हरिदास संस्कृत ग्रन्थमाला ३४१
सर्वलक्षणसंग्रह
अकाराधनुक्रमेण
सर्वतन्त्रसिद्धान्त ३४७७ पदार्थलक्षणकोशः
रचयिता
स्वामी गौरीशङ्कर भिक्षु
चौखम्बा संस्कृत सीरीज आफिस, वाराणसी
हरिदास संस्कृत ग्रन्थमाला - ३४१
॥ श्रीः ॥
सर्वलक्षणसंग्रहः
अकाराद्यनुक्रमेण सर्वतन्त्रसिद्धान्त ३४७७ पदार्थलक्षणकोश:
रचयिता स्वामी गौरीशङ्कर भिक्षु
चौखम्बा संस्कृत सीरीज आफिस, वाराणसी
प्रकाशक: चौखम्बा संस्कृत सीरीज आफिस, वाराणसी मुद्रक: चौखम्बा प्रेस, वाराणसी संस्करण: पुनर्मुद्रित, वि० सम्वत् २०६७, सन् २०१०
मूल्य: रु० ४०.००
© चौखम्बा संस्कृत सीरीज आफिस
के. ३७/९९, गोपाल मन्दिर लेन गोलघर (मैदागिन) के पास, पोस्ट बॉक्स नं० १००८, वाराणसी - २२१००१ (भारत) फोन : २३३३४५८ (आफिस), २३३४०३२, २३३५०२० (आवास) e-mail : cssoffice@satyam.net.in
अपरं च प्राप्तिस्थानम् चौखम्बा कृष्णदास अकादमी
पुस्तक - प्रकाशक एवं वितरक. पोस्ट बॉक्स नं० १११८, के. ३७/११८,
गोपाल मन्दिर लेन वाराणसी-२२१००१ (भारत) फोन : २३३५०२०.
HARIDAS SANSKRIT SERIES 341
SARVALAKṢAṆA SAṂGRAHA
PADĀRTHALAKṢAṆAKOŚA
by Swami Gaurishankar Bhiksu
CHOWKHAMBA SANSKRIT SERIES OFFICE Varanasi
Publisher: Chowkhamba Sanskrit Series Office, Varanasi.
Printer: Chowkhamba Press, Varanasi.
© CHOWKHAMBA SANSKRIT SERIES OFFICE
K. 37/99, Gopal Mandir Lane Near Golghar (Maidagin) Post Box No. 1008, Varanasi-221 001 (India) Phone: Off. 2333458, Resi.: 2334032 & 2335020 E-mail: cssoffice@satyam.net.in
Also can be had from CHOWKHAMBA KRISHNADAS ACADEMY Oriental Publishers & Distributors Post Box No. 1118 K. 37/118, Gopal Mandir Lane Varanasi-221 001 (India) Phone: 2335020
भूमिका
श्रीमतः सूत्रकारान्भाष्यकाराँस्तथा तदनुसारिणः पूर्वाचा- र्याश्च भूयो भूयो नमस्कृत्य द्वित्राः शब्दाः प्रदश्यन्ते, ये जना नानाशास्त्रनिरीक्षणे श्रमभियस्तदर्थोऽयं मे सङ्ग्रहः । तथा चायं ग्रन्थः शतसहस्रधा भूत्वा देशदेशान्तरवर्त्त्यनेकविद्वद्वृन्द- दृष्टिगोचरो भवेदेवश्च विद्यार्थिगणानां स्वल्पव्ययेन मित्रम्भवे- दिति ज्ञात्वा श्रीमत्या मनोभरिदेव्या मुद्रापयित्वा प्रकटीकृतः । अत्र कदाचिद्दृष्टिदोषेण सीसकाक्षरभङ्गाद्वा यदि कुत्रचि - तस्थलेऽशुद्धिः स्यात्तर्हि सदयीभूय सुजनैः क्षन्तव्या इति । *ॐ सङ्केतः* एतत्पुस्तकस्य प्रत्येकपृष्ठमध्ये निखिलतात्रिकलक्षणानि संस्थि- तानि, तेषाञ्च झटिति प्राप्तयेऽकारादिक्रमेण सूचीकृता । तस्या. न्तिमलक्षणस्याद्यं वर्णद्वयं पृष्ठोपरि विन्यस्तं वर्तते, तद्दृष्टिमात्रेण यदक्षरपर्यन्तं लक्षणं तस्पृष्ठारूढीभूतं तद्बोधो भविष्यति । तेनेष्ट- लक्षणानामनायासेन लाभो भविष्यतीति ।
ग्रं० मन्थान्तरे इत्यक्षरस्य ग्रहणं कृतम् । तत्तद्ग्रन्थनामानि वि- नै० नैयायिकाः स्तरभिया नोक्तानि, विशेषलक्षणसमापनात्परं मी० मीमांसकाः । विशेषलक्षणारम्भात्पूर्वञ्च तज्ज्ञापकमीदृशं वे० वेदान्तिनः पुष्पाकारचिह्नं दत्तम् । तत्रोक्तप्रसिद्धलक्षण- वै० वैयाकरणा: मेकत्वेन गणयित्वा द्व्यादिसङ्ख्याकाः स्था- त्र० त्रपठनीयम् पिता इति ।
*अनपेक्षितापेक्षितग्रन्थः* पृष्ठे पक्तौ अन० अपे० । १०५ ७ खाग खप्राग ९ १७ पोपाधि पाधी । १११ १८ लक्षि लक्षाय ६९ १२ त्वम् २ त्रैकालिकनिषेधाप्रतियोगित्वम् ३सर्वकालवृ तित्वमिति ग्रं० ४ ध्वंसाप्रतियोगिवृत्तित्वविशिष्टसत्तायोगित्वं ९८ ४ देशा वेशा । १४० १६ जानमी जानामी १०३ ८ नादीभिः नादिभिः । १४६ १३ गीत प्रगीत १२६ १८ वि नानार्थेऽव सन्देहे हरणं हार उच्यते, नाना- सन्देहहरणाद्व्यहार इति स्मृतः ४ १३३ ८ मूमि भूमि । १४८ १७ ह्यम् ३ ह्यम् १३४ १७ श्लाघाः- श्लाघा- । १५१ १८ द्रूपण द्रूपेण प्रतियोगी- यस्याभावः सः १ प्रति पूर्वं योगस्संबन्धो यस्य सः २ विरोधित्वं प्रतियोगित्वम् ३ धर्मिभिन्नत्वे सति भेद निरूपकत्वम् मदः - मत्तुल्यः कोऽस्तीति गर्वविशेषः १ मत्सदृशः कोस्तीति ह० महावाक्यं- महद्वाक्यम् १ परस्परसंबद्धार्थकवाक्यम् २ वाक्यस मुदायरूपत्वे सत्येकवाक्यमिति मी०३ जीवब्रह्मैक्यबोधकवाक्यं मूढः- इदमर्थसाधनमिदमनर्थसाधनमिति विवेकशून्यः २३३७॥२३३७॥ मूर्खः- शास्त्रज्ञानशून्यः४वेदशास्त्राधीतत्वे सति संसारासक्त: २३४४॥२३४४॥ यौगिकरूढिः- अवयवशक्तिसमानाधिकरणसमुदायशक्तिरूपा रूढिः रतिः- यूनोरन्योन्यविषयस्थायिनीच्छा ॥ २४७० ॥ लज्जा-मुखसंवरणादिकार्यजनको मनोविकार विशेषः ॥२५२५॥ लिङर्थत्वं- कार्यबुद्धिगोचरत्वे सति भावार्थसाध्यफलजनकत्वम् १ प्रवृत्तिजनकज्ञानविषयत्वम् ॥ २५४३ ॥
*अनपेक्षितापेक्षितग्रन्थः* लीला-स्त्रीणां क्रीड़ारूपो व्यापारः * ३ शृङ्गारभावचेष्टा २५४७॥२५४७॥ लोभः- परद्रव्याभिलाषः १ परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते, अभिलाषो द्विजश्रेष्ठ स लोभः परिकीर्तितः ॥ २५५५ ॥ वाक्यैकवाक्यता- अङ्गबोधकवाक्यस्याङ्गिबोधकवाक्येन सहै - कवाक्यता १ प्रत्येकं भिन्नभिन्नसंसर्गप्रतिपादकयोर्वाक्ययोरा- काङ्क्षावशेन महावाक्यार्थबोधकत्वम् । [स्मृतिजनकः विजयः- पराहकारखण्डनम् ॥ २६५१ ॥ विपर्यय:- अतस्मिँस्तत्प्र (त्ययः २)कारकनिर्णयः ॥२६८२ ॥ विराट्-पञ्चीकृतपञ्चमहाभूतकार्यसमष्टिस्थूलशरीरः १ विवादः - विरुद्धो वादः १ पक्षप्रतिपक्षपरिग्रहेण वदनम् २७२१॥२७२१॥ विवाहः - विशिष्टं वहनम् १ भार्यात्वसम्पादककर्म २ विशेषत्वं- अन्त्यव्यावर्तकत्वे सति नित्यद्रव्यमात्रवृत्तित्वम् । व्यापारत्वं- तज्ज[^१]न्यत्वे सति त (त्सहायत्वम् १ ) जन्यजनकत्वम्, व्रतम्- कियाविषयको नियमः २ शक्तः - कार्योत्पादनयोग्यः १ शक्त्याश्रयः २'वाचक'लक्षणमप्यत्र ० सर्वनामत्वं- स्वोच्चारणानुकूलबुद्धिप्रकारविशिष्टार्थबोधकत्वे सति सर्वादिगणपठितत्वम् ॥ ३२०६॥ सम्यग्ज्ञातत्वं- प्रकृतिप्रत्ययविभागादिपूर्वकज्ञानविषयताशा- लित्वम् । [वधिकपतनजन्यस्तापः सहसापतनतापः- पुण्यकर्मक्षये स्वर्गादिलोकराज्यादिपरा- सामर्थ्य - पृथगर्थानां पदानां विशिष्टार्थोपस्थितिजनकत्वम् । स्फुटत्वं - असन्दिग्धाविपर्यस्तप्रतिपत्तिविषयत्वम् ॥३३७८॥
*सम्मतयः* काशीस्थप्रधानप्रधानैकोनपञ्चाशत् (४९) पण्डितानामभिप्रायाः- ये सन्ति विषयाश्वास्मिस्ते न दृष्टाः परत्र वै, अत्रैव च समाविष्टं सर्वसिद्धान्तलक्षणम् । जगन्नाथपुरीस्थसंस्कृतकालेजाद्रामचन्द्रमिश्रः सूचयति — ग्रन्थेऽस्मि- न्नधीते सर्वविषयाणां परिभाषा ज्ञायेत, बहुग्रन्थावलोकनेन यादृशं ज्ञानं सम्पद्येत तादृशञ्च खल्वेकमिदमवलोक्यापि सञ्जायेत, अतोऽयं ग्रन्थः सर्वथा व्युत्पित्सुनामन्तेवासिनामुपयोगी भवेदिति । मैसूरस्थराजकीयपाठशालायाः केशवशास्त्रिणोऽपि बोधयन्ति - तन्त्रग्रन्थव्याख्यातृभिर्निरुक्तानिलक्षणानि तत्तत्प्रकरणानुरोधेनैव न तत्त्वतः, तत्वतः निरुक्तान्यपि नैकत्र सर्वाणि । काञ्चीतः- मञ्ज् भाषिणी ज्ञापयति — अयं ग्रन्थः कोशरूपस्सैद्धान्ति- कानां पदानां भिक्षुकेण सङ्गृहीतः, अत्र चाकारादिक्रमेण तान्त्रि- काणां बहूनां शब्दानां सङ्ग्रहस्तेषां व्याख्या च कृता वर्तते । बड़ोदा- नारायणशालायाः अमृतलालः सङ्केतयति—गूढार्थकशब्दा- नां प्रवृत्तिनिमित्तार्था: पदार्थस्वरूपनिर्धारणोपयोगीनि इतरव्यावृ त्तिबोधजनकानि च लक्षणान्यत्र सम्यगुपनिबद्धानि । OXFORD University Library - एवमन्यान्यनगरवासि- भिर्बहुभिः सुधीभिरस्य सङ्ग्रहस्य प्रामाणिकत्वमङ्गीकृतम् । तथाहि - सर्वलक्षणसङ्ग्रहः - सङ्ग्राहको भिक्षुगौरीशङ्करः । ग्रन्थेऽस्मिन्वे- दवेदाङ्गदर्शनस्मृतिपुराणकाव्यसाम्प्रदायिकविविधशास्त्रप्रतिपादित - पदार्थानां षट्सप्तत्युत्तरचतुःशताधिकत्रिसहस्र ३४७६ लक्षणानि सन्ति, एवंविधः सर्वविषयोपकारकः सुखप्रवेशसाधनभूतश्च लाक्ष- णिकनिबन्धोऽद्यावधि केनापि न विहितः ।
सङ्केतस्त्वित्थम् - मनोभरीदेवी, पुठ्ठी - प्रामः,
पत्रालय बवानीखेड, प्रदेशो हिसारः (पञ्जाब )
ॐ
सर्वतन्त्रसिद्धान्तपदार्थलक्षणसङ्ग्रहः ।
श्रीगणेशाय 'नमः, परमर्षिभ्यः' ।
त्वां विना निःस्वरूपोऽहं मां विनात्वं कथं स्थितः ! । दिष्ट्येदानीं मया लब्धो योऽसि सोसि नमोऽस्तुते ॥ १ ॥॥ १ ॥ श्रीचे[^१]तनकिङ्कराह्वश्रीमद्रामपुर्याह्वयोः ।
वन्दे पादौ तथा श्रीमद्धीरालालाह्वधीमताम् ॥ २ ॥ श्रद्धाधनेन ग्रथितं गौरीशङ्करभिक्षुणा । बोधाय वादिबाधाय विदुषां कण्ठभूषणम् ॥ ३ ॥ क्व ! ग्रन्थकरणं क्व ! त्वमिति मा वित्त पण्डिताः। सत्सङ्गानुग्रहः किं ? किं ? न करोत्येवमाह वाक् ४॥ ४ ॥ प्रज्ञाशब्दमयस्यास्य देहस्य मम दुर्जनाः । दयध्वं प्रहरध्वं तु चेदिष्टं पाञ्चभौतिके ॥ ५ ॥ प्रमाणसिद्धान्तविरूद्वमत्र यत्किञ्चनाभून्मतिमान्द्यदोषात् । मात्सर्यमुत्सार्य महानुभावाः प्रसादमाधाय विशोधयन्तु ६॥ ६ ॥ विद्वांसो यदि मम दोषमुग्दिरेयुः यद्वा ते गुणगणमेव कीर्त्तयेयुः । तुल्यं तद्बहु मनुते मनो मदीयं कष्टं तद्वन्मनुते यदाह मन्दः ॥७॥ [^१ मन्त्रगुरुज्ञानप्रदगुरुविद्यागुरून्क्रमशो नमस्यति श्री चेतनेत्यादिना ।]
दोषत्वमुज्ज्वलगुणा अपि यान्ति येषु तैरुन्नतेः किमथवेह तिरस्कृतेः किम् । दोषोऽपि येषु गुणतामुपयाति भूयाँ- स्तेभ्यो नमोऽस्तु सततं भुवि सज्जनेभ्यः ॥ ८ ॥ ननु किमर्थं लक्षणसङ्ग्रहारम्भो लक्षणानामनुपयोगादिति चेदुच्यते, अस्ति हि महानुपयोगः तथाहि — यथा विवाहे सलक्षणो वरो लक्षणवतीं कन्यामुपयच्छेतेति ।
अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत्, एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः । इत्यादिवचनैः स्त्रीपुंससामुद्रिकलक्षणानां विवाह उपयोगात् । लिङ्गं सलक्षणं पूज्यं त्यजेल्लिङ्गमलक्षणम्, तस्मात्सर्वप्रयत्नेन लिङ्गं कुर्यात्सलक्षणम् । इत्यादिवचनैर्लिङ्गलक्षणानां तत्पूजादावुपयोगात्, एवमन्येषा- मपि लक्षणानां यथासंभवमुपयोगाद्युक्त एव लक्षणसङ्ग्रहारम्भ इति । लक्षणानामुपयोग: पूर्वाचार्यैरपि दर्शितः, तथाहि ऋषयोऽपि पदार्थानां नान्तं यान्ति पृथत्कशः, लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः । किञ्च, लक्षणप्रमाणाभ्यां वस्तुसिद्धिर्न तु प्रतिज्ञामात्रेणेति न्यायादपि पदार्थलक्षणमवश्यमपेक्षणीयम् !, तत्र प्रमाणं विहाय लक्षणानि निरूपयाम इति ।
अ
अकस्मात्त्वं-कारणानधीनत्वम् १ अनिश्चितकारणकत्वं वा ॥ २ ॥ अक्रूरत्वं-मृदुत्वम् १ द्रोहशून्यत्वं वा २ वृथापूर्वपक्षादिकारिष्व- पि शिष्यादिष्वप्रियभाषणादिव्यतिरेकेण बोधयितृत्वम् ॥ ५॥ अक्षरं-न क्षरति १ वर्णस्मारकत्वे सति लिपिसन्निवेशत्वमक्षरत्वं अखण्डार्थत्वं-सजातीयविजातीयस्वगतभेदशून्यार्थत्वम् । सा- ङ्ख्यात्मन्यतिव्याप्तिवारणाय सजातीयेति, आकाशेऽतिव्याप्ति- वारणाय विजातीयेति १ त[^१]त्प्रातिपदिकार्थत्वम् २ अप[^२]र्याया- नेकशब्दप्रकाश्यत्वे सत्यविशिष्टत्वम् । घट: कलश: कुम्भ इत्यादिपर्यायानेकशब्दप्रकाश्येऽविशिष्टे घटादावतिप्रसङ्गव्यु - दासाय सत्यन्तम्, नीलो घट इत्याद्यपर्यायानेकशब्दप्रकाश्ये तादात्म्येन नीलविशिष्टे घटाद्यर्थेतिप्रसङ्गवारणार्थमविशिष्टेति अखण्डार्थबोधकवाक्यत्वं- संसर्गानवगाहियथार्थज्ञानजन- कत्वम् । राजपुरुष इत्यादौ संसर्गपरे वाक्येऽतिव्याप्तिवार- णाय संसर्गानवगाहीति १ प्रातिपतिकार्थमात्रपर्यवसायित्वं अखण्डोपाधिः- अनिर्वचनीयो धर्मः १ असमवेतत्वे सत्यनुगतस्वं अख्यातिः - न ख्याति: १ विशिष्टार्थगोचरविसंवादिप्रवृत्तिजन- कप्रकाशः २ स्वरूपतो विषयतश्चागृहीत (भेदज्ञानद्वयम् ) विवे- कानेकज्ञानत्वम् । एकविषयानेकज्ञानेष्वतिव्याप्तिपरिहारार्थं स्व-
