<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<p>हरिदास संस्कृत ग्रन्थमाला ३४१
सर्वलक्षणसंग्रह
अकाराधनुक्रमेण
सर्वतन्त्रसिद्धान्त ३४७७
पदार्थलक्षणकोशः
रचयिता
स्वामी गौरीशङ्कर भिक्षु
चौखम्बा संस्कृत सीरीज आफिस, वाराणसी</p>
<pb n="2" />
<p><bold>हरिदास संस्कृत ग्रन्थमाला - ३४१
॥ श्रीः ॥
सर्वलक्षणसंग्रहः
अकाराद्यनुक्रमेण
सर्वतन्त्रसिद्धान्त ३४७७
पदार्थलक्षणकोश:
रचयिता
स्वामी गौरीशङ्कर भिक्षु
चौखम्बा संस्कृत सीरीज आफिस, वाराणसी</bold></p>
<pb n="3" />
<p><bold>प्रकाशक: चौखम्बा संस्कृत सीरीज आफिस, वाराणसी
मुद्रक: चौखम्बा प्रेस, वाराणसी
संस्करण: पुनर्मुद्रित, वि० सम्वत् २०६७, सन् २०१०</bold>
मूल्य: रु० ४०.००
<bold>© चौखम्बा संस्कृत सीरीज आफिस</bold>
के. ३७/९९, गोपाल मन्दिर लेन
गोलघर (मैदागिन) के पास, पोस्ट बॉक्स नं० १००८,
वाराणसी - २२१००१ (भारत)
फोन : २३३३४५८ (आफिस),
२३३४०३२, २३३५०२० (आवास)
e-mail : cssoffice@satyam.net.in
अपरं च प्राप्तिस्थानम्
<bold>चौखम्बा कृष्णदास अकादमी</bold>
पुस्तक - प्रकाशक एवं वितरक.
पोस्ट बॉक्स नं० १११८, के. ३७/११८,
गोपाल मन्दिर लेन वाराणसी-२२१००१ (भारत)
फोन : २३३५०२०.</p>
<pb n="4" />
<p><bold>HARIDAS SANSKRIT SERIES 341
SARVALAKṢAṆA SAṂGRAHA
PADĀRTHALAKṢAṆAKOŚA
by
Swami Gaurishankar Bhiksu
CHOWKHAMBA SANSKRIT SERIES OFFICE
Varanasi</bold></p>
<pb n="5" />
<p>Publisher: Chowkhamba Sanskrit Series
Office, Varanasi.
Printer: Chowkhamba Press, Varanasi.
<bold>© CHOWKHAMBA SANSKRIT SERIES OFFICE</bold>
K. 37/99, Gopal Mandir Lane
Near Golghar (Maidagin)
Post Box No. 1008, Varanasi-221 001 (India)
Phone: Off. 2333458,
Resi.: 2334032 & 2335020
E-mail: cssoffice@satyam.net.in
Also can be had from
<bold>CHOWKHAMBA KRISHNADAS ACADEMY</bold>
Oriental Publishers & Distributors
Post Box No. 1118
K. 37/118, Gopal Mandir Lane
Varanasi-221 001 (India)
Phone: 2335020</p>
<pb n="6" />
<p>भूमिका
श्रीमतः सूत्रकारान्भाष्यकाराँस्तथा तदनुसारिणः पूर्वाचा-
र्याश्च भूयो भूयो नमस्कृत्य द्वित्राः शब्दाः प्रदश्यन्ते, ये जना
नानाशास्त्रनिरीक्षणे श्रमभियस्तदर्थोऽयं मे सङ्ग्रहः । तथा
चायं ग्रन्थः शतसहस्रधा भूत्वा देशदेशान्तरवर्त्त्यनेकविद्वद्वृन्द-
दृष्टिगोचरो भवेदेवश्च विद्यार्थिगणानां स्वल्पव्ययेन मित्रम्भवे-
दिति ज्ञात्वा श्रीमत्या मनोभरिदेव्या मुद्रापयित्वा प्रकटीकृतः ।
अत्र कदाचिद्दृष्टिदोषेण सीसकाक्षरभङ्गाद्वा यदि कुत्रचि -
तस्थलेऽशुद्धिः स्यात्तर्हि सदयीभूय सुजनैः क्षन्तव्या इति ।
<bold>*ॐ सङ्केतः*</bold>
एतत्पुस्तकस्य प्रत्येकपृष्ठमध्ये निखिलतात्रिकलक्षणानि संस्थि-
तानि, तेषाञ्च झटिति प्राप्तयेऽकारादिक्रमेण सूचीकृता । तस्या.
न्तिमलक्षणस्याद्यं वर्णद्वयं पृष्ठोपरि विन्यस्तं वर्तते, तद्दृष्टिमात्रेण
यदक्षरपर्यन्तं लक्षणं तस्पृष्ठारूढीभूतं तद्बोधो भविष्यति । तेनेष्ट-
लक्षणानामनायासेन लाभो भविष्यतीति ।
ग्रं० मन्थान्तरे             इत्यक्षरस्य ग्रहणं कृतम् । तत्तद्ग्रन्थनामानि वि-
नै० नैयायिकाः           स्तरभिया नोक्तानि, विशेषलक्षणसमापनात्परं
मी० मीमांसकाः ।      विशेषलक्षणारम्भात्पूर्वञ्च तज्ज्ञापकमीदृशं
वे० वेदान्तिनः           पुष्पाकारचिह्नं दत्तम् । तत्रोक्तप्रसिद्धलक्षण-
वै० वैयाकरणा:         मेकत्वेन गणयित्वा द्व्यादिसङ्ख्याकाः स्था-
त्र० त्रपठनीयम्         पिता इति ।</p>
<pb n="7" />
<p><bold>*अनपेक्षितापेक्षितग्रन्थः*</bold>
पृष्ठे पक्तौ अन० अपे० । १०५ ७ खाग खप्राग
९ १७ पोपाधि पाधी । १११ १८ लक्षि लक्षाय
६९ १२ त्वम् २ त्रैकालिकनिषेधाप्रतियोगित्वम् ३सर्वकालवृ
तित्वमिति ग्रं० ४ ध्वंसाप्रतियोगिवृत्तित्वविशिष्टसत्तायोगित्वं
९८ ४ देशा वेशा । १४० १६ जानमी जानामी
१०३ ८ नादीभिः नादिभिः । १४६ १३ गीत प्रगीत
१२६ १८ वि नानार्थेऽव सन्देहे हरणं हार उच्यते, नाना-
सन्देहहरणाद्व्यहार इति स्मृतः ४
१३३ ८ मूमि भूमि । १४८ १७ ह्यम् ३ ह्यम्
१३४ १७ श्लाघाः- श्लाघा- । १५१ १८ द्रूपण  द्रूपेण
<bold>प्रतियोगी-</bold> यस्याभावः सः १ प्रति पूर्वं योगस्संबन्धो यस्य सः २
विरोधित्वं प्रतियोगित्वम् ३ धर्मिभिन्नत्वे सति भेद निरूपकत्वम्
<bold>मदः -</bold> मत्तुल्यः कोऽस्तीति गर्वविशेषः १ मत्सदृशः कोस्तीति ह०
<bold>महावाक्यं-</bold> महद्वाक्यम् १ परस्परसंबद्धार्थकवाक्यम् २ वाक्यस
मुदायरूपत्वे सत्येकवाक्यमिति मी०३ जीवब्रह्मैक्यबोधकवाक्यं
<bold>मूढः-</bold> इदमर्थसाधनमिदमनर्थसाधनमिति विवेकशून्यः <error>२३३७</error><fix>॥२३३७॥</fix>
मूर्खः- शास्त्रज्ञानशून्यः४वेदशास्त्राधीतत्वे सति संसारासक्त: <error>२३४४</error><fix>॥२३४४॥</fix>
<bold>यौगिकरूढिः-</bold> अवयवशक्तिसमानाधिकरणसमुदायशक्तिरूपा रूढिः
<bold>रतिः-</bold> यूनोरन्योन्यविषयस्थायिनीच्छा ॥ २४७० ॥
<bold>लज्जा-</bold>मुखसंवरणादिकार्यजनको मनोविकार विशेषः ॥२५२५॥
<bold>लिङर्थत्वं-</bold> कार्यबुद्धिगोचरत्वे सति भावार्थसाध्यफलजनकत्वम् १
प्रवृत्तिजनकज्ञानविषयत्वम् ॥ २५४३ ॥</p>
<pb n="8" />
<p><bold>*अनपेक्षितापेक्षितग्रन्थः*</bold>
<bold>लीला-</bold>स्त्रीणां क्रीड़ारूपो व्यापारः * ३ शृङ्गारभावचेष्टा <error>२५४७</error><fix>॥२५४७॥</fix>
<bold>लोभः-</bold> परद्रव्याभिलाषः १ परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते,
अभिलाषो द्विजश्रेष्ठ स लोभः परिकीर्तितः ॥ २५५५ ॥
<bold>वाक्यैकवाक्यता-</bold> अङ्गबोधकवाक्यस्याङ्गिबोधकवाक्येन सहै -
कवाक्यता १ प्रत्येकं भिन्नभिन्नसंसर्गप्रतिपादकयोर्वाक्ययोरा-
काङ्क्षावशेन महावाक्यार्थबोधकत्वम् ।                             [स्मृतिजनकः
<bold>विजयः-</bold> पराहकारखण्डनम् ॥ २६५१ ॥
<bold>विपर्यय:-</bold> अतस्मिँस्तत्प्र (त्ययः २)कारकनिर्णयः ॥२६८२ ॥
<bold>विराट्-</bold>पञ्चीकृतपञ्चमहाभूतकार्यसमष्टिस्थूलशरीरः १
विवादः - विरुद्धो वादः १ पक्षप्रतिपक्षपरिग्रहेण वदनम् <error>२७२१</error><fix>॥२७२१॥</fix>
<bold>विवाहः -</bold> विशिष्टं वहनम् १ भार्यात्वसम्पादककर्म २
<bold>विशेषत्वं-</bold> अन्त्यव्यावर्तकत्वे सति नित्यद्रव्यमात्रवृत्तित्वम् ।
<bold>व्यापारत्वं-</bold> तज्ज[^१]न्यत्वे सति त (त्सहायत्वम् १ ) जन्यजनकत्वम्,
<bold>व्रतम्-</bold> कियाविषयको नियमः २
<bold>शक्तः -</bold> कार्योत्पादनयोग्यः १ शक्त्याश्रयः २'वाचक'लक्षणमप्यत्र ०
<bold>सर्वनामत्वं-</bold> स्वोच्चारणानुकूलबुद्धिप्रकारविशिष्टार्थबोधकत्वे
सति सर्वादिगणपठितत्वम् ॥ ३२०६॥
<bold>सम्यग्ज्ञातत्वं-</bold> प्रकृतिप्रत्ययविभागादिपूर्वकज्ञानविषयताशा-
लित्वम् ।                                                              [वधिकपतनजन्यस्तापः
<bold>सहसापतनतापः-</bold> पुण्यकर्मक्षये स्वर्गादिलोकराज्यादिपरा-</p>
<lg>
  <l><bold>सामर्थ्य -</bold> पृथगर्थानां पदानां विशिष्टार्थोपस्थितिजनकत्वम् ।</l>
  <l><bold>स्फुटत्वं -</bold> असन्दिग्धाविपर्यस्तप्रतिपत्तिविषयत्वम् ॥३३७८॥</l>
</lg>
<pb n="9" />
<p><bold>*सम्मतयः*</bold>
काशीस्थप्रधानप्रधानैकोनपञ्चाशत् (४९) पण्डितानामभिप्रायाः-
<bold>ये सन्ति विषयाश्वास्मिस्ते न दृष्टाः परत्र वै,
अत्रैव च समाविष्टं सर्वसिद्धान्तलक्षणम् ।</bold>
जगन्नाथपुरीस्थसंस्कृतकालेजाद्रामचन्द्रमिश्रः सूचयति — ग्रन्थेऽस्मि-
न्नधीते सर्वविषयाणां परिभाषा ज्ञायेत, बहुग्रन्थावलोकनेन यादृशं
ज्ञानं सम्पद्येत तादृशञ्च खल्वेकमिदमवलोक्यापि सञ्जायेत, अतोऽयं
ग्रन्थः सर्वथा व्युत्पित्सुनामन्तेवासिनामुपयोगी भवेदिति ।
मैसूरस्थराजकीयपाठशालायाः केशवशास्त्रिणोऽपि बोधयन्ति -
तन्त्रग्रन्थव्याख्यातृभिर्निरुक्तानिलक्षणानि तत्तत्प्रकरणानुरोधेनैव
न तत्त्वतः, तत्वतः निरुक्तान्यपि नैकत्र सर्वाणि ।
<bold>काञ्चीतः-</bold> मञ्ज् भाषिणी ज्ञापयति — अयं ग्रन्थः कोशरूपस्सैद्धान्ति-
कानां पदानां भिक्षुकेण सङ्गृहीतः, अत्र चाकारादिक्रमेण तान्त्रि-
काणां बहूनां शब्दानां सङ्ग्रहस्तेषां व्याख्या च कृता वर्तते ।
<bold>बड़ोदा-</bold> नारायणशालायाः अमृतलालः सङ्केतयति—गूढार्थकशब्दा-
नां प्रवृत्तिनिमित्तार्था: पदार्थस्वरूपनिर्धारणोपयोगीनि इतरव्यावृ
त्तिबोधजनकानि च लक्षणान्यत्र सम्यगुपनिबद्धानि ।
OXFORD University Library - एवमन्यान्यनगरवासि-
भिर्बहुभिः सुधीभिरस्य सङ्ग्रहस्य प्रामाणिकत्वमङ्गीकृतम् । तथाहि -
<bold>सर्वलक्षणसङ्ग्रहः -</bold> सङ्ग्राहको भिक्षुगौरीशङ्करः । ग्रन्थेऽस्मिन्वे-
दवेदाङ्गदर्शनस्मृतिपुराणकाव्यसाम्प्रदायिकविविधशास्त्रप्रतिपादित -
पदार्थानां षट्सप्तत्युत्तरचतुःशताधिकत्रिसहस्र <bold>३४७६</bold> लक्षणानि
सन्ति, एवंविधः सर्वविषयोपकारकः सुखप्रवेशसाधनभूतश्च लाक्ष-
णिकनिबन्धोऽद्यावधि केनापि न विहितः ।
<bold>सङ्केतस्त्वित्थम् -</bold> मनोभरीदेवी, पुठ्ठी - प्रामः,
पत्रालय बवानीखेड, प्रदेशो हिसारः (पञ्जाब )</p>
<pb n="10" />
<p>ॐ
<bold>सर्वतन्त्रसिद्धान्तपदार्थलक्षणसङ्ग्रहः ।</bold>
श्रीगणेशाय 'नमः, परमर्षिभ्यः' ।
त्वां विना निःस्वरूपोऽहं मां विनात्वं कथं स्थितः ! ।
दिष्ट्येदानीं मया लब्धो योऽसि सोसि नमोऽस्तुते <error>॥ १ ॥</error><fix>॥ १ ॥</fix></p>
<lg>
  <l>श्रीचे[^१]तनकिङ्कराह्वश्रीमद्रामपुर्याह्वयोः ।</l>
  <l>वन्दे पादौ तथा श्रीमद्धीरालालाह्वधीमताम् ॥ २ ॥</l>
</lg>
<lg>
  <l>श्रद्धाधनेन ग्रथितं गौरीशङ्करभिक्षुणा ।</l>
  <l>बोधाय वादिबाधाय विदुषां कण्ठभूषणम् ॥ ३ ॥</l>
</lg>
<p>क्व ! ग्रन्थकरणं क्व ! त्वमिति मा वित्त पण्डिताः।
सत्सङ्गानुग्रहः किं ? किं ? न करोत्येवमाह वाक् <error>४</error><fix>॥ ४ ॥</fix></p>
<lg>
  <l>प्रज्ञाशब्दमयस्यास्य देहस्य मम दुर्जनाः ।</l>
  <l>दयध्वं प्रहरध्वं तु चेदिष्टं पाञ्चभौतिके ॥ ५ ॥</l>
</lg>
<p>प्रमाणसिद्धान्तविरूद्वमत्र यत्किञ्चनाभून्मतिमान्द्यदोषात् ।
मात्सर्यमुत्सार्य महानुभावाः प्रसादमाधाय विशोधयन्तु <error>६</error><fix>॥ ६ ॥</fix></p>
<lg>
  <l>विद्वांसो यदि मम दोषमुग्दिरेयुः यद्वा ते गुणगणमेव कीर्त्तयेयुः ।</l>
  <l>तुल्यं तद्बहु मनुते मनो मदीयं कष्टं तद्वन्मनुते यदाह मन्दः ॥७॥</l>
</lg>
<p>[^१ मन्त्रगुरुज्ञानप्रदगुरुविद्यागुरून्क्रमशो नमस्यति श्री चेतनेत्यादिना ।]</p>
<pb n="11" />
<p><bold>दोषत्वमुज्ज्वलगुणा अपि यान्ति येषु
तैरुन्नतेः किमथवेह तिरस्कृतेः किम् ।
दोषोऽपि येषु गुणतामुपयाति भूयाँ-
स्तेभ्यो नमोऽस्तु सततं भुवि सज्जनेभ्यः ॥ ८ ॥</bold>
ननु किमर्थं लक्षणसङ्ग्रहारम्भो लक्षणानामनुपयोगादिति
चेदुच्यते, अस्ति हि महानुपयोगः तथाहि — यथा विवाहे
सलक्षणो वरो लक्षणवतीं कन्यामुपयच्छेतेति ।
<bold>अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत्,
एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः ।</bold>
इत्यादिवचनैः स्त्रीपुंससामुद्रिकलक्षणानां विवाह उपयोगात् ।
<bold>लिङ्गं सलक्षणं पूज्यं त्यजेल्लिङ्गमलक्षणम्,
तस्मात्सर्वप्रयत्नेन लिङ्गं कुर्यात्सलक्षणम् ।</bold>
इत्यादिवचनैर्लिङ्गलक्षणानां तत्पूजादावुपयोगात्, एवमन्येषा-
मपि लक्षणानां यथासंभवमुपयोगाद्युक्त एव लक्षणसङ्ग्रहारम्भ
इति । लक्षणानामुपयोग: पूर्वाचार्यैरपि दर्शितः, तथाहि
<bold>ऋषयोऽपि पदार्थानां नान्तं यान्ति <flag>पृथत्कशः,</flag>
लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः ।</bold>
किञ्च, लक्षणप्रमाणाभ्यां वस्तुसिद्धिर्न तु प्रतिज्ञामात्रेणेति
न्यायादपि पदार्थलक्षणमवश्यमपेक्षणीयम् !, तत्र प्रमाणं
विहाय लक्षणानि निरूपयाम इति ।</p>
<pb n="12" />
<p>अ
<bold>अकस्मात्त्वं-</bold>कारणानधीनत्वम् १ अनिश्चितकारणकत्वं वा ॥ २ ॥
<bold>अक्रूरत्वं-</bold>मृदुत्वम् १ द्रोहशून्यत्वं वा २ वृथापूर्वपक्षादिकारिष्व-
पि शिष्यादिष्वप्रियभाषणादिव्यतिरेकेण बोधयितृत्वम् ॥ ५॥
<bold>अक्षरं-</bold>न क्षरति १ वर्णस्मारकत्वे सति लिपिसन्निवेशत्वमक्षरत्वं
<bold>अखण्डार्थत्वं-</bold>सजातीयविजातीयस्वगतभेदशून्यार्थत्वम् । सा-
ङ्ख्यात्मन्यतिव्याप्तिवारणाय सजातीयेति, आकाशेऽतिव्याप्ति-
वारणाय विजातीयेति १ त[^१]त्प्रातिपदिकार्थत्वम् २ अप[^२]र्याया-
नेकशब्दप्रकाश्यत्वे सत्यविशिष्टत्वम् । घट: कलश: कुम्भ
इत्यादिपर्यायानेकशब्दप्रकाश्येऽविशिष्टे घटादावतिप्रसङ्गव्यु -
दासाय सत्यन्तम्, नीलो घट इत्याद्यपर्यायानेकशब्दप्रकाश्ये
तादात्म्येन नीलविशिष्टे घटाद्यर्थेतिप्रसङ्गवारणार्थमविशिष्टेति
<bold>अखण्डार्थबोधकवाक्यत्वं-</bold> संसर्गानवगाहियथार्थज्ञानजन-
कत्वम् । राजपुरुष इत्यादौ संसर्गपरे वाक्येऽतिव्याप्तिवार-
णाय संसर्गानवगाहीति १ प्रातिपतिकार्थमात्रपर्यवसायित्वं
<bold>अखण्डोपाधिः-</bold> अनिर्वचनीयो धर्मः १ असमवेतत्वे सत्यनुगतस्वं
<bold>अख्यातिः -</bold> न ख्याति: १ विशिष्टार्थगोचरविसंवादिप्रवृत्तिजन-
कप्रकाशः २ स्वरूपतो विषयतश्चागृहीत (भेदज्ञानद्वयम् ) विवे-
कानेकज्ञानत्वम् । एकविषयानेकज्ञानेष्वतिव्याप्तिपरिहारार्थं स्व-
[^१ तत्प्रातिपदिकार्थत्वं प्रकृष्टप्रकाशश्चन्द्र इति वत्तदेकमात्रवस्तुपरत्वम्
२ अपर्यायभूतायेअनेकेशब्दाः सत्यज्ञानानंदादयस्तत्प्रकाश्यत्वेसतीत्यर्थः]</p>
<pb n="13" />
<p>रूपपदम्, समूहालम्बनज्ञानेऽतिव्याप्तिपरिहारार्थं विषयत
इति विशेषणम् ३ ख्यातेरेव (भेदग्रहस्यैव ) अभावः ॥ १९ ॥
<bold>अग्निहोत्रम्-</bold>आहितेष्वग्निषु सायं प्रातश्चानुष्ठेयो होमः ॥ २० ॥
<bold>अघटकत्वम्-</bold>तद्विषयत्वाव्यापकविषयतावत्त्वम् ॥ २१ ॥
<bold>अङ्गत्वम्-</bold>अन्यार्थत्वम् १ तदीयप्रधानफलजनकव्यापारजन-
कत्वे सति तदीयप्रधानफलाजनकत्वम् । घटादावतिव्याप्तिवा-
रणाय सत्यन्तम् २ उपकारकत्वम् ३ वेदार्थज्ञानोपयोगित्वम् ।
<bold>अजहल्लक्षणा-</bold>शक्यार्थापरित्यागेन तत्सम्बन्ध्यर्थान्तरे वृत्तिः,
यथा शोणो धावतीत्यत्र शोणपदस्य शोणगुणविशिष्टेश्वादिद्रव्ये ।</p>
<lg>
  <l>जहल्लक्षणायामतिव्याप्तिवारणाय शक्यार्थापरित्यागेनेति १</l>
  <l>लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयबोधप्रयोजिका लक्षणा ।</l>
  <l><bold>अज्ञः - </bold>ज्ञानरहितः १ आत्मज्ञानशून्यः * २ गुरुमुखानधीत-</l>
  <l>शास्त्रः ३ श्रुतितात्पर्यानभिज्ञो वा ॥ ३१ ॥</l>
</lg>
<p><bold>अज्ञातं- </bold>न ज्ञातम् १ ज्ञानाभास्यम् ।                   [क्षणमप्यत्रप●
<bold>अज्ञातसत्ता-</bold>ज्ञानप्राक्कालीनविषयसत्ता १ 'व्यावहारिकसत्ता'ल-
<bold>अज्ञानं- </bold>न ज्ञानम् १ कर्तव्याकर्तव्यादिविषयविवेकाभावः *२परि-
षदा विज्ञातस्य वादिना त्रिरभिहितस्यापि वाक्यार्थस्याबोधः*३
कार्यमात्रोपादानत्वे सति सद[^१]सद्भ्यामनिर्वचनीयम् ४ अनादि-
[^१ सदसद्भ्यामित्युपलक्षणं, सत्त्वेनासत्त्वेन सदसदुभयत्वेन ब्रह्मणो
भिन्नत्वेनाभिन्नत्वन भिन्नाभिन्नोभयत्वन सावयवत्वेन निरवयवत्वेन
सावयवनिरवयत्रोभयत्वेन चेति नवधाऽप्यनिर्वाच्यमित्यर्थः।
]</p>
<pb n="14" />
<p>भावरूपत्वे सति विज्ञाननिरास्यम् । उत्तरज्ञाननिवर्त्यपूर्वज्ञान-
वारणायानादिरूपेति, प्रागभाववारणाय, ज्ञानाभावोऽज्ञान-
मित्याशङ्कानिरासार्थं वा भावरूपेति, आत्मन्यतिव्याप्तिवा-
रणाय ज्ञाननिरास्यमिति ५ मिथ्यात्वे सति साक्षाज्ज्ञान-
निवर्त्यम् । ज्ञानेनेच्छाप्रागभावः साक्षान्निवर्त्यत इति वदन्तं</p>
<lg>
  <l>प्रति सत्यन्तम्, अज्ञाननिवृत्तिद्वारा ज्ञाननिवर्त्यबन्धेऽतिव्याप्ति-</l>
  <l>निरासाय साक्षादिति ६ अनाद्युपादानत्वे सति मिथ्यात्वम् ।</l>
  <l>ब्रह्मनिरासार्थ मिथ्यात्वमिति, मृदादिनिरासार्थमनादीति,</l>
  <l>अविद्यात्मनोः संबन्धनिरासार्थमुपादानत्वे सतीति ॥ ४२ ॥</l>
</lg>
<p><bold>अणुत्वं-</bold>अतिक्षुद्रपरिमाणवत्त्वम् १ सूक्ष्मपदार्थत्वे सत्यारम्भकत्वं
<bold>अतिक्रमणं-</bold>मर्यादोल्लङ्घनम् १ उचितादधिकस्यानुष्ठानं वा ४६
<bold>अतिथिः-</bold> अज्ञातपूर्वगृहागतव्यक्तिः १ अज्ञाता तिथिरागमनस्यास्य
<bold>अतिदेशः-</bold> एकत्र श्रुतस्यान्यत्र सम्बन्धः १ अन्यधर्मस्यान्य-
त्रारोपणं वा २ स्वविषयमुल्लङ्घयान्यविषये उपदेशः ॥५१॥
<bold>अतिप्रसङ्गः-</bold> प्रकृतादन्यत्र प्रसञ्जनम् १ प्रस्तुतविषयादन्यत्र
प्रसक्तिर्वा २ यस्य बोधो यत्राभिमतस्तदन्यस्यापि बोधप्रसङ्गः ।
<bold>अतिवादः -</bold> निरर्थकोऽतिप्रलापः १ अत्युक्तिसंस्थापकः शब्दः
<bold>अतिव्याप्तिः-</bold> अल (क्ष्यावृत्तित्वम् १ ) क्ष्ये लक्षणगमनम् २
लक्ष्यवृत्तित्वे सत्यलक्ष्यवृत्तित्वम्, यथा गोः शृङ्गित्वं लक्षणं
लक्ष्यगोवृत्तित्वे सत्यलक्ष्यमहिष्यादिवृत्ति ॥ ६० ॥</p>
<pb n="15" />
<lg>
  <l><bold>अतिशयतापः-</bold>स्वाधिकतरदेवतोत्कर्षदर्शने जायमानस्तापः ।</l>
  <l><bold>अतिशयोक्तिः-</bold>अतिशयनोक्तिः १ पौर्वापर्यविपर्ययत्वम् ॥६३॥</l>
</lg>
<p><bold>अतिन्द्रियं -</bold> इन्द्रियाग्राह्यम् १लौकिकसाक्षात्कारविषयगुणत्वन्यू-
नवृत्तिसंस्कारत्वान्यधर्मसमवाय्यन्यगुण अतीन्द्रियगुणः ॥६५॥
<bold>अत्यन्तनिवृत्तिः -</bold> कारणसहितकार्यनिवृत्तिः * १ स्वप्रतियो-
गिजातीयप्रागभावासमानाधिकरणनिवृत्तिः ॥ ६७ ॥
<bold>अत्यन्ताभावः-</bold>नित्यसंसर्गाभावः १ त्रैकालिकसंसर्गावच्छिन्न-
प्रतियोगिताकोऽभावः, यथा भूतले घटो नास्ति । ध्वंसप्राग-
भाववारणाय त्रैकालिकेति, भेदवारणाय संसर्गेत्यादि <error>६९</error><fix>॥६९॥</fix>
<bold>अत्युक्तिः-</bold> अनौचित्येनोक्तिः १ न्यायविरुद्धवाक्यम् ॥ ७१ ॥
<bold>अथर्वत्वं-</bold> ब्रह्मकर्मोपयोगिमन्त्रसमूहत्वम् ॥ ७२ ॥
<bold>अदृष्टं-</bold>कर्मजन्य (त्वे सत्यतीन्द्रियम्१) संस्कारः २ न दृष्टम् <error>७५</error><fix>॥७५॥</fix>
<bold>अद्भुतः-</bold> विस्मयः १ चकिताद्यनुभावत्वे सति हर्षादिसञ्चारी २</p>
<lg>
  <l>सिद्धस्व धर्मिणो धर्म्यन्तरावयवैर्योगः ।</l>
  <l><bold>अद्वैतं-</bold>न द्वैतम् १ सजातीयविजातीयस्वगतभेदशून्यम् ॥८० ॥</l>
</lg>
<p><bold>अधमत्वं-</bold> निन्दायोग्यत्वम् * १ भयदयालज्जाशून्यत्वम् २काम-
क्रीडाविषये कर्त्तव्याकर्तव्याविचारकत्वमिति रसमञ्जर्याम् <error>८३</error><fix>॥८३॥</fix>
<bold>अधर्मत्वं-</bold> निषिद्धकर्मजन्य (त्वम्१)नरकजनकवृत्तिगुणत्वव्या-
प्यजातिमत्त्वम् २ वेदबोधितानिष्टसाधनताकत्वम् । विषभ-
क्षणादिवारणाय वेदेति, ब्रह्मयागादिवारणायानिष्टेति ॥८६॥</p>
<pb n="16" />
<p><bold>अधिकं-</bold>अधिकहेत्वादिकथनम् १योग्यपरिमाणातिक्रमित्वम् <error>८८</error><fix>॥८८॥</fix>
<bold>अधिकरणं-</bold>साक्षात्परम्परया वा क्रियाश्रयः १ कर्तृकर्मद्वारक-
फलव्यापाराधारः, यथा स्थाल्यामोदनं गृहे पचतीति २ वेदवि-
चारात्मको न्यायः ३ विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम्
निर्णय (सङ्गति) श्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् ॥९२॥
<bold>अधिकारः-</bold>अधिकं कार्यम् १ उत्तरोत्तर (साकाङ्क्षत्वम् २) संब-
न्धः ३फलभोक्तृत्वे सति कर्मकर्तृत्वम् ४ यथेष्टं क्रयविक्रयादिक-
र्तृत्वसंपादकस्वामित्वम् ५स्वदेशे लक्ष्यसंस्कारोपयोगिवाक्या-
र्थबोधाजनकत्वे सति परदेशे तादृशवाक्यार्थबोधजनक इति
वै० ६ अनेकदेहारम्भकबलवत्प्रारब्धकर्मफलत्वम् ॥ ९९ ॥
<bold>अधिकारविधिः-</bold>कर्मणः फलसंबन्धबोधको विधिः ॥१००॥
<bold>अधिकारी-</bold>तत्तत्कर्म (करणयोग्यः १)जन्यफलार्थी २ ग्रन्थप्रति-
पाद्यार्थविषयकज्ञानधारणशक्तः ३ मुख्यगौणोभयप्रयोजनप्रा-
प्तिकामः * ४ मलविक्षेपरहितत्वे सति साधनचतुष्टयसंपन्नत्वे
सति स्वस्वरूपाज्ञानवत्त्वम् ।                                [न्तृत्वं
<bold>अधिष्ठातृत्वं-</bold>सन्निधानमात्रेण तत्तत्पदार्थानां तत्तत्कर्मसु निय-
<bold>अधिष्ठानं -</bold> आश्रयः*१ अध्यस्ताधिकरणम् २ यदाधारमारोप्यं
भासते तत् ३ सत्तास्फूर्तिप्रदातृ चैतन्यम् ४सविलासाज्ञान विषय
इति प्र० ५स्वबुद्धिबाध्यकार्याधारः ६'आधार' लक्षणमप्यत्रप●
<bold>अध्ययनं-</bold> अक्षरमात्रपाठ इति वैदिका १ सार्थाक्षरग्रहणमिति
"</p>
<pb n="17" />
<p>मी०२ गुरुमुख (तः शास्त्रार्थज्ञानम् ३) ञ्चारणानुसायुंच्चारणम्</p>
<lg>
  <l><bold>अध्यस्तत्वं-</bold>संप्रयोगसंस्कारजन्यत्वे सति प्रत्यभिज्ञाभिन्नत्वम्।</l>
  <l><bold>अध्यात्मशास्त्रं-</bold>आत्मानमधिकृत्य प्रवृत्तं शास्त्रम् ॥ ११८ ॥</l>
</lg>
<p><bold>अध्यात्मं-</bold>आत्म (संबन्धित्वमध्यात्मत्वम् १ ) [नं देहेन्द्रियादिकं
क्षेत्रज्ञं ब्रह्म वाधिकृत्य वर्तमानम् ।                                                   [ तादे:
<bold>अध्यारोपः-</bold> वस्तुन्यवस्त्वारोपः, यथा शुक्तिकाशकलादौ रज-
<bold>अध्यासः-</bold>परत्र परा[^१]वभासः १ अधिष्ठानविषमसत्ताकावभास
इति परिमले २ एकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ताभाव-
वत्यवभासः । स्वात्यन्ताभाववत्यवभास एतावन्मात्रोक्तौ यत्र
भूतलादौ घटोऽपसारितः पुनश्चानीतस्तादृशघटादावतिप्रसङ्गः
स्यादिति स्वसंसृज्यमान इत्युक्तम्, एवमपि मूलावच्छेदेन
कपिसंयोगात्यन्ताभाववति वृक्षे शाखाप्रावच्छेदेन च तत्सं-
सृज्यमानेऽवभासमानत्वात्संयोगस्य तत्रातिप्रसङ्गः स्यादित्यत
एकावच्छेदेनेति ३ दोषजन्यत्वे (सति संस्कारजन्यः ४ ) स-
त्यधिष्टानसामान्यज्ञानजन्यः ५ पारमार्थिकत्वावच्छिन्नस्वात्य-
न्ताभावाधिकरणे प्रतीयमान इति तत्त्वविवेके ६ स द्विविधो
ज्ञानाध्यासोऽर्थाध्यासश्च । यद्वा स्वरूपाध्यासः संसर्गाध्यासश्चे-
ति द्विविधोध्यासः । तत्राद्यो रज्ज्वादौ भुजङ्गाद्यध्यास आत्मनि
[^१ अवभासते इत्यवभास इति व्युत्पत्त्याऽवभासशब्दोऽर्थाध्यासपरः,
अवभासतेऽर्थः (=रजतादिः) अनेनेति व्युत्पत्त्या च ज्ञानाध्यासपरः ।
]</p>
<pb n="18" />
<p>वाऽनात्माध्यासो द्वितीयस्तु स्फटिके लौहित्यस्य शङ्गे पीतिम्रोऽ
नात्मनि चात्मतद्धर्मादेः, आत्मादेः पारमार्थिकत्वेन स्वरूपतोऽ
ध्यासाभावात् । अथवा, प्रकारान्तरेण सोपाधिकोनिरुपाधिक-
श्चेति भेदादध्यासो द्विविधः । द्विविधोप्यसौ बाह्याभ्यन्तरभेदा-
त्पुनर्द्विविधः । तत्र लोहितस्फटिकादिर्बाह्यः सोपाधिको भ्रमः,
जपाकुसुमादेरुपाधित्वात् । कर्तृत्वादिर्भ्रम आन्तरः, कर्मरूपेण
परिणताऽविद्यारूपोपाधिकार्यत्वात् । शुक्तिरूप्यादिस्तु बाह्यो
निरुपाधिको भ्रमः । आकाशादिभ्रमोऽपि बाह्यो निरुपाधिकः ।
अहमज्ञो ब्रह्म न जानामीत्याद्याभ्यन्तरो निरुपाधिको भ्रमः ।
इत्यादीनि बोद्धव्यानि, विस्तरस्तु गुरुमुखादेवावगन्तव्यः <error>१२७</error><fix>॥१२७॥</fix>
<bold>अध्याहारः-</bold> प्रकृतोपयोगिशब्दकल्पनम् १ अस्पष्टार्थवाक्यस्य
शब्दान्तरकल्पनाद्वारा स्पष्टकरणम् २ अश्रुतपदानुसंधानम्
<bold>अध्वर्यु:-</bold>कर्मारम्भसमाप्तिकर्ता १ अध्वरं यातीति २ युनक्तीति ।
<bold>अनवस्था-</bold>अप्रामाणिकानन्तप्रवाहमूलकप्रसङ्गः १ उपपाद्योपपा-
दकप्रवाहोऽनवधिः । चक्रकव्यावृत्त्यर्थमनवधिरिति, साकाङ्क्ष
तापरिहारायोपपाद्योपपादकेति २ अव्यवस्थितपरम्परा-
रोपोपाधिनोऽनिष्टप्रसङ्गः ३ पूर्वस्योत्तरोत्तरापेक्षित्वम् ४ सा
द्विविधा, अधो धावन्त्यूर्द्धं धावन्ती चेति । तत्राघो धावन्ती
यथा घटजनने कपालापेक्षा, कपालजनने कपालिकायास्त-
ज्जनने च तदवयवानामपेक्षा एवं तत्र तत्रेति । ऊर्द्धं धावन्ती</p>
<pb n="19" />
<p>यथा भेदः किं ? भिन्ने धर्मिणि वर्त्ततेऽभिन्ने वा, आद्येपि केन
भेदेन भिन्ने कस्य भेदस्यावस्थितिरिति प्रश्ने द्वितीयभेदभिन्ने
धर्मिणि प्रथमस्य, तृतीयभेदभिन्ने द्वितीयस्य, चतुर्थभेदभिन्ने</p>
<lg>
  <l>तृतीयस्य, एवं तत्र तत्रापीत्यङ्गीकारे ॥ १३७ ॥</l>
  <l><bold>अनागतत्वं- </bold>भविष्यच्छब्दजन्यप्रतीतिविषयत्वम् ॥ १३८ ।</l>
  <l><bold>अनात्मभूतलक्षणं-</bold>यल्लक्षणं वस्तुस्वरूपाननुप्रविष्टम् यथा</l>
  <l>दण्डो दण्डिन इति जैनाः ॥ १३९ ॥</l>
</lg>
<p><bold>अनादरः -</bold> आदरशून्यः १ यथाकथञ्चित्प्रवृत्तिरनुत्साह इति मं०
<bold>अनादिः - </bold>उत्पत्तिरहितः १ सजातीयप्रयोगपूर्वकः २ नास्त्या-
दिः प्राथमिको यस्मात् ।                                                             [ यस्य
<bold>अनिकेतः-</bold>नियतनिवासशून्यः १ नास्ति निकेतः नियमेन वासो
<bold>अनिच्छाप्रारब्धं-</bold> अकस्माजायमानम्, यथा कण्टकवेधादि १
इच्छां विना 'जायमानम् ॥ १४८ ॥
<bold>अनित्यत्वं-</bold> त्रैकालिकनिषेधप्रतियोगित्वम् १ ध्वंसप्रतियोगि ( त्वे
सति प्रागभावप्र० २) वृत्तित्वविशिष्टसत्तायोगित्वम् ॥ १५१ ॥
<bold>अनिर्वचनीयः-</bold> सदसद्विलक्षणः १ निर्वक्तुमयोग्यः ॥१५३ ॥
<bold>अनिर्वचनीयख्यातिः -</bold> संदसदादिप्रकारैरनिर्वाच्यस्यैवाध्य-
स्तपदार्थस्य भानम् ॥ १५४ ॥
<bold>अनिष्ठझसङ्गः-</bold> अनभिमतार्थापादनम् ।                      [ नुपूर्वीमान्
<bold>अनुकरणं-</bold>सदृशक्रियादिकरणम् १ अनु (क्रियतेनेन २ ) कार्यनिष्ठा-</p>
<pb n="20" />
<p><bold>अनुकूलत्वं-</bold>स्वपक्षपातित्वम् १ कार्यसहकारिकारणत्वमिति ग्रं०
<bold>अनुक्रमः- </bold>कमानतिक्रमः ॥ १६१ ॥
<bold>अनुगतत्वं-</bold>एकत्वे सत्यनेकवृत्तित्वम् ॥ १६२ ॥
<bold>अनुगमः - </bold>एकस्यानेकत्र संबन्धः १ अनुगतप्रवृत्तिनिमित्तकत्वं
<bold>अनुग्रहः - </bold>अभीष्टसम्पादको व्यापारः १ दुःखिनो दुःखापा-
करणे प्रवृत्तिर्वा २ अनिष्टवारणपूर्वकेष्टसाधनेच्छा ॥ १६७ ॥
<bold>अनुज्ञा-</bold>निषेधाभावव्यञ्जिकेच्छा १ कर्तुरिष्टत्वे सति वञ्त्र्कनुमतत्वं
<bold>अनुद्भूतत्वं-</bold> प्रत्यक्षत्वाप्रयोजकत्वम् १ अतीन्द्रिय़विशेषगुणत्वम्
<bold>अनुपलब्धिप्रमाणं-</bold> योग्यत्वे सत्यनुपलम्भोऽभावप्रमाकर-
णम् । अयोग्यभूतललग्नसलिलानुपलम्भनिरासाय योग्येति, यो-
ग्यस्योपलम्भनिरासायानुपलम्भेति १ ज्ञानकरणाजन्याभावा-
नुभवासाधारणकारणम् । अदृष्टादौ साधारणकारणेऽतिव्याप्ति-
वारणायासाधारणेति, ज्ञानकरणाजन्यघटादिभावपदार्थप्र-
त्यक्षानुभवासाधारणकारणे चक्षुरादावतिव्याप्तिवारणायाभा-
वेति, अभावस्मृतिहेतौ संस्कारेऽतिव्याप्तिवारणायानुभवेति,
अयं विद्याफलकधर्माभाववान्मूर्खत्वादित्याद्यतीन्द्रियाभावानुभ-
वहेतावनुमानादावतिव्याप्तिवारणायाजन्यान्तविशेषणम् <error>१७३</error><fix>॥१७३॥</fix>
<bold>अनुपसंहारित्वं-</bold> अत्यन्ताभावाप्रतियोगित्वविशिष्टसाध्यादि-
कत्वम् १ किञ्चिद्विशेष्यकनिश्चयाविषयसाधकत्वे सति किञ्चिद्वि-
शेष्यकनिश्चयाविषयसाध्याभावकत्वम् ॥ १७५ ॥</p>
<pb n="21" />
<p><bold>अनुपादेयत्वं-</bold>स्वकृतिसाध्यत्वविरहः ॥ १७६ ॥
<bold>अनुबन्धः-</bold>स्वविषयकज्ञानद्वारा शास्त्रे प्रवर्तकः १ श्रोतृप्रवृत्त्यर्थ
प्रन्थादावनुबध्यमानः २मङ्गलाचरणाव्यवहितोत्तरमेव प्रन्यादा-
बनुबध्यमान इति पुस्तकान्तरे ३ ग्रन्थप्रवृत्तिप्रयोजकज्ञानविषयः
<bold>अनुभूतः -</bold> अनुभवविषयीभूतपदार्थः ।              [स्यान्यत्र ज्ञानं
<bold>अनुभूयमानारोपः-</bold> प्रत्यक्षानुभवविषयारोपः१ अन्यत्रानुभूत-
<bold>अनुमतं -</bold> साधुकृतमनेनेत्याद्यनुमोदनरूपमानसपरिणामप्रदर्शनं
<bold>अनुमानं-</bold> अनुमीयतेऽनेनेति १ व्याप्तिपक्षधर्मताविशिष्टलिङ्ग-
ज्ञानम् २ अनुमितिकरणम् । कुठारादावतिव्याप्तिवारणायानु-
मितीति, प्रत्यक्षादावतिव्याप्तिवारणायान्विति४ स्वजन्यव्या-
पार ( द्वाराऽनुमिते ०) वत्तासंबन्धेनानुमितेरसाधारणकारणम्
<bold>अनुमितिः -</bold> व्याप्तिज्ञानकरणकं ज्ञानम् १ परामर्शजन्यं ज्ञानम् ।
प्रत्यक्षादाव तिव्याप्तिवारणाय परामर्शजन्य मिति, परामर्श-</p>
<lg>
  <l>ध्वंसवारणाय ज्ञानमिति २ लिङ्गज्ञानजन्यं ज्ञानम् ३ व्याप्यज्ञा-</l>
  <l>नाद्व्यापकज्ञानं वा ४ साधनधर्मदर्शनात्साध्यधर्मविशिष्टे बुद्धिः ।</l>
  <l>अनुयोगी-यस्मिनभावोऽस्ति सः १ अनु पश्चाद् योगः संबन्धो</l>
  <l>यस्य सः २ विशिष्टप्रतीतिविषयविशेष्यत्वमनुयोगित्वम् ॥१९६॥</l>
</lg>
<p><bold>अनुवादः -</bold> भाषान्तरीयवाक्यार्थस्य भाषान्तरीयवाक्येन बोध-
नम् *१उक्तस्य पुनर्वचनम्, यथा जुहोति जुहोतीत्यादि २</p>
<pb n="22" />
<p>प्रमाणान्त ( रेण निर्णीतार्थज्ञापकः शब्दः ३ ) रावगतार्थ-
बोधकोऽर्थवादः, यथाग्निर्हिमस्य भेषजमित्यादिः ॥ २०२ ॥
<bold>अनुवादकं-</bold>गृहीतमा (हिज्ञानजनकम् १) ह्यनुभवमात्रजनकं
<bold>अनुवृत्तिः -</bold> उत्तरत्र संबन्धः १ दवीयस्स्थानान्तरस्थितस्या-
नुसंधानमिति दिनकर्याम् २ पठितस्य पुनः पठनम् ॥२०७॥
<bold>अनुव्यवसायः-</bold>ज्ञानविषयक (ज्ञानम् १)
लौकिकमानसप्रत्यक्षविषयः
<bold>अनुषङ्गः-</bold> अविनाभावः * १ एकत्रान्वितपदस्यान्यत्रान्वयः २
वाक्यान्तरे जनितान्वयबोधपदस्य वाक्यान्तरेऽन्वयार्थाभि-
संधानमिति मं० ३ अन्योद्देशेन प्रवृत्तस्य तन्नान्तरीयकविधया-
<bold>अनुष्ठानं-</bold> विहित कर्मादिकरणम् ।                          [ न्यसिद्धिः
<bold>अनेकं-</bold>न एकम् १ अपेक्षाबोधविषयः २एकत्वभिन्नसङ्ख्याविशिष्टं
<bold>अनैकान्तिकः-</bold>साध्यसंदेहजनकपक्षधर्मताज्ञानविषयः १ विरु-
द्धान्यपक्षऋत्तित्वे सत्यनुमितिविरोधिसंबन्धाव्यावृत्तः २ साधा-
रणासाधारणानुपसंहार्यन्यतमः ॥ २२० ॥
<bold>अन्तः-</bold>समुदायविशिष्टः १ पूर्वस्मिन्सति यस्मात्परोनास्ति सोन्त्यः
<bold>अन्तःकरणं- </bold>सर्वज्ञानादिप्रत्यक्षकरणम् १ शरीरान्तःस्थत्वे
सतीन्द्रियसहायकमिति ग्रं० २ मिलितसमस्तापञ्चीकृतपञ्चमहा-
भूतसात्त्विकांशकार्यत्वे सति ज्ञानशक्तिप्रधानम् ॥ २२५ ॥
<bold>अन्तःकरणशुद्धिः-</bold>परवञ्चनमायानृतादिपरिवर्जनम् ॥२२६॥
<bold>अन्तरङ्गं-</bold> अन्तर्भूत (1ङ्गकम् १) निमित्तम् २ अपरनिमित्तकत्वं</p>
<pb n="23" />
<p><bold>अन्तर्धानं-</bold>स्वविषयकप्रत्यक्षविरोधिव्यापारः, यथोपाध्यायाद-
न्तर्धत्ते छात्रः ।                                             [व्यजनकः
<bold>अन्त्यावयवी-</bold>द्रव्यानारम्भकद्रव्यम् १ अवयवजन्यत्वे सत्यवय-</p>
<lg>
  <l><bold>अन्धः -</bold> नेत्रद्वयशून्यः १ श्रुतिस्मृती च विप्राणां चक्षुषी देव-</l>
  <l>निर्मिते, काणस्तत्रैकया हीनो द्वाभ्यामन्धः प्रकीर्तितः ।</l>
  <l><bold>अन्धकारः- </bold>अन्धं करोतीति १ प्रौढप्रकाशकतेजोऽभावः २</l>
  <l>भयदृष्टितेजोऽवरोधकारक इति ग्रं० ॥ २२८ ॥</l>
</lg>
<p><bold>अन्धतामिस्रः -</bold>नरकविशेषः १ अणिमादिगुणसम्पत्तौ दृष्टानु-
श्रविकविषयप्रत्युपस्थाने च कल्लान्ते सर्वमेतन्नक्ष्ङ्यतीति यस्त्रासः
<bold>अन्नमयकोशः-</bold> मातृपितृभुक्तान्नजशुक्रशोणितकार्य स्थूलशरीरं
<bold>अन्यतमः-</bold>तत्तदवृत्तिशून्यः १ बहूनां मध्ये निर्धारितैकः ४२
अनेकभेदावच्छिन्नप्रतियोगिताकभेदः, यथा घटो घटपटगृहा-
न्यतमो भवति ३ स्वेतरयावत्प्रतियोगिकभेदवत्त्वमन्यतम-
त्वम् ४ तद्भिन्नत्वे सति तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वम् <error>२३३</error><fix>॥२३३॥</fix>
<bold>अन्यतरः-</bold>द्वयोर्मध्ये निर्द्धारितैकः १भेदद्वया (भाववत्त्वम् २) व
च्छिन्नप्रतियोगिताकभेदः, यथा घटो घटपटान्यतरो भवति ३
तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वम् ।                      [त्समवेतः
<bold>अन्यतरकर्मजसंयोगः-</bold>क्रियाभाववत्समवेतत्वे सति क्रियाव-
<bold>अन्यथाख्यातिः- </bold>अतात्त्विकान्यथाभावेन वस्त्ववगाहनम् १
अन्यवस्तुनोऽन्यरूपेण भानम् २ अन्यत्र स्थितस्यान्यत्र
„</p>
<pb n="24" />
<p>भानमिति प्रं० ३ तदभाववति तत्प्रकारकभानम् ॥ २४२ ॥
<bold>अन्यथानुपपत्तिः-</bold>स्वाभावप्रयोज्यासंभवः १ उपपादकाभा-
वप्रयोज्योपपाद्यासंभवः ।                                [ बाह्यत्वं
<bold>अन्यथासिद्धिः-</bold> यस्यकारणतां विनापि सिद्धिः १कारणसामग्री-
<bold>अन्यथोपपत्तिः -</bold> वैपरीत्येनोपपत्तिसाम्यम् १ उपपादकत्वेना-
भिमतधर्म विनाऽप्युपपाद्यस्योपपत्तिः ॥ २४८ ॥
<bold>अन्योन्याध्यासः-</bold> अन्योन्यस्मिन्नन्योन्यतादात्म्यस्याध्यासः ।
<bold>अन्योन्याभावः-</bold> तादात्म्य (भावः १) संबन्धावच्छिन्नप्रतियो-
गिताकोऽभावः । प्रागभावप्रध्वंसाभाववारणाय तादात्म्ये-
ति २ अत्यन्ताभावव्यतिरिक्तत्वे सत्यनवधिरभावः ॥ २५२ ॥
<bold>अन्योन्याश्रयः-</bold> स्वापेक्षापेक्षित्वनिबन्धनप्रसङ्गः १ स्व[^१]ग्रद्दसापे-
क्षयहसापेक्षग्रहकः,यथा महिषभिन्नत्वं गोत्वं गोभिन्नत्वञ्च महि
षत्वमित्येवं लक्षणे, गोत्वज्ञानाय महिषत्वज्ञानापेक्षा, महिषत्व-
ज्ञानाय च गोत्वज्ञानापेक्षेति २ अन्योन्यस्या (श्रयणम् ३) व्यव-
हितान्योन्यापेक्षित्वम् । आत्माश्रयव्यावृत्त्यर्थमन्योन्यस्येति
<bold>अन्वयः - </bold>परस्परमर्थागमः १ यत्सत्त्वे यत्सत्त्वम्, यथा सर्व-
प्राणिहिंसनशीलित्वे सति पशुत्वाकृतिविशिष्टा काचनव्यक्ति-
र्यत्र यत्र भवति, तत्र तत्र सिंहपदवाच्यता २ स्वसत्तानिय-
तसत्तावत्कार्यसम्बन्धः ॥ २५७ ॥
[^१ स्वग्रद्द: स्वज्ञानम् तस्य सापेक्षोऽपेक्षाकारी यो ग्रहस्तस्य
सापेक्षोऽपेक्षाकारी ग्रहो  ज्ञानं यस्य स इति ।]</p>
<pb n="25" />
<p><bold>अन्वयदृष्टान्तः-</bold>साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सः <error>२५८</error><fix>॥२५८॥</fix>
<bold>अन्वयव्यभिचार:-</bold>कारणसत्त्वे कार्याभावः १ स्वाधिकरणवृ -
त्यत्यन्ताभावप्रतियोगिकार्यकत्वम् २ स्वेतरयावत्कारणाधिकर०
<bold>अन्वयव्याप्तिः-</bold> हेतुसाध्ययोर्व्याप्तिः १ हेतुसमानाधिकरणा-
त्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम् ॥ २६३ ॥
<bold>अन्वयसहचारः -</bold>कारणसत्त्वे कार्यसत्त्वम् ॥ २६४ ॥
<bold>अपकर्ष:- </bold>विद्यमानधर्मापचयः १ उचितधर्मापेक्षातो हीनता ।</p>
<lg>
  <l><bold>अपकारत्वं- </bold>अनिष्टोत्पादनत्वम् १ दुःखजनकव्यापारत्वं वा ।</l>
  <l><bold>अपक्षयः-</bold> अवयवहासः १उन्नतिशून्यत्वमपश्चयत्वम् ॥२७० ॥</l>
</lg>
<p><bold>अपश्चीकरणम्-</bold> स्वेतरभूतचतुष्टयामिश्रीकरणम् ॥ २७१ ॥
<bold>अपदेशः - </bold> अन्य (प्रकाश्यान्यस्य करणम् १ ) दुद्दिश्यान्यार्थमनुष्ठानं
<bold>अपभ्रंशः -</bold>  साधुशब्दस्य शक्तिवैफल्यप्रयुक्तान्यथोच्चारणयुक्तोऽ
<bold>अपरत्वं-</bold>अपरव्यवहारासाधारणकारणम् ।                   [पशब्द:
<bold>अपरवैराग्यम्-</bold>ब्रह्मज्ञानान्यविषयवैतृष्ण्यम् ॥ २७५ ॥
<bold>अपरसामान्यत्वं-</bold> व्याप्यत्वम् १ न्यूनदेशवृत्तित्वम् <error>२७७</error><fix>॥२७७॥</fix>
<bold>अपराधः-</bold> दण्डयोग्यकर्मकरणम् १स्वोचितकर्माकरणमिति ग्रं०
<bold>अपरिग्रहः-</bold>समाध्यनुष्ठानानुपयुक्तस्य वस्तुमात्रस्यासङ्ग्रहः १ वि-
षयाणामर्जनरक्षणक्षयसङ्गहिंसारूपदोषदर्शनादस्त्रीकरणमिति
ग्रं० २देहयात्रानिर्वाहकातिरिक्तभोगसाधनानामनङ्गीकारः <error>२८२</error><fix>॥२८२॥</fix>
<bold>अपरोक्षज्ञानं-</bold> विषयचित्तादात्म्यापन्नं प्रमाणचैतन्यम् २८३</p>
<pb n="26" />
<p><bold>अपवाद:-</bold> अधिष्टाने भ्रान्त्या प्रतीतस्याधिष्ठानव्यतिरेकेणा-
भावनिश्चयः, यथा शुक्त्यादौ भ्रान्त्या प्रतीतस्य रजतादेः
शुक्तिव्यतिरेकेण नेदं रजतं किन्तु शुक्तिरित्यभावनिश्चयः १
अध्यारोपितस्याधिष्ठानमात्रपर्यवशेषणम् ॥ २८५ ॥
<bold>अपसिद्धान्तनिग्रहस्थानं-</bold> एकसिद्धान्तमतमाश्रित्य कथाप्र-
वृत्तौ तद्विरुद्धसिद्धान्तमतमालम्ब्योत्तरदानम् ॥ २८६ ॥
<bold>अपादानत्वं-</bold> अवधिभूतत्वम् १ परकीयक्रियाजन्यविभागाश्रय-
त्वम् । वृक्षात्पर्ण पततीत्यादौ पर्णादेरपादानत्ववारणाय पर-
कोयेति २ क्रियानाश्रयत्वे सति तज्जन्यविभागाश्रयत्वम् २८९
<bold>अपार्थः -</bold> प्रत्येकवाक्यानामन्वितार्थत्वेपि यत्समुदायार्थशून्यः ।
<bold>अपूर्व-</bold> न पूर्वं दृष्टम् १ क्रियाजन्यकालान्तरभाविफलाव्यवहितपूर्वस्थं
<bold>अपूर्वता-</bold> प्रकरणप्रतिपाद्यस्य मानान्तराविषयता, यथा तन्त्वौ-
पनिषद् मित्यद्वितीयवस्तुन उपनिषदतिरिक्तमानाविषयता <error>२९३</error><fix>॥२९३॥
</fix><bold>अपूर्वविधिः-</bold>प्रमाणान्तरेणात्यन्ताप्राप्तार्थविधायको विधिः,
यथा व्रीहीन्प्रोक्षतीति व्रीहिप्रोक्षणविधिः ॥ २९४ ॥</p>
<lg>
  <l><bold>अपेक्षा-</bold> प्रयोजकजिज्ञासा १ स्वल्पेच्छाविषयः*२विशेष्यविशेष-</l>
  <l>णयोरन्योन्याभिसंबन्धः ३ कार्यनिमित्तयोरन्योन्याभिसंबन्धः ।</l>
  <l><bold>अपेक्षाबुद्धिः -</bold> विनाशकविनाशप्रतियोगिनी बुद्धिः १ अनेकै-</l>
  <l>कत्वविषयिणी बुद्धिरिति ग्रन्थान्तरे ॥ २९८ ॥</l>
</lg>
<p><bold>अपोहः-</bold> प्रतिकूलतर्केण प्रकृततर्कापिनयनम् १ शिष्यस्य मिथ्या-</p>
<pb n="27" />
<p>ग्रहणापाकरणसामर्थ्यम् २ सिद्धान्तप्रतिपक्षनिराकरणसामर्थ्यम्
</bold>अपौरुषेयत्वं-</bold> वाक़्यार्थज्ञानापेक्षोच्चारणकमात्रप्रत्त्यानुपूर्वीशू-
न्यत्वम् १ सजातीयोच्चारणानपेक्षोच्चारणकवृत्त्यानुपूर्वीरहित-
त्वं वा २ स्वानुपजीविप्रमाणजन्यसमानप्रकारविशेष्यकोच्चार-
णसापेक्षोञ्चारणविषयत्वम् ३ पूर्वकल्पीयानुपूर्वीसमानानुपूर्वी-
घटितत्वमिति वे० ४ स्वसजातीयोच्चारणसापेक्षोच्चारणसामा-
न्यकत्वम् ५ सम्प्रदायाविच्छेदत्वे अविच्छिन्नव्यवहारत्वे वा
सत्यस्मर्यमाणकर्तृकत्वम् । अज्ञातकर्तृके जीर्णकूपारामादौ व्य-
भिचारवारणाय संप्रदायाविच्छेदत्वे सतीति, भारतादिषु
व्यभिचारपरिहारायास्मर्यमाणकर्तृकत्वमिति मीमांसकाः
<bold>अप्रतिभानिग्रहस्थानं-</bold> उत्तरापरिस्फूर्ति: १ उत्तरार्हं परोकं
बुद्ध्वाप्युत्तरस्यास्फूर्तिवशात्तूष्णीम्भाव इति ग्रं० ॥ ३०९ ॥
</bold>अप्रामाण्यं-</bold>दोषसहकृतज्ञानसामग्रीजन्यम् १ तदभाववति तत्प्र-
कारकत्वम् । प्रमायामतिव्याप्तिवारणाय <bold>तदभावेति</bold> ॥३११॥
<bold>अबाध्यत्वम् -</bold> त्रैकालिकनिषेधाप्रतियोगित्वम् ॥ ३१२ ॥
<bold>अभयदानम्-</bold> अनन्तप्राणिगणानुग्रहकरं वसत्यादिदानमिति
जैनाः १मा भैषीरित्यादिशब्दप्रयोगपूर्वकं भयनिवारणम् <error>३१४</error><fix>॥३१४॥</fix>
<bold>अभानावरणं-</bold> न भातीत्याकारकाभानप्रयोजकीभूतमावरणम्
<bold>अभावः-</bold> +नञ्शब्दोल्लेखिप्रतीतिविषयः १ प्रतियो (ग्यारोपितसं.
