदृशां बालकुरङ्गशावकनेत्राणां वराङ्गनानामपि विषमाण्यत्यन्ततीक्ष्णानि कामशरतुल्यानि विलोचना [^१]. 'सुखाच्छ' ख. न्यस्य धन्यस्य धैर्यमेव सर्वस्वं न मुष्णन्ति । तेषां त्वद्ध्यानामृतसक्तचेतसां समाधिभ ङ्गक्षमाणि तानि कदापि न भवन्तीत्यर्थः ॥ सत्येव दृग्विलसिते करुणामृतौघ- शीते जरामरणहारिणि तावकीने । नाथ व्यधायि विबुधैरबुधैर्मुधैव दुग्धोदधिप्रमथनेऽनवधिः प्रयासः ॥ २० ॥ हे नाथ जगदीश, कृपारसामृतप्रवाहात्यन्तशीतले जन्मजरामरणरूपात्यसाध्यरोगहरे तावकीने भावत्के दृग्विलसिते सत्येवाबुधैर्मूढैर्विबुधैर्देवैर्दुग्धोदधिमथने बहिः शीतलता- मात्रगुणं केवलजरामृत्युहरममृतं लब्धं वृथा प्रयत्नो व्यधायि कृतः ॥ श्वेते विषं यदसृजद्रविजे च वह्नि- मेकैव दृक्तव तयोः स निजः स्वभावः । इक्षौ सुधाविषमुषाणफले च सार्धं यद्वर्धते किमपराध्यति तत्र वृष्टिः ॥ २१ ॥ हे ईश्वर शंभो, तव विभोः करुणामृतसागरस्य एकैव दृग्दृष्टिः श्वेते श्वेताख्ये राज- न्यमृतं दयारूपं पीयूषं यदसृजत् तथा रविजे यमे च वह्निदाहकरं विलोचनाग्निं तु- ल्यकालं यच्चासृजत्स तयोरतिशमातिक्रोधभरितमनसो निजः स्वभाव एव । न तु सदा कृपामृतपूर्णायाः शिवदृष्टेर्दोष इत्यर्थः । दृष्टं चैतत्- इक्षौ पुणड्रकनामेक्षुभेदे सुधा अ- मृततुल्यो रसो यद्वद्वर्धते तथा तत्समीपवर्तिन्युषाणाख्यफलभेदे च यद्विषं सार्धं सम- मेव वर्धते तत्र वृष्टिर्मेघवृष्टिः किमपराध्यति किमपराधं भजते ॥ नूनं पयोधिमथनावसरे [^१]परेश पीतं त्वया तदमृतं न तु कालकूटम् । अद्यापि यद्वसति ते वचनक्रमे च दृग्विभ्रमे च तरुणे करुणारसे च ॥ २२ ॥ नूनं निश्चये संभावनायां वा । हे ईश शंभो, क्षीरोदधिमथनकाले त्वया तत्प्रसिद्धम- मृतमेव पीतं न तु तत्कालकूटं विषं पीतम् । तत्कुत इत्याह – हे विभो, तव वचनक्रमे च वचनानामशरणजनाभयदानवचसां क्रमे च दृग्विभ्रमे प्रसादावलोकितविलासे च तथा तरुणे नूतने करुणारसे कृपामृतरसे चामृतमेव यद्वसति अतस्त्वया दयालुनामृतमेव पीत- मिति मन्ये । प्रत्येकं चशब्दो वचनक्रमादीनां प्राधान्यद्योतकः ॥ [^१]. 'सुरेश' ख. सत्यं प्रसादसमये चपलत्वमेति धत्तेऽधिकं च कुटिलत्वमियं तव भ्रूः । एतां विना पुनरनर्गलकालपाश- पाते परास्ति न गतिर्भयविह्वलानाम् ॥ २३ ॥ हे विभो, सत्यं निश्चितमेतत् इयं तव भ्रूः प्रसादसमये भक्तिप्रह्वजनस्यानुग्रहकाले च- पलत्वं संज्ञयाभीप्सितप्रतिपादनार्थं चञ्चलत्वमेति प्राप्नोति । तथाधिकं कुटिलत्वं च धत्ते । एतां तव भ्रुवं पूर्वोक्तानुग्रहपरां विना पुनर्निर्निरोधमृत्युपाशपाते भयविह्वलानामश- रणानां दीनानां परान्या गतिर्नास्ति । सैव तेषां शरणम् । केवलं त्राणविधायिनीत्यर्थः ॥ आपूरितः सुरसरित्पयसामृताय जूटः प्रतप्ततपनीयपिशङ्गकान्तिः । स्वामिन्नसौ तव नवातपताम्रवेला- शैलोपगूढ इव दुग्धनिधिर्न कस्य ॥ २४ ॥ हे स्वामिन्, प्रतप्तमग्निना प्रकर्षेण द्रवीकृतं निर्मलीकृतं च यत्तपनीयं सुवर्णं तत्स- दृशी पिशङ्गा कान्तिर्यस्य स तादृक् स्वर्गङ्गाजलप्रवाहेणापूरितस्तव जूटो जटाजूट: कप- र्दोऽसौ नवातपेन बालातपेन ताम्रश्चासौ वेलाशैलस्तेनोपगूढ आलिङ्गितः परिवलितो दु- ग्धनिधिः क्षीरोद इवामृताय सुधायै भवति ॥ स्वामिन्सुधावदवदातरुचिस्तवेय- माभाति हन्त मुकुटे नृकपालमाला । जूटान्तरालविलसत्सुरसिन्धुतीर- लीलाविहाररसिकेव मरालमाला ॥ २५ ॥ हन्ताश्चर्ये । हे स्वामिन् सुधावदवदाता निर्मला रुचिर्दीप्तिर्यस्याः सा नृकपाल- माला । नयन्त्युत्तमां गतिमात्मानं नरः । .......... । नरा अत्र महापुरुषा ब्रह्मादयः । तेषां महाप्रलयकाले कालाग्निरुद्ररूपेण संहारितत्वाद्या कपालमाला इयं शिरोस्थिमाला तव विभोर्मुकुटे आभाति । केव। मरालमाला हंसमालेव । किंभूता सा । जूटान्तराले कपर्दमध्ये विलसन्ती या गङ्गा तस्यास्तीरे क्रीडारसिका ॥ ब्रह्मादिभिस्तव जगद्गुरुभिः शिरांसि यान्यार्पितानि परमेश्वर पादपीठे । तान्येव मूर्धनि यदाभरणीकरोषि स प्रौढिमा जयति कोऽपि कृतज्ञतायाः ॥ २६ ॥ हे परमेश्वर, जगद्गुरुभिर्ब्रह्मविष्णुमहेश्वरादिभिर्महाप्रलयकाले कालाग्निरुद्ररूपेण सं- हारितैस्तव पादपीठे यानि निजानि शिरांस्यर्पितानि तान्येव शिरांसि तत्कपालमाला- रूपाणि त्वं मूर्धनि स्वशिरसि यदाभरणीकरोष्याभरणानि संपादयसि स कोऽप्यनिर्वाच्य- स्तव कृतज्ञतायाः प्रौढिमा प्राधान्यं जयति सर्वोत्कृष्टत्वेन वर्तते । 'परोपकारतत्त्वज्ञो यः कृतज्ञः स उच्यते ।' तद्भावः कृतज्ञता ॥ निर्वाणमेति न जलैरपि यत्र वह्नि- र्यत्रैष नो पचति तानि महाशिखोऽपि । मान्द्यं न विन्दति तमीरमणः कृशोऽपि ताभ्यामसौ विजयते शितिकण्ठ जूटः ॥ २७ ॥ हे शितिकण्ठ नीलगल, यत्र तव जूटे कपर्दे जलैरपि स्वर्गङ्गावारिभिरपि वह्निः स- मीपस्थो विलोचनाग्निर्निर्वाणं शान्तिं नैति न प्राप्नोति । तथैष वह्निरपि महाशिखो म हत्यो जाज्वल्यमानाः शिखा हेतयो यस्य स तादृगपि तानि स्वर्गङ्गाजलानि नो पचति नाचामति । तथा ताभ्यां जलवह्निभ्यामपि स्वयं कृशोऽपि एककलत्वात्तमीरमण- श्चन्द्रोऽपि मान्द्यं मन्दकान्तित्वं न विन्दति न लभते सोऽद्भुतस्तव जूट: कपर्दो विज- यतेऽत्युत्कृष्टो भवति ॥ भालस्थले हुतवहं वहतो जलं च चन्द्रं च मूर्ध्नि विकटं च कपालखण्डम् । एकत्र मुण्डमपरत्र सुधाघटं च हस्ते चकास्ति भवतोऽद्भुत एष वेषः ॥ २८ ॥ हे विभो, एष तवाद्भुत आश्चर्यकारी वेषो नेपथ्यं चकास्ति शोभते । वेवेष्टि व्याप्रोत्यङ्गं वेषः । 'विष्ऌ व्याप्तौ पचाद्यच् । वेषो मूर्धन्यान्तः । विशन्ति नेत्रमनांस्यत्रेति वेशः । अधिकरणे वा घञ् । वेशस्तालव्यान्तश्च । 'वेषो मूर्धन्यान्तस्तालव्यान्तश्चेति प्रागुक्तम्' इति रायमुकुट्याम् । एष वेषः क इत्याह - भालस्थले ललाटतटे हुतवहमग्निं जलं स्वर्गङ्गाजलं च वहतो धारयतस्तव । तथा मूर्ध्नि चन्द्रं कलारूपं च विकटं विस्तीर्णं कपालखण्डं च वहतस्तव एकत्रैकस्मिन्हस्ते मुण्डं ब्रह्मशिरः कपालमपरत्रापरस्मिन्हस्तेऽमृतकलशं च वहतस्तवाद्भुत आश्चर्यकारी वेषो नेपथ्यं चकास्ति । दानेन दीनमुपकल्पयतः सहर्ष- माक्रम्य गामनुपमां गतिमास्थितस्य । नागेन्द्रसंभृतमहाकटकस्य कस्य शस्यं विनात्वदिह राजशिरोमणित्वम् ॥ २९ ॥ हे विभो, विनात्वत्त्वत्तो विना इह त्रिजगति कस्य राजशिरोमणित्वम् । 'राजा भूपे शशाङ्के च' इति मङ्खः । राजा चन्द्रः कलारूपः शिरोमणिर्यस्य स तस्य भावस्तत्त्वं क स्यान्यस्यास्ति । तवैव नान्यस्येत्यर्थः । अथ च राज्ञां मध्ये शिरोमणिः सार्वभौमस्तद्भा- वश्वासौ । द्वावपि विशेषणैर्विशिनष्टि-तव किंभूतस्य दाने दानविषये उपमन्युदान- विषये नदीनं नदीनामिनः प्रभुः समुद्रः क्षीरोदस्तं सहर्षं सानन्दं कृत्वोपकल्पयतः संक- ल्पयतः । तथा गां वृषभम् । गोशब्दः पुंसि वृषभवाचकः । तमाक्रम्याधिरुह्यानुपमाम- नन्यसदृशीं गतिमास्थितस्याश्रितस्य तथा नागेन्द्रैर्वासुक्यादिभिः संभृतानि महान्ति कटकानि कङ्कणानि यस्य स तथा सार्वभौमपक्षे दानेन वितरणेन दीनं दीनजनं सहर्षं सप्रमोदमुपकल्पयतः कुर्वतः । तथा गां भूमिं सद्वीपामाक्रम्यानुपमां गतिं शक्तिमास्थि- तस्याश्रितस्य तथा नागेन्द्रैः करिपुंगवैः संभृतं पूरितं महत्कटकं सैन्यं यस्य स तादृ- शस्य । शब्दश्लेषोऽलंकारः ॥ कण्ठे विषं विषभृतोऽपि विभूषणानि गात्रेषु मूर्धनि विषं विबुधस्त्रवन्त्याः । इत्थं विषैकवसतेरपि ते चकास्ति कर्णामृतं सुकृतिनाममृतेशनाम ॥ ३० ॥ हे विभो, तव कण्ठे गले विषं कालकूटाख्यो विषभेदश्चकास्ति । तथा तव गात्रेष्वव यवेषु शिरःकरचरणादिष्वपि विषभृतो विषधराः सर्पा वासुक्यादयश्चकासति । तथा तव मूर्ध्नि शिरसि सुरस्रवन्त्याः स्वर्णद्या विषं वेवेष्टि व्याप्नोति कायमिति विषं जलं च- कास्ति । इत्थमनेन प्रकारेण विषाणां प्रागुक्तानां वसतेः स्थानभूतस्यापि ते अमृतेशेति नाम अमृतस्य कैवल्यस्य रसायनस्य चेशः स्वामी अमृतेशः । अमृतेश इति नाम सुकृतिनां पुण्यवतां कर्णामृतं श्रोत्ररसायनं भवतीत्यद्भुतम् ॥ एतस्य स्तोत्रस्योपसंहारं वृत्तेनैकेनाह - क्षतविभवविशेषाः प्राणमात्रावशेषा विपदमनुभवामः कर्मपाको हि वामः । तदिह भुजगहारः क्लृप्तमोहापहारः स भवति गतिरेकः कृत्तशोकातिरेकः ॥ ३१ ॥ क्षतः क्षीणः । निवृत्त इत्यर्थ: । क्षतो निवृत्तो विभवविशेष ऐश्वर्योत्कर्षो येषां ते तादृशाः । अत एव प्राणमात्रमवशेषो येषां ते तादृशा वयं विपदं जन्मजरामरणापदम- नुभवामः । अत्र हेतुमाह - हि यस्मात्कारणात्कर्मपाकः प्राचीनकर्मविपाको वामः प्रति- कूलः । अर्थादस्माकम् । यतः । तत्तस्मात्कारणादिह जगति कॢप्तमोहापहारः । अनात्म- न्यात्मबुद्धिर्मोहः । कॢप्तो निष्पादितो मोहस्याज्ञानस्यापहारो नाशो येन स तादृशः । तथा कृत्तो भेदितः शोकस्य जन्मजरादिदुःखस्यातिरेक आधिक्यं येन स तादृशः सुप्र- सिद्ध एको भुजगहारः फणिहार: श्रीशिवभट्टारक एव गतिः शरणं मादृशां भव- तीति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ भगवद्रूपवर्णनमेकोनविंशं स्तोत्रम् । विंशं स्तोत्रम् । अथातस्त्रिजगदनुग्रहनिरतस्य श्रीशंभोर्हसितवर्णनं नाम विंशं स्तोत्रमारभमाण आहयदिति । यत्सौभगेनेत्यादि श्लोकपञ्चविंशत्या कुलकेन श्रीशिवभट्टारकस्य विलासहसितं वर्णयति कविः यत्सौभगेन घनमोघममोघमेघं संघातसंभवमवन्ध्यमधः करोति । तच्छाम्भवं भवमरुभ्रमखेदभेद- दक्षं विलासहसितं नुतिभिर्भजामः ॥ १ ॥ श्रीशंभोर्यत्क्रीडाहसितं सुभगस्य भावः सौभगं रामणीयकं प्राशस्त्यं प्रागल्भ्यं वा । तेन हेतुना अवन्ध्यं सफलं सत् अमोघः सर्वथा फलदायी यो मेघसंघातः पर्जन्यसमूहस्तत्संभवं घनमोघं प्रवाहममृतमयमघः करोति जयति तच्छांभवं श्रीशंभुसंबन्धि विलासहसितं क्रीडाहसितं स्मितं नुतिभिः स्तुतिभिर्वयं भजामः सेवामहे । तदेव स्तुवीमही त्यर्थः । किंभूतं तत् । संसार एव मरुर्निर्जलो दूरोऽध्वा तत्र भ्रमेण यः खेदस्तस्य भेदस्तत्र दक्षं निपुणम् । देहिनामिति शेषः ॥ तद्धसितं किमित्याह यद्वाङ्मयं सकलवाङ्मनसातिवृत्त- सीमानमीश महिमानममानमेयम् । अस्मादृशं कृशदृशं भृशमामृशन्त- मन्तर्विमृष्य भवतो भगवन्नुदेति ॥ २ ॥ हे भगवन्नैश्वर्यादिषङ्गुणनिधे, यद्विलासहसितमुदेत्युत्पद्यते । कस्य । भवतो विभोः । किं कृत्वा । अस्मादृशं मूढं चर्मचक्षुषं विमृश्य । कुत्र । अन्तर्मनसि । अस्मादृशं किंभूतम् । तावकं महिमानं भवदीयमाहात्म्यमामृशन्तं विचारयन्तम् । पुनः किंभूतमस्मादृशम् । कृशा मन्दा दृक् ज्ञानं यस्य स तादृशम् । तावकं महिमानं किंभूतम् । सकलेत्यादि । वाक्च मनश्च वाङ्मनसम् । तदतिवृत्तः सकल: सीमा यस्य स तादृशम् । अवाङ्मनसगोचरमित्यर्थः । सीमावधिः । पुनः किंभूतम् । अमानमेयं न मानैः प्रत्यक्षानुमानादिभिर्मेयो मातुं शक्यस्तादृशम् ॥ तद्विलासहसितं किमित्याह येनोपमन्युमपमन्युमनन्यभाज- माजन्मतृष्णजमजस्रमज श्रमार्तम् । आनन्दयः स्वयमदीननदीनदान - भास्वन्महाफललसत्कुसुमोपमेन ॥ ३ ॥ न जातोऽजोऽनादिस्तत्संबोधनं हे अज अनादे, अपगतो मन्यू रोष: परद्रोहादिर्यस्य स तादृशम् । तथा नान्यं विभुं भजतीत्यनन्यभाक् तादृशम् । तथा आजन्म जन्मारभ्य तृष्णक् पिपासुस्तम् । अत एवाजस्रं श्रमेण खेदेनार्तं खेदकदर्थितमुपमन्युमुपमन्युमुनिं बालं येन विलासहसितेन स्वयमानन्दयः सानन्दमकरोः । किंभूतेन हसितेन येन । अदीनोऽकातरो यो नदीनामिनः स्वामी समुद्रः क्षोरोदस्तस्य दानं तदेव भास्वद्भास्वरं महाफलं तत्र लसच्छोभमानं यत्कुसुमं तस्योपमा यस्य तत्तादृशेन । क्षीरोददानाख्यप्रदेनेत्यर्थः ॥ तद्धसितं किमित्याह येनापि तापविपदं प्रथमं जहर्थ नाथ प्रसादसुभगेन भगीरथस्य । मूर्ध्ना धृतत्रिदशसिन्धुमहाप्रवाह- निर्वापणेन पुनरस्य पितामहानाम् ॥ ४ ॥ हे नाथ शंभो, प्रसादेन सुभगं रम्यं तादृशेन येन विलासहसितेन भगीरथस्यापि सगरवंशजस्य तापविपदं तापो मदीयपितामहाः कपिलमुनीश्वरशापदग्धा निरये पतिता इति यः पश्चात्तापः स एव विपत्ताम् । प्रथमं भगीरथस्य राज्ञो निजभक्तस्य जहर्थ हृतवानसि । पुनस्तदाराधनतुष्टेन भवता मूर्ध्ना धृता या त्रिदशसिन्धुर्गङ्गा तस्या यो महाप्रवाहस्तेन यन्निर्वापणं शीतलीकरणं तेन । पुनरस्य भगीरथस्य पितामहानां सगरवंशजानां तापोऽतितृष्णासंताप एव विपत्तां जहर्थ । तेन भवत्प्रसादोपनतस्वर्गङ्गानीरप्रवाहेण तत्पितामहोद्धरणमकरोरित्यर्थः ॥ अत्र प्रसङ्गेन विभोः कालदाहापदानं वर्णयति उत्प्रासनाय शमनस्य मनस्यनल्प- दर्पोद्गमप्रशमविक्लवविक्रमस्य । आश्वासनाय च समं समभावि येन कीनाशपाशविवशस्य नरेश्वरस्य ॥ ५ ॥ 'स्यादाच्छुरितकं हासः सोत्प्रासः' इत्यूर्ध्वं प्रकर्षेणासनं गमनमुत्प्रास आधिक्यम् । 'अस गतिदीप्त्यादानेषु' । सोत्प्रास अधिको महान्हास आच्छुरितकम्। 'छुर भेदने' । भावे क्तः । स्वार्थे कः । आ समन्तादविच्छिन्नमित्यर्थः । अत एवानल्पो यो दर्पोद्गमोऽहंकारोद्गमस्तस्य प्रशमनेन भाविदाहरूपेण विक्लवः कृशो विक्रमो यस्य स तादृशस्य शमनस्य कालस्योत्प्रासनाय तदसह्योत्पादनार्थं स्वस्याधिक्यगमनाय (?) येन हसितेन मनसि समभावि अमर्षोत्पादकमधिकं हसितमुपहासः । तथा कालमतिकरालं वीक्ष्य च कीनाशपाशेन कालपाशेन विह्वलस्य नरेश्वरस्य राज्ञः श्वेतनृपस्याश्वासनाय सान्त्वनाय च येन हसितेन समं मनसि समभावि संभूतम् ॥ तद्धसितं किमित्याह भावत्कभक्तिभरसंभृतभूरिभूति - संभारगूढगुरुगर्वगलद्विवेकम् । मोहान्धमन्धकमुपाहितसाहसिक्य- हेवाकमाकलयतो भवतो यदासीत् ॥ ६ ॥ हे नाथ, भावत्कभक्त्यतिशयेन संभृता प्राप्ता या भूरिभूतिरनल्पसंपत्तस्याः संभारेण रूढ उत्पन्नो यो गुरुर्महान्गर्वस्तेन गलन्पतन्विवेकस्तादृक्त्रैलोक्यभयोत्पादकविभूतिसमर्पकप्रभुपूजारूपो यस्य स तादृशम् । मोहेनाज्ञानेनान्धमन्धीकृतमन्धकमन्धकासुरम् । उपाहितो मनसि निश्चितः साहसिक्यहेवाकः प्रत्युत तादृग्विभूतिसमर्पकत्रिलोकनाथेनैव समं युद्धसंरम्भसाहसिक्यहेवाको यस्य स तादृशमाकलयतो जानतो भवतः प्रभोर्यद्धसितमासीत् ॥ तद्धसितं किमित्याह लङ्केशकम्पितकुबेरगिरिप्ररूढ- संरम्भभीरुगिरिजापरिरम्भभाजः । यत्ते रुषामवसरेऽप्युदितानवद्य- हृद्यप्रसादसुमुखस्य समुज्जगाम ॥ ७ ॥ कुत्सितं बेरं देहोऽस्य । कुष्ठित्वात् । कुबेरो धनदः । लङ्केशेन स्वयमेवानुगृहीतेन क म्पितो यः कुबेरगिरिः कैलासस्तेन हेतुना रूढः संरम्भो व्याकुलता यस्यास्तादृशी । अत एव भीरुस्रस्ता या गिरिजा पार्वती तस्या अन्यत्राख्यानोक्तरीत्या मानिन्याः परिरम्भमाश्लेषं भजति यस्तादृक् तस्य ते तव रुषां रोषाणामवसरसमयेऽपि पूर्वोक्तरीत्या उदितो योऽनवद्यो हृद्यः प्रसादस्तेन शोभनं मुखं यस्य स तादृशस्य ते यद्विलासहसितं समुज्जगाम समुद्रतम् । उत्पन्नमित्यर्थः ॥ तद्धसितं किमित्याह पूजार्थमम्बुजसहस्रमुपाहितं य- देकं ततो हृतवतस्तव कैतवेन । विष्णुं विलोक्य निजलोचनमुत्खनन्त- मन्तः प्रसन्नमनसो यदमन्दमासीत् ॥ ८ ॥ हे नाथ, विष्णुना तव पूजार्थमम्बुजसहस्रं कमलसहस्रं यदुपाहितं पूजार्थमानीतं तन्मध्यादेकं कमलं कैतवेन च्छद्मना अनन्यासक्तिभक्तिपरीक्षणरूपेण हृतवतो गो- पयतस्तव निजं लोचनं तत्कमलपूरणायोत्खनन्तमुत्पाटयन्तं विष्णुं निजभक्तं विलो- क्यान्तः प्रसन्नं मनो यस्य स तादृशस्य तवामन्दं बहु यद्धसितमासीत् । एतद्वृत्तान्त वर्णनेन महिम्नः स्तोत्रेऽपि श्रीशिवस्तुतिः - 'हरिस्ते साहस्रं कमलबलिमाधाय पदयोर्य- देकोने तस्मिन्निजमुदहरन्नेत्रकमलम्' इत्यादिना ॥ दृष्ट्वा वधूजनमनुत्तमरूपसंप- त्संदर्शनोद्भवमनोभवभग्नवृत्तम् । आषाढपाणिषु रुषा मुनिषु प्रहर्तु- मभ्युद्यतेषु तव यद्भृशमुद्बभूव ॥ ९ ॥ अनुत्तमानन्यसदृशी या रूपसंपत्तस्याः संदर्शने उद्भवो यस्य तथाविधो मनोभवः कामस्तेन भग्नं वृत्तं शीलं यस्य स तादृशस्तं वधूजनं निजदारसमूहं दृष्ट्वा आषाढपाणिषु पलाशदण्डपाणिषु रुषा पूर्वोक्तवृत्तान्तोदितया त्वां प्रहर्तुमुद्यतेषु मुनिषु भृशमत्यर्थं यद्धसितं तवोद्बभूवोद्भूतम् । 'पालाशो दण्ड आषाढ : ' इत्यमरः । आषाढासु जात आ षाढः । 'विशाखाषाढादण्मन्थदण्डयोः' इति स्वामी । एतद्द्वृत्ताख्यानमपि 'अपूर्वं लावण्यं विवसनतनोस्ते विमृशता' इत्यत्र ॥ अधुना देवासुराणामपि दाहभयकारिकालकूटाख्यविषविशेषनिगरणापादानं श्रीशंभोर्वर्णयति प्रसङ्गेन अभ्यर्णवर्तिकरगोचरकालकूट- कूटप्रभानिचयमेचकितेऽधरौष्ठे । यत्पूर्वपर्वतशिखाश्रितशीतरश्मि - रश्मिच्छटाच्छविविडम्बि पुराविरासीत् ॥ १० ॥ अभ्यर्णवर्ती करगोचरः करस्थो यः कालकूटो विषविशेषस्तस्य कूट: समूहस्तस्य प्रभानिचयेन मेचकितेऽसितीकृतेऽधरौष्ठे यद्धसितं पुराविरासीत्प्रकटीबभूव । किंभूतम् । पूर्वपर्वतशिखामाश्रितो यः शीतरश्मिश्चन्द्रस्तस्य रश्मिच्छटानां छविं कान्तिं विडम्बयति तादृशम् ॥ यत्कर्णतालवलनानिलधूत कुम्भ- सिन्दूररेणुकणकूणितलोचनस्य बालस्य नागवदनस्य मनस्यभीष्टां दृष्टैव नाट्यघटनां तव संबभूव ॥ ११ ॥ कर्णतालयोर्वलनं तेन योऽनिलस्तेन धूताः कुम्भसिन्दूररेणुकणाः कपोलचीनपिष्टर जोलवास्तैः कूणिते निमीलिते पूरिते वा लोचने नेत्रे येन स तादृशस्य । 'कूण संको चने' 'कूण पूरणे' वा धातुः । एवंभूतस्य बालस्य नागवदनस्य गणपतेर्मनस्यभीष्टां ना ट्यस्य घटनां रचनां दृष्ट्वा तव यद्धसितं संबभूव संभूतम् । 'रचनां' इत्यपि पाठः ॥ शैलादिवादितमृदङ्गलयानुयात नृत्तप्रवृत्तगुहवाहविलोकनेन । स्वामिन्महाप्रलयभैरवरूपिणो य- दाविर्बभूव तव ताण्डवडम्बरेषु ॥ १२ ॥ हे स्वामिन्, शिलादस्य मुनेरपत्यं शैलादिर्नन्दी प्रथमविशेषस्तेन वादितो यो मृदङ्ग स्तस्य लयोऽन्यवाद्यैः सह समत्वं तमनुगतं यन्नृत्तं नाट्यं तत्र प्रवृत्तो यो गुहवाहः कातिकेयवाहनं मयूरस्तस्य विलोकनेन हेतुना महाप्रलये भैरवरूपिणस्तव नवताण्डवडम्ब रेषु नूतननाट्यविस्तारेषु यद्धसितमाविर्बभूव । 'लयः साम्यं' इत्यमरः ॥ तद्धसितं किमित्याह व्योमप्रचण्डभुजदण्डविघट्यमान- तारावलीविरहबन्धुरितान्धकारम् । स्वामिन्युगान्तसमयाभिनयेषु येन संभाव्यते पुनरपि प्रचुरप्रकाशम् ॥ १३ ॥ हे स्वामिन्, युगान्तसमयाभिनयेषु महाप्रलयकालनाट्येषु तव प्रचण्डा ये भुजा अ ष्टादश त एव दण्डास्तैर्विघट्यमाना ध्वंस्यमाना यास्तारावल्यस्तासां विरहेण बन्धुरितः पूरितोऽन्धकारो यत्र तत् । ईदृशमपि व्योमाकाशं येन तव इसितेन पुनरपि प्रचुरप्र- काशं संभाव्यते ॥ दिक्चक्रबालमुखरीकरणप्रगल्भ- प्रावृट्पयोधरगभीररवानुकारि । स्वामिन्कठोरहृदयस्य भयं विधातुं भीरोश्च दातुमभयं युगपत्क्षमं यत् ॥ १४ ॥ तत्तव हसितं किंभूतम् । हे स्वामिन् दिक्चक्रवालस्य दिङ्मण्डलस्य मुखरीकरणे प्रतिनादेन मुखरीकृतौ प्रगल्भो यः प्रावृट्पयोधरो वर्षापर्जन्यस्तस्य गभीररवमनुकरोतीति तादृग्यत्तव हसितं युगपत्तुल्यकालमेव कठोरहृदयस्य कठिनाशयस्य श्रीशिवशासनपरा- ङ्मुखस्य भयं दातुम्, भीरोः कातरस्याशरणस्याभयं दातुं क्षमं समर्थं भवति ॥ यत्कालकूटकवलीकरणप्ररूढ- नीलिम्नि कण्ठपुलिने विमलं निलीनम् । नीरन्ध्रनीरभरमेदुरमेघखण्ड- लग्नेन्दुमण्डलविडम्बनमातनोति ॥ १५ ॥ तत्तव इसितं पुनः किंभूतमित्याह–कालकूटस्य विषभेदस्य कवलीकरणेन निगलनेन प्ररूढो नीलिमा यस्मिंस्तादृशे तव कण्ठतटे निलीनं लग्नं विमलं स्वतो धवलं नीरन्ध्रो घनः नीरभरेण मेदुरो यो मेघखण्डस्तत्र लग्नं यदिन्दुमण्डलं तस्य विडम्बनं स्पर्धां यत्तव हसितमातनोति विस्तारयति ॥ इतः परं भगवद्धसितमहाकुलकमध्ये भगवत्याः पार्वत्याः स्वप्नादेशवर्णनं श्लोकनवकेन गर्भकुलकमाइ ध्यायन्त्यनन्यहृदया हृदयाधिनाथ- मद्य क्षपामगमयं सखि कल्पकल्पाम् । प्राणेशसंगमनिमित्तमथ प्रभाते निद्रा सखीव मम संमुखमाजगाम ॥ १६ ॥ 'इत्यादि तीव्रविरह-' इत्यन्तिमश्लोके तत्स्वप्नवृत्तं शृण्वतः प्रमोदभरनिर्भरमानसस्य यद्धसितं तव जातमिति संबन्धः । गिरिजा पार्वती श्रीशंभुवियोगेनोन्मदना विरहातुरा स्वसखीं जयां प्रति स्वप्नोदितवृत्तान्तमकथयत् । हे सखि जये, नान्यस्मिन्हृदयं मनो यस्याः सा तादृश्यहं हृदयाधिनाथं प्राणप्रियं भगवन्तं शंभुं ध्यायन्ती अद्यास्मिन्वासरे कल्पकल्पां चतुर्दशभिर्मन्वन्तरैरेकः कल्पः । ईषदसमाप्तः कल्पो यस्यास्तादृशीं कल्प- कल्पां क्षपां रात्रिमेकामगमयम् । अथानन्तरमस्मत्प्राणेशस्य प्राणप्रियस्य श्रीशिवस्य यः संगमस्तस्य निमित्तं हेतुभूता । आरोप: । सखी सहचरीव प्रभाते निद्रा मम संमुखमा जगाम । स्वप्ने कदाचित्प्राणेशसंगमोऽपि भवति ॥ तस्मिन्क्षणे नयनवर्त्मनि जीवितेशः शंसन्दृशा मधुरयैव मनःप्रसादम् । चक्रे पदं मम तमोमुकुलीकृतायाः स्वैरं समेत्य सवितेव सरोरुहिण्याः ॥ १७ ॥ हे सखि जये, मधुरया सौम्ययैव दृशा दृष्ट्या मनःप्रसादं चेतोनैर्मल्यं शंसन्प्रतिपादयंस्तमसा तमोगुणेन मूर्छापर्यायेण मुकुलितायाः संकुचिताया मम स्वैरं स्वेच्छया स्वत न्त्रत्वात्समेत्यागत्य तस्मिन्नेव क्षणे मम नयनवर्त्मनि नेत्रमार्गे पदं चक्रे स्थितिमकरोत् । क इव कस्याः। सरोरुहिण्याः पद्मिन्याः सविता सूर्य इव । यथा सूर्यः प्रभाते पद्मिन्यास्तमसान्धकारेण मुकुलीकृतायाः संकुचिताया नेत्रवर्त्मनि पदं करोति तथेत्यर्थः ॥ अतः परं स्वप्नदृष्टपरमेश्वरसान्त्ववाक्यमपि पार्वती सख्यै जयायै प्रोवाच । यथा अस्मत्कृते सितमयूखमुखि त्वयैत- त्किं प्रस्तुतं मुनिभिरप्यतिदुष्करं यत् । उद्यानचङ्क्रमणकेलिषु खिद्यते या सा ते कथं कथय कष्टसहाङ्गयष्टिः ॥ १८ ॥ स्वप्ने दृष्टः शंभुः पार्वतीमाश्वासयति — हे सितमयूखमुखि, मुनिभिर्वाचंयमैरपि व्रतिभिर्यदतिशयेन दुष्करं कर्म तदेतत्त्वया कोमलाङ्ग्या कि प्रस्तुतं किमारब्धम् । हे कमलाङ्गि, त्वं कथय । या तवाङ्गष्टिरुद्याने कुसुमोद्याने यच्चङ्क्रमणं लीलया भ्रमणं तत्र ये केलयस्तेषु खिद्यते सा ते तवाङ्ग्यष्टिः कथं कष्टसहा भवति ॥ पुनरप्येतदेव समर्थयति मूर्तिः क्व बालकदलीदलकोमलेयं तीव्रं तपः क्व मनसोऽपि न गोचरं यत् । क्वेषद्विकासि कुसुमं सुमनोलतायाः क्वोन्मत्तकुञ्जरकठोरकरोपमर्दः ॥ १९ ॥ हे शशिमुखि, बालं नवं यत्कदलीदलं तद्वत्कोमला सुकुमारेयं तव मूर्तिः क्व भवति । तीव्रं कठिनं मुनिभिरष्यतिदुष्करं मनसोऽपि यन्न गोचरं तत्तपः क्व भवति । दृष्टं चैत- द्यथा— सुमनोलताया मालतीलताया ईषद्विकासि मनाक्प्रफुल्लं कुसुमं क्व भवति । 'सुमना मालती जातिः' इत्यमरः । उन्मत्तो मदेन यः कुञ्जरो हस्ती तस्य करेणोपम- र्दस्तस्य जातीकुसुमस्य क्व भवति ॥ एतेन कर्कशकुशग्रहणं करेण सोढं कथं प्रथमपल्लवकोमलेन । पादौ कथं कमलगर्भनिभौ शिलाश्रि- श्रेणीषु तीर्थगमनक्लममन्वभूताम् ॥ २० ॥ हे सुमुखि, प्रथमो नूतनो यः पल्लवस्तद्वत्कोमलेन तव करेण पाणिना कर्कशानाम- तिकठोराणां कुशानां दर्भाणां ग्रहणं कथं सोढम् । तथा हे कोमलाङ्गि, कमलगर्भ- निभौ पद्मकोषनिभौ तव चरणौ शिलानां दृषदामश्रयो धारास्तासां श्रेणीषु पङ्क्तिषु तीर्थगमनेन क्लेशमन्वभूताम् ॥ हारोऽपि भार इव यत्र कुचद्वयं त त्सेहे कथं कुलिशकर्कशवल्कलोल्काम् । एतत्कथं मृदुमृणाललताभिजातं पञ्चाग्नितापविपदः पदमङ्गमासीत् ॥ २१ ॥ यत्र यस्मिंस्तव कुचद्वन्द्वे हारोऽपि मुक्ताहारोऽपि भार इव क्लेशावहः । द्वे पलसहस्रे भारः । 'तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः' इत्यमरः । तत्ते कुचद्वयं कुलिश- वद्वज्रवत्कर्कशं कठोरं यद्वल्कलं भूर्जत्वक् तदेवोल्का विद्युद्भेदस्तां कथं सेहे । हे तन्वङ्गि, मृद्वी या मृणालता तद्वदभिजातं सुकुमारं तवाङ्गं पञ्चाग्निधारणं नाम तपो- विशेषः । तत्र दक्षिणाग्निगार्हपत्याहवनीयास्त्रयः प्रणीत (संस्कृतोऽनल) श्चतुर्थः पञ्चमस्तु तपनोऽग्निरिति पश्चाग्नयः । तापः संतापस्तेन या विपदतिक्लेशः स एव वा विपत्तस्याः पदं स्थानं कथमासीत् ॥ इत्यादिभिर्दशनचन्द्रिकयानुविद्धै रन्तर्बहिश्च तिमिरप्रसरं हरद्भिः । आश्वासयन्निव निवर्तिततीव्रखेदं[^१] गर्भीकृतस्मितसुधामधुरैर्वचोभिः ॥ २२ ॥ हे सखि जये, दशनानां चन्द्रिका ज्योत्स्ना तयानुविद्धैर्व्याप्तैः । अन्तस्तिमिरमज्ञा- नरूपं तस्य प्रसरं बहिस्तिमिरं च ध्वान्तं हरद्भिः । तथा गर्भीकृतं स्मितमीषद्धसितं तदेव सुधा तया मधुरै रम्यैर्वचोभिर्निवर्तितो दूरीकृतस्तीव्रो महांस्तपश्चरणोत्थः खेदो यत्र तत् । क्रियाविशेषणमेतत् । आश्वासयन्निव । मामित्यर्थात् ॥ यावत्रपापरवशं क्षितिमीक्षमाणं मुक्ताफलोपमसमुद्गतघर्मलेशम् । किंचित्करेण मुखमुन्नमयन्नियेष पीयूषवर्षमिव वर्षितुमेष भूयः ॥ २३ ॥ त्रपापरवशं लज्जाधीनम् । अत एव क्षितिमीक्षमाणम् । लज्जयावनतमित्यर्थः । तथा मुक्ताफलोपमाः समुद्गता घर्मलेशाः स्वेदकणाः सात्त्विका यस्य तत्तादृशं च मुखं मदीयं करेण पाणिना किंचिदुन्नमयन्नुत्क्षिपन्नेष प्रियतमः शंभुर्भूयो वचोभिः पीयूषवर्षं सुधावृष्टिमिव वर्षितुं यावदियेष ॥ तावत्प्रबोधितवता कृकवाकुनादैर्दुर्वेधसा सखि तदाचरितं शठेन । [^१]. 'खेदां' ख. यत्रैष एव शरणं मम जीवितेशो यद्वापरो हरति योऽखिलजन्तुवर्गम् ॥ २४ ॥ हे सखि जये, तावदेव कृकवाकुनादैः । कृकेन शिरोग्रीवेण वक्ति रौति । 'कृकेवचः कश्च' इत्युण् । कृकवाकुः । 'कृकवाकुस्ताम्रचूड: कुक्कुटश्चरणायुधः' इत्यमरः । कृकवा- कुनादैः कुक्कुटरवैर्हेतुभिर्मां प्रबोधितवता शठेन कितवेन दुर्वेधसा दुर्दैवेन तन्मत्प्रबोधन- रूपं कर्माचरितं कृतम् । तत्किमित्याह - एष एव जीवितेश एव श्रीशंभुरेव मम केवलं शरणं भवति यद्वा तदलाभे यो जीवितेशो यमोऽखिलजन्तुवर्गं सर्वप्राणिसमूहं हरति स्व- सात्करोति स एव जीवितेशो मृत्युर्मम शरणम् । 'अद्य कान्तः कृतान्तो वा दुःख- स्यान्तं करिष्यति' इतिवदत्रापि योजना । 'जीवितेशौ यमप्रियौ' इति मङ्खः ॥ इत्यादितीव्रुविरहज्वरया जयायै यत्स्वप्नवृत्तमुदितं गिरिराजपुत्र्या । तच्छृण्वतो वनलतान्तरितस्य यत्ते जातं प्रमोदभरनिर्भरमानसस्य ॥ २९ ॥ (पञ्चविंशत्या कुलकम्) इत्यादि पूर्वोक्तप्रकारेण 'ध्यायन्त्यनन्यहृदया-' इत्यादि स्वप्नवृत्तं तीव्रो दुर्धरो विरह- ज्वरो यस्याः सा तादृश्या गिरिराजपुत्र्या श्रीपार्वत्या जयायै जयानाम्न्यै स्वसख्यै यदुदि- तमुक्तं तदेव स्वप्नवृत्तं शृण्वत आकर्णयतो वनलताभिरन्तरितस्याच्छादितस्य तव ह- र्षेण निर्भरं मानसं यस्य स तादृशस्य यद्विलासहसितं जातं तं नुतिभिर्भजाम इति सं- बन्धः । पञ्चविंशतिश्लोकैः कुलकम् ॥ अथेदानीं श्रीशंभुमेव वरमवाप्तुं निजपितुर्हिमाद्रेः प्रदेशेषु महातपांसि चरन्त्याः श्रीपार्वत्याः प्रसन्नाशयावबोधाय व्याजेन तरुणवर्णिरूपं विधायागतस्य शंभोर्भगवत्या सह संवादवर्णनेन विलासहसितमुपश्लोकयञ्श्लोकत्रयोदशकेन कुलकमाह संजीवनौषधमिदं हरहुंकृताग्नि- ज्वालावलीढवपुषः कुसुमायुधस्य । बाले सुधारसमये समये किमर्थ- मायास्यते त्रिभुवनाभरणं शरीरम् ॥ २६ ॥ व्याजतरुणवर्णिरूपो भगवान्पार्वतीं प्रत्याह - हे बाले षोडशहायने मुग्धे च पार्वति, हरस्य श्रीशंभोर्हुंकृतमेवाग्निस्तस्य ज्वालाभिरवलीढं ग्रस्तं वपुर्यस्य स तादृशस्य कुसुमा- युधस्य कामस्य संजीवनार्थमाप्यायकमौषधं संजीवनौषधम् । आरोपः । तत्रापि त्रिभुवनस्य सकलस्याभरणभूतम् । सुधारससमयेऽस्मिंस्तारुण्ये त्वया किमर्थमायास्यते खेद्यते ॥ कल्पद्रुमैर्निधिभिरोषधिकामधेनु चिन्तामणिप्रभृतिभिश्च परिष्कृतस्य । किं दुर्लभं तव पितुर्भुवनातिशायि- श्रीधाम्नि धामनि यदर्थयसे तपोभिः ॥ २७ ॥ हे बाले मुग्धे, कल्पद्रुमैर्देवद्रुमैर्मन्दारपारिजातसंतान कल्पवृक्षहरिचन्दनैः पञ्चभि स्तथा निधिभिर्महापद्मपद्मादिभिर्नवभिः तथौषधिभिः संजीवनीविशल्यीकरणाद्योषधिभिः कामधेनुभिः सुरभ्यादिभिः चिन्तामणिप्रभृतिभिश्च रत्नविशेषैः परिष्कृतस्य भूषितस्य तव पितुर्हिमालयाद्रेर्भुवनमतिशेते इति तादृशी या लक्ष्मीः श्रीस्तस्या धाम्नि स्थाने धामनि गृहे किं तद्वस्तु दुर्लभमस्ति यत्त्वं बाला तपोभिरतिकष्टप्रदैरर्थयसे मार्गयसि ॥ त्वं जीवितादपि गुरोरधिका स ताव- दुत्पादयेत्तव न [^१]मन्युमधीतनीतिः । संभाव्यते तव च नान्यकृतो निकारः कुर्वीत केसरिसटाहठकर्षणं कः ॥ २८ ॥ हे बाले, त्वं गुरोः पितुर्जीवितादप्यधिका स्नेहभाजनमसि । स पिता तावदधीता नीतिर्नीतिशास्त्रं येन स तादृक्तव मन्युमपमानकारणं क्रोधं नोत्पादयेत् । तथान्यकृतः परेण केनचिद्विहितो निकारोऽपमानलक्षणश्च तवास्माभिर्न संभाव्यते । युक्तं चैतत्- कः सचेतनः केसरिणः सिंहस्य सटानां हठेन कर्षणमाक्षेपं कुर्वीत । न कोऽपीत्यर्थः ॥ श्रद्धानुबन्धविहितव्रतहोमदान- स्वाध्यायतीर्थगमनादिनिबन्धनानि । धन्यस्य कस्य फलितानि तुषारहार- गौराणि गौरि सुकृतानि पुराकृतानि ॥ २९ ॥ हे गौरि । गौरादित्वान्ङीष् । गौरी कनकसप्रभदेहकान्तिः । तथा च स्कान्दे – 'इच्छामि देव दिव्यं च वपुः कनकसप्रभम्' इति । हे गौरि पार्वति, श्रद्धाया अनुबन्धेन विहितानि शास्त्रोक्तेन विधिना कृतानि व्रतानि कृच्छ्रातिकृच्छ्रादीनि, होमा वाजपेयाद्या यज्ञाः, दानानि च महादानानि षोडश, तीर्थानि गङ्गाप्रयागनैमिषपुष्करादीनि तेषु यद्गमनं तदादि । आदिशब्देन स्वाध्यायमन्त्रपाठादि निबन्धनं हेतुर्येषां तानि । तुषारं हिमं हारो मुक्ताहारश्च तद्वद्गौराणि धवलानि कस्य धन्यस्य कृतिनः पुराकृतानि प्राचीनानि सुकृतानि प्राग्जन्मोपार्जितानि फलितानि सा तादृशी त्वं यं धन्यं कर्मभूतं [^१]. 'रोषं' ख. तपसा प्रसादमानयसि प्रसन्नं संपादयसीत्यग्रे कुलकान्ते 'सा त्वं' इत्यनेन संबन्धः ॥ नीञ् द्विकर्मकः । इतः परं वृत्तषट्के शब्दश्लेषोक्त्या मिषेण स्वात्मानमुद्दिश्यापि भगवतो व्याज तरुणवर्णिरूपस्य पार्वतीं प्रत्युक्तिः दुर्वारदुर्गतिनिकारकदर्थ्यमान- मालोक्य लोकमखिलं विपुलाशयेन । सद्यः कृतं कनकवर्षणमिन्दुकान्त- वर्ष्मत्विषा परमकारुणिकेन केन ॥ ३० ॥ दुर्वारा दुर्निवारा या दुर्गतिः कालकणीं तया कदर्थ्यमानं पीड्यमानमखिलं लोकम- थिंजनमालोक्येन्दुवत्कान्ता रम्या वर्ष्मत्विड् देहकान्तिर्यस्य स तादृशेन परमकारुणि- केनातिकरुणावता विपुलाशयेनोदारचित्तेन केन कृतिना सद्यस्तादृशार्थिजनविलोकना- नन्तरमेव कनकवर्षणमव्युच्छिन्नं कनकदानं कृतम् यं धन्यं तपसा प्रसन्नं संपादयसि । अथ च स्वमुद्दिश्य व्याजतरुणवर्णिरूपस्येश्वरस्योक्तिः– दुर्वारविपदपमानकदर्थ्यमानम- खिलं सर्वे लोकमौचित्यान्मरुत्तनृपपुरवासिनं लोकमालोक्येन्दुश्चन्द्रः कस्य शिरसोऽन्ते यस्यास्तादृशी इन्दुनार्धचन्द्रेण कान्ता रम्या वा वर्ष्मत्विड् देहप्रभा यस्य स तादृशेन वि पुलाशयेन परमकारुणिकेन निमेषमात्रेणापि त्रिजगदुद्धारकारिणा केनार्थान्मया मां विना केन वा मरुत्तनृपपुरे कनकवर्षणं सप्ताहोरात्रावधि हेमवृष्टिः कृता । अतो जाने मामेव तपसा प्रसन्नं संपादयितुमिच्छसीत्यर्थः ॥ गायन्ति कस्य विषदं विषमोग्रकाल- संरुद्धशक्ति शरणागतरक्षणोत्थम् । द्वन्द्वानि नन्दनसदामपदानमिन्दु- धौतासु कौमुदमहोत्सवयामिनीषु ॥ ३१ ॥ हे गौरि, विषम उच्चावचं वदन्नुग्रो भयावहो यः कालस्तुरीययुगकालः कलिर्विप त्कालो वा तेन संरुद्धा शक्तिर्येषां ते तादृशा ये शरणागता याचकजनास्तेषां सम्यग्र- क्षणार्थं विषदं निर्मलमपदानं महादानोत्थमद्भुतं कर्म इन्दुना पूर्णचन्द्रेण धौतासु धव- लीकृतासु कौमुदमहोत्सवयामिनीषु 'कुं भूमिं मोदयति पालनेन कुमुद्विष्णुस्तस्यायं प्रियः कौमुदः कार्तिकः । तथा च नारदपुराणे - 'कौमुदस्य तु मासस्य या सिता द्वादशी भवेत् । अर्चयेद्यस्तु मां भक्त्या तस्य पुण्यफलं शृणु ॥" इति । तथा महाभारतेऽपि- कौमुदे शुक्लपक्षे तु योऽन्नदानं करोति हि । स संतरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते ॥" इति समयप्रदीपे धर्मशास्त्रनिबन्धे । महानुत्सवो यासु ता महोत्सवास्तादृश्यो यामिन्यो रात्रयः । कौमुदकस्य कार्तिकस्य महोत्सवरात्रिषु कस्य धन्यस्यापदानं नन्दनसदां दे- वानां द्वन्द्वानि मिथुनानि । गायन्ति यं तपसा प्रसन्नं संपादयितुमिच्छसि । अथ च विषम: शुभाशुभपरीक्षणात् उम्रो महाभीषणो यः कालो मृत्युस्तेन संरुद्धा शक्तिर्यस्य स तादृशो यः शरणागतः प्रसिद्ध्या श्वेताख्यो नृपस्तस्य रक्षणं कालफणिपाशाद्रक्षणं त दर्थं विषदं स्वच्छमपदानं कालदाहरूपं द्युसदां द्वन्द्वानि चन्द्रातपधवलासु कार्तिकरा- कारजनीषु कस्यार्थान्मम मत्तोऽन्यस्य कस्य वा गायन्ति यं मां तपसा प्रसन्नं संपादयसि ॥ केनेश्वरेण महता वहतात्रिनेत्र- संजातकान्ति वपुरद्भुतभूतिभूषम् । उद्दामकामशितमार्गणदौर्मनस्य- वैरस्यमिद्धमहसा सहसा निरस्तम् ॥ ३२ ॥ हे गौरि, अत्रेरत्रिनाम्नो मुनीश्वरस्य नेत्रं ततः संजातश्चन्द्रः । 'आत्रेयः क्षणदाकरः' इत्यमरः । तत्सदृशी कान्तिर्यस्य तत् । तथा अद्भुता आश्चर्यकारिणी भूतिः संपत्तिरेव भूषा तथा वा भूषा यस्य तत् । तादृशं वपुर्वहता धारयता । तथा इद्धं दीप्तं महस्तेजो यस्य स तादृशेन केन महता ईश्वरेण सर्वतो महासमर्थेन उद्दामा उद्भटा: कामा अभि लाषा येषां तादृशा अत एव शिता अतिक्रुद्धास्तस्य ये मार्गणाः शरास्तेषां मार्गणा अर्थिनस्तेषां दौर्मनस्यं स्वाभिलषिताप्राप्तिलक्षणं तेन यद्वैरस्यं तत्सहसा तत्क्षणमेव तेन केन धन्येन निरस्तं यं तपसा प्रसन्नं कर्तुमिच्छसि । अथ च त्रिभिर्नेत्रैः सूर्येन्दुवह्निधा- मभिः कान्तिर्यस्य तत् तादृशं वपुर्वहता । तथा अद्भुता आश्चर्यकारिणी भूत्या भस्मना भूषा विच्छित्तिर्यस्य तत्तादृशं वपुर्वहता महता ईश्वरेण महेश्वरेण शंभुना उद्दाम उद्भटो यः कामस्तस्य ये शितास्तीक्ष्णा मार्गणाः शरास्तेषां दौर्मनस्यं पैशुन्यं तेन वैरस्यं नि- रस्तं दूरीकृतम् ॥ धन्याः कमस्खलितपौरुषभग्नभूरि- दर्पान्धकन्दलितलोकविषादमुच्चैः हेलावलीढविषमश्रमवीर्यवह्नि- भस्मीकृताहितपुरं कवयः स्तुवन्ति ॥ ३३ ॥ हे गौरि, अस्खलितेन निर्निरोधेन पौरुषेण भग्नश्चलितो भूरिदर्पणान्धानां लोकानां कन्दलितः पल्लवितो वृद्धिंगतो लोकानां विषादो येन स तम् । तथा हेलयावलीढो निर्नाशितो विषमः श्रमो येन स तादृशो यो वीर्यवन्हिर्वीर्यमेवाग्निस्तेन भस्मीकृतान्यहि- तानां शत्रूणां पुराणि नगराणि येन स तादृशं कं धन्याः कवयः स्तुवन्ति यं तपसा प्रसादयसि । प्राग्वदीश्वरमपि किंभूतम् । अस्खलितेन पौरुषेण भग्नः संहारितो भूरिदर्पो महागर्ववानन्धकोऽन्धकाख्योऽसुरो येन तम् । तथा उच्चैः कृत्वा दलितः खण्डितः लोकानां सप्तानां भूरादीनां विषादो दुःखं येन स तादृशम् । तथा हेलया खेलयावलीढं निगीर्णं विषं कालकूटाख्यो विषभेदो येन स तम् । तथा अश्रमं श्रमरहितं कृत्वा वीर्य- वह्निना वीर्याग्निना भस्मीकृतान्यहितान्यननुकूलानि पुराणि त्रीणि पुराणि येन स तं धन्याः कवयः स्तुवन्ति ॥ कः स्वर्धुनीसवनवह्निनिषेवणादि- धौतां दधत्तनुमनुज्झितभैक्षवृत्तिः । कालं द्विजेन्द्रमुकुटः परिशुद्धधर्म- चर्यारतः क्षपितवानजिनावृताङ्गः ॥ ३४ ॥ स्वर्धुन्यां गङ्गायां यत्सवनं स्नानं तथा वह्वेस्तरुणाग्नेश्च निषेवणं तदादिकर्मणा धौतां पवित्रां तनुं दधत् । तथा अनुज्झिता भैक्षवृत्तिर्भिक्षाणां समूहो भैक्षं तेन वृत्तिर्जीवनं यस्य स तादृक् । तथा परिशुद्धोऽतिस्वच्छो यो धर्मः शास्त्रीयवचनपरिपालनरूपस्त- स्मिन्रतः । तथा अजिनेन मृगचर्मणा आवृताङ्गः स को द्विजेन्द्राणां विप्रवराणां मुकुटो मौलिभूतः कालं समयं क्षपितवान् । वह्विस्तृतीयनयनस्थस्तस्य निषेवणम् । आदिना सूर्यचन्द्रपरिग्रहः । तैर्धौतां निर्मलां तनुं दधत् । तथा अनुज्झितभैक्षवृत्तिः । तथा द्वि- जानां नक्षत्राणामिन्द्रः शशी स मुकुटे यस्य स तादृक् । तथा परिशुद्धो धवलो यो धर्मो वृषो वाहनभूतः शाक्करस्तत्र चर्यायां रतः । कालं यमं क्षपितवान् । दंदाहेत्यर्थः॥ उद्धूलितश्चितिरजोभिरखण्डमुण्ड- मालाकरालशिखरः सुचिरं चचार । भीष्मश्मशानवसनव्यसनः कपाल- खट्वाङ्गपाणिरतितीव्रमपि व्रतं कः ॥ ३९ ॥ चितिरजोभिरुद्धूलितोऽनुलिप्तः । तथा अखण्डा चासौ मुण्डानां नृमुण्डानां माला तया करालं भीषणं शिखरं मौलिर्यस्य स तादृशः । तथा भीष्मं भयावहं यत् श्मशानं पितृवनं तत्र यद्वसनं निवासस्तत्र व्यसनं हेवाको यस्य स तादृक् । तथा कपालं ख- ट्वाङ्गं च ते पाणौ यस्य स तादृक् स कोऽतितीव्रमपि दुष्करमपि व्रतं चचार यं त्वं त पसा प्रसन्नं कर्तुमिच्छसि । ईश्वरोऽपि महाप्रलयेषु कालाग्निरुद्ररूपेण संहारितानां ब्रह्मा- दीनां निर्दग्धानां चितिरजोभिरुद्धूलितोऽनुलिप्तः । तथा तेषामेवाखण्डमुण्डमालया पू- रितमुकुटः । प्रागुक्तक्रमेण भीषणश्मशानवासव्यसनी कपालखट्वाङ्गपाणिश्च ॥ मन्ये भवान्तरशतोपचितस्य पुण्य- पृथ्वीरुहः फलमलभ्यमभाग्यभाजाम् । यस्या दृगञ्चलविलोकनमात्रमेव संभावनं तु वचसा वचसामभूमिः ॥ ३६ ॥ ईश्वरः पार्वतीमवदत् – हे गौरि, अहं मन्ये । अभाग्यभाजामभाग्यवतामलभ्यमप्राप्यं भवान्तराणां जन्मान्तराणां शतैरुपचितमर्जितं यत्पुण्यं स एव महीरुट् द्रुमस्तस्य फलं फलभूतम् । आरोपः । यस्यास्तव दृगन्तविलोकनमात्रमेव फलं भवति । तुः पक्षा- न्तरे । वचसा संभावनं सादरीकरणं तु वचसामभूमिरनिर्वाच्यम् ॥ सा त्वं महार्घगुणरत्नसमुद्रवेला लावण्यसिन्धुरकलङ्ककुलप्रसूतिः । सौभाग्यभाग्यविभवादिभवाभिमान- भूमानमानयसि यं तपसा प्रसादम् ॥ ३७ ॥ सापि त्वं महार्घाणां गुणरत्नानां समुद्र उत्पत्तिस्थानं तस्य वेला । तथा लावण्यस्य सिन्धुर्नदी । तथा अकलङ्कं यत्कुलं गिरिवरस्य हिमालयस्य तस्मात्प्रसूतिर्यस्यास्तादृशी सती सौभाग्यं सुभगत्वं च भाग्यानि च तेषां विभवस्तदादिभवोऽभिमानभूमाहंकारबा- हुल्यं यस्य स तादृशं सौभाग्यभाग्यविभवादिभवाभिमानभूमानं यं धन्यं तपसा एवंवि- धेन प्रसादं प्रसन्नतां कर्मानयसि स कस्त्वं वदेति प्रतिश्लोकमन्वयः ॥ इत्थं विदग्धरसदिग्धकथाक्रमेण देव्या समं समभिभाषणलोलुभस्य । यद्व्याजवर्णितरुणस्य तवावहित्थ- संरुद्धमप्यतिभरेण समुद्बभूव ॥ ३८ ॥ हे विभो, इत्थमनेन प्रकारेण विदग्धा निपुणा रसदिग्धा या कथा तस्याः क्रमेण देव्या पार्वत्या समं सम्यगभिभाषणे लोलुभस्य । तथा व्याजेन यो वर्णितरुणो वर्णी ब्र- ह्मचारी चासौ तरुणस्तद्रूपस्य तवावहित्थेनाकारगुप्त्या संरुद्धमपि पश्चाद्गतमपि यत्तव विलासहसितमतिभरेणातिशयेन समुद्बभूव समुत्पन्नं तेन विलासहसितेन मम तापमध्या- त्मिकादिभेदेन त्रिविधमेव तापं संतापं तथा तमोऽज्ञानं ध्वान्तं च विषमं जहि इत्यग्रे संबन्धः । 'अवहित्थाकारगुप्तिः' इत्यमरः । 'विकृतस्य रोमाञ्चादेराच्छादनादबहिः स्थि- तत्वादवहित्था स्त्रीत्वे । 'अवहित्थमथोग्रता' इति भरतोक्तत्वातत्क्लीबमपि' इति रायमु- कुट्याम् । 'अवहित्थमित्येके' इति स्वामी ॥ रूपं प्रदर्श्य विदधद्गिरि सानुकम्पं दिव्यं धृतामृतरसं गिरिसानुकम्पम् । येन व्यधा मुखमखण्डसितांशुकान्तं देव्या वपुश्च पुलकोच्छ्वसितांशु कान्तम् ॥ ३९ ॥ स्वामिन्नुदारघनसारतुषारहारकह्लारशारदनिशारमणोपमेन । तापं तमश्च विषमं जहि मे सहेलमुल्लासितेन हसितेन सितेन तेन ॥ ४०॥ (युगलकम् )[^१] हे स्वामिन्, दिव्यं लोकोत्तरं धृतोऽमृतरसो येन तत्तादृशं च गिरि वाण्यां सानु कम्पं सहानुकम्पया कृपया वर्तते यत्तत्तादृशं रूपं निजं प्रदर्श्य गिरिसानुकम्पं गिरेः प्रकृतत्वाद्धिमाद्रेः सानूनि शिखराणि तेषां कम्पं विदधत्कुर्वेस्त्वं येन विलासहसितेन देव्याः पार्वत्या मुखमखण्ड: पूर्णो यः सितांशुश्चन्द्रस्तद्वत्कान्तं रम्यं प्रमोदेन व्यधा अकरोः । तथा देव्या वपुश्च पुलकै रोमाञ्चैर्हर्षोद्गतैरुच्छ्वसिंतोऽशुकान्तो वस्त्रप्रान्तो य स्मिंस्तादृशं व्यधास्तेन विलासहसितेनेति प्राग्वद्योजना । घनस्येव सारो यस्य शैत्याद्धनसारः कर्पूरम् । 'कस्य जलस्य हार इव । शोभाकरत्वात् । पृषोदरादित्वे कह्रारम्' इति स्वामी । 'शारदं शुक्लं चैतत्' इति च । रायमुकुटीकारस्तु 'के जले ह्लादते सुखं तिष्ठतीति नैरुक्ते । दकारस्य रेफे कह्रारमिति पञ्चिकादयः । सौगन्धिकं तु कह्रारम् । सौगन्धी इति रक्तपुष्पस्य' इत्याह । हे स्वामिन्, उदारो महांश्चासौ घनसारः कर्पूरम् । तुषारो हिमम् । हारो मुक्ताहारः । कह्रारः शारदं शुक्लं जलजम् । शारदनिशाकरः शरत्पूर्णेन्दुः । तैरुपमा यस्य तत्तादृशेन । सहेलमुल्लासितेनोद्धाटितेन सितेन धवलेन तेन इसितेन विलासहसितेन मे मम वराकस्य तापमाध्यात्मिकाधिदैविकाधिभौतिक भेदेन त्रिविधमेव संतापं तथा तमोऽविद्यापर्यायमज्ञानमेव तमो ध्वान्तं विषमं कठिनं जहि दूरीकुरु ॥ इदानीमेतत्स्तोत्रं विंशमुपसंहरन्नाह सहस्रचरणं रविं नयनपङ्कजान्तःस्थितं सहस्रनयनं हरिं चरणपङ्कजान्तः स्थितम् । विमृश्य धृतविस्मयां भगवतीमवेक्ष्योद्गतं प्रभोरभिमताप्तये हसितमस्तु शर्वस्य मे [^२]॥ ४१ ॥ अत्र वृत्ते प्रभोः परमेश्वरस्य स्वातन्त्र्यं वर्णयति कविः । यथा सहस्रं चरणाः पादा रश्मयो यस्य स सहस्रचरणस्तादृशं रविं सूर्यं विभोर्नयनपङ्कजान्तःस्थितिं नेत्रपद्मान्तःस्थितिर्यस्य स तादृशं विमृश्य । अत्र पादशब्दार्थे चरणशब्दस्य नेयार्थत्वं भक्तिविषये न [^१]. 'युगलकम्' क-पुस्तके नास्ति. [^२]. 'वः' ख. दोषः । तथा सहस्रनयनं सहस्राक्षं हरिमिन्द्रं चरणपङ्कजान्तःस्थितिं चरणावेव पङ्कजे त- योरन्ते समीपे स्थितिर्यस्य स तादृशं विमृश्य वृतविस्मयां तो विस्मय आश्चर्यं यया सा तादृशीं भगवर्तं पार्वतीमवेक्ष्योद्गतमुत्पन्नं शर्वस्य श्रीशिवस्य प्रभोर्हसितं मे ममा- भिमताप्तयेऽस्तु । अत्र सहस्रपादस्य रवेः पादान्त एव स्थितिर्युक्ता सहस्रनयनस्य च न- यन एव स्थितिर्युक्तासीत्तदनपेक्ष्य स्वातन्त्र्येण प्रभुणान्यथा विहितत्वाद्भगवत्या आश्च- योद्भव इति ॥ इति श्रीराजानकशंकरकण्ठात्मजराजानकश्रीरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरिकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ हसितस्तोत्रं विंशम् । एकविंशं स्तोत्रम् । इदानीमर्धनारीश्वरस्तोत्रमेकाविंशमारभमाण आह वन्देमह्यमलमयूखमौलिरत्नं देवस्य प्रकटितसर्वमङ्गलाख्यम् । अन्योन्यं सदृशमहीनकङ्कणाङ्कं देहार्धद्वितयमुमार्धरुद्धमूर्तेः ॥ १ ॥ अमलाः श्वेता मयूखा रश्मयो यस्य सोऽमलमयूखश्चन्द्रो मौलिरत्नं यस्य तत् । ए- तद्विशेषणमुभयत्र देहार्धद्वयेऽपि सामान्यम् । तथा ईश्वरार्धपक्षे प्रकटितानि सर्वाणि मङ्गलानि यया सा तादृशी आख्या अभिधा यस्य तत्प्रकटितसर्वमङ्गलाख्यम् । देवी- पक्षे प्रकटिता सर्वमङ्गला इत्याख्या येन तत् । सर्वाणि मङ्गलानि यस्यां सर्वमङ्गलदा- यित्वाञ्च सर्वमङ्गला पार्वती । 'शर्वाणी सर्वमङ्गला' इत्यमरः । तथा ईश्वरपक्षे अहीनां सर्पाणामिना इन्द्रा वासुक्यादयस्त एव कङ्कणा अङ्कं चिह्नं यस्य तत् । देवीपक्षे न हीना अहीनाः कङ्कणा अङ्के मध्ये यस्य तत्तादृशम् । तथा अन्योन्यं परस्परं सदृशम् । शब्द- साम्येन । एवंभूतमुमार्धेन पार्वत्यर्धेन रुद्धा मूर्तिर्यस्य स तादृशं देवस्य श्रीशंभोर्देहार्ध - योर्द्वितयं वयं वन्देमहि । शब्दश्लेषोऽलंकारः ॥ तद्वन्दे गिरिपतिपुत्रिकार्धमिश्रं क्षैकण्ठं वपुरपुनर्भवाय यत्र । वक्रेन्दोर्घटयति खण्डितस्य देव्या साधर्म्यं मुकुटगतो मृगाङ्कखण्डः ॥२॥ गिरिपतेर्हिमाद्रेः पुत्रिका पार्वती तदर्धेन मिश्रं समवेतं श्रैकण्ठं पारमेश्वरं वपुरर्ध- नारीश्वररूपमपुनर्भवायाभूयोजन्मनेऽहं वन्दे । तत्किमित्याह — यत्रेत्यादि । यत्रार्धनारी- श्वररूपे मुकुटगतो मुकुटस्थो मृगाङ्कखण्डश्चन्द्रार्धरूपः खण्डितस्यार्धनारीश्वररूपविधा- नाय देव्या वक्रेन्दोर्मुखेन्दोः साधर्म्यं सादृश्यं घटयति कुरुते । एतद्रूपविधानाय खण्डि- तदेवीवक्त्रर्धमिव मुकुटस्थो मृगाङ्कखण्डो भातीत्यर्थः ॥ एकत्र स्फटिकशिलामलं यदर्धे प्रत्यग्रद्रुतकनकोज्ज्वलं परत्र । बालार्कद्युतिभरपिञ्जरैकभागप्रालेयक्षितिधरशृङ्गभङ्गिमेति ॥ ३ ॥ यदर्धनारीश्वररूपमेकत्रार्घे ईश्वरार्धे स्फटिकशिलावदमलं धवलं तथान्यत्रार्घे प्रत्यमं नवं यद्द्रुतं गलितं कनकं हेम तद्वदुज्ज्वलं एवंभूतं सद्बालार्कस्य द्युतिभरेण पिञ्जर एको भागो यस्य स तादृशो यः प्रालेयक्षितिधरो हिमाचलस्तस्य शृङ्गं शिखरं तस्य भङ्गिं विच्छित्तिमेति लभते ॥ अधुनार्धनारीश्वररूपेऽपि वामार्धमागस्य देवीरूपस्य वर्णनां करोति यत्रैकं चकितकुरङ्गभङ्गि चक्षुः प्रोन्मीलत्कुचकलशोपशोभि वक्षः । मध्यं च क्रशिमसमेतमुत्तमाङ्गं भृङ्गालीरुचिकचसंचयाञ्चितं च ॥ ४ ॥ साभोगं घननिबिडं नितम्बबिम्बं पादोऽपि स्फुटमणिनूपुराभिरामः । आलोक्य क्षणमिति नन्दिनोऽप्यकस्मादाश्चर्यं परमुदभूदभूतपूर्वम् ॥५॥ (युगलकम्) यत्र देवीरूपार्धभागे एकं चक्षुर्वामं चकितकुरङ्गस्य त्रस्त मृगशावकस्येव भङ्गिर्यस्य तत्तादृशं भवति । तथा यत्र वामार्धे वक्षः प्रोन्मीलच्चासौ कुच एव कलश: कुचकलशस्तेनोपशोभत इति तादृशं भवति । तथा यत्रार्धे मध्यं च क्रशिम्नातिकृशत्वेन समेतं भवति । तथा उत्तमाङ्गं शिरश्च भृङ्गानां भ्रमराणामाली पङ्किस्तस्या इव रुचिर्येषां ते तादृशा ये च केशास्तेषां संचयेन समूहेनञ्चितं रम्यं भवति । तथा यत्र वामार्धे साभोगं सविस्तारं घनं पीवरं निबिडं दृढं नितम्बबिम्बमस्ति । तथा पादोऽपि वामः स्फुटश्चासौ मणिनूपुरस्तेनाभिरामः । इत्येवंभूतं रूपं क्षणमालोक्य दृष्ट्वा नन्दिनोऽपि शिलादनन्दनस्यापि प्रमथवरस्य परमुत्कृष्टमभूतपूर्वमाश्चर्यमासीत् ॥ युग्मम् ॥ अधुना तस्याद्भुतस्य रूपस्य दक्षिणवामार्धद्वयमपि वर्णयति यत्रार्धं घटयति भूरिभूतिशुभ्रं चन्द्रांशुच्छुरितकुबेरशैलशोभाम् । अर्धं च प्रणिहितकुङ्कुमाङ्गरागं पर्यस्तारुणरुचिकाञ्चनाद्रिमुद्राम् ॥ ६ ॥ यत्राद्भुते रूपे भूरिभूत्या बहुलभस्मना शुभ्रमर्धं दक्षिणार्धं चन्द्रांशुभिश्छुरितो व्याप्तो यः कुबेरशैलः कैलासगिरिस्तस्य शोभां घटयत्युत्पादयति । तथा अर्धं वामार्धं प्रणिहितः कुङ्कुमस्य कश्मीरजन्मनोऽङ्गरागो यत्र तादृशं सत्पर्यस्ता समन्तात्पतिता अरुणस्य सूर्यस्य रुचिर्यस्मिंस्तादृशो यः काञ्चनाद्रिर्मेरुगिरिस्तस्य मुद्रां घटयत्युत्पादयति॑ [^१]॥ यत्कान्तिं दधदपि काञ्चनाभिरामां प्रोन्मीलद्भुजगशुभाङ्गदोपगूढम्। बिभ्राणं मुकुटमुपोढचारुचन्द्रं संधत्ते सपदि परस्परोपमानम् ॥ ७ ॥ यदद्भुतमर्धनारीश्वररूपं सपदि सद्यः परस्परमुपमानमौपम्यं शब्दश्लेषेणान्योन्य- साम्यं च संधत्ते । यथा ईश्वरपक्षे यद्दक्षिणार्धं कांचनानिर्वाच्यां शोभां दधदपि प्रोन्मी- लन्तो भुजगा वासुक्यादयो नागास्त एव शुभान्यङ्गदानि केयूराणि तैरुपगूढमालिङ्गि- तम् । तथा उपोड: प्राप्तो मौलिं चारुचन्द्रः शशी यस्य स तादृशं मुकुटं मौलिं बिभ्रा- णम् । भगवतीपक्षे तु यद्वामार्धं काञ्चनाभिरामां काञ्चनवत्कनकवदभिरामां तादृशीं कान्तिं दधदपि प्रोन्मीलन्ति भुजान्गच्छन्तीति भुजगानि यानि शुभानि रम्याण्यङ्ग- दानि केयूराणि तैरुपगूढम् । तथा उपोढः प्राप्तश्चारू रमणीयश्चन्द्रः कर्पूरं येन तादृङ्मु- कुटं बिभ्राणम् । एतत्पक्षेऽपि उपोढश्चारुश्चन्द्रः शशी वा येन तत् ॥ आश्चर्यं तव दयिते हितं विधातुं प्रागल्भ्यं किमपि भवोपतापभाजाम् । अन्योन्यं गतमिति वाक्यमेकवक्त्रप्रोद्भिन्नं घटयति यत्र सामरस्यम् ॥ ८ ॥ यत्राद्भुते रूपे इत्यनेन प्रकारेन समवेतयोः शिवयोरकस्मादेव वक्रान्मुखात्प्रोद्भिन्नमु- द्गतमन्योन्यं परस्परं शब्दसाम्येनैकमेव वाक्यं सामरस्यं समो रसो यत्र तत्समरसं तस्य भावस्तं घटयत्युत्पादयति । इति किमित्याह — आश्चर्यमित्यादि । भगवत्पक्षे देवीं प्रति वाक्यम् – हे दयिते प्रियतमे गौरि, भवेन संसारेण ये उपतापं भजन्ति तादृशां देहिनां हितमनुकूलं कर्तुं किमपि लोकोत्तरं तवाश्चर्यमद्भुतं प्रागल्भ्यम् । भगवतीपक्षे भगवत्याः शिवं प्रति वाक्यं तदेव - हे दयित प्रियतम, इत्याश्चर्यं भवति । इति किमिति । प्रागल्भ्यं किमपि भवति । किं कर्तुम् । ईहितमभिलषितं विधातुम् । केषाम् । भवोपतापभाजां संतप्तानां वा ॥ प्रत्यङ्गं घनपरिरम्भतः प्रकम्पं वामार्धं भुजगभयादिवैति यत्र । यत्रापि स्फुटपुलकं चकास्ति शीतस्वःसिन्धुस्नपिततयेव दक्षिणार्धम् ॥ ९ ॥ यत्राद्भुते रूपे वामार्धं देव्यर्घं घनमतिनिबिडं यत्परिरम्भणमाश्लेषस्तस्मात्प्रकम्पं सा- त्त्विकभावमेति लभते । कस्मादिव कम्पमेति । भुजगभयादिव । भयेनापि रोमोद्गमो भवति । यत्रापि दक्षिणार्धं भगवदर्घं घनपरिरम्भतो देव्या अतिनिबिडपरिरम्भणात्स्फु- टपुलकं चकास्ति । कयेव । शीतस्वःसिन्धुस्रपिततयेव । शीता अतिशीतला या स्व:- सिन्धुर्गङ्गा तया स्नपितं तस्य भावस्तत्ता तयेव । शीतेनापि पुलकोद्गमो भवति ॥ एकत्र स्फुरति भुजंगभोगभङ्गिर्नीलेन्दीवरदलमालिका परत्र । एकत्र प्रथयति भास्मनोऽङ्गरागः शुभ्रत्वं मलयजरञ्जनं परत्र ॥ १० ॥ एकत्रार्पयति विषं गलस्य कार्ष्ण्यं कस्तूरीकृतमपि पुण्ड्रकं परत्र । एकत्र द्युतिरमलास्थिमालिकानामन्यत्र [^१]प्रसरति मौक्तिकावलीनाम् ॥ ११ ॥ एकत्र स्त्रुतरुधिरा करीन्द्रकृत्तिः कौसुम्भं वसनमनश्वरं परत्र । इत्यादीन्यपि हि परस्परं विरुद्धान्येकत्वं[^२] दधति विचित्रधाम्नि यत्र ॥१२॥ (तिलकम्) [^१]. 'प्रथयति' ख. [^२]. 'ऐकध्यं' ख. यत्राद्भुतैकधाम्नि रूपे एकत्र दक्षिणार्धे भुजंगानां वासुकिप्रभृतीनां भोगाः फणा- स्तेषां भङ्गिर्विच्छित्तिः स्फुरत्युल्लसति । परत्रान्यस्मिन्देव्यर्धे नीलोत्पलदलमालिका स्फुरति । तथा एकत्र भगवदर्धे भास्मनोऽङ्गरागः शुभ्रत्वं प्रथयति विस्तारयति । परत्र देव्यर्धे मलयजरञ्जनं चन्दनेन रञ्जनं च शुभ्रत्वं प्रथयति । तथा एकत्र दक्षिणार्धे विषं कालकूटाख्यं कार्ष्ण्यं कृष्णत्वमर्पयति । परत्र वामार्धे कस्तूरीकृतं पुण्ड्रकं तिलकं ग लस्य कार्ष्ण्यं कृष्णत्वमर्पयति । एकत्र दक्षिणार्धेऽस्थिमालिकानां द्युतिः कान्तिरमला शुभ्रा प्रसरति । अन्यत्र वामार्धे मौक्तिकावलीनां द्युतिः कान्तिरमला शुभ्रा प्रसरति । तथा एकत्र भगवदर्धे स्रुतरुधिरा स्रुतलोहिता करीन्द्रकृत्तिर्गजेन्द्रचर्म भवति । परत्र देव्यर्धेऽनश्वरमक्षयं कौसुम्भं वसनं वासो भवति । कुसुम्भेन रक्तं कौसुम्भम् । इत्यादी- न्यन्यानि च वस्तूनि परस्परं विरुद्धान्यपि यत्र विचित्रधाम्न्यद्भुतेऽर्धनारीश्वररूपे ए- कत्वं दधति ॥ तिलकम् ॥ दन्तानां सितिमनि कज्जलप्रयुक्ते मालिन्येऽप्यलिकविलोचनस्य यत्र । रक्तत्वे करचरणाधरस्य चान्यो नान्योन्यं समजनि नूतनो विशेषः ॥ १३ ॥ यत्र यस्मिन्नर्धनारीश्वररूपेऽन्योन्यं परस्परं द्वयोरपि दक्षिणवामार्धयोर्दन्तानां रदानां सितिमनि श्वेतत्वेऽन्यो नूतनो विशेषो न समजनि । द्वयोरर्धयोरपि दन्तानां सितिम्ना । तथा अलिकविलोचनस्य ललाटस्थनेत्रस्य कज्जलेन धूमेन कज्जलेन कृष्णरञ्जनेन च प्रयुक्ते मालिन्ये कार्ष्ण्येऽपि नूतनो विशेषो न समजनि । भगवतो भगवत्याश्चाधिललाटस्थनेत्रतया धूमसौवीराञ्जनमालिन्यसद्भावात् । तथा द्वयोरप्यर्धयोः करचरणाधरस्य करौ च चर णौ चाघरौ च तत्करचरणाधरम् । समाहारे द्वन्द्वः । तस्य रक्तत्वेऽन्योन्यं परस्परं नूत- नोऽन्यो विशेषो न समजनि नोत्पन्नः । द्वयोरप्यर्धयोस्तथैवावस्थानात् ॥ इतःपरमद्भुतस्यार्धनारीश्वररूपस्य भगवतः प्रथमदर्शने गणेन्द्राणां नन्दिमहाकालप्रभृतीनां वितर्क: कण्ठस्य भ्रमरनिभा विभार्धभागं मुक्त्वा किं स्थितिमकरोच्छिरोरुहार्धे । अर्धं वा कनकसदृग्रुचिः कचानां संत्यज्य न्यविशत किं गलैकदेशे ॥१४॥ सौवर्णः करकमले यथैव वामे सव्येऽपि ध्रुवमभवत्तथैव कुम्भः । क्रीडैकप्रसृतमतिर्विभुर्बिभर्ति स्वाच्छन्द्यादुरसि तमेव नूनमेनम् ॥ १९ ॥ यत्रासीज्जगदखिलं युगावसाने पूर्णत्वं यदुचितमत्र मध्यभागे । संरम्भाद्गलितमदस्तदेव नूनं विश्रान्तं घनकठिने नितम्बबिम्बे ॥ १६ ॥ इत्यादीन्प्रविदधुरेव यत्र तावत्संकल्पान्प्रथमसमागमे गणेन्द्राः । यावत्स प्रणतिविधौ पदारविन्दं भृङ्गीशः परिहरति स्म नाम्बिकायाः ॥१७ (चक्कलकम्) अर्धनारीश्वररूपेऽद्भुते भगवदर्धे स्थिता भ्रमरनिभा कृष्णा विभा दीप्तिरर्धभागं मुक्त्वा वामभागे देव्याः शिरोरुहार्धे केशानामर्धे स्थिति किमकरोत् । तथा भगवदर्ध- स्थिता कचानां कपर्दरूपाणां कनकसदृग्रुचिः कपिला रुचिरर्धं निजं संत्यज्य त्यक्त्वा वामार्धस्थितदेव्या गलस्य कण्ठस्यैकदेशस्तत्र किं न्यविशत निविष्टा । भगवान्हि पि- ङ्गलजटो देवी च कनककान्तिकण्ठभागा ॥ सुवर्णे प्रकृतिर्यस्य स सौवर्णः । यथैव वामे देवीभागे सौवर्ण: कुम्भोऽमृतपूर्णो हेमकलशो वामे करकमलेऽभवत् ध्रुवं निश्चये तथैव सव्येsपि दक्षिणेऽप्यमृतपूर्णो हेमकलशोऽभवत् । क्रीडायामेका प्रसृता मतिर्यस्य स विभुः श्रीशंभुः स्वाच्छन्द्यात्स्वातन्त्र्यात्तमेवैनं हेमकलशं नूनं निश्चयेनोरसा बिभर्ति । युगाव- साने कल्पान्तावसरे यत्र मध्यभागे भगवतोऽखिलं जगत्त्रिभुवनमासीदत्र मध्यभागे भगवतो यत्पूर्णत्वमुचितं तदेव पूर्णत्वं संरम्भानाट्याटोपाद्धेतोरतो मध्याद्गलितं पतितं सद्वामार्धस्थितभगवत्या घने पीने कठिने च नितम्बबिम्बे विश्रान्तम् । नूनं संभावना- याम् । यत्राद्भुतेऽर्धनारीश्वररूपे इत्यादीन्पूर्वोक्तप्रकारेणोक्तान्संकल्पान्मनोवितर्कान्ग- णेन्द्रा नन्दिमहाकालादयः प्रथमसमागम एव प्रथमदर्शन एव तावत्प्रविदधुः प्रकर्षेण चक्रुः । तावत्कथमित्याह – यावदित्यादि । स प्रसिद्धः प्रमथानां मध्ये भृङ्गीशो भृङ्गरि- टिर्नाम प्रमथोऽम्बिकायास्त्रिजगन्मातुः पार्वत्याः पादारविन्दं चरणकमलं यावन्न परिहर- ति स्म यावन्नावर्जयत् । कदा । प्रणतिविधौ प्रणामविधाने। भृङ्गिरिटिः प्रमथेन्द्रो महामा- हेश्वरो वामाङ्गस्थितां भगवतीं न प्रणनाम। किं तु भगवन्तमेव प्रणतवानित्यर्थः । पुन- स्तयाम्बिकया शप्तो जगन्मातुर्मम संबन्धि रक्तमांसादि त्यजेति सोऽपि तच्छापमाकर्ण्य क्रुद्धस्तत्तत्याज । पुनर्भगवता शंभुना सुधाभिषेकं विधाय त्वमस्थिशेष एवामरो भवेत्य- नुगृहीत इत्यागमः ॥ चक्कलकम् ॥ किमयं शिवः किमु शिवाथ शिवाविति यत्र वन्दनविधौ भवति । अविभाव्यमेव वचनं विदुषामविभाव्यमेव वचनं विदुषाम् ॥ १८ ॥ .........अथानन्तरमेतौ शिवौ किं भवतः । शिवश्च शिवा च शिवौ । 'पुमा- न्स्त्रिया' इत्येकशेषः । अर्थाद्बहुवचनमपीत्यर्थः । अत्रार्धनारीश्वररूपे वचनमेकद्विबहुसं ख्यावचनमविभाव्यं सर्वथेत्यर्थः । केचित्तु – 'अविभाव्यमित्यत्राकारो भगवान्विष्णुस्तेन विशेषेण भाव्यं भावनया विज्ञेयम् । स एवात्रान्तरं वेत्ति' इत्यर्थान्तरमूचुः ॥ एक: स्तनः समुचितोन्नतिरेकमक्षि लक्ष्याञ्जनं तनुरपि क्रशिमान्वितेति । लिङ्गैस्त्रिभिर्व्यवसिते सविभक्तिकेऽपि यत्राव्ययत्वमविखण्डितमेव भाति ॥ १९ ॥ इत्यनेन प्रकारेण त्रिभिर्लिङ्गैश्चिह्नैः स्तनादिभिः तथा त्रिभिर्लिङ्गैः पुंस्त्रीनपुंसकैर्व्यवसि- तेऽपि निर्णीतेऽपि सविभक्तिके विशेषेण भक्तिर्विच्छित्तिस्तत्सहिते । अथ च सह विभ क्तिभिः प्रथमादिभिः सप्तभिः सहितेऽपि यत्राद्भुतेऽर्धनारीश्वररूपेऽव्ययत्वं न व्येति स्वरू पात्प्रचलतीत्यव्ययं तद्भावोऽव्ययत्वं महाप्रलयेष्वनश्वरत्वमथ चाव्ययत्वं च वा ह इत्या- द्यव्ययीभावोऽप्यखण्डितमेवाद्भुतं भाति । अथ च यदपि पदं त्रिभिर्लिङ्गैः स्त्रीपुंनपुंसकै- र्व्यवसितं ज्ञातं विभक्तिभिश्च सहितं तत्राव्ययत्वमविखण्डितं कथं स्यादिति विरोधः । अत एवाद्भुतत्वम् । तथा चोक्तम् – 'सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥' इति । यस्य पदस्य लिङ्गसंख्याकारककृतो विभागो नास्ति तदव्ययमुच्यत इति । त्रिभिर्लिङ्गैः किमित्याह – एकः स्तनो वामार्धे देवीसक्ते समुचितोन्नतिः समुचिता उन्नतिर्यस्य स भवति । तथा एकमक्षि तत्रैव लक्ष्याञ्जनं ल क्ष्यमञ्जनं यत्र तद्भवति । तथा तनुरपि मूर्तिरपि क्रशिम्ना कार्श्येनान्विता भवति ॥ यत्र ध्रुवं हृदय एव यदैक्यमासी- द्वाक्काययोरपि पुनः पतितं तदेव । यस्मात्सतां हृदि यदेव तदेव वाचि यच्चैव वाचि करणेऽप्युचितं तदेव ॥ २० ॥ कान्ते शिवे त्वयि विरूढमिदं मनश्च मूर्तिश्च मे हृदयसंमददायिनीति । अन्योन्यमभ्यभिहितं वितनोति यत्र साधारणस्मितमनोरमतां मुखस्य ॥ २१ ॥ उद्यन्निरुत्तरपरस्परसामरस्यसंभावनव्यसनिनोरनवद्यहृद्यम् । अद्वैतमुत्तमचमत्कृतिसाधनं त द्युष्माकमस्तु शिवयोः शिवयोजनाय ॥२२॥ (तिलकम्) ध्रुवं निश्चये । यस्मिन्नर्धनारीश्वररूपे हृदय एव यदैक्यं द्वयोः शिवयोरासीत्तदेवैक्यं तत्सक्तयोर्वाक्काययोरपि पुनः पतितम् । तदेव दृष्टान्तेन संभावयति – यस्माद्धेतोः स- तामुत्तमानां सहृदयानां हृदि मनसि यद्भवति तदेव तेषां वाचि यच्चैव वाचि भवति तदेव करणे देहे कर्मणि चोचितम् । यत्रार्धनारीश्वररूपेऽन्योन्यं परस्परमभि । अन्यो- न्यमुद्दिश्येत्यर्थः । इत्यभिहितं कथनम् । भावे क्तः । मुखस्य वक्त्रस्य साधारणस्मितेन मनोरमतां वितनोति विस्तारयति । इति किमित्याह – हे कान्ते दयिते शिवे गौरि, त्वयि विषये विरूढं निलीनं मम मनश्च । मूर्तिश्चेत्थं त्वयि विरूढा । उभे इत्यर्थात् । एवं- विधे मनश्च मूर्तिश्चेत्युभे मम हृदयसंमददायिनी । चेतश्चमत्कारकारिणी इत्यर्थः । दा यिनी इति द्विवचनम् । इति पार्वतीं प्रति भगवदुक्तिः । भगवत्या उक्तिर्यथा त्वयि शिवे महादेवे कान्ते भर्तरि मम मनो विरूढं लीनम् । मूर्तिश्चैषा । अन्यत्प्राग्वत् ॥ उद्यन्नि- रुत्तरमुत्तरान्निष्क्रान्तं तादृशं यत्परस्परसामरस्यं तस्य संभावनं निश्चयस्तत्र व्यसनिनोर - त्यन्तहेवाकिनोः शिवयोः पार्वतीपरमेश्वरयोरुत्तमचमत्कारकरमद्वैत मर्धनारीश्वरत्वमस्माकं शिवयोजनाय कैवल्यप्रतिपादनायास्तु । किंभूतम् । अनवद्यं निर्दोषं हृद्यं मनोहारि च ॥ तिलकम् ॥ लक्ष्याण्यलक्ष्याण्यपरत्र यत्र विलक्षणान्येव हि लक्षणानि । साहित्यमत्यद्भुतमीशयोस्तन्न कस्य रोमाञ्चमुदञ्चयेत ॥ २३ ॥ ईशयोः पार्वतीपरमेश्वरयोस्तदत्यद्भुतमतिचमत्कारकारि साहित्यमद्वैतं कस्य सचेत नस्य रोमाञ्चं पुलकं नोदञ्चयेत नोत्पादयेत् । तत्किमित्याह – यत्र शिवयोरद्वैतेऽर्धनारी- श्वररूपेऽपरत्र भगवत्पार्श्वेऽलक्ष्याण्यदृश्यानि लक्षणानि स्तन हेमावदातगलत्वस्निग्धचिकु रकलापत्वादीनि विलक्षणान्येव दृश्यानि । भगवतीपार्श्व इत्यर्थः । अथ च साहित्यं प्रब न्धः लक्ष्यापरपर्यायः । तस्याद्भुतत्वम् । तच्च किम् । लक्ष्याणि पदानि लक्षणानि च अलक्ष्याणि लक्षणानि चालक्षणानि ॥ जूटाहेर्मुकुटेन्द्रनीलरुचिभिः श्यामं दधत्यूर्ध्वगं भागं वह्निशिखापिशङ्गमधरं[^१] मध्ये सुधाच्छच्छविः । धत्ते शक्रधनुःश्रियं [^२]प्रतिमिता यत्रेन्दुलेखानृजु- र्युष्माकं स पयोधरो भगवतो हर्षामृतं वर्षतु ॥ २४ ॥ जूटस्य भगवत्कपर्दस्याहेर्वासुकेर्यन्मुकुटं तत्र यानीन्द्रनीलानि मणिविशेषास्तदीय- कान्तिभिरूर्ध्वगं भागं श्यामं दधती । तथा वह्वेस्तृतीयलोचनधाम्नः शिखाभिर्ज्वा- लाभिः पिशङ्गमघरं भागमधोभागमग्निज्वालाकपिलं दधती । तथा मध्ये मध्यभागे सु- धाच्छच्छविः स्वयं सुधावदच्छच्छविर्वा । न ऋजुरनृजुः कुटिला इन्दुलेखा चन्द्रकला पूर्वोक्तप्रकारेणोर्ध्वमध्याधोभागेषु श्यामधवलपिशङ्गवर्णा यत्र भगवतोरद्वैतभाजोः स्तन- प्रतिमिता प्रतिबिम्बिता शक्रधनुःश्रियमिन्द्रचापश्रियं धत्ते स भगवतोः पार्वतीपरमे- श्वरयोरद्वैतभाजोः पयोधरः स्तन एव पयोधरो मेघो हर्षामृतं परमानन्दामृतं युष्माकं वर्षस्विति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजराजानकश्रीरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टकृते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलावर्धनारीश्वरस्तोत्रमेकविंशम् । [^१]. 'अपरं' ख. [^२]. 'प्रतिमितो यत्रेन्दुलेखाङ्कुरः' ख. द्वाविंशं स्तोत्रम् । अथातः कादिपदबन्धाख्येन चित्रकाव्यभेदेन द्वाविंशं स्तोत्रमारभमाण आह काव्यकौशलकलासु कोविदैः कीर्तितः कविकुलैः कुतूहलात् । कौमुदीकुमुदकान्तकीर्तिभिः कामितः कुशलकार्यकारिभिः ॥ १ ॥ केरलीकचकलिन्दकन्यकाकूलकालियकडारकंधरः । किल्बिषक्षपणकारणक्रतुक्लान्तिकृत्करटिकृत्तिकर्पटः ॥ २॥ केकिकेतनकृशानुकौशिकैः किंनरैः कविकुबेरकेशवैः । कालकूटकवलक्रियाक्रमे क्रन्दितः कलुषकर्षणक्षमः ॥ ३ ॥ कर्णकीलितकपालकुण्डलः कुण्ठितक्रकचकल्पकल्मषः । कालकामकदनः[^१] कुमुद्वतीकान्तकर्बुरकपर्द[^२]कन्दरः ॥ ४ ॥ कापिशायनकषायकामिनीकेलिकूजितकलेन कौतुकात् । क्रीडितः क्वणितकीचकक्वणत्कोकिलाकलकलेन कानने ॥ ५ ॥ कुन्दकुड्मलकदम्बकेतकीकाञ्चनारकलिकाकदम्बकैः । कर्णिकारकरवीरकोरकैः कैरवैः कुवलयैः कुशेशयैः ॥ ६ ॥ किंशुकैः कपिकपोलकान्तिभिः केसरैः कमलकोषकोमलैः । कोविदारकुटजैः कणेरकैः केवलैः कचितकीर्णकुन्तलः ॥७॥ (युग्मम्) कृष्णकुण्डलिकठोरकञ्चुकैः क्लृप्तकुब्जकमनीयकङ्कणः । क्रोधकृत्तकरिकुम्भकोटरक्रूरकेसरिकिशोरकण्टकः ॥ ८ ॥ कान्तया कनककाञ्चिकिङ्किणीकान्तया कलितकण्ठकन्दलः । कोपयन्कपटतः किरीटिनं क्रीडया कृतकिरातकैतवः ॥ ९ ॥ काककङ्ककुररैः कलङ्किते कश्मले कठिनकृत्यकारिते । कति क्षतकलेवरैः कटुं कर्षयन्करुणया कदर्थनाम् ॥ १० ॥ कोपकर्कशकृतान्तकिंकरक्लेशकातरक्कृपाकृतौ कृती । कल्पतां कलिकलङ्ककन्दलीकन्दकर्तनकुठारकर्मणे ॥ ११ ॥ (एकादशभिः कुलकम्) एवंभूतो भगवान् श्रीशिवः कलौ तुरीययुगे यः कलङ्कः स एव कन्दली लता तस्याः [^१]. 'दहन:' क. [^२]. 'कर्परः' ख. कन्दो मूलं तस्य कर्तनार्थं छेदनार्थं यत्कुठारकर्म तस्मै कलिकलङ्कच्छेदाय कल्पतां प्रभवतु । किंभूत इत्याह – काव्येत्यादि । कवित्वबीजरूपप्रतिभाविशेषलोकवृत्तशास्त्रकाव्याद्यवगाहनोद्भूतनिपुणताकाव्यकर्तृविचारयितृशिक्षाभ्यासरूपैक-हेतुनिपुणकविकर्म का व्यम् । तत्र यत्कौशलं तथा कलाश्चतुःषष्टिश्च मनोज्ञव्यवहाररूपास्तासु कोविदैर्निपुणैः कविकुलैः कविसमूहै: कुतूहलात्कौतुकात्कीर्तितः स्तुतः । पुनः किंभूतः । कौमुदी ज्योत्स्ना । कुमुदं सिताम्भोजम् । तद्वत्कान्ता रुचिरा कीर्तिर्येषां ते तादृशैः । यद्वा कुमुदकान्तश्चन्द्रस्तदुपमकीर्तिभिः । कुशलकार्यकारिभिर्मङ्गलकर्मविधायिभिः कामितोऽभिलषितः ॥ पुनः किंभूतः । केरलो देशविशेषस्तत्र स्त्रीणां प्रायशः केशाः पिङ्गला इति प्रसिद्धिः । केरलीनां केरलदेशीयस्त्रीणां कचाः केशाः तथा कलिन्दकन्यकाया यमुनाया यत्कूलं तत्र यः कालियो नागभेदस्तद्वत्कडारा पिङ्गला कंधरा यस्य तादृक् । पुनः किं भूतः । किल्बिषस्य पातकोपपातकमहापातकरूपस्य त्रिविधस्य क्षपणे कारणभूतो यः क्रतुस्तस्य भयेन पलायमानस्य मृगरूपस्य क्लान्तिः शिरश्छेदनरूपा तां करोतीति तादृक् । पुनः किंभूतः । करटिकृत्तिकर्पट करटी हस्ती तस्य कृत्तिश्चर्म तदेव कर्पटमुत्तरीयं यस्य सः । 'व्याघ्रचर्मपरीधानं गजचर्मोत्तरीयकम्' इत्यागमः ॥ पुनः किं भूतः । केकी मयूरः स एव केतनं निवासो वाहरूपो यस्य स केकिकेतनः कुमारः । कृशानुरग्निः । कौशिक इन्द्रः । 'मुनीन्द्रगुग्गुलूलूकव्यालग्राहिषुः कौशिकः' इत्यमरः । तैः । तथा किंनरैर्देवयोनिभेदैः । " किंचिन्नरोऽश्वादिमुखत्वात्किंनरः । कुत्सितो नरो वा । 'किं क्षेपे' इति समासः" इति स्वामी । तथा कविः शुक्रः कुबेरो धनदः केशवो विष्णुस्तैरेतैर्देवविशेषैः कालकूटस्य विषभेदस्य कवलक्रिया निगलनकर्म तत्क्रमे तत्प्रारम्भे क्रन्दितः कृताह्वानः । पुनः किंभूतः । कलुषस्य त्रिविधस्य पातकस्य कर्षणं दूरीकरणं तत्र क्षमः ॥ पुनः किंभूतः । कर्णयोः कीलिते आरोपिते महाप्रलये कालाग्निरुद्ररूपेण संहारितानां ब्रह्मादीनां कपाले एव कुण्डले येन सः । पुनः किंभूतः । कुण्ठितं कु ण्ठीकृतं क्रकचकल्पं कल्मषं पापं येन सः । तथा कालो यमः कामो मदनस्तयोः कदनो दाहकः । तथा कुमुद्वतीकान्तेत चन्द्रमसा कर्बुरं व्याप्तं कर्बुरवर्णं वा कपर्दस्य जटाजूटविशेषस्य कंदरं गह्वरान्तरालं यस्य सः ॥ पुनः किंभूतः । क्रीडितः प्रमुदितः । कुत्रः । कानने वने । केन । कापिशायनेनासवविशेषेण कषाया सुरभिर्भाविता वा कामिनी । 'कषायः सुरभौ स्निग्धे भाविते त्रिषु ना रसे' इति मङ्खः । तस्याः केलिकूजितकलेन क्रीडागभीरस्वनेन । कस्मात् । कौतुकात् । पुनः केन । क्वणिताः शब्दायमाना ये कीचका वेणुविशेषास्तेषु क्वणन्त्यो याः कोकिलाः पिक्यस्तत्कलकलेन ॥ पुनः किंभूतः । कुन्दं माघ्यं पुष्पविशेषस्तेषां कुङ्मलानि कदम्बानि च केतक्यश्च काञ्चनारकलिकाश्च पुष्पविशेषास्तेषां कदम्बकैः समूहैः । तथा कणिंकाराणि करवीराणि च तेषां कोरकास्तैः तथा कैरवैः श्वेतजलजैः कुवलयैर्नीलोत्पलैः कुशेशयैः पद्यैः कचिता भूषिताः कीर्णाः प्रकीर्णाः कुन्तला: केशा यस्य स इत्यग्निमवृत्तस्थेनान्वयः । अत्र च 'तवैश्वर्यं यत्नाद्यदुपरि विरिञ्चो हरिरघः परिच्छेतुं यातावनलं' इत्याख्याने श्रीशंभुना केतकी मिथ्यावादेन शप्ता स्वर्लोकाद्भूमौ पतितेत्यतस्तस्या अनुपादेयत्वेऽपि कादिपदता केतकीकुसुमस्य कविनात्र रक्षितेति न दोषः । 'निरर्गलाः कवयः' इति प्रसिद्धेः ॥ तथा कपेर्वानरस्य कपोलौ गण्डौ तत्कान्तिभिः किंशुकैः पुष्पविशेषैः तथा कमलकोषवत्कोमलैः केसरैर्बकुलैः तथ, कोविदारैः कुटजैः कणेरकैश्च पुष्पविशेषैः केवलैः कचिता भूषिताः कीर्णाः कुन्तला यस्य सः । गर्भे युगलकम् ॥ कृष्णकुण्डलिनामसितभुजगानां कञ्चुकैनिर्लयनीभिः (?) क्लृप्ता विहिताः कुब्जास्तिर्यक्स्थाः कमनीयाः कङ्कणा येन सः । पुनः किंभूतः । क्रोधेन कृत्तानि च्छेदितानि करिकुम्भकोटराणि यैस्तादृशा ये क्रूराः केसरिकिशोराः सिंहशावकास्तेषां कण्टको वधकः । कण्टकशब्दस्य क्षुद्रशत्रुवाचित्वेऽपि सामान्येन वधक त्वार्थतापीति केचित् । 'क्षुद्रवैरिणि रोमाञ्चे तरोरङ्गे च कण्टकः' इति मङ्ख ॥ पुनः किंभूतः । कनककाञ्च्यां हेमरशनायां याः किंकिण्यः क्षुद्रघण्टिकास्ताभिः कान्तया कान्तया पार्वत्याकलितमालिङ्गितं कण्ठकन्दलं कण्ठमूलं यस्य सः । तथा क्रीडया लीलया अर्जुनानुग्रहाय कृतं किरातकैतवं शबरच्छद्म येन स तादृशः सन्किरीटिनं पार्थं कपटतः कोपयन्सकोपं संपादयन् ॥ पुनः किंभूतः । काका वायसाः कङ्काः पक्षिविशेषाः कुररा नादोत्थापितमत्स्या जलचरपक्षिविशेषाः सामर्थ्याल्लोहचञ्चुवायसकङ्ककुररास्तैर्मलिनीकृते । तथा कठिनकृत्यैरगम्यागमनादिमहापातकैः कारित उत्पादिते कश्मले नरकविशेषेऽतिसंकटे क्षतं बाधितं नारकलोहचञ्चुवायसादिभिः कलेवरं वर्ष्म येषां तादृशैर्नारकिभिः काङ्क्षितः । शरणमिति शेषः । तेषामेव कटुमतिकट्वीं कठिनां कदर्थनां पीडां कर्षयन् कृशां संपादन् । दूरीकुर्वन्नित्यर्थः ॥ पुनः किंभूतः । कोपेन कर्कशा अत्युद्भटा ये कृतान्तकिंकरा यमभटास्तैः कृतो यः क्लेशस्तेन ये कातरास्रस्तास्तेषां कृपाकृतौ रक्षणे कृती कुशलः । कलियुगकलङ्कलतामूलच्छिदे कल्पतामिति संबन्धः । एकादशभिः कुलकम् ॥ अथेदानीमस्य स्तोत्रस्योपसंहारार्थमाशीर्वचनं वृत्तेनैकेन वर्णयन्नाह कल्लोलिनीकुटिलकैरविणीकुटुम्ब कङ्कालकल्पितकरालकिरीटकोटिः । कात्यायनीकरकरम्बितकींर्यमाण- कर्पूरकुङ्कुमकणः [^१]कमलां करोतु ॥ १२ ॥ कल्लोलिनी स्वर्गङ्गा कुटिल एककलात्वाद्यः कैरविणीकुटुम्बः कुमुदिनीवल्लभश्चन्द्र- स्तथा कङ्कालः महाप्रलयेषु संहारितानां ब्रह्मादीनां शरीरास्थि तैः कल्पितविकरालमौ- लिशिखरः । तथा कात्यायन्याः पार्वत्याः कराभ्यां करम्बिता मिश्रिताः कीर्यमाणाः कर्पूरकुङ्कुमकणा यस्य स विभुः श्रीशंभुः कमलां कैवल्यलक्ष्मीं करोत्विति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजराजानकश्रीरत्नकण्ठविरचितया लघुपञ्चिकया समेतं कश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ कादिपदबन्धस्तोत्रं द्वाविंशम् । [^११. 'करुणां' क. त्रयोविंशं स्तोत्रम् । अथातः शृङ्खलाबन्धाख्येन चित्रकाव्यभेदेन त्रयोविंशं स्तोत्रमारभमाणः कविराह जगति विबोधितविधुरं विधुरञ्जितचारुशेखरं गिरिशम् । गिरि शंसामि ससाध्वससाध्वसमानन्ददानपरम् ॥ १ ॥ जगति भूमण्डले विबोधिता विशेषेण परमानन्ददायित्वाद्विकासिता विधुरा भीता येन स तादृशम् । तथा विधुना चन्द्रमसा रञ्जितश्चारुः शेखरो मौलिर्यस्य स तादृशम् । ससाध्वसा जन्मजरामरणत्रासभीता ये साधवः सज्जनास्तेभ्योऽसमानन्दस्यानन्यसदृशा- नन्दस्य दाने परं लीनम् । गिरि वाचि शंसामि स्तौमि ॥ न परं शरणं प्रभवति भवति कृतावज्ञमानसे महताम् । महतां भजति हि सहसा सहसा तव भारती मधुरा ॥ २ ॥ कृतावज्ञावहेला येन तत्तादृशं मानसं चित्तं यस्य स तादृशे भवति…। यस्मात्कारणात्सहसा त्वरितमेव सहसा बलेन मधुरा परमामृतमयी तव भारती वाणी महतां महस्योत्सवस्य भावो महता तां भजति । तवैवाभयवाणी यतो महोत्सव इत्यर्थः ॥ मधुरागारुणनयना नयनाशविधौ पटीयसी प्रमदा । प्रमदार्पणार्थमुदिते मुदिते त्वयि सा तृणं भजताम् ॥ ३ ॥ प्रमदस्य कैवल्यपरमानन्दस्यार्पणार्थं दानार्थमुदिते उद्युक्ते मुदिते संतुष्टे त्वयि विभौ सति मधुरागारुणनयनापि तथा नयस्य नीतिशास्त्रस्य यो नाशस्तस्य विधौ प्रगल्भापि प्रमदा वरस्त्री अपि सा भजतां त्वद्भक्तियुक्तानां जनानां तृणं भवतीत्यर्थः ॥ भजतां सरसाममलां मम लाञ्छितशेखरेन्दुना करुणाम् । करुणां गिरं नवतया बत यार्पयते तव श्रयताम् ॥ ४ ॥ हे इन्दुना चन्द्रेण लाञ्छितं शोभितं शेखरं मौलिर्यस्य स तस्य संबोधनम् । त्वं स- रसां सह सामरस्या तां करुणां कृपां भज आश्रय । कस्य हेतोः । मम । तां कामि- त्याह - या तव करुणा बतानन्दे श्रयतां भजतां सेवकानां करुणां दीनामपि गिरं नव- तया नूतनत्वेनार्पयते ददाति । अतिकरुणातिदीना कृशापि भवत्सेवकानां वाणी यया भवत्कृपया नवेव संपद्यत इत्यर्थः ॥ श्रयतां नवनविधौ तव धौतवती गीरघं रतिं चतुरम् । चतुरन्तमहीपतिता पतिता हेयत्व एव यत्र सताम् ॥ ५॥ हे विभो, अघं पापं धौतवती प्रक्षालयित्री सा मम गीर्वाणी चतुरं शीघ्रमेव तव न वनविधौ स्तुतिकर्मणि रतिं सक्ति भजतां प्राप्नोतु । सा गीः का इत्याह – यत्र गिरि वाण्यां चतुरन्तमह्याश्चतुरन्तभूमेः पत्युर्भावश्चतुरन्तमहीपालतापि सतां सज्जनानां हेयत्व एव त्याज्यत्व एव पतिता । तृणतुल्येत्यर्थः ॥ असतां न कदा भवता भवतापहृता विभो शुभाकृतिना । कृतिनामुपकारचितं रचितं शुभमेव भाविहितम् ॥ ६ ॥ हे विभो परमेश, त्रसतां भीतानां जन्मजरामरणत्रासेन भवतापहृता भवेन संसारेण यस्तापस्तं हरतीति तादृशेन तथा शुभा मङ्गलदायिनी आकृतिर्यस्य स तादृशेन च भ वता स्वामिना उपकारैः पातकनिर्मोचनादिरूपैश्चितं पूरितं तथा भावि भविष्यद्धितं य- स्मिंस्तत् शुभमेव कैवल्यप्रदानरूपं कृतिनां पुण्यवतां कदा न रचितम् ॥ विहितं मयि चारु चिरं रुचिरं न गते विवेकलयम् । कलयन्नमलविभासितभासित रुचिमेहि मे विपाकमलम् ॥ ७ ॥ हे अमलविभासितभासित, अमला धवला या विभा कान्तिस्तया सितश्चन्द्रस्तेन भासित शोभित चन्द्रशिखामणे, विवेकस्य कार्याकार्यरूपस्य लयो नाशस्तं गते मयि भवता चिरं चिरकालं प्रियं कथं न विहितम् । हे विभो, मे अलमत्यर्थे विपाकं परि- णतिं कलयन्मे रुचिमेहि । यथा मम रुचिर्भावना त्वयि स्वामिनि स्यात्तथा कृपां कुर्वित्यर्थः ॥ कमलं रविरपराजित राजितविकसद्वपुर्यथा कुरुते । कुरु तेन पथा मा भव मा भव विमुखो दृशं दिश मे ॥ ८ ॥ हे अपराजित शंभो, राजितं शोभितं विकसद्विकासयुक्तं वपुर्यस्य तत्तादृशं कमलं पद्मं रविः सूर्यो यथा कुरुते हे भव, तेनैव पथा मार्गेण तद्वन्मा मां कुरु । परमानन्दवि- कासितं कुर्वित्यर्थः । विमुखः पराङ्मुखो मा भव । मे मह्यं दृशमनुग्रहदृष्टिं दिश देहि ॥ दिशमेष विचारहितां रहितां विषयोरगैरहं न लभे । नलभेकवदतिविलपन्बिलपन्नगवद्वृतः सदा तमसा ॥ ९ ॥ हे विभो, विषयाः शब्दादय एवोरगाः सर्पा दंशोद्युक्तास्तै रहितां विचारेण विवेकेन हितां शुभां च तत्सदृशीं दिशं मार्गमेषोऽहं न लभे न प्राप्नोमि । अहं किं कुर्वन् । नले डलयोरैक्यान्नडे तृणविशेषे भेकवन्मण्डूकवदतिविलपन्नतिशयेन विलापं कुर्वन् तथा बिले पन्नगवत्सर्पवत्तमसा तमोगुणहेतुना अज्ञानेनान्धकारेण च सदा वृत आच्छादितः ॥ तमसावुज्झितकलहं कलहंसगिरोमया सदा सहितम् । सहितं गीरुदितरसा तरसा श्रयतां विभुं सदयम् ॥ १० ॥ उज्झितस्त्यक्तः कलहो मायावरणार्थो येन स तादृशम् । तथा कलहंसगिरा कलंहं- सवस्कोकिलवन्मधुरा गीर्यस्याः सा तादृश्या उमया पार्वत्या सदा सहितम् । तथा स दयं सकरुणम् । तथा सहितं सह हितेन शुभकर्मणा वर्तते यः स तादृशं च तरसा अ- तिशयेन उदितरसा उत्पन्नसामरस्या असौ मम गीर्विभुं श्रीशिवं श्रयतां भजतु ।का- दम्बे कलहंसः स्याद्राजहंसे च कोकिले' इति मेदिनी ॥ सदयं यदुदारमते रमते कुर्वंस्तदेव देव जनः । वज नः करुणापरतां परतां मा गा नमो भवते ॥ ११ ॥ उदारा विश्वोत्तीर्णा मतिर्यस्य स तस्य संबोधनं हे उदारमते देव शंभो, यत्सत्तथ्यं त त्त्ववस्तु तदेव कुर्वन्नयं जनो रमते प्रहृष्यति । हे विभो, त्वं नोऽस्माकं करुणापरतां द- यापरत्वं वज व्रज । 'वज व्रज गतौ' धातुः । परतामन्यत्वं दीनदयालुर्भवान्मा गाः । भवते जगदीशाय नमोऽस्तु ॥ भव तेजःप्रसरसितं रसितं श्रुत्वामृतोपमं भवतः । भवतस्त्रासं सकलं सकलङ्कमतिः कदा विमुञ्चामि ॥ १२ ॥ हे भव शंभो, सह कलङ्केन तुरीययुगजन्मोत्थेन वर्तते या सा तादृशी मतिर्यस्य स तादृगहं भवतस्तव स्वामिनस्तेजःप्रसरेण सितं धवलं सुधातुल्यं तव रसितं प्रसादवचनं श्रुत्वा सकलं सर्वे भवतः संसारात्रासं जन्मजरामरणोत्थं कदा विमुञ्चामि जातु विमुञ्चामि ॥ मुञ्चामितभास दृशं सदृशं शशिनः प्रदर्श्य मे वदनम् । वद नन्दयितुं जगतीं जगतीशः कोऽस्तु नामान्यः ॥ १३ ॥ भासनं भासः । अमितोऽव्यवच्छिन्नो भासः प्रकाशो यस्य तस्य संबोधनं हे अमि- तभास, त्वं शशिनश्चन्द्रमसः सदृशं वदनं प्रदर्श्य मे मम दृशं प्रसाददृष्टिं मुञ्च क्षिप । हे विभो, त्वं वद जगतीं भूमिं नन्दयितुमुद्धर्तुमिह जगति को नामान्य इशः शक्तोऽस्तु । न कोऽपीत्यर्थः ॥ नामान्यः सुमतिरयं तिरयन्ति यशांसि [^१]तस्य वा विपदम् । विपदं न विलासमये समये वपुरस्य यात्ययातवयः ॥ १४ ॥ तवं यः स्तुतिषु सदा हर दाहरजः क्लेशपाशमयम् । शमयन्तीष्वस्तमनास्तमनाहतभाग्यमेव देव नमे ॥ १९ ॥ (युग्मम्) हे हर शंभो, क्लेशा अविद्यादयः पञ्च । पाशा आणवमायीयकार्मास्त्रयः । तन्मयं दाहरजो दाहरूपं रजः शमयन्तीषु तव स्तुतिषु सदा नित्यमेवास्तमनाः अस्तं क्षिप्तं मनो येन स तादृशो यो भवति अयं सुमतिर्विमलधिषणोऽमान्यो न भवति । द्वौ नञौ प्र कृतमेवार्थमाहतुः । मान्यः पूज्यो भवतीत्यर्थः । वा समुच्चये । तस्य च धन्यस्य यशांसि विपदं तिरयन्ति नाशयन्ति । वीनां पक्षिणां वा पदं स्थानं गगनं तिरयन्त्याच्छाद [^१]. 'यस्य' क-ख. यन्ति । अस्य च कृतिनो न यातं वयस्तारुण्यं यस्य तत्तादृशं वपुर्विलासमये विलासप्र- चुरे समये विपदं विनाशं न याति । हे देव, अहं तं भवत्स्तुतिपरं अनाहतभाग्यमेव नमे नमामि ॥ युग्मम् ॥ वनमेव शरणमधुना मधुनाशिनुत प्रसादनाय तव । यतवति हृदये शकलितकलितमसो मे नमेरुचितम् ॥ १६ ॥ मधु मधुनामानं दानवं नाशयतीति मधुनाशी विष्णुस्तेन नुतः स्तुतः । तत्संबोधनं हे मधुनाशिनुत, हृदये चित्ते यतवति । 'यती प्रयत्ने' धातुः । भवद्भक्त्युद्रेकाय सयत्ने सति शकलितं कलौ तुरीययुगे तमोऽज्ञानमेव तमोऽन्धकारं येन स तादृशस्य मे [^१]न- मेरुचितं प्रायशः प्रालेयाद्रिवनमेवाधुना तव विभोः प्रसादनाय प्रसन्नीकरणाय शरणं भवति ॥ रुचितं नोरगसदनं सदनन्तमहर्द्धि नन्दनं न वनम् । नवनं धृतदीप्रगुणं प्रगुणं तव कर्तुमेव देव रमे ॥ १७ ॥ हे शंभो, सती वर्तमाना अनन्ता महर्द्धिर्यस्मिंस्तत् । सती अनन्तस्य नागराजस्य शेषस्य वा महर्द्धिर्यस्मिंस्तादृशमुरगसदनं पातालं मे न रुचितं नाभिप्रेतम् । तथा सदनन्तमहद्धिं महाविभूतिकं नन्दनं स्वर्गोद्यानमपि न मे रुचितमभिप्रेतम् । प्रकृष्टाः पातकनिर्मोचनत्वादयो गुणा यस्मिंस्तत्प्रगुणम् । तथा धृता दीप्रा गुणा माधुर्यौजःप्रसा- दाख्याः शब्दगुणा अर्थगुणाश्च यत्र तद्धृतदीप्रगुणं नवनम् । 'णु स्तुतौ' धातुः । स्तु- तिमेव तव कर्तुं रम हृष्यामि । 'रमु क्रीडायाम्' ॥ वरमेनोहरममलं मम लङ्घितविघ्न देहि नाम हितम् । महितं पदमपि मा नय मानय विधुरं दृशामलया ॥ १८ ॥ लहिता निरस्ता विघ्ना येन स तस्य संबोधनं हे लङ्घितविघ्न । नाम संभावनायाम् । अमलं निर्मलम् । हितं शुभम् । एनांसि पातकानि हरति एनोहरस्तं वरमभिलषितं मम देहि वितर । हे विभो, त्वं मा मां कर्मभूतं महितं पूजितं पदमपि नय प्रापय । तथा अ- मलयातिप्रसन्नया दृशा मां विधुरं दीनं मानय संमानय ॥ मलयानिलमिव सुरभिं सुरभिं कुसुमैरिवावदातवनम् । तव नन्दितहृदनामय नाम यमत्रासहृत्कलये ॥ १९ ॥ अविद्यमाना आमयाः षट् शीताद्या मायावरणरूपो वा आमयो यस्य स तत्संबोधनं हे अनामय, सुरभि सौगन्ध्ययुक्तं मलयानिलं नन्दितहृदयं यथा कश्चिज्जानाति । तथा ............यमत्रासहृत् नन्दितं प्रमोदितं हृत् हृदयं येन तत्तादृशं कलये जाने ॥ [^१]. नमेरुर्वृक्षविशेषः. कलयेन्दोरभिभूषित भूषितमुकुटैः सुरैर्नतेश न कैः । शनकैरघशमनाशय नाशय विपदं पदं नय मा ॥ २० ॥ हे इन्दोः कलयाभिभूषित तथा भुवि भूमावुषितानि प्रणामावसरे मुकुटानि येषां तादृशैः कैः सुरैर्ब्रह्मविष्ण्विन्द्रादिभिर्न नत, (अपि तु सर्वनत) हे ईश जगदीश, तथा अघं संसाररूपं रोगं देहिनां शमयतीत्यघशमनस्तादृश आशयो यस्य तस्यामन्त्रणं हे अघशमनाशय, शनकैर्मे विपदं नाशय । तथा मा मां पदं स्वं धाम नय प्रापय ॥ न यमाहितभयशमने शमनेकविधं प्रसाददक्षमते । क्षमते मुनिभिरूपासित पासितरां चेन्न मामदयम् ॥ २१ ॥ प्रसादे दक्षा मतिर्यस्य स तत्संबोधनं हे प्रसाददक्षमते, तथा मुनिभिः कपिलादिभिरुपासित सेवित विभो, त्वमदयमविद्यमाना दया यत्र तत् । अदयो भूत्वा चेन्न मां पासितरामतिशयेन पासि तदा यमेनान्तकेनाहितं वितीर्णं यद्भयं तस्य शमनेऽनेकविधं नानाविधमपि शं मङ्गलं मङ्गलवस्तु च न क्षमते । अन्तकभयं दूरीकर्तुं न समर्थं भवतीत्यर्थः । एतद्द्वृत्ताशयानुसारेण च मदीयं वृत्तमेकम् – 'स्मृतिर्यत्र क्वापि स्वपरविषयेनैव हि भवेन्निरायासा जाताः सततमिह धन्वन्तरिमुखाः । विनैकस्माच्छंभोः सदयनयनोद्वीक्षणलवाद्भवापस्मारोऽयं विषमविषमः शाम्यति कथम् ॥' मदयञ्जितविप्रकृतीः प्रकृतीर्वसुधाधिपो महीवलयम् । बलयन्त्रितरिपुरक्षति रक्षति तव यः प्रसादमितः ॥ २२ ॥ हे विभो, वसुधाधिपो राजा तव प्रसादमितः प्राप्तः । बलेन यन्त्रिता रिपवो येन स तादृशः । जिता विप्रकृतिर्विकारो याभिस्ता जितविप्रकृतीः प्रकृतीः सप्त मदयन्नानन्द- यन्, अविद्यमाना क्षतिर्बाधो यस्य तत्तादृशं महीवलयं भूमण्डलं रक्षति ॥ दमितस्तेन हि शमनः शमनस्तरुचापि तेन जातमुदा । तमुदाराहितचरितं चरितं शुभवर्त्मना स्तुवन्त्यमलम् ॥ २३ ॥ त्यमलंकृतभूभवनं भव नन्दितलोकमीश भावपुषा । वपुषा नौम्यभवस्तव यस्तव नुतिषु प्रियासु कृती ॥ २४ ॥ (युग्मम् ) हि निश्चये । तेन धन्येन शमनोऽन्तको दमितो निर्दर्पः कृतः । तथा तेन धन्येन जात- मुदा संजातहर्षेण शं कल्याणं कैवल्यरूपमापि प्राप्तम् । किंभूतेन । अनस्तरुचा न अस्ता गता रुक् शोभा यस्य तादृशेन । तथा उदाराहितचरितमुदारं महदाहितं धृतं चरितं येन स तादृशम् । तथा शुभवर्त्मना कल्याणमार्गेण चरितं संचरन्तम् । तथामलं निष्कलङ्कम् । तं पुरुषं जनाः स्तुवन्ति । तथा हे विभो भव शंभो ईश जगदीश, हे अभयस्तव अभया अव्युच्छिन्नाः स्तवा यस्य स तस्य संबोधनम् । भावं श्रीशिवचरणाम्बुजभावनां पुष्णा- तीति तादृशेन भावपुषा वपुषा देहेनालंकृतं भूषितं भूभवनं भूगृहं येन स तादृशम् । त्यं तं पुरुषं धन्यं नौमि स्तुवे । त्यद्शब्दः सर्वनामतच्छब्दार्थः । तं पुरुषं कमित्याह - हे विभो, प्रियासु भक्तजनमनोहरासु तव नुतिषु स्तुतिषु यो नरः कृती कारको भवति ॥ युग्मम् ॥ सुकृती सव भववारणवारणहरिणेन्द्र सिद्धिभाजनताम् । जनतां नयदमलसितं लसितं वपुरर्चये नवैरसकृत् ॥ २५ ॥ हे भववारणवारणहरिणेन्द्र भवः संसार एव मदाविलत्वाद्वारणो हस्ती तस्य यद्वारणं दूरीकरणं तत्र हरिणेन्द्र व्याघ्र । जनतां जनानां समूहो जनता तां सिद्धिभाजनतां सि द्धिपात्रतां नयत्प्रापयत् । तथा अमलं सितं च वर्णेन तथा लसितमुल्लसितं च तव वपुः कलेवरमसकृन्मुहुर्मुहुर्नवैः स्तवैरर्चये पूजयामि ॥ रसकृद्योऽप्रतिघस्मरघस्मर भवतः स्तवः सदैव सताम् । वसतां दिवि भवहृदयं हृदयं कुरुते घनोत्कलिकम् ॥ २६ ॥ हे अप्रतिघस्मरघस्मर। अप्रतिघो निर्निरोधो जगति यः स्मरस्तस्य घस्मरो भक्षक- स्तत्संबोधनम् । यो भवतः स्तवः सदैव सतां सत्पुरुषाणां रसकृद्भवति सोऽयं भवतः स्तवो भयं संसारजं हरतीति भयहृत् दिविवसतां देवानामपि हृदयं मनो घनोत्कलिकं विपुलोत्कण्ठं करोति ॥ कलिकम्पनमघशरणं शरणं चरणद्वयं भजेऽविकलम् । विकलङ्कमतिरहं तव हन्त वरद्विरदराजगतिम् ॥ २७ ॥ हन्त आश्चर्ये । कलिं तुरीययुगं संसृतिकलहं वा कम्पयतीति तादृशम् । तथा अघं त्रिविधं वाङ्मनःकायोपार्जितं शृणाति हिनस्तीत्यघशरणम् । ' शृ हिंसायाम्' धातुः । तथा अविकलं सर्वेश्वर्येण पूर्णम् । तथा द्विरदराजवदुत्कृष्टकरीन्द्रवद्गतिर्गमनं यस्य ता- दृक् च तव चरणद्वयं पादाम्बुजयुगलमहं भजे सेवे। किंभूतोऽहम् । विकलङ्का मतिर्यस्य स तादृक् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरक- महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ शृङ्खलाबन्धस्तोत्रं त्रयोविंशम् ॥ चतुर्विंशं स्तोत्रम् । अथातो द्विपदयमकाख्येन चित्रकाव्यभेदेन चतुर्विंशं स्तोत्रमारभमाण आह वचसि सरस्वति मे विभवं प्रकटय जातरसारम् । नुतिभिरुपस्तुहि देवि भवं सकलसुरान्तरसारम् ॥ १॥ हे सरस्वति वाग्देवि, अरमत्यर्थं जातो रसः श्रीशिवभक्तिरसो यस्याः सा जातरसा त्वं मे मम वचसि । जातावेकवचनम् । वचनेषु विभवमत्युल्लासं प्रकटय । अत्र हेतु- माह - हे देवि वाग्देवि, सकलानां सुराणां देवानां ब्रह्मादीनामन्तरं मध्यं तत्र सारं सारभूतं भवं श्रीशिवस्तुतिभिर्नानाविधाभिरुपस्तुहि स्तुतिभिराराधय ॥ अविरलभस्मरजोधवलं विहितमहाशमलाभम् । भज भगवत्यगजाधवलं श्रमशमनं विमलाभम् ॥ २ ॥ अविरलं यद्भस्म विभूतिस्तस्य रजसा धवलं सुसितीकृतम् । तथा विहितः कृतो महान् शमस्य लाभो भावनायुक्तानां येन स तादृशम् । तथा श्रमं भवमरुभ्रमणजखेदं देहिनां शमयतीति तादृशम् । तथा विमला धवला आभा यस्य स तादृशम् । अग जाधवलं धव एव धवलः । स्वार्थे लः । कात्यायनीकामुकं हे भगवति वाग्देवि, त्वं भज ॥ दातुमनुत्तमहावपुषं यः प्रबभूव नदीनम् । नाथमनुत्तमहावपुषं तं भज देवि न दीनम् ॥ ३॥ न नुत्तं प्रेरितं केनाप्यनुत्तं महद्वपुर्यस्य स तादृशम् । तथा न दीनम् । अकातरमनसमित्यर्थः । तं नाथं परमेशं हे देवि वाग्देवि, त्वं भज । तं कम् । यो विभुर्नदीनामिनः स्वामी नदीनः क्षीरोदधिस्तं दातुमुपमन्यवे बालाय प्रबभूव । नदीनं किंभूतम् । अनु त्तमहावपुषम् । अनुत्तमा ये हावा: केलिपरीहासादयस्तान्पुष्णाति दर्शनेन यः अनुत्तमहावपुद् तम् । भक्तिरसस्तव देव सतां जयति महामृतत्दृद्यः । चरणतले भवतो वसतां कलिमलपल्वलत्दृद्यः ॥ ४ ॥ हे देव परमशिव, महामृतादपि हृद्यो हृदयप्रियः स तव भक्तिरसो जयति सर्वोत्कृष्टो भवति । स क इत्याह — यो भक्तिरसो भवतः पादाब्जतले वसतां भक्तानां कलौ तु- रीययुगे यन्मलं तस्य पल्वलं तडागः । कलिमलमेव पल्वलं वा तं हरतीति कलिमलप- ल्वलहृद्भवति ॥ नयनमुदीर्य तमो हर मे निहतमहाविषमेषु । येन पुनर्हतमोह रमे वैरिषु नो विषमेषु ॥ ५ ॥ हे परमेश, विषमाः पञ्चसंख्यत्वाच्छरा मोहनाद्या यस्य स विषमेषुः कामः' । निहतो दग्धो महान्विषमेषुः कामो येन तत् । नयनं तृतीयमुदीर्योत्क्षिप्य तमोऽज्ञानरूपमन्ध- कारं मे मम हर दूरीकुरु । हे हतमोह । हतो दूरीकृतो मोहोऽज्ञानं येन स तस्यामन्त्र- णम् । येन हेतुनाहं विषमेष्वत्युद्भटेषु वैरिष्वान्तरेषु कामादिषु नो रमे न क्रीडामि ॥ त्वयि वरदे रुचिरप्रमदाः प्रचलितचामरहस्ताः । सदसि भजन्ति जनं प्रमदा रमयति सोऽपि रहस्ताः ॥ ६ ॥ हे विभो, त्वयि भक्तजनस्य वरदे वरप्रदे सति रुचिरो रम्यः प्रमद आनन्दो यासां ताः । तथा प्रचलितानि चामराणि यैस्ते तादृशा हस्ता यासां ताः प्रमदा वरनायिका जनं भज्जन्ति सेवन्ते । कुत्र सदसि सभायाम् । सोऽपि जनस्ताः प्रमदा रमयति । तासां संबन्धिनीमात्मनि क्रीडां कारयतीत्यर्थः । कुत्र । रह एकान्ते ॥ हिमकरकिरणसमूहसितं सुरसरिदम्बुविडम्बि । वह भगवन्वदने हसितं मा भवतात्र विडम्बि ॥ ७ ॥ हे भगवन्नैश्वर्यादिगुणषट्कयुत, चन्द्ररश्मिसमूहवत्सितं तथा गङ्गाजलधवलं हसितमीष- द्धासं भक्तानुग्रहाय वदने मुखे वह धारय । अत्रास्मिन्हसिते भवता मा विडम्बि डल- योरैक्याद्विलम्बो न कार्य इत्यर्थः ॥ उपमितमन्मथचापलतां भ्रुवमवधूय सहेलम् । रविजदृशां घनचापलतां विघटय ता न सहेऽलम् ॥ ८ ॥ हे विभो, उपमिता मन्मथस्य कामस्य चापलता धनुर्वल्ली यया सा तादृशीं भ्रुवं स हेलं हेलयावधूय रविजदृशामन्तकदृष्टीनां घनचापलतां घनचापलम् । अत्र स्वार्थे त ल्प्रत्ययः । विघटय दूरीकुरु । अत्र हेतुमाइ —ता नेत्यादि । ता अन्तकदृक्चापलता यमदृक्चापलानि अहं न सहे। कथम् । अलमत्यर्थम् ॥ रविसुतवर्त्म मम स्मरतः श्रुतयमकिंकर वाणि । दलति विभो त्दृदयं दरतः पुरहर किं करवाणि ॥ ९ ॥ हे विभो पुरहर त्रिपुरदहन, श्रुता यमकिंकराणां यमदूतानां वाण्यो वाचो यस्मिं स्तद्रविसुतवर्त्म यमपुरमार्गे स्मरतो मम दरतो भयान्मम हृदयं दलति खण्डशो ग- च्छति । हे विभो, अहं किं करवाणि । अत्र वर्त्मनः स्मृतिमात्रत्वान्न तु तदर्थत्वात् 'स्मरामि वानीरगृहेषु सुप्तम्' इतिवत्षष्ठ्यभावः ॥ प्रथयति यस्तव हन्त महं नुतिवचसा रुचिरेण । शुभशतसिद्धिसहं तमहं शिरसि वहाम्यचिरेण ॥ १० ॥ हे विभो, हन्त हर्षे । यो धन्यो रुचिरेण नुतिवचसा स्तुतिवचनेन तव महमुत्सवं प्रथयति विस्तारयति शुभशतानां मङ्गलशतानां या सिद्धिस्तां सहते इति शुभशतसिद्धि- सहस्तादृशं तमचिरेणैव शिरसि वहामि धारयामि ॥ भवभयभञ्जनभङ्गिविधौ भक्तिमतां प्रभवन्तम् । विहितहितं विधुरेऽपि विधौ भजत जगत्प्रभवं तम् ॥ ११ ॥ अतिशुभमार्गदर्शनेन भक्तजनानां भवभयभञ्जनभङ्गिविधौ प्रभवन्तं समर्थम् । तथा केषांचिद्भक्तानां विधुरे वक्रेऽपि विधौ दैवे विहितं कृतं हितं शुभं येन स तादृशस्तं ज गत्प्रभवं जगदीशं भजत सेवध्वम् ॥ [^१]. 'विलम्बि' क. पुनरपि तानुपदिशति मदनमहीरुहदवदहनं शिरसि धृतामृतभासम् । भजत दुरन्तविषादहनं प्रणतसमर्पितभासम् ॥ १२ ॥ मदनः काम एव महीरुहस्तत्र दवदहनं दावाग्निम् । दाहकमित्यर्थः । तथा शिरसि मूर्ध्नि धृतोऽमृतभाश्चन्द्रो येन तादृशः । तथा दुरन्तो यो विषादः संसारजं दुःखं तं ह- न्तीति दुरन्तविषादहनम् । तथा प्रणतेषु भक्तिप्रह्वेषु सम्यगर्पितो भासो भासनं प्रकाशो येन तादृशं विभुं शंभुं भजत ॥ वितर नदीरमणं शमनं शकलय खण्डय कामम् । प्रथय धनंजयभयशमनं रचय पुरं हतकामम् ॥ १३ ॥ इति सदयेन यदाचरितं भुवनहिताय हरेण । भजत तदस्य महाचरितं नुतिवचसार्तिहरेण ॥ १४ ॥ (युगलकम् ) इत्यनेन प्रकारेण बालोपमन्युमुनिप्रभृतिषु सदयेन सानुकम्पेन भुवनहिताय त्रिभुवन शर्मणे हरेण श्रीशिवेन यदाचरितं विहितं तन्महाचरितमपदानकर्म अस्य श्रीशंभोरा- र्तिहरेण नुतिवचसा स्तुतिवचनेन भजत । इति किमितीत्याह — वितरेत्यादि । नदीनां गङ्गादीनां रमणः समुद्रः क्षीरोदधिस्तं वितर व्यतरत् हरो बालायोपमन्यवे मुनये । तथा शमनं यमं शकलय अशकलयत् श्वेताख्यनृपत्राणाय । तथा कामं खण्डय अखण्डयत् ददाह । तथा धनंजयस्यार्जुनस्य भयशमनं द्रोणाचार्यकर्णादिसेनापतियुक्तां कौरववा- हिनीं कथं जेष्यामीति यदर्जुनस्य भयमासीत्तच्छमनं प्रथय अप्रथयत् । तथा हतकामं हतः कामोऽभिलाषस्त्रैलोक्यविजयरूपो यस्य तत्तादृशं पुरं त्रिपुरं रचय अरचयत् । 'क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः' इति सूत्रेण लोटो हिस्वावादेशौ स्तः । तिङामपवादः । अतो वितर व्यतरदित्यादि ज्ञेयम् । युग्मम् ॥ गतिरशुभं हर का तरतां भवति विनाशु भवन्तम् । इति चतुरं हर कातरतां रचय च मां शुभवन्तम् ॥ १९ ॥ हे हर, महासंसारे शिवादिक्षित्यन्तसंहारक, अशुभममङ्गलं पापं अशुभं वर्त्म वा आशु तरतां तर्तुमिच्छतां इत्यनेन प्रकारेण कातरतां दैन्यं चतुरं शीघ्रमेव हर दूरीकुरु । मां च शुभवन्तं सदैव मङ्गलयुक्तं कुरु । भवन्तं दीनदयालुं विना का गतिर्भवति ॥ वरद भवन्तमृते धरते भुवनमिदं सकलं कः । इति नतिमिन्दुकलाधर ते भजति न कः सकलङ्कः ॥ १६ ॥ हे वरद वरप्रद, भवन्तं त्रिजगदधीशं विना सकलमिदं भुवनं त्रिभुवनं को धरते बिभर्ति । इति हेतोः हे इन्दुकलाधर चन्द्रमौले, सह कलङ्केन कलियुगमहिमोत्थेन व- र्तते यः स तादृशः कस्तव नतिं न भजते । अपि तु सर्व एव ॥ इयमखिलेतरजातिमतां जयति जनिः प्रथमा नः । सेव्यभुवं विभुरेति मतां यत्र हृदि प्रथमानः ॥ १७ ॥ अखिला इतरा ब्राह्मणजातेरन्याः क्षत्रादिजातयस्तद्वतामखिलेतरजातिमतां मध्ये । निर्धारणे षष्ठी । नोऽस्माकं सा प्रथमजातिर्ब्राह्मणजातिर्जयति सर्वोत्कृष्टा भवति । सा केत्याह – यत्र ब्राह्मणजातौ हृदि चेतसि सततं प्रथमान: प्रकाशमानः अर्थादस्माकं म- तामभिमतां सेव्यभुवं विभुः स्वामी जगदीश एति ॥ तुम्यमयं शितिनाल सतां वरद करोमि नमोऽहम् । शमय महेश महालसतां येन भजामि न मोहम् ॥ १८ ॥ हे शितिनाल नीलगल श्रीशंभो, हे सतां कृतिनां वरद, अयमहं तुभ्यं स्वामिने नमः कर्मभूतं करोमि । नमःशब्दोऽव्ययं नाम चेति वैयाकरणाः । हे महेशपरमेश, ममालसतामुदासीनत्वं भवद्भक्तिविषये शमय । तत्कुत इत्याह - येन हेतुनाहं मोहमज्ञानं न भजामि । भजसि यया किल कामदया नतजनमीश समस्तम् । सा मम ते हतकाम दया गमयतु वैशसमस्तम् ॥ १९ ॥ हे ईश, हतो दग्धः कामो येन स तस्य संबोधनं हे हतकाम, अखिलान्कामानभि लषितानि ददातीति तादृश्या अखिलकामदया यया दयया कृपया समस्तं नतजनं भ जसि । दयापात्रीकुरुष इत्यर्थः । सा ते दया कृपा मम वैशसं दुःखं जन्मजरामरणोत्य- मस्तं गमयतु नाशयत्वित्यर्थः ॥ येन शुचं हतलोभ जनस्त्यजति सुधामधुरेण । तेन विभो वचसा भज नः प्रकटितधामधुरेण ॥ २० ॥ हे हतलोभ । हतो निर्मूलीकृतो लोभ आन्तरो महावैरी नतजनस्य येन तत्संबो- धनम् । सुधाया अपि मधुरेण येन तव वचसा अभयवचनेन जनो देहिजनः शुचं सं- सारदुःखं त्यजति । हे विभो, प्रकटिता धामधुरा परतेजोधुरा येन तत्तादृशेन तेन व- चसा नोऽस्मान्भज । अभयवाक्यं नः प्रकटयेत्यर्थः ॥ मदयसि येन जनं सकलं मधुरगिरा वदनेन । मयि वचनं परिहासकलं प्रतिदिश तावदनेन ॥ २१ ॥ अनेकजन्मशतोपार्जितसुकृतपरिपाकदृष्टेन मधुरगिरा येन वदनेन मुखेन सकलं जनं ब्रह्मादिस्तम्बपर्यन्तं मदयसि प्रमोदयसि । तावत्प्राथम्ये । अनेनैव वदनेन मुखेन परि- हासेन क्रीडास्मितेन कलं मधुरं वचनं मयि विषये प्रतिदिश देहि ॥ येन सतां विपदानयनं दुरितमदभ्रमहारि । दिश विशदं मयि तन्नयनं मदनमदभ्रमहारि ॥ २२ ॥ हे विभो, विपदो विपत्तीरानयतीति विपदानयनमदभ्रं घनं सतां सज्जनानां दुरितं येन नयनेन नेत्रेण कदापि महाभाग्योदयवशात्क्षिप्तेन भवता विभुना अहारि दूरीकृ तम् । हे दयालो, मदनेन कामेन मदेन च यो भ्रमः अनित्याशुच्यादिषु नित्यशुच्या- दिभ्रमस्तं हरतीति तादृशं नयनं नेत्रं विशदं निर्मलं मयि विषये दिश देहि ॥ जगदखिलं यदि नन्दयसे तिमिरमुषा रसितेन । इममपि किं न जनं दयसे तेन तुषारसितेन ॥ २३ ॥ हे विभो, तिमिरमविद्यापर्यायमज्ञानं तिमिरं च बाह्यं मुष्णातीति तिमिरमुट् तेन र- सितेन शब्देन वाक्यरूपेण यद्यखिलं जगत् शिवादिक्षित्यन्तं नन्दयसे प्रमोदयसि तर्हि तुषारवत्प्रालेयवत्सितेन शुभ्रेण तेन शब्देनेमं जनं मल्लक्षणं किं न दयसे किं नानुकम्पसे ॥ दुरितहृतौ विषसादकरः क्वापि न ते रमणीयः । अपि सभयं विषसाद करः शमयतु घोरमणीयः ॥ २४ ॥ हे विभो, रमणीयो रम्यस्ते तव करो हस्तो दुरितहृतौ भक्तिप्रह्वजनदुरितहरणे क्वापि न विषसाद विषण्णोऽभूत् स तव करो घोरं कठिनं अणीयोऽतितुच्छमाकस्मिकं भय- मपि शमयतु । किंभूतः करः । विषस्य कालकूटाख्ययस्य निगलनसमयेऽदनेनावसादं क- रोतीति तादृशः । अपिः प्रश्ने वा ॥ भयहरणे महिताभ यतः प्रथयसि जातरसत्वम् । मामपि पाहि महाभयतः पुरहर कातरसत्त्वम् ॥ २५ ॥ हे महिताभ । महिता पूजिता आभा दीप्तिर्यस्य तस्य संबोधनम् । यतः कारणात्सर्वस्य जगतो भयहरणे जन्मजरामृतित्रासहरणे जातरसस्य भावो जातरसत्वं प्रथयसि अतो मामपि महाभयतोऽतिसंकटजन्मजरामृतित्रासात्पाहि । अत्र कातरसत्त्वमित्यत्र द्वितकारत्वाभावेऽपि चित्रकाव्ये यमकादौ न दोषः । तथाहि – 'यमकश्लेषचित्रेषु दन्त्यौष्ठ्यवबकारयोः । न भेदो नणयोश्चैव न नकारमकारयोः ॥ हलः परस्य चैकस्य व्यञ्जनस्य द्वयोरपि । न विशेषो विसर्गस्य भवेच्च सदसत्त्वयोः ॥' इति ॥ अथेदानीमेतस्य स्तोत्रस्योपसंहारार्थं वृत्तभेदेन श्लोकत्रयमाह भजाभि मायाशबरं वरं वरं दिशन्तमन्तं कुनयं नयन्नयम् । विजित्य कृत्यप्रभवं भवं भवं विखण्डितक्लेशपरम्परं परम् ॥ २६ ॥ कुनयं कुत्सितं नयं श्रीशिवशासनमपास्यान्थमार्गानुसृतिरूपमन्तं नयन् त्यजन् अय- महं मायया छद्मना पार्थानुग्रहाय शबरं किरातरूपम् । तथा वरमुत्कृष्टं वरं देवाद्यभि- लषितं वस्तु दिशन्तं वितरन्तम् । तथा विखण्डिता क्लेशानामविद्यादीनां पञ्चानां पर- म्परा पङ्क्तिर्येन तं परमुत्कृष्टं भवं श्रीशिवं भजामि सेवे । किं कृत्वा । भवं संसारं विजित्य । किंभूतं भवम् । कृत्यात्कर्मण: शुभाशुभात्प्रभव उत्पत्तिर्यस्य तादृशम् ॥ मलक्षयमलक्षयं भव भवत्प्रसादादहं शिवस्तव शिव स्तवः प्रविहितस्ततोऽयं मया । समुद्धर समुद्धर व्यसनसंकटादर्कजः समक्षमसमक्षमः स्पृशति चेन्न जिह्वेषि किम् ॥ २७ ॥ हे भव शंभो, भवत्प्रसादात्तवैव प्रसादान्मलानामाणवमायीयकार्माणां त्रयाणां क्षयस्त- मलक्षयमज्ञासिषम् । हे शिव कैवल्यप्रद, अतो हेतोरयं तत्र स्तवो मया प्रकर्षेण विहितः प्रविहितः । किंभूतः स्तवः । शिवः कल्याणकृत् । अत्र 'शिवस्तव' इत्यत्र विसर्गाभा- वेऽपि यमकादौ न दोषः । तदुक्तं प्राक् – 'न विशेषो विसर्गस्य भवेच्च सदसत्त्वयोः ' इति । हे हर समस्तदुरितहर, मामित्यर्थात् । त्वं मामस्माद्व्यसनानां जन्मजरादीनां सं- कटस्तस्मात्समुद्धर । त्वं किंभूतः । समुत् सह मुदा परमानन्देन वर्तते यः । हे दयालो, असमा न समा शुभाशुभविषये क्षमा यस्य स तादृगसमक्षमः । अर्कजो यमस्तव विभोः समक्षं पुरतो यदि मां स्पृशति बलान्नेतुमभिलषति चेत्तर्हि त्रिजगदधीशोऽपि दीनदयालुः किं न जिह्वेषि किं न लज्जसे ॥ सन्त्यन्याः कृतिनामनामय गिरः का नाम नामन्थरा न ज्ञानां हृदि वास्तवास्तव मुदं के वा स्तवास्तन्वते । वागेषा त्वतिसाध्वसाध्वपतिता यत्साध्वसाध्वभ्यधा- त्तन्मन्ये महिमानमानयति ते स्थेमानमान्दकृत् ॥ २८ ॥ अविद्यमाना आमयाः षट् शीताद्या यस्य स तस्यामन्त्रणं हे अनामय, कृतिनां म- नीषिणां गिरोऽमन्थरा अतिप्रगल्भा गङ्गाप्रवाहवन्निःसरन्त्यश्चान्याः का नाम न सन्ति । अपि तु सन्त्येव । तथा वास्तवा वस्तुतत्त्वभूतास्तव स्तवाः के वा न ज्ञानां जानन्तीति ज्ञास्तेषां मनीषिणां हृदि मुदं परमानन्दं न तन्वते । अपि तु तन्वत एव । अथ स्वमु द्दिश्याह कविः——वागेषेत्यादि । अतिशयेन साध्वसं भयं परं पारमत्र कथं गमिष्यामीति रूपं भयं यत्र स तादृग्योऽध्वा मार्गस्तत्र पतिता त्वेषा मदीया वाग्यद्भवत्स्तुत्युद्योगे साधु असाधु वा पूर्वोक्तप्रकारेणाभ्यधात् अहं मन्ये तदभिधानं कर्तृ ते तव महिमानं माहा- त्म्यं स्थेमानं दार्ढ्यमानयति । त्वन्माहात्म्यमेव दृढीकरोतीत्यर्थः । तत्कीदृशम् । आन न्दकृत् । सहृदयानां श्रोतॄणां परमानन्दप्रदमित्यर्थः ॥ इति श्रीराजानकशंकरकण्ठात्मजराजानकश्रीरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ [^१]द्विपदयमकस्तोत्रं चतुर्विंशम् । [^१]. 'द्विर्यमक' ख. पञ्चविंशं स्तोत्रम् । अथातश्चित्रकाव्यभेदेनैव यमकेन रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रमारभमाण आह किल यस्य कल्पितमहोदयया हृदयं समाश्रितमहो दयया । विभवं यतश्च परमाप दिवः प्रभुरेष पातु परमापदि वः ॥ १ ॥ कल्पितो महानुदयो मोक्षलक्ष्मीप्राप्तिलक्षणो यया तादृश्या दयया कृपया यस्य स्व- तन्त्रस्य प्रभोर्हृदयं मनः सम्यगाश्रितम् । यतो यस्मात्प्रभोर्दिवः स्वर्गस्य प्रभुरिन्द्रः परं विभवं स्वर्लोकाधिपत्यमाप प्राप। एष परमेश्वरो वो युष्मान्परमापदि जन्मजरामरणरू- पायामापदि पातु रक्षतु ॥ तव सेवकस्य परमेश मनः कुरुते न हन्तुमपि मे शमनः । भगवन्नतो वपुरनीरसदृक्तव नौमि सिद्धधुनिनीरसदृक् ॥ २ ॥ हे भगवन्परमैश्वर्यादिषट्कलाञ्छित, न नीरसा शान्तरसरहिता दृग्यस्य सोऽनीरसदृ- गहं सिद्धधुनिनीरसदृक् । धुनिरिति 'कृदिकारात्' इति धुनिः धुनी च सिद्धधुन्या देवनद्या नीरं तोयं तस्य सदृक्तुल्यं गङ्गासलिलधवलं तव वपुरतो हेतोर्नौमि । अतः कुत इत्याह – हे परमेश, शमनो यमस्तव सेवकस्य त्वद्भक्त्यासक्तचित्तस्य मे मम कर्मभू- तस्य हन्तुमपि मनो न कुरुते ॥ स्त्रगिवार्ष्यते कलितसारसना त्वयि गीर्यया जयति सा रसना । त्वयि यन्महेश वरदेऽवहितं हृदयं तदेव वरदेव हितम् ॥ ३ ॥ हे महेश, हे वरदेव सर्वदेवेभ्योऽप्युत्कृष्टदेव, कलितं ग्रथितं सारसनं मेखलाबन्धश्चि- त्रकाव्यप्रसिद्धो यस्यां सा तादृशी गीर्वाणी स्रगिव मालेव कलितसारसना ग्रथितबन्ध- नरज्जुर्यया रसनया जिह्वया त्वय्यर्प्यते सा रसना जयति सर्वोत्कृष्टा भवति । 'मेखलायां सारसनमुरस्त्रे च नपुंसकम्' इति मङ्खः । तथा हे महेश, यद्धृदयं मनस्त्वयि विभाववहि- तमेकाग्रं तदेव हितमनुकूलं भवति ॥ तव दृक्सुधाकरकलोपमिता पतिता विपत्तदनुलोपमिता । भगवन्दृशैव कमला भवतः सहसाङ्कमेति शमलाभवतः ॥ ४ ॥ हे भगवन् शंभो, सुधाकरकलोपमिता चन्द्रकलातुल्या विमलाशीतला च पतिता त्व द्भक्तजने तदनु भवद्दृष्टिपातानन्तरं विपत्कालकर्णी च लोपं नाशमिता प्राप्ता । हे विभो, भवतो दृशैव दृष्टैव सहसा त्वरितमेव कमला मोक्षलक्ष्मीरङ्कमेति । कस्य । शमलाभव- तः शमस्य शान्तेर्लाभो विद्यते यस्य स तादृशस्य भक्तजनस्य ॥ कुरु नाथ चेतसि वचो दयिता तव गीरहं न तव चोदयिता । अथवा महेश पृथुकामतया न किमारटन्ति पृथुका मतया ॥ ५ ॥ हे नाथ स्वामिन्, त्वं चेतसि निजे वचो मदीयं कुरु । यतस्तव विभोर्गीर्वाणी द- यिता वल्लभा अतो न तवाहं चोदयिता प्रेरयिता भवामि । अथ वा पक्षान्तरे । हे म- हेश, मतया दृष्टया पृथुकामतया घनाभिलाषत्वेन पृथुकाः शिशवः किं नारटन्ति कं न वा क्षोभयन्ति ॥ विषयैर्मुखे वरद कामधुरैर्विवशीकृतं घटितकामधुरैः । भज मां महेश्वर मुदा रहितं दिश भाषितामृतमुदारहितम् ॥ ६ ॥ हे वरद शंभो, घटिता संघटिता कामधुरा अभिलाषभारो यैस्ते तादृशास्तैः । तथा मुखे प्रारम्भ एव कामधुरैरोषन्मधुरैर्विषयैः शब्दादिभिर्वशीकृतं विह्वलीकृतम् तथा मुदा आनन्देन रहितं च मां भज । आत्मवशं कुर्वित्यर्थः । तथा हे विभो, उदारं च हितं च भाषितामृतमभयवचनं दिश देहि ॥ विजितं मया जगदमोहतया न रुषा क्षतो मम दमो हतया । तृणवत्सुरक्षितिधरोऽपि तया विहितो महेश हृदि रोपितया ॥ ७ ॥ हे विभो, मया जगद्विश्वं विजितम् । कया । अमोहतया अविद्यमानो मोहोऽज्ञानं यस्य तद्भावेन । ज्ञातृत्वेनेत्यर्थः । तया हतया रुषा मम मत्को दमः शमो न क्षतो न बाधितः । हे महेश, हृदि मनसि रोपितया दृढीकृतया तया सुरक्षितिधरोऽपि सुरगिरि- र्मेरुरपि तृणवद्विहितः ॥ मरुतायतेव मलयाचलतः क्षपिता धृतिः कमलया चलतः । तदिमां प्रसादनपरां करुणां शृणु मे गिरं कुरु परां करुणाम् ॥ ८ ॥ हे विभो, मलयाचलतो मलयगिरेरायता आगच्छता मरुता वायुनेव चलतोऽदृढस्य कम्पमानस्य मम धृतिः स्थितिः क्षपिता निवारिता । तत्तस्मात्कारणात्प्रसादनपरामा- राधनपरां करुणां दीनामिमां मे गिरं वाणीं शृणु परां करुणां कृपां कुरु ॥ भवतः प्रसादमधुरामहतां दृशमीयुषां शमधुरा महताम् । धृतिमेत्यपास्य च रमा लसतां सुलभत्वमेति चरमालसताम् ॥ ९ ॥ हे विभो, प्रसादेन प्रसन्नतया मधुरा रम्या तां प्रसादमधुराम् । तथा अहतां न कु- त्रापि प्रतिहता तादृशीं भवतः स्वामिनो दृशं दृष्टिमीयुषां प्राप्नुवतां महतामुत्तमानां श- मधुरा शमभरो धृतिं स्थितिमेति तथा लसतां क्रीडतां महतामुत्तमानां रमा लक्ष्मीः सुलभत्वमेति प्राप्नोति च । किं कृत्वा । चरमालसतां चरमा अधमा चासावलसता ता- मपास्य दूरीकृत्य ॥ समरे विकीर्णगजराजघटे बत तस्य शक्तिरजरा जघटे । तव येन सेवनविधौ तरसा मतिरर्पितान्यभविधौतरसा ॥ १० ॥ हे विभो, तव सेवनविधौ येन धन्येन तरसातिशयेन मतिर्बुद्धिरर्पिता किंभूता मतिः । अन्यभविषु अन्यजन्मिषु धौतः क्षालितो रसो यस्याः सा ।………………………………………॥ विषयान्प्रति प्रयतमानमदः सुजनो मनः प्रयतमानमदः । तव शासनेन वशमानयते शरणं ततो नवशमानयते ॥ ११ ॥ हे विभो, प्रयतौ शान्तौ मानश्च मदश्च तौ यस्य स तादृक् सुजनः सहृदयजनो विष- यान् शब्दादीन्प्रति प्रयतमानं प्रयत्नं कुर्वाणं अदः एतत् मनश्चित्तं तव शासनेन भवदु- क्तानुशासनेन वशमानयते विधेयं संपादयति । अतो हेतोरयं सुजनो नवशमान् नवो नूतनः शमो येषां तान्साधून् शरणमयते गच्छति ॥ रविजं रजोभिरिव मेचकितं हृदयं बिभाव्य शिव मे चकितम् । वचनं जितामृतरसं भ्रमतः पथि संकटे वितर संभ्रमतः ॥ १२ ॥ हे विभो शिव, रजोभिर्धूलिभिर्मेचकितं मलिनीकृतमिव रविजं यमं विभाव्य वि- चिन्त्य मे मम हृदयं मनश्चकितं त्रस्तं भवति । हे स्वामिन् संभ्रमतः संभ्रमेण संकटे पथि भ्रमतो मम जितामृतरसं वचनं वितर देहि ॥ त्वयि चक्षुरीश कलितापकृति क्षिपति क्षणं शकलितापकृति । परशक्तिरिद्धवपुरङ्गमिता जनता यया तव पुरं गमिता ॥ १३ ॥ हे विभो ईश, कलेस्तुरीययुगस्य तापो दूरीकरणजः संतापस्तं करोतीति कलिताप- कृति त्वयि शकलिता अपकृतिर्जन्मजरामरणजा देहिनां येन तच्चक्षुः क्षणं क्षणमात्रं क्षिपति सति इद्धं दीप्तिमद्वपुर्यस्यां सा इद्धवपुः परा उत्कृष्टा शक्तिः परशक्तिरङ्गं देह- मिता प्राप्ता । सा परशक्तिः का। यया जनता जनानां समूहस्तव पुरं शिवभवनं गमिता प्रापिता । त्वच्छक्तिपातानुगृहीतस्य धन्यस्य शिवपुरे गतिर्भविष्यतीत्यर्थः ॥ रविजस्य वर्ष्म सहसा रचितं भवताग्निसादसहसारचितम् । वपुराप ते मदनघस्मरतां न तथापि भीमदनघ स्मरताम् ॥ १४ ॥ हे विभो, न हसते असहो यः सारो बलं तेन चितं व्याप्तं रविजस्य यमस्य वर्ष्म देहः सहसा शीघ्रमेवाग्निसाद्रचितम् । अग्निः संपद्यतेऽग्निसात् । 'विभाषा सातिकार्त्स्न्ये' इति सातिप्रत्ययः । हेऽनघ । अविद्यमानमघं मायावरणं यस्य तस्य संबोधनम् । ते तव वपु- र्मदनस्य कामस्य घस्मरं भक्षकं दाहकं तद्भावं मदनघस्मरतामाप प्राप तथापि स्मरतां भक्तजनानां ते तव वपुर्भीमत् भीर्भयं विद्यते यस्मात्तन्न भवति । परमानन्दप्रदमेवेत्यर्थः॥ करुणा क्षतानवधिकोपचयाधिगता मया त्वदधिकोपचया । शशिना यथाकुलतरं गलता द्युसरिन्निरर्गलतरङ्गलता ॥ १५ ॥ हे विभो, निरर्गलास्तरङ्गरूपा लता यस्याः सा निरर्गलतरङ्गलता द्युसरिद्गङ्गा आकुलतरं व्यग्रत्वेन गलता क्षीणवपुषा शशिना चन्द्रमसा यथाधिगता प्राप्ता तथैव मयापि क्षतो नाशितोऽनवधिर्बहुलः कोपचयः कोपाधिक्यं यया सा तादृशी। तथा अधिक उ पचयो वृद्धिर्यस्याः सा तादृशी च करुणा कृपा त्वत् भवत्सकाशादधिगता प्राप्ता । गरुडेन यद्विषमपक्षतिना कवलीकृतं विषमपक्षतिना । स तव प्रसादमहिमा न परः प्रभुरानतं प्रति हि मानपरः ॥ १६ ॥ हे विभो, विषमे उद्भटे पक्षती पक्षमूले यस्य स तादृशेन । तथा अपगता क्षतिर्बा- धायस्य स तादृशेन च गरुडेन तार्क्ष्येण विषं गरलमपि यत्कवलीकृतं ग्रस्तं स तवैव प्र- सादमहिमा भवति । कुत इत्याह - हि यस्मात् परः प्रभुः स्वामी आनतं प्रह्वजनं प्रति मानपर आदरपरो न भवति । त्रिजगति त्वमेव भक्तजनानां प्रत्यादरपरायण इत्यर्थः ॥ पदमाप्तुमार्तिशमनं गहनं प्रभुमर्थये भृशमनङ्गहनम् । वसनं यथार्तिहरणं स हि मे समये तथैव शरणं सहिमे ॥ १७ ॥ आर्तिर्जन्मजरामरणत्रासरूपा तच्छमनं गहनं पदं परं धाम प्राप्तुमहमनङ्गहनं अनङ्गं कामं हन्तीति अनङ्गहा कामदहनस्तं प्रभुं श्रीशिवं भृशमर्थये । हि यस्मात्कारणात् स हिमे सह हिमेन प्रालेयेन वर्तते यः स सहिमस्तस्मिन्समये काले हेमन्तकाले यथा वसनं वस्त्रं प्रावारप्रायमार्तिहरणं शीतार्तिहरणं तथा प्रभुः परमशिवो मे भवार्तौ शरणं भवति ॥ सुरसुन्दरीषु रमणीयतमा स्ववपुर्गुणेन रमणी यतमा । तव भक्तमक्षतरसाजर सा भजते समेत्य तरसा जरसा ॥ १८ ॥ हे अजर निर्नाश शंभो, सुरसुन्दरीष्वप्सरःसु मध्ये स्ववपुर्गुणेनातिशयेन रमणीया रम्या यतमा एका या काचिद्रमणी वरस्त्री भवति सा न क्षतो नष्टो रसः प्रेमरसो यस्याः सा अक्षतरसा सती जरसा वार्धक्येनोपलक्षितमपि तव भक्तं तरसा शीघ्रं समेत्य भ- जते सेवते ॥ त्वयि गीर्मया निजगदे बत या निखिलं जयामि जगदेव तया । मुदितस्य भक्तिसुधया भवतः सभयस्य किं वसुधया भवतः ॥ १९ ॥ हे स्वामिन्, बत हर्षे । मया वराकेण या गीः स्तुतिरूपा वाणी त्वयि विषये निज- गदे उक्ता तयोक्तया निखिलं सकलमेव जगज्जयामि । यतो भवतः संसारात्सभयस्य त्रस्तस्यापि भवतस्तव भक्तिसुधया भक्तिरसायनेन मुदितस्य प्राप्तपरमानन्दस्य वसुधया धरित्र्यापि लब्धया किम् । न किंचिदित्यर्थः ॥ शिरसि स्रजेव विधुरोचितया हृदि मद्गिरात्र विधुरोचितया । क्रियतां पदं शिव धिया सह तेऽविपदं सदानवधि या सहते ॥ २० ॥ हे शिव कैवल्यप्रद, विधुना चन्द्रमसा रोचिता शोभिता तया स्रजा मालया यथा तव शिरसि पदं स्थानं क्रियते तथैव विधुरे संकटे उचिता तादृश्या विधुरोचितया म- द्गिरा मम वाण्यापि ते तवात्र हृदि तया धिया अनुग्रहबुद्ध्या सह पदं स्थानं क्रियताम् । तया धिया कयेत्याह- —-या धीरनवधि अवधिरहितं कृत्वा विपदं कालकर्णी भक्तजनस्य न सहते ॥ विभुमाश्रये विगलदङ्गलतः प्रमये बिभेमि यदमङ्गलतः । स विमुच्य पाशमशमं गलतः कुरुते हि मे भयशमं गलतः ॥ २१ ॥ यद्यस्मात्कारणात्प्रमये मरणसमये विगलन्ती पतन्ती अङ्गलता यस्य स विगलदङ्ग- लतः सन् अमङ्गलतः अमङ्गला दन्तकभ्रूभङ्गरूपाद्बिभोम तद्विभुं परमशिवमाश्रये । शर णार्थमिति शेषः । स एव विभुरशमं न विद्यमानः शमः शान्तिर्यस्य स तादृशं पाशं फ णिपाशं गलतः कण्ठाद्विमुच्य हि यस्मात्कारणाद्गलतो भयेन पततः क्षीणस्य वा मे भ- यशमं महाभयशान्तिं कुरुते करिष्यति ॥ चरणौ यथा मुरजितः क्षमयाधिगतौ भरं धरितुमक्षमया । नमतां तवैव कृतरक्ष मया भवतो धिया समुचितक्षमया ॥ २२ ॥ हे विभो, भरं भारं धरितुमक्षमया अशक्तया क्षमया धरित्र्या यथा मुरजितो विष्णो- श्चरणौ भूभारोद्धरणायावतरिष्यतोऽघिगतौ प्राप्तौ । हे नमतां जनानां कृतरक्ष शंभो त- थैव मया भवतश्चरणावधिगतौ । कया। धिया बुद्ध्या किंभूतया । समुचितक्षमया समु चिता उपपन्ना क्षमा यस्यास्तया ॥ तिमिरं रवेरिव विभामुदितां दृशमाप्य ते जहति यां मुदिताम् । भगवन्रसाद्गिरमिमामुदितामुपकर्णयन्मयि दिशामुदि ताम् ॥ २३ ॥ हे भगवन् परमेश, रवेः सूर्यादुदितां विभां दीप्तिमिव मुदितां प्रसन्नां यां ते तव दृशं दृष्टिमाप्य प्रह्वजनास्तिमिरमज्ञानरूपं तमो जहति त्यजन्ति रसाद्भक्तिरसादुदितामुत्पन्ना- मिमां मे गिरं वाणीमुपकर्णयन् शृण्वन् अमुदि अविद्यमानमोदे मयि तां दृशं दिश देहि । अविद्यमाना मुत्प्रहर्षो यस्य सोऽमुत् तस्मिन्नमुदि ॥ करुणा सुरैः प्रतिपदानतया भवतः स्तुता सदपदानतया । किमु मां भियाप्तमपदानतया भजसे निरस्तविपदा नतया ॥ २४ ॥ हे सुरैर्ब्रह्मविष्ण्वादिभिः प्रतिपदानत प्रतिपदं प्रतिक्षणमा समन्तात् नतः प्रणतस्तस्य संबोधनं प्रतिपदानत । सदपदानतया सन्ति अपदानानि त्रिपुरदाहान्धकवधादीनि यस्य स सदपदानस्तस्य भावस्तत्ता तया उपलक्षिता या भवतः करुणा जनेन स्तुता भवति अपदेऽस्थानेऽसमये वा आनता अपदानता तया भिया भीत्या आप्तं गोचरीकृतं मां नि रस्ता दूरीकृता विपद्यया सा तादृश्या निरस्तविपदा । प्रणयकोपे निपातः । तया क- रुणया किं न भजसे । कृपापात्रं मां किं न कुरुष इत्यर्थः ॥ तव दृग्जयत्यलसतां लसतां मदनस्य या व्यतनुतातनुताम् । कुशलाय सा किल सतां लसतां निबिडं शमप्यतनुता तनुताम् ॥२५॥ हे विभो, या तव दृक् तृतीया दृष्टिर्मदनस्य कामस्यातनुतामनङ्गत्त्वं व्यतनुताकरोत् सा तव दृक् लसतां क्रीडतां भक्तिप्रह्वजनानामलसतां भवच्चरणाम्बुजोपासायामालस्यं जयति दूरीकुरुते । किल निश्चये । सा तव दृक् सतां सज्जनानां कुशलाय लसतामुल्ल सतु । तथा सा दृक् निबिडं दृढं शमपि कल्याणमपि तनुतां विस्तारयतु । किंभूता दृक् । अतनुता अविद्यमाना तनुताल्पत्वं यस्याः सा । अत्र च कुशलाय शमित्यत्र पौनरुक्त्येsपि भक्तिविषये यमकादावदोषः ॥ अथेदानीमेतस्य स्तोत्रस्योपसंहारं श्लोकद्वयेनाइ यया भजन्ते भुवि मानवा हितां विभूतिमन्ते च विमानवाहिताम् । यमं च याधाद्दलशो भयानकं तया दृशा पास्युरुशोभया न कम् ॥२६॥ हे विभो यया तव दृशा अनुग्रहदृष्ट्या हितामनुकूलां विभूतिं संपदं भुवि 'इइ' लोके मानवा मनुष्या धन्या भजन्ते लभन्ते । तथान्ते निर्वाणसमये च विमानवाहितां विमा- नानि देवयानानि तैर्वाह्यन्ते विमानवाहिनो देवास्तेषां भावस्तत्ता तां भजन्ते । तथा या तव दृक् भयानकं सकलजगद्भयंकरं यमं कालं च दलशः खण्डशोऽधादकरोत् । अधादित्यनेकार्थत्वाद्धातूनामाङ्पूर्वो धाञ् विधानार्थः । तया उरुशोभया उत्कृष्टा शो- भा यस्यास्तया दृशा कं न पासि । अपि तु सर्वमित्यर्थः ॥ परमया रमया रहितस्य मे न रुचिरं रुचिरङ्गमिमं व्यधात् । हर मयारमयाचि भवानतः कुरु चिरं रुचिरञ्जनमेहि मे ॥ २७ ॥ परमया उत्कृष्टया रमया लक्ष्म्या रहितस्य मे मम रुचिर्मनोरथोऽङ्गं देहं रुचिरं शो- भनं न व्यधात् नाकरोत् । हे हर कालाग्निरुद्ररूपेण महाप्रलये सकलजगत्संहारक, अतः पूर्वोक्तकारणाद्भवान्दीनदयालुर्मया अरमत्यर्थे अयाचि प्रार्थितः । 'टु याचृ याच्ञा याम्' धातुः । हे विभो, त्वं च रुचिरमभिप्रायमित्यर्थः ।...............त्वं च एह्याग- च्छेति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ रुचिरञ्जनाख्यं स्तोत्रं पञ्चविंशम् । षड्विंशं स्तोत्रम् । अथातः पादादियमकाख्येन चित्रकाव्यभेदेन षड्विंशं स्तोत्रमारभमाण आह हन्तापहन्तापदुपद्रवाणां यस्याक्षयस्याक्षणिकः प्रसादः । संतापसंतापहरा प्रपेव कान्तारकान्ता रसना च यस्य ॥ १ ॥ तादृड्मता दृड्महतां समन्तादालोकदा लोकहिता च यस्य । तं संततं संतमसार्तलोकपालं कृपालंकृतमीशमीडे ॥ २ ॥ (युग्मम्) संतमसेनाज्ञानरूपेणार्ता ये लोकास्तान्पालयतीति तम् । तथा कृपया दीनदयालुतयालंकृतं तमीशं परमेश्वरं संततमीडे स्तौमीति संबन्धः । तं कमित्याह — इन्तेत्यादि । हन्त हर्षे । यस्य परमेश्वरस्याक्षयस्य निर्विनाशस्यानादेश्चाक्षणिकः परमदृढः सनातनः प्रसादोऽनुग्रह आपदुपद्रवाणां जन्मजरामृतिरूपाणां तदन्तर्गत प्रियवियोगादिदुःखानामपहन्ता भवति । तथा यस्य च विभो रसना जिह्वा समन्ताद्व्यापी य आध्यात्मिकाधिदैविकाधिभौतिकभेदेन त्रिविधस्तापः खेदस्तेन यः संतापः संतपनं तं हरतीति संतापसंतापहरा । तथा [^१]कान्तारकान्ता कान्तो रम्यो योऽरोऽग्रं तत्र कं जलमौचित्यादमृतवारि तदन्ते यस्याः सा कान्तारकान्ता । केव । प्रपा पानीयशालिकेव । साप्यतिशयेन संतापः संतापसंतापस्तं हरति तादृशी भवति । यद्वा संतापो विद्यते येषां ते संतापाः । मत्वर्थीय अः । तेषां संतापं हरतीति तादृशी भवति । तथा कान्तारे निर्जले मरुप्रदेशे कान्ता मनोज्ञा । अत्र च '[^२]सत्तापसत्तापहरा' इति केचित्पाठमुचुः । तत्पाठे च 'सतां तापः सत्तापस्तस्य सत्ता अस्तित्वं तामपहरतीति रसनापक्षे । प्रपापि समीचीनस्य तापस्य सत्तापहरा भवति' इति व्याचख्युः । अत्र च सहृदया एव प्रमाणम् । पुनश्चाभीष्टदं कमित्याह - तादृगित्यादि । समन्तात्परितो महतामुत्तमानामालोकदा प्रकाशदा महतां मताभिप्रेता लोकेषु हितानुकूला च यस्य तादृक् दृग्दृष्टिर्भवति ॥ युग्मम् ॥ हृद्येत्यादिद्वादशभिः कुलकम् हृद्यः सुहृद्यः सुकृतोर्जितानामन्यूनमन्यूनपि यः पृणाति । योऽनामयो नामगृहीतिमात्रादस्तापदस्तापमपाकरोति ॥ ३ ॥ परमे पदे परतत्त्वे परमात्मस्वरूपे नियोक्ता उपदेष्टा स देवः परमेशो वः काममभिलाषं सफलीकरोतु । कामं निश्चये । इति कुलकान्तिमश्लोकेन संबन्धः । स क इत्याह – हृद्य इत्यादि । यो देवः सुकृतोर्जितानां पुण्यप्रदीप्तानां हृद्यो हृदयप्रियः सुहृद्भवति । तथा न न्यूनो मन्युः क्रोधो येषां ते अन्यूनमन्यवस्तानपि अनल्पक्रोधानपि यः पृणाति पूरयति स कामान्करोति । स्वातन्त्र्येणेत्यर्थः । तथा यः प्रभुरनामयः अविद्यमाना आमयाः षट् शीताद्या यस्य स तादृक् । ग्रहणं गृहीतिः । स्त्रियां भावे क्तिः । [^१]. कान्तार इक्षुभेदस्तद्वत्कान्ता मधुरा [^२]. समीचीनोऽयं पाठः. नामगृहीतिमात्रात्केवलं नामग्रहणमात्रेणैवास्तापदो दूरीकृतविपदस्तापभृतः संताप- धारकान् जनान्करोति ॥ चेतः प्रचेतःप्रमुखा यदेकतानं ततानेकगुणा वहन्ति । योगीति यो गीतिषु गीयमानः सिद्धैः प्रसिद्धैः प्रभुरभ्युपेतः ॥ ४ ॥ तथा प्रचेतःप्रमुखा वरुणाद्या लोकपालास्तता विस्तृता अनन्ता गुणा येषां ते ता- दृशा अपि सन्तश्चेतश्चित्तं यदेकतानं यदेकाग्रमेव वहन्ति धारयन्ति । यश्च देवो यो- गीति अष्टाङ्गयोगोपदेशकोऽयमिति प्रसिद्धैः प्रख्यातैः सिद्धैर्देवयोनिभेदैर्गीयमानो गी- तिषु स्तूयमानः प्रभुरयमित्यभ्युपेत आश्रितः ॥ मान्योऽधमान्योऽधरयत्युदग्ररंहोभिरंहाभिरपास्तवृत्तान्[^१]। नामापि नामापिदधाति वीतालोकस्य लोकस्य तमांसि यस्य ॥ ९ ॥ तथा उदग्ररंहोभिर्महावेगैरंहोभिः पापैरपास्तं वृत्तमाचारो यैस्तान् अघमान् यो दे- योऽधरयत्यधः करोति । किंभूतः । मान्यो जगत्पूज्यः । तथा नाम निश्चये । यस्य पर मेश्वरस्य केवलं नामापिवीतालोकस्याज्ञानान्धस्य जनस्य तमांसि मोहादिकान्यन्ध- काराण्यपिदधाति दूरीकरोति ॥ भूतिर्विभूतिर्विपुला दिशश्च वासो निवासो निलयः पितॄणाम् । हीनैरहीनैरपि यस्य भूषाराला कराला कलिका च मौलौ ॥ ६ ॥ यस्य देवस्य भूतिर्भस्म विभूतिः संपत् । विपुला विस्तीर्णा दिशश्च वासः । दिगम्बरत्वाद्देवस्य । तथा पितॄणां निवासः श्मशानं निलयो गृहं भवति । तथा यस्य देवस्य हीनैर्भूतप्रभृतिर्भूषा भुवि तथा स्थानम् । तथा अहीनैर्वासुकिप्रभृतिभिरहीन्द्रैरपि भूषा आभरणम् । हारकेयूरकङ्कणादिस्थाने तेषां सत्त्वात् । तथा अराला वक्रा कराला करान् किरणाना समन्ताल्लाति आदत्ते कराला किरणवती कलिका चन्द्रकला च यस्य देवस्य मौलौ भूषा आभरणम् । यः खेऽलयः खेलति यः शिखाभिः सत्यं हसत्यंहतिहारिणीभिः । भानां शुभानां शुचिरीश्वरो यस्तानक्षतानक्षिषु यो बिभर्ति ॥ ७ ॥ तथा य ईश्वरोऽक्षतान्परिपूर्णान् तान् (त्रीणि धामानि) अक्षिषु त्रिषु बिभर्ति । तान् कानित्याह – अलयः अविद्यमानो लयो नाशो यस्य स यो रविः खे आकाशे खेलति क्रीडति । तथा अंहतिहारिणीभिः पापसंहतिक्षयकारिणीभिः शिखाभिर्ज्वालाभिः सत्य- मेव निश्चितमेव योऽग्निर्हसति । तथा यः शुचिर्विमलः शुभानां भानां नक्षत्राणामीशः स्वामी चन्द्रस्तान् ॥ [^१]. 'कृत्यान्' ख. संख्येष्वसंख्येष्वपि यो भटानां वैरस्य वैरस्यभुवो निदानम् । निन्दावनिं दावहुताशवन्तं रोषं खरोषं खलु यः प्रमार्ष्टि ॥ ८ ॥ खलु निश्चये । असंख्येषु संख्येषु युद्धेषु यो वैरस्यं विमनस्कता तस्माद्भवति यस्तादृशस्य वैरस्य निदानमादिकारणम् । तथा निन्दाया अवनिं स्थानभूतं विडम्बनास्था नम् । तथा दावहुताशवन्तं दावाग्निभूतम् । तथा खरोषं खरस्तीक्ष्ण उषो दाहो यस्य स तादृशं रोषं भटानां योद्धृणां प्रमार्ष्टि शान्तं करोति । यज्ञे नयज्ञेन वृतो न पूर्वं दक्षेण दक्षेण शुभे विधौ यः । तस्यानतस्यानघमुज्झितावसादं प्रसादं प्रददौ दयाब्धिः ॥ ९ ॥ नयज्ञेन नीतिज्ञेनापि । अपिशब्द आर्थः । तथा दक्षेण निपुणेनापि दक्षेण प्रजापति- नापि पूर्वे शुभे विधौ यज्ञे क्रतौ न वृतो यो देवः पश्चान्निजापराधं जानत आनतस्य प्र णतस्य तस्य दक्षस्यानघमविघ्नमुज्झितावसादमनश्वरं प्रसादं प्रददौ । किंभूतो यः । दया- ब्धिः करुणासागरः ॥ नीतावनीतावचलैरलभ्यः साध्यैरसाध्यैरपि यस्तपोभिः । सेवालसे बालमुनौ किलोपमन्यावमन्यावकरोत्प्रसादम् ॥ १० ॥ अविद्यमाना ईतयः षडतिवृष्ट्याद्या उपद्रवा यस्यां सा तादृश्यां नीतावचलैर्दृढैः सा- ध्यैर्देवयोनिभेदैर्यः स देवोऽलम्योऽप्राप्यः । कैरपि । तपोभिरपि । तपोभिः किंभूतैः । अ- साध्यैरपि कर्तुमशक्यैरपि । यः अमन्यौ रोषरहिते । किल निश्चये । उपमन्यावुपमन्यु- नाम्नि बालमुनौ सेवायामलसेऽपि प्रसादं क्षीरोदधिदानरूपमकरोत् ॥ नायं विना यं विदधाति लोकः कर्मण्यकर्मण्यतयाभियोगम् । सत्त्वानसत्त्वानपि नेतुमास्थामर्थः समर्थः स यतोऽभ्युदेति ॥ ११ ॥ कर्मणि साधुः कर्मण्यः न कर्मण्योऽकर्मण्यस्तद्भावतया स्वोचितविधानानभिज्ञतया कर्मण्यभियोगमुद्योगं यं भगवन्तं विना अयं लोको न विदधाति । तथा असत्त्वानधैर्य- वतोऽपि सत्त्वान्प्राणिन आस्थां स्थिति नेतुं प्रापयितुं समर्थोऽर्थोऽभिधेयं वस्तु यतो य स्मादभ्युदेत्युत्पद्यते ॥ धर्मेण धर्मेण निजोचितेन कामेन कामेन वृताभयेन । कालेन काले नतिमागतेन वातेन वा तेन सुखावहेन ॥ १२ ॥ जीवेन जीवेन तदर्पितेन काव्येन काव्येन [^१]मनोहरेण । मित्रेण मित्रेण तमोवृतानां सौम्येन सौम्येन च सेव्यते यः ॥ १३ ॥ ( कुलकमध्ये युग्मम्) [^१]. 'मनोरमेण' क. निजोचितेनात्मोपपन्नेन धर्मेण प्रकृतितुल्येन करणेन धर्मेण पुरुषार्थेन कर्त्रा यो विभुः सेव्यते । तथा वृतमभ्यर्थितमभयं येन तादृशेन कामेनाभिलाषेण करुणेन कामेनानङ्गेन कर्त्रा यः सेव्यते । तथा काले समये नतिमवमानं गतेन कालेन अतीतवर्तमानभविष्य- द्रूपेण (यमेन) यः सेव्यते । तथा सुखावहेन मन्दमन्दं वाहिना वातेन सदागतिना यो विभुः सेव्यते । तथा जीवेन बृहस्पतिना तदर्पितेन जीवेनासुधारणेन यो देवः सेव्यते । तथा मनोहरेण काव्येन निपुणकविकर्मणा काव्येन शुक्रेणापि यो देवः सेव्यते । तथा तमोवृतानामन्धकारपरिवलितानां मित्रेण सुहृदा मित्रेण रविणा यः सेव्यते । तथा सौ- म्येन बुधेन सौम्येन सुशीलेन च यः सेव्यते ॥ युग्मम् ॥ लोकान्सलोकान्सदयोऽसृजद्यो धाता विधाता विभुरीप्सितानाम् । देवः पदे वः परमे नियोक्ता कामं स कामं सफलीकरोतु ॥ १४ ॥ ( द्वादशभिः कुलकम् ) य ईप्सितानामभिलषितानां विधाता कर्ता । धाता सृष्टिकार्यार्थं ब्रह्मरूपो लोकान्भु- वनान्सलोकान्सजनानसृजत् । किंभूतः । सदयः सकृपः । 'लोकस्तु भुवने जने' इत्यमरः । स एवंभूतो देवः परमेशः परमे पदे नियोक्ता । कामं निश्चयेन काममभिलषितं वः सफ लीकरोतु ॥ द्वादशभिः कुलकम् ॥ तं वन्दितं बन्दिभिरर्चयन्ते सन्तो लसन्तो ललितैर्वचोभिः । तस्याजितस्याजिषु नौति लीलामुत्तालमुत्तालरवेण लोकः ॥ १५ ॥ धीरस्य धीरस्यति तस्य तीक्ष्णा बन्धानुबन्धानुगतां प्रवृत्तिम् । दानं ददानं दयितेव रागादानन्ददा नन्दयते च तं श्रीः ॥ १६ ॥ संपन्नसंपन्नवसिद्धिहेतुं धुर्यामधुर्याममरेन्द्रमुख्याः । भासा शुभा सा शुचिरीशभक्तिर्यस्याभयस्याभरणत्वमेति ॥ १७ ॥ (तिलकम्) ललितैः शोभनैर्वचोभिर्लसन्तः क्रीडन्तः सन्तो बन्दिभिर्मागधैर्वन्दितं स्तुतं तं पुरुषं धन्यमर्चयन्ते पूजयन्ति । तथा आजिषु युद्धेष्वपराजितस्य तस्य धन्यस्य लीलां लोक उत्तालरवेणोच्चैस्तालरवेणोत्तालं त्वरितं नौति स्तौति । तथा अस्य धन्यस्य धीरस्य तीक्ष्णा धीर्मेधा निर्निरोधा बन्धस्य भवबन्धस्य योऽनुबन्धस्तमनुगतां प्रवृत्तिं स्थि तिमस्यति त्यजति तथा दयितेव प्रियतमेव आनन्ददा श्रीलक्ष्मीर्दानमर्थिभ्यो ददानं तं धन्यं च नन्दयते । कुतः । रागादासक्तिवशात् । तं कमित्याह – संपन्नेति । संपन्ना पू र्णा या संपत्तस्या नवा या सिद्धिस्तस्या हेतुं यां श्रीशिवभक्तिं धुर्यो महतीममरेन्द्रमुख्या ब्रह्मविष्णुशक्रप्रभृतयोऽधुरधारयन् । भासा दीप्त्या शुभा कल्याणकारिणी ईशभक्तिः परमशिवभक्तिरभयस्य सर्वतः सर्वदा च भयरहितस्य यस्याभरणत्वमेति प्राप्नोति ॥ तिलकम् ॥ अथातः कतिपयैः श्लोकैः स्वात्मानं विनोदयति कविः शङ्का भृशं का भृतकप्रियश्चेदासन्नदासं न जहाति शंभुः । नाराधनाराधयितुश्च मिथ्या किं चित्त किंचित्तरलत्वमेषि ॥ १८ ॥ सानन्द सा नन्दनभूस्तृणं ते कल्याण कल्याणगिरिः क्व गण्यः । सा तेजसा ते जडतामुदस्तकम्पानुकम्पा नुदतीन्दुमौलेः ॥ १९ ॥ जम्बालजं बालरवेरिवाभादीनं नदीनं नवचन्द्रिकेव । साशङ्क सा शंकरभक्तिरुच्चैरक्षामरक्षा मदयिष्यति त्वाम् ॥ २० ॥ नो भोगिनो भोगिभिरर्चितो यः सातङ्क सातं कलयञ्जहाति । स त्वालसत्वालयदैन्यहारी पास्यत्यपास्यत्यशुभं च शंभुः ॥ २१ ॥ (चक्कलकम्) हे चित्त, भृशमत्यर्थं का ते शङ्का । भृतकप्रियो भृतका भृत्याः प्रिया यस्य स तादृ- शश्चेत्स्वामी शंभुस्तर्हि आसन्नदासं न जहाति । आराधयितुश्च ते आराधना विभो- र्मिथ्या वृथा न भवति । तस्मात् हे चित्त, किंचित्तरलत्वं चञ्चलत्वं किमेषि किं प्रा- प्नोषि । हे चित्त सानन्द परमानन्दित, सा नन्दनभूर्देवोद्यानभूस्तृणं ते भवति । अतश्च हे कल्याण, जनेन कल्याणगिरिः कल्याणं सुवर्णं तद्भिरिर्मेरुः क्व गण्यः । हे चित्त, उ दस्तो दूरीकृतः कम्पस्नासो यया तादृशी इन्दुमौलेर्दीनदयालोरनुकम्पा कृपा ते तव ज- डतां तेजसा नुदति निवारयति । हे साशङ्क आशङ्कायत्तचित्त, बालरवेर्बालादित्यस्याभा दीप्तिर्जम्बालजं पङ्कजं यथा मदयति अदीनं सतरङ्गं नदीनं समुद्रं यथा नवचन्द्रिका म- दयति तथोच्चैर्महती अक्षामरक्षा अक्षामा महती रक्षा यस्याः सा तादृशी शंकरभ- क्तिस्त्वां मदयिष्यति आह्लादयिष्यति । एतदेव पुनरपि समर्थयति – न भोगिन इति । हे चित्त सातङ्क आतङ्कयुक्त, भोगिभिः भोगोऽमृततुल्यो विषयास्वादस्तद्युक्तैरर्चितस्तथा सातं कलयन्सुखमुत्पादयन् यः परमेशो भोगिनः सर्पान् वासुकिप्रभृतीन्नो जहाति । अ- लसत्वस्यालस्यस्यालयभूतं यद्दैन्यं तद्धरतीति तादृशोऽलसत्वालयदैन्यहारी स शंभुस्त्वा त्वां पास्यति रक्षति । अशुभममङ्गलं च भवमरुभ्रमणोत्थमपास्यति दूरीकुरुते ॥ चक्कलकम् ॥ दोषप्रदोषप्रसृतापि सक्ता सेवारसे वारविलासिनीव । यानिर्भया निर्भररागिणी त्वामायाति माया तिमिरेऽभिसर्तुम् ॥ २२ ॥ भावानुभावानुगमेन रूढा बाला नवालानगता वशेव । सानेहसा नेह विहास्यति त्वां कण्ठोपकण्ठोपगतैव वाणी ॥ २३ ॥ (युग्मम्) यथा प्रदोषे रजनीमुखे प्रसृता सेवारसे सक्ता निर्भरमतिशयेन रागिणी निर्भया च वारविलासिनी अभिसारिका तिमिरे कामुकमभिसर्तुमायाति तथा हे चित्त, दोषाः प ददोषा अर्थदोषाश्च त एव प्रदोषा निशारम्भास्तत्र प्रसृतापि निर्भरं रागो भक्तिरसो विद्यते यस्यास्तादृशी निर्भया निर्निरोधा सेवारसे सक्ता माया अविद्यैव तिमिरं तत्राभिसर्तुमभिसरणं कर्तुं त्वामायाति सा वाणी यथा बाला स्त्री भावस्य मानसविकारस्यानुभावस्तस्यानुगमस्तेन रूढा आश्रिता अनेहसा कालेन कण्ठोपकण्ठमुपगता कामुकं न वि हास्यति । तथा नवं च तदालानं गजबन्धनं तत्र गता बाला वशा करिणी भावानुभावामुगमेन रूढा आश्रिता कण्ठोपकण्ठमुपगता यथा करिणं न त्यजति तथा भावस्य विवेकवैराग्योदितभक्तिरसस्यानुभावस्तस्यानुगमेन रूढा रूढिं प्रसिद्धिं प्राप्ता कण्ठस्योपकण्ठोपगता सा न त्वां विहास्यति त्यक्ष्यति । सा तव साहायककारिण्येव सदा भवतीत्यर्थः ॥ युग्मम् ॥ अधुना विभुं विनोदयति कविः दिव्या यदि व्यायतकान्तयस्ते गौरीश गौरी शशिनः कला च । विघ्नन्ति विघ्नं तिमिराभिधानं तेनाहतेनाहमुपद्रुतः किम् ॥ २४ ॥ हे ईश, विशेषेणायता वितता कान्तिर्यासां ता व्यायतकान्तयो गौर्वाणी गौरी पा- र्वती शशिनः कला चन्द्रकला च एतास्तिस्रो यदि ते दिव्या मनोहारिण्योऽद्भुतास्ति- मिराभिधानं मोहान्धकाराभिधानं विघ्नं यदि विघ्नन्ति विशेषेण घ्नन्ति तेनाहतेन ति- मिरेणाहं किमुपद्रुतोऽस्मि ॥ मुद्योगमुद्योगभृतो भजन्ते शंसन्ति शं सन्ति च निर्विकल्पाः । भक्ता विभक्ता विपदस्त्वदीयाः कस्मादकस्मादहमेव मग्नः ॥ २५ ॥ हे ईश, उद्योगं सर्वेषु कर्मसु बिभ्रति तादृशास्त्वदीया भक्ता मुद्योगं मुद आनन्दस्य योगो मेलापस्तं भजन्ते । तथा त्वदीया भक्ताः शं कल्याणं शंसन्ति व्यञ्जयन्ति प्रक- टीकुर्वन्ति निर्विकल्पा निश्चिन्ताश्च सन्ति । तथा विपदो विपत्तेर्विभक्ताः पृथग्गताश्च सन्ति । अकस्मान्निर्हेतुरहमेव केवलं कस्मान्मनः । विपदर्णवे इत्यर्थः ॥ वाचां तवाचान्तशुचां शुभानामोघा न मोघा नमतां कदाचित् । तैरुद्धतैरुद्धर मामनाथं लीनं कुलीनं कुदशान्धकारे ॥ २६ ॥ हे विभो, नमतां भक्तिप्रह्वजनानां आचान्ता निःशेषीकृता शुक् शोको याभिस्तासा- माचान्तशुचां तव शुभानां प्रशस्तानां वाचामोघाः समूहा मोघा निष्फलाः कदाचिन्न भवन्ति । हे स्वामिन्, अनाथमशरणं कुदशा एवान्धकारस्तत्र लीनं मां कुलीनमग्र्य- जन्मानं वराकमुद्धतैर्यमभटत्रासविधायिभिस्तैरभयवाक्यसमूहैरुद्धर ॥ कल्पान्तकल्पान्तकभीतियुक्तं रक्षामि रक्षामिह योऽर्हतीति । यस्ते नयस्तेन दिश प्रसन्नामत्रासमत्रासहरां दृशं मे ॥ २७ ॥ हे ईश, यो जन इह संसारे रक्षामर्हति कन्पान्तकल्पा प्रलयतुल्या अन्तकभीति- र्यमभीतिस्तया युक्तं तं जनं रक्षामि पालयामीत्यनेन प्रकारेण यस्ते तव नयो नीतिप्रक- र्षस्तेनात्र संसारेऽप्यसमं त्रासं हरतीत्यसमत्रासहरा तां प्रसन्नां निर्मलां सदयां दृशं दृष्टिं मे मम दिश देहि ॥ कंदर्प कं दर्पमुपैषि यातमस्तं समस्तं सहसा बलं ते । भीरो गभीरो गलितः किमुच्चैरक्षोभरक्षो भगवत्प्रसादः ॥ २८ ॥ हे कंदर्प मदन, कं दर्पमहंकारमुपैषि । सहसा शीघ्रमेव समस्तं सकलं बलं ते त- वास्तं यातम् । हे भीरो मदन, अक्षोंमा क्षोभरहिता रक्षा यस्य स तादृशोऽक्षोभरक्षः गभीरः पुनः संजीवनात् उच्चैर्महान्भगवत्प्रसादः श्रीशिवप्रसादः किं गलितः किं ते वि- स्मृतः । येन मयि दर्पे कुरुष इत्यर्थः ॥ विद्यामविद्यामपि तां यया त्वामाराध्यमाराध्य सुखी भवामि । मायापि मा यापितभीरुपैतु याता न या तानवमर्चितुं त्वाम् ॥ २९ ॥ अनित्याशुच्यनात्मसु विपरीतज्ञानमविद्या अहं तामविद्यामपि विद्यामेव जाने यां वरं (?) । तां कामित्याह – यया अविद्यया आराध्यमाराधनीयं त्वां विभुमाराध्याहं सुखी भवामि निःश्रेयसं लभे । तथा सा मायापि मिथ्यामोहोऽपि मा मां कर्मभूतमुपैतु । सा माया केत्याह –यापिता दूरीकृता भीर्यया सा तादृशी या माया त्वां स्वामिनमर्चयितुं पूजयितुं तानवं तनुत्वं न याता न गता । मायासांनिध्येन भगवदर्चनमपि सेत्स्य- तीति भावः ॥ रामाभिरामाभिमता धृतार्धे भोगोपभोगोपगतेन केन । कस्यान्तकस्यान्तकरी च लक्ष्मीधामानि धामानि बिभर्ति दृष्टिः ॥ ३० ॥ हे स्वामिन्, अभिरामा मनोहारिणी तथाभिमताभीष्टा च रामा रमणी भोगानां श ब्दादिभोगानामुपभोगस्तमुपगतेन केन त्वदन्येनार्धे निजशरीरार्धे धृता । त्वया यथा श्री- पार्वती धृता तथान्येन केन देवेन निजरामा शरीरार्धे धृतेत्यर्थः । तथान्तकस्य यमस्या- न्तकरी विनाशकरिणी दृष्टिर्लक्ष्मीधामानि शोभास्पदानि धामानि तेजांसि त्रीणि सो- मसूर्याग्निरूपाणि कस्य त्वदन्यस्य बिभर्ति । दृष्टिरिति जातावेकवचनम् । तवैव दृष्टिः शोभास्पदानि त्रीणि धामानि बिभर्तीत्यर्थः ॥ कः स्तम्भकः स्तम्भनिभस्य जिष्णोः कस्तापकस्तापकृतःस्मदस्य । कारानुकारानुभवे भवेऽस्मिन्को जीवको जीवभृतां विना त्वाम् ॥ ३१ ॥ हे विभो, स्तम्भनिभस्य त्वच्छापेन स्तम्भसदृशस्य जिष्णोरिन्द्रस्य कः स्तम्भकस्त्वां विना । नान्य इत्यर्थः । तथा तापकृतो जगत्रयतापकस्य स्मरस्य पञ्चेषोः कोऽन्यो देव- स्तापको दाहकः । तथा कारानुकारानुभवे कारागृहसदृशप्रभावेऽस्मिन्भवे संसारे जीव- भृतां देहिनां जीवकस्त्वां विना को भवति । नान्यः कश्चिदित्यर्थः ॥ या शंसया शंसति शंभुभक्तिं चेष्टासु चेष्टासु रतिं स्मरस्य । तामक्षतामक्षयपुण्यकोषादन्यो वदन्यो वहते तनुं कः ॥ ३२ ॥ या तनुर्धन्या शंसया स्तुत्या शंभुभक्तिं शंसति व्यनक्ति । तथा या च तनुः स्मरस्य कामस्येष्टास्वभिमतासु चेष्टासु रतिं सक्तिं शंसति । तामक्षतामखण्डितां अक्षयो निर्वि- नाशः पुण्यान्येव कोषो यस्य स तस्मादक्षयपुण्यकोषात्सुकृतिनोऽन्यः को वदन्यो दाता वहते धारयति । अनेकप्राग्जन्मोपार्जितसुकृतपरिपाकेनैव तादृशी तनुर्भवतीत्यर्थः ॥ याहंतया हन्त नृपेऽप्यवज्ञामानञ्ज मानं जनयन्त्यभङ्गम् । हा निःसहा निःसरणेऽपि भक्त्या सा वागसावागमदन्तिकं ते ॥ ३३ ॥ हन्त कष्टे । हे विभो, अभङ्गमनश्वरं मानं जनयन्ती उत्पादयन्ती । मानिनीत्यर्थः । या वाक् अहंतया दर्पेण नृपेऽपि राज्ञि अपि अवज्ञां आनञ्ज प्रकटीचकार हा कष्टे सैवासौ वाक् निःसरणेऽपि बहिर्निर्गमनेऽप्यसहा भक्त्या भक्त्युत्कर्षेण ते तवान्तिकं समीपमागमत् ॥ अथातोऽस्य स्तोत्रस्योपसंहारार्थं वृत्तद्वयमाह देवं यदेवं यमकैर्महेशं तुष्टाव तुष्टावसरोचितं गीः । शस्यो यशस्योऽयमुपस्थितोऽस्मादेनोभिदे नोऽभिमतः प्रसादः ॥ ३४ ॥ तुष्टा संहृष्टा एवं पूर्वोक्तप्रकारेण यमकैर्यमकालंकारैः । 'स्वरव्यञ्जनसमुदायपौनरुक्त्यं यमकम्' इति सर्वस्वे राजानकरुचकः । महेशं परमेशं देवं यत्तुष्टाव । कथम् । अवसरे उचितमवसरोचितम् । अयं प्रसादोऽनुग्रहः शस्यस्तुत्यः यशस्यो यशसि साधुश्च नोऽस्मा- कमेनोभिदे पापक्षयायाभिमत इष्टश्चास्मान्महेशादुपस्थितः समीपं प्राप्तः ॥ तरलतरलताग्रस्पर्धिनी चञ्चलत्वं रुचिररुचिरमन्दानन्ददा मुञ्चति श्रीः । चरति च रतिकान्तध्वंसिशंसारतानां मधुरमधुरसार्द्रा भारती वक्रपद्मे ॥ ३५ ॥ तरलतरं यल्लताग्रं तत्स्पर्धते तादृशी तरलतरलताग्रस्पर्धिनी अतिचञ्चलापि श्री रति- कान्तध्वंसिशंसारतानां स्मरारिस्तुतितत्पराणां पुंसाममन्दानन्ददा महानन्दप्रदा रुचिर- रुचिः रम्याभिप्राया सती चञ्चलत्वं मुञ्चति शिवभक्तिरतानां गृहे लक्ष्मीरतिस्थिरैव व- सतीत्यर्थः । तथा स्मरारिस्तुतिरतानां वक्रपद्मे मुखाब्जे मधुरो यो मधुरसः क्षौद्ररसस्त- त्तुल्यं भक्तिरसामृतं तेनार्द्रा भारती वाणी चरति विहरत इति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ पादादियमकस्तोत्रं षड्विंशम् । सप्तविंशं स्तोत्रम् । अथातः पादमध्ययमकाख्येन चित्रकाव्यभेदेन सप्तविंशं स्तोत्रमारभमाण आह जयति संयति संगतपाण्डवप्रहरणाहरणाहितकैतवः । तरुणदारुणदाशवपुर्धृतस्थिरयशा रयशालिशरो हरः ॥ १ ॥ संयति सङ्ग्रामे संगतश्वासौ पाण्डवोऽर्जुनस्तस्य प्रहरणान्यायुधानि तेषामाहरणे निश्चे- ष्टीकरणे आहितं कृतं कैतवं छद्म येन सः । तथा तरुणो युवा दारुण उद्भटो यो दाशः किरातस्तस्येव वपुः शरीरं यस्य सः । अर्जुनानुग्रहाय धृतकिरातरूप इत्यर्थः । तथा धृतं स्थिरं यशो येन सः । तथा रयेण वेगेन शालन्ते तच्छीलाः शरा इषवो यस्य सः । ए- वंभूतो हरः श्रीशिवो जयति सर्वोत्कृष्टो वर्तते ॥ भुवनपावनपादमधर्षितं मघवताघवतामपि सस्पृहम् । मुनिजनीनिजनीतिपरीक्षणे धवलकेवलकेलिकृतं स्तुमः ॥ २ ॥ भुवनानां शिवादिक्षित्यन्तानां पावनाः पादाश्चरणा यस्य स तादृशम् । तथा मघवता इन्द्रेण महातेजस्विनाप्यघर्षितमपराभूतम् । तथा अघवतां पापिनामपि सस्पृहं तैरपि स्पृहणीयम् । तथा मुनीनां या जन्यः स्त्रियस्तासां या निजा नीतिः स्वशीलसंरक्षण- रूपा तस्याः परीक्षणे परीक्षायां धव एव धवलः कामुकस्तस्य केवलं केलिः क्रीडा तां करोतीति तादृशं श्रीशिवं वयं स्तुमः । 'जनौ लोकपृथग्जनौ । जनी वधूः' इति मङ्खः ॥ स्थिरमगारमगात्मजया श्रितं स्मरविकारविकासपराङ्मुखम् । भुजगराजगराग्निशिखावलीविषमवेषमवेपथुदायिनम् ॥ ३ ॥ शमिषु कामिषु कारुणिकेषु वा वरमघोरमघोपशमक्षमम् । घनविपन्नविपन्निधने सदा परमधीरमधीरमुपास्महे ॥ ४ ॥ (युग्मम्) वयमेवंविधमधीशं त्रिजगत्प्रभुमुपास्महे सेवामहे । अधीशं कम् । अगात्मजया पार्वत्या श्रितमगारं गृहम् । आरोप: । अगारं कीदृशम् । स्थिरम् । अपिशब्द आर्थः । पार्वत्या सदा श्रितमपि स्मरविकाराणां वियोगिंदशावस्थारूपाणां यो विकासस्तस्मात्पराङ्मुखं विमुखम् । भुजगराजेति । अत्राप्यपिशब्द आर्थः । भुजगराजानां वासुकिप्रभृतीनां यो गरो विषं स एवाग्निस्तस्य या शिखानां ज्वालानामावली सैव विषमः क्रूरो वेषो ने- पथ्यं यस्य स तादृशमपि न वेपथुं कम्पं ददातीति तादृशम् । अभयकरमित्यर्थः । तथा अधीशं किंभूतम् । वरमुत्कृष्टम् । तथा अघोरं त्रिजगदुद्धरणाय धृतसकलरूपं परमशिवं शमिषु जितेन्द्रियेषु कामिषु सांसारिकजनेषु कारुणिकेषु सत्त्वगुणभूयिष्ठेषु अघोपशमने दोषोपशमने पापोपशमने क्षमस्तम् । घना भूयसी या विपन्नानां विपत्पतितानां विप- त्तस्या निधनं विनाशस्तत्र परम उत्कृष्टश्चासौ धीरस्तादृशम् । युग्मम् ॥ श्रुतनयास्तनयास्तनुमध्यमा युवतयो बत योगिमनोत्दृतः । यदघनामघनामयवैशसं तदमृतेशमृते शमयन्ति किम् ॥ ५ ॥ बत आश्चर्ये । अघनाम अघं पापमिति यस्य नाम तत्तादृशं घनश्वासावामयो जन्मजरामरणत्रासरूपस्तस्मादुत्पन्नं वैशसं दुःखं यद्भवति तदुःखममृतेशममृतेश्वरभैर- वरूपं श्रीमृत्युंजयमृते विना श्रुतनयाः श्रुतः साक्षादवधारितो नयो नीतिशास्त्रं यैस्तादृ- शास्तनयाः सुताः किं शमयन्ति । देहिनामिति शेषः । नैव शमयितुं समर्था इत्यर्थः । तथा योगिनामष्टाङ्गविदामपि मनांसि हरन्तीति तादृश्यो योगिमनोहृतस्तनुमध्यमाः कृशोदर्यो युवतयस्तरुण्योऽपि श्रीशंभुं विना तद्दुःखं किं शमयन्ति ॥ न हरिणा हरिणाङ्कशिखामणे न विधिना विधिनापि सपर्यता । तव पुरा वपुराममृशे वयं क्व नु भवानुभवावृतचेतसः ॥ ६ ॥ हे हरिणाङ्कशिखामणे चन्द्रमौले, हरिणा विष्णुनापि पुरा पूर्वं तव वपुः शरीरमन- लस्कन्धरूपं नाममृशे नाज्ञायि । तस्यान्तो नावगत इत्यर्थः । तथा विधिना शास्त्रोक्तेन सपर्यता सेवां कुर्वाणेन । 'नमस्यता' इति पाठे नमस्कुर्वाणेनापि विधिना ब्रह्मणा 'तवै- श्वर्यं यत्नाद्यदुपरि विरिञ्चो हरिरधः' इत्याख्याने पुरा पूर्वं तव वपुर्नाममृशे नाज्ञायि वयं तु क्व नु भवामस्त्वत्स्तुतिविधाने । किंभूता वयम् । भवानुभवेन भवस्य जन्मनो- ऽनुभवस्तेनावृतं चेतो येषां ते तादृशाः । मायावरणावृतमनस इत्यर्थः ॥ चतुरगास्तुरगा नगजा गजाः स्थिरमुदारमुदात्तबलं बलम् । प्रभवता भवता विहिते हिते प्रतिदिशन्ति दिशं कमलामलाम् ॥ ७ ॥ हे विभो, प्रभवता प्रभुणा भवता हिते शुभदृष्ट्यंशनिपाते विहिते कृते सति एतानि वस्तूनि कमलामलां कमलया लक्ष्म्या अमला रम्या तां दिशं मार्गं प्रतिदिशन्ति वि तरन्ति संदर्शयन्ति च । एतानि कानीत्याह - चतुरगा इत्यादि । चतुरं शीघ्रं गच्छन्ति चतुरगाः शीघ्रगा अश्वाः । तथा नगाद्विन्ध्याद्रिप्रभृतेः पर्वताज्जाता गजा हस्तिनश्च । तथा स्थिरं दृढमनन्यतोगामि उदारं महत् उदात्तबलं महाबलयुतं बलं सैन्यं च । 'दिगुपाये निदर्शने । मार्गे ककुभि च स्त्री स्यात्' इति मङ्खः॥ द्विजसमाजसमाधिकदर्थनप्रवणरावणराज्यहृतौ कृती । चरणयो रणयोग्यबलोऽभवन्नवनतो वनतो भरताग्रजः ॥ ८ ॥ शुभरतो भरतोऽप्यभवद्द्विषद्गरिमहारिमहाः समवाप्य यम् । दिश तमीश तमीपतिशेखर स्थिरमनुग्रमनुग्रहमेहि मे ॥ ९ ॥ (युम्मम्) यं भवदीयानुग्रहं समवाप्य द्विजानां ब्राह्मणानां वसिष्ठविश्वामित्रप्रभृतीनां यः समा- जस्तस्य यः समाधिः परमात्मन्येकाग्रचित्तत्वं तस्य यत्कदर्थनं भङ्गस्तत्र प्रवणः सक्तो यो रावणो दशमुखस्तस्य यद्राज्यं तस्य हृतौ हरणे कृती निपुणः । वनतः का- ननतः । कानने स्थितोऽपीत्यर्थः । रणयोग्यबलः रणे सङ्ग्रामे तादृशेन वैरिणा सह युद्धे योग्यं बलं यस्य तादृशो भरताग्रजो रामभद्रोऽभवत् । किंभूतो भरताग्रजः । तव विभो श्चरणयोश्चरणकमलयोरवनतः प्रणतः । तथा हे तमीपतिशेखर चन्द्रमौले ईश श्रीशिव, यं भवदीयानुग्रहं स्थिरं दृढं अनुग्रमनुद्भटं मङ्गलदायिनं प्रसादं समवाप्य शुभकर्मणि अग्रजं विना राज्यग्रहणरूपे रतो भरतो रामानुजोऽपि द्विषतां शत्रूणां यो गरिमा गु रुत्वं तद्धरतीति तादृशं महस्तेजो यस्य स द्विषद्गरिमहारिमहा अभवत् तमनुग्रहं प्रसादं मे मह्यं दिश देहि त्वं एहि ॥ भृशमनीशमनीतिपथस्थितं मदवशादवशाक्षमुपप्लुतम् । अहरहर्हर हर्षयते न किं हृतवती तव तीव्रशुचं रुचिः ॥ १० ॥ हे हर सकलपापहर, भृशमत्यर्थमनीशमनाथम् तथा अनीतेः कुनीतेः पन्थास्तत्र स्थितम् । मदवशादहंकारवशात् अवशान्यनायत्तानि अक्षाणीन्द्रियाणि यस्य स तादृ- शम् । तथा उपप्लुतमुपद्रुतम् । वैरिभिः कामक्रोधादिभिराभ्यन्तरैरित्यर्थः । तथा तीव्रशु- चमत्युत्कटदुःखम् । मां हितवती सदा हितकारिणी तव विभो रुचिरभिप्रायापरप- र्याया अहरहः प्रत्यहं मां किं न हर्षयते आनन्दयते । एतादृशं मां दृष्ट्वानुग्रहे रुचिं कुर्वित्यर्थः ॥ कुशलपेशलपेलवदृग्वमन्रसनया सनयार्तिहृतामृतम् । मदनसादन सान्त्वय संपदामपदमापदमाश्रितमेहि माम् ॥ ११ ॥ हे मदनसादन । मदनं सादयति विश्वणाति मदनसादनः । 'षद्लृ विशरणे' धातुः । तस्य संबोधनम् । कुशलेन पेशला पेलवा दृग्यस्य स तादृशः कल्याणमधुरसौम्यदृष्टिस्त्वं सनयानां नीतिमतामर्तिर्भवार्तिस्तं हरतीति तादृशा सनयार्तिहृता रसनया जिह्वया अमृतं पीयूषं वमनुद्गिरन् मुञ्चन् । 'टुवमु उद्गिरणे' धातुः । त्वं संपदां मोक्षलक्ष्मीनामपदम- स्थानम् आपदं जन्मजरामरणरूपां विपदमाश्रितं मां दीनं सान्त्वय आश्वासय त्वमेहि ॥ कथमनाथमनागसमन्तिके मदनमर्दन मर्षयसे न माम् । भुवनभावन भाति विना त्वया जगति कोऽगतिकोद्धरणक्षमः ॥ १२ ॥ मदनं कामं मर्दयतीति तस्य संबोधनं हे मदनमर्दन कामदहन । तथा भुवनानि शिवादिक्षित्यन्तानि भावयति तस्य संबोधनं हे भुवनभावन । हे शंभो, अनागसं निर- पराधं मां दीनमन्तिके समीपे किं न मर्षयसे किं न सहसे । त्वया दीनदयालुना विना जगति त्रिजगत्यगतिकानामशरणानामुद्धरणे क्षमः शक्तः को भाति राजते । न को- ऽपीत्यर्थः ॥ यदि कृपापर पापरतस्य मे न कुरुषे परुषे पदमाशये । हिततमा कतमा कलुषात्मनो मम हरामहरा घटते गतिः ॥ १३ ॥ हे कृपापर दयापरायण, परुषे रूक्षे पापरतस्य पापिनो मे आशये हृदये पदं स्थानं यदि न कुरुषे तर्हि हे हर शंभो । 'अम रोगे' धातुः । अमो रोगस्तं हरतीति अमहरा संसारामयहारिणी कतमा का हिततमा अत्यन्तहिता गतिः कलुषात्मनो मलिनाशयस्य मम घटते मिलति ॥ स्थिरविभा रविभातिरिवोन्मदं मदमयं दमयन्त्यसमन्ततः । तव दया वद यात्युदयं न चेद्भवतमी बत मीलति मे कथम् ॥ १४ ॥ यथा स्थिरविभा दृढंदीप्ती रविभाती रवेः सूर्यस्य भानं रविभातिः सूर्यदीप्तिर्यथा अ सममनन्यसामान्यं तमोऽन्धकारं दमयति तथैव स्थिरप्रभा उन्मदमुद्भटं मदमयमहंकार- रूपमनन्यसामान्यं तमोऽज्ञानरूपं दमयन्ती शमयन्ती तव दया कृपा न चेदुदयं याति हे परमेश, त्वं वद भवः संसार एव तमी रात्रिरज्ञानस्वरूपतमोवृतत्वात् कथं मे मीलति संकुचति । दूरं गच्छतीत्यर्थः ॥ रजनिराजनिराकरणक्षमः क्षतनिशातनिशातिमिरोत्करः । कृतविभातविभाभरभास्वरो दिनकरो न करोत्युदयं यदा ॥ १५ ॥ दिवि यदा वियदामरणं कृपापरमते रमते न सुधाकरः । न शुचिराशु चिरापतितं यदा स्थिरमपारमपाकुरुते तमः ॥ १६ ॥ तनुकृशानुकृशां ग्रसते यदा मिहिरजाहिरजातघृणस्तनुम् । शिव तदा बत दास्यति मे धृतिं त्वदितरः कतरः करुणाकरः ॥ १७ ॥ (तिलकम्) हे विभो शिव, रजनिराजस्य चन्द्रस्य निराकरणं हीनकान्तित्वसंपादनरूपं तत्र क्षमः शक्तः । तथा क्षतो बाधितो निशातस्तीक्ष्णो निशातिमिरस्य रात्र्यन्धकारस्योत्करः स- मूहो येन स तादृशः । तथा कृतं विभातं प्रभातं येन स तादृशो यो विभाभरो दीप्तिस- मूहस्तेन भास्वरो दीप्तो दिनकरः सूर्योऽभ्युदयं यदा न करोति ॥ तथा हे कृपापरमते शंभो, वियदाभरणं नभोलंकरणं सुधाकरश्चन्द्रो दिवि गगने यदा न रमते । तथा चिरा पतितं स्थिरं दृढमपारं च ध्वान्तं शुचिरग्निर्यदा न अपाकुरुते ॥ अजातघृणो निर्घृणो मिहिरजस्य रविजस्यान्तकस्याहिः सर्पः पाशरूपस्तनुश्चासौ कृशानुरग्निस्तद्वत्कृशा ता- दृशीं तनुं यदा ग्रसते हे शिव विभो, तदा त्वदिरतः कः करुणापरो दयालुर्मे ममाशर- णस्य दीनस्य धृतिं धैर्यं दास्यति ॥ तिलकम् ॥ निधनसाधनसान्द्रलसद्विषानलकरालकरात्तमहोरगः । नियमनाय मनाङ्यम सस्पृहे भवति धावति धाम यमः कथम् ॥ १८ ॥ हे विभो, नियमसाधनं मरणनिमित्तं सान्द्रं घनं लसद्यद्विषं तदेवानलस्तेन करालः करेणात्तो गृहीतो महानुरगः फणी येन स तादृशो यमो भवति त्वयि स्वामिनि सस्पृहे स्निग्धे दयापरे सति मनागीषन्नियमनाय नियन्त्रणार्थं मम धाम गृहं कथं घावति । मदीयं गृहं कथमायातीत्यर्थः ॥ पलितमीलितमीश मम स्मरश्चतुरमातुरमारचयन्वपुः । घनबलेऽनवलेपपरे त्वयि प्रभविता भवितापकरः कथम् ॥ १९ ॥ हे ईश स्वामिन्, पलितेन जरसा शौक्लघेन मीलितं संकुचितमपि चतुरं शीघ्रं निजोद्रे- केणातुरं मम वपुः शरीरमारचयन् कुर्वन् स्मरः कामो घनबले महाबले त्वयि विभौ अ नवलेपे स्पृहायां दयायां परे सति भविनां देहिनां तापं करोति तादृशः कथं प्रभविता समर्थो भविष्यति ॥ किमधुना मधुनापि युतो वहन्हरति भीतिमभीष्टतमामपि । श्रितमवन्तमवन्ध्यबलं विभुं जयति मां यतिमानहरः स्मरः ॥ २० ॥ मधुना वसन्तेन सख्यापि युतः तथा अभीतिं भयरहितामभीष्टतमामपि प्रियतमा- मपि रतिं वहन् अधुना इदानीमवन्ध्यबलं महाबलं जगत्प्रसिद्धमवन्तं परिपालयन्तं विभुं जगदीशं शंभुं श्रितं शरणार्थं गतं मां स्मरः किं जयति । कथं जयतीत्यर्थः । किंभूतः स्मरः । यतिमानहरः यतीनां संयमिनामपि मानं गर्वं हरतीति तादृशः ॥ विषमरोषमरोः पथि पातयन्मतिमनीतिमनीक्षितसत्पथाम् । भृशमयं शमयन्नियमं कथं तव पुरो वपुरोषति मे मदः ॥ २१ ॥ हे स्वामिन्, अनीक्षितः सन्मार्गो यया तादृशीं अनीर्ति नीत्या नयेन रहितां मातिं बुद्धिं विषमो यो रोष एव मरुर्निर्जलो दुरध्वा तस्य पथि मार्गे पातयन् तथा भृशमत्यर्थं नियमं शमयन्नयं मदोऽहंकारस्तव स्वामिनः पुरोऽग्रे वपुः शरीरं भवद्भक्तस्य मे कथमो- षति दहति । 'उष दाहे' धातुः ॥ मम निकामनिकारकृतो वृथा वपुरवापुरवार्यरुषोऽरयः । न हि तदाहितदाहमदन्त्यमी तव हितावहिता हि नतेषु धीः ॥ २२ ॥ हे विभो, निकाममत्यर्थं निकारं कुर्वन्तीति तादृशाः तथा अवार्या न वार्या वारणीया रुट् रोषो येषां ते तादृशाश्चारय आभ्यन्तराः कामक्रोधादयो रिपवो मम भवद्भक्तस्य वपुर्वृथा अवापुः । अत्र हेतुमाह - हि यस्मात्कारणात् आहितो विहितो दाहो यस्य त न्मम वपुर्न अदन्ति भक्षयन्ति । अत्रापि हेतुमाह – नतेषु भक्तिप्रह्वनेषु तव विभोर्धी: हितावहिता हिते हितकरणेऽवहिता सावधामा भवति ॥ यदि विभा दिवि भाति न तावकी यदि न मे दिनमेति भवन्मयम् । वद महादमहारि तमः कथं विषमदोषमदो विनिवर्तते ॥ २३ ॥ हे परमशिव, तावकी तव त्रिधामनयनस्येयं विभा परज्योतिःस्वरूपा वा दिवि ग गने बाह्याकाशे हृदयाकाशे च यदि न विभाति । तथा भवान् प्रचुरः सर्वव्यापी यत्र तद्भवन्मयम् । प्राचुर्ये मयट् । दिनं प्रकाशमयं मे मम यदि न एति प्रकटीभवति त्वं वद महान्दमः शमस्तं हरतीति महादमहारि तथा विषमा दोषा मायावरणजा अप्रका- शादयश्च यत्र तादृशं अद एतत् तमोऽज्ञानाख्यं ध्वान्तं च कथं मे विनिवर्तते निवृत्तिमेति ॥ कमलिनी मलिनीक्रियते यथा विहतसंततसंतमसापि या । स्मरचिता रचितापि च यत्र तां वितर कातरकामदुघां दृशम् ॥ २४ ॥ हे दयालो स्वामिन्, कातरेषु शरणागतेषु काममभिलाषं दुग्धे इति कातरकामदुघा तादृशीं दृशं चन्द्रार्काग्निरूपत्रिधाममयीं वितर देहि । एतत्रिधाममयत्वं क्रमाद्वक्ति- कमलिनीत्यादि । तां दृशं काम् । यया दृशा वामभागस्थया इन्दुरूपया कमलिनी मलि- नीक्रियते संकोचमापाद्यते, तथा या दृग्दक्षभागस्था मिहिरमयी विहतं निश्चेष्टीकृतं संततं सदैव संतमसं ध्वान्तं यया सा तादृशी भवति । तथा यत्र तृतीयस्यां ललाटस्थ- दृशि दहममय्यां भवता प्रभुणा स्मरस्य कामस्य चिता दहनार्थं चिती रचिता कृता ॥ तुहिनवाहिनवानिलजे मनः सहसि रंहसि रञ्जयति प्रिया । न रसिकोरसि कोष्णकुचा तथा तव गुणानुगुणा नुतिगीर्यथा ॥२५॥ हे विभो, गुणेष्वनुगुणानुरक्ता तव नुतिगीः स्तुतिवाग्यथा मनो रञ्जयति सहसि हेम- न्तर्तौ तुहिनवाहिनवानिलजे प्रालेयवाहिनव्यानिलजाते रंहसि वेगे उरसि वक्षःस्थले रसिका संसक्ता कोष्णकुचा प्रिया वरनारी मनश्चित्तं तथा न रञ्जयति ॥ अयमसौ यमसौष्ठवहृत्पुरः परुषपौरुषपौष्टिकचेष्टितः । विधुरबन्धुरवन्ध्यपरिग्रहः स्फुरति मे रतिमेत्य महेश्वरः ॥ २६ ॥ अयमेतादृग्भवति अर्थादहमेव । असौ च महेश्वर एतादृक् रतिमेत्य प्रीतिमेत्य मे मम पुरः स्फुरति । उभावपि विशेषणैर्विशिनष्टि—अयं मल्लक्षणः कीदृशः । यमानामहिं- सासत्यास्तेयब्रह्मचर्यापरिग्रहाणां सौष्ठवं सुष्टुभावं हरति तादृशः । तद्वर्जित इत्यर्थः । तथायं मल्लक्षणः कीदृशः । विधुरबन्धुः विधुरा आपदा दीना बन्धवो यस्य स तादृक् । पुनः किंभूतः । अवन्ध्यपरिग्रहः अवन्ध्यः सफलः ससंतानत्वात्परिग्रहो दारा यस्य स तादृक् । असौ महेश्वरोऽपि किंभूतः । यमसौष्ठवहृत् यमस्यान्तकस्य सौष्ठवं शौटीर्यं ह- रति दाहकत्वात्तादृशः । पुनः किंभूतः । परुषं पौरुषेषु महोग्रेषु स्वभक्तेषु पौष्टिकं चेष्टितं यस्य सः । पुनः किंभूतः । विधुराणां दीनानां बन्धुराश्वासकः । पुनः कीदृशः । अवन्ध्यः सफलो मनोतिगवरप्रदानात्परिग्रहो ग्रहणं सेवालक्षणं यस्य स तादृक् । अर्थात्प्रभुसेवक- योर्मेलापो युक्तो जात इत्यर्थः ॥ अनिधनेन धनेन मनस्विनामनुगुणेन गुणेन गरीयसा । अभिजनेन जनेन सुदुष्कृतैरशबलेन बलेन च वर्धते ॥ २७ ॥ अभिनवेन नवेन शिवस्य यः स्तुतिमुदारमुदारभतेऽमुना । अवहितस्य हि तस्य तनोति शं विभवदो भवदोषहरो हरः ॥ २८ ॥ (युग्मम्) यः पुमान्धन्यः उदारा मुत्प्रमोदो यस्य स उदारमुत् सन् अभिनवेन नूतनेनामुना नवेन स्तवेन श्रीशिवस्य स्तुतिमारभते स नरोऽनिधनेन निर्विनाशेन धनेन वि- त्तेनोपलक्षितो वर्धते । तथा तथा मनस्विनामुदारचित्तानामनुगुणेनानुकूलेन गुणेन वि- क्रमादिना गरीयसातिगुरुणोपलक्षितो वर्धते । तथा अभिजनेन कुलेन जनेन परिवारेण च वर्धते । तथा सुदुष्कृतैः पातकैरशबलेनाकलुषेण बलेन चोपलक्षितो वर्धते । तथा यः श्रीशिवस्य स्तुतिमारभते अवहितस्य सावधानचित्तस्य तस्य पुरुषस्य धन्यस्य हि निश्च- येन विभवदो वैभवप्रदः तथा भवस्य संसृतेर्दोषं पुनः पुनरागमं हरतीति तादृक् हरः श्रीशिवः शं कल्याणं तनोति ददाति ॥ स सकलासु कलासु विचक्षणः स मतिमानतिमानसमुन्नतः । न शशिखण्डशिखण्डमृते स्तुतिं सुकृतवान्कृतवानपरस्य यः ॥ २९ ॥ यः सुकृतवान्पुण्यवान्धन्यः शशिखण्डशिखण्डं चन्द्रमौलिमृतेऽपरस्यान्यस्य स्तुतिं न कृतवान्स नरः सकलासु सर्वासु कलासु नृत्तगीतहास्यादिषु विचक्षणो निपुणः । तथा मतिमान्बुद्धिमान् अतिमानसमुन्नतोऽत्यर्थं मानेन गर्वेण च समुन्नतो भवति ॥ रविरहो विरहोद्धरणाद्दिशन्धृतिमुदेति मुदे रथपक्षिणाम् । यदविषादविषाभिभवं जगत्कृतमसन्तमसं स्तुतिभिः प्रभोः ॥ ३० ॥ प्रभोः श्रीशंभोः स्तुतिभिः प्रातरुत्थाय विहिताभिर्हेतुभी रविणा सूर्येणासन्तमसं नि- रन्धकारं तथा अविषादविषाभिभवं विषादो दुःखमेव विषं गरलं तेनाभिभवः पराभवः अविञ्चमानो विषादविषाभिभवो यस्य तत्तादृशं च जगद्विहितं ततो हेतोः अहो इत्या- श्चर्ये विरहोद्धरणात् रात्रौ यो विरहस्तदुद्धरणात् रथपक्षिणां रथशब्देन तदेकदेशो र- थाङ्गं गृह्यते तथा रथाङ्गनाम्नां पक्षिणां चक्रवाकाणां मुद्दे तोषाय रविः सूर्य उदेति । किं कुर्वन् । तेभ्य एव धृतिं सौख्यं दिशन् ॥ विनयशोभियशोभिरतं मनः परहितारहिता विमला मतिः । विपुलमङ्गलमङ्गमिति प्रभोः प्रतिफलन्ति फलं स्तुतिवीरुधः ॥ ३१ ॥ प्रभोः श्रीशंभोः स्तुतिवीरुधः स्तुतय एव वीरुधो लता इति फलं प्रतिफलन्ति द- दति । इति किमित्याह — श्रीशंभुस्तुत्या विनयेन शोभते तादृशं मनश्चित्तं यशसि दा- नोत्थेऽभिरतं लीनम् । तथा विमला निर्मला सती मतिः परहितारहिता परहितानुकूला भवति । तथा श्रीशिवस्तुत्या अङ्गं च विपुलमङ्गलं विस्तीर्णमङ्गलं भवति ॥ जितसुधारसुधारसभारतीविभवसंभवसंभृतकीर्तयः । कविबुधा विबुधाधिपवन्दितं सुकृतिनः कृतिनः स्तुवते शिवम् ॥३२॥ शोभना धारा यस्य स सुधारः जितः सुधारः सुधारसोऽमृतरसो येन स तादृग्यो भारतीविभवो वाक्प्रपञ्चस्तस्य संभव उत्पत्तिस्तेन संभृता पूरिता कीर्तिर्येषां ते तादृशाः सुकृतिनः पुण्यवन्तः कृतिनो धन्याः कवयो निपुणकविकर्मकुशला बुधा विपश्चितश्च विबुधाधिपैरिन्द्रादिभिर्वन्दितं शिवं परमेशं स्तुवन्ति ॥ न महतामहतामलसंविदां मदयिता दयिताधिगमस्तथा । मधुरसाधुरसार्द्रपदा यथा सयमका यमकामरिपुस्तुतिः ॥ ३३ ॥ मधुराण्यत्यन्तमाधुर्यधुर्याणि साधुरसानि शोभनभक्त्यमृतरससिक्तानि आर्द्राण्यत्यन्त कोमलानि पदानि यस्यां सा तादृशी तथा सयमका सह यमकैर्यमकाख्यशब्दालंकारैर्वर्तते या तादृशी च यमकामरिपुस्तुतिः कालकामदाहकृतः श्रीशंभोः स्तुतिर्यथा महतां सचेतसां मदयित्री भवति तथा अहता निष्प्रतिघा अमला स्वच्छा संविज्ज्ञानं येषां तादृशानां महतां महाशयानां दयिता........आनन्दयिता ॥ इदानीमस्य स्तोत्रस्योपसंहारार्थं वृत्तमाह का नाम नामरवधूरवधूतकान्ता कान्ता न का नरजनी रजनीपतिश्रीः । श्रीमन्तमन्तकरिपुं करिपुंगवान्त- हेतुं स्तुवन्तमविरामविरावमेति ॥ ३४ ॥ करिणां हस्तिनां पुंगवः प्रशस्त: करी गजासुरस्तस्यान्तो विनाशस्तस्य हेतुस्तं तथा श्रीर्लक्ष्मीः शोभा च विद्यते यस्य स तादृशं श्रीमन्तमन्तकरिपुमन्तकान्तकरं श्रीशंभुं स्तुवन्तं पुरुषं धन्यं अवधूतकान्ता संत्यक्तजितकामुका नाम निश्चये का न अमरवधूः अप्सरा एति भजते । कथम् । अविरामो निरवसानो विरावः शब्दो यत्र तथा सदूराह्वानमित्यर्थः । तथा रजनीपतिश्रीः शारदेन्दुधवलाङ्गी तथा कान्ता रम- णीया नरस्य जनी वधूः मर्त्यस्त्री का न तं श्रीशंभुस्तुतिपरं नैति न भजते । अपि तु सर्वा एवेति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ पादमध्ययमकस्तोत्रं सप्तविंशम् । अष्टाविंशं स्तोत्रम् । अथेदानीं शब्दालंकारभेदपादान्तयमकस्तोत्रमष्टाविंशमारभमाण आह अन्तश्चेतसि निर्वृतिर्न गमिता नाशं कया शङ्कया नैषा पुष्यति तेन संहृतगतिः शोभारती भारती । भक्तिः किं तु विजृम्भते मम यथैवाभा स्वतो भास्वतो यादृक्तादृगतः किमप्यभिदधे संप्रत्यहं प्रत्यहम् ॥ १ ॥ कया न शङ्कया जन्मजरामरणत्रासोत्पन्नया मम चेतस्यन्तर्निर्वृतिः संतुष्टिर्नाशं न गमिता प्रापिता । तेन हेतुना संहृता संकुचिता गतिर्यस्याः सा संहृतगतिः । 'संहृति- मती' इति पाठे संकोचयुक्ता एषा मम भारती वाणी शोभा च रतिस्तुष्टिश्चेति कर्मभूते न पुष्यति । तर्हि मौनं विधाय स्थीयतामित्याशङ्क्याह – भक्तिरित्यादि । किंतु पक्षा- न्तरे । भास्वतः सूर्यस्य यथा आभा प्रभा स्वतो विजृम्भते तथा ममापि भक्तिर्वाङ्मनः- कायैस्तद्ध्यानासक्तिर्विजृम्भते विशेषेणोल्लसति । अतो हेतोर्यादृक्तादृगुच्चावचं संप्रतीदा- नीमहं प्रत्यहं प्रतिदिनं किमप्यभिदधे प्रलपामि ॥ वक्त्रं बिभ्रददभ्रदीर्घदहनज्वालं भयं लम्भय- न्नुद्ग्रीवं घटयन्करे विदधतं व्यालं घनं लङ्घनम् । प्रत्यासीदति मृत्युरित्युपचितस्फारोचितां रोचितां श्रुत्वा मां न कथं विभुर्गिरमिमां चित्रायतां त्रायताम् ॥ २ ॥ हे दयालो, अदभ्रा घना दीर्घा दहनज्वाला अग्निशिखा यस्य तत्तादृशं वक्रं मुखं बिभ्रत् । तथा प्राणिनां भयं लम्भयन् । तथा घनं दृढं लङ्घनमुल्लङ्घनं विदधतं कुर्वन्तं उद्ग्रीवमुत्क्षिप्तग्रीवं व्यालं कृष्णभुजगं करे घटयन्मृत्युर्यमो मां प्रत्यासीदति समीपमाग- च्छति । इत्यनेन प्रकारेणोपचितः स्फारः पारिपूर्ण्यं तत्रोचिता युक्ता तादृशीं रोचितां शोभितां तथा चित्रा शब्दालंकारभेदचित्रयमकादियुक्ता चासौ आयता दीर्घा च तादृशीं चित्रायतां इमां मदीयां गिरं श्रुत्वा विभुः स्वतो दयालुर्मो कथं न त्रायताम् ॥ मन्ये तां स्पृहणीयगौरवगुणामायामिनीं यामिनीं तत्सेवारसमादधत्तव सुधासंवादिनं वा दिनम् । यत्रोपान्तगतं वचोभिरुचितैरानन्दिनं नन्दिनं कुर्वद्भिश्चरितं सुचारु जगतामीशस्य ते शस्यते ॥ ३ ॥ हे विभो, यत्र यस्यां यामिन्यां रात्रावुपान्तगतं निकटे द्वारोपान्ते स्थितं तं नन्दिनं नन्दिरुद्रं द्वारपालमानन्दिनं सानन्दं कुर्वद्भिरुचितैर्वचोभिर्जगत्रयाणामीशस्य प्रभोस्ते चरितं त्रिपुरदाहाद्यवदानकर्म सुचारु शस्यते स्तूयते तां यामिनीं रात्रिं स्पृहणीयो गौ- रवगुणः पूज्यत्वं महत्त्वं च यस्यास्तां तथा आयामिनीं सविस्तरां च धन्यां मन्ये । तथा यत्र दिने पूर्वविशेषणविशिष्टैर्वचोभिर्जगदीशस्य तव चरितं स्तूयते तद्दिनं सुधासं- वादिनममृतसहोदरं सेवारसमादधत्कुर्वत दिनं वा दिनं च । वाशब्दश्चार्थे । दिनं तदेव मन्ये ॥ तस्योदेति सदः सदां विदलितग्लानिर्भरो निर्भरो वाचां वक्त्रसरोरुहे परिणमत्पाकोऽमलः कोमलः । लक्ष्मीस्तं न जहाति किं च विभवैराभासिताभासिता येन त्वं हृदयाम्बुजे भवभयात्रातोषितस्तोषितः ॥ ४ ॥ हे विभो, येन धन्येन भवभयात्संसारत्रासात्राता रक्षिता तथा हृदयाम्बुजे हृत्पद्मे उ षितः स्थितः । 'वस निवासे' धातुः । त्वं विभुस्तोषितस्तस्य कृतिनः सदःसदां सभा- सदां विदलितग्लानिः खण्डितभवमरुभ्रमश्रमस्तादृशः । तथा परिणमत्पाकः प्रौढतो- म्भितः अमलः स्वच्छः कोमलो माधुर्यगुणयुक्तश्च निर्भरो घनो वाचां भरस्तस्यैव वक्त्रसरो- रुहे मुखपद्मे उदेति । महाकविधुर्यः स एव भवति । तथा येन च त्वं विभुस्तोषितः । किं च पक्षान्तरे । विभवैराभासिता शोभिता तथा आभया दीप्त्या सिता शुभ्रा च लक्ष्मीस्तं न जहाति ॥ सेव्यन्ते भगवन्न[^१]पास्य कलितोल्लासं [^२]मदं संमदं बिभ्राणास्तरुणीजनेन मधुरव्याहारिणा हारिणा । वीज्यन्ते दिवि चन्द्ररश्मिरुचिरै: किंचामरैश्चामरै- राबाल्याद्विदधे त्वदेकविषया यैः शेमुषी शेमुषी ॥ ५ ॥ [^१]. 'अवाप्य' ख. [^२]. 'पदं संपदं' ख. हे भगवन्परमेश, यैर्धन्यैस्त्वदेकविषया त्वमेव विभुरेको विषयो गोचरो यस्या: सा तादृशी शेमुषी । 'शेते मनसि इति शेः मोहस्तं मुष्णाति । मूलविभुजादित्वात्कः । गौ- रादिङीष् । शेमुषी । इति कौमुदी ।" इति रायमुकुट्याम् । शेमुषी बुद्धिः । शेमुषी श मप्रधाना । आ बाल्याद्बाल्यावस्थामारभ्य विदधे कृता ते त्वद्भक्तजनाः संमदं प्रहर्षं बि- भ्राणाः कलितोल्लासं धृतोत्कर्षं मदं वयं मानिन्यः कमनुयाम इति गर्वमपास्य दूरीकृत्य मधुरव्याहारिणा मधुरभाषिणा हारिणा हरति मन इति हारी तादृशेन मुक्ताहारवता वा तरुणीजनेन प्रमदाजनेन सेव्यन्ते । तथा । किं च पक्षान्तरे । त एव जना दिवि स्वर्गे चन्द्रप्रभारम्यैश्चामरैर्वालव्यजनैश्च करणैरमरैर्देवैः कर्तृभिः सेव्यन्ते ॥ तूर्णं चूर्णयितुं वपुर्यमभटो झम्पारयं पारय- नुच्चण्डभ्रुकुटीकरालितमुखो यत्रासकृत्रासकृत् । तां भूमिं परिहर्तुमीश्वर भवत्सेवाधनं बाधनं दुःखानामधिगम्य हन्मि कुमतिप्रादुष्कृतं दुष्कृतम् ॥ ६ ॥ हे ईश्वर जगदीश, उच्चण्डा या भ्रुकुटी तथा करालितं मुखं यस्य स तादृग्यमभट- स्तूर्णं शीघ्रं वपुः शरीरं प्राणिनां चूर्णयितुं झम्पारयमुत्प्लुतिवेगं पारयन्संपादयन् यत्र ना- रकभूमौ असकृद्बहुवारं त्रासकृद्भयकारी भवति तां भूमिं महासंकटावनिं परिहर्तुं दुःखानां संसारजानां बाधनं दूरीकरणं भवत्सेवाधनमधिगम्य प्राप्य कुमत्या दुष्टवासनया प्रादुष्कृतं प्रकटीकृतं दुष्कृतं पातकं हन्मि निश्चेष्टीकरोमि ॥ मुञ्चद्भिर्यमकिंकरैः कृतमहाजृम्भैः रवं भैरवं यावद्दर्शितमाननं न घुसृणक्षोदारुणं दारुणम् । तावत्सत्त्वरमेहि देहि महसां धामेदृशं मे दृशं या दूरीकुरुते निरन्तरसुधासंदोहदं दोहदम् ॥ ७॥ हे विभो, कृता महती जृम्भा वक्त्रविकासो यैस्ते तादृशैः कृतमहाजृम्भैः । तथा भै- रवमुग्रं रवं निनादं मुञ्चद्भिर्यमकिंकरैर्यमदूतैः क्रोधेन घुसृणक्षोदवत्कुङ्कुमचूर्णवदरुणमाननं मुखं यावन्न मे दर्शितं हे विभो दयालो, तावदेव सत्वरमेहि । या तव दृग्निरन्तरं सुधा- संदोहदं पीयूषसंदोहप्रदमभिलाषं दूरीकुरुते तां दृशं दृष्टिं ईदृशीं देहि दृशं किंभूताम् । महसां सूर्येन्द्वग्नीनां धाम स्थानम् ॥ यावद्दुःसहवह्निहेतिविहितस्फीतापदं तापदं जन्तूनां भगवन्भजामि नरकं नाहं सदाहं सदा । तावन्मुञ्च वचो यथा मरुपये बाधावतां धावतां भीष्मग्रीष्मकदर्थ्यमानवपुषां संजीवनं जीवनम् ॥ ८ ॥ हे भगवन्, दुःसहा या वह्निहेतयोऽग्निज्वालास्ताभिर्विहिता स्फीता आपद्यस्मिन्स तादृशं जन्तूनां देहिनां तापदं संतापप्रदं तथा सदा सर्वदा सदाहं सह दाहेन वर्तते वः स तादृशं नरकं यावन्नाहं भजे तावदेव वचो वचनामृतं मुञ्च । वचः किंभूतम् । संजी- वनम् । कथम् । यथा मरुपये निर्जलदूरप्रदेशे धावतां बाधावतां पीडावतां तथा भीष्मे- णोग्रेण ग्रीष्मेण निदाघेन कदर्थ्यमानं व्यथमानं वपुर्येषां तादृशां जवानां जीवनमुदकं संजीवनं यथा भवति तथा ॥ न्यस्तं येन मनस्त्वयीदमहतोत्साहं तयाहं तया गाढोद्वेगविधायिनी घटयते सायासतां या सताम् । तं भोगैरुपसेवते सुमनसामानन्दने नन्दने दिव्यस्त्रीजनता विलासविकसच्छोभा सुरं भासुरम् ॥ ९ ॥ हे भगवन्, गाढमुद्वेगविधायिनी या अहंता अहमित्यस्य भावः सतां साधूनां साया- सतां सक्लेशतां घटयते तया अहंतया अहतोत्साहं न इत उत्साहो यस्य तत्तादृशमिदं मनो येन धन्येन पुंसा त्वयि विभौ विषये न्यस्तं तं कृतिनं सुरं देवं भासुरं देदीप्यमानं विलासेन विकसन्ती शोभा यस्याः सा तादृशी जनता अप्सरोजनसमूहः सुमनसां दे- वानामानन्दने आनन्ददायिनि देवोद्याने भोगेर्नानाविधैरुपसेवते ॥ यस्या हन्ति धृतिं विवेकविहितह्रासा विलासाबिला मुग्धा दृङ्मदिरामदेन विगलद्वाचारुणा चारुणा । रामा काममहास्त्रमर्पयति मे सा हन्त मोहं तमो येनाज्ञानमयं मनस्युपनमत्तापप्रथे पप्रथे ॥ १० ॥ हे भगवन्, विवेकस्य विहितो ह्रासो नाशो यया सा विवेकविहितह्रासा तथा विला- सेनाबिला तथा विगलन्ती स्खलन्ती वाग्यस्मिन्स तादृशेन विगलद्वाचा तथा चारुणा रम्येण मदिरामदेन अरुणा यस्या रामायाः कामिन्या मुग्धा रम्या दृक् धृतिं धैर्यं इन्ति दूरीकरोति । हन्त कष्टे । सा रामा कामिनी येन मोहेन उपरमन्ती तापस्य प्रथा वि स्तारो यस्मिंस्तादृशे मनस्यज्ञानमयं तमोऽन्धकारं पप्रथे विस्तारितं तं मोहं सा रामा मेऽर्पयति । मोहं किंभूतम् । कामस्य महास्त्रम् ॥ लज्जेऽहं भज दूरमेव रभसादेवं धुता बन्धुता- संमूढेन मया यया विधृतवानेतामहंतामहम् । किं किं श्रीमदमोहितेन विभवस्थेनाहितं नाहितं येनैतां न भजे पुनर्मयि वरं बाघे हितं धेहि तम् ॥ ११ ॥ हे विभो, अहमेतामहंतामहंभावमहंकारं विधृतवानास्मि । एतामहंतां कामित्याह- यया अहंतया कारणभूतया सम्यङ्मूढेन मया एवंप्रकारण बन्धुता बन्धुसंहतिर्घुता विशेषेण त्यक्ता । एवं कथमित्याह -अहं लज्जे जिह्वेमि । त्वां दृष्ट्वेति शेषः । अतस्त्वं रभसात्त्व- रया दूरमेव भज । तथा श्रियो लक्ष्म्या मदस्तेन मोहितेन मया तथा विभवस्थेन विभवे तिष्ठति तादृशेन किं किं न अहितमयुक्तं आहितं विहितम् । हे दयालो, अहं पुनर्येन वरेणैतामहंतां पुनर्न भजे तं वरं बाघे संकटे हितं मयि धेहि वितर। 'दुधाञ् दानधारणयोः' धातुः ॥ आनीता चरणान्तिकप्रणयितां कामेन का मेनका कार्यं किं घनभोगसंभृतिविधौ सारम्भया रम्भया । कान्ता मे परमेश्वरे हतविपत्संभावना भावना चित्ते कापि रतिर्यया हितहितव्रातायते तायते ॥ १२ ॥ अत्र मे इत्यनेनोत्तरार्धस्थेन संबन्धः । कामेन स्मरोद्रेकेणाभिलाषेण वा चरणान्ति- कप्रणयितां चरणोपकण्ठप्रणयितामानीता मेनकाख्या अप्सरा मे मम का भवति न कापि । सापि मनोहारिणी मम नेत्यर्थः । तथा घना या भोगसंभृतिर्भोगसामग्री तस्या विधिस्तत्र सारम्भया सह आरम्भेण वर्तते या तादृश्या रम्भया रम्भाख्ययाप्सरसा च मम किं कार्यम् । न किंचिदित्यर्थः । निजाभिलाषमुक्त्वा उत्तरपक्षमाह-आहितो हितानामणिमादिसिद्धिमोक्षलक्ष्मीपर्यायाणां व्रातः समूहो यया सा तादृशी आहित- हितव्राता काप्यनिर्वाच्या रतिः परमानन्दोपलब्धिश्चत्ते मनसि आयते विस्तीर्णे तायते विस्तार्यते सा परमेश्वरे श्रीशिवभट्टारके भावना भक्तिर्मे मम कान्ता अतिप्रेयसी भवति । किंभूता । हता विपदो जन्मजरामरणसंकटरूपाया: संभावना यया सा तादृशी ॥ धत्ते यस्य जटा कपालपटलं भव्या कुलं व्याकुलं हंसानामिव रुन्धती भगवतीं गङ्गां तरङ्गान्तरम् । तस्याधाय महेशितुर्नुतिगिरां नव्याकृतिं व्याकृतिं भक्त्या निश्चलया नृजन्म सकलं संमानयामानया ॥ १३ ॥ यस्य परमेश्वरस्य भव्या रम्या जटा व्याकुलं विशेषेणाकुलं तथा तरङ्गान्तरं तरङ्गा अन्तरे यस्य तत्तादृशं हंसानां सितच्छदानां कुलं समूहमिव कपालपटलं कपालानां महाप्रलयेषु संहारितब्रह्मादिमुण्डानां समूहं रुन्धतीं भगवतीं गङ्गां धत्ते तस्यैव महे- शितुः श्रीशिवभहारकस्य नव्याकृतिं नूतनस्वरूपां नुतिगिरां नुतियुक्ता या गिरस्तासां व्याकृतिं व्याकरणरूपामाधाय कृत्वा सकलं नृजन्म मनुष्यजन्म अनया निश्चलया भक्त्या वयं संमानयामं ॥ कंचिच्छ्रीर्वसतेः करोतु विकसच्छोभा जनं भाजनं कंचिद्वन्दिजनः प्रशंसतु मुदं प्रीत्या गतस्त्यागतः । मन्येऽहं तु समग्रशोकशमनं संन्यासमन्यासमं यस्मिन्मृत्युजितं भजामि मनसा वाचेष्टया चेष्टया ॥ १४ ॥ विकसन्ती शोभा यस्याः सा तादृशी श्रीर्लक्ष्मीः कंचिदन्यं जनं वसतेः स्थितेर्भाजनं पात्रं करोतु । कोऽप्यन्यो जनो लक्ष्मीपात्रतामाप्नोत्वित्यर्थः । तथा त्यागतो दानाधि क्येन प्रीत्या तुष्ट्या मुदं प्रमोदं गतः प्राप्तो वन्दिजनो मागधजनः कंचित्प्रशंसतु । नि- जाभीप्सितोत्तरपक्षमाह —मन्येऽहं त्वित्यादि । तु पक्षान्तरे । समग्रो यः शोको जन्मज- रामरणत्रासोत्थस्तस्य शमनं तादृशं अन्यासममनन्यसाधारणं तं संन्यासं सर्वसङ्गनिवृत्ति- रूपं मन्ये जाने । तं कमित्याह – यस्मिन्संन्यासे मनसा वाचा इष्टया अभिप्रेतया चे- ष्टया हस्तपादादिव्यापारेण च मृत्युजितं श्रीमृत्युंजयभट्टारकं भजामि । अत्र सन्न्यास- मिति व्यञ्जनद्वयस्यासत्त्वेऽपि यमकादावदोषः ॥ रूपं यद्भवतो दधत्परिकरं भौजंगमं जङ्गमं सेवन्ते यदपि श्रिया कृतधियः स्वस्था वरं स्थावरम् । प्राज्यं ज्योतिरिव प्रसह्य तमसां वैकर्तनं कर्तनं लब्ध्वा तत्प्रतिभा कथं न जनितस्वाभा सतां भासताम् ॥ १५ ॥ हे परमेश, भुजंगमानां वासुकिप्रभृतीनामयं भौजंगमस्तादृशं परिकरं सामग्रीरूपं द- धत् यद्भवतः परमेशितुर्जङ्गमं रूपं सर्वाधीनपदस्थं कृतधियः सचेतसः सेवन्ते तथा श्रिया लक्ष्म्याः स्वस्थाः कुशलिनः कृतधियो वरमुत्कृष्टं स्थावरं च यदपि रूपं भजन्ते तदुभयरूपमपि तमसामन्धकाराणां कर्तनं छेदकं वैकर्तनं विकर्तनस्य सूर्यस्य संबन्धि प्राज्यमुत्कृष्टं ज्योतिरिव प्रसह्य बलेन तमसां मोहमहामोहप्रभृतीनां कर्तनं भवतो वि- भोर्ज्योतिः परज्योतीस्वरूपं लब्ध्वा जनिता स्वाभा आत्मप्रभा यया सा तादृशी प्रतिभा पर संवित् सतां सचेतनानां कथं न भासताम् अपि तु भासताम् ॥ स्तोतुं वाञ्छसि संश्रितं मरकतश्यामं गलं मङ्गलं लब्धुं मानस तत्परं भगवतः सेवासु किं वासुकिम् । भक्तिश्चेद्भवति स्थितिं मदमरुद्वेगाहते गाहते तद्बध्नासि धृतिं त्वमप्यहिपतिप्रावारसेवारसे ॥ १६ ॥ हे मानस चित्त, मरकतवद्गारुत्मतमणिवच्छ्यामस्तादृशं गलं कण्ठं संश्रितं श्रीशंभोः सेवासु तत्परं लग्नं वासुकिं नागाधीशं मङ्गलमनामयं लब्धुं किं स्तोतुं वाञ्छसि । काकु: । हे मानस, मदोऽहंकार एव मरुत्तस्य वेगेनाहते भवति त्वयि भक्तिः परमेश्वर- भावना स्थितिं चेद्गाहते तत्तदा तस्माद्वा हे चेतः, त्वमपि अहिपतयो वासुकिप्रभृतय एव प्रावारा आभरणानि यस्य सोऽहिपतिप्रावारः श्रीशंभुस्तस्य सेवारसे धृतिं रतिं बध्नासि ॥ दृष्ट्वा यन्मघवा विहाय गतवानैरावणं रावणं पश्यन्पाण्डुतया भयादनुकृतश्यामाधवं माधवम् । सर्वोऽयं भवतः प्रसादमहिमा हन्ता नवं तानवं सेवा कस्य न सिद्धये हतवृथासंकल्प ते कल्पते ॥ १७ ॥ हे विभो, रावणं दशमुखं पश्यन् । रणे इति शेषः । मघवा इन्द्र ऐरावणमभ्रमुवल्लभं विहाय त्यक्त्वा गतवान् यत्पलायितः । किं कुर्वन् मघवा । भयात्पाण्डुतया अनुकृत उ पमितः श्यामाधवो रजनीकरो येन स तादृशस्तं माधवं विष्णुं पश्यन् । अयं सर्वो भ वतः श्रीशंभोः प्रसादमहिमास्ति । किं कुर्वन् । नवं नूतनं तानवं तनोर्लघोर्भावस्तानवं तं हन्ता दूरीकर्ता । युक्तं चैतत् । हे हतवृथासंकल्प । हता वृथा संकल्पा असत्संकल्पा येन सा तादृशस्तत्संबोधनम् । ते तव सेवा कस्य न सिद्धये कल्पते प्रभवति ॥ तं हत्वा सबलं निशाचरपतिं लङ्कालयं कालय- नार्तिं नाकसदामुपेत्य विभवं वैभीषणं भीषणम् । वैदेहीमनघां लभेत सकथं रामो हि तां मोहितां त्वद्भक्तिं यदि न व्यधास्यत नुतो भ्राजिष्णुना जिष्णुना ॥ १८ ॥ हे विभो, नाकसदां देवानामार्ति मनःपीडां कालयन्दूरीकुर्वन् लङ्कानगरी आलयो निवासो यस्य स तादृशस्तं त्रिजगत्प्रसिद्धं सबलं निशाचरपतिं राक्षसाधीशं रावणं हत्वा तथा भीषणमुग्रं वैभीषणं विभीषणस्य रावणानुजस्यायं वैभीषणस्तं विभवमुपेत्य संप्राप्य अनघां रक्षोगृहनिवासेऽपि निर्दोषां मोहितां प्रियवियोगेन वैदेहीं सीताम् । हि निश्चये । स रामो दाशरथिः कथं लभेत । कदेत्याह – भ्राजिष्णुना शोभमानेन जिष्णुना इन्द्रेण स्तुतो रामस्त्वद्भक्तिं यदि न व्यधास्यत ॥ लोकं शोकहरं परं प्रति भृशं संदेहिनां देहिनां माया मोहतमोविमोहितदृशामायासदा या सदा । तां हन्तुं मम किं करोषि विहितज्ञानोदयां नो यदां यस्या दास्यमपीह नार्हति घनस्फारा सुधारा सुधा ॥ १९ ॥ मोहोऽज्ञानमेव तमस्तेन विमोहिता दृक् ज्ञानमेव दृग्नेत्रं येषां ते तादृशानाम् । तथा शोकहरं जीर्णवासोवज्जीर्णदेहत्यागान्नवदेहोपलब्ध्या शोकहरं परं लोकं परलोकं प्रति सं- देहिनामस्ति परलोको नवेति भृशमत्यर्थं संशयवतां देहिनां मनुष्याणां या माया अनात्म न्यपि देहेन्द्रियादौ आत्मभ्रमरूपा सदा नित्यमायासदा क्लेशदा भवति तां मायां हन्तुं निश्चेष्टीकर्तुं विहितः कृतो ज्ञानस्य तत्त्वज्ञानस्योदयो यया सा तादृशीं दयां कृपां मम किं नो करोषि । तां कामित्याह – यस्या इत्यादि । घनः स्फार उल्लासो यस्याः सा ता- दृशी सुधारा शोभनप्रवाहवती सुधा पीयूषमपि यस्यास्तव दयाया दास्यमपि दासीभा- वमपि नार्हति ॥ दोषाणां सहसा विधातुमुदयं नो सांप्रतं सांप्रतं स्वालोकक्षपणं करोतु तिमिरं तन्मादृशां मा दृशाम् । ख्यातः पौष्ण इव प्रसह्य कमलोल्लासादयं सादय- न्नार्तिं न प्रकटीकरोति बत कामाशां करः शांकरः ॥ २० ॥ सांप्रतमिदानीं सहसा तत्क्षणमेव दोषाणां पुनः पुनः संसृतिजक्लेशोत्थानां अथ च भवोत्थदोषाणामिव दोषाणां रात्रीणामुदयं विधातुं कर्तुं न सांप्रतं युक्तम् । 'संप्रत्यसांप्रतं वक्तुमुक्ते मुसलपाणिना' इतिवदत्र समन्वयः । यथा तत्तिमिरं मोहान्धकारं मादृशां मत्सदृशानां श्रीशिवभक्तिरसामृतसंसिक्तचेतसां दृशां ज्ञानानां दृशां नेत्राणां च स्वालो- केन स्वावरणेन क्षपणमुपसंहारं मा करोतु । अत्र हेतुमाह —बत आश्चर्ये । पूष्णो भा- स्वतोऽयं पौष्णः सूर्यसंबन्धी करो रश्मिरिव प्रसह्य बलेन कमलोल्लासात् कमलानां प- द्मानामुल्लासाद्विकासात् आर्ति सादयन्दूरीकुर्वन् कामाशां कां दिशं न यथा प्रकटीक रोति तथा शांकरः श्रीशंभुसंबन्धी करः पाणिः प्रसह्य बलेन कमलोल्लासान्मोक्षलक्ष्म्यु- त्पादनादार्तिं भवमरुभ्रमणजक्लेशरूपां सादयन्निश्चेष्टीकुर्वन् कामाशां मनोभिलषितरूपां न प्रकटीकरोति । अपि तु सर्वामपि । शब्दश्लेषोऽलंकारः ॥ शीतस्निग्धं परिमलसुखं घानसारं न सारं नापि प्रेम्णा कलितललितोद्दामहेला महेला । तस्माज्जित्वा भवमनुदितस्तम्भजेयं भजेयं भूयो भूयो हर परहितारम्भवन्तं भवन्तम् ॥ २१ ॥ घनसारः कर्पूरस्तस्येदं घानसारं परिमलसुखं कर्पूरपरिमलजसुखं शीतं च स्निग्धं च तादृशं सारमुत्कृष्टं न भवति । भवमरुभ्रमणजतापं हर्तुमित्यर्थः । तथा प्रेम्णा स्नेहेन क- लिता धृता ललिता उद्दामा हेला यया । कृतशोभनोत्कटावज्ञेत्यर्थः । तादृश्यपि महेला वरस्त्री सारं न भवति । निजाभिलषितमाह —–—–तस्मादिति । हे हर संसृतिजदु:खहर, तस्माद्धेतोरनुदितस्तम्भजेयं न उदित उत्पन्नः स्तम्भो गर्वो येषां ते तादृशा अनुत्पन्नग - र्वाः संयतचित्तास्तैर्जेयो जेतुं शक्यस्तादृशं भवं संसारं जित्वा परहिते परोद्धरणे आ- रम्भो विद्यते यस्य स तादृशस्तं परहितारम्भवन्तं भवन्तं स्वामिनं भूयोभूयः पुनः पुन र्भजेयम् । 'भज सेवायाम्' धातुः ॥ दृष्टिः स्त्रीणां मम निवसतो हानिशान्ते निशान्ते चित्तं रुन्धे शिशुमिव मृगं वागुरा भङ्गुराभम् । तत्संपर्कादहमिह सहे देव मानावमाना- वार्तः प्राप्तः शरणमधुना त्वामुदारं मुदारम् ॥ २२ ॥ हान्या क्षीणवित्ततारूपया विपदा शान्तं तादृशे हानिशान्ते निशान्ते गृहे निवसतो मम भङ्गुरा आभा यस्य स तादृशस्तं शिशुं बालं मृगमिव वागुरा मृगबन्धनी मम चित्तं स्त्रीणां वनितानां दृष्टी रुन्धे । हे देव । दीव्यति परमाकाशे देवस्तत्संबोधनम् । तस्याः स्त्रीजनदृष्टिवागुरायाः संपर्कान्मानावमानावप्यहं सहे। अतब अरमत्यर्थमार्तो दीन: सन्नधुना उदारं कृपामृतासारसिक्तचेतस्त्वादत्यौदार्ययुतं शरणं रक्षितारं मुदा प्रीत्या प्राप्तोऽहम् ॥ प्राज्यं राज्यं नृपतिमकरीरत्ननिर्यत्ननिर्य- द्रश्मिस्रोतःस्नपितचरणं क्रान्तसामन्तसाम । सभ्रूभङ्गं मुनिजनमनः क्षोभिरामाभिरामा वक्त्रं बिभ्रत्युपचितरतिर्घस्मरेण स्मरेण ॥ २३ ॥ द्वारि क्षोभः क्षितिधरगुहाभोगजानां गजानां का वा संख्या प्रकटितविपद्बाधनानां धनानाम् । इत्थं लक्ष्मीः कथमिव भजेद्धामहीनं महीनं स्याच्चैनैकस्तव कृतरिपुक्षिप्रसाद प्रसादः ॥२४॥ (युगलकम् ) हे भगवन्, कृतो रिपूणां क्षिप्रं सादो विनाशो वेन स तादृशस्तव दयालोरेकः प्र- सादोऽनुग्रहश्चेन्न स्यात्तर्हि इत्थमनेन प्रकारेण धाम्ना तेजसा हीनं महीनं मह्या भूमेरिनः स्वामी तं राजानं लक्ष्मीः कथमिव भजेत् । इत्थं कथमित्याह – प्राज्यमित्यादि । नृ- पतीनां राज्ञां या मकर्यः किरीटरचनास्तासु यानि रत्नानि तेभ्यो निर्यद्भी रश्मिप्रवाहैः स्नपितौ चरणौ यस्मिंस्तादृक् । तथा क्रान्तं सामन्तानां साम संधिर्यत्र तत् प्राज्यमु- त्कृष्टं राज्यम् । तथा घस्मरेण त्रिजगद्भक्षकेणातिक्षोभात् स्मरेण कामेनोपचिता उप- चयं प्राप्ता रतिर्यस्याः सा तादृशी । पुनर्मुनिजनस्य मनः क्षोभयतीति तादृशं सभ्रूभङ्गं भ्रुकुटीकुटिलं वक्त्रं बिभ्रती अभिरामा मनोहारिणी रामा सुन्दरी च । तथा क्षितिध- राणां या गुहास्तासामाभोगो विस्तारस्तं भजन्तीति तादृशानां दन्तिनां द्वारि क्षो- भश्च । तथा प्रकटितं विपदां बाधनं यैस्तादृशानां धनानां द्रविणानां का वा संख्या । असंख्यत्वात् ॥ भीमां पङ्क्तिं पुरुषशिरसां मस्तकेऽशस्तकेश- प्रोतां धत्से विबुधसरितो यां तरङ्गान्तरङ्गाम् । सैव श्रेयः प्रथयति यथा देव राजीवराजी त्वत्संपर्काद्धटयति न कि मङ्गलाभङ्गलाभम् ॥ २५ ॥ हे देव जगदीश, विबुधसरितो गङ्गायास्तरङ्गाणामन्तरं गच्छतीति तादृशीं तरङ्गा- न्तरङ्गां तथा अशस्ता अप्रशस्ता ये केशास्तैः प्रोता तादृशीं पुरुषशिरसां कपालानां भीमां यां पङ्क्तिं मस्तके शिरसि धत्से सैव कपालपङ्क्तिर्यथा राजीवराजी पद्मश्रेणी श्रेयो मङ्गलं ददाति तथा त्वत्संपर्कात्त्वत्स्पर्शात्सैव श्रेयः प्रथयति विस्तारयति । युक्तं चैतत् । सैव त्वत्संपर्कान्मङ्गलस्याभङ्गोऽविनाशः स एव लाभस्तं किं न घटयति ॥ कृत्वा शय्यामुपान्ते विरचितकलिकादामशेषामशेषां संपत्तिं मानयन्तः कुसुमबलगलद्बालतानां लतानाम् । सेव्यन्ते हन्त वृन्दैरविरतरतयः सुन्दरीणां दरीणा- मन्तस्त्वद्भक्तिभाजः सितकरकिरणैरुत्तमायां तमायाम् ॥ २६ ॥ हे विभो । हन्त आश्चर्ये । कुसुमानां पुष्पाणां बलेनातिशयेन गलन्ती बालता बा लत्वं यासां तादृशीनां लतानां संपत्तिं मानयन्तः तासामेव लतानामुपान्ते समीपे क लिकाभिर्दामानि स्रजस्तेषां शेषा मालाः । विरचिताः कलिकादामशेषा यस्य सा ता- दृशीम् अशेषां शय्यां कृत्वा अविरता रती रमणं सक्तिर्वा येषां तादृशा दरीणां गुहाना- मन्तः सितकरकिरणैश्चन्द्र करैरुत्तमायामतिशोभितायां तमायां रात्रौ सुन्दरीणां रमणीनां वृन्दैस्त्वद्भक्तिभाजो धन्याः सेव्यते ॥ हन्ताहंतावृतानां मह इव रजनी भासमानं समानं ज्ञानं ज्ञानन्दकारि ग्लपयति विलसद्बोधनाशा धनाशा । वाचा वाचालभावं तव विहितवतां वास्तवेन स्तवेन श्रेयः श्रेयस्करस्त्वं भव भवसि विपद्भाजनानां जनानाम् ॥ २७ ॥ हन्त कष्टे । अहंतावृतानामहंकारिणां विलसन् विकसन् बोधस्य प्रकाशस्यावदो- धस्य वा नाशो यस्याः सा तादृशी धनाशा धने आशा भासमानं महस्तेज इव रजनी रात्रिर्भासमानं शोभमानं समानं सह मानेन वर्तते यत्तादृशं ज्ञानां विदुषामानन्दकारि आन- न्ददायि ज्ञानं ग्लपयति हरति । वाचा वास्तवेन पारमार्थिकेन स्तवेन वाचालभावं तव विभोर्विहितवतां कृतवतां विपत्पात्राणां जनानां हे भव, त्वं श्रेयस्करो मङ्गलदायी य द्भवसि तदेव श्रेयोऽतिप्राशस्त्यम् ॥ इति श्रीराजानकशंकरकण्ठात्मजश्रीरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ पादान्तयमकस्तोत्रमष्टाविंशम् । एकोनत्रिंशं स्तोत्रम् । अथातो ग्रन्थकृदेकान्तरयमकाख्येन चित्रकाव्येनैकोनत्रिंशं स्तोत्रमारभमाण आह उदारवर्णैरथ संगतैरहं मुदाभिधावद्भिरुपोढलक्षणैः । पदैरमन्दध्वनिभिर्महेश्वरं प्रभुं प्रपद्ये तुरगोत्तमैरिव ॥ १ ॥ अथानन्तरमहं महेश्वरं प्रभुं प्रपद्ये । मुदा प्रीत्या । कैः । पदैः सुप्तिङ्ङ्न्तै: । नुतिरूपैर्व- चोभिरित्यर्थः । पदैः किंभूतैः । उदाराः प्रक्रान्तग्रन्थवर्णनीयरसानुकूला वर्णा अक्षराणि येषु तानि तादृशैः । तथा संगतैः परस्परसंबद्धार्थैः । तथा अभिधावद्भिः अभिधा मुख्यः शब्दव्यापारो विद्यते येषु तान्यभिधावन्ति तादृशैः । तथा उपोढलक्षणैः उपोढा धा- रिता मुख्यार्थबाधतद्योगसत्त्वे रूढितः प्रयोजनाद्वा मुख्येनामुख्योऽर्थो यल्लक्ष्यते सा ल क्षणा यैस्तानि तादृशैः । तथा अमन्दः प्रचुरो ध्वनिर्व्यङ्ग्यस्य प्राधान्ये उत्तमकाव्याप- रपर्यायो ध्वनिर्येषु तानि तादृशैः पदैः । कैरिव । तुरगोत्तमैर्जात्य श्वैर्वनायुजादिभिर्यथा कश्चित्स्वामिनं सेवते तद्वत् । तैरपि किंभूतैः । उदारो वर्णः श्वेतपीतादिर्येषां तादृशैः । तथा रथेन स्यन्दनेन संगतैः । तथा अभितो धावद्भिष्टीकमानैः । तथा उपोढानि ल- क्षणानि गलोद्देशस्थदेवमण्यादिचिह्नानि येषु तादृशैः । तथा अमन्दो महान्ध्वनिर्हेषा- रवो येषां ते तादृशैः ॥ शिवेन देव्या जगृहे करोऽहितस्त्रसन्यदा कुङ्कुमपङ्करोहितः । तदास्य योऽर्काग्निनिशाकरोहितः स्तवः स वः स्यादभयंकरो हितः ॥ २ ॥ अहितः कङ्कणीभूताद्वासुकेस्रसन् कुङ्कुमपङ्केन रोहितो रक्तो देव्याः पार्वत्याः करः पाणिर्यदा विवाहसमये शिवेन श्रीशंभुना जगृहे तदा तस्मिन्कालेऽस्य भगवतो यः स्त- वोऽर्काग्निनिशाकरोहितः अर्कः सूर्यश्चाग्निश्च निशाकरश्च तैरूहितो व्यञ्जितः प्रकटीकृतः स स्तवो वो युष्माकमभयंकरो हितश्च स्यादस्तु ॥ अनञ्जनं नेत्रविकासकारणं निरङ्कुशं कर्णकरेणुवारणम् । अचन्द्रिकं चित्तचकोरपारणं क्रियाद्व ईशार्चनमार्तिदारणम् ॥ ३ ॥ ईशार्चनं श्रीशंभुपूजनं वो युष्माकमार्तिदारणं आर्तेः पीडायाः खण्डशःकरणं क्रि- यात् । ईशार्चनं किंभूतम् । नेत्रविकासस्य ज्ञानदृष्टेर्विकासकारणम् । किंभूतम् । अविद्य- मानमञ्जनं मायारूपं सौवीराञ्जनं च यत्र तत् । पुनः किंभूतम् । कर्णा एव करेणवस्तेषां वारणं रोधकम् । किंभूतम् । निरङ्कुशमङ्कुशानिष्क्रान्तम् । पुनः किंभूतम् । चित्तमेव च- कोरो ज्योत्स्नापायी पक्षिविशेषस्तस्य पारणं तृप्तिकरम् । किंभूतम् । अचन्द्रिकं चन्द्रिका इन्दुप्रकाशस्तद्रहितम् । अत्र विभावनालंकारध्वनिः । 'कारणाभावे कार्योत्पत्तिर्विभा- वनां' इत्यलंकारसर्वस्वकारः ॥ सुखाकरोति क्लमहृन्नमाधवस्तथा मरौ नोपवनेऽपि मा धवः । यथा शरीरार्धनिरुद्धमाधवः प्रशस्यमानो भगवानुमाधवः ॥ ४ ॥ माधवो वसन्तो मा मां तथा न सुखाकरोति । किंभूतः । क्लमहत् । तथा धवो नाम वृक्षो मरौ निर्जलप्रदेशे उपवनेऽपि मा मां तथा न सुखाकरोति । तथा कथमित्याह- यथेत्यादि । शरीरार्धे निरुद्धो हरिहररूपेण माधवो विष्णुर्येन स तादृश उमाधवः पा र्वतीप्राणनाथो भगवान्यथा मां सुखाकरोति । किंभूतः । प्रशस्यमानः स्तूयमानः ॥ दिनान्तरात्र्यागमयोरिवाथवा सुरस्रवन्तीयमुनौघयोरिव । उमारमाकामुकयोः समागमः सितासितस्तापमघं च हन्तु वः ॥ ५ ॥ दिनान्तरात्रिप्रारम्भयोः समागमः सितासितो यथा अथवा यथा गङ्गायमुनाप्रवाहयोः समागमः सितासितस्तापमघं च हन्ति तथा उमारमाकामुकयोः श्रीशंभुनारायणयोः समागमः सितासितो वस्तापं त्रिविधमाध्यात्मिकाधिदैविकाधिभौतिकरूपं तथा अघं पातकं च वो हन्तु ॥ उमाख्यमासाद्य महानियोऽगतः प्रियं निधिं सौख्यमहानि यो गतः । करोतु युष्माकमहानि योगतः शुभान्यसाविद्धमहा नियोगतः ॥ ६ ॥ इद्धं दीप्तं महस्तेजो यस्य स इद्धमहाः असौ श्रीशंभुर्नियोगत आज्ञया हेतोर्योगतः समाधेश्च युष्माकं शुभान्यहानि करोतु । असौ क इत्याह – उमाख्यमित्यादि । महती नीर्नीतिर्यस्य स महानीस्तादृशात् महानियः अगतः पर्वताद्धिमालयात् उमाख्यं पार्व- तीरूपं प्रियं हितं निधिं प्राप्य सौख्यं गतः प्राप्तः । सौख्यं किंभूतम् । अहानि अविद्य माना हानिर्यस्य तत् ॥ द्विजाधिपाधिष्ठितशेखरं महाभुजं गविन्यस्तभरं समुद्वहन् । वपुः सदाभङ्गदयासमाश्रितं तनोतु वः संपदमच्युतः शिवः ॥ ७ ॥ अच्युतो न च्युतः स्खलितः स्वातन्त्र्यशक्तेः श्रीशिवः संपदं तनोतु । किंभूतः । एवंविधं वपुः समुद्वहन् धारयन् । किंभूतम् । द्विजाधिपेन चन्द्रमसा अधिष्ठितं शेखरं यस्य तत् । तथा महाभुजं महान्तो भुजा अष्टादश यस्य तत् । तथा गवि वृषभे न्यस्तो भरो येन तत् तादृशम् । तथा सदा सर्वदा अभङ्गा निर्विनाशा या दया कृपा तया समाश्रितम् । तथा अच्युतो न च्यवते परमपदादच्युतो विष्णुः शिवः शिवदो वो युष्माकं संपदं तनोतु । किंभूतः । वपुः समुद्वहन् । किंभूतं वपुः । द्विजाधिपस्य ग- रुडस्याधिष्ठितं शेखरं येन तत् । तथा महाभुजंगे शेषे नागाधीशे विन्यस्तो भरो येन तत् । पुनः किंभूतम् । सदाभं सती शोभना आभा यस्य तत् । तथा गदया आयुधविशे षेण समाश्रितम् ॥ अघद्रुमध्वंसमहाकरेणवः सुधासिताः पावककल्करेणवः । वसन्ति यस्मिन्नभयंकरेऽणव[^१]स्तनोतु शं तेन हरः करेण वः ॥ ८ ॥ [^१]. 'करोतु' क. हरः श्रीशंभुस्तेन करेण पाणिना वो युष्माकं शं निःश्रेयसं तनोतु । तेन केनेत्याह- अघद्रुमेत्यादि । यस्मिन्नशरणानामभयंकरे सुधावन्मक्कोलवत्सिताः श्वेता अणवः सूक्ष्मा: पावककल्कस्य भस्मनो रेणवो रजांसि सन्ति । पावककल्करेणवः कथंभूताः । अघद्रुम- ध्वंसमहाकरेणवः अघाः पातकान्येव द्रुमास्तेषां ध्वसस्तत्र महागजाः ॥ धृतिस्त्वदीयेन सुदर्शनेन मे भवत्यभेदस्तु हरे किमुच्यते । परस्परं शंकरकृष्णयोरिदं वचः सुखायैकमुखोत्थमस्तु वः ॥ ९ ॥ शंकरकृष्णयोः श्रीशिवनारायणयोरेकमुखोत्थं परस्परमन्योन्यमिदं वचो वः सुखा- यास्तु । इदं किमित्याह - धृतिरित्यादि । हे हरे विष्णो, त्वदीयेन सुदर्शनाख्येन चक्रेण मे मम धृतिरस्ति तेन । तुः पक्षान्तरे । मया किमुच्यते । यतोऽभेदो भवत्यस्ति । भ वता सह्रैक्यमित्यर्थः । इति श्रीशिवोक्तिः । तथा हे शंभो, त्वदीयेन भावत्केन सुदर्श- नेन शोभनदर्शनेन मे मम धृतिरस्ति तेनास्माभिरभेदः किमुच्यते । कस्मिन् । भवति त्वयि हरे महादेवे ॥ न जन्म यस्याद्रिनिवास दारुणः स ते ज्वलत्यक्षिण शिखी सदारुणः । यमं न किं तेन शिरः सदारुणस्त्व[^१]दाश्रितं किं ग्रसतां स दारुणः ॥१०॥ हे अद्रिनिवास । अद्रौ कैलासे निवासो यस्य स तस्य संबोधनम् । हे गिरिश, य- स्याग्नेर्दारुणः काष्ठात्सकाशात् जन्म उत्पत्तिर्न भवति स एव शिखी अरुणो रक्तः सदा ते तवाक्ष्णि तृतीयनेत्रे ज्वलति । हे विभो, शिरः सदा शिरसि विलीनेन तेन शिखिना त्वं यमं किं नारुणः नावृणो: । 'रुधिर् आवरणे' धातुः । अदहः इत्यर्थः । स यमो दा- रुणः क्रूरस्त्वदाश्रितं त्वद्भक्तं किं ग्रसताम् ॥ सदानगोपाहितबन्धुरस्थितिं स्तुवे पिनाकेन समेधितश्रियम् । महर्द्धिकंसोपशमे कृतादरं हरं हरिं वा तरसा रसादहम् ॥ ११ ॥ अहं हरं श्रीशिवं हरिं विष्णुं वा रसाद्रसेन तरसा स्तुवे । हरं किंभूतम् । सदा नित्यं नगे कैलासे उपाहिता बन्धुरा स्थितिर्येन स तादृशस्तम् । तथा पिनाकेनाजगवेन ध- नुषा समेधिता वर्धिता श्रीः शोभा यस्य स तादृशस्तम् । तथा महत्यो ऋद्धयोऽणिमाद्या अष्टौ यस्य स महर्द्धिः महर्द्धिरेव महर्द्धिकस्तम् । तथा सोपशमे संयतचित्ते कृत आदरो येन स तादृशस्तम् । हरिं नारायणं च किंभूतम् । सह दानेन वर्तन्ते सदाना ये गोपा- स्तेष्वाहिता बन्धुरा निर्भरा स्थितिर्येन स तम् । अत्र अपि नाकेन इति पदच्छेदः । नाकेन स्वर्गेणापि समेधिता श्रीर्लक्ष्मीर्यस्य स तादृशस्तम् । तथा महती ॠद्धिः सं- पत्तिर्यस्य तादृशो यः कंसः कंसाख्योऽसुरस्तस्योपशमे विनाशे कृतादरम् । शब्द- श्लेषालंकारः ॥ [^१]. 'सदा' क. मनो भृशं भ्राम्यति बालिशं भवे जहाति भक्तिं च दिवानिशं भवे । अतः परं नाम किमस्य शं भवेन्निवेदयेत्स्वं यदि कर्म शंभवे ॥ १२ ॥ बालिशं जडं मनश्चित्तम् । मादृशामिति शेषः । भवे संसारे इन्द्रजालगन्धर्वनगरतुल्ये भृशमत्यर्थं भ्राम्यति । तदेव बालिशं मनो भवे श्रीशंभौ च दिवानिशं भक्तिं जहाति । युक्तं चैतत् । अस्य जडस्य मनसः । नाम निश्चये । अतः परं शं निःश्रेयसं किं भवेत् । न किंचिदित्यर्थः । अतः कस्मादित्याह - निवेदयेदित्यादि । यदि तन्मनः स्वं कर्म शुभाशुभं शंभवे परमेश्वराय निवेदयेत्प्रतिपादयेत् । श्रीशिवार्पणं कुर्यादित्यर्थः ॥ समुद्रजन्मानमुपादधत्करे सितद्युतिं वक्त्रनिवेशनोचितम् । रतः सदास्कन्दकदर्थनाहतौ हरो हरिर्वा दुरितं [^१]धुनोतु वः ॥ १३ ॥ हरः श्रीशंभुर्हरिर्वा दुरितं पातकं धुनोतु । किं कुर्वन् । समुद्रजन्मानं कालकूटं करे पाणानुपादधत् । किंभूतम् । असितद्युतिम् । तथा वक्त्रनिवेशनोचितं मुखे स्थापनोचि तम् । किंभूतः । सदा नित्यं स्कन्दस्य कुमारस्य कदर्थना पीडा तस्य हतौ निवारणे रतः । हरिश्च किंभूतः । करे पाणौ सितद्युतिं शुभ्रं वक्त्र निवेशनोचितं मुखस्थापनयोग्यं समुद्रजन्मानं शङ्खं पाञ्चजन्यमुपादधद्बिभ्रत् । तथा सतां साधूनां य आस्कन्दो माया- वरणं तेन या कदर्थना तस्या हतौ रतः ॥ जिगीषवः क्लेशपरम्पराभवं वनेषु भिक्षाधृतकर्परा भवम् । असोढवन्तः कुनृपात्पराभवं भजन्ति सन्तः स्तुतितत्परा भवम् ॥१४॥ क्लेशानामविद्यास्मितारागद्वेषाभिनिवेशानां या परम्परा तस्या भव उत्पत्तिर्यस्य स तादृशस्तं भवं संसारं जिगीषवो जेतुमिच्छवो वनेषु काननेषु भिक्षार्थं धृतः कर्परो घट- शकलो यैस्ते । तथा कुनृपात्प्रजापीडादायिनो नृपात्परामवमसोढवन्तः सन्तः साधवः स्तुतौ तत्परालीना भवं श्रीशंभुं भजन्ति ॥ कदा दधानो घनशान्तिशोभिनीं शुभाम्बरालंकरणोचितां तनुम् । भजाम्यहं दृष्टिनिवेशनौचितीं शशीव तिग्मांशुरिवाच्युतस्य ते ॥१५॥ हे विभो, न च्युतः स्वातन्त्र्यादच्युतस्तस्य ते विभोरहं दृष्टिनिवेशनौचितीं भवत्क- टाक्षक्षेपौचित्यं कदा भजामि । अहं किंभूतः । घना निबिडा या शान्तिर्जितेन्द्रियता तया शोभते तादृशीम् । तथा अम्बराणि वस्त्राणि अलंकारा भूषणानि तेषु उचिता तां तनुं दधानः । अहं क इव । शशी चन्द्र इव । तीक्ष्णांशुः सूर्य इव । तथाहि शशी सू- र्यश्चाच्युतस्य विष्णोर्दृष्टिनिवेशनौचितीं दृष्टौ निवेशनं तस्यौचित्यं भजते । शशी सूर्यश्च किं कुर्वन् । तनुं वहन् । किंभूताम् । घनशान्तिशोभिनीं घनानां मेधानां या शान्तिस्तया शोभते तादृशीम् । तथा अम्बरे आकाशेऽलंकरणं तत्रोचिता तादृशीम् । शब्दश्लेषः ॥ [^१]. 'दुनोतु' ख. किमाम्रवन्या समरालवालया प्रियाकबर्या किमरालवालया । सरः श्रिया किं समरालवालया धृतेशभक्तिर्ह्यमरालवालया ॥ १६ ॥ अत्र चतुर्थचरणे हे अमर निर्विनाश इत्यामन्त्रणम् । सृमराणि विपुलान्यालवालानि यस्याः सा तया आम्रवनी रसालवनी तथा आम्रवन्या किं भवति । न किंचित्प्रयोजनम् । अस्या अपि नीरसत्वादित्यर्थः । तथा अरालाः कुटिला वालाः केशा यस्या: सा तया प्रियाकबर्या प्रेयसीकेशवेषेणापि किं भवति । सापि न प्रायशो मनोहारिणीत्यर्थः । तथा सह मरालबालैर्हेसशावकैर्वर्तते या सा तया सरःश्रियापि किं भवति । कुतस्तदित्याह – हि यतो मया ईशभक्तिः परमेश्वरभक्तिर्धृता । किंभूता । अलवा अनल्पा । अलया अक्षया । सैव परमानन्ददायिनीत्यर्थः ॥ कविः श्रीशिवभक्तिपरमामृतरसातितृप्तः स्वात्मानं विनोदयति कदानवद्यामतिनिर्मलामहं महानदीनां सलिलैः प्रसादिभिः । वहामि हंसैरुपशोभिताम्बरां प्रभुप्रसादाच्छरदं यथा तनुम् ॥ १७ ॥ यथाशब्द इवार्थे । अहं कदा प्रभोः परमेश्वरस्य प्रसादाच्छरदमिव शरदृतुमिव तनुं स्वां कदा वहामि । कीदृशीम् । अनवद्यां निर्दोषाम् । तथा अतिशयेन विगताणवमायी- यकार्मरूपत्रिविधमलाम् । तथा प्रसादिभिरतिनिर्मलैर्महानदीनां मन्दाकिनीप्रभृतीनां सलिलैरतिनिर्मलाम् । तथा च हंसैर्हेसचिह्नैरुपशोभितमम्बरं वस्त्रं यस्याः सा तादृशीम् । शरदपि अनवद्या निर्दोषा तथा प्रसन्नैर्महानदीजलैरतिनिर्मला इंसैर्मरालैरप्युपशो- भितगगना भवति ॥ प्रभुं प्रपत्तुं स्थलमेहि मालयं महीधरं मानस वा हिमालयम् । रसातले वौपयिकाहिमालयं श्रयन्तमन्वेषय याहि मा लयम् ॥ १८ ॥ हे मानस चेतः, त्वं प्रभुं परमेश्वरं प्रपत्तुं सेवितुं मालयं मलयस्य मलयाख्यपर्वतस्येदं मालयं स्थलं स्थानमेहि । वाशब्दो विकल्पे । अथवा हिमालयं महीधरमद्रिराजमेहि । हे मानस, त्वं रसातले पाताले वा औपयिका उपादेया अहयो वासुक्यादयो यस्य स तादृशमालयं श्रयन्तं प्रभुं श्रीहाटकेश्वरमन्वेषय मार्गय । तमेव शरणं याहीत्यर्थः । त्वं लयं क्षयं वृथायासेन मा याहि मा गच्छ ॥ निधाय चक्षुर्दहतो मनोभवं न कामहानिं प्रवितन्वतो दृशा । अनष्टमूर्तेर्दधतोऽष्टमूर्तितां जयन्ति शंभोर्विविधा विभूतयः ॥ १९ ॥ चक्षुस्तृतीयं निधाय मनोभवं कामं दहतः । तथा कामस्याभिलाषस्य हानिं न प्रक- र्षेण वितन्वतः । कया । दृशा दृष्ट्या । तथा अष्टौ मूर्तयः क्षित्याद्या यस्य स तादृशस्यापि अनष्टमूर्तितामविनाशिमूर्तितां दधतः शंभोः श्रीशिवभट्टारकस्य विविधा विचित्रा विभू- तयो जयन्ति सर्वोत्कृष्टा भवन्ति । अत्र च दृशा कामहानिं वितन्वतोऽपि कामहानिं न वितन्वत इति । तथा अष्टमूर्तेरप्यनष्टमूर्तितां दधत इति विरोधाभासोऽलंकारः । त- त्रापि निधाय चक्षुः कामं दहत इत्युच्यमाने मनोभवं दहत इति प्रक्रमभङ्गेऽपि भक्ति- विषये न दोषः ॥ समाश्रितस्त्वां करुणापराजयः क्वचिन्न तस्यास्ति रणे पराजयः । परे तमारब्धपरस्पराजयः श्रयन्ति नाथं धृतचापराजयः ॥ २० ॥ हे अज अनादे, हे करुणापर करुणामय शंभो, यो जनस्त्वां समाश्रितः शरणं गत- स्तस्य धन्यस्य रणे सङ्ग्रामे पराजयः क्वचिन्नास्ति । तं त्वत्समाश्रितं परेऽन्ये जनाः शत्रवो वा नाथं श्रयन्ति । किंभूताः । आरब्धा परस्परमाजिर्युद्धं यैस्ते । तथा धृता चा- पानां धनुषां राजिर्यैस्तादृशाः ॥ ध्रुवं स कृष्णस्तमधश्चकार यश्चिराय पक्षद्वयकल्पितस्थितिम् । द्विजाधिराजं विनतार्तिहारिणं बिभर्ति यो मूर्ध्नि स तु त्वमीश्वरः ॥ २१॥ ध्रुवं निश्चये । स कृष्णो मलिन एव । अथ च स कृष्णो विष्णुः । चिराय चिरमपि पक्षद्वये उभयोः पतत्रयोरपि कल्पिता स्थितिर्यस्य स तादृशम् । तथा विनतायाः स्वमा तुरार्तिहारिणं तं द्विजाधिराजं गरुडं योऽधश्चकार वाहनीकृतवान् । अथ च पूर्वोत्तरप- क्षद्वयेऽपि कृतस्थितिं द्विजाधिराजं ब्राह्मणश्रेष्ठं तथा विनतानामार्तिहारिणं योऽधः क- रोति स कृष्णो मलिन इत्यर्थः । तु पक्षान्तरे । स त्वमीश्वरः परमेश्वरो भवसि । स कः । यस्त्वं विभुश्चिराय बहुकालं पक्षद्वयेऽपि शुक्लकृष्णरूपपक्षद्ववेऽपि कृतस्थितिम् विनतानां प्रणतानामार्तिहारिणं द्विजाधिराजं नक्षत्रेशं उभयपक्षेऽपि कृतस्थितिं ब्राह्मणाधिपतिं च यो मूर्ध्नि शिरसि बिभर्ति स तु त्वमेवेश्वरो भवसीत्यर्थः ॥ विभुं विरिञ्चोऽपि न वेद नाम यं नतस्य दुःखं घनवेदनामयम् । निहन्ति तस्यापि भवेदनामयं शुचं भजेन्नाप्यनिवेदनामयम् ॥ २२ ॥ [^१]समुद्रजालिङ्गितकण्ठमण्डलं सदैव सत्याहितसक्तिमच्युतम् । अनन्यगा यस्य नवोक्तिमौक्तिकैरलंकरोति प्रचुरा सरस्वती ॥ २३ ॥ (युग्मम्) नाम निश्चये । यं विभुं परमेश्वरं विरिञ्चो ब्रह्मापि न वेद । घनवेदनामयं गुरुव्य- थारूपं दुःखं य एव विभुर्नतस्य भक्तिनम्रस्य निहन्ति । तस्यापि भक्तिनम्रस्य अना- मयं निःश्रेयसं कैवल्यरूपं भवेत् । तथा अयं भक्तिनम्रो जनः अनिवेदनामनिर्वाच्यां शुचं पुनरावृत्तिरूपां नापि भजेत् । श्रीशिवसायुज्यं प्राप्नुयादित्यर्थः ॥...... ...........॥ युग्मम् ॥ [^१]. अयं श्लोकः क - पुस्तके नास्ति. व्याख्याप्यस्य नास्त्येव. 'युग्मम्' इत्यापि नास्ति. अभीष्टदायी यमधामहोदयाद्ध्वमनिर्यया श्वेतनृपे महोदया । धृति दिशन्ती नमतामहो दया क्व सा तवास्मास्वधुना महोदया ॥ २४ ॥ हे विभो, अहो आश्चर्ये । नमतां भक्तिनम्राणां धृतिं दिशन्ती वितरन्ती । तथा म होदया महानुदयो यस्याः सा तादृशी तव विभोर्दया अस्मासु वराकेष्वधुना' क्व भ- वति । सा का इत्याह – अभीष्टदायीत्यादि । अत्र यमधामहा उदयात् इति पदच्छेदः । यया तव दयया श्वेतनृपे श्वेताख्ये राजनि यमधामहा यमस्य धाम तेजो इन्तीति यम- धामहा ध्वनिः 'मा भैषीः' इति ध्वनिरुदयात् उत्पन्नः । किंभूतः । अभीष्टं कृतान्तभया- त्राणं ददातीत्यमीष्टदायी। दयया कथंभूतया । महोदया महस्तेजो ददातीति म- होदा तया ॥ अयमहं पुरुषोत्तममच्युतं बलिजितं कृतसत्यपरिग्रहम् । अचलितश्रियमाश्रितनन्दकं धृतसुदर्शनमीश्वरमाश्रये ॥ २५ ॥ हे विभो, अयं कृपापात्रमहमीश्वरं परमेश्वरमाश्रये भजामि । किंभूतम् । पुरुषोत्तमं पुरुषाणां प्रकृतेः परेषामात्मनामुत्तमं परमात्मानम् । तथा अच्युतं न च्युतः स्खलितः स्वातन्त्र्यपारमैश्वर्यादेस्तम् । तथा बलिनस्त्रिपुरान्धकादीन् जयति तादृक् तम् । तथा कृतः सत्यस्य वृषस्य परिग्रहो येन तम् । न चलिता श्रीः शोभा यस्मात्स तादृशम् । तथा आश्रितान्भक्तान्नन्दयतीत्याश्रितनन्दकस्तम् । तथा धृतं शोभनं दर्शनं येन स ता- दृशम् । अथ च ईश्वरं प्रभुं पुरुषोत्तमं पुराणपुरुषमच्युतं विष्णुमाश्रये । किंभूतम् । बलिं दानवं जितवांस्तादृशस्तम् । तथा आश्रितो नन्दकः खड्गो येन स तादृशस्तम् । तथा धृतः सुदर्शनश्चक्रविशेषो येन स तम् ॥ वितन्वती भक्तिमतां समानतां बिभर्ति या कल्पलतासमानताम् । कथं दधन्मूर्तिमिमां समानतां तव स्तुतिं वच्मि शतं समा न ताम् २६ हे विभो, अहं तव तां स्तुतिं शतं समा वर्षशतपर्यन्तं कथं न वच्मि । अपि तु व च्म्येव । अहं किंभूतः । सम्यगानतां प्रह्रामिमां मूर्तिं दधत् । तां स्तुतिं कामित्याहया तव स्तुतिर्भक्तिमतां भक्तजनानां कल्पलतासमानतां कल्पवल्लीसादृश्यं निजाभिलषितदानाद्विभर्ति । किंभूता । भक्तिमतां समानतां सह मान पूजया वर्तन्ते समान्प्रस्तेषां भावस्तत्ता तां वितन्वती ॥ भक्तजनं प्रति कवेरुक्ति: इह परशुचितोर्जिताकृतिर्द्विजपतिशेखरतां बिभर्ति यः । त्रिजगति गिरिशं सतां हितं प्रणमतरामतनुं तमच्युतम् ॥ २७ ॥ हे भक्तजन, इह जगति त्वं त्रिजगति त्रिभुवने सतां साधूनां हितम् । अतनुं नैव मूर्तिधरम् । अणोरणीयांसमित्यर्थः । अच्युतः स्वातन्त्र्यैश्वर्या देरस्खलितस्तादृशं तं गिरिशं श्रीशंभुं प्रणमतरामतिशयेन प्रणम । तं कमित्याह – परशुचितेति । यः श्रीशिवभट्टारकः परमत्यर्थं शुचितया पावित्र्येणोर्जिता आकृतिर्यस्य स तादृशो यः शंभुर्द्विजपतिशेखरतां चन्द्रशेखरतां बिभर्ति । अथ च हे भक्तजनाः, यूयं तमच्युतं विष्णुं रामतनुं भार्गवराममूर्तिं प्रणमत । किंभूतम् । गिरि वाचि शंसतां स्तुवतां हितम् । तं कमित्याह – परश्वित्यादि । यो भार्गवरामः परशुना आयुधविशेषेण चिता ऊर्जिता आकृ तिर्यस्य स तादृशो द्विजपतिशेखरतां ब्राह्मणमौलित्वं बिभर्ति । यमं ययारब्धमहामहानयः क्षयं दृशा यस्य स शर्महानयः । ददासि चेत्तामुदितो महानयः क्षताश्च विघ्नाः कृतकामहानयः ॥ २८ ॥ पूर्वार्धे आरब्धमहामह अनयः इति पदच्छेदः । शर्महा अनयः इति च । हे आर- ब्धमहामह । आरब्धो महामहो महोत्सवो भवभयोद्धरणाद्भक्तजनस्य येन तत्संबो- धनम् । हे विभो, यस्यान्तकस्य स प्रसिद्धोऽनयः कुत्सितो नयो जगद्धस्मरत्वरूपः श- र्महा कल्याणहा भवति तमपि यमं कीनाशं यया दृशा त्वं क्षयं दाहरूपमनयः नीतवा- नसि तां दृशं चेद्यदि कृपापात्राय मादृशाय ददासि तर्हि महानयः शुभावही विधिरु- दित उत्पन्नः । विघ्नाश्च सर्वे जन्मजरामरणरूपाः क्षताः । किंभूता विघ्नाः । कृतकामहा- नयः कृता कामस्याभिलाषस्य हानिर्यैस्ते तादृशाः ॥ अनलसंभृतकान्ति दधत्सदारुचिरमारचितास्पदमीक्षणम् । सुमतये विधुरोपकृतिप्रियो भवतु वो भगवान्भगवानिव ॥ २९ ॥ भगवान् श्रीशंभुर्वो युष्माकं सुमतये श्रीशिवभक्त्यासक्तिदृढबुद्ध्यै भवतु । क इव । भगवान्बुद्ध इव । उभावपि विशेषणैर्विशिनष्टि- भगवान् श्रीशंभुः किंभूतः । सदा अन- लेनाग्निना संभृता कान्तिर्यस्य तत् तथा रुचिरो रम्यो यो मार: कामस्तस्य चिता तस्या आस्पदं स्थानमीक्षणं नेत्रं दधत् । पुनः किंभूतः । विधुर्विष्णुः स एव रोपः शर- स्तस्य कृतिः करणं प्रिया यस्य स तादृक् । त्रिपुरदाहे विष्णुः शरीकृतो भगवता शिवे- नेति प्रसिद्धिः । 'भगवान्मारजिल्लोकजिज्जिनः' इत्यमरः । भगवान्बुद्धोऽपि किंभूतः । अ- नलसमालस्यरहितं सदा ध्यानपरत्वात् । तथा भृतकान्ति धृतशोभम् । तथा सदा स वेदा रुचिः शोभा यस्याः सा तादृशी चासौ रमा लक्ष्मीस्तया रचितमास्पदं स्थानं यस्य तत्तादृशमीक्षणं दधत् । तथा विधुरेषु भीतेषूपकृतिः प्रिया यस्य स तादृक् ॥ न जातु तज्ज्ञाः कृतिनोऽवहन्त यामधोगतौ कारणमेव हन्त या । त्वपि [^१]प्रसन्ने सुमतावहंतया न यामि दुःखं नरकावहं तया ॥ ३० ॥ हे विभो, तज्ज्ञाः परमार्थज्ञाः कृतिनो विपश्चितो यामहंतामहंकृतिं न जातु अवहन्त । तथा । हन्त कष्टे । या अहंता अधोगतौ कारणं हेतुरेव भवति । हे दयालो, त्वयि विभौ [^१]. 'प्रपन्ने' ख. सुमतौ शोभना अशरणजनत्राणे मतिर्यस्य स तादृशे प्रसन्ने सति तया अहंतया नरका- वहं दुःखं न यामि न गच्छामि ॥ प्रियां मुखे योऽधृतपञ्चमस्वरां गिरं वहन्तीममृतस्य सोदराम् । विशेषविश्रान्तरुचिर्बिभर्ति मां वपुष्यसौ पुष्यतु वः शिवोऽच्युतः ॥ ३१॥ न च्युतः स्खलितः कारणातीतपदादसौ शिवः श्रीशंभुर्वो युष्मान् पुष्यतु । किंभूतः । विशेषेणात्यर्थे विश्रान्ता रुचिः शोभा यस्मिन्स तादृशः । असौ क इत्याह —–—यः परमेशः प्रियां मनःप्रियां 'मां' इति वर्णस्याकृतिं वपुषि शरीरार्धे बिभर्ति । वर्णाकृति कीदृशोम् । मुखे आरम्भे धृतः पञ्चमस्वरोऽकारादिगणनया पञ्चमः स्वर उकारो यया सा तादृशीम् । उमामित्यर्थः । उमां पार्वतीं बिभर्ति । धृतपञ्चस्वरां मां कीदृशीम् । अमृतस्य सोदरां सदृशीं गिरं वाणीं वहन्तीम् । अथ च शिवः कल्याणदायी अच्युतो नारायणो वः पु- ष्यतु । किंभूतः । विशेषविश्रान्तरुचिः विः पक्षी गरुडः शेषश्च नागाधीशस्तयोर्विश्रान्ता लोना रुचिर्यस्य स तादृक् । असौ क इत्याह – प्रियामिति । यो विष्णुः प्रियां कान्तां मां लक्ष्मीं वपुषि शरीरे बिभर्ति । किंभूताम् । धृतः पञ्चमस्वरः पञ्चमाख्यः स्वरो यया सा तादृशीम् । कुत्र । मुखे वदने । लक्ष्मीं किंभूताम् । अमृतस्य सोदरां गिरं वह- न्तीम् ॥ शब्दश्लेषः ॥ नुतिर्मयेयं भजतां हिताय ते कृतानया शर्म सतां हि तायते । मनस्यपि ग्लानिरपोहिता यते धृता यदेषा श्रुतिसंहितायते ॥ ३२ ॥ हे दयालो, ते तव विभोरियं नुतिः स्तुतिर्भजतां भक्तजनानां हिताय कृता । अनया च मत्कृतया भवत्स्तुत्या हि यतः सतां साधूनां शर्म कल्याणं तायते विस्तार्यते । अ स्माभिर्मनस्यपि चित्तेऽपि आयते वितते यते संयते वा ग्लानिरपोहिता निवारिता । यद्यस्मात्कारणात् एषा मत्कृतनुतिर्धृता मनसि कृता श्रुतिसंहितायते श्रुतिरूपा चासौ सं- हिता तद्वदाचरति ॥ अमेयमहिमा हिमाद्रितनयानयात्तहृदयो दयोजिंतमतिः । विभुर्भवरुजं रुजन्नविकलं कलङ्करहितं हितं दिशतु वः ॥ ३३ ॥ अमेयमहिमा अपरिच्छेद्यमहिमा । तथा हिमाद्रितनयया पार्वत्या नयेनात्तं गृहीतं हृदयं यस्य सः । तथा दयया कृपया ऊर्जिता मतिर्यस्य सः । भवरुजं संसाररोगं रु- जन् खण्डशः कुर्वन् । 'रुजो भङ्गे' धातुः । 'अविकलं पूर्णं कलङ्करहितं निर्मलं च हितं वो युष्मभ्यं दिशतु ददातु ॥ उदारकरुणोऽरुणोर्जितमहा महाहिवलयो लयोज्झितवपुः । अघौघशमनो मनोधृतमुदामुदात्तविभवो भवो भवतु वः ॥ ३४ ॥ उदारा महती करुणा यस्य सः । तथा अरुणस्य सूर्यस्येवोर्जितं महस्तेजो यस्य सः । तथा महाहिर्वासुकिर्नागाधीश एव वलयः कङ्कणं यस्य सः । तथा लयेन नाशेनोज्झितं वपुर्यस्य स भवः श्रीशंभुरघौघशमनः समस्तपातकहारी भवतु । केषाम् । वो युष्माकम् । कीदृशानाम् । मनसि धृतमुदाम् । किंभूतो भवः । उदात्तविभवः परमैश्वर्यसंपन्नः ॥ एकः पादोदकमधिशिरः श्लाघ्यमन्यस्य धत्ते चक्रे पूजां नयनकमलेनापरस्य द्वितीयः । इत्यन्योन्यं प्रकृतिमहतामन्तरज्ञौ गुणानां हर्षोत्कर्षं कमपि कुरुतां कामकंसद्विषौ वः ॥ ३५ ॥ इत्यनेन प्रकारेणान्योन्यं परस्परं प्रकृत्या स्वभावेन महतां गुणानामनन्यसाधारणा- नामन्तरज्ञौ कामकंसद्विषौ श्रीशंभुविष्णू वो युष्माकं कमपि हर्षस्योत्कर्षं कुरुताम् । इति किमित्याह – एकः शंभुरन्यस्य विष्णोः श्लाघ्यं पादोदकम् । गङ्गामित्यर्थः । अधि शिरः शिरसि धत्ते । द्वितीयो विष्णुरपरस्य श्रीशंभोर्नयनकमलेन नेत्राम्बुजेन स्वेन पूजां चक्रे । 'हरिस्ते साहस्रं कमलबलिमाधाय पदयोः' इत्याख्यानात् ॥ यस्मिन्नद्रिसमुद्रजावहनयोरुत्सृज्य नैसर्गिकं वैरं केसरिकुञ्जरप्रवरयोः सौहार्दहृद्या स्थितिः । यस्मिन्नप्यहिराजपन्नगभुजौ निर्व्याजमैत्रीयुजौ निष्प्रत्यूहमसौ महापुरुषयोः संधिर्निबध्नातु वः ॥ ३६ ॥ असौ महापुरुषयोः श्रीशंभुनारायणयोः संधिर्मेलापो वो युष्माकं निष्प्रत्यूहं नि- र्विघ्नत्वं बध्नातु । करोत्वित्यर्थः । असौ क इत्याह – यस्मिन्महापुरुषवपुःसंधौ अद्रि- समुद्रजावहनयोः पर्वतक्षीराब्धिजावाहनयोः केसरिकुञ्जरप्रवरयोः सिंहगजेन्द्रयोः सौ- हार्देन हृद्या स्थितिर्भवति । किं कृत्वा । नैसर्गिकं वैरमुत्सृज्य । तथा यस्मिन्महापुरुष- संधौ अहिराजपन्नगभुजौ उपवीतीकृतवासुकिनागराजगरुडौ निर्व्याजमैत्रीयुजौ भवतः ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरक- महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जला- वेकान्तरयमकस्तोत्रमेकोनत्रिंशम् ॥ त्रिंशः सर्गः । अथातो ग्रन्थकृन्महायमकचित्रं त्रिंशं स्तोत्रमारभमाण आह शारदीमिव नदीं प्रसादिनीमुच्चकैरवसरोजराजिताम् । स्तोतुमेष मम मूर्तिमैश्वरीमुच्चकैरवसरोऽजराजिताम् ॥ १॥ एषोऽवसरः समय उच्चकैर्महानस्ति । किं कर्तुम् । ऐश्वरीं परमेश्वरसंबन्धिनीं मूर्ति स्तो- तुम् । किंभूताम् । अजराजितां न जरया जिता तामू । जरयेत्युपलक्षणम् । जन्मजरा- मरणरूपामयरहिताम् । महानद्य एषोऽवसरः सकलकरणसौष्ठवयुक्तस्य ममेत्यर्थः । यदु- क्तमभियुक्तैः–'यावत्पश्यसि पन्थानं यावत्ते चरणौ स्थितौ । यावन्न हीयते कायस्ता- वदात्महितं कुरु ॥' इति । पुनः किंभूतामैश्वरीं मूर्तिम् । प्रसीदतीति प्रसादिनी प्रसादो- ऽस्यास्तीति वा ताम् । कामिव शारदीं शरत्कालभवां नदीमिव । साप्यगस्त्यमुनेरुदयेन प्रसन्नजला भवति । नदीं किंभूताम् । उच्चानि यानि कैरवाणि सितोत्पलानि सरोजानि च पद्मानि तै राजिता शोभिता ताम् ॥ रोहिणीरमणखण्डमण्डनं नदिनन्दिनमनं दिनं दिनम् । नौमि बिभ्रतमुपोढकालिकासंगमं गलमसङ्गमङ्गलम् ॥ २ ॥ अहं वराको रोहिणीरमणखण्डमण्डनं चन्द्रार्धमौलि विभुं दिनं दिनं प्रतिदिनं नौमि । किंभूतम् । नन्दिमन्दिनमनं नन्दयति मनो नन्दि तादृशं नन्दिनो द्वारपालस्य नन्दिरुद्रस्य नमनं प्रणामो यस्य स तादृशम् । पुनः किंभूतम् । गलं कण्ठं बिभ्रतम् । कीदृशम् । उपोढकालिकासंगमं उपोढः प्राप्तः कालिकया श्यामलिम्ना कालकूटगरलक- वलीकरणजातेन संगमो यस्य स तादृशम् । पुनः किंभूतं गलम् । असङ्गं निर्निरोधं म- ङ्गलं यस्य स तम् ॥ नौमि भक्तजनकण्ठनिःसरन्नादरञ्जितमकालकामदम् । कालकामदमनादरं जितक्लेशमीशममृतांशुशेखरम् ॥ ३ ॥ अहममृतांशुशेखरं चन्द्रशेखरमीशं परमेश्वरं नौमि । किंभूतम् । भक्तजनस्य कण्ठा- न्निसरन्यो नादः अतिक्रुद्धकृतान्तत्रासोद्भूतः 'अशरणं मां पाहि' इति तेन रञ्जितस्ता- दृशम् । तथा अकालेऽनवसरेऽपि काममभिलषितं ददातीति तादृशम् । तथा काल- कामयोः कृतान्तस्मरयोर्दमने आदरो यस्य स तादृशम् । पुनः किंभूतम् । जिता दूरी कृता: क्लेशा अविद्यादयः पञ्च भवमरुभ्रमणजा वा क्लेशा भक्तजनस्य येन तादृशम् ॥ भ्राम्यतु द्रविणतृष्णया भृशं मानसं सदिनमानसंसदि । त्वत्स्तवामृतमृते तु दुस्तरे बन्धुरध्वनि न बन्धुरध्वनि ॥ ४ ॥ हे विभो । ममेति शेषः । मम मानसं चित्तं भृशमत्यर्थं भ्राम्यतु । कया । द्रविण तृष्णया धनलोभेन । कस्याम् । सदिनमानसंसदि सच्छोभन इनानां प्रभूणां मानो यस्यां सा तादृशी या संसत्सभा तस्याम् । हे दयालो । तु पक्षान्तरे । दुस्तरेऽध्वनि भ वमरुप्रदेशे बन्धुराश्वासको न भवति । किमृते । त्वत्स्तव एवामृतं तदृते । त्वत्स्तवामृतं किंभूतम् । बन्धुरध्वनि बन्धुरो रम्यो ध्वनिरुत्तमकाव्यविशेषो यत्र तत् । 'इदमुत्तमम- तिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः' इति श्रीकाव्यप्रकाशकारः ॥ साधु नाथ नुतिरीप्सया मया या मयार्चित कृतात्र साधुना । सा धुनातु विपदं भवामयायामयापनलसद्रसाधुना ॥ ५ ॥ हे विभो, सा नुतिः स्तुतिर्मत्कृता विपदं जन्मजरामरणत्रासोत्पन्नां धुनातु निवार- यतु । 'धूञ् कम्पने' । कदा । अधुना किंभूता । भवामयायामयापनलसद्रसा भवः सं- सार एवामयो व्याधिस्तस्य य आयामो विस्तारस्तस्य यापनं निवारणं तत्र लसन्रसो यस्याः सा । तन्निवारणसक्तेत्यर्थः । सा का इत्याह - साध्वित्यादि । हे नाथ, हे मया- र्चित । मयो नाम विश्वकर्मसुतस्तेनार्चितः पूजितस्तसंबोधनम् । साधुना सज्जनेन मया अत्र भवद्विषये या नुतिः स्तुतिः कृता । कया । ईप्सया इच्छया । कथम् । साधु साधु कृत्वा ॥ न मेऽभिभूतस्य पिता न माता न वा सनाभिर्धनवासनाभिः । अरिस्तु रुन्धे सुदृदा वियुक्तं समाधिना मानसमाधिना सा ॥ ६ ॥ हे विभो, धनवासनाभिर्द्रविणतृष्णाभिरभिभूतस्य वशीकृतस्य मे पिता नोपरोधस्था- नम् । तच्चरणशुश्रूषायाः कदाप्यकरणात् । न च माता जननी । वाशब्दश्चार्थे । न च सनाभिः सोदर उपरोधस्थानम् । तु पक्षान्तरे । समाधिना परमेश्वरचरणध्यानरूपेण सुहृदा बन्धुना वियुक्तं मम मानसमाधिनामा पुनः पुनर्भवमरुभ्रमणजपीडानामा अ- रिस्तु रुन्धे ॥ दर्पकान्तक विराजमानयादर्पकान्तकविराजमानया । त्वत्प्रसादविधिलब्धया धिया साधवो दधति वैबुधीं धुरम् ॥ ७ ॥ हे दर्पकान्तक । दर्पकस्य कामस्यान्तको दाहकृत्तत्संबोधनम् । साधवो वैबुध धुरं विबुधानां पण्डितानामियं वैबुधी तां धुरं दधति । विबुधाग्रणीभावं भजन्त इत्यर्थः । अथ वा वैबुधीं देवसंबन्धिनीं धुरं देवताग्रणीभावं भजन्ते । कया । धिया बुद्ध्या । कथं- भूतया । त्वत्प्रसादविधिना लब्धा तया । पुनः कथंभूतया । विराजमानया शोभमा- नया । पुनः कथंभूतया । अदर्पकान्तकविराजमानया अदर्पाणामनहंकारिणां जनानां कान्तोऽभिलषितः कविराजानां महाकवीनां मनो यस्यां सा तया ॥ येन शीतकरखण्डशेखर त्वत्प्रसादवशतः करोत्करः । कोsपि तामरसभासनोऽर्जितः कोपितामरसभासनोर्जितः ॥ ८ ॥ रविरलं कुरुते नवरञ्जनं स किल यत्तव दक्षिणमीक्षणम् । इममपास्य तमः सहजं शनैरविरलं कुरु तेन वरं जनम् ॥ ९॥ (युग्मम् ) हे शीतकरखण्डशेखर चन्द्रशेखर, तेन दक्षिणेनेक्षणेन दर्शनेन रविप्रकाशात्मना स- हजं तमोऽज्ञानमेव तमोऽन्धकारमविरलं घनमपास्य दूरीकृत्य इमं जनं मल्लक्षणं शनैः वरमुत्कृष्टं कुरु । अत्र इममित्यस्यास्थानपदत्वेऽपि भक्तिविषये न दोषः । तेन ईक्षणेन केनेत्याह—रविरित्यादि । किल प्रसिद्धः स रविर्भास्वांस्तव यद्दक्षिणमीक्षणमलंकुरुते । किंभूतम् । नवरञ्जनं नवं रजनं रागो यस्मिंस्तत् । स रविः कः । येन शीतकरेत्यादि । हे चन्द्रमौले, येन रविणा त्वत्प्रसादवशात् कोऽप्यनन्यसामान्यः करोत्करो रश्मिसमूहो- ऽर्जितः प्राप्तः । किंभूतः । तामरसभासनस्तामरसानां कमलानां भासनः । पुनः किंभूतः । कोपितामरसभासनोर्जित: कोपितः सकोपः कृतोऽमरसभायामासनं यस्य सोऽमरस- भासन इन्द्रो येन तादृशश्चासावूर्जितो बलवांश्च । देवसभमस्य कोपः (?) । तस्य ती- क्ष्णांशुत्वात् । युगलकम् ॥ महतामतामसमहावपुषं भवभक्तिमर्थितवतां भगवन् । महतामतामसमहावपुषं प्रथयन्ति कीर्तिमिह सिद्धगणाः ॥ १० ॥ अत्र पूर्वार्धे महता मतामिति असमहावपुषमिति च पदच्छेदः । उत्तरार्धे तु महता- मिति अतामसमहावपुषमिति च पदच्छेदः । हे भगवन्नैश्वर्यादिषट्कयुक्तस्वामिन् इह जगति सिद्धानां देवयोनिविशेषाणां गणाः कीर्तिं प्रथयन्ति विस्तारयन्ति । केषाम् । तव विभोर्भक्तिं भावनामर्थितवतामाश्रितवताम् । महतां महात्मनाम् । किंभूतां तव भ- क्तिम् । महतामतां मह उत्सवस्तस्य भावो महता तया मताम् । महोत्सवरूपतया म- तामित्यर्थः । पुनः कीदृशीम् । असमा अनन्यसमा ये हावा: प्रणामार्चनस्तवनादयश्चेष्टा- विशेषास्तान्पुष्णातीत्यसमहावपुट् तादृशीम् । पुनः किंभूताम् । अतामसमहावपुषम् अ- तामसमकलुषं महद्वपुर्यस्याः सा अतामसमहावपुस्तादृशीम् ॥ अध्यास्यते शमजुषा भवतः प्रसादा- दामोदराजितरुचारु चिरं जनेन । दामोदराजितरुचा रुचिरञ्जनेन कीर्णं तृणेन मृदुना वनमार्तवेन ॥ ११ ॥ अत्र पूर्वार्धे प्रसादादिति आमोदराजितरुचारु इति जनेन इति च पदच्छेदः । उ- तरार्धे तु दामोदराजितरुचा इति रुचिरञ्जनेन इति च पदच्छेदः । हे भगवन्, भवत- स्तव दयालोः प्रसादात् शमजुषा शान्तचेतसा जनेन भक्तजनेन चिरं बहुकालं सिद्धि- लाभावधि अनुद्विग्नेन वनं काननमध्यास्यते सेव्यते । किंभूतं वनम् । आमोदराजितरु चारु आमोदेन सौरभेण राजन्ते शोभन्ते तादृशा ये तरवो वृक्षास्तैश्चारु । पुनः किंभू- तम् । आर्तवेन ऋतुसंभवेन तृणेन शाद्वलेन मृदुना कोमलेन कीर्णं वृतम् । किंभूतेना- र्तवेन तृणेन दामोदराजितरुचा दामोदरेण श्रीकृष्णेनाजिता अन्यूनीकृता रुग्द्युतिर्यस्य तत्तादृशेन । पुनः किंभूतेन । रुचिरञ्जनेन अभिप्रायावर्जकेन ॥ तव सवहरिणं घ्नती [^१]महर्षिं यमकृत चापलता नवासमाधिम् । पुनरपि दृगलम्भयत्तवैनं यमकृतचापलतानवा समाधिम् ॥ १२ ॥ अत्र पूर्वार्धे यमिति अकृत इति चापलता इति नवा समाधिमिति च पदच्छेदः । [^१]. 'महर्द्धि' ख. उत्तरार्धे तु यमकृतचापलतानवा इति समाधिमिति च पदच्छेदः । हे भगवन्, चापलता धनुर्यष्टिः सवहरिणं यज्ञमृगं बलात्पलायमानं घ्नती यज्ञमृगस्योत्तमाङ्गभङ्गं वि- दधती सती ये महर्षि दक्षं नवासमाधिमकृत विदधे नवः कदाचिदप्यननुभूतत्वात् अ समोऽनन्यसामान्यः आधिर्मनोव्यामोहो यस्य स तथाविधमकृत । एतत्तु अत्यद्भुतम् । तव दयालोर्दृग्दृष्टिः पुनरपि समाधिं भुक्तिमुक्तिनिमित्तं योगमलम्भयत्प्रापयामास । किं भूता दृक् । यमकृतचापलतानवा यमस्यान्तकस्य कृतं चापलतानवं चापलतातनुत्वं यया । श्वेतनृपाभयदानेन यमस्य चापलं या अनाशयदित्यर्थः । यो भगवन्तं जामातर- मपि क्रतावनिमन्त्र्यावज्ञातवान् तस्य दक्षमुनेर्मृगरूपेण पलायितस्य यज्ञस्य धनुराकृष्य मुक्तेन शरेण शिरःशातनपर्यन्तं क्रोधं विधाय पुनरपि प्रणामस्तवादिना प्रसादितः प- रमेश्वरो दयार्द्रया दृशा शिवैकतानतानिमित्तसमाधिलाभहेतुभूतं तस्यानुग्रहमकरोदित्यव- न्ध्यकोपप्रसादता भगवतो व्यज्यते ॥ सभाजनेऽनल्परतेर्नृपस्य त्वद्भक्तिभाजः प्रसभाजनेन । सभा जनेन प्रगुणेन पूर्णा विभाति निःश्रेयसभाजनेन ॥ १३ ॥ अत्र पूर्वार्धे सभाजने इति अनल्परतेरिति प्रसभाजनेनेति च पदच्छेदः । उत्तरार्धे तु सभा इति जनेनेति निःश्रेयसभाजनेनेति च पदच्छेदः । हे भगवन्, त्वद्भक्तिभाजो नृपस्य धन्यस्य सभा प्रगुणेन प्रकृष्टगुणेन जनेन पूर्णा विभाति विशेषेण सातिशयेन भा सतै । किंभूतेन । प्रसभाजनेन प्रसभं प्रकाशमजनं गतिर्यस्य स तादृशेन । तथा निःश्रेय- सभाजनेन कैवल्यपात्रेण । नृपस्य किंभूतस्य । सभाजने प्रीतिदर्शनेऽनल्परतेर्भूरि- तरसक्तेः ॥ अनन्तरायन्त्रितवाग्भवस्त्वां गृणाति यो नित्यमनन्तरायम् । अनन्तरायं स्वयमेत्य लक्ष्मीर्निषेवते तं समनन्तरायम् ॥ १४ ॥ हे भगवन्, लक्ष्मीः कमला तं पुरुषं स्वयमेत्य निषेवते । किंभूतम् । अनन्तरायं अ- नन्ता निर्विनाशा रायो धनानि यस्य स तादृशम् । रैशब्दो धनवाचकः । पुनः किंभू- तम् । समनन्तरायं समनन्तर आसन्नोऽयः शुभावहविधिर्यस्य तम् । तं कमित्याह - अ नन्तरेत्यादि । अनन्तरमविद्यमानमन्तरं कथान्तरव्यवधानं यस्य ईदृशः अयन्त्रितो नि र्निरोधो वाग्भवो वागुद्भवो वाणीविलासो यस्य स तादृशो यः पुरुषो धन्यस्त्वां विभुं नित्यमनन्तरायमन्तरायरहितं निर्विघ्नं गृणाति स्तौति ॥ सहो मयाद्यैरपि यस्य दुर्धरं यमः स धर्तुं हृदि दुःसहो मया । सहोमयाभ्येत्य भज प्रसन्नया दृशा कृतानङ्गभुजांसहोमया ॥ १५ ॥ हे भगवन्, मंयो विश्वकर्मसुतो जगन्निर्माणकर्मनिपुण आद्यो येषां ते तादृशैरपि म हर्षिभिर्यस्य यमस्य सहो बलं दुर्धरं दुर्निवारं स यमो मया वराकेण हृदि मनसि धर्तुं [^१]. 'अहो' ख. दुःसहः । मनस्यपि निवेशयितुं न शक्य इत्यर्थः । अतो हेतोस्त्वं दयालुरुमया पार्वत्या सहाभ्येत्य संमुखमागत्य भज । मामित्यर्थात् । कया । प्रसन्नया सानुग्रहया दृशा । किंभूतया । कृतानङ्गभुजांसहोमया कृतः अनङ्गस्य कामस्य भुजांसहोमो बाहुस्कन्धाद्यवयव होमो यया सा तादृश्या । कले वरं दातुमुदीरितेऽस्ति या सुधा सुवाक्ये तव निष्कले वरम् । कलेव रङ्क्कङ्कतनोरसौ कदा ममेदमाप्याययते कलेवरम् ॥ १६ ॥ हे भगवन्, असौ सुधा भवद्भक्तिसुधा ममाशरणस्य इदं कलेवरं देहं कदा आप्या- ययते। केव। रङ्क्कङ्कतनोः कलेव । रङ्कुर्मृगविशेषः । 'रङ्कुशम्बररोहिषाः" इत्यमरः । रङ्कु- रङ्के यस्याः सा तनुर्यस्य स रङ्क्कङ्कतनुर्मृगाङ्कस्तस्य कलेव पोयूषसारमयी । सा केंत्याह । अत्र पूर्वार्धे कले इति वरमिति निष्कले इति वरमिति पदच्छेदः । कले रलयोरैक्या- त्करे पाणावाश्रितजनस्य वरमुत्कृष्टं वरमभिलषितं दातुमुदीरिते उच्चारिते तव निष्कले कलाया व्याजान्निष्क्रान्ते सुवाक्येऽतिमधुरवाक्ये या सुधा पीयूषप्रणाल्यस्ति ॥ सदानवारिद्विरदा वरूथिनी हरेरिव ध्वस्तसहिंसदानवा । सदा नवाराद्धशिवा शिवाप्तये न कस्य गीर्भक्तिविकासदा नवा ॥१७॥ अत्र पूर्वार्धे सदानवारि इति ध्वस्तसहिंसदानवा इति पदच्छेदः । उत्तरार्धे तु सदा इति नवाराद्धशिवा इति भक्तिविकासदा इति नवा इति च पदच्छेदः । सदा नित्यं नवा- राद्धशिवा नवैः स्तवैराराद्ध उपासितः शिवः श्रीशंभुर्यया तादृशी गीर्वाणी कस्य न शिवा- प्तये कैवल्यप्राप्तये भवति । अपि तु सर्वस्य । गीः किंभूता । नवा नूतना । तथा भक्ते- र्विकासदा । किंभूता । ध्वस्तसहिंसदानवा ध्वस्ताः सहिंसा दानवा यया स्त । केंव । ह- रेर्विष्णोर्वरूथिनी सेना इव । सापि किंभूता । दानवारिणा मदजलेन सह वर्तन्ते तादृशा द्विरदा यस्यां सा ॥ घनैरहंताकृतलङ्घनैरहं महारिभिर्निर्मलशर्महारिभिः । निराकृतौजा धृतहानिराकृतौ न तेऽवलेपावसरो नतेऽबले ॥ १८ ॥ हे भगवन्, घनैः प्रबलैः तथा… निर्मलं यत् शर्म शान्तिसुखं तद्धरन्ति तादृशा- स्तैर्निर्मलशर्महारिभिर्महारिभिर्महद्भिररिभिः कामक्रोधादिभिर्निराकृतमोजो यस्य स तादृ- गस्मि । पुनः किंभूतः । आकृतौ शरीरसंस्थानेऽपि धृता हानिर्येन स तादृगस्मि । अतो हे दयालो, नते प्रणते अबले बलरहिते अर्थान्मयि ते स्वामिनो महाकृपालोरवलेपस्यावसरो न भवति । अवहेला न युक्तेत्यर्थः ॥ मनस्यदोषेऽप्यतिदौर्मनस्यदो महारयः पन्नगभीमहार यः । तमन्तकम्पैकनिमित्तमन्तकं नयाशु भङ्गं हतदुर्नयाशुभम् ॥ १९ ॥. हे पन्नगभीमहार। पन्नगरूपो भीमो हारो यस्य स तस्य संबोधनम् । हे फणिहार श्रीशंभो । तथा हे हतदुर्नय । हता दुर्नयास्त्रिपुरान्धकप्रभृतयो येन स तस्य संबोधनम् । अन्ते निर्याणसमये कम्पस्यैकनिमित्तं तमशुभमन्तकं आशु शीघ्रं भङ्गं विनाशं नय प्रापय । तं कमित्याह -मनसीत्यादि । अदोषेऽपि निर्दोषेऽपि मनस्यतिशयेन दौर्मनस्यं महादुःखं ददातीति तादृशो यो भवति । किंभूतः । महान् रयो वेगो यस्य स तादृक् ॥ श्रीशिवैकतानतयात्मानं कृतकृत्यमिव विदन्कविराह न वारबाणा न हया नवारवा न दन्तिनः सद्मनि वा नदन्ति नः । क्षतापदाज्ञा तु विपक्षतापदा जितो भवः साधु हि पूजितो भवः॥ २०॥ नोऽस्माकं सद्मनि वारबाणा: कञ्चुका न सन्ति । तथा नवोऽपूर्व आरवो हेषारवो येषां तादृशा हया अश्वा न सन्ति । वाशब्दश्चार्थे । दन्तिनः करिणश्च नः सद्मनि गृहे न नदन्ति । तुः पक्षान्तरे । आपदतिकष्टतरा जन्मजरामरणत्रासोद्भवा विपत् क्षता बाधिता । अस्माकमाज्ञा विपक्षाणां शत्रूणामान्तराणां बाह्यानां वा तापदा भ- वति । यतोऽस्माभिर्भवः संसारः पुनरावृत्तिवशादतिकष्टदो जितो निर्नाशितः । हि य- स्मात्कारणात्साधु सम्यक् वाङ्मनः कायैस्तद्भक्त्यासक्त्या भवः श्रीशंभुः पूजितः ॥ जलाशया यान्ति मृगा जलाशया मरावलङ्घ्ये घ्नति पामरा बलम् । परं हसन्तो जितकोपरंहसं जना भवेऽप्युज्झितपूजना भवे ॥ २१ ॥ जलाशया इति डलयोरैक्याज्जडाशया मन्दमतयः पामरास्तुच्छस्वभावा मृगा जलाशया जलस्याशया स्पृहया मरौ मरुमरीचिकासु बलं घ्नति विनाशयति अतिविततनिर्जलत्वात् । मरौ निर्जलदूराध्वनि अलङ्घ्ये दुर्विगाहे यान्ति यथा इत्याक्षेपः । तथैव जडाशया मन्द- धिषणाः पामरा नीचस्वभावा जना अपि भवे श्रीशंभावुज्झित पूजनास्त्यक्तनित्यार्चना भवे संसारे मरुमरीचिकासर्परज्ज्वादीन्द्रजालतुल्ये यान्ति भ्रमन्ति । किंभूताः । जित- कोपरंहसं परिहृतरोषरयं परं इसन्तः । स्वयं क्रोधाभिभूतत्वादन्यं क्रोधहेतौ सत्यपि क्षमावन्तमुपहसन्त इत्यर्थः । यथा मरुमार्गे मृगा रविमरीचिकाचितासु सिकतासु स- लिलभ्रममुद्दिश्य मिथ्या भ्रमन्ति सलिलं तु न लभन्ते प्रत्युत बलहान्या विनाशमेवा- श्नुवते तथैव श्रीभगवदर्चनपराङ्मुखाः पामरा मन्दमतयः पुरुषाधमा अपि श्रीपरमशि- वशक्तिपातविरहवशात्परमनिर्वाणप्राप्तिपरिपन्थिनि संसार एव मोहतिरोहितधियो मुधैव भ्रमन्ति। परमेश्वरपूजनपरास्त्वीश्वरेणानुगृहीता भवक्लेशाभावान्मुच्यन्त इति तात्पर्यार्थः ॥ अमन्दरागाश्रितमन्दरागास्ते देवजाताविह देव जाताः । ये सिद्धसाध्यार्चित सिद्धसाध्या रता नवं तेनुरतानवं ते ॥ २२ ॥ हे देव । दीव्यति परमे पदे देवस्तत्संबोधनम् । हे देव परमशिव, अमन्देन महता रागेण प्रेम्णा आश्रितो मन्दराख्योऽगः पर्वतो यैस्ते धन्या जना देवजातौ जाता अमर- त्वं प्राप्ताः । ते के इत्याह - हे सिद्धसाध्यार्चित । सिद्धाः साध्याश्च देवयोनयस्तैरर्चितः पूजितस्तत्संबोधनम् । हे देव, ये जना रताः । अर्थात्वय्येव त्वदेकशरणा एव । ते तव विभोः अतानवं तनुत्वरहितं महान्तं नवं स्तवं तेनुर्विस्तारयामासुः । 'तनु विस्तारे' धातुः । मन्दरगिरेर्भगवन्निवासतया प्रशस्तस्य समस्तसुखोपभोगभूमित्वसंभावनास्पदत्वम्॥ सदय मोदय मोदयमोक्षदं कृशमदः शमदः शमदः कुरु । न हि तता हितताहिततायनैः कृतनुते तनुते तनु ते शुभम् ॥ २३ ॥ अत्र सदय इति, मोदय इति, मा इति, उदयमोक्षदं इति, कृशमद इति, शमद इति, शं इति, अदः इति, कुरु इति, न इति, हि इति, तता इति, हि तता इति, आहित- तायनैः इति कृतनुते इति, तनुते इति तनु इति, ते इति, शुभम् इति पदच्छेदः । हे सदय सकृप परमेश्वर, त्वं कर्ता मा मां मोदय आनन्दय । हे विभो, कृशस्त्रिजगद- धीशत्वेऽयि स्वल्पो मदोऽहंकारो यस्य स तादृक् त्वं उदयमोक्षदं भुक्तिमुक्तिदमदः आमुष्मिकं शं कल्याणं भवाब्ध्युद्धरणरूपं कुरु । किंभूतस्त्वम् । शमद उपशमप्रदः । न हीत्यादि । हि यस्मादाहिततायनैः । 'तायृ पालने' धातुः । आहितं कृतं तायनं पाल- नम् । उपलक्षणमेतत् । पालनादि यैस्ते तादृशा आहिततायना विष्ण्वादयस्तैः कृतनुते विहितस्तुते श्रीशंभो, तता विस्तीर्णा ते तव संबन्धिनी हितता सस्नेहता तनु अल्पं शुभं कल्याणं न तनुते । अपि तु महदेव कल्याणं विस्तारयतीत्यर्थः ॥ रसमये समयेऽसमयेहया धनमहीनमहीनमहीष्वपि । कृतमुदात्तमुदात्तमुदाहृतं तदिदमापदमाप दमापहम् ॥ २४ ॥ अत्र रसमये इति, समये इति, असमया इति, ईहया इति, धनं इति, अहीनं इति, अहीनमहीषु इति, अपि इति कृतमुत् इति, आत्तं इति, उदात्तं इति, उदाहृतं इति, तत् इति, आपदं इति, आप इति, दमापहम् इति पदच्छेदः । हे भगवन्, दमापहं मदहेतुत्वादुपशमहारि तदिदं धनमापदं विनाशमाप प्रापत् । तदिदं किम् । यदित्यध्या- हारः । अहीनां सर्पाणामिना वासुक्यादयस्तेषां महीषु नागाधिपभूमिष्वपि उदाहृतं स- र्वजनेन सर्पाधिपस्थानादिषु कीर्तितम् । तथा उदात्तमुदारम् । तथा कृतमुत् कृता मु द्धर्षो येन तत्तादृशम् । अहीनमखण्डितं यद्धनं रसमये अतिसरसे समये यौवनावसरे अ- समया अनन्यसामान्यया ईहया चेष्टया मया आत्तं गृहीतम् ॥ मदनवादनवादनवासनायतनयातनया तनयाम्बुधेः । अकृत वै कृतवैकृतवैशसा सकमला कमला कमलाघवम् ॥ २९ ॥ अत्र मदनवादनवादनवासनायतनयातनया इति तनया इति, अम्बुधेः इति अकृत इति वै इति, कृतवैकृतवैशसा इति, सकमला इति, कमला इति, कं इति, अलाघवम्, इति पदच्छेदः । हे भगवन्, सह कमलेन पद्मेन वर्तते या सा कमला लक्ष्मीरम्बुधेः समुद्रस्य तनया । वै निश्चये। कं पुरुषमलाघवं लघुत्वविहीनं चकार । अपि तु सर्वं लघूकृतवतीत्यर्थः । कया । मदनवादनेत्यादि । मदनस्य कामस्य वादः कामकलहस्तथा 'नवं नूतनं च तत् अदनं भोजनं तयोर्विषये या वासना इच्छा तया यतनं प्रयत्नस्तेन हेतुना या यातना तीव्रवेदना तथा हेतुभूतया कामकलहभोजनाद्यपूर्वभोगेच्छानिमित्तप्र- यत्नक्लेशार्पणेन कं न लक्ष्मीर्लघूकृतवतीत्यर्थः । कथंभूता । कृतवैकृतवैशसा………….॥ कमलयामलया मलयाद्रिवत्रसदयासदया सदयाप्यया । प्रवरधीवर धीवर धीरया कलय मालयमालयमापदम् ॥ २६ ॥ कमलया इति, अमलया इति, मलयाद्रिवत् इति त्रसदयासदया इति, सदयाप्यया इति, प्रवरधीवर इति, धीवर इति, धीरय इति, कलय इति, मा इति, अलयं इति, आलयं इति, आपदि इति पदच्छेदः । हे धीवर किरातरूप, । पार्थस्य तपस्यतो भ- क्तिपौरुषादिपरीक्षार्थमित्यर्थः । तथा हे प्रवरधीवर प्रवरा उत्कृष्टा या धीर्बुद्धिस्तया वर श्रेष्ठ, त्वं दयालुर्मलयाद्रिवचन्दनाचलवत् अमलया निर्मलया तथा त्रसतां भीतानां अयासं अनायासं ददाति तादृश्या त्रसदयासदया । तथा सदयैः सकरुणैराप्या लभ्या तादृश्या सदयाप्यया तथा धीरया स्थिरया कमलया लक्ष्म्या मा मां कलय भूषय । मां कीदृशम् । आपदां दुर्गतीनामालयं निवासस्थानम् । पुनः किंभूतम् । अलयमनश्वरं निवासरहितं वा । पूर्वश्लोके मम धनं बहु प्रयत्नार्जितमपि विनाशं प्राप्तमिति निमित्तम- भिधायात्र वृत्ते हे भगवन्महेश्वर, त्वर्मिति हेतोर्मामापदामाश्रयमपि लक्ष्म्या मोक्षलक्ष्म्या सालंकारं संपादयेति स्तोतुः प्रभुं प्रति विज्ञप्तिः ॥ वितरणाभरणा भरणाभयक्षममना मम नाम मनागपि । शुभवने भवने भव नेप्सितप्रद रमादरमादरमादधे ॥ २७ ॥ वितरणाभरणा इति, भरणाभयक्षममना इति, मम इति नाम इति, मनाक् इति, अपि इति, शुभवने इति, भवने इति, भव इति, न इति, ईप्सितप्रद इति, रमा इति, अदरं इति, आदरं इति, आदधे इति पदच्छेदः । नाम संभावनायाम् । हे भव त्रिजगदुत्पादक, हे ईप्सितप्रद, वितरणं दानमेवाभरणं यस्याः सा । तथा भरणं पो- षणं च अभयमभयदानं च तत्र क्षमं मनो यस्याः सा भरणाभयक्षममनाः । एवंभूता रमा लक्ष्मीर्मनागपि ईषदपि अदरमभयं आदरं स्पृहां च मम भवने गृहे न आदधे न चकार । भवने किंभूते । शुभवने शुभानि शोभनानि वनानि क्रीडोद्यानानि यस्मिं- स्तादृशे ॥ अनयतो नयतो न यतो धृतिप्रद यमादयमादयमाश्रितः । त्रसति शंसति शंसति शं च यो धृतमुदं तमुदन्तमुदञ्चय ॥ २८ ॥ अत्र अनयतः इति, नयतः इति, न इति, यतः इति ,धृतिप्रद इति, यमात् इति, अयमात् इति, अयं इति, आश्रितः इति ,त्रसति इति, शंसति इति, शंसति इति, शं इति ,च इति, यः इति, धृतमुदं इति, तं इति, उदन्तं इति, उदञ्चय इति पदच्छेदः । हे धृतिप्रद भीरूणां धैर्यार्पण, त्वं धृतमुदं दृढीकृतानन्दं तमुदन्तं वृत्तान्तमुदञ्चय प्रक- टय । तं कमित्याह —अनयत इत्यादि । यतो यस्मादुदन्ता द्वृत्तादनयतो दुर्नयाद्धेतो- र्नयतोऽप्राप्तकालानपि कुहेवाकतो हरतः अयमात्संयमरहितात् यमात्कृतान्तादयं मल्ल- क्षण आश्रितः शरणागतो न त्रसति न बिभेति । तमेव वृत्तान्तं प्रकटीकुर्वित्यर्थः । पु नश्च तमुदन्तं कम् । शंसति स्तुवति जने यश्च शं निश्रेयसं शंसति सूचयति । शंसतीति सप्तम्येकवचनम् । अकालमृत्युशमनं निःश्रेयसप्राप्तिनिमित्तं तं वृत्तान्तं प्रकटयेत्यर्थः ॥ शुभवता भवता भवतारिणा शकलिता कलिता कलितापभूः । हर कृतान्तकृतान्तकृतान्तनो किममता ममता मम तादृशी ॥ २९ ॥ अत्र शुभवता इति, भवता इति, भवतारिणा इति, शकलिता इति, अकलिता इति, कलितापभूः इति, हर इति, कृतान्तकृतान्तकृतान्त इति, नो इति, किं इति, अमता इति, ममता इति, मम इति, तादृशी इति, पदच्छेदः । हे हर भवामयहर । तथा कृतान्तस्य यमस्य यः कृतान्तो बलादनन्तजन्तुहरणहेवाकरूपः सिद्धान्तो निश्चय- स्तस्य कृतोऽन्तोऽवसानं येन स कृतान्तकृतान्तकृतान्तस्तस्य संबोधनं हे कृतान्तकृता- न्तकृतान्त, शुभवता प्रशस्तकल्याणप्रदेन तथा भवात्संसारात्तारयतीति तेन भवतारिणा संसारसागरोत्तारकेण भवता स्वामिना मम आश्रितस्य अमतानभिप्रेता ममता । ममेद- मिति भावो ममता । पुत्रदारधनादिषु ममेति भावः । मम तादृशी अतिप्रसिद्धा किं नो शकलिता खण्डिता । ममता किंभूता । अकलिता अगणिता। असंख्येत्यर्थः । पुनः किं भूता । कलितापभूः कलिकालनिमित्तस्य त्रिविधस्य तापस्य भूः प्रसूतिः ॥ विशदशोभयशोभय शोभय त्रिजगदक्षमदक्षमदक्षम । स्वपदमानय मानय मा नयक्षतसमक्षयमक्षयमक्षय ॥ ३० ॥ अत्र विशदशोभयशोभय इति, शोभय इति, त्रिजगत् इति, अक्षमदक्षमदक्षम इति, स्वपदं इति, आनय इति, मानय इति, मा इति, नयक्षतसमक्षयमक्षयं इति, अक्षय इति पदच्छेदः, हे विशदशोभयशोभय । विशदा निर्मला शोभा यस्य तत्तादृशं यशो यस्य ई- दृशमभयमभयदानं यस्य तस्य संबोधनम् । हे अक्षमदक्षमदक्षम । अक्षमः क्षान्तिर- हितो यो दक्षो दक्षमुनिस्तस्य मदं गर्वं क्षमते यस्तस्य संबोधनम् । तथा हे अक्षय अ निधन भगवन्, मा मां कर्मभूतं स्वपदमानय निजं पदं प्रापय । अत एव मानय । मां संमानभाजनं संपादयेत्यर्थः । स्वपदं किंभूतम् । नयक्षतसमक्ष यमक्षयं नयेन दुष्टदमनप्रव- णया नीत्या क्षतो बाधितः क्षयं प्रापितो वा समक्षं सर्वलोकप्रत्यक्षमेव यमक्षयः कृतान्त- निवासो येन तादृशम् ॥ घनाघनाशनैः शनैर्नवैर्नवैरिहा रिहा । भवान्भवान्वहं वहन्नहीनहीनदानदाः ॥ ३१ ॥ दयोदयोर्जितोऽर्जितो मयोमयोचितश्चितः । यतेयते हितेहिते रवैरवैरधीरधीः ॥ ३२ ॥ (युगलकम् ) अत्र घनाघनाशनैः इति शनैः इति, नवैः इति, नवैः इति, इह इति, अरिहा इति, भवान् इति, भव इति, अन्वहं इति, वहन् इति, अहीन् इति, अहीनदानदाः इति, दयोदयोर्जितः इति, अर्जितः इति, मया इति, उमया इति, उचितः इति, चितः इति, यतेय इति, ते इति, हितेहिते इति, रवैः इति, अवैरधीरधीः इति पद- च्छेदः । हे भव शंभो, मया कर्त्रा इह संसारे घनाघनाशनैः घनानि बहलानि यान्यघानि पापानि तानि नाशयन्तीति तादृशैः नवैर्नूतनैः नवैः स्तवैः शनैर्मृदुनो- पायेन । प्रसह्य झगिति यावत् । भवान्विभुः अरिहा कामक्रोधाद्यान्तररिपुहा अ- र्जितः स्वीकृतः । भवान्किं कुर्वन् । अन्वहं प्रतिदिनमहीन्सर्पान् वासुक्रिप्रभृतीन् व- हन्धारयन् । पुनः किंभूतः । अहीनदानदाः ददातीति दाः अहीनदाने अखण्डितदाने दाः दाता । पुनः किंभूतः । दयोदयेन करुणोदयेनोर्जित उदारो यः स दयोदयोर्जितः । पुनः किंभूतः । उमया पार्वत्या चितो युक्तः । तथा उचितो योग्यश्च । हे भगवन्, ते तव हितेहिते हितं च तदीहितं भवदभिमतपरिचर्याप्रयोजनं तत्र अहं यतेय प्रयत्नपरो भवेयम् । यतेय इति क्रियापदम् । कैः । रवैः स्तुतिशब्दैर्मुखवाद्यरवैर्वा । अहं कीदृशः । अवैरा रिपुष्वप्यविरुद्धा धीरा धीर्मतिर्यस्य स तादृशः ॥ युग्मम् ॥ तवात्तबाधने धने गदं गदन्ति केऽन्तिके । मयामयाविना विना विभो विभोजना जनाः ॥ ३३ ॥ हे विभो हे शंभो, आत्तं प्राप्तं बाधनं विनाशो येन तत्तादृशे आत्तबाधने धने आ- न्तरे धने संविद्रूपे बाह्ये वा धने हिरण्यादौ प्राप्तविनाशे सति तव दयालोरन्तिके मया आमयाविना भवमहारोगग्रस्तेन शारीररोगग्रस्तेन वा विना के जना गदं रोगं गदन्ति निवेदयन्ति प्रभोरग्रे । विभोजना निरशना वा के जनाः । मां विधिहतं विना त्वदन्ति- कगता निर्धना निरशनाः के निजरुजमावेदयन्ति । न केचित् । किं त्वमेव केवल इति भवता दयालुना नात्रोपेक्षितं युक्तमिति भावः ॥ स्तवास्तवाहिता हिता न केन केवलं बलम् । शुभाशु भारती रतीशनाशनापदापदा ॥ ३४ ॥ स्तवा इति, तव इति, आहिताः इति, हिताः इति, न इति, केन इति, केवलं इति, बलं इति, शुभा इति, आशु इति, भारती इति, रतीशनाशन इति, आपत् इति, आ- पदा इति पदच्छेदः । हे रतीशनाशन कामान्तकारिन्, केन भक्तजनेन हिता हृद्याः स्तवाः स्तुतिरूपास्तव न आहिता न विहिताः । अपि तु सर्वजनेन । इयं शुभा क- ल्याणकारिणी मे भारती वाणी आशु निर्विलम्बमेव आपदा भवरोगापदा बलमुत्कर्ष- मापत् प्राप्तवती । महापत्पतितस्य वराकस्य मे इयमाक्रन्दितवाणी इतरमहाकविस्तुति- कथाभ्योऽधिकं त्वदाराधनायालमिति यावत् ॥ नतानतानवानवारितारितापदं पदम् । हराहरामि तेऽमिते शमे शमेवमेव मे ॥ ३५ ॥ नतान् इति अतानवान् इति, अवारितारितापदं इति, पदं इति, हर इति, आह- रामि इति, ते इति, अमिते इति, शमे इति, शं इति, एवमेव इति ,मे इति पदच्छेदः । हे हर आश्रितजनभवामयहर, तनोर्भावस्तानवं न विद्यमानं तानवं येषां ते अतानवा- स्तादृशान् । अनल्पानिति यावत् । नतान् भक्तिप्रह्रान् ते तव पदं त्वदीयं धाम आ हरामि । भवत्प्रसादप्राप्तोपदेशयुक्त्या प्रापयामीत्यर्थः । पदं किंभूतम् । अवारितारितापदं अवारिता अनियन्त्रिता येऽरय आन्तराः षट् कामक्रोधाद्यास्तेषां तापं दूरीकरणं द- दाति तादृशम् । कस्मिन्सति । अमिते अनल्पे शमे संयमे सति । एवमेव प्रह्वजनानां त्व- द्धामप्राप्तिनिमित्तभवत्स्तुत्यवबोधरूपं मे मम शं कल्याणमुभयलोकशुभावहमित्यर्थः ॥ परापराध[^१]बान्धवाः सवासवाः सुरासुराः । सदा सदानमानमाश्रयं श्रयन्ति यन्ति यम् ॥ ३६॥ स मा समाहितं हितं बतावतादमन्दमम् । कलङ्कलङ्घने घने ह्यबाह्यवासनः स नः ॥ ३७ ॥ (युगलकम् ) परापराधबान्धवाः इति, सवासवाः इति, सुरासुरा इति, सदा इति, सदानमानं इति, आश्रयं इति, श्रयन्ति इति, यन्ति इति, यम् इति, स इति, मा इति, समाहितं इति, हितं इति, बतः इति, अवतात् इति, अमन्दमम् इति, कलङ्कलङ्घने इति, घने इति, हि इति, अबाह्यवासन इति, स इति नः इति पदच्छेदः । बत आ- श्चर्ये । स समाहितं समाधिनिष्ठं भक्तं मा मां वराकमवताद्रक्षतु । 'अव रक्षणे' धातुः । मा किंभूतम् । अमन्दमम् अमन्दा अनल्पा मा लक्ष्मीर्मोक्षलक्ष्मीर्यस्य स तादृशम् । स क इत्याह –परापरा इति । परापराधबान्धवाः परेषामपराधेऽपि बान्धवा बन्धुभूताः । कृतापकाराणामप्युपकारिण इत्यर्थः । एवंभूताः सवासवाः सह वासवेनेन्द्रेण वर्तन्ते ये तादृशाः सुरासुरा देवासुराः सदा नित्यं यं परमेश्वरमाश्रयं श्रयन्ति अभिलषन्ति । क- थम् । सदानमानं सहदानेन श्रीशिवार्पणेन मानेन पूजया च सदानमानम् । तथा यं विभुं यन्ति गच्छन्ति शरणार्थम् । कुतस्तदित्याह— घने बहले कलङ्कलङ्घने मलापस- रणे अबाह्यवासनो भवति । अबाह्या अबहिरङ्गा वासना इच्छा यस्य स तथोक्तः । केषां कलङ्कलङ्घने । नः अस्माकम् । हि निश्चये ॥ युगलकम् ॥ [^१]. 'बन्धवः' ख. अलं घना अलङ्घनास्तपस्यतस्तपस्यतः । तनुर्हि मेऽतनुर्हिमेऽङ्गतानवं गता नवम् ॥ ३८ ॥ अलं इति, घना इति, अलङ्घना इति, तपसि इति, अत इति, तपस्यतः इति, तनुः इति, हि इति, मे इति, अतनुः इति, हिमे इति, अङ्गतानवं इति, गता इति, नवम् इति पदच्छेदः । हि यस्मात् हे भगवन्, तपसि माघे अलमत्यर्थं घना मेघा अलङ्घना लङ्घयितुमतिवाहयितुमशक्याः । अतोऽस्माद्धेतोस्तपसि माघे हिमे शीतकाले तपस्यत- स्तपः कुर्वतः शीते यथोचितव्रतचर्यापरस्य मम अतनुरकृशापि तनुर्मूर्तिर्नवमपूर्वमङ्गता- नवमवयवकृशत्वं गता प्राप्ता । अतस्त्वदाराधनव्रतकृशतरवपुषोऽपि ममोपरि अवले- पपरो मा भूरिति स्वामिने आर्तिर्निवेदिता ॥ मलमलक्षवलक्षबलस्मरस्मरणकारणकार कदङ्कदम् । हर हरस्व भजस्व भजन्दिशं दिश विभासविभासदृशं दृशम् ॥ ३९ ॥ अत्र मलं इति, अलक्षवलक्षबलस्मरस्मरणकारणकार इति, कदङ्कदम् इति, हर इति, हरस्व इति, भजस्व इति, भजन् इति, दिशं इति, दिश इति, विभासविभासदृशं इति, दृशम् इति पदच्छेदः । हे हर संसारिणां भवामय हर । तथा लक्षणं लक्षः अविद्यमानो ल- क्षो लक्षणमियत्तया परिच्छेदो यस्य तत् अलक्षं वलक्षमवदातं बलं सामर्थ्यं यस्य ई- दृशो यः स्मरः कामस्तस्य स्मरणकारणं स्मृतिशेषतानिमित्तमर्थाद्देहदाहं कृतवान् य स्तस्य संबोधनं हे अलक्षवलक्षबलस्मरस्मरणकारणकार, त्वं मम मलं त्रिविधमाण- वमायीयकार्मभेदात्रिविधमावरणं हरस्व दूरीकुरु । 'गोपितस्वमहिम्नोऽस्य संमोहाद्वि- स्मृतात्मनः । यः संकोचः स एवाद्य आणवो मल उच्यते ॥ ततः षट्कञ्चुकव्याप्तिविलो- पितनिजस्थिते: । भूतदेहे स्थितिर्यासौ मायीयो मल उच्यते ॥ यदन्तःकरणाधीनबु- द्धिकर्मेन्द्रियादिभिः । बहिर्व्याप्रियते कार्ममलमेतदुदाहृतम् ॥' इत्यागमविदः । मलं किंभूतम् । कदङ्कदं कुत्सितश्चासावङ्को लक्षणं कदङ्कः कदङ्कं कुलक्षणं ददातीति कदङ्क- दस्तादृशम् । त्वं किं कुर्वन् । दिशं ऐशानीं भजन् प्रपन्नजनानुजिघृक्षया विश्वमयोऽपि नियतां दिशमाश्रयन् । किंच, हे विभो, त्वं दृशं दिश दृष्टिं देहि । किंभूताम् । विभा- सविभासदृशं भासनं भासः विशिष्टो भासो विभासः सर्वातिशायि विज्ञानं विभा दी- प्तिश्च ते विभासविभे तयोः सदृशीम् । समगुणामिति यावत् ॥ भवसंभवसंहतमोहतमोदमनेदमनेकमशङ्कमशम् । सविकासविकारचितं रचितं हर मे हर मेदुरितं दुरितम् ॥ ४० ॥ अत्र भवसंभवसंहतमोहतमोदमन इति, इदं इति, अनेकं इति, अशङ्कं इति, अशम् इति, सविकासविकारचितं इति, रचितं इति, हर इति, मे इति, हर इति, मेदुरितं इति, दुरितं इति पदच्छेदः । हे हर महाप्रलयेषु ब्रह्मादिकारणसंहारक । तथा हे भवसंभवसंहतमोहतमोदमन भवसंभवं संसारसमुद्भूतं संहतं पुञ्जीकृतं यन्मोहतमो- ऽज्ञानान्धकारं तस्य दमन उपशामक, अनेकं बहुविधं अशङ्कं कृत्वा रचितं कृतं तथा अशं अविद्यमानं कल्याणं यस्य तत्तादृशं तथा सविकासैः सविस्तारैर्विकारैराधिव्या- धिप्रियवियोगादिभिरवस्थापरिणामैश्चितं व्याप्तम् । कृतपरिचयमिति यावत् । तथा मे- दुरितं अन्यजनाग्रे ख्यापनानुतापप्रायश्चित्ताद्यकरणात्सान्द्रीभूतं वर्धितं इदं स्वयमनुभूय- मानं दुरितं पापं वाङ्मनःकायोत्थं त्रिविधं हर निवारय ॥ कृपणं भगवन्बहुशोऽभिहितं बहुशोभि हितं दिश मे वचनम् । दिशमेव च नन्दितमानस तां दितमान सतां न पतामि यतः ॥ ४१ ॥ अत्र कृपणं इति, भगवन् इति, बहुश इति, अभिहितं इति, बहुशोभि इति, हि- तम् इति, दिश इति, मे इति, वचनम् इति, दिशं इति, एव इति, च इति, नन्दित- मानस इति, तामिति, दितमान इति, सतां इति, न इति, पतामि इति, यतः इति प- दच्छेदः । हे भगवन्दयालो, मया वराकेण बहुशोऽनेकशः कृपणं कृपोत्पादकं दीनवच- नमभिहितमुक्तं भूरीन्वारान्प्रलपितम् । अतस्त्वं मे वचनं दिश अभिमतवराभयार्पण- प्रथनं वाक्यं देहि । किंभूतम् । बहु चिरं शोभते तच्छीलं बहुशोभि । तथा हितमु- पकारकम् । हे सतामुत्तमानां नन्दितमानस नन्दितं ह्लादितं मानसं चित्तं येन स तस्य संबोधनम् । तथा हे दितमान । 'दो अवखण्डने' धातुः । दितः खण्डितो मानोऽहं- कारो मदोद्धतानां येन स तस्य संबोधनम् । त्वं तां दिशमेव तं प्रकारमेव दिश देहि । तां दिशं कामित्याह – यतो हेतोरस्मिन्संसारसंकटे न पतामि । तमेव प्रकारं संदर्श- येत्यर्थः ॥ मन्यामहे गतिमृते त्वयि भक्तिमन्या- मन्यायगां तव दृशैव [^१]तमः शमन्या । मन्याभिधाभृति नतिं सहते धमन्या- [^२]मन्याभिधेषु नहि धीरभिमानिमन्या ॥ ४२ ॥ अत्र मन्यामहे इति, गतिं इति, ऋते इति, त्वयि इति भक्तिं इति, अन्यां इति, अन्यायगां इति, तव इति, दृशा इति, एव इति, तमःशमन्या इति, मन्याभिधाभृति इति, नतिं इति, सहते इति, धमन्यां इति, अन्याभिधेषु इति, न इति, हि इति, धीः इति, अभिमानिमन्या इति पदच्छेदः । हे विभो, तमोऽज्ञानरूपमन्धकारं शमयतीति तादृश्या तमःशमन्या तव स्वामिनो दृशा एव अनुग्रहदृष्टैव त्वयि विषये भक्तिमृते विना अन्यां गतिमन्यापगामनौचित्येन प्रवृत्तामेव वयं मन्यामहे । यतो हेतोरभिमानिमन्या अभिमानिनमात्मानं मन्यते तादृशी धीर्बुद्धिः मन्या इत्यभिधां नाम बिभर्तीति मन्याभिधाभृत् तस्यां मन्याभिधाभृति धमन्यां कंधरायां अन्याभिधेषु अन्यनामसु [^१]. 'मनः' क. [^२]. 'अन्याधिपेषु' ख. जनेषु हि यस्मात्कारणात् नातिं न सहते। श्रीशंभुभक्तोऽन्यजनेषु नम्रां निजकंधरां न सहते इत्यर्थः । 'पञ्चाद्भीवाशिरा मन्या' इत्यमरः ॥ मानारतं निजपरैरुपभुज्यमाना मानातिवृत्तविभवान्वहमेधमाना । मा नाथ भूद्भवतु धीरभिनन्द्यमाना [^१]मानालसैः सुहृदरातिषु मे समाना ॥ ४३ ॥ अत्र मा इति, अनारतं इति पदच्छेदः । हे नाथ त्रिलोकनाथ, मानं पूज्यतामति- वृत्तोऽतिक्रान्तो विभवो यस्याः सा । तथा अन्वहं प्रतिदिनं एधमाना वर्धमाना । अनारतं सततं निजाश्च पराश्च तैरुपभुज्यमाना मा लक्ष्मीर्मा भूत् । इदं तु मे- ऽभिमत मित्याह — भवत्वित्यादि । मानेनालसा मानालसा मानिनो जनास्तैरभिनन्द्य माना मे मम धीर्बुद्धिः सुहृदरातिषु मित्ररिपुषु समाना सदृशी भवतु । तथा चोक्तं श्री- भर्तृहरिणा – 'अहौ वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्टे वा बलवति रिपौ वा सुहृदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः कदारण्ये पुण्ये शिवशिवशिवेति प्रलपतः ॥' इति ॥ दोषारयस्तरलयन्ति महामदोषा दोषा धृतिं हरति मोहमयप्रदोषा । दोषाकराङ्कवपुरेष्यति मां कदोषा दोषात्तकण्ठमनिरुद्धमिवोन्मदोषा ॥ ४४ ॥ हे विभो, महामदोषा महान्मदस्योषो दाहो येषां ते तादृशा दोषाः कामक्रोधाद्या एवारयः शत्रवो मां तरलयन्ति कम्पयन्ति । तथा मोहमयप्रदोषा मोहमयोऽज्ञानमयः प्रदोषो रजनीमुखं प्रकृष्टश्च दोषो यस्याः सा दोषा रात्रिर्मे धृतिं हरति । अज्ञानरूपर- जनीमुख इत्यर्थः । दोषाकरश्चन्द्रोऽङ्को मौलिस्थं लक्ष्म यस्य स दोषाकराङ्कः श्रीशंभुः स एव वपुर्यस्याः सा दोषाकराङ्कवपुः । चन्द्रमौलिरूपेत्यर्थः । ईदृशी उषा प्रभातं कदा मामे- ष्यति । श्रीचन्द्रमौलिदर्शनरूपं प्रभातं कदा मे भविष्यतीत्यर्थः । उषा प्रभातं केव । उषा बाणासुरदुहितेव । यथा बाणासुरतनया उषा अनिरुद्धं प्रद्युम्नतनयमेति । अनिरुद्धं किंभूतम् । दोषात्तकण्ठं दोषा भुजेन आत्तो गृहीतः कण्ठो यस्य स तादृशम् । दोष्- शब्दो भुजवाचकः । 'भुजबाहू प्रवेष्टो दोः' इत्यमरः । उषा कीदृशी । उन्मदा मदना- वेशेनोत्कटमदा ॥ का रामणीयककृतेन्दुकरानुकाराकारा विना तव कृपां प्रथितोपकारा । [^१]. 'मानामलैः' ख. कारागृहेऽत्र भवनामनि मोचिका रा काराजखण्डशिखर क्षपितान्धकारा ॥ ४५ ॥ हे राकाराजखण्डशिखर । राकाराजश्चन्द्रस्तस्य खण्ड: शिखरे मौलौ यस्य स तस्य संबोधनम् । अत्र भवनामनि संसाराख्ये कारागृहे बन्धनागारे तव विभोः कृपां विना का मोचिका भवति । न कापि मुक्तिदायिनीत्यर्थः । का कीदृशी । रामणीयकत्वेन रम्यत्वेन कृत इन्दुकराणां चन्द्रकिरणानामनुकारो येन स तथाविध आकारो यस्याः सा रामणीयककृतेन्दुकरानुकाराकारा । पुनः किंभूता । प्रथितोपकारा प्रथित उप- कारो यस्याः सा । पुनः किंभूता । क्षपितान्धकारा क्षपितोऽन्धकारो मोहतमोरूपो यया सा ॥ काशान्तचित्तधृतमुक्तिपथावकाशा- काशान्तवर्तिरविवत्प्रचुरप्रकाशा । काशावकीर्णखिलतुल्यकृतान्तकाशा का शाम्भवीं दृशमृते भृतसेवकाशा ॥ ४६ ॥ का कत्रीं भृतसेवकाशा भृता पूरिता सेवकानां शिवैकतानानामाशा अभिलाषो यया सा तादृशी भवति । कामृते । शांभवीं शंभुसंबन्धिनीं दृशं कृपादृष्टिं विना । का कीदृशी । का ईषत् शान्तं चित्तं मनो येषां ते काशान्तचित्ता तैर्धृतो मुक्तिपथस्याव- काशो यया सा । पुनः किंभूता । प्रचुरः प्रकाशो यस्याः सा । किंवत् । आकाशान्तव- र्तिरविवत् आकाशस्य नभसोऽन्ते वर्तते तादृशो यो रविः सूर्यस्तद्वत् । पुनः किंभूता । काशैस्तृणविशेषैरवकीर्णं च तत्खिलमनाहतमरण्यं तेन तुल्या कृता अन्तकाशा यमदि- ग्यया सा । यथारण्ये कञ्चिन्न प्रविशति तथा भगवद्दृक्पातेनान्तकदिशि न कोऽपीत्यर्थः । 'द्वे खिलाप्रहते समे' इत्यमरः ॥ कां तापतान्तिमुपयान्ति शुचौ न कान्ताः कान्तावलम्बितकराः स्खलितांशुकान्ताः । कान्ता हठाद्वनचरैर्मृदितालकान्ता कान्तारगास्त्वदनुरक्तनृपारिकान्ताः ॥ ४७ ॥ हे भगवान्, त्वदनुरक्तनृपारिकान्ता त्वयि विभावनुरक्ता वाङ्मनः कर्मभिस्त्वद्भावना- सक्ता ये नृपा राजानस्तेषां ये अरयः शत्रवस्तेषां कान्ता अङ्गनास्तापेन तान्तिर्ग्ला- निस्तापतान्तिः कां न तापतान्तिमुपयान्ति गच्छन्ति । कस्मिन् । शुचौ निदाघे । किंभूता । कान्तारगाः । 'कान्तारं दूरशून्योऽध्वा' इत्यमरः । कान्तारं मरुभूमिं गच्छ- न्तीति तादृश्यः । पुनः किंभूताः । कान्ता रमणीयाः । पुनः किंभूताः । कान्ता अभि- लषिताः । पुनः किंभूताः । कान्तैः पतिभिरवलम्बिताः करा यासां ताः । तथा स्ख- लितः कण्टकेषु लग्नोऽशुकान्तो वस्त्रप्रान्तो यासां ताः । तथा हठात्प्रसह्य वनचरैः किरा- तैर्मृदितोऽलकानामन्तो यासां ताः ॥ मायार्करश्मिपटलीव मरुक्षमाया- मायासमर्पयति मे दुरतिक्रमा या । मायाः पदं तव कृपात्र महातमाया- मायात्युषेव हि कदा कलितोत्तमायाः ॥ ४८ ॥ अनात्मन्यपि देहादावात्मज्ञानमविद्यापर्याया माया मे मम आयासं संसृतिजमर्प- यति । केव । मरुक्षमायां मरुभूमौ अर्कररिमपटलीव सूर्यकिरणततिरिव । का माया । या दुरतिक्रमा ब्रह्माद्यैरप्यलङ्घ्या। हे दयालो, अत्रास्यां मायामय्यां महातमायां म इत्तमस्विन्यां कदा तव दयालोः कृपा उषा इव प्रभातमिवायाति । हि निश्चये । तव कृपा किंभूता । माया लक्ष्म्याः पदं स्थानम् । पुनः किंभूता । कलितोत्तमायाः कलितः प्रसादीकृत उत्तमोऽयः शुभावहो विधिर्यया सा ॥ रामादिसेव्यभवभक्तिभृतोऽभिरामा- रामाश्रितौषधिरिव क्षतदुस्तरामा । रामा सतीव कृतसाधुविपद्विरामा रा मान्यमुज्झति न सद्म न चास्थिरा मा ॥ ४९ ॥ रामो रघुपतिरादौ येषां ते रामादयस्तैः सेव्यो यो भवः श्रीशिवभट्टारकस्तस्य भक्ति बिभर्तीति रामादिसेव्यभवभक्तिभृत् तस्य श्रीशिवैकतानस्य धन्यस्य पुंसः सद्म गृहं राः धनं कर्तृ न उज्झति । राः मान्यं इति पदच्छेदः । तथा श्रीशिवभक्तस्य सद्म मा ल क्ष्मीर्मोक्षलक्ष्मीश्च नोज्झति । मा कीदृशी । न अस्थिरा । स्थिरैवेत्यर्थः । द्वौ नञो प्र- कृतमेवार्थं सूचयतः । अत्र 'राया धनेन मान्यमिति सद्मविशेषणं यदन्यैष्टीकाकारै- र्व्याख्यातं तच्चिन्त्यम् । रैमान्यमिति भवेत् । न चास्थिरेत्यत्र चकारस्य वैयर्थ्यं च स्यात् । तस्मादस्मत्कृतैव व्याख्या श्रेयसी । मा लक्ष्मीः किंभूता । अभिरामा । पुनः की- दृशी । क्षतो दुस्तरो दुरुत्तरोऽमो रोगो भवरोगो यया सा । केव । ओषधिरिव । किंभूता ओषधिः । आराममाश्रिता । सापि क्षतदुस्तरामा भवति । पुनः किंभूता । कृतः साधूनां विपद्विरामो यया सा । केव । सती पतिव्रता रामेव । सापि सद्म नोज्झति ॥ वारांनिधेरिव सुधा तव दुर्निवारा वाराणसीव दृगघक्षयकृद्ध्रुवारा । वाराङ्गनेव पृतनेव च साश्ववारा वारानुवारमुदयत्युरुकूर्चवारा ॥ ५० ॥ हे भगवन्, तव दृक्प्रसाददृष्टिर्वारानुवारमुदयत्युल्लसति । निजभक्तजनं प्रतीत्यर्थः । केव । वारांनिधेः सुधेव पीयूषवृष्टिरिव । किंभूता दुर्निवारा । पुनः किंभूता । अघानां पातकानां क्षयकृत् । केव । वाराणसीनगरीव । सापि तादृशी । तथा ध्रुव आरो गमनं गतिर्यस्याः सा ध्रुवारा । 'ऋ गतौ' धातुः । वाराणसी पुर्यप्यवश्यगम्या । पुनः किंभूता । साश्ववारा पृतना सेना इव । किंभूता । उरूणि कूर्चवाराणि कवचानि यस्याः सा । सापि वारानुवारमुल्लसति । तथा केव । वाराङ्गनेव । सापि तादृशी भवति ॥ भद्राभिघे गज इवेशमक्लृप्तभद्रा भद्रासनेऽर्चितवतः कृतभालभद्रा । भद्रा सिता तिथिरिवेप्सितदा विभद्रा भद्रा तनुर्गुणविडम्बितरामभद्रा ॥ ११ ॥ भद्राभिधे भद्रनामनि गजे करिणीव । 'भद्रो म़न्दो मृगश्चेति संकीर्णश्चेति जातयः । करिणां-' । भद्रासने भद्रपीठे ईशं परमेश्वरमर्चितवतः पूजितवतः पुरुषस्य भद्रा कल्या णदायिनी तनुर्मूर्तिर्विभद्रा विशेषेण भद्रा मेलापिजनमोहहरा भवति । किंभूता । अक्लृप्त- भद्रा न कॢप्तानि च्छेदितानि भद्राणि यया सा । कल्याणवर्धिन्येवेत्यर्थः । कृषिधातु- श्छेदनार्थोऽपि । पुनः कीदृशी । ईप्सितदा अभिलाषितप्रदा । केव । सिता शुक्लपक्षसंब- न्धिनी भद्रा तिथिर्द्वितीया सप्तमी द्वादशीतिथिरिव । पुनः किंभूता । गुणैर्विडम्बित उपमितो रामभद्रो दाशरथिर्यया सा । पुनः किंभूता । कृता भाले ललाटे भद्रा चन्द- नेन कृता रेखा यया सा कृतभालभद्रा । भद्रा इति देश्याम् ॥ नागाधमाप तव हृन्मम धीरनागा नागालयं सुरपुरीव सकाञ्चनागा । नागात्परत्र च सृजन्त्यकदर्थना गा नागाश्रितेन्द्रदिगिवोन्नतनन्दनागा ॥ १२ ॥ हे भगवन्, मम धीर्बुद्धिरगाधं तव हृत् हृदयं नाप न प्राप। किंभूता धीः । अनागाः न विद्यमानमागोऽपराधो यस्याः सा तादृश्यपि । केव। सुरपुरीव अमरावतीव नागालयम् यथा सुरपुरी नागालयं पातालं न प्राप्नोति । किंभूता सुरपुरी । सकाञ्चनागा सह काश्चनागेन मेरुणा वर्तते या । सा च मम धीः अकदर्थना अनिन्द्या गाः वाचः सृजन्ती उत्पादयन्ती परत्र परमेश्वरस्तुतिरसादन्यत्र नागात् न गता । केव । इन्द्रादिगिव । यथा सा परत्र (पश्चिमे) न गच्छति । । सापि किंभूता । नागाश्रिता ना- गेन हस्तिमल्लेनाश्रिता । तथा उन्नता नन्दने नन्दनोद्याने अगा वृक्षा यस्यां सा ॥ सारासहापि मम धीस्त्वयि मन्दसारा साराधना विहितमोहतमोपसारा । सारावकोकिलवचः समसूक्तिसारा सारावलीव गुरुंतापकृतापसारा ॥ १३ ॥ हे भगवन्, मम मन्दमतेर्धीर्बुद्धिस्त्वयि विभौ विषये मन्दसारा मन्दः सारो गमनं यस्याः सा तादृशी भवति । किंभूता । सारासहा सारमुचितमुत्कृष्टं न सहते सारा- सहा । अनुचितमार्गगेत्यर्थः । पुनः किंभूता । सह आराधनेन वर्तते या साराधना । अत्र हेतुः— किंभूता । विहितो मोहनिशायामविद्यारूपनिशायामभिसारो यया । पुनः की- दृशी । सह आरावेण कुहू इति शब्देन वर्तन्ते तादृशा ये कोकिलास्तेषां वचसा समः सूक्तिसार उत्कृष्टकाव्यं यस्याः सा । पुनः किंभूता। गुरोर्महतस्तापस्य त्रिविधस्य कृतोऽपसारो निःशेषीकरणं यया सा। केव। सारावलीव सारावली औषधिरिव ज्वर- तापहारिका ॥ सामात्यभूपसदसीक्षितसूक्तिसामा सामाजिकाहितनुतिः कृतसेर्ष्यसामा । सामान्यवर्त्म न ययाश्रयमोजसा मा सा मान्यता त्वयि विभो मुचदञ्जसा मा ॥ ५४॥ हे विभो, यया मान्यतया अहं सामान्यवर्त्म कर्मभूतं ओजसा करणभूतेन न आ- श्रयम् । क्रियापदमेतत् । सा मान्यता पूज्यता त्वयि विभोर्विषये मा मां कर्मभूतं मा मुचत् । यथा त्वमेव जगदीशो मम मान्यस्तथा भूयादित्यर्थः । किंभूता मान्यता । ई- क्षितानि सूक्तयः प्रौढोक्तय एव सामानि यया सा । कुत्र । सामात्या अमात्यैः सहिता ये भूपा राजानस्तेषां सदसि । पुनः कीदृशी । सामाजिकै: सभ्यैराहिता कृता नुति- र्यस्यां सा । तथा कृतं सेर्ष्यैरपि साम यस्याः सा ॥ धारा गिरेरिव तरीव सकर्णधारा- धारार्पणी तव दृगूषरवर्षधारा । धारापुरीव सुखदा दुरितासिधारा धारा परार्तिहरणे हतषड्विधारा ॥ ५५ ॥ हे विभो, तव दृक् अनुग्रहदृक् सुखदा भवति । किंभूता। आधारार्पणी आधार- मर्पयति तादृशी । केव । गिरेः पर्वतस्य धारा सानुभूरिव । पुनः किंभूता । सकर्णधारा सह कर्णधारया वर्तते या सा । कर्णान्तव्यापिनीत्यर्थः । केव । तरीव नौरिव । सापि सह कर्णधारेण वर्तते या सा तादृशी भवति । 'कर्णधारस्तु नाविकः' इत्यमरः । पुनस्तव दृक् किंभूता । ऊषरे वर्षधारा । तथा सुखदा महानन्दप्रदा । केव । धारापुरीव । तथा दुरितानां प्रागर्जितानां पातकानामसिधारा खड्गधारा ।तथा परेषामार्तिहरणे धारा परा- काष्ठैव । यद्वा आर्तिहरणे परा उत्कृष्टा धारा । पुनः किंभूता। हतषड्विधारा अरीणा- मान्तराणां षण्णां कामक्रोधादीनां समूह आरं हतं षड्विधमारं यया सा ॥ कालायसोपमरुचिर्गलभूः सुकाला कालाग्निवदृगपि ते क्षणदग्धकाला । काला यथोक्तिरमृदुः क्षतसेवकाला का लाभकृन्मम विनाभिरनन्तकाला ॥ १६ ॥ हे विभो, कालायसं कृष्णायसं तदुपमा रुचिर्यस्याः सा तादृशी ते तव गलभूः कण्ठ- स्थानं सुकाला सुष्टु काला श्यामला भवति । तथा ते तव विभोर्दृगपि कालाग्निरुद्रव- त्क्षणं दग्धः कालो यया सा तादृशी भवति । तथा काला कालानाम्नी देवी यथा अमृ- दुर्विकराला तथा ते उक्तिरमृदुरपि क्षतसेवकाला भवति क्षता सेवकानामाला अपवादो यया सा तादृशी भवति । आला इति देशीपदम् । हे भगवन्, आभिर्भवत्कण्ठभूभव- दॄग्भवदुक्तिभिर्विना कान्या मम लाभकृत् । न कापीत्यर्थः । का कीदृशी । अनन्तकाला अविद्यमान अन्तकालो यस्याः सा ॥ मुक्तार्पितस्वपदपूर्णकृपाविमुक्ता मुक्तार्चनादिरतिनार्किभयाद्विमुक्ता । मुक्तावलीव विमला त्वयि गीरमुक्ता मुक्तान्यमार्गगमनेन मयेयमुक्ता ॥ ५७ ॥ हे भगवन्, मुक्तमन्यमार्गगमनं येन स तादृशस्तेन । तथा मुक्ताभिः शुक्त्युद्भवामि . र्यदर्चनं पूजनं यथाशक्ति तदादौ रतिर्यस्य स तादृशस्तेन मया वराकेणाशरणेन अर्कस्या- पत्यमार्किर्यमस्तस्य भयात्रासाद्धेतोरियं गीर्दीनोक्तिः उक्ता भवतः स्वामिनोऽग्रे क्षिप्ता च । किंभूता । मुक्तेभ्यो मोक्षपदवीं प्राप्तेभ्योऽर्पितं यत्स्वपदं निजसायुज्यं तदेव पूर्णकृपा तया अविमुक्ता अविरहिता । पुनः किंभूता । अमुक्ता अनल्पा । तथा विमला निर्दोषा स्वच्छा । केव । मुक्तावलीव मुक्तालतेव ॥ कल्पाह्ववल्लिरिव धौतविपद्विकल्पा- कल्पाञ्चिता कृतनुतिर्भवतीन्दुकल्पा । कल्पाख्यसूत्रविदुरागमदृष्टकल्पा- कल्पाक्षयास्तु मम गीरमृतानुकल्पा ॥ १८ ॥ इयं मम गीर्वाणी आकल्पाक्षया कल्पो ब्राह्मं दिनं कल्पात् आ आकल्पं अक्षया निर्विनाशा अस्तु । किंभूता । कृतनुतिः कृता नुतिः श्रीशंभुस्तुतिर्यया सा । पुनः किं- भूता । धौतो निराकृतो विपदो जन्मजरामरणत्रासोत्पन्नाया आपदो विकल्पो यया सा । पुनः किंभूता । आकल्पाञ्चिता आकल्पैरलंकारैः शब्दालंकारैर्वक्रोक्तिश्लेषादि- भिरर्थालंकारैरुपमादिभिश्चाञ्चिता शोभिता । पुनः कीदृशी । इन्दुकल्पा चन्द्रतुल्या अ तिनिर्मलत्वात्संतापहृत्त्वाच्च । तथा कल्पो वेदाङ्गं कल्पाख्यानि यानि सूत्राणि तेषां विदुरा वेत्तीति विदुरा । तथा आगमेषु श्रीशैवादिशास्त्रेषु दृष्ट: कल्पः शास्त्रविधिर्यया सा । तथा अमृतानुकल्पा । शिवैकतानानां जनानाममृतवर्षिणीत्यर्थः ॥ सहसार्क इवास्मि कृतः सहसासहसारभृदात्मभुवा सहसा । सह सायकमस्यति या सहसा सहसाध्वसमेत्यपि दुःसहसा ॥ १९ ॥ हे विभो, आत्मभुवा कामेन अस्मि अहं सहसा त्वरितं सहसा बलेन असहसारभृत् अक्षमबलधारी कृतोऽस्मि । केन क इव । सहसा मार्गशीर्षेण अर्क इव । यथा तेन सोऽपि तादृशः क्रियते । सहसेत्यादि । ह कष्टे । स आत्मभूः काम: सायकं शरमस्यति क्षि- पति । मां प्रतीति शेषः । तं सायकं कम् । या स्त्री सेति । संमुखमागच्छति मामिति शेषः । कथम् । सह साध्वसेन भयेन यथा तथा । सभयमपीत्यर्थः । या कीदृशी । सहसा सह हसेन हासेन वर्तते या सा सहसा । पुनः किंभूता । दुःसहसा दुःखेन सह्यन्ते दुःसहा अविषह्यवीर्यास्तान्स्यति हिनस्ति दुःसहसा । स्त्रीरूपं शरमस्यतीत्यर्थः । 'षोऽन्तकर्मणि' धातुः । अतोऽस्मात्कामवेगान्मां दीनं पाहीत्यर्थः । अत्र वृत्ते उत्तरार्धे स इति, ह इति, सायकमिति, अस्यति इति पदच्छेदः ॥ जनयाशुचमार्तसभाजनयाजनयाचनरञ्जनवेजनया । जनयामलखिन्नमखञ्जनयाज नयामृतमात्मनियोजनया ॥ ६० ॥ अत्र जनयेति, अशुचमिति, आर्तमिति, अभाजनयाजनयाचनरञ्जनवेजनयेति, जन- यामलखिन्नमिति, अखञ्जनय इति, अज इति, नयेति, अमृतमिति, आत्मनीति, योजन- येति पदच्छेदः । हे अज अनादे, हे अखञ्जनय अविकलनीते, त्वमभाजनानामपात्रा- णामयोग्यानां याजनेन याचनेन रञ्जनेन च या वेजना उद्वेजनं तया अभाजनयाजनया- चनरञ्जनवेजनया आर्तमर्थान्मामेव अशुचं निर्दुःखं जनय संपादय । अविद्यमाना शुग्यस्य सोऽशुक् तम् । तथा मामेव जनयामलखिन्नं यमलभावो यामलं समूहस्तेन खिन्नं भर्तव्यज नमेलापक्लिष्टं मां दीनममृतं नय मोक्षं प्रापय । कया । आत्मनियोजनया निजसायुज्येन ॥ शमनाय शुचां त्वमुमेश मनाक् शमनार्तिकरः कृतभीशम ना । शमनामय देहि विपाशमनाशमनाथजनप्रथिताशमनाः ॥ ६१ ॥ अत्र शमनाय इति, शुचां इति, त्वं इति, उमेश इति, मनाक् इति शमनार्तिकर इति, कृतभीशम इति, ना इति, शं इति, अनामय इति, देहि इति, विपाशं इति, अ- नाशं इति, अनाथजनप्रथिताशमनाः इति पदच्छेदः । हे उमेश पार्वतीप्राणनाथ, हे कृतभीशम । कृतो भियो भक्तजनसंबन्धिन्याः शमो येन तस्य संबोधनम् । हे अना मय षडूर्मिरहित, मनागीषत् अनायासेन शमनस्य यमस्यार्ति पीडां करोतीति शमना- र्तिकर, त्वं शुचां भक्तजनदुःखानां शमनाय निवारणाय ना पुरुषो भवसि । नृशब्दः । निजभक्तजनार्तिवारणे तवाखण्डितं पौरुषमित्यर्थः । हे विभो, विपाशं पञ्चकलारूपेणा- वरणं पाशः स विगतो यस्मात्तत् । तथा अनाशमक्षयं शं कैवल्यं मे देहि । त्वं किं- भूतः । अनाथानामशरणानां जनानां प्रथिता । विस्तीर्णा इति यावत् । आशा मनो- रथा येन तत्तादृशं मनश्चित्तं यस्य स तादृशः अनाथजनप्रथिताशमनाः ॥ मधुनाशिनार्चित समं मधुना मधुनामपुष्पजनुषा मधुना । मधुनालसामिव वधूमधुनामधुना प्लुतां त्वयि गिरं मधुना ॥ ६२ ॥ अत्र मधुनाशिना इति, अर्चित इति, समं इति, मधुना इति, मधुनामपुष्पजनुषा इति, मधुना इति, मधुना इति, अलसां इति, इव इति, वधूं इति, अधुनां इति, अ- धुना इति, प्लुतां इति, त्वयि इति, गिरं इति, मधुना इति पदच्छेदः । हे मधुनाशि- नार्चित मधुनामदानववैरिणा विष्णुना अर्चित पूजित, केन समम् । मधुनामपुष्पं म- धूकं 'मधुकेऽपि मधु स्मृतम्' इत्युक्तदिशा मधुनामानि मधूकाख्यानि यानि पुष्पाणि तेभ्यो जनुर्जन्म यस्य तत्तादृशेन मधुनामपुष्पजनुषा मधुना किंजल्केन कारणभूतेन म धुना वसन्तेन समं अर्चित मधूकपुष्पोद्भवेन किंजल्केन करणेन वसन्तेनाप्यर्चित । मधूना प्लुतामिति मधुना क्षौद्रेण प्लुताम् । मधुमधुरामित्यर्थः । गिरं वाणीं त्वयि विषये अधुनां अकम्पयम् । 'धूञ् कम्पने' धातुः । सुप्तामिव बोधितवानस्मीत्यर्थः । कामिव । मधुनालसा मधुना मद्येनालसां मन्दसौष्ठवां वधूमिव । यथा कश्चिद्वधूं धुनोति तथा ॥ वसु धान्यमुज्झितुमपीवसु धावसुधासितच्छवियशोवसुधा । वसुधातृवन्द्य यदसावसुधा वसुधाम दृक्तव नवेव सुधा ॥ ६३ ॥ अत्र वसु इति, धान्यं इति, उज्झितुं इति, अपीवसु इति, धाव इति, सुधासित- च्छवियशोवसुधा इति, वसुधातृवन्द्य इति, यत् इति, असौ इति, असुधा इति, वसु- धाम इति, दृगिति, तव इति, नवा इति इव इति, सुधा इति पदच्छेदः । हे वसुधा- तृवन्द्य । वसवोऽष्टौ देवयोनयः तथा धातारः स्रष्टारो मुनयश्च तैर्वन्द्य हे विभो, अपीवसु न पीवानो धनधान्यादिसमृद्ध्या स्थूलास्तेषु कृशेषु जनेषु वसु धनं धान्यं च उज्झितुं त्यक्तम् । दातुमित्यर्थः । तेषु धनं धान्यं दातुं धाव वेगेन गच्छ। शीघ्रमेव गत्वा देही- त्यर्थः । त्वं कः । आरोपेण योजना - सुधासितच्छवियशोवसुधा सुधावत्सिता छवि- र्यस्य ईदृशं यद्यशस्तस्य वसुधा भू: आस्पदम् । अमृतच्छविय- शोभूमिस्त्वमित्यर्थः । तत्कुत इत्याह – यद्यस्मात्कारणात्तव विभोर्दृक् असुधा असून्प्राणान्धत्ते ददाति अ- सुधा भवति । 'डुधाञ् दानधारणयोः' धातुः । दृक् केव । नवा नूतना सुधेव ।दृक् किंभूता । वसुनस्तेजसः सूर्येन्द्रग्निरूपस्य धाम स्थानम् ॥ समयासिषुः क्व न विकासमया समयापतिं जगति यं समया । समया भवन्ति च विलासमया स मया गिरार्च्यत सुधामया ॥ ६४ ॥ समयासिषुः इति, क्व इति, न इति, विकासं इति, अया इति, समयापतिं इति, जगति इति, यं इति, समया इति, समया इति, भवन्ति इति, च इति, विलासमया इति, स इति, मया इति, गिरा इति, अर्च्यत इति, सुधासमया इति पदच्छेदः । स विभुः परमेश्वरः सुघासमया अमृततुल्यया गिरा वाण्या मया वराकेण अर्च्यत अस्तूयत । स क इत्याह । समयाशब्दोऽव्ययम् । समयाया देव्याः पतिस्त्वम् । समया देवी हीनातिरिक्तहोमार्चन- विधिपूरणार्थे यज्ञान्ते तर्पणीयेत्यागमप्रसिद्धा । यं समयापतिं श्रीशंभुं समया निकट- स्थितस्य भक्तिप्रह्वजनस्य अयाः शुभावहा विधयो जगति भूमण्डले क्व न विकासं विस्तारमयासिषुरगच्छन् । अपि तु सर्वत्र । तथा समयापतेर्यस्य देवस्य निकटे स्थि- तानां नतजनानां विलासमया विलासप्रचुराः समया अवसरा भवन्ति ॥ कलिकालताम्यदमृतोत्कलिका कलिकातरे हृदि नवोत्कलिका । कलिका स्रजीव जितशाकलिकाकलि कान्तिभृच्च मुकुटे कलिका ॥६५ ॥ हे भगवन्, कलिका भवदिच्छोत्पन्नजनकलहेन कातरे सकृपे तव हृदि उत्कलिका उत्कण्ठा कलिकालताम्यदमृतोत्कलिका अकलि आकलिता जनेन । कलिकाले ता- म्यतां ग्लायतां जनानाममृतोत्कलिका पीयूषलहरी ज्ञातेत्यर्थः । तथा हे जितशाक- लिक । शकलैर्मत्स्यैर्जीवन्ति शाकलिका मत्स्यघातिनः जिताः शाकलिका अर्जुनप्रम- दार्थं किरातरूपेण भवता येन स तस्य संबोधनं हे जितशांकलिक श्रीशंभो, कान्ति- भृत् ज्योत्स्नाधारिणी कलिका कलैव कलिका इन्दुलेखा तव मुकुटे स्रजि मालायां कलिका सूक्ष्मकुड्मलमिवाकलि ज्ञाता ॥ कलयाश्रितं विरुजमेकल्या कलया विधोर्दलितपाकलया । कलया गिरा च सकलाकल या कलया विना विहितशोकलया ॥६६॥ हे भगवन्, सकलाकल । सकल: 'त्रिपञ्चनयनं देवं जटामुकुटमण्डितम्' इति ध्यानेन ध्येयरूपः स्वच्छन्दभैरवः । अकलो निष्कलः अद्वैतरूपो निरञ्जनो भगवान् । तस्य संबोधनम् । एकलया एकया स्वार्थे लः । एकैव एकला तया विधोचन्द्रस्य क लया त्वं आश्रितं प्रपन्नं मां विरुजं विगता रुग्भवामयो यस्य स तादृशं कलय कुरु । नीरोगं कुर्वित्यर्थः । कलया किंभूतया । दलितपाकलया। यद्यपि पाकलो हस्तिज्वर एवायुर्वेदे प्रसिद्धस्तथापि कविभिः सामान्यज्वरेऽपि प्रयुक्तः । दलितः पाकलो ज्वरो जन्मजरादिरूपो यया सा तादृश्या । तथा हे सकलाकल भगवन्, तथा कलया मधु- रया गिरा च मां विरुजं नीरोगं कलय कुरु । तया गिरा कयेत्याह - या गीः कलया व्याजेन विना विहितः कृतः शोकस्य भक्तजनदुःखस्य लयो नाशो यया सा तादृशी भवति ॥ परमारकान्तककृतोपरमापरमानतं तव दृशाप रमा । परमार्थसद्गुणपरम्पर मा परमार्तमुज्झ करुणापर मा ॥ ६७ ॥ अत्र परमारकान्तककृतोपरम इति, अपरं इति, आनतं इति, तव इति, दृशा इति, आप इति, रमा इति, परमार्थसद्गुणपरम्पर इति, मा इति, परमार्ते इति, उज्झ इति, करुणापर इति, मा इति पदच्छेदः । परं मारकश्चासावन्तको यमस्तस्य कृत उपरमो विनाशो येन स परमारकान्तक कृतोपरमस्तस्य संबोधनं हे परमारकान्तक कृतो- परम । तथा हे परमार्थसद्गुणपरम्पर । परमार्थतः सती शोभना गुणपरम्परा यस्य तस्य संबोधनम् । तव दृशा रमा लक्ष्मीरपरमन्यमानतं जनं आप प्राप । हे करुणापर विभो, त्वं मा मां कर्मभूतं मा उज्झ मा त्यज । किंभूतम् । परमत्यर्थमार्तम् ॥ कलकलकलकलकण्ठवदस्मानव नवनवनवरोचितवाचः । भव भव भवभवभीतिभिदस्यन्मदमदमदमदनान्तक दूरम् ॥ ६८ ॥ कलो मधुरः कलकलः कोलाहलो येषां ते तादृशा ये कलकण्ठाः कोकिलास्तद्वत् नवनवनवरोचितवाचः नवं नूतनं च तन्नवनं स्तुतिभूमिरूपं तेन वरा उत्कृष्टा उचिता वाग्येषां ते तादृशास्तान् नवनवनवरोचितवाचः अस्मानव रक्ष । 'अव रक्षणे' धातुः । हे भव, हे अदमदमनान्तक । न दमं शमं ददातीत्यदमदस्तादृशो यो मदनः कामस्त- स्यान्तको यमस्तत्संबोधनम् । त्वमस्मानव । किं कुर्वन् । मदमहंकारमान्तरं रिपुं अ र्थाद्भक्तजनस्य अस्यन्दूरीकुर्वन् । कथम् । दूरम् । भवभवभीतिभित् भवात्संसाराद्भव उत्पत्तिर्यस्याः सा भवभवा तादृशी या भीतिस्तां भिनत्तीति तादृक् त्वं भव । भवेति लोट्मध्यमपुरुषैकवचनान्तं क्रियापदम् ॥ अस्य पाठान्तरम् अविकलकल कलकलकलकण्ठं दिश नवनवनवनवन वरवचः[^१] । सविभव भव भव भवभवभयभिद्धर मदमदमदमदमदयमिमम्[^२] ॥ ६९ ॥ हे अविकलकल । अविकलाः पूर्णाः कला ब्रह्मादिसदाशिवान्तः पञ्च यस्य स तादृ- शस्तत्संबोधनम् । सकलभट्टारक । हे नवनवनवनवन अतिशयेन नवानि नवनवानि अनुच्छिष्टानि नवानां स्तवानां नवनानि (स्तवनानां वनानि) यस्य स तस्य संबोधनम् । त्वं वरवचः उत्कृष्टमभयदानवचनं दिश देहि । अर्थान्मादृशजनायेत्यर्थः । किंभूतं वचः । कलकलकलकण्ठं कलकलेन कलो मधुरः कण्ठः कण्ठस्वरो यस्मिंस्तत् । हे सविभव स्वतन्त्रमहैश्वर्ययुत, हे भव, त्वं भवात्संसाराद्भव उत्पत्तिर्यस्य तादृशं यद्भयं तद्भिनत्तीति भवभवभयभित् भव । अर्थादस्माकम् । हे विभो, अदयं निर्दयं मदमहंकारमान्तरं रिपुं हर दूरीकुरु । किंभूतं मदम् । अदमोऽनिवार्यो यो दमः शान्तिस्वरूपस्तं द्यति खण्डय तीत्यदमदमदस्तादृशम् । 'दो अवखण्डने' धातुः ॥ [^१]. 'इमम्' ख. [^२]. 'अयम्' ख. देव्यां भ्रमद्भ्रुवि जयाविजयार्चितायां सक्ता तवास्तविजया विजयाय दृष्टिः । वृष्ट्येव भूर्दिविजया विजयाख्यया ते मूर्त्या [^१]त्रसद्रविजयावि जयाह्वया च ॥ ७० ॥ अत्र देव्यां इति, भ्रमद्भ्रुवि इति, जयाविजयाचिंतायां इति, सक्ता इति, तव इति, अस्तविजया इति, विजयाय इति, दृष्टिः इति, वृष्ट्या इति, इव इति, भूः इति, दिविजया इति, विजयाख्यया इति, ते इति, मूर्त्या इति, त्रसद्रविजया इति, आवि इति, जयाह्वया इति च इति पदच्छेदः । हे भगवन् अस्तः क्षिप्तः । दत्त इत्यर्थः । विजयो विशिष्टो जयो यया सा अस्तविजया । कस्मै । विजयायार्जुनाय पार्थाय दत्तविजया । जया पार्वतीसखी विजया च देवी ताभ्यामर्चिता पूजिता तादृश्याम् । तथा भ्रमद्भ्रुवि भ्रूविलासशीलायां देव्यां पार्वत्यां ते तव दृष्टिः सक्ता । त्रिजगदधीशस्य भवतो निजपितुराश्रमेषु विहितातिकठिनतपसि पार्वत्यां तव दृक् सक्तेत्यर्थः । अधुना निजभक्तजनानुद्धर्तुं विहितनिजदेशकाश्मीरस्थितिश्रीविजयेश्वरं स्तौति कविः -वृष्ट्येवेत्यादि । तथा हे विभो, ते तव संबन्धिन्या विजयाख्यया विजयेश्वरसंज्ञया काश्मीरदेशेऽतिप्रसिद्धया तथा जयाह्वया च जय इत्याह्वा यस्याः सा जयाह्वा तया जयेश्वरा- भिधया मूर्त्या स्वयंभूलिङ्गद्वयरूपया आकृत्या भूः पृथ्वी आवि रक्षिता । 'अव रक्षणे' धातुः । कैवल्यपदप्रदानेनेत्यर्थः । कयेव इव । दिविजया वृष्ट्या इव । कीदृश्या मूर्त्या । त्रसद्रविजया त्रसन् रविजो यमो यस्यास्तादृश्या ॥ शिवैकतानान्भक्तजनान्प्रति कविः साशीर्वादं वक्ति हरमुपेत रसादमलं घनं दमलङ्घनं तनुत मा कृतिनः । तनुतमाकृति नः श्रयतादृतं श्रयतादृतं भवत इत्युदितम् ॥ ७९ ॥ अत्र हरं इति, उपेत इति, रसात् इति, अमलं इति, घनं इति, दमलङ्घनं इति, त नुत इति, मा इति, कृतिनः इति तनुतमाकृति इति, नः इति, श्रयत इति, आदृतं इति श्रयतात् इति, ऋतं इति, भवतः इति, इति इति, उदितं इति पदच्छेदः । हे कृतिनः, इत्यनेन प्रकारेण तनुतमा अत्यल्पा आकृतिर्यस्य वचनस्य तत्तनुतमाकृति अ तिसंक्षिप्तं श्रयत आश्रयत । शृणुतेत्यर्थः । जनेनादृतमभिनन्दितम् । ऋतं सत्यम् । नोऽस्मा- कमुदितं वचनम् । 'वद व्यक्तायां वाचि' धातुः । 'नपुंसके भावे क्तः' । नोऽस्माकं व चनं भवतः कर्मभूतान् श्रयतात् । भवदीयमनस्यत्यन्तलीनमस्स्वित्यर्थः । इति किमि- त्याह - हरमिति । हे कृतिनः धन्या जनाः, घनमत्यर्थममलं निर्मलं हरं भवामयहरं श्री- शंभुं रसात्तदेकचित्ततया उपेत श्रयत । तथा हे कृतिनः, दमस्योपशमस्य लङ्घनं दमल- ङ्घनं मा तनुत मा कुरुत । इति संक्षिप्तमस्माकं वच इत्यर्थः ॥ [^१]. 'भ्रमत्' ख. पुनरपि तान्प्रति वक्ति कविः शमितसंगमसज्जनतापदंशमितसङ्गमसज्जनतापदम् । नमतकाममहीनविभासितं नमत काममहीनविभासितम् ॥ ७२ ॥ हे कृतिनः, कामं निश्चये । यूयं नमत कामम् । अत्र नञ्समासः । न मतः न इष्टः न मानितः कामो येन स तं नमतकामं श्रीशंभुं नमत प्रणमत । किंभूतम् । अहीनविभा सितं अहीनैर्नागेन्द्रैर्वासुक्यादिभिर्विभासितं शोभितम् । तथा अहीना पूर्णा चासौ विभा दीप्तिस्तया सितस्तादृशम् । पुनः किंभूतम् । (शमितसङ्गं शमितः सङ्गः कामक्रोधादिभिः सह येन स तादृशम् । तथा) संगमे श्रीशिवैकतानानां सङ्गे सज्जास्तद्युक्ता ये नता भक्तिप्रह्वास्तेषामापत् भवज्वरजा तस्या अंशः शमित: संगमसज्जनतापदंशो येन स तादृशस्तं शमितसंगमसज्जनतापदंशम् । पुनः किंभूतम् । असज्जनानां दुष्टाशयानां तापं संतापं ददाति तादृशस्तम् । कथम् । इतसङ्गं निर्निरोधम् । क्रियाविशेषणमेतत् । इतः सङ्गो यत्र तत् । तथा यद्वा शमिता संगमसज्जानां नतानां भक्तिप्रहाणामापद्विपद्येन स तादृशम् ॥ पुनरपि भक्तजनमुपदिशति कविः कलितमोहनमारवराजितं स्मर हरं शिखिचन्द्रकलाञ्छितम् । कलितमोहनमारवराजितं स्मरहरं शिखिचन्द्रकलाञ्छितम् ॥ ७३ ॥ त्वं हरं श्रीशंभुं स्मर । किंभूतम् । कलिस्तुरीययुगं कलहो वा तमो मोहान्धका- रश्च तद्धन्तीति तादृशं कलितमोहनम् । तथा आरवेण भक्तजनं प्रत्यभयदानशब्देन राजितस्तम् । पुन किंभूतम् । शिखी अग्निश्चन्द्रकला च ताभ्यामाञ्छितोऽङ्कितस्तम् । पुनः किंभूतम् । कलितमोहनमारवराजितं कलितं मोहनं रमणं येन स तादृशो मार- वरः काममहावीरस्तेनाजितस्तम् । पुनः किंभूतम् । स्मरहरं स्मरं हरति निःशेषीक- रोति तादृशम् । पुनः किंभूतम् । शिखिनां मयूराणां चन्द्रकैर्लाञ्छितः शोभितस्तम् । अर्जुनप्रसादार्थं किरातवेषधारित्वान्मयूरपिच्छलाञ्छितम् ॥ असौ हृदन्तर्हितमोहरोधने सदा यते रक्ष यशो भियो जय । असौहृदं तर्हि तमोहरो धने सदायतेरक्षयशोभि योजय ॥ ७४ ॥ अत्र असौ इति, हृदन्तर्हितमोहरोधने इति, सदा इति, यते इति, रक्ष इति, यशः इति, भियः इति, जय इति, असौहृदं इति, तर्हि इति, तमोहरः इति, धने इति, सदायतेः इति, अक्षयशोभि इति, योजय इति पदच्छेदः । हे भगवन्दयालो, हृदि अन्तर्हितोऽभ्यन्तरविलीनश्चासौ मोहोऽज्ञानं तस्य रोधनेऽप्रसरणेऽहं सदा यते प्रयत्नं करोमि । 'यती प्रयत्ने' धातुः । परं त्वं यशो मम रक्ष । यथा संयतचित्तानां मध्ये यशो लभ्यते तथा कुर्वित्यर्थः । तथा भियो भीतयो जन्मजरामरणजाः अर्थान्मदीया जय । असौहृदमिति । हे भगवन्, तर्हि सदायतेः सती आयतिरागामिकालो यस्य तस्य सदायतेरर्थान्मम धने असौहृदममेलापं योजय । किंभूतः । तमोहरः अज्ञानरूपान्धकारहर्ता । असौहृदं किंभूतम् । अक्षयशोभि अक्षयं अत एव शोभि शोभनं च तादृशम् ॥ भक्तजनानुद्दिश्य वक्ति सकलशं सकपालमलंकृतप्रमदमस्थिरसं मदनाशनम् । भवमदभ्रमहानिधने हितं शमनमज्जनमानमतालयम् ॥ ७९ ॥ सकलशंसकपालमलं कृतप्रमदमस्थिरसंमदनाशनम् । भवमदभ्रमहानिधनेहितं शमनमज्जनमानमतालयम् ॥ ७६ ॥ (युग्मम्) अत्र सकलशं इति, सकपालं इति, अलंकृतप्रमदं इति, अस्थिरसं इति, मदनाशनम् इति, भवं इति, अदभ्रमहानिधने इति, हितं इति, शमनमजनं इति, आनमत इति, अल- यम् इति, सकलशंसकपालं इति, अलं इति, कृतप्रमदं इति, अस्थिरसंमदनाशनम् इति, भवमदभ्रमहानिधनेहितं इति, शमनमज्जनमानमतालयम् इति पदच्छेदः । यूयं भवं श्री- शंभुमानमत प्रणमत । किंभूतम् । सकलशं सह कलशेन सुधाकलशेन वर्तते यः स तादृशम् । तथा सकपालम् । तथा अलंकृता देहार्धदानेन प्रमदा पार्वती येन स तादृशम् । तथा अ अस्थिमालायां रसो यस्य स तादृशम् । तथा मदनमश्नातीति मदनाशनस्तादृशम् । तथा अदभ्रं घनं यत् महत् अनिधनं अविनाशित्वं निजभक्तजनदेयं तत्र हितम् । तथा शमनम- ज्जनं शमनं यमं मज्जयति अतितर्जनेन श्वेतनृपंपालनार्थम् । तथा अलयं निर्विनाशम् ॥ सकलेत्यादि । पुनः किंभूतम् । सकलशंसकपालं सकला ये शंसकाः स्तुतिकृतस्तान्पाल- यति तादृशम् । तथा अलमत्यर्थे कृतः प्रमदः परमानन्दो येन स तादृशम् । तथा अ स्थिर संमदनाशनं अस्थिरसंमदा अल्पसंतोषा ये जनास्तान्नाशयति यस्तादृशम् । तथा भवे संसारे यो मदस्तेन यो भ्रमस्तस्य हानिः सैव धनं येषां ते संसारभ्रमविरक्तास्तैरो- हितोऽभिलषितस्तम् । तथा शमेन उपशमेन नमन्तः सविनया ये जनास्तेषां मानार्थं म- तोऽङ्गीकृत आलयः प्रतिदेहस्थितिरूपो येन स तादृशम् ॥ युग्मम् ॥ तनुशङ्करवैरसमायतयातनु शंकर वै रस मायतया । तनु शं करवै रसमायतयातनुशं कर वैरसमायतया ॥ ७७ ॥ अत्र तनुशङ्करवैः इति, असमायतया इति, अतनु इति, शंकर इति, वै इति, रस इति, मा इति, अयतया इति, तनु इति, शं इति, करवै इति, रसं इति, आयतया इति, अतनुशं इति, कर इति, वैरसमायतया इति पदच्छेदः । वै प्रसिद्धौ । हे शंकर कैवल्यप्रद, त्वं मा मां कर्मभूतं रस संभाव (ष) य । मां प्रति स्ववचोमृतं मुञ्चेत्यर्थः । कैः । अतनु अनल्पं कृत्वा ये तनुशङ्का निःशङ्का रवा आश्रितजनं प्रति अभयदानवच- नानि तैरतनुशङ्करवैः । मा कीदृशम् । उपलक्षितम् । कया। असमायतया असमोऽनन्य- सदृशोऽयः शुभावहो विधिर्यस्य सः असमायः तस्य भावस्तत्ता तया । किंभूतया । आ- यतया अनियतया । तनुशमित्यादि । हे विभो, त्वं शं कैवल्यरूपं तनु विस्तारय । अहं रसं भक्तिरसं करवै करोमि । अर्थात्त्वय्येव स्वामिनि । त्वं मा मां कर्मभूतं अतनुशं अतनुः कामस्तं श्यति तनूकरोतीत्यतनुशस्तादृशं कर कुर्वित्यर्थः । कर इति भौवादि- कस्य कृञः·········मध्यमपुरुषैकवचने हिप्रत्यये प्रयोगश्छन्दसि । यथा 'तेभ्यो क रन्नमः' इति । छान्दसोऽपि प्रयोगो भाषायामपि भक्तिविषये प्रयुक्तः । 'छान्दसा अपि क्वचिद्भाषायां प्रयुज्यन्ते' इति वचनात् । कया हेतुभूतया । वैरसमायतया वैरेणान्तररि- पुसद्भावजनितेन सह मायया वर्तते स समायः तस्य भावस्तत्ता तया । कीदृश्या । आय- तया विस्तीर्णया ॥ प्रकाशकलितापदं शकलितापदं शंसता- मसारसमये हितं रसमयेहितं शंकरम् । हृदि स्मरत रङ्गितं स्मरतरङ्गितं शान्ततां नयन्तमसमानसंतमसमानसं चान्तकम् ॥ ७८ ॥ हे भक्तजनाः, यूयं शंकरं श्रीशंभुं स्मरत । किंभूतम् । प्रकाशकलितापदं प्रकाशः प्रसिद्धो यः कलिस्तिष्ययुगं तस्य तापस्तं ददातीति तादृशस्तम् । तथा शंसतां स्तुवतां जनानां शकलिता खण्डिता आपद्येन स तादृशम् । तथा असारसमये अस्थिरे समयेऽन्त्यक्षणे हितम् । रसमयममृतमयमीहितं चेष्टितं यस्य स तादृशस्तम् । पुनः किं भूतम् । रङ्गिंतमुल्लसितम् । कस्मिन् । हृदि । चित्ते विहरन्तमित्यर्थः । पुनः किंभूतम् । स्मरतरङ्गितं मदनचापलं शान्ततां नयन्तम् । पुनः किंभूतम् । अन्तकं यमं च शान्ततां नयन्तम् । अन्तकं कीदृशम् । असमानं संतमसं क्रोधरूपं मानसं यस्य स तादृशम् ॥ अथास्य स्तोत्रस्योपसंहारार्थं श्लोकत्रयं वक्ति इयं विचित्रताविराजिता मया मनोहरा [^१]जितामया मनो हराहिता नुतिर्धिनोतु ते । त्वयि प्रसन्नमानसेऽसमस्तमोहराशये समस्तमोहराशये करोमि न स्पृहां पुनः ॥ ७९ ॥ विचित्रतया यमकालंकारवैचित्र्येण विराजिता शोभिता मया जगद्धराख्येण कविना आहिता कृता नुतिः स्तुतिः हे स्वामिन् हर, ते तव मनो धिनोतु प्रीणयतु । किंभूता । जितामया जिता आमयाः संसारामया यया सा तादृशी । तथा मनोहरा मनोहारिणी । ( तथा अजिता अपराभूता । न केनापि कविनेत्यर्थः ।) पुनः पक्षान्तरे । त्वयि प्रसन्न- मानसे सति अहं त्वदाश्रितः समस्तमोहराशये सकलाज्ञानसमूहाय स्पृहां न करोमि । त्वयि कीदृशे । तमोहराशये तमोहरोऽज्ञानरूपान्धकारहर आशयो यस्य तादृशस्तस्मिन् । अहं किंभूतः । असमोऽनन्यसामान्यः ॥ [^१]. 'हिता जितामया मनोहराहिता नुतिर्धिनोतु ते' इति क-पुस्तकपाठः कान्ता कान्तारमध्ये सरिदिव सकुलक्ष्माधरायां धरायां याता या तारतम्यं क्व न विमलमतिप्रेक्षणेन क्षणेन । साभासा भारतीयं तनुरिव तरणेरन्धकारेऽन्धकारेः स्तुत्या स्तुत्या बुधानां मदयतु हृदयं ग्लानितान्तं नितान्तम् ॥८०॥ सह आभासेन वर्तते या सा साभासा सप्रकाशा । नैर्मल्यवतीत्यर्थः । अन्धकारे त- रणे: सूर्यस्य तनुरिव साभासा यथा ग्लानितान्तं हृदयं मदयति तथा इयं मम भारती अन्धकारेः अन्धकरिपोः श्रीशंभोः स्तुत्या नुत्या स्तुत्या स्तवनीया ग्लान्या भवमरु- भ्रमणजया तान्तं क्लान्तं बुधानां सहृदयानां हृदयं मदयतु आनन्दयतु । सा केत्याह- कान्तेति । कान्तारस्य दूरशून्यस्याध्वनो मध्ये सरिन्नदीव कान्ता अतिप्रिया या इयं मम भारती सकुलपर्वतायां भूमौ विमलमतीनां धौताशयानां प्रेक्षणेन परीक्षणेन क्व न कुत्र न तारतम्यमतिशयं याता ॥ वर्षावर्षायमाणा सहृदयशिखिनां संहितानां हितानां दात्री दात्री तृणानामिव लवनपटुर्दुष्कृतानां कृतानाम् । कल्या कल्याणदाने नुतिरियमशुभं तर्जयन्ती जयन्ती विश्वं विश्वंभरान्तं प्रसरतु सुरभीनन्दनस्यन्दनस्य ॥ ८१ ॥ सहृदया: सचेतना एव शिखिनो मयूरा तेषां वर्षासु वर्षर्तौ वर्षवदाचरतीति ता- दृशी । तथा संहितानां राशीभूतानां हितानां दात्री वितरन्ती । कृतानां वाड्मनःक- र्मभिर्विरचितानां दुष्कृतानां पापानां तृणानामिव लवने छेदने पटु । छेददक्षेत्यर्थः । तथा कल्याणदाने कैवल्यदाने कल्या कुशला । तथा अशुभं भवमरुभ्रमणोत्थं दुःखं त- र्जयन्ती तिरस्कुर्वती । तथा विश्वं जगत् जयन्ती जगदीशैकाश्रयत्वात् । इयं सुरभीन- न्दनस्यन्दनस्य वृषवाहनस्य श्रीशंभोर्नुतिः स्तुतिर्विश्वंभराया भूमेरन्तस्तं प्रदेशं प्रसरतु । भूमिवलयपर्यन्तं प्रसिद्धिं यात्वित्यर्थः । विश्वंभरान्तमिति 'कालभावाध्वदेशानाम्' इति द्वितीया । नुतिः प्रसरतु । कियन्तं देशम् । विश्वंभरान्तमिति योजना । इति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजराजानकश्रीरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ महायमकस्तोत्रं त्रिंशम् । एकत्रिंशं स्तोत्रम् । अथातो भक्तिप्रह्वजनानुपदेष्टुं नतोपदेशस्तोत्रमेकत्रिंशमारभमाण आह मनः समाधौ परमान्तरङ्गं विधाय निस्पन्दमनुत्तरङ्गम् । बुधा विधातुं भवभीतिभङ्गं विभुं भजध्वं गिरीजाभुजंगम् ॥ १ ॥ हे भक्तिप्रह्रजना बुधाः सचेतनाः, समाधौ तदेकतानत्वे परममन्तरङ्गं तथा अनुत्त रङ्गं अविद्यमाना उच्चैस्तरङ्गाश्चाञ्चल्यादयो यस्य तत् तादृशमनुत्तरङ्गं मनो निस्पन्दं वि- धाय भवभीतिभङ्गं संसाराम्बुधिनिस्तरेण भयनाशं विधातुं यूयं गिरिजाभुजंगं पार्वतीका- मुकं श्रीशंभुं भजध्वं वाङ्मनःकायकर्मभिः सेवध्वम् । 'भुजंगः षिङ्गसर्पयोः' इति मङ्खः ॥ पाश्यावशेनेव महाविहंगं वल्गाबलेनेव महातुरंगम् । निरुध्य योगेन मनःप्लवंगं विभुं भजध्वं गिरिजाभुजंगम् ॥ २ ॥ यथा कश्चित्पाश्यावशेन पक्षिणां रोधनार्थं वालबन्धः पाश्या तद्वशेन महाविहंगं बृ- हन्तं पक्षिणं रुणद्धि, यथा वल्गाबलेन वरं हयं रुणद्धि तथा योगेन यमनियमादिनाष्टा- ङ्गेन मन एव प्लवंगो वानरस्तं निरुध्य श्रीशंभुं विभुं भजध्वम् ॥ मन्त्रौषधादिक्रियया भुजंगं यथा यथा वागुरया कुरङ्गम् । मनस्तथायम्य धियास्तसङ्गं विभुं भजध्वं गिरिजाभुजंगम् ॥ ३ ॥ यथा मन्त्रौषधादिक्रियया भुजंगं सर्पमायच्छति गृह्णाति, आदिशब्देन मणय उ- च्यन्ते । तथा हि अपूर्वोऽयं मणिमन्त्रौषधीनां प्रभाव इत्युक्तत्वात् । यथा कश्चिद्वागु- रया मृगबन्धिन्या कुरङ्गं मृगभेदमायच्छति । तथा धिया एकाग्रचित्तत्वरूपया अस्त- सङ्गं अस्तः सङ्गो येन तन्मनश्चित्तमायम्य निरुध्य श्रीशंभुं विभुं भजध्वम् ॥ भित्त्वालिकं सभ्रुकुटीविभङ्गं यस्याग्निरुद्यन्रभसादनङ्गम् । ददाह तं मोहतमःपतङ्गं विभुं भजध्वं गिरिजाभुजंगम् ॥ ४ ॥ यस्येश्वरस्य सभ्रूभङ्गविच्छित्तिकं ललाटं भित्त्वा उद्यन्नग्नी रभसाद्वेगेनानङ्गं कामं ददाह तं मोहान्धकारसूर्यं विभुं शंभुं भजध्वम् ॥ वहन्तमुद्दामभुजङ्गमङ्गं जटाभरं निर्भरनाकगङ्गम् । विलोचनं चाग्निशिखापिशङ्गं विभुं भजध्वं गिरिजाभुजंगम् ॥ ५ ॥ उद्दामा भुजंगा यत्र तत् एवंविधमङ्गं वहन्तं धारयन्तम् । तथा निर्भरा समस्तगुण- पूर्णा नाकगङ्गा मन्दाकिनी यस्मिन् स तादृशं जटाभरं कपर्दं वहन्तम्, तथा अग्निशि खाभिर्वह्निज्वालाभिः पिशङ्गं च लोचनं तृतीयं नेत्रं वहन्तं विभुं श्रीशंभुं भजध्वम् ॥ भवबन्धबद्धविधुरोद्धरणं फणिमण्डलज्वलदलंकरणम् । व्रजत क्षमाधरदरीशरणं शरणं तुषारकिरणाभरणम् ॥ ६ ॥ भवः संसार एव बन्ध आवरणं तेन बद्धा ये विधुरा व्याकुलाः संसारिणस्तानुद्धरतीति तादृशम् । तथा फणिनां वासुक्यादीनां मण्डलं समूह एव ज्वलदलंकरणं हारकं कणादि यस्य स तादृशम् । तथा क्षमाधरदरीशरणं हिमालयगुहानिवासिनं तुषारकिरणाभरणं चन्द्रमौलिं शरणं प्रतिपालकं व्रजत यूयं भक्तिप्रह्वाः । 