[^१ तत्प्रातिपदिकार्थत्वं प्रकृष्टप्रकाशश्चन्द्र इति वत्तदेकमात्रवस्तुपरत्वम्
२ अपर्यायभूतायेअनेकेशब्दाः सत्यज्ञानानंदादयस्तत्प्रकाश्यत्वेसतीत्यर्थः]
रूपपदम्, समूहालम्बनज्ञानेऽतिव्याप्तिपरिहारार्थं विषयत इति विशेषणम् ३ ख्यातेरेव (भेदग्रहस्यैव ) अभावः ॥ १९ ॥ अग्निहोत्रम्-आहितेष्वग्निषु सायं प्रातश्चानुष्ठेयो होमः ॥ २० ॥ अघटकत्वम्-तद्विषयत्वाव्यापकविषयतावत्त्वम् ॥ २१ ॥ अङ्गत्वम्-अन्यार्थत्वम् १ तदीयप्रधानफलजनकव्यापारजन- कत्वे सति तदीयप्रधानफलाजनकत्वम् । घटादावतिव्याप्तिवा- रणाय सत्यन्तम् २ उपकारकत्वम् ३ वेदार्थज्ञानोपयोगित्वम् । अजहल्लक्षणा-शक्यार्थापरित्यागेन तत्सम्बन्ध्यर्थान्तरे वृत्तिः, यथा शोणो धावतीत्यत्र शोणपदस्य शोणगुणविशिष्टेश्वादिद्रव्ये । जहल्लक्षणायामतिव्याप्तिवारणाय शक्यार्थापरित्यागेनेति १ लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयबोधप्रयोजिका लक्षणा । अज्ञः - ज्ञानरहितः १ आत्मज्ञानशून्यः * २ गुरुमुखानधीत- शास्त्रः ३ श्रुतितात्पर्यानभिज्ञो वा ॥ ३१ ॥
अज्ञातं- न ज्ञातम् १ ज्ञानाभास्यम् । [क्षणमप्यत्रप● अज्ञातसत्ता-ज्ञानप्राक्कालीनविषयसत्ता १ 'व्यावहारिकसत्ता'ल- अज्ञानं- न ज्ञानम् १ कर्तव्याकर्तव्यादिविषयविवेकाभावः *२परि- षदा विज्ञातस्य वादिना त्रिरभिहितस्यापि वाक्यार्थस्याबोधः*३ कार्यमात्रोपादानत्वे सति सद[^१]सद्भ्यामनिर्वचनीयम् ४ अनादि-
[^१ सदसद्भ्यामित्युपलक्षणं, सत्त्वेनासत्त्वेन सदसदुभयत्वेन ब्रह्मणो
भिन्नत्वेनाभिन्नत्वन भिन्नाभिन्नोभयत्वन सावयवत्वेन निरवयवत्वेन
सावयवनिरवयत्रोभयत्वेन चेति नवधाऽप्यनिर्वाच्यमित्यर्थः।
]
भावरूपत्वे सति विज्ञाननिरास्यम् । उत्तरज्ञाननिवर्त्यपूर्वज्ञान- वारणायानादिरूपेति, प्रागभाववारणाय, ज्ञानाभावोऽज्ञान- मित्याशङ्कानिरासार्थं वा भावरूपेति, आत्मन्यतिव्याप्तिवा- रणाय ज्ञाननिरास्यमिति ५ मिथ्यात्वे सति साक्षाज्ज्ञान- निवर्त्यम् । ज्ञानेनेच्छाप्रागभावः साक्षान्निवर्त्यत इति वदन्तं प्रति सत्यन्तम्, अज्ञाननिवृत्तिद्वारा ज्ञाननिवर्त्यबन्धेऽतिव्याप्ति- निरासाय साक्षादिति ६ अनाद्युपादानत्वे सति मिथ्यात्वम् । ब्रह्मनिरासार्थ मिथ्यात्वमिति, मृदादिनिरासार्थमनादीति, अविद्यात्मनोः संबन्धनिरासार्थमुपादानत्वे सतीति ॥ ४२ ॥ अणुत्वं-अतिक्षुद्रपरिमाणवत्त्वम् १ सूक्ष्मपदार्थत्वे सत्यारम्भकत्वं अतिक्रमणं-मर्यादोल्लङ्घनम् १ उचितादधिकस्यानुष्ठानं वा ४६ अतिथिः- अज्ञातपूर्वगृहागतव्यक्तिः १ अज्ञाता तिथिरागमनस्यास्य अतिदेशः- एकत्र श्रुतस्यान्यत्र सम्बन्धः १ अन्यधर्मस्यान्य- त्रारोपणं वा २ स्वविषयमुल्लङ्घयान्यविषये उपदेशः ॥५१॥ अतिप्रसङ्गः- प्रकृतादन्यत्र प्रसञ्जनम् १ प्रस्तुतविषयादन्यत्र प्रसक्तिर्वा २ यस्य बोधो यत्राभिमतस्तदन्यस्यापि बोधप्रसङ्गः । अतिवादः - निरर्थकोऽतिप्रलापः १ अत्युक्तिसंस्थापकः शब्दः अतिव्याप्तिः- अल (क्ष्यावृत्तित्वम् १ ) क्ष्ये लक्षणगमनम् २ लक्ष्यवृत्तित्वे सत्यलक्ष्यवृत्तित्वम्, यथा गोः शृङ्गित्वं लक्षणं लक्ष्यगोवृत्तित्वे सत्यलक्ष्यमहिष्यादिवृत्ति ॥ ६० ॥
अतिशयतापः-स्वाधिकतरदेवतोत्कर्षदर्शने जायमानस्तापः । अतिशयोक्तिः-अतिशयनोक्तिः १ पौर्वापर्यविपर्ययत्वम् ॥६३॥ अतिन्द्रियं - इन्द्रियाग्राह्यम् १लौकिकसाक्षात्कारविषयगुणत्वन्यू- नवृत्तिसंस्कारत्वान्यधर्मसमवाय्यन्यगुण अतीन्द्रियगुणः ॥६५॥ अत्यन्तनिवृत्तिः - कारणसहितकार्यनिवृत्तिः * १ स्वप्रतियो- गिजातीयप्रागभावासमानाधिकरणनिवृत्तिः ॥ ६७ ॥ अत्यन्ताभावः-नित्यसंसर्गाभावः १ त्रैकालिकसंसर्गावच्छिन्न- प्रतियोगिताकोऽभावः, यथा भूतले घटो नास्ति । ध्वंसप्राग- भाववारणाय त्रैकालिकेति, भेदवारणाय संसर्गेत्यादि ६९॥६९॥ अत्युक्तिः- अनौचित्येनोक्तिः १ न्यायविरुद्धवाक्यम् ॥ ७१ ॥ अथर्वत्वं- ब्रह्मकर्मोपयोगिमन्त्रसमूहत्वम् ॥ ७२ ॥ अदृष्टं-कर्मजन्य (त्वे सत्यतीन्द्रियम्१) संस्कारः २ न दृष्टम् ७५॥७५॥ अद्भुतः- विस्मयः १ चकिताद्यनुभावत्वे सति हर्षादिसञ्चारी २ सिद्धस्व धर्मिणो धर्म्यन्तरावयवैर्योगः ।
अद्वैतं-न द्वैतम् १ सजातीयविजातीयस्वगतभेदशून्यम् ॥८० ॥ अधमत्वं- निन्दायोग्यत्वम् * १ भयदयालज्जाशून्यत्वम् २काम- क्रीडाविषये कर्त्तव्याकर्तव्याविचारकत्वमिति रसमञ्जर्याम् ८३॥८३॥ अधर्मत्वं- निषिद्धकर्मजन्य (त्वम्१)नरकजनकवृत्तिगुणत्वव्या- प्यजातिमत्त्वम् २ वेदबोधितानिष्टसाधनताकत्वम् । विषभ- क्षणादिवारणाय वेदेति, ब्रह्मयागादिवारणायानिष्टेति ॥८६॥
अधिकं-अधिकहेत्वादिकथनम् १योग्यपरिमाणातिक्रमित्वम् ८८॥८८॥ अधिकरणं-साक्षात्परम्परया वा क्रियाश्रयः १ कर्तृकर्मद्वारक- फलव्यापाराधारः, यथा स्थाल्यामोदनं गृहे पचतीति २ वेदवि- चारात्मको न्यायः ३ विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् निर्णय (सङ्गति) श्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् ॥९२॥ अधिकारः-अधिकं कार्यम् १ उत्तरोत्तर (साकाङ्क्षत्वम् २) संब- न्धः ३फलभोक्तृत्वे सति कर्मकर्तृत्वम् ४ यथेष्टं क्रयविक्रयादिक- र्तृत्वसंपादकस्वामित्वम् ५स्वदेशे लक्ष्यसंस्कारोपयोगिवाक्या- र्थबोधाजनकत्वे सति परदेशे तादृशवाक्यार्थबोधजनक इति वै० ६ अनेकदेहारम्भकबलवत्प्रारब्धकर्मफलत्वम् ॥ ९९ ॥ अधिकारविधिः-कर्मणः फलसंबन्धबोधको विधिः ॥१००॥ अधिकारी-तत्तत्कर्म (करणयोग्यः १)जन्यफलार्थी २ ग्रन्थप्रति- पाद्यार्थविषयकज्ञानधारणशक्तः ३ मुख्यगौणोभयप्रयोजनप्रा- प्तिकामः * ४ मलविक्षेपरहितत्वे सति साधनचतुष्टयसंपन्नत्वे सति स्वस्वरूपाज्ञानवत्त्वम् । [न्तृत्वं अधिष्ठातृत्वं-सन्निधानमात्रेण तत्तत्पदार्थानां तत्तत्कर्मसु निय- अधिष्ठानं - आश्रयः*१ अध्यस्ताधिकरणम् २ यदाधारमारोप्यं भासते तत् ३ सत्तास्फूर्तिप्रदातृ चैतन्यम् ४सविलासाज्ञान विषय इति प्र० ५स्वबुद्धिबाध्यकार्याधारः ६'आधार' लक्षणमप्यत्रप● अध्ययनं- अक्षरमात्रपाठ इति वैदिका १ सार्थाक्षरग्रहणमिति
"
मी०२ गुरुमुख (तः शास्त्रार्थज्ञानम् ३) ञ्चारणानुसायुंच्चारणम् अध्यस्तत्वं-संप्रयोगसंस्कारजन्यत्वे सति प्रत्यभिज्ञाभिन्नत्वम्। अध्यात्मशास्त्रं-आत्मानमधिकृत्य प्रवृत्तं शास्त्रम् ॥ ११८ ॥ अध्यात्मं-आत्म (संबन्धित्वमध्यात्मत्वम् १ ) [नं देहेन्द्रियादिकं क्षेत्रज्ञं ब्रह्म वाधिकृत्य वर्तमानम् । [ तादे: अध्यारोपः- वस्तुन्यवस्त्वारोपः, यथा शुक्तिकाशकलादौ रज- अध्यासः-परत्र परा[^१]वभासः १ अधिष्ठानविषमसत्ताकावभास इति परिमले २ एकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ताभाव- वत्यवभासः । स्वात्यन्ताभाववत्यवभास एतावन्मात्रोक्तौ यत्र भूतलादौ घटोऽपसारितः पुनश्चानीतस्तादृशघटादावतिप्रसङ्गः स्यादिति स्वसंसृज्यमान इत्युक्तम्, एवमपि मूलावच्छेदेन कपिसंयोगात्यन्ताभाववति वृक्षे शाखाप्रावच्छेदेन च तत्सं- सृज्यमानेऽवभासमानत्वात्संयोगस्य तत्रातिप्रसङ्गः स्यादित्यत एकावच्छेदेनेति ३ दोषजन्यत्वे (सति संस्कारजन्यः ४ ) स- त्यधिष्टानसामान्यज्ञानजन्यः ५ पारमार्थिकत्वावच्छिन्नस्वात्य- न्ताभावाधिकरणे प्रतीयमान इति तत्त्वविवेके ६ स द्विविधो ज्ञानाध्यासोऽर्थाध्यासश्च । यद्वा स्वरूपाध्यासः संसर्गाध्यासश्चे- ति द्विविधोध्यासः । तत्राद्यो रज्ज्वादौ भुजङ्गाद्यध्यास आत्मनि [^१ अवभासते इत्यवभास इति व्युत्पत्त्याऽवभासशब्दोऽर्थाध्यासपरः, अवभासतेऽर्थः (=रजतादिः) अनेनेति व्युत्पत्त्या च ज्ञानाध्यासपरः । ]
वाऽनात्माध्यासो द्वितीयस्तु स्फटिके लौहित्यस्य शङ्गे पीतिम्रोऽ नात्मनि चात्मतद्धर्मादेः, आत्मादेः पारमार्थिकत्वेन स्वरूपतोऽ ध्यासाभावात् । अथवा, प्रकारान्तरेण सोपाधिकोनिरुपाधिक- श्चेति भेदादध्यासो द्विविधः । द्विविधोप्यसौ बाह्याभ्यन्तरभेदा- त्पुनर्द्विविधः । तत्र लोहितस्फटिकादिर्बाह्यः सोपाधिको भ्रमः, जपाकुसुमादेरुपाधित्वात् । कर्तृत्वादिर्भ्रम आन्तरः, कर्मरूपेण परिणताऽविद्यारूपोपाधिकार्यत्वात् । शुक्तिरूप्यादिस्तु बाह्यो निरुपाधिको भ्रमः । आकाशादिभ्रमोऽपि बाह्यो निरुपाधिकः । अहमज्ञो ब्रह्म न जानामीत्याद्याभ्यन्तरो निरुपाधिको भ्रमः । इत्यादीनि बोद्धव्यानि, विस्तरस्तु गुरुमुखादेवावगन्तव्यः १२७॥१२७॥ अध्याहारः- प्रकृतोपयोगिशब्दकल्पनम् १ अस्पष्टार्थवाक्यस्य शब्दान्तरकल्पनाद्वारा स्पष्टकरणम् २ अश्रुतपदानुसंधानम् अध्वर्यु:-कर्मारम्भसमाप्तिकर्ता १ अध्वरं यातीति २ युनक्तीति । अनवस्था-अप्रामाणिकानन्तप्रवाहमूलकप्रसङ्गः १ उपपाद्योपपा- दकप्रवाहोऽनवधिः । चक्रकव्यावृत्त्यर्थमनवधिरिति, साकाङ्क्ष तापरिहारायोपपाद्योपपादकेति २ अव्यवस्थितपरम्परा- रोपोपाधिनोऽनिष्टप्रसङ्गः ३ पूर्वस्योत्तरोत्तरापेक्षित्वम् ४ सा द्विविधा, अधो धावन्त्यूर्द्धं धावन्ती चेति । तत्राघो धावन्ती यथा घटजनने कपालापेक्षा, कपालजनने कपालिकायास्त- ज्जनने च तदवयवानामपेक्षा एवं तत्र तत्रेति । ऊर्द्धं धावन्ती
यथा भेदः किं ? भिन्ने धर्मिणि वर्त्ततेऽभिन्ने वा, आद्येपि केन भेदेन भिन्ने कस्य भेदस्यावस्थितिरिति प्रश्ने द्वितीयभेदभिन्ने धर्मिणि प्रथमस्य, तृतीयभेदभिन्ने द्वितीयस्य, चतुर्थभेदभिन्ने तृतीयस्य, एवं तत्र तत्रापीत्यङ्गीकारे ॥ १३७ ॥ अनागतत्वं- भविष्यच्छब्दजन्यप्रतीतिविषयत्वम् ॥ १३८ । अनात्मभूतलक्षणं-यल्लक्षणं वस्तुस्वरूपाननुप्रविष्टम् यथा दण्डो दण्डिन इति जैनाः ॥ १३९ ॥ अनादरः - आदरशून्यः १ यथाकथञ्चित्प्रवृत्तिरनुत्साह इति मं० अनादिः - उत्पत्तिरहितः १ सजातीयप्रयोगपूर्वकः २ नास्त्या- दिः प्राथमिको यस्मात् । [ यस्य अनिकेतः-नियतनिवासशून्यः १ नास्ति निकेतः नियमेन वासो अनिच्छाप्रारब्धं- अकस्माजायमानम्, यथा कण्टकवेधादि १ इच्छां विना 'जायमानम् ॥ १४८ ॥
अनित्यत्वं- त्रैकालिकनिषेधप्रतियोगित्वम् १ ध्वंसप्रतियोगि ( त्वे सति प्रागभावप्र० २) वृत्तित्वविशिष्टसत्तायोगित्वम् ॥ १५१ ॥ अनिर्वचनीयः- सदसद्विलक्षणः १ निर्वक्तुमयोग्यः ॥१५३ ॥ अनिर्वचनीयख्यातिः - संदसदादिप्रकारैरनिर्वाच्यस्यैवाध्य- स्तपदार्थस्य भानम् ॥ १५४ ॥
अनिष्ठझसङ्गः- अनभिमतार्थापादनम् । [ नुपूर्वीमान् अनुकरणं-सदृशक्रियादिकरणम् १ अनु (क्रियतेनेन २ ) कार्यनिष्ठा-
अनुकूलत्वं-स्वपक्षपातित्वम् १ कार्यसहकारिकारणत्वमिति ग्रं० अनुक्रमः- कमानतिक्रमः ॥ १६१ ॥ अनुगतत्वं-एकत्वे सत्यनेकवृत्तित्वम् ॥ १६२ ॥ अनुगमः - एकस्यानेकत्र संबन्धः १ अनुगतप्रवृत्तिनिमित्तकत्वं अनुग्रहः - अभीष्टसम्पादको व्यापारः १ दुःखिनो दुःखापा- करणे प्रवृत्तिर्वा २ अनिष्टवारणपूर्वकेष्टसाधनेच्छा ॥ १६७ ॥ अनुज्ञा-निषेधाभावव्यञ्जिकेच्छा १ कर्तुरिष्टत्वे सति वञ्त्र्कनुमतत्वं अनुद्भूतत्वं- प्रत्यक्षत्वाप्रयोजकत्वम् १ अतीन्द्रिय़विशेषगुणत्वम् अनुपलब्धिप्रमाणं- योग्यत्वे सत्यनुपलम्भोऽभावप्रमाकर- णम् । अयोग्यभूतललग्नसलिलानुपलम्भनिरासाय योग्येति, यो- ग्यस्योपलम्भनिरासायानुपलम्भेति १ ज्ञानकरणाजन्याभावा- नुभवासाधारणकारणम् । अदृष्टादौ साधारणकारणेऽतिव्याप्ति- वारणायासाधारणेति, ज्ञानकरणाजन्यघटादिभावपदार्थप्र- त्यक्षानुभवासाधारणकारणे चक्षुरादावतिव्याप्तिवारणायाभा- वेति, अभावस्मृतिहेतौ संस्कारेऽतिव्याप्तिवारणायानुभवेति, अयं विद्याफलकधर्माभाववान्मूर्खत्वादित्याद्यतीन्द्रियाभावानुभ- वहेतावनुमानादावतिव्याप्तिवारणायाजन्यान्तविशेषणम् १७३॥१७३॥
अनुपसंहारित्वं- अत्यन्ताभावाप्रतियोगित्वविशिष्टसाध्यादि- कत्वम् १ किञ्चिद्विशेष्यकनिश्चयाविषयसाधकत्वे सति किञ्चिद्वि- शेष्यकनिश्चयाविषयसाध्याभावकत्वम् ॥ १७५ ॥