पर्गजन्यप्रती० २) गिनिरूपणाधीननिरूपणक इति ग्रं० ३ संब-</p>
<pb n="28" />
<p>न्धतादृश्यभिन्नत्वे सति प्रतियोगि(ज्ञानाधीनज्ञानविषय:४) सा-
पेक्षप्रतीतिविषयः।                  [घटाभावप्रमा भूतले जायते
<bold>अभावप्रमा-</bold> योग्यानुपलब्धिकरणिका प्रमा, यथा घटाद्यनुपलब्ध्या
<bold>अभिचारः -</bold> मारणोच्चाटनादिफलकतान्त्रिकप्रयोगविशेषः <error>३२१</error><fix>॥३२१॥</fix>
<bold>अभिज्ञाज्ञानं -</bold> इदन्तामात्रावगाहिज्ञानम् १ विषयसंबद्धेन्द्रि-
यजन्यं ज्ञानम्, यथाऽयं घटोऽयं पट इत्यादि ॥ ३२३ ॥
<bold>अभिधानत्वम्-</bold>अन्वयबोधफलकशब्द प्रयोगत्वम् ॥३२४॥
<bold>अभिधानविधिः-</bold>लिङ्गादिघटितं वाक्यम् ॥ ३२५ ॥
<bold>अभिधानानुपपत्तिः-</bold> अनुपपद्यमानवाक्यैकदेशश्रवणात्तदुप-
पादकीभूतार्थान्तरकल्पनम्, यथा द्वारमित्यस्य वाक्यैकदेशस्य
पिधेहीति पदार्थान्तरकल्पनमन्तरानुपपत्त्या तत्कल्पनम् <error>३२५</error><fix>॥३२५॥</fix>      <bold>अभिधेयः -</bold> वाक्यार्थः१ शास्त्रजप्रमानिवर्त्याज्ञानगोचरः <error>३२७</error><fix>॥३२७॥</fix>
<bold>अभिधेयविधित्वं-</bold> कृतिसाध्यत्वे सतीष्टसाधनत्वम् ॥ ३२८॥
<bold>अभिनयः-</bold> अङ्गुल्यादिनिर्देशेन पदार्थप्रकाशनम् ॥ ३२९ ॥
<bold>अभिनिवेशः -</bold> आयुरभावेप्येतैः शरीरेन्द्रियादिभिरनित्यैरपि
वियोगो मे माभूदित्याविद्वदङ्गनाबालं स्वभाविकः सर्वप्राणि-</p>
<lg>
  <l>साधारणी मरणत्रासः १ स्वीकृतस्य पुनस्त्यागासहिष्णुत्वम् ।</l>
  <l><bold>अभिन्नत्वं-<bold> भेदा (भावविशिष्टत्वम् १)नधिकरणत्वम् ॥३३३॥</l>
</lg>
<p>अभिन्ननिमित्तोपादानं-निमित्तञ्च तदुपादानं चेति निमि-
तोपादानम्, अभिन्नञ्च तन्निमित्तोपादानं चेति ॥ ३३४ ॥
1</p>
<pb n="29" />
<p><bold>अभिभवः-</bold> बलवत्सजातीय (संबन्धकृतमग्रहणम् १ ) तिरस्करणं
<bold>अभिमानत्वं-</bold> परावज्ञाहेतुत्वम् १ आत्मन्युत्कर्षारोपत्वं वा <error>३४०</error><fix>॥३४०॥</fix>
<bold>अभिमुखं-</bold> मुखस्य पुरो देशे १ अनुकूलार्थसंमुखीभवनम् <error>३४२</error><fix>॥३४२॥</fix>
<bold>अभिलाषः-</bold> इष्टविषयकतृष्णा १प्रीत्याश्रयकर्तृककिञ्चिद्विषयकेच्छा
<bold>अभिवादनं -</bold> नामोच्चारणपूर्वकनमस्कारः १ पादस्पर्शपूर्वकन •
<bold>अभिव्यक्तिः-</bold>सूक्ष्मरूपेण स्थितस्य कारणस्य कार्यरूपेणावि-
र्भावः १ कार्यस्यास्ति प्रकाशते इति व्यवहारः ॥ ३४७ ॥
<bold>अभिव्यञ्जकः-</bold> अस्तिव्यवहारजनकः १ 'व्यजक' लक्षणमप्यत्रप०
<bold>अभिहितानुपपत्तिः-</bold> अनुपपद्यमानसमग्रवाक्यश्रवणात्तदुप-
पादकीभूतार्थान्तरकल्पनम्, यथा तरतिशोकमात्मविदिति
प्रमातृत्वादिबन्धस्य शोकोपलक्षितस्य ज्ञाननिवर्त्यत्वश्रवणा-
च्छोकस्य मिथ्यात्वमन्तरानुपपद्यमानाच्छोकस्य मिथ्यात्वकल्प-
नम्, यथा वा ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिवाक्य-
श्रवणाददृष्टस्य प्रकल्पनम् ॥ ३४९ ॥</p>
<lg>
  <l><bold>अभीष्टं -</bold> सत्कारपूर्वक कर्म *१ स्वकर्तव्यताप्रयोजकेच्छाविषयः ।</l>
  <l><bold>अभ्यागतत्वं-</bold> भिन्नस्थानीयत्वे सति स्वस्थानागतत्वम् ॥ ३५२॥</l>
</lg>
<p><bold>अभ्यासः-</bold> पुनः पुनरनुशीलनम् १ ध्येये वस्तुनि चित्तस्य
स्थिरीकरणार्थो यत्नः * २ प्रकरणप्रतिपाद्यस्य पुनः पुनः
प्रतिपादनम्, यथा तत्त्वमसीति नवकृत्वोऽभ्यासः ॥३५५॥
<bold>अभ्युपगमवादः-</bold> वादिबलनिरीक्षणार्थमनिष्टस्यापि स्वीकरणं</p>
<pb n="30" />
<p><bold>अयथार्थानुभवः- </bold> दुष्टसामग्रीजन्योऽनुभवः १ बाधितार्थविष-
यकानुभवः, यथा शुक्ताविदं रजतमिति ज्ञानम् ॥ ३५८ ॥
<bold>अयुतसिद्धिः-</bold> असम्बद्धयोरविद्यमानत्वम् ॥ ३५९ ॥
<bold>अयोनिजशरीरं-</bold> शुकशोणितसन्निपातानपेक्षं शरीरम् <error>३६०</error><fix>॥६३०॥</fix>
<bold>अरणिः-</bold> घर्षणद्वाराग्निजनककाष्ठम् १ ऋच्छतीति २ ऋ अनिः
<bold>अरिः-</bold> स्वकृतापकारमनपेक्ष्य स्वभावकौर्येणापकर्ता ॥३६२॥
<bold>अर्थ:-</bold> ज्ञानविषयः १ एकैकेन्द्रियमात्रग्राह्यविशेषगुणः । २
अर्थ्यते प्रार्थते प्राणिभिरिति, यथा वित्तादिः ॥ ३६५ ॥
<bold>अर्थपुनरुक्तं -</bold> समानार्थकभिन्नानुपूर्वीकशब्दस्य निष्प्रयोजनं
पुनरभिधानम् , यथा घटः कलश इति ॥ ३६६ ॥
<bold>अर्थवादः -</bold> विध्य ( धोनप्रवृत्त्युत्तम्भकत्वम् १ )समभिव्याहृतवा-
क्यम् २ प्रकरणप्रतिपाद्यस्य प्रशंसनम्, यथा येनाश्रुतं श्रुतं
भवतीत्यद्वितीयवस्तुप्रशंसनम् ३ प्राशस्त्यनिन्दान्यतरपरं वाक्यं
<bold>अर्थाध्यासः-</bold> प्रमाणाजन्यज्ञानविषयत्वे सति पूर्वदृष्टसजा-
तीयाध्यासः, यथा शुक्तौ रजताभ्यासः । स्मर्यमाणगङ्गादावभि-
नवघटे चातिव्याप्तिनिरासाय प्रमाणेत्यादिपदद्वयम् <error>३७१</error><fix>॥३७१॥</fix>
<bold>अर्थाध्याहारः-</bold> आकाङ्क्षितार्थानुसन्धानम् ॥ ३७२ ॥
<bold>अर्थान्तरनिग्रहस्थानं-</bold> प्रकृतानुपयुक्तार्थकथनम् ॥ ३७३ ॥
<bold>अर्थापत्तिप्रमा-</bold> अन्यथानुपपन्नदर्शनादुपपादके बुद्धिः १
अनुपपद्यमानार्थज्ञानात्तदुपपादकीभूतार्थान्तरकल्पनम्, यथा</p>
<pb n="31" />
<p>दिवाऽभुजानस्य देवदत्तस्य रात्रिभोजनं विनानुपपद्यमान-
पीनत्वज्ञानात्तदुपपादकरात्रिभोजनकल्पनम् २ सम्पाद्यज्ञान-
प्रभवं सम्पादकज्ञानम् ३ अर्थस्य पदार्थविशेषस्य आपत्ति-
र्ज्ञानमिति तत्पुरुषसमासेनार्थापत्तिशब्दः प्रमापरः, अर्थस्या-
पत्तिर्यस्मादिति बहुव्रीहिणा प्रमाणपरः ॥ ३७७ ॥
<bold>अर्थापत्तिप्रमाणं-</bold> उपपादक (प्रमाकरणम् १ ) कल्पनाहेतुभूतो-
अर्थार्थी- अपूर्वैश्वर्यकामः                                                         [पपाद्यज्ञानं
<bold>अर्पणं -</bold> निवेशनम् १ स्वत्वत्यागानुकूलव्यापारो वा ॥ ३८२ ॥
<bold>अलङ्कारः-</bold> शब्दार्थयोः शोभाकारकः १ काव्यत्वाव्यापकत्वे सति
शब्दार्थगतसौन्दर्यातिरेकजनकरसाद्युपकारकशब्दार्थधर्मः ।
<bold>अलाभविजयः-</bold>अलाभेऽपि लाभवत्संतोष इति जैनाः <error>३८५</error><fix>॥३८५॥</fix>
<bold>अलीकत्वम्-</bold> ज्ञानाविषयत्वम् १ सर्वदेशकालनिष्ठात्यन्ताभाव-
प्रतियोगित्वे सति सत्तादात्म्यशून्यत्वमिति ग्रं० २ तादृशप्र-
तियोगिताविशिष्टत्वे सत्यप्रतीयमानत्वम् ॥ ३८८ ॥
<bold>अलोकाकाशः -</bold>लोकत्रयाद्बहिः यत्र केवलमाकाशद्रव्यं वर्तते
इत्यार्हताः ।                                                                  [धनताश्रयान्यः
<bold>अलौकिक:-</bold> विधिमन्तरा रागादिप्राप्तभिन्नः १ लोकावगतेष्टसा-
<bold>अल्पं-</bold>परिच्छिन्नम् १ यस्य वस्तुनः यावती इयत्ता उचिता ततो न्यूनं
<bold>अवकाशः-</bold> आवरणाभावः १अवस्थितियोग्यतासंपादकोऽवसरः
<bold>अवग्रहः -</bold> समस्तपदस्यावान्तरपदविच्छेदः ॥ ३९५ ॥
<bold>अवघातः -</bold> ताडनमात्रम् १ व्रीहिसंस्कारार्थव्यापाइति ग्रं०</p>
<pb n="32" />
<p><bold>अवच्छिन्नत्वं</bold> सङ्कुचितत्वम् * १ तत्तत्पदार्थ विशिष्टत्वम् <error>३९९</error><fix>॥३९९॥</fix>    <bold>अवच्छेदः -</bold> विशेषणोपाधिना विशेषकरणम् ॥ ४०० ॥
<bold>अवच्छेदकत्वं-</bold> अनतिरिक्तदेशवृत्तित्वम् १ अवच्छित्त्यन्यूनान-
तिरिक्त (वृत्तिर्धर्म: २ ) कालीनविशेष्यसंबन्धवत्त्वमिति ग्रं०
<bold>अवतरणत्वं-</bold> ग्रन्थप्रस्तावार्थं प्रथममुपोद्धातः १ वक्तव्यार्थविषयकजिज्ञासोत्थापकत्वम् ॥ ४०५ ॥
<bold>अवतरणिका-</bold> ग्रन्थप्रस्तावार्थं प्रथममुपोद्धातः १ वक्तव्यार्थविषयकजिज्ञासोत्थापकत्वम् ॥ ४०५ ॥
<bold>अवतारः-</bold> देवानामंशावेशवशेन प्रादुर्भावः १ उत्कृष्टावस्थात्या-
गित्वे सति निकृष्टावस्थाग्रहणमिति ग्रं० २ सर्वथाऽविलुप्तज्ञान-
क्रियाशक्तित्वे सति साक्षान्मायिकविलासवत्त्वमवतारत्वम् <error>४०८</error><fix>॥४०८॥</fix>
<bold>अवतारप्रयोजनं-</bold> स्वादृष्टारचितपूर्वकसाध्वसाधुसुखदुःखहेतुत्वं
<bold>अवधानत्वम्-</bold>विषयान्तरसञ्चाराभावत्वम् ॥ ४१० ॥
<bold>अवधारणं-</bold> एकाकारावगाहिज्ञानम् १ अन्ययोगव्यवच्छेदः <error>४१२</error><fix>॥४१२॥</fix>
<bold>अवधि:-</bold> अपादानभूतः ४१ स्वाभिधेयापेक्षया विभागाश्रयः ।
<bold>अवयवः -</bold> समुदायस्यांशरूपः १ अवच्छिन्नपरिमाणवान् * २
तृतीयलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकशाब्दज्ञानजनक-
वाक्यम् ३ साधनवत्ताप्रयुक्तसाध्यवत्तानुभावक इति ग्रं० ४
द्रव्यारम्भकद्रव्यत्वमवयवत्वम् ५ उपकरणमात्रत्वम् ॥ ४२० ॥
<bold>अवयवित्वं-</bold> अवयवजन्यद्रव्यत्वम् ।                             [वक्तव्यत्वं
<bold>अवसरसङ्गतिः-</bold> प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्त्यनन्तर-
<bold>अवसानं-</bold> स्वाभाविकार्धमात्राकालव्यवायेन वर्णोच्चारणाभावः।
<bold>अवस्था-</bold> कालादिकृतपरिणामान्तरदेहादेर्दशा १ आदन्तज-</p>
<pb n="33" />
<p>नानाच्छिशुत्वम् २ पञ्चवर्षान्तं कौमारम् ३ दशवर्षान्तं
बाल्यम् ४ आपञ्चदशाब्दात्कैशोरम् ५ षोडशाब्दात्परं
यौवनम् ६ षष्टिवर्षात्परं वृद्धत्वम् ।              [प्यत्रपठनीयं
<bold>अवस्थाज्ञानं-</bold> विषयचैतन्यावरकमज्ञानम्१ 'तूलाविद्या'लक्षणम-
<bold>अवान्तरत्वं</bold> व्याप्यत्वम् १ प्रधानान्तःपातित्वम् ॥ ४३३ ॥
<bold>अवान्तर तात्पर्य -</bold> मुख्यतात्पर्यविषयसिद्धावुपायभूतार्थे तात्पर्य
<bold>अवान्तरप्रकरणं-</bold>अङ्गभावनासम्बन्धिप्रकरणम् ॥ ४३५ ॥</p>
<lg>
  <l><bold>अवान्तरप्रलयः-</bold> 'नैमित्तिकप्रलय' वदस्य लक्षणमनुसंधेयम् ।</l>
  <l><bold>अवान्तरवाक्यं-</bold> तत्त्वंपदार्थान्यतरबोधवाक्यम् ॥ ४३७ ॥</l>
</lg>
<lg>
  <l><bold>अवाप्तिः -</bold> संयोगविशेषः १ स्वाधीनोच्चारणक्षम (= योग्य ) त्वम्</l>
  <l><bold>अविगीतत्वं-</bold> वेदानिषिद्धत्वम् १ बलवदनिष्टाननुबन्धित्व वा ।</l>
  <l><bold>अविद्या</bold> स्वाश्रयव्यामोह (हेतुः १)करी* २ रजस्तमोऽभिभूत-</l>
  <l>मलिनसत्त्वप्रधाना * ३ असत्प्रकाशनशक्तिः ॥ ४४४ ॥</l>
</lg>
<p><bold>अविद्यावृत्तिः-</bold> साक्षादविद्योपादाना वृत्तिः ॥ ४४५ ॥
<bold>अविनाभावः-</bold> व्याप्यनिष्टव्यापकनिरूपितधर्मः ॥ ४४६ ॥
<bold>अवीतानुमानं-</bold>निषेधमुखेन प्रवर्त्तमानं सन्निषेधकम् ॥ ४४७ ॥
<bold>अव्यभिचारित्वं-</bold> साध्यवदन्यावृत्तित्वम् १ साधनसमानाधि-
करणात्यन्ताभावाप्रतियोगित्वमिति ग्रं० ॥ ४४९ ॥
<bold>अव्ययः -</bold> आद्यन्तशून्यः १ न विद्यते व्ययो विनाशो धर्मतः स्व-
रूपतोऽवयवतो यस्य सः ।                                                      [कसमासः
<bold>अव्ययीभावसमासः -</bold> नियमतः पूर्वपदार्थविशेष्यकबोधजन-</p>
<pb n="34" />
<p><bold>अव्यवहितत्वं-</bold> साक्षात्संबन्धः १व्यवधानाभाववत्त्वम्॥ ४५४॥
<bold>अव्याप्तिः -</bold> लक्ष्यैकदेशावृत्तित्वम्, यथा गोः कपिलत्वं लक्षणं
श्वेतगवादौ लक्ष्यैकदेशेऽवृत्ति १ लक्ष्यतावच्छेदकसमानाधिक-
रणात्यन्ताभावप्रतियोगित्वम् ॥ ४५६ ॥
<bold>अव्याप्यः -</bold> व्याप्तिशून्यः १ व्याप्याभाववद्वृत्तिर्वा ॥ ४५८ ॥
<bold>अव्याप्यवृत्तित्वं-</bold> स्वात्यन्ताभावसमानाधिकरणत्वम् १स्वाधि-
करणनिष्ठात्यन्ताभावप्रतियोगित्वमिति ग्रं० ॥ ४६० ॥
<bold>अव्युत्पन्नत्वं-</bold> सिद्धिशून्यत्वम् * १ पदज्ञानरहितत्वम् ॥ ४६२॥
<bold>अशुचित्वं -</bold> वैदिककर्मानर्हत्वप्रयोजको धर्मविशेषः ॥४६३॥
<bold>अशुद्धः -</bold> निषिद्धानुष्ठाता * १ व्याकरणादिलक्षणाननुसारी ।
<bold>अशुद्धि: -</bold> कर्तृद्रव्यादेः स्पर्शनाद्यनर्हतापादको दोषविशेषः ।
<bold>अशुभवासना-</bold> निषिद्धनिषिद्धसमविद्याकर्मतत्संस्कारतत्फलसं-
स्काररूपा । <bold>निषिद्धा विद्या</bold> स्त्रीचिन्तनादिरूपा, <bold>निषिद्ध-</bold>
<bold>समा</bold> यदृच्छयाकाकविडालाद्यवेक्षणात्मिका, <bold>निषिद्धं कर्म</bold>
पलाण्डुभक्षणादि,<bold>निषिद्धसमं</bold> तृणच्छेदनादि, एतेषां चतुर्णां सं-
स्कारास्तथैतेषां ततोपि पूर्वजन्मकृतानां यानि जन्मान्तरे फलानि
नरकाद्याप्तिरूपाणि तेषां च संस्कारा इत्यशुभवासनोदाहरणानि
<bold>अशेषः -</bold> शेषहीनः १ विधेयशून्यावृत्च्युद्देश्यतावच्छेदकः ॥४६९ ॥
<bold>अशौचं-</bold> शरीरमनसोर्मालिन्यम् १ विहितकर्मानधिकारित्वसंपादकं
<bold>अश्रद्धा-</bold> गुरुशास्त्रोपदिष्टेऽर्थे इदमेवं न भवत्येवेति विपर्ययबुद्धिः</p>
<pb n="35" />
<p><bold>असत्ख्यातिः-</bold> असत (शून्यस्य) एवाध्यस्तपदार्थाकारेण भानं
<bold>असत्यत्वं-</bold> प्रागभावप्रतियोगित्वम्१वस्तुस्वभावविरोधिधर्मः ।
<bold>असत्वं-</bold> सर्वदेशकालसंबन्धिनिषेधप्रतियोगित्वम् १ सद्वैलचण्ये
सत्यपरोक्षप्रतीत्यविषयत्वमिति ग्रं० २ सत्तास्फूर्तिशून्यत्वम् ।
<bold>असदावरणं-</bold>(कूटस्थः) नास्तीत्यसत्त्वप्रयोजकीभूतमावरणम् ।
<bold>असदुत्तरम्-</bold> दुष्टमुत्तरम् १ उत्तरव्याघातकमुत्तरमिति ग्रं०
<bold>असभ्यः -</bold> सभायामनुपयुक्तः ॥ ४८३ ॥
<bold>असमवायिकारणं-</bold>कार्यकारणभावसंबन्ध्येकाथसमवेतकारणं
<bold>असंबद्धः -</bold> संबन्धरहितः १ परस्परम (न्वयाभावः २) नन्वितः ।
<bold>असंभवः-</bold>अनुपपन्नः*१लक्ष्यमात्रा(वर्तनम्२ ) वृत्तित्वम्, यथा
गोरेकशफवत्त्वलक्षणं लक्ष्यगोमात्रावृत्ति, गोर्द्विशफवत्त्वात् ३
लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वम् ॥ ४९१ ॥
<bold>असम्भावना-</bold> बलवन्निषेधकोटिकः संशयः ॥ ४९२ ॥
<bold>असाधारणकारणत्वं-</bold> कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यता-
निरूपितकारणताशालित्वम् १ कार्यतावच्छेदकावच्छिन्नकार्या-
नुत्पादकत्वे सति कार्यविशेषोत्पादकत्वमिति ग्रं० ॥ ४९४ ॥
<bold>असाधारणधर्मत्वम् -</bold> तद्वृत्तित्वे सति तदितरावृत्तित्वम् १
लक्ष्यतावच्छेदक (समनियतत्वम् २) व्यापकत्वे सति लक्ष्यता-
वच्छेदकव्याप्यत्वम् । अव्याप्त्यसंभवग्रस्तयोर्वारणाय सत्यन्तम्,
अतिव्याप्तस्य वारणाय विशेष्यम् ॥ ४९७ ॥</p>
<pb n="36" />
<p><bold>असूया-</bold>गुणेषु दोषाविष्करणम् १परकीयगुणेषु दोषारोप इति ग्रं०
<bold>असंसक्तिज्ञानभूमिका-</bold>सविकल्पकसमाध्यभ्यासेन निरुद्धे
मनसि निर्विकल्पकसमाध्यवस्था ॥ ५०० ॥
<bold>अस्तित्वम्-</bold> सत्तावत्वम् १ कालसम्बन्धित्वं वा ॥ ५०२ ॥
<bold>अस्तेयं-</bold> परस्वानपहरणम् १ अदत्तादानरूपपरस्वहरणराहित्यं
<bold>अस्त्रं -</bold> रिपुकर्तृकप्रहारसाधनम् १ मन्त्राभिमन्त्रितत्वमस्त्रत्वम् ।
<bold>अस्पष्टब्रह्मलिङ्गकत्वं-</bold>संभाव्यमानस्वारस्यजीवलिङ्गाभिभूत-
ब्रह्मलिङ्गकत्वम्, यथा सर्वत्र प्रसिद्धाधिकरणे जीवे विषये स्वरसानि
मनोमयत्वादीनि सत्यकामत्वादिब्रह्मलिङ्गान्यभिभवन्तीति ।
<bold>अस्मिता-</bold>बुद्ध्यादावभेदाभिमानः १ अहङ्कार (स्य सूक्ष्मा-
वस्था २) धर्म्यध्यासः ३ सामान्याहङ्कारत्वमस्मितात्वम् <error>५११</error><fix>॥५११॥</fix>
<bold>अहङ्कारः-</bold> अभिमानात्मिकान्तःकरणवृत्तिः १ अह (मितिक्रिय-
तेऽनेनेति २) मुत्कृष्टेत्याकारकसंस्कारः ॥ ५१४ ॥
<bold>अहङ्ग्रहोपासना-</bold>उपास्यस्वरूपस्य स्वाभेदेन चिन्तनम्<error>५१५</error><fix>॥५१५॥</fix>
<bold>अहिंसा-</bold>वाङ्भनः कायैः सर्वभूतानामनभिद्रोहः १ प्राणवियोगप्र-
योजकव्यापारराहित्यमिति ग्रं० २ अशास्त्रीयप्राणिपीडनाभावः
<bold>*आ*</bold>
<bold>आकाङ्क्षा-</bold> वाक्यसमयग्राहिका १ अन्वयानुपपत्तिरिति ग्रं० २
येन पदेन विना यस्य पदस्यान्वयबोधाजनकत्वं तेन तस्य
समभिव्याहारः, यथा द्वारमित्यनेन पिधेहीत्यादेः ३ तादृश-</p>
<pb n="37" />
<p>शाब्दबाँधे तादृशशाब्दबोधाभावः ४ अन्वयबोधसमर्थत्वे
सत्यजनिततात्पर्यविषयान्वयबोधकत्वमाकाङ्क्षात्वम् ॥५२२॥
<bold>आकारमौनम्-</bold>अवचनमात्रमौनम् ॥ ५२३ ॥
<bold>आकाशं -</bold> आवरण (भावाधिकरणम् १)विरोध्यवकाशः २ शब्द-
(समवायिकारणम् ३) गुणकम् । असभववारणाय शब्दगुणोभयम्</p>
<lg>
  <l>४संयोगाजन्यजन्यविशेषगुणसमानाधिकरण विशेषाधिकरणम् ।</l>
  <l><bold>आकृतिः -</bold>अवयवसं ( निवेशविशेषः १) स्थानविशेषः ॥५३०॥</l>
</lg>
<p><bold>आक्षेपः-</bold>प्रतिषेधपुरःसरोक्तिः १ समानवित्तिवेद्यत्वम् <error>५३२</error><fix>॥५३२॥</fix>
<bold>आख्यातत्वं-</bold>सुब्भिन्नत्वे सति सङ्ख्याबोधकप्रत्ययत्वम् <error>५३३</error><fix>॥५३३॥</fix>
<bold>आख्यानम्-</bold>पूर्ववृत्तकथनम् १ स्वयं दृष्टार्थकथनं वा ॥५३५॥
<bold>आख्यायक:-</bold> परोक्तस्यान्यत्र कथकः ॥ ५३६ ॥
<bold>आख्यायिका-</bold>कथाविशेषः १ उपलब्धार्थबोधिकेति ग्रं०
<bold>आगम:-</bold> अवयवत्वावच्छिन्नविधेयताश्रयः * १ समयबलेन
सम्यक्परोक्षानुभवसाधनम् २ संदिग्धार्थसिद्धिहेतुरिति ग्रं० ३
आगतं शिववक्त्रेभ्यो गतं च गिरिजाश्रुतौ, मतं च
वासुदेवस्य तस्मादागममुच्यते ॥ ५४२ ॥
<bold>आगमनं-</bold> प्रयोक्तृसन्निकृष्टप्रदेशानुयोगिकसंयोगानुकूलव्यापारः
<bold>आग्रहः-</bold>विरुद्धार्थविषयकोऽभिनिवेशः १ दुष्टादुष्टविषयकोऽ०
<bold>आचार:-</bold> समयानुकूलव्यापारः १धर्माविरुद्धशारीरिकव्यापारो वा
<bold>आचार्य :-</bold> मतप्रस्थापकः १ मन्त्रव्याख्याकृद्वा २ आचितोति
Ne</p>
<pb n="38" />
<p>च शास्त्रार्थमाचारे स्थापयत्यपि, स्वयमप्याचरेद्यस्तु स</p>
<lg>
  <l>आचार्य इति स्मृतः ३ स त्रिविधः - चोद[^१]को दर्शयेन्मार्ग</l>
  <l>बोध[^२]कः स्थानमाचरेत्, मोक्ष[^३]दस्तु परं तत्त्वं यज्ज्ञात्वा परमश्नुते ।</l>
  <l><bold>आज्ञा-</bold> निकृष्टस्य भृत्यादेः कृत्यादौ प्रवृत्त्यर्थव्यापारा: १</l>
  <l>वक्रनुमतत्वे सति कर्तुरनिष्टहेतुत्वमाज्ञात्वम् ॥ ५५३ ॥</l>
</lg>
<p><bold>अज्ञाकारी-</bold> आज्ञानुसारेण कर्मकर्ता ॥ ५५४ ॥</p>
<lg>
  <l><bold>आज्ञाभङ्गः-</bold> आदेशान्यथाकरणम् १ स्वविषयेषु प्रचाराभावः ।</l>
</lg>
<lg>
  <l><bold>आडम्बरः-</bold> परवञ्चनार्थकृत्रिमबहुविधचेष्टितम् ॥ ५५७ ॥</l>
  <l><bold>आत्मख्यातिः -</bold> विज्ञानात्मन एवाध्यस्तपदार्थाकारेण भानम् ।</l>
  <l><bold>आत्मघाती-</bold> व्यापादयेद्वृथात्मानं स्वयं योग्नयुदकादिभिः,</l>
  <l>अवैधेनैव मार्गेण आत्मघाती स उच्यते ॥ ५५९ ॥</l>
</lg>
<p><bold>आत्मज्ञानं-</bold> प्रत्यगात्मनि देहाद्यतिरिक्तत्वप्रकारको देहादौ वा
प्रत्यगात्मातिरिक्तत्वप्रकारको निश्चयः ।                                           [हेतुर्मदः
<bold>आत्ममदः -</bold> अहङ्कारभरितस्य विद्यादिभिर्मम समः को वेतिप्रज्ञा-
<bold>आत्मा -</bold> चैतन्याश्रयः १ अमूर्तसमवेतद्रव्यत्वापरजातिमानिति
नै० २ सर्वदेहेषु पूर्ण: ३ अहंप्रत्ययविषयः ४ स्वयंप्रतीतिविषय-
त्वमात्मत्वम् ५ परमप्रेमास्पदत्वमिति वै ० ६ यच्चाप्नोति यदादत्ते
यञ्चात्तिविषयानिह यच्चास्य संततो भावस्तस्मादात्मेति कथ्यते
<bold>आत्माश्रयः-</bold> स्वग्रहसापेक्षग्रहकः १ स्वापेक्षापादक प्रसङ्गः, यथा
"</p>
<pb n="39" />
<p>ज्वरोपसर्गयुक्ते रोगो ज्वर इत्युक्तौ ज्वराज्ञानवन्तमुद्दिश्य ज्वरे
लक्षणीये ज्वरज्ञानापेक्षायां तदभावात्कथं ज्वरोपसर्गज्ञानं
संभविष्यति २ स्वस्याव्यवहितस्वापेक्षित्वम् ॥ ५६९ ॥
<bold>आत्यन्तिकदुःखनिवृत्तिः-</bold> स्वाधिकरणदुःखप्रागभावासमा
नाधिकरणा दुःखनिवृत्तिः १ यादृश्या दुःखनिवृत्तेरुत्तरं पुन-
र्दुःखान्तरं नोत्पद्यते तादृशी दुःखनिवृत्तिरिति ग्रं० ॥ ५७० ॥
<bold>आत्यन्तिकप्रलयः -</bold> ब्रह्मसाक्षात्कारनिमित्तकः सर्वमोक्षः १
अज्ञानसहितसकलभावकार्योच्छेदः ।                               [प्रथमं दीयते गृह्यते
<bold>आदिः-</bold> समुदायविशिष्टः १ परस्मिन्सति यस्मात्पूर्वोनास्ति सः २आ-
<bold>आदेश:-</bold> शासनम् १ स्थान्यर्थाभिधानसमर्थः ॥ ५७७ ॥
<bold>आधारः -</bold> अधिकरणम् १पतनप्रतिबन्धकः * २ शवले संसृष्टतया-
ध्यस्तोऽधिष्टानांश: ३ अध्यस्तेन सहाभिन्नप्रतीतिविषयः <error>५८१</error><fix>॥५८१॥</fix>
<bold>आधिदैविकतापः-</bold>देवान् यक्षादीन् दिवःप्रभवान् वातवर्षा-
तपशीतोष्णादीन् वाऽधिकृत्य जायमानस्तापः ॥ ५८२ ॥
<bold>आधिभौतिकदुःखम्-</bold>भूतानि जरायुजाण्डजस्वेदजोद्भिज्ज-
रूपाणि शौरवैरिकुक्कुरसिंहव्याघ्रमहिषपक्षिसर्पयूकादंशमशक-
वृश्चिकनक्रमकरवृक्षशिलाप्रभृतीनि चराचरजातीयानि अधि-
कृत्य = निमित्तीकृत्य जायमानं दुःखम् ॥ ५८३ ॥
<bold>आध्यात्मिकतापः-</bold> शरीरमनसी अधिकृत्य जायमानस्तापः ।
<bold>आनन्दः-</bold>दुःखाभावः*१ सात्त्विकैकाग्रवुद्धिप्रतिबिम्बितः सुख-</p>
<pb n="40" />
<p>रूप आत्मा २ निरुक्तात्मप्रतिबिम्बिता वृत्तिर्वा ३ निरुपाधिकेष्टत्व
<bold>आनन्दमयकोशः-</bold> सुखाकारवृत्तिमदन्तःकरणमज्ञानपर्यन्तम् १
आनन्दप्रचु (रः कोशः २ ) रत्वे सति कोशवत्प्रत्यच्केतनाच्छादकः
<bold>आनुपूर्वी-</bold>तदुत्तरत्वविशिष्टतदुत्तरत्वादि २ तदुच्चारणानन्त-
रोच्चारणविषयत्वम् ॥ ५९४ ॥
<bold>आनुषङ्गिकं-</bold> उद्देश्यान्तरप्रवृत्तस्य तत्कर्मनान्तरीयकतया प्राप्तम्
<bold>आपत्तिः-</bold> सम्यग्वर्त्तनोपायानुपलम्भः ॥ ५९६ ॥
<bold>आपातत्वं-</bold>संशयादिग्रस्तत्वम् १ अविचारितवाक्यजन्यत्वं वा ।
<bold>आपातज्ञानं-</bold>अज्ञाननिवृत्तावसमर्थ ज्ञानम् १ अप्रामाण्यशङ्कास्पदज्ञानं
<bold>आतत्वं-</bold> प्रयोगहेतुभूतयथार्थज्ञानवत्त्वम् १ लोकवेदसाधारणं
प्रतारणाद्यजन्यहिताहितोपदेशकर्तृत्वे सति तद्भिन्नोपदेशाकर्तृ-
त्वमिति ग्रं० २ रागादिरहितत्वे सति सकलवस्तुविषयकानुभव-
<bold>आम्नायः-</bold>गुरुपरम्परागतोपदेशः । [प्रयोज्यनिश्चयवत्त्वं
<bold>आयु:-</bold> जीवितावच्छिन्नः कालः ॥ ६०५ ॥
<bold>आयुर्वेदः -</bold> आयुर्हिताहितं व्याघेर्निदानं शमनं तथा,
विद्यते यत्र विद्वद्भिः स आयुर्वेद उच्यते ॥ ६०६ ॥
<bold>आरम्भः -</bold> आद्यप्रवृत्तिः १ प्राथमिकव्यापारोपक्रम इति ग्रं
आरम्भकं समवायिकारणम् १ अनेककारणसंयोगवत्त्वे सति का-
<bold>आरम्भकार्य-</bold> स्वभिन्नत्वे सति समवेतम् ।              [र्यजनकं
<bold>आरादुपकार्यङ्गं-</bold> 'फलोपकार्यङ्ग' वदस्य लक्षणमनुसंधेयम् ।</p>
<pb n="41" />
<p><bold>आराधनं -</bold> गुर्वादेरनुकूलाचरणम् १ गौरवितनिष्ठप्रीतिहेतु-
क्रिया २ गौरवप्रयुक्तप्रीत्यवच्छिन्नक्रियेति ग्रं० ॥ ६१२ ॥
<bold>आरोपः -</bold>अतद्वति तत्प्रकारकज्ञानम् ॥ ६१३ ॥
<bold>आर्तः-</bold>पीडितः १ नष्टेष्टवस्त्वेच्छु: २ भ्रष्टैश्वर्यकाम इति ग्रं०
<bold>आर्थीभावना-</bold>प्रयोजनेच्छाजनितक्रियाविषयव्यापारः <error>६१६</error><fix>॥६१६॥</fix>
<bold>आर्यः -</bold> सर्वोत्तमः १ श्रेष्ठकुलोत्पन्नो वां २ वेदोक्तप्राचीनजातिवि-
`शेषः ३कर्तव्यकारकत्वे सत्यकर्तव्याकारकत्वे सति प्रकृताचारवच्चं
<bold>आर्यावर्त्तः-</bold> सर्वोत्तमदेशः १ विन्ध्यहिमाचलयोर्मध्यदेशः <error>६२२</error><fix>॥६२२॥</fix>
<bold>आलयविज्ञानं-</bold>कर्मानुभववासनालयाधिकरणं विज्ञानंम् १
आलयं लयपर्यन्तं स्थायि विज्ञानम् ॥ ६२३ ॥
<bold>आलस्यं-</bold> प्रयत्नेन कर्तव्ये कार्ये श्रद्धावैधुर्येणोत्साहाभावः <error>६२४</error><fix>॥६२४॥</fix></p>
<lg>
  <l><bold>आलापन-</bold> परस्पर (सम्भाषणम् १) कथोपकथनम् ॥६२६ ॥</l>
  <l><bold>आलिङ्गनं-</bold> अङ्गेनाङ्गसंयोजनम् १ प्रीतिपूर्वकपरस्पराश्लेषो वा ।</l>
  <l><bold>आवरणं-</bold> प्राप्तप्रतिषेधः १ अस्ति प्रकाशते इति व्यवहारयोग्ये</l>
  <l>नाम्ति न प्रकाशते इति व्यवहारः ॥ ६३० ॥</l>
</lg>
<p><bold>आवरणशक्तिः -</bold> मानसिकाविद्या १ स्वाश्रयात्माद्यावरणानुकू-
लमज्ञाननिष्ठं सामर्थ्यम् ।                                                  [पुनरनुसंधानं
<bold>आवृत्तिः-</bold> भूय एकजातीयक्रियाकरणम् १ स्वस्थानस्थितस्य
<bold>आशा-</bold> दीर्घाकाङ्क्षा १ इदं कृत्वेदं करिष्यामीति सङ्कल्पविकल्पप्र-
वाहानुपरमः ।                                                              [वा वाञ्छितार्थप्रार्थनं
<bold>आशीर्वादमङ्गलं-</bold>आशीर्वचनम् १परमेश्वरात्स्वस्य स्वशिष्यस्य</p>
<pb n="42" />
<p><bold>आश्रयासिद्धत्वं-</bold>पक्षतावच्छेदकाभाववत्पक्षकत्वम् व॥६३९॥
<bold>आसक्तिः -</bold> विषयान्तरपरिहारेणैकविषयावलम्बनम् ॥६४०॥
<bold>आसत्तिः -</bold> यत्पदार्थेन सह यत्पदार्थस्यान्वयोपेक्षितस्तयोः पद-
योरव्यवधानम्१ शक्तिलक्षणान्यतरसंबन्धेनाव्यवधानेन पदज-
न्यपदार्थोपस्थितिः । प्रमाणान्तरजन्यपदार्थोपस्थितिवारणाय
<bold>आसनफलं-</bold>द्वन्द्वानभिघातः ।                       [पदजन्येति
<bold>आसनं -</bold> स्थिरसुखम् १ सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्त-
नम्, आसनं तद्विजानीयादन्यत्सुखविनाशनम्  ॥६४५॥
<bold>आसनोपायः</bold> प्रयत्नशैथिल्यम् १ अनन्तसमापत्तिर्वा ॥६४७ ॥
<bold>आस्तिकत्वं-</bold>परलोकसत्ताविषयकाबाधितज्ञानवत्त्वम् १ शा-
स्त्राद्युक्तविषयविषयकविश्वासवत्त्वमिति ग्रं० ॥ ६४९॥
<bold>आहार्यज्ञानं-</bold>बाधकालीनेच्छाजन्यं ज्ञानम् यथा माणवके
प्रेम्णा चिन्तामणिबुद्धिः ॥ ६५० ॥
<bold>आहुतिः -</bold> देवोद्देशेन मन्त्रेणाग्नौ हविःप्रक्षेपः ॥ ६५१ ॥
<bold>*इ*</bold>                            [शेषः
<bold>इङ्गितं-</bold> मनोभिप्रायसूचकभ्रूक्षेपकटाक्षवीक्षणादिरूपकायचेष्टावि-
<bold>इच्छा-</bold> इयं मे स्यादित्याशाविशेषः १इष्टसाधनताज्ञानजन्योभि
लाष इति ग्रं० २ इच्छामीत्यनुभवविषयवृत्तिगुणत्वव्याप्यजाति-
मती ३ यत्नसंस्कारभिन्नत्वे सति संबन्धानवच्छिन्नप्रकारताकत्वं
<bold>इडानाडी-</bold>वामनासिकास्था ( चन्द्र ) नाडी ॥ ६५८ ॥</p>
<pb n="43" />
<p><bold>इतिकर्तव्यता-</bold> कर्तव्यप्रकारः * १ कथम्भावाकाङ्क्षापूरकः ।
<bold>इतिहासः-</bold> पुरावृत्तप्रकाशको ग्रन्थविशेषः२ धर्मार्थकाममोक्षा-
णामुपदेशसमन्वितम्, पूर्ववृत्तकथायुक्तमितिहासं प्रचक्षते <error>६६२</error><fix>॥६६२॥</fix>
<bold>इदन्ता -</bold> सन्निकृष्टवाचित्वम् ॐ १ प्रत्यक्षबुद्धिविषयत्वम् ॥ ६६४ ॥
<bold>इन्द्रजालं-</bold> प्रत्यक्षतो मिथ्यार्थप्रदर्शनम् १ मन्त्रौषधादिनाद्भुत-
वस्तुदर्शकव्यापार इति ग्रं० ॥ ६६६ ॥
<bold>इन्द्रियं-</bold> सुखदुःखानुकूलसाक्षात्कारप्रमितिक्रियान्यतरकरणम-
तीन्द्रियम् । आलोकादावतिव्याप्तिवारणायातीन्द्रियमिति,
धर्मादावतिव्याप्तिवारणायाद्यविशेषणम्, अनुमित्यादिकरणेति-
व्याप्तिवारणाय साक्षादिति १ शब्दे[^१]तरोद्भूतविशेषगुणानाश्र-
यत्वे सति ज्ञानकारणमनःसंयोगाश्रयः । आत्मन्यतिव्याप्तिवा-
रणाय सत्यन्तम्, कालादावतिव्याप्तिवारणाय विशेष्यम् <error>६७०</error><fix>॥६७०॥</fix>
<bold>इष्टं-</bold> इच्छाविषयः *१ धर्मज्ञापकम् २ पूजनयोग्यत्वम् ॥६७४ ॥
<bold>ईर्ष्या-</bold> अनिष्टानुपेक्षणम् १ परसम्पदुत्कर्षासहिष्णुतेति ग्रं० २
विरोधि धर्मारोपानुकूलव्यापारजनकश्चित्तवृत्तिविशेषः ॥ ६७६॥
<bold>ईश्वरः -</bold> नित्यज्ञानाधिकरणमिति नै० १ क्लेशकर्मविपाकाशयै-
रपरामृष्टः पुरुषविशेष: २ त्रैकालिकबन्धशून्यः । बन्धशून्य-
मात्रोक्तौ मुक्तप्रकृतिलयेष्वतिव्याप्तिरिति त्रैकालिकत्वं बन्ध-
[^१शब्देतरे ये उद्भूतविशेषगुणाः घटनिष्ठरूपादयस्तदनाश्रयत्वं ज्ञा-
नस्य कारणभूतो या मनःसंयोगस्तदाश्रयत्वञ्च चक्षुरादावस्तीत्यर्थः ।]</p>
<pb n="44" />
<p>विशेषणं तथा च मुक्तेषु भूतबन्धस्य प्रकृतिलयेषु च भावि-
बन्धस्य सत्त्वान्न तत्रातिव्याप्तिरीश्वरस्य तु त्रैकालिकबन्ध-
शून्यादिति गोगमञ्जर्याम् ३ कर्तुमकर्तुमन्यथा वा कर्तुं समर्थः४
जगदुत्पत्तिस्थितिसंहारकर्तेति ग्रं०५ माया (विशिष्टचैतन्यम्६)
प्रतिबिम्बितं चैतन्यम् ७ चैतन्यमित्येकसत्तावादे ८ समष्टिकार
शरीरोपहितं चैतन्यमिति वै०९ ब्रह्मणस्तटस्थलक्षणमप्यत्र ०
<bold>ईश्वरसाक्षी-</bold>मायातद्वृत्त्यन्यतरोपहितं चैतन्यम् ॥ ६८७ ॥
<bold>ईश्वरप्रणिधानं-</bold> सर्वकर्मणां भगवत्यर्पणम् १ भगवद्भक्तिर्वा ।
<bold>ईश्वराश्रयप्रमा-</bold> ईक्षणापरपर्यायस्रष्टव्यविषयाकारमायावृत्तिप्र-
उ.                              [तिबिम्बिता चित्
<bold>उच्चारणं-</bold>कण्ठताल्वाद्यभिघातेन शब्दजनकव्यापारः॥६९१॥
<bold>उत्तरत्वं-</bold> दोषभञ्जनत्वम् १ परपक्षप्रतिषेधत्वं वा २ जिज्ञासि-
तविषयावेदकत्वम् ३ प्रश्ननिवर्तकत्वमिति ग्रं० ४ सिद्धान्ता-
नुकूलतर्कोपन्यासत्वम् + ५ क्रियाजन्यसंयोगानुयोगित्वम् ६
मेरुसन्निहित देशावच्छिन्नत्वम् ॥ ६९८ ॥
<bold>उत्तरमीमांसा-</bold>वेदान्तानां ब्रह्मणि तात्पर्यनिर्णायिका मीमांसा
<bold>उत्तेजकत्वं-</bold> प्रोत्साहकत्वम् ३१ शक्त्यनुकूलत्वम् २ प्रतिबन्ध (के
विद्यमाने सति कार्यजनकत्वम् ३) ककोटिप्रविष्टाभावप्रतियोगि-
त्वमिति ग्रं० ४ कार (णाभावातिरिक्तकार्याभावप्रयोजकाभाव-
प्र० ५) णीभूताभावप्रतियोगितावच्छेदकीभूताभावप्र० <error>॥७०५</error><fix>॥७०५॥</fix>
<bold>उत्पत्तिः-</bold> उत्तरक्षणसंबन्धः १ कार्यस्याद्यक्षणसत्तासंबन्धो वा २</p>
<pb n="45" />
<p>स्वकारणसंसर्गः ३ स्वाधिकरण (समयध्वंसानधिकरणसमयसं-
बन्ध: ४) क्षणावृत्तिप्रागभावप्रतियोगिक्षणसंबन्ध इति ग्रं० ५
प्राथमिक प्रतीतिविषयप्रवृत्तिसाधनम् ॥ ७११ ॥
<bold>उत्पत्तिविधिः-</bold>कर्मस्वरूपमात्रबोधको विधिः ॥ ७१२ ॥
<bold>उत्पातः-</bold> प्राणिनां शुभाशुभसूचको भूतविकारः ॥ ७१३ ॥
<bold>उत्सर्गः -</bold> सामान्य (नियमः १) विधानम्, यथा यत्र यत्र चैतन्यं
तत्र तत्र कर्तृत्वमिति सम्भावना २ भूयोदर्शनम् ॥ ७१६ ॥
<bold> उत्सर्जनं-</bold>  स्वानुयोगिकप्राप्तवस्तुप्रतियोगिक संबन्धविर (हानुकूलो
<bold> उत्सवः-</bold> आनन्दजनकव्यापारः ।                      [व्यापारः १) हेच्छा
<bold> उत्साहः -</bold>  अन्यैरशक्यतयाऽववृतेप्यवश्यकर्तव्यता बुद्धिः ७१९
<bold> उत्साहव्यसतं-</bold>  नृत्यगीतादिदर्शनेच्छाहेतुर्व्यसनम् ॥७२०॥
<bold> उदासीनः-</bold>  रागद्वेषशून्यः* १ पक्षपातरहितः २विवदमानयो(रु.