'शरणं गृहरक्षित्रो: ' इत्यमरः ॥ ३८८ काव्यमाला । कृतघस्मरस्मरनिराकरणं कटुकालकूटकवलीकरणम् । व्रजत प्रपन्नजनताशरणं शरणं तुषारकिरणाभरणम् ॥ ७ ॥ कृतं घस्मरस्य त्रिजगत्क्षोभकस्य स्मरस्य निराकरणं येन स तादृशम् । तथा कटु महोप्रं च तत्कालकूटं विषं तस्य कवलीकरणं भक्षकम् तथा प्रपन्नजनताशरणं चन्द्र- मौलिं शरणं व्रजत ॥ मरुमेदिनीरचितसंचरणं त्रिदशेन्द्रशेखरसरच्चरणम् । व्रजत त्रिदुःखहरणस्मरणं शरणं तुषारकिरणाभरणम् ॥ ८ ॥ मरुमेदिन्यां निर्जलकान्तारभूमौ रचितं संचरणं येन स तादृशम् । तथा त्रिदशेन्द्राणां ब्रह्मादीनां शिखरेषु मौलिषु सरन्तौ गच्छन्तौ चरणौ यस्य स तादृशम् । तथा त्रीण्याध्यात्मिकाधिदैविकाधिभौतिकानि यानि दुःखानि तेषां हरणं हारकं स्मरणं यस्य स तादृशं चन्द्रमौलिं यूयं शरणं व्रजत । प्रणतं जनं जितजरामरणं रचयन्तमाप्तभवनिस्तरणम् । व्रजताहितत्रिपुरसंहरणं शरणं तुषारकिरणाभरणम् ॥ ९ ॥ जरामरणेत्युपलक्षणम् । जितजरामरणं तथा आप्तं भवात्संसारोदधेर्निस्तरणमुद्धारो येन स तादृशं प्रणतं भक्तिप्रहं जनं रचयन्तं कुर्वन्तम् । तथा आहितं कृतं त्रिपुरस्य त्रिपु- रासुरस्य संहरणं येन स तादृशं चन्द्रमौलिं शरणं व्रजत ॥ अवधूतमोहतिमिरावरणं करिकृत्तिकल्पितपैरावरणम् । व्रजत प्रकल्पितपुरेशरणं शरणं तुषारकिरणाभरणम् ॥ १० ॥ मोहोऽज्ञानमेव तिमिरं तद्रूपमावरणमवधूतं निराकृतं येन स तादृशम् । तथा करि- कृत्तिर्हस्तिचर्मैव कल्पितं परमुत्कृष्टमावरणं परिधानं येन स तादृशम् । तथा प्रकल्पितो विहितः पुरेशेन त्रिपुरासुरेण सह रणो युद्धं येन स तादृशं चन्द्रमौलिं शरणं व्रजत ॥ तरुणतमालमलीमसनालं ज्वलनशिखा पटलोज्ज्वलालम् । शिरसि लसत्परमेष्ठिकपालं श्रयत विभुं हतकल्मषजालम् ॥ ११ ॥ कालकूटकवलीकरणात्तरुणतमालवन्नूतनतमालकुसुमवन्मलीमसं नीलं नालं गलं यस्य स तादृशम् । अग्निशिखानां पटलेन समूहेनोज्ज्वलं भालं ललाटं यस्य स तादृश स्तम् । तथा मूर्ध्नि लसत्परमेष्ठिनो महाप्रलये कालाग्निरुद्ररूपेण संहारितस्य कपालं यस्य स तादृशम् । तथा हतं कल्मषाणां पातकानां जालं समूहो येन स तादृशस्तं विभुं श्रयत ॥ १. 'वरावरणम्' ख. २. 'सुरेश' ख. Digitized by Google नरमुखकल्पितशेखरमालं नतजनजम्भितमोहतमालम् । नयनशिखाशतशातितकालं श्रयत विभुं हतकल्मषजालम् ॥ १२ ॥ 'नृ नये' । नृणातीति नरः । नरा अत्र नेतारो ब्रह्मादयस्तेषां महाप्रलयेषु संहारि- तानां मुखैर्मुण्डै: कल्पिता शेखरमाला मौलिमाला येन स तादृशम् । ..............तथा नयने तृतीयनेत्रे यान्यग्निशिखाशतानि तैः शातितो दग्धः कालो येन स तादृशस्तं विभुं श्रयत ॥ विषमविषाग्निशिखाविकरालं फणिपतिहारमतीव विशालम् । गलभुवि बिभ्रतमुग्रसिरालं श्रयत विभुं हतकल्मषजालम् ॥ १३ ॥ विषमोऽत्युग्रो यो विषरूपाग्निस्तस्य शिखाभिर्ज्वालाभिर्विकरालस्तम् । तथा अतीव विशालं विस्तीर्णं फणिपतिहारं वासुकिहारं गलभुवि कण्ठभूमौ बिभ्रतं वहन्तम् । तथा निजांशगणाधीशभृङ्गरिटिरूपेणोग्रसिरालं उग्राः सिरा विद्यन्ते यस्य स तादृशम् । अ- तिकृशत्वात् । विभुं हतपापजालं श्रयत ॥ विदलयितुं यमृते भवतालं त्रिभुवनसीमनि कश्चन नालम् । तममलमानसवासमरालं श्रयत विभुं हतकल्मषजालम् ॥ १४ ॥ अमलं निर्मलं यन्मानसं चित्तं तदेव मानसं मानसाख्यं सरस्तस्मिन् वासो यस्य स तादृशो मरालो हंसस्तम् । आरोपेण योजना । हंसभूतं तं हतपापजालं विभुं भजत । तं विभुं कमित्याह – विदलयितुमिति । यं विभुं श्रीशंभुमृते यं विना त्रिभुवनसीम्नित्रिजगन्मर्यादायां भवतालं भवः संसार एवातिदीर्घत्वात्तालस्तालवृक्षस्तं विदलयितुं कश्चन कोऽप्यलं समर्थो नास्ति । कमलपरागपिशङ्गजटालं जलधिसमर्पणतर्पितबालम् । भवभटभङ्गमहाकरवालं श्रयत विभुं हतकल्मषजालम् ॥ १५ ॥ कमलानां पद्मानां यः परागः किंजल्कस्तद्वत्पिशङ्गा जटा विद्यन्ते यस्य स तादृशः । स्वार्थे लः । तथा जलधेः क्षीरोदघेः समर्पणेन दानेन तर्पितो बाल उपमन्युमुनिर्येन स तादृशम् । तथा भवः संसार एव भटः शूरस्तस्य भङ्गे विघाते महान् करवाल: खङ्गस्तं हतपातकसमूहं शंभुं श्रयत ॥ अतिघस्मरभस्मरजोधवलं नतलोकसमर्पितबोधबलम् । ध्वजधामविराजिमहाधवलं [^१]भजत प्रभुमद्रिसुताधवलम् ॥ १६ ॥ अतिघस्मरमतिरूक्षं यद्भस्म तस्य रजसा धवलः श्वेतस्तम् । तथा नतलोकाय भ क्तिप्रह्वजनाय समर्पितं बोधबलं ज्ञानप्रभावो येन स तादृशस्तम् । तथा ध्वजस्य स्थाने [^१]. 'श्रयत' ख. विराजते इति ध्वजधामविराजी तादृशो महान् धवल: श्वेतवृषभो यस्य स तादृशम् । 'धवलक्षुण्णां पदवीं कासरोऽपि क्षिप्रमन्वेति' इति कविप्रयोगाद्धवलोऽपि वृषवाचकः । एवंभूतमद्रिसुताधवलम् धवः पतिरेव धवलः । स्वार्थे लः । तं पार्वतीप्राणनाथं विभुं यूयं भजत ॥ प्रभया परिभूतदलद्गवलं गलमङ्गदरत्नशिखाशवलम् । दधतं विषकॢप्तमहाकवलं भजत प्रभुमद्रिसुताधवलम् ॥ १७ ॥ प्रभया कान्त्या परिभूतं जितं दलद्भग्नं गवलं माहिषं शृङ्गं येन स तादृशम् । अङ्ग- दस्य । केयूरभूतस्य वासुकेरित्यर्थात् । या रत्नशिखा रत्नज्वालास्ताभिः शवलस्तं ता- दृशं गलं कण्ठं बिभ्रतम् । तथा विषस्य कालकूटाख्यविषविशेषस्य क्लृप्तं विहितं महत्क- वलं ग्रासो येन स तादृशस्तं पार्वतीनाथं विभुं भजत ॥ शिखरं द्युनदीलहरीतरलं गलमूलमुपोढमहागरलम् । दधतं हृदयं च सुधासरलं भजत प्रभुमद्रिसुताधवलम् ॥ १८ ॥ द्युनद्याः स्वर्गङ्गाया लहरीभिस्तरलस्तादृशं शिखरं मौलिं बिभ्रतम् । तथा उपोढं धारितं महद्गरलं कालकूटाख्यविषविशेषो येन तत्तादृशं गलमूलं कण्ठस्थानं दधतम् । तथा हृदयं च सुधावत्सरलं निर्मलं कृपामृतरसेन सरलस्वभावं दधतं पार्वतीपतिं विभुं भजत ॥ अपनीतकुकर्मकलङ्कमलं नतलोकवितीर्णमहाकमलम् । [^१]ददतं शुभसिद्धिविपाकमलं भजत प्रभुमद्रिसुताधवलम् ॥ १९ ॥ अपनीतो भक्तिप्रह्वजनस्य कुकर्मरूपकलङ्कस्य मलः कुकर्मविपाको येन स तादृशम् । तथा नतलोकाय वितीर्णा दत्ता महती कमला लक्ष्मीर्येन स तादृशम् । तथा शुभायाः सिद्धयोऽष्टावणिमाद्यास्तासां विपाकस्तं ददतं वितरन्तं भक्तजनाय पार्वतीपतिं विभुं भजत ॥ [^२]ददतं वचनं घनहासकलं नमतां दलयन्तमघं सकलम् । भजतां च दिशन्तमभीष्टफलं भजत प्रभुमद्रिसुताधवलम् ॥ २० ॥ घनो यो हासस्तेन कलं मधुरं वचनमभयवाक्यं ददतं वितरन्तम् । तथा नमतां भ क्तिप्रह्वाणां सकलं वाङ्मनः कर्मभिः कृतमघं पापं दलयन्तं खण्डशः कुर्वन्तम् । तथा भजतां सेवकानामभीष्टफलमीप्सितफलं च दिशन्तं वितरन्तं शंभुं विभुं भजत ॥ अविरतनतिपरसुरवरशिखरप्रणिहितमणिगणमसृणितचरणम् । [^१]. 'दधतं' क ख. [^२]. 'दधतं' क-ख. सितकरकरभरधवलितमुकुटं प्रणमत पुरहरमशरणशरणम् ॥ २१ ॥ अविरतं नतिपरा ये सुरवरा ब्रह्माद्यास्तेषां शिखराणि मौलयस्तेषु प्रणिहित: प्र- क्षिप्तो यो मणिगणस्तेन मसृणितौ रञ्जितौ चरणौ यस्य स तादृशस्तम् । तथा चन्द्र- किरणसमूहधवलितमौलिम् । अशरणानामप्रतिपालकानां शरणं पालकं पुरहरं श्री- शंभुं प्रणमत ॥ भवभवपरिभवधुतविधुरधिया- मधिगतशमदमनि[^१]यमितमनसाम् । अभिमतवितरणपरिणतकरुणं प्रणमत पुरहरमशरणशरणम् ॥ २२ ॥ भवात्संसाराद्भव उत्पत्तिर्यस्यासौ यः परिभवस्तेन धुता कम्पिता अत एव विधुरा व्याकुला धीर्बुद्धिर्येषां तादृशानां जनानाम् । अत एव शमश्च दमश्च नियमितेनियमश्च तानि । (स्त्रियां) भावे क्तः । अधिगतानि प्राप्तानि शमदमनियमितानि येन तत्तादृशं मनो येषां ते तादृशानां नतलोकानामभिमतवितरणे परिपूर्णा करुणा दया यस्य स ता- दृशमशरणशरणं पुरारिं प्रणमत ॥ तनुतृणगणनिभमनसिजशमन- प्रशमनपरिचितहुतवहम[^२]हितम् । [^३]परहितकृतमतिमतिमृदुहृदयं प्रणमत पुरहरमशरणशरणम् ॥ २३ ॥ तनुतृणगणनिभौ यौ मनसिजशमनौ कामयमौ तयोः प्रशमने दाहे परिचितः सुशिक्षितो यो हुतवहस्तृतीय नेत्राग्निस्तेन महितं पूजितम् । 'मह पूजायाम्' धातुः । तथा प रहिते भवाम्भोधिमग्नलोकोद्धरणरूपहिते कृता मतिर्बुद्धिर्येन स तादृशस्तम् । अतिशयेन मृदु कृपामृतार्द्रं हृदयं यस्य स तादृशस्तं दीनदयालुं पुरारिं भजत । दिनकरहिमकरहुतवहनयनं पदकरकचभरधृतसितकिरणम् । विघटितनतजनघनतमतमसं प्रणमत पुरहरमशरणशरणम् ॥ २४ ॥ [^१]. 'नियमन' ख. [^२]. 'सहितम्' ख. [^३]. 'परिहित' क-ख. सूर्येन्द्वग्नयो नेत्रेषु यस्य तं त्रिनेत्रम् । तथा पदं चरणं करः पाणिः कचभरो जटाजू- टश्च तत्र धृतः सितकिरणश्चन्द्रो येन स तादृशम् । चरणयुगले चन्द्रस्य प्रणामपरत्वा- त्स्थितिः । तथा विघटितं दूरीकृतं नतजनस्य घनतममतिशयेन सान्द्रं तमो मोहान्धका- ररूपं येन स तादृशं दीनदयालुं पुरारिं प्रणमत ॥ अविरलजलभरसुरसरिदुदय- त्सरसिजभरनिभधृतनरशिरसम् । भवदवहुतवहविदलनजलदं प्रणमत पुरहरमशरणशरणम् ॥ २५ ॥ अविरलो महान् जलभरो यस्यास्तादृशी या सुरसरित्स्वर्गङ्गा तस्या उदयन्योऽसौ सरसिजभरः अत्रौचित्यात्सितोत्पलसमूहस्तेन निभानि धृतानि नराणां पुरुषाणां महाप्रलयेषु संहारितानां ब्रह्मादीनां शिरांसि मुण्डानि येन स तादृशम् । भवः संसार एव दवहुतवही दवाग्निस्तस्य विदलने प्रशमने जलदो मेघस्तं दीनदयालुं पुरहरं प्रणमत । जहत कल्पितकलुषलोचनतिमिरभञ्जनमञ्जनं त्यजत दुःस्थितहृदयनन्दनमलयचन्दनरञ्जनम् भजत निर्जितविषमवैभवभवमहार्णवमज्जनं क्षिति[^१]धराधिपदुहितृवल्लभचरणपङ्कजपूजनम् ॥ २६ ॥ भो बालिशा जना इति शेषः । हे मूढजनाः, कल्पितं कलुषलोचनानां क्लिन्नाक्षाणां स्वल्पावबोधानां तिमिरभञ्जनं मोहतमो नाशो येन तत्तादृशमञ्जनं किंचिदपूर्वमञ्जनं ति- मिरापहं सौवीराञ्जनादि यूयं जहत दूरीकुरुध्वम् । तथा दुस्थितं दुःस्थं यद्धृदयं तस्य नन्दनमानन्ददायि यन्मलयचन्दनं तेन रञ्जनमनुलेपनं त्यजत । तर्हि अतिकलुषदृक्प्र- सादनं हृदयपरमानन्ददायिनं कं भजाम इत्याशङ्क्याह – भजतेति । यूयं क्षितिधरा- धिपदुहितृवल्लभचरणपङ्कजपूजनं हिमाचलपुत्रीनाथचरणकमलार्चनं भजत । तत्किंभू- तम् । निर्जितं विषमवैभवस्य भवाम्बुधेर्मज्जनं येन तत् । भवाम्बुधेरुत्तरणविधायीत्यर्थः ॥ सकलकलिमलपटलपन्नगनिगडखण्डनपण्डितं विशदशशधरशकलशोभितमुकुटमण्डनमण्डितम् हृदयमीहितुमभयमुन्मदमदनदुर्नृपदण्डितं भजत दुस्तरदुरितवारिधि[^२]तरतरण्डमखण्डितम् ॥ २७ ॥ सकलं यत्कलौ तुरीययुगे मलपटलं तदेव पन्नगरूपश्चासौ निगडस्तस्य खण्डने दलने पण्डितो दक्षस्तम् । विशदं यच्छशधरशकलं चन्द्रशकलं तेन शोभितं यन्मुकुटरूपं [^१]. 'क्षितिधरापतिपुत्रिकापतिपादपङ्कजपूजनम् ख. [^२]. 'वरतरण्ड' ख. मण्डनं तेन मण्डितः शोभितस्तं श्रीशंभुं यूयं भजत । किं कर्तुम् । हृदयं मनोऽभयं विग- तभवोदधिभयमीहितुं काङ्कितुम् । किंभूतं हृदयम् । उन्मदो यो मदन एव दुर्नृपस्तेन दण्डितम् । श्रीशंभुं कम् । दुस्तरं यद्दुरितं स एव वारिधिर्महार्णवस्तस्य तरस्तरणं पार- गमनं तत्र तरण्डः प्लवस्तम् । किंभूतं च तरण्डम् । अखण्डितमदलितम् ॥ जितसुधाकरगिरिसुताकरसरसिजादरलालितं नतपुरंदररुचिरशेखरकुसुमकेसररञ्जितम् । द्रुहिणमाधवकुमुदबान्धवकमलिनीधवसेवितं वितर मूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥ २८ ॥ जितः सुधाकरश्चन्द्रो याभ्यां तादृशौ यौ गिरिसुताकरौ पार्वतीपाणी ताभ्यामादरेण लालितं कृतोद्वर्तनम् । तथा नतो नम्रो यः पुरंदरः शक्रस्तस्य रुचिरशेखरो रम्यमौ - लिस्तत्र कुसुमानि पारिजातादिकल्पद्रुमकुसुमानि तेषां केसरैः किंजल्कै रञ्जितम् । तथा द्रुहिणो ब्रह्मा च माधवो विष्णुश्च कुमुदबान्धवश्चन्द्रश्च कमलिनीधवः पद्मिनी- कान्तः सूर्यश्च तैः सेवितस्तमीदृशं हे भगवन्, त्वममृतशीकरवच्छीतलं चरणपङ्कजं निजं मूर्धनि अर्थान्मम वितर देहि ॥ अवटमज्जनजनितत[^१]र्जनवृजिनभञ्जन[^२]साधनं कृतनमज्जनहृदयरञ्जनचिरनिरञ्जनपूजनम् । त्रिपुरमारणदुरितदारणदरनिवारणकारणं वितरमूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥ २९ ॥ अवटे अकार्यकरणरूपे गर्ते यन्मज्जनं ब्रुडनं तेन जनितं तर्जनं त्रासो येन तादृशं यद्रृजिनं पातकं तस्य भञ्जने खण्डशः करणे साधनं हेतुभूतम् । तथा कृतं नमजनस्य भक्तिप्रह्वजनस्य हृदयरञ्जनं मनोरञ्जनं येन तत्तादृशं चिरं निरञ्जनं निर्मायं निर्व्याजं पूजनं यस्य तत्तादृशम् । त्रिपुरमारणे त्रिपुरासुरस्य दाहे दुरितस्य त्रिविधस्य वाङ्मनःकायविहितस्य दारणे खण्डने तथा दरस्य भवाम्बुधित्रासस्य यन्निवारणं तत्र कारणं हेतुभूतं पीयूषशीकरशीतलं पादपद्मं मम शिरसि वितर देहि ॥ अस्य स्तोत्रस्योपसंहारश्लोकमाह इदमकृत्रिमरसमसंभृतबहुविधौषधसाधनं स्तुतिरसायनमयमुपायनमनुगृहाण गृहाण मे । वरमुदाहर वरमुदा हर परमदाहरुजाहरं वितर मूर्धनि चरणपङ्कजममृतशेखरशीतलम् ॥ ३० ॥ [^१]. 'सज्जन' ख. [^२]. 'कारणं' क. असंभृतानि बहुविधानि यान्यौषधानि तेषां साधनं निमित्तं निरौषधं रसायनमकृ- त्रिमरसं सहजपरमानन्दरसं स्तुतिरसायनमयं मे मम शरणागतस्य इदमुपायनं ढौकनकं गृहाण ।अनुगृहाण प्रसादं कुरु । तथा परमो यो दाहो भवमरुभ्रमणजस्तेन या रुजा तन्निवारकं वरमभिलषितमुदाहर कथय । कया । वरमुदा वरा उत्कृष्टा चासौ मुत्परमान न्दरूपा तया परमप्रीत्या । हे हर, पीयूषशीकरशीतलं पादपद्मं मे मम मूर्ध्नि वितर देहि ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ नतोपदेशस्तोत्रमेकत्रिंशम् ॥ द्वात्रिंशं स्तोत्रम् । अथातः शरणागतोद्धरणाख्यं द्वात्रिंशं स्तोत्रमारभमाण आह भवमरुभ्रमविषमसंभ्रमसमुदितक्लमविक्लवं कुलिशकर्कशहृदयदुर्जनकृतपराभवविप्लवम् । अतिभयंकररविजकिंकरविकृतहुंकृतिकातरं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ १॥ हे हर, त्वं जगद्धरमुद्धर। भवार्णवादित्यर्थः । कथम् । चतुरं शीघ्रम् । अन्यच्चाशरणं न विद्यमानं शरणं रक्षिता यस्य तम् । अन्यच्च शरणागतं शरणाय रक्षणायागतम् । यद्वा शरणं रक्षितारमागतम् । अन्यच्च भव एव मरुस्तत्र भ्रमस्तेन विषमश्वासौ संभ्रमस्नास- स्त्वरा वा तस्मात्समुदित उत्पन्नश्चासौ क्लमस्तेन विक्लवो दोनस्तम् । अन्यच्च कुलिशव- स्कर्कशं हृदयं येषां तथाविधाश्च ते दुर्जनास्तैः कृतः पराभवो विप्लवो यस्य । अवमान- रूप उपप्लव इत्यर्थः । अन्यच्चातिशयेन भयंकरश्वासौ रविजकिंकरो यमभटस्तस्य विकृ तहुंकृत्या कातरम् ॥ कृतनिकेतनमकरकेतनदलितचेतनवेतनं ललितलोचनवरवधूजनवचनतर्जनभाजनम् । गुणलवोद्गतगुरुमदज्वरजनिततीव्ररुजातुरं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ २ ॥ हे हर, त्वं जगद्धरं चतुरमुद्धर । जगद्धरं कीदृशम् । कृतं निकेतनं येन तथाविध श्चासौ मकरकेतनस्तेन दलितं चेतनमेव वेतनं यस्य सः । अन्यच्च ललितलोचन श्वासौ वधूजनस्तस्य वचनानि तैस्तर्जनं तिरस्कारस्तस्य भाजनम् । अन्यच्च गुणलवेनोद्गतो गुरुश्चासौ मदज्वरस्तेन जनिता चासौ तीव्रा रुजा तथा आतुरम् ॥ प्रमुखपेशलविषमवैशसविषयपाशवशीकृतं प्रकृतिदुर्ग्रहगुरुपरिग्रहनिबिडपीडितविग्रहम् । ज्वलदनर्गलभवदवानलकवलिताकुलचेतसं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ३ ॥ हे हर, त्वं जगद्धरं चतुरमुद्धर । कीदृशम् । प्रमुखपेशलाश्च ते विषमवैशसाश्च ते विषयपाशास्तैर्वशीकृतम् । वैशसं दुःखम् । अन्यच्च प्रकृत्या दुर्ग्रहश्चासौ गुरुश्चासौ परिग्र हस्तेन निबिडपीडितो विग्रहो यस्य तम् । अन्यच्च ज्वलंश्वासावनर्गलश्च भव एव दवा- नलस्तेन कवलितमाकुलितं चेतो यस्य तम् ॥ पवनवेल्लितकमलिनीदलतलचलज्जलचञ्चलं विभवयौवन[^१]सुतसुखादिकमिति विवेकविसंस्थुलम् । बलवदिन्द्रियकपटतस्करहठविलुण्ठनविह्वलं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् हे हर, त्वं जगद्धरं चतुरमुद्धर । कीदृशम् । विवेके विसंस्थुलं विशृङ्खलम् । कथमिति । विभवयौवनसुतसुखादिकमेवंविधं भवति । विभवश्च यौवनं च सुताश्च सुखं च ता- न्यादौ यत्र तत् । कीदृशम् । पवनेन वेल्लितं च तत्कमलिनीदलं तस्य तलं तत्र चलच्च तज्जलं तद्वच्चञ्चलम् । अन्यञ्च इन्द्रियाण्येव कपटतस्करा बलवन्तश्च ते इन्द्रियकपट- तस्करास्तेषां हठेन विलुण्ठनं मोषणं तेन विह्वलम् ॥ समदनन्दनमदनमर्दन दुरिततर्दनलोलुभं भुवनभावन परमपावन सुदृढभावनमानतम् । शशिकलाञ्छितमुकुटलाञ्छित विफलवाञ्छितमाकुलं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ५॥ हे हर । कथंभूत । समदं नन्दनं मदनं मर्दयतीति । अन्यच्च शशिकलया आञ्छितं च तन्मुकुटं तेन लाञ्छित । भुवनानि भावयतीति भुवनभावन । परमश्चासौ पावनश्च परमपावनस्तस्यामन्त्रणम् । त्वं जगद्धरं चतुरमुद्धर । कीदृशम् । दुरितस्य तर्दनं न्यक्का- रस्तत्र लोलुभम् । अन्यच्च विफलं वाञ्छितमभिप्रेतं यस्य तम् । अन्यच्चाकुलम् । अन्यच्च सुष्ट्रु दृढा भावना यस्य तम् । आनतम् ॥ जगदनुग्रहमहितविग्रह कृतपरिग्रहसद्ग्रहं त्रिपुरशासन शबलवासनमसदुपासनलालसम् । घनचमत्कृतिकृतनमस्कृतिमुचितसत्कृतिसस्पृहं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ६ ॥ [^१]. 'सुखसुतादिकं' ख. हे हर । कीदृश । जगदनुग्रहमहितविग्रह । जगत्यनुग्रहस्तेन महितो विग्रहो यस्य त स्यामन्त्रणम् । त्रिपुरं शास्तीति त्रिपुरशासन । त्वं जगद्धरं चतुरमुद्धर । कीदृशम् । कृतपरिग्रहसद्भहम् । परिग्रहे संश्चासौ ग्रहो हेवाकः कृतः परिग्रहसद्भहो येन । अथवा 'संग्रहं' इति पाठः । अन्यच्च शबला कलुषा वासना यस्य तम् । अन्यच्च असत्सूपा- सनं तत्र लालसं सस्पृहम् । अन्यच्च घनचमत्कृत्या कृता नमस्कृतिर्येन तम् । अन्यच्च उचिता सत्कृतिः पूजा तत्र सस्पृहम् ॥ वरद नन्दय विपदमर्दय किमिति निर्दयतेदृशी कृतनिवेदनमतुलवेदनमुदितखेदनवापदम् । दिश यशोधन हृदयशोधनविमलबोधनदीं दृशं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ७ ॥ हे वरद, त्वं जगद्धरं चतुरमुद्धर । कीदृशम् । कृता निवेदना आर्तिनिवेदनं येन तम् । अन्यच्च अतुला वेदना यस्य तम् । उदितखेद एव नवा आपद्यस्य तम् । हे वरद, त्वं नन्दय उल्लासं भज । त्वं विपदमर्दय मन्दीकुरु । ईदृशी निर्दयता किमिति भवति । हे यशोधन, त्वं दृशं दिश । काम् । हृदयशोधनविमलबोधनदीं हृदयशोधनश्चासौ विमल- बोधस्तस्य नदीम् ॥ अभयमर्पय कपटमल्पय शिरसि कल्पय मे पदं मुखमुदञ्चय वचनमञ्चय वरद वञ्चय मा नतम् । भृशमविश्रमकृतपरिश्रमशतमतिश्रमनिःसहं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ८ ॥ हे हर, त्वं जगद्धरं चतुरमुद्धर । त्वमभयमर्पय । त्वं कपटमल्पय । त्वं पदं कल्पय । कुत्र । शिरसि । कस्य । मे मम । त्वं मुखमुदञ्चयोल्लासय । त्वं वचनमञ्चय शोभय । मु ञ्चेत्यर्थः । हे वरद, त्वं मां नतं मा वञ्चय । जगद्धरं कीदृशम् । अविश्रमं कृतानि परि श्रमशतानि येन तम् । अन्यच्चातिशयेन श्रमस्तेन निःसहम् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ शरणागतोद्धरणस्तोत्रं द्वात्रिंशम् । त्रयस्त्रिंशं स्तोत्रम् । अथातो ग्रन्थकृत्कर्णपूरस्तोत्रमारभमाण आह काञ्चीकाञ्चनकिंङ्किणीकलकलः शिञ्जानमञ्जीरजो- झांकारः सकलाङ्गभूषणमणिश्रेणीझणाडम्बरः । वाग्देव्याः [^१]प्रचलस्खलद्भुजलताक्षेपक्कणत्कङ्कण- क्वाणश्चङ्क्रमणक्रमे विजयते चन्द्रार्धमौलेः स्तवः ॥ १ ॥ स्तवो विजयते । कस्य । चन्द्रार्धमौलेः । स्तवः कः ।काश्चीकाञ्चनकिङ्किणीकलकलः । काञ्च्याः काञ्चनमय्यश्च ताः किङ्किण्यस्तासां कलकलः । अन्यच्च कः । शिञ्जानमञ्जीरजो- झांकारः । शिञ्जानौ यौ मञ्जीरौ नूपुरौ ताभ्यां जातः सशब्दनूपुरजातः शब्दः । अ- न्यच्च कः । सकलाङ्गभूषणमणिश्रेणीझणाडम्बरः । अन्यच्च कः । प्रचलस्खलद्भुजलता- क्षेपक्कणत्कङ्कणक्काणः । कदा । चङ्क्रमणक्रमे । क्रमः परिपाटी ॥ स्वामिन्वाङ्मयदेवता भगवती स्वेच्छाविहारक्रिया- क्रीडाकाननमाननं भव भवद्भक्तस्य नूनं व्यधात् । नो चेन्नूतननूतनः प्रतिदिनं [^१]हृद्यः समुद्यन्क्रमा- दस्मिन्नुज्ज्वलवर्णकोमलपदन्यासः कथं लक्ष्यते ॥ २ ॥ हे स्वामिन्, वाङ्मयदेवता भगवती आननं स्वेच्छाविहारक्रियाक्रीडाकाननं व्यधात् । नूनं निश्चितम् । कस्य । भवद्भक्तस्य । हे भव, एवं चेद्यदि न भवति तदा जनेनास्मि न्नुज्ज्वलवर्णकोमलपदन्यासः कथं लक्ष्यते दृश्यते । उज्ज्वलाश्च ते वर्णा अक्षराणि तैः कोमलो रम्यः पदन्यासः कवित्वं यस्मिन्नस्मिन् शिवस्तुतिकाव्ये । अथ चोज्ज्वलवर्णः कोमलः पदन्यासश्चरणनिक्षेप उचित इत्यर्थान्तरम् । वर्णकोऽलक्तकः ॥ स्वैरं कैरविणीकुटुम्बकलिकालंकार सारस्वत - स्फारखारसिकप्रसादविशदस्वाधीनवाग्देवताः । धन्याः सत्कवयस्तव स्तवनिभात्त्वद्भक्तिभाजां विप त्तापापाकृतये दिशन्ति शिशिरस्निग्धाः सुधाविप्रुषः ॥ ३ ॥ हे कैरविणीकुटुम्बकलिकालंकार चन्द्रचूड सत्कवयः सुधाविप्रुषोऽमृतकणान्दि- शन्ति । केषाम् । त्वद्भक्तिभाजाम् । कुतः । स्तवनिभात्स्तोत्रव्याजात् । किमर्थम् । वि पत्तापापाकृतये आपत्संतापनिवारणाय । कीदृशी: । शिशिरस्निग्धाः । अन्यच्च, सार- स्वतश्चासौ स्फार उल्लासः स एव स्वारसिकः प्रसादस्तेन विशदा स्वाधीना वाग्दे- वता येषां ते ॥ यस्य त्वन्नमनैः शिरोदशशती सौन्दर्यसंदर्शनै- श्चारित्रश्रवणोत्सवैश्च भवतश्चक्षुः सहस्रद्वयम् । साफल्यं रसनासहस्रयुगलं त्वत्कीर्तनैश्चाश्नुते त्रैलोक्याद्भुतमूर्तये भगवते शेषाय तस्मै नमः ॥ ४ ॥ [^१]. 'प्रचलोच्छलत्' क. [^२]. 'सद्यः' ख. तस्मै शेषाय भगवते नमः । कीदृशाय । त्रैलोक्याद्भुतमूर्तये । तस्मै कस्मै । यस्य शिरोदशशती साफल्यमश्नुते । कैः । त्वन्नमनैर्भवत्प्रणामैः । चक्षुःसहस्रद्वयं च साफल्यम- श्रुते । कैः । सौन्दर्यसंदर्शनैः । अन्यच्च कैः । चारित्राणां श्रवणान्येवोत्सवास्तैः । कस्य । भवतः । रसनासहस्रद्वयं साफल्यमश्नुते । कैः । त्वत्कीर्तनैस्त्वत्स्तवोदीरणैः ॥ राकेन्दोरपि माधवादपि सतां सङ्कादपि स्वामिनः संमानादपि कामिनीकुचयुगाभोगोपभोगादपि । शंभो शर्व शशाङ्कशेखर शिव श्रीकण्ठ विश्वेश्वर त्रायस्वेति सतां हरन्ति हृदयं सान्द्रामृतार्द्रा गिरः ॥ ५ ॥ इति गिरो हृदयं हरन्ति । केषाम् । सताम् । कीदृश्यः । सान्द्रामृतार्द्राः । इति किम् । शंभो, शर्व, शशाङ्कशेखर, शिव, श्रीकण्ठ, विश्वेश्वर, त्रायस्वेति । कुतोऽपि । राका पूर्णिमा तस्यामिन्दुस्तस्मादपि । अन्यच्च माधवाद्वसन्तादपि । अन्यच्च सतां सङ्गादपि । अन्यच्च स्वामिनः संमानादपि । अन्यच्च कामिन्याः कुचयुगं तस्याभोगो विस्तारस्तस्योपभोगस्तस्मादपि ॥ श्यामाकामुकमाधवादिविरसं नासीरकस्तूरिका- काश्मीरादिनिरादरं मलयजालेपावलेपावहम् । कुर्वन्ति प्रविधूतनूतनवधूगाढाङ्गसङ्गस्पृहं चेतः कस्य न शांभवस्तवसुधासिक्ताः सतां सूक्तयः ॥ ६ ॥ सतां सूक्तयः कस्य चेतो न कुर्वन्ति । कीदृशम् । श्यामाकामुकश्चन्द्रः, माधवो वसन्तस्तावादौ येषां ते तेषु विरसम् । अन्यच्च, नासीरं घनसारं कस्तूरिका मृगमदः काश्मीरं कुङ्कुमं तदादिषु निरादरम् । अन्यच्च मलयजस्य चन्दनस्यालेपस्तस्यावलेपमा- वहति तादृशम् । अन्यच्च नूतना चासौ वधूस्तस्या गाढश्चासावङ्गसङ्गस्तत्र स्पृहा प्रकर्षेण विधूता येन तम् । सूक्तयः कीदृश्यः । शांभवस्तव एव सुधा तया सिक्ताः ॥ यस्यैताः स्तवसूक्तयस्तव मुखे खेलन्ति हेलाजित- ज्वालाजालजटालकालरसनासंरम्भसंभावनाः । वल्गन्त्यस्य पुरः पुरंदरपुरीकान्ताकटाक्षच्छटा- बाणश्रेणिशरव्यदिव्यवपुषः स्वर्बन्दिवृन्दोक्तयः ॥ ७ ॥ स्वर्बन्दिनां वृन्दानि तेषां सूक्तय उल्लसन्ति । कुत्र । अस्य पुरतः । अस्य कस्य । एताः स्तवरूपाः सूक्तयो यस्य मुखे खेलन्ति । कस्य स्तवसूक्तयः । तव । कीदृश्यः । ज्वालानां जालानि तान्येव जटा, विद्यन्ते यस्य तथाविधश्वासौ कालस्तस्य रसना तस्याः संरम्भ आटोपस्तस्य संभावना निश्चयः हेलया जिता याभिस्ताः । अस्य की दृशस्य । पुरंदरस्य पुरी तस्यां कान्ता तासां कटाक्षच्छटास्ता एव बाणश्रेणयस्तासां शरव्यं लक्ष्यं दिव्यं वपुर्यस्य तस्य ॥ हर्षोत्कर्षविवर्धिनीः परिणतक्षौद्रद्रवस्पर्धिनी- धन्यानां मधुरास्तव स्तवगिरः कर्णे चिरं कुर्वताम् । मान्द्यं विन्दति नन्दनेन्दुवदनासंदिग्धमुग्धाधर- प्रोन्मीलन्मधुबिन्दुसुन्दरसुधासंदोहदो दोहदः ॥ ८ ॥ दोहदोऽभिलाषो मान्द्यं विन्दति अल्पतां लभते । कीदृशः । नन्दने इन्दुवदना- स्ताभिः संदिग्धाश्च ता मुग्धास्तासामघरस्तस्य प्रोन्मीलच्च तन्मधु तस्य बिन्दवस्त एव सुन्दरः सुधासंदोहोऽमृतप्रवाहस्तं ददातीति । केषाम् । धन्यानाम् । कीदृशानाम् । स्त- वगिरः कर्णे कुर्वतामाकर्णयताम् । कस्य । तव । कियन्तं कालम् । चिरम् । कीदृशीः । हर्षस्योत्कर्षस्तं विवर्धयन्तीति । अन्यच्च परिणतः परिपक्को यः क्षौद्रस्य द्रस्वतं स्पर्ध- यन्त्य इति । अन्यच्च मधुराः ॥ सद्विद्याभ्यसनः सभानिवसनः सौधासनाध्यासनः शुद्धान्नग्रसनः सुधौतवसनः सत्साध्वसध्वंसनः । सह्लादोल्लसनः प्रसन्नहसनः संपन्नसद्वासनः सत्काव्यव्यसनः सुधार्द्ररसनः शंभोः कृतोपासनः ॥ ९ ॥ शंभोः कृतोपासन एवंविधो भवति । सद्विद्यास्वभ्यसनं यस्य सः । अन्यच्च सभायां निवसनं निवासो यस्य सः । अन्यच्च सौधे आसनं तत्राध्यासनं यस्य सः । अन्यच्च शु- द्धमन्नग्रसनं यस्य सः । अन्यच्च सुष्टु धौतं वसनं यस्य सः ............ अन्यच्च सह ह्लादेनोल्लासेन वर्तते इति । अन्यच्च प्रसन्नं इसनं यस्य सः संपन्ना सती वासना यस्य सः । सत्सु काव्येषु व्यसनं यस्य सः । सुधयार्द्रा अमृतसिक्ता रसना यस्य सः ॥ राकाकान्तरुचः क्षताखिलशुचः पीयूषधारामुचः स्वान्तक्लान्तिहृतश्चमत्कृतिकृतः संगीतभङ्गीभृतः । शंभोरम्बुदनादविह्वलवलद्बालाङ्गनालिङ्गन- ह्लादस्वादसुखस्पृहामिह जहत्यन्तर्मृशन्तः स्तुतीः ॥ १० ॥ धन्या अम्बुदनादेन विह्वला वलन्त्यश्च या बालाङ्गनास्तासामालिङ्गनं तेन ह्लादस्तेन सुखं तत्र स्पृहा तां जहति त्यजन्ति । कुत्र । इह संसारे । किं कुर्वन्तः । स्तुतीर्मृशन्तः । कुत्र । अन्तर्मनसि । अथवा स्तुतयः कुत्र । इह शिवनुतिकाव्ये । स्तुतीः कीदृशी: । रा काकान्तवद्रुग् यासां ताः । रुक् कान्तिः नैर्मल्यं प्रसन्नतेत्यर्थः । अन्यच्च क्षता अखिलाः शुचो यामिस्ताः । अन्यच पीयूषधारां मुच्चन्तीति । स्वान्तस्य क्लान्तिं हरन्तीति । चमत्कृतिं कुर्वन्तीति । संगीतस्य भङ्गीं बिभ्रतीति ॥ सारासारविदः सतां भयभिदः प्रह्वोपतापच्छिदः कारुण्यार्द्रहृदः प्रपन्नसुहृदः स्फारीभवत्संविदः । त्राताशेषविशः प्रकाशितदिशः कीर्त्या महीनिर्विशः कर्षन्तीश निशः प्रसक्तसुदृशस्त्वत्पादपीठस्पृशः ॥ ११ ॥ हे ईश, त्वत्पादपीठस्पृशो निशो रात्रीः कर्षन्ति अतिवाहयन्ति । कीदृश्यः । प्रस- क्तसुदृशः प्राप्ताङ्गनाः । अन्यच्च सारं चासारं च विन्दन्तीति समाहारे द्वन्द्वः । भयं भिन्दन्तीति भयभिदः । केषाम् । सताम् । प्रह्वानामुपतापं छिन्दन्तीति । कारुण्येनार्द्रं हृदयं येषाम् । प्रपन्नाः सुहृदो येषाम् । स्फारीभवन्ती संविद्येषाम् । त्राता अशेषा विशः प्रजा यैस्ते । प्रकाशिता दिशो यैस्ते । कया । कीर्त्या । महीं निर्विशन्तीति ॥ दुर्धर्षर्द्धिपुषः सहर्षवपुषस्तर्षप्रकर्षप्लुषः सर्वोत्कर्षजुषः क्षणक्षतरुषः कल्याणपूर्णायुषः । उत्सर्पत्सहसः समिद्धमहसः क्षिप्तोर्जितानेहस- श्चिन्तान्तप्रहसः सुखाप्तरहसस्त्वद्ध्यानधौतांहसः ॥ १२ ॥ त एवंविधा भवन्ति । ते के । त्वद्ध्यानधौतांहसः । कीदृशाः । दुर्धर्षर्द्धिपुषः । अन्यच्च सहर्षं वपुर्येषाम् । तर्षस्य प्रकर्षं प्लुषन्ति दहन्तीति । सर्वेभ्य उत्कर्षं जुषन्ति श्रयन्तीति । क्षणेन क्षता रुस् यैस्ते । कल्याणेन पूर्णमायुर्येषां ते । उत्सर्पत्सहो बलं येषां ते । समिद्धो महो येषां ते । क्षिप्त ऊर्जितोऽनेहा कालो यैस्ते । चित्तान्तात्प्रहसन्तीति । सुखेनाप्तं रहो यैस्ते ॥ कालं बालकुरङ्गकेतनकृतोत्तंसप्रशंसामृत- स्यन्दास्वादविनोदनैर्यदनयन्निःस्पन्दमन्दं मनः । तस्यान्यत्र कविक्रमे कमलिनीकिंजल्कपानोत्सव- व्यग्रस्येव मधुव्रतस्य कुसुमेऽन्यस्मिन्कथं स्याद्रतिः ॥ १३ ॥ रतिः सक्तिः कथं स्यात् । कस्य । तस्य । कुत्र । अन्यत्र कविक्रमे । तस्य कस्येव । मधुव्रतस्य भ्रमरस्येव । यथा तस्य रतिरन्यत्र कुसुमे नास्ति । कीदृशस्य । कमलिनीकिं- जल्कपानोत्सवव्यग्रस्य । तस्य कस्य । यन्मनः कालमनयदतिवाइयामास । कैः । बाल- श्वासौ कुरङ्गकेतनश्चन्द्रः स एव कृत उत्तंसो येन तस्य प्रशंसा सैवामृतं तस्य स्यन्दः प्रवाहस्तस्य स्वाद एव विनोदनानि क्रीडास्तैः । मनः कीदृशम् । निःस्पन्दमत एव मन्दमचापलम् ॥ खट्वाङ्गे मुकुटे करे श्रवणयोः प्रायेण यो भूषणं ब्रह्मोपेन्द्रपुरःसरामरशिरःश्रेणिं बिभर्तेि प्रभुः । तत्पादाम्बुजभक्तिभावितमतिर्धन्यः शिरोभूषण- ख्यातिं निश्चितमश्नुते त्रिभुवनप्रष्ठप्रतिष्ठाजुषाम् ॥ १४ ॥ धन्यः शिरोभूषणख्यातिमश्नुते । शिरोभूषणमिति प्रथां प्राप्नोति । केषाम् । त्रिभुवने प्रष्ठा अग्र्या या प्रतिष्ठा कीर्तिस्तां जुषन्तीति तेषाम् । धन्यः कीदृशः । तस्य प्रभोः पा दावेवाम्बुजे तयोर्भक्तिस्तत्र भाविता मतिर्यस्य सः । तस्य कस्य । यः प्रभुर्ब्रह्मोपेन्द्रपुरःस- रामरशिरःश्रेणिं भूषणं बिभर्ति । कुत्र । खट्वाङ्गे मुकुटे करे श्रवणयोः । स्वामी ब्रह्मादिदेव- तामुण्डान्यहर्निशमजरामरत्वाच्छिरःप्रभृतिषु स्थानेषु धारयतीत्यर्थः ॥ रोहन्मोहमहीरुहोरुपरशुर्दुर्वारमारज्वर- प्लोषोल्लाघभिषग्विषौघविषमक्लेशोग्रशापावधिः । ताम्यल्लोचनचक्रवाकमिथुनब्रध्नोदयश्चन्द्रिका- पूरश्चित्तचकोरकस्य जयति श्रीकण्ठपूजाविधिः ॥ १५ ॥ श्रीकण्ठस्य पूजाविधिर्जयति । कः । रोहंश्चासौ मोह एव महीरुहस्तस्योरुश्वासौ परशुः कुठारः । अन्यच्च कः । दुर्वारश्चासौ मार एव ज्वरस्तस्य प्लोषो दाहस्तत उल्लाघो नीरोग- करणं तत्र भिषग्वैद्यः । अन्यच्च कः । ताम्यतां ग्लानिं भजतां लोचनान्येव चक्रवाका- स्तेषां मिथुनानि तेषां ब्रध्नोदयः सूर्योदयः । अन्यच्च कः । चन्द्रिकापूरः । कस्य । चित्तमेव चकोरस्तस्य ॥ अर्चां वीक्ष्य विचित्रचारुरचनां चन्द्रार्धचूडामणे- र्व्यक्तिं भक्तिचमत्कृतिः कृतधियो यस्यैति चित्ते मुहुः । तस्मिन्सस्पृहमर्पिताः सचकिताः साचीकृताः सस्मिताः साकूताश्च पतन्ति पक्ष्मलदृशां प्रेमामृतार्द्रा दृशः ॥ १६ ॥ दृशः पतन्ति । कस्मिन् । तस्मिन् । कासाम् । पक्ष्मलदृशाम् । कीदृश्यः । अर्पिताः । कथम् । सस्पृहम् । अन्यच्च सचकिताः । साचीकृता वक्रीकृताः । सस्मिताः । साकूताः साभिप्रायाः । प्रेमामृतार्द्राः ॥ स्वामिन्सौमनसं निबध्य वपुषि स्रग्दाम दृग्दामभि- र्भस्मीभावितमन्मथस्य भवतो भिन्दन्ति भक्तिस्पृशः । दोलान्दोलनविह्वलेन्दुवदनादोःकन्दलीचन्दन- स्यन्दानन्दनिमीलितार्धनयनास्तापव्यथां मान्मथीम् ॥ १७ ॥ हे स्वामिन्, भक्तिस्पृशो मान्मथीं तापव्यथां भिन्दन्ति । किं कृत्वा । सौमनसं स्र- ग्दाम निबध्य । कुत्र । वपुषि । कस्य । भक्तः । कीदृशस्य । भस्मीभावितो मन्मथो येन तस्य । कीदृशाः । दोलाया आन्दोलनं चलनं तेन विह्वला चासाविन्दुवदना तस्या दोःक- न्दली तस्याश्चन्दनं तस्य स्यन्दस्तेन निमीलितार्धानि नयनानि येषां ते ॥ स्वामिन्यस्तव पादपङ्कजयुगं भक्त्याभ्यषिञ्चन्मुहुः पूजान्तेषु नमन्नमन्दमुदितानन्दाश्रुलेशोत्करैः । तस्याङ्घ्री ललिताक्षिपक्ष्मपटलप्रान्तस्रुतार्णः कण- श्रेणीभिः स्नपयन्त्यनङ्गविगलन्मानाः कुरङ्गीदृशः ॥ १८ ॥ हे स्वामिन्, कुरङ्गीदृशः अङ्घ्री पादौ स्वपयन्ति । काभिः । ललितानि च तानि अ- क्षीणि तेषां पक्ष्मपटलानि तेषां प्रान्तस्तस्मात्श्रुता येऽर्णः कृणा जलकणास्तेषां श्रेणय- स्ताभिः । कीदृश्यः । अनङ्गेन विगलन्मानो यासां ताः । तस्य कस्य । यः पादपङ्कजयुग- मभ्यषिञ्चत् । कस्य । तव । कया । भक्त्या । कीदृशः । नमन् । कदा । पूजान्तेषु । कैः । अमन्दमनल्पमुदिता उत्पन्नाश्च ते आमन्दाश्रुलेशोत्करास्तैः ॥ त्वामक्षामशुभानुभावविभवं भालाग्निकीलावली- संरम्भादभियोक्तुमक्षमतया साक्षादुपेक्ष्य स्मरः । नूनं हन्ति निरन्तरं भव भवत्सेवैकहेवाकिनं कर्णाभ्यर्णवलत्कटाक्षविशिखश्रेणीभिरेणीदृशाम् ॥ १९ ॥ हे भव, नूनं निश्चितं स्मरो भवत्सेवैकहेवाकिनं हन्ति । कथम् । निरन्तरमविच्छि- न्नम् । काभिः । कर्णस्याभ्यर्णं तत्र वलन्त्यश्च ताः कटाक्षविशिखश्रेण्यास्ताभिः । कासाम् । एणीदृशां मृगाक्षीणाम् । किं कृत्वा । त्वामुपेक्ष्य । कया। अक्षमतया । किं कर्तुम् । अभि- योक्तुम् । कथम् । साक्षात्स्वरूपेण । कुतो हेतोः, भाले अग्निस्तस्य कीला ज्वालास्तेषा- मावल्यस्तासां संरम्भ टोपस्तस्मात् । त्वां कीदृशम् । अक्षामः शुभानुभावविभवो यस्य तम् ॥ आदौ भक्तिवयस्यया परिचयान्नीतोन्मुखत्वं शनै- रारूडा विषमेषुवर्त्मसु चिरं भ्रान्ताथ तान्तेः पदम् । दूतीकृत्य नवानवद्यवचसं देवीं पुरो भारती- मेषा त्वामुपगन्तुमिच्छति पतिं प्रोद्दामकामा मतिः ॥ २० ॥ एषा मतिरिच्छति । किं कर्तुम् । त्वामुपगन्तुम् । कीदृशी । प्रोद्दामः कामोऽभिलाषो यस्याः । त्वां कम् । पतिं स्वामिनं भर्तारं वा । किं कृत्वा । भारतीं दूतीकृत्य । कुत्र । पु- रोऽग्रे । कीदृशीम् । नवानवद्यवचसम् । मतिः कीदृशी । नीता प्रा- पिता कया । भक्तिवयस्यया भक्तिरेव वयस्या तया । कदा । आदौ आरम्भे । कथम् । शनैः । अन्यच विषमेषुवर्त्मस्वारूढा पञ्चशरमार्गं प्राप्ता । अन्यच्च भ्रान्ता । कियन्तं कालम् । सुचिरम् । अथानन्तरम् । किम् । पदम् । कस्याः । तान्तेर्ग्लानेः । इति कामिनी प्रत्यर्थः । मुख्योऽर्थो मतिं प्रति यथा - मतिः कीदृशी । प्रथमं भक्त्या औत्सुक्यं नीता । कुतो हेतोः । परिचयाद्विद्यासंस्कारात् । तदनन्तरं विषमेषु वर्त्मसु सुच्चिरं बहुकालं भ्रान्ता । तदनन्तरं खेदास्पदं जातेति ॥ धूमोद्गारगभीरघस्मरवपुर्निर्भर्त्सितार्कप्रभं स्फूर्जस्फूत्कृतकर्बुरीकृतसितश्रीकान्तदेहद्युति । ग्रासीकर्तुमुदग्रविग्रहगलद्वह्विस्फुलिङ्गं विषं को जग्राह करेऽमरेश्वरनुतस्त्वामन्तरेणापरः ॥ २१ ॥ कोऽपरो विषं जग्राह । कुत्र । करे । किं कर्तुम् । ग्रासीकर्तुम् । कमन्तरेण । त्वामन्त- रेण भवन्तं विना । कीदृशः । अमरेश्वरेणेन्द्रेण नुतः । विषं कीदृशम् । घूमस्थोद्गारस्तेन गभीरं घस्मरं च तद्वपुस्तेन निर्भर्त्सिता तिरस्कृता अर्कप्रभा येन तत् । अन्यच्च स्फूर्जच्च तत्फूत्कृतं तेन कर्बुरीकृता सिता श्रीकान्तदेहद्युतिर्येन तत् । श्रीकान्तो विष्णुः । प्रथमं तावद्विष्णुः सितोऽभूत् । पुनः कालकूटवशात्कृष्णः संपन्न इत्यागमः । अन्यच्च उदग्रश्चासौ विग्रहस्तस्माद्गलन्तो वहिस्फुलिङ्गा यस्य तत् ॥ क्रोधोद्भ्रान्तकृतान्तकिंकरकरद्रोणीमुखप्रेङ्खित- व्यालालिङ्गितकंधरः प्रकटयनाक्रन्ददीनां गिरम् । चक्षुर्दिक्षु षिदिक्षु च क्षतधृतिर्निक्षिप्य रक्षाक्षमं काङ्क्षन्कं शरणं वृणोति मरणे स्वामन्तरेणात्तुरः ॥ २२ ॥ आतुरः कं शरणं वृणोत्यभ्यर्थयते । कमन्तरेण । त्वामन्तरेण । किं कुर्वन् । रक्षाक्षमं काङ्क्षन् । किं कृत्वा । चक्षुर्निक्षिप्य । कासु । दिक्षु विदिक्षु च । अन्यच्च किं कुर्वन् । गिरं प्रकटयन्प्रकाशयन् । कीदृशीम् । आक्रन्ददीनाम् । कीदृशः । क्रोधोद्भ्रान्तश्चासौ कृ- तान्तकिंकरस्तस्य कर एव द्रोणी पुष्करिणी तस्या मुखं तस्मात्प्रेङ्खित उल्लसितश्चासौ व्या- लस्तेनालिङ्गिता कंधरा यस्य सः ॥ वर्षन्ती भवदोषपोषपरुषप्लोषप्रमोषक्षमं पीयूषं विशदांशुभिर्दश दिशत्काशप्रकाशा दिशः । कर्षन्ती विषमं तमः प्रमथितालोकस्य लोकस्य गी- श्चान्द्री मूर्ध्नि कलेव देव भवतो व्क्त्रे विधत्तां पदम् ॥ २३ ॥ गीः पदं विधत्ताम् । कुत्र । वक्त्रे । कस्य । भवतः । हे देव, गी: केव । चान्द्री कलेव । यथा चान्द्री कला पदं स्थितिं विधत्ते । कुत्र । भवतो मूर्ध्नि । गीः किं कुर्वती । पीयूषं वर्षन्ती । कैः । दशनांशुभिः । पीयूषं कीदृशम् । भवस्य दोषास्तेषां पोषस्तेन परुषश्चासौ प्लोषो दाहस्तस्य प्रमोषस्तत्र क्षमम् । अन्यच्च किं कुर्वती । विषमं तमः कर्षन्ती । कस्य । लोकस्य । कीदृशस्य । प्रमथित आलोको यस्य स तस्य । चान्द्री कला चैवंविधैव ॥ यत्पर्याप्तकृपाविपाकविकसन्माधुर्यधुर्यं तव स्वान्तं भीमभवोपतापविपदि स्फीतावहेलं मयि । स्वामिन्नेष विधिर्ममैव विधुरो दूराध्वखिन्नो जन- स्तीराद्रत्ननिधेर्व्यपैति विफलः स्वैरेव दुष्कर्मभिः ॥ २४ ॥ हे स्वामिन्, एष विधिर्विधुरो भवति । विरुद्ध इत्यर्थः । कस्य । ममैव । कस्मात् । य स्मात्स्वान्तं स्फीतावहेलं भवति । कस्मिन् । मयि । स्फीता पूर्णा । स्वान्तं मनः । कस्य । तव । मयि कीदृशे । भीमश्चासौ भवोपतापस्तेन विपद्यस्य तस्मिन् । स्वान्तं की- दृशम् । कृपाया विपाकस्तेन विकसच्च तन्माधुर्यं तेन धुर्यं ज्येष्ठम् । जनो विफल उपैति गच्छति । कुतः । रत्ननिधेस्तीरात् । कैः । स्वैरेव दुष्कर्मभिः । कीदृशः । दूराध्वखिन्नः ॥ यत्सौन्दर्यसमुद्रसान्द्रलहरीहेलाचलच्चामर- व्यग्राङ्गाङ्गुलिबालमालववधूदृक्पातपात्रं वपुः । सेवासंनिधिशंसिसंभ्रमनमत्सामन्तमौलिस्थली- लीढाङ्घ्रिद्वयमुद्वहन्ति कृतिनः सौभाग्यभाग्यास्पदम् ॥ २९ ॥ यच्च प्रेङ्खदखर्वगर्वघटितभ्रूभङ्गभीमाकृति- क्ष्माभृत्पाशमुखावलोकनघनप्रोल्लङ्घनाभीरुभिः । उन्मीलन्मृदुशाद्वले तरुतले स्वर्लोककल्लोलिनी- कूले मूलफलाशनैः शमसुधास्वादार्थिभिः स्थीयते ॥ २६ ॥ यच्चास्मिन्भवडम्बरे परिणमन्मन्दानिलान्दोलन- व्यालोलन्नलिनीदलाञ्चलचलप्रालेयलेशोपमे । दुष्कालव्यसनावसन्नजनतासंतापनिर्वापण- व्यापारैकसुकर्मनिर्मलफलारम्भैः सुखं जीव्यते ॥ २७ ॥ निःशङ्कं विकलङ्कमङ्कविलसल्लक्ष्मीकटाक्षेक्षितं यन्मानुष्यमुपेत्य नित्यमुदिता नन्दन्ति दन्तिव्रजैः । यच्चान्ते पुरुहूतवारवनितागीतामृताकर्णनप्रोन्मीलत्पुलकावकीर्णवपुषः स्वर्मध्यमध्यासते ॥ २८ ॥ सोऽयं सर्वजगत्प्रभोरशरणत्राणैकहेवाकिनः कारुण्यामृतसागरस्य गिरिजाभर्तुः परोऽनुग्रहः । कस्तं न स्तुतिभिर्विमर्शरसिकः प्रौढार्पितप्रीतिभिः प्राप्तुं शर्मदकर्मनिर्मलफलं नन्दत्यमन्दादरः ॥ २९ ॥ (पञ्चभिः कुलकम्) यत्सौन्दर्येत्यादि पञ्चभिः कुलकम् ॥ को न नन्दति आनन्दं भजते । कामिः । स्तु- तिभिः । किं कर्तुम् । प्रसादं प्राप्तुम् । कीदृशीभिः स्तुतिभिः । प्रौढैरर्पिता प्रीतिर्यासु ताः । कः कीदृशः । अमन्द आदरो यस्य सः । तं कीदृशम् । शर्मदकर्मनिर्मलफलं शर्मदं च तत्कर्म तदेव निर्मलं फलं यस्य तत् । यतः सोऽयं परोऽनुग्रहो भवति । कस्य । गि- रिजाभर्तुः । कीदृशस्य । सर्वजगतां प्रभोः । अन्यच्च अशरणेषु त्राणं तत्रैको हेवाको वि- द्यते यस्य । अन्यच्च कारुण्यमेवामृतं तस्य सागरस्तस्य । सोऽयं लोकः । यद्यस्मात् मू- लफलाशनैः स्थीयते । कुत्र । तरुतले । तरुतलं कुत्र । स्वर्लोककल्लोलिनीकूले गङ्गातटे । कीदृशे । शम एव सुखं तस्यास्वादस्तमर्थयन्ते तैः । अन्यच्च प्रेङ्खचासावखर्वश्चासौ ग र्वस्तेन घटितश्चासौ भ्रूभङ्गस्तेन भीमा आकृतिर्येषां तथाविधा ये क्ष्माभृत्पाशाः कुत्सिताः क्ष्माभृतस्तेषां घना चासौ प्रोल्लङ्घना अवमानस्ततो भीरवो भीतास्तैः । अखर्वोऽनल्पः । यद्यस्मात्सद्भिः सुखं जीव्यते । सद्भिरित्यध्याहारात् । कुत्र । अस्मिन्भवडम्बरे संसारप्रपञ्चे । कीदृशे । परिणमंश्चासौ मन्दश्वासावनिलस्तेनान्दोलनं तेन व्यालोलच्च तन्नलिनीदलं त- स्याञ्चलं प्रान्तस्तत्र चलंश्वासौ प्रालेयलेशस्तेनोपमा यस्य स तस्मिन् । आन्दोलनं कर्मो- त्पादनम् । परिणमन्पतन्नित्यर्थः । सद्भिः कीदृशैः । दुष्टश्चासौ कालस्तत्र व्यसनं दुःखं तेनावसन्ना अवसादं प्राप्ताश्च ता जनतास्तत्र व्यसनं दुःखं संतापस्तस्य निर्वापणं तदेव व्यापारः स एकः सुकर्मणो निर्मलः फलारम्भो येषां ते तैः । यद्यस्मात्सन्तो नन्दति । कैः । दन्तिव्रजैर्हस्तिसमूहैः । कथम् । निःशङ्कम् । कीदृशाः । नित्यं मुदिताः । किं कृत्वा । मानुष्यमुपेत्य प्राप्य । कीदृशम् । विकलङ्कम् । अन्यच्च अङ्के विलसन्ती चासौ लक्ष्मी- स्तस्याः कटाक्षास्तैरीक्षितमवलोकितम् । यद्यस्मात्सन्तः स्वर्मध्यं स्वर्लोकान्तरमध्यासते- ऽधितिष्ठन्ति । कदा । अन्ते मृत्युसमये । कीदृशाः । पुरुहूतस्य वारवनिता अप्सरस- स्तासां गीतमेवामृतं तस्याकर्णनं तेन प्रोन्मीलन्तश्च ते पुलकास्तैरवकीर्णं भरितं वपुर्ये- षाम् ॥ पञ्चभिः कुलकम् ॥ दृष्टिः पीयूषवृष्टिर्मधुरमधुरसस्यन्दिनी देव वाणी पाणी त्वत्पादपीठीपरिमलनरजोराजिमैत्रीपवित्रौ । चेतः स्वच्छन्दचर्यापरिणतकरुणारामविश्रामधाम त्वामक्षामप्रसादामृतजलधिमहो भेजुषामेष पाकः ॥ ३० ॥ एष पाको भवति । केषाम्, स्वां भेजुषां सेवमानानाम् । अहो आश्चर्ये । स्वां कम् । अक्षामो बहुलश्चासौ प्रसादस्तस्य जलधिस्तम् । एष कः । यतो दृष्टिः पीयूषवृष्टिर्भवति । हे देव, वाणी मधुरमधुरसस्यन्दिनी भवति । पाणी त्वत्पादयोः पीठी तस्यां परिमलनं रज उद्वर्तनधूलिस्तस्य राजिस्तया मैत्री मेलापस्तया पवित्री । चैतः स्वच्छन्दस्य चर्या तया परिणतं प्रवृत्तम्, करुणाया आरामार्थं विश्रामस्तस्य धाम । 'आरामः स्यादुपवनम् ॥ तस्यैकस्याङ्घ्रिपीठं स्फुटमुकुटमणिप्रौढरोचिःप्रतानैः क्षोणीपालाः शिरोमिः करपुटघटितैरञ्जसा रञ्जयन्ति । धत्ते धन्यः स चैकः सितरुचिरुचिरच्छत्रशुश्रोत्तरीयां लक्ष्मीमुद्दामरामाकरकमलचलच्चामरोदारहासाम् ॥ ३१ ॥ तं वाणीभिरृणन्ति श्रवणपुटसुधास्यन्दिनीधास्यभिर्मुनीन्द्रा गीतैर्गायन्ति विद्याधरवरवनितास्तस्य चित्रं चरित्रम् । विद्वद्गोष्ठीषु तस्य प्रसरति कृतिनो दानदाक्षिण्यवार्ता कीर्तिर्जागर्ति तस्य प्रवरकविवचोभङ्गिसन्मङ्गलेषु ॥ ३२ ॥ कि वान्यन्नैष पश्यत्यलममलशिखापिङ्ग जिह्वास्फुलिङ्गस्फूर्जद्द्ंष्ट्राकरालं भ्रुकुटिकुटिलितं भीषणं कालवक्त्रम् । स्वामिन्मन्दानिलान्दोलितललितलतानृत्तकान्ते वनान्ते शान्तेर्ष्यास्त्वामविद्याजडजगदगकारमाराधयेद्यः ॥ ३३ ॥ (तिलकम्) झीणीपाला भूपा अङ्घ्रिपीठं रञ्जयन्ति । कस्य । तस्य । कथम् । अञ्जसा आर्जवेन । कैः । `शिरोमिः । कीदृशैः । स्फुटाश्च ते मुकुटेषु मणयस्तेषु प्रौढामि पूर्णानि रोचिषां ग्रतामानि स्यङ्कुरा येषाम् । स चैको लक्ष्मीं धत्ते । कीदृशः । धन्यः कृतपुण्यः । कीदृशीम् ।सि तरुचिवच्चन्द्रवद्रुचिरं च तच्छत्रं तदेव शुभ्रमुत्तरीयं यस्यास्ताम् । अन्यच्च उद्दामा चासौ रामा तस्याः करावेव कमले तयोश्चलच तच्चामरं तदेवोदारो हारो यस्याः सा ताम् ॥ मुमीन्द्रास्तं गृणन्ति स्तुवन्ति । काभिः । वाणीमिः । कीदृशीभिः । श्रवणपुटेषु सुधां स्य- न्दन्त इति ताभिः । विद्याधराणां वराश्च ता वनिताश्चरित्रं गायन्ति । कैः । गीतैः । कस्य । तस्य । कीदृशम् । चित्रमद्भुतम् । दानं च दाक्षिण्यं च तयोर्वार्ता प्रसरति संचरति । कासु । विद्वद्गोष्ठीषु । पण्डितसभास्वित्यर्थः । कीर्तिर्जागतिं। कस्य । तस्य । केषु । प्रवराश्च ते कवयस्तेषां वचोभङ्गयो वाक्यविच्छित्तयः । काव्यानीत्यर्थः । ता एव सन्मङ्गलानि तेषु ॥ हे स्वामिन्, अन्यत्किं वा भवति । एष कालवक्त्रं यममुखं न पश्यति । कीदृशम् । अनलस्य शिखामिः पिशङ्गाश्च ता जिह्वास्ताभिः स्फूर्जन्त्य उल्लसन्त्यश्च ता दंष्ट्रास्ताभिः करालम् । अन्यच्च भ्रुकुटिकुटिलितम् । अन्यच्च भीषणम् । एष कः । यस्त्वामाराधयेत् । कुत्र । वनान्ते तरूणामन्तरेऽरण्ये वा । कीदृशे । मन्दश्चासावनिलस्तेनान्दोलिताः कम्पिता ललिताश्च ता लतास्तासां नृत्तं तेन कान्तस्तस्मिन् । यः कीदृशः । शान्ता ईर्ष्या असूया यस्य सः । त्वां कम् । अविद्यया जडं च तज्जगत्तस्यागदंकारो वैद्यस्तम् । अविद्याहं- कारः ॥ तिलकम् ॥ आकर्णाकृष्टचापः प्रहरति निभृतं निर्निमित्तापकारी नारीनेत्रान्ततिर्यग्विवलनविशिखश्रेणिभिः पुष्पचापः । फूत्कारस्फारफालः स्फुरदुरुगरलज्वालजिह्वाजटालः कालव्यालः करालः कवलयति वपुर्हन्तुकामः क्व यामः ॥ ३४॥ तस्मादस्माकमाकस्मिकविकसदसत्कर्मपाकोपताप्रव्यापत्तापातुराणामविरलकरुणासिन्धुरापन्नबन्धुः । भक्तिश्रद्धाप्रबन्धानमदमरशिरःश्रेणिमाणिक्यमालाज्वालालीढाङ्घ्रिपीठः शरणमशरणत्राणशीलस्त्वमेकः ॥ ३९ ॥ (युग्मम्) फुष्मचापः कामः प्रहरति । कथम् । निभृतं गूढम्: । नारीणां नेत्राणि तेषामन्तास्तेषु तिर्यग्विवलनानि ताम्येव विशिखाः शरास्तेषां श्रेणयस्ताभिः । कीदृशः । आकर्णमाकृष्टं चापं येन सः । अन्यच्च निर्निमित्तमप्रकरोतीति सः । तिर्यग्विक्लनानि कटाक्षा इत्यर्थः । कालस्य व्यालो यमभुजंग: वपुः कवलयति ग्रासीकरोति । कीदृशः । फूत्कारस्कारफाल: फूत्कारेण स्फारः पूर्णः फाल उत्पतनं यस्य सः । अन्यच्च स्फुरंश्चासौ उरुश्चासौ गरल- ज्वालः स एव जिह्वा तया जटालो व्याप्तः । अन्यचच करालो हन्तुकामः । वयं क्व यामः कुत्र व्रजामः ॥ तस्मात् किंबहुना त्वमेकः शरणं भवसि । केषाम् । अस्माकम् । त्वं कीदृशः । अशरणेषु त्राणमेव शीलं यस्य सः । अन्यच्च अविरला चासौ करुणा तस्याः सिन्धुः । अन्यच्च भक्तौ श्रद्धा तस्याः प्रबन्धस्तेन नमन्तश्च तेऽमरास्तेषां शि- रांसि तेषां श्रेणयस्तासु माणिक्यमालास्तासां ज्वालास्ताभिलींडमङ्घ्रिपीठं यस्य सः । अ- स्माकं कीदृशानाम् । अकस्माद्भवो विकसंश्चासावसत्कर्मपाकस्तस्योपतापस्तेन जाता चासौ व्यापत्तया तापस्तेनातुरास्तेषाम् ॥ युग्मम् ॥ अथेदानीं भूमिमूर्ति देवं स्तौति या निःशेषौषधीनां जनिरजनि पुनर्न क्वचित्कम्पसंप- त्संपर्को यत्र यत्र स्थितिरुपरि परिभ्रंशमात्र जनानाम् । एषा शेषाहिपीठप्रकटितवसतिः संपदां भूतधात्री पात्रीकुर्वत्यजस्त्रं जन[^१]मनघमघः प्रक्रमस्ते नमस्ते ॥ २६ ॥ नमोऽस्तु । कस्मै । ते । एषा भूतधात्री प्रक्रमो भवति । आदिमूर्तिनिर्माणप्रारम्भ इत्यर्थः । किं कुर्वती । जनं पात्रीकुर्वती । कासाम् । संपदाम् । एषा कीदृशी। शेषाहिरेव पीठं तत्र प्रकटिता वसतिर्यया सा । एषा का । या जनिरुत्पत्तिस्थानं भवति । कासाम् । निःशेषाश्च ता ओषधयस्तासाम् । कम्पसंपत्संपर्को नाजनि नोदपादि । कुत्र । क्वचित् । यत्र यस्यामित्यर्थः । स्थितिर्न भवति । केषाम् । जनानाम् । कुत्र । यत्र । जनानां कीदृशानाम् । परिभ्रंशं लुठनं भजन्त इति तेषाम् ॥ अथातो जलमूर्ति देवं स्तौति संसारेऽस्मिन्नसारे परमिह कुशलं कर्म धर्मप्रधानं धर्मः शर्मप्रदोऽपि प्रभवति सुधियां सिद्धये शुद्धिहेतोः । शुद्धौ बद्धस्पृहाणां न भवति कृतिनां यद्विनापद्विनाश- स्त्रैलोक्याप्यायकं तज्जलमपि [^२]भगवन्विभ्रमस्ते नमस्ते ॥ ३७ ॥ नमोऽस्तु । कस्मै । ते । तज्जलमपि विभ्रमो भवति । यस्य ते तनुरचनेत्यर्थः । कीदृशम् । त्रैलोक्याप्यायकम् । तत्किम् । यद्विना आपद्विनाशो न भवति । केषाम् । कृतिनाम् । कीदृशानाम् । बद्धा स्पृहा यैस्तेषाम् । कस्याम् । शुद्धौ नैर्मल्ये। धर्मप्रधानं कर्म कुशलं मङ्गलावहं भवति । कस्मिन् । अस्मिन्संसारे । कीदृशे । असारे अस्थिरे । परमत्यर्थम् । कुत्रहेतोः । शुद्धिहेतोः । तस्मात् । कीदृशोऽपि । शर्म प्रददातीति सः ॥ अथेदानीमग्निमूर्ति देवं स्तौति यं मुक्त्वा जीवयन्तं जगदगदमदः संततं सन्तमन्त- र्जन्तूनां शीतभीतिप्रकटितविपदामस्ति न स्वस्तिहेतुः । गीर्वाणानां हविर्भिर्ग्लपयति विपदं यज्वनामप्यनल्पैः संकल्पैः कल्पितैर्यः स भवति विभवः पावकस्ते नमस्ते ॥३८॥ हे विभो, संततं सदैव जन्तूनां देहिनामन्तः सन्तं जठराग्निरूपेणागदं नीरोगं अदः जनान् जीवयन्तं यं पावकं विना शीतभीत्या प्रकटिता विपद्येषां तादृशानां देहिनां स्व- स्तिहेतुः कल्याणकृदन्यः कोऽपि नास्ति । तथा योऽग्निर्गीर्वाणानां देवानां विपदमतृप्ति- रूपां हविर्भिर्ग्ल्पयति आहुतिभिर्दूरीकरोति । तथा यज्वनां याज्ञिकानामप्यनल्पैर्महद्भिः कल्पितैः कृतैर्दत्तैः संकल्पैर्मनोरथैर्यज्वनां विपदं ग्लपयति । स पावकोऽग्निस्ते तव विभव ऐश्वर्यं मूर्तिरूपमस्ति । ते तुभ्यं नमोऽस्तु ॥ [^१]. अनघो मघो महिमा यस्य. [^२]. 'भगवद्विभ्रमः' ख. अथातो वायुमूर्तिं विभुं स्तौति अन्तः संतिष्ठमानः स्थगयति जगतां पञ्चतां पञ्चधा यः संधाय स्थायिभावं प्रसरति सततं यत्र तेजस्विचक्रम् । यत्र स्थैर्यं बिभर्ति त्रिभुवनभवनं बिभ्रदाधारभूतां भूतानां मूर्तिमेष प्रथयति विभुतां मारुतस्ते नमस्ते ॥ ३९ ॥ हे विभो, पञ्चधा पञ्चभिर्भेदैः प्राणापानसमानोदानव्यानरूपैरन्तर्देहे संतिष्ठमानः स्वस्वस्थाने स्थितो यो मारुतः पवनो जगतां पञ्चतां निधनं स्थगयति रुणद्धि । 'स्यात्पञ्चता कालधर्मः' इत्यमरः । तथा संततं नित्यं स्थायिभावं स्थिरत्वं संधायालम्ब्य यत्र यस्मिन्पवने तेजस्विचक्रं सूर्यादिग्रहताराचक्रं प्रसरति भ्रमति । तथा यत्र च पवने त्रिभुवन मेव भवनं सद्म स्थैर्यमेति । भूतानां प्राणिनामाधारभूतां मूर्तिं बिभ्रदेष मारुतस्ते तव विभोर्विभूतिं प्रथयति । ते तुभ्यं नमोऽस्तु ॥ अथाकाशमूर्तिं देवं स्तौति यत्र ब्रह्माण्डपिण्डः प्रसरति सरलालाबुतुम्बीविडम्बी [^१]स्थैर्यं झांकारि वारि प्रथयति तदपि स्कन्धबन्धेषु यस्य । सोऽपि स्फारेण भर्तुं प्रभवति पवनो यस्य नोद्देशलेशं धाम्नामाधारभूतं भव भवति वपुस्तन्नभस्ते नमस्ते ॥ ४० ॥ हे विभो भव, यत्र यस्मिन्नभसि जले सरला वृत्ता या अलाबुतुम्बी तां विडम्बयत्यनुकरोति तादृशो ब्रह्माण्डस्य पिण्डः प्रसरति संचरति । तथा यत्र पवने झांकारि सशब्दं वारि जलं तदपि स्कन्धबन्धेषु सप्तसु पवनस्कन्धबन्धेषु स्थैर्यं प्रथयति प्रकाशयति । सोऽपि पवनः स्फारेणोल्लासेन यस्य नभस उद्देशलेशं भर्तु न प्रभवति । तन्नभ आकाशं तव वपुर्मूर्तिभूतं सूर्यादीनामाधारभूतं भवति । ते तुभ्यं नमोऽस्तु ॥ अथातो यजमानमूर्तिं देवं स्तौति धातुश्चातुर्यभाजो जनजननविधौ या मुखेभ्यश्चतुर्म्यः साकं नाकस्थितानामजनिषत कृतप्रीतयः स्फीतभासाम् । तासामासां श्रुतीनां ज नियतं कर्मभिः शर्मकृद्भिः साफल्यं यः स यज्वा वपुरधृत विपत्संगमस्ते नमस्ते ॥ ४१ ॥ हे भगवन्, अधृतविपत्संगमः न धृतो विपदां संगमो येन स यज्वा यजमानस्तव वपुर्भवति । तस्मै ते नमोऽस्तु । स क इत्याह -तासामित्यादि । यो यज्वा शर्मकृद्भिर्निःश्रेयसप्रदैः कर्मभिः स्फीतभासामधिकद्युतीनामासां श्रुतीनां साफल्यं जनयत्युत्पादयति । [^१]. 'धैर्यं' ख. तासां कासामित्याह—धातुरिति। लोकसृष्टिविधौ चातुर्यभाजो ब्रह्मणश्चतुर्भ्यो मुखेभ्यो याः श्रुतयोऽजनिषत उत्पन्नाः । किंभूताः । कृतप्रीतयः । केषाम् । नाकस्थितानाम् । साकं सदैव ॥ अथातश्चन्द्रमूर्तिं देवं स्तौति— प्रेङ्खद्भिर्यन्मयूखैर्विदधति धवले निर्जराः प्राणयात्रां प्रोद्दामानन्दधाम प्रथयति बहुले पारणं यः पितॄणाम् । कुर्वन्नुर्वन्तरिक्षं प्रशमिततिमिरं यः समस्तौषधीनां पीनां पुष्णाति भातिं तनुरतनुरसौ चन्द्रमास्ते नमस्ते ॥ ४२ ॥ हे भगवन्, असौ चन्द्रमास्तवातनुर्महती तनुर्मूर्तिर्भवति । ते तुभ्यं नमोऽस्तु । असौ क इत्याह – निर्जरा देवाः धवले शुक्लपक्षे प्रेङ्खद्भिरुल्लसद्भिर्यस्य चन्द्रमसो मयूखैः किरणैः प्राणयात्रां विदधति कुर्वति । तथा यश्चन्द्रमा बहुले कृष्णपक्षे प्रोत्कटानन्दस्थानं पितॄणां पारणं प्रथयति । 'उभौ निरुक्तौ खलु शुक्लकृष्णौ शुभाशुभे कर्मणि तौ प्रशस्तौ । शुक्लपक्षो दैवः कृष्णपक्षः पैत्र इति ज्योतिःशास्त्रे संहिताविदः । तथा यश्चन्द्रमाः समस्तौषधीनां पीवरां भातिं दीप्तिं पुष्णाति । किं कुर्वन् । शमिततिमिरं ध्वस्तान्धकारं उरु महदन्तरिक्षं कुर्वन् ॥ अथातः सूर्यमूर्तिदेवं स्तौति प्रातः प्राभञ्जनेऽस्मिन्पथि पथिकमिव ध्वान्तकान्तारताम्य- ल्लोकालोकार्पणार्थं प्रमुदितमुदितं यं समर्चन्ति सन्तः । सायं ध्यायन्ति संध्याविधिमधि सुधियो बाधिताधिं समाधिं साधिम्नाधिष्ठिता यं त्वमिह स मिहिरः सद्गभस्ते नमस्ते ॥ ४३ ॥ हे सद्गभस्ते, सन्तः शोभना गभस्तयो रश्मयो यस्य स तस्य संबोधनम् । इह जगति त्वं मिहिरः सूर्योऽसि । ते तुभ्यं नमोऽस्तु । स मिहिरः सूर्यः कः । प्रातरित्यादि । प्राभञ्जने पथि आकाशे पान्थमिव ध्वान्तमन्धकार एव कान्तारं दूरशून्योऽध्वा तत्र ताम्यन्तो ये लोकास्तेषामालोकार्पणार्थं प्रकाशवितरणाय प्रातरुदितम् । तथा सुधियः सुकृ तिनः साधिम्ना बाढत्वेन समाधिं संयतचित्तत्वमधिष्ठिता यं सूर्ये सायं समये ध्यायन्ति । संध्याविधिमधि संध्यासमय इत्यर्थः । किंभूतं यम् । बाधिता आधयो मनःपीडा व्याधयश्च येन स तम् । 'आरोग्यं भास्करादिच्छेच्छ्रियमिच्छेद्धुताशनात्' इति स्मृतेः ॥ अथातः परब्रह्मस्वरूपं निष्कलेश्वरं परमशिवं स्तौति दिग्देशाकारकालैरकलितविभवं यन्महद्बीजभूतं भूतग्रामस्य यस्य त्रिभुवनविषयं वस्तुजातं विवर्तः । यस्मिन्हेम्नीव नानाभरणपरिकरो लीयते विश्वमन्ते तद्भिन्नेष्वप्यभिन्नं भव भवसि परं ब्रह्म तस्मै नमस्ते ॥ ४४ ॥ हे विश्वमूर्ते भव परमेश, त्वं विभुस्तत्परं परात्परतरं ब्रह्म बृंहणाद्ब्रह्म भवसि । किंभू- तम् । भिन्नेष्वपि पृथग्भूतेष्वपि प्राणिषु सचराचरेष्वभिन्नम् । एकरूपमेवेत्यर्थः । दिक् च देशश्चाकारश्च कालञ्च तैरकलितविभवमज्ञातैश्वर्यम् । सर्वव्यापकत्वेन दिग्देशाद्यपरिच्छि- न्नमित्यर्थः । तथाभूतानां चतुर्दशविधानां ग्राम: समूहस्तस्य यत्परं ब्रह्म महद्वीजभूतं कारणभूतं भवति । यथा बीजादतिसूक्ष्मादपि महतो वृक्षादेरुद्भवस्तथा यस्माच्चतुर्दशवि- धभूतसर्ग इत्यर्थः । तथा चोक्तं सांख्यसंप्रदाये – 'अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भ वति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥' तथा त्रिभुवनविषयं समस्तं वस्तु- जातं यस्य परब्रह्मणो विवर्तः परिणामो वा । हेम्नि सुवर्ण इव नानाभरणानां कङ्कणनूपुरा दीनां परिकरः सामग्रीरूपो यथा हेम्नि सुवर्णे लीयते तथान्ते कल्पान्ते विश्वं यत्र परब्रह्मणि लीयत इत्यर्थः ॥ अथात एतस्य स्तोत्रस्योपसंहारश्लोकमेकमाह - इत्थं मत्सूक्तयस्ते शशधरशिखर स्फारसारस्वतौघ- प्रोन्मीलद्वक्त्रशुक्तिस्खलदमलमिलन्मौक्तिकव्यक्तिभाजः तीव्रापत्तापताम्यत्सहृदयहृदयक्लान्तिशान्तिप्रगल्भा दर्भाग्रस्पर्धिबुद्धिग्रथितदृढगुणाः कर्णपूरीभवन्तु ॥ ४५ ॥ हे विभो शशधरशिखर चन्द्रमौले, इत्थं पूर्वोक्तेन प्रकारेण मत्सूक्तयस्ते तव विभोः कर्णपूरीभवन्तु कर्णावतंसाः संपद्यन्ताम् । किंभूतास्ताः । स्फार उल्लसन्यः सारस्वतौघो वाणीसंबन्धी रसप्रवाह एव सरस्वतीनदीसंबन्धी प्रवाहस्तेन प्रोन्मीलत्प्रकर्षेण विलसद्य- द्वक्त्रं मुखं सैव शुक्तिस्तस्याः स्खलन्त्यमलानि मिलन्ति यानि मौक्तिकानि वचनरूपाणि तेषां व्यक्तिं प्रकटीभावं भजन्ति तादृश्यः । तथा किंभूताः । तीव्रा कठिना या आपद्भ- वामयदुःखं तेन यस्तापः संतापस्तेन ताम्यन्तो ये सहृदयास्तेषां हृदयक्लान्तेः शान्तौ प्रगल्भाः । पुनः कीदृश्यः । दर्भाग्रस्पर्धिनी अतिसूक्ष्मा या बुद्धिस्तया ग्रथिता दृढा गुणा माधुर्यौजःप्रसादाख्यास्त्रयो यासां ताः । मुक्ता अपि शुक्तिभवास्तापहारिण्यो गुणैस्तन्तुभि र्बद्धाश्च भवन्तीति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ कर्णपूरस्तोत्रं त्रयस्त्रिंशम् । चतुस्त्रिंशं स्तोत्रम् । अथातो ग्रन्थकृच्चतुस्त्रिंशमग्र्यवर्णस्तोत्रमारभमाण आह सर्पत्कंदर्पदर्पज्वरभरहरणव्यग्रवर्चःप्रपञ्च [^१]प्रत्यग्रब्रध्नचन्द्रज्वलदनलवलत्पक्ष्मलत्र्यक्षवक्त्रः । [^१]. 'प्रत्यक्ष' ख. शर्वस्तर्षप्रकर्षश्रमशमनमनस्तर्पणस्वर्णवर्ष- स्वस्थं तन्वन्सहर्षं जनमनघमघः कल्पयत्वक्षयं वः ॥ १॥ सर्पन्नुल्लसन्यः कंदर्पः कामस्तस्य दर्पो गर्व एव ज्वरभरस्तस्य हरणे व्यग्रो वर्चः प्रपञ्च- स्तेजोडम्बरो येषां ते तादृशाः प्रत्यग्रा नवाः सूर्यचन्द्रज्वलदग्नयस्तैर्वलन्ति पक्ष्मलानि त्रीणि नयनानि यस्य तथाभूतं वक्त्रं मुखं यस्य । तथा तर्षस्य स्पृहायाः प्रकर्षस्तेन श्रम- स्तस्य शमनं यन्मनस्तर्पणस्वर्णवर्षं परमानन्दस्वरूपं तेन स्वस्थं सहर्षं जनं भक्तिप्रह्वलोकं तन्वन्विस्तारयन् । अनघमघ: अनघो मघो महिमा सौख्यं च यस्य स शर्वः श्रीशंभुर्वो युष्मभ्यमक्षयमविनाशं स्थैर्ये कल्पयतु करोतु ॥ यद्वद्वन्द्यं प्रसन्नं लसदसमरसस्पन्दसंदर्भगर्भं मङ्गल्यं नर्मनद्धं तव वचनमदः शस्यमस्यत्कलङ्कम् । [^१]तद्वद्भर्गस्य वर्यं शशधरशकलं द्यत्ववधं कपर्द- न्यस्तं वक्रं प्रशस्तं प्रवलतमतमःखण्डनं मण्डनं वः ॥ २ ॥ प्रसन्नं प्रसादमधुरम् । लसन् योऽसमोऽनन्यसामान्यो रसोऽमृतरसस्तस्य संदर्भो गर्भे यस्य तत् तादृशम् । मङ्गल्यं मङ्गले साधु । तथा नर्मणा खेलया बद्धम् । तथा शस्यं स्तुत्यम् । कलङ्कं त्रिविधं मलमस्यद्दूरीकुर्वत् । भर्गस्य श्रीशंभोरदो वचनं दीनाभयवचनं यद्वद्वन्द्यं भवति तद्वद्वर्यं प्रशस्यं मण्डनं भूषणं कपर्दे जटाजूटे न्यस्तं वक्रं कुटिलमेककलारूपत्वात् । तथा प्रशस्तं शोभनम् । तथा प्रवलतमतमःखण्डनं भर्गस्य श्रीशंभोः शशधरशकलं चन्द्रशकलं वोऽवद्यं पातकं द्यतु खण्डयतु । षट्चक्रस्थः षडध्वप्रसरसरभसः सर्ग[^१]बन्धप्रगल्भः प्रत्यग्रप्रह्वनव्यस्तवपठनपरब्रह्मसच्चक्रशक्रः । दक्षक्रत्वन्तकत्वं दधदधममदध्वंसलक्ष्यप्रशंसः संसर्गध्वस्तपङ्को गणगणमचलं कल्पयन्हन्त्वशं[^३] वः ॥ ३ ॥ प्रक्रान्तत्वाद्भर्ग इत्यध्याहारः । एवंभूतो भर्ग: श्रीशंभुर्वो युष्माकमशमकल्याणं भवामयोत्थं हन्तु खण्डयतु । किंभूतः । षट्सु शरीरान्तर्वर्तिषु चक्रेषु नाभिहृत्कष्ठतालुमूलभ्रूमध्यब्रह्मरन्ध्रेषु तिष्ठति तादृशः । तथा षट् च तेऽध्वानो वर्णमन्त्रपदकलातत्त्वभुवनात्मान आगमशास्त्रप्रसिद्धाः । तत्र वर्णमन्त्रपदात्मका अध्वानो वाचकरूपाः कलातत्त्वभुवनात्मका वाच्यरूपास्तेषु षडध्वसु प्रसरः संचारस्तत्र सरभस औत्सुक्यवान् । तथा स र्गबन्धे सृष्टिरचनायां प्रगल्भः । तथा अग्रं पुरोभागं प्रति प्रत्यग्रं प्रह्वाः प्रणतिपरा नव्यस्तवपठने परा लीना ब्रह्मा द्रुहिणः, सत् उल्लसत् चक्रं सुदर्शनाख्यं यस्य स सच्चक्रो विष्णु:, शक्र इन्द्रश्च यस्य । तथा दक्षस्य दक्षप्रजापतेः क्रतोर्यज्ञमृगस्यान्तकत्वं ध्वंसकत्वं [^१]. 'तद्वः' क. [^२]. 'भङ्ग' ख. [^३] 'अघं' ख. दधत् । तथा अधमानां पामराणामग्धकासुरत्रिपुरप्रभृतीनां ध्वंसस्तेन लक्ष्या प्रशंसा स्तु- तिर्यस्य सः । तथा संसर्गेण निजचरणारविन्दरजःस्पर्शेन ध्वस्तं पङ्कं त्रिविधं पातकं येन स तादृशः । तथा गणानां नन्दिमहाकालप्रभृतीनां गणः समूहस्तमचलं निर्विनाशं कल्पयन् ॥ वक्षःसद्मस्थपद्मं करकमलतलप्रज्वलच्छङ्खचक्रं कंसघ्नं सर्पतल्पं खगवरवहनं नन्दयत्यर्धगं यः । धंर्म बध्नन्ध्वजस्थं करगतकलशं वर्ष्म यच्च व्रतस्थं शंसन्तं संस्मरन्तं नतमनवरतं सोऽव्ययः स्यत्वघं [^१] वः ॥ ४ ॥ अविद्यमानो व्ययो नाशो यस्य स तादृशः श्रीशंभुर्वो युष्माकमघं त्रिविधं पापं स्यतु दूरीकरोतु । 'षोऽन्तकर्मणि' धातुः । स क इत्याह - वक्षःसद्मोत्यादि । वृक्ष एव सद्म निवासस्तत्र तिष्ठतीति तादृशी पद्मा लक्ष्मीर्यस्य स तादृशम् । तथा करौ पाणी एव कमले तयोस्तले प्रज्वलन्ती प्रोद्भासमाने शङ्खः पाञ्चजन्यश्चक्रं सुदर्शनश्च यस्य स तादृ- शम् । तथा कंसघ्नं कंसरिपुम् । सर्पतल्पं शेषशायिनम् । खगवरवहनं गरुडवाहनं विष्णुं अर्धगमर्धे दक्षिणार्धे गच्छतीति तादृशस्तं यो नन्दयति प्रमोदयति । हरिहररूपधारीत्यर्थः । तथा यः श्रीशंभुर्वामार्धे ध्वजस्थं ध्वजाग्रस्थं धर्मं वृषं बध्नन् । तथा करगतकलशं पाणि- स्थामृतकलशं च वर्ष्म शरीरं बध्नन् । तथा शंसन्तं स्तुवन्तं संस्मरन्तं श्रीशिवस्मरणरतं व्रतस्थं भक्तिप्रह्वजनं चानवरतमनिशं नन्दयति ॥ संरक्षन्मक्तवर्गं यमभटभयतः सम्यमम्यर्णलभ्यं धन्यंमन्यं वदन्यं प्रणयपरवशं पर्षद[^२]ग्र्यव्यवस्थम् । वर्षत्वच्छिन्नचञ्चद्गरगवलगलः कस्थरङ्गत्तरङ्ग- स्वर्गङ्गः शश्वदङ्कस्थलगतनगजरूयम्बकः संपदं वः ॥ ९ ॥ स त्र्यम्बकः श्रीशंभुर्वो युष्माकं संपदं वर्षतु । किंभूतः । अच्छिन्नमविरतं चञ्चत् उच्छ- लन्यो गरः कालकूटाख्यो विषविशेषस्तेन गवलो महिषश्रृङ्गसदृशः । 'शबल' इति पाठः । शबल: कर्वुरो गलो यस्य स तादृशः । तथा शश्वदनिशं अङ्कस्थलगता अर्धनारीश्वररूप- धारित्वेन नगजा पार्वती यस्य स तादृशः । किं कुर्वन् । यमभटभयतोऽन्तककिंकरत्रा- साद्भक्तवर्गं संरक्षन् सम्यक् पालयन् । किंभूतं तम् । सभ्यम् सभासु साधुः सभ्यस्तम् । तथा अभ्यर्णे समीपे लभ्यः सेवायां संनिहितस्तादृशम् । तथा धन्यंमन्यं धन्यमात्मानं मन्यते तादृशस्तम् । तथा वदन्यं दातारम् । तथा प्रणये निजप्रभुं प्रति कर्तव्ये परवश- स्तादृशम् । तथा पर्षदि सभायामग्र्या उत्कृष्टा व्यवस्था यस्य तम् । पुनः किंभूतस्त्र्यम्बकः । के शिरसि तिष्ठतीति कस्था रङ्गत्तरङ्गा चलद्वीचिः स्वर्गङ्गा यस्य स कस्थरङ्गत्तरङ्गस्वर्गङ्गः ॥ [^१]. 'अशं' क. [^२]. 'अर्घ्य' ख. अम्भःकम्प्रं कटप्रं सबहलगरलं पन्नगं कण्ठलग्नं ग्रथ्नन्मह्यम्नभस्वत्खरकरदहनस्वर्क्षपत्यम्बरत्वम् । स्कन्धस्थं चर्म भर्मप्रभमलकचयं चन्दनत्वं प्रपन्नं [^१]प्रत्यङ्गं भस्म सप्तच्छददलधवलं स्यत्वजः कल्मषं वः ॥ ६ ॥ अजोऽनादिः श्रीशंभुर्वो युष्माकं कल्मषं पातकं स्यतु दूरीकरोतु । किं कुर्वन् । अ- म्भसा स्वर्गङ्गाजलेन कम्प्रस्तं कटप्रं जटाजूटं कपर्दं ग्रथ्नन् । तथा सह बलेन गरलेन वर्तते यः स तादृशम् । कण्ठे गले लग्नं पन्नगं वासुकिं ग्रथ्नन् । मही क्षितिः आपो जलं च नभस्वान्वायुश्च खरकरः सूर्यश्च दहनोऽग्निः स्वमात्मा यजमानः ऋक्षपतिश्चन्द्रः अ- म्बरं चेत्येतेषां भावः मह्यम्नभस्वत्खरकरदहनस्वर्क्षपत्यम्बरत्वं ग्रथ्नन् तन्मूर्तिं धारयन् । तथा स्कन्धयोरंसयोस्तिष्ठतीति तादृशं चर्म गजचर्म ग्रथ्नन् । तथा भर्म बिभर्ति पुष्णाति प्रीतिमिति भर्मकनकम् । 'गाङ्गेयं भर्म कर्बुरम्' इत्यमरः । भर्मप्रभं कनकनिभमलकचयं केशसमूहं ग्रथ्नन् । यतोऽसौ विभुर्नीललोहितः । नीलः कण्ठे लोहितः केशेष्वित्यागमः । तथा चन्दनत्वं मलयजत्वं प्राप्तं सप्तच्छददलवद्धवलं भस्म विभूतिं प्रत्यङ्गं अनन् ॥ [^२]सद्यः संन्यस्तगर्वग्रहमहतमहस्त्यक्तसङ्गप्रसङ्गं सत्त्वस्थं लब्धतत्त्वं मलशबलगलत्सर्वसंबन्धबन्धम् । यत्संपर्कप्रयत्नक्षममलयदयं तथ्यपथ्यप्रसक्तं यच्छत्त्वच्छं मनस्तत्स्मरहरचरणद्वन्द्वनम्रस्य शं वः ॥ ७ ॥ स्मरहरः श्रीशंभुस्तस्य पादयुगले नम्रस्य भक्तिप्रह्वस्य धन्यस्य पुंसः अच्छं निर्मलं तन्मनश्चित्तं वो युष्माकं शं कल्याणं यच्छतु ददातु । तन्मनः किम् । यत् श्रीशिवभक्तस्य मनः सद्यस्तत्क्षणमेव श्रीशिवैकताध्यानावसर एव सम्यङ् न्यस्तो गर्वग्रहोऽहंकारहेवाको येन तत् । तथा अहतमक्षतं महस्तेजो यस्य तत् । तथा त्यक्तः सङ्गस्य बाह्यजनसंयोगस्य प्रसङ्गो येन तत् । तथा सत्त्वस्थमुद्रिक्तसत्त्वगुणस्थम् । तथा लब्धतत्त्वं प्राप्तपरमार्थम् । तथा मलेन पापेन शबल: पापमिश्रितः गलतू चलत् .... ........ । श्रीशिवभक्तिरसास्वादे प्रयत्नस्तत्र क्षमम् । तथा अलयदयं निर्विनाशकृपम् (सेवकजनम् ) । तथा तथ्यं सत्यवचनमेव पथ्यं यस्य तत् ॥ सत्यं नश्यत्यवश्यं घनमघपटलं यत्पदस्पर्शबद्ध- श्रद्धस्य स्पष्टकष्टप्रशमनमनसः कस्य न व्यक्तकल्कम् । तस्य व्यस्यत्वशं वः सित[^३]करशरणं मस्तकं ध्वस्तकम्पं संपत्संपर्करम्यप्रभमभयकरस्यर्षभस्यन्दनस्य ॥ ८ ॥ [^१]. 'प्रत्यग्रं' क- ख. [^२]. क- पुस्तकेऽयं श्लोकस्रुटितः [^३]. 'शतकर' ख. सितकरस्येन्दोः शरणं निवासभूतम् । ध्वस्तो दूरीकृतः कम्पः संसारजो भक्तजनस्य येनं तत् । तथा संपदः शोभायाः संपर्केण रम्या प्रभा यस्य तत् तादृशम् । अभयं शर- णागतानां भयाभावं करोतीति तादृशस्तस्य । अभयाख्यमायुधं करे यस्य स तादृशस्य वा । ऋषभस्यन्दनस्य वृषभवाहनस्य श्रीशंभोर्मस्तकं शिरो वो युष्माकमशमकल्याणं भवारघट्टे पुनरावृत्तिरूपं व्यस्यतु विशेषेण दूरीकरोतु । तस्य श्रीशंभोः कस्य । सत्यमित्यादि । स्पष्टं प्रकटं कष्टं भवमरुभ्रमणजं तस्य प्रशमने मनो यस्य तादृशस्य । यत्पदस्पर्शबद्धश्रद्धस्य यस्य विभोः पदारविन्दस्पर्शे बद्धश्रद्धस्य कस्य घनं महदघपटलं पातकसमूहः सत्यं नि- श्चितमेवावश्यं नश्यति । अघपटलं किंभूतम् । व्यक्तकल्कम् । व्यक्तः प्रकटः कल्को- ऽपराधो यस्मात्तत् ॥ अत्यन्तस्वच्छमन्तःकरणमशरणप्रत्तरक्षं समक्षं व्यञ्जन्भञ्जन्नजस्रं नयनतवदनस्तम्भसंरम्भदम्भम् । सर्वज्ञः सत्त्वसंघक्लमकरणचणं जन्म कर्मप्रबन्धं मथ्नन्नत्यर्थमर्थं क्षतसकलमलं वर्धयत्वव्ययं वः ॥ ९ ॥ सर्वज्ञः परमेश्वरः क्षता दूरीकृताः सकला आणवमायीयकार्मरूपास्त्रयो मला येन स ता- दृशस्तम् । तथा अव्ययं न विद्यमानो व्ययो नाशो यस्य स तादृशम् । अर्थं परमार्थं वो युष्माकं वर्धयतु । अशरणानामप्रतिपालकानां जनानां प्रत्ता दत्ता रक्षा येन तत्तादृशम् । अत्यन्तं नितरां स्वच्छं निर्मलमन्तःकरणं मनः समक्षं प्रत्यक्षमेव व्यञ्जन् प्रकटीकुर्वन् । तथा अजस्रं सदैव नयेन विनयेन नता भक्तिप्रह्वास्तेषां वदने मुखे यः स्तम्भो मौनमुद्रा तस्य संरम्भः स एव दम्भस्तं भञ्जन् । भञ्जो आमर्दने धातुः । तथा सत्त्वानां प्राणिनां संघस्य यः क्लमस्तस्य करणं तेन चणं प्रख्यातम् । तेन वित्तश्चञ्जु पूचणपौ' । भूतक्लेशदायि कर्मप्रबन्धं कर्मभिः शुभाशुभैः प्रकर्षेण बन्धो यस्य तत् तादृशं जन्म अत्यर्थं मथ्नन् निः - शेषीकुर्वन् । भविनामिति शेषः ॥ गल्वर्कप्रस्थपस्त्यं धरमथमलयं मन्दरं सह्यमन्तं - र्नन्दद्गन्धर्वयक्षं सकनककटकं कल्पतर्वन्तरङ्गम् । भद्रं संक्रन्दनस्य प्रहसनसदनं नन्दनं स्वर्गरङ्गं गच्छन्स्वच्छन्दचर्यः परबलदलनस्तर्पयत्वन्वहं वः ॥ १० ॥ परेषामन्धकासुरादीनां दैत्यानां बलं मथ्नातीति तादृशः । स्वच्छन्दा स्वतन्त्रा चर्या यस्य तादृशो विभुरन्वहं प्रतिदिनं वस्तर्पयतु । परमामृतरसेनेत्यर्थ: । स्वच्छन्दचर्यामेव विभो- राह –गल्वर्केत्यादि । गल्वर्कमयाः स्फटिकमयाः प्रस्था: सानवस्तत्र पस्त्यं भवनं यस्य तादृशम् । घरं गिरिं कैलासं गच्छन् । 'निशान्तपस्त्यसदनं' इत्यमरः । तथा मलयं मल- याख्यं गिरिं मन्दरं सह्यं च गच्छन् । सह्यं किंभूतम् । अन्तर्नन्दन्तो गन्धर्वाः यक्षा देव- योनयो यस्मिन्स तम् । पुनः किंभूतं सह्यम् । सह कनककटकेन काञ्चनमयमध्यभागेन वर्तते यः स तम् । 'कटकोऽस्त्री नितम्बोऽद्धेः' इत्यमरः । नितम्बो मध्यभागः । पुनः कीदृशम् । कल्पवृक्षाः पञ्च मन्दाराद्या अन्तरङ्गा यस्य तम् । पुनः किंकुर्वन् विभुः । भद्रं रम्यं संक्रन्दनस्येन्द्रस्य प्रहसनसदनं लीलागृहं स्वर्गरङ्गं स्वर्गे रङ्गभूमिरूपं नन्दनं स्वर्गोद्यानं गच्छन् ॥ पद्मस्थं पद्महस्तं गजवरवदनं नन्दनं स्कन्दसंज्ञं पर्जन्यं हंसमब्जं दशशतनयनं हव्यमक्षं सदण्डम् । रक्षः प्रख्यं जलस्थप्रथमथ पवनं मर्त्यपत्रं मवघ्नं संपश्यत्यत्यजन्तं चरणतलमलं यः स कर्षत्वघं वः ॥ ११ ॥ अलमत्यर्थं चरणतलं पादतलमत्यजन्तमिति सर्वत्र संबन्धः । यो विभुः परमेश: अल- मत्यर्थं चरणतलमत्यजन्तं पद्मस्थं ब्रह्माणं संपश्यति सम्यक् समदृष्ट्या च पश्यति । अत्यर्थं चरणतलमत्यजत एतान्ब्रह्मादीन् यो विभुः समदृष्ट्या पश्यति स स्वामी वो युष्माकमश- मकल्याणं भवोत्थं कर्षतु दूरीकरोतु । एतान् कान् । पद्मस्थं ब्रह्माणम् । पद्महस्तं विष्णुम् । गजवरवदनं गजास्यं गणेशम् । स्कन्दसंज्ञं नन्दनं तनयं कुमारम् । पर्जन्यं मेघम् । हंसं सूर्यम् । अब्जं चन्द्रमसम् । दशशतनयनं सहस्राक्षमिन्द्रम् । हव्यभक्षमग्निम् । सदण्डं दण्डधरं यमम् । रक्षःप्रख्यं निर्ऋतिम् । जलस्था प्रथा प्रसिद्धिर्यस्य स तं वरुणम् । तथा पवनं वायुम् । मर्त्यपन्त्रं नरवाहनं कुबेरम् । मखघ्नं मृगरूपयज्ञध्वंसकमीशानं च । एतान् ॥ अव्यक्तं यः समग्रं जगदगनगरं व्यञ्जयत्यब्जज: स- न्यः संरक्षत्यनन्तः स्मरयमदमनः संहरत्यक्रमं यः । स त्र्यक्षस्तन्त्रमन्त्रप्रणयनसफलग्रन्थकर्मण्यखर्व- ज्ञत्वः सद्गम्यवर्त्मप्रकटनपरम स्पर्शयत्वद्वयं वः ॥ १२ ॥ यः परमेशो रजोगुणस्योद्रेकेऽब्जजो ब्रह्मा सन् अव्यक्तमप्रकटमपि समग्रं समस्तमगा: पर्वता एव नगराणि यत्र तदगनगरं जगद्व्यञ्जयति प्रकटीकरोति । सृजतीत्यर्थः । तथा सत्त्वोद्रेकेणानन्तो विष्णुरूपः सन् समस्तं जगत्संरक्षति । तथा तमोगुणे प्रबले रुद्ररूपेण यो जगत् विश्वमक्रमं युगपदेव संहरति । यः किंरूपः । स्मरयमदमनः कालकामदहनः । स त्र्यक्षस्त्रिलोचनः श्रीशंभुर्वो युष्माकमद्वयं स्पर्शयतु ददातु । भगवानेकरूपः सर्वत्र स्थित इत्येव युष्मानवगमयत्वित्यर्थः ॥ द्रष्टव्यं सम्यगर्थप्रवचनपरमं शर्मदं पद्यबद्धं प्रष्ठप्रज्ञप्रशस्यं नमदमरवरः शंकरः संकरघ्नः । वर्षन्तं भग्नघर्मं प्रमदमयपयः सत्यसंकल्पजल्प- श्रव्यं भव्यं वसव्यं नवमवगमयत्वग्र्यवर्णस्तवं वः ॥ १३ ॥ नमन्तः प्रणमन्तोऽमरवरा ब्रह्माद्या यस्य सः । तथा संकरं पापानां संकटं हन्तीति तादृशः । शंकरो निःश्रेयसप्रदः । विभुः कर्ता वो युष्मान् कर्मभूतानग्र्यवर्णस्तवं अग्र्य- वर्णेन द्विजन्मना जगद्धरकविना कृतः स्तवोऽग्र्यवर्णस्तवः । मध्यमपदलोपी समासः । तं कर्मभूतमवगमयतु बोधयतु । करुणया स्वयं शृण्वन्युष्मानपि बोधयत्वित्यर्थः । किंभूतं स्तवम् । द्रष्टव्यम् । सहृदयैः कौतुकेन परीक्ष्यमित्यर्थः । तथा सम्यक् समीचीनो योऽर्थ- स्तस्य प्रवचनेन परमम् । सहजोक्तिपरायणमित्यर्थः । तथा शर्मदं कल्याणप्रदम् । पद्यैर्वृत्तै- र्बद्धम् । प्रष्ठा उत्कृष्टा प्रज्ञा येषां ते प्रष्ठप्रज्ञाः सुमतयस्तैः प्रशस्यं स्तुत्यम् । तथा भग्नो घ- र्मस्तापत्रयजः संतापो येन तत्तादृशम् । प्रमदमयपयः परमानन्दमयं पयो दुग्धं वर्षन्तम् । तथा सत्यश्वासौ संकल्पस्तेन श्रव्यम् । तथा भव्यं श्रेष्ठम् । वसव्यं वसुभ्यो धनेभ्यो हितम् । धन्यमित्यर्थः ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ अग्र्यवर्णस्तोत्रं चतुस्त्रिंशम् । पञ्चत्रिंशं स्तोत्रम् । अथातो ग्रन्थकृदीश्वरप्रशंसास्तोत्रं पञ्चत्रिंशमारभमाण आह अनाथानां नाथो गतिरगतिकानां व्यसनिनां विनेता भीतानां शरणमधृतीनां भरवशः । सुहृद्बन्धु: स्वामी शरणमुपकारी वरगुरुः पिता माता भ्राता त्रिजगति जयत्यन्तकरिपुः ॥ १ ॥ अन्तकस्य यमस्य रिपुः श्रीशंभुर्जयति सर्वोत्कृष्टो भवति । नाथेत्यादि स्वभेदप्राधान्ये आरोपे रूपकं निरूपयति — अनाथानामित्यादि । शंभुः कः । 'नाथ याचने' धातुः । नाथन्ति याचन्ते एनं पालनार्थं नाथः । त्रिजगति त्रिभुवने अनाथानां जनानां नाथः । तथा अगतिकानां निरुपायाणां महानुपायः । तथा व्यसनिनां स्त्रीद्यूतमृगयादिव्यसनयुक्तानां विनेता विनयप्रदः । तथा अध्रृतीनां गतधैर्याणां भरवशो धैर्यप्रदः । भरवश इति रूढपदम् । तथा निजावस्थां निवेदयतां जनानां सुहृत्सखा आश्वासकारी ।तथा बन्धुः संकटेऽप्यपरित्यागी । तथा स्वामी सर्वदा निजसेवकानां वार्ताग्राही । तथा शरणं सदा प्रतिपालकः । तथा वरगुरुः कैवल्यप्राप्तिकारणनिजशासनोपदेशकः । तथा पिता पातीति पिता अतिसंकटेऽपि पालयिता । तथा माता मात्यस्या उदरे इति माता अतिस्नेहपात्रं शिशुं पालयित्री । तथा भ्राता सहोदरः सुखदुःखसंविभागी एवंभूतः श्रीशंभुस्त्रिजगति त्रैलोक्ये जयति सर्वोत्कृष्टो भवति ॥ श्रीशंभुभक्तिविषयमनोरथैः कविः स्वात्मानं विनोदयति उदारैर्मन्दारै रचितशिखरं चन्द्रशिखरं समभ्यर्च्य प्रेम्णा विपुलपुलकालंकृततनुः । कदा गन्धाबन्धप्रमदमुदितोद्दाममधुप- स्फुरद्गुञ्जागर्भैर्विभुमभिभजेयं नुतिपदैः ॥ २ ॥ गन्धस्य सुरसलक्ष्यव्यङ्ग्यार्थसौरभस्य आ समन्ताद्बन्धस्तेन प्रमदः परमानन्दस्तेन मु- दिता ये मधुपाः शिवभक्तिरसरसायनपानसक्तास्तेषां स्फुरन्ती यासौ गुञ्जा गीतध्वनिः सा- गर्भे येषां तानि तादृशैर्नुतिपदैः स्तुतिपदैरहं कदा विभुं परमेशमभिभजेयम् । अहं किं- भूतः । विपुला ये पुलका रोमाञ्चास्तैरलंकृता तनुर्यस्य । किं कृत्वा । प्रेम्णातिप्रियत्वेन चन्द्रशिखरं चन्द्रमौलिं सम्यक् समग्रपूजोपचारैरभ्यर्च्य । किंभूतं शंभुम् । उदारैर्बहुयोजन - सौगन्ध्यविधानान्महोत्कर्षवद्भिर्मन्दारैर्मन्दाराख्यकल्पवृक्षकुसुमै रचितशिखरं कृतमुकुटम् ॥ इतो द्वन्द्वक्लेशा विषयमृगतृष्णास्थितिरितो जरामृत्युव्याधिप्रतिभयमितः सर्वसुलभम् । महामोहैर्घोरैरुपहतमितो बोधलसितं कथं कुर्यादार्यः कृतमतिरपि स्वात्मनि हितम् ॥ ३ ॥ आर्यः साधुजनः कृतमतिर्बुद्धिमानपि इत्थं बहुविघ्नाकुलमनस्त्वात् स्वात्मनि हितं भ- वाब्ध्युत्तरणोपायं कथं कुर्यात् । इत्थं कथमित्याह — इत इति । द्वन्द्वानां शीतातपादीना- मूर्मीणां क्लेशा इतो भवन्ति । 'शीतातपौ शरीरस्य लोभमोहौ तु चेतसः । प्राणस्य क्षुत्पि पासे द्वे द्वन्द्वदुःखमुदाहृतम् ॥" इति । तथा विषयाः शब्दादय एव मृगतृष्णा मरुमरी- चिका तस्याः स्थितिरितो भवति ।...........…........ । तथा महाघोरैरत्युत्कटैर्महामोहैर्मायाविलसितैर्बोधलसितं ज्ञानोल्लास इत उपहतं नि- तरां बाघितम् ॥ पूर्वोक्तमेवार्थं समर्थयति – अशेषक्लेशौघग्लपनपरिपन्थी प्रकटय- न्नयं विघ्नव्रातः प्रबलविपदापादनविधिम् । विवेकाख्यं चक्षुस्तिरयति सतां येन सहसा भवश्वभ्रे पातः प्रतिपदमदभ्रः प्रभवति ॥ ४ ॥ अशेषा ये क्लेशाः पञ्चाविद्यादयस्तेषामोघः समूहस्तेन यद् ग्लपनं ग्रसनं (हि विषयं ?) तेन परिपन्थी शत्रुभूतोऽयं पूर्वोक्तो विघ्नव्रातः 'इतो द्वन्द्वक्लेशाः' इत्यादि प्रबला या विपद्भवारघट्टे पुनः पुनरावृत्तिरूपा तस्या आपादनविधिं प्रकटीकुर्वन् सतां कृतधियामपि तद्विवेकाख्यं चक्षुस्तिरयति निमीलयति । तत्किमित्याह – येन यद्वशात्सहसा तत्क्षणमेव भवः संसार एव श्वभ्रं तत्र पातः अदभ्रोऽनल्पः प्रतिपदं मुहुर्मुहुः प्रभवत्युत्पद्यते । देहिनामिति शेषः ॥ अथ कविस्तन्निवारणोपायमाह भवद्भक्तिं तस्य व्युपशमसमर्थामथ दृशः प्रसादं तन्वानां धनमहसमासाद्य सुधियः । प्रकाशात्मानं त्वामतिविमलया हंसमुदितं दृशा साक्षात्कृत्य प्रतिजहति मोहान्धतमसम् ॥ ५ ॥ अथ पूर्वोक्तादनन्तरं तस्य प्रागुक्तस्य द्वन्द्वक्लेशादेर्विघ्नव्रातस्य विशेषेणापुनरागमरूपेणो- पशमः प्रशमनं तत्र समर्थाम् । तथा दृशो ज्ञानस्य विलोचनस्य च प्रसादमनुग्रहं प्रसन्नतां च तन्वानाम् । तथा घनं प्रचुरं महस्तेजो यस्याः सा तादृशीं भवद्भक्तिं भवतो विभोर्भ- क्तिमासाद्य प्राप्य सुधियो विशदधियः प्रकाशात्मानं परप्रकाशवपुषं त्वां हंसं परमात्मानं सदोदितमतिनिर्मलया धिया साक्षात्कृत्य मोहोऽज्ञानमेवान्धतमसं नितरां गाढं ध्वान्तं त- त्प्रतिजहति त्यजन्ति । अथ च हंसं सूर्यं साक्षात्कृत्य लोको गाढं तमोऽन्धकारं त्यजति तथेत्यर्थः । 'खगयोगिभिदोर्हंसो निर्लोभनृपसूर्ययोः । परमात्मनि विष्णौ च' इति मङ्खः ॥ अनित्ये नित्याशामशुचिनि शुचित्वव्यसनिता- मनात्मन्यात्मास्थामथ महति दुःखे सुखमतिम् । चतुर्धा दुर्भेद्याम[^१]विरतमविद्यां परिणतां हताशेषस्वाभामभिदधति मूलं भवतरोः ॥ ६ ॥ अनित्याशुच्यनात्मदुःखेषु विपरीतज्ञानमविद्या । इत्येतदेवोदाहरति कविः – हता अ- शेषा स्वस्यात्मन आभा प्रकाशो यया सा ताम् । तथा अविरतं निरन्तरं चतुर्धा चतुर्भिः प्रकारैरनित्येत्यादिभिः परिणतां परीपाकं गतां भवतरोर्भवः संसार एव तरुर्महान्वृक्षस्तस्य मूलकारणमभिदधति । एवमन्यन्त्रयम् ॥ नरास्तत्त्वालोके नियतमनया दूषितदृशो विवेकप्रध्वंसाद्विदधति भवे कन्दुकगतिम् । उपासाभिर्लब्ध्वा भवभयभिदं निर्मलधियः समाधिं साधिम्ना दधति न पुनर्जन्मविपदम् ॥ ७ ॥ नियतं निश्चितमनया पूर्वोक्तया चतुर्भेदया अविद्यया तत्त्वस्यालोको दर्शनं तद्विषयं दूषिता दृग्दृष्टिर्येषां ते तादृशा मलिनीकृतदृष्टयो विवेकस्य कार्याकार्यरूपस्य प्रकर्षेण ध्वंस [^१]. 'अनवधिं' क. स्तस्माद्धेतोर्भवे संसारे कन्दुकस्य गतिं पतनोत्पतनरूपां विदधति । पुनर्भवभयभिदं संसा- रत्रासनिवारकं समाधिं श्रीशिवैकताध्याने आत्ममनसोरैक्यं लब्धा पुनर्जन्मविपदं जन्मजं दुःखं साधिम्ना बाढत्वेन दधति धारयन्ति ॥ अथातः परमेश्वरस्य प्रशंसाविशेषं कर्तुमाह चकाशे नाकाशे रविरविरलैरंशुपटलै- रमन्दाभैरिन्दुस्तिमिरमहरन्नापि किरणैः । न चान्यन्नक्षत्रग्रहदहनरत्नौषधितडि - त्प्रदीपादिज्योतिः क्वचिदपि पुरा नाथ ददृशे ॥ ८ ॥ तमोभूतं विश्वं किमपि गहनं धाम तदभूदथ स्वेच्छाशक्तिप्रकटितमहावैभवभरम् । विभज्यात्मानं क्ष्मावनपवनवह्नीन्दुतपन[^१]स्वखैरंशैरीश त्रिजगदसृजत्कस्त्वदपरः ॥ ९ ॥ (युग्मम्)[^२] हे विभो, अविरलैरनल्यैः सहस्रप्रमितैरंशुभिः किरणैरुपलक्षितो रविः सूर्य आकाशे न भसि पुरा पूर्वं न चकाशे नादीप्यत । तथा अमन्दाभैरनल्पकान्तिभिः किरणैरिन्दुश्चन्द्रोsपि तिमिरमन्धकारं नाहरत् । तथा नक्षत्राण्यश्विन्यादीनि च ग्रहाश्च दहनोऽग्निश्च रत्नानि चौषधयश्च तडिच्च प्रदीपश्च एतदादीनां ज्योतिः क्वचिदपि न ददृशे । तमोभूतमासीत्सर्वमित्यर्थः ॥ हे ईश जगदीश, तद्विश्वं तमोभूतं सत्किमपि गहनं धाम अतिगहनं गृहमिवाभूत् । अथानन्तरं स्वा चासाविच्छाशक्तिस्तया प्रकटितो महावैभवस्य महैश्वर्यस्य विश्वलयोदयकरणसमर्थस्य भरो येन स तादृशं प्रकटितमहावैभवभरमात्मानं परसंविच्चिदानन्दरूपमपि क्ष्माजलपवनवहीन्दुतपनयजमानाकाशैरंशैर्मूर्तिभिस्त्वदपरः कस्त्रिजगत् ब्रह्मादिस्तम्बपर्यन्तं जगत् कोऽसृजत् । न कोऽपीत्यर्थः ॥ (युग्मम्) । अनादौ संसारे विदधति रजोबाधितधियः शुभं वा घोरं वा शबलमथ वा कृत्यमणवः । ततस्तद्भोगार्थं तरुणकरुणापूर्णहृदयो विधत्से यत्तेषां तनुभुवननिर्माणमखिलम् ॥ १० ॥ तदेतत्संकल्पप्रकटितसमस्तत्रिजगतः प्रभोर्लीलामात्रं भुवनमहनीयस्य भवतः । [^१]. 'स्वकैः' स्व. [^२]. 'युग्मम्' इति पुस्तकद्वयेऽपि नास्ति. तवैकस्य स्वामिन्यदिह सहजे सर्वविषये क्रियाज्ञाने नित्ये करणनिरपेक्षे प्रभवतः ॥ ११ ॥ (युग्मम्) हे विभो, अविद्यमान आदिरारम्भो यस्य स तादृशे संसारे रजसा रजोगुणेनोद्रिक्तेन बाधिता धीर्येषां ते तादृशा अणव आत्मानः शुभं कृत्यं शुभकर्म घोरमशुभं वा शबलं मि- श्रितं शुभाशुभमपि वा कर्म विदधति कुर्वते । रजोगुणस्योद्रेकात् । तथा चोक्तं सांख्या- चार्यैः– 'ऊर्ध्वं सत्त्वविशालो रजोविशालस्तु मध्यतः सर्गः । अधमस्तमोविशालो ब्रह्मा- दिस्तम्बपर्यन्तः ॥' इति । ततो हेतोस्तेषामेवाणूनां तस्य त्रिविधस्य शुभाशुभशबलरूपस्य कर्मणो भोगार्थं तरुणा नवा या करुणा तया पूर्णं हृदयं यस्य स तादृशः सन् तनूनां क्षित्यादीनां भुवनानां च कालाग्निरुद्रभुवनादारभ्य शिवभुवनान्तं चतुर्विंशत्यधिकशतद्वय- परिमितं भुवनानां निर्माणं विधानमखिलं यद्विधत्से करोषि तदेतत्संकल्पेनेच्छाशक्तिस्वरू- पेण प्रकटितं प्रकाशीकृतं समस्तं त्रिजगद्येन स तादृशस्य त्रिभुवने महितस्य पूजितस्य भवतः प्रभोलींलामात्रम् । कुतस्तत् । तवैकस्येत्यादि । हे स्वामिन् जगदीश, इह जगति त- वैवैकस्य प्रभोः सहजे अकृत्रिमे नित्ये अविनाशे करणेष्विन्द्रियेषु निरपेक्षे हेतुनिरपेक्षे वा क्रियाज्ञाने क्रिया क्रियाशक्तिश्च ज्ञानं ज्ञानशक्तिश्च ते क्रियाज्ञाने सर्वो विषयो ययोस्ते स- वेविषये । सर्वस्याधारभूते इत्यर्थः । यस्मात्प्रभवतः प्रभूते स्तः ॥ युगलकम् ॥ प्रसिद्धोऽयं पन्था न भवति विचित्रा विरचना विना यत्कर्तारं स च न भवति ज्ञानरहितः । अतोऽवश्यं कर्ता त्रिजगति विचित्रे ज्ञ उचितः स च त्वं त्वय्यन्ये किमिव विवदन्ते हतधियः ॥ १२ ॥ हे विभो, कर्तारं कर्तृकारकं विना विचित्रा नानाविधा रचना यन्न भवति । स कर्ता ज्ञानरहितोऽपि न भवति । अयं प्रसिद्धः पन्था मार्ग आबालपर्यन्तं विदित एवेत्यर्थः । अतो हेतोः विचित्रे नानाविधे जगति अवश्यमेव कर्ता ज्ञः सर्वज्ञ उचित योग्यः । स र्वज्ञः परमात्मा त्वमेव । अन्ये हतधियश्चार्वाकादयस्त्वयि विषये विवदन्ते विवादं कुर्वते ॥ अथैवं चेद्ब्रूयुः किमयमपरप्रेरितमतिः स्वतन्त्रो वा देवस्त्रिभुवनविधाने प्रयतते । अमुष्याद्ये पक्षे नहि परविधेयस्य विभुता परस्मिन्पक्षे[^१] वा फलमपि किमुद्दिश्य यतते ॥ १३ ॥ अथशब्दो यद्यर्थे । ते इतधियः पामरा एवं चेद्ब्रूयुः अयं देवोऽपरेणान्येन केनचित्प्रे [^१]. 'पक्षेऽसौ' ख. रिता मतिर्यस्य सोऽपरप्रेरितमतिस्त्रिभुवनस्य विधाने प्रयतते प्रयत्नं करोति । अथवा स्व- तन्त्रो देवस्त्रिभुवनविधाने प्रयतते किम् । आद्यपक्षे परप्रेरितेत्यादिपक्षे परविधेयस्य परप्रे- रितस्य विभुत्वशक्तिर्न हि भवति । परस्मिन्स्वतन्त्रतापक्षे किं फलमुद्दिश्य मनसि निधाय त्रिभुवनं विधत्ते ॥ अथास्येयं वाञ्छा प्रभवति न कर्मक्षयमृते नृणां मुक्तिः सोऽपि क्वचन न विना भोगमुचितः । विनाधारं भोगो न भवति वपुर्नापि भुवनं ततोऽर्हं जन्तूनां तनुभुवननिष्पादनमिति ॥ १४ ॥ अथानन्तरमस्य देवस्येयं वाञ्छा भवति । इयं का । कर्मक्षयं विना नृणां मुक्तिर्न भ- वति । सोऽपि कर्मक्षयो विनाभोगं न भवति । भोगोऽप्याधारमाश्रयं विना न भवति ............ । ततो हेतोर्जन्तूनां तनवश्च भुवनानि च तेषां निष्पादनं संपाद- नमर्हे युक्तम् ॥ इदं युक्तं [^१]सान्द्रामृतमधुरयान्तः करुणया प्रयुक्तस्याजस्रं परहितविधानव्यसनिनः । दयालुश्चेल्लोकं सृजति सकलं किं न सुखिनं कुतो वाधिव्याधिक्षत इह जनोऽनेन जनितः ॥ १५ ॥ विभोरित्यध्याहारः । सान्द्ररसायनरसमधुरयान्तर्मनसि करुणया कृपया प्रयुक्तस्य तथा अजस्रं सततं परहितविधाने व्यसनिनो विभोरिदं युक्तमेव । अयं देवो दयालुः कृपाम्बु- घिश्चेत्तर्हि सकलं लोकं सुखिनमेव किं न सृजति । इह जनति आधिना मानसचिन्ता- पीडया व्याधिभिर्नानारोगैश्च क्षतो बाधितो जनः कुतो जनितः ॥ अथोपादानं यद्भवति परमाण्वादि जगत- स्तथा कर्मानेहःप्रभृति सहकार्येतदुभयम् । विना सृष्टौ नैष प्रभवति यदीशः किममुना तदेवास्तु व्यक्तं तनुभुवननिर्माणनिपुणम् ॥ १६ ॥ अथानन्तरम् । यद्यत उपादीयते उत्पद्यते तत्तस्योपादानकारणम् । जगतः सृष्टौ सृष्टिविषये । परमाणवस्त्रसरेणवः । 'जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः । तस्य त्रिंशतमो (षष्ठतमो) भागः परमाणुरुदाहृतः ॥' इति । परमाणव उपादानकारणं यद्भवति । तथा कर्म शुभाशुभशबलभेदेन त्रिविधम् । अनेहा कालः । आदिना जलसूत्रादि । तत्प्रभृति सहकारिकारणं च यस्य । तदुभयमुपादानसहकारिकारणरूपं विना सृष्टौ सृष्टिविधाने [^१]. 'सार्द्र' क. ईशो देवो न प्रभवति समर्थो भवति । तदामुना ईशेन देवेन किम् । कुत इत्याह - तदेवे- त्यादि । तदा तदेवोभयं व्यक्तं प्रकटमेव तनुभुवननिर्माणनिपुणमस्तु । अत्रेशोऽधिष्ठाता कुम्भकारस्थाने । विश्वं घटरूपम् । यथा कुम्भकार उपकरणैर्घटनिर्माणं विधत्ते तथा भ गवान्विश्वनिर्माणं स्वेच्छाशक्त्या करोतीत्यभिप्रायः ॥ इतीत्थं मुग्धानामिह मतिविमोहाय कुधियः कुतर्कप्रागल्भीमुखरितमुखा मूढमनसः । अधिष्ठातारं त्वां वरद जडवर्गस्य सदयं न जानन्ति स्वामिन्परमपुरुषं चेतनममी ॥ १७ ॥ इत्यमित्येवार्थे । इत्येवं मुग्धानां जडाशयानां मतिमोहाय बुद्धिभ्रमाय कुत्सितश्वासौ तर्कोऽनिष्टप्रसञ्जनं तत्र या प्रागल्भी धार्ष्ट्यं तया मुखरितं मुखं येषां ते तादृशाः । तथा मूढमनसोऽज्ञानावृतचित्ताः हे वरद स्वामिन्, त्वां देवं चेतनं परसंविद्रूपं परमपुरुषं परमात्मानं जडवर्गस्य परमाण्वादेरधिष्ठातारं कर्तारं सदयं कृपाम्बुधिं न जानन्ति ॥ एतदेव बाह्यदृष्टान्तेन द्रढयति [^१]यथोपादानं मृत्तदनु सहकारीह लगुडो जलं चक्रं सूत्रं वरद जडवर्गोऽयमखिलः । न यत्नं कौलालं प्रभवति विना कुम्भघटने तथाधिष्ठातारं न भवति विना त्वां भवविधिः ॥ १८ ॥ हे वरद, घटस्योपादानमुपादानकारणं मृत् मृत्तिका । तदनु सहकारी सहकारिकारणं लगुडो दण्डः । जलं वारि । चक्रं कुम्भकारचक्रम् । सूत्रं तन्तुः । अयमखिलः समस्तो जडवर्ग: कौलालं कुम्भकारसंबन्धिनं यत्नं विना यथा कुम्भघटने घटं कर्तुं न प्रभवति न समर्थो भवति तथा त्वां विभुमधिष्ठातारं कर्तारं विना भवविधिः संसारविधिर्जगन्निर्माणरूपो न भवतीति संबन्धः ॥ अथातो भवाम्बुधेरुत्तरणोपायं तन्निमग्नाय जनायोपदिशति अविज्ञायैवाज्ञः परुषविषमं कर्म कुरुते विपाके तस्यासौ निपतति भवक्लेशकलिले । अतो ज्ञानालोकः प्रकटितसमस्तार्थगहनो महामोहध्वान्तव्यवहितदृशोऽवश्यमुचितः ॥ १९ ॥ अतो हेतोः, महामोहेनाविद्यारूपेण ध्वान्तेन तमसा व्यवहिता दृक् ज्ञानमेव लोचने यस्य स तादृशस्य महामोहध्वान्तव्यवहितदृशः पुंसो ज्ञानालोको ज्ञानप्रकाशोऽवश्यमुचितः । [^१]. 'अथ' ख. किंभूतः । प्रकटिता अर्थाः सप्त पदार्था एव गहनं येन स तादृशः । अतः कुत इत्याह- अज्ञो विचेतनः पुरुषोऽविज्ञायैव परुषमत्युत्कटं विषमं च कर्म कुरुते । तस्याशुभकर्मणो विपाके च सति भवक्लेशकलिले भवक्लेशाः संसारजा: क्लेशा एव कलुषं तत्र निपतति ॥ उपायस्प्राप्तौ भवति न विना शास्त्रमपरो न शास्त्रं तत्स्वामिन्निह यदुपदिष्टं न भवता । विविञ्चन्तः सन्तो हितमहितमेते[^१] विदधते हिते सक्तिं मुञ्चत्यहितमिति नार्हन्ति पतनम् ॥ २० ॥ तस्य ज्ञानालोकस्य प्राप्तौ शास्त्रं विनान्य उपायो नास्ति । हे स्वामिन्, यन्न भवता शिवशासन उपदिष्टं तच्छास्त्रमुपायो नास्ति न भवति । अत एव सन्तः कृतिनः हितम- हितं च विविञ्चन्तो हिताहितविवेकं कुर्वाणा हिते सक्तिं विदधति कुर्वन्ति अहितं च मु- ञ्चन्ति । इत्यतो हेतोः सन्तः पतनं नार्हन्ति ॥ भवान्धर्मं साक्षादकृत सहजज्ञानमनसा तमोध्वंसं पुंसामथ तदुपदेशेन विदधे । प्रमाणं चोक्तिस्ते नहि घनघृणानिघ्नमनसो जगद्भुर्तुर्युक्तं वितथमभिधातुं भगवतः ॥ २१ ॥ हे विभो, भवान्दयालुः सहजं ज्ञानरूपं यन्महस्तेजस्तेन सहजज्ञानमहसा धर्मं साक्षाद- कृत साक्षात्कृतवान् । अथानन्तरं तदुपदेशेन ज्ञानोपदेशेन पुंसां मर्त्यानां तमोध्वंसमज्ञानरू- पान्धकारनिवारणं भवान् विदधे चकार । ते जगदीशस्योक्तिः प्रमाणम् । कुत इत्याह- नहीत्यादि । घनघृणाधीनमनसो जगद्भर्तुर्भगवतः शंभोर्वितथमनृतमभिधातुं न युक्तं नोचितम् ॥ तदेतत्कारुण्यं घनतमतमः पङ्कपटली- विलीनोऽयं लोकस्तव वरद संभाव्य सहजम् । दधच्छ्रद्धाबन्धं त्वदुदितमनुष्ठातुमसकृ- त्प्रवृत्तो दुष्पारं हर तरति संसारजलधिम् ॥ २२ ॥ हे हर वरद, अतिशयेन घना घनतमा तादृशी या तमः पङ्कस्याविद्यारूपकर्दमस्य पटली तस्यां विशेषेण लीनोऽयं लोकः सहजं स्वाभाविकं तदेतत् पूर्वक्रमोक्तेनोदितं तव का रुण्यं कृपामृतं संभाव्यादरेण मत्वा त्वया विभुना दयालुनोदितं श्रीशिवशासनोक्तमनु- ष्ठानं सम्यग्विधातुमसकृत्प्रवृत्तः श्रद्धाया बन्धं दधद्दुष्पारमपि भवजलधिं तरति ॥ इत्येवं भगवन्नवन्ध्यमहिमा निर्माय निर्मानुषं विश्वं विश्वसितं वितत्य तदनु स्फीतैर्विभूतिक्रमैः । संहृत्याथ निजे महिम्नि निखिलं तत्कन्दुकान्दोलन- क्लेशावेशविरामसंभृतसुखं कैवल्यमाङ्क्षसि ॥ २३ ॥ हे भगवन्परमेश, अवन्ध्यः कृतार्थो महिमा यस्य तादृशः संस्त्वं स्वतन्त्र आदौ नि- र्मानुषं तमोभूतं सद्विश्वं निर्माय कृत्वा तदनु स्फीतैः अनु ( समु) ल्लासितैर्विभूतिक्रमैर्वैभवप- रिपाटीभिर्विश्वसितं वितत्य सजीवं विधाय अथानन्तरं तदनु निजे स्वमहिम्नि निखिलं तद्विश्वं कालाग्निरुद्ररूपेण संहृत्य तस्य विश्वस्य सचराचरस्य यत्कन्दुकान्दोलनं कन्दुक- वदान्दोलनं तेन यः क्लेशावेशो महत: क्लेशस्यावेशस्तस्य विरामो नाशस्तेन संभृतं परि पूर्णं सुखं यस्मिंस्तत्तादृशं कैवल्यं निर्वाणमाकाङ्क्षसि ॥ इत्थं किं बहुना त्वदङ्घ्रिकमलद्वन्द्वप्रसादादिदं भूयान्मे भवभीतिभञ्जन विभो भक्तानुकम्पापर । यत्त्वत्पादसरोजपूजनविधौ भक्तिर्विरोगं वपु- र्यावज्जीवमथ त्वदेकमनसो मुक्तिस्तवैवाग्रतः ॥ २४ ॥ हे विभो, भवभीतिभञ्जन जन्मजरामरणत्रासनाशन, तथा भक्तानुकम्पायां प्रह्वजनानुग्रहे परः सक्तस्तत्संबोधनं भक्तानुकम्पापर, इत्थमनेन बहुना मदीयेन विज्ञप्तिवचनेन तव विभोश्चरणसरोजयुगलप्रसादादिदं मे भूयात् । इदं किमित्याह - यदित्यादि । हे विभो, त्वत्पादसरोजपूजनविधौ त्वच्चरणाब्जपूजाविधौ भक्तिर्वाङ्मनःकायकर्मभिस्तदासक्तिर्यद्भवति । तथा यावज्जीवं निर्याणावधि वपुः शरीरं नीरोगं यद्भवति । अथानन्तरं तदनु त्वय्येव प्रतिक्षणं ध्येये एकमनन्यासक्तं मनो यस्य स तादृशस्य मम तवैवाग्रतो मुक्तिः कैवल्यं यद्भवति । तन्मे भूयादित्याशास इत्यर्थः ॥ अथास्य स्तोत्रस्योपसंहारश्लोकमाह एवं देव तव स्तुतिप्रवचनप्राप्तप्रसादस्य मे भूयो जन्म भविष्यतीति भगवन्मन्ये खपुष्पोपमम् । स्याच्चेत्प्राक्तनकर्मशेषजनितं तन्नाथ किं भूयसा भूयासं भवदीयपादकमलस्तुत्या पुनर्निर्वृतः ॥ २९ ॥ हे भगवन्देव, तव स्वामिनः स्तवानां यत्प्रवचनं वीप्सया कथनं तेन प्राप्तः प्रसादोऽनु- ग्रहो येन स तादृशस्य मे धन्यस्य भूयो जन्म भविष्यतीति यत्तत्खपुष्पोपममाकाशकुसुमो- पमं मन्ये जानाम्यहम् । सर्वथा तदभावः । मम प्राक्तनकर्मशेषेण जनितं चेत्कदाचिद्भवे- त्तर्हि तत्रापि जन्मनि त्वत्पादसरोजस्तुत्या पुनर्निर्वृतः कैवल्यं प्राप्तो भूयासमिति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशम् । षट्त्रिंशं स्तोत्रम् । अथातो ग्रन्थकृत्स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशमारभमाण आह ते नाथ जन्म सकलं न कलङ्कयन्ति न द्रोहकर्मरसिकानपि शङ्कयन्ति । तान्सस्पृहं मृगदृशः प्रविलोकयन्ति ये त्वत्पदाब्जरजसालिकमङ्कयन्ति ॥ १ ॥ हे नाथ जगदीश, ते धन्याः सकलं जन्म स्वकीयं न कलङ्कयन्ति । तथा द्रोहकर्मणि रसिकानपि रिपून् न शङ्कयन्ति सशङ्कान्कुर्वन्ति । तेभ्योऽपि सकाशात् शङ्कां न कुर्वन्ति । बलवति रिपौ सुहृदि वा समदर्शित्वात् । तथा सस्पृहं तान्मृगाक्ष्यः प्रकर्षेण विलोक- यन्ति । ये जनास्त्वत्पादाब्जधूल्या अलिकं स्वकीयं ललाटं नित्यप्रणतिभिरङ्कयन्ति सचिह्नं कुर्वन्ति ॥ ते विद्विषामभिमतं हृदि मोघयन्ति ज्ञानामृतं च कृपणेषु समर्पयन्ति । तेषा वचः क्षितिभुजोऽपि न लघयन्ति ये त्वां स्तवोक्तिकुसुमर्द्धिभिरर्चयन्ति ॥ २ ॥ ते धन्या जना विद्विषां शत्रूणां हृदि अभिमतं द्रोहकृत्यं मोघयन्ति निष्फलयन्ति । तथा ते ज्ञानमेवामृतं रसायनं कृपणेषु दीनेषु समर्पयन्ति वितरन्ति । तथा तेषां वचो रा जानोऽपि न लङ्घयन्ति । हे विभो, ये भक्तजनाः स्तवोक्तय एव कुसुमानामृद्धयस्ता भिस्त्वां विभुमर्चयन्ति पूजयन्ति ॥ ते जन्मनः फलमनल्पमुदञ्चयन्ति क्लेशापदः स्वमपरं च विमोचयन्ति । तान्वैरिणः सहभुवोऽपि न वञ्चयन्ति ये त्वामनाथजनबान्धवमर्चयन्ति ॥ ३ ॥ हे विभो, ते धन्या जन्मनः स्वकीयस्य महत्फलमुदञ्चयन्ति उञ्चिन्वते । तथा ते जना: क्लेशाः पञ्च अविद्यादयस्त एवापद् विपत् । यद्वा क्लेशो भवमरुभ्रमणजः स एवा- पत् तस्याः सकाशात्स्वमात्मानं परं च लोकं विमोचयन्ति । तथा सहभुवः सहजा अपि वैरिणः शत्रवः कामक्रोधादयः षट् बाह्या वा तान् जनान्कदाचिदपि न वञ्चयन्ति । हे विभो, अनाथजनानामशरणानां बान्धवमाश्वासकारिणं ये त्वामर्चयन्ति पूजयन्ति ॥ ते धर्ममिन्दुकरसुन्दरमर्जयन्ति गीर्भिर्विदग्धहृदयान्यपि रञ्जयन्ति । तानन्तकभ्रुकुटयोऽपि न तर्जयन्ति ये त्वां भवामयहरं हर पूजयन्ति ॥ ४ ॥ हे हर पातकिनां त्रिविधपातकहर, ते सुकृतिनो जनाश्चन्द्रकिरणवद्रम्यं निर्मलं धर्म- मर्जयन्ति । तथा ते जनाः स्वप्रौढोक्तिभिर्विदग्धानां कुशाग्रीयधिषणानामपि हृदयानि रञ्जयन्ति । तथान्तकस्य यमस्य क्रोधोद्धुरस्य भ्रुकुटयोऽपि तान् जनान्न तर्जयन्ति त्रास- यन्ति । भवामयहरं संसाररोगापहं ये जनास्त्वां पूजयन्ति ॥ [^१]ते त्वत्स्तुतिं हृदयधाम्नि कवाटयन्ति [^२]दुःखद्रुमं च दृढमापदि पाटयन्ति । भावं तवैव भुवि बालमिवाटयन्ति ये वाङ्नटीमभिमुखं तव नाटयन्ति ॥ ९ ॥ हे विभो, ते धन्या जनास्त्वदीयां स्तुतिं हृदयधाम्नि स्वकीये चित्तगृहे कवाटयन्ति कवाटमररं तत्कुर्वन्ति । यथाररेणान्यप्रवेशो निषिध्यते तथा त्वत्स्तुतिरेव तेषामाशये नि- वसतीत्यर्थः । तथा ते जना दुःखं भवामयजं तदेव द्रुमो महामूलस्तं दृढमपि स्थिरमप्या- पदि जन्मजरामरणत्रासविपदि पाटयन्ति च्छिन्दन्ति । तथा ते जनास्तवैव स्वामिनो भावं भावनारसं बालमिव शिशुमिव भुवि भूलोकेऽटयन्ति संचारयन्ति ये जनास्तव स्वामि- नोऽभिमुखं संमुखं वाङ्नटीं वाग्वाण्येव नटी तां स्वकीयां नटयन्ति नर्तयन्ति ॥ ते कर्मरज्जुनिगडं ह्यतिखण्डयन्ति सूक्तैः श्रुतीर्बुधजनस्य च मण्डयन्ति । त्वद्भक्तिमप्यधिभवाब्धि तरण्डयन्ति ये त्वन्मनः स्तुतिधनस्य करण्डयन्ति ॥ ६ ॥ हि निश्चये । ते धन्या जनाः कर्माणि शुभाशुभशबलानि तान्येव रज्जवस्तेषां निगडो बन्धस्तमतिखण्डयन्ति अतिशयेन च्छिन्दन्ति । तथा ते जना बुधजनस्य सहृदयजनस्य श्रुतीः श्रोत्राण्यपि सूक्तैः प्रौढोक्तिभिर्मण्डयन्ति भूषयन्ति । त्वद्भक्तिमपीत्यत्रापिशब्दो भिन्नक्रमः । अधिभवाब्ध्यपि भवः संसार एवाब्धिस्तत्र भवाब्धावपि त्वद्भक्तिं भवदीय- भक्तिं तरण्डं प्लवं संपादयन्ति । हे विभो, ये जनाः सुकृतिनस्त्वदीयं मनः स्तुतिधनस्य स्वकृतस्तुतिवित्तस्य करण्डयन्ति करण्डं मञ्जूषां संपादयन्ति ॥ पापानि तेऽश्मशकलानि [^३]व चूर्णयन्ति गीर्भिर्भ्रुवः सुमनसामपि घूर्णयन्ति । [^१]. 'ये' ख. [^२]. ख- पुस्तके द्वितीयतृतीयचरणयोर्व्यत्यासः [^३]. इवार्थे. लोके निजानि च यशांस्युपकर्णयन्ति ये धीमतां नुतिकथास्तव वर्णयन्ति ॥ ७ ॥ ते जना: पापानि पातकानि त्रिविधानि अश्मशकलानि व पाषाणखण्डानिव चूर्ण- यन्ति । तथा ते जनाः सुमनसां सहृदयानामपि भ्रुवो घूर्णयन्ति कम्पयन्ति । चमत्कार- कारणात् । तथा ते जना लोके भूलोकमध्ये स्वकीयानि यशांस्युपकर्णयन्ति शृण्वन्ति । हे विभो, ये जना धीमतां विपश्चितामग्रे तव विभोर्नुतिकथा वर्णयन्ति व्याकुर्वते ॥ ते मारकानपि न संयति घातयन्ति कारुण्यतः कृतरुषोऽपि न यन्ति । लोकस्य शोकमभयेन च शातयन्ति ये शेखरं चरणयोस्तव पातयन्ति ॥ ८ ॥ ते लोका मारकानपि वधोद्युक्तानपि संयति सङ्ग्रामे न घातयन्ति । शत्रौ मित्रे च समदृष्टित्वात् । तथा ते जनाः कृतरुषोऽप्यपकारेणापि कृपया न यातयन्ति क्लेशयन्ति । तथा लोकस्य कुतोऽपि भयाकुलस्य शोकमभयदानेन शातयन्ति कर्तयन्ति । हे विभो, ये जनाः शेखरं स्वकीयमौलिं तव पादयोः पातयन्ति क्षिपन्ति ॥ ते [^१]पापपाशमधिकं हृदि कर्तयन्ति भोगस्पृहां च विषयेषु निवर्तयन्ति । सूतैः सचेतनमनांस्यपि नर्तयन्ति ये चन्द्रचूड चरितं तव कीर्तयन्ति ॥ ९ ॥ ते धन्या जना अधिकं महान्तं पापपाशं पापं त्रिविधमेव पाशस्तं हृदि हृत्स्थं कर्त- यन्ति च्छिदन्ति । तथा ते जनाः संयतचित्ताः सन्तो विषयेषु शब्दादिषु भोगस्पृहां नि- वर्तयन्ति निवारयन्ति । तथा ते सचेतनानामपि प्राज्ञानामपि मनांसि सूक्तैः प्रौढोक्ति- भिर्नर्तयन्ति । चमत्कारकारणात् । ते क इत्याह – हे चन्द्रचूड विभो, ये तव चरितं कीर्तयन्ति ख्यापयन्ति ॥ ते जान्मिकानि दुरितान्यवसादयन्ति सूक्तानि निर्मलमतीननुवादयन्ति । गीतानि वैणिकनटानपि नादयन्ति ये भक्तितस्तव नुतीः प्रतिपादयन्ति ॥ १० ॥ ते जना जान्मिकान्यनेकजन्मार्जितानि दुरितानि पापान्यवसादयन्ति दूरीकुर्वन्ति । तथा ते जना निर्मलमतीन्धौताशयान्सूक्तानि निजान्यनुवादयन्ति । तथा वैणिकनटान्वी [^१]. 'कर्मबन्धमधिकं' ख. णावादकान्नटानपि गीतानि स्वयशोवर्णनरूपाण्यनुनाद- यन्त्यनुपाठयन्ति । ते क इत्याह – ये धन्या भक्तितो भक्तिरसेन स्तुतीः प्रतिपादयन्ति ॥ ते सत्सु कर्मसु रिपूनपि चोदयन्ति गीर्भिः सतां च हृदयानि विनोदयन्ति । तेषां शुचः क्वचन चेतसि नोदयन्ति ये तावकानि चरितान्यनुमोदयन्ति ॥ ११ ॥ ते लोका भक्तिरसेन सत्सु कर्मसु श्रीशिवोपासाप्रसाध्येषु रिपूनपि वधोद्युक्तानपि चोदयन्ति प्रेरयन्ति । शत्रुषु मित्रेषु च समदर्शित्वात् । तथा गीर्भिर्वाणीभिः सतां सहृदयानां च मनांसि विनोदयन्ति । तथा तेषां जनानां चेतसि क्वचन शुचो नोदयन्ति नोत्पद्यन्ते । ते के। ये जनास्तावकानि चरितानि त्रिपुरान्धकासुरदाहवधादीन्यपदानानि कविभिरन्यैर्वि- हितानि अनुमोदयन्ति सहर्षं विविञ्चन्ति ॥ ते विग्रहोग्रमनसोऽपि न खेदयन्ति मोहं दृढार्गलनिभं हृदि भेदयन्ति । स्वं कौशलं मृदुमतीनपि वेदयन्ति सूक्तानि ये तव निजानि निवेदयन्ति ॥ १२ ॥ ते जना विग्रहेण वैरणोग्रं कठिनं मनो येषां ते तादृशानपि न खेदयन्ति । ते च जना येन मोहेनाज्ञानेन कठिने मनसि श्रीशिवभक्तिरसप्रवेशः कदापि न भवति तं मोहमज्ञानम- र्गलनिभमररतुल्यं हृदि मनसि भेदयन्ति । तथा ते मृदुमतीनपि स्वं कौशलं निपुणकविक- र्मचातुरीं वेदयन्ति ज्ञापयन्ति । ये धन्या निजानि सूक्तानि प्रौढोक्तीनि तव पुरो निवेद- यन्ति प्रतिपादयन्ति ॥ ते भेजुषां भवति भक्तिममन्दयन्ति वाग्वीरुधस्त्वयि रतिं हृदि कन्दयन्ति । त्वामन्यदर्शनगतानपि वन्दयन्ति ये वाग्भरण हृदयं तव नन्दयन्ति ॥ १३ ॥ ते जना भेजुषां भवाब्ध्युत्तरणोपायश्रवणायागतानां भवति त्वयि भक्तिममन्दयन्ति अनल्पयन्ति । तथा ते जना हृदि मनसि त्वयि रतिं सक्तिं वाग्लताया निजायाः कन्दयन्ति कन्दं मूलं कुर्वन्ति । मूलं दृढतावहम् । तथा ते जना अन्यदर्शनगतान् कुटिलमार्गगता- नपि वादिनो निजचातुर्यात्त्वां विभुं वन्दयन्ति मानयन्ति । ये धन्या वाग्भरेण वाक्प्रपञ्चेन तव विभोर्मनो नन्दयन्ति ॥ ते भुक्तिमुक्तिसफलर्द्धि विवर्धयन्ति सत्कर्मशर्म शमिताधि च साधयन्ति । ये त्वां नवैरभिनवैरभिराधयन्ति यानिक्षुसारमधुरान्सुधियो धयन्ति ॥ १४ ॥ ते जनाः भुक्तिमुक्तिरेव सफला ऋद्धिः संपत्तिर्यस्मिंस्तत् तादृशं सत्कर्म शुभकर्म वि- शेषेण वर्धयन्ति । तथा ते शमिता दूरीकृता आधयो मनःपीडा येन तत्तादृशं च शर्म क ल्याणं साधयन्ति । ते के इत्याह - ये त्वामिति । ये धन्या अभिनवैर्नूतनैर्नवैः स्तवैस्त्वां विभुमभिराधयन्ति आराधयन्ति । तैर्नवैः कैरित्याह– सुधियः सचेतस इक्षुसारवन्मधुरा न्यान्धयन्ति पिबन्ति आस्वादयन्ति ॥ ते संगरे गुरुरुषोऽपि न योधयन्ति ज्ञानामृतेन हृदयं च विशोधयन्ति । रोषोद्भवं हृदि रिपोरपि रोधयन्ति ये त्वां निजा नुतिकथाः प्रतिबोधयन्ति ॥ १९ ॥ ते जना गुर्वी रुड् येषां तानपि संगरे रणे न योधयन्ति । संयतचित्तत्वात् । तथा ते जना ज्ञानमेवामृतं रसायनं तेन हृदयं मनश्च विशेषेण शोधयन्ति । तथा ते रिपोरपि वधो- द्युक्तस्यापि रोषोद्भवं रोधयन्ति । हे विभो, ये जनास्त्वां विभुं नुतिकथाः स्तुतिकथाः प्रतिबोधयन्ति ॥ ते दुर्मदान्बुधसदस्यवमानयन्ति प्रौढान्प्रणम्य विनयेन च मानयन्ति । तान्भूतयः स्वयमनन्यसमानयन्ति ये वासरांस्तव नवैः सशमा नयन्ति ॥ १६ ॥ ते जना बुधसदसि पण्डितमण्डल्यां दुर्मदानपि पण्डितंमन्यानपि अवमानयन्ति । तथा ते च प्रौढान्प्रौढोक्तिनिपुणान्प्रणम्य मानयन्ति । तथा भूतयः संपदोऽनन्यसमाननन्यसाधा- रणांस्तान् स्वयमयन्ति गच्छन्ति । 'अय गतौ' धातुः । ते क इत्याह –ये धन्यास्तव नवैः स्तुतिभिर्वासरान् दिनानि नयन्त्यतिवाहयन्ति । किंभूताः । सशमाः संयतचित्ताः ॥ ते निर्भये नतिमतः पथि यापयन्ति नोत्कम्पदानपि रिपूनुपतापयन्ति । क्लेशापदं पशुसमानपि हापयन्ति ये त्वां प्रसाद्य दृशमीश्वर दापयन्ति ॥ १७ ॥ ते जना नतिमतः प्रणतजनान्निर्भये पथि कैवल्यप्रदे श्रीशिवशासनोपदेशे यापयन्ति ग च्छन्ति ( गमयन्ति) । तथा उत्कम्पदानुच्चैः कम्पप्रदांस्त्रासदानपि रिपून्नोपतापयन्ति । स- शमत्वात् । तथा ते जनाः पशुसमानपि निश्चेतनानपि क्लेशा अविद्यादयः पञ्च त एवापत् भवमरुभ्रमणजक्लेशापद्वा तां हापयन्ति त्याजयन्ति । ते के। हे ईश्वर जगदीश, ये धन्यास्त्वां स्तवोक्तिभिः प्रसाद्य दृशं दृष्टिं दापयन्ति । स्वमुद्दिश्येत्यर्थः ॥ ते दुर्मदं शमनमुग्रमदर्पयन्ति गर्धं च साधुसदनादपसर्पयन्ति । दानादिनार्थिनिवहानपि तर्पयन्ति ये तावके मुकुटमङ्घ्रिलेऽर्पयन्ति ॥ १८ ॥ ते जना दुर्मदमुग्रं शमनमन्तकमदर्पयन्ति अदर्पं कुर्वन्ति । तथा ते जनाः साधुसदना- त्साधूनां सज्जनानां गृहाद्गर्धं धनादिस्पृहामपसर्पयन्ति निवारयन्ति । तेषां विपदं दूरीकु- र्वन्तीत्यर्थः । 'गृधु अभिकाङ्क्षायां' धातुः । तथा दानादिना हेतुना अर्थिनिवहानपि याच- कगणानपि तर्पयन्ति । हे विभो, ये धन्यास्तावकेऽङ्घ्रितले त्वत्पादाब्जरजसि मुकुटं मौलिं स्वमर्पयन्ति वितरन्ति ॥ ते सद्गृहेषु गुरुमापदमल्पयन्ति स्वं चाशयं शिशयिषोस्तव तल्पयन्ति । आर्तिस्पृशामुपकृतीरपि कल्पयन्ति ये बालकानपि नवं तव जल्पयन्ति ॥ १९ ॥ ते जनाः सतां विदुषां गृहेषु गुरुमप्यापदमल्पयन्ति अल्पां कुर्वन्ति । तथा ते जनाः शिशयिषोः कृपया शयितुमिच्छतस्तव स्वमाशयं मनस्तल्पयन्ति तल्पं संपादयन्ति । तथा ते जना आर्तिस्पृशामत्यार्तानामुपकृतीरुपकारानपि कल्पयन्ति कुर्वन्ति । ये जना धन्यास्तव विभोर्नवं स्तवं बालकानपि जल्पयन्ति पाठयन्ति ॥ ते सापराधमनसोऽपि न कोपयन्ति तापं ह्रिया विपुलमापदि गोपयन्ति । त्वद्धाम चामलमतीनपि रोपयन्ति ये नार्चनं तव कदाचन लोपयन्ति ॥ २० ॥ ते जनाः सापराधचित्तानपि नैव कोपयन्ति । तथा तापमतिसंतापमपि कुतोऽपि का रणात्परिणतं विपुलं घनमप्यापदि ह्रिया लज्जया गोपयन्ति न प्रकटीकुर्वन्ति । 'शोष- यन्ति' इति पाठः । तथा ते जना अमलमतीन्धौताशयाञ्जनान् त्वद्धाम त्वदीयं परमं धाम अधिरोपयन्ति । ते के । ये कदाचन जातु न त्वत्पूजनं लोपयन्ति ॥ ते शक्तिमप्रतिहतां भुवि जृम्भयन्ति प्रीतिं परां कृतमतीनुपलम्भयन्ति । वंशत्रयीमपि निजामभिशोभयन्ति ये त्वां निजासु नुतिसूक्तिषु लोभयन्ति ॥ २१ ॥ ते जना अप्रतिहतां शक्तिं जृम्भयन्त्युल्लासयन्ति । तथा ते जनाः कृतमतीनपि कृति- नोऽपि परामुत्कृष्टां प्रीतिमुपलम्भयन्ति उपलभमानान्संपादयन्ति । तथा ते च निजां वं- शत्रयीं स्वपितृवंशमातृवंशश्वशुरवंशरूपामभिशोभयन्ति । ये त्वां विभुं निजासु स्तुतिसूक्तिषु स्तुतियुक्ताश्च ताः सूक्तयस्तासु लोभयन्ति सलोभं कुर्वन्ति ॥ ते मग्नमार्तजनमापदि तारयन्ति बुद्ध्या विमृश्य सदसच्च विचारयन्ति । अज्ञानमानतिमतां च निवारयन्ति त्वद्भक्तिमिन्दुधर ये हृदि धारयन्ति ॥ २२ ॥ ते जना आपदि जन्मजरामरणत्रासापदि बाह्यायां वा मग्नमार्तजनं तारयन्ति । तथा बुद्ध्या धिया विमृश्य सत् असच्च विचारयन्ति तथा ते जना आनतिमतां प्रह्वानामज्ञानं निवारयन्ति । हे इन्दुधर चन्द्रमौले, ये विभोस्तव भक्तिं हृदि मनसि धारयन्ति ॥ ते विद्विषः स्थिररुषोऽप्यनुकूलयन्ति मोहं महीरुहमिव प्रविमूलयन्ति । आज्ञां च मूर्ध्नि महतामवचूलयन्ति ये भालमङ्घ्रिरजसा तव धूलयन्ति ॥ २३ ॥ ते जनाः स्थिररुषो दृढरोषानपि विद्विषः शत्रूननुकूलयन्ति स्निग्धान् कुर्वन्ति । तथा ते मोहमज्ञानं महीरुहं वृक्षमिव प्रकर्षेण विमूलयन्ति उत्साद ( त्पाट) यन्ति । तथा ते जना आज्ञां निजां च महतां महाजनानां मूर्ध्नि शिरसि अवचूलयन्ति अवचूलं शिरोभूषणं कुर्वन्ति । हे विभो, ये भालं स्वललाटं तवाङ्घ्रिरजसा पादारविन्दधूल्या धूलयन्ति अनु- लिम्पन्ति ॥ ते पङ्कमङ्कगतमात्मनि धावयन्ति दिङ्मण्डलं च परितः परिपावयन्ति । क्लेशान्क्षणात्तृणगणानिव लावयन्ति ये त्वां प्रकाशवपुषं हृदि भावयन्ति ॥ २४ ॥ ते जना आत्मनि स्वदेहे अङ्कगतं मध्यगतं पङ्कं धावयन्ति क्षालयन्ति । तथा ते दिशां मण्डलं च परितः समन्तात् परिपावयन्ति परिपूतं कुर्वन्ति । तथा ते जनाः क्लेशान्पञ्च अविद्यास्मितारागद्वेषाभिनिवेशान् तृणगणानिव क्षणाल्लावयन्ति च्छिन्दन्ति । 'लूञ् छेदने' धातुः । ते के । ये धन्याः प्रकाशवपुषं परप्रकाशरूपं त्वां विभुं हृदि मनसि भावयन्ति ध्यायन्ति ॥ ते पीवरीं विपदमोकसि कर्शयन्ति स्वं कौशलं सुमनसश्च विमर्शयन्ति । प्रीति सतां च हृदयेषु निवेशयन्ति ये त्वत्स्तुतीर्विबुधसद्मसु दर्शयन्ति ॥ २९ ॥ ते जना ओकसि गृहे स्थितां विपदं बाह्यां कर्शयन्ति कृशां कुर्वन्ति । दूरीकुर्वन्ती- त्यर्थः । तथा ते जनाः सुमनसः पण्डितान् स्वं कौशलं प्रौढोक्तिरूपं विमर्शयन्ति । तथा ते जनाः सतां सहृदयानां च प्रीतिं निवेशयन्ति । ते क इत्याह – हे विभो, ये तव विभोः स्तुतीर्विबुधसद्मसु पण्डितगृहेषु दर्शयन्ति ॥ ते निर्मलं सुकृतमात्मनि पोषयन्ति दुष्कर्मकर्दममलं हृदि शोषयन्ति । क्रूरान्विरोधविधुरानपि तोषयन्ति ये नाम ते शिवशिवेत्यभिघोषयन्ति ॥ २६ ॥ ते जना निर्मलं पुण्यमात्मनि पोषयन्ति । तथा ते जना दुष्कर्म दुरितमेव कर्दमं पङ्क हृदि मनस्यलमत्यर्थं शोषयन्ति । तथा ते विरोधेन विधुरा विरुद्धास्तादृशानपि क्रूरान् तो- षयन्ति प्रसन्नीकुर्वन्ति । ते क इत्याह - हे विभो, ये धन्यास्ते तव विभोः शिवशिवेति नाम उद्घोषयन्त्युच्चारयन्ति ॥ ते विश्वमेव चरितैरभिभूषयन्ति क्रुद्धान्विरुद्धहृदयांश्च न दूषयन्ति । नात्युद्भटान्यमभटानपि रोषयन्ति रागेण ये शिव मनस्तव तोषयन्ति ॥ २७ ॥ ते जनाश्चरितैश्चरित्रैर्विश्वमेव सर्वं जगदेवाभिभूषयन्ति । तथा ते क्रुद्धान् विरुद्धहृदयांश्च जनान् न दूषयन्ति । तथा तेऽत्युद्भटानत्युत्कटान्यमभटांश्च न रोषयन्ति न समत्सरयन्ति । ये जना रागेण त्वद्भक्तिरसेन रागेण रागालापेन वा तव मनस्तोषयन्ति । 'गीतवादेन शं- करः' इत्युक्तेः ॥ ते त्वां कृपाम्बुतृषिते हृदि वर्षयन्ति स्वान्तौकसोऽघभुजगानपि कर्षयन्ति । कम्पं विधाय च यमं भ्रुवि धर्षयन्ति ये त्वां [^१]निजैर्नुतिपदैर्हर हर्षयन्ति ॥ २८ ॥ [^१]. 'नवैः' ख. ते जनाः कृपैवाम्बु तेन तृषिते हृदि स्वकीये त्वां विभुं वर्षयन्ति वर्षं कुर्वन्ति । वर्ष- णमिव कुर्वन्तीत्यर्थः । अथ ते जनाः स्वान्तं मन एव ओको गृहं तस्मात् अघभुजगान्पा- तकान्येव सर्पास्तान्कर्षयन्ति दूरीकुर्वन्ति । स्वान्तौकस इति पश्चमी । तथा ते जना श्रुवि स्वस्या॑ कम्पं विधाय । भ्रूसंज्ञयैवेत्यर्थः । यममन्तकं धर्षयन्ति तिरस्कुर्वन्ति । हे हर विभो, ये धन्यास्त्वां विभुं निजैः स्वकीयैर्नुतिपदैर्हर्षयन्त्यानन्दयन्ति ॥ ते मौनमुद्रितगिरोऽप्युपहासयन्ति गीर्भिर्मुखानि सुधियामधिवासयन्ति । विश्वं यशोभिरमलैरपि भासयन्ति ये मानसं तव नवैः प्रविकासयन्ति ॥ २९ ॥ ते जना मौनेन तूष्णींभावेन मुद्रितगिरोऽपि मौनधनानपि जनान् गीर्भिरतिहर्षप्रदा- भिरुपहासयन्ति सोपहासान्कुर्वन्ति । तथा ताभिर्गीर्भिरेव सुधियां विबुधानां मुखानि अ- धिवासयन्ति परिमलयन्ति । तथा अमलैर्निर्मलैः स्वयशोभिर्विश्वं भासयन्ति प्रकाशयन्ति । ये धन्या नवैः स्तवैस्तव मानसं चित्तं प्रविकासयन्ति प्रहृष्टं कुर्वन्ति ॥ ते चित्तभित्तिमसतामपि चित्रयन्ति रोषोद्धतानरिजनानपि मित्रयन्ति । सूक्तामृतैश्च भुवमेव पवित्रयन्ति वाङ्नावि ये तव चरित्रमरित्रयन्ति ॥ ३० ॥ ………………………………………………………। रोषेणोद्धतानुद्भ- टानप्यरिजनान् मित्रयन्ति । सखीनिव संपादयन्तीत्यर्थः । तथा ते सूक्तान्येवामृतानि तें- र्भुवं पृथ्वीमेव पवित्रयन्ति । ये धन्यास्तव चरित्रं त्रिपुरदाहाद्यपदानकर्म अरित्रयन्ति अ- रित्रं संपादयन्ति । कस्याम् । वाङ्नावि वागेव नौस्तरणिस्तस्याम् । यथा नावि अरित्रं सं- चार्यते तथा त्वञ्चरित्रं वाचीत्यर्थः । अरित्रं च पारोत्तारकम् । 'अरित्रं केनिपातनम्' इत्यमरः ॥ चेतांसि ते सुकृतिनामुपबृंहयन्ति बाह्यान्तरानसुहृदश्च निबर्हयन्ति । नात्मानमानतमरीनपि गर्हयन्ति ये त्वां नवस्तवविभूतिभिरर्हयन्ति ॥ ३१ ॥ ते जनाः सुकृतिनां जनानां चेतांस्युपबृंहयन्ति प्रहृष्टानि कुर्वन्ति । तथा बाह्यांन्तरान् बाह्या आन्तराश्च षट् कामक्रोधादयश्च तानसुहृदो रिपन् निबर्हयन्ति घातयन्ति । ते जना अरीन् शत्रूनपि आत्मानं तत्संबन्धिनं न गर्हयन्ति न संपादयन्ति (?) । किंभूतम् । आनतमपि । ते के। हे विभो, ये त्वां नवस्तवविभूतिभिः नवा नूतना ये स्तवास्तेषां विभूतिभिरर्हयन्ति ॥ आत्मानं ते कलुषकलिले मग्नमुच्चालयन्ति ज्ञानाम्भोभिर्मलमलिकुलश्यामलं क्षालयन्ति । स्मृत्वा च त्वां प्रमदरभसादंसमास्फालयन्ति त्वद्भक्त्या ये सकलमलसं चित्तमुत्तालयन्ति ॥ ३२ ॥ ते जनाः कलुषकलिले कलुषं पातकमेव कलिलं कर्दमस्तत्र मग्नमात्मानमुच्चालयन्ति उद्धरन्ति । तथा अलिकुलवत् श्यामलं मलं त्रिविधमाणवमायीयकार्मं पापं च ज्ञानमे- वाम्भासि तैः क्षालयन्ति निर्मलीकुर्वन्ति । तथा ते विभुं त्वां स्मृत्वा प्रमदेन हर्षेण रभस औत्सुक्यं तस्मादंसं स्वकीयं स्फालयन्ति । ते के। हे भगवन् सकलं सर्वप्रकारैरलसं शंभुभक्तिमार्गे मन्दगति चित्तं त्वद्भक्त्या उत्तालयन्ति उत्तालगामि कुर्वन्ति । 'अमलं' इति क्वचित्पाठः ॥ ते रामाणां मनसि मदनं सुप्तमुन्निद्रयन्ति श्लाघां लब्धं सदसि च सतां चित्त[^१]मुन्मुद्रयन्ति । तानुद्वृत्ताः कुटिलमतयो न क्वचिच्छिद्रयन्ति त्वञ्चित्तं ये वरद करुणाक्रन्दितैरार्द्रयन्ति ॥ ३३ ॥ ते जना रामाणां वरस्त्रीणां मनसि सुप्तं मदनं काममुन्निद्रयन्ति प्रबुद्धं संपादयन्ति । तथा ते सदसि सभायां श्लाघां स्तुतिं लब्धं सतां धीमतां चित्तं मन उन्मुद्रयन्ति विगत- मौनमुद्रं कुर्वन्ति । तथा उद्वृत्ताः क्रूराः कुटिलमतयश्च धूर्ताः पुमांसस्तान् क्वचिन्न च्छिद्र- यन्ति । तान् कानित्याह– हे वरद शंभो, करुणाक्रन्दितैर्दीनप्रलापैर्ये त्वां विभुमार्द्रयन्ति कृपार्द्रचेतसं कुर्वन्ति ॥ ते सम्यानां सदसि नयनान्यश्रु विस्रावयन्ति क्रोधोत्कर्षं गुरुमुरुरुषां दूरमुत्प्रावयन्ति । चेतः सूक्तैर्मणिमिव सतामैन्दवं द्रावयन्ति स्वामिन्ये त्वामभि नवनवव्याहृतीः श्रावयन्ति ॥ ३४ ॥ ते जनाः सदसि सभायां सभिकानां नयनानि नेत्राणि अश्रु आनन्दाश्रु विस्रावयन्ति । तथा ते जना उरू रुड् येषां ते उरुरुषो मत्सरिणस्तेषां गुरुं महान्तं क्रोधोत्कर्षं उत्प्रावयन्ति दूरीकुर्वन्ति । तथा ते जनाः सूक्तैः स्तुतिवाक्यैरैन्दवं मणिं चन्द्रकान्तरत्नमिव द्रावयन्त्या- र्द्रीकुर्वन्ति । ये जनास्त्वां नूतनस्तवानां व्याहृतीर्व्याहरणानि श्रावयन्ति । 'व्याकृती:' इति क्वचित्पाठः ॥ [^१]. 'वक्त्रं' ख. तेषां सूक्तीरमलमतयः पूगवञ्चर्वयन्ति क्रूराणां ते मदमभिमुखं प्रेङ्खितं खर्वयन्ति । तान्विद्वांसस्तव नवसुधास्वादनायाह्वयन्ति त्वत्पादाग्रे मुदितमनसो ये शिरः प्रह्वयन्ति ॥ ३५ ॥ अमलमतयो विशुद्धधियस्तेषां जनानां सूक्तीः प्रौढोक्तीः पूगवत् पूगफलवत् चर्वयन्त्या स्वादयन्ति । तथा ते जनाः क्रूराणामुद्वृत्तानामभिमुखं प्रेङ्खितं भ्राम्यन्तं मदं गर्वं खर्वयन्ति ह्वस्वयन्ति । तथा तान् जनान् तव विभोर्नवः स्तव एव सुधा तस्यास्वादनाय विद्वांसो वि- बुधा आह्वयन्त्याकारयन्ति । ते क इत्याह – हे विभो, ये धन्या मुदितमनसः सन्तस्त्वञ्च- रणाग्रे शिरः स्वकीयं प्रह्वयन्ति नमयन्ति ॥ ते दुर्वृत्तानपि न कृपया पेशलाः क्लेशयन्ति ग्लानिं ज्ञानां व्यसनजनितामाशये नाशयन्ति । तृष्णार्तानप्यमृतमधुराः स्वा गिरः प्राशयन्ति त्वामन्तर्ये शकलितकलिक्लेशमावेशयन्ति ॥ २६ ॥ ते जनाः कृपया पेशला आर्द्रमनसः सन्तो दुर्वृत्तानपि न क्लेशयन्ति । तथा व्यसनेन विपदुत्थेन जनितां ग्लानिं ज्ञानां विदुषामाशये मनसि नाशयन्ति । तृष्णया श्रवणेच्छया आर्तास्तानपि अमृतमधुरा रसायनरससदृशी: स्वा गिरः प्रौढोक्ती: प्राशयन्ति भोज- यन्ति । ये जनाः शकलितस्तुरीययुगस्य क्लेशो येन तादृशं त्वामन्तर्मनसि आवेशयन्ति प्रवेशयन्ति ॥ ते रागादीन्मनसि मिलितानाशु विश्लेषयन्ति क्रोधान्धानप्यतनुविनया न क्वचिद्द्वेषयन्ति । मोहध्वान्तं घनमधिमतिव्योम निःशेषयन्ति त्वत्पार्श्वं ये गिरमभिमतप्राप्तये प्रेषयन्ति ॥ ३७ ॥ ते जनाः सुकृतिनो मनसि मिलितान् रागादीन् रागो विषयेष्वासक्तिः कामावेशजनिता तदादीन् कामादीन् मनसि चित्ते आशु शीघ्रं विश्लेषयन्ति पृथक्कुर्वन्ति तथा ते जना अत- नुविनया अतनुरनल्पो विनयो येषां तादृशाः सन्तः क्रोधान्धानपि जनान् क्वचिदपि न द्वे- षयन्ति । तेष्वपि वैरं न कुर्वन्तीत्यर्थः । तथा ते जना अधिमतिव्योम मतिर्बुद्धिरेव व्योम- आकाशस्तत्र मोहोऽज्ञानमेव ध्वान्तमाच्छादकं निःशेषयन्ति । समग्रमेव निवारयन्तीत्यर्थः । ते के । हे विभो, ये धन्या गिरं स्वामभिमतप्राप्तये ईप्सितलाभाय त्वत्पार्श्वं त्वत्समीपं प्रेषयन्ति ॥ ते निर्वेदं मनसि शमिना[^१]मह्रुतं ह्रासयन्ति त्रस्तानस्तंगमितविपदः शश्वदाश्वासयन्ति । त्वद्भावैक[^२]प्रवणभणितैरन्तकं त्रासयन्ति स्तुत्या ये त्वां नतजनहृतत्रासमुल्लासयन्ति ॥ ३८ ॥ ते जनाः शमिनां मनसि चित्ते निर्वेदं ह्रासयन्ति दूरीकुर्वन्ति । कथम् । अह्रुतमजस्रम् । ते जनास्त्रस्तान्भीतानपि अशरणान् शश्वत्सदा आश्वासयन्ति । किंभूताः । अस्तंगमिता दूरीकृता विपद्येषां ते तादृशान् । तथा ते जनास्त्वद्भावे त्वद्भावनाया- मेकप्रवणानि च तानि भणितानि सूक्तानि तैरन्तकं यमं त्रासयन्ति । ते के । ये त्वां नतजने हृतस्त्रासो येन स तादृशं त्वां स्तुत्या उल्लासयन्त्यानन्दयन्ति ॥ ते तज्ज्ञानां परिषदि गुणानात्मनः शंसयन्ति स्वान्ते चान्तर्यमभुजगजं साध्वसं ध्वंसयन्ति । क्लेशान्पाशानिव च निबिडानाशु विस्रंसयन्ति प्रौढानां ये तव नुतिमधिश्रोत्रमुत्तंसयन्ति ॥ ३९ ॥ ते जनास्तज्ज्ञानां विदुषां सदस्यात्मनो गुणान् । सभ्यानिति शेषः । सभ्यान् शंसयन्ति । ते जनाः स्वान्ते मनसि अन्तः यमभुजगजं कालपाशोत्थं साध्वसं भयं ध्वंसयन्ति । तथा ते जनाः क्लेशानविद्यादीन् पञ्च निबिडान् पाशानिव आशु विस्रंसयन्ति निवारयन्ति । ये तव विभोर्नुतिं प्रौढानामधिश्रोत्रं श्रोत्रे कर्णोपरि उत्तंसयन्त्यवतंसयन्ति ॥ ते त्वद्भक्तिव्यसनमनघं कर्म निर्वाहयन्ति त्वत्सेवासु स्थिरमविरतं चित्तमुत्साहयन्ति । स्वं चाघौघं यममदनवत्त्वदृशा दाहयन्ति त्वां विज्ञप्तिं [^३]स्वयमवहितं येऽन्वहं ग्राहयन्ति ॥ ४० ॥ हे विभो, ते जनास्त्वद्भक्तिरेव व्यसनं यस्मिंस्तत्कर्म निर्वाहयन्त्यतिवाहयन्ति । तथा ते जनाश्चित्तं मनोऽविरतमनिशं त्वत्सेवासु स्थिरमुत्साहयन्ति सोद्योगं कुर्वन्ति । तथा ते जना यममदनवत् कालकामवत् निजं स्वकीयमघौघं पातकराशिं तवैव विभोर्दृष्ट्या दाह- यन्ति । ते के । ये जना अन्वहं प्रतिदिनमवहितं सावधानीभूय स्वयमेव त्वां विभुं विज्ञप्तिं ग्राहयन्ति । अवहितमिति क्रियाविशेषणम् ॥ अथास्य स्तोत्रस्योपसंहारश्लोकमेकमाह ते [^४]तक्षाणं तरुमिव गुरुं त्वामघं तक्षयन्ति प्राप्नुं तृप्तिं शुभफलभरं निर्भरं भक्षयन्ति । [^१]. 'आहतं' ख. [^२]. 'श्रवण' ख. [^३]. 'हितं' ख. [^४]. तक्षाण:' क. प्रत्यासन्नां श्रियमपि धिया तीक्ष्णया लक्षयन्ति त्वद्भक्तान्ये श्रुतिमिव नुतिं तावकीं शिक्षयन्ति ॥ ४१ ॥ हे विभो दयालो, ते जनास्त्वां कर्मभूतमघं पातककर्म तक्षयन्ति । 'तक्ष त्वक्ष तनूकरणे' धातुः । अघं किंभूतम् । गुरुं महान्तम् । यथा केचन तक्षाणं तरुं तक्षयन्ति तथैवेत्यर्थः । तथा ते जनास्तृप्तिं लब्धं निर्भरं पूर्णं शुभफलसमूहं भक्षयन्ति । तथा तीक्ष्णयातिनिपुणया- धिया बुद्धया ध्यानैकसक्तया प्रत्यासन्नां निकटवर्तिनीं श्रियं लक्ष्मीं लक्षयन्ति । ते क इ- त्याह—ये धन्या जनास्त्वद्भक्तान् भवद्भक्तजनान् श्रुतिमिव तावकीं नुतिं स्तुतिं शिक्षयन्ति ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशम् । सप्तत्रिंशं स्तोत्रम् । अथातः स्तुतिप्रशंसास्तोत्रं ग्रन्थकृत्सप्तत्रिंशमारभमाण आह इह हि स्वात्ममहेश्वरपरिभावनशुद्धसंविदः सुधियः । कमलदलानि जलैरिव बहिरावरणैर्न लिप्यन्ते ॥ १॥ हि निश्चये । इह जगति स्वश्चासावात्मा तस्य महेश्वरपरिभावना शिवैकताध्यानं तेन शुद्धा निर्मला संविन्मतिर्येषां तादृशा जलैर्जलबिन्दुभिः पद्मपत्राणीव बहिरावरणैः शुभाशु- भशबलरूपत्रिविधकर्मभिर्बुद्धीन्द्रियकर्मेन्द्रियकृतैर्न लिप्यन्ते । कदापीत्यर्थः ॥ कविमुखकमलोपवने कृतवसतिर्जयति सूक्तिकल्पलता । या फलति भुक्तिमुक्ती शिवभक्तिसुधारसासेकैः ॥ २ ॥ कवीनां मुखकमलमेवोपवनं तत्र सा सूक्तिः प्रौढोक्तिः कल्पलता श्रीशिवभक्तिरसायनर- सासेकैर्भुक्तिमुक्ती बुभुक्षुमुमुक्षुजनाभिलषिते फलति निष्पादयति । दत्त इत्यर्थः ॥ जय जय हर रक्ष भयादेवं देवं शिवं शिवं लब्धुम् । यः स्तौति तस्य सफलः सारः सारस्वतः स्वतः स्फारः ॥ ३ ॥ जयजयेति पौनरुक्त्ये भक्त्युल्लासान्न दोषः । एवमन्यत्रापि । हे हर भवामयहर, त्वं जय सर्वोत्कृष्टो भव । मामशरणं भयाज्जन्मजरामरणोत्थत्रासाद्रक्ष । एवमनेन प्रकारेण शिवं कल्याणं लब्धं यः श्रीशिवं परमेश्वरं स्तौति तस्य धन्यस्य सार उत्कृष्टः सारस्वतो वाणीसंबन्धी स्फार उल्लास: सफलः कृतकृत्यो भवति । तस्यैव सफला वाणीत्यर्थः ॥ शिव शिव शंकर शंकर भव गतिरिति यः प्रलापमुखरमुखः । तस्य हि सफला दिवसाः शिवसायुज्यं च हस्तगतम् ॥ ४ ॥ हे शिव कल्याणदायिन्, शिव परमेश, शं निःश्रेयसं करोतीति शंकरस्तस्य संबोधनं शंकर, त्वं गतिरुपायो भव । अर्थादगतिकस्य ममेत्यर्थः । इत्यनेन प्रकारेण प्रलापो वी- प्सया भाषणरूपस्तेन मुखरं प्रगल्भं मुखं यस्य स तादृशो यः पुमान्भवति हि निश्चयेन तस्यैव सफलानि दिनानि । शिवसायुज्यं परमात्मैक्यं च हस्तगतम् । करबदरतुल्यमित्यर्थः ॥ इह खलु पशुपतिनुतिभिः कतिपयमपि यः कृतार्थयति कालम् । सकलकलिकलुषमुक्तो जीवन्मुक्तः स किं बहुना ॥ ५ ॥ खलु निश्चये । यो मनुष्य इह जगति पशुपतिनुतिभिः पञ्चकलापाशबद्धा जनाः पशव- स्तेषां पतिः श्रीशंभुस्तस्य स्तुतिभिः कतिपयमपि कालमतिस्वल्पं निमेषक्षणमुहूर्तादिकं कृ- तार्थयति सफलयति स धन्यः कलेस्तुरीययुगस्य कलुषं पापं तस्मान्मुक्तः सन् जीवन्नेव मु क्तो भवति । किंबहुनोक्तेन ॥ उपचितकुशलश्रेणिः परमपदारोहणैकनिःश्रेणिः । जयति महामृतवेणिर्विबुधजनाह्लादिनी नुतिः शंभोः ॥ ६ ॥ विबुधगणान्देवगणान्सहृदयजनां श्चाह्लादयति तादृशी श्रीशंभोः स्तुतिर्जयति सर्वोत्कृष्टा भवति । स्तुतिः किंभूता । उपचिता पूरिता कुशलानां मङ्गलानां भवाब्ध्युत्तरणरूपाणां श्रेणिः पङ्क्तिर्यया सा । स्तुतिः का । परमपदे कैवल्यपदे यदारोहणं तत्रैका निःश्रेणिरधिरो- हिणी । तथा महामृतस्य परमानन्दरसायनस्य वेणिः प्रवाहः ॥ किमियं सद्गुरुदृष्टिर्ह्लादैकमयी नु किं जगत्सृष्टिः । किं वा निरभ्रवृष्टिः श्रवणामृतवर्षिणी नुतिः शंभोः ॥ ७ ॥ श्रवणयोः सहृदयश्रोत्रयोरमृतवर्षिणी श्रीशंभोः स्तुतिरियं मद्गुरोः श्रीशिवशासनोपदे- शकरस्य दैशिकवरस्य दृष्टिरनुग्रहदृष्टिः किं भवति । यद्वा ह्लादैकमयी परानन्दैकमयी ज गतः सृष्टिः किं भवति । किंवा निरभ्र आकाशे वृष्टिर्जीवनवर्षणं भवति । संशयालंकारः ॥ अक्षयसुखोपभुक्तिः परमशिवावाप्तये नवा युक्तिः । यदि वा जीवन्मुक्तिः श्रवणामृतवर्षिणी नुतिः शंभोः ॥ ८ ॥ श्रवणामृतवर्षिणी शंभोनुतिरक्षयं निर्विनाशं यत्सुखं कैवल्यरूपं तस्योपभुक्तिः किम् । यद्वा परमशिवस्य ब्रह्मादिकारणषट्कातीतस्यावाप्तये लाभाय नवा अपूर्वा युक्तिरुपाय: । यदि वा साक्षादेव जीवन्मुक्तिर्भवति ॥ क्षेत्रं तदिह पवित्रं तत्तीर्थं पावनं तदायतनम् । तदिह तपोवनमनघं यत्र नुतिः शांभवी श्रुतिं विशति ॥ ९ ॥ यत्र क्षेत्रादौ शांभवी स्तुतिः श्रुतिं विशति कर्णगोचरं प्राप्नोति तदेव क्षेत्रं पवित्रमिह जगति । तदेव तीर्थं पवित्रम् । तदेवायतनं गृहं पवित्रम् । तदेवानघं निर्दोषं तपोवनं भवति ॥ सा क्रीडा सा गोष्ठी सा विश्रान्तिः स भूमिकालाभः । साखिलदुःखनिवृत्तिर्यत्र नुतिः शांभवी श्रुतिं विशति ॥ १० ॥ सा क्रीडा खेला भवति । सैव गोष्ठी सभा भवति । सैव विश्रान्तिः परमा । स एव भूमिकालाभः श्रेयान् । भवरङ्गे नृत्यतो देहिन एष एव भूमिका लाभः श्रेयान् । सैवा- खिलदुःखस्य भवमरुभ्रमणेनावाप्तस्य निवृत्तिर्भवति । यत्र शांभवी नुतिः कर्णगोचरं विशति ॥ तद्ध्यानं स समाधिः स महायागस्तदर्चनं सकलम् । सा खलु परमा दीक्षा यत्र नुतिः शांभवी श्रुतिं विशति ॥ ११ ॥ तदेव ध्यानं संयतचित्तीभूय शिवैकताध्यानम् । यद्वा श्रीसकलभट्टारकध्यानं 'त्रिपञ्चनयनं देवं जटामुकुटमण्डितम्' इति श्रीस्वच्छन्दतप्रोक्तम् । स एव समाधिः शिवैकतावाप्तये आत्ममनसोरैक्यम् । स एव महायागो नवनाभसंज्ञः श्रीस्वच्छन्दतन्त्रराजोक्तः । तदेव सकलमर्चनं पूजोपचारः । सैव परमा श्रीशिवपदप्राप्तिदायिनी दीक्षा षडध्वदीक्षा भवति । सापि तत्रैव तन्त्रराजे श्रीशंभुना पशुपाशनिवृत्तये प्रकाशिता । सा केत्याह – यत्र शांभवी नुतिः श्रुतिं विशति कर्णगोचरीभवति ॥ इदानीं नतजनोपदेशं कतिपयैर्वृत्तैराह यदि पारिजातकुसुमस्तबकस्तव कर्णयोरलंकरणम् । भवितुं भवति न सुलभः श्रुतिपथमेता नय स्तुतीः शंभोः ॥ १२ ॥ हे प्रणतजन, पारिजातस्य पारिजाताख्यदेवद्रुमस्य स्वर्गोद्याननन्दनस्थितस्य कुसुम- स्तबकः पुष्पाणां गुच्छस्तव कर्णयोर्भूषणं भवितुं यदि न सुलभो भवति तदा एता मदीयाः श्रीशिवस्य शंभोः स्तुतीः श्रुतिपथं कर्णमार्गं स्वकीयं नय । स्वर्गतरुपारिजातकुसुमस्तव- केभ्योऽप्येता अतिहृद्या इत्यर्थः ॥ अभिलषसि यदि निरोद्धुं पवनादपि दुर्ग्रहं मनोहरिणम् । तदिमा गृहाण निभृतं दृढगुणगणगुम्फिताः स्तुतीः शंभोः ॥ १३ ॥ हे नतजन, पवनादपि वायोरपि दुर्ग्रहं दुःखेन ग्रहीतुं शक्यं मन एव हरिणो मृगविशे- षस्तं निरोद्धुं संयतं कर्तुं यदि काङ्क्षसि तदा इमा मदीयाः स्तुती: श्रीशंभोर्निभृतं निश्चली- भूय गृहाण । किंभूताः स्तुतीः । दृढा ये गुणा माधुर्यौजःप्रसादाख्यास्त्रयस्त एव गुणास्त- न्तवस्तैर्बद्धाः । हरिणमपि बन्दुं तन्तुबद्धा वागुरा भवति ॥ यदमृतमम्बुधिमन्थनसमुत्थितं तस्य कः स्विदावादः । इति यदि हृदि तक कौतुकमाकर्णय तत्स्तुतीरिमाः शंभोः ॥ १४ ॥ हे नतजन, अम्बुधेः समुद्रस्य मन्थनं सुरासुरैर्यत्नेन कृतं ततः समुत्थितं यदमृतं सुधा तस्य कःस्विदास्वादो भवति इति तव मनसि यदि कौतुकं भवति तदा श्रीशंभोरिमा म दीयाः स्तुतीराकर्णय शृणु । ततो रसायनरसादप्येता अतिहृद्या इत्यर्थः ॥ विषयोपभोगरहितः [^१]सहजो ह्लादः सतां मतो मोक्षः । तमपि यदीच्छसि वेदितुमवहितहृदयः शृणु स्तुतीः शंभोः ॥ १५ ॥ हे नतजन, विषयाणां शब्दादीनामुपभोगस्तेन रहितः सहजो ह्लादः परमानन्दः सतां विदुषां मोक्षः कैवल्यपर्यायो मतः । तमपि मोक्षं वेदितुं ज्ञातुं यदि त्वमिच्छसि तदा अव- हितं सावधानं हृदयं यस्य स तादृशो भूत्वा शंभोः स्तुतीः शृणु ॥ अशुचि शुचामायतनं मलकलिलमिदं कलेवरं [^२]सत्यम् । भगवदुपासनसाधनमिति भवति न कस्य कमनीयम् ॥ १६ ॥ अशुचि अपवित्रम् । तथा शुचां भवजनितदुःखानामायतनं गृहम् । तथा मलेन पापेन कलिलं कलुषमिदं कलेवरं शरीरं सत्यमेतत् । एवंभूतमपि कलेवरमिति हेतोः कस्य न स- चेतनस्य कमनीयं काङ्क्षणीयं भवति । इति किमित्याह – भगवदित्यादि । एतत्कलेवरं भ गवतः श्रीशंभोरुपासनं भजनं तत्साधयतीति भगवदुपासनसाधनं भवतीत्यत एव कस्य न काङ्क्षणीयमस्ति ॥ यदि मनुषे यमनियमप्राणायामादि दुर्घटं कर्तुम् । तदिमं सुगममुपायं श्रय परमपदाप्तये [^३]नुतिं शंभोः ॥ १७ ॥ हे नतजन, यमाश्च नियमाश्च प्राणायासश्च आदिशब्देन धारणादयः । एतमष्टाङ्गयोगं कर्तुं दुर्घटं दुष्करं यदि मनुषे चेज्जानासि तर्हि अतीव सुगममुपायं परमपदस्य कैवल्यस्या- वाप्तये शंभोनुतिं स्तुतिं श्रय । श्रीशंभुस्तुतिविधानेन तव श्रेयः सुलभमित्यर्थः ॥ अथेदानीमेतस्यापि स्तोत्रस्योपसंहारार्थं वृत्तत्रयमाह - सिद्धं सम्यगभीष्टं सत्यगिरामाशिषः सतां फलिताः । लब्धं सुकृतस्य फलं [^४]निर्व्यूढेयं यतः स्तुतिः शंभोः ॥ १८ ॥ सम्यक् सम्यक्प्रकारेण ममाभीष्टमभिलषितं सिद्धं निष्पन्नम् । तथा सत्यगिरां तथ्यव- चसां सतां साधूनामप्याशिषो मम फलिताः । तथा सुकृतस्य प्राग्जन्मोपार्जितस्यापि फलं मया लब्धम् । कुत इत्याह - इयं शंभोः श्रीशिवभट्टारकस्य स्तुतिर्यतो निर्व्यूढा निर्वाहं प्राप्तुं पारिता ॥ मम सारः संसारः सकलमिदं मर्त्यजन्म मम सफलम् । मम सदृशोऽस्ति न [^५]कश्चन यदहं स्तोता शिवस्य संवृत्तः ॥ १९ ॥ ममैव धन्यस्य संसारः सारः । इदं मानुषजन्म ममैव सफलं कृतार्थम् । इह भूमौ मम [^१]. 'सहजाह्लादः' ख. [^२]. 'तथ्यम्' ख. [^३]. 'स्तुतिं' ख. [^४]. 'निर्व्यूढा यत्स्तुतिः' ख. [^५]. 'कश्चित्' क. Digitized by Google सदृशः कोऽपि म भवति । कुत इत्याह – यदहमिति । यदहं धन्यः श्रीशंभोः स्तोता स्तुतिकृत् संवृत्तः संपन्नः ॥ अथेदानीं कविर्गाढतरभक्तिसुधारसपानोन्मत्त इवैकं वृत्तमाह प्रणमामि प्रणमामि स्तौमि स्तौमि प्रभुं जगन्नाथम् । ध्यायामि ध्यायामि च यामि च विमलं परं धाम ॥ २० ॥ अहं श्रीशंभुं प्रकर्षेण वाङ्मनःकायकर्मभिर्नमामि प्रह्वीभवामि । तथा प्रभुं स्वकीयं त्रिज- गन्नाथं शंभुं स्तौमि स्तौमि पुनः पुनः स्तौमि च । तदेकचित्तः सन् तत्पादाम्भोजयुगलं ध्यायामि वीप्सया ध्यायामि च । अहं त्वदीयप्रसादाद्विमलं स्वच्छं निर्वाणं परं धाम परमं पदं यामि चावश्यमिति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशम् । अष्टात्रिंशं स्तोत्रम् । अथातो प्रन्थकृत्पुण्यपरिणामस्तोत्रमष्टात्रिंशमारभमाण आइ सहस्रशीर्षा पुरुषः पुनातु वः सहस्रचक्षुर्भगवान्सहस्रपात् । गलेऽङ्घ्रिमूले नयने च निश्चला[^१]स्त्रयोऽप्यमी यं पुरुषा उपासते ॥ १ ॥ पुरि पुरि प्रतिशरीरं तिष्ठतीति पुरुषः परमात्मा परमेश्वरो भगवान् । सहस्राण्यनेकस- हस्रपरिमितानि शीर्षाणि यस्य स सहस्रशीर्षा । शीर्षन्नादेशः । सहस्रशीर्षेति नकारान्तः शब्दः । तथा सहस्राण्यनेकसहस्रपरिमितानि चक्षूंषि यस्य सः । तथा सहस्रपात् सहस्रा- ण्यनेकसहस्रपरिमिताः पादाश्चरणा यस्य स तादृशः सहस्रपात् श्रीशंभुर्विराड्रूप: यद्रूपं श्रीकृष्णार्जुनयोः प्रसन्नीभूय प्रकाशितमेतादृग्रूपो वो युष्मान् पुनातु त्रिविधाणवादिमला- पहारेण पवित्रतमान् करोतु । स क इत्याह-गल इति । सहस्रं दशशतपरिमितानि शी- र्षाणि फणा यस्य स तादृशः पुरुषः शेषो नागराट् निश्चलो भूत्वा गले यं श्रीशंभुमुपास्ते । तथा सहस्रं दशशतपरिमितानि चक्षूंषि यस्य स सहस्रचक्षुः पुरुष इन्द्रो निश्चलो भूत्वा यं परमेश्वरमङ्घ्रिमूले चरणमूले उपास्ते । तथा सहस्रं दशशतपरिमिताः पादाः किरणा यस्य स सहस्रकरः सूर्यो निश्चलो भूत्वा यं श्रीशंभुं नयने दक्षिणे उपास्ते । एवं त्रयोऽपि पु- रुषाः सहस्रशीर्षा सहस्रचक्षुः सहस्रपादः क्रमेण गले अङ्घ्रिमूले नयने च निश्चलाः सन्तो यं परमेश्वरमुपासते स शंभुः सहस्रशीर्षा सहस्रचक्षुः सहस्रपादो भगवान्वः पुना- त्विति संबन्धः ॥ [^१]. 'उपासते यं पुरुषास्त्रयोऽप्यमी' ख. सरस्वतीवेन्दुकलोद्गता करैः सरस्वतीव श्रवणामृतैः खरैः । सरस्वतीवोर्मिभिरीश्वरस्तवैः सरस्वती वर्षतु वः सुधामियम् ॥ २ ॥ इयं मम सरस्वती वाणी वो युष्माकं सुधाममृतं वर्षतु । कैः । ईश्वरस्तवैः । केव । इ- न्दुकला चन्द्रकलेव । किंभूता इन्दुकला । उद्गता उद्भूता । कस्मिन् । सरस्वति समुद्रे । 'स- रस्वान्सागरोऽर्णवः' इत्यमरः । यथा समुद्रोत्पन्ना चन्द्रकला करैः किरणैः सुधां वर्षति त थेयमपीत्यर्थः । पुनः केव । सरस्वती वीणेव । यथा वीणा श्रवणामृतैः शब्दैः सुधां वर्षति तथेत्यर्थः । पुनः केव । सरस्वती नाम्नी नदीव । यथा साप्यूर्मिभिर्वीचिभिः सुधां वर्षति तथेत्यर्थः ॥ विमर्शशून्येन मया निरर्थकः खलेन कालः सकलोऽतिवाहितः । इदं त्वसारादतिसारमुद्धृतं धृतं यदीशस्तुतिवेतनं मनः ॥ ३ ॥ मया विमर्शशून्येन खलेन दुष्टेन सकलः कालो निरर्थको निष्फलोऽतिवाहितो नीतः । तु पक्षान्तरे । विमर्शे कृते सकला देवासारादिदमतिशयेन सारं वस्तु समुद्धृतम् । किं तदि- त्याह – मया यन्मनश्चित्तमीशस्तुतिवेतनमीशस्य परमेशस्य स्तुतिरेव वेतनमवश्यदेयं यस्य तत्तादृशं धृतम् ॥ न हृद्यतामेति परस्य दुर्मुखः शिशुः स्रवत्पीनसदिग्धनासिकः । पितुः स्वकीयस्य तु जीविताधिकस्तथोपहास्योऽपि ममायमुद्यमः ॥ ४ ॥ दुष्टं चिपिटनासिकक्लिन्नाक्षित्वादियुक्तं मुखं यस्य स तादृशो दुर्मुखः । तथा स्रवद्यत्पीनसं नासिकामलं तेन दिग्धा लिप्ता नासिका यस्य स तादृशः शिशुर्बालः परस्य हृद्यतां प्रि- यत्वं नैति किं तु स्वकीयस्य पितुः स एव शिशुर्जीवितादप्यधिको भवति यथा तथा ममा- यमुद्यमः श्रीशिवस्तुतिप्रबन्धरूप उपहास्योऽप्युपहसनीयोऽपि भवतीति जाने ॥ अवैमि भाग्योपचयः स पुष्कलः स शक्तिपातः खलु पारमेश्वरः । स वा महार्हो महतामनुग्रहो यदीश्वराराधनसाधनं मनः ॥ ९ ॥ अहमवैमि जाने स पुष्कल: पूर्णो भाग्यानामुपचय आधिक्यम् । खलु निश्चये । स पारमेश्वरः परमेश्वरसंबन्धी शक्तिपातः सानुग्रहं दृष्टिपातरूपः शक्तिपातो भवति । वाशब्द- श्चार्थे । तथा स महार्हो महामहनीयो महतां सद्गुरूणामनुग्रहः । स क इत्याह – यन्मनो भवति । किंभूतम् । ईश्वराराधनं साधयतीति तादृशम् ॥ अहो कृतार्थोऽस्मि मनोभिरामया गिरा गुणालंकृतयेह रामया । तनुः स्थिरेयं घ्रियते निरामया भवे च यद्भक्तिरभङ्गुरा मया ॥ ६ ॥ अहो आश्चर्ये । इह जगति गुणैर्माधुर्यादिभिस्त्रिभिरलंकृता तादृश्या । तथा मनोभिरा- मया मनोहारिण्या गिरा वाण्या कृतार्थोऽस्मि धन्यो भवामि । गिरा कयेव । रामयेव । यथा कश्चिद्गुणैर्लावण्यादिभिरलंकृतया रामया कृतार्थो भवति तथेत्यर्थः । तथा इयं तनुश्च निरामया नीरोगा स्थिरा यन्मया ध्रियते तथा भवे परमेश्वरे च भक्तिः स्थिरा अभङ्गुरा अविच्छिन्ना निरामया मन्ये विस्मृतिरूपामयरहिता च यन्मया ध्रियतेऽतः कृतार्थोऽस्म्य- हमित्यर्थः ॥ न विद्यया प्रीतिरनर्घमानया तथा श्रिया वान्वहमेधमानया । शिवस्तवैकव्रतया[^१]समानया यथा गिरा सान्द्रसुधासमानया ॥ ७ ॥ असमानया असामान्यया । तथा सान्द्रसुधासमानया घनामृततुल्यया शिवस्तव एवैकं व्रतं यस्याः सा तादृशी तथा गिरा यथा प्रीतिर्भवेत्तथा अनर्घो मानः पूजा यस्याः सा ता- दृश्या । वाशब्दश्चार्थे । तथा अन्वहं प्रतिदिनमेधमानया वर्धमानया श्रिया लक्ष्म्यापि प्री- तिर्न भवति ॥ पुरःस्फुरन्तं विमृशन्महेश्वरं विलीनवेद्यान्तरवेदनो दशाम् । नवस्तवोल्लेखविधौ स्पृशामि यां ममान्तरात्मा विभुरेव वेत्ति ताम् ॥ ८ ॥ विलीनं वेद्यान्तरस्य वेदनं प्रत्यभिज्ञानं यस्य स तादृशोऽहं पुरोऽग्रे स्फुरन्तं महेश्वरं भावनया विमृशन् नवा नूतना ये स्तवास्तेषामुल्लेखास्तस्य विधौ यां दशामवस्थां भूमिकां स्पृशामि तां मम दशामन्तरात्मा विभुरेव वेत्ति । नान्य इत्यर्थः ॥ मनुष्यता पूरुषताग्र्यवर्णता मनीषिता सत्कविता शिवैकता । इयं मम क्षेमपरम्परा विभोः स्तुतिप्रसङ्गेन गता कृतार्थताम् ॥ ९ ॥ मम धन्यस्यानेकजन्मसु सत्स्वपि मनुष्यजन्मप्राप्तिः प्रथमं क्षेमम् । तत्रापि स्त्रीज- न्मादिकुत्सितान्यजन्मत्वेऽपि सति पुरुषजन्मप्राप्तिर्द्वितीयं क्षेमम् । पूरुषजन्मत्वे वर्णच- तुष्टयत्वेऽपि मुख्यमग्र्यवर्णत्वं ब्राह्मणजन्मप्राप्तिस्तृतीयं क्षेमम् । तत्रापि मनीषिता पाण्डित्यं चतुर्थं क्षेमम् । तत्रापि सत्कविता प्रौढोक्तिनिपुणकविता पञ्चमं क्षेमम् । तत्रापि शिवैकताध्यानं सर्वेषामेषामवतंसभूतं षष्ठं क्षेमम् । इत्यनेन प्रकारेणेयं मम क्षेमाणां कल्या- णानां परम्परा विभोः श्रीपरमशिवस्य स्तुतिप्रसङ्गेनानेन कृतार्थतां साफल्यं गता । अत्र सा- रालंकारो व्यङ्ग्यः ॥ एवमभिनवस्तुतिप्रसूनाञ्जलिवितरणेन निश्चितं दयाम्बुनिधिं विभुं प्रहृष्टं मन्यमानः कविरात्मानं कृतकृत्यं जानन्नाह ध्रुवं नवानां रसगर्भनिर्भरध्वनिर्घनानामनघेयमावलिः । पृथुप्रभावं शशिखण्डमण्डितं प्रहर्षिणं नीलगलं करिष्यति ॥ १० ॥ ध्रुवं निश्चये । घनानामावलिः पङ्क्तिर्नीलगलं श्रीशंभुमष्टात्रिंशत्संख्यया परिमितत्वाद्वहुलानां नवानां स्तवानां प्रहर्षिणं प्रकर्षेण हर्षयुक्तं करिष्यति । किंभूता स्तवानामावलिः । [^१]. 'ममानया' ख. रसोऽत्र प्रक्रान्तत्वाच्छान्तरतः । रसो गर्भे यस्य स तादृशो निर्भरः पूर्णो ध्वनिरुत्तमकाव्यापरपर्यायो यस्यां सा । 'इदमुत्तममतिशयिनि व्यङ्गये वाच्याद्ध्वनिर्बुधैः कथितः' इति श्रीकाव्यप्रकाशकारः । किंभूता स्तवावलिः । अनघा अविद्यमानान्यघानि श्रुतिकटुत्वादयः शब्ददोषा अपुष्टत्वादयोऽर्थदोषाश्च यस्यां सा तादृशी । किंभूतं नीलगलं शंभुम् । पृ. थुर्ब्रह्माद्यतिरिक्तः प्रभावः प्रभुत्वं यस्य स तादृशं पृथुप्रभावम् । तथा शशिखण्डेन चन्द्रकलया मण्डितं शोभितम् । अथ च रसस्य वारिणो गर्भस्तेन निर्भरः पूर्णो ध्वमिर्गर्जितं यस्याः सा रसगर्भनिर्भरध्वनिर्घनानां मेघानामावलिर्नीलगलं नीलकण्ठं मयूरं प्रहर्षिणं करोति । किंभूता मेघपङ्क्तिः । अनघा अविद्यमानमघमवग्रहोत्थतुच्छत्वदोषो यस्याः सा । नीलगलं मयूरं किंभूतम् । पृथुप्रभावंशशिखण्डमण्डितम् पृथुर्महान् प्रभाणां कान्तीनां वंश: समूहो येषु तानि शिखण्डानि चन्द्रका यस्य स तादृशम् (तैर्मण्डितम्) । ननु ब्रह्मादीनामपि परमेश्वरप्रभावमविदुषां स्तुतिरसदृश्येव भवतो वराकस्य का क थेत्याशङ्क्याह यदि ह्ययोग्याश्चरणान्तिके वयं तथापि नः प्राङ्गणसीमसेविनाम् । चमत्करिष्यन्ति गिरः प्रभोरिमा जनङ्गमानामिव गीतरीतयः ॥ ११ ॥ हि निश्चये । प्रभोर्जगदीशस्य चरणान्तिके पादपद्मोपकण्ठे इमाः स्तुतीः श्रावयितुं यदि वयमयोग्यास्तथापि प्रभोः प्राङ्गणसीमसेविनां यामिकानां गणानामेव नो गिरः स्तुतिरूपाश्चमत्करिष्यन्ति । का इव । गीतरीतयो हालाकरीतय इव । यथा हालाकरीतयो जनंगमानां बाह्यजनानां चमत्करिष्यन्ति तथेत्यर्थः ॥ पुनरपि कृतार्थमात्मानं श्रीशंभुस्तुत्या मन्यमान आइ परोपकारैरिव राजसेवनं दरिद्रगार्हस्थ्यमिवार्थितर्पणैः । [^१]इदं बहुक्लेशमपीश्वरस्तवैरवैमि वर्ष्म स्पृहणीयमात्मनः ॥ १२ ॥ यथा सेवकस्य बहुक्लेशमपि राजसेवनं परोपकारैः परेषामुपकारविधिभिः स्पृहणीयं भ वति । यथा च दरिद्रस्य निर्धनस्य गार्हस्थ्यं गृहस्थकर्म बहुक्लेशमप्यर्थिनामभ्यागतानाम- तिथीनां तर्पणैस्तृप्तीकरणैः स्पृहणीयं भवति तथा बहवः क्लेशाः संसारोत्था यस्य तत्तादृश- मप्यात्मन इदं वर्ष्म शरीरमीश्वरस्तवैः परमेश्वरस्तवैः स्पृहणीयं काङ्क्षणीयमवैमि जाने ॥ सहस्रपत्रैरिव पल्वलोदकं शिरः फणीन्द्रस्य मणिव्रजैरिव। सदोषमप्येतदवैमि मानुषं मनोरमं जन्म महेश्वरस्तवैः ॥ १३ ॥ सदोषमपि कलुषमपि पल्वलजलं तटाकोदकं सहस्रपत्रैः कमलैर्मनोरमं यथा भवति । 'सहस्रपत्रं कमलं' इत्यमरः । यथा सदोषमप्यविरलगरलापूर्णमपि फणीन्द्रस्य शिरोमणि- व्रजै रत्नव्रातैर्मनोरमं भवति । तथा सहदोषैः संसारोत्थैर्वर्तते यत्तादृशमप्येतन्मानुषं मानुष- स्येदं मनुष्यजन्म महेश्वरस्य स्तवैर्मनोरममभिलषणीयमहं जाने ॥ [^१]. 'वपुर्बहुक्लेशमपीदमीश्वरस्तवैरवैमि स्पृहणीयमात्मनः' क. मृगेन्द्रशावा इव कंदरोदरात्करीन्द्रकुम्भादिव मौक्तिकोत्कराः । विनिःसरन्तः कवितुर्मुखादमी मनोज्ञतां बिभ्रति कस्य न स्तवाः ॥१४॥ यथा कंदरोदराद्विनिःसरन्तो मृगेन्द्रशावाः सिंहशावाः कस्य न मनोज्ञतां बिभ्रति । तथा करीन्द्रस्य गजेन्द्रस्य कुम्भात्कवाटाग्निःसरन्तो यथा मौक्तिकानामुत्कराः समूहाः कस्य न मनोज्ञतां बिभ्रति । तथा कवितुः । ममेत्यर्थात् । मुखाद्विनिःसरन्तोऽमी स्तवा अष्टात्रिंशत् कस्य न सचेतनस्य मनोज्ञतां मनोहरत्वं बिभ्रति । अपि तु सर्वस्येत्यर्थः ॥ मरालमाला सरसीव निर्मले कुचस्थले हारलतेव सुभ्रुवाम् । इयं भवत्वाभरणं महेश्वरस्तवावली वक्त्रसरोरुहे सताम् ॥ १५ ॥ यथा निर्मले स्वच्छे सरसि । मानसे इत्यौचित्यात् । मानससरसि मरालमाला हंसपङ्क्तिरा- भरणं भवति । यथा सुभ्रुवां मृगदृशां कुचस्थले हारलता आभरणं भवति तथेयं मत्कृता महेश्वरस्तावली सतां विदुषां वदनकमले आभरणं भवतु ॥ इमां घनश्रेणिमिवोन्मुखः शिखी चकोरकः कार्तिकचन्द्रिकामिव । रथाङ्गनामा तरणेरिव त्विषं स्तवावलीं वीक्ष्य न कः प्रमोदते ॥ १६ ॥ यथा उन्मुखस्तोयबिन्दुलाभायोर्ध्वमुखः शिखी मयूरो घनावलीं वर्षाकालिकमेघश्रेणिं वीक्ष्य यथा प्रकर्षेण मोदते । यथा चकोरकश्चकोरशिशुः कार्तिकज्योत्स्त्रां वीक्ष्य प्रमोदते तथा यथा रथाङ्गनामा चक्रावाकस्तरणेः सूर्यस्य त्विषं प्रभां प्रातःकाले वीक्ष्य प्रमोदते तथा इमां मत्कृतां स्तवावलीं वीक्ष्य को न सचेतनः प्रमोदते ॥ मधुव्रतः सौमनसीमिव स्रजं सितच्छदः पङ्कजकर्णिकामिव । पिको विकोषामिव चूतमञ्जरीमिमां न कश्चर्वयति स्तवावलीम् ॥ १७ ॥ यथा मधुव्रतो भृङ्गः सौमनसीं स्रजं पुष्पमालां चर्वयति । यथा सितच्छदो हंसः पद्म- कर्णिकां चर्वयति । यथा पिकः कोकिलो विकोषां प्रफुल्लां चूतमञ्जरीं चर्वयति तथा इमां स्तवावलीं को न चर्वयत्यास्वादयति ॥ मनस्विनीनामिव साचि वीक्षितं स्तनंधयानामिव मुग्धजल्पितम् । अवश्यमासां मधु सूक्तिवीरुधां मनीषिणां मानसमार्द्रयिष्यति ॥ १८ ॥ यथा मनस्विनीनां मानिनीनां साचि तिर्यग्वीक्षितं कामिनां मानसमार्द्रयति । यथा च स्तनंधयानां बालानां मुग्धजल्पितमप्रगल्भं वचो जनस्य मानसमार्द्रयति । तथैवासां मदीयानां सूक्तिवीरुधां सूक्तयः प्रौढोक्तय एव वीरुधो लतास्तासां मधु रसायनं मनी- षिणां सहृदयानां मानसं चेतोऽवश्यमार्द्रयिष्यत्यार्द्रीकरिष्यति ॥ इयं मधुश्रीरिव केलिकाननं सरोवरं प्रावृडिवातपक्षतम् । स्तवावली काव्यकुतूहलं सतामकालजीर्णं तरुणीकरिष्यति ॥ १९ ॥ यथा अकाले कुत्सितकाले शिशिरे जीर्णं केलिकाननं क्रीडोद्यानं मधुश्रीर्वसन्तश्रीर्यथा तरुणीकरोति नवं संपादयति । यथा चातपेन क्षतं शुष्कं सरोवरं प्रावृड् वर्षासमयस्तरुणी- करोति जलपूर्णं संपादयति तथैवेयं स्तवावली अकाले कुत्सिते समये जीर्णमुच्छिन्नं का व्यकुतूहलं निपुणकविकर्मकौतुकं पुनस्तरुणीकरिष्यति । नवं संपादयिष्यतीत्यर्थः । इदं मदीयं कविकर्म परीक्ष्यान्येऽपि कवयस्तदुद्युक्तमनसो भविष्यन्तीत्यर्थः ॥ विमत्सराणां सदसद्विवेकिनां महात्मनां मूर्ध्नि धृतोऽयमञ्जलिः । विलोकयन्तु प्रभुगौरवादिमां प्रसादबुद्ध्या मयि वा स्तवावलीम् ॥२०॥ विगतो मत्सरः परोत्कर्षासहनं येषां ते तादृशानाम् । तथा सदसद्विवेकिनां गुणदोष- विवेचकानां महात्मनां धौताशयानां मूर्ध्नि शिरस्ययमञ्जलिः स्तुतिकुसुमाञ्जलिग्रन्थो धृतः समर्पितः । अथ च तेषां महात्मनामग्रेऽञ्जलिर्मया धृतो बद्धः । किमित्याह – इमां म- त्कृतां स्तवावलीं प्रभोस्त्रिजगत्स्वामिनो गौरवात् । स्वामिभत्तयेत्यर्थः । विलोकयन्तु परी- क्षन्तु । अथवा मयि वराके प्रसादबुद्ध्यानुग्रहबुद्ध्या विलोकयन्तु ॥ स्तवावलीढौकनकार्पणच्छलादलभ्यमभ्यर्णचरैः सुरैरपि । प्रभोः पदस्पर्शमशङ्कमीप्सतो विकत्थनत्वेऽपि न मे विडम्बना ॥ २१ ॥ स्तवानामष्टात्रिंशत्संख्यानामावली पङ्क्तिः सैव ढौकनकमुपदा उपदीयते उपदा तवर्गतृ- तीयान्ता तस्या अर्पणं तस्य च्छलात् प्रभोस्त्रिजगत्स्वामिनः पदस्पर्शं चरणाम्भोरुहस्पर्शं निःशङ्कमीप्सतः काङ्क्षमाणस्य मे विकत्थनत्वेऽपि विकत्थयतीति विकत्थनस्तस्य भाव- स्तत्त्वं तत्रापि मया वराकेण त्रिजगदीशस्य चरणस्पर्शोऽवाप्त इति विकत्थनत्वेऽपि मम विडम्बना उपहासो न । अत्र हेतुः स्तवावलीढ़ौकनकेति प्रागुक्तः । प्रभोः पदस्पर्शं किं- भूतम् । अभ्यर्णचरैः समीपवर्तिभिः सुरैरिन्द्रादिभिरप्यलभ्यं दुष्प्रापम् ॥ कलिमलमषीकल्माषोऽयं मनोमुकुरः पुरः स्फुरितमपि न व्यक्तं वस्तु ग्रहीतुमभूत्क्षमः । सपदि विशदैः शब्दब्रह्मोर्मिभिर्वि[^१]मले कृते करबदरवत्पश्यामोऽस्मिन्समस्तमिदं जगत् ॥ २२ ॥ कलौ तुरीययुगे यन्मलमज्ञानजं सैव मषी तया कल्माष: शबलोऽयं मनोमुकुरश्चित्ता- दर्शः पुरोऽग्रे स्फुरितमपि व्यक्तमपि वस्तु ग्रहीतुमाकलयितुं न क्षमोऽभूत् । सपदि इदानीं विशदैनिर्मलैः शब्दब्रह्मोर्मिभिर्वाणीविलासतरङ्गैस्त्रिजगदधीशस्तुतिरूपैरित्यर्थात् विमले कृते- ऽस्मिन्मनोमुकुरे समस्तमिदं जगत्करे बदरफलवत्पश्यामः सर्वे शिवमयं जगदित्याकल- याम इत्यर्थः ॥ आनन्दिनि स्तुवति नन्दिनि गूढमर्थं देवश्चमत्कृतिकृताङ्गुलिभङ्गभङ्गिः । [^१]. 'विमलीकृते' ख. [^१]अङ्गस्थितां भगवती[^२]मधिरूढहासा- मासामवश्यमवबोधयति स्तुतीनाम् ॥ २३ ॥ नन्दिनि नन्दिरुद्रे द्वारपाले गणाधीशे आसां मदीयानां स्तुतीनां क्वचिद्रूढमर्थं श्रुत्वा आनन्दिनि सानन्दे स्तुवति सति देवः दीव्यति परमे पदे इति देवः श्रीशंभुश्चमत्कारेण कृतो- ऽङ्गुलीनां भङ्गभङ्गिस्रोटनविच्छित्तिर्येन स तादृशः अधिरूढ उत्पन्नो हास ईषद्धसनं यस्याः सा तादृशीमङ्गस्थितामङ्गे वामाङ्गे स्थितां भगवतीमासां मदीयस्तुतीनां गूढमर्थं क्वचिद्रू- ढार्थमवश्यमवबोधयति श्रावयिष्यति ॥ मन्ये मनोवचनकर्मभिरद्भुतानि यान्यूर्जितानि सुकृतानि पुराकृतानि । एतानि तानि शिवभक्तिपवित्रितानि कर्णामृतानि फलितानि सुभाषितानि ॥ २४ ॥ अहमिति मन्ये । किमितीत्याह-अद्भुतान्याश्चर्यकारीणि तथा ऊर्जितानि बहुलानि सुकृतानि पुण्यान्यस्माभिर्मनोवाक्कायकर्मभिः पुरा पूर्वस्मिन् जन्मनि यानि कृतानि ता- न्येतानि श्रीशिवभक्त्या पवित्रतानि पवित्रीकृतानि सुभाषितानि सूक्तानि फलितानि । सुभाषितानि कानि । कर्णयोरमृतानि रसायनानि ॥ एते प्रभोः प्रमथभर्तुरभीष्ट[^३]मष्टा- त्रिंशत्स्तवा विमृशतां विदुषां दिशन्तु । तेनैव दृक्षु धृतघर्मकरामृतांशु- सप्तार्चिषामिव कलाः सकलार्थ[^४]लाभम् ॥ २५ ॥ प्रमंथानां नन्दिमहाकालभृङ्गिरिटिप्रभृतीनां गणानां भर्ता श्रीशंभुस्तस्य एते मयोक्ता अष्टात्रिंशत्स्तवा विमृशतां शिवभक्तिरसामृतमास्वादयतां विदुषां सचेतसां सकलार्थानां चतुर्वर्गरूपाणां लाभस्तं दिशन्तु वितरन्तु । स्तवाः का इव । कला इव । केषाम् । तेनैव प्रभुणा श्रीशंभुना दृभु तिसृषु दृष्टिषु धृतो घर्मकरः सूर्यो दक्षिणदृष्टौ अमृतांशुश्चन्द्रो वाम- दृष्टौ सप्तार्चिरग्निर्ललाटस्थदृशि चेति तेषां सूर्यादीनां कला इवाष्टात्रिंशत् । यथा ता अपि विमृशतां विदुषां सकलार्थलाभप्रदाः । अयं भावः - -सूर्यस्य द्वादशकलाः चन्द्रस्य षोडश कला: वह्वेश्च दश कलाः स्मृतौ प्रसिद्धाः । आसां संकलने कृतेऽष्टात्रिंशत्संभवन्ति कलाः । अतश्चैता एवोपमानीकृता निजस्तवानाम् ॥ अथातः कविः सहृदयहृदयानन्ददायिनिजग्रन्थस्याभिधानं कर्तुकाम आह अयमिह किंकरेण रचितश्चरणाम्बुजयो स्तुतिकुसुमाञ्जलिर्भगवतस्तरुणेन्दुभृतः । [^१]. 'अङ्क' ख. [^२]. 'अवतीर्ण' ख. [^३]. 'अष्ट' ख. [^४]. 'सिद्धिं' ख. अविरलभक्तिसिक्तनवसूक्तिलतावचितः कलयतु सौरभेण सुकृतां स्पृहयालु मनः ॥ २६ ॥ इह श्रीशारदाचरणाम्बुजरजः पवित्रितस्थले किंकरेण हरचरणकिंकरापराभिधानेन मया जगद्धरकविना तरुणेन्दुभृतश्चन्द्रमौलेर्भगवतः शंभोश्चरणकमलयो रचितः कृतः स्तुतिकुसु- माञ्जलि: सौरभेण परमानन्ददायिना परिमलेन सुकृतां सुकृतिनां सहृदयानां मनः स्पृह यालु सस्पृहं कलयतु करोतु । किंभूतः । अविरला महती अनन्यसामान्या या भक्तिः श्री- शिवभक्तिस्तया सिक्ता या नवा नूतनाः सूक्तयः प्रौढोक्तय एव लतास्ताभ्योऽवचित उ- ञ्चितः । कुसुमान्यपि लताभ्य उच्चीयन्ते तथा प्रौढोक्तिभ्योऽयं ग्रन्थ उच्चित इत्यर्थः ॥ 'अथातो ग्रन्थकृत्सकलप्रमथाधीशान्स्त्रीन्प्रभोस्त्रिजगदीशस्य पुरो निजग्रन्थनिवेदनायाभ्यर्थयति अयि प्रमथनायक त्रिजगतामधिष्ठायक प्रसन्नमुख षण्मुख त्रिदशवन्द्य नन्दीश्वर । निवेदयत भक्तितश्चरणकिंकरेणार्पितं पुरः पुररिपोरिमं विकचवाक्यपुष्पाञ्जलिम् ॥ २७ ॥ अयीति इष्टामन्त्रणे । हे त्रिजगतामधिष्ठायक हे प्रमथनायक गणपते, तथा प्रसन्नं मुखं वदनं यस्य तस्य संबोधनं हे प्रसन्नमुख षण्मुख षाण्मातुर कुमार, तथा त्रिदशैर्देवैर्वन्द्य हे नन्दीश्वर नन्दिरुद्र, मयि कृपां कुरुतेत्यध्याहारः । चरणकिंकरेण हरचरणकिंकरापराभि- धानेन जगद्धरकविना पुररिपोस्त्रिपुरारेः पुरोऽग्रे भक्तितो भक्त्युद्रेकादर्पितं समर्पितं विकच- वाक्यपुष्पाञ्जलिं विकचानि प्रफुल्लानि नूतनानि यानि वाक्यानि तान्येव पुष्पाणि तेषामञ्ज- लिस्तमिमं प्रभोः पुरो निवेदयत ॥ इति परिषदि सिंहस्यन्दनस्कन्दनन्दि- प्रभृतिभिरभिराद्धैर्वन्द्यमावेद्यमानम् । स्तुतिकुसुम[^१]समूहं प्राभृतीकृत्य शंभो- र्यदमलमुपलब्धं शर्म तेनेदमस्तु ॥ २८ ॥ भुवि भुवि कुविकल्पः स्वल्पतामेतु जेतुं धुरि धुरि दुरितौघं वर्धतां शुद्धबोधः । पथि पथि मथितोग्रव्यापदापन्नतापा नरि नरि परिपूर्णा जृम्भतां शंभुभक्तिः ॥ २९ ॥ (युग्मम्) इति पूर्वोक्तप्रकारेण परिषदि सभायां गणाधीशसभायां सिंहस्यन्दनः सिंहवाहनो गण- पतिः । स्कन्दः कुमारः । नन्दी नन्द्रिरुद्रः । प्रभृतिना महाकालभृङ्गिरिटिमुख्याः । तैर- भिराद्धैः पूजासमये प्रभामण्डलपूजायामाराधितैर्वन्द्यं प्रशस्यमावेद्यमानं निवेद्यमानमिमं स्तु- तिकुसुमसमूहं शंभोस्त्रिजगदीश्वरस्य प्राभृतीकृत्य प्राभृतं ढौकनकं संपाद्यामलं विमलं शर्म कल्याणं यन्मया लब्धं तेनेदं भुवि भुवीत्यादिवक्ष्यमाणमस्तु भूयात् । इदं किमित्याह – भुवि भुवीति । कुत्सितः श्रीशिवशासनादपरकुटिलशासनमार्गगमनोत्थो विकल्पो भुवि भुवि देशे देशे स्वल्पतामतितामवमेतु । तथा शुद्धबोधः शुद्धसंविद्रूपो धुरि धुरि अग्रे अग्रे वर्धतां वृद्धिं लभताम् । किं कर्तुम् । दुरितानां त्रिविधानामोघः समूहस्तं जेतुम् । शुद्धज्ञानप्रकाशो वर्धतामित्यर्थः । तथा पथि पथि प्रतिमार्गं मथिता दूरीकृता उग्रां व्यापदं जन्मजरामरणत्रा- सजनितामापन्ना ये अशरणा जनास्तेषां तापा आध्यात्मिकाधिदैविकाधिभौतिकास्ते यया तादृशी शंभुभक्तिः श्रीशिवभक्तिः परिपूर्णा अत्युद्रिक्ता नरि नरि जृम्भतामुल्लसतु । इतीद- मेवास्त्वित्यर्थः ॥ इति शुभं भगवञ्चरितस्तुतिव्यतिकरेण यदर्जितमूर्जितम् । भवतु तेन मनस्यनपायिनी सुकृतिनां शिवभक्तिचमत्कृतिः ॥ ३० ॥ इतीति पूर्वोक्तप्रकारेण भगवतः श्रीशिवभट्टारकस्य या स्तुतिस्तस्या व्यतिकरेण मेलापेन मया जगद्धरकविना यदूर्जितं महत्सुकृतं पुण्यमर्जितमुपार्जितं तेन श्रीशिवभक्तिचमत्कृतिः सुकृतिनां पुण्यवतां मनस्यनपायिनी निश्चला भवत्विति शिवम् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरक- महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ पुण्यपरिणामस्तोत्रमष्टात्रिंशम् ॥ ग्रन्थकर्तुर्वंशवर्णनम् । अथातो ग्रन्थकृत्स्ववंशावलीवर्णनं करोति कतिपयैर्वृत्तै: पुरा पुरारे: पदधूलिधूसरः सरस्वतीस्वैरविहारभूरभूत् । विशालवंशश्रुतवृत्तविश्रुतो विपश्चितां गौरधरः किलाग्रणीः ॥ १ ॥ किल प्रसिद्धौ । विपश्चितां संख्यावतामग्रणीर्धुर्यो गौरधरो गौरधरनामा सरस्वत्या वा- ग्देव्याः स्वैरं स्वेच्छया विहारस्तस्य भूः स्थानमभूत् । आरोपेण योजना । कदा । पुरा पूर्वम् । किंभूतः पुरारेस्त्रिपुरदाहिनः श्रीशंभोः पदधूल्या धूसरः । तथा विशालो वंशः कुलं भरद्वा- जमुनिवर्यवंशः श्रुतं शास्त्रं वृत्तमाचारस्तैर्विस्तीर्णैर्विश्रुतो विख्यातः ॥ भ्रमादनिर्माय पुरातनः कविर्यमग्रिम श्लोकमवश्यमग्रतः । विमृश्य पङ्क्तेरुपरि द्विजन्मनां न्यवीविशत्काकपदाङ्कितं पुनः ॥ २ ॥ पुरातनः कविर्ब्रह्मा अग्रिमो धुर्यः श्लोको यशो यस्य स तादृशमग्रिमश्लोकम् । 'पद्ये यशसि च श्लोकः' इत्यमरः । उत्तमश्लोकमग्र्ययशसं गौरधरं भ्रमाद्भ्रमेण सृष्ट्याकुलचित्त- त्वात् अवश्यमग्रत आदावेव सर्वब्राह्मणजातेरनिर्मायाकृत्वा पुनर्विमृश्य विमर्शं कृत्वा द्वि- जन्मनां विप्रवराणां विप्रक्षत्रियविशां च वर्णानां पङ्क्तेरावलेरुपरि पुनर्न्यवीविशत् निविशन्तं प्रायुङ्क्त । किंभूतं काकपदैन भ्रमचिह्वेनाङ्कितस्तम् । यथा कञ्चित्कविर्विद्वानवश्यमग्रत आ- दावेव लेख्यं श्लोकं पद्यमनिर्मायालिखित्वा पुनर्वर्णानामक्षराणां पङ्क्तेरुपरि काकपदं निजभ्र- मसूचकं लिखति तथेत्यर्थः ॥ अनन्तसिद्धान्तपथान्तगामिनः समस्तशास्त्रार्णवपारदृश्वनः । ऋजुर्यजुर्वेदपदार्थवर्णना व्यनक्ति यस्याद्भुतविश्रुतं श्रुतम् ॥ ३ ॥ अनन्ता ये सिद्धान्तास्तेषां पन्थानो मार्गास्तेषामन्तगामी तादृशस्य । तथा समस्तानि यानि शास्त्राणि तान्येव दुरवगाहत्वादर्णवाः समुद्रास्तेषां पारदृश्वा तादृशस्य गौरधरस्य ऋजुर्निर्मला निर्दोषा च यजुर्वेदपदानामर्थवर्णना भाष्यपद्धतिर्वेदविलासनाम्नी यस्याद्भुतं च विश्रुतं प्रसिद्धं च श्रुतं व्यनक्ति प्रकटयति ॥ सुतोऽभवद्रत्नधरः शिरोमणिर्मनीषिणामस्य गुणौघसागरः । यमाश्रिताह्वास्त सरस्वती हरेरुरःस्थलं रत्नधरं श्रितां श्रियम् ॥ ४ ॥ गुणानां पाण्डित्यादीनामोघः समूहस्तस्य सागर: समुद्रः । तथा मनीषिणां विदुषां शि- रोमणिरस्य गौरधरस्य विदुषः सुतस्तनयो रत्नधरो रत्नधरनामा सोऽभूत् । स क इत्याइ- यमाश्रितेति । यं रत्नधरं मनीषिणमाश्रिता सरस्वती वाग्देवी रत्नं कौस्तुभाख्यं धारयति तादृशं हरेर्विष्णोर्वक्षःस्थलं श्रितां श्रियं लक्ष्मीमाह्वास्त पस्पर्धे ॥ उदारसत्त्वं विपुलं सुनिर्मलं प्ररूढमर्यादमगाधमाशयम् । प्रविश्य यस्य स्ववशा सरस्वती पदं बबन्ध स्थिरमम्बुधेरिव ॥ ५ ॥ उदारसत्त्वं प्रभूतधैर्यं विपुलमुदात्तं सुष्ठु निर्मलं तथा प्ररूढा मर्यादा.. यस्य स तादृशं तथा अगाधं गम्भीरं यस्य रत्नधरस्याशयं मानसं प्रविश्य स्ववशा स्वतन्त्रा सरस्वती वाग्देवी स्थिरं पदं स्थानं बबन्ध । तत्रैव स्थितिमकरोदित्यर्थः । यस्य कस्येव । अ- म्बुधेरिव समुद्रस्येव । यथा उदाराः सत्त्वा जलप्राणिनो मकराद्या यस्मिन्स तादृशं तथा वि- पुलं विस्तीर्णं सुष्ठु निर्मलं मर्यादया युक्तमगाधमतलस्पर्शं चाम्बुधेः समुद्रस्याशयं मध्यं प्रविश्य सरस्वती नाम्नी नदी स्ववशा सुष्ठु अवशा पराधीना स्थिरं पदं बध्नाति तथेत्यर्थः ॥ कपोलदोलायितकर्णभूषणं तरङ्गितभ्रूयुगभङ्गुरालिकम् । सचेतसामर्धनिमीलितेक्षणं क्षणं वितन्वन्ति मुखं यदुक्तयः ॥ ६ ॥ यस्य रत्नधरस्य विदुष उक्तयः प्रौढोक्तयः सचेतसां सहृदयानां मुखमेवंविधं चमत्कारो- त्कर्षात् क्षणं वितन्वन्ति विस्तारयन्ति । एवंविधं किमित्याह – मुखं किंभूतम् । कपो- लयोर्दोलायितं चमत्कारोत्कर्षेणान्दोलनात्कर्णभूषणं यस्य तादृशम् । तथा तरङ्गितमूर्ध्वं क्षिप्तं यद्भ्रूयुगं तेन भङ्गुरं कुटिलमलिकं ललाटं यस्मिंस्तत् । तथा किंभूतं मुखम् । अर्ध- निमीलिते अद्भुतरसास्वादादीक्षणे नेत्रे यत्र तत् ॥ अथास्य धीमानुदपादि वादिनां वितीर्णमुद्रो वदनेष्वनेकशः । उदारसंस्कारसुसारभारतीपवित्रवक्त्राम्बुरुहो जगद्धरः ॥ ७ ॥ अथानन्तरमस्य रत्नधरस्य विदुषः सुतो जगद्धरो धीमान्मनीषी उदपादि उदभूत् । किंभूतः । अनेकशो वादिनां मुखेषु वितीर्णा मुद्रा मौनरूपा येन सः । पुनः किंभूतः । उ- दारो यः संस्कारः शब्दानुशासनाभ्यासव्युत्पत्तिजो यस्यास्तादृशी सुष्ठु सारा चासौ भारती वाणी तया पवित्रं मुखाम्बुजं यस्य सः ॥ अपि [^१]स्थवीयःस्वकृतस्थिरस्थितिः कुशाग्रतीक्ष्णामधिरुह्य यन्मतिम् । अहो बत खैरविहारलीलया पदं न्यधादस्खलितं सरस्वती ॥ ८ ॥ अहो आश्चर्ये । बत हर्षे । अतिशयेन स्थूलाः स्थवीयांसस्तेष्वपि । स्थूलमतिष्वपी- त्यर्थः । न कृता स्थिरा स्थितिर्यया सा सरस्वती वाग्देवी कुशाग्रतीक्ष्णां सूक्ष्मामपि यन्मतिं यस्य जगद्धरकवेर्बुद्धिमधिरुह्याश्रित्य स्वैरं विहारलीलया स्वैरविहारार्थमस्खलितं ध्रुवं पदं स्थानं न्यधात् निहितवती । सूक्ष्मे तीक्ष्णे हि वस्तुनि चरणवितरणमत्यद्भुतम् ॥ निर्मत्सरः सहृदयः श्रुतपारदृश्वा विश्वातिशायिविनयः प्रियवाक्सुशीलः । किं वापरं कविगिरां सदसद्विचार- चातुर्यधुर्यधिषणः शरणं य एकः ॥ ९ ॥ निर्गतो मत्सरः परोत्कर्षासहनं यस्मात्सः । तथा सहृदयः शत्रौ मित्रे च समः सचे- तनश्च । तथा श्रुतस्य शास्त्रस्य पारदृश्वा । तथा विश्वमतिशेते तादृशो विनयो यस्य सः । तथा प्रियवाक् मधुरवचनः । तथा सुशीलो यो जगद्धरकविः किं वा परं साधुवाक्यं ब्रूमः य एकः कवीनां निपुणकविकर्मकृतां या गिरः प्रौढोक्तयस्तासां शरणं सद्म य एक आ- सीत् । किंभूतः । सदसतोर्विचारे यच्चातुर्यं तेन धुर्या धिषणा बुद्धिर्यस्य सः ॥ तेनादृतेन शिशुनैव निवेद्यमान- मानन्दकन्दलितभक्तिकुतूहलेन । एतं मृगाङ्ककलिकाकलितावतंस- शंसारसायनरसं रसयन्तु सन्तः ॥ १० ॥ तेन जगद्धरकविना शिशुनैवापूर्णषोडशवर्षेणैव आदृतेन श्रीशिवभक्तौ सादरेण आनन्देन परमानन्देन कन्दलितमुत्पन्नं भक्तिकुतूहलं श्रीशंभुभक्तिकौतुकं यस्य तादृशेन निवेद्य- मानं प्राभृतीकृतमेतं चन्द्रमौलिस्तुत्यमृतरसं सन्तो मनीषिणो रसयन्त्वास्वादयन्तु ॥ [^१] 'स्थवीयःसु कृत' क-ख. गृह्णन्तु कंचन विशेषमशेषमस्मा- दस्माकमात्त[^१]वचनाः क्वचनान्तरज्ञाः । चिन्वन्ति पल्वलजलात्कुशला विशाल- शेवालजालकलिलात्कमलौघमेव ॥ ११ ॥ अन्तरं सदसद्विशेषं जानन्तीत्यन्तरज्ञाः सहृदया अस्मात्संदर्भात्समग्रं कंचनविशेषं गृ- ह्णन्तु । किंभूतास्ते । आत्तं गृहीतं वचनं यैस्ते आत्तवचना: । केषाम् । अस्माकम् । दृष्टं चैतत् । कुशला निपुणा विशालाद्विस्तीर्णात् शेवालजालेन कलिलाद्व्याप्तात् पल्वलजला- त्तडागोदकात् कमलौघमेव तामरसौघमेव चिन्वन्ति । तदेव सारं गृह्णन्तीत्यर्थः ॥ यद्यप्यासामनलसरसस्फारसारं न किंचि- द्वाचामन्तर्विरचितचमत्कारमस्त्यर्थतत्त्वम् । तत्राप्येतास्त्रिभुवनगुरुस्तोत्रमैत्रीपवित्राः कर्णाभ्यर्णाभरणसरणिं नेतुमर्हन्ति सन्तः ॥ १२ ॥ अनलसोऽमन्दो यो रसस्फारो रसोत्कर्षस्तेन सारम् । तथा अन्तर्मनसि कस्यापि वि- रचितश्चमत्कारो येन तत्तादृशमर्थतत्त्वं लक्ष्यव्यङ्ग्यद्योत्यपरमार्थतत्त्वमासां मदीयानां वाचां यद्यपि न किंचिदस्ति तत्रापि सति त्रिभुवनगुरोस्त्रिभुवने त्रिजगति गुरुः कैवल्यपदप्राप्ति- हेतुशिवशासनोपदेशदैशिकस्तस्य परमेश्वरस्य स्तोत्राणि तैर्मैत्री तया पवित्रा एता मदीया वाचः कर्णस्याभ्यर्णं तत्राभरणपदवीं नेतुं प्रापयितुं सन्तः सहृदया अर्हन्ति ॥ प्रेमाणं मणिकर्णिकां प्रति बुधा मन्दीकुरुध्वं मतिं मुक्तादामनि माकृत स्पृशत मा ताम्बूलहेवाकिताम् । भूषार्थं प्रभवन्ति कर्णपुलिने कण्ठे मुखाम्भोरुहे देवस्य स्मरशासनस्य यदिमाः स्वोत्रावलीसूक्तयः ॥ १३ ॥ हे बुधा विद्वांसः, मणिमयी चासौ कर्णिका कर्णाभरणं तां प्रति प्रेमाणं स्नेहं मन्दी- कुरुध्वं मन्दं कुरुत । तथा यूयं मुक्तादामनि मुक्तास्रजि मतिं बुद्धिं मा कुरुत । ताम्बूलेषु नागवल्लीदलेष्वपि हेवाकितां मा स्पृशत । कुत इत्याह – भूषार्थमिति । यत इमाः स्मर- शासनस्य स्मररिपोर्देवस्य श्रीशंभोः स्तोत्रावल्यां सूक्तयः प्रौढोक्तयो मम भवतां कर्णतटे कण्ठे गले मुखपद्मे च भूषार्थं शोभार्थं प्रभवन्ति समर्था भवन्ति ॥ [^१]. 'वचनात्' ख. अथातो ग्रन्थकृत्स्वकृतस्तोत्रावल्यां यावत्संख्यानि वृत्तानि रचितानि तत्संख्यामेकत्र संकलय्य शब्दश्लेषोक्तिविच्छित्या प्रकारान्तरेण वर्णयन्नाह निक्षिप्तं शतसप्तकेन सहितं पादायुतार्धं मया निर्हिसे गुणिनि द्विजेन्द्रमुकुटे धर्मैकधाम्नीश्वरे । प्रायेण क्लिशितस्य दीनवचसः क्ष्माक्षिप्तमूर्ध्नोऽपि मे पादं नैकमयं प्रयच्छति विधौ वक्रे करोम्यत्र किम् ॥ १४ ॥ अत्र वृत्तानां सुवर्णानां पादायुतार्धमिति वक्तव्ये वृत्तानां सुवर्णानामिति हीनपदत्वेऽपि शमकथासु भक्तिविषये न दोषः । मया जगद्धरकविना वराकेण सुवर्णानां शोभना वर्णनीयरसानुगुणा वर्णा अक्षराणि येषु तानि तादृशानां वृत्तानां पद्यानां वा चतुर्भिः पादैरुपलक्षितानां श्लोकानां पादायुतार्धं पादाः श्लोकपादास्तेषामयुतं दशसहस्राणि तस्यार्धें पञ्चसहस्राणि शतसप्तकेन पादानां च सहितं सप्तशताधिकपञ्चसहस्राणि (५७००) श्लोकपादानां तदेतत् । अथ च वृत्तानामाहतानां घटितानां सुवर्णानां सुवर्णकर्षाणां पादाश्चतुर्थांशास्तेषामयुतार्धं सप्तशताधिकं मया दीनेन निर्हिंसे निर्माये गुणिनि अणिमादिगुणयुक्ते द्विजेन्द्रमुकुटे चन्द्रमुकुटे चन्द्रमौलौ धर्मैकधान्नि धर्मो वृषस्तत्रैकं धाम स्थानं यस्य स तादृशे एवंभूते श्रीशिवे । अथ च निर्हिंसे अतीव संयतचित्ते गुणिनि दयादाक्षिण्यादियुते द्विजेन्द्रमुकुटे ब्राह्मणवरशिरोमणौ धर्मैकधाम्नि पुण्यास्पदे ईश्वरे महाविभवयुते एवंभूते नि क्षेप्तव्यस्य वस्तुनः पालनयोग्ये मया निश्चिन्तेन निक्षिप्तं समर्पितं निक्षेपो रक्षितश्च । इदानीं स्वावस्थां चाह कविः प्रायेण निश्चयेन प्रायोपवेशनेन च क्लिशितस्य सक्लेशस्य दीनवचसो देहि स्वामिन् इति दीनवाक्यस्यापि तथा क्ष्मायां भूमौ क्षिप्तो मूर्धा शिरो येन स तादृशस्यापि मे एकं पादं चरणमयमीश्वरो न प्रयच्छति न ददाति । विधौ दैवे वक्रे प्रतिकूले सति । अत्रैतद्विषये किं करोमि । प्रभुणा निजमुकुटस्थस्य चन्द्रस्यैव वक्रता नु शिक्षितेत्यर्थः । अयुतार्धमिति 'एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः । अर्बुदमब्जं खर्वनिखर्वमहापद्मशङ्कवस्तस्मात् ॥ जलधिश्चान्त्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः । संख्यायाः स्थानानां व्यवहारार्थं कृतास्तज्ज्ञैः ॥' इति श्रीलीलावत्याम् । कर्षैचतुर्भिश्च पलं तुलाज्ञाः कर्षं सुवर्णस्य सुवर्णसंज्ञम्' इति च । 'वृत्तं यशसि पद्ये च' इत्यमरः । 'पादा रश्म्यङ्घ्रितुर्यांशाः' इति च । 'विधुर्विष्णौ चन्द्रमसि' इति च । शब्दश्लेषोऽलंकारः । अत्र च प्रागुक्तानां सप्तशताधिकपञ्चसहस्र श्लोकपादानां ५७०० एतदङ्कं सं स्थाप्य चतुर्भिर्भागो देयः । चतुष्पादत्वाच्छ्लोकस्य । तत्र भागहारार्थं वृत्तं श्रीलीलावत्यां पाटीगणिते 'भा ज्याद्धरः शुध्यति यद्गुणः स्यादन्त्यात्फलं तत्खलु भागहारे । समेन केनाप्यपवर्त्य राशी भाज्यं भजेद्वा सति संभवे तत् ॥' इति । अत्र भाज्यस्य राशेः ५७० ● भाजकेन चतुर्भि (४) र्भागे लब्धं पञ्चविंशतिश्लोकाधिकचतुर्दशशतानि वृत्तानाम् (१४२५) । एतावत्संख्या: श्लोका मयास्मिङ्ग्रन्थेऽष्टात्रिंशत्स्तवेषु विरचिता इति ग्रन्थकृता प्रकटीकृतम् ॥ स्तुतिकुसुमाञ्जलिः । कारंकारमकारि वारितशमैरक्षैररक्षैरिदं निघ्नं विघ्नितशंभुसेवनसुखाभोगोपभोगं मनः । किं तु क्वापि कदापि कापि पतिता सा साधुदृष्टिर्यतः प्राप्तः सूक्तिवपुर्जितोर्जितसुधास्वादः प्रसाद प्रभोः ॥ १५ ॥ वारितो निवारितः शमः शान्तिर्यैस्ते तादृशैः । तथा न रक्षन्तीत्यरक्षा दस्युप्रायास्तैः अक्षैरिन्द्रियैरिदं मम मनो निघ्नं परवशं सत् विघ्नितश्रीपरमेश्वरसेवनामृतरसास्वादोपभोगं कारंकारं कृत्वाकृत्वा पौनःपुन्येनाकारि कृतम् । एतदतीतम् । किं तु पक्षान्तरे । क्वापि कुत्राप्युद्देशे कदाचित्कस्मिंश्चित्काले काप्यनिर्वाच्यकृपारसा साधूनां संयतचित्तानां महा- पुरुषाणां धौताशयानां दृष्टिर्मयि पतिता । अतो हेतोः प्रभोः परमेश्वरस्य प्रसादः सूक्ति- वपुः प्रौढोक्ति .....मूर्तिः प्राप्तः । किंभूतः । जित ऊर्जित उत्कृष्टः सुधास्वादो रसाय- नास्वादो येन स तादृशः ॥ अथ ग्रन्थकृन्निजनिबन्धपरिसमाप्तौ निजभारत्याः साफल्यं प्रशंसयन्नाह यत्सत्यं सदसद्विवेकविकलग्रामीणकग्रामणी मिथ्यास्तोत्रपरा पराभवभुवं नीतासि भीतास्यतः । मातः कातरतां विमुञ्च यदसौ सौभाग्यभाग्यावधिः संजातो जगदेकनाथनुतिभिर्वाग्देवि ते विभ्रमः ॥ १६ ॥ हे मातर्जननि वाग्देवि, एतत्सत्यं भवति यत् सदसतोर्विवेकेन विचारेण विकला ये ग्रामीणकग्रामण्यः कतिपयग्रामाधिपतयस्तेषां यन्मिथ्यास्तोत्रमनृता स्तुतिस्तत्र परा ली- नाकृता यदस्मादृशैर्मन्दमतिभिः पराभवस्थानं नीतासि अतः कारणाद्भीतासि । मा कदाचित्पुनरपि तादृशमेव पराभवस्थानमेते मां नयन्त्यतस्त्रस्तासीत्यर्थः । हे मातर्वाग्देवि, इदानीं पुनस्तां कातरतां विमुञ्च त्यज । कुत इत्याह – यद्यस्मात्कारणादसौ सौभाग्यस्य च भाग्यानां चावधिः परा काष्ठा जगतस्त्रिजगतस्त्रिभुवनस्यैकनाथः परमेशस्तस्य नुतिभिः स्तुतिभिस्ते तव विभ्रमो महानुल्लासः संजातो महानानन्द उत्पन्न इति शिवोम् । इति ज- गद्धरभट्टकुलावलीविवरणम् ॥ [^१तत्त्वज्ञानपरायणधौम्यायनमुनिप्रवर्यस्य । आनन्दोऽजनि वंशे सुमनीषी मूर्त इवानन्दः ॥ लक्ष्म्यालिङ्गितदेहः सबल: सच्चक्रविख्यातः । विबुधार्चितचरणयुगस्तस्माद्दामोदरो जातः ॥ [^१]. इयमार्या छन्दोभङ्गदूषिताप्यादर्शानुरोधेन तथैव स्थापिता. सकलविपश्चिद्वर्यः प्रज्ञाजितवृत्रहामात्यः । अवतारोऽजनि तस्मात्पाण्डित्यस्यावतार इव ॥ सर्वज्ञः सविभूतिः सर्वार्च्यः सर्वमङ्गलोपैतः । तस्याजनि तनुजन्मा शंकर इति भूतले ख्यातः ॥ अस्ति सद्गुरुकृपारसपात्रं रत्नकण्ठ इति तस्य तनूजः । भास्करस्तुतिरहस्यसमेतं येन रत्नशतकं निरमायि ॥ वस्वग्न्यत्यष्टभिर्वर्षे मिते (१७३८) विक्रमभूपतेः । अवरङ्गमहीपाले कृत्स्नां शासति मेदिनीम् ॥ बालानां सुखबोधाय हर्षाय विदुषां कृता । जगद्धरकवेः काव्ये तेनैषा लघुपश्चिका ॥ यदत्र स्खलितं किंचित्प्रमादाल्लिखितं मया । विबुधाः करुणासारा निपुणं शोधयन्तु तत् ॥ इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टस्य वंशवर्णनम् । समाप्तोऽयं भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलिः । स्तुतिकुसुमाञ्जलिसूचीपत्रम् । स्तोत्रसंख्या । स्तोत्रनाम । १ स्तुतिप्रस्तावनास्तोत्रम् २ नमस्कारस्तोत्रम् ३ आशीर्वादस्तोत्रम् ४ मङ्गलाष्टकस्तोत्रम् ९ कविकाव्यप्रशंसास्तोत्रम् ६ हराष्टकस्तोत्रम् ७ सेवाभिनन्दनस्तोत्रम् 4 ८ शरणाश्रयणस्तोत्रम् ९ कृपणाक्रन्दनस्तोत्रम् १० करुणाक्रन्दनस्तोत्रम् ११ दीनाक्रन्दनस्तोत्रम् १२ तमःशमनस्तोत्रम् १३ प्रभुप्रसादनस्तोत्रम् १४ हितस्तोत्रम् १५ करुणाराधनस्तोत्रम् १६ उपदेशनस्तोत्रम् १७ भक्तिस्तोत्रम् १८ सिद्धिस्तोत्रम् १९ भगवद्वर्णनस्तोत्रम् २० हसितवर्णनम् .... २१ अर्धनारीश्वरस्तोत्रम् २२ कादिपदबन्धस्तोत्रम् २३ शृङ्खलाबन्धस्तोत्रम् २४ द्विपदयमकस्तोत्रम् .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... ↑ .... .... .... .... .... .... .... .... ... .... .... **** .... **** .... .... .... .... ..... .... .... .... .... .... .... .... .... .... .... .... .... .... .... लोकसंख्या । पृष्ठसंख्या । १ १३ २२ ४८ ५२ ६० V ३६ ८ ४२ ५२ ८२ ९१ १४३ ३२ ४३ २८ ४० २७ ३० ७० १०५ १३५ १५९ २०९ २१७ २२७ २३४ २४४ २५० २६१ २६९ ४१ २८० २४ २९५ १२ ३०२ २७ ३०५ २८ ३१० Digitized by Google २५ रुचिरञ्जनस्तोत्रम् २६ पादादियमकस्तोत्रम् २७ पादमध्ययमकस्तोत्रम् २८ पादान्तयमकस्तोत्रम् २९ एकान्तरयमकस्तोत्रम् ३० महायमकस्तोत्रम् ३१ नतोपदेशस्तोत्रम् ३२ शरणागतोद्धारणस्तोत्रम् ३३ कर्णपूरस्तोत्रम्.... ३४ अग्र्यवर्णस्तोत्रम् ३५ ईश्वरप्रशंसास्तोत्रम् ३६ स्तुतिफलप्राप्तिस्तोत्रम् ३७ स्तुतिप्रशंसास्तोत्रम् ३८ पुण्यपरिणामस्तोत्रम् वंशवर्णनम् .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... ..M .... .... .... .... .... ... .... .... .... .... .... .... ... .... **** ३० १९६ समुदित लोकसंख्या १४०९ .... ३५ ३४ २७ .... ८१ ३० ४९ १३ २५ ४१ २० ३२३ ३३१ ३३९ ३४९ ३५८ ३८६ ३९४ ३९६ ४१७ ४२६ ४३८ ४४२ ४५० Digitized by Google पृष्ठम्. २६ ३१ ४५ ७३ ९८ १०१ १०९ १११ ११३ ११७ ११९ १२२ १३३ १५६ १७२ २३२ २४६ २४७ २४९ श्लोकः. १२ २१ ५६ १३ ३८ ४३ १३ २५५ २५६ २४ ४६ २०४ १३३ २०६ १३७ २०७ १३९ २५ ११ ८४ २४ १५ १९ स्तुतिकुसुमाञ्जलिशुद्धिपत्रम् । सुमनोभि श्रियमेति वः सभा पवित्रितजग मलंकरोति रजः परि प्रवृत्तं परिरभ्य कुरङ्गाः पात्रतां विनायकेन शर्वस्तवव्यव हृदयनन्दन मिदम् मां विहातुं स्तारुण्यं समर्थो मियं मीक्षते कलविङ्क न विशोभ गिरश्च स्तावदास्ताम् विपत् पृष्ठम्. श्कः. २७१ २७६ २८४ ३१४ ३२४ ३३० ३३४ ३५६ ३५७ ३५९ ३६० ३६७ ३८६ ३९६ ३९९ ४१२ ४१६ ४१६ ४२६ ४२६ ४३७ ४४८ २१ १४ १८ ३१ १९ ३० ३३ m २ ६ २९ १ ३० १ ८ २ ११ १२ २ २ ४१ २६ जङ्घालतायुगल. श्वेतेऽमृतं चक्रवाल तुभ्य रंहोभिरपास्त स्मरस्य भरणं नो दयां त्वयि योजित नन्दिनन्दि सुहृदा कृतान्त नो गिरिजा शीकर मञ्जीरजो र्धन्यानां प्रबल हव्यभक्षं परमः तेषां लक्ष्यन्ति प्राप्तुं म्बुजयोः Digitized by Google Digitized by Google Digitized by Google by Google ALL 382 Digitized by Digitized by Google 1 Princeton University Library 32101 074220888 Digitized by Google