अनुपादेयत्वं-स्वकृतिसाध्यत्वविरहः ॥ १७६ ॥ अनुबन्धः-स्वविषयकज्ञानद्वारा शास्त्रे प्रवर्तकः १ श्रोतृप्रवृत्त्यर्थ प्रन्थादावनुबध्यमानः २मङ्गलाचरणाव्यवहितोत्तरमेव प्रन्यादा- बनुबध्यमान इति पुस्तकान्तरे ३ ग्रन्थप्रवृत्तिप्रयोजकज्ञानविषयः अनुभूतः - अनुभवविषयीभूतपदार्थः । [स्यान्यत्र ज्ञानं
अनुभूयमानारोपः- प्रत्यक्षानुभवविषयारोपः१ अन्यत्रानुभूत- अनुमतं - साधुकृतमनेनेत्याद्यनुमोदनरूपमानसपरिणामप्रदर्शनं अनुमानं- अनुमीयतेऽनेनेति १ व्याप्तिपक्षधर्मताविशिष्टलिङ्ग- ज्ञानम् २ अनुमितिकरणम् । कुठारादावतिव्याप्तिवारणायानु- मितीति, प्रत्यक्षादावतिव्याप्तिवारणायान्विति४ स्वजन्यव्या- पार ( द्वाराऽनुमिते ०) वत्तासंबन्धेनानुमितेरसाधारणकारणम् अनुमितिः - व्याप्तिज्ञानकरणकं ज्ञानम् १ परामर्शजन्यं ज्ञानम् । प्रत्यक्षादाव तिव्याप्तिवारणाय परामर्शजन्य मिति, परामर्श- ध्वंसवारणाय ज्ञानमिति २ लिङ्गज्ञानजन्यं ज्ञानम् ३ व्याप्यज्ञा- नाद्व्यापकज्ञानं वा ४ साधनधर्मदर्शनात्साध्यधर्मविशिष्टे बुद्धिः । अनुयोगी-यस्मिनभावोऽस्ति सः १ अनु पश्चाद् योगः संबन्धो यस्य सः २ विशिष्टप्रतीतिविषयविशेष्यत्वमनुयोगित्वम् ॥१९६॥
अनुवादः - भाषान्तरीयवाक्यार्थस्य भाषान्तरीयवाक्येन बोध- नम् *१उक्तस्य पुनर्वचनम्, यथा जुहोति जुहोतीत्यादि २
प्रमाणान्त ( रेण निर्णीतार्थज्ञापकः शब्दः ३ ) रावगतार्थ- बोधकोऽर्थवादः, यथाग्निर्हिमस्य भेषजमित्यादिः ॥ २०२ ॥ अनुवादकं-गृहीतमा (हिज्ञानजनकम् १) ह्यनुभवमात्रजनकं अनुवृत्तिः - उत्तरत्र संबन्धः १ दवीयस्स्थानान्तरस्थितस्या- नुसंधानमिति दिनकर्याम् २ पठितस्य पुनः पठनम् ॥२०७॥ अनुव्यवसायः-ज्ञानविषयक (ज्ञानम् १) लौकिकमानसप्रत्यक्षविषयः अनुषङ्गः- अविनाभावः * १ एकत्रान्वितपदस्यान्यत्रान्वयः २ वाक्यान्तरे जनितान्वयबोधपदस्य वाक्यान्तरेऽन्वयार्थाभि- संधानमिति मं० ३ अन्योद्देशेन प्रवृत्तस्य तन्नान्तरीयकविधया- अनुष्ठानं- विहित कर्मादिकरणम् । [ न्यसिद्धिः
अनेकं-न एकम् १ अपेक्षाबोधविषयः २एकत्वभिन्नसङ्ख्याविशिष्टं अनैकान्तिकः-साध्यसंदेहजनकपक्षधर्मताज्ञानविषयः १ विरु- द्धान्यपक्षऋत्तित्वे सत्यनुमितिविरोधिसंबन्धाव्यावृत्तः २ साधा- रणासाधारणानुपसंहार्यन्यतमः ॥ २२० ॥ अन्तः-समुदायविशिष्टः १ पूर्वस्मिन्सति यस्मात्परोनास्ति सोन्त्यः अन्तःकरणं- सर्वज्ञानादिप्रत्यक्षकरणम् १ शरीरान्तःस्थत्वे सतीन्द्रियसहायकमिति ग्रं० २ मिलितसमस्तापञ्चीकृतपञ्चमहा- भूतसात्त्विकांशकार्यत्वे सति ज्ञानशक्तिप्रधानम् ॥ २२५ ॥ अन्तःकरणशुद्धिः-परवञ्चनमायानृतादिपरिवर्जनम् ॥२२६॥ अन्तरङ्गं- अन्तर्भूत (1ङ्गकम् १) निमित्तम् २ अपरनिमित्तकत्वं
अन्तर्धानं-स्वविषयकप्रत्यक्षविरोधिव्यापारः, यथोपाध्यायाद- न्तर्धत्ते छात्रः । [व्यजनकः अन्त्यावयवी-द्रव्यानारम्भकद्रव्यम् १ अवयवजन्यत्वे सत्यवय- अन्धः - नेत्रद्वयशून्यः १ श्रुतिस्मृती च विप्राणां चक्षुषी देव- निर्मिते, काणस्तत्रैकया हीनो द्वाभ्यामन्धः प्रकीर्तितः । अन्धकारः- अन्धं करोतीति १ प्रौढप्रकाशकतेजोऽभावः २ भयदृष्टितेजोऽवरोधकारक इति ग्रं० ॥ २२८ ॥
अन्धतामिस्रः -नरकविशेषः १ अणिमादिगुणसम्पत्तौ दृष्टानु- श्रविकविषयप्रत्युपस्थाने च कल्लान्ते सर्वमेतन्नक्ष्ङ्यतीति यस्त्रासः अन्नमयकोशः- मातृपितृभुक्तान्नजशुक्रशोणितकार्य स्थूलशरीरं अन्यतमः-तत्तदवृत्तिशून्यः १ बहूनां मध्ये निर्धारितैकः ४२ अनेकभेदावच्छिन्नप्रतियोगिताकभेदः, यथा घटो घटपटगृहा- न्यतमो भवति ३ स्वेतरयावत्प्रतियोगिकभेदवत्त्वमन्यतम- त्वम् ४ तद्भिन्नत्वे सति तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वम् २३३॥२३३॥ अन्यतरः-द्वयोर्मध्ये निर्द्धारितैकः १भेदद्वया (भाववत्त्वम् २) व च्छिन्नप्रतियोगिताकभेदः, यथा घटो घटपटान्यतरो भवति ३ तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वम् । [त्समवेतः अन्यतरकर्मजसंयोगः-क्रियाभाववत्समवेतत्वे सति क्रियाव- अन्यथाख्यातिः- अतात्त्विकान्यथाभावेन वस्त्ववगाहनम् १ अन्यवस्तुनोऽन्यरूपेण भानम् २ अन्यत्र स्थितस्यान्यत्र
„
भानमिति प्रं० ३ तदभाववति तत्प्रकारकभानम् ॥ २४२ ॥ अन्यथानुपपत्तिः-स्वाभावप्रयोज्यासंभवः १ उपपादकाभा- वप्रयोज्योपपाद्यासंभवः । [ बाह्यत्वं अन्यथासिद्धिः- यस्यकारणतां विनापि सिद्धिः १कारणसामग्री- अन्यथोपपत्तिः - वैपरीत्येनोपपत्तिसाम्यम् १ उपपादकत्वेना- भिमतधर्म विनाऽप्युपपाद्यस्योपपत्तिः ॥ २४८ ॥ अन्योन्याध्यासः- अन्योन्यस्मिन्नन्योन्यतादात्म्यस्याध्यासः । अन्योन्याभावः- तादात्म्य (भावः १) संबन्धावच्छिन्नप्रतियो- गिताकोऽभावः । प्रागभावप्रध्वंसाभाववारणाय तादात्म्ये- ति २ अत्यन्ताभावव्यतिरिक्तत्वे सत्यनवधिरभावः ॥ २५२ ॥ अन्योन्याश्रयः- स्वापेक्षापेक्षित्वनिबन्धनप्रसङ्गः १ स्व[^१]ग्रद्दसापे- क्षयहसापेक्षग्रहकः,यथा महिषभिन्नत्वं गोत्वं गोभिन्नत्वञ्च महि षत्वमित्येवं लक्षणे, गोत्वज्ञानाय महिषत्वज्ञानापेक्षा, महिषत्व- ज्ञानाय च गोत्वज्ञानापेक्षेति २ अन्योन्यस्या (श्रयणम् ३) व्यव- हितान्योन्यापेक्षित्वम् । आत्माश्रयव्यावृत्त्यर्थमन्योन्यस्येति अन्वयः - परस्परमर्थागमः १ यत्सत्त्वे यत्सत्त्वम्, यथा सर्व- प्राणिहिंसनशीलित्वे सति पशुत्वाकृतिविशिष्टा काचनव्यक्ति- र्यत्र यत्र भवति, तत्र तत्र सिंहपदवाच्यता २ स्वसत्तानिय- तसत्तावत्कार्यसम्बन्धः ॥ २५७ ॥
[^१ स्वग्रद्द: स्वज्ञानम् तस्य सापेक्षोऽपेक्षाकारी यो ग्रहस्तस्य
सापेक्षोऽपेक्षाकारी ग्रहो ज्ञानं यस्य स इति ।]
अन्वयदृष्टान्तः-साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सः २५८॥२५८॥ अन्वयव्यभिचार:-कारणसत्त्वे कार्याभावः १ स्वाधिकरणवृ - त्यत्यन्ताभावप्रतियोगिकार्यकत्वम् २ स्वेतरयावत्कारणाधिकर० अन्वयव्याप्तिः- हेतुसाध्ययोर्व्याप्तिः १ हेतुसमानाधिकरणा- त्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम् ॥ २६३ ॥ अन्वयसहचारः -कारणसत्त्वे कार्यसत्त्वम् ॥ २६४ ॥
अपकर्ष:- विद्यमानधर्मापचयः १ उचितधर्मापेक्षातो हीनता । अपकारत्वं- अनिष्टोत्पादनत्वम् १ दुःखजनकव्यापारत्वं वा । अपक्षयः- अवयवहासः १उन्नतिशून्यत्वमपश्चयत्वम् ॥२७० ॥ अपश्चीकरणम्- स्वेतरभूतचतुष्टयामिश्रीकरणम् ॥ २७१ ॥ अपदेशः - अन्य (प्रकाश्यान्यस्य करणम् १ ) दुद्दिश्यान्यार्थमनुष्ठानं अपभ्रंशः - साधुशब्दस्य शक्तिवैफल्यप्रयुक्तान्यथोच्चारणयुक्तोऽ अपरत्वं-अपरव्यवहारासाधारणकारणम् । [पशब्द: अपरवैराग्यम्-ब्रह्मज्ञानान्यविषयवैतृष्ण्यम् ॥ २७५ ॥ अपरसामान्यत्वं- व्याप्यत्वम् १ न्यूनदेशवृत्तित्वम् २७७॥२७७॥ अपराधः- दण्डयोग्यकर्मकरणम् १स्वोचितकर्माकरणमिति ग्रं० अपरिग्रहः-समाध्यनुष्ठानानुपयुक्तस्य वस्तुमात्रस्यासङ्ग्रहः १ वि-
षयाणामर्जनरक्षणक्षयसङ्गहिंसारूपदोषदर्शनादस्त्रीकरणमिति ग्रं० २देहयात्रानिर्वाहकातिरिक्तभोगसाधनानामनङ्गीकारः २८२॥२८२॥ अपरोक्षज्ञानं- विषयचित्तादात्म्यापन्नं प्रमाणचैतन्यम् २८३
अपवाद:- अधिष्टाने भ्रान्त्या प्रतीतस्याधिष्ठानव्यतिरेकेणा- भावनिश्चयः, यथा शुक्त्यादौ भ्रान्त्या प्रतीतस्य रजतादेः शुक्तिव्यतिरेकेण नेदं रजतं किन्तु शुक्तिरित्यभावनिश्चयः १ अध्यारोपितस्याधिष्ठानमात्रपर्यवशेषणम् ॥ २८५ ॥ अपसिद्धान्तनिग्रहस्थानं- एकसिद्धान्तमतमाश्रित्य कथाप्र- वृत्तौ तद्विरुद्धसिद्धान्तमतमालम्ब्योत्तरदानम् ॥ २८६ ॥ अपादानत्वं- अवधिभूतत्वम् १ परकीयक्रियाजन्यविभागाश्रय- त्वम् । वृक्षात्पर्ण पततीत्यादौ पर्णादेरपादानत्ववारणाय पर- कोयेति २ क्रियानाश्रयत्वे सति तज्जन्यविभागाश्रयत्वम् २८९ अपार्थः - प्रत्येकवाक्यानामन्वितार्थत्वेपि यत्समुदायार्थशून्यः । अपूर्व- न पूर्वं दृष्टम् १ क्रियाजन्यकालान्तरभाविफलाव्यवहितपूर्वस्थं अपूर्वता- प्रकरणप्रतिपाद्यस्य मानान्तराविषयता, यथा तन्त्वौ- पनिषद् मित्यद्वितीयवस्तुन उपनिषदतिरिक्तमानाविषयता २९३॥२९३॥ अपूर्वविधिः-प्रमाणान्तरेणात्यन्ताप्राप्तार्थविधायको विधिः, यथा व्रीहीन्प्रोक्षतीति व्रीहिप्रोक्षणविधिः ॥ २९४ ॥ अपेक्षा- प्रयोजकजिज्ञासा १ स्वल्पेच्छाविषयः*२विशेष्यविशेष- णयोरन्योन्याभिसंबन्धः ३ कार्यनिमित्तयोरन्योन्याभिसंबन्धः । अपेक्षाबुद्धिः - विनाशकविनाशप्रतियोगिनी बुद्धिः १ अनेकै- कत्वविषयिणी बुद्धिरिति ग्रन्थान्तरे ॥ २९८ ॥ अपोहः- प्रतिकूलतर्केण प्रकृततर्कापिनयनम् १ शिष्यस्य मिथ्या-
ग्रहणापाकरणसामर्थ्यम् २ सिद्धान्तप्रतिपक्षनिराकरणसामर्थ्यम् अपौरुषेयत्वं- वाक़्यार्थज्ञानापेक्षोच्चारणकमात्रप्रत्त्यानुपूर्वीशू- न्यत्वम् १ सजातीयोच्चारणानपेक्षोच्चारणकवृत्त्यानुपूर्वीरहित- त्वं वा २ स्वानुपजीविप्रमाणजन्यसमानप्रकारविशेष्यकोच्चार- णसापेक्षोञ्चारणविषयत्वम् ३ पूर्वकल्पीयानुपूर्वीसमानानुपूर्वी- घटितत्वमिति वे० ४ स्वसजातीयोच्चारणसापेक्षोच्चारणसामा- न्यकत्वम् ५ सम्प्रदायाविच्छेदत्वे अविच्छिन्नव्यवहारत्वे वा सत्यस्मर्यमाणकर्तृकत्वम् । अज्ञातकर्तृके जीर्णकूपारामादौ व्य- भिचारवारणाय संप्रदायाविच्छेदत्वे सतीति, भारतादिषु व्यभिचारपरिहारायास्मर्यमाणकर्तृकत्वमिति मीमांसकाः अप्रतिभानिग्रहस्थानं- उत्तरापरिस्फूर्ति: १ उत्तरार्हं परोकं बुद्ध्वाप्युत्तरस्यास्फूर्तिवशात्तूष्णीम्भाव इति ग्रं० ॥ ३०९ ॥ अप्रामाण्यं-दोषसहकृतज्ञानसामग्रीजन्यम् १ तदभाववति तत्प्र- कारकत्वम् । प्रमायामतिव्याप्तिवारणाय तदभावेति ॥३११॥ अबाध्यत्वम् - त्रैकालिकनिषेधाप्रतियोगित्वम् ॥ ३१२ ॥ अभयदानम्- अनन्तप्राणिगणानुग्रहकरं वसत्यादिदानमिति जैनाः १मा भैषीरित्यादिशब्दप्रयोगपूर्वकं भयनिवारणम् ३१४॥३१४॥ अभानावरणं- न भातीत्याकारकाभानप्रयोजकीभूतमावरणम् अभावः- +नञ्शब्दोल्लेखिप्रतीतिविषयः १ प्रतियो (ग्यारोपितसं. पर्गजन्यप्रती० २) गिनिरूपणाधीननिरूपणक इति ग्रं० ३ संब-
न्धतादृश्यभिन्नत्वे सति प्रतियोगि(ज्ञानाधीनज्ञानविषय:४) सा- पेक्षप्रतीतिविषयः। [घटाभावप्रमा भूतले जायते अभावप्रमा- योग्यानुपलब्धिकरणिका प्रमा, यथा घटाद्यनुपलब्ध्या अभिचारः - मारणोच्चाटनादिफलकतान्त्रिकप्रयोगविशेषः ३२१॥३२१॥ अभिज्ञाज्ञानं - इदन्तामात्रावगाहिज्ञानम् १ विषयसंबद्धेन्द्रि- यजन्यं ज्ञानम्, यथाऽयं घटोऽयं पट इत्यादि ॥ ३२३ ॥ अभिधानत्वम्-अन्वयबोधफलकशब्द प्रयोगत्वम् ॥३२४॥ अभिधानविधिः-लिङ्गादिघटितं वाक्यम् ॥ ३२५ ॥
अभिधानानुपपत्तिः- अनुपपद्यमानवाक्यैकदेशश्रवणात्तदुप- पादकीभूतार्थान्तरकल्पनम्, यथा द्वारमित्यस्य वाक्यैकदेशस्य पिधेहीति पदार्थान्तरकल्पनमन्तरानुपपत्त्या तत्कल्पनम् ३२५॥३२५॥ अभिधेयः - वाक्यार्थः१ शास्त्रजप्रमानिवर्त्याज्ञानगोचरः ३२७॥३२७॥ अभिधेयविधित्वं- कृतिसाध्यत्वे सतीष्टसाधनत्वम् ॥ ३२८॥ अभिनयः- अङ्गुल्यादिनिर्देशेन पदार्थप्रकाशनम् ॥ ३२९ ॥ अभिनिवेशः - आयुरभावेप्येतैः शरीरेन्द्रियादिभिरनित्यैरपि वियोगो मे माभूदित्याविद्वदङ्गनाबालं स्वभाविकः सर्वप्राणि- साधारणी मरणत्रासः १ स्वीकृतस्य पुनस्त्यागासहिष्णुत्वम् । अभिन्नत्वं- भेदा (भावविशिष्टत्वम् १)नधिकरणत्वम् ॥३३३॥ अभिन्ननिमित्तोपादानं-निमित्तञ्च तदुपादानं चेति निमि- तोपादानम्, अभिन्नञ्च तन्निमित्तोपादानं चेति ॥ ३३४ ॥
1