भयोरप्युपेक्षकः ३) रेकतरपक्षानवलम्बक इति ग्रं० ॥ ७२४ ॥
<bold> उदाहरणं-</bold> साध्यसाधनव्याप्तिप्रदर्शकम् १ व्याप्तिप्रतिपादक-
ष्टान्तवचनं वा २ इतरार्थान्वितस्वार्थबोधकन्यायावयवः ३ ३
कस्यचिद्विषयस्य सप्रमाणत्वस्थापनार्थं तादृशविषयान्तरोल्लेखनं
<bold> उद्देश:-</bold>  गुणैः प्रापणम् ३ १ नाममात्रेण वस्तुसङ्कीर्तनम् २
:
वस्तुप्रतिपादकनाममात्रमिति ग्रं० ३ सङ्क्षेपकथनम् ॥७३२॥
<bold> उद्देश्यत्वं-</bold>  इच्छाविषयत्वम् १ प्रवृत्तिनिमित्तत्वम् २ विधेय (न्व-
यित्वम् ३) तानिरूपकत्वमिति नै० ४ मानान्तरप्राप्तत्वमिति
मी० ४ सिद्धप्रमितिविशिष्टतयासिद्धत्वम् ॥ ७३७ ॥</p>
<pb n="46" />
<p><bold>उद्बोधकत्वं-</bold> स्मृतिप्रयोजकत्वम् * १ उद्दीपकत्वम् ॥ ७३९ ॥
<bold>उद्भूतत्वं-</bold> रूपादिविशेषगुणगतो धर्मविशेषः १ प्रकटीभूतत्वम् ।
<bold>उन्नतिः</bold> समृद्धिः* १पराक्रमदानादि (जन्यं यशः २ ) स्मृतिजन्यो-
<bold>उपकरणं-</bold> प्रधानसाधकम् १ उपक्रियतेऽनेनेति ।             [त्साहः
<bold>उपकारः -</bold> सहकारि (लाभ: १)कारणजन्यः सामर्थ्यविशेष: <error>७४८</error><fix>॥७४८॥</fix>
<bold>उपकुर्वाणब्रह्मचारी -</bold> सावधिब्रह्मचर्यवान् १ विवक्ष्यन् (= वि-
वाहं करिष्यमाणः ) गृहीतब्रह्मचर्यव्रतः ॥ ७४९ ॥
<bold>उपक्रमः-<bold> उपायज्ञानपूर्वकारम्भः * १ तात्पर्यनिर्णायको हेतुविशेषः
<bold>उपक्रमोपसंहारलिङ्गं</bold> प्रकरणप्रतिपाद्यस्याद्यन्तयोः प्रतिपा-
दनम्, यथा सदेवसौम्येदमग्र आसीदिति ॥ ७५० ॥
<bold>उपचारः -</bold> शक्यार्थत्यागेनान्यार्थबोधनम् १ अनियतसंबन्धेना.
न्यत्र वृत्तिः, यथा 'मञ्चाः क्रोशन्ती'त्यादौ पुरुषैः समं मञ्चसंब-
न्धोऽनियतः २ परसंतोषार्थ (वचनम् ३) न्यार्थकथनम्<error> ७५३</error><fix>॥७५३॥</fix>
<bold>उपजीवकत्वं-</bold> जीवनोपायत्वम् * १ इतरालम्बकत्वम् २ पर-
म्परया साक्षाद्वा कार्यत्वमिति मणिप्रभायाम् ३ उपजीवति
कारणाश्रितं भवतीति व्युत्पत्त्योपजीवकशब्दः कार्यपरः <error>७५७</error><fix>॥७५७॥</fix>
<bold>उपजीव्यत्वं-</bold> परम्परया साक्षाद्वा जनकत्वम् १ उपजीव्यते का-
र्येणाश्रीयते इति व्युत्पत्त्योपजीव्यशब्दः कारणपरः ॥७५९॥
<bold>उपदेशः -</bold>कृतिविषयः * १ हितकथनम् २ गुप्तवार्ताविष्कार इति
ग्रं० ३ धर्मविशिष्टो व्यापारः ४ प्रतिपत्त्यनुकूलव्यापारः<error> ७६४</error><fix>॥७६४॥</fix></p>
<pb n="47" />
<p><bold>उपदेशक:-</bold> अज्ञातज्ञापकः ।                                        [वचनं
<bold>उपनयः-</bold> प्रकृतोदाहरणोपदर्शितव्याप्तिमद्धेतुविशिष्टपक्षबोधक-
<bold>उपनिषद</bold>ज्ञाननिवारिणी विद्या १ ब्रह्मविद्याप्रतिपादकवेदशिरो भागः
<bold>उपन्यासः -</bold> वाक्योपक्रमः १ तद्बोधकवाक्यप्रयोग इति ग्रं०७७१
<bold>उपपत्तिः -</bold> साधकप्रमाणोपन्यासरूपा युक्तिः * १ प्रकरणप्रति-
पाद्य ( र्थनिर्णायकत्वम् २ ) स्य दृष्टान्तैः प्रतिपादनम्, यथा
सौम्येकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यादित्यादिना मृदा-
दिदृष्टान्तैरद्वितीयवस्तुप्रतिपादनम् ।                                             [भक्तिः
<bold>उपपदविभक्तिः-</bold> पद(न्तरयोग)निमित्तीकृत्य जायमाना वि
<bold>उपपादकत्वं-</bold> उपपाद्याभावव्याप्याभावप्रतियोगित्वम् ॥७७७
<bold>उपपाद्यत्वं -</bold> उपपादकाभावव्यापकाभावप्रतियोगित्वम् ७७८
<bold>उपमर्दः-</bold> पूर्वधर्मिविनाशनेन धर्म्यन्तरोत्पादनम् ॥ ७७९ ॥
<bold>उपमा-</bold> उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्या १ वैधर्म्यावि-
षयैकवाक्यविषयकत्वे सतीवादिवाच्यमुभयसंबन्धिसाधर्म्यम् ।
<bold>उपमानं-</bold> संज्ञासंज्ञिसंबन्धप्रमाकरणम् १ उपमितिकरणम् । कुठा-
रादिवारणाय मितीति, प्रत्यक्षादिवारणायोपेति २ व्यापारव-
त्तासंबन्धेनोपमित्यसाधारणकारणम् ३ सदृशदर्शनादसन्निकृष्टा-
र्थज्ञानमिति मी० ४साधारणधर्मवत्त्वे (न प्रसिद्धपदार्थ: ५ ) नेषदि-
तरपरिच्छेदकत्वमुपमानत्वम् ६ सादृश्यप्रतियोगित्वम् ॥ ७८८ ॥
<bold>उपमिति:-</bold> सञ्ज्ञासंज्ञिसंबन्धज्ञानम्। अनुमित्यादिवारणाय संब-</p>
<pb n="48" />
<p>न्धेति, संयोगादिवारणाय संज्ञासंज्ञीति १ सादृश्यज्ञान ( दिप-
रत्रासन्निकृष्टे सादृश्यज्ञानम् २) जन्यं ज्ञानम् ३ सादृश्यवैसादृश्या-
न्यतरधीकरणिका धीरितिखण्डनोद्वारे ४ शक्तिप्रकारकज्ञानं
<bold>उपमेयः-</bold> उपमाविषयः १ सादृश्या (श्रयः २) नुयोगित्वमुपमेयत्वं
<bold>उपयोगः-</bold>साक्षात्परम्परया वा कार्यजननम् १ इष्टसिद्धिसाधना-
<bold>उपयोगी-</bold>इष्टसाधनम् १ कार्यकारकः । [नुकूलव्यापारः
<bold>उपरतिः-</bold> कर्मादौ तत्साधने च दोषदर्शनपूर्विका घृणा १ ज्ञा-
नार्थविहितनित्याद्यागमजन्यकर्मसंन्यास इति ग्रं० ॥ ८०३ ॥
<bold>उपलक्षणत्वं-</bold> स्वप्रतिपादकत्वे सति स्वेतरप्रतिपादकत्वम् १
स्वार्थबोधकत्वे सतीतरार्थबोधकत्वम् * २ स्वासम्बन्धिविशेष्य-
केतरभेदबुद्धिजनकत्वम् ३ विशेष्यानन्वयित्वे कादाचित्कत्वे वा
सति व्यावर्तकत्वम्, यथा काकादिकं देवदत्तगृहां देः ॥८०७ ॥
<bold>उपलक्षितत्वं</bold> चिह्नद्वाराप्रकाशितत्वम् १ स्वसमानाधिकरण-
स्वोत्तरकालीनस्वप्रतियोगिकाभाववत्त्वसम्बन्धेन स्त्रसंबन्धित्वं
<bold>उपवासः-</bold> अनाहारः१ अहोरात्रभोजनाभावः २उपावृत्तस्य पापे-
भ्यो यस्तु वासो गुणैः सह, उपवासः स विज्ञेयः सर्वभोगविवर्जितः
<bold>उपशयः -</bold> औषधादिजनितसुखानुबन्धः* १ समीपशयनम् ।
<bold>उपसर्गः -</bold>रोग (विकारः १) पद्रवः ॐ २ धात्वधिकरणसंयोगगो-
चरककालिकधात्वर्थबोधकतावच्छेदकः ३ जन्यबोधविषयीभूत-
क्रियाविशेषविषयकतात्पर्यग्राहकत्वे सति प्राद्यन्यतम इति ग्रं०
<bold>उपसर्जनत्वं-</bold>संमार्गसाधकत्वम् ७१ स्वार्थविशिष्टार्थान्तरबोध
-</p>
<pb n="49" />
<p>कत्वम् २ अन्यपदार्थनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकत्वं
<bold>उपसंहारः</bold> सम्यग्हरणम् १ प्रस्तावितशेष इति ग्रं० २विस्तरेण नि-
रूपितस्य पदार्थस्य सारांशकथनेन तन्निरूपणसमापनम्३ एकत्र
श्रुतार्थस्यान्यत्रान्वयार्थमुपक्षेपः, यथा गुणोपसंहारः४ ग्रन्थतात्प-
र्यावधारकलिङ्गविशेषः ५ सामान्यप्राप्तस्य विशेषे नियमनमिति मी ०
<bold>उपस्थः -</bold> व्यवायानन्दसाधनमिन्द्रियम् १ सुखक्रियासाधनमि०
<bold>उपाख्यानं-</bold> श्रुतार्थकथनम् १ पूर्ववृत्तान्तकथनम् ॥ ८२९ ॥
<bold>उपादानकारणं-</bold>कार्या (भिन्नकारणम् १) न्वितं कारणम्, यथा
घटादेर्मृदादि । रूपादावतिव्याप्तिवारणाय कारणमिति २स्व-
तादात्म्यापन्नकार्यजनकम् ३ कार्याधारत्वे सति कार्यजनिहेतुः ।
निमित्तकारणवारणाय सत्यन्तम्, भूतलादिवारणाय विशेष्यदलं
<bold>उपादेयः -</bold> विधेयः १ उपादानजन्यः ४२आदानक्रियाविषयः <error>८३६</error><fix>॥८३६॥</fix>
<bold>उपाधिः -</bold> संमानसूचकः शब्दः १ उपसमीपे स्थित्वा स्वीयं
रूपमन्यत्रादधाति २ स्वस्मिन्निव स्वसंसर्गिणि स्वधर्मासञ्जकः ३
स्वान्वितांशविधेयानन्वयित्वे सति वर्तमानत्वे सति व्यावर्तक-
त्वम्, यथा जपाकुसुमादिकं स्फटिके लौहित्योपाधिः । प्रथम-
सत्यन्तेन नीलं घटं पश्येत्यादौ नीलत्वादेरुपाधित्वनिरासः,
काकैर्गृहं पश्येत्यादौ काकादेर्द्वितीयसत्यन्तेन निरासः, घट-
पटौ पश्येत्यत्र परस्परस्य परस्परोपाधित्ववारणाय विशेष्य-
दलम् ४ साध्यव्यापकत्वे सति साधनाव्यापकत्वम् ॥८४२ ॥</p>
<pb n="50" />
<p><bold>उपाध्यायः -</bold> एकदेशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः, योऽ
ध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते इति भविष्ये ॥८४२ ॥
<bold>उपाय: -</bold> उपक्रमः १ प्रतिकारपथः * २ साक्षात्परम्परया वा
यत्किञ्चित्कार्यजनने समर्थ: ३ उपायतेऽर्थोऽनेनेति ॥८४७॥
<bold>उपार्जनं -</bold> स्वत्वसम्पादको व्यापारः ।                [षणदानं
<bold>उपालम्भः-</bold> निन्दापूर्वक (दुष्टवचनम् १)तिरस्कार: २ परपक्षदू-
<bold>उपासना-</bold>मुक्तिप्र्योजिका विद्या *१ निकृष्टेषूत्कृष्टबुद्धिः २
वस्तुस्वरूपानपेक्षः पुरुषेच्छामात्रतन्त्रो मानसप्रवाह इति ग्रं०
<bold>उपासनाकाण्डं-</bold>उपासनातदितिकर्तव्यताबोधकप्रकरणम् १
मन्त्रोदितार्थस्येतिकर्तव्यताबोधककाण्डमिति ग्रं० ॥ ८५७ ॥
<bold>उपेक्षा-</bold>संस्काराजनिका बुद्धिः १ पापेषु सत्कारतिरस्कारयोरौ-
दासीन्यम् *२स्वत्वध्वंसमात्रजनकस्त्यागः ३परस्वत्वानभिसं-
धानपूर्वकस्वत्वप्रागभावसमानकालीनस्वत्वाविषयकेच्छेति ग्रं०
<bold>उपोद्धातः-</bold> निर्दिष्टोपसाधकः १ प्रकृत (शास्त्रे प्रतिपाद्योपयोगि-
विचारः २ ) र्थसिद्ध्यनुकूलचिन्ताविषय इति ग्रं० ३ प्रतिपाद्य-
मर्थं बुद्धौ सङ्गृह्य प्रागेव तदर्थमर्थान्तरवर्णनम् । प्रतिज्ञातव-
र्णनवारणायार्थान्तरेति, असंबद्धार्थवर्णनव्यावृत्त्यर्थं तदर्थ-
मिति, अग्निमानयमिति प्रतिज्ञाय धूमवत्त्वादित्यर्थान्तरवर्णनं
व्यावर्तयितुं प्रतिपाद्यमर्थ बुद्धौ सङ्गह्येत्युक्तम्, तावत्युक्ते
बुद्धौ सङ्ग्रृह्य पश्चात्प्रतिज्ञाय यद्वर्णनं तस्योपोद्धातत्वनिरासाय</p>
<pb n="51" />
<p>प्रागेवेति ४ स्थानं निमित्तं वक्ता च श्रोता श्रोतृप्रयोज-
नम्, संबन्धाद्यभिधानञ्च उपोद्धातः स उच्यते ॥८६३ ॥
<bold>उभयत्वं-</bold> द्वित्वविशिष्टत्वम् * १ अपेक्षाबुद्धिविशेषविषयत्वम् ।
<bold>उभयकर्मजसंयोगः-</bold>स्वजनकक्रियाऽभाववदसमवेतसंयोग
<bold>उल्लाप:-</bold> काकुवाक्यम् १ शोकरोगादिना ध्वनिविकार इति ग्रं०
<bold>उल्लेख:-</bold> उत्कीर्तनम् १ इदं कर्तव्यमित्यादिना सङ्कल्पितार्थ-
<bold>उल्लेखनं -</bold> प्रतिपादकशब्दोच्चारणम् * २ एकस्यापि निमित्त-
वशादनेकधा ग्रहणम् ३ सङ्कल्पितार्थकवाक्योच्चारणम् <error>८७२</error><fix>॥८७२॥</fix>
<bold>ऊहः-</bold>प्राकृतप्रयोगस्यान्यथा भावः १ पदान्त (रप्रक्षेपः २) रेणा-
काङ्क्षापूरणार्थाध्याहार: * ३ शिष्येणानुक्तस्याप्यूहनम् ४ उप-
देशसमसमयं शिष्यप्रतिपत्त्यनुकूलापूर्वयुक्तिकल्पनं वा ५ संश-
यपूर्वपक्षनिराकरणपूर्वकोत्तरपक्षव्यवस्थापनम् ६ अनन्वितार्थ-
कविभक्तिलिङ्गत्यागपूर्वकमन्वययोग्यविभक्त्यादिकल्पनम्, यथा
पार्वणे सौम्यास इति बहुवचनमन्वितमप्येकोद्दिष्टेऽनन्वित-
त्वात्सौम्य इत्येकवचनान्ततया कल्पनम् ॥ ८८९ ॥
<bold>*ऋ*</bold>
<bold>ऋड्यन्त्रः -</bold> नियताक्षरपादावसानो मन्त्रः १पादबद्धगायत्र्यादिच्छ-
न्दोविशिष्ट[१०४७२] मन्त्र इति ग्रं० २ यत्रार्थवशेन पादव्यव-
<bold>ऋक्संहिता-</bold> अग्निमीले इत्यादिकऋक्समुदायः [स्थितिर्मन्त्र:
<bold>ऋग्वेदः-</bold> ऋग्बहुलो वेदः १ ऋगवयवको वेदः २ ऋग्(विनियोज-</p>
<pb n="52" />
<p>कत्वमृग्वेदत्वम् ३) द्रव्यको वेद इति न्यायसुधायाम् ॥८८६॥
<bold>ऋजुत्वं-</bold> वक्रत्वाभाववत्त्वम् । [पुनरर्पणबुद्ध्या गृहीतं
<bold>ऋणं-</bold>अवश्यं (शोध्यम् १) देयम् २ अन्यस्वामिकं द्रव्यं नियतकाले
<bold>ऋतम्भराप्रज्ञा -</bold> त्रैकालिकविषयावगाहिनी बुद्धिः ॥ ८९२ ॥
<bold>ऋषित्वं-</bold> शास्त्रप्रणेतृत्वम् १मन्त्रद्रष्टृत्वम् यथा वसिष्टवामदेवा-
दयः २अतीन्द्रियार्थदर्शित्वम् ३ ज्ञानसंसारपारगामित्वमिति ग्रं०
<bold>*ए*</bold>
<bold>एकत्वं-</bold> प्रथम सङ्ख्यान्वितत्वम् १ द्विवाद्यभाववत्त्वम् ७२ सजा-
तीय (निष्ठभेदाप्रतियोगित्वम् ३)विजातीयस्वगतभेदशून्यत्वम् ।
<bold>एकदेशी-</bold>सिद्धान्तैकदेशाश्रायकत्वे सति स्वतन्त्राधिकार्थनिरूपकः
<bold>एकपदत्वं-</bold> एकार्थविषयकशक्तिनिरूपकत्वम् यथा रामः <error>९०२</error><fix>॥९०२॥</fix>
<bold>एकभविकत्वं-</bold> एकजन्म ( निफल ) जनकत्वम् ॥ ९०३ ॥
<bold>एकवाक्यत्वं-</bold> अविसंवादिवाक्यत्वम्*१ विशिष्टैकार्थप्रतिपादक
त्वम् २एकार्थबोधक (त्वम् ३) नां शब्दानां मिथ आकाङ्क्षयैकस्यां
बुद्धावारूढत्वमिति ग्रं० ४ निरूप्यनिरूप ( उपजीव्योपजीव )
कभावापन्नबोधविषयताप्रयोजकत्वम् ५ विशेषणविशेष्यावगा-
हिबोधजनकत्वम् * ६ भिन्नप्रतीतिविषयानेकमुख्यविशेष्यर-
हित (त्वे सति विभज्यमानसाकाङ्क्षत्वम् ७) त्वसमानाधिकर-
णान्वीयमानपदार्थान्वयाभावप्रयुक्ताकाङ्क्षानिवृत्तिशून्यत्वम् ।
<bold>एकाग्रभूमिः-</bold> एकविषयकधारावाहिकवृत्तिसमर्थरूपा दशा ।</p>
<pb n="53" />
<p><bold>एकार्थीभावः-</bold> अपृथगुपस्थितिविषयः १ विशेषणविशेष्यभावा-
वगाहित्वे परस्परान्वितत्वे वा सत्येकार्थोपस्थितिजनकत्वम् ।
<bold>एकेन्द्रियवैराग्यं-</bold>पक्कसर्वकषायज्ञानेन चित्तोत्सुकता १ इन्द्रि-
यान्तरेषूपसंहृतेष्वप्यनुपसंहृतस्य मनसो वृत्तिजिहासेति ग्रं०
<bold>ऐकान्तिकत्वम्-</bold>साधनानन्तरमवश्यं भावित्वम् ॥ ९१८ ॥
<bold>ऐतिह्यप्रमाणम् -</bold> विशिष्यानिर्णीतप्रथमवक्तृकः शब्दविशेषः,
यथात्र वटे यक्षः १ अनिर्दिष्टवत्कृकं प्रवादपारम्पर्यम् ॥ ९२० ॥
<bold>ऐश्वर्य-</bold> इच्छानभिघातात्मकम् *१ शासनकर्तृत्वम् ॥९२२॥
<bold>औत्सुक्यं-</bold> रमणीयफलसाधनेनोत्कटेच्छा १ विषये रमणीयत्वबु-
च्या जायमानो ० २ कार्याकार्याविचारेण प्रवृत्तिहेतुराह्लादविशेषः
<bold>*क*</bold>
<bold>कथा-</bold>इतिवृत्तवर्णनपरः प्रबन्धविशेषः १ नानाकर्तृकपूर्वोत्तरपक्ष-
प्रतिपादकवाक्यविस्तरः २तत्त्व निर्णयविजयान्यतरस्वरूपयोग्यो
न्यायानुगतवचनसंदर्भः । लौकिकविवादवारणाय न्यायेत्यादि
<bold>कनिष्ठं -</bold> अल्पतर (तरणिस्पन्दसंबन्धवान् १)स्पन्दान्तरितजन्यं
<bold>कन्था-</bold>सूत्रग्रथितो जीर्णो वस्त्रखण्ड: १ तिर्यक्स्यूतबहुवस्त्रखण्ड -
समूह इति ग्रं० २त्यक्तं वस्त्रं गृहस्थेन बहिः प्रक्षाल्य यत्नतः,
सहस्रं डोरिकां दद्यात् कन्था सेत्यभिधीयते ॥ ९३१ ॥
<bold>कन्या-</bold>योन्यादिलज्जिताङ्गागुह्यकत्वे सति पांशुक्रीडावती <error>९३२</error><fix>॥९३२॥</fix>
<bold>करणं-</bold>साधकतमम् १ क्रियानिष्पादकम्*२ व्यापारवदसाधारण-</p>
<pb n="54" />
<p>कारणम्, यथा छिदिक्रियां प्रति कुठारः । कालादिवारणाया-
साधारणेति, व्यापारेऽतिव्याप्तिवारणायव्यापारवदिति ३
फलायोगव्यवच्छिन्नकारणम् ।                      [ननुकूलत्वं
<bold>करणापाटवं-</bold>स्वस्वकार्यासामर्थ्यम् १ इच्छाविषयीभूतवर्णाद्य-</p>
<lg>
  <l><bold>करुणा-</bold>दुःखिषु दुःखप्रहाणार्थ दया १ परदुःखप्रहाणेच्छा वा ।</l>
  <l><bold>कर्तव्यं-</bold> कर्तुं (मुचितम् १ ) योग्यम्*२अवश्यं करणीयम् ॥९४१ ॥</l>
</lg>
<p><bold>कर्ता-</bold> क्रिया (यो स्वतन्त्रः १)नुकूल (कृत्याश्रयः २) ज्ञानशक्तिसंपन्नः ३
उपादानगोचरांपरोक्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वम् ४ इतर-
कारकाप्रयोज्यत्वे सति सकलकारक (प्रेरकत्वम् ५). प्रयोक्तृत्वम् ।
कुठारादिकारकप्रयोक्तरि हस्तादावतिव्याप्तिवारणाय सत्यन्तं
<bold>कर्म-</bold> शुभाशुभ (दृष्टजनको व्यापारः १) क्रियाजन्यमदृष्टम् * २
करणव्यापारविषयः, यथा वास्यादिकरणव्यापारस्योद्यमननि-
पातनादेविषयः काष्ठादिः ३ धात्वर्थतावच्छेदकपरसमवेतक्रि-
याफलशालित्वम् ४ संयोग (विभागयोरनपेक्षकारकम् ५ ) भिन्न-
त्वे सति संयोगासमवायिकारणम्। संयोगवारणाय सत्यन्तम्,
घटादिवारणाय विशेष्यदलम् । [र्थस्मारकं काण्ड
<bold>कर्मकाण्डं-</bold>कर्मणां कर्त्तव्यता प्रतिपादकं काण्डम् १ द्रव्यदेवताद्य-
<bold>कर्मधारयसमासः-</bold>तुल्यविभक्तिलिङ्गयोरुभयोः पदयोः समा-
नाधिकरणः समासः, यथा कृष्णमृगः, श्वेतपताकेत्यादिः ।
<bold>कर्ममीमांसा-</bold> कर्मविषयकः पूजितो विचारः १ 'पूर्वमीमांसा' लक्षण ०</p>
<pb n="55" />
<p><bold>कर्मेन्द्रियं-</bold> वदनादिव्यापारकरणमिन्द्रियम् १ अपञ्चोकृतपञ्च-</p>
<lg>
  <l>महाभूतकार्यत्वे सति वेदनादिक्रियासाधनत्वं कर्मेन्द्रियत्वम् ।</l>
  <l><bold>कर्षणं-</bold>देशान्तरसंयोगानुकूलव्यापारानुकूलव्यापारः ॥१५९॥</l>
</lg>
<p><bold>कलियुगं -</bold> कलिरेव युगम् १ निर्बीजा पृथिवी निरोषधिरसा नीचा
महत्त्वं गताः, भूपाला निजधर्म-कर्मरहिताः विप्राः कुमार्गे
गताः । भार्या-भर्तृविरोधिनी पररता पुत्राः पितुर्दूषकाः, हा
कष्टं खलुवर्तते कलियुगे धन्या मृता ये नराः ॥ ९६० ॥
<bold>कल्पः-</bold> ब्रह्मणो दिवसः * १ मन्त्रार्थसामर्थ्य प्रकाशको ग्रन्थः २</p>
<lg>
  <l>यज्ञपात्र निर्माण प्रकार प्रतिपादकं शास्त्रम् ३ यागप्रयोगप्रतिपा ●</l>
  <l><bold>कल्पना-</bold>अप्रकृतविषयोद्भावनम् १ नूतनविषयोद्भावनं वा ।</l>
  <l><bold>कषायः -</bold> चित्तस्य रागादिना स्तब्धीभावः ॥ ९६५ ॥</l>
  <l><bold>काणत्वम्-</bold>चक्षुरिन्द्रियशून्यैकगोलकवत्त्वम् ॥ ९६६ ॥</l>
</lg>
<p><bold>कादाचित्कत्वं-</bold> सत्त्वे सति किञ्चित्कालवृत्त्यभावप्रतियोगित्वं
<bold>कामः-</bold>काम्यते जनैरिति, यथा स्वर्गादिः १ फलेच्छा २ इष्टविष-
याभिलाषः ३, अप्राप्तो विषयः प्राप्तिकारणाभावपि प्राप्यतामि-
त्याकारश्चित्तवृत्तिविशेषः * ४ सङ्गमेच्छा ५ विषयेन्द्रियजन्यं
सुखं वा ६ स्त्रीपुंसव्यतिकरतृष्णा ७ दमश्च निःसङ्कल्पश्च. कामं
शिथिलीकरोति १ ब्रह्मचर्येण वस्तुविचारेणास्य निवृत्तिः <error>९७४</error><fix>॥९७४॥</fix>
<bold>काम्यत्वम्-</bold>तत्तत्फलेच्छाधीनेच्छा विषयत्वम् ॥ ९७५ ॥
<bold>काम्यकर्म-</bold>स्वर्गादीष्टसाधनं कर्म, यथा ज्योतिष्टोमादि १ तत्त-</p>
<pb n="56" />
<p>त्फलकामना (धीनकर्तव्यताकत्वम् २) वदधिकारिकर्तव्यम् ३
अनुष्ठाने फलविशेषजनकत्वे सत्यननुष्ठाने प्रत्यवायाजनकत्वम्
<bold>कायः-</bold>भोगायतनम् १ देहव्यापित्वगिन्द्रियम् २शरीर' लक्षणम०
<bold>कायव्यूहः-</bold>कर्मभोगार्थं योगिद्वारा युगपत्कल्पितः कायसमूहः
<bold>कारकं -</bold> व्यापारवत्कारणम् १ क्रियाजनक (म्२) शक्तिमत्त्वम् ।
<bold>कारकविभक्तिः-</bold> कारकत्वव्याप्यकर्मत्वादिशक्तिोधिकाविभक्तिः
<bold>कारणत्वं-</bold>उत्तरविशेषत्वम् * १ व्यभिचाराभावसहकृतसहचा-
रवत्त्वे सति पूर्वभावित्वम् ३ अनन्यथासिद्धत्वे सति नियतपूर्वत्र-
त्तित्वम् । दण्डवादिवारणाय सत्यन्तम्, अनियतरासभादि-
वारणाय नियतेति, कार्यवारणाय पूर्वेति ३ कार्याव्यवहितप्रा-
क्क्षिणावच्छेदकत्वे सति कार्यसमानाधिकरणात्यन्ताभावाप्रति-
<bold>कारिका-</bold> अल्पाक्षरत्वे सति बहुर्थज्ञापकः श्लोकः ।            [योगित्वं
<bold>कार्यत्वं -</bold> आद्यक्षणसंबन्धित्वम् १ प्रागभावप्रतियोगित्वम् । का-
लादिवारणाय प्रागिति, असंभववारणाय प्रतियोगीति नै० २
वर्तमानावस्थोपपादनत्वमिति योगिनः ३नियतपश्चाद्भावित्वम्४
कालत्रयानन्वितत्वे सति प्रवृत्त्यभावविरोधित्वं वा ५ कारणत्वा-
भिमतवंस्त्वभिन्नत्वमिति वे० ६ कृतिसाध्यत्वे सति कृत्युद्देश्य-
त्वम् <error>ति </error>(संसृष्टत्वम् ८) योग्यत्वे 'सत्यलौकिकत्वमिति मी०
<bold>कार्याध्यास-</bold> कारणत्रयजन्योध्यासः १ दोषसंप्रयोगसंस्कारज-
<bold>कार्याविद्या-</bold>'तूल्यविद्या॑वदस्य लक्षणमनुसंधेयम् ।          [न्यत्वं</p>
<pb n="57" />
<p><bold>कालः -</bold> अतीतादिव्यवहारासाधारणं कारणम् १ विभुत्वे सति दि-
गसमवेतपरत्वासमवायिकारणाधिकरणम् ।                                   [प्रतियोगित्वं
<bold>कालिकपरिच्छेदः -</bold>यत्किञ्चित्कालावृत्तित्वम् १ ध्वंसप्रागभाव-
<bold>काव्यं -</bold> रसात्मकवाक्य १ रमणीयार्थप्रतिपादकः शब्द इति
ग्रं० २ आनन्दविशेष (साधनत्वम् ३) जनकत्वं काव्यत्वम् ४
व्याकरणादिदोषरहितत्वे सत्यर्थदोषशून्यत्वम् ॥ १०१२ ॥
<bold>काष्ठमौनं-</bold>इङ्गितेनापि स्वाभिप्रायाप्रकाशनम् १ काष्ठमिव मौनं
<bold>किन्तु -</bold> प्रागुक्तविरुद्धार्थः १ पूर्ववाक्यसङ्कोचज्ञापनमिति ग्रं०
<bold>कीर्तनं-</bold> यशः प्रकाशः * १ भगवन्नाम्नां वैखर्योच्चारणम्<error> १०१८</error><fix>॥१०१८॥</fix>
<bold>कुतर्क:-</bold> श्रुतिविरोधितर्कः । [षष्टिमात्राभिरायमनं
<bold>कुम्भकप्राणायामः-</bold> अन्तःस्तम्भवृत्तिः १ पीतस्य वायोश्चतुः-
<bold>कुलत्वं-</bold> वंशीयत्वम् १ सजातीयसमूहत्वमिति ग्रं० ॥१०२२॥
<bold>कूटस्थः -</bold> विषयसंनिधावपि विकारशून्यः ॥ १०२३ ॥
<bold>कृतन्घत्वम्-</bold> कृतोपकारस्यापकारकत्वम् ॥ १०२४ ॥
<bold>कृतज्ञत्वम्-</bold> कृतोपकारकज्ञातृत्वम् ॥ १०२५ ॥
<bold>कृतनाशः -</bold> कृतयोः पुण्यपापयोर्भोगमन्तरेण नाशः ॥ १०२६॥</p>
<lg>
  <l><bold>कृतोपास्त्यधिकारी-</bold> उपास्यसाक्षात्कारपर्यन्तोपासनाकारी ।</l>
  <l><bold>कृपणता-</bold>उचितव्ययाकरणेनापि धनरक्षणेच्छा ॥१०२८ ॥</l>
</lg>
<p><bold>कृपा-</bold> स्वार्थमनपेक्ष्य परदुःखप्रहरणेच्छा ।               [हीनं
<bold>केवलं-</bold> एकमात्रम् १ पदान्तरशून्यं वा २ पदार्थान्तरसंसर्गवि
-</p>
<pb n="58" />
<p><bold>केवललक्षणा-</bold> शक्यसाक्षात्सम्बन्धः ॥ १०३४ ॥
<bold>केवलव्यतिरेकित्वं-</bold> अन्वयव्याप्तिशून्यत्वे सति व्यतिरेकव्या-
प्तिमत्त्वम् ।                                                         [गितानवच्छेदकधर्मवत्त्वं
<bold>केवलान्वयित्वं-</bold> अत्यन्ताभा (वाप्रतियोगित्वम् १ ) वीयप्रतियो-
<bold>कैवल्यं-</bold> सजातीय द्वितीयरहितत्वम् १ 'मोक्ष' लक्षणमप्यत्र पठनीयं
<bold>कोटित्वं-</bold>कोटिसङ्ख्याविशिष्टत्वम् १ संशयजनकज्ञानीयप्रकारतावत्त्वं
<bold>कोशः -</bold> असिकोशवदात्माच्छादकः * १ शब्दपर्यायप्रकाशको
ग्रन्थः २ शब्दार्थ ( प्रतिपादकत्वम् ३)निर्वचनपरिज्ञापकत्वं कोशत्वं
<bold>कौतूहलत्वं-</bold>विस्मयविशिष्टजिज्ञासाविशेषत्वम् ॥ १०४६ ॥
<bold>कौपीनम् -</bold> पुरुषलिङ्गावारको वस्त्रखण्ड: १ कुत्सितस्य पीनस्य
मांसस्यावरणम् २ एकहस्तप्रविस्तारं करद्वन्द्वसमायतम्,
विलम्बिततृतीयांश गुह्याच्छादनमीरितम् ॥ १०४९ ॥
<bold>क्रमः-</bold>सामर्थ्यहेतुकव्यापारः१ परिपाट्या यथोचितसन्निवेशः २</p>
<lg>
  <l>चिन्त्यमानार्थसंप्राप्तिरिति ग्रं० ३ पूर्वापरावस्थानत्वं क्रमत्वम्</l>
  <l><bold>क्रमसमुच्चयः -</bold> एकेन कर्त्रा ज्ञानकर्मणोः क्रमेणानुष्ठानम् ।</l>
  <l><bold>क्रिया-</bold> करणव्यापारनिष्पाद्या * १ संयोगविभागयोरसाधारणो</l>
  <l>हेतुः २ क्रियान्तराकाङ्क्षानुत्थापकत्वं क्रियात्वम् ॥ १०५६ ॥</l>
</lg>
<p><bold>क्रीडा-</bold>हर्षजनकहस्तादिविक्षेपः* १ बाह्यसाधनसापेक्षा <error>१०५८</error><fix>॥१०५८॥</fix>
<bold>क्रोधः -</bold> अनिष्टविषय ( दर्शनादिहेतुको मनोविकारः १ ) द्वेष-
हेतुकः २ कामितार्थविघातजन्यो बुद्धिक्षोभ इति ग्रं० ३
→</p>
<pb n="59" />
<p>दययाऽहिंसया क्षमया वा क्रोधस्य निवृत्तिः ॥ १०६० ॥
<bold>क्लेशः -</bold> अविद्याद्यन्यतमः * १ बाधनालक्षणः ॥ १०६२ ॥
<bold>क्षणः-</bold> व्यापारशून्यावस्थितिः १ स्वाधेयपदार्थप्रागभावानाधारः
समय इति ग्रं० २ निमेषक्रियावच्छिन्नस्य कालस्य चतुर्थो भागः
<bold>क्षणिकत्वं-</bold> स्वाधिकरणसमयप्रागभावाधिकरणक्षणा (नुत्पत्ति-
कत्वे सति कादाचित्कत्वम् १ ) वृत्तित्वम् २ तृतीयक्षणवॄ (त्त्यवृत्ति-
जातिमद्विशेषगुणत्वम् ३ ) त्तिध्वंसप्रतियोगित्वम् । घटादिवार-
णाय वृत्त्यन्तम् ४ क्षणान्तरासंबन्धित्वे सति क्षणसंबन्धित्वम्
<bold>क्षमा-</bold>आकृष्टस्य ताडितस्य वाऽविकृतचित्तता१ सत्यपि सामर्थ्य
परिभवहेतुं प्रति क्रोधस्यानुत्पत्तिर्वा २ आक्रुष्टोऽभिहतो यस्तु</p>
<lg>
  <l>नाक्रोशेन हनेदपि, अदुष्टैर्वाङ्मनःकायैस्तितिक्षुश्च क्षमा स्मृता ।</l>
  <l><bold>क्षयतापः-</bold> पुण्यकर्मक्षये पतनभीतिजन्यस्तापः ॥ १०७४ ॥</l>
</lg>
<p><bold>क्षेपकः -</bold> विक्षेपकर्तरि ग्रन्थकूदकृतांशस्य तद्ब्रन्थमध्ये संनिवेशकः
<bold>क्षेमः -</bold> स्थितरक्षणम् १ लब्धप्रतिपालनमिति ग्रं० ॥ १०७७ ॥
<bold>क्षोभः -</bold> चित्तचाञ्चल्यम् १इच्छाविघाताच्चित्तपरितापो वा<error>१०७९</error><fix>॥१०७९॥</fix>
<bold>*ख*</bold>
<bold>खञ्जत्वं-</bold> पादविकलत्वम् १संस्थानविशेषशून्यपादवत्त्वम् <error>१०८०</error><fix>॥१०८०॥</fix>
<bold>खण्डनं-</bold>नाशानुकूलव्यापारः १ स्वमतदोषपरिहारपूर्वकपरमत-
पदार्थनिराकरणम् *२ शब्दार्थानिर्वचनीयताप्रतिपादको ग्रन्थः
<bold>खण्डप्रलय:-</bold> जन्यद्रव्यानधिकरणकालः १ नैमित्तिकप्रलयलक्ष ०
-</p>
<pb n="60" />
<p><bold>खानपानम्-</bold>कठिनद्रवद्रव्ययोर्गलाधःकरणम् ॥ १०८४ ॥
<bold>खिलकाण्डम्-</bold>नानाजातीयप्रत्ययोदाहरणबोधकं काण्डम् १
कर्मोपासनब्रह्मकाण्डावशिष्टार्यप्रकाशकत्वं खिलकाण्डत्वम् ।
<bold>खेदः -</bold> अवसादः * १ उपायाभावेष्टनाशादिकृतमनोभङ्गः ।
<bold>ख्यातिः -</bold> भ्रमज्ञानम् ॐ १ महत्तत्वम् २ प्रसिद्धिर्वा <error>१०९०</error><fix>॥१०९०॥</fix>
<bold>*ग*</bold>
<bold>गतिः -</bold> परिणामः * १ उत्तरदेशसंयोगानुकूलक्रिया ॥१०९२ ॥
<bold>गद्यं -</bold>छन्दोरहितवाक्यम् १ पादलक्षणशून्यपदसमूह इति ग्रं०
<bold>गन्धत्वं -</bold>घ्राणग्राह्यत्वम् १ पृथिवीवृत्तिमात्रवृत्तिगुणत्वसाक्षाद्व्या-
<bold>गमकत्वं-</bold> नित्यसाकाङ्क्षत्वम् ।                         [प्यजातिमत्त्वं
<bold>गमनं-</bold> अनियतोत्तरदेशसंयोगासमवायिकारणं कर्म ॥११००॥
<bold>गम्भीरत्वं-</bold>निमित्ते सति हर्षभयकामाद्यभिव्यक्तिरहितत्वम् ।</p>
<lg>
  <l><bold>गर्भितं-</bold> गर्भयुक्तम् १ वाक्यान्तरानुप्रवेशो गर्मितत्वम् <error>११०३</error><fix>॥११०३॥</fix><bold>गर्वः -</bold>व्यभिचारिभावविशेषः * १ अभिमानात्मिका चित्तवॄत्तः ।</l>
  <l><bold>गाथा -</bold> सुभाषितत्वेन सर्वैर्गीयमाना ॥ ११०६ ॥</l>
</lg>
<p><bold>गानं-</bold> आभ्यन्तरयत्नजनितः स्वरविशेषाणामभिव्यञ्जकः शब्दः ।
<bold>गीतं-</bold> छान्दस हार्दान्यतरस्वरेण गुण कीर्तनम् 1 स्वरतालप्रामभे-
दरागरागाङ्गभूषितम्, संस्कृतं वा प्राकृतं वा गीतं गीतविदो विदुः।
<bold>गुण:-</bold>प्रमाया असाधारणकारणम् *१ निर्गुणत्वे निष्क्रियत्वे वा
सति सामान्यवत्वं गुणत्वम् २ द्रव्यकर्मभिन्नत्वे सति समवायेन</p>
<pb n="61" />
<p>द्रव्यमात्राश्रितत्वम् ३ संयोगाजन्यसंयोगासमवायिकारणवृत्ति-
संयोगासमानाधिकरणजातिमत्त्वमिति शिवादित्यमिश्राः <error>१११३</error><fix>॥१११३॥</fix>
<bold>गुणवादः-</bold>प्रमाणान्तरवि (रोधे सत्यर्थवादः १) रुद्धार्थ ( प्रतिपा
दकत्वम् २) ज्ञापकः शब्दः, यथादित्यो यूप इत्यादिः <error>१११६</error><fix>॥१११६॥</fix>
<bold>गुणोपसंस्कारः -</bold> भिन्नशाखागतानां गुणानामङ्गानां विशेष-
णानां वा एकबुद्धयुपारोहणम् ॥ १११७ ॥
<bold>गुरुः -</bold> दीर्घस्वरवद्वर्णः *१ हितोपदेष्टा २ संशयापनोदको वा ३
सविध्युपनयनपूर्वकवेदाध्यापनकर्ता ४ गुशब्दस्त्वन्धकारः स्या-
द्रुशब्दस्तन्निरोधकः, अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ।
<bold>गुरुत्वं-</bold> आद्यपतनासमवाय कारणम् । दण्डादिवारणायासमवा-
यीति, रूपादिवारणाय पतनेति, वेगेऽतिव्याप्तिवारयाद्येति
<bold>गृहस्थः -</bold> वैवाहिकेन विधिना कृतपत्नोपरिग्रहः ॥ ११२४ ॥
<bold>गोचरः -</bold> भूचरः *१ ज्ञाननिरूपितो विषयः ॥ ११२६ ॥
<bold>गोत्रं-</bold>पुत्रपौत्रप्रभृतिकमपत्यम् १ संभावनीयबोधत्वं गोत्रत्वम् ।
<bold>गौण:-</bold>गुणादागतः १वास्तविकारोपितान्यतरगुणसत्ताप्र-
<bold>गौणार्थ:-</bold>योज्यारोपविषय इति ग्रं० २ स्वार्थमुत्सृज्यपरार्था-
वलम्बनम् ३ तद्धर्मप्रकारकप्रतीतिविशेष्याप्रसिद्धार्थः ॥ ११३२ ॥
<bold>गौणप्रयोजनत्वं-</bold> मुख्य प्रयोजनेच्छाधीनेच्छाविषयत्वम् <error>११३३</error><fix>॥११३३॥</fix>
<bold>गौणीवृत्तिः-</bold> गुणमधिकृत्य प्रवृत्ता वृत्तिः १ लक्ष्यमाणगुणयो-
गेन स्वार्थादन्यत्र वृत्तिः, यथा सिंहो माणवकः ॥ ११३५॥</p>
<pb n="62" />
<p><bold>ग्रन्थः-</bold>अलौकिकैकप्रयोजनोद्देशेन प्रवृत्तवाक्यसमुदायः <error>११३६</error><fix>॥११३६॥</fix>
<bold>ग्रहणं-</bold> उपदिष्टार्थस्य सद्योवधारणसामर्थ्यम् १ शिष्यकृतप्रश्ना-
क्षेपवाक्यार्थानां सद्योवधारणसामर्थ्यमिति ग्रं० ॥११३७ ॥
<bold>ग्राम: -</bold> लोकालयः १ ह्ट्टादिशून्यवसतिरिति श्रीधरः २ विप्रा-
दिवर्णप्रायाप्राकारपरिखादिरहिता बहुजनवसतिः ॥११४० ॥
<bold>ग्राह्यम् -</bold> अङ्गीकार्यम् * १ लौकिकप्रत्यक्षस्वरूपयोग्यम् <error>११४२</error><fix>॥११४२॥</fix>
<bold>ग्लानि: -</bold> अनुत्साहः १ दोषदर्शनजन्याप्रवृत्तिर्वा ॥११४४॥
<bold>घटत्वं-</bold> स्वाश्रयघटभिन्नाधिकरणावृत्तिर्जातिः ।               [रूपक) वत्त्रं
<bold>घटकत्वं-</bold> स्वविशिष्टत्वम् १ त (प्रत्येक) द्विषयताव्यापक विषयता (नि
<bold>घटितत्वं-</bold> समुदायविषयताव्याप्यविषयतानिरूपकत्वम् <error>११४८</error><fix>॥११४८॥</fix>
<bold>घ्राणेन्द्रियं -</bold> गन्ध (ग्राहकत्वं घ्राणत्वम् १) पलब्धिसाधनमि-
न्द्रियम् । चक्षुरादावतिव्याप्तिवारणाय गन्धेति, कालादिवारणा-                       [येन्द्रियमिति ।
<bold>*च.*</bold></p>
<lg>
  <l><bold>चक्रकम् )-</bold> स्वापेक्षणीयापेक्षितसापेक्षत्वनिबन्धनप्रसङ्गः १पू-</l>
  <l><bold>चक्रिका )-</bold> र्वस्य पूर्वापेक्षितमध्यमापेक्षितोत्तरापेक्षितत्वम् ।</l>
  <l><bold>चक्षुरिन्द्रियं-</bold> रूप ( ग्राहकत्वं चक्षुष्टुम् १) पब्धिसाधनभिन्द्रियं</l>
  <l><bold>चतुरशीतिभ्रमणं-</bold> उच्चावचमध्यदेहप्रभेदग्रहणम्॥११५६॥</l>
</lg>
<p><bold>चतुर्थीत्वं-</bold>ददात्यर्थधर्मिकसंप्रदानत्वानुभावकसुप्सजातीयत्वम्
<bold>चरमत्वं-</bold> स्वसजातीयपदार्थप्रागभावानधिकरणकालवृत्तित्वम् ।
<bold>चमसः-</bold> वतुरस्राकारस्समुष्टिकः प्रादेशमात्रो दारवः पात्रविशेषः</p>
<pb n="63" />
<p><bold>चान्द्रायणं -</bold> एकैकं वर्द्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत्,
इन्दुक्षये न भुञ्जीत एष चान्द्रायणो विधिः ॥ १३६० ॥
<bold>चारित्रम्-</bold>पापात्मकक्रियारम्भमात्रत्याग इति बौद्धाः <error>११६१</error><fix>॥११६१॥</fix>
<bold>चार्वाकः-</bold> तार्किकविशेषः : बृहस्पतिशिष्यत्वे सति देहात्मवादी
<bold>चिकित्सा-</bold>व्याधिनिवारणो व्यापारः ॥ ११६४ ॥
<bold>चिकीर्षा -</bold> सम्पादनेच्छा । प्रवृत्तिहेतुरिच्छेति मं० ॥११६६॥
<bold>चित्तम्-</bold> अनुसन्धानात्मंकवृत्तिमदन्तःकरणम् ॥ ११६७ ॥
<bold>चित्त्वं -</bold> अलुप्तप्रकाशत्वम् १ समस्तवस्त्ववभासकत्वमिति ग्रं०
<bold>चिदाभासः -</bold> चित्प्रतिबिम्ब: १ चिल्लक्षणरहितत्वे सति चिद्वद्भा-
<bold>चिन्तनं-</bold> उपदिष्टार्थानुसन्धानम् ।                         [समान:
<bold>चिन्ता -</bold> इष्टाप्राध्यनिष्टप्राप्तिहेतुको भूलेखनाधोमुखत्वादिकरो
मानसो विकार विशेषः ॥ ११७३ ॥
<bold>चेष्टा-</bold> उद्योगः १ हिताहितप्राप्तिपरिहारा (नुकूला क्रिया २ ) र्था
क्रिया * ३ सङ्केतबलेन स्वाभिप्रायप्रकाशनमिति नर्तकाः ११७७
<bold>छन्दः -</bold> लौकिकवैदिकशब्दांशलन्दयति नियमयति प्रतिपादयति
विरामादिव्यवस्थापको ग्रन्थः १ छन्दोबद्धवाक्यम् २ निय-
मितवर्णमात्रानिबद्धचतुष्पादादिपद्यमिति ० ॥ ११८० ॥
<bold>छलं -</bold> शब्दवृत्तिव्यत्ययेनेतरार्थकल्पनम्१वक्तृतात्पर्याविषयार्थ-
कल्पनेन दूषणाभिधानम्, यथा नवकम्बलोयं देवदत्तः ।
<bold>छेदनं-</bold> आरम्भकसंयोगविरोधिविभागा(नुकूलक्रिया) वच्छिन्न क्रिया</p>
<pb n="64" />
<p><bold>जट:-</bold> अपरिच्छिन्नासभ्यवदनपर इति मैत्र्युपनिषट्टीकायाम्
<bold>जड:-</bold> स्वतःप्रत्यया भाववान्*१इष्टानिष्टानभिज्ञः २वेदग्रहणास
<bold>जनकत्वं-</bold> अनन्यथासिद्धत्वे सति नियतपूर्ववृत्तित्वम् ।
<bold>जन्म-</bold>आद्यशरीरप्राणसंयोगः १ स्वादृष्टोपनिबद्धशरीरग्रहणमिति
ग्रं० २ शरीरवियोगक्षणमारभ्य पुनः सुखाद्युपलब्धिपूर्वक्षणपर्य-
<bold>जयः-</bold> उत्कर्षलाभः १ शत्रुपराण्ङ्भुखीकरणम् ।    [न्तमवस्थितिः
<bold>जल्पः-</bold> प्रलापः * १ परप‍निराकरणपूर्वकस्वपक्षस्थापनावती
विजिगीषुकथा ।                                                [गत्यागलक्षणा'लक्षणमप्यत्र ०
<bold>जहदजहल्लक्षणा-</bold> एकदेशपरित्यागे सत्येकदेशपरिप्रहरूपा' भा-
<bold>जहल्लक्षणा-</bold> शक्यमात्रपरित्यागेन तत्संबन्ध्यर्थान्तरे वृत्तिः,
यथा गङ्गायां घोष इति गङ्गापदस्य तीरे १ लक्ष्यतावच्छे-
दकरूपेण लक्ष्यमात्रबोधप्रयोजिका लक्षणा ॥ ११९८ ॥
<bold>जाग्रज्जाग्रत्वम्-</bold>प्रमाज्ञानत्वम् ॥ १२०० ॥
<bold>जाग्रत्सुषुप्ति:-</bold> जाग्रदवस्थायां श्रमादिना स्तब्धीभावः <error>१२०१</error><fix>॥१२०१॥</fix>
<bold>जाग्रत्स्वप्नः-</bold> शुक्तिरजतादिभ्रमः ॥ १२०२ ॥
<bold>जाग्रदवस्था-</bold>इन्द्रियजन्यान्तःकरणवृत्त्यवस्था १ दिगाद्यधिष्ठा-
तृदेवतानुगृहीतैरिन्द्रियैः शब्दादिविषयानुभवास्था । सुषुप्ता-
वतिव्याप्तिवारणाय शब्दादीति, स्वप्नवारणाय दिगादीति ।
<bold>जातिः-</bold> समानज्ञानजननी ४१ भिन्नेष्वभिन्नाभिधान प्रत्ययनिमि-
-</p>
<pb n="65" />
<p>त्तमिति वै०२ अनुगतबुद्धिव्यवहारहेतुभूतापरसामान्यम् ३मन-
स्त्वात्मत्वातिरिक्तनित्यमात्रसमवेतान्यत्वे सति समवेतसत्ताना-
श्रयः ४ अनिर्वचनीयबहुपदार्थघटितधर्मान्यतरधर्मरूपोपाधि-
भिन्नत्वे सति नित्यत्वे सत्यनेकव्यक्तिवृत्तिधर्मः । घटादौ व्य-
भिचारनिरासाय नित्यत्वे सतीति, अखण्डोपाधिरूपाभा-</p>
<lg>
  <l>वत्वादावतिप्रसङ्गवारणायोपाधिभिन्नत्वे सतीति, जलपर-</l>
  <l>माणुरूपादौ व्यभिचार निवृत्तयेऽनेकव्यक्तिवृत्तित्वमिति ।</l>
  <l><bold>जात्युत्तरं-</bold>असदुत्तरम् १ स्वप्रतिबन्धकमुत्तरमिति ग्रं० २</l>
  <l>छलादिभिन्नदूषणासमर्थमुत्तरम् ॥ १२१२ ॥</l>
</lg>
<p><bold>जारत्वम्-</bold>पराङ्गनाविषयकास्फुटानुरागवत्त्वम् ॥ १२१३ ॥</p>
<lg>
  <l><bold>जिज्ञासा-</bold>ज्ञातुमिच्छा १ अज्ञातादिबुद्धिसिद्धये प्रवर्तिकेच्छा ।</l>
  <l><bold>जिज्ञासुः -</bold> ज्ञातुमिच्छु: १ आत्मज्ञानार्थिमुमुक्षुर्वा ॥१२१७॥</l>
</lg>
<p><bold>जितेन्द्रियः-</bold> श्रुत्वा स्पृष्ट्वाथ दृष्ट्वा च भुक्त्वा घ्रात्वा च यो
नरः, न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रिय: <error>१२१८</error><fix>॥१२१८॥</fix>
<bold>जीवः -</bold> ज्ञानदर्शनादिमानिति जैनाः १ सुखादिसमवायिकारण-
मिति नै० २ प्राणधारणा (श्रयः ३ ) नुकूलव्यापाराश्रयः ४
इन्द्रियविशिष्टशरीरवानिति ग्रं० ५ अविद्योपहितं चैतन्यम् ६
अविद्या (वच्छिन्नं चैतन्यम् ७) प्रतिबिम्बितं चैतन्यम् ७८
यद्वा, अन्तःकरणा (भासश्चेतनः ९ ) वच्छिन्नं चैतन्यम् १०
अन्तःकरणप्रतिबिम्बितचैतन्यं वा ११चैतन्यमित्येकजीववादे ।
-
-</p>
<pb n="66" />
<lg>
  <l><bold>जीवनं-</bold> प्राणधारण (म् १ ) नुकूलव्यापारः२जीव्यतेऽनेनेति ।</l>
  <l><bold>जीवनचरितं-</bold> जीवनवृत्तान्तयुक्तो ग्रन्थः ॥ १२३२ ॥</l>
</lg>
<p><bold>जीवन्मुक्तः-</bold> स्वतः परतश्च व्युत्थानाव्युत्थानरूपपञ्चमीषष्ठ्यादि-
भूमिकायुक्तः १ प्रारब्धकर्मनिवृत्तिपर्यन्तंः(बाधितचित्तादिम-
त्त्वम् २ ) सुषुप्तिवयवहर्ता ३ जीवदवस्थायी ( त्यक्तसंसारः ४)
हर्षशोकादिरहितत्वे सति स्वस्वरूपज्ञानवत्त्वं जीवन्मुक्तत्वम् ।
<bold>जीवन्मुक्तिः-</bold> श्रवणादिभिरुत्पन्नसाक्षात्कारस्य विद्वत्संन्यासिनः
कर्तृत्वाद्यखिलबन्धप्रतिभासनिवृत्तिः १ स्वस्मिन्स्वदृशा सतता-
ध्यासाप्रतिभासे सति यावत्प्रारब्धं स्वचित्ताद्यवस्थितिः । अज्ञ-
समाधौ लोकदृष्टयाऽध्यासाप्रतिभासे सत्येव चित्ताद्यवस्थितिर
स्तीति तत्रातिव्याप्तिवारणाय स्वस्मिन्स्वदृशेति, तत्त्वज्ञा-
नोत्तरक्षणिकवृत्त्यभावे व्यभिचारवारणाय सततेति पदम्,
स्वपदमादिपदं च क्रमात्कस्यचिजीवन्मुक्तिसत्त्वे कस्मिँश्चिदज्ञे
यावत्प्रारब्धं चित्ताद्यवस्थितिसत्त्वात्तत्रातिव्याप्तिस्तथा व्युत्थि-
तस्थितप्रज्ञे चक्षुरादिसत्त्वात्तत्राव्याप्तिरिति तयोर्व्यावृत्त्यै ।
<bold>जीवसाक्षी-</bold> अन्तःकरण (ोपलक्षितः १)तद्द्वृत्त्यन्यतरोपहितं चैतन्यं
<bold>जीवाश्रयप्रमा-</bold> अनधिगताबाधितविषयाकारान्तःकरणवृत्ति.
प्रतिबिम्बिता चित् । स्मृतावतिव्याप्तिवारणायानधिगतेति ।
<bold>ज्ञातत्वम्-</bold>ज्ञानभास्यत्वम् ।                            [क्षणमप्यत्रप०
<bold>ज्ञातसत्ता-</bold>ज्ञानसमकालीनविषयसत्ता १ 'प्रातिभासिकसत्ता'ल-</p>
<pb n="67" />
<p><bold>ज्ञाता-</bold>ज्ञानाश्रयः १ विषयचैतन्याभिव्यञ्जकान्तःकरणाज्ञानयोः
परिणामात्मकनवृ (त्याश्रयः १ ) त्त्युपहितं चैतन्यम् ॥ १२४५॥
<bold>ज्ञानं-</bold> अर्थप्रकाशः १ आवरणभङ्गानुकूलो व्यापारः २ज्ञायतेनेनेति
करणव्युत्पत्त्या वृत्तिर्ज्ञानम्, ज्ञप्तिर्ज्ञानमिति भावव्युत्पत्त्या संविज्ज्ञानं
<bold>ज्ञानगतप्रत्यक्षत्वं-</bold>तत्तद्व्यवहारानुकूलचैतन्यस्य तत्तदर्थाभे-
दः १ स्वाविषयविषयकज्ञानाजन्यज्ञानत्वम्। विशेषणज्ञानजन्यवि
शिष्टज्ञानेव्याप्तिवारणाय स्वाविषयविषयकेति २ अपरोक्षा-
र्थगोचर (त्वे सत्ययोग्यप्रमाणाजन्यत्वम् ३)व्यवहारजनकत्वयो-
<bold>ज्ञानदण्डत्वं-</bold>अज्ञानतत्कार्यदमनहेतुत्वम् । [ग्यःज्ञानत्वं
<bold>ज्ञानफलं-</bold> वर्तमानलिङ्गदेहनिवृतिः १ भाविजन्मानारम्भो वा ।
<bold>ज्ञानलक्षणसन्निकर्षः-</bold> स्वविषयविषयकप्रत्यक्षजनको ज्ञानवि-
<bold>ज्ञानात्मा-</bold>ज्ञातृत्वोपाध्यहङ्कारावच्छिन्नं चैतन्यम् ।        [शेष:
<bold>ज्ञानाध्यासः-</bold> अतस्मिँस्तद्बुद्धिः, यथा शुक्तौ रजतबुद्धिः <error>१२६०</error><fix>॥१२६०॥</fix>
<bold>ज्ञानेन्द्रियं -</bold> ज्ञानकरणमिन्द्रियम् १ अपञ्चीकृतपञ्चमहाभूतका-</p>
<lg>
  <l>र्यत्वे सति शब्दाद्युपलब्धिसाधनत्वं ज्ञानेन्द्रियत्वम् ॥ १२६२ ॥</l>
  <l><bold>ज्ञापकः -</bold> ज्ञानानुकूलशब्दः ३१ ज्ञानजन (कज्ञानविषयः २)कः ।</l>
  <l><bold>ज्ञापनम्-</bold>ज्ञानानुकूलव्यापारः ॥ १२६६ ॥</l>
  <l><bold>ज्ञेयत्वम्-</bold>ज्ञानविषयत्वम् ॥ १२६७ ॥</l>
</lg>
<p><bold>ज्ञेयचैतन्यं-</bold> घटाद्यवच्छिन्नं चैतन्यम्१ 'प्रमेयचैतन्य' लक्षणमप्य०
<bold>ज्येष्ठत्वम्-</bold>बहुतरसूर्यस्पन्दान्तरितजन्यत्वम् ॥ १२६९ ॥</p>
<pb n="68" />
<p><bold>ज्योतिषं-</bold> ज्योतिः अधिकृत्य कृतं शास्त्रम १ सूर्यादिग्रहगत्या-
दिकप्रतिपादको ग्रन्थः * २ सूर्यादिज्योतिर्द्वारा कर्मानुष्ठान-
कालनिर्णयेष्टानिष्टफलप्रदर्शकम् ॥ १२७२ ॥
<bold>टिप्पनी-</bold> मूलटीकार्थबोधक्षमव्याख्यारूपा १ टेपतीति ॥१२७४॥
<bold>टीका-</bold> विषमपदव्याख्यारूपा १ व्याख्यान' लक्षणमप्यत्र पठनीयं
<bold>*त*</bold>
<bold>तटस्थः -</bold> वादिप्रतिवादिभावानापन्नः१तद्भित्वे सति तद्बोधकः
<bold>तटस्थलक्षणत्वं-</bold> कादाचित्कत्वे सति व्यावर्तकत्वम्, यथा देव-
दत्तस्य तिलकादिकम् । स्वरूपलक्षणेतिव्याप्तिवारणाय सत्य-
न्तम्, लक्ष्यावृत्तितादृशधर्मेऽतिव्याप्तिवारणाय व्यावर्तकेति
<bold>तत्पुरुषसमासः-</bold> उत्तरपदार्थप्रधानः समासः १ समासप्रयुक्त -
लक्षणाशून्योत्तरनामपदकत्वे सति लुप्तद्वितीयादिविभक्तिकपूर्व-
नामपदकसमासः । पञ्चफलीत्यादिवारणाय सत्यन्तम्, नीलो-
त्पलादिवारणाय लुप्तेत्यादि २० तत्पुरुषपरिभाषाविषयत्वम् ।
<bold>तत्त्वज्ञानं-</bold> यथार्थज्ञानम् *१जीवब्रह्मणोरभेद(निश्चयः२) गोच-
राऽन्तःकरणवृत्तिः २ इदं सर्वं द्वैतजातमद्वितीये चिदानन्दात्मनि
मायया कल्पितत्वा मृषैव आत्मैवैकः परमार्थसत्यः सच्चिदान-
न्दाद्वयोऽहमस्मीति ज्ञानम् ३'आत्मज्ञान' लक्षणमप्यत्र पठनीयं
<bold>तत्त्वंपदार्थशोधनं-</bold> यद्यद्ध्द्यावृत्तं तत्तदनात्मा यदन्वयि तदात्मे -
<bold>तथाहि-</bold> उक्तार्थदृढीकरणम् ।                        [ ति निश्चयः
•</p>
<pb n="69" />
<p><bold>तदर्थ:-</bold> तस्यार्थः १ तदुपकारकः २ उपकार्योपकारकभावः ।
<bold>तनुमानसज्ञानभूमिका-</bold> निदिध्यासनाभ्यासेन मनस एका-
ग्रतया सूक्ष्मवस्तुग्रहणयोग्यता ।                                            [णमप्यत्रप०
<bold>तनुव्यसनं-</bold> तनुपोषणे साभिनिवेशप्रवृत्तिः १ 'देहवासना' लक्ष-
<bold>तन्त्रम् -</bold> कार्यसाधकम् १ दृढप्रमाणम् * २ विस्ताराभावः ३
इतराधीनम् ४ स्वराष्ट्रचिन्ता वा ५ उभयार्थैकप्रयोगः ६ सकृ-
दुच्चारितत्वे सत्यनेकार्थबोधकत्वं तन्त्रत्वम् ॥ १२९६ ॥
<bold>तपः-</bold> क्षुत्पिपासाशीतोष्णादिद्वन्द्वसहनम् १ शास्त्रीयमार्गेण काये-
न्द्रियशोषणम् २ मनसश्चेन्द्रियाणाञ्चैकाग्र्याम् ३ अन्तर्मुखा-
नि यदि खानि तपस्ततः किं ! नान्तर्मुखानि यदि खानि
तपस्ततः किम्, अन्तर्बहिर्यदि हरिश्च तपस्ततः किं !
नान्तर्बहिर्यदि हरिश्च तपस्ततः किम् ॥ १२९७ ॥
<bold>तमः-</bold>तेजोऽभावः १स्पर्शरहितत्वे सति रूपवत्त्वं तमस्त्वम् । पृथि-</p>
<lg>
  <l>व्यादिवारणाय सत्यन्तम्, आकाशादिवारणाय रूपवदिति ।</l>
  <l><bold>तमोगुणत्वं-</bold>गुरुत्वे सत्यावरकत्वे सति मोहकत्वम् ॥ १३००॥</l>
</lg>
<p><bold>तर्क:-</bold> अनिष्ट (पादनम् १ ) प्रसञ्जकः २ व्याप्यारोपेण व्यापका-
रोपः, यथा यदि पर्वते वह्निर्न स्यात्तर्हि धूमोऽपि न स्यात् ३
युक्त्याऽर्थनिर्णयः ४ व्यभिचारादिशङ्कानिवर्तकः ॥१३०५ ॥
<bold>तात्पर्य-</bold> वक्तुरिच्छा १ प्रकरणोचितप्रतीतिजननानुकूलवृत्तिमत्त्वं
<bold>तात्पर्यानुपपत्तिः-</bold> मुख्यार्थप्रत्यायने सति तात्पर्यस्यानुपपन्नत्वं</p>
<pb n="70" />
<p><bold>तादात्म्यं -</bold> भेदसहिष्णुरभेदः १ तद्भिन्नत्वे सति तद (भेदेन प्रती-
यमानत्वम् २) भिन्नसत्ताकत्वम् ॥ १३११ ॥
<bold>तापः -</bold> प्रतिकूलवेदनीयः ।               [विपर्ययविशेषः
<bold>तामिस्रः-</bold>दुःखसाधने विद्यमानेपि किमपि दुःखं मे माभूदिति
<bold>तारतम्यं-</bold>न्यूनाधि (क्यम् १ ) भावः २ उत्कर्षापकर्णौ ॥ १३१६॥
<bold>तितिक्षा-</bold> शीतोष्णादिद्वन्द्वसहिष्णुता ॥ १३१७ ॥
<bold>तिरोभावः-</bold>व्यवहारायोग्यत्वम् ॥ १३१८ ॥
<bold>तीर्थत्वं-</bold>पुण्यजनकत्वम् १ तरणस्थानत्वं वा २ तीर्यतेति <error>१३२१</error><fix>॥१३२१॥</fix>
<bold>तीव्रतरवैराग्यं-</bold> पुनरावृत्तिसहितं ब्रह्मलोकादिपर्यन्तं मास्त्वि-
ति स्थिरबुद्ध्या विषयजिहासा ।                                          [विषयजि०
<bold>तीव्रवैराग्यं -</bold> अस्मिञ्जन्मनि पुत्रदारादिमास्त्विति स्थिरबुद्ध्या
<bold>तुरीयावस्था-</bold> ब्रह्मध्यानावस्थस्य पुनः पदार्थान्तरापरिस्फूर्तिः
<bold>तुल्यत्वं -</bold>स्वाभिन्नजातिसमनियतत्वम् १ एकाकारप्रतीतिजन-
कधर्मवत्त्वं वा २ 'सादृश्य' लक्षणमप्यत्र पठनीयम् ॥१३२७॥
<bold>तुल्यबलविरोधः-</bold>अन्यत्रान्यत्र लब्धावकाशयोर्द्वयोः शास्त्र-
योरेकत्र युगपत्प्राप्तिः ।                                                      [च्छत्वबुद्धिः
<bold>तुष्टिः-</bold>भोग्येष्वेतावताऽलमिति बुद्धिः १ अधिगतार्थादन्यत्र तु-
<bold>तूलाऽविद्या-</bold> उपाध्यवच्छिन्नचैतन्याच्छादिकाऽविद्या <error>१३३१</error><fix>॥१३३१॥</fix>
<bold>तृतीयात्वं-</bold> पच्यर्थधर्मिककरणत्वान्वयबोधानुकूलसुप्सजातीयत्वं
<bold>तृप्तिः-</bold>फलेच्छाविच्छेदः १ विषयविशेषसंपर्कजं सुखमिति ग्रं०
॥</p>
<pb n="71" />
<p><bold>तृष्णा -</bold> प्राप्यमाणेष्वप्यर्थेष्वतृप्तिः १ यावदीप्सितद्रव्य प्राप्तौ सत्या-
मपि पुनस्ततोऽधिकद्रव्याङ्क्षेति ग्रं० ॥ १३३६ ॥
<bold>तेज:-</bold> उष्णस्पर्शवत् १ चन्द्रचामीकरसमवेतत्वे सति ज्वलनस-
मवेतसामान्यवान् * २ अप्रतिहताज्ञा ३ पराभिभवसामर्थ्य
वा ४ स्त्रीबालकादिभिर्मूढैरनभिभाव्यत्वम् ॥ १३४१ ॥
<bold>तैजसजीवः-</bold> स्वप्ने व्यष्टिसूक्ष्मशरीराभिमानिजीवः१ व्यष्टिसूक्ष्म-
कारणशरीरद्वयोपहितं चैतन्यम् ।                  [ मध्यत्रप०
<bold>त्यागः-</bold> स्वत्वध्वंसानुकूलव्यापारः १ विभागानु० २'दान' लक्षण.</p>
<lg>
  <l><bold>त्रसरेणुः -</bold> द्व्यणुकत्रयात्मकरजः १ परमाणुषट्कसंबद्धरेणुर्वा ।</l>
  <l><bold>त्राटकम्-</bold>अश्रुसंपातपर्यन्तं सूक्ष्मलक्ष्यनिरीक्षणम् ॥१३४८॥</l>
</lg>
<p><bold>त्रिपुटी-</bold> त्रयाणां पुटानां पदार्थानां ज्ञातृज्ञानशेयरूपाणां समाहारः
<bold>त्रिवृत्करणं-</bold> त्रीणि भूतानि द्विधा विदार्य प्रतिभूतमेकैकमर्द्ध
द्विधा प्रस्फोट्य इतरभूतद्वये योजनम् ॥ १३५० ॥
<bold>त्रुटि:-</bold> क्षणद्वयात्मककालः * १ अवयवादिहीनता ॥१३५२॥
<bold>त्वगिन्द्रियं-</bold> स्पर्श (ग्राहकत्वं त्वक्त्वम् १) पलब्धिसाधनमिन्द्रियं
<bold>*द.</bold>                                [वच्छिन्नत्वं
<bold>दक्षिणत्वं-</bold> शरीरावयववृत्तिजातिविशेषः१ मेरुव्यवहितदेशा-
<bold>दण्डः -</bold> दुष्टनिग्रहः १ ग्रहण (विच्छिन्नशासनम् २) पूर्वकशासनं
<bold>दमः - </bold>इन्द्रियसंयमः १ ब्रह्मज्ञानोपयोगिव्यापारातिरिक्तबाह्येन्द्रि-
यव्यापारमात्रनिरोध इति विजयसारे २ बाह्यवृत्तिनिवर्तनम् ।
-</p>
<pb n="72" />
<p><bold>दम्भः-</bold> परविस्त्रम्भार्थ धर्माद्याचरणम् ] पूजाख्यातिलाभार्थ स्त्र-
जपध्यानादिप्रसङ्गं विना प्रकटीकरणं वा २ वेषभाषाकियाचातु-
र्यादिभिः स्वमहत्त्व(र्थं व्यर्थमाडम्बरः ३) प्रकटनम् ४धर्मध्वजित्वं
<bold>दया-</bold>दुःखि (तेषु भूतेष्वनुकम्पा १ ) नां प्रत्यनुजिघृक्षा <error>१३६६</error><fix>॥१३६६॥</fix>
<bold>दर्पः -</bold> भर्त्सनादिहेतुभूतो मानसो विकारविशेषः १ धनस्वजन-
विद्यादिनिमित्तश्चित्तस्योत्सेक इति ग्रं० ॥ १३६९ ॥
<bold>दर्शनं-</bold> विचारप्रयोजक (ज्य) ज्ञानम् १ तत्त्वज्ञानसाधनशास्त्र-
मिति ग्रं० २ यथार्थनया ज्ञायते पदार्थोऽनेनेति ॥१३७२॥
<bold>दानं-</bold> स्वस्वत्वत्यागपूर्वकपरस्वत्वापादनम् १ 'त्याग' लक्षणमप्यत्र ०
<bold>दान्तः-</bold> तपःक्लेशादिसहनकर्त्ता १ अन्तःकरण (सर्व) तृष्णातो निवृत्तः
<bold>दार्ष्टान्तिकः-</bold> दृष्टान्तविशिष्टः १ दृष्टान्तेन युक्तः ॥ १३७९ ॥
<bold>दाहः-</bold>भस्नीकरणम् *१ अत्यन्तानलसंयोगजन्यनाशः <error>१३८१</error><fix>॥१३८१॥</fix>
<bold>दिक्-</bold>अकालत्वे सत्यविशेषगुणा महती १ प्राच्यादिव्यवहारासा-
धारणहेतुः । आकाशादिवारणायासाधारणेति ॥१३८३ ॥
<bold>दिनं-</bold> सूर्यकिरणावच्छिन्न कालः१ सूर्योदया(दितदस्तमयपर्य) स्त-
<bold>दीक्षा-</bold> नियमः १ गुरुमुखात्स्वेष्टदेवमन्त्रग्रहणम् [पर्यन्तसमयः
<bold>दीर्घसूत्री-</bold>चिरक्रियः १क्षणैकसाध्यका (र्य मासेनापि न करो-
ति २ ) र्यस्य मासेन सम्पादनशीलः ॥ १३९० ॥
<bold>दुःखम्स-</bold>सर्वेषां प्रतिकूलतया वेदनीयम् १ इतरद्वेषानधीनद्वे-
षविषयः । सर्पादावतिव्याप्तिवारणायेतरद्वेषानधीनेति २
द्विष्टसाधनताविषयकजन्यज्ञानाजन्यद्वेषविषयगुणः ॥ १३९३ ॥</p>
<pb n="73" />
<p><bold>दुराचारिणी-</bold> अपचरित्रा १ परभर्तृगामिनीति ग्रं० ॥१३९५॥
<bold>दूषकः -</bold> दोषोत्पादकः १ सदोषत्वसम्पादको वा ॥ १३९७ ॥
<bold>दूषणं-</bold>दोषजनकम् १ बाधकप्रमाणोपन्यासरूपथुक्तिभिः खण्डनं
<bold>दूषितत्वम्-</bold>प्राप्तदोषत्वम् * १ दूषणयुक्तत्वम् ॥ १४०१ ॥
<bold>दृश्यत्वं-</bold> भानभास्यत्वम् * १ फलविषयत्वम् २ वृत्तिप्रतिफलित-
चिद्विषयत्वमिति ग्रं० ३स्वसमसत्ताकज्ञानविषयत्वम्॥ १४०५॥
<bold>दृष्टकूटं-</bold> कूटार्थभाषितवाक्यम् १ अन्यार्थत्वे सत्यन्यार्थबोधकत्वं
दृष्टकूडत्वम् २ पर्वताग्रे रथो याति भूमौ तिष्ठति सारथिः,
भ्रमँश्च वायुवेगेन पदमेकं न गच्छति 'कुलालचक्रम्'
पञ्चभत्री न पाञ्चाली द्विजिह्वा न च सर्पिणी, श्यामास्या न
च मार्जारी यो जानाति स पण्डितः 'लेखनी' ॥१४०९ ॥
<bold>दृष्टान्तः -</bold> दृष्टः अन्तोऽवसानं निर्णयो यस्मिन् १ वादिप्रतिवा-
दि (निर्णीतोर्थ: २) संमतोऽर्थः, यथा महानसम् ३ वादिप्रति-
वादिनोः साध्यसाधनोभयप्रकारकतदभावद्वयप्रकारकान्यतर-
निश्चयविषयः ४ निश्चितसाध्यकत्वं दृष्टान्तत्वम् ॥ १४१४ ॥
<bold>दृष्टार्थापत्तिः -</bold> अनुपपद्यमानदृष्टार्थज्ञानात्तदुपपादकीभूतार्था-
न्तरकल्पनम्, यथा दिवाऽभोजिदेवदत्ते रात्रिभोजनमन्तरा-
नुपपद्यमानपीनत्वदर्शनात्तदुपपादकीभूतस्यार्थान्तरस्य (रात्रि-
भोजनस्य ) कल्पनम् ॥ १४१६ ॥
<bold>दृष्टिः-</bold>दर्शनम् १ चक्षुद्वारारूपोपलब्धिहेतुमनोवृत्तिः ॥१४१८॥</p>
<pb n="74" />
<p><bold>दृष्टिसृष्टिः-</bold>दृष्टिसम(<error>नकालीनसृष्टि: १ </error>) समया विश्वसृष्टि: २
दृष्टिरेव विश्वसृष्टिः ३ त्रिविधसत्ताबहिर्भूतत्वे सत्यसद्विलक्षणत्वम्
<bold>देवतात्वम्-</bold> मन्त्रकरणकहविस्त्यागभागित्वेनोद्देश्यत्वम् <error>१४२३</error><fix>॥१४२३॥</fix>
<bold>देवताधिकरणन्यायः- </bold>देवतानां यज्ञादावधिकारित्वतद्भाव-
योरन्यतरसाधको न्यायः १ देवतानां विग्रहवत्त्वतदभावयोरन्य०
<bold>देवयानम्-</bold>सुराणां (यानम् १ ) गतिसाधनविमानम् ॥ १४२६॥
<bold>देवयानमार्गः-</bold> देवः परेशो यायतेऽनेन मार्गेण १अर्चिराद्यभि-</p>
<lg>
  <l>मानिदेवाधिष्ठितो मार्ग: २ नागवीथ्युत्तरे यच्च सप्तर्षिभ्यश्च</l>
  <l>दक्षिणम्, उत्तरः सवितुः पन्था देवयानस्तु स स्मृतः ।</l>
  <l><bold>देशान्तरं -</bold> अन्यो देश: १महानद्यन्तरं यत्र गिरिर्वा व्यवधा-</l>
  <l><error>यक</error> चो यत्र विभिद्यन्ते तद्देशान्तरमुच्यते ॥ १४३१ ॥</l>
</lg>
<p><bold>देशपरिच्छेदः -</bold> यत्किश्चिद्देशावृत्तित्वम् १ स्वाधिकरणदेश-
वृत्त्यत्यन्ताभावप्रतियोगित्वमिति ग्रं० ॥ १४३३ ॥
<bold>देहः -</bold> इन्द्रियाश्रयः * १ प्रतिक्षणमुपचीयमानावयवः ॥१४३५॥
<bold>देहवासना-</bold>सदन्नपानादिसेवनबलवीर्यादिसंपादनालङ्करणादि-
भिर्देहसौष्ठवसंपादनाभिनिवेशहेतुः १ देहानुभवजनितत्वे सति
देहस्यैव पुनः पुनः(पुष्ट्याद्यर्थम् ) स्मरणहेतुरित्यादर्शे २ संपा-
दयितुमशक्यत्वात्क्लेशबहुत्वादप्रामाणिकत्वात्पुरुषार्थानुपयोगि-
त्वात्पुनर्जन्महेतुत्वादिति निरन्तराञ्चन्तनं देहवासनानिवृत्त्युपाय:
<bold>देहाध्यासः-</bold> देहस्य तद्धर्मस्य वात्मतया तद्धर्मतया वाध्यासः ।</p>
<pb n="75" />
<p><bold>दैनन्दिनप्रलयः-</bold> ब्रह्मणः सुषुप्तिः * १ समष्टिलिङ्गशरीरलयः ।.
<bold>दोषः - </bold>तावदन्यतमः * १ भ्रमोत्पादकः २ कार्यविरोधित्वं दोषत्वं
<bold>द्योतकः-</bold> कियाविशेषाक्षेपकः * १ तात्पर्यग्राहकः २ संबन्धप-</p>
<lg>
  <l>रिच्छेदक इति ग्रं० ३ स्वसमभिव्याहृतपदनिष्ठशक्तिव्यञ्जकः ।</l>
  <l><bold>द्रवत्वम् -</bold> आद्यस्यन्दनासमवायिकारणम् ॥ १४४८ ॥</l>
</lg>
<p><bold>द्रव्यत्वं -</bold> लिङ्गसङ्ख्याकारकान्वितत्वमिति वै० १ गुणक्रियाश्रय-
त्वमिति मी० २ साक्षाः संबन्धेनेद्रियग्राह्यत्वम् ३ संयोगव-
द्वृत्तिसत्तावान्तरजातियोगित्वमिति लक्षणमालायाम् ४ गग.
नारविन्दसमवेतत्वे सति नित्यगन्धासमवेतत्वम् ॥ १४५४ ॥
<bold>द्रोहः -</bold> अहितेच्छा १ अनिष्टचिन्तनं वा २ परेषु स्वच्छन्दवृत्तिवि-
रोधः * ३ दुःखजनकक्रियारूपापकारजनकश्चित्तवृत्तिविशेषः ।
<bold>द्वन्द्वसमासः-</bold>सर्वपदार्थप्रधानः १ परस्परानन्वित ( र्थकानेकप-
दघटितत्वम् २) समस्यमाननिखिलपदार्थबोधकसमासः<error> १४६२</error><fix>॥१४३२॥</fix>
<bold>द्वारं-</bold> गृहनिर्गमस्थानम् १ 'व्यापार'लक्षणमप्यत्र पठनीयम् <error>१४६३</error><fix>॥१४६३॥</fix>
<bold>द्वितीयात्वं-</bold> तिबन्तपचधातूपस्थाप्यपाकथर्मिककर्मत्वानुभवा-
नुकूलसुप्सजातीयत्वम् ॥ १४६४ ॥
<bold>द्वेषः-</bold> वृथा निन्दा १ परानिष्टाभिलाषः २ द्विष्टसाधनताज्ञानज-
<bold>द्वैतवादः -</bold> जीवेश्वरादिभेदनिर्णायकः कथाविशेषः । [न्यगुणः
<bold>द्वैताद्वैतम् -</bold> कार्यात्मना द्वैतं कारणात्मनाऽद्वैतम् ॥ १४६९ ॥
<bold>द्व्यणुकम्-</bold> परमाणुद्वयारब्धकार्यद्रव्यम् ॥ १४७० ॥</p>
<pb n="76" />
<p><bold>*ध*</bold>
<bold>धनुर्वेदः -</bold> धनुर्विद्याबोधकशास्त्रम् १ धनुःप्रयोगसंहारज्ञापको वेदः
<bold>धर्म:-</bold> अन्याश्रितत्वे सत्यस्वतन्त्रः *१ कल्याणकारिकर्म २ विहि-
तकर्मजन्य इति ग्रं० २ वेदप्रतिपाद्यः प्रयोजनवदर्थः । प्रयोजनेऽ
तिव्याप्तिवारणाय प्रयोजनवदिति, भोजनादावतिव्याप्तिवार-
णाय वेदप्रतिपाद्य इति, श्येनादावतिव्याप्तिवारणायार्थ इति ४
कार्यनियोगापूर्वपर्यायकैः शब्दैरुच्यमानो धात्वर्थसाध्यस्वर्गा-
दिफलसाधनपुरुषगुण इति प्राभाकरा: ५ यागजन्यस्वर्गजनक-
वृत्तिगुणत्वव्याप्यजातिमानिति तार्किका: ६ क्रियासाध्यत्वे सति
श्रेयस्कर इति लौकिकाः ७ धरति लोकान् *८ ध्रियतेनेनेति ९
सत्याज्जायते, दयया दानेन च वर्धते, क्षमायां तिष्ठति, क्रोधान्नश्यति
<bold>धर्मशास्त्रं -</bold> वेदार्थ (नुभवजन्यं शास्त्रम् १) स्मरणपूर्वकरचितं शास्त्रं
<bold>धर्मी-</bold> धर्माश्रयः १ प्रतियोगिभिन्नत्वे सति भेदनिरूपकत्वं धर्मित्वं
<bold>धातुत्वं-</bold> क्रियावाचित्वे क्रियानिरूपितशक्तिविशिष्टत्वे वा सति
<bold>धात्वर्थः-</bold> फलानुकूलव्यापारः ।                         [गणपठितत्वं
<bold>धारणा-</bold> न्यायपथस्थितिः १ सारासारावधारणपूर्वकं प्रत्युक्तिसमये
स्मरणयोग्यतापादनम् २मूलाधारस्वाधिष्ठानमणिपूरकानाहत-
विशुद्धाज्ञाचक्रदेशानामःयतरस्मिन्प्रत्यगात्मनि वा चित्तस्थापनं
<bold>धारावाहिकज्ञानं-</bold>घटोघट इत्याकारकः सततप्रत्ययः <error>१४९२</error><fix>॥१४९२॥</fix>
<bold>धृतिः -</bold> अवसन्नानां देहेन्द्रियाणामवष्टम्भहेतुः प्रयत्नः॥१४९३॥</p>
<pb n="77" />
<p><bold>धैर्य-</bold>शोकादिजनितोपप्लवनिवारणकारणीभूतवृत्तिः [वाहकर्ता
<bold>ध्याता -</bold> ध्यानाश्रयः १ विजाती प्रप्रत्ययानन्तरितसजातीयप्रत्ययप्र
<bold>ध्यानं-</bold> अन्तराऽन्तरा वृत्त्यन्तरवती प्रत्ययैकतानता (= सजाती-
यप्रत्ययप्रवाहः) १ 'निदिध्यासन' लक्षणमप्यत्र पठनीयम् <error>१४९६</error><fix>॥१४९६॥
</fix><bold>ध्येयत्वम्-</bold> ध्यानविषयत्वम् ॥ १४९७ ॥
<bold>ध्रुवत्वं-</bold> प्रकृतधात्वर्थव्यापारानाश्रयत्वे सति तज्जन्यविभागाश्र-
यत्वम् * १ प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वम् ।
<bold>*न*</bold>                             [जातिसंबद्धं
<bold>नगरं -</bold> बुद्धिजीविजन निवासः १ पण्यक्रियादिनिपुणत्वे सत्यनेक
<bold>ननु-</bold> संबोधनम् * वाक्यारम्भः २ प्रत्युक्तौ आक्षेपः । [म्यावस्था
<bold>नपुंसकलिङ्गं -</bold> इदमितिव्यवहारविषयः *१सत्त्वादिगुणानां सा-
<bold>नमस्कार:-</bold> 'प्रणाम' वदस्य लक्षणमनुसंधेयम् ।              [पार:
<bold>नमस्कारमङ्गलं-</bold> स्वनिष्ठापकर्षविषयकबोधानुकूलः स्वीयव्या-
<bold>नरकः-</bold> पापिलोकः पापभोगस्थानम् १ नास्त्यस्मिन्त्रमणं रतिकरं
स्थानमल्पमपीति ।                                                                  [ग्रन्थविशेषः
<bold>नाटकं -</bold> अङ्कसंध्यामुखादिमत्त्वे सति गद्यपद्यप्राकृतभाषादिमय-
<bold>नादः -</bold> संवृते गलविवरे यत्कण्ठनिनादनकरणम् ॥ १५०७ ॥
<bold>नांतरीयकः-</bold> तत्सत्तानियतसत्ताकः १ अन्यनिष्पादकयत्ननिष्पाद्यः
<bold>नाम-</bold> संभावना * १ विभक्तिहीनशब्दः २ लिङ्गसङ्ख्यान्वय्यर्थप्र-
तिपादकमिति ० ३ शब्दनोच्चारितेनेह येन द्रव्यं प्रती-</p>
<pb n="78" />
<p>यते, तदक्षरविधौ युक्तं नामेत्याहुर्मनीषिणः ॥ १५१३ ॥
<bold>नाममात्रत्यं -</bold> स्ववीर्यहीनत्वे सति सञ्ज्ञामात्रधारित्वम् <error>१५१४</error><fix>॥१५१४॥</fix>
<bold>नास्तिकः -</bold> वेदनिन्दकः १ परलोकाद्यभावप्रतिपादक इति मं०
<bold>निगमः -</bold> अध्वनिपर्यायकथनेन वेदार्थबोधकः ॥ १५१७ ॥
<bold>निगमनं-</bold> सहेतुकं पक्षस्य साध्यवत्तया पुनर्वचनम् १ हेत्वपदेशात्प्र-
तिज्ञायाः पुनर्वचनम्, यथा तस्मात् (धूमात्) तथा ( वह्निमान्) इति
<bold>निग्रहः -</bold>पराजयः १ अनुग्रहाभावः २'निरोध'लक्षणमप्यत्रपठ०
<bold>निग्रहस्थानं-</bold> पराजयहेतुः १ वादिप्रतिवादिनोऽसामर्थ्यबोधकं
<bold>निघण्टुः-</bold> नामसङ्ग्रह: *१पर्यायनाम्नामेकत्रार्थकथनार्थसङ्ग्रहः २
वैदिकद्रव्यदेवतात्मकपदार्थपर्यायशब्दात्मत्वम् ॥ १५३५ ॥
<bold>नित्यत्वं-</bold> कृताकृतप्रसङ्गित्वमिति वै० १ अविच्छिन्नपरम्पराक-
त्वम् *२ सर्वकालवृत्तित्वम् ३त्रैकालिकनिषेधात्यन्ताभावाप्रति-
योगित्वमिति ग्रं० ४ ध्वंस प्रतियोगिवृत्तित्वविशिष्टसत्तायोगित्वं
<bold>नित्यकर्म-</bold> अवश्यापेक्षितफलसाधनं कर्म १ करणे चित्तशुद्ध्यति-
रिक्तफलाननुबन्धित्वे सत्यकरणे प्रत्यवायानुबन्धित्वम्, यथा
ब्राह्मणस्य संध्यागायत्र्यादि २ प्रत्यवायजनकीभूताभावप्रति-
योगित्वम्, यथा एकादश्यामुपोषणमिति ३ अहरहर्जायमान-
त्वम्, यथा नित्यं कुमाराः क्रीडन्तीति ॥ १५३४ ॥
<bold>नित्यप्रलयः-</bold> प्राणिनां सुषुप्तिः १ नित्यः प्रात्यहिकः प्रलयः ।
<bold>निदिध्यासनं-</bold> अपरोक्षनिश्चयत्वसंपादको (व्यापारः १ ) स्त-</p>
<pb n="79" />
<p>र्कः *२ श्रुतार्थस्य नैरन्तर्येण दीर्घकालमनुसंधानम् ३विजातीय-
प्रत्ययतिरस्कारेण सजातीयप्रत्ययप्रवाहीकरणमिति कौस्तुभे ।
<bold>निद्रा-</bold> अभावप्रत्ययालम्बना वृत्तिः * १ प्रबुद्धप्रत्यवमर्शहेतुः ।
<bold>निंदा-</bold> दोषाविष्करणम् १ विरोधिभिः पुरुषैः स्वस्मिन्नापादिता दो-
षोक्तिरिति ग्रं० २ आस्थेन परस्य विद्यमानाविद्यमानदेषसकीर्तनं
<bold>निन्दार्थवाद:-</bold> अनिष्टबोधनद्वारा ( निषेधवाक्यैकवाक्यतया
निवर्तकं वाक्यम् १ ) विध्यर्थप्रवर्तकं वचनम् ॥ १५४७ ॥
<bold>निन्दितं-</bold> निन्दायुक्तम् १ शास्त्रलोकयोर्गर्हितमिति ग्रं० ॥१५४९ ॥
<bold>निपात:-)</bold> निकृष्टः पातः १ अन्तिमपतनम् * २ सिद्धप्रक्रियस्य
<bold>निपातनं-)</bold> निर्देशः ३ अन्यादृशप्रयोग प्राप्तेऽन्यादृशप्रयोगकरणं
<bold>निमन्त्रणं-</bold> आवश्यकश्राद्धभोजनादौ प्रवर्त्तनम् ॥ १५५२ ॥
<bold>निमित्तकारणं-</bold> स्वातिरिक्तकार्यजनकम् १ कार्योत्पत्तिमात्रका-
रणम्, यथा घटादेः कुलालादि २ कार्यानुकूलव्यापारवत्त्वं नि-
मित्तकारणत्वम् ३ कार्यस्थित्यनियामकत्वे सति कार्यजनिनि-
यामकत्वम् । उपादानकारणवारणाय सत्यन्तम् ॥ १५५६॥
<bold>नियमः-</bold> अनुमित्यनुकूलसंबन्धः १ न्यूनाधिकावृत्तिः २अविनाभा-
वेन सहावस्थानमिति ग्रं० ३ निश्चयानुकूलप्रतिबन्धः ४जन्महेतु-
काम्यधर्मान्निवर्त्य मोक्षहेतौ निष्कामधर्मे नियमयति प्रेरयतीति५
शौचा (द्यन्यतमः ६) दिसंपादनम् ७कायवाक्साध्यत्वे सति योगा-
ङ्गविशेषः ३ ८ आमन्नुकसाधनकर्मरू (पो व्रतः ९) पाङ्गीकारः ।</p>
<pb n="80" />
<p><bold>नियमविधिः-</bold>पक्षे (ऽप्राप्तस्य प्रापकत्वम् १ ) प्राप्तस्याप्राप्तांश-
पूरको विधिः, यथा यागाङ्गत्वेन प्राप्तानां व्रीहीणां नखविदलनमु-
सलाबहननयोर्द्वयोः पक्षयोः कदाचिन्नखविदलनस्य प्राप्तौ सत्यां
मुसलावहननमप्राप्तं स्यात्तस्य पूरको द्रोहीनवहन्यादित्यव-
घ्रातविधिः २ अन्यनिवृत्तिफलकसिद्धविषयक विधिः ॥१५६७ ॥
<bold>नियोगः-</bold> प्रवृत्त्यनुकूलो व्यापारः १ प्रवर्तकज्ञानोपधायकतानि-
र्वाहकव्यापारः २ 'एवं कुरु' इत्याकारकादेशः ।                  [यकं
<bold>नियोज्यं -</bold>नियोग (जन्यप्रवृत्तिमत् १) र्हम् २ प्रवर्तकज्ञानोपधा-
<bold>निरर्थकत्वं-</bold> प्रयोजनशून्यत्वम् १ प्रकृतानुपयोगित्वं वा <error>१५७३</error><fix>॥१५७३॥</fix>
<bold>निरुक्तं-</bold> पदनामवयवार्थनिर्वचनप्रतिपादको ग्रन्थः १ वैदिकप-
दानां पर्यायव्युत्पत्त्यादिप्रतिपादकं शास्त्रम् *२ शब्दस्य सर्वा-
वयवार्थानुगमेन प्रसिद्धार्थादर्थान्तरे वृत्तिः, यथा सोमशब्दस्य
पार्वतीसहितमहेश्वरे शक्तिरिति विवरणे ।                                        [वत्त्वं
<bold>निरुपाधिकभेदत्वं-</bold> उपाधिसत्ताव्याप्यसत्ताकत्वात्यन्ताभाव-
<bold>निरुपाधिकभ्रमः-</bold> अधिष्ठानज्ञाननिवर्त्यो भ्रमः ॥ १५७८ ॥</p>
<lg>
  <l><bold>निरुपाधिकाध्यासः-</bold> उपाधिनिरूपगानधीननिरूपणाध्यासः ।</l>
  <l><bold>निरूढः -</bold> शक्तितुल्यलक्षणयार्थबोधकः शब्दः ॥ १५८० ॥</l>
</lg>
<p><bold>निरूढलक्षणा-</bold> अनादितात्पर्यविषयीभूतार्थनिष्टा लक्षणा, यथा
नीलो घटः ।                                                                           [ प्रयोगः
<bold>निरूपणं-</bold> लक्षणप्रमाणस्वरूपाभिधानम् १ तत्त्वज्ञानानुकूल</p>
<pb n="81" />
<p><bold>निरोधः-</bold> गत्यादिप्रतिरोधः *१ इन्द्रियाणां विषयेभ्यो निग्रहणं
<bold>निर्गुणत्वं-</bold> गुणातीतत्वम् १ विद्यादिहीनत्वम् *२ स्वसमानस-
त्ताकधर्मवद्यद्यत्तद्भिन्नत्वे सति तुच्छभिन्नत्वम् ॥ १५८८ ॥
<bold>निर्णय:-</bold> अनुभूतार्थकथनम़् *१ संदेहनिराकरणफलकं ज्ञानम् २
विरोधपरिहारकोऽधिकरणाङ्गविशेषः ३ सिद्धान्तसिद्धविचा-
र्यवाक्यतात्पर्यावधारणमिति ग्रं० ॥ १५९१ ॥
<bold>निर्देशः -</bold> शब्दप्रयोगः*अव्यवधानपूर्वककथनम् २ विस्तारपूर्वक ०
<bold>निर्वाहकं-</bold> उत्पत्त्यनुकूलम् १ तदन्यत्वे सति तन्निर्वाहकनिर्वाह्यं
<bold>निर्विकल्पकं-</bold> वस्तुस्वरूपमात्रग्रहणम् १ संसर्गानवगाहिज्ञानम्,
यथा सोऽयं देवदत्तः २ विशेषणविशेष्यसंबन्धानवगाहिज्ञानम्
<bold>निर्विकल्पसमाधिः-</bold>ज्ञातृज्ञानज्ञेयविकल्पानवभासपुरःसरमा-
त्मनि चित्तसमाधानम् ।                                                             [शकयत्नः
<bold>निवृत्तिः-</bold>  प्रवृ (त्तिप्रागभावरूपमौदासीन्यम् १ ) त्त्युपाधिविना-
<bold>निश्चयः -</bold>  संशयविरोधिज्ञानम्१ तदभावाप्रकारकत्वे सति तत्प्रका-
<bold>निषिद्धकर्म-</bold> प्रत्यवायजनकं कर्म, यथा गोहत्यादि । [रकज्ञानं
<bold>निषेधवाक्यं -</bold>पुरुषनिवर्तकवाक्यम् १ अनिष्टसाधनताबोधकवा ०
<bold>निष्कर्ष:-</bold> सारांश: १ इयत्तापरिच्छेदो वा २ निष्कृष्टः ॥ १६१० ॥
<bold>निष्कामत्वं-</bold> भोगेच्छाशून्यत्वम् १ विषयकामनासामान्याभाववत्त्वं
<bold>निष्कामकर्म-</bold> कामनारहितं कर्म १ कर्तृत्वाभिमान फलेच्छाऽभा-
ववत्त्वे सत्यन्तर्यामीश्वरचरणैकसमर्पितत्वं निष्कामकर्मत्वम् ।
..
-</p>
<pb n="82" />
<p><bold>निष्परिग्रहः-</bold> कन्थाकौपीनाध्यात्मपुस्तकादिव्यतिरिक्तद्रव्या-
नङ्गीक ( र्ता १ ) रः ॥ १६१६ ॥
<bold>नीतिः- )</bold> न्यायबोधकवाक्यम् १राजविद्यानियन्तृशास्त्रम् २
<bold>नीतिशास्त्रं- )</bold> संधिविग्रहादिप्रतिपादकशास्त्रमिति ग्रं० <error>१६१८</error><fix>॥१६१८॥</fix>
<bold>नृत्यं-</bold> सङ्गीतशास्त्रानुकूलहावभावपूर्वकहस्तादिव्यापारः १पदार्था-
भिनयपूर्वकत्वे भूचरणसंयोगत्वे वा सति सविलासतालानुसार्यङ्गविक्षेपः
<bold>नैमित्तिककर्म-</bold> कुतश्चिन्निमित्तात्कृतं कर्म, यथा पुत्रेष्ट्यादि १
अनुष्टाने फलविशेषजनकत्वे सत्यननुष्ठाने प्रत्यवायजनकम् ।
<bold>नैमित्तिकप्रलयः-</bold>  सर्वकार्यद्रव्यध्वंसः १ कार्यद्रव्यानधिकरण-
कार्याधिकरणकालः *२ कार्यब्रह्मणो दिवसावसाननिमित्तऋ-
स्त्रैलोक्यमात्रप्रलयः ३एकस्मिन्मन्वादावपगतेऽपराधिपत्यान्त-
<bold>नैयायिकः -</bold> षोडशपदार्थानुसारिन्यायज्ञः ।.          [रालकाल:
<bold>नैवेद्यं -</bold> देवतोद्देशेन (निवेदनीयद्रव्यम् १ ) त्यक्तद्रव्यम् ॥ १६२८॥
</bold> <bold>नैष्ठिकब्रह्मचारी-यावज्जीवं गृहीतब्रह्मचर्यव्रतः ॥ १६२९ ॥
<bold>नोदनसंयोगः-</bold> स्पर्शवद्द्रव्यसंयोगः ॥ १६३० ॥
<bold>नोदना-</bold> क्रियासु प्रवर्तकं वचनम् १ क्रियां प्रति प्रवर्तकं वचः ।
<bold>न्यायः -</bold> लोकशास्त्रप्रसिद्धदृष्टान्तः १ प्रमा(गैरर्थपरीक्षणम् २) णानु-
ग्राहकतर्कः ३ उचितानुपूर्वीकप्रतिज्ञादिपञ्चकसमुदायः ४ अनु-
मितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यम्
<bold>न्यायशास्त्रं-</bold> परार्थानुमानप्रधानं शास्त्रम् १ पदार्थानां सर्वेषा-
मनुगमरूपेण प्रकाशको ग्रन्थः ॥ १६३९ ॥</p>
<pb n="83" />
<p><bold>न्यूननिग्रहस्थानं-</bold> यत्किञ्चिदवयवशून्यावयवाभिधानम् <error>१६४०</error><fix>॥१६४०॥</fix>
<bold>न्यूनवृत्तित्वं-</bold>तत्समानाविकरणभेदप्रतियोगितावच्छेदकत्वम्
<bold>*प*</bold>
<bold>पक्ष:-</bold> अनुमित्युद्देश्यः १ संदिग्धसाध्यवान्. २ सिषाधयिषितधर्मा-
नुयोगी ३वादिप्रतिवादिदर्शितविप्रतिपत्तौ कोटि: ४ शुक्लकृष्ण-
प्रतिपदादिपञ्चदश्यन्तपञ्चदशतिथ्यात्मककाल इति मौहूर्तिकाः
<bold>पक्षपातः-</bold> न्यायविरुद्धपक्षावलम्बनम् १ पक्षेऽन्याय्यसाहाय्ये
पातः अभिनिवेशः ।                                     [निवेश: २) स्थितिः
<bold>पङ्कि:-</bold> ग्रन्थार्थबोधकशब्दः १ सजातीयपदार्थानां (क्रमेण सं.
<bold>पञ्चीकरणं-</bold> स्वस्वेतरभूतचतुष्टयभागविशेषेण मिश्रीकरणम् १
भूतानि प्रत्येकं पञ्चधा विभज्य सद्भूतांशे पञ्च समुदायकरणम् २
पञ्चानां भूतानामेकैकं द्विधा विभज्य स्वार्द्धभागं विहायार्धभागं
चतुर्धा विभज्येतरेषु योजनम् । [ धानुकूलसुप्सजातीयत्वं
<bold>पञ्चमीत्वं-</bold> पतधात्वर्थतावच्छेदकरूपावच्छिन्नधर्मिकविभागबो.