अभिभवः- बलवत्सजातीय (संबन्धकृतमग्रहणम् १ ) तिरस्करणं अभिमानत्वं- परावज्ञाहेतुत्वम् १ आत्मन्युत्कर्षारोपत्वं वा ३४०॥३४०॥ अभिमुखं- मुखस्य पुरो देशे १ अनुकूलार्थसंमुखीभवनम् ३४२॥३४२॥ अभिलाषः- इष्टविषयकतृष्णा १प्रीत्याश्रयकर्तृककिञ्चिद्विषयकेच्छा अभिवादनं - नामोच्चारणपूर्वकनमस्कारः १ पादस्पर्शपूर्वकन • अभिव्यक्तिः-सूक्ष्मरूपेण स्थितस्य कारणस्य कार्यरूपेणावि- र्भावः १ कार्यस्यास्ति प्रकाशते इति व्यवहारः ॥ ३४७ ॥ अभिव्यञ्जकः- अस्तिव्यवहारजनकः १ 'व्यजक' लक्षणमप्यत्रप० अभिहितानुपपत्तिः- अनुपपद्यमानसमग्रवाक्यश्रवणात्तदुप- पादकीभूतार्थान्तरकल्पनम्, यथा तरतिशोकमात्मविदिति प्रमातृत्वादिबन्धस्य शोकोपलक्षितस्य ज्ञाननिवर्त्यत्वश्रवणा- च्छोकस्य मिथ्यात्वमन्तरानुपपद्यमानाच्छोकस्य मिथ्यात्वकल्प- नम्, यथा वा ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिवाक्य- श्रवणाददृष्टस्य प्रकल्पनम् ॥ ३४९ ॥ अभीष्टं - सत्कारपूर्वक कर्म *१ स्वकर्तव्यताप्रयोजकेच्छाविषयः । अभ्यागतत्वं- भिन्नस्थानीयत्वे सति स्वस्थानागतत्वम् ॥ ३५२॥ अभ्यासः- पुनः पुनरनुशीलनम् १ ध्येये वस्तुनि चित्तस्य स्थिरीकरणार्थो यत्नः * २ प्रकरणप्रतिपाद्यस्य पुनः पुनः प्रतिपादनम्, यथा तत्त्वमसीति नवकृत्वोऽभ्यासः ॥३५५॥ अभ्युपगमवादः- वादिबलनिरीक्षणार्थमनिष्टस्यापि स्वीकरणं
अयथार्थानुभवः- दुष्टसामग्रीजन्योऽनुभवः १ बाधितार्थविष- यकानुभवः, यथा शुक्ताविदं रजतमिति ज्ञानम् ॥ ३५८ ॥ अयुतसिद्धिः- असम्बद्धयोरविद्यमानत्वम् ॥ ३५९ ॥ अयोनिजशरीरं- शुकशोणितसन्निपातानपेक्षं शरीरम् ३६०॥६३०॥ अरणिः- घर्षणद्वाराग्निजनककाष्ठम् १ ऋच्छतीति २ ऋ अनिः अरिः- स्वकृतापकारमनपेक्ष्य स्वभावकौर्येणापकर्ता ॥३६२॥ अर्थ:- ज्ञानविषयः १ एकैकेन्द्रियमात्रग्राह्यविशेषगुणः । २ अर्थ्यते प्रार्थते प्राणिभिरिति, यथा वित्तादिः ॥ ३६५ ॥ अर्थपुनरुक्तं - समानार्थकभिन्नानुपूर्वीकशब्दस्य निष्प्रयोजनं पुनरभिधानम् , यथा घटः कलश इति ॥ ३६६ ॥ अर्थवादः - विध्य ( धोनप्रवृत्त्युत्तम्भकत्वम् १ )समभिव्याहृतवा- क्यम् २ प्रकरणप्रतिपाद्यस्य प्रशंसनम्, यथा येनाश्रुतं श्रुतं भवतीत्यद्वितीयवस्तुप्रशंसनम् ३ प्राशस्त्यनिन्दान्यतरपरं वाक्यं अर्थाध्यासः- प्रमाणाजन्यज्ञानविषयत्वे सति पूर्वदृष्टसजा- तीयाध्यासः, यथा शुक्तौ रजताभ्यासः । स्मर्यमाणगङ्गादावभि- नवघटे चातिव्याप्तिनिरासाय प्रमाणेत्यादिपदद्वयम् ३७१॥३७१॥ अर्थाध्याहारः- आकाङ्क्षितार्थानुसन्धानम् ॥ ३७२ ॥ अर्थान्तरनिग्रहस्थानं- प्रकृतानुपयुक्तार्थकथनम् ॥ ३७३ ॥ अर्थापत्तिप्रमा- अन्यथानुपपन्नदर्शनादुपपादके बुद्धिः १ अनुपपद्यमानार्थज्ञानात्तदुपपादकीभूतार्थान्तरकल्पनम्, यथा
दिवाऽभुजानस्य देवदत्तस्य रात्रिभोजनं विनानुपपद्यमान- पीनत्वज्ञानात्तदुपपादकरात्रिभोजनकल्पनम् २ सम्पाद्यज्ञान- प्रभवं सम्पादकज्ञानम् ३ अर्थस्य पदार्थविशेषस्य आपत्ति- र्ज्ञानमिति तत्पुरुषसमासेनार्थापत्तिशब्दः प्रमापरः, अर्थस्या- पत्तिर्यस्मादिति बहुव्रीहिणा प्रमाणपरः ॥ ३७७ ॥ अर्थापत्तिप्रमाणं- उपपादक (प्रमाकरणम् १ ) कल्पनाहेतुभूतो- अर्थार्थी- अपूर्वैश्वर्यकामः [पपाद्यज्ञानं अर्पणं - निवेशनम् १ स्वत्वत्यागानुकूलव्यापारो वा ॥ ३८२ ॥ अलङ्कारः- शब्दार्थयोः शोभाकारकः १ काव्यत्वाव्यापकत्वे सति शब्दार्थगतसौन्दर्यातिरेकजनकरसाद्युपकारकशब्दार्थधर्मः । अलाभविजयः-अलाभेऽपि लाभवत्संतोष इति जैनाः ३८५॥३८५॥ अलीकत्वम्- ज्ञानाविषयत्वम् १ सर्वदेशकालनिष्ठात्यन्ताभाव- प्रतियोगित्वे सति सत्तादात्म्यशून्यत्वमिति ग्रं० २ तादृशप्र- तियोगिताविशिष्टत्वे सत्यप्रतीयमानत्वम् ॥ ३८८ ॥ अलोकाकाशः -लोकत्रयाद्बहिः यत्र केवलमाकाशद्रव्यं वर्तते इत्यार्हताः । [धनताश्रयान्यः अलौकिक:- विधिमन्तरा रागादिप्राप्तभिन्नः १ लोकावगतेष्टसा- अल्पं-परिच्छिन्नम् १ यस्य वस्तुनः यावती इयत्ता उचिता ततो न्यूनं अवकाशः- आवरणाभावः १अवस्थितियोग्यतासंपादकोऽवसरः अवग्रहः - समस्तपदस्यावान्तरपदविच्छेदः ॥ ३९५ ॥ अवघातः - ताडनमात्रम् १ व्रीहिसंस्कारार्थव्यापाइति ग्रं०
अवच्छिन्नत्वं सङ्कुचितत्वम् * १ तत्तत्पदार्थ विशिष्टत्वम् ३९९॥३९९॥ अवच्छेदः - विशेषणोपाधिना विशेषकरणम् ॥ ४०० ॥ अवच्छेदकत्वं- अनतिरिक्तदेशवृत्तित्वम् १ अवच्छित्त्यन्यूनान- तिरिक्त (वृत्तिर्धर्म: २ ) कालीनविशेष्यसंबन्धवत्त्वमिति ग्रं० अवतरणत्वं- ग्रन्थप्रस्तावार्थं प्रथममुपोद्धातः १ वक्तव्यार्थविषयकजिज्ञासोत्थापकत्वम् ॥ ४०५ ॥ अवतरणिका- ग्रन्थप्रस्तावार्थं प्रथममुपोद्धातः १ वक्तव्यार्थविषयकजिज्ञासोत्थापकत्वम् ॥ ४०५ ॥ अवतारः- देवानामंशावेशवशेन प्रादुर्भावः १ उत्कृष्टावस्थात्या- गित्वे सति निकृष्टावस्थाग्रहणमिति ग्रं० २ सर्वथाऽविलुप्तज्ञान- क्रियाशक्तित्वे सति साक्षान्मायिकविलासवत्त्वमवतारत्वम् ४०८॥४०८॥ अवतारप्रयोजनं- स्वादृष्टारचितपूर्वकसाध्वसाधुसुखदुःखहेतुत्वं अवधानत्वम्-विषयान्तरसञ्चाराभावत्वम् ॥ ४१० ॥ अवधारणं- एकाकारावगाहिज्ञानम् १ अन्ययोगव्यवच्छेदः ४१२॥४१२॥ अवधि:- अपादानभूतः ४१ स्वाभिधेयापेक्षया विभागाश्रयः । अवयवः - समुदायस्यांशरूपः १ अवच्छिन्नपरिमाणवान् * २ तृतीयलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकशाब्दज्ञानजनक- वाक्यम् ३ साधनवत्ताप्रयुक्तसाध्यवत्तानुभावक इति ग्रं० ४ द्रव्यारम्भकद्रव्यत्वमवयवत्वम् ५ उपकरणमात्रत्वम् ॥ ४२० ॥ अवयवित्वं- अवयवजन्यद्रव्यत्वम् । [वक्तव्यत्वं अवसरसङ्गतिः- प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्त्यनन्तर- अवसानं- स्वाभाविकार्धमात्राकालव्यवायेन वर्णोच्चारणाभावः। अवस्था- कालादिकृतपरिणामान्तरदेहादेर्दशा १ आदन्तज-
नानाच्छिशुत्वम् २ पञ्चवर्षान्तं कौमारम् ३ दशवर्षान्तं बाल्यम् ४ आपञ्चदशाब्दात्कैशोरम् ५ षोडशाब्दात्परं यौवनम् ६ षष्टिवर्षात्परं वृद्धत्वम् । [प्यत्रपठनीयं अवस्थाज्ञानं- विषयचैतन्यावरकमज्ञानम्१ 'तूलाविद्या'लक्षणम- अवान्तरत्वं व्याप्यत्वम् १ प्रधानान्तःपातित्वम् ॥ ४३३ ॥ अवान्तर तात्पर्य - मुख्यतात्पर्यविषयसिद्धावुपायभूतार्थे तात्पर्य अवान्तरप्रकरणं-अङ्गभावनासम्बन्धिप्रकरणम् ॥ ४३५ ॥ अवान्तरप्रलयः- 'नैमित्तिकप्रलय' वदस्य लक्षणमनुसंधेयम् । अवान्तरवाक्यं- तत्त्वंपदार्थान्यतरबोधवाक्यम् ॥ ४३७ ॥ अवाप्तिः - संयोगविशेषः १ स्वाधीनोच्चारणक्षम (= योग्य ) त्वम् अविगीतत्वं- वेदानिषिद्धत्वम् १ बलवदनिष्टाननुबन्धित्व वा । अविद्या स्वाश्रयव्यामोह (हेतुः १)करी* २ रजस्तमोऽभिभूत- मलिनसत्त्वप्रधाना * ३ असत्प्रकाशनशक्तिः ॥ ४४४ ॥ अविद्यावृत्तिः- साक्षादविद्योपादाना वृत्तिः ॥ ४४५ ॥ अविनाभावः- व्याप्यनिष्टव्यापकनिरूपितधर्मः ॥ ४४६ ॥ अवीतानुमानं-निषेधमुखेन प्रवर्त्तमानं सन्निषेधकम् ॥ ४४७ ॥ अव्यभिचारित्वं- साध्यवदन्यावृत्तित्वम् १ साधनसमानाधि- करणात्यन्ताभावाप्रतियोगित्वमिति ग्रं० ॥ ४४९ ॥ अव्ययः - आद्यन्तशून्यः १ न विद्यते व्ययो विनाशो धर्मतः स्व- रूपतोऽवयवतो यस्य सः । [कसमासः
अव्ययीभावसमासः - नियमतः पूर्वपदार्थविशेष्यकबोधजन-
अव्यवहितत्वं- साक्षात्संबन्धः १व्यवधानाभाववत्त्वम्॥ ४५४॥ अव्याप्तिः - लक्ष्यैकदेशावृत्तित्वम्, यथा गोः कपिलत्वं लक्षणं श्वेतगवादौ लक्ष्यैकदेशेऽवृत्ति १ लक्ष्यतावच्छेदकसमानाधिक- रणात्यन्ताभावप्रतियोगित्वम् ॥ ४५६ ॥ अव्याप्यः - व्याप्तिशून्यः १ व्याप्याभाववद्वृत्तिर्वा ॥ ४५८ ॥ अव्याप्यवृत्तित्वं- स्वात्यन्ताभावसमानाधिकरणत्वम् १स्वाधि- करणनिष्ठात्यन्ताभावप्रतियोगित्वमिति ग्रं० ॥ ४६० ॥ अव्युत्पन्नत्वं- सिद्धिशून्यत्वम् * १ पदज्ञानरहितत्वम् ॥ ४६२॥ अशुचित्वं - वैदिककर्मानर्हत्वप्रयोजको धर्मविशेषः ॥४६३॥ अशुद्धः - निषिद्धानुष्ठाता * १ व्याकरणादिलक्षणाननुसारी । अशुद्धि: - कर्तृद्रव्यादेः स्पर्शनाद्यनर्हतापादको दोषविशेषः । अशुभवासना- निषिद्धनिषिद्धसमविद्याकर्मतत्संस्कारतत्फलसं- स्काररूपा । निषिद्धा विद्या स्त्रीचिन्तनादिरूपा, निषिद्ध- समा यदृच्छयाकाकविडालाद्यवेक्षणात्मिका, निषिद्धं कर्म पलाण्डुभक्षणादि,निषिद्धसमं तृणच्छेदनादि, एतेषां चतुर्णां सं- स्कारास्तथैतेषां ततोपि पूर्वजन्मकृतानां यानि जन्मान्तरे फलानि नरकाद्याप्तिरूपाणि तेषां च संस्कारा इत्यशुभवासनोदाहरणानि अशेषः - शेषहीनः १ विधेयशून्यावृत्च्युद्देश्यतावच्छेदकः ॥४६९ ॥ अशौचं- शरीरमनसोर्मालिन्यम् १ विहितकर्मानधिकारित्वसंपादकं अश्रद्धा- गुरुशास्त्रोपदिष्टेऽर्थे इदमेवं न भवत्येवेति विपर्ययबुद्धिः
असत्ख्यातिः- असत (शून्यस्य) एवाध्यस्तपदार्थाकारेण भानं असत्यत्वं- प्रागभावप्रतियोगित्वम्१वस्तुस्वभावविरोधिधर्मः । असत्वं- सर्वदेशकालसंबन्धिनिषेधप्रतियोगित्वम् १ सद्वैलचण्ये सत्यपरोक्षप्रतीत्यविषयत्वमिति ग्रं० २ सत्तास्फूर्तिशून्यत्वम् । असदावरणं-(कूटस्थः) नास्तीत्यसत्त्वप्रयोजकीभूतमावरणम् । असदुत्तरम्- दुष्टमुत्तरम् १ उत्तरव्याघातकमुत्तरमिति ग्रं० असभ्यः - सभायामनुपयुक्तः ॥ ४८३ ॥ असमवायिकारणं-कार्यकारणभावसंबन्ध्येकाथसमवेतकारणं असंबद्धः - संबन्धरहितः १ परस्परम (न्वयाभावः २) नन्वितः । असंभवः-अनुपपन्नः*१लक्ष्यमात्रा(वर्तनम्२ ) वृत्तित्वम्, यथा गोरेकशफवत्त्वलक्षणं लक्ष्यगोमात्रावृत्ति, गोर्द्विशफवत्त्वात् ३ लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वम् ॥ ४९१ ॥ असम्भावना- बलवन्निषेधकोटिकः संशयः ॥ ४९२ ॥ असाधारणकारणत्वं- कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यता- निरूपितकारणताशालित्वम् १ कार्यतावच्छेदकावच्छिन्नकार्या- नुत्पादकत्वे सति कार्यविशेषोत्पादकत्वमिति ग्रं० ॥ ४९४ ॥ असाधारणधर्मत्वम् - तद्वृत्तित्वे सति तदितरावृत्तित्वम् १ लक्ष्यतावच्छेदक (समनियतत्वम् २) व्यापकत्वे सति लक्ष्यता- वच्छेदकव्याप्यत्वम् । अव्याप्त्यसंभवग्रस्तयोर्वारणाय सत्यन्तम्, अतिव्याप्तस्य वारणाय विशेष्यम् ॥ ४९७ ॥
असूया-गुणेषु दोषाविष्करणम् १परकीयगुणेषु दोषारोप इति ग्रं० असंसक्तिज्ञानभूमिका-सविकल्पकसमाध्यभ्यासेन निरुद्धे मनसि निर्विकल्पकसमाध्यवस्था ॥ ५०० ॥
अस्तित्वम्- सत्तावत्वम् १ कालसम्बन्धित्वं वा ॥ ५०२ ॥ अस्तेयं- परस्वानपहरणम् १ अदत्तादानरूपपरस्वहरणराहित्यं अस्त्रं - रिपुकर्तृकप्रहारसाधनम् १ मन्त्राभिमन्त्रितत्वमस्त्रत्वम् । अस्पष्टब्रह्मलिङ्गकत्वं-संभाव्यमानस्वारस्यजीवलिङ्गाभिभूत- ब्रह्मलिङ्गकत्वम्, यथा सर्वत्र प्रसिद्धाधिकरणे जीवे विषये स्वरसानि मनोमयत्वादीनि सत्यकामत्वादिब्रह्मलिङ्गान्यभिभवन्तीति । अस्मिता-बुद्ध्यादावभेदाभिमानः १ अहङ्कार (स्य सूक्ष्मा- वस्था २) धर्म्यध्यासः ३ सामान्याहङ्कारत्वमस्मितात्वम् ५११॥५११॥ अहङ्कारः- अभिमानात्मिकान्तःकरणवृत्तिः १ अह (मितिक्रिय- तेऽनेनेति २) मुत्कृष्टेत्याकारकसंस्कारः ॥ ५१४ ॥ अहङ्ग्रहोपासना-उपास्यस्वरूपस्य स्वाभेदेन चिन्तनम्५१५॥५१५॥ अहिंसा-वाङ्भनः कायैः सर्वभूतानामनभिद्रोहः १ प्राणवियोगप्र- योजकव्यापारराहित्यमिति ग्रं० २ अशास्त्रीयप्राणिपीडनाभावः *आ* आकाङ्क्षा- वाक्यसमयग्राहिका १ अन्वयानुपपत्तिरिति ग्रं० २ येन पदेन विना यस्य पदस्यान्वयबोधाजनकत्वं तेन तस्य समभिव्याहारः, यथा द्वारमित्यनेन पिधेहीत्यादेः ३ तादृश-
शाब्दबाँधे तादृशशाब्दबोधाभावः ४ अन्वयबोधसमर्थत्वे सत्यजनिततात्पर्यविषयान्वयबोधकत्वमाकाङ्क्षात्वम् ॥५२२॥ आकारमौनम्-अवचनमात्रमौनम् ॥ ५२३ ॥ आकाशं - आवरण (भावाधिकरणम् १)विरोध्यवकाशः २ शब्द- (समवायिकारणम् ३) गुणकम् । असभववारणाय शब्दगुणोभयम् ४संयोगाजन्यजन्यविशेषगुणसमानाधिकरण विशेषाधिकरणम् । आकृतिः -अवयवसं ( निवेशविशेषः १) स्थानविशेषः ॥५३०॥ आक्षेपः-प्रतिषेधपुरःसरोक्तिः १ समानवित्तिवेद्यत्वम् ५३२॥५३२॥ आख्यातत्वं-सुब्भिन्नत्वे सति सङ्ख्याबोधकप्रत्ययत्वम् ५३३॥५३३॥ आख्यानम्-पूर्ववृत्तकथनम् १ स्वयं दृष्टार्थकथनं वा ॥५३५॥ आख्यायक:- परोक्तस्यान्यत्र कथकः ॥ ५३६ ॥ आख्यायिका-कथाविशेषः १ उपलब्धार्थबोधिकेति ग्रं० आगम:- अवयवत्वावच्छिन्नविधेयताश्रयः * १ समयबलेन सम्यक्परोक्षानुभवसाधनम् २ संदिग्धार्थसिद्धिहेतुरिति ग्रं० ३ आगतं शिववक्त्रेभ्यो गतं च गिरिजाश्रुतौ, मतं च वासुदेवस्य तस्मादागममुच्यते ॥ ५४२ ॥ आगमनं- प्रयोक्तृसन्निकृष्टप्रदेशानुयोगिकसंयोगानुकूलव्यापारः आग्रहः-विरुद्धार्थविषयकोऽभिनिवेशः १ दुष्टादुष्टविषयकोऽ० आचार:- समयानुकूलव्यापारः १धर्माविरुद्धशारीरिकव्यापारो वा आचार्य :- मतप्रस्थापकः १ मन्त्रव्याख्याकृद्वा २ आचितोति