<bold>पण्डितः-</bold> पण्डा शास्त्रतात्पर्यवती सदसद्विवेकिनी वा बुद्धिः सञ्जा
<bold>पतनं-</bold> पातित्यम् *१अधःसंयोगानुकूलक्रिया ।   [ता यस्य
<bold>पतित्वं -</bold> निरतिशयहक्कियाशक्तिमत्त्वमिति शैवाः ॥ १६५८ ॥
<bold>पतितः -</bold> नरकगमन (हेतुभूतक) सूचककर्मविशेषकारकः <error>१६५९</error><fix>॥१६५९॥</fix>
<bold>पतिव्रता-</bold> आर्त्तार्ते मुदिता हृष्टे प्रोषिते मलिना कृशा,
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥१६६०॥</p>
<pb n="84" />
<p><bold>पत्रं-</bold> लेखनाधारः १ पात्यते स्थानात्स्थानान्तरं समाचारोऽनेन।
<bold>पदं-</bold> विभक्तयन्तशब्दः  *१ वर्णसमूहः २ अर्थवद्वर्णो वा ३
वाक्यैकदेशः ४ प्रत्येकं संभूय वा वाक्यांशबोधको वर्णः * ५
शा[^१]ब्दप्रतीत्यजन्यशाब्दप्रतीतिजनकं वर्णात्मकम् । शाब्दप्र-
तीतिजन्यशाब्दप्रतीतिजनकं वाक्यं प्रथमविशेषणेन व्याव-
र्त्यते, द्वितीयेन प्रत्यक्षानुमानादावतिव्याप्तिर्व्युदस्यते, वर्णात्म-
कत्वविशेषणेनादृष्टेश्वरादि ६ वृत्तिमत्त्वं पदत्वम् ॥ १६६९ ॥
<bold>पदार्थ:-</bold> पद (स्यार्थ: १) बोध्योऽर्थः २ पदनिष्टवृत्तिविषयः * ३
द्रव्याद्यन्यतमः ।                                                                     [स्फूर्त्यवस्था
<bold>पदार्थाभावनी-</bold> असंसक्तिभूमिकाभ्यासपाटवाच्चिरं प्रपश्चापरि-
<bold>पदैकवाक्यत्वं-</bold> निरूप्यनिरूपकभावापन्नविषयताप्रयोजक-
त्वम् १ पदस्य वाक्येन सह्रैकवाक्यतयैकार्थबोधकत्वम् २ पद-
रूपार्थवादवाक्यस्य विधिवाक्येन सह यदेकवाक्यत्वमिति ग्रं॰
<bold>पद्यं-</bold> छन्दोबद्धवाक्यम् १पादलक्षणसहितपदसमूहः । [ कारणं
<bold>परत्वं-</bold> शत्रुत्वम् * 1 सीमापरिच्छिन्नत्वम्२परव्यवहारासाधारण-
<bold>परकृत्यर्थवादः-</bold> पुरुषविशेषनिष्ठमिथोविरुद्धकथनम्, यथा यद्वि
श्वेदेवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेवत्वम् ॥ १६८५ ॥
<bold>परतन्त्रत्वं -</bold> उत्कृष्टशास्त्रत्वम् * १ इतरसत्ताधीनसत्ताकत्वम् ।
<bold>परतउत्पत्तिकत्वं-</bold> ज्ञानमात्रजनकसामग्र्यतिरिक्तकारणप्रयो-
[^१ शब्दजनिता या प्रतीतिस्तयाऽजन्यत्वे सति शाब्द प्रतीतिजनकं यत्तत् ।]</p>
<pb n="85" />
<p>ज्यत्वम् १ आगन्तुकभावकारणा (पेक्षज्ञानसामग्रीजन्यत्व २)
सहकृतज्ञानप्रयोजकप्रयोज्यत्वमिति ग्रं० ॥ १२८९ ॥
<bold>परतोग्राह्यत्वं-</bold> स्वाश्रयग्राहकातिरिक्त सामग्रीग्राह्यत्वम् १ ज्ञा-
नमात्रग्राहकसामग्रीभिन्नसामग्रीग्राह्यत्वमिति ग्रं० ॥१६९१॥
<bold>परतःप्रमाणत्वं-</bold> आम्नायरूपमूलप्रमाणसापेक्षप्रमाणत्वम्<error>१६९२</error><fix>॥१६९२॥</fix>
<bold>परदेशः -</bold> विदेशः १ स्वाधिष्ठितदेशाद्भिन्नदेशः ॥ १६९४ ॥
<bold>परप्रकाशत्वं-</bold> वेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वम् ॥१६९६॥
<bold>परममहत्त्वं-</bold> अपकर्षानाश्रयपरिमाणवत्त्वम् । [खासूत्ररहितः
<bold>परमहंसः-</bold> परमः श्रेष्ठः हंस आत्मा यस्य १ आत्मनिष्ठापूर्वकशि-
<bold>परमाणुः-</bold> परमः सर्वचरमकः अणुः १ मूर्तत्वे सति निरवयवः २
मनोभिन्नत्वे सति परमाणुत्वपरिमाणवान् ३ जालसूर्यमरीचिस्थं
यत्सूक्ष्मं दृश्यते रजः, तस्य षष्टितमो भागः परमाणुः स उच्यते ।
<bold>परमात्मा-</bold> मायायां प्रधानभूतसत्त्वोपाधिकचैतन्यम् १ 'ईश्वर'लं ०
<bold>परम्परासंबन्धः -</bold> स्वसंबन्धिनः संबन्ध : १ साक्षात्संबन्धिनः सं०
<bold>परम्परासाधनं -</bold> परम्परयां साधनम् ॥ १७०६ ॥
<bold>परलोकः-</bold> शरीरान्तरसंबन्धः १ स्थूलशरीराभिमानपरित्याग
इति ग्रं० २ पारलौकिकस्थितिस्थानम् ॥ १७०९ ॥
<bold>परवैराग्यं-</bold> ब्रह्मज्ञानसाधारणविषयवैतृष्ण्यम् ॥ १७१० ॥
<bold>परसामान्यं-</bold> अनुगतबुद्धिव्यवहारहेतुभूतसत्ता१ अधिक देशवृ-
<bold>पराक्रमः-</bold> परबलनिराकरणम्१ 'पुरुषार्थ'लक्षणम         [त्तित्वं</p>
<pb n="86" />
<p><bold>पराजयत्वं-</bold>  कृत्यसाध्यत्वधीप्रयुक्तप्रवृत्त्यभावत्वम् ॥१७१४॥
<bold>परामर्शः-</bold> व्याप्तिवि (शिष्टपक्षधर्मताज्ञानम् १) षयकपक्षधर्मता-
<bold>परार्थानुमानं-</bold> न्यायप्रयोज्यानुमानम् ।                          [ज्ञानं
<bold>परार्थानुमितिः-</bold>स्वयं व्याप्याद्व्यापकं प्रतीत्य परप्रतिपत्त्यर्थं
प्रयुक्ता(त्पञ्चा) त्र्यवयववाक्यात्परस्य व्यापकप्रत्ययः ॥ <error>१७१८
</error><fix>॥१७१८॥</fix>
<bold>परार्द्ध -</bold> सङ्ख्या (ऽशेषः १) पर्यवसानम् २ स्थानात्स्थानं दशगुण-
मेकैकं गुण्यते द्विजाः, ततो ह्यष्टादशे भागे परार्द्धमभिधीयते ।
<bold>परावाक्-</bold> मूलाधारचक्रस्थवाय्वभिव्यङ्ग्योतिसूक्ष्मात्माऽस्मदा-
देरप्रत्यक्षः शब्दः ।                                   [णम्१) धिकार्थार्जनं
<bold>परिग्रहः-</bold> शरीरनिर्वाहा (र्थकमस्पृहत्वेपि परोपनीतं बाह्योपकर -
<bold>परिचयः-</bold> तत्तेदन्तोल्लेखिनी बुद्धिः १ ज्ञातस्य पौनःपुन्येन ज्ञानं
<bold>परिचायकत्वं-</bold> तदघटकत्वे सत्यर्थविशेषज्ञापकत्वम् ॥ १७२६॥
<bold>परिच्छिन्नत्वं-</bold> भेदप्रतियोगित्वम् १ प्रतियोगिसमानसत्ताका-
त्यन्ताभावप्रतियोगित्वमिति ग्रं० २ अत्यन्ताभावाद्यन्यतमप्र०
<bold>परिणामः-</bold> पूर्वावस्थापायेऽवस्थान्तरापत्तिः १ पूर्वरूपपरित्यागे
सति नानाकारप्रतिभास इति मं० २ उपादानस (लक्षणत्वे) मस-
ताकत्वे सत्यन्यथाभावः । विवर्तवारणाय सत्यन्तम्, घटस्य
तन्तुपरिणामत्ववारणाय विशेष्यम् ३ प्रकृतेरन्यथाभावः <error>१७३३</error><fix>॥१७३३॥</fix>
<bold>परिभाषा-</bold> कृत्रिमसंज्ञा १ आधुनिकसङ्केतो वा २ उभयवृत्तिधर्मा-</p>
<pb n="87" />
<p>वच्छिन्नसङ्केतवती संज्ञा ३ शास्त्रकृतासाधारणसङ्केतत्वम् <error>१७३७</error><fix>॥१७३७॥</fix>
<bold>परिमाणं-</bold> मानव्यवहारासाधारणकारणम् । दण्डादिवारणाय
मानेति, कालादिवारणायासाधारणेति, शब्दत्ववारणाय का-
<bold>परिशिष्टं-</bold> अवशिष्टार्थबोधकग्रन्थः ।                                      [रणमिति
<bold>परिशेष:-</bold> प्रसक्तप्रतिषेधे सत्यन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः
<bold>परिशेषानुमानं-</bold> विशेषाभावसहकृतसामान्यहेतुकानुमानम् ।
<bold>परिसङ्ख्याविधिः-</bold> उभयप्राप्तावितरव्यावृत्तिबोधको विधिः,
यथा यागाङ्गत्वेन पशुरशनाग्रहणे कर्तव्ये यागाङ्गत्वविशेषांद-
श्वगर्द्दभयोर्द्वयोरशनाग्रहणशङ्कायामश्वाभिधानीमादत्ते इत्ति
गर्दभरशनाग्रहणव्यावृत्तिविधिः । यथा वा पञ्च पञ्चनखा(=खड्ग-
कूर्मशशशल्लकीगोधाः) भक्ष्या इति, नकलजं भक्षयेदित्यादिनि-
षेधवाक्येऽतिव्याप्तिवारणायोभयप्राप्ताविति ।                             [पार:
<bold>परिहारः-</bold> दोषा(पनयः १) द्युद्धरणम्२ अज्ञानाभावसंपादकव्या-
<bold>परीक्षकः -</bold> तर्केण प्रमाणैरर्थ परीक्षिता १ प्रमाणेन परीक्ष्य व्य-
वहर्ता ३२ शास्त्रसंस्कृतमतिः ३ प्राप्तशास्त्रजन्यधीप्रकर्ष इति ग्रं०
<bold>परीक्षा-</bold> दुष्टादुष्टतावलोकनम् १ तर्कप्रमाणादिना वस्तुतत्त्वावधारणं
<bold>`परोक्षत्वं-</bold> द्व्यहवृत्तत्वम् १ कुड्यकटाद्यन्तरितत्वम् * २ परोक्ष-
ज्ञानविशिष्टत्वम् ३ साक्षात्काराविषयत्वमिति ग्रं० ॥१७५५॥
<bold>परोक्षज्ञानं-</bold> विषयचित्तादात्म्यानापन्नं प्रमाणचैतन्यम्<error> १७५६</error><fix>॥१७५६॥</fix>
<bold>परोपकारः-</bold> परस्य हितसम्पादनम् ॥ १७५७ ॥</p>
<pb n="88" />
<p><bold>पर्यन्तत्वं-</bold> तदवधिकविप्रकर्षशून्यत्वे सति तत्सन्निकृष्टत्वम् <error>१७५८</error><fix>॥१७५८॥</fix>
<bold>पर्यवसानं-</bold> तात्पर्यवृत्त्या बोधनम् ।                         [र्थकथनं
<bold>पर्याय:-</bold> नानाशब्दकार्थबोधकः १ तत्समानार्थकपदान्तरेण तद-
<bold>पशु:-</bold> सर्वमविशेषेण पश्यति १ पशुत्वसंबन्धी २ लोमवल्लाङ्गूलवत्त्वं
<bold>पश्चिमत्वं -</bold> अस्ताचलसन्निहितदेशावच्छिन्नत्वम् ॥ १७६५ ॥
<bold>पश्यन्ती-</bold> नाभिचक्रस्थवाय्वभिव्यङ्ग्यो योगिप्रत्यक्षगोचरः शब्द
<bold>पाकः -</bold> विजातीयतेजः संयोगः १ विक्लित्त्यनुकूलव्यापारो वा ।
<bold>पाखण्ड:-</bold> परवञ्चनार्थ (उच्छृङ्खलप्रवृत्तिः १) तपोजपाद्यभिनयः ।
<bold>पाखण्डी-</bold> वेद([देशान्यथा कर्ता १) विरुद्धार्थप्रतिपादकः <error>१७७२</error><fix>॥१७७२॥</fix>
<bold>पाठ:-</bold> कण्ठताल्वाद्यभिघातेन शब्दस्योत्पत्तिरभिव्यत्त्किर्वा १</p>
<lg>
  <l>शास्त्रादेः पौनः पुन्योनोच्चारणम् ॥ १७७४ ॥</l>
  <l><bold>पाठवासना-</bold> शास्त्रतात्पर्याग्रहणपूर्वकशास्त्रपाठमात्रेष्वासक्तिः ।</l>
  <l><bold>पाणि:-</bold> मणिबन्धावध्यङ्गुलिपर्यन्तः १ आदानक्रियासाधनेन्द्रियं</l>
  <l><bold>पात्रम् -</bold> स्वयजमानयो रक्षकम् १ पतन्तं त्रायते ॥ १७७९ ॥</l>
</lg>
<p><bold>पादः-</bold> श्लोकादिचतुर्थभाग: १पुनरावर्तमानत्वे सति विरतिमत्पदं
<bold>पादेन्द्रियम्-</bold> गमनकियासाधनमिन्द्रियम् ॥ १७८१ ॥
<bold>पापं-</bold> अनिष्टान्तरजनकम् १ वेदैकप्रतिपाद्यमनर्थम् २ निषिद्धक्रि-
<bold>पापकर्म-</bold> पापजनकं कर्म ।                                    [याजन्यं
<bold>पापमध्यमम्-</bold> आम्रपनसादिशरीरापादकम् ॥ १७८६ ॥
<bold>पापसामान्यं-</bold> लोकेज्यगोगजाश्वत्थतुलस्यादिशरीरप्रापकम् ।</p>
<pb n="89" />
<p><bold>पापोत्कृष्टं-</bold> परतापकगुच्छगुल्मवृश्चिकादिशरीरप्रापकम् <error>१७८८
</error><fix>॥१७८८॥</fix>
<bold>पामरत्वं-</bold> शास्त्रसंस्कारशून्यत्वे सत्यैहिकविषयपरमार्थदृष्टिमवं
<bold>पायु:-</bold> मलद्वारम् १ विसर्गक्रियासाधनमिन्द्रियम् ॥ १७९१ ॥
<bold>पारमार्थिकः-</bold> स्वाभाविकः १ ब्रह्मसमानसत्ताकः २ कालत्रयाबाध्यः
<bold>पारायणं-</bold> भागवतादीनामा (वृत्त्या पाठ: १ ) घन्तपाठाधिकारेण प्रवृत्तं</p>
<lg>
  <l><bold>पारिभाषिकः -</bold> शास्त्रकारसङ्केतविशेषेण तत्तदर्थबोधकः शब्दः ।</l>
  <l><bold>पितृत्वम्-</bold> सपिण्डीकरणोत्तरश्राद्धजन्यफलभागित्वम् ॥१७९७॥</l>
</lg>
<p><bold>पुण्यं -</bold> इष्टान्तरजनकम् १ विहितानुष्ठानजन्यत्वं पुण्यत्वम् <error>१७९९</error><fix>॥१७९९॥</fix>
<bold>पुण्यकर्म-</bold> पत्रित्रं कर्म १ पुण्यजनकत्वं पुण्यकर्मत्वम् ॥ १८०१ ॥
<bold>पुण्यमध्यमम्-</bold> इन्द्रादिशरीरप्रारकम् ॥ १८०२ ॥
<bold>पुण्यसामान्यम्-</bold> यक्षादिशरीरापादकम् ॥ १८०३ ॥
<bold>पुण्योत्कृष्टं-</bold> हिरण्यगर्भशरीरप्रापकम् ॥ १८०४ ॥
<bold>पुनरुक्तं - )</bold> अनुवादं (न्यत्वे सति पुनर्वचनम् १ ) विना कथित
<bold>पुनरुक्तिः )</bold> स्य पुनः कथनम् २पुनः पुनरुक्तिः ३ एकार्थबोधका-
<bold>पुरम्-</bold> बहुग्रामीणव्यवहारस्थानम् ।                   [नेकपदोक्तिः
<bold>पुरश्चरणं-</bold> मन्त्रफलसिद्ध्यर्थं नियतसङ्ख्याको जपः १ मन्त्रफल -
सिद्ध्यर्थमुपोद्धातत्वेन पूर्वसेवनमिति ग्रं० ॥ १८१० ॥
<bold>पुराकल्पार्थवादः-</bold> ऐतिह्यसमाचरिततया कीर्तनम् ॥ १८११॥
<bold>पुराणं-</bold> पुरातनम् १ पुरा (भवम् २) नवम् ३ वेदाख्यानोपनि-
बन्धनम् ४ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंशानुच-</p>
<pb n="90" />
<p>रितश्चैव पुराणं पञ्चलक्षणम् ।                            [सत्यजनकत्वं
<bold>पुरुषः-</bold> पूर्ष्वष्टसु वसतीति १ पुरुषार्थसंपादनयोग्यः २ अजन्यत्वे
<bold>पुरुषार्थ:-</bold> पुरुषेण साध्योऽर्थः १ त्रिविधदुःखात्यन्तनिवृत्तिः *२</p>
<lg>
  <l>पुरुषाभिलाषविषयः २ सुखावाप्तिर्दुःखपरिहार: ४ पुंस्त्वम् ।</l>
  <l><bold>पुँल्लिङ्गत्वं-</bold> अयमितिव्यवहारविषयत्वम् ॥ १८२६ ॥</l>
</lg>
<p><bold>पुस्तकत्वं-</bold> लिप्याधारत्वम् १ तैलाद्रक्षेजलाद्रक्षेद्रक्षेच्छिथिलब-
न्धनात्, मूर्खहस्ते न दातव्यं वदेदेवश्च पुस्तकम् ॥१८२७॥</p>
<lg>
  <l><bold>पूजा-</bold> धनाद्यर्पणम् १ पादप्रक्षालना (दिक्रिया २ ) चेनाद्यतिशयितृत्वं</l>
  <l><bold>पूरकप्राणायामः-</bold> इडया षोडशमात्राभिः प्राणवायोः पानम् ।</l>
  <l><bold>पूर्वत्वम्-</bold> प्रागभाववत्त्वम् *१ क्रियाजन्यसंयोगप्रतियोगि-</l>
  <l>त्वम् २ उदयाचलसन्निहितदेशावच्छिन्नत्वम् ॥ १८३३ ॥</l>
</lg>
<p><bold>पूर्वपक्षः-</bold> सिद्धान्तविरुद्धकोटि: १ शास्त्रीयसंशयनिरासार्थः प्रश्न
इति ग्रं० २ प्रकृतार्थविरोधितर्कोपन्यासरूपोधिकरणाङ्गविशेषः
<bold>पूर्वमीमांसा-</bold> पूर्वकाण्डवेदविचारशास्त्रम् १ 'कर्मकाण्ड' लक्षणम०
<bold>पूर्ववदनुमानं-</bold> पूर्वगृहीतव्यक्तिसामान्यविषयमनुमानम्<error> १८३८</error><fix>॥१८३८॥</fix>
<bold>पूर्ववृत्तित्वं-</bold> कार्यप्रागभावाधिकरणक्षणवृत्तित्वम् ॥ १८३९ ॥</p>
<lg>
  <l><bold>पृच्छा-</bold> ज्ञातुमिच्छा १ जिज्ञासाविषयकज्ञानानुकूलव्यापारः ।</l>
  <l><bold>पृथक्त्वम्-</bold> पृथग्व्यवहारासाधारणकारणम् ॥ १८४२ ॥</l>
</lg>
<p><bold>पृथिवी-</bold> पृथुत्वगुणयुक्ता १ गन्धसहचरितचतुर्दशगुणवतीति ग्रं०
<bold>पैशून्यं-</bold> परो (क्षे परदूषणवचनम् १)स्मै परोक्षे परदोषप्रकाशनं</p>
<pb n="91" />
<p><bold>पौरुषेयत्वं-</bold>नूतनानुपूर्वीरचनत्वम् १ प्रमाणान्तरेणार्थमुपलभ्य
विनिर्मितत्वमिति ग्रं० २ पूर्वानुपूर्व्यनपेक्षपुंविशेषबुद्ध्यधीनानु-
पूर्वीमत्त्वम् *३ सजातीयोच्चारणानपेक्षोच्चारणविषयत्वम् <error>१८५०</error><fix>॥१८५०॥</fix>
<bold>प्रकरणं-</bold> उभयाकाङ्क्षा १ <fix>स</fix>ङ्गवाक्यसापेक्षं प्रधानवाक्यमिति
मी० २ सङ्गतिप्रदर्शनप्रयोजिकाकाङ्क्षा *३ एकार्थप्रतिपादकग्र -
न्थांशः ४ शास्त्रसिद्धान्तप्रतिपादको ग्रन्थः ५ शास्त्रैकदेशसं-
बद्धं शास्त्रकार्यान्तरे स्थितमिति ग्रं० ॥ १८५६ ॥
<bold>प्रकारत्वं-</bold> सामान्यभेदकत्वम् १ भासमानवैशिष्ट्यप्रतियोगित्वं
<bold>प्रकाशनत्वम्-</bold> स्वाभिप्रायाविष्करणम् ॥ १८५९ ॥
<bold>प्रकाशमानत्वं-</bold> स्वसत्तायां स्वसत्ताप्रकारकसंशयाद्यगोचरत्वम्
<bold>प्रकृतत्वं-</bold> प्रकरणप्राप्तत्वम् १ प्रतिज्ञाविषयत्वमिति ग्रं०<error> १८६२</error><fix>॥१८६२॥</fix>
<bold>प्रकृतिः -</bold> प्राचीनकर्मसंस्काराधीनस्वभावः * १ सत्त्वरजस्तमो
गुणानां साम्यावस्था २ सम्पूर्णाङ्गसंयुक्तो विधिः ३ प्राथमि-
कविधिप्रतिपादितसमग्रेतिकर्तव्यताकत्वमिति मी० ४ अज-
न्यत्वे सति जनकत्वं प्रकृतित्वम् ५ तत्त्वान्तरारम्भकत्वमिति
सां० ६ अर्थावबोधहेतुप्रत्ययविधानावधिभूतशब्दत्वम् ७ प्रत्य-
यनिष्टविधेयतानिरूपितोद्देश्यताश्रयत्वमिति वै० ॥ १८७० ॥
<bold>प्रकृतिभावः -</bold> संधिकार्यरहितत्वम् १ निर्विकारस्वरूपेणावस्थानं</p>
<lg>
  <l><bold>प्रगल्भत्वं-</bold> प्रवीणमतित्वम् १ कार्याकार्यावधारणक्षमत्वं वा ।</l>
  <l><bold>प्रणाम: -</bold> स्वापकर्षबोधककर शिरः संयोगादिव्यापारः॥ १८७५॥</l>
</lg>
<pb n="92" />
<p><bold>प्रतिकूलं -</bold> द्वेषविषयः १ विरुद्धपक्षावलम्बित्वं प्रतिकूलत्वम् ।
<bold>प्रतिग्रह:-</bold> अदृष्टार्थ (दत्ताङ्गीकारः १) त्यक्तद्रव्यस्वीकारः <error>१८७९</error><fix>॥१८७९॥</fix>
<bold>प्रतिज्ञा-</bold> कर्तव्यत्वप्रकारकज्ञानानुकूलव्यापारः १ उत्तरकाले स्वक-
र्तव्यत्वेन निर्देश:, यथा 'इदं करिष्यामि' इत्याकारकवाक्यम् *२
साध्यविशिष्टपक्षबोधजनकवचनम्, यथा पर्वतो वह्निमानिति ।
<bold>प्रतिज्ञाहानिः-</bold> स्वकृतोक्तपरित्यागः १ प्रतिज्ञातार्थपरित्यागः।
<bold>प्रतितन्त्रसिद्धान्तः-</bold> समानतन्त्रसिद्धः परतन्त्रासिद्धः १ वादि-
प्रतिवाद्येकतरमात्राभ्युपगतः सिद्धान्त इति ग्रं० ॥ १८८६ ॥
<bold>प्रतिपादनं-</bold> प्रतिपाद्यं मुखतः प्रतिज्ञाय पश्चात्तत्सिद्धिहेतुप्रदर्श-
नम् । उपोद्धातवारणाय मुखत इति, असंबद्धहेतुव्यावृत्यर्थ
तत्सिद्धीति १ प्रतिपत्त्यनुकूलशब्दप्रयोगः ॥ १८८८ ॥
<bold>प्रतिप्रसवः -</bold> प्रतिषि (द्धस्य प्रतिषेधे पु०) द्धैकदेशस्य पुनर्विधानं
<bold>प्रतिबन्ध्युत्तरं-</bold> अनिष्टान्तर प्रसञ्जकमुत्तरम् १ नोद्य[^१]परिहारसाम्य
मिति ग्रं० २प्रकृतैककल्पे प्रवृत्तं पुरुषमुद्दिश्याप्रकृतकल्पान्तरापादनं
<bold>प्रतिबन्धः- )</bold> कार्यानुकूलकिञ्चिद्धर्मविघटकः, यथाग्नौ दाह-
<bold>प्रतिबन्धकः- )</bold> रूपकार्यानुकूलस्य कस्यचिद्धर्मस्य शक्तयाख्य-
स्य विघटको मणिमन्त्रौषधादि: १ सामग्रीकालीनकार्यानुत्पाद-
प्रयोजकः २ पुष्कलकारणे सति कार्योत्पादविरोधी । सामग्र्य-
भावं व्यावर्तयितुं पुष्कलेति ३ कारणीभूताभावप्रतियोगी ।
[^१ यदि पुरुषत्वादयं चौरस्तदा एवंत्वमभि चौरः स्या इत्यापादनम्।]</p>
<pb n="93" />
<p><bold>प्रतिबिम्बत्व-</bold>तदधीनत्वे सति तत्सदृशत्वम् १ उपाध्यन्तर्गत्वे
सत्यौपाधिकपरिच्छेदशून्यत्वे सति बहिःस्थितस्वरूपकत्वम् । बि
म्बवारणायाद्यम्, घटावाशादिवारणाय द्वितीयम्, दर्पणाद्यन्तर्ग-
ततदवयववारणाय तृतीयमिति न्यायरत्नावल्याम् २ उपाधिनि-</p>
<lg>
  <l>मित्तस्वप्रतियोगिकव्याप्यावृत्तिभेदकत्वे सत्युपाधिपरिच्छिन्नत्वं</l>
  <l><bold>प्रतिभा-</bold> प्रत्युत्पन्नमति: १ नवनवो (ल्लेख)न्मेषशालिनी बुद्धिः ।</l>
  <l><bold>प्रतिभाप्रमाणं-</bold> अनियतदेशकालमाकस्मिकं सदसत्सूचकं</l>
  <l>ज्ञानम् १ श्वस्ते भ्रातागन्तेत्यादिकमिति ग्रं० ॥ १९०४ ॥</l>
</lg>
<p><bold>प्रतियोगी-</bold> यस्याभावः सः १ प्रति पूर्वं योगस्संबन्ध: २ विरोधि-
त्वं प्रतियोगित्वम् ३ धर्मिभिन्नत्वे सति भेदनिरूपकत्वम्<error> १९०८</error><fix>॥१९०८॥</fix>
<bold>प्रतिवादः-</bold> वादिप्रयुक्तन्यायवाक्यविरुद्धवाक्यप्रयोगः <error>१९०९</error><fix>॥१९०९॥</fix>
<bold>प्रतिवादी-</bold> वादिप्रयुक्तन्यायविरुद्धन्यायवाक्यप्रयोगकर्ता <error>१९१०</error><fix>॥१९१०॥</fix>
<bold>प्रतिषेधत्वम्-</bold> कर्तृत्वाभावानुकूलव्यापारत्वम् ॥ १९११ ॥
<bold>प्रतीकः-</bold> प्रतिरूपः *१ आश्रयान्तरप्रत्ययस्याश्रयान्तरे प्रक्षेपः २
तद्भिन्नत्वे सति तद्बोधकत्वं प्रतीकत्वम् ॥ १९१४ ॥
<bold>प्रतीकोपासनं-</bold> अन्यवस्तुनोऽन्यरूपेणोपासनम् १ ब्रह्मप्रती-
कानामादित्यादीनां ब्रह्मदृष्टयोपासनमिति ग्रं० ॥ १९१६ ॥
<bold>प्रत्यक्षम्-)</bold> ज्ञानाकरणकं ज्ञानम् १ इन्द्रिा<error> </error>र्थसन्निकर्षोत्प
<bold>प्रत्यक्षप्रमा -)</bold> ज्ञानम् । सन्निकर्षध्वंसवारणाय ज्ञानमिति,
अनुमित्यादिवारणायेन्द्रियार्थसन्निकर्षेति २ व्याप्त्याद्यज-</p>
<pb n="94" />
<p>न्यत्वे सति स्वकालावच्छिन्नार्थबोध: ३ अनुपलब्ध्यर्थापत्ति-
शब्दानुमानोपमानजप्रमितिव्यतिरिक्तत्वे सति प्रमितिः । अनु-
मादावतिव्याप्तिवारणायानुपलब्धीत्यादिविशेषणम्, घटा-
दिवारणाय प्रमितिरिति ४ अनधिगताबाधितवर्तमानयोग्य-
विषयचैतन्याभिन्नं प्रमाणचैतन्यम् । अधिगतार्थविषयकयथा-
र्थस्मृतावतिप्रसङ्गवारणार्थमनधिगतेति विषयविशेषणम्,
भ्रमज्ञानेऽतिव्याप्तिवारणायाबाधितेति, धर्माधर्मयोः प्रत्यक्ष-
वारणाय योग्येति ५ 'ज्ञानगतप्रत्यक्ष 'लक्षणमप्यत्र पठनीयम्
<bold>प्रत्यक्षविषय:-</bold> इन्द्रियजन्यज्ञानविषयः*१ योग्यत्वे सति वर्तमा-
नविषयचैतन्याभिन्नप्रमाणचैतन्यविषयः २' विषयगतप्रत्यक्ष 'ल०
<bold>प्रत्यक्षप्रमाणं-</bold> प्रत्यक्षप्रमाकरणम् । अनुमानादावतिव्याप्तिवार
णाय प्रत्यक्षेति, दण्डादिवारणाय प्रमेति । [त्कार्यनिवृत्तिः
<bold>प्रत्यक्षबाधः-</bold> तत्त्वमस्यादिवाक्योत्थात्मसाक्षात्कारेणाज्ञानत-
<bold>प्रत्यभिज्ञाज्ञानं-</bold> तत्तेदन्तावगाहिज्ञानम् १ संस्कारेन्द्रियसंप्रयो-
गोभयजन्यं ज्ञानम्, यथा सोऽयं देवदत्त इति ॥ १९२८ ॥
<bold>प्रत्ययः -</bold> विश्वासः * १ प्रकृतिम (मुद्दिश्य) वधीकृत्य विधीयमानः
स्वार्थबोधकः शब्दविशेष: ३ धातुप्रातिपदिकान्यतरनिष्ठो-
द्देश्यतानिरूपितविधेयताश्रयत्वं प्रत्ययत्वम् ॥ १९३२ ॥
<bold>प्रत्यवायत्वं-</bold> विध्युल्लङ्घनजन्यत्वम् १ आगामिदुःखजनकत्वं वा
<bold>प्रत्याहारः-</bold> इन्द्रियाणां स्वस्वविषयवैमुख्येनावस्थानम् <error>१९३५</error><fix>॥१९३५॥</fix></p>
<pb n="95" />
<p><bold>प्रत्युत्तरं -</bold> प्रतिपक्ष्युच्चरितनिराकरणसमर्थवाक्यम् ॥ १९३६॥
<bold>प्रथमत्वं -</bold> पूर्वज्ञानविषयत्वम् * १ स्वापेक्षापूर्वरहितत्वम् <error>१९३८</error><fix>॥१९३८॥</fix></p>
<lg>
  <l><bold>प्रथमाविभक्तित्वं-</bold> सङ्केतविशेषसम्बन्धेन प्रथमापदवत्त्वम् ।</l>
  <l><bold>प्रदक्षिण-</bold> दक्षिणावर्तेन देवमुद्दिश्य भ्रमणम् ॥ १९४० ॥</l>
</lg>
<p><bold>प्रधानं-</bold> सत्त्वरजस्तमोगुणसाम्यावस्था १ 'प्रकृति' लक्षणमप्य त्र०
<bold>प्रध्वंसाभावः -</bold> जन्यत्वे सत्यविनाश्यभावः १ अविनाशित्वे सति
प्रतियोगिस (त्तोत्तरकालिकाभावः २) मवायिमात्रवृत्त्यभावः । साम-
यिकाभावादिवारणाय सत्यन्तम्, अन्योन्याभाववारणाय मात्रेति
<bold>प्रपञ्चः -</bold> चिद्भिन्नत्वम्१ परिच्छिन्नत्वं प्रपञ्चसामान्यं लक्षणम् २वैप-
<bold>प्रबन्धत्वं-</bold> सङ्घटितनानावाक्यसमुदायत्वम् ।      [रीत्यं
<bold>प्रमा-</bold> अविसंवादिज्ञानमिति बौद्धाः १ अव्यभिचार्यनुभव इति
भाट्टाः २ प्रमाणजन्यं ज्ञानमिति नै० ३ अनधिगततत्त्वबोधः
पौरुषेयो व्यवहारहेतुरिति सां० ४ बोधे[^१]द्धा वृत्ति[^२]वृत्तीद्धबोधो
वा ५ स्मृतिभिन्नत्वे सत्यबाधितार्थगोचरज्ञानम् ॥ १९५४ ॥
<bold>प्रमाणं-</bold> प्रमीयतेनेनेति १ सम्यग्ज्ञानमिति जैना: २ प्रमाकरणम् ।
छिदादिकरणकुठारादावतिव्याप्तिवारणाय मा पदम्, भ्रमज्ञान-
करणदुष्टचक्षुरादावतिव्याप्तिवारणाय प्र पदम्, प्रमाप्रमाण-
मित्युक्तेऽसंभवः स्यादतः करणमित्युक्तम् ३ व्यापारवत्तासं-
बन्धेन प्रमितिविभाजकोपाध्यवच्छिन्नासाधारणकारणम् । चा-
[^१ बोधेनेद्धा प्रकाशिता वृत्तिः । २ वृत्तौ प्रतिबिम्बितं चैतन्यम् ।]</p>
<pb n="96" />
<p>क्षुषादिप्रमित्यसाधारणकारणे विषयेन्द्रियसंबन्धादौ व्यापारेऽ
तिव्याप्तिवारणाय व्यापारवत्तासम्बन्धेनेति, अन्यप्रमाण-
स्यान्यप्रमाणत्वापत्तिवारणाय विभाजकोपाध्यवच्छिन्न-
ति, चाक्षुषादावपि व्यापारवत्तासंबन्धेन मनसः कारणत्वात्त-
त्रातिव्याप्तिवारणायासाधारणेति ४ असंदिग्धाविपरीतान-
धिगतविषयकबोधरूपप्रमाकरणम् । संशयविपर्ययस्मृतिकरणे-
ध्वतिप्रसङ्गवारणायोपात्तं बोधरूपमांशे क्रमशो विशेषणत्रय-
मिति योगिनः ५ अगृहीतग्राहिज्ञानकरणमिति मी० ६ अ-
ज्ञातार्थज्ञापकम् ७ दोषासहकृतज्ञानकरणमित्यद्वैतसिद्धौ
संवादिप्रवृत्तिजननयोग्यज्ञानजनकमिति ब्रह्मविद्याभरणे ९
साधनाश्रयाव्यतिरिक्तत्वे सति प्रमाव्याप्तत्वं प्रमाणत्वम् <error>१९६४</error><fix>॥१९६४॥</fix>
<bold>प्रमाणगतविपरीतभावना-</bold> श्रुतीनामहेयानुपादेयब्रह्मप्रति-
पादकत्वे निष्फलत्वप्रसङ्गाच्छ्रुतयः कर्मपरा एवेति निश्चया-
त्मिका चित्तवृत्तिः ॥ १९६५ ॥
<bold>प्रमाणगतासंभावना-</bold> प्रमाणगोचरसंभावनाविरहः १ ब्रह्मणो
घटादिवत्सिद्धत्वेन मानान्तरगम्यत्वाच्छ्रुतिस्तत्प्रतिपादिका कथं
भवेत् ? फलाभावान्न भवेदेवेत्याकारिका चित्तवृत्तिः ॥१९६७ ॥
<bold>प्रमाणचैतन्यं -</bold> अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यम् ॥ १९६८ ॥
<bold>प्रमाता -</bold> प्रमाश्रयः १ प्रमाणैर्योऽर्थ प्रमिणोति सः ॥१९७० ॥
<bold>प्रमातृचैतन्यं-</bold> अन्तःकरणा(विच्छिन्न चैतन्यम् १)विशिष्टचैतन्यं</p>
<pb n="97" />
<p><bold>प्रमादः -</bold> कर्तव्येऽकर्तव्यत्वधिया ततो निवृत्तिः १ अकर्तव्ये
कर्तव्यत्वधिया तत्र प्रवृत्तिर्वा २ प्रयत्नेन कर्तव्ये कार्ये विस्मृतिः
<bold>प्रमेयत्वम्-</bold> अवधार्यम् * १ प्रमाविषयत्वम् ॥ १९७७ ॥
<bold>प्रमेयगतविपरीतभावना-</bold> योग्यं योग्येन संबद्ध्यते इति
न्यायात्रिगुणात्मकप्रपञ्चोपादानं त्रिगुणात्मिका मायैव न
ब्रह्मेति निश्चयात्मिका चित्तवृत्तिः ॥ १९७८ ॥ २
<bold>प्रमेयगतासंभावना -</bold> प्रमेयगोचरसंभावनाविरहः १ ब्रह्मण-
स्सच्चिदानन्दरूपिणोऽनृतजडदुःखात्मकप्रपञ्चविलक्षणत्वेन त-
त्कारणत्वं कथं भवेत् ? न भवेदेवेत्याकारिका चित्तवृत्तिः <error>१९८०</error><fix>॥१९८०॥</fix></p>
<lg>
  <l><bold>प्रमेयचैतन्यं-)</bold> विषयप्रकाशकं विषयाधिष्ठानभूतं चैतन्यम् १</l>
  <l><bold>विषयचैतन्यं-)</bold> अज्ञातं घटाद्यवच्छिन्नं चैतन्यमिति ग्रं० ।</l>
  <l><bold>प्रयत्नः-</bold> करोमीत्यनुभवविषयवृत्तिगुणत्वव्याप्यजातिमान् <error>१९८२</error><fix>॥१९८२॥</fix></l>
  <l><bold>प्रयोगः -</bold> शब्दादीनामुच्चारगम्*१ शस्त्रादिमोचनम् ॥ १९८४॥</l>
</lg>
<p><bold>प्रयोगविधिः-</bold> साङ्गे कर्मण्यनुष्ठापको विधिः १ प्रयोगा<error> </error>शुभा
वबोधको विधिः ।                                                         [भृत्यादीन्प्रयुनक्ति
<bold>प्रयोजकः-</bold> अनुष्ठापकः १ साक्षात्परम्परया वा कारणम् २कार्यादौ-
<bold>प्रयोजनं-</bold> यमर्थमधिकृत्य प्रवर्तते १ प्रवृत्तिहेत्विच्छाविषयः । ज्ञा-
नसुखत्वादिवारणार्थं प्रवृत्तिहेत्विति २ बुद्धिविषयत्वे सति
स्वसंबन्धितयेच्छाविषयत्वं प्रयोजनत्वम् ॥ १९९३ ॥
<bold>प्रयोज्यं -</bold> प्रयोक्तुं शक्यम् *१ साक्षात्परम्परया वा जन्यम् ।</p>
<pb n="98" />
<p><bold>प्रलयः -</bold> त्रैलोक्यनाशः१ सकलभावकार्यविनाश इति ग्रं० २भूता-
दिलयाधारकालः ३स नित्यनैमित्तिकदैनन्दिनमहात्यन्तिकरूपः
<bold>प्रलापः-</bold> व्यर्थालाभः १ निष्प्रयोजनानर्थकवाक्यम् ॥ १९९८ ॥
<bold>प्रवचनं -</bold> प्रकृष्टव्वाक्यम् १ अर्थानुसंधानपूर्वककथनं वा ॥ २०००॥
<bold>प्रवर्तकं -</bold> इष्टसाधनताविषयकं कृतिसाध्यताज्ञानम् १ स्वविशे-
षणवत्ताप्रतिसंधानजन्यं कार्यताज्ञानमिति गुरवः २ अन्या-
प्रेरितत्वे सति तादृशलिङुञ्चारयितृत्वं प्रवर्तकत्वम् ॥ २००४॥
<bold>प्रवर्तना-</bold> प्रवृत्त्यनुकूलो व्यापारः <error>॥ २००५।</error><fix>॥२००५॥</fix>
<bold>प्रवृत्तिः -</bold> शब्दानामर्थबोधनशक्तिः * १ स्वस्वविषये इन्द्रि-
यादीनां सञ्चारः २ रागजन्या रागविषयको गुणः ॥ २००८ ॥
<bold>प्रशंसा-</bold> गुणाविष्क ( रणम् १ ) रिण स्तुतिः ॥ २०१० ॥
<bold>प्रश्नः-</bold> जिज्ञासाविष्करणम् १ अविज्ञातार्थज्ञानार्थमिच्छाप्रयोज्य-
वाक्यमिति ग्रं० २ प्रतिवचनानन्तरमाक्षेपोत्थानम् ॥२०१३॥</p>
<lg>
  <l><bold>प्रश्वासः -</bold> कोष्ठ्यवायोर्बहिर्निःसारणम् ॥ २०१४ ॥</l>
  <l><bold>प्रसङ्ख्यानं -</bold> सत्यज्ञानम् १ शब्दयुक्तिप्रत्ययानामावृत्तिः ।</l>
  <l><bold>प्रसङ्गः-</bold> प्रकृष्टसङ्गः १ लक्ष्ये लक्षणसंबन्धः * २ अन्योद्देशे-</l>
  <l>ऽन्यसिद्धिः ३ निरूपणयोग्यत्वम् ॥ २०२० ॥</l>
</lg>
<p><bold>प्रसङ्गसङ्गतिः-</bold> स्मृतस्योपेक्षानर्हत्वम् १ उपोद्धातादिभिन्नत्वे
सत्यनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयत्वम् <error>२०२२</error><fix>॥२०२२॥</fix>
<bold>प्रसिद्धत्वं-</bold> विख्यातत्वम् १ अनेकज्ञानविषयत्वं वा ॥२०२४ ॥
-</p>
<pb n="99" />
<p><bold>प्रस्तावना-</bold> ग्रन्थावतारणार्थव्याख्यानांशः १ अमुख्यार्थप्रतिपा-
दकत्वे सति मुख्यार्थ (सूचकत्वम् २ ) प्रवर्तकत्वं प्रस्तावनात्वम्
<bold>प्रहेलिका-</bold> दुर्विज्ञानार्थप्रश्नः १ 'दृष्टकूड' लक्षणमप्यत्र पठनीयम्
<bold>प्राकृतप्रलयः-</bold> कार्यब्रह्मविनाशनिमित्तकः सकलकार्यविनाशः ।
<bold>प्रागभावः-</bold> पूर्ववृत्त्यभावः १ अजन्यत्वे सति विनाश्यभावः ।
घटादिवारणाय सत्यन्तम्, परमाणुशरणाय विनाशीति २
कार्यसमवायिकालान्यावृत्तित्वे सति कार्योत्पत्तिपूर्वकालीनाभावः।
ध्वंसेऽतिव्याप्तिवारणाय कार्योत्पत्तिपूर्वकालीनेति <error>२०३२</error><fix>॥२०३२॥</fix>
<bold>प्राग्लोपः-</bold> उत्तरोत्तरेणैव पूर्वपूर्वकार्यसंभवे पूर्वेषामन्यथासिद्धिः
<bold>प्राशः -</bold> सुषुप्तौ विलीनेऽन्तःकरणेऽज्ञानमात्र साक्षी १व्यष्टिकारण-
शरीरमात्रोपहितं चैतन्यमिति ग्रं० २ प्रकर्षेण जानातीति <error>२०३६</error><fix>॥२०३६॥</fix>
<bold>प्राणः -</bold> शरीरान्तःसञ्चारी वायुः । महावाय्वादावतिव्याप्तिवारणाय
विशेषणम्, मन आदिवारणाय विशेष्यम्, धनञ्जयवारणाय स-
ञ्चारीति १ प्राग्गमनशीलत्वे सति नासाग्रस्थानवान्२ मिलितस-
मस्तापञ्चीकृतपञ्चमहाभूतराजसांशकार्यत्वे सति क्रियाशक्तिप्रधानं
<bold>प्राणमयकोशः-</bold> कर्मेन्द्रियैः सहितः प्राणः ॥ २०४० ॥
<bold>प्राणायामः-</bold> प्राणवृत्तिनिरोधः १ निःश्वासोच्छ्रासयोर्गतिविच्छे-
दकारकव्यापारः २ रेचकपूरककुम्भकलक्षणः प्राण निग्रहोपायः
<bold>प्रातिपदिकत्वं-</bold> धातुप्रत्ययप्रत्ययान्तभिन्नत्वे सत्यर्थवत्त्वम्*१
विभक्त्यर्थशून्यत्वे सति व्यक्तिमात्रार्थवत्त्वम् ॥ २०४५ ॥</p>
<pb n="100" />
<p><bold>प्रातिभासिकः-</bold> प्रतिभासकाले भवः १ ब्रह्मज्ञानं विना बाध्यमान
इति ग्रं० २ अध्यासकाले भासमानत्वे सत्यध्यासभिन्नकालेऽभा-
समानः ३ आगन्तुकदोषसहकृताविद्याकार्यत्वम् ॥ २०४८ ॥
<bold>प्रादुर्भावः-</bold> प्रथमप्रकाशः १ पूर्वरूपरसादिनाशपूर्वकं रूपरसा-
द्यन्यतमोत्पत्तिः ॥ २०५१ ॥
<bold>प्रामाण्यं-</bold> तद्वति तत्प्रकारकत्वम् १ अबाधिताज्ञातार्थज्ञापकत्वम्
<bold>प्रायश्चित्तं-</bold> पापक्षयमात्रसाधनं कर्म, यथा कृच्छ्रचान्द्रायणादि ।
मात्रशब्दात्तुलापुरुषाश्वमेघादिव्यावृत्तिः १ प्रायो नाम तपः
प्रोक्तं चित्तं निश्चय उच्यते, तपो निश्चयसंयुक्तं प्रायश्चित्तं तदुच्यते
<bold>प्रारब्धकर्म-</bold> वर्तमानशरीरारम्भकं कर्म १ प्रारब्धकार्य सुख-
दुःखादिरूपं युगकल्पादिपर्यन्तमनुभोक्तव्यं येन तत् <error>२०५७</error><fix>॥२०७५॥</fix>
<bold>प्रार्थना-</bold> नम्रताज (सूच) नकवाक्यम् १ उत्कर्षप्रतिपादनेच्छा ।
<bold>प्रीतिः -</bold> इष्टे वस्तुनि मनसोभिनिवेशः १ दयारसार्द्रान्तःकरणवृत्तिः
<bold>प्रेयः-</bold> अतिशयप्रियम् * १ देवगुरुमित्रादिविषयः प्रीतिप्रकर्षः ।
<bold>प्रेरकः -</bold> तदनुकूलप्रयत्नाधारः १ प्रवृत्त्यनुकूलव्यापाराश्रयो वा ।
<bold>प्रेरणं-</bold> प्रयोजकव्यापारः १ स्वाभिलषितोपायाज्ञानादप्रवृत्तापकृ-
ष्टप्रयोज्यस्योपायविषयकप्रवृत्त्यनुकूलो व्यापार इति सारदर्पणे
<bold>प्रैषः -</bold> प्रमाणान्तरप्रमितेऽर्थे पुरुषनिष्ठा पुरुषप्रवर्तना ॥ २०६७ ॥
<bold>प्रौढिवादः-</bold> स्वबुद्ध्युत्कर्षप्रदर्शनार्थमनभिमतार्थकथनम् १ उत्क-
र्षस्याहतावुत्कर्षहेतुत्वकल्पनमिति ग्रं० ॥ २०६८ ॥</p>
<pb n="101" />
<p><bold>*फ*</bold>
<bold>फलं-</bold> प्रकरणप्रतिपाद्यस्य श्रूयमाणं तज्ज्ञानात्तत्प्राप्तिप्रयोजनम्,
यथा अथ सम्पत्स्य इत्यद्वितीयज्ञानात्तत्संपत्तिरूपं फलम् १
ससाधनसुखदुःखोपभोगः २ व्यापारजन्यत्वं फलत्वम् ३ स्व-
कर्तव्यताप्रयोजकेच्छाविषयत्वम्।                         [भिव्यक्तं चैतन्यं
<bold>फलचैतन्यं-</bold> ज्ञातं घटाद्यवच्छिन्नं चैतन्यम् १ अन्तःकरणवृत्त्य
<bold>फलव्याप्तिः - )</bold> स्वाकारवृत्तिप्रतिबिम्बितचैतन्यविषयत्वम् १
<bold>फलव्याप्यत्वं -)</bold> वृत्तिबिम्बितचिदभिव्यक्तचैतन्याश्रयत्वम् ।
<bold>फलोपकार्यङ्गं-</bold> यागाङ्गद्रव्याद्यनुद्दिश्य केवलं विधीयमानं कर्म १
स्वव्यापारातिरिक्तव्यवधानराहित्येन प्रधानोपकारकम्, यथा
प्रयाजादि अदृष्टरूपेण स्वव्यापारमात्रेण प्रधानयागस्य <error>२०८२</error><fix>॥२०८२॥</fix>
<bold>फलोपधायकत्वं-</bold> कार्याव्यवहितपूर्ववृत्तित्वसम्बन्धेन फल-
विशिष्टत्वम्, यथा कुलालहस्तस्थदण्डे ॥ २०८३ ॥
<bold>*ब*</bold>
<bold>बन्धः -</bold> आत्मनोऽज्ञानतत्कार्यसम्बन्धः १ सत्यत्वेन ज्ञायमानो
दृश्यसंबन्धः *२ अणिमाद्यष्टैश्वर्याशासिद्धसङ्कल्पः ३ देवमनु-
ष्याद्युपासनाकामसङ्कल्पो वा ४ यमाद्यष्टाङ्गयोगसङ्कल्पो वा ५
वर्णाश्रमधर्मकर्मसङ्कल्पो वा ६ यागव्रततपोदानविधिविधानज्ञा-</p>
<lg>
  <l>नसंभवः *७केवलमोक्षापेक्षासङ्कल्पः ८ सङ्कल्पमात्रसंभवो वा ।</l>
  <l><bold>बन्धुः -</bold> संबन्धेनोपकर्ता १ विच्छेदासह्यक इति ग्रं० ॥२०९३॥</l>
</lg>
<pb n="102" />
<lg>
  <l><bold>बलं-</bold> साधनसामग्री १ विचित्रकार्यानुकूलशक्तित्रो॥२९०५॥</l>
  <l><bold>बलवत्त्वं-</bold> बलविशिष्टत्वम् १ कार्यसिद्धिप्राक्कालिकप्राप्तिकर्तृत्वम् ।</l>
  <l><bold>बहिरङ्गं-</bold> परनिमित्तकम् १ बहिः प्रकृतेर्बाह्यमङ्ग यस्य <error>२०९९</error><fix>॥२०९९॥</fix></l>
  <l><bold>बहिर्मुखं -</bold> बहिः बाह्यविषये मुखं प्रवणता यस्य ॥ २१०० ॥</l>
</lg>
<p><bold>बहुव्रीहिसमासः -</bold> अन्यपदार्थप्रधानः समासः २ संबन्धि-
लाक्षणिकत्वव्याप्योत्तरपदकसमासः ॥ २१०२ ॥
<bold>बहूदक:-</bold> बहूनि उदकानि शौचाङ्गतया यस्य ॥ २१०३ ॥
<bold>बाधः -</bold> अर्थासङ्गतिः *१ अपरोक्षमिथ्यात्वनिश्चयः २सविलासा-
विद्यानिवृत्तिरिति ग्रं० ३ प्रतीतार्थं परित्यज्यान्यार्थकल्पनमित्य -
द्वैतदीपिकायाम् ४ पूर्वप्रत्ययस्य व्यधिकरणप्रकारकत्वनि-
श्चयः ५ पक्षनि (ष्ठः साध्याभावः ६ ) ष्ठप्रमाविषयत्वप्रकारा-
भावप्रतियोगिसाध्यक इति नै० ॥ २१११ ॥
<bold>बाधसामानाधिकरण्यं-</bold> अन्यतरस्य बाधेन सामानाधिक-
रण्यम्, यथाऽभासवादिमतेऽन्तःकरणप्रतिविम्बितस्य जीवस्य
बाधेन ब्रह्मणा सामानाधिकरण्यम्(=अभेदः), यथा वा जगतो
बाधेन 'सर्वं खल्विदं ब्रह्मेत्यादिश्रुत्युक्तं जगतो ब्रह्मणा सामा०
<bold>बालः -</bold> शास्त्रार्थज्ञानविवेकशून्यः १ अधीतकाव्यकोशव्याकरणा-
नधीतवेदान्तशास्त्रः । कणादादावतिव्याप्तिवारणायानधीत-
वेदान्तेति, स्तनन्धयेऽतिप्रसक्तिवारणायाधीतकाव्येति ।
<bold>बिस्वत्वं-</bold> उपाधिनिमित्तस्वप्रतियोगिकव्याप्यवृत्तिभेदाश्रयत्वे</p>
<pb n="103" />
<p>सति औपाधिकपरिच्छेदरहितत्वमिति सङ्क्षेपशारीरके १
उपाध्यनन्तर्गतत्वे सत्युपाध्यन्तर्गतरूपाभिन्नबहिःस्थितत्वम् ।
<bold>बुद्धिः -</bold> निश्चयात्मिकान्तःकरणवृत्तिः *१ जानामीत्यनुव्यवसा-
<bold>बृंहणत्वं-</bold> शरीरवृद्ध्यादिहेतुत्वम् ।                  [यविषयगुण:
<bold>बौद्धः -</bold> बुद्धितत्त्वे व्यवस्थितः १ बुद्धमतावलम्बित्वं बौद्धत्वम् ।
<bold>ब्रह्म-</bold> निरवच्छिन्नचैतन्यम् १ निखिलनामरूपात्मकप्रपञ्चाकारेण
परिणममानमायाधिष्ठानमिति ग्रं० २ बृहत्त्वं बृहणत्वं वा ।
<bold>ब्रह्मचर्य -</bold> उपस्थसंयमः १ अष्टा[^१]ङ्गमैथुनवर्जनम् २ कायेन मनसा
वाचा सर्वावस्थासु सर्वदा, सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रचक्षते
<bold>ब्रह्मज्ञानं-</bold> त्रिगुणावच्छिन्नातीततुरीयशुद्धचैतन्यविषयकज्ञानम्
<bold>ब्रह्मणस्तटस्थलक्षणं-</bold> उत्पत्तिस्थितिलयकारणत्वम् १भूतोपा-
दानत्वे सति कर्तृत्वम् । कुलालादावतिव्याप्तिपरिहाराय भूते-
ति, मायायामतिव्याप्तिनिवृत्तये कर्त्रिति २ निखिलजग (दुपा-
दानगोचरापरोक्षज्ञानचिकीर्षाकृत्याश्रयत्वम् ३) दभिन्ननिमि-
त्तोपादानत्वम् । शुक्त्यवच्छिन्नचैतन्येऽतिव्याप्तिवारणाय नि-
[^१ स्त्रिया दर्शनं (= रागपूर्वकं रूयादि विषयकज्ञानम् १) स्पर्शनं
(=रागपूर्वकं क्रियाविशेषजन्यं ज्ञानम् २)केलिः: (रागपूर्वकः परिहासा-
दिव्यवहार:३) कीर्तनं.(= रूयादेर नुराग पूर्वकं सौंदर्यादिवर्णनम् ४ )
गुह्यभाषणं (= रागपूर्वकं रहसि संभाषणम्५) सङ्कल्पः(=इयं मे स्या-
दिति६ ) अध्यवसाय: (=अनया 'रं स्ये'
रमिष्ये इति निश्चयः ७) क्रिया-
निवृत्तिः (= सुरतसिद्धिरनुभवविशेषो वा८ ) चेत्यष्टौ मैथुनस्याङ्गानि]</p>
<pb n="104" />
<p>खिलेति, असंभववारणाय जगदेति ४ 'ईश्वर' लक्षणमप्यत्र प०
<bold>ब्रह्मनिष्ठत्वम्-</bold> वेदान्तवेद्यब्रह्मात्मनावस्थितत्वम् ॥ २१३३ ॥
<bold>ब्रह्मविद्यात्वं-</bold> जगन्मिथ्यात्वबोधकत्वे सति स्वस्वरूपनिश्चायकत्वं
<bold>ब्रह्मा-</bold> सत्त्वोपसर्जनभूतरजोगुणावच्छिन्नचैतन्यम् ॥ २१३५ ॥</p>
<lg>
  <l><bold>ब्रह्माण्डं-</bold> ब्रह्मणो जगत्स्त्रष्टुः (कारणीभूतमं ) रण्डम् १ स्वावरण-</l>
  <l>भूतलो कालोकपर्वततद्वाह्यपृथिवीतद्वाह्यसमुद्रैः सहितो देशः ।</l>
  <l><bold>ब्रह्मानन्दः -</bold> द्वैतभानाभावविशिष्टनिद्राऽभावकालीनब्रह्माभिमु-</l>
  <l>खवृत्त्यभिव्यङ्ग्य आनन्दः १ ब्रह्मग आनन्दः ॥ २१३९ ॥</l>
</lg>
<p><bold>ब्राह्मणः -</bold> नैसर्गिकशमादिनवसाधनसंपन्नः १ ब्राह्मणेतरावृत्तित्वे
सति सकलब्राह्मगव्यक्तिवृत्तित्वम् २ तपःश्रुतञ्च योनिश्च ह्येत
द्ब्राह्मणकारणम्, तपःश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः ।
<bold>ब्राह्मणभागः-</bold> कर्मविधायकवाक्यम् १ मन्त्रतात्पर्यार्थप्रकाश-
को वेदभाग इत्यृग्वेदभाष्ये २ वेदत्वे सति मन्त्रभिन्नत्वं ब्रा-
ह्मणभागत्वम् । कल्पसूत्रादिवारणाय सत्यन्तम् ॥ २१३४ ॥
<bold>*भ*</bold>
<bold>भक्तिः -</bold> आराध्य (त्वेन ज्ञानम् १ ) विष (यिकासक्ति: २) यकराग-
<bold>भक्षणं-</bold> गलबिलाधस्संयोगानुकूलो व्यापारः ।                     [विशेष:
<bold>भयं-</bold> परतोनिष्टसंभावमा१ आगामिदुःखानुसंधानजन्यमानसोद्वेग
इति ग्रं० २ विषयविशेषदर्शनश्रवणनिबन्धनञ्चेतसोऽनवस्थानं
<bold>भागत्यागलक्षणा-</bold> शक्यैकदेशपरित्यागेनैकदेशे वृत्तिः, यथा</p>
<pb n="105" />
<p>तत्त्वमसीत्यादिवाक्ये सर्वज्ञत्वाल्पज्ञत्वादिविरुद्धांशपरित्यागेन
चिन्मात्रयोरभेदः १ शक्यतावच्छेदकपरित्यागेनव्यक्तिमा-
त्रबोधप्रयोजिका लक्षणा ॥ २१५४ ॥
<bold>भारतं -</bold> भरतवंश्यानधिकृत्य कृतो लक्षश्लोकात्मको ग्रन्थः <error>२१५५</error><fix>॥२१५५॥</fix>
<bold>भारतवर्षम् -</bold> उत्तरेण समुद्रस्य हिमाद्रेश्चैव दक्षिणे, वर्षं
तद्भारतं नाम भारती यत्र सन्ततिः ॥ २१५६ ॥
<bold>भावः -</bold> अन्तर्निगूढेच्छा * १ क्रियानिर्वय योऽर्थः क्रियैव वा २
क्रियायाः फलम्, यथा ओदनं पर्चात देवदत्तः ३ अपरिस्पन्द -
नसाधनसाध्यो धात्वर्थ इति ग्रं० ४ प्रतियोगिनिरूपणानपेक्षनि-
रूपणकः ५ समवायैकार्थसमवायान्यतरसंबन्धेन सत्तावानिति
नै० ६ विधिमुखप्रतीतिविषय इति वे० ।                                                   [पारः
<bold>भावना-</bold> फलानुकूलव्यापारः१ भवितुर्भवनानुकूलो भावयितुर्व्या-
<bold>भावनासंस्कारः-</bold> जन्यज्ञानजन्यसंस्कार इति नवीनाः १ पूर्वा-
नुभवजन्यः स्मृतिहेतु: संस्कारः । आत्मादिवारणाय प्रथमद-
लम्, अनुभवध्वंसवारणाय द्वितीयदलम् ॥ २१७७ ॥
<bold>भाविकालः-)</bold> सूर्यपरिस्पन्दादिक्रियाप्रागभावावच्छिन्नः का.
<bold>भविष्यत्वं -)</bold> लः १ वर्तमानप्रागभावप्रतियोगित्वम् <error>२१७१</error><fix>॥२१७१॥</fix>
<bold>भाषणम्-</bold> यत्कि (ञ्चिज्) ञ्चाज्ञानानुकूलशब्दप्रयोगः ॥२१७२॥
<bold>भाषा-</bold> प्रतिज्ञासूचिका १ तत्तद्देशस्थजनवर्तननिर्वाहकवाक्यमि-
ति ग्रं० २ मनोभावव्यञ्जकोवर्णात्मकः शब्दः ३ भाष्यतेऽनयेति</p>
<pb n="106" />
<p><bold>भाष्यं -</bold> सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः, स्व-
पदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः । सागरा-
दिवर्णनस्य भाष्यत्वव्यावृत्तये सूत्रार्थेति, पदवृत्तिव्यावृत्तये
वाक्यैरिति, वार्तिकस्य तत्त्वनिरासाय सूत्रानुसारीति,
वृत्तेस्तत्त्वव्यावृत्त्यर्थं स्वपदानीति पाराशरपुराणे <error>२१७७</error><fix>॥२१७७॥</fix>
<bold>भिक्षा-</bold> ग्रासमात्रं (न्नम् १ ) भवेद्भिक्षा पुष्कलन्तु चतुर्गुणम्, पुष्क-
लानि च चत्वारि हन्तकारी विधीयते २ अष्टौ ग्रासा मुनेर्भक्ष्याः
षोडशारण्यवासिनाम्, द्वात्रिंशत्तु गृहस्थस्य यथेष्टं ब्रह्मचारिणां
<bold>भिक्षुः-</bold> भिक्ष (ते इति १) पजीवी २ भिक्ष (णशील: ३) कारको
वा ४ चतुर्थाश्रमी ५ यतिश्च ब्रह्मचारी च विद्यार्थी गुरुपो-
षकः, अध्वगः क्षीणवृत्तिश्च षडेते भिक्षवः स्मृताः ।
<bold>भिन्नत्वं-</bold> प्रस्फुटितत्वम् * १ भेदा (धिकरणत्वम् २) नुयोगित्वम् ।
<bold>भूतत्वं-</bold> बहिरिन्द्रियग्रह्यविशेषगुणवत्त्वम् । आत्मन्यतिव्याप्ति-
वारणाय बहिःपदम्, कालादावतिव्याप्तिवारणाय विशेषेति,
द्रव्यत्ववारणाय गुणेति १ अन्यतत्त्वानुसन्धानकालत्वम् <error>२१९१</error><fix>॥२१९१॥</fix>
<bold>भूतकालः-</bold> प्रारब्धपरिसमाप्तक्रियाश्रयः १ सूर्यपरिस्पन्दादि-
कियाध्वंसावच्छिन्नः कालः २वर्तमानध्वंसप्रतियोगी ॥२१९४ ॥
<bold>भूतप्रतिबन्धः-</bold> पूर्वानुभूतविषयस्यावशेन पुनः पुनः स्मरणम्
<bold>भृतार्थवादः -</bold> तत्काले तद्गुणज्ञापकः शब्दः, यथा 'जरायाम-</p>
<pb n="107" />
<p>प्ययं शूर' इति १ प्रमाणान्तर (परिप्राप्तार्थाभिधायित्वम् २) वि-
रोधतत्प्राप्तिरहितार्थबोधकोऽर्थवादः,यथा इन्द्रो वृत्राय
वज्रमुदयच्छदित्यादिः ॥ २१९८ ॥
<bold>भूमिका-</bold> वेशान्तरपरिग्रहः *१ ग्रन्थाभासः २ प्रयोजनसंपादिका
युक्तिः*अन्यरूपेऽन्यप्रवेश इति नाटकज्ञाः ४ चित्तस्यावस्थावि-
शेष इति योगिनः५हर्म्यादेरुत्तरोत्तरभूमिवज्ज्ञानस्यावस्थाविशेष:
<bold>भेदः -</bold> विदारणम् १पृथक्करणमिति ग्रं० २अन्योन्याभावत्वं भेदत्वं
<bold>भेदकः-</bold> मैत्रीनाशकः* १ विदारणानुकूलव्यापाराश्रयः <error>२२०७</error><fix>॥२२०७॥</fix></p>
<lg>
  <l><bold>भेदाभावः-</bold> मानाभावादयुक्तेश्च न भिदेश्वरजीवयोः, जीवा-</l>
  <l>नामचितां चैव नात्मनो न परस्परमिति भेदधिक्कारे ।</l>
  <l><bold>भोक्ता -</bold> सुखदुःखाकारवृत्त्युपहितं चैतन्यम् ॥ २२०८ ॥</l>
  <l><bold>भोगः-</bold> विभवभेदः*१ सुखदुःखान्यतरसाक्षात्कारः ॥२२१०॥</l>
</lg>
<lg>
  <l><bold>भोग्यं-</bold> सुखदुःखान्यतरसाक्षात्कारिज्ञानविषयः (= सुखादिः) ।</l>
  <l><bold>भोजनम् -</bold> कठिनद्रव्यस्य गलबिलाधःसंयोजनम् ॥ २२१२ ॥</l>
</lg>
<p><bold>भ्रमः-</bold> विपरीतनिर्णयः * १ विसंवादिज्ञानम् २ अतस्मिंस्त-
(न्द्रह: ३)द्बुद्धिरिति ग्रं० ४निष्फलप्रवृत्तिजनको बोधः ॥ २२१७ ॥
<bold>*म*</bold>
<bold>मङ्गलं-</bold> अभीष्टार्थसिद्धिः १ विघ्नविनाशनानुकूलव्यापारविशिष्टत्वं
मङ्गलत्वम् २ समाप्तिप्रतिबन्धकीभूतदुरितविशेषविघातकत्वम्
<bold>मतं-</bold> संमतम्१अभिप्रेतज्ञानं वा २ निषेधवाचकशब्दः ॥२२२३॥</p>
<pb n="108" />
<p><bold>मत्सरः-</bold> आत्मधिकारविशेषः *१परोत्कर्षासहनपूर्वकस्वोत्कर्ष-
वाञ्छा २स्वसमानसंपत्तिदर्शनासहनत्वं मत्सरत्वम् ॥२२२६॥
<bold>मदः-</bold> मत्सदृशः कोऽस्तीति (गर्वविशेषः१) हर्षबुद्धि: २ विद्या-
दिनिमित्तात्स्वस्मिन्नाधिक्यबुद्धिः ।                             [लात्मा शब्द:
<bold>मध्यमावाणी-</bold> हृञ्चक्रस्थवाय्वभिव्यङ्ग्यः पश्यन्त्या अपि स्थू-
<bold>मध्यस्थः-</bold> विवदमानयोः (रुभयोरपि पक्षपाती हितैषी वा१ )सद-
सद्वाक्यविचारकः२स्वार्थरक्षापूर्वकपरार्थसाधकत्वं मध्यस्थत्वं
<bold>मनः-</bold> मननात् १ सर्वेन्द्रियप्रवर्तकान्तरिन्द्रियम्* २ सङ्कल्पविकल्पा-
त्मकवृत्तिमदन्तःकरणम् ३सुखदुःखादिसाक्षात्कारकारणत्वे सती-
न्द्रियत्वं मनस्त्वम् । चक्षुरादिवारणाय सत्यन्तम्, आत्ममनःसं-
योगादिवारणायेन्द्रियमिति४स्पर्शरहितत्वे सति कियावत्वम्५
द्रव्यसमवायिकारणत्वर द्विताणुसमवेतद्रव्यत्वापरजातिमत्त्वम् ।
<bold>मननं-</bold> साधकबाधकप्रमाण (भ्यां श्रुतितात्पर्यनिर्णयः १) पन्या-
सरूपयुक्तिभिः श्रुतिवाक्यार्थसमर्थनम्*२ श्रुतार्थ (स्य युक्तायुक्त-
त्वपर्यालोचनम् ३)निश्चयानुकूलप्रमेयसंदेहनिवर्तकयुक्तयनुसंधानं
<bold>मनुष्यः-</bold> मनोरपत्यम् ।                     [कारपरिणामः
<bold>मनोनाशः-</bold> मनसो नाशः १ वृत्तिरूपपरिणामत्यागेन निरोधा-
<bold>मनोमयः-</bold> मनोऽतिरिक्तोपाधिशून्यः ॥ २२४६ ॥
<bold>मनोमयकोशः-</bold> ज्ञानेन्द्रियैः सहितं मनः ॥ २२४७ ॥
<bold>मनोव्यसनम्-</bold> चौर्यादीच्छाहेतुभूतं व्यसनम् ॥२२४८॥</p>
<pb n="109" />
<p><bold>मनोहरः-</bold> मनसो हरः १ यस्मिन्सत्कं मनः पुंसां नान्येन
ह्रियते मनः, अन्येभ्यो यच्च हरति तन्मनोहरमुच्यते <error>२२५०</error><fix>॥२२५०॥</fix>
<bold>मन्त्रः-</bold> गुप्तभाषणम् *१ प्रयोगसमवेतार्थस्मारको वाक्यविशेष : २
अनुष्ठानकारणभूनद्रव्यदेवताप्रकाशकः ३वेदत्वे सति ब्राह्मणभि-
<bold>मन्त्रभागः-</bold> मन्त्रविधानप्रतिपादको वेदभागः ।            [न्नत्वं
<bold>मन्दप्रज्ञत्वम्-</bold> श्रुतार्थग्रहणधारणापटुत्वम् ॥ २२५६ ॥
<bold>मन्दवैराग्यं -</bold> पुत्रदारादिविषयवियोगे धिक्संसारमितिबुद्ध्या
विषयजिहासा                                             [ न्द्रियवियोगः
<bold>मरणावस्था-</bold> चरमशरीरप्राणसंयोगध्वंस: १ पूर्वविद्यमानदेहे-
<bold>मर्यादा-</bold> न्याय्यपथस्थितिः १ स्थित्यनतिक्रम इति ग्रं० ॥ २२६१ ॥
<bold>मलमासः -</bold> रविसङ्क्रान्त्यभावविशिष्टचान्द्रमासः ॥ २२६२ ॥
<bold>मलिनवासना-</bold> ज्ञानप्रतिबन्धकीभूता वासना ॥ २२६३ ॥
<bold>महत्त्वम्-</bold> प्रमाणागम्यशरीरकत्वम् १ महतो भावः ॥ २२६५ ॥
<bold>महात्मा-</bold> परोपकारव्यसनी १ अहेतुकहितकारको वा २ महा-
नात्मा स्वभावो यस्य ।                                                       [श्वासौ पुरुषश्चेति
<bold>महापुरुषः-</bold> महान् कामादिभिरक्षुभितमानसः पुरुषः १ महां-
<bold>महाप्रकरणं-</bold> फलभावनायाः प्रकरणम् १ मुख्यभावनासंबन्धित्वं
<bold>महाप्रलयः-</bold> सर्वभावकार्यध्वंसः १जन्यभावानधिकरणकालः २
ब्रह्मणो नाशावस्थेति पौराणिका: ३'प्राकृतप्रलय'लक्षणमप्यत्र०
<bold>महाभारतं-</bold> महान्तं भारं तनोतीति *१ महद्भारतम् २ महत्त्वे</p>
<pb n="110" />
<p>सति भारतम् ३ 'भारत' लक्षणमप्यत्र पठनीयम् ॥२२७८॥
<bold>महामोहः-</bold> प्राम्यभोगसुखैषणा *१ साधनरहितस्यापि सर्व-
सुखजातीयं मे भूयादिति विपर्ययविशेषः ॥२२८०॥
<bold>महावाक्यं-</bold> महद्वाक्यम् १परस्परसंबद्धार्थकवाक्यम्२वाक्यस-
मुदायरूपत्वे सत्येकवाक्यमिति मी० ३ जीवब्रह्मैक्यबोधकवाक्यं</p>
<lg>
  <l><bold>महाविद्यानुमानत्वं -</bold>पक्षे प्रकारान्तरेण साध्योपसंहारशा-</l>
  <l>लित्वे सति दृष्टान्ते प्रकारान्तरेण साध्योपसंहारशालित्वम् ।</l>
  <l><bold>मात्रा-</bold> हस्ववर्णोच्चारणकालः * १ स्वजानुमण्डल पाणिना त्रि:-</l>
  <l>परामृश्यच्छोटिकावच्छिन्नः कालः ॥ २२८७ ॥</l>
</lg>
<p><bold>मानसजपः -</bold> जिह्वौष्ठादिव्यापाररहितं शब्दार्थयोश्चिन्तनम् ।
<bold>मानः-</bold> पुरुषान्तरेण संपादितः सत्कारः १ सर्वत्राप्रणतिभावः <error>२२९०</error><fix>॥२२९०॥</fix>
<bold>मानित्वं-</bold> विद्यमानैरविद्यमानैर्वा गुणैरात्मनः श्लाघनम् <error>॥२२९१</error><fix>॥२२९१॥</fix>
<bold>माया-</bold> परवञ्चनेच्छा १ हृदयेन्यथा कृत्वा बहिरन्यथा व्यवहर-
णम् २रजस्तमोनभिभूतशुद्धसत्त्वप्रधाना३ अघटितघटिका
शक्तिः ४ निरूपयितुमशक्यत्वे सति विस्पष्टं भासमाना । आ-
त्मन्यतिव्याप्तिवारणाय सत्यन्तम् ५ स्वाश्रयाव्यामोहकरत्वे
सतीतरव्यामोहकारणत्वं मायात्वम् ६ विपरीतप्रवृत्तिहेतुत्वे सति
विषयोपादानत्वे सति विक्षेपशक्तिप्रधानत्वम् ॥ २२९८ ॥
<bold>मित्रम्-</bold> मिनोति मानं करोतीति १ प्रत्युपकारमनपेक्ष्य स्नेहेनो-
पकारक: २ सर्वविषयेष्वेककार्यकर्तेति ग्रं० ॥ २३०१ ॥</p>
<pb n="111" />
<p><bold>मिथ्यात्वं-</bold> निःस्वरूपत्वमिति बौद्धाः १ कालासम्बन्धित्वमिति
नै० २ शानबाध्यत्वमिति विवरणे ३ अध्यासविषयत्वम् ४
ब्रह्मभिन्नत्वमिति परिमले ५ प्रतिपन्नोपाधौ त्रैकालिकनिषेध-
प्रतियोगित्वम् । असद्व्यावर्तनाय प्रतिपन्नोपाधाविति वि
शेषणम्, प्रागभावादिप्रतियोगित्वमादायांशतः सिद्धसाधनवा-
रणाय त्रैकालिकेति ६ ज्ञाननिवर्त्यत्वे सति ज्ञाना (तिरिक्ता-
निवर्त्यत्वम् ७ ) घटितसामग्र्यनिवर्त्यत्वम् । आत्मन्यतिव्याप्ति-
वारणाय सत्यन्तम्, घटं नाशयामीति ज्ञानपूर्वकं मुद्गरपाता-
दिना तन्नाशदर्शनात्तद्वारणाय विशेष्यम् ८ असत्त्वाविशेषेपि
कदाचित्प्रतीयमानत्वम् । गगनकमलादावतिन्याप्तिवारणाय
कदाचिदिति मुक्तावल्याम् ९ स्वानधिकरणानधिकरणात्य-
न्ताभावप्रतियोगित्वमिति तत्त्वविवेके १० स्वाश्रयत्वेनाभिम-
तयावन्निष्टात्यन्ताभावप्रतियोगित्वम् । अभिमतपदमसंभव-
वारणाय, यावत्पदमर्थान्तरवारणायेति परिभाषायाम् ११
अयं प्रपञ्चो मिथ्यैव सत्यं ब्रह्माहमद्वयम् अत्र प्रमाणं
वेदान्ता गुरवोनुभवस्तथा ।                          [ शरीरप्रापकं
<bold>मिश्रितकर्ममध्यमं-</bold> स्वाश्रमोचितकाम्यकर्मानुष्ठानादि योग्य-
<bold>मिश्रितकर्मसामान्यं-</bold>चाण्डालव्याधाद्यधमशरीरप्रापकम् ।
<bold>मिश्रितकर्मोत्कृष्टं -</bold> निष्कामकर्मानुष्ठानादियोग्यशरीरप्रापकम्
<bold>मीमांसा-</bold> विचारपूर्वकतत्त्वनिर्णयः *१वेद (वाक्यविचार: २) ।र्थ -</p>
<pb n="112" />
<p>कर्मनिर्णायको ग्रन्थः २ कर्मब्रह्मविषयकसंशयनिवारकवाक्यम् ।
<bold>मुक्त:-</bold>पुनः संसाराभाववान् १ अविद्याकामकर्मपारन्त्र्यरहितः
<bold>मुक्तिः-</bold>निखिलबन्धराहित्येन स्थितिः १ 'मोक्ष'लक्षणमप्यत्रप●</p>
<lg>
  <l><bold>मुख्यार्थः-</bold> स्वीयप्रवृत्तिनिमित्तप्रकारकप्रतीतिविशेष्यप्रसिद्धार्थः।</l>
  <l><bold>मुख्यप्रयोजनत्वं-</bold> अन्येच्छानधीनेच्छाविषयत्वम् ॥२३२५॥</l>
</lg>
<p><bold>मुख्यसामानाधिकरण्यं-</bold> अज्ञानोपहितस्य जीवस्याबाधेन
ब्रह्मणा सामानाधिकरण्यम् ।                                        [नादिभिः सत्कारः
<bold>मुदिता-</bold> भोग्यवस्तुदर्शनजश्चित्तविकारः*१पुण्येष्वभ्युत्थास-
<bold>मुनित्वं-</bold> वेदशास्त्रार्थतत्त्वावगन्तृत्वम् १दुःखपङ्क्रमग्नजगदुद्दिधीर्षु-
त्वमिति ग्रं० २ निरन्तराद्वितीयार्थमननशीलत्वम् ॥२३३१॥
<bold>मुमुक्षा-</bold> स्वरूपेच्छा १ हे धातः । संसारबन्धनान्मम मोचनं
कदा भविष्यतीतीच्छा ॥ २३३३ ॥
<bold>मुमुक्षुः-</bold> मोक्षेच्छुः १ स्वात्मानं द्वैतबन्धान्मोक्तुमिच्छु: <error>२३३५</error><fix>॥२३३५॥</fix>
<bold>मूढः-</bold> कर्तृत्वायहकारभावारूढः १इदमर्थसाधनमिदमनर्थसाधन-
<bold>मूढावस्था-</bold> निद्रातन्द्रादिप्रस्तावस्था । [मिति विवेकशुन्यः
<bold>मूर्ख:-</bold> प्रकृतज्ञानरहितः १लोकवेदविरुद्धपक्षावलम्बी २ हिताहित-
ज्ञानशून्य: *शास्त्रज्ञानशून्यः ४ वेदशास्त्राधीतत्वे सति संसारा[^३]सक्तः
<bold>मूर्च्छावस्था-</bold> मुद्गरादिप्रहरणानन्तरं विशेषविज्ञानीपरमावस्था
<bold>मूर्तत्वं-</bold> क्रिया (श्रयत्वम् )वद्द्रक्ष्यत्वम्२परिच्छिन्नपरिमाणवद्द्रव्यत्वे
</bold>मूलम्-</bold> टीकार्हग्रन्थः *१ सर्वाद्यम् २ अकारणकत्वं मूलत्वम् ।</p>
<pb n="113" />
<p><bold>मूलाज्ञानं-</bold> ब्रह्मावरकमज्ञानम् १ निरवयवावच्छिन्नविभुचैतन्या-
<bold>मृत्युः-</bold> दीर्घनिद्रा १ विजातीयात्ममनःसंयोगनाशः । [च्छादकं
<bold>मृदुः-</bold> क्रोधशून्यः १'अक्रूर' लक्षणमप्यत्र पठनीयम् ॥२३५१॥
<bold>मेधा-</bold> धारणावती बुद्धिः १ अनेकश्रुतग्रन्थार्थधारणशक्तिर्वा ।
<bold>मेधावी-</bold> मेधायुक्तः १ गुरूपदिष्टपदार्थग्रहणधारणपटुरिति ग्रं०
<bold>मैत्री-</bold> परानुद्वेगजनिका वृत्तिः १सुखिष्वात्मीयत्वभावनमित्यादर्शे
<bold>मैथुनं-</bold> सुखविशेषहेतुशुक्रक्षरणानुकूलो व्यापारः ॥ २३५८ ॥
<bold>मोक्षः-</bold> स्वातन्त्र्यम् १ मृत्युर्वेति चार्वाकाः २. उत्तराधरभावेन नि-
रन्तरोत्पादक्लेशादिदोषदूषितबोधसंततिविच्छेद इति माध्य-
मिका: ३ पुनर्भावनाप्रकर्षपरिलब्धपरिशुद्धचित्तसंतान इति
योगाचाराः ४ प्रलीननिखिलोपाधेः क्षेत्रज्ञस्य सततोर्द्ध्घगति -
रिति जैना: ५ आनन्दमयपरमात्मनि जीवात्मलय इति
त्रिदण्डिनः ६ जीवस्य लिङ्गशरीरापगम इति भास्करीयाः ७
अक्षयशरीरादिलाभः ८ विष्णुभक्तिधर्माचरणाद्विष्णुलोकग-
मनं वेति वैष्णवाः ९ सर्वकर्तृत्वमेकं विहाय वासुदेवस्य
सर्वज्ञत्वादीनां कल्याणगुणानामाप्तिमत्त्वे सति भगवद्याथा-
त्म्यानुभव इति रामानुजीयाः १० जगत्कर्तृत्व, लक्ष्मीपतित्व,
श्रीवत्सवर्जं भगवज्ज्ञानायत्तनिर्दुःखपूर्णसुखमिति माध्वाः ११
द्विभुजकृष्णेन सह स्वांशभूतानां जीवानां गोलोके लीलानु-
भव इति वल्लभीयाः १२ पारमैश्वर्यप्राप्तिरिति माहेश्वराः १३
-</p>
<pb n="114" />
<p>चन्द्रचूडवपुषः सतः पार्वत्यालिङ्गनमिति कापालिकाः १४
पूर्णात्मतालाभ इत्यभिनवगुप्ताचार्याः १९ पाशुपतधर्माचरणा-
त्पशुपतिसमीपगमनमेव पुनरावृत्तिरहितमिति पाशुपता: १६
पञ्चाग्निविद्याद्युपासनैरर्चिरादिमार्गेण हिरण्यगर्भप्राप्तिरिति
हैरण्यगर्भाः १७ पारदरसपानेन देहस्थैर्यमिति रसेश्वरवा-
दिनः १८ आत्यन्तिकैकविंशतिदुःखध्वंसः १९ स्वसमाना-
धिकरणदुःखप्रागभावासमानकालीनदुःखध्वंसः । संसारका-
+लीनदुःखध्वंसस्य मोक्षत्ववारणाय कालीनान्तं दुःखविशे-
षणम्, अस्मदीयदुःखसमानकालीनशुकमोक्षेऽव्याप्तिवारणाय
स्वसमानाधिकरणेतिदुःखविशेषणमिति तार्किकाः २०
स्वर्गादिरिति मी० २१ दुःखसाधनशरीरनाशे नित्यनिरति-
शयसुखाभिव्यक्तिरिति तदेकदेशिनः २२ नित्यसुखसाक्षात्कार
इति भाट्टाः २३ आत्यन्तिकदुःखप्रागभावपरिपालनमिति
प्राभाकरा: २४ परापश्यन्तीमध्यमावैखरीति वाणीचतुष्टये
प्रथमायाः पराख्याया ब्रह्मरूपाया वाण्या दर्शनमिति पाणि-
नीयाः २५ प्रकृतिपुरुषविवेकदर्शनात्तद विवेकनिवृत्तौ पुरुषस्य
स्वरूपेणावस्थानमिति साङ्ख्ययोगिनः २६ चित्तानुत्पादनमित्य-
न्ये २७ संसारोपरम इत्यपरे २८ आत्महानिरित्येके २९ निखि-
लदुःखनिवृत्तिनुरस्सरं स्वात्मानन्दावाप्ति: ३० विद्यानिरस्तावि-
द्यातकार्यब्रह्म (भावापत्तिः ३१)आत्मनावस्थानमिति वे० <error>२३९०</error><fix>॥२३९०॥</fix></p>
<pb n="115" />
<p><bold>मोचनं-</bold> दूरीकरणम् १ बहिःक्षरणावच्छिन्नव्यापारो वा<error> २३९२</error><fix>॥२३९२॥</fix>
<bold>मोहः-</bold> ममत्वबुद्धिः १ चित्तवैकल्यम् २ वस्तुतत्त्वानवधारिणी
चित्तवृत्तिः ३ हितेष्वहितबुद्धिरहितेषु हितबुद्धिर्वा ४ सत्येन
यथार्थज्ञानरूपेण विवेकन मोहस्य निवृत्तिः ॥ २३९६ ॥
मौनं वाक्संय (मः १) महेतुर्मनःसंयमः २ वाचौ यस्मान्नि-
वर्तन्ते तद्वक्तुं केन शक्यते, प्रपञ्चो यदि वक्तव्यः सोपि
शब्दविवर्जितः । इति वा तद्भवेन्मौनं सर्वं सहजसंज्ञितम्,
गिरां मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् ॥ २३९८ ॥
म्लेच्छ : - अप ( शब्द: १ ) भाषणम् २ गोमांसखादको यस्तु
विरुद्धं बहु भाषते, सर्वाचारविहीनश्च म्लेच्छ इत्यभिधीयते ।
<bold>*य*</bold>
<bold>यजमानः-</bold> स्वार्थश्रौतस्मार्तकर्मानुष्ठानकर्ता १ यजतीति<error> २४०३</error><fix>॥२४०३॥</fix>
<bold>यजुर्मन्त्रः-</bold> अनियताक्षरपादावसानो मन्त्रः १ वृत्तगीतिवर्जितत्वे
सति प्रश्लिष्टपठित [१९७५] मन्त्रः, यथाग्नीदग्नीन्विहरेति <error>२४०५</error><fix>॥२४०५॥</fix>
<bold>यजुर्वेदः -</bold> यजुर्बहुलो वेदः १ यजुरवयवको वेदः २ यजु ( र्वि-
नियोजकत्वं यजुर्वेदत्वम् ३) र्द्रव्यको वेद इति सुधायाम् <error>२४०९</error><fix>॥२४०९॥</fix>
<bold>यज्ञः-</bold> देवतोद्देशेन हविस्त्यागः १ यूपसंबन्धरहितत्वे सति शास्त्र-
विहितकमविशेषः ।                                                                [सार विवेकः
<bold>यतमानवैराग्यं-</bold> अस्मिन्संसारे इदं सारमिदमसार मिति सारा-</p>
<pb n="116" />
<p><bold>यतिचान्द्रायणं-</bold> एकमासं प्रत्यहं मध्याह्नकालेऽष्टाष्टपिण्डाशनं
<bold>यथार्थज्ञानं-</bold> अबाधितार्थविषयज्ञानम् १ फलवत्प्रवृत्तिजननयो-
ग्यम्, यथा रजते इदं रजतमिति ज्ञानम् २ अविसंवादिज्ञानम्
<bold>यथेष्टाचरणं-</bold> अतिक्रमः १ यथाभिप्रेतानुष्ठानमिति ग्रं० २
शास्त्रमर्यादोल्लङ्घनपूर्वकस्वेष्टविषयक प्रवृत्तिः ॥ २४५९ ॥
<bold>यमः-</bold> हिंसादिभ्यो निषिद्धधर्मेभ्यो योगिनं यमयति निवर्तय
तीति १ अहिंसा (द्यन्यतमः २ ) दिपरिग्रहः ३ मनोमात्र -
साध्यत्वे सति निवृत्तिलक्षणयोगाङ्गविशेषः ४ यमफलानि
सकामानां योगशास्त्रे कथितानि, तथाहि-अहिंसाप्रतिष्ठायां
तत्सन्निधौ वैरत्यागः १ क्रियाफलाश्रयत्वम् २ सर्वरत्नोप-
स्थानम् ३ वीर्यलाभः ४ जन्मकथन्तासंबोधः ॥ २४२३ ॥
<bold>यागः-</bold> मन्त्रकरणकः १ वह्नयाद्यधिकरणमिति ग्रं० २ सयूपत्वे स-
त्यन्त्याहुतित्वं यागत्वम् अग्निहोत्रवारणाय सत्यन्तम्, देव-
गृहस्थण्डिलविशेषादिवारणायान्त्याहुतीति ३ 'यज्ञ' लक्षणम-
<bold>याचनं-</bold> स्वीकार (दान) नुकूलो व्यापारः । [प्यत्र पठनीय
<bold>यात्रा-</bold> किञ्चित्कार्यमुद्दिश्य देशान्तरगमनम् ॥ २४२९ ॥
<bold>युक्तयोगित्वं-</bold> सर्वदा ( पदार्थज्ञानवत्त्वम् १ ) समाधिमत्त्वम् ।
<bold>युक्ति:-</bold> अर्थावधारणम् १ स्वपक्षसाधकविपक्षबाधकप्रमा-
णोपन्यासः ।                                               [ सकलज्ञानवत्वं
<bold>युञ्जानयोगित्वं-</bold> कादाचित्कसमाधिमत्त्वम् १ चिन्तासहकारेण</p>
<pb n="117" />
<p><bold>युतसिद्धिः -</bold> परस्परसम्बन्धशून्ययोरवस्थानम्॥ २४३६ ॥
<bold>युद्धम् -</bold> परस्पराभिघातार्थं शस्त्रादिक्षेपणव्यापारः ॥२४३७॥
<bold>योगः-</bold> अलब्धलाभः *१ दैवासुरवृत्तिनिरोधः २ स्वरूपावस्थिति-
हेतुचित्तवृत्तिनिरोधः ३ क्लेशकर्मादिपरिपन्थित्वे सति चि० ४
क्लेशकर्मविघटकत्वे सति प्रमाणविपर्ययादिवृत्तिनिरोधत्वं योग-
त्वम् । क्षिप्तमूढादिषु माभूद्योगत्वमिति सत्यन्तनिवेशस्तथा च
तत्र वृत्तिनिरोधसत्त्वेपि क्लेशकर्माद्यविघटकत्वात्तस्य न तेषु योग-
त्वम्, विवेकख्यातावपि तद्विघटकत्वात्तद्वारणाय निरोधान्तम्
<bold>योगक्षेमत्वं-</bold> अनुभवानुसारवस्तुस्थितिसङ्घनत्वम् ॥ २४४३ ॥
<bold>योगरूढं-</bold> योगार्थप्रतिपादकपदम् १ शास्त्रकल्पितावयवार्थानु-
संधानपूर्वकसमुदायशक्त्यर्थबोधकपदमिति स्फोटचन्द्रिकायां
<bold>योगरूढिः-</bold> योगार्थवृत्तिरूढिः, यथा पङ्कजादिपदेषु ॥ २४४६॥
<bold>योगशक्तिः -</bold> अवयवशक्तिः, यथा पाचकादिपदानाम् <error>२४४७</error><fix>॥२४४७॥</fix>
<bold>योग्यं-</bold> योगार्द्दम् १अन्यतरोपस्थितावन्यतरस्याबाधितम् <error>२४४९</error><fix>॥२४४९॥</fix>
<bold>योग्यता-</bold> बाधकप्रमाणाभावः *१ वाक्यार्थाबाध: २ तात्पर्य -
विषयसंसर्गाबाधः, यथा पयसा सिञ्चति ३ एकपदार्थे परपदार्थ-
सम्बन्धः ४ कार्यविशेषोत्पादने सामर्थ्यमिति ग्रं० ॥ २४५४॥
<bold>योग्यानुपलब्धिः-</bold> अभावप्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जितोप-
लब्धिरूपप्रतियोगिकानुपलब्धिः, यथा भूतले घटो नास्तीति
प्रतीतिसिद्धघटाभावप्रतियोगिनो घटस्य यद्यत्र घटः स्यादितिप्र-</p>
<pb n="118" />
<p>सञ्जनेन (= आपादनेन) तर्ह्युपलभ्येतेति प्रसञ्जितोपलब्धिरूपप्रति-</p>
<lg>
  <l>योगिका घटस्यानुपलब्धिस्तया भूतले घटाभावप्रमा जायते इति</l>
  <l><bold>योनिजशरीरं-</bold> शुक्रशोणितयोः परस्परमेलनजन्यं शरीरम् ।</l>
  <l><bold>यौक्तिकबाधः-</bold> मृद्व्यतिरेकेण घटाभावनिश्चयवन्निखिलकार-</l>
  <l>णीभूतब्रह्मव्यतिरेकेण प्रपश्चाभावनिश्चयः ॥ २४५७ ॥</l>
</lg>
<p><bold>यौगपद्यं -</bold> एकका (लवृत्तित्वम् १) लोत्पत्तिकत्वम् ॥ २४५९ ॥</p>
<lg>
  <l><bold>यौगिकः-</bold> प्रकृतिप्रत्ययद्वारार्थवाचकः शब्दः १ अवयवशक्त्य-</l>
  <l>र्थशक्तिद्वागवबोधकः शब्दः, यथा प्रियः सुखद इत्यादिः ।</l>
  <l><bold>यौगिकरूढिः-</bold> योगार्थभिन्नार्थवृत्तिरूढिः, यथोद्भिदादिपदेषु १</l>
  <l>अवयवशक्तिसमानाधिकरणसमुदायशक्तिरूपा रूढिः ॥ २४६३॥</l>
</lg>
<p><bold>*र*</bold>
<bold>रक्षा-</bold> रक्षणम् १ अनिष्टनिवृत्त्यनुकूलव्यापारः ॥ २४६५ ॥
<bold>रजस्त्वं-</bold> प्रेरकत्वे सति सक्रियत्वे सति दुःखहेतुत्वम् ॥ २४६६॥
<bold>रतिः-</bold> भोगविलासार्थक्रिया १ यूनोरन्योन्यविषयस्थायिनीच्छेति</p>
<lg>
  <l>ग्रं० २ वस्तुविशेषविषयिका प्रीतिः * ३ बाह्यसाधननिरपेक्षा ।</l>
  <l><bold>रमणीयत्वं-</bold> लोकोत्तराह्लादजनकज्ञानविषयत्वम् ॥ २४७१॥</l>
</lg>
<p><bold>रसः-</bold> रस्यते इति१भुक्तान्नपरिणाम: *२ रसनेन्द्रियमात्र ग्राह्यगुणः
<bold>रसनेन्द्रियं-</bold> रस (ग्राहकत्वं रसनत्वम् १) ओपलब्धिसाधन मिन्द्रि-
यम् । रसनेन्द्रियरससंबन्धादावतिव्याप्तिनिरासायेन्द्रियमिति
<bold>रसास्वादः -</bold> विक्षेपनिवृत्तिजम्यानन्दानुभवः १ समाध्यारम्भ-
समये ब्रह्मानन्दानवाप्तौ स्थूलवृत्त्यभावानन्दास्वाद इति ग्रं०</p>
<pb n="119" />
<p><bold>रागः-</bold> ध्वनिविशेषेण चित्तरजकः * १ उत्कटेच्छा २ अभिमत-
विषयाभिलाषो वा ३ विषयानुबुभूषा ४ पुनःपुनर्विषयानुरञ्जने-</p>
<lg>
  <l>च्छेति ग्रं० ५ रूयादिष्विष्टसाधनताबुद्ध्या स्नेहः ६ प्राप्तो विषयः</l>
  <l>क्षयकारणे सत्यपि न क्षीयतामित्येवमाकारश्चित्तवृत्तिविशेषः ।</l>
  <l><bold>रात्रिः-</bold> अहर्निपरीता १ सूर्यमण्डलादर्शनयोग्यकालः ॥ २४८६॥</l>
  <l><bold>रामायणम् -</bold> रामचरितमधिकृत्य कृतो प्रन्थः ॥ २५८७ ॥</l>
</lg>
<p><bold>रुद्रः -</bold> सत्त्वोपसर्जनभूततमोगुणावच्छिन्न चैतन्यम् ॥ २४८८ ॥
<bold>रूढः -</bold> प्रकृतिप्रत्ययार्थमनपेक्ष्य समुदायशक्तयाऽर्थबोधकः
शब्दः, यथा गोवृक्षादिः १ सङ्केतयुक्तो नाम ॥ २४९० ॥
<bold>रूढिः-</bold> समुदायशक्तिः, यथा घटादिपदानाम् ॥ २४९१ ॥
<bold>रूपम् -</bold> तत्तद्वृत्तिरुद्दिष्टधर्मः १ चक्षुर्मात्रप्राह्यो गुणः । सङ्ख्यादि-
वारणाय मात्रपदम्, प्रभावारणाय गुणपदम् ॥ २४९३ ॥
<bold>रूपकम्-</bold> उपमानोपमेययोरभेदे साम्यप्रतीतिः ॥ २४९४ ॥
<bold>रेचकप्राणायामः-</bold> पीतस्य वायोर्द्वात्रिंशन्मात्राभिस्त्यागः ।
<bold>रोगः-</bold> धातुवैषम्यहेतुको (व्याधिः १) मानसः शारीरो वा विकार-
<bold>*ल*</bold>                            [ विशेषः
<bold>लक्षकः -</bold> शक्यार्थसंबन्ध्यनुभावकः १ 'लाक्षणिक' लक्षणमप्यत्रप०
<bold>लक्षणं-</bold> इतरभेदज्ञापकम् १ असाधारणध (र्म: २)र्मप्रतिपादकवा-
क्यमिति ग्रं० ३ ज्ञानजनकज्ञानविषयः ४ अव्यायतिव्यायसंभ-
वदोषत्रयशून्यम्, यथा गोः सास्नादिमत्त्वम्५ समानासमानजाती-
यव्य ( वर्तको लक्ष्यगतः कश्चिल्लोकप्रसिद्धाकार: ६ )वच्छेदकम् ।</p>
<pb n="120" />
<p>नीलमुत्पलमित्यत्र सजातीयमात्रव्यवच्छेदके विशेषणऽतिप्रस-
ङ्गवारणायासमानजातीयेति, रूपं गुण इत्यादी विजातीय-
द्रव्यव्यवच्छेदकधर्मेतिव्याप्तिवारणायसमानजातीयेति ७
लक्ष्यतावच्छेदकसमनियतम् । लक्ष्यतावच्छेदकसमनियतत्वं
नाम लक्ष्यतावच्छेदकेन सह समव्याप्तिकत्वम् यथाऽन्तःक-
रणावच्छिन्नं चैतन्यं प्रमातृचैतन्यमिति प्रमातृलक्षणे यत्र
यत्रान्तःकरणावच्छिन्न चैतन्यत्वं तत्र तत्र प्रमातृत्वं यत्र यत्र
च प्रमातृत्वं तत्र तत्रान्तःकरणावच्छिन्नचैतन्यत्वमिति लक्ष्य-
तावच्छेदकेन प्रमातृत्वेन सह लक्षणस्य समव्याप्तिः ॥२५०५॥
<bold>लक्षणप्रयोजनं-</bold> व्यावृत्तिर्व्यवहारो वा ॥ २५०६ ।
<bold>लक्षणा-</bold> शक्यसंबन्धः*बोध्यसंबन्धः २स्वशक्तिज्ञाप्यसंबन्ध इति
ग्रं० ३शक्यार्थस्मृतिव्यवहितशक्यार्थसंबन्धिपदार्थविषयाप्रतीति
<bold>लक्षितः-</bold> लक्षणाश्रयः १ लक्षणया बोधितोऽर्थः ॥ २५१२ ॥
<bold>लक्षितलक्षणा-</bold> शक्यपरम्परासंब(न्धेनार्थान्तरप्रतीति १ )न्धः,
यथा द्विरेफो रौतीति वाक्ये द्विरेफस्य भ्रमरपदे संबन्धस्तस्य
च मधुकरे ॥ २५१४ ॥
<bold>लक्ष्यं-</bold> लक्षयितुं योग्यम्१वक्तृतात्पर्यविषयत्वे सति शक्यसंबद्धम्
<bold>लघुत्वं-</bold>हस्वसंज्ञकवर्णवृत्तिधर्मविशेषः ४१ शीघ्राल्पोपस्थितिकत्वं
<bold>लज्जा-</bold> अकृत्यप्रवृत्तिः ] अकार्यकरणादिजन्यो ज्ञानविशेषः *२
मुखसंवरणादिकार्यजनको मनोविकारविशेषः ॥ १५२५ ॥
<bold>लयः-</bold> संश्लेष: १ कार्यस्य कारणे समावेशः *२ प्रकृतेर्विरुद्धपरि-</p>
<pb n="121" />
<p>णामः ३३ अखण्डवस्त्वनवलम्बनेन चित्तवृत्तेर्निद्रा ॥१५२८॥
<bold>ललितः-</bold> शृङ्गारहावजन्यः क्रियाविशेषः ॥ २५२९ ॥
<bold>लाक्षणिकः-</bold> लक्षणाभिज्ञः *१लक्षणयार्थबोधकः शब्दः ॥ २५३१ ॥
<bold>लाघवम्-</bold> लघोर्भावः १ तर्कविशेषविषयत्वम् ॥ २५३३ ॥
<bold>लिङ्गं-</bold> पुंसोऽसाधारणचिह्नम् *१व्या(प्त्याश्रयः २) प्तिविशिष्टपक्ष-
धर्मताविशिष्टहेतुः ३ शब्दसामर्थ्यम् । अङ्कुरादिजननानुकूल-</p>
<lg>
  <l>बीजादिसामर्थ्यवारणाय शब्देति मी० ४ प्राकृतगुणगताव-</l>
  <l>स्थात्मकधर्म इति वै० ५ लीनस्यार्थस्य (तात्पर्यादेः ) गमकम् ।</l>
  <l><bold>लिङर्थत्वं-</bold>  प्रवृत्तिजनकज्ञानविषयत्वम् १ कार्यबुद्धिगोचरत्वे सति</l>
  <l>(भावार्थसाध्यफलजनकत्वम् २) प्रवर्तकत्वम् ॥ २५४२ ॥</l>
</lg>
<p><bold>लिपिः-</bold> शब्दानुमापकरेखा १ अक्षरनामकसाङ्केतिकचिह्नमिति ग्रं०
<bold>लीला-</bold> शृङ्गारभावचेष्टा १ स्त्रीणां क्रीड़ारूपव्यापारः *२ प्रिया-
नुकरणम् ३ रहस्यपूर्णव्यापारः ॥ २५४८ ॥
<bold>लेखक:-</bold> लेखनकर्ता १ शीर्षोपेतान्सुसंपूर्णान्समश्रेणिगता-
न्समान्, अक्षरान्विलिखेद्यस्तु स लेखक इति स्मृति: <error>२५५०</error><fix>॥२५५०॥</fix>
<bold>लेशाविद्या-</bold> प्रारब्धकर्मसंपादनपटीयानविद्याया अवस्थाविशे-
षः १क्षालितलशुनभाण्डानुवृत्तलशुनवासनाकल्पोऽविद्यासंस्कारः
<bold>लोकः-</bold> प्राणिनां कर्मफलभोगस्थानविशेषः ॥ २५५२ ॥
<bold>लोकवासना-</bold> सर्वे जना यथा मां न निन्दन्ति यथा वा स्तुवन्ति
तथैव सर्वदाचरिष्यामीत्यशक्यार्थाभिनिवेश: १ लोकानुभवज
नितत्वे सति लोकस्यैव पुनः पुनः ( रञ्जनाद्यर्थम् ) स्मरणहेतु-</p>
<pb n="122" />
<p>रित्यादर्श २ संपादयितुमशक्यत्वात्पुरुषार्थानुपयोगित्वात्क्लेश-
बहुत्वादिति निरन्तरञ्चिन्तनं लोकवासनानिवृत्त्युपाय: <error>२५५२</error><fix>॥२५५२॥</fix>
<bold>लोकसङ्ग्रहः-</bold> लोकनिष्ठसदाचारविषयकप्रवृत्तिजनको व्यापारः ।
<bold>लोभः-</bold> परद्रव्याभिलाषः १ परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते,
अभिलाषो द्विजश्रेष्ठ स लोभः परिकीर्तितः २ अस्तेयेनापरि-
ग्रहेण संतोषेण दानेन चास्य निवृत्तिः <error>॥ २५५५ ।</error><fix>॥२५५५॥</fix>
<bold>लोभी-</bold> स्वद्रव्यापरित्यागित्वे सति परद्रव्यजिघृक्षुः ॥२५५६॥
<bold>लोलुपः-</bold> अत्यासक्तः १ अतिलोभयुक्तः *२निरर्थकमानसचेष्टावान्
<bold>लौकिक:-</bold>लोकप्रसिद्धः १ अप्राप्तशास्त्रजन्यधीप्रकर्ष इति ग्रं०
<bold>लौकिकगुणाधानवासना-</bold> समीचीनशब्दादिविषयसंपादनं
<bold>लौकिकदोषापनयनदेहवासना-</bold> चिकित्सकोक्तेरौषधै (र्मु-
खादिप्रक्षालनम् १) र्व्याध्याद्यपनयनम् ॥ २५६३ ॥
<bold>*व*</bold>
<bold>वक्तृतात्पर्य -</bold> पुरुषाभिप्रायः १ तदर्थप्रतीतीच्छयोच्चरितत्वम् ।
<bold>वक्रोक्तिः -</bold> वक्रमार्गेणोक्तिः १ एकेनान्याभिप्रायेणोक्तं वाक्यम्
<bold>वश्चकः-</bold> वञ्चनकर्ता १ अन्यथा स्थितस्य वस्तुनोऽन्यथा रूपेण
कथादिनाऽन्यमोहोत्पादक इति ग्रं० ॥ २५६९ ॥
<bold>वश्चनं-</bold> स्वार्थसिद्धि (फलकं कपटाचरणम् १ ) व्याजेन वशीकरणं
<bold>वर्णः-</bold> शब्दस्य स्फुटावस्था * १ ब्राह्मणादिजातिभेदकः <error>२५७२</error><fix>॥२५७२॥</fix>
<bold>वर्तमानकालः-</bold> सूर्यपरिस्पन्दादिक्रियावच्छिन्नः कालः १ वर्तमा
नोपाधिसंबन्धी स्वध्वंसप्रागभावानधिकरणवृत्तित्वमिति नै०३</p>
<pb n="123" />
<p>प्रयोगावच्छिन्नकालः ४ प्रारब्धापरिसमाप्तकियाश्रय इति वै०
<bold>वर्तमानप्रतिबन्धः-</bold> वर्तमानकालीनत्वे सति तत्त्वज्ञानप्रतिरोधः
<bold>वशीकारवैराग्यं -</bold> ऐहिकामुष्मिकविषयजिहासा ॥ २५७८ ॥
<bold>वस्तुनिर्देशमङ्गलं -</bold> स्वेष्टतमदेवतागुणगणोक्तिः ॥ २५७९ ॥
<bold>वस्तुपरिच्छेदः -</bold> अन्योन्याभावप्रतियोगित्वम् १ यत्किञ्चिद्वस्त्व-
<bold>वागिन्द्रियं -</bold> वचनकियासाधनमिन्द्रियम् ।             [नात्मत्वं
<bold>वाक्यं-</bold> समभिव्याहार इरि मी० १ स्वार्थबोधसमाप्त इति वै०२
पदसमूहः। घटादिसमूहवारणाय पदेति ३ आकाङ्क्षायोग्यतास-
न्निधिमत्पदसमुदायः । विलम्बोच्चारितपदसमुदायैतिव्याप्तिवा-
रणाय सन्निधीति, अग्निना सिञ्चेदिति वाक्येऽतिव्याप्तिव्या-
त्यर्थ योग्यतेति, गौरश्वः पुरुषो हस्तीत्यत्रातिव्याप्तिवारणा-
याकाङ्क्षेति ४ शाब्दप्रतीतिजन्यशाब्दप्रतीतिजनकं पदात्मकं
<bold>वाक्यशेषः-</bold> कथावसानम् १ अपेक्षितगुणसमर्पकः २ प्रकृतार्थ-
विधायक इति ग्रं० ३ विध्यर्थसंदेहाधीनाकाङ्क्षाप्रयुक्तप्रयोगविषयः
<bold>वाक्यार्थः -</bold> पदोपस्थापितपदार्थानां परस्परसंबन्धः १ साका-
ङ्क्षपदार्थो निराकाङ्क्षः, यथा गौरित्युक्ते किमित्याकाङ्क्षा भवति,
ततो गच्छत त्युक्ते निराकाङ्क्ष भवति २ वाक्यतात्पर्यविषयः ।
<bold>वाक्यैकवाक्यता-</bold> अङ्गबोधकवाक्यस्याङ्गिबोधकवाक्येन सहै-
कवाक्यता १ प्रत्येकं भिन्नभिन्नसंसर्गप्रतिपादकयोर्वाक्ययोरा-
काङ्क्षावशेन महावाक्यार्थबोधकत्वम् ।                          [ स्मृतिजनकः
<bold>वाचकः-</bold> पुराणादिपाठकः *१शक्यार्थबोधकः शब्दः २पदार्थ-</p>
<pb n="124" />
<p><bold>वाच्यत्वं-</bold> वचनार्हत्वम् *१ पदजन्यप्रतीतिविषयत्वम्॥२६०५॥
<bold>वाञ्छा-</bold> इष्टसाधनताधीजन्याभीष्टविषयचित्तवृत्तिः ॥ २६०६ ॥
<bold>वादः-</bold> तत्त्व ( बुभुत्सुना सह कथा १ ) निर्णयफलः कथाविशेषः २
यथार्थबोधेच्छुवाक्यमिति ग्रं० ३ स्वाभिमतार्थकथनम् <error>२६१०</error><fix>॥२६१०॥</fix>
<bold>वादी-</bold> प्रथमपक्षप्रतिपादकः १ विचारस्थले वादकथाकर्तेति
ग्रं० २ प्रकृतसाध्यसिद्ध्यर्थन्यायप्रयोगकर्ता ॥ २६१३ ॥
<bold>वानप्रस्थः-</bold> गृहस्थाश्रममपहाय गृहीतमुनिवृत्तिरसंन्यस्तः<error>२६१४</error><fix>॥२६१४॥</fix>
<bold>वायु:-</bold> शब्दस्पर्शगुणकः १ रूपरहितत्वे सति स्पर्शवत्त्वं वायुत्वम्
<bold>वारणं-</bold> क्रियाप्रतिषेधः १ प्रवृत्तिविमुखीकरणं वा ॥ २६१८ ॥
<bold>वार्त्ता-</bold> अन्योन्यकथनम् १ कथोपकथनमिति ग्रं० ॥ २६२० ॥
<bold>वार्तिकं-</bold> उक्तानुक्तदुरुक्ता (र्थव्यक्तकारित्वं वार्तिकत्वम् १ ) नां
चिन्ता यत्र प्रर्वतते, तं प्रन्थं वार्त्तिकं प्राहुर्वार्तिकज्ञा मनीषिणः
<bold>वासना-</bold> अनुभवजन्या स्मृतेर्हेतुः १ पूर्वापरपरामर्श विना सह-
सोत्पद्यमानस्य क्रोधादिवृत्तिविशेषस्य हेतुश्चित्तगतः संस्कार-
विशेषः, यथा स्वस्वदेशाचारकुलधर्मभाषास्वभावभेदतद्गता-
पशब्दसुशब्दादिषु प्राणिनामभिनिवेशः २ सुषुप्त्यवस्थागता
घीसूक्ष्मावस्था ।                                  [ सत्यपि क्रोधाद्यनुत्पत्तिः
<bold>वासनाक्षयः-</bold> विवेकजन्यचित्तप्रशमवासनादान बाह्यनिमित्ते
<bold>वासनानन्दः -</bold> ब्रह्मध्यानादे[१^]र्व्युत्थितस्य या आनन्दस्य वासना ।
[^१ आदिपदेन विषयध्यानस्य सुषुप्तेश्च परिग्रहः ।]</p>
<pb n="125" />
<p><bold>विकल्पः -</bold> विविधकल्पनम् १पक्षान्तरबोधकः शब्दः *२ शब्दशा-
नानुपाती वस्तुशून्यः ३ स्वविरोध्युत्तरज्ञानाबाध्यत्वे सति वस्तु०
<bold>विकारत्वं-</bold> जन्यत्वे सत्यजनकत्वम् * १ प्रकृतेरन्यथाभावः <error>२६३३</error><fix>॥२६३३॥</fix>
<bold>विकृतिः-</bold> विकलाङ्गसंयुक्तो विधिः १ आतिदेशिकेतिकर्तव्यता-
कत्वं विकृतित्वम् २ जन्यत्वे सति जनकत्वम् ३तत्त्वानारम्भकत्वं
<bold>विक्षेपः-</bold> पुनःपुनर्विषयानुसन्धानम् *१ असम्भवत्कालान्त-
रककार्यव्यासङ्गमुद्भाव्य कथाविच्छेदः ॥ २६३९ ॥
<bold>विक्षेपशक्तिः-</bold> आकाशादिविविधकार्यजननानुकूलमज्ञानसामर्थ्य
<bold>विग्रहः-</bold> विरोधमात्रम् *१ वृत्त्यर्थावबोधकवाक्यम् २ समासादि-
वृत्तिसमानार्थकवाक्यम् ।                                                [भूतधर्मविघटकः
<bold>विघ्नः-</bold> समीहितक्रियास्वरूपप्रतिबन्धः १ कार्योत्पादप्रयोजकी-
<bold>विचार:-</bold> प्रमाणेन तत्त्वपरीक्षा *१ तात्पर्यनिर्णयानुकूलयुक्त्य-
नुसन्धानम् ।                                                           [वणमननात्मिका वृत्तिः</p>
<lg>
  <l><bold>विचारणाभूमिका-</bold> गुरुमुपसृत्य वेदान्तवाक्यविचारात्मकश्र-</l>
  <l><bold>विचित्रं-</bold> विशेषेण चित्रम् *१ स्वविपरीतफलनिष्पत्तये प्रयत्नः ।</l>
  <l><bold>विच्छेदः -</bold> एकजातीयद्रव्यगुणादीनामन्यजातीयेन व्यवधानम्</l>
  <l><bold>विजयः-</bold> पराहङ्कारखण्डनम् ॥ २६५१ ॥</l>
</lg>
<p><bold>विजातीयभेदः -</bold> विरुद्धजातिकृतो भेदः, यथा वृक्षस्य शिलादितः
<bold>विज्ञानमयकोशः -</bold> ज्ञानेन्द्रियैः सहिता बुद्धिः ॥ २६५३ ॥
<bold>वितण्डा -</bold> स्वपक्षस्थापनहीना विजिगीषुकथा १ स्वपक्षानिर्दे-
शपूर्वकं परपक्षखण्डनमात्रोद्देशेन कथोपकथनम् ॥ २६५५ ॥</p>
<pb n="126" />
<p><bold>वितर्क:-</bold> सन्देहाद्यनन्तरं जायमान ऊहः ॥ २६५६ ॥
<bold>विदेहमुक्ति:-</bold> भाविशरीरानारम्भः १ तत्त्वज्ञानिनो भोगेन
प्रारब्धकर्मक्षये वर्तमानशरीरपातः ॥ २६५८ ॥
<bold>विद्या-</bold> पुरुषार्थसाधनम् १ वेदार्थपरिज्ञानम् *२ विद्याहेतुशास्त्रम्
<bold>विद्यामदः -</bold> मत्सदृशः को वेत्त्यहं पण्डितो न मत्तोऽन्यः
पण्डितोऽस्तीति मनसोऽभिनिवेश: १ अहं कः ? मत्तोप्यधिकाः
पण्डिता बहवः सन्ति तस्मान्मामपि कश्चित्पण्डितः पराभवि-
ष्यतीति निरन्तरश्चिन्तनं विद्यामदनिवृत्त्युपायः ॥ २६६२ ॥
<bold>विद्वत्संन्यासः-</bold> गृहस्थाश्रमादौ कृतश्रवणादिभिरुत्पन्नसा-
क्षात्कारेण गृहस्थादिना चित्तविश्रान्तिलक्षणां जीवन्मुक्ति-
मुद्दिश्य क्रियमाणः संन्यासः ॥ २६६३ ॥
<bold>विधानं-</bold> अप्र (प्तस्य प्राप्तये कथनम् १ ) वृत्तप्रवर्तनम्<error> २६६५</error><fix>॥२६६५॥</fix>
<bold>विधिः-</bold> शास्त्रोक्तव्यवस्था १ प्रवर्तकज्ञानविषयो धर्मः *२ विधा-
यकवाक्यम् ३ पुरुषप्रवर्तकवाक्यं वा ४ अज्ञातार्थज्ञापको वेद-
भागः ५ अप्राप्तप्रापको विधिरिति वैदिकाः ६ शब्दभावना
विधिरिति भाट्टाः ७ नियोगो विधिरिति प्राभाकराः ८ इष्टसाध-
नताबोधकप्रत्ययसमभिव्याहृतवाक्यमिति तार्किकादयः<error>२६७४</error><fix>॥५६७४॥</fix>
<bold>विनिगमनाविरहः-</bold> एकतरपक्षपातियुक्तिविरहः ॥ २६७५ ॥
<bold>विनियोगः-</bold> अनुष्ठानक्रमविधानम् १ प्रकृतक्रियाप्रवृत्तिः <error>२६७७</error><fix>॥२६७७॥</fix>
<bold>विनियोगविधिः-</bold> अङ्गप्रधानसंबन्धबोधको विधिः ॥२६७८॥</p>
<pb n="127" />
<p><bold>विपरीतभावना-</bold> अतस्मिँस्तद्बुद्धिः, यथा देहे आत्मत्वबुद्धिः ।
<bold>विपर्यय:-</bold> बाध्यमानं ज्ञानम् १ अतस्मिँस्तत्प्र (त्ययः २) कारकनिर्णयः
<bold>विप्रतिपत्तिः-</bold> संशयजनकवाक्यम् १ विरुद्ध (कोटिद्वयोपस्थापक:
शब्द: २ ) र्थ ( प्रतिपादकानेकवचनम् ३) कवाक्यद्वयजन्यप्रतीतिद्वयं
<bold>विप्रलिप्सा-</bold> वञ्चनेच्छा १अन्यथा प्रतीतस्यार्थस्यान्यथा बोधयि-
<bold>विभक्तिः-</bold> विभाग: १ सुप्तिङित्येतदन्यतरा ।          [तुमिच्छा
<bold>विभागः-</bold> प्राप्तिपूर्विकाऽप्राप्तिः *१ परस्परासङ्कीर्णव्याप्यधर्मक-
थनम् २ संयोगसमानाश्रयत्वे सति संयोगनाशकत्वं विभागत्वम् ।
<bold>विभुत्वं-</bold> सर्वमूर्तद्रव्यसंयोगित्वम्१परममहत्त्वम् * २सर्वदेशवृत्तित्वं
<bold>विरक्तः -</bold> अननुरक्तः १ विषयवासनाशून्यो वा २ स्वस्वरूप (ज्ञान-
पूर्वकलौकिकवेदिककर्माकारकः ३ ) अतिरिक्तरतिरहितः <error>२६९९</error><fix>॥२६९९॥</fix>
<bold>विरागः-</bold> इहामुत्र (फलभोगोपेक्षाबुद्धिः१) र्थभोगेष्वरुचिः <fix>२७०१</fix><fix>॥२७०१॥</fix>
<bold>विराट्र-</bold> पञ्चीकृतपञ्चमहाभूतकार्यसमष्टिस्थूलशरीरः १ समष्टि-
स्थूल ( प्रपञ्चाभिमानी २) सूक्ष्मकारणशरीरोपहितं चैतन्यम् ।
<bold>विरुद्धत्वं- )</bold> विरोधयुक्तत्वम् १ एका (धिकरणावृत्तित्वम् २) व-
<bold>विरोधित्वं-)</bold> च्छेदेनैकत्रावर्तमानत्वम् ३सहा (संभव: ४) नवस्था
(ननियमः ५) यित्वम् *६ साध्यव्यापकीभूताभावप्रतियोगित्वम्
<bold>विरोधः-</bold> इष्टार्थभङ्गः १ विपरीतार्थकत्वम् ॥ २७१० ॥
<bold>विलासत्वं-</bold> रागरहितत्वे सति कार्योन्मुखीभावत्वम् ॥२७११ ॥
<bold>विवरणं-</bold> व्याख्यानप्रन्थव्याख्यानम् *१पूर्वोच्चरितवाक्यस्योत्त-</p>
<pb n="128" />
<p>रवाक्येनार्थकथनम् २ तत्समानार्थकपदान्तरेण तदर्थकथनम्
<bold>विवर्तः-</bold> पूर्वावस्थानपायेऽवस्थान्तरापत्तिः १ पूर्वरूपापरित्यागे-
न ( रूपान्तरप्रदर्शक: २) [ सत्यनानाकारप्रतिभास इति ग्रं० ३उपा-
दानविषमसत्ताकत्वे सत्यन्यथाभावः। परिणामवारणाय सत्यन्तं
<bold>विवर्तवादः -</bold> अधिष्ठानस्वरूपमपरित्यज्य दोषवशाद्रूपान्तरेण
( प्रतीतस्य) कथनम् ॥ २७२३ ॥
<bold>विवादः -</bold> विरुद्धो वादः १ पक्षप्रतिपक्षपरिग्रहेण वदन [ संयोग
<bold>विवाहः -</bold> विशिष्टं वहनम् १ भार्यात्वसंपादककर्म २सहधर्मचारिणी-
<bold>विविदिषा-</bold> वेदनेच्छा १ सद्यःस्वतत्त्वसाक्षात्कारकरणैकपराय-
णत्वं जनयत्स्वचित्तवृत्तिः । मुमुक्षोरष्टाङ्गयोगैकतत्परत्वं जनय-
न्त्यां वृत्तौ व्यभिचारवारणाय सद्य इति पदम्, साक्षात्कार-
तदिच्छयोः क्रमाद्बोधयितुं स्वपदद्वयम् अद्वैतब्रह्मेतरवस्तुत्र-
त्यक्षहेतुतादृग्वृत्तावतिव्याप्त्यभावार्थं तत्त्वेति, साक्षात्कारस्थले
ज्ञानेत्युक्तौ परोक्षज्ञानकारणनिरुक्तवृत्तावतिप्रसङ्गस्तद्द्वारणाय
साक्षात्कारेति, तथा करणस्थले हेतुपदनिवेशे कमणां शा-
न्त्यादीनामपि बहिरङ्गान्तरङ्गहेतुत्वेन तादृक्स्थले व्यभिचार-
परिहारार्थं करणेति, एकपदं लौकिकव्यापारान्तरव्युदासाय,</p>
<lg>
  <l>परायणपदं वैदिककर्मरत्यभावार्थम्, जनयदिति प्रतिबन्ध-</l>
  <l>राहित्यार्थम् चित्तेति पराभिमतात्मधर्मेच्छाव्यावृत्त्यर्थम् ।</l>
  <l><bold>विविदिषासंन्यासः -</bold> विवेकादिसाधनसम्पन्नेन तत्त्वज्ञानमु-</l>
  <l>द्दिश्य क्रियमाणः संन्यासः ॥ २७२४ ॥</l>
</lg>
<pb n="129" />
<p><bold>विवेकः-</bold> नित्यानित्यवस्तुविचारः १संदेहानन्तरं जायमान ऊहः
<bold>विशिष्ट:-</bold> विशेषण (युक्तः १) विशेष्यसंबन्धावगाहिज्ञान संबन्धी
<bold>विशिष्टाद्वैतं-</bold> द्वैतविशिष्टमद्वतम् १ सूक्ष्मचिदचिदात्मकशरीर-
विशिष्टस्य कारणस्य परमात्मनः, स्थूलचिदचिदात्मकशरीरवि-
शिष्टस्य कार्यस्य परमात्मनश्चैक्यम् २ विशिष्टं युक्तं मिलितमद्वैतं.