Ne
च शास्त्रार्थमाचारे स्थापयत्यपि, स्वयमप्याचरेद्यस्तु स आचार्य इति स्मृतः ३ स त्रिविधः - चोद[^१]को दर्शयेन्मार्ग बोध[^२]कः स्थानमाचरेत्, मोक्ष[^३]दस्तु परं तत्त्वं यज्ज्ञात्वा परमश्नुते । आज्ञा- निकृष्टस्य भृत्यादेः कृत्यादौ प्रवृत्त्यर्थव्यापारा: १ वक्रनुमतत्वे सति कर्तुरनिष्टहेतुत्वमाज्ञात्वम् ॥ ५५३ ॥ अज्ञाकारी- आज्ञानुसारेण कर्मकर्ता ॥ ५५४ ॥ आज्ञाभङ्गः- आदेशान्यथाकरणम् १ स्वविषयेषु प्रचाराभावः । आडम्बरः- परवञ्चनार्थकृत्रिमबहुविधचेष्टितम् ॥ ५५७ ॥ आत्मख्यातिः - विज्ञानात्मन एवाध्यस्तपदार्थाकारेण भानम् । आत्मघाती- व्यापादयेद्वृथात्मानं स्वयं योग्नयुदकादिभिः, अवैधेनैव मार्गेण आत्मघाती स उच्यते ॥ ५५९ ॥ आत्मज्ञानं- प्रत्यगात्मनि देहाद्यतिरिक्तत्वप्रकारको देहादौ वा प्रत्यगात्मातिरिक्तत्वप्रकारको निश्चयः । [हेतुर्मदः आत्ममदः - अहङ्कारभरितस्य विद्यादिभिर्मम समः को वेतिप्रज्ञा- आत्मा - चैतन्याश्रयः १ अमूर्तसमवेतद्रव्यत्वापरजातिमानिति नै० २ सर्वदेहेषु पूर्ण: ३ अहंप्रत्ययविषयः ४ स्वयंप्रतीतिविषय- त्वमात्मत्वम् ५ परमप्रेमास्पदत्वमिति वै ० ६ यच्चाप्नोति यदादत्ते यञ्चात्तिविषयानिह यच्चास्य संततो भावस्तस्मादात्मेति कथ्यते आत्माश्रयः- स्वग्रहसापेक्षग्रहकः १ स्वापेक्षापादक प्रसङ्गः, यथा
"
ज्वरोपसर्गयुक्ते रोगो ज्वर इत्युक्तौ ज्वराज्ञानवन्तमुद्दिश्य ज्वरे लक्षणीये ज्वरज्ञानापेक्षायां तदभावात्कथं ज्वरोपसर्गज्ञानं संभविष्यति २ स्वस्याव्यवहितस्वापेक्षित्वम् ॥ ५६९ ॥ आत्यन्तिकदुःखनिवृत्तिः- स्वाधिकरणदुःखप्रागभावासमा नाधिकरणा दुःखनिवृत्तिः १ यादृश्या दुःखनिवृत्तेरुत्तरं पुन- र्दुःखान्तरं नोत्पद्यते तादृशी दुःखनिवृत्तिरिति ग्रं० ॥ ५७० ॥ आत्यन्तिकप्रलयः - ब्रह्मसाक्षात्कारनिमित्तकः सर्वमोक्षः १ अज्ञानसहितसकलभावकार्योच्छेदः । [प्रथमं दीयते गृह्यते आदिः- समुदायविशिष्टः १ परस्मिन्सति यस्मात्पूर्वोनास्ति सः २आ- आदेश:- शासनम् १ स्थान्यर्थाभिधानसमर्थः ॥ ५७७ ॥ आधारः - अधिकरणम् १पतनप्रतिबन्धकः * २ शवले संसृष्टतया- ध्यस्तोऽधिष्टानांश: ३ अध्यस्तेन सहाभिन्नप्रतीतिविषयः ५८१॥५८१॥ आधिदैविकतापः-देवान् यक्षादीन् दिवःप्रभवान् वातवर्षा- तपशीतोष्णादीन् वाऽधिकृत्य जायमानस्तापः ॥ ५८२ ॥ आधिभौतिकदुःखम्-भूतानि जरायुजाण्डजस्वेदजोद्भिज्ज- रूपाणि शौरवैरिकुक्कुरसिंहव्याघ्रमहिषपक्षिसर्पयूकादंशमशक- वृश्चिकनक्रमकरवृक्षशिलाप्रभृतीनि चराचरजातीयानि अधि- कृत्य = निमित्तीकृत्य जायमानं दुःखम् ॥ ५८३ ॥ आध्यात्मिकतापः- शरीरमनसी अधिकृत्य जायमानस्तापः । आनन्दः-दुःखाभावः*१ सात्त्विकैकाग्रवुद्धिप्रतिबिम्बितः सुख-
रूप आत्मा २ निरुक्तात्मप्रतिबिम्बिता वृत्तिर्वा ३ निरुपाधिकेष्टत्व आनन्दमयकोशः- सुखाकारवृत्तिमदन्तःकरणमज्ञानपर्यन्तम् १ आनन्दप्रचु (रः कोशः २ ) रत्वे सति कोशवत्प्रत्यच्केतनाच्छादकः आनुपूर्वी-तदुत्तरत्वविशिष्टतदुत्तरत्वादि २ तदुच्चारणानन्त- रोच्चारणविषयत्वम् ॥ ५९४ ॥
आनुषङ्गिकं- उद्देश्यान्तरप्रवृत्तस्य तत्कर्मनान्तरीयकतया प्राप्तम् आपत्तिः- सम्यग्वर्त्तनोपायानुपलम्भः ॥ ५९६ ॥ आपातत्वं-संशयादिग्रस्तत्वम् १ अविचारितवाक्यजन्यत्वं वा । आपातज्ञानं-अज्ञाननिवृत्तावसमर्थ ज्ञानम् १ अप्रामाण्यशङ्कास्पदज्ञानं आतत्वं- प्रयोगहेतुभूतयथार्थज्ञानवत्त्वम् १ लोकवेदसाधारणं प्रतारणाद्यजन्यहिताहितोपदेशकर्तृत्वे सति तद्भिन्नोपदेशाकर्तृ- त्वमिति ग्रं० २ रागादिरहितत्वे सति सकलवस्तुविषयकानुभव- आम्नायः-गुरुपरम्परागतोपदेशः । [प्रयोज्यनिश्चयवत्त्वं आयु:- जीवितावच्छिन्नः कालः ॥ ६०५ ॥ आयुर्वेदः - आयुर्हिताहितं व्याघेर्निदानं शमनं तथा, विद्यते यत्र विद्वद्भिः स आयुर्वेद उच्यते ॥ ६०६ ॥ आरम्भः - आद्यप्रवृत्तिः १ प्राथमिकव्यापारोपक्रम इति ग्रं आरम्भकं समवायिकारणम् १ अनेककारणसंयोगवत्त्वे सति का- आरम्भकार्य- स्वभिन्नत्वे सति समवेतम् । [र्यजनकं आरादुपकार्यङ्गं- 'फलोपकार्यङ्ग' वदस्य लक्षणमनुसंधेयम् ।
आराधनं - गुर्वादेरनुकूलाचरणम् १ गौरवितनिष्ठप्रीतिहेतु- क्रिया २ गौरवप्रयुक्तप्रीत्यवच्छिन्नक्रियेति ग्रं० ॥ ६१२ ॥ आरोपः -अतद्वति तत्प्रकारकज्ञानम् ॥ ६१३ ॥ आर्तः-पीडितः १ नष्टेष्टवस्त्वेच्छु: २ भ्रष्टैश्वर्यकाम इति ग्रं० आर्थीभावना-प्रयोजनेच्छाजनितक्रियाविषयव्यापारः ६१६॥६१६॥ आर्यः - सर्वोत्तमः १ श्रेष्ठकुलोत्पन्नो वां २ वेदोक्तप्राचीनजातिवि- `शेषः ३कर्तव्यकारकत्वे सत्यकर्तव्याकारकत्वे सति प्रकृताचारवच्चं आर्यावर्त्तः- सर्वोत्तमदेशः १ विन्ध्यहिमाचलयोर्मध्यदेशः ६२२॥६२२॥ आलयविज्ञानं-कर्मानुभववासनालयाधिकरणं विज्ञानंम् १ आलयं लयपर्यन्तं स्थायि विज्ञानम् ॥ ६२३ ॥ आलस्यं- प्रयत्नेन कर्तव्ये कार्ये श्रद्धावैधुर्येणोत्साहाभावः ६२४॥६२४॥ आलापन- परस्पर (सम्भाषणम् १) कथोपकथनम् ॥६२६ ॥ आलिङ्गनं- अङ्गेनाङ्गसंयोजनम् १ प्रीतिपूर्वकपरस्पराश्लेषो वा । आवरणं- प्राप्तप्रतिषेधः १ अस्ति प्रकाशते इति व्यवहारयोग्ये नाम्ति न प्रकाशते इति व्यवहारः ॥ ६३० ॥
आवरणशक्तिः - मानसिकाविद्या १ स्वाश्रयात्माद्यावरणानुकू- लमज्ञाननिष्ठं सामर्थ्यम् । [पुनरनुसंधानं आवृत्तिः- भूय एकजातीयक्रियाकरणम् १ स्वस्थानस्थितस्य आशा- दीर्घाकाङ्क्षा १ इदं कृत्वेदं करिष्यामीति सङ्कल्पविकल्पप्र- वाहानुपरमः । [वा वाञ्छितार्थप्रार्थनं आशीर्वादमङ्गलं-आशीर्वचनम् १परमेश्वरात्स्वस्य स्वशिष्यस्य
आश्रयासिद्धत्वं-पक्षतावच्छेदकाभाववत्पक्षकत्वम् व॥६३९॥ आसक्तिः - विषयान्तरपरिहारेणैकविषयावलम्बनम् ॥६४०॥ आसत्तिः - यत्पदार्थेन सह यत्पदार्थस्यान्वयोपेक्षितस्तयोः पद- योरव्यवधानम्१ शक्तिलक्षणान्यतरसंबन्धेनाव्यवधानेन पदज- न्यपदार्थोपस्थितिः । प्रमाणान्तरजन्यपदार्थोपस्थितिवारणाय आसनफलं-द्वन्द्वानभिघातः । [पदजन्येति आसनं - स्थिरसुखम् १ सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्त- नम्, आसनं तद्विजानीयादन्यत्सुखविनाशनम् ॥६४५॥ आसनोपायः प्रयत्नशैथिल्यम् १ अनन्तसमापत्तिर्वा ॥६४७ ॥ आस्तिकत्वं-परलोकसत्ताविषयकाबाधितज्ञानवत्त्वम् १ शा- स्त्राद्युक्तविषयविषयकविश्वासवत्त्वमिति ग्रं० ॥ ६४९॥ आहार्यज्ञानं-बाधकालीनेच्छाजन्यं ज्ञानम् यथा माणवके प्रेम्णा चिन्तामणिबुद्धिः ॥ ६५० ॥ आहुतिः - देवोद्देशेन मन्त्रेणाग्नौ हविःप्रक्षेपः ॥ ६५१ ॥ *इ* [शेषः इङ्गितं- मनोभिप्रायसूचकभ्रूक्षेपकटाक्षवीक्षणादिरूपकायचेष्टावि- इच्छा- इयं मे स्यादित्याशाविशेषः १इष्टसाधनताज्ञानजन्योभि लाष इति ग्रं० २ इच्छामीत्यनुभवविषयवृत्तिगुणत्वव्याप्यजाति- मती ३ यत्नसंस्कारभिन्नत्वे सति संबन्धानवच्छिन्नप्रकारताकत्वं इडानाडी-वामनासिकास्था ( चन्द्र ) नाडी ॥ ६५८ ॥
इतिकर्तव्यता- कर्तव्यप्रकारः * १ कथम्भावाकाङ्क्षापूरकः । इतिहासः- पुरावृत्तप्रकाशको ग्रन्थविशेषः२ धर्मार्थकाममोक्षा- णामुपदेशसमन्वितम्, पूर्ववृत्तकथायुक्तमितिहासं प्रचक्षते ६६२॥६६२॥ इदन्ता - सन्निकृष्टवाचित्वम् ॐ १ प्रत्यक्षबुद्धिविषयत्वम् ॥ ६६४ ॥ इन्द्रजालं- प्रत्यक्षतो मिथ्यार्थप्रदर्शनम् १ मन्त्रौषधादिनाद्भुत- वस्तुदर्शकव्यापार इति ग्रं० ॥ ६६६ ॥
इन्द्रियं- सुखदुःखानुकूलसाक्षात्कारप्रमितिक्रियान्यतरकरणम- तीन्द्रियम् । आलोकादावतिव्याप्तिवारणायातीन्द्रियमिति, धर्मादावतिव्याप्तिवारणायाद्यविशेषणम्, अनुमित्यादिकरणेति- व्याप्तिवारणाय साक्षादिति १ शब्दे[^१]तरोद्भूतविशेषगुणानाश्र- यत्वे सति ज्ञानकारणमनःसंयोगाश्रयः । आत्मन्यतिव्याप्तिवा- रणाय सत्यन्तम्, कालादावतिव्याप्तिवारणाय विशेष्यम् ६७०॥६७०॥ इष्टं- इच्छाविषयः *१ धर्मज्ञापकम् २ पूजनयोग्यत्वम् ॥६७४ ॥ ईर्ष्या- अनिष्टानुपेक्षणम् १ परसम्पदुत्कर्षासहिष्णुतेति ग्रं० २ विरोधि धर्मारोपानुकूलव्यापारजनकश्चित्तवृत्तिविशेषः ॥ ६७६॥ ईश्वरः - नित्यज्ञानाधिकरणमिति नै० १ क्लेशकर्मविपाकाशयै- रपरामृष्टः पुरुषविशेष: २ त्रैकालिकबन्धशून्यः । बन्धशून्य- मात्रोक्तौ मुक्तप्रकृतिलयेष्वतिव्याप्तिरिति त्रैकालिकत्वं बन्ध-
[^१शब्देतरे ये उद्भूतविशेषगुणाः घटनिष्ठरूपादयस्तदनाश्रयत्वं ज्ञा-
नस्य कारणभूतो या मनःसंयोगस्तदाश्रयत्वञ्च चक्षुरादावस्तीत्यर्थः ।]
विशेषणं तथा च मुक्तेषु भूतबन्धस्य प्रकृतिलयेषु च भावि- बन्धस्य सत्त्वान्न तत्रातिव्याप्तिरीश्वरस्य तु त्रैकालिकबन्ध- शून्यादिति गोगमञ्जर्याम् ३ कर्तुमकर्तुमन्यथा वा कर्तुं समर्थः४ जगदुत्पत्तिस्थितिसंहारकर्तेति ग्रं०५ माया (विशिष्टचैतन्यम्६) प्रतिबिम्बितं चैतन्यम् ७ चैतन्यमित्येकसत्तावादे ८ समष्टिकार शरीरोपहितं चैतन्यमिति वै०९ ब्रह्मणस्तटस्थलक्षणमप्यत्र ० ईश्वरसाक्षी-मायातद्वृत्त्यन्यतरोपहितं चैतन्यम् ॥ ६८७ ॥ ईश्वरप्रणिधानं- सर्वकर्मणां भगवत्यर्पणम् १ भगवद्भक्तिर्वा । ईश्वराश्रयप्रमा- ईक्षणापरपर्यायस्रष्टव्यविषयाकारमायावृत्तिप्र- उ. [तिबिम्बिता चित् उच्चारणं-कण्ठताल्वाद्यभिघातेन शब्दजनकव्यापारः॥६९१॥ उत्तरत्वं- दोषभञ्जनत्वम् १ परपक्षप्रतिषेधत्वं वा २ जिज्ञासि- तविषयावेदकत्वम् ३ प्रश्ननिवर्तकत्वमिति ग्रं० ४ सिद्धान्ता- नुकूलतर्कोपन्यासत्वम् + ५ क्रियाजन्यसंयोगानुयोगित्वम् ६ मेरुसन्निहित देशावच्छिन्नत्वम् ॥ ६९८ ॥
उत्तरमीमांसा-वेदान्तानां ब्रह्मणि तात्पर्यनिर्णायिका मीमांसा उत्तेजकत्वं- प्रोत्साहकत्वम् ३१ शक्त्यनुकूलत्वम् २ प्रतिबन्ध (के विद्यमाने सति कार्यजनकत्वम् ३) ककोटिप्रविष्टाभावप्रतियोगि- त्वमिति ग्रं० ४ कार (णाभावातिरिक्तकार्याभावप्रयोजकाभाव- प्र० ५) णीभूताभावप्रतियोगितावच्छेदकीभूताभावप्र० ॥७०५॥७०५॥ उत्पत्तिः- उत्तरक्षणसंबन्धः १ कार्यस्याद्यक्षणसत्तासंबन्धो वा २
स्वकारणसंसर्गः ३ स्वाधिकरण (समयध्वंसानधिकरणसमयसं- बन्ध: ४) क्षणावृत्तिप्रागभावप्रतियोगिक्षणसंबन्ध इति ग्रं० ५ प्राथमिक प्रतीतिविषयप्रवृत्तिसाधनम् ॥ ७११ ॥ उत्पत्तिविधिः-कर्मस्वरूपमात्रबोधको विधिः ॥ ७१२ ॥ उत्पातः- प्राणिनां शुभाशुभसूचको भूतविकारः ॥ ७१३ ॥ उत्सर्गः - सामान्य (नियमः १) विधानम्, यथा यत्र यत्र चैतन्यं तत्र तत्र कर्तृत्वमिति सम्भावना २ भूयोदर्शनम् ॥ ७१६ ॥ उत्सर्जनं- स्वानुयोगिकप्राप्तवस्तुप्रतियोगिक संबन्धविर (हानुकूलो उत्सवः- आनन्दजनकव्यापारः । [व्यापारः १) हेच्छा उत्साहः - अन्यैरशक्यतयाऽववृतेप्यवश्यकर्तव्यता बुद्धिः ७१९ उत्साहव्यसतं- नृत्यगीतादिदर्शनेच्छाहेतुर्व्यसनम् ॥७२०॥ उदासीनः- रागद्वेषशून्यः* १ पक्षपातरहितः २विवदमानयो(रु. भयोरप्युपेक्षकः ३) रेकतरपक्षानवलम्बक इति ग्रं० ॥ ७२४ ॥ उदाहरणं- साध्यसाधनव्याप्तिप्रदर्शकम् १ व्याप्तिप्रतिपादक- ष्टान्तवचनं वा २ इतरार्थान्वितस्वार्थबोधकन्यायावयवः ३ ३ कस्यचिद्विषयस्य सप्रमाणत्वस्थापनार्थं तादृशविषयान्तरोल्लेखनं उद्देश:- गुणैः प्रापणम् ३ १ नाममात्रेण वस्तुसङ्कीर्तनम् २ : वस्तुप्रतिपादकनाममात्रमिति ग्रं० ३ सङ्क्षेपकथनम् ॥७३२॥ उद्देश्यत्वं- इच्छाविषयत्वम् १ प्रवृत्तिनिमित्तत्वम् २ विधेय (न्व- यित्वम् ३) तानिरूपकत्वमिति नै० ४ मानान्तरप्राप्तत्वमिति मी० ४ सिद्धप्रमितिविशिष्टतयासिद्धत्वम् ॥ ७३७ ॥