<bold>विशेषत्वं-</bold> अल्प (तर विषयत्वम् १ व्यापकत्वम् *२स्वतो व्या (व
र्तक) वृत्तत्वम् ३ निःसामान्यत्वे सत्येकमात्रसमवेतत्वम् ४ अन्त्य -
व्यावर्तकत्वे परमसोमावर्त्तित्वे वा सति नित्यद्रव्यमात्रवृत्तित्वम् ।
<bold>विशेषणं-</bold> विशिष्यतेऽनेन १ विशेष्यधर्मः २ प्रत्याय्यव्यावृत्त्यधि-
करणतावच्छेदकत्वं विशेषणत्वम् ३ स्वकालनियतव्यावृत्तिबोध-
जनकत्वमित्यद्वैतरत्नरक्षणे ४ कार्यान्वयित्व सति कार्यकाले नि-
यमेन वर्तमानत्वे सति व्यावर्तकत्वम्, यथा नीलरूपादिकं घट-
स्य ५ प्रतीयमानवैशिष्टयप्रतियोगित्वम् ६ सजातीयमात्राठ्याव-
र्तकं केवलविशेषणम् ७स्वेतरकृत्स्नव्यावर्तकं लक्षणरूपविशेषणम्
<bold>विशेषणविशेष्यभावसंबन्धः-</bold> मिथो विशेषणविशेष्ययोरनु-
लोमप्रतिलोमतया विशेषणविशेष्यत्वे १ यत्किञ्चिन्निष्ठविशेषणता-
निरूपितविशेष्यता, यत्किं०ष्यतानि०षणता वा ।               [चित्तवृत्तिः
<bold>विशेषाहङ्कारः-</bold> ब्राह्मणोऽहं क्षत्रियोहमित्याद्यभिमानात्मिका
<bold>विशेष्यं-</bold> व्यावर्त्यम् *विशेष्यताश्रयः २ भासमानवैशिष्टयानुयोगित्वं
<bold>विश्रामः-</bold> श्रमापनयनम् *१ प्रवृत्तव्यापारस्यावसानम् <error>२७५२
</error><fix>॥२७५२॥</fix></p>
<pb n="130" />
<p><bold>विश्वजीव:-</bold> जागरे व्यष्टिस्थूलशरीराभिमानिजीवः १ व्यष्टि -
स्थूलसूक्ष्मकारणशरीरत्रयोपहितं चैतन्यमिति ग्रं० ॥ २७५४ ॥
<bold>विश्वव्यसनं -</bold> गृहक्षेत्रादिसंपादनेच्छाहेतुर्व्यसनम् ॥ २७५५॥</p>
<lg>
  <l><bold>विश्वासः -</bold> वञ्चकत्वाभावसंभावना १ निर्दोषत्वेनाभिमानो वा ।</l>
  <l><bold>विषमम् -</bold> विरूप ( कार्योत्पत्तिः १ ) सङ्घटनम् ॥ २७५९ ॥</l>
</lg>
<p><bold>विषयत्वं-</bold> संविन्निरूपकत्वम् *१पदवाच्यत्वम् २ शरीरेन्द्रियभि-
न्नत्वे सति जन्यत्वे सति साक्षात्परम्परया वोपभोगसाधनत्वम् ।
शरीरादावतिव्याप्तिनिरासाय शरीरेन्द्रियभिन्नत्वे सती-
ति, कालादिवारणाय जन्यत्वे सतीति, परमाण्वादावति-
व्याप्तिवारणाय विशेष्यदलम् ३ विशब्दश्च विशेषार्थः सिनोति-
र्बन्धनार्थकः, विशेषेण सिनोतीति विषयोऽर्थनियामकः <error>२७६६</error><fix>॥२७६६॥</fix>
<bold>विषयचैतन्यं-</bold> 'प्रमेयचैतन्य' वदस्य लक्षणमनुसन्धेयम् <error>२७६७</error><fix>॥२७६७॥</fix>
<bold>विषयगतपरोक्षता-</bold> योग्यविषयस्यानावृतसंवित्तादात्म्याभावः
<bold>विषयगतप्रत्यक्षत्वं-</bold> ज्ञानाकारार्पणक्षमहेतुत्वम् । चक्षुरादि-
व्युदासायाकारसमर्पकत्वविशेषणमिति सौगताः १ तत्तदर्थस्य
स्वव्यवहारानुकूलचैतन्याभेदः २ योग्य (विषयस्य वर्तमानप्र-
मातृचै० ३) त्वे सति स्वाकारवृत्त्युपहितप्रमातृचैतन्याभिन्नत्वम्
<bold>विषयवाक्यं-</bold> विचार (र्हि वाक्यम् १)विधायकं वाक्यम् <error>२७७४</error><fix>॥२७७४॥</fix>
<bold>विषयवासना-</bold> शब्दादिविषयाणां भुज्यमानत्वदशाजन्यः सं-</p>
<pb n="131" />
<p>स्कारः ।                                                                             [ व्यङ्ग्य भानन्दः
<bold>विषयानन्दः-</bold> तत्तत्स्रक्चन्दनवनितादिविषयाकारैकाग्रबुद्ध्यभि-
<bold>विषयी-</bold> विषयासक्तः १ शास्त्रानुसारैहिकविषयभोक्तृत्वे सत्यामु-
ष्मिार्थकर्मकर्ता *२ विषयिताश्रयः * ३ विषय ( निष्ठावरण-
निवर्तकत्वं विषयित्वम् ४) वभासकचैतन्यम् ॥ २७७७ ॥
<bold>विष्णुः-</bold> रजस्तमोगुणोपसर्जनकसत्त्वावच्छिन्नचैतन्यम् <error>२७७८</error><fix>॥२७७८॥</fix>
<bold>विसंवादः-</bold> प्रमाणान्तरेण बाधः १ प्रमाणाननुसरणत्वे सत्य-
न्यथा स्थितस्यार्थस्यान्यथा कथनत्वम् ॥ २७८१ ॥
<bold>विसंवादिभ्रमः -</bold> विफलप्रवृत्तिजनको भ्रमः ॥ २७८२ ॥
<bold>विस्मयः -</bold> नष्टगर्व: १ अपूर्ववस्तुदर्शनादिजन्यो मानसोल्लासः ।
<bold>विहितं-</bold> विधेयम् १ धर्मापादकं कर्म २ इष्टसाधनत्वेन वेदबोधित
वीतानुमानं अन्वयमुखेन प्रवर्तनानं विधायकमनुमानम् ।
<bold>वृत्तिः -</bold> सूत्रमात्रव्याख्या * १ शाब्दबोधहेतुपदार्थोपस्थित्य-
नुकूल: पदपदार्थयोः स्मार्यस्मारकभावसम्बन्धः * २ विषय-
चैतन्याभिव्यञ्जकोऽन्तः[१^]करणाज्ञानयोः परिणामविशेषः । क्रो-
धादिवृत्तावतिव्याप्तिवारणाय विषयचैतन्याभिव्यञ्जक
इति, चक्षुरादौ विषयचैतन्याभिव्यञ्ज केऽतिव्याप्तिवारणार्थ-
मन्तःकरणाशानयोः परिणामविशेष इति ॥२७९१॥
[^१ व्यावहारिकघटपटाद्यर्थाकाराऽन्तःकरणस्य परिणामात्मिका वृत्तिः,
प्रातिभासिकशुक्तिरजताद्यर्थाकारा त्वज्ञानस्य परि०वृत्तिरिति विभागः ।]</p>
<pb n="132" />
<p><bold>वृत्तिविषयत्वं-</bold> शक्तिलक्षणान्यतरज्ञानाधीनज्ञानविषयत्वम् ।
<bold>वृत्तिव्याप्तिः-)</bold> विषयस्य स्वाकारवृत्त्या संबन्धः १ वृत्तिविष-
<bold>वृत्तिव्याप्यत्वं-)</bold> यत्वम् २ वृत्त्युपहितचेतनविषयत्वमिति ग्रं० ३
विशिष्टशब्दादिप्रमाणबलात्तत्तद्विषयाकारधीसमुन्मेषाभिव्यक्तत्वं
<bold>वृद्धिः -</bold> संवर्धनम् १ अवयवोपचयः ॥ २७९९ ॥
<bold>वेगत्वं-</bold> क्रियाजन्यत्वे सत्यन्यक्रियाजनकत्वम्। गुरुत्वादिवारणाय
सत्यन्तम् विभागादिवारणायान्यक्रियाजनकत्वमिति ।
<bold>वेदः-</bold> मीनशरीरावच्छिन्नभगवद्वाक्यम् १ ब्रह्ममुखनिर्गतधर्म-
ज्ञापकशास्त्रमिति पौराणिकाः २ सम्प्रदायानुसारेण स्वरादिवि-
शिष्टा या वर्णानुपूर्वीपरिपाटी सः ३ इष्टप्राप्त्यनिष्टपरिहार-
योरलौकिकमुपायं यो ग्रन्थो वेदयति सः । अलौकिकपदेन
प्रत्यक्षानुमाने व्यावर्त्येते इति सायणभाष्ये ४ धर्मब्रह्मप्रति-
पादकमपौरुषेयं प्रमाणवाक्यम् । भारतादावतिव्याप्तिवारणा-
यापौरुषेयमिति, आत्मादौ तद्दोषवारणाय वाक्यमितीति
प्रस्थानभेदे ५ मन्त्रब्राह्मणात्मकत्वं वेदत्वम् ६ शब्दतदुपजीवि-
प्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्य-
वाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वम् । व्यासादिचाक्षुषजन्ये
भारतादौ दृष्टार्थकायुर्वेदादौ चातिव्याप्तिवारणाय सत्यन्तम् ७
वि(हि) दिताखिलशास्त्रार्थसर्वधर्मनिरूपणात्, दर्शनानां
प्रमाणत्वाद्वेद इत्यभिधीयते ८ विद्यन्ते, ज्ञायन्ते, लभन्ते</p>
<pb n="133" />
<p>वा एभिर्धर्मादिपुरुषार्था इति वेदाः ॥ २८०७ ॥
<bold>वेदान्तः - जीवब्रह्माभेदबोधकवाक्यम् १वेदानामन्तोऽवसानभागः
<bold>वेदि:-</bold> यज्ञार्थपरिष्कृता भूमिः *१ गृहोपकरणविशेषः ॥२८११ ॥
<bold>वेश्या -</bold> वित्तमात्रोपाधिप्रकटितानुरागवती ॥ २८१२ ॥
<bold>वैखरीवाक्-</bold> मौखिकवाय्वभिव्यङ्ग्यः सर्वश्रुतिगोचरः स्थूलः शब्दः
<bold>वैखानसः-</bold> ग्रामबहिष्कृताकृष्टपच्यौषधिकरणकाग्निहोत्रादि कर्मकर्ता
<bold>वैधर्म्यम्-</bold> विरुद्धो धर्मः १ असाधारणो धर्मः *२ विभिन्नधर्म (व
<bold>वैधर्म्यदोषः-</bold> एकधर्म्यसमावेशः । [त्त्वम् ३) वेत्तृत्वं
<bold>वैयधिकरण्यं-</bold> भिन्नविभक्तयन्तानां पदानां विभिन्नार्थनिष्ठत्वम्</p>
<lg>
  <l><bold>वैयात्यं-</bold> अप्रतिसमाधेयश्रपरम्परायां मौनम् १ निर्लज्जत्वम् ।</l>
  <l><bold>वैरम्-</bold> शत्रु ( ता १ ) भावः २ परस्परविरोधः ॥ २८२४ ॥</l>
</lg>
<p><bold>वैराग्यं-</bold> विष (येषु जिहासा १) यवैतृष्ण्यम् २ दृष्टादृष्टविषयेषु
स्पृहाविरोधी चित्तपरिणामविशेष इति ग्रं० ॥ २८२७ ॥
<bold>वैराग्यकारणं-</bold> शरीरं व्रणवत्तद्यदन्नञ्च व्रणलेपनम्, व्रणशो-
धनवत्स्नानं वस्त्रञ्च व्रणपट्टवत् । इत्यादि भावनम् ॥२८२९॥
<bold>वैशेषिकशास्त्रं-</bold> कणादप्रणीतं शास्त्रम् १ विशेषं पदार्थभेदमधि
कृत्य कृतं शास्त्रम् ॥ २८३० ॥
<bold>वैश्यः -</bold> कृषिगोरक्षत्राणिज्यादिस्वाभाविककर्मसंपन्नः ॥ २८३१॥
<bold>वैश्वदेवः -</bold> विश्वदेवसंबन्धीयो होमः ।                  [मानो बलिः
<bold>वैश्वदेवबलिः-</bold> अग्निपितृगोश्वकाकादिभ्यो मन्त्रविशेषेण दीय-</p>
<pb n="134" />
<lg>
  <l><bold>वैश्वानरः-</bold> 'विराड्' वदस्य लक्षणमनुसन्धेयम् ॥ २८३४ ॥</l>
  <l><bold>वैष्णवः-</bold> विष्णुमन्त्रोपासकः १ वैखानसाद्यागमोक्तदीक्षायुक्तः ।</l>
  <l><bold>वंश:-</bold> अविछिन्नाधारः १ पितृपितामहादिरूपोत्पाद प्रबन्ध इति</l>
  <l>ग्रं० २ पुत्रपौत्रपरम्परानुगतशरीर सन्ततिप्रवाहः ॥ २८३८ ॥</l>
</lg>
<p><bold>व्यक्तिः-</bold> पदार्थ (भिव्यक्तिः १) मात्रम् २ जात्याश्रयद्रव्यम् <error>२८४०</error><fix>॥२८४०॥</fix>
<bold>व्यङ्ग्य:-</bold> व्यञ्जनया बोधितोऽर्थः ॥ २८४१ ॥
<bold>व्यञ्जकः-</bold> हृद्गतभावप्रकाशकोऽभिनयः *१ स्वविषयेऽस्ति
प्रकाशते इत्यादिव्यवहारप्रतिबन्धकमात्रापनेता ॥ २८४४ ॥
<bold>व्यञ्जना-</bold> प्रकटकारकक्रिया १ मुख्यार्थसंबद्धासंबद्धसाधारणमु-
ख्यार्थबाधप्रहाद्यप्रयोज्यप्रसिद्धा प्रसिद्धार्थविषयकधीजनकत्वम्
<bold>व्यतिरेकः-</bold> परस्परमर्थानागमः १ यदभावे यदभावः, यथा यत्र
यत्र सर्वप्राणिहिंसनशीलित्वे सति पशुत्वाकृतिविशिष्टा काचन
व्यक्तिर्न भवति तत्र तत्र सिंह प्रत्ययोपि न भवति २ विभिन्नत्वम्
<bold>व्यतिरेकवैराग्यं-</bold> चित्तगतदोषाणां मध्ये पक्केभ्योऽपक्कान्व्य-
तिरेकेणावधार्य तज्जिहासा ॥ २८५१ ॥
<bold>व्यतिरेकव्यभिचार :-</bold> कारणाभावे कार्यसत्त्वम् १ कार्या-
धिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वमिति ग्रं० ॥ २८५३ ॥
<bold>व्यतिरेकव्याप्तिः-</bold> हेत्वभावसाध्याभावयोर्व्याप्तिः १ साध्या-
भाव (पुरःसरत्वम् २) व्यापकीभूताभावप्रतियोगित्वम् <error>२८५६</error><fix>॥२८५६॥</fix>
<bold>व्यतिरेकसहचार:-</bold> कारणाभावे कार्याभावः ॥ २८५७ ॥</p>
<pb n="135" />
<p><bold>व्यतिरेक्यनुमानं -</bold> व्यतिरेकव्याप्तिविशिष्टहेतुकानुमानम् ।
<bold>व्यधिकरणत्वं-</bold> तदधिकरणावृत्तित्वम् १ 'वैयधिकरण्य' लक्षणमप्य ०
<bold>व्यपदेशः-</bold> कपटम् १ विरुद्धानुष्ठानम् * २ शब्दप्रयोगः ३ नामो-
ल्लेखनम् * ४ मुख्यव्यवहारः ५ एकस्मिन्नुभयारोपः, यथा
देवदत्तस्यैक एव पुत्रः स एव ज्येष्ठः स एव कनिष्ठः ॥२८६५॥
<bold>व्यपेक्षा-</bold> सामर्थ्यविशेषः १ अवयवार्थापेक्षणम् २ 'एकार्थिभाव' लक्षण०
<bold>व्यभिचारः -</bold> निन्दिताचारः * १ साध्याभाववदत्तित्वम् <error>२८७२</error><fix>॥२८७२॥</fix>
<bold>व्यभिचारिणी-</bold> भ्रष्टाचारिणी स्त्री १ जारसमूहगामिनी <error>२८७४</error><fix>॥२८७४॥</fix>
<bold>व्यर्थः -</bold> विफलः *अर्थशून्यः २स्वसमानाधिकरणावश्यल्कृप्तधर्मान्त-
<bold>व्यवधानं-</bold> द्रव्यान्तरेण द्रव्यान्तरस्याच्छादनम्।   [रघटितः
<bold>व्यवसाय:-</bold> प्राथमिकज्ञानम् १ विषयविषयकज्ञानं ता २ ज्ञान-
विष (यकलौकिकमानसप्रत्यक्षविषयः ३) यीभूतं ज्ञानम् <error>२८८२</error><fix>॥२८८२॥</fix>
<bold>व्यवसायबुद्धिः-</bold> निश्चयात्मिका बुद्धिः १ यद्भवेत्तद्भवतु मया
तु यन्निश्चितं तन्निश्चितमेवेति दृढविचार इति ग्रं० ॥२८८४ ॥
<bold>व्यवस्था-</bold> विषयान्तरपरिहारेण विषयविशेषस्थापनम् <error>२८८५</error><fix>॥२८८५॥</fix>
<bold>व्यवहारः-</bold> कार्यानुकूलशब्दप्रयोगः *भाषोत्तरक्रियानिर्णायक: २
वादिप्रतिवादिकर्तृकः संभवद्भोगस (क्षि) त्त्वप्रमाणको विरोध-
कोटिव्यवस्थापनानुकूलो व्यापार इति मदनरत्ने ३वि नानार्थे-
ऽव सन्देहे हरणं हार उच्यते, नानासन्देहहरणाद्व्यवहार इति
स्मृतः ४व्यवहिते (ज्ञायतेनेन५) हानोपादानादिकं क्रियतेनेनेति</p>
<pb n="136" />
<p><bold>व्यष्टिः</bold> पृथक्पृथगवभासमानः पदार्थः १ प्रत्येकवृक्षवदनेकबुद्धि
<bold>व्यसनं-</bold> इष्टानिष्टवस्तुषु चित्तसं (योजनम् ) लग्नम् ।      [विषयः
<bold>व्याकरणं-</bold> व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा यस्मिंस्तत् १ प्रत्यय-
विधानसामर्थ्यादर्थनिश्चयः २ अर्थविशेषमाश्रित्य स्वरप्रकृति-
प्रत्ययादिविशेषादीन्विदधत्पदखण्डार्थविशेषज्ञापको ग्रन्थः ३
वेदाङ्गत्वे सति शब्दसाधुताबोधकत्वं व्याकरणत्वम् ॥२८९७॥
<bold>व्याकरणप्रयोजनं-</bold> वैदिकपदसाधुत्वज्ञानेनोहादिकम् १ म्लेच्छा
मा भूमेत्यधेयं व्याकरणमिति महाभाष्ये ॥ २८९९ ॥
<bold>व्याख्यानं-</bold> वक्तृता १ फलमाहात्म्योपासनप्रकारादिकथनमिति
ग्रं० २ पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना, आक्षे-
पस्य समाधानं व्याख्यानं पञ्चलक्षणम् ॥ २९०२ ॥
<bold>व्याघातः-</bold> विरुद्धसमुच्चयः १ परस्परविरुद्धधर्मयोरेकाधिकरणे</p>
<lg>
  <l>समुच्चयः *२ असंबद्धार्थकवावयम् ३ यावज्जीवमहं मौनी ब्रह्म-</l>
  <l>चारी च मे पिता, माता तु मम वन्ध्याऽऽसीदपुत्रश्च पितामहः ।</l>
  <l><bold>व्याजः-</bold> विभवाभाव: * १ अन्यफलसाधनतया स्वेष्टस्यान्यफ-</l>
  <l>लसाधनत्वेन ज्ञापितस्याचरणम् ॥ २९०८॥</l>
</lg>
<p><bold>व्यापकत्वं -</bold> सर्वसंबद्धत्वम् * १ अधिकदेशवृत्तित्वम् २ स्वाधि-
करणवृत्त्यन्ताभावाप्रतियोगित्वम् * ३ देशाद्यन्तरहितत्वम् ।
<bold>व्यापारत्वं-</bold> तज्ज[१^]न्यत्वे सति त (त्सहायत्वम् १ ) ज्जन्यजनकत्वम्,
[^१ कारकेण जन्यत्वे सति तत्कारकजन्यक्रियां प्रतिजनकः ।]</p>
<pb n="137" />
<p>यथा कुठारदारुसंयोगः । ईश्वरेच्छादिवारणाय सत्यन्तम्,
दण्डरूपादिवारणाय तज्जन्यजनकत्वमिति ॥ २९१४ ॥
<bold>व्याप्ति:-</bold> व्यापनम् १ साध्य (भाववदवृत्तित्वम् २ ) साधनयोर-
व्यभिचरितसंबन्धः ३ साधनसमानाधिकरणात्यन्ताभावाप्र-
तियोगिसाध्यसामानाधिकरण्यमिति ग्रं० ४ स्वाभाविकसंबन्धः
<bold>व्याप्यत्वं -</bold> अव्याप्याभाववदवृत्तित्वम् १ साध्यवदन्यावृत्तित्वे
सति व्याप्त्याश्रयत्वम् *२ न्यूनदेशवृत्तित्वम् ॥ २९२२ ॥
<bold>व्याप्यवृत्तित्वम्-</bold> स्वसमानाधिकरणात्यन्ताभाव ( प्रतियोगि-
त्वम् १ ) प्रतियोगितानवच्छेदकधर्मवत्त्वम् ॥ २९२४ ॥</p>
<lg>
  <l><bold>व्यायामः-</bold> स्वास्थ्योन्नतिसंपादनार्थं विधिपूर्वकमङ्गसञ्चालनम् ।</l>
  <l><bold>व्यवर्तकत्वं-</bold> लक्ष्यवृत्तित्वे सतीतरभेदव्याप्यत्वम् ॥२९२६॥</l>
</lg>
<p><bold>व्यावहारिकत्वं-</bold> आगन्तुकदोषासहकृताविद्याकार्यत्वम्
ज्ञानपूर्वाबाधितत्वे सत्यात्मज्ञानोत्तरसत्तास्फूर्तिशून्यत्वम् <error>२९२८</error><fix>॥२९२८॥</fix>
<bold>व्यावृत्तिः-</bold> तद्धर्मावच्छिन्नेतरभेदः ॥ २९३० ॥
<bold>व्यासङ्गः-</bold> कार्यान्तर (नासक्तिः १) परित्यागेनैकपरत्वम् <error>२९३२
</error><fix>॥२९३२॥</fix>
<bold>व्यासज्यवृत्तित्वं-</bold> एक (मात्रवृत्तिधर्मान०) त्वानवच्छिन्नपर्याप्तिमत्त्वं
<bold>व्युत्पत्तिः-</bold> शक्तिग्रहजन्यसंस्कारः १ शब्दानामर्थावबोधकशक्ति-
रिति ग्रं० २ समुदायशब्दस्यावयवशोऽर्थबोधकशक्तिः <error>२९३६</error><fix>॥२९३६॥</fix>
<bold>व्रतं-</bold> नियमाभिधानम् १क्रियाविषयकोनियमः २दीर्घकालानुपालनी-
यसङ्कल्पः३सम्यक्सङ्कल्पजनितानुष्ठेयक्रियाविशेषरूपमिति हेमाद्रौ</p>
<pb n="138" />
<p><bold>*श*</bold>
<bold>शक्तं-</bold> कार्योत्पादनयोग्यम् १ शक्त्याश्रयः २' वाचक' लक्षणमप्यत्र ०
<bold>शक्ति:-</bold> कार्यजननानुकूलं कारणनिष्ठं सामर्थ्यम् ॥ २९४२ ॥
<bold>शक्तिवृत्तिः-</bold> पदपदार्थयोर्वाच्यवाचकभावसंबन्ध इति वै० १
पदानामन्वयानुभवजनन ( योग्यत्वम् २ ) सामर्थ्यमिति वे० ३
अस्मात्पदादयमर्थो बोद्धव्य इ(त्यनादिसङ्केतः४)तीश्वरेच्छेति नै
<bold>शक्तिग्राहकः-</bold> शक्तिगृहीता १ शक्तिपरिच्छेदक इति ग्रं० <error>२९४९</error><fix>॥२९४९॥</fix>
<bold>शक्यः -</bold> क्रियासंभवः १ पदनिष्ठशक्तिविषयत्वं शक्यत्वम् <error>२९५१</error><fix>॥२९५१॥</fix>
<bold>शठ: -</bold> जडबुद्धिः * १ कामिनीविषयकपटपटुः ॥ २९५३ ॥
<bold>शपथः-</bold> स्वोत्कसत्यत्वप्रत्यायनोद्देश्यकोऽसत्यत्वप्रसङ्गेऽनिष्टाभ्यु:
पगमः १ स्वाभिप्रायबोधानुकूलशपनकरणमिति ग्रं० ॥२९५४॥
<bold>शब्दगुण:-</bold> आकाशविशेषगुणः १ श्रोत्रग्राह्यो गुणः <error>२९५६</error><fix>॥२९५६॥</fix>
<bold>शब्दतात्पर्य -</bold> तदितरप्रतीतिमात्रेच्छयानुच्चरितत्वे सति तद-
र्थप्रतीतिजननयोग्यत्वम्, यथा भोजनप्रकरणे सैन्धवमानये-
तिवाक्यस्थं सैन्धवपदं लवणेतराश्वादिप्रत्यायनेच्छयानुच्चरित -
त्वे सति लवणरूपार्थविषयकप्रतीतिजननयोग्यमिति ॥२९५७ ॥
<bold>शब्दपुनरुक्तिः-</bold> समानार्थकपूर्वानुपूर्वीकशब्दप्रयोगः, यथा घटो घटः
<bold>शब्दप्रमाणं-</bold> शाब्दप्रमाकरणम् १ वर्णतादात्म्येनार्थबोध जन-
कम् २ असन्निकृष्टार्थप्रतिपादकं वचनम् । अनुवादविसंवादव्यं-
वच्छेदायासन्निकृष्टपदम्; अपेक्षितादिपदनिराकरणायार्थग्र -</p>
<pb n="139" />
<p>हणम्, अनुमानत्वनिराकरणाय वचनमिति मी० ३ समयबलेन
सम्यक्परोक्षानुभवसाधनम् । अनुमानादिव्यावृत्त्यर्थं समयग्र -
हणम्, प्रत्यक्षव्यावृत्त्यै परोक्षपदम्, संशयादिव्यावृत्त्यै सम्य-
गिति, स्मृतिव्यावृत्त्यर्थमनुभवेतीति भूषणे ४ आप्तोच्चरितत्वे
सति वाक्यत्वम् । अनाप्तोच्चरितवाक्येऽतिव्याप्तिवारणाय स-
त्यन्तम्, जबगडदशादावतिव्याप्तिवारणाय वाक्येति ५ स्व-
समानविषयवाक्यार्थयथार्थज्ञानजन्यत्वम् ॥ २९६४ ॥
<bold>शब्दलिङ्गं -</bold> अर्थप्रकाशनसामर्थ्यमिति मीमांसकाः ॥२९६५॥
<bold>शब्दाध्याहारः-</bold> आकाङ्क्षितार्थबोधकपदानुसन्धानम् <error>२९६६</error><fix>॥२९६६॥</fix>
<bold>शम:-</bold> मनःसंयमः १ नित्यनैमित्तिककर्मातिरिक्तानां व्यापा-
राणामन्तरिन्द्रियनिग्रह इति तत्त्वालोके २ ब्रह्मज्ञानोपयो-
गिव्यापारातिरिक्तचित्तव्यापारमात्रनिरोधः ॥ २९६९ ॥
<bold>शरीरम् -</bold> शीर्यते प्रतिक्षणं नश्यतीति १ सुखदुःखान्यतरसाक्षा-
त्काररूपभोगायतनमिति वे० २ निरपेक्षत्वगिन्द्रियाधारः ।
अङ्गुल्याद्यवयवानां प्रत्येकं शरीरत्वनिरासाय निरपेक्षपदमिति
देहात्मवादिनः ३ आत्मनो भोगायतनम् ४ अन्त्यावयविमात्र-
वृत्तिचेष्टावदृत्तिजातिमत्त्वं शरीरत्वम् । हस्तत्वपृथिवीत्वद्रव्यत्व-
सत्त्वादिवारणाय प्रथमवृत्तयन्तम्, घटत्वादिवारणाय चेष्टाव-
वृत्तीति, घटशरीरसंयोगादिवारणाय जातिमत्त्वमिति <error>२९७४</error><fix>॥२९७४॥</fix>
<bold>शरीरी-</bold> देहावच्छिन्नात्मा १ भोगा (श्रयः २) वच्छेदकत्वं शरीरित्वं</p>
<pb n="140" />
<p><bold>शस्त्रं-</bold> अप्रगीतमन्त्रसा (ध्या स्तुतिः १ ध्यं कर्म २) ध्यम् <error>२९७८</error><fix>॥२९७८॥</fix>
<bold>शाब्दबोधः -</bold> शब्दाजातो बोधः *१ एकपदार्थेऽपरपदार्थ-
संसर्गविषयकं ज्ञानम् २ शक्तिलक्षणान्यतरसंबन्धेन पदजन्य-
पदार्थस्मृतित्वावच्छिन्नकारणतानिरूपितकार्यत्वम् ॥२९८१ ॥
<bold>शाब्दीप्रमा-</bold> वाक्यकरणिका प्रमा १ आप्तोक्तार्थविषयणी-
शब्दजन्या वृत्तिरिति ग्रं० २ शब्दविज्ञानादसन्निकृत्रेऽर्थे-
विज्ञानम् । प्रत्यक्षव्यवच्छेदार्थमसन्निकृष्टेति, आकाशं भक्ष-
येत्यादिव्यवच्छेदायार्थेतीति शाबरभाष्ये ॥ २९८४ ॥
<bold>शाब्दीभावना-</bold> पुरुषप्रवृत्त्यनुकूलभावकव्यापारविशेषः <error>२९८५</error><fix>॥२९८५॥</fix>
<bold>शारीरकशास्त्रं-</bold> शास्यते प्रतिपाद्यते तत्त्वं शिष्येभ्योऽनेनेति ।
<bold>शास्त्रम्-</bold> हितशासकम् १ एकप्रयोजनोपनिबद्धाशेषार्थप्रतिपाद
कम् *२ लोकानधिगतार्थ (ज्ञापक) वक्तृत्वम् ३ प्रवृत्तिश्च निवृत्तिश्च
पुंसां येनोपदिश्यते, तद्धर्माश्चोपदिश्यन्ते शास्त्रं शास्त्रविदो विदुः
<bold>शास्त्रवासना-</bold> शास्त्रतात्पर्याग्रहणेन केवलशास्त्राध्ययनेष्वास-
क्तिः १ शास्त्रानुभवजनितत्वे सति शास्त्रस्यैव पुनः पुनः (वा-
दिजयाद्यर्थम्) स्मरणहेतुरिति ग्रं० २ अनात्मशास्त्रेषु सकल-
ग्रन्थाभ्यासपाटववादिविजिगीषाद्यभिनिवेशहेतु: ३ सर्वप्रन्या-
नां जन्मसहस्रैरप्यध्येतुमशक्यत्वादसारबहुलत्वाद्दर्पहेतुत्वात्स-
र्वेषां वादिनां दुर्जयत्वादात्मपराभवस्यावश्यं भावित्वाद्वृथाश्रमो-
यमिति निरन्तरञ्चिन्तनं शास्त्रवासनानिवृत्त्युपायः ॥२९९३॥</p>
<pb n="141" />
<p><bold>शास्त्रवासनाफलं-</bold> श्रमासूयामानमत्सरमहत्तिरस्कारसच्छा-
स्त्रप्रद्वेषादिद्वारा महानर्थः ॥ २९९४ ॥
<bold>शास्त्रार्थवासना-</bold> शास्त्रतात्पर्याप्रहणपूर्वकशास्त्रार्थमात्रेष्वाक्तिः
<bold>शास्त्रीयत्वं-</bold> शास्त्र (संबन्धित्वम् १ ) स्थपदशक्यतावच्छेदकत्वम्
<bold>शास्त्रीयगुणाधानदेह०-</bold> गङ्गास्नानशालग्रामतीर्थादिसंपादनं
<bold>शास्त्रीयदोषापनयनदेहवासना-</bold> स्नानाचमनादिभिरशौ-
चाद्यपनयनम् ।                                                [तिरेकेण प्रपञ्चाभावनिश्चयः
<bold>शास्त्रीयबाधः -</bold> अथात आदेशोनेति नेतीत्यादिश्रुत्या ब्रह्मव्य-
<bold>शिक्षा-</bold> त्रुटिनिवारणम् १ प्रवृत्तिप्रयोजकेष्टसाधनताज्ञा (नानुकूलो</p>
<lg>
  <l>व्यापारः २)नम् *३ हस्वदीर्घादिवैदिकस्वरोच्चारण प्र (कारप्रद-</l>
  <l>र्शको ग्रन्थः ४) तिपादकं शास्त्रम् ५ शिक्ष्यते स्थानादि कमनया ।</l>
  <l><bold>शिक्षाप्रयोजनं-</bold> उदात्तानुदात्तस्वरितहस्वदीर्घप्लुतादिविशिष्ट-</l>
  <l>स्वरव्यञ्जनात्मकवर्णोचारणविशेषज्ञानम् ॥ ३००६ ॥</l>
</lg>
<p><bold>शिल्पशास्त्रं-</bold> कर्षणादिगोपुरप्राकारनिर्माणादिप्रतिपादकं शास्त्रं
<bold>शिष्टत्वं-</bold> अनुशासनयोग्यत्वम् १ वेदोक्ताबाधितप्रामाणिकार्थाभ्यु
पगन्तृत्वे सति वेदविहिताकरणप्रत्यवायफलककर्मकारित्वम् ।
चैत्यवन्दनप्रवृत्तबौद्ध व्यभिचारवारणाय वेदविहितेति ।</p>
<lg>
  <l><bold>शिष्टाचारः -</bold> शिष्टैर्धर्मबुद्ध्याऽनुष्ठीयमानोऽलौकिकव्यवहारः ।</l>
  <l><bold>शिष्यत्वम्-</bold> शिक्षणीयत्वम् * १ उपदेशविषयत्वम् ॥ ३०१२॥</l>
</lg>
<p><bold>युद्धचैतन्यं -</bold> निरवच्छिन्न चैतन्यम् १ जीवेश्वरविभागरहित चै०
<bold>शुद्धत्वं-</bold> निर्मलत्वम् १ सर्वधर्मातीतत्वमिति ग्रं० ॥२०१६॥</p>
<pb n="142" />
<p><bold>शुद्धशास्त्रवासना-</bold> अध्यात्मशास्त्राभ्यासजन्या विषयदोषद-
र्शनविवेकवैराग्यादिहेतुः ॥ ३०१७ ॥
<bold>शुद्धाद्वैतत्वं-</bold> द्वित्वसामान्याभाववत्त्वम् १ इतरसंबन्धानवच्छि-
न्नकार्यकारणादिरूपद्वित्वप्रकारकज्ञानप्रतियोगिकाभाववत्वम् ।
<bold>शुद्धिः -</bold> वैदिककर्मयोग्यतासंपादकसंस्कारः १ दोषराहित्यम् ।
<bold>शुभवासनात्वं-</bold> शुभानुभवजन्यत्वे अविनाश्यैश्वर्यप्रदत्वे वा सति
साधुसेवितत्वम् । निमेषोन्मेषादावतिव्याप्तिवारणायाविनाशीति
<bold>शुभेच्छाज्ञानमूमिका-</bold> नित्यानित्यवस्तुविवेकादिपुरःसरा फ-
लपर्यवसायिनी मोक्षेच्छा ॥ ३०२३ ॥
<bold>शृङ्गार:-</bold> प्राकृतिकसौन्दर्यव्यक्तकारी *१ रतिक्रीडाद्यर्थस्त्री पुं-
सयोरन्योन्यं प्रतीच्छा २ विभावानुभात्रव्यभिचारिभिरभिव्यकं
रतिरूपस्थायिभावावच्छिन्नं स्वप्रकाशानन्दात्मकं चैतन्यम् ।
<bold>शेषः-</bold> उपकारी *१ परोद्देश्यप्रवृत्तिकः २इतरनिवृत्तिपूर्वकावस्थानं
<bold>शैवः -</bold> शिवतत्त्वे व्यवस्थितः १ पाशुपताद्यागमोत्कदीक्षायुक्तः ।
<bold>शोकः -</bold> इष्टवियोग (जन्यं दुःखम्अनुचिन्तनम् २) गे सति तत्प्रा-
<bold>शोधनं-</bold> निर्दोषकरणम् १दोषनिवारणम् । [प्त्यशक्यप्रार्थना
<bold>शौचम्-</bold> मलनिरसनम् १ शरीरमनसोः शुद्धिर्वा २ करचरणादि-
प्रक्षालनम् ३ अहं ममेति विण्मूत्रलेपगन्धादिमोचनम्, शुद्ध-
शौचमिति प्रोक्तं मृज्जलाभ्यां तु लौकिकम् ॥ ३०३६ ॥
<bold>श्यामा -</bold>  शीतकाले भवेदुष्णा ग्रीष्मे च सुखशीतला,
-</p>
<pb n="143" />
<p>तप्तकाञ्चनवर्णाभा सा स्त्री श्यामेति कीर्तिता ॥ ३०३७॥
<bold>श्रद्धा-</bold> गुरूक्तवेदान्तवाक्यार्थावश्यम्भावित्वनिश्चयः १ शास्त्राचा-
र्योपदिष्टेऽर्थेऽननुभूतेप्येवमेवैतदिति विश्वास इति ग्रं० <error>३०३९</error><fix>॥३०३९॥</fix>
<bold>श्रमः-</bold> मार्गगमनादिजः खेदः १ स्वेदमर्दनाद्यनुभावजनको वा ।
<bold>श्रवणं-</bold> शब्दविषयकप्रत्यक्षम् *१ श्रोत्रियब्रह्मनिष्ठगुरुमुखच्छ्रु-
तिवाक्यार्थविज्ञानम् २ उपक्रमादिभिः षड्भिर्लिङ्गैर्वेदान्तानाम-
द्वितीचे ब्रह्मणि तात्पर्यावधारणमित्यादर्श ॥ ३०४४ ॥
<bold>श्राद्धं -</bold> प्रेतोद्देशेन द्रव्यत्याग: १ पित्राद्युद्देश्यको याग इति ग्रं०
<bold>श्रीगुरुः-</bold> मोक्षलक्ष्मीलक्षणलक्षितः १ देवं गुरुं गुरुस्थानं क्षेत्रं
क्षेत्राधिदेवताम्, सिद्धं सिद्धाधिकाराँश्च श्री' पूर्वं समुदीरयेत् ।
<bold>श्रुतं-</bold> श्रवणगोचरः १ काव्यनाटकादिषु परिचयः । [कल्पनं
<bold>श्रुतार्थापत्तिः -</bold> अनुपपद्यमानार्थश्रवणात्तदुपपादकीभूतार्थान्तर-
<bold>श्रुतिः -</bold> क्रमपरवचनम् १ निरपेक्षो रवः । रव इत्युक्ते वाक्यादावति.