उद्बोधकत्वं- स्मृतिप्रयोजकत्वम् * १ उद्दीपकत्वम् ॥ ७३९ ॥ उद्भूतत्वं- रूपादिविशेषगुणगतो धर्मविशेषः १ प्रकटीभूतत्वम् । उन्नतिः समृद्धिः* १पराक्रमदानादि (जन्यं यशः २ ) स्मृतिजन्यो- उपकरणं- प्रधानसाधकम् १ उपक्रियतेऽनेनेति । [त्साहः उपकारः - सहकारि (लाभ: १)कारणजन्यः सामर्थ्यविशेष: ७४८॥७४८॥ उपकुर्वाणब्रह्मचारी - सावधिब्रह्मचर्यवान् १ विवक्ष्यन् (= वि- वाहं करिष्यमाणः ) गृहीतब्रह्मचर्यव्रतः ॥ ७४९ ॥ उपक्रमः- उपायज्ञानपूर्वकारम्भः * १ तात्पर्यनिर्णायको हेतुविशेषः उपक्रमोपसंहारलिङ्गं प्रकरणप्रतिपाद्यस्याद्यन्तयोः प्रतिपा- दनम्, यथा सदेवसौम्येदमग्र आसीदिति ॥ ७५० ॥ उपचारः - शक्यार्थत्यागेनान्यार्थबोधनम् १ अनियतसंबन्धेना. न्यत्र वृत्तिः, यथा 'मञ्चाः क्रोशन्ती'त्यादौ पुरुषैः समं मञ्चसंब- न्धोऽनियतः २ परसंतोषार्थ (वचनम् ३) न्यार्थकथनम् ७५३॥७५३॥ उपजीवकत्वं- जीवनोपायत्वम् * १ इतरालम्बकत्वम् २ पर- म्परया साक्षाद्वा कार्यत्वमिति मणिप्रभायाम् ३ उपजीवति कारणाश्रितं भवतीति व्युत्पत्त्योपजीवकशब्दः कार्यपरः ७५७॥७५७॥ उपजीव्यत्वं- परम्परया साक्षाद्वा जनकत्वम् १ उपजीव्यते का- र्येणाश्रीयते इति व्युत्पत्त्योपजीव्यशब्दः कारणपरः ॥७५९॥ उपदेशः -कृतिविषयः * १ हितकथनम् २ गुप्तवार्ताविष्कार इति ग्रं० ३ धर्मविशिष्टो व्यापारः ४ प्रतिपत्त्यनुकूलव्यापारः ७६४॥७६४॥
उपदेशक:- अज्ञातज्ञापकः । [वचनं
उपनयः- प्रकृतोदाहरणोपदर्शितव्याप्तिमद्धेतुविशिष्टपक्षबोधक- उपनिषदज्ञाननिवारिणी विद्या १ ब्रह्मविद्याप्रतिपादकवेदशिरो भागः उपन्यासः - वाक्योपक्रमः १ तद्बोधकवाक्यप्रयोग इति ग्रं०७७१ उपपत्तिः - साधकप्रमाणोपन्यासरूपा युक्तिः * १ प्रकरणप्रति- पाद्य ( र्थनिर्णायकत्वम् २ ) स्य दृष्टान्तैः प्रतिपादनम्, यथा सौम्येकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यादित्यादिना मृदा- दिदृष्टान्तैरद्वितीयवस्तुप्रतिपादनम् । [भक्तिः
उपपदविभक्तिः- पद(न्तरयोग)निमित्तीकृत्य जायमाना वि उपपादकत्वं- उपपाद्याभावव्याप्याभावप्रतियोगित्वम् ॥७७७ उपपाद्यत्वं - उपपादकाभावव्यापकाभावप्रतियोगित्वम् ७७८ उपमर्दः- पूर्वधर्मिविनाशनेन धर्म्यन्तरोत्पादनम् ॥ ७७९ ॥ उपमा- उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्या १ वैधर्म्यावि- षयैकवाक्यविषयकत्वे सतीवादिवाच्यमुभयसंबन्धिसाधर्म्यम् । उपमानं- संज्ञासंज्ञिसंबन्धप्रमाकरणम् १ उपमितिकरणम् । कुठा- रादिवारणाय मितीति, प्रत्यक्षादिवारणायोपेति २ व्यापारव- त्तासंबन्धेनोपमित्यसाधारणकारणम् ३ सदृशदर्शनादसन्निकृष्टा- र्थज्ञानमिति मी० ४साधारणधर्मवत्त्वे (न प्रसिद्धपदार्थ: ५ ) नेषदि- तरपरिच्छेदकत्वमुपमानत्वम् ६ सादृश्यप्रतियोगित्वम् ॥ ७८८ ॥ उपमिति:- सञ्ज्ञासंज्ञिसंबन्धज्ञानम्। अनुमित्यादिवारणाय संब-
न्धेति, संयोगादिवारणाय संज्ञासंज्ञीति १ सादृश्यज्ञान ( दिप- रत्रासन्निकृष्टे सादृश्यज्ञानम् २) जन्यं ज्ञानम् ३ सादृश्यवैसादृश्या- न्यतरधीकरणिका धीरितिखण्डनोद्वारे ४ शक्तिप्रकारकज्ञानं उपमेयः- उपमाविषयः १ सादृश्या (श्रयः २) नुयोगित्वमुपमेयत्वं उपयोगः-साक्षात्परम्परया वा कार्यजननम् १ इष्टसिद्धिसाधना- उपयोगी-इष्टसाधनम् १ कार्यकारकः । [नुकूलव्यापारः उपरतिः- कर्मादौ तत्साधने च दोषदर्शनपूर्विका घृणा १ ज्ञा- नार्थविहितनित्याद्यागमजन्यकर्मसंन्यास इति ग्रं० ॥ ८०३ ॥ उपलक्षणत्वं- स्वप्रतिपादकत्वे सति स्वेतरप्रतिपादकत्वम् १ स्वार्थबोधकत्वे सतीतरार्थबोधकत्वम् * २ स्वासम्बन्धिविशेष्य- केतरभेदबुद्धिजनकत्वम् ३ विशेष्यानन्वयित्वे कादाचित्कत्वे वा सति व्यावर्तकत्वम्, यथा काकादिकं देवदत्तगृहां देः ॥८०७ ॥ उपलक्षितत्वं चिह्नद्वाराप्रकाशितत्वम् १ स्वसमानाधिकरण- स्वोत्तरकालीनस्वप्रतियोगिकाभाववत्त्वसम्बन्धेन स्त्रसंबन्धित्वं उपवासः- अनाहारः१ अहोरात्रभोजनाभावः २उपावृत्तस्य पापे- भ्यो यस्तु वासो गुणैः सह, उपवासः स विज्ञेयः सर्वभोगविवर्जितः उपशयः - औषधादिजनितसुखानुबन्धः* १ समीपशयनम् । उपसर्गः -रोग (विकारः १) पद्रवः ॐ २ धात्वधिकरणसंयोगगो- चरककालिकधात्वर्थबोधकतावच्छेदकः ३ जन्यबोधविषयीभूत- क्रियाविशेषविषयकतात्पर्यग्राहकत्वे सति प्राद्यन्यतम इति ग्रं०
उपसर्जनत्वं-संमार्गसाधकत्वम् ७१ स्वार्थविशिष्टार्थान्तरबोध
-
कत्वम् २ अन्यपदार्थनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकत्वं उपसंहारः सम्यग्हरणम् १ प्रस्तावितशेष इति ग्रं० २विस्तरेण नि- रूपितस्य पदार्थस्य सारांशकथनेन तन्निरूपणसमापनम्३ एकत्र श्रुतार्थस्यान्यत्रान्वयार्थमुपक्षेपः, यथा गुणोपसंहारः४ ग्रन्थतात्प- र्यावधारकलिङ्गविशेषः ५ सामान्यप्राप्तस्य विशेषे नियमनमिति मी ० उपस्थः - व्यवायानन्दसाधनमिन्द्रियम् १ सुखक्रियासाधनमि० उपाख्यानं- श्रुतार्थकथनम् १ पूर्ववृत्तान्तकथनम् ॥ ८२९ ॥ उपादानकारणं-कार्या (भिन्नकारणम् १) न्वितं कारणम्, यथा घटादेर्मृदादि । रूपादावतिव्याप्तिवारणाय कारणमिति २स्व- तादात्म्यापन्नकार्यजनकम् ३ कार्याधारत्वे सति कार्यजनिहेतुः । निमित्तकारणवारणाय सत्यन्तम्, भूतलादिवारणाय विशेष्यदलं उपादेयः - विधेयः १ उपादानजन्यः ४२आदानक्रियाविषयः ८३६॥८३६॥ उपाधिः - संमानसूचकः शब्दः १ उपसमीपे स्थित्वा स्वीयं रूपमन्यत्रादधाति २ स्वस्मिन्निव स्वसंसर्गिणि स्वधर्मासञ्जकः ३ स्वान्वितांशविधेयानन्वयित्वे सति वर्तमानत्वे सति व्यावर्तक- त्वम्, यथा जपाकुसुमादिकं स्फटिके लौहित्योपाधिः । प्रथम- सत्यन्तेन नीलं घटं पश्येत्यादौ नीलत्वादेरुपाधित्वनिरासः, काकैर्गृहं पश्येत्यादौ काकादेर्द्वितीयसत्यन्तेन निरासः, घट- पटौ पश्येत्यत्र परस्परस्य परस्परोपाधित्ववारणाय विशेष्य- दलम् ४ साध्यव्यापकत्वे सति साधनाव्यापकत्वम् ॥८४२ ॥
उपाध्यायः - एकदेशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः, योऽ ध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते इति भविष्ये ॥८४२ ॥ उपाय: - उपक्रमः १ प्रतिकारपथः * २ साक्षात्परम्परया वा यत्किञ्चित्कार्यजनने समर्थ: ३ उपायतेऽर्थोऽनेनेति ॥८४७॥ उपार्जनं - स्वत्वसम्पादको व्यापारः । [षणदानं उपालम्भः- निन्दापूर्वक (दुष्टवचनम् १)तिरस्कार: २ परपक्षदू- उपासना-मुक्तिप्र्योजिका विद्या *१ निकृष्टेषूत्कृष्टबुद्धिः २ वस्तुस्वरूपानपेक्षः पुरुषेच्छामात्रतन्त्रो मानसप्रवाह इति ग्रं० उपासनाकाण्डं-उपासनातदितिकर्तव्यताबोधकप्रकरणम् १ मन्त्रोदितार्थस्येतिकर्तव्यताबोधककाण्डमिति ग्रं० ॥ ८५७ ॥ उपेक्षा-संस्काराजनिका बुद्धिः १ पापेषु सत्कारतिरस्कारयोरौ- दासीन्यम् *२स्वत्वध्वंसमात्रजनकस्त्यागः ३परस्वत्वानभिसं- धानपूर्वकस्वत्वप्रागभावसमानकालीनस्वत्वाविषयकेच्छेति ग्रं० उपोद्धातः- निर्दिष्टोपसाधकः १ प्रकृत (शास्त्रे प्रतिपाद्योपयोगि- विचारः २ ) र्थसिद्ध्यनुकूलचिन्ताविषय इति ग्रं० ३ प्रतिपाद्य- मर्थं बुद्धौ सङ्गृह्य प्रागेव तदर्थमर्थान्तरवर्णनम् । प्रतिज्ञातव- र्णनवारणायार्थान्तरेति, असंबद्धार्थवर्णनव्यावृत्त्यर्थं तदर्थ- मिति, अग्निमानयमिति प्रतिज्ञाय धूमवत्त्वादित्यर्थान्तरवर्णनं व्यावर्तयितुं प्रतिपाद्यमर्थ बुद्धौ सङ्गह्येत्युक्तम्, तावत्युक्ते बुद्धौ सङ्ग्रृह्य पश्चात्प्रतिज्ञाय यद्वर्णनं तस्योपोद्धातत्वनिरासाय
प्रागेवेति ४ स्थानं निमित्तं वक्ता च श्रोता श्रोतृप्रयोज- नम्, संबन्धाद्यभिधानञ्च उपोद्धातः स उच्यते ॥८६३ ॥ उभयत्वं- द्वित्वविशिष्टत्वम् * १ अपेक्षाबुद्धिविशेषविषयत्वम् । उभयकर्मजसंयोगः-स्वजनकक्रियाऽभाववदसमवेतसंयोग उल्लाप:- काकुवाक्यम् १ शोकरोगादिना ध्वनिविकार इति ग्रं० उल्लेख:- उत्कीर्तनम् १ इदं कर्तव्यमित्यादिना सङ्कल्पितार्थ- उल्लेखनं - प्रतिपादकशब्दोच्चारणम् * २ एकस्यापि निमित्त- वशादनेकधा ग्रहणम् ३ सङ्कल्पितार्थकवाक्योच्चारणम् ८७२॥८७२॥ ऊहः-प्राकृतप्रयोगस्यान्यथा भावः १ पदान्त (रप्रक्षेपः २) रेणा- काङ्क्षापूरणार्थाध्याहार: * ३ शिष्येणानुक्तस्याप्यूहनम् ४ उप- देशसमसमयं शिष्यप्रतिपत्त्यनुकूलापूर्वयुक्तिकल्पनं वा ५ संश- यपूर्वपक्षनिराकरणपूर्वकोत्तरपक्षव्यवस्थापनम् ६ अनन्वितार्थ- कविभक्तिलिङ्गत्यागपूर्वकमन्वययोग्यविभक्त्यादिकल्पनम्, यथा पार्वणे सौम्यास इति बहुवचनमन्वितमप्येकोद्दिष्टेऽनन्वित- त्वात्सौम्य इत्येकवचनान्ततया कल्पनम् ॥ ८८९ ॥ *ऋ* ऋड्यन्त्रः - नियताक्षरपादावसानो मन्त्रः १पादबद्धगायत्र्यादिच्छ- न्दोविशिष्ट[१०४७२] मन्त्र इति ग्रं० २ यत्रार्थवशेन पादव्यव- ऋक्संहिता- अग्निमीले इत्यादिकऋक्समुदायः [स्थितिर्मन्त्र: ऋग्वेदः- ऋग्बहुलो वेदः १ ऋगवयवको वेदः २ ऋग्(विनियोज-
कत्वमृग्वेदत्वम् ३) द्रव्यको वेद इति न्यायसुधायाम् ॥८८६॥ ऋजुत्वं- वक्रत्वाभाववत्त्वम् । [पुनरर्पणबुद्ध्या गृहीतं
ऋणं-अवश्यं (शोध्यम् १) देयम् २ अन्यस्वामिकं द्रव्यं नियतकाले ऋतम्भराप्रज्ञा - त्रैकालिकविषयावगाहिनी बुद्धिः ॥ ८९२ ॥ ऋषित्वं- शास्त्रप्रणेतृत्वम् १मन्त्रद्रष्टृत्वम् यथा वसिष्टवामदेवा- दयः २अतीन्द्रियार्थदर्शित्वम् ३ ज्ञानसंसारपारगामित्वमिति ग्रं० *ए* एकत्वं- प्रथम सङ्ख्यान्वितत्वम् १ द्विवाद्यभाववत्त्वम् ७२ सजा- तीय (निष्ठभेदाप्रतियोगित्वम् ३)विजातीयस्वगतभेदशून्यत्वम् । एकदेशी-सिद्धान्तैकदेशाश्रायकत्वे सति स्वतन्त्राधिकार्थनिरूपकः एकपदत्वं- एकार्थविषयकशक्तिनिरूपकत्वम् यथा रामः ९०२॥९०२॥ एकभविकत्वं- एकजन्म ( निफल ) जनकत्वम् ॥ ९०३ ॥ एकवाक्यत्वं- अविसंवादिवाक्यत्वम्*१ विशिष्टैकार्थप्रतिपादक त्वम् २एकार्थबोधक (त्वम् ३) नां शब्दानां मिथ आकाङ्क्षयैकस्यां बुद्धावारूढत्वमिति ग्रं० ४ निरूप्यनिरूप ( उपजीव्योपजीव ) कभावापन्नबोधविषयताप्रयोजकत्वम् ५ विशेषणविशेष्यावगा- हिबोधजनकत्वम् * ६ भिन्नप्रतीतिविषयानेकमुख्यविशेष्यर- हित (त्वे सति विभज्यमानसाकाङ्क्षत्वम् ७) त्वसमानाधिकर- णान्वीयमानपदार्थान्वयाभावप्रयुक्ताकाङ्क्षानिवृत्तिशून्यत्वम् । एकाग्रभूमिः- एकविषयकधारावाहिकवृत्तिसमर्थरूपा दशा ।
एकार्थीभावः- अपृथगुपस्थितिविषयः १ विशेषणविशेष्यभावा- वगाहित्वे परस्परान्वितत्वे वा सत्येकार्थोपस्थितिजनकत्वम् । एकेन्द्रियवैराग्यं-पक्कसर्वकषायज्ञानेन चित्तोत्सुकता १ इन्द्रि- यान्तरेषूपसंहृतेष्वप्यनुपसंहृतस्य मनसो वृत्तिजिहासेति ग्रं० ऐकान्तिकत्वम्-साधनानन्तरमवश्यं भावित्वम् ॥ ९१८ ॥ ऐतिह्यप्रमाणम् - विशिष्यानिर्णीतप्रथमवक्तृकः शब्दविशेषः, यथात्र वटे यक्षः १ अनिर्दिष्टवत्कृकं प्रवादपारम्पर्यम् ॥ ९२० ॥ ऐश्वर्य- इच्छानभिघातात्मकम् *१ शासनकर्तृत्वम् ॥९२२॥ औत्सुक्यं- रमणीयफलसाधनेनोत्कटेच्छा १ विषये रमणीयत्वबु- च्या जायमानो ० २ कार्याकार्याविचारेण प्रवृत्तिहेतुराह्लादविशेषः *क* कथा-इतिवृत्तवर्णनपरः प्रबन्धविशेषः १ नानाकर्तृकपूर्वोत्तरपक्ष- प्रतिपादकवाक्यविस्तरः २तत्त्व निर्णयविजयान्यतरस्वरूपयोग्यो न्यायानुगतवचनसंदर्भः । लौकिकविवादवारणाय न्यायेत्यादि कनिष्ठं - अल्पतर (तरणिस्पन्दसंबन्धवान् १)स्पन्दान्तरितजन्यं कन्था-सूत्रग्रथितो जीर्णो वस्त्रखण्ड: १ तिर्यक्स्यूतबहुवस्त्रखण्ड - समूह इति ग्रं० २त्यक्तं वस्त्रं गृहस्थेन बहिः प्रक्षाल्य यत्नतः, सहस्रं डोरिकां दद्यात् कन्था सेत्यभिधीयते ॥ ९३१ ॥ कन्या-योन्यादिलज्जिताङ्गागुह्यकत्वे सति पांशुक्रीडावती ९३२॥९३२॥ करणं-साधकतमम् १ क्रियानिष्पादकम्*२ व्यापारवदसाधारण-
कारणम्, यथा छिदिक्रियां प्रति कुठारः । कालादिवारणाया- साधारणेति, व्यापारेऽतिव्याप्तिवारणायव्यापारवदिति ३ फलायोगव्यवच्छिन्नकारणम् । [ननुकूलत्वं करणापाटवं-स्वस्वकार्यासामर्थ्यम् १ इच्छाविषयीभूतवर्णाद्य- करुणा-दुःखिषु दुःखप्रहाणार्थ दया १ परदुःखप्रहाणेच्छा वा । कर्तव्यं- कर्तुं (मुचितम् १ ) योग्यम्*२अवश्यं करणीयम् ॥९४१ ॥ कर्ता- क्रिया (यो स्वतन्त्रः १)नुकूल (कृत्याश्रयः २) ज्ञानशक्तिसंपन्नः ३ उपादानगोचरांपरोक्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वम् ४ इतर- कारकाप्रयोज्यत्वे सति सकलकारक (प्रेरकत्वम् ५). प्रयोक्तृत्वम् । कुठारादिकारकप्रयोक्तरि हस्तादावतिव्याप्तिवारणाय सत्यन्तं कर्म- शुभाशुभ (दृष्टजनको व्यापारः १) क्रियाजन्यमदृष्टम् * २ करणव्यापारविषयः, यथा वास्यादिकरणव्यापारस्योद्यमननि- पातनादेविषयः काष्ठादिः ३ धात्वर्थतावच्छेदकपरसमवेतक्रि- याफलशालित्वम् ४ संयोग (विभागयोरनपेक्षकारकम् ५ ) भिन्न- त्वे सति संयोगासमवायिकारणम्। संयोगवारणाय सत्यन्तम्, घटादिवारणाय विशेष्यदलम् । [र्थस्मारकं काण्ड कर्मकाण्डं-कर्मणां कर्त्तव्यता प्रतिपादकं काण्डम् १ द्रव्यदेवताद्य- कर्मधारयसमासः-तुल्यविभक्तिलिङ्गयोरुभयोः पदयोः समा- नाधिकरणः समासः, यथा कृष्णमृगः, श्वेतपताकेत्यादिः । कर्ममीमांसा- कर्मविषयकः पूजितो विचारः १ 'पूर्वमीमांसा' लक्षण ०
कर्मेन्द्रियं- वदनादिव्यापारकरणमिन्द्रियम् १ अपञ्चोकृतपञ्च- महाभूतकार्यत्वे सति वेदनादिक्रियासाधनत्वं कर्मेन्द्रियत्वम् । कर्षणं-देशान्तरसंयोगानुकूलव्यापारानुकूलव्यापारः ॥१५९॥ कलियुगं - कलिरेव युगम् १ निर्बीजा पृथिवी निरोषधिरसा नीचा महत्त्वं गताः, भूपाला निजधर्म-कर्मरहिताः विप्राः कुमार्गे गताः । भार्या-भर्तृविरोधिनी पररता पुत्राः पितुर्दूषकाः, हा कष्टं खलुवर्तते कलियुगे धन्या मृता ये नराः ॥ ९६० ॥ कल्पः- ब्रह्मणो दिवसः * १ मन्त्रार्थसामर्थ्य प्रकाशको ग्रन्थः २ यज्ञपात्र निर्माण प्रकार प्रतिपादकं शास्त्रम् ३ यागप्रयोगप्रतिपा ● कल्पना-अप्रकृतविषयोद्भावनम् १ नूतनविषयोद्भावनं वा । कषायः - चित्तस्य रागादिना स्तब्धीभावः ॥ ९६५ ॥ काणत्वम्-चक्षुरिन्द्रियशून्यैकगोलकवत्त्वम् ॥ ९६६ ॥ कादाचित्कत्वं- सत्त्वे सति किञ्चित्कालवृत्त्यभावप्रतियोगित्वं कामः-काम्यते जनैरिति, यथा स्वर्गादिः १ फलेच्छा २ इष्टविष- याभिलाषः ३, अप्राप्तो विषयः प्राप्तिकारणाभावपि प्राप्यतामि- त्याकारश्चित्तवृत्तिविशेषः * ४ सङ्गमेच्छा ५ विषयेन्द्रियजन्यं सुखं वा ६ स्त्रीपुंसव्यतिकरतृष्णा ७ दमश्च निःसङ्कल्पश्च. कामं शिथिलीकरोति १ ब्रह्मचर्येण वस्तुविचारेणास्य निवृत्तिः ९७४॥९७४॥ काम्यत्वम्-तत्तत्फलेच्छाधीनेच्छा विषयत्वम् ॥ ९७५ ॥ काम्यकर्म-स्वर्गादीष्टसाधनं कर्म, यथा ज्योतिष्टोमादि १ तत्त-
त्फलकामना (धीनकर्तव्यताकत्वम् २) वदधिकारिकर्तव्यम् ३ अनुष्ठाने फलविशेषजनकत्वे सत्यननुष्ठाने प्रत्यवायाजनकत्वम् कायः-भोगायतनम् १ देहव्यापित्वगिन्द्रियम् २शरीर' लक्षणम० कायव्यूहः-कर्मभोगार्थं योगिद्वारा युगपत्कल्पितः कायसमूहः कारकं - व्यापारवत्कारणम् १ क्रियाजनक (म्२) शक्तिमत्त्वम् । कारकविभक्तिः- कारकत्वव्याप्यकर्मत्वादिशक्तिोधिकाविभक्तिः कारणत्वं-उत्तरविशेषत्वम् * १ व्यभिचाराभावसहकृतसहचा- रवत्त्वे सति पूर्वभावित्वम् ३ अनन्यथासिद्धत्वे सति नियतपूर्वत्र- त्तित्वम् । दण्डवादिवारणाय सत्यन्तम्, अनियतरासभादि- वारणाय नियतेति, कार्यवारणाय पूर्वेति ३ कार्याव्यवहितप्रा- क्क्षिणावच्छेदकत्वे सति कार्यसमानाधिकरणात्यन्ताभावाप्रति- कारिका- अल्पाक्षरत्वे सति बहुर्थज्ञापकः श्लोकः । [योगित्वं कार्यत्वं - आद्यक्षणसंबन्धित्वम् १ प्रागभावप्रतियोगित्वम् । का- लादिवारणाय प्रागिति, असंभववारणाय प्रतियोगीति नै० २ वर्तमानावस्थोपपादनत्वमिति योगिनः ३नियतपश्चाद्भावित्वम्४ कालत्रयानन्वितत्वे सति प्रवृत्त्यभावविरोधित्वं वा ५ कारणत्वा- भिमतवंस्त्वभिन्नत्वमिति वे० ६ कृतिसाध्यत्वे सति कृत्युद्देश्य- त्वम् ति (संसृष्टत्वम् ८) योग्यत्वे 'सत्यलौकिकत्वमिति मी० कार्याध्यास- कारणत्रयजन्योध्यासः १ दोषसंप्रयोगसंस्कारज- कार्याविद्या-'तूल्यविद्या॑वदस्य लक्षणमनुसंधेयम् । [न्यत्वं
कालः - अतीतादिव्यवहारासाधारणं कारणम् १ विभुत्वे सति दि- गसमवेतपरत्वासमवायिकारणाधिकरणम् । [प्रतियोगित्वं
कालिकपरिच्छेदः -यत्किञ्चित्कालावृत्तित्वम् १ ध्वंसप्रागभाव- काव्यं - रसात्मकवाक्य १ रमणीयार्थप्रतिपादकः शब्द इति ग्रं० २ आनन्दविशेष (साधनत्वम् ३) जनकत्वं काव्यत्वम् ४ व्याकरणादिदोषरहितत्वे सत्यर्थदोषशून्यत्वम् ॥ १०१२ ॥
काष्ठमौनं-इङ्गितेनापि स्वाभिप्रायाप्रकाशनम् १ काष्ठमिव मौनं किन्तु - प्रागुक्तविरुद्धार्थः १ पूर्ववाक्यसङ्कोचज्ञापनमिति ग्रं० कीर्तनं- यशः प्रकाशः * १ भगवन्नाम्नां वैखर्योच्चारणम् १०१८॥१०१८॥ कुतर्क:- श्रुतिविरोधितर्कः । [षष्टिमात्राभिरायमनं
कुम्भकप्राणायामः- अन्तःस्तम्भवृत्तिः १ पीतस्य वायोश्चतुः- कुलत्वं- वंशीयत्वम् १ सजातीयसमूहत्वमिति ग्रं० ॥१०२२॥ कूटस्थः - विषयसंनिधावपि विकारशून्यः ॥ १०२३ ॥ कृतन्घत्वम्- कृतोपकारस्यापकारकत्वम् ॥ १०२४ ॥ कृतज्ञत्वम्- कृतोपकारकज्ञातृत्वम् ॥ १०२५ ॥ कृतनाशः - कृतयोः पुण्यपापयोर्भोगमन्तरेण नाशः ॥ १०२६॥ कृतोपास्त्यधिकारी- उपास्यसाक्षात्कारपर्यन्तोपासनाकारी । कृपणता-उचितव्ययाकरणेनापि धनरक्षणेच्छा ॥१०२८ ॥ कृपा- स्वार्थमनपेक्ष्य परदुःखप्रहरणेच्छा । [हीनं केवलं- एकमात्रम् १ पदान्तरशून्यं वा २ पदार्थान्तरसंसर्गवि
-
केवललक्षणा- शक्यसाक्षात्सम्बन्धः ॥ १०३४ ॥ केवलव्यतिरेकित्वं- अन्वयव्याप्तिशून्यत्वे सति व्यतिरेकव्या- प्तिमत्त्वम् । [गितानवच्छेदकधर्मवत्त्वं
केवलान्वयित्वं- अत्यन्ताभा (वाप्रतियोगित्वम् १ ) वीयप्रतियो- कैवल्यं- सजातीय द्वितीयरहितत्वम् १ 'मोक्ष' लक्षणमप्यत्र पठनीयं कोटित्वं-कोटिसङ्ख्याविशिष्टत्वम् १ संशयजनकज्ञानीयप्रकारतावत्त्वं कोशः - असिकोशवदात्माच्छादकः * १ शब्दपर्यायप्रकाशको ग्रन्थः २ शब्दार्थ ( प्रतिपादकत्वम् ३)निर्वचनपरिज्ञापकत्वं कोशत्वं कौतूहलत्वं-विस्मयविशिष्टजिज्ञासाविशेषत्वम् ॥ १०४६ ॥ कौपीनम् - पुरुषलिङ्गावारको वस्त्रखण्ड: १ कुत्सितस्य पीनस्य मांसस्यावरणम् २ एकहस्तप्रविस्तारं करद्वन्द्वसमायतम्, विलम्बिततृतीयांश गुह्याच्छादनमीरितम् ॥ १०४९ ॥ क्रमः-सामर्थ्यहेतुकव्यापारः१ परिपाट्या यथोचितसन्निवेशः २ चिन्त्यमानार्थसंप्राप्तिरिति ग्रं० ३ पूर्वापरावस्थानत्वं क्रमत्वम् क्रमसमुच्चयः - एकेन कर्त्रा ज्ञानकर्मणोः क्रमेणानुष्ठानम् । क्रिया- करणव्यापारनिष्पाद्या * १ संयोगविभागयोरसाधारणो हेतुः २ क्रियान्तराकाङ्क्षानुत्थापकत्वं क्रियात्वम् ॥ १०५६ ॥ क्रीडा-हर्षजनकहस्तादिविक्षेपः* १ बाह्यसाधनसापेक्षा १०५८॥१०५८॥ क्रोधः - अनिष्टविषय ( दर्शनादिहेतुको मनोविकारः १ ) द्वेष- हेतुकः २ कामितार्थविघातजन्यो बुद्धिक्षोभ इति ग्रं० ३
→
दययाऽहिंसया क्षमया वा क्रोधस्य निवृत्तिः ॥ १०६० ॥ क्लेशः - अविद्याद्यन्यतमः * १ बाधनालक्षणः ॥ १०६२ ॥ क्षणः- व्यापारशून्यावस्थितिः १ स्वाधेयपदार्थप्रागभावानाधारः समय इति ग्रं० २ निमेषक्रियावच्छिन्नस्य कालस्य चतुर्थो भागः क्षणिकत्वं- स्वाधिकरणसमयप्रागभावाधिकरणक्षणा (नुत्पत्ति- कत्वे सति कादाचित्कत्वम् १ ) वृत्तित्वम् २ तृतीयक्षणवॄ (त्त्यवृत्ति- जातिमद्विशेषगुणत्वम् ३ ) त्तिध्वंसप्रतियोगित्वम् । घटादिवार- णाय वृत्त्यन्तम् ४ क्षणान्तरासंबन्धित्वे सति क्षणसंबन्धित्वम् क्षमा-आकृष्टस्य ताडितस्य वाऽविकृतचित्तता१ सत्यपि सामर्थ्य परिभवहेतुं प्रति क्रोधस्यानुत्पत्तिर्वा २ आक्रुष्टोऽभिहतो यस्तु नाक्रोशेन हनेदपि, अदुष्टैर्वाङ्मनःकायैस्तितिक्षुश्च क्षमा स्मृता । क्षयतापः- पुण्यकर्मक्षये पतनभीतिजन्यस्तापः ॥ १०७४ ॥ क्षेपकः - विक्षेपकर्तरि ग्रन्थकूदकृतांशस्य तद्ब्रन्थमध्ये संनिवेशकः क्षेमः - स्थितरक्षणम् १ लब्धप्रतिपालनमिति ग्रं० ॥ १०७७ ॥ क्षोभः - चित्तचाञ्चल्यम् १इच्छाविघाताच्चित्तपरितापो वा१०७९॥१०७९॥ *ख* खञ्जत्वं- पादविकलत्वम् १संस्थानविशेषशून्यपादवत्त्वम् १०८०॥१०८०॥ खण्डनं-नाशानुकूलव्यापारः १ स्वमतदोषपरिहारपूर्वकपरमत- पदार्थनिराकरणम् *२ शब्दार्थानिर्वचनीयताप्रतिपादको ग्रन्थः खण्डप्रलय:- जन्यद्रव्यानधिकरणकालः १ नैमित्तिकप्रलयलक्ष ०
-
खानपानम्-कठिनद्रवद्रव्ययोर्गलाधःकरणम् ॥ १०८४ ॥ खिलकाण्डम्-नानाजातीयप्रत्ययोदाहरणबोधकं काण्डम् १ कर्मोपासनब्रह्मकाण्डावशिष्टार्यप्रकाशकत्वं खिलकाण्डत्वम् । खेदः - अवसादः * १ उपायाभावेष्टनाशादिकृतमनोभङ्गः । ख्यातिः - भ्रमज्ञानम् ॐ १ महत्तत्वम् २ प्रसिद्धिर्वा १०९०॥१०९०॥
*ग*
गतिः - परिणामः * १ उत्तरदेशसंयोगानुकूलक्रिया ॥१०९२ ॥ गद्यं -छन्दोरहितवाक्यम् १ पादलक्षणशून्यपदसमूह इति ग्रं० गन्धत्वं -घ्राणग्राह्यत्वम् १ पृथिवीवृत्तिमात्रवृत्तिगुणत्वसाक्षाद्व्या- गमकत्वं- नित्यसाकाङ्क्षत्वम् । [प्यजातिमत्त्वं गमनं- अनियतोत्तरदेशसंयोगासमवायिकारणं कर्म ॥११००॥ गम्भीरत्वं-निमित्ते सति हर्षभयकामाद्यभिव्यक्तिरहितत्वम् । गर्भितं- गर्भयुक्तम् १ वाक्यान्तरानुप्रवेशो गर्मितत्वम् ११०३॥११०३॥गर्वः -व्यभिचारिभावविशेषः * १ अभिमानात्मिका चित्तवॄत्तः । गाथा - सुभाषितत्वेन सर्वैर्गीयमाना ॥ ११०६ ॥ गानं- आभ्यन्तरयत्नजनितः स्वरविशेषाणामभिव्यञ्जकः शब्दः । गीतं- छान्दस हार्दान्यतरस्वरेण गुण कीर्तनम् 1 स्वरतालप्रामभे- दरागरागाङ्गभूषितम्, संस्कृतं वा प्राकृतं वा गीतं गीतविदो विदुः। गुण:-प्रमाया असाधारणकारणम् *१ निर्गुणत्वे निष्क्रियत्वे वा सति सामान्यवत्वं गुणत्वम् २ द्रव्यकर्मभिन्नत्वे सति समवायेन
द्रव्यमात्राश्रितत्वम् ३ संयोगाजन्यसंयोगासमवायिकारणवृत्ति- संयोगासमानाधिकरणजातिमत्त्वमिति शिवादित्यमिश्राः १११३॥१११३॥ गुणवादः-प्रमाणान्तरवि (रोधे सत्यर्थवादः १) रुद्धार्थ ( प्रतिपा दकत्वम् २) ज्ञापकः शब्दः, यथादित्यो यूप इत्यादिः १११६॥१११६॥ गुणोपसंस्कारः - भिन्नशाखागतानां गुणानामङ्गानां विशेष- णानां वा एकबुद्धयुपारोहणम् ॥ १११७ ॥ गुरुः - दीर्घस्वरवद्वर्णः *१ हितोपदेष्टा २ संशयापनोदको वा ३ सविध्युपनयनपूर्वकवेदाध्यापनकर्ता ४ गुशब्दस्त्वन्धकारः स्या- द्रुशब्दस्तन्निरोधकः, अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते । गुरुत्वं- आद्यपतनासमवाय कारणम् । दण्डादिवारणायासमवा- यीति, रूपादिवारणाय पतनेति, वेगेऽतिव्याप्तिवारयाद्येति गृहस्थः - वैवाहिकेन विधिना कृतपत्नोपरिग्रहः ॥ ११२४ ॥ गोचरः - भूचरः *१ ज्ञाननिरूपितो विषयः ॥ ११२६ ॥ गोत्रं-पुत्रपौत्रप्रभृतिकमपत्यम् १ संभावनीयबोधत्वं गोत्रत्वम् । गौण:-गुणादागतः १वास्तविकारोपितान्यतरगुणसत्ताप्र- गौणार्थ:-योज्यारोपविषय इति ग्रं० २ स्वार्थमुत्सृज्यपरार्था- वलम्बनम् ३ तद्धर्मप्रकारकप्रतीतिविशेष्याप्रसिद्धार्थः ॥ ११३२ ॥ गौणप्रयोजनत्वं- मुख्य प्रयोजनेच्छाधीनेच्छाविषयत्वम् ११३३॥११३३॥ गौणीवृत्तिः- गुणमधिकृत्य प्रवृत्ता वृत्तिः १ लक्ष्यमाणगुणयो- गेन स्वार्थादन्यत्र वृत्तिः, यथा सिंहो माणवकः ॥ ११३५॥
ग्रन्थः-अलौकिकैकप्रयोजनोद्देशेन प्रवृत्तवाक्यसमुदायः ११३६॥११३६॥ ग्रहणं- उपदिष्टार्थस्य सद्योवधारणसामर्थ्यम् १ शिष्यकृतप्रश्ना- क्षेपवाक्यार्थानां सद्योवधारणसामर्थ्यमिति ग्रं० ॥११३७ ॥ ग्राम: - लोकालयः १ ह्ट्टादिशून्यवसतिरिति श्रीधरः २ विप्रा- दिवर्णप्रायाप्राकारपरिखादिरहिता बहुजनवसतिः ॥११४० ॥ ग्राह्यम् - अङ्गीकार्यम् * १ लौकिकप्रत्यक्षस्वरूपयोग्यम् ११४२॥११४२॥ ग्लानि: - अनुत्साहः १ दोषदर्शनजन्याप्रवृत्तिर्वा ॥११४४॥