प्रसङ्गस्तद्वारणाय निरपेक्ष इति २स्वार्थं वक्तुं पदान्तरानपेक्षं पर्द
<bold>श्रोत्रेन्द्रियं-</bold> शब्द (ग्राहकत्वं श्रोत्रत्वम् १) पलब्धिसाधनमिन्द्रियं
<bold>श्रोत्रियत्वं-</bold> वेदवेदाङ्गपारगत्वम् १ वेदान्तार्थपारगत्वं वा <error>३०५८</error><fix>॥३०५८॥</fix>
<bold>श्लाघा:-</bold> अविद्यमानात्मगुणज्ञापनम् १ निजगुणाविष्करणमिति मं०
<bold>श्लोषः -</bold> एकस्मिन्वाक्येऽनेकार्थता ॥ ३०६१ ॥
<bold>श्लोकः-</bold> चतुष्पादात्मकः १ छन्दो (बद्धवाक्यम् २) विशिष्टवा-
क्यरचनमिति ग्रं० ३ श्लोक्यते शस्यतेऽनेनेति ॥ ३०६५॥</p>
<pb n="144" />
<p><bold>षष्ठीविभक्तित्वं-</bold> तिबन्तदाधात्वर्थधर्मिकस्वार्थान्वयबोधास्वरु
पयोग्यत्वे सति प्रथमान्यसुप्त्वम् १ हिनस्त्यर्थहिंसाधर्मिकस्वार्थ
कर्मत्वानुभवकसुप्सजातीयत्वमिति शब्दशक्तिप्रकाशिकायाम्
<bold>*स*</bold>                 [ योरेकत्र समावेशः
<bold>सङ्करः-</bold> जातिभ्रंशः*१ परस्परात्यन्ताभावसमानाधिकरणयोधी
<bold>सङ्कल्पः -</bold> कर्तव्यत्वाध्यवसायः * १ अनासन्नक्रियेच्छा <error>३०७१</error><fix>॥३०७१॥</fix>
<bold>सङ्कीर्तन-</bold> सम्यक्प्रकारेण देवतानामोच्चारणम् ॥ ३०७२ ॥
<bold>सङ्केतः-</bold> अर्थबोधजनकः शब्दव्यापारः १ अस्मात्पदादयमधे
बोद्धव्य इत्याकारिकेच्छा * २ स्वाभिप्रायव्यञ्जकचेष्टाविशेषः
<bold>सङ्कोचः-</bold> बहुविषयकवाक्यस्याल्पविषयकतयाव्यवस्थापनम्
<bold>सङ्क्रान्ति:-</bold> राश्यन्तरसंयोगानुकूलव्यापारः ॥ ३०७६ ॥
<bold>सङ्क्षेपः -</bold> भूयसोऽर्थस्याल्पवाक्यादिना प्रकाशनम् १ लघुत्वम्
<bold>सखण्डोपाधिः-</bold> बहुपदार्थघटितो धर्मः ॥ ३०७९ ॥
<bold>सङ्ख्या-</bold> एकंद्वे त्रीणीत्यादिप्रत्यक्षविषयो गुणः १ एकत्वादिव्य
वहारासाधारणकारणम् । घटादिवारणायैकत्वादीति, काला
दिवारणायासाघारणेति २ नियतविषयपरिच्छेदहेतुः <error>३०८</error><fix>॥३०८॥</fix>
<bold>सङ्गतिः-</bold> अकस्माजाता १ पदपदार्थयोः स्मार्यस्मारकभावसंब
न्धः * २ अनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषय
<bold>सङ्ग्रहः-</bold> सङ्क्षेपेण स्वरूपकथनम् १ बहर्थकवाक्यानामेकः
सङ्कलनम् १ विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययो</p>
<pb n="145" />
<p>निबन्धो यः समासेन सङ्ग्रहं तं विदुर्बुधाः ॥ ३०८८ ॥
<bold>सङ्घातः-</bold> दृढसंयोगस्समूहः १ समानधर्मवतां परस्परसंबन्धः ।</p>
<lg>
  <l><bold>सजातीयभेदः-</bold> समानजातिकृतो भेदः, यथा वृक्षस्य वृक्षान्तरात्</l>
  <l><bold>संचितकर्म-</bold> जन्मान्तरहेतुभूतं सदवस्थितं पूर्वजन्मीयं (नं ) कर्म ।</l>
  <l><bold>संज्ञा-</bold> सङ्क्षेपेण ज्ञायतेयया १ हस्तैरर्थसूचनम् *२ नाममात्रबो-</l>
  <l>धिका ३ रूढ्या बोधकशब्दमात्रप्रवृत्तिनिमित्तकत्वम् ॥ ३०९६॥</l>
</lg>
<p><bold>सत्कारः -</bold> प्रियभाषणपादप्रक्षालनादिपूजा १ साधुरयं तपस्वी
ब्राह्मण इत्येवमविवेकिभिः क्रियमाणा-स्तुतिरिति ग्रं० ॥ ३०९८॥
<bold>सत्ता-</bold> आत्मधारणानुकूलव्यापारः १ विद्यमानत्वम् ॥३१००॥
<bold>सत्यं-</bold> स्वीकारः*१ अनर्थाननुबन्धियथाभूतार्थवचनम् २ प्रियहित-
प्रमाणदृष्टश्रुतार्थभाषणम्*अबाधितज्ञानविषयः ४कालत्रयाबाध्यं
<bold>सत्त्वं-</bold> सतो भावः १ कालत्रयाबाध्यत्वमिति वे०२अर्थक्रियाकारि-
त्वमिति बौद्धाः ।                                                         [ज्ञानसुखहेतुर्गुण:
<bold>सत्त्वगुणः -</bold> विकृते कारणे सति चित्तस्याविकृतिः १लघुत्वे सति
<bold>सत्त्वापत्तिभूमिका-</bold> निर्विकल्पकब्रह्मात्मैक्यसाक्षात्कारः। स्व-
प्रवज्जगतो मिथ्यात्वेन स्फुरणात्स्वन इति चोच्यते ॥३१११॥
<bold>सदसद्विलक्षणत्वं-</bold> प्रतीयमानत्वे सति बाधयोग्यत्वम् <error>३११२
</error><fix>॥३११२॥</fix>
<bold>सदाचारः-</bold> शिष्टव्यवहारः १ वेदादिशास्त्रानुसार्याचारो वा ।
<bold>सदुत्तरं -</bold> पृष्टस्य सम्यगुत्तरम् १ प्रतिज्ञापत्रानुसार्युत्तरमिति ग्रं०
<bold>संतोष:-</bold> सन्निहितप्राणधारणमात्र हेतुना तुष्टि: १ विद्यमानभो-
मीपकरणादधिकस्यानुपादित्सारूपा चित्तवृत्तिरित्यादर्शे <error>३११८</error><fix>॥३११८॥</fix></p>
<pb n="146" />
<p><bold>संदेश:-</bold> वाचिकार्थकथनम् ।                                [वह्निमान्न वा
<bold>संदेहः-</bold> एकस्मिन्धर्मिणि विरुद्धकोटिद्वयज्ञानम्, यथा पर्वतो
<bold>संदंशः-</bold> एकाङ्गानुवादेन विधीयमानयोरङ्गयोरन्तराले विह्नितत्वं
<bold>संधिः -</bold> सामीप्यम् १ अन्योन्यं संधानम् * २ द्विवर्णोत्पन्नवर्णवि-
कार: ३ अर्द्धमात्रोच्चारण कालेनाव्यवहितयोर्वर्णयोर्द्रुततरोच्चारणं
<bold>संध्या -</bold> रात्रेराद्यन्तदण्डचतुष्टयात्मककालः ।        [म्बोच्चारणं
<bold>संनिधिः-</bold> प्रकृतान्वयबोधानुकूलपदाव्यवधानम्१ पदानामविल-
<bold>संनिपत्योपकार्यङ्ग-</bold> सामीप्येनोपकार्यङ्गम् १ 'स्वरूपोपकार्यङ्ग'
लक्षणामप्यत्र पठनीयम् ॥ ३१२९ ॥
<bold>सन्निहितः-</bold> व्यवधानशून्यः १ स्वरूपभिन्नत्वे सति सम्बन्धी ।
<bold>संन्यासः -</bold> विहितानां कर्मणां विधिना परित्यागः । अविहित-
निषिद्धत्यागिनां वारणाय विहितानामिति, आलस्यादिना वि.
हितत्यागिनां वारणाय विधिनेति १ कर्मत्यागान्न संन्यासो न
प्रैषोच्चारणेन तु सन्धौ जीवात्मनोरैक्यं संन्यासः परिकीर्तितः ।
<bold>संन्यासित्वं-</bold> संस्कारपूर्वकवेदाधिकारित्वे सति वैराग्यशालित्वम्
<bold>सप्तमीविभक्तित्वं-</bold> पचधात्वर्थतावच्छेदकरूपावच्छिन्नधर्मि-
कस्वार्थाधेयत्वबोधानुकूलसुप्सजातीयत्वम् १ चैत्रधर्मिकस्वार्था-
धिकरणत्वान्वयबोधकसुप्समानानुपूर्वीकत्वमिति शब्दशक्तिप्र०
<bold>समं-</bold> यत्किञ्चिनिरूपितसादृश्यवत् *औचित्येनोत्कृष्टापकृष्टयोर्योगः
<bold>समदर्शित्वं-</bold> मित्रारिपक्षयोरपक्षपातित्वम् १ सर्वत्रब्रह्मदर्शित्वं वा</p>
<pb n="147" />
<p><bold>समनियतत्वं-</bold> तद्व्याप्यत्वे सति तद्व्यापकत्वम् १ स्वाधिकरण-
वृत्त्यभावाप्रतियोगित्वमिति ग्रं० ॥ ३१३९ ॥
<bold>समन्वयः -</bold> वेदान्तानां ब्रह्मप्रमितिजनकत्वमिति तत्त्वदीपने १
ब्रह्मात्मैकत्वप्रतिपादकत्वेन वेदान्तवाक्यानां समनुगतत्वम् ।
<bold>समर्पणं-</bold> स्त्रोपगृहीतविषयस्य प्रतिबिम्बरूपे चित्याधानम् ।
<bold>समवायः -</bold> अयुतसिद्धयोः संबन्धः १ नित्यसंबन्धः । संयोग-
वारणाय नित्येति, गगनादिवारणाय संबन्ध इति २ संयो-
गभिन्नत्वे सति साक्षात्संबन्धत्वं समवायत्वम् ॥ ३१४५ ॥
<bold>समवायिकारणं-</bold> समवायसंबन्धावच्छिन्नकार्यतानिरूपिततादा
त्म्यसंबन्धावच्छिन्न कारणतावत् ।                                [देकबुद्धिविषयः
<bold>समष्टिः-</bold>  सम्यग्व्याप्तिः*१समुदायभावापन्नः पदार्थ: २ वनव-
<bold>समसमुच्चयः-</bold> ज्ञानकर्मणो (र्युगपदनु०) एकस्मिन्कालेऽनुष्ठानं
<bold>समाधानं-</bold> विवादभञ्जनम् १ सिद्धान्तानुकूलतर्कादिना सम्य-
गर्भावधारणम् * २ निद्रालस्यप्रमादत्यागेन स्थितिः * ३
श्रवणाद्यपेक्षितचित्तैकाग्र्यम् ॥ ३१५४ ॥
<bold>समाधिः -</bold> कारणसामग्री १ असाध्यविषयाध्यवसायः * २ व्यु-
त्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावे सति चित्तस्यैकाग्रता
परिणाम: ३ द्रष्टृस्वरूपावस्थानहेतुश्चित्तवृत्तिनिरोध इति ग्रं० ४
वृत्त्यन्तरनिरोधपूर्वकात्मगोचरधारावाहिकचित्तवृत्तिः ॥३१५९ ॥
<bold>समानपदत्वं -</bold> एकपदत्वम् १ अखण्डपदत्वं वा * २ निमि-
तानधिकरणनिमित्तिमत्पदाघटितत्वम् ॥ ३१६२ ॥</p>
<pb n="148" />
<p><bold>समानप्राणः-</bold> अशितपीतान्नपानादे: समीकरणकरः प्राणः ।
<bold>समानाधिकरणत्वं-</bold> एकाधिकरणवृत्तित्वम्'सामानाधिकरण्य' लक्ष
<bold>समाप्तः-)</bold> सम्यक्प्राप्तः १ अवसानप्राप्तः * २ आरब्धकर्मणः
<bold>समाप्तिः -)</bold> संपूर्णम् ३ चरम (वर्णध्वंसत्रत्त्रम् ४) वृत्तिध्वंसः ।
<bold>समावेश:-</bold> बहूनामर्थानामेकत्र वाक्यादौ व्यवस्थापनम् ।
<bold>समासः-</bold> द्व्यादिपदानामेकपदतासंपादको वृत्तिविशेषः १ व्य-
स्तपदयोर्व्यस्तपदानां वैकत्र समसनमिति ग्रं० २ अभिधानाश्रि-
तलोपाभाववदन्यमध्यवर्त्तिविभक्तिशून्यनामसमुदायः <error>३१७३</error><fix>॥३१७३॥</fix>
<bold>समासप्रयोजनं-</bold> ऐकपद्यमैकस्वर्यमेकविभक्तिकत्वम् <error>३१७४</error><fix>॥३१७४॥</fix>
<bold>समाहारः-</bold> साहित्यम् १ अनुद्भूतावयत्रभेदः समूहः २तुल्यवदेक-
<bold>समीहा-</bold> इष्टानिष्टप्राप्तिपरिहारानुकूला चेष्टा। [क्रियान्वयित्वं
<bold>समुच्चयः -</bold> विरोधानवगाहिज्ञानम् * १ परस्परनिरपेक्षाणाम-
नेकेषामेकस्मिन्नन्वयः २ कर्मद्वयस्यैकक्रियानिष्ठत्वम् ॥ ३१८० ॥
<bold>स (मुदाय:) मूहत्वं-</bold> अपेक्षाबुद्धिविशेषविष(यः)यत्वम् <error>३१८१</error><fix>॥३१८१॥</fix>
<bold>समूहालम्बनं-</bold> नानाधर्मि (र्म्यव)तावगाह्ये कं ज्ञानम् १ नानाप्र-
कारतानिरूपितं नानामुख्यविशेष्यताशालि ज्ञानमिति ग्रं० <error>३१८३</error><fix>॥३१८३॥</fix>
<bold>संप्रदानत्वं-</bold> त्यागानुयोगित्वम् १ दानकर्मोद्देश्यत्वं वा <error>३१८५</error><fix>॥३१८५॥</fix>
<bold>सम्प्रदाय:-</bold> शिष्टपरम्परावतीर्णोपदेश इति भरतः १ गुरु-
परम्परागतसदुपदि (देशविशि) ष्टव्यक्ति समूहः ॥ ३१८७ ॥
संबद्धत्वं संबन्धयुक्तम् १ परस्परान्वितत्वमिति ग्रं० <error>३१८९</error><fix>॥३१८९॥</fix>
.</p>
<pb n="149" />
<p><bold>संबन्धः -</bold> सम्यग्बन्धः १ संसृष्टबुद्धिव्यवहारयोर्हेतु: + २ विशिष्ट-
प्रतीतिनियामकः ३ संबन्धिभिन्नत्वे सति संबन्ध्याश्रितत्वे सत्येकः
<bold>संबोधनं-</bold> सम्यग्ज्ञापनम् १ अन्यत्रासक्तस्याभिमुखीकरणं वा ।
<bold>संभवप्रमाणं-</bold> भूयःसहचारदर्शनजन्यज्ञानम्, यथा सम्भ-
वति ब्राह्मणे विद्या, सम्भवति सहस्रे शतमिति १ अविना-
भाविनोऽर्थस्य सत्ताग्रहणादन्यस्य सत्ताग्रहणम् ॥ ३१९७ ॥
<bold>संभावना-</bold> शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः * १ निश्चयप्रायऔ-
त्कट्यापन्नसंशयः २ उत्कटैकतरकोटिकज्ञानमिति ग्रं० ॥ <error>३२००</error><fix>॥३२००॥</fix>
<bold>सम्यग्ज्ञातत्वं-</bold> पदवाक्यमानादिविशिष्टज्ञानविषयताशालित्वम्
<bold>सर्वज्ञः -</bold> सकलज्ञाता १ स्वरूपचैतन्येन स्वाध्यस्तसर्वजगदवभा-
सक इति मुक्तावल्याम् २ सर्वं जानातीति ज्ञः ॥ ३२०४ ॥
<bold>सर्वनामत्वं-</bold> स्वोच्चारणानुकूलबुद्धिप्रकारविशिष्टत्वम् १ वक्तृबु-
ध्दिविशेषविषयत्वावच्छेदकत्वोपलक्षितधर्मावच्छिन्नार्थवाचित्वं
<bold>सवर्णः-</bold> समानो वर्णो यस्य १ स्वजनकयावत्स्थानप्रयत्नजन्य-
त्वे सति स्वाजनकस्थानप्रयत्नाजन्यत्वं सवर्णत्वम् ॥ ३२०८॥
<bold>सविकल्पकं-</bold> वैशिष्ट्यावगाहिज्ञानम्, यथा घटमहं जानमीत्या-
दिज्ञानम् । इच्छादिवारणाय ज्ञानमिति, निर्विकल्पकवारणाय
वैशिष्ट्यावगाहीति ।                                                          [ चित्तसमाधानं
<bold>सविकल्पसमाधि-</bold>ज्ञातृज्ञानज्ञेयविकल्पावभासपुरःसरमात्मनि
<bold>सहकारित्वं-</bold> स्वभिन्नत्वे सति स्वकार्यकारकत्वम् ॥३२११॥</p>
<pb n="150" />
<p><bold>सहचारः-</bold> एकाधिकरणवृत्तित्वम् १ 'सामानाधिकरण्य'लक्षणम०
<bold>सहसापतनतापः-</bold> पुण्यकर्मक्षये मुद्गरादिप्रहरणजन्यस्तापः।
<bold>सहानवस्थानम्-</bold> एकाधिकरणे एकस्मिन्कालेऽनवस्थितिः ।
<bold>सहाप्रतीतिविरोधः-</bold> एकम्मिन्काले एकाधिकरणेऽप्रतीतिः ।
सहायता अन्य कर्तृकक्रियायामप्राधान्येनान्वयित्वम् ॥३२१६
<bold>साकारः -</bold> धर्माश्रयः १ आकारेण सह वर्तमानः ॥ ३२१८ ॥
<bold>साक्षात्संबन्धः-</bold> पारम्पर्यरहितः संबन्धः १ वृत्तित्वनियामकः
संबन्धः २यन्निष्ठसंसर्गतायां प्रतियोग्यनुयोगिविषयतानिरूपितत्वं
<bold>साक्षात्साधनं-</bold> पारम्पर्यरहितं साधनम् ५ अव्यवहितपूर्वत्व-
संबन्धेन कार्याधिकरणीभूतक्षणनिष्ठात्यन्ताभावप्रतियोगिता-
नवच्छेदकान्यथासिद्ध्यनिरूपकधर्मवत्त्वमिति माथुर्याम् <error>३२२२</error><fix>॥३२२२॥</fix>
<bold>साक्षित्वं-</bold> वृत्तज्ञत्वम् * १ अकर्तृत्वे सति द्रष्टृत्वम् २ उदासीनत्वे
सति बोद्धृत्वमिति ग्रं० ३ जीवेश्वरानुगतसर्वानुसंधातृचैतन्यत्वं
<bold>साङ्ख्यशास्त्रं-</bold> सम्यग्विविच्य ख्यायन्ते प्रकटीक्रियन्ते तत्त्वानि
प्रकृतिपुरुषपदार्थरूपाणि यस्मिँस्तत् ।                  [शून्यत्वे सति तद्ग०
<bold>सादृश्यं-</bold> तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् १ तदसाधारणधर्म-
<bold>साधकं -</bold> साध्यज्ञापकम् १ स्वपक्षप्रमितिजनकं वा ॥३२३१॥
<bold>साधनत्वं-</bold> ब्रह्मविद्याहेतुत्वम्१व्याप्त्याधारत्वम् २ कार्यजन-
कत्वम् ३ करणकारकत्वम् ॐ ४ पूर्वकालवृत्तिधर्मवत्त्वम् <error>३२३५</error><fix>॥३२३५॥</fix>
<bold>साधारणधर्मत्वं-</bold> तदितरवृत्तित्वे सति तद्वृत्तित्वम् । [शालित्वं
<bold>साधारणकारणत्वं-</bold> कार्यत्वावच्छिन्नकार्यतानिरूपितकारणता-</p>
<pb n="151" />
<p><bold>साधुत्वम्-</bold> अपभ्रंशभिन्नत्वम् १ अभ्युदयसाधनप्रयोगविषयत्व-
मिति ग्रं० २ व्याकरणबोध्यत्वम् ३ पुण्यजनकतावच्छेदकजा-
तिमत्त्वम् * ४ निर्दोषत्वम् ५ प्रियकारित्वमिति ग्रं० ६ स्वपर-
कार्यसाधकत्वम् ७ निर्वैरः सदयः शान्तो दम्भाहङ्कारव-
र्जितः, निरपेक्षो मुनिर्वीतरागः साधुरिहोच्यते ॥३२४५ ॥
<bold>साध्यत्वं-</bold> निष्पाद्यत्वम् * १ व्याप्तिनिरूपकत्वम् २ अवयवत्वाव-
च्छिन्नविषयतानिरूपितविषयताप्रयोजकत्वम् * ३ कालान्वयि-
तावच्छेदकरूपवत्त्वम् ४ भाविकालवृत्तिधर्मवत्त्वम् ॥ ३२४६॥
<bold>साम-</bold> शत्रुवशीकरणोपायः १ प्रियवचनैः क्रोधोपशमनमिति ग्रं०
<bold>सामग्री-</bold> कार्यायोगव्यवच्छिन्नः कारणसमुदायः ॥ ३२५३॥
<bold>साममन्त्रः-</bold> गीतिरूप [८८१४] मन्त्रः १ गीतिविशिष्टो मन्त्रः ।
<bold>सामयिकाभावत्वं-</bold> उत्पत्तिविनाशवत्त्वे सत्यभावत्वम् <error>३२५६</error><fix>॥३२५६॥</fix>
<bold>सामर्थ्य-</bold> पदानां परस्परसंबन्धः १ कार्यजननयोग्यत्वम् <error>३२५८</error><fix>॥३२५८॥</fix>
<bold>सामवेदः-</bold> सामबहुलो वेदः १ सामावयको वेदः २ सोम (विनि-
योजकत्वं सामवेदत्वम् ३) द्रव्यको वेद इति सुधायाम् <error>३२६२</error><fix>॥३२६२॥</fix>
<bold>सामानाधिकरण्यं -</bold> एकविभक्त्यन्तत्वे सत्येकार्थनिष्ठत्वम् १
भिन्नप्रवृत्तिनिमि (त्तकत्वे सत्येकार्थप्रतिपादकत्वम् २ ) त्तानां श-
ब्दानामेकस्मिन्नर्थे वृत्तिः, यथा सोयं देवदत्तः । मृद्धटः नीलमुत्पलं
राज्ञः पुरुष इत्यादि वाक्येषु व्यभिचारनिरासाय क्रमेण विशेषणं
<bold>सामान्यं-</bold> बहु (तरविषयः १) व्यापकम् २ नित्यमेकमनेकसमवेतं
-
-</p>
<pb n="152" />
<p><bold>सामान्यधर्मः-</bold> अनुगतधर्मः १ सादृश्यप्रयोजको धर्मः <error>३२७०</error><fix>॥३२७०॥</fix>
<bold>सामान्यतोदृष्टानुमानं-</bold> अदृष्टस्वलक्षणस्य सामान्यविशेषस्य
दर्शनम् १ कार्यकारणभिन्नलिङ्गक्रमनुमानमिति ग्रं० २ पूर्वाग्रही-
तव्यक्तिसामान्य विषयमनु०                                          [रीभूतं सामान्यं
<bold>सामान्यलक्षणसन्निकर्षः-</bold> इन्द्रियसंबद्ध विशेष्य ऋज्ञानप्रका-
<bold>सामान्याहङ्कारः-</bold> सामान्यतोहमित्यभिमानात्मिका चित्तवृत्तिः
<bold>सामीप्यमुक्तिः-</bold> उपास्यस (मीपवृत्तित्वम् १) मीप्यप्राप्तिः <error>३२७६</error><fix>॥३२७६॥</fix>
<bold>सायुज्यमुक्तिः-</bold> उपास्यात्मतापत्तिः १ सदोपास्यसहवृत्तित्वम्।</p>
<lg>
  <l><bold>सारत्वम्-</bold> न्याय्यत्वम् १ उत्त (मत्वम् २) रोत्तरोत्कर्षत्वम्।</l>
  <l><bold>सारथिः-</bold> रथादिघोटकनियोगकर्ता ॥ ३२८१॥</l>
</lg>
<p><bold>सारूप्यमुक्तिः-</bold> उपास्यसमानस्वरूपप्राप्तिः ॥ ३२८२ ॥
<bold>सालोक्यमुक्तिः-</bold> उपास्यसमानलोकप्राप्तिः॥ ३२८३ ॥
<bold>सावयवः -</bold> अवय (वजन्यः १ ) वेन सह वर्तमानः ॥ ३२८५ ॥
<bold>सिद्धः -</bold> निष्पन्नः १ कृतकार्या वा २ सिद्धि (:-निष्पत्तिः ३) विषयः
<bold>सिद्धसाधनं-</bold> प्रमाणान्तरेणावगतार्थसाधनम् ॥ ३२९० ॥
<bold>सिद्धान्तः-</bold> अबाधितो निश्चयः * १ तत्तच्छास्त्रसिद्धोऽर्थः २
वादिप्रतिवादिनिर्णीतोऽर्थः ३ प्रामाणिकत्वेनाभ्युपगतोर्थ इति
ग्रं० ४ पूर्वपक्षकोटिनिरसनपूर्वकस्वीकरणीयकोटिनिर्देशः <error>३२९</error>॥३२९॥
<bold>सिद्धासनम् -</bold> सिद्धये सर्वभूतादि विश्वाधिष्ठानमद्वयम्,
यस्मिन्सिद्धिङ्गताः सिद्धास्तत्सिद्धासनमुच्यते ॥ ३२९५॥</p>
<pb n="153" />
<p><bold>सुखं -</bold> निरुपाधिकेष्टम् *१ सत्त्वपरिणामरूपप्रीत्यात्मकचित्तत्र-
त्तिविशेषः २ सर्वेषामनुकूलतया वेदनीयम् । शत्रुदुःखवारणाय
सर्वेषामिति ३ अन्येच्छानिधीनेच्छाविषयः । भोजनादावति-
व्याप्तिवारणायान्येच्छानधीनेति ४ काम्यभावत्वम् <error>३३००</error><fix>॥३३००॥</fix>
<bold>सुन्दरी -</bold> विलक्षणसंस्थानावयववती ॥ ३३०१ ॥</p>
<lg>
  <l><bold>सुषुप्तिजाग्रत् -</bold> सुषुझ्यवस्थायां सात्त्विकी या सुखाकारा वृत्तिः</l>
  <l>( यदनन्तरं प्रबुद्धस्य सुखमहमस्वाप्समिति परामर्शः ) सा ।</l>
  <l><bold>सुषुप्तिसुषुप्तिः -</bold> सुषुप्त्यवस्थायां या तामसी वृत्तिः ( यद्वलात्प्र-</l>
  <l>बुद्धस्य गाढं मूढोऽहमस्वाप्समिति परामर्शः) सा ॥ ३३०३ ॥</l>
</lg>
<p><bold>सुषुप्तिस्वनः-</bold> सुषुप्त्यवस्थायां या राजसी वृत्तिः ( यदनन्तरं
दुःखमहमस्वाप्समिति प्रबुद्धस्य परामर्शः ) सा ॥ ३३०४ ॥
<bold>सुषुप्त्यवस्था-</bold> सुखगोचराविद्यागोचराविद्यावृत्त्यवस्था १ जाग्र-
त्स्वप्नोभयभोगप्रदकर्मोपरमे सति द्विविधदेहाभिमाननिवृत्तिद्वारा
विशेषविज्ञानोपरमात्मिका या बुद्धेः कारणात्मनावस्थितिः <error>३३०६</error><fix>॥३३०६॥</fix>
<bold>सुहृद्-</bold> सर्वदानुगामी १ प्रत्युपकारंमनपेक्ष्य पूर्वस्नेहं विनैवोपकर्ता ।
<bold>सूक्ष्मशरीरत्वं-</bold> दृगगोचरत्वे सति कारणदेहभिन्नत्वम् <error>३३०९</error><fix>॥३३०९॥</fix></p>
<lg>
  <l><bold>सूत्रं -</bold> अल्पाक्षर (त्वे सति बह्वर्थसूचकत्वं सूत्रत्वम् १ ) मसंदिग्धं</l>
  <l>सारवद्विश्वतोमुखम्, अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ।</l>
  <l><bold>सूत्रधारः -</bold> नाटकप्रयोगप्रधानसञ्चालकः ॥ ३३१२ ॥</l>
  <l><bold>सृष्टिः -</bold> संसाररचना १ उत्पत्त्यनुकूलव्यापारविशेषः ॥३३१४॥</l>
</lg>
<pb n="154" />
<p><bold>सेवकवृद्धिव्यसनं-</bold> परराष्ट्राभिभवादीच्छ्या सेवकवृद्ध्यर्थेच्छा-
हेतुर्व्यसनम् ।                                              [कारित्वं
<bold>सेवा-</bold> पर (कार्यसाधनम् १ ) [र्थक्रिया २ सर्वभावेनाचार्यानुकूल-
<bold>सोपाधिकभेदत्वं -</bold> उपाधिसत्ताव्याप्यसत्ताकत्वम् ॥ ३३१९॥
<bold>सोपाधिकभ्रमः- )</bold> अधिष्टानज्ञानानिवर्त्यो भ्रमः १ उपाधि-
<bold>सोपाधिकाध्यासः-)</bold> निरूपणाधीननिरूपणाध्यासः <error>३३२१</error><fix>॥३३२१॥</fix>
<bold>संयमः-</bold> इन्द्रियनिग्रहः १ सङ्कोचकारकव्यापारो वा ॥३३२३॥
<bold>संयोगः -</bold> विद्यमानयोरप्राप्तयोः प्राप्तिः *१ क्रियाजन्यद्रव्याश्रयो
गुणः २संयुक्तव्यवहारासाधारणकारणम् । दण्डादिवारणाय सं-
युक्तव्यवहारेति, कालादिवारणायासाधारणेति ३जन्यद्रव्य
वृत्तित्वे सति स्वसमानाधिकरणाभावप्रतियोगिविभागभिन्नगुणः
<bold>संवादः -</bold> परस्परं जनानां सम्यङ्मिर्णयपूर्वकं वादो भाषणम् ।
<bold>संवादिभ्रमः-</bold> सफलप्रवृत्तिजनकभ्रमः'अविसं ० ' स्यापीदं लक्षणं ज्ञेयं
<bold>संशयः -</bold> अनवधारणज्ञानम् १ संदिग्धार्थानिश्चयः * २ एकस्मि-
न्धर्मिणि विरुद्ध (भावाभावप्रकारकज्ञानम् ३ ) कोटिद्वयावगाहि-
ज्ञानम्, यथा आम्रो वा पनसो वेति ४ एकत्र भासमानविरुद्ध-
नानाकोटिकज्ञानम् ।                                    [वच्छिन्न प्रतियोगिताको ०
<bold>संसर्गाभावः-</bold> संसर्गप्रतियोगिकोऽभावः १त्तादात्म्यभिन्न संबन्ध
<bold>संसार:-</bold> मिथ्याज्ञानजन्यसंस्काररूपवासना १ स्वादृष्टोपनिबद्ध-
शरीरपरिग्रह इति कलापे २ संसरति (जायते म्रियते च ) यस्मि-</p>
<pb n="155" />
<p>न्नहं ममाभिमानेन जीवः सः ॥ ३३३९ ॥
<bold>संस्कारः-</bold> अनुभवजन्यः स्मृतिहेतुः * १ स्वाश्रयस्य प्रागुद्भूता-
वस्थासमानावस्थान्तरापादकोऽतीन्द्रयो धर्मः २ आत्मविशेष-
गुणवृत्तिमूर्त्तवृत्तिवृत्तिगुणत्वव्याप्यजातिमान् । घटादिवारणाय
गुणत्वव्याप्येति, संयोगादिवारणायात्मविशेषगुणवृत्तीति ।</p>
<lg>
  <l><bold>संस्कार्य -</bold> धू (भू) षणार्हम् १ क्रियाजनितातिशयशालित्वम् ।</l>
  <l><bold>संस्कृतत्वं -</bold> व्याकरणलक्षणाधीनसाधनयुक्तत्वम् ॥ ६३४८॥</l>
</lg>
<p><bold>संहिता-</bold> वर्णाना (मेकप्राणयोगः:१) मतिशयितः संनिधिः २ स्वा-</p>
<lg>
  <l>भाविकार्द्धमात्राकालाधिककालव्यवायशून्यत्वम् ३ मन्त्रात्मको</l>
  <l>वेदभाग ४ धर्मबोधार्थं रचिता ५ सम्यक् हितं प्रतिपाद्यं यस्याः ।</l>
  <l><bold>स्तुतिः -</bold> गुणिनिष्ठगुणाभिधानम् १ आरोप्यगुणकथन मिति ग्रं॰</l>
  <l><bold>स्तुत्यर्थवादः-</bold> साक्षाद्विध्यर्थस्य प्रशंसार्थकं वाक्यम् ॥ ३३५६॥</l>
</lg>
<p><bold>स्तोत्रं -</bold> गीतमन्त्रसाध्यं कर्म १ साममन्त्रसाध्या स्तुतिः<error> ३३५८</error><fix>॥३३५८॥</fix>
<bold>स्तोभः -</bold> निरर्थकः शब्दः १ अर्थशून्यत्वे सत्युच्चारणमात्रप्रयोज-
नवच्छब्दः *२ अधिकत्वे सत्यृग्विलक्षणवर्णः ॥ ३३६० ॥
<bold>स्तोमत्वं-</bold> समूहत्वम् *१ आत्मगुणाविष्करणत्वम् ॥३३६१॥
<bold>स्त्रीपुरुषभेदः -</bold> पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा,
शशो मृगो वृषोश्वश्व स्त्रीपुंसोर्जातिलक्षणम् १ को धर्मः किं यश-
स्तेषां का प्रतिष्ठा च किं बुद्धिविद्याज्ञानञ्च परस्त्रीषु च यन्मनः
<bold>स्त्रीलिङ्गत्वम्-</bold> इयमितिव्यवहारविषयत्वम् ॥ ३३६३ ॥</p>
<pb n="156" />
<p><bold>स्थलं -</bold> जलशून्यदेशः *१ तत्तद्व्यवहारजन्यशाब्दबोधविषयः ।
<bold>स्थानं-</bold> सन्निधिविशेषः १ स्वाभिप्रायबोधानुकूला (क्रिया) स्थितिः
<bold>स्थायित्वं-</bold> स्थितिशीलत्वम् १ समधिककोलवृत्तित्वं वा <error>३३६८</error><fix>॥३३६८॥</fix>
<bold>स्थूलशरीरं -</bold> पञ्चीकृतपञ्चमहाभूतकार्यं दृग्गोचरशरीरम् १</p>
<lg>
  <l>शुक्रशोणितनिर्मितत्वे सत्यस्थ्यादिसमुदायत्वं स्थूलशरीरत्वम् ।</l>
  <l><bold>स्नानं -</bold> शरीरमज्जनम् १ कायप्रक्षालनमिति ग्रं० ॥ ३३७२ ॥</l>
</lg>
<p><bold>स्नेहः-</bold> चूर्णादिपिण्डीभावहेतुर्गुणः १ दर्शने स्पर्शने चापि श्रवणे
भाषणेऽपि वा यत्र द्रवत्यन्तरङ्ग स स्नेह इति कथ्यते <error>३३७४</error><fix>॥३३७४॥</fix>
<bold>स्पर्श:-</bold> उप (पातकः १) तप्ता २ त्वगिन्द्रियमात्रग्राह्यो गुगः <error>३३७६</error><fix>॥३३७६॥</fix>
<bold>स्पष्टब्रह्मलिङ्गकत्वं-</bold> विषयवाक्ये ब्रह्मधर्मतया निर्णीता (र्थबो-
धक) ब्रह्मलिङ्गकत्वम्, यथान्तरधिकरणविषयवाक्ये ब्रह्मधर्मतया
निर्णीतं सर्वदुरितोदितत्वं फलवचनोपोद्भलनेन जीवादावसंभ-
वेन ब्रह्मण्येव सङ्गमनीयं ब्रह्मधर्मतया निर्णीतं विद्यते इति तत् ।
<bold>स्फुटत्वं-</bold> तद्विषयकजिज्ञासानधीनप्रतिपत्तिविषयत्वम् <error>॥ ३३७८</error><fix>॥३३७८॥</fix>
<bold>स्फोटः-</bold> वर्णातिरिक्तो वर्णाभिव्यक्योऽर्थप्रत्यायको नित्यः शब्दः
अर्थनिष्टविषयताप्रयोजक शक्तिमत्त्वं स्फोटत्वम् ॥ ३३८० ॥
<bold>स्मरणं -)</bold> सादृश्यानुभवाद्वस्त्वन्तरस्मृतिः १ चिरानुभूतार्थस्म-
<bold>स्मृतिः -)</bold> रणशक्तिः २ अनुभूतविषयाधिकानवगाहिज्ञानम् ३
उद्भूतसंस्कारमात्रजन्यं ज्ञानम्। संस्कारध्वंसेऽतिव्याप्तिवार-
णाय ज्ञानमिति, अनुभवेतिव्याप्तिवारणाय, संस्कारजन्यमि</p>
<pb n="157" />
<p>ति, असंभववारणायोद्भूतेति, प्रत्यभिज्ञायामतिव्याप्तिवारणाय
मात्रपदम् *४ वेदार्थानुवादकवाक्यम् ५ स्मरणाद्वै निमित्तानां
धर्माधर्मनिरूपणात् । तिमिरोत्पाटनाद्देविस्मृतिरित्यभिधीयते ।..
<bold>स्वत्वम् -</bold> स्वामित्वम् १ प्रतिग्रहयुद्धक्रियादिजयो धर्मविशेष: २
शास्त्रसंमतययेष्टविनियोगार्हत्वम् ॥ ३३८९ ॥
<bold>स्वगतत्वं-</bold> स्वस्मिन्विद्यमानत्वम् ।                   [लादितः
<bold>स्वगतभेदः -</bold> स्वावयवैः कृतो भेदः, यथा वृक्षस्य पर्णपुष्पफ-
<bold>स्वतन्त्रः -</bold> स्वेच्छाचारी १ कर्तुमकर्तुमन्यथा वा कर्तुं समर्थ: २
इतर (व्यापारानधीनव्यापारवत्त्वम् ३) सत्तानधीनसत्ताकः ।
<bold>स्वतउत्पत्तिकत्वं -</bold> आगन्तुकभावकारणानपेक्षज्ञानसामान्य-
प्रयोजकप्रयोज्यत्वम् १ दोषाभावसहकृतज्ञानसामान्यसामग्री-
जन्यत्वमिति ग्रं० २ विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्त-
हेत्वजन्यत्वम् । विज्ञान सामग्री जन्यत्वम गमाण्येप्यस्तीति परतः
प्रामाण्यवादिभिश्च स्वीक्रियत इत्यतिव्याप्तिरर्थान्तरता वा
स्यात् तन्निवृत्त्यर्थं तदतिरिक्तहेत्वजन्यत्वमिति <error>३३९७</error><fix>॥३३९७॥</fix>
<bold>स्वतोग्राह्यं-</bold> ज्ञानग्राहका(तिरिक्तानपेक्षमिति भाट्टा: १ सामग्रीज-
न्यग्रहविषय इति नै ०२ दोषाभावसहकृत (ज्ञानसामग्रीमात्रग्राह्यम् ३
यावत्स्वाश्रयग्राहकसामग्रीग्राह्यमिति वे० ४ प्रामाण्यग्रहप्रतिबन्ध-
काभावकालीनयावत्स्वाश्रयानुव्यवसायग्राह्यमिति मुरारिमिश्राः
<bold>स्वतःप्रमाणं-</bold> अन्यप्रमाणनिरपेक्षस्वार्थबोधनसमर्थम् <error>३४०३</error><fix>॥३४०३॥</fix></p>
<pb n="158" />
<p><bold>स्वदेशगतत्वं-</bold> स्वाश्रयतावच्छेदकान्यदेशानवच्छिन्नाश्रयताकत्वं
<bold>स्वधा -</bold> पित्रुद्देशेन द्रव्यत्यागः, यथा श्राद्धादौ ॥ ३४०५ ॥
<bold>स्वप्नजाग्रत् -</bold> स्वप्ने मित्रादिप्राप्तिः ॥ ३४०६ ॥
<bold>स्वप्नसुषुप्तिः -</bold> जाग्रद्दशायां वक्तुमशक्यं यत्किञ्चित्स्वप्नेऽनुभूयते
<bold>स्वप्नस्वप्नः -</bold> स्वप्नंऽपिस्वप्नो मया दृष्ट इति बुद्धविषयः ।         [तत्
<bold>स्वप्नावस्था -</bold> इन्द्रियाजन्यविषयगोचरापरोक्षान्तःकरणवृत्त्यव-
स्था । जाग्रदवस्थाव्यावृत्त्यर्थमिन्द्रियाजन्येति, अविद्यावृ-
त्तिमत्यां सुषुप्तावतिव्याप्तिवारणायान्तःकरणेति १ जाग्रद्भोग-
प्रदकर्मोपरम सतीन्द्रियोपरमे जाग्रदनुभवजन्यसंस्कारोद्भूत-
विषयतज्ज्ञानावस्था २ विपरीतदर्शनत्वं स्वत्वम् ॥ ३४११॥
<bold>स्वप्रकाशत्वं-</bold> सजातीयप्रकाशाप्रकाश्यत्वम् १ इतराप्रकाश्यत्वे
संविदविषयत्वे वा सति प्रकाशमानत्वमित्यद्वैतदीपिकायाम् ३
स्वव्यवहारे स्वातिरिक्तसंविदनपेक्षत्वम् ४ अवेद्यत्वे सत्यपरो-
क्षव्यवहारयोग्यत्वम् । घटादावतिव्याप्तिवारणाय सत्यन्तम्,
अतीन्द्रियधर्मादावतिव्याप्तिवारणायापरोक्षेत्यादिविशेष्यम् ५
अन्यानवभास्यत्वे सति स्वव्यतिरिक्तसकलावभासत्वम् <error>३४१७</error><fix>॥३४१७॥</fix>
<bold>स्वभावः -</bold> स्वस्य भावः १ हेत्वन्तरनिरपेक्षं वस्तुस्वरूपम् *२
जन्मान्तरकृतो धर्माधर्मादिशुभाशुभसंस्कारः ॥ ३४२० ॥
<bold>स्वरः -</bold> काक्कादि (रूगे) कृते वर्णाद्युच्चारणध्वनि विशेषः १ श्रुत्य-
नन्तरभावी यः शब्दो ऽनुरणनात्मकः, स्वतो रञ्जयति</p>
<pb n="159" />
<p>श्रोतृ चित्तं स स्वर उच्यते इति रत्नाकरे ॥ ३४२२ ॥
<bold>स्वरूपयोग्यत्वं-</bold> कारणतावच्छेदकधर्मवत्त्वम्, यथा वनस्थदण्डे
<bold>स्वरूपलक्षणं-</bold> स्वरूपां(तर्गते सति व्यावर्तकम् १ ) सद्यांवर्त-
कम्, यथा प्रकृष्टप्रकाशचन्द्रः २ इतरानिरूप्यं लक्षणम् ३
स्वरूपमेवलक्षणम्, यथा सत्यज्ञानानन्दाः ॥ ३४२७ ॥
<bold>स्वरूपसंबन्धः-</bold> प्रतियोग्यनुयोग्यन्यतरात्मकः संबन्धः १ संब-
न्धान्तरमन्तरेण विशिष्टप्रतीतिजननयोग्यत्वम् ॥ ३४२९ ॥
<bold>स्वरूपासिद्धत्वं-</bold> हेत्वभाववत्पक्षतावच्छेदकत्वम् १पक्षेऽभाववश्वं
<bold>स्वरूपोपकारकं- प्रधानसाधनद्रव्यादिसंस्कारद्वारा प्रधानोपका-
रकम्, यथा ज्ञानसाधनान्तःकरण संस्कार (कं) द्वारा निष्कामकर्मानु-
ष्ठानमिति वे० १ कर्माङ्गद्रव्यदेवताद्युद्देशेन विधीयमानं कर्मेति मी०
<bold>स्वशाखात्वं-</bold> परम्परया (ध्ययनकर्मत्वम् १) नुष्ठानविषयत्वम् ।
<bold>स्वाध्यायः -</bold> आवृत्तिपूर्वकवेदाध्ययनम् १ मोक्षशास्त्राध्ययनं वा ।
<bold>स्वामित्वं-</bold> स्वत्वनिरूपितो धर्मविशेषः*१परिव्राजकोपाधिमत्त्वं
<bold>स्वारसिकलक्षणा-</bold> रूढिप्रयोजनाभाववती लक्षणा १ अधु-
नातनतात्पर्यविषयीभूतार्थनिष्ठा लक्षणा ॥ ३४४१ ॥
<bold>स्वार्थानुमानम्-</bold> न्यायाप्रयोज्यानुमानम् ॥ ३४४२ ॥
<bold>स्वार्थानुमितिः -</bold> स्वस्य व्याप्यप्रतीत्यनन्तरं व्यापकप्रत्ययः ।
<bold>स्वाहा -</bold> देवोद्देशेन हविस्त्यागः ।         [स्वस्य कारः करणं
<bold>स्वीकारः-</bold> ममेदमिति ज्ञानात्मकः संप्रदानव्यापारः १ अस्वस्य</p>
<pb n="160" />
<p><bold>*ह*</bold>
<bold>हरणत्वम्-</bold> बलाग्द्रहणपूत्रेकस्थानान्तरप्रापणत्वम् ॥३४४६॥
<bold>हरिहरः -</bold> मूर्तिविशेषः १ हरियुक्तो हर इत्यन्योन्यः ॥ ३४४८॥</p>
<lg>
  <l><bold>हर्षः -</bold> चित्तगतसुखाभिव्यञ्जिका मुखविकासादिहेतुर्धीवृत्तिः ।</l>
  <l><bold>हवनम्-</bold> देवाद्युद्देशेन मन्त्रपूर्वकं वहौ हविःप्रक्षेपः ॥ ३४५० ॥</l>
</lg>
<p><bold>हास: )</bold> कण्ठोष्ठपुटविस्फूर्जनपुरःसरमहहह इत्यट्टः १ विकृतवेष.
<bold>हास्यं )</bold> वाच्केष्टादिदर्शनजन्यसुखविशेषो रदविकासादिहेतुः ।
<bold>हिन्दुः -</bold> हिंसातो दूरं याति १ हीनं दूषयतीति मेरुतन्त्रे २ वेद-
प्रामाण्याभ्युपगन्ता ३ आसिन्धुसिन्धुपर्यन्ता यस्य भारतभू-
मिका, पितृभूः पुण्यभूश्चैव स वै हिन्दुरिति स्मृतः ॥३४५६॥
<bold>हिरण्यगर्भः -</bold> अपञ्चीकृतभूत कार्यसमष्टिसूक्ष्म शरीरः १ समष्टि-
सूक्ष्म (प्रपञ्चाभिमानी २) कारणशरीरोपहितं चैतन्यम् <error>३४५९</error><fix>॥३४५९॥</fix>
<bold>हिंसा-</bold> प्राणिवृत्तिच्छेदः * १ अविधिपूर्वकं प्राण्युपघातः २
प्राणवियोग (प्रयोजकव्यापारः ३) अनुकूलव्यापारः ॥ ३४६३॥
<bold>हेतुः-</bold> साध्यविषयकज्ञानजनक (ज्ञानविषयः १ ) वचनम् २ तृतीयान्त
पञ्चम्यन्तं वा, यथा धूमेन धूमाद्वेति ३ प्रतिज्ञावाक्यधीजन्य-
कारणाकाङ्क्षानिवतेकज्ञानजनकहेतुविभक्तिमद्वाक्यम् ॥ ३४६६॥
<bold>हेत्वाभासः -</bold> पञ्चरूपोपपन्नत्वाभावे सति तद्रूपण भासमानः १
अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषय इति ग्रं०
<bold>हेयत्वं-</bold> हानक्रियाविषयत्वम्१ 'अनुपादेय' लक्षणमप्यत्र पठनीयं
<bold>होता -</bold> ऋग्वेद (वेत्ता १ ) विहित कर्मविशेषकर्ता ॥ ३४७३ ॥</p>
<pb n="161" />
<lg>
  <l><bold>होमः-</bold> देवतोद्देशेन वह्नौ मन्त्रद्वारा द्रव्यत्यागः १ अग्निसंयोगानु-</l>
  <l>कूलक्रियानुकूलघृतादिवृत्तिनोदनादिव्यापार इति दिनकर्याम् ।</l>
  <l><bold>हंससंन्यासी-</bold> शिखावर्जितो यज्ञोपवीतजटाशिक्यैकदण्डक-</l>
  <l>मण्डलुधरः ग्रामैकरात्रः नित्यं कृच्छ्रचान्द्रायणपरः ॥ ३४७६॥</l>
</lg>
<p></bold>ही:-</bold> अकार्यप्रवृत्त्यारम्भे तत्प्रतिबन्धिका लोकलज्जा ॥ ३४७७ ॥</p>
<lg>
  <l><bold>सहजसरलां प्रेम्णा दीर्घा समस्तविशोधिनीं,</l>
  <l>सकृदपि कृपादृष्टिं सन्तो दिशन्तु भवद्विधाः ।</l>
  <l>कथमपि सती पूता सद्यस्तया विषयीकृता,</l>
  <l>मम कृतिरियं हित्वा दोषान्भवत्वतिसह्गुणा ॥ १ ॥</l>
</lg>
<p>स्थितानि ग्रन्थेषु प्रकटमुपदिष्टानि गुरुभिः,
गुणो वा दोषो वा न मम परवाक्यानि वदतः ।
परन्त्वस्मिन्नस्ति श्रमफलमिदं यन्निजधिया,
श्रुतीनां युक्तीनामकलि गुरुवाचां च विषयः ॥ २ ॥</bold>
सिद्धान्तरीतिषु मया भ्रमदूषितेन स्यादन्यथापि लिखितं यदि किञ्चिदस्य,
संशोधने सहृदयास्सदया भवन्तु सत्संप्रदायपरिशीलननिर्विशङ्काः ॥ ३ ॥</p>
<lg>
  <l><bold>यदत्र स्खलितं किञ्चित्प्रमादेन भ्रमेण वा ।</l>
  <l>तत्सर्व शोधयन्त्वार्याः कस्य न स्खलितं मनः ॥ ४ ॥</l>
</lg>
<lg>
  <l>गच्छतः स्खलनं कापि भवत्येव प्रमादतः ।</l>
  <l>हसन्ति दुर्जनास्तत्र समादधति सजनाः ॥ ५ ॥</l>
</lg>
<p>बहुच्छिद्रं परित्यज्य गुणलेशजिघृक्षया ।
परिगृहन्त्वदो विशा ॠजवो दम्भवर्जिताः ॥ ६ ॥</bold></p>
<pb n="162" />
<p>मीमांसा - ग्रन्थाः
<bold>न्यायसुधा।</bold> (तन्त्रवार्तिकटीका) श्रीमद्भट्टसोमेश्वरकृता ।
सम्पादक - श्रीमुकुन्दशास्त्री । सम्पूर्ण 1-2 भाग                1000.00
<bold>भाट्टचिन्तामणिः।</bold> श्रीगागाभट्टविरचितः । सटिप्पणः
सम्पादकः– पं. सूर्यनारायण शुक्ल                                  175.00
<error>र्विस्गहगेर्द्दि</error>. (मीमांसासूत्रस्य कांचन विस्तृता टीका)
श्रीखंडदेवविरचितः । सम्पादक – म. म. चित्रस्वामिशास्त्री । 450.00
<bold>मीमांसानुक्रमणिका।</bold> मण्डनमिश्रकृता । म. म. गंगानाथ झा रचित
'मीमांसामण्डन' मण्डिता । सम्पा.- पं. ढुण्ढिराज शास्त्री ।
सम्पूर्ण                                                                       350.00
<bold>मीमांसान्यायप्रकाशः।</bold> आपदेवप्रणीतः । छाया-ज्ञानवतीहिन्दी-
व्याख्यासहित । व्या. — डॉ. राधेश्याम चतुर्वेदी                 225.00
<bold>मीमांसापरिभाषा।</bold> श्रीकृष्णयज्वविरचितः। 'आशुबोधिनी' संस्कृत-
हिन्दी व्याख्योपेता, सटिप्पण-विमर्श-परिशिष्टादि विभूषिता ।
संस्कृत व्याख्या.- डॉ. गजानन शास्त्री मुसलगाँवकर ।
हिन्दी व्याख्या.डॉ. कमलनयन शर्मा ।                             30.00
<bold>शास्त्रदीपिका।</bold> श्रीमत्पार्थसारथिमिश्र प्रणीता । प्रत्यधिकरण-
विभक्तन्यायमालायुता । सोमनाथ प्रणीत 'मयूखमालिका' व्याख्या
सहिता । अस्याः प्रथमस्तर्कपादः। रामकृष्ण प्रणीत 'युक्तिस्रेहप्रपूरणी-
सिद्धान्तचन्द्रिका' व्याख्यायुतः
स्वोपज्ञसिद्धांतचंद्रिकागूढार्थविवरणसहितश्च ।
तर्कपाद                       250.00,                             सम्पूर्ण 775.00
Also can be had from : Chowkhamba Krishnadas Academy, Varanasi.</p>
</body>
</text>
</TEI>