घटत्वं- स्वाश्रयघटभिन्नाधिकरणावृत्तिर्जातिः । [रूपक) वत्त्रं घटकत्वं- स्वविशिष्टत्वम् १ त (प्रत्येक) द्विषयताव्यापक विषयता (नि घटितत्वं- समुदायविषयताव्याप्यविषयतानिरूपकत्वम् ११४८॥११४८॥ घ्राणेन्द्रियं - गन्ध (ग्राहकत्वं घ्राणत्वम् १) पलब्धिसाधनमि- न्द्रियम् । चक्षुरादावतिव्याप्तिवारणाय गन्धेति, कालादिवारणा- [येन्द्रियमिति ।
*च.*
चक्रकम् )- स्वापेक्षणीयापेक्षितसापेक्षत्वनिबन्धनप्रसङ्गः १पू- चक्रिका )- र्वस्य पूर्वापेक्षितमध्यमापेक्षितोत्तरापेक्षितत्वम् । चक्षुरिन्द्रियं- रूप ( ग्राहकत्वं चक्षुष्टुम् १) पब्धिसाधनभिन्द्रियं चतुरशीतिभ्रमणं- उच्चावचमध्यदेहप्रभेदग्रहणम्॥११५६॥ चतुर्थीत्वं-ददात्यर्थधर्मिकसंप्रदानत्वानुभावकसुप्सजातीयत्वम् चरमत्वं- स्वसजातीयपदार्थप्रागभावानधिकरणकालवृत्तित्वम् । चमसः- वतुरस्राकारस्समुष्टिकः प्रादेशमात्रो दारवः पात्रविशेषः
चान्द्रायणं - एकैकं वर्द्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत्, इन्दुक्षये न भुञ्जीत एष चान्द्रायणो विधिः ॥ १३६० ॥ चारित्रम्-पापात्मकक्रियारम्भमात्रत्याग इति बौद्धाः ११६१॥११६१॥ चार्वाकः- तार्किकविशेषः : बृहस्पतिशिष्यत्वे सति देहात्मवादी चिकित्सा-व्याधिनिवारणो व्यापारः ॥ ११६४ ॥ चिकीर्षा - सम्पादनेच्छा । प्रवृत्तिहेतुरिच्छेति मं० ॥११६६॥ चित्तम्- अनुसन्धानात्मंकवृत्तिमदन्तःकरणम् ॥ ११६७ ॥ चित्त्वं - अलुप्तप्रकाशत्वम् १ समस्तवस्त्ववभासकत्वमिति ग्रं० चिदाभासः - चित्प्रतिबिम्ब: १ चिल्लक्षणरहितत्वे सति चिद्वद्भा- चिन्तनं- उपदिष्टार्थानुसन्धानम् । [समान: चिन्ता - इष्टाप्राध्यनिष्टप्राप्तिहेतुको भूलेखनाधोमुखत्वादिकरो मानसो विकार विशेषः ॥ ११७३ ॥ चेष्टा- उद्योगः १ हिताहितप्राप्तिपरिहारा (नुकूला क्रिया २ ) र्था क्रिया * ३ सङ्केतबलेन स्वाभिप्रायप्रकाशनमिति नर्तकाः ११७७ छन्दः - लौकिकवैदिकशब्दांशलन्दयति नियमयति प्रतिपादयति विरामादिव्यवस्थापको ग्रन्थः १ छन्दोबद्धवाक्यम् २ निय- मितवर्णमात्रानिबद्धचतुष्पादादिपद्यमिति ० ॥ ११८० ॥ छलं - शब्दवृत्तिव्यत्ययेनेतरार्थकल्पनम्१वक्तृतात्पर्याविषयार्थ- कल्पनेन दूषणाभिधानम्, यथा नवकम्बलोयं देवदत्तः । छेदनं- आरम्भकसंयोगविरोधिविभागा(नुकूलक्रिया) वच्छिन्न क्रिया
जट:- अपरिच्छिन्नासभ्यवदनपर इति मैत्र्युपनिषट्टीकायाम् जड:- स्वतःप्रत्यया भाववान्*१इष्टानिष्टानभिज्ञः २वेदग्रहणास जनकत्वं- अनन्यथासिद्धत्वे सति नियतपूर्ववृत्तित्वम् । जन्म-आद्यशरीरप्राणसंयोगः १ स्वादृष्टोपनिबद्धशरीरग्रहणमिति ग्रं० २ शरीरवियोगक्षणमारभ्य पुनः सुखाद्युपलब्धिपूर्वक्षणपर्य- जयः- उत्कर्षलाभः १ शत्रुपराण्ङ्भुखीकरणम् । [न्तमवस्थितिः जल्पः- प्रलापः * १ परपनिराकरणपूर्वकस्वपक्षस्थापनावती विजिगीषुकथा । [गत्यागलक्षणा'लक्षणमप्यत्र ० जहदजहल्लक्षणा- एकदेशपरित्यागे सत्येकदेशपरिप्रहरूपा' भा- जहल्लक्षणा- शक्यमात्रपरित्यागेन तत्संबन्ध्यर्थान्तरे वृत्तिः, यथा गङ्गायां घोष इति गङ्गापदस्य तीरे १ लक्ष्यतावच्छे- दकरूपेण लक्ष्यमात्रबोधप्रयोजिका लक्षणा ॥ ११९८ ॥ जाग्रज्जाग्रत्वम्-प्रमाज्ञानत्वम् ॥ १२०० ॥ जाग्रत्सुषुप्ति:- जाग्रदवस्थायां श्रमादिना स्तब्धीभावः १२०१॥१२०१॥ जाग्रत्स्वप्नः- शुक्तिरजतादिभ्रमः ॥ १२०२ ॥ जाग्रदवस्था-इन्द्रियजन्यान्तःकरणवृत्त्यवस्था १ दिगाद्यधिष्ठा- तृदेवतानुगृहीतैरिन्द्रियैः शब्दादिविषयानुभवास्था । सुषुप्ता- वतिव्याप्तिवारणाय शब्दादीति, स्वप्नवारणाय दिगादीति । जातिः- समानज्ञानजननी ४१ भिन्नेष्वभिन्नाभिधान प्रत्ययनिमि- -
त्तमिति वै०२ अनुगतबुद्धिव्यवहारहेतुभूतापरसामान्यम् ३मन- स्त्वात्मत्वातिरिक्तनित्यमात्रसमवेतान्यत्वे सति समवेतसत्ताना- श्रयः ४ अनिर्वचनीयबहुपदार्थघटितधर्मान्यतरधर्मरूपोपाधि- भिन्नत्वे सति नित्यत्वे सत्यनेकव्यक्तिवृत्तिधर्मः । घटादौ व्य- भिचारनिरासाय नित्यत्वे सतीति, अखण्डोपाधिरूपाभा- वत्वादावतिप्रसङ्गवारणायोपाधिभिन्नत्वे सतीति, जलपर- माणुरूपादौ व्यभिचार निवृत्तयेऽनेकव्यक्तिवृत्तित्वमिति । जात्युत्तरं-असदुत्तरम् १ स्वप्रतिबन्धकमुत्तरमिति ग्रं० २ छलादिभिन्नदूषणासमर्थमुत्तरम् ॥ १२१२ ॥ जारत्वम्-पराङ्गनाविषयकास्फुटानुरागवत्त्वम् ॥ १२१३ ॥ जिज्ञासा-ज्ञातुमिच्छा १ अज्ञातादिबुद्धिसिद्धये प्रवर्तिकेच्छा । जिज्ञासुः - ज्ञातुमिच्छु: १ आत्मज्ञानार्थिमुमुक्षुर्वा ॥१२१७॥ जितेन्द्रियः- श्रुत्वा स्पृष्ट्वाथ दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः, न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रिय: १२१८॥१२१८॥ जीवः - ज्ञानदर्शनादिमानिति जैनाः १ सुखादिसमवायिकारण- मिति नै० २ प्राणधारणा (श्रयः ३ ) नुकूलव्यापाराश्रयः ४ इन्द्रियविशिष्टशरीरवानिति ग्रं० ५ अविद्योपहितं चैतन्यम् ६ अविद्या (वच्छिन्नं चैतन्यम् ७) प्रतिबिम्बितं चैतन्यम् ७८ यद्वा, अन्तःकरणा (भासश्चेतनः ९ ) वच्छिन्नं चैतन्यम् १० अन्तःकरणप्रतिबिम्बितचैतन्यं वा ११चैतन्यमित्येकजीववादे ।
-
-
जीवनं- प्राणधारण (म् १ ) नुकूलव्यापारः२जीव्यतेऽनेनेति । जीवनचरितं- जीवनवृत्तान्तयुक्तो ग्रन्थः ॥ १२३२ ॥ जीवन्मुक्तः- स्वतः परतश्च व्युत्थानाव्युत्थानरूपपञ्चमीषष्ठ्यादि- भूमिकायुक्तः १ प्रारब्धकर्मनिवृत्तिपर्यन्तंः(बाधितचित्तादिम- त्त्वम् २ ) सुषुप्तिवयवहर्ता ३ जीवदवस्थायी ( त्यक्तसंसारः ४) हर्षशोकादिरहितत्वे सति स्वस्वरूपज्ञानवत्त्वं जीवन्मुक्तत्वम् । जीवन्मुक्तिः- श्रवणादिभिरुत्पन्नसाक्षात्कारस्य विद्वत्संन्यासिनः कर्तृत्वाद्यखिलबन्धप्रतिभासनिवृत्तिः १ स्वस्मिन्स्वदृशा सतता- ध्यासाप्रतिभासे सति यावत्प्रारब्धं स्वचित्ताद्यवस्थितिः । अज्ञ- समाधौ लोकदृष्टयाऽध्यासाप्रतिभासे सत्येव चित्ताद्यवस्थितिर स्तीति तत्रातिव्याप्तिवारणाय स्वस्मिन्स्वदृशेति, तत्त्वज्ञा- नोत्तरक्षणिकवृत्त्यभावे व्यभिचारवारणाय सततेति पदम्, स्वपदमादिपदं च क्रमात्कस्यचिजीवन्मुक्तिसत्त्वे कस्मिँश्चिदज्ञे यावत्प्रारब्धं चित्ताद्यवस्थितिसत्त्वात्तत्रातिव्याप्तिस्तथा व्युत्थि- तस्थितप्रज्ञे चक्षुरादिसत्त्वात्तत्राव्याप्तिरिति तयोर्व्यावृत्त्यै । जीवसाक्षी- अन्तःकरण (ोपलक्षितः १)तद्द्वृत्त्यन्यतरोपहितं चैतन्यं जीवाश्रयप्रमा- अनधिगताबाधितविषयाकारान्तःकरणवृत्ति. प्रतिबिम्बिता चित् । स्मृतावतिव्याप्तिवारणायानधिगतेति । ज्ञातत्वम्-ज्ञानभास्यत्वम् । [क्षणमप्यत्रप० ज्ञातसत्ता-ज्ञानसमकालीनविषयसत्ता १ 'प्रातिभासिकसत्ता'ल-
ज्ञाता-ज्ञानाश्रयः १ विषयचैतन्याभिव्यञ्जकान्तःकरणाज्ञानयोः परिणामात्मकनवृ (त्याश्रयः १ ) त्त्युपहितं चैतन्यम् ॥ १२४५॥ ज्ञानं- अर्थप्रकाशः १ आवरणभङ्गानुकूलो व्यापारः २ज्ञायतेनेनेति करणव्युत्पत्त्या वृत्तिर्ज्ञानम्, ज्ञप्तिर्ज्ञानमिति भावव्युत्पत्त्या संविज्ज्ञानं ज्ञानगतप्रत्यक्षत्वं-तत्तद्व्यवहारानुकूलचैतन्यस्य तत्तदर्थाभे- दः १ स्वाविषयविषयकज्ञानाजन्यज्ञानत्वम्। विशेषणज्ञानजन्यवि शिष्टज्ञानेव्याप्तिवारणाय स्वाविषयविषयकेति २ अपरोक्षा- र्थगोचर (त्वे सत्ययोग्यप्रमाणाजन्यत्वम् ३)व्यवहारजनकत्वयो- ज्ञानदण्डत्वं-अज्ञानतत्कार्यदमनहेतुत्वम् । [ग्यःज्ञानत्वं ज्ञानफलं- वर्तमानलिङ्गदेहनिवृतिः १ भाविजन्मानारम्भो वा । ज्ञानलक्षणसन्निकर्षः- स्वविषयविषयकप्रत्यक्षजनको ज्ञानवि- ज्ञानात्मा-ज्ञातृत्वोपाध्यहङ्कारावच्छिन्नं चैतन्यम् । [शेष: ज्ञानाध्यासः- अतस्मिँस्तद्बुद्धिः, यथा शुक्तौ रजतबुद्धिः १२६०॥१२६०॥ ज्ञानेन्द्रियं - ज्ञानकरणमिन्द्रियम् १ अपञ्चीकृतपञ्चमहाभूतका- र्यत्वे सति शब्दाद्युपलब्धिसाधनत्वं ज्ञानेन्द्रियत्वम् ॥ १२६२ ॥ ज्ञापकः - ज्ञानानुकूलशब्दः ३१ ज्ञानजन (कज्ञानविषयः २)कः । ज्ञापनम्-ज्ञानानुकूलव्यापारः ॥ १२६६ ॥ ज्ञेयत्वम्-ज्ञानविषयत्वम् ॥ १२६७ ॥ ज्ञेयचैतन्यं- घटाद्यवच्छिन्नं चैतन्यम्१ 'प्रमेयचैतन्य' लक्षणमप्य० ज्येष्ठत्वम्-बहुतरसूर्यस्पन्दान्तरितजन्यत्वम् ॥ १२६९ ॥
ज्योतिषं- ज्योतिः अधिकृत्य कृतं शास्त्रम १ सूर्यादिग्रहगत्या- दिकप्रतिपादको ग्रन्थः * २ सूर्यादिज्योतिर्द्वारा कर्मानुष्ठान- कालनिर्णयेष्टानिष्टफलप्रदर्शकम् ॥ १२७२ ॥ टिप्पनी- मूलटीकार्थबोधक्षमव्याख्यारूपा १ टेपतीति ॥१२७४॥ टीका- विषमपदव्याख्यारूपा १ व्याख्यान' लक्षणमप्यत्र पठनीयं
*त*
तटस्थः - वादिप्रतिवादिभावानापन्नः१तद्भित्वे सति तद्बोधकः तटस्थलक्षणत्वं- कादाचित्कत्वे सति व्यावर्तकत्वम्, यथा देव- दत्तस्य तिलकादिकम् । स्वरूपलक्षणेतिव्याप्तिवारणाय सत्य- न्तम्, लक्ष्यावृत्तितादृशधर्मेऽतिव्याप्तिवारणाय व्यावर्तकेति तत्पुरुषसमासः- उत्तरपदार्थप्रधानः समासः १ समासप्रयुक्त - लक्षणाशून्योत्तरनामपदकत्वे सति लुप्तद्वितीयादिविभक्तिकपूर्व- नामपदकसमासः । पञ्चफलीत्यादिवारणाय सत्यन्तम्, नीलो- त्पलादिवारणाय लुप्तेत्यादि २० तत्पुरुषपरिभाषाविषयत्वम् । तत्त्वज्ञानं- यथार्थज्ञानम् *१जीवब्रह्मणोरभेद(निश्चयः२) गोच- राऽन्तःकरणवृत्तिः २ इदं सर्वं द्वैतजातमद्वितीये चिदानन्दात्मनि मायया कल्पितत्वा मृषैव आत्मैवैकः परमार्थसत्यः सच्चिदान- न्दाद्वयोऽहमस्मीति ज्ञानम् ३'आत्मज्ञान' लक्षणमप्यत्र पठनीयं तत्त्वंपदार्थशोधनं- यद्यद्ध्द्यावृत्तं तत्तदनात्मा यदन्वयि तदात्मे - तथाहि- उक्तार्थदृढीकरणम् । [ ति निश्चयः
•
तदर्थ:- तस्यार्थः १ तदुपकारकः २ उपकार्योपकारकभावः । तनुमानसज्ञानभूमिका- निदिध्यासनाभ्यासेन मनस एका- ग्रतया सूक्ष्मवस्तुग्रहणयोग्यता । [णमप्यत्रप० तनुव्यसनं- तनुपोषणे साभिनिवेशप्रवृत्तिः १ 'देहवासना' लक्ष- तन्त्रम् - कार्यसाधकम् १ दृढप्रमाणम् * २ विस्ताराभावः ३ इतराधीनम् ४ स्वराष्ट्रचिन्ता वा ५ उभयार्थैकप्रयोगः ६ सकृ- दुच्चारितत्वे सत्यनेकार्थबोधकत्वं तन्त्रत्वम् ॥ १२९६ ॥ तपः- क्षुत्पिपासाशीतोष्णादिद्वन्द्वसहनम् १ शास्त्रीयमार्गेण काये- न्द्रियशोषणम् २ मनसश्चेन्द्रियाणाञ्चैकाग्र्याम् ३ अन्तर्मुखा- नि यदि खानि तपस्ततः किं ! नान्तर्मुखानि यदि खानि तपस्ततः किम्, अन्तर्बहिर्यदि हरिश्च तपस्ततः किं ! नान्तर्बहिर्यदि हरिश्च तपस्ततः किम् ॥ १२९७ ॥ तमः-तेजोऽभावः १स्पर्शरहितत्वे सति रूपवत्त्वं तमस्त्वम् । पृथि- व्यादिवारणाय सत्यन्तम्, आकाशादिवारणाय रूपवदिति । तमोगुणत्वं-गुरुत्वे सत्यावरकत्वे सति मोहकत्वम् ॥ १३००॥ तर्क:- अनिष्ट (पादनम् १ ) प्रसञ्जकः २ व्याप्यारोपेण व्यापका- रोपः, यथा यदि पर्वते वह्निर्न स्यात्तर्हि धूमोऽपि न स्यात् ३ युक्त्याऽर्थनिर्णयः ४ व्यभिचारादिशङ्कानिवर्तकः ॥१३०५ ॥ तात्पर्य- वक्तुरिच्छा १ प्रकरणोचितप्रतीतिजननानुकूलवृत्तिमत्त्वं तात्पर्यानुपपत्तिः- मुख्यार्थप्रत्यायने सति तात्पर्यस्यानुपपन्नत्वं
तादात्म्यं - भेदसहिष्णुरभेदः १ तद्भिन्नत्वे सति तद (भेदेन प्रती- यमानत्वम् २) भिन्नसत्ताकत्वम् ॥ १३११ ॥ तापः - प्रतिकूलवेदनीयः । [विपर्ययविशेषः
तामिस्रः-दुःखसाधने विद्यमानेपि किमपि दुःखं मे माभूदिति तारतम्यं-न्यूनाधि (क्यम् १ ) भावः २ उत्कर्षापकर्णौ ॥ १३१६॥ तितिक्षा- शीतोष्णादिद्वन्द्वसहिष्णुता ॥ १३१७ ॥ तिरोभावः-व्यवहारायोग्यत्वम् ॥ १३१८ ॥ तीर्थत्वं-पुण्यजनकत्वम् १ तरणस्थानत्वं वा २ तीर्यतेति १३२१॥१३२१॥ तीव्रतरवैराग्यं- पुनरावृत्तिसहितं ब्रह्मलोकादिपर्यन्तं मास्त्वि- ति स्थिरबुद्ध्या विषयजिहासा । [विषयजि० तीव्रवैराग्यं - अस्मिञ्जन्मनि पुत्रदारादिमास्त्विति स्थिरबुद्ध्या तुरीयावस्था- ब्रह्मध्यानावस्थस्य पुनः पदार्थान्तरापरिस्फूर्तिः तुल्यत्वं -स्वाभिन्नजातिसमनियतत्वम् १ एकाकारप्रतीतिजन- कधर्मवत्त्वं वा २ 'सादृश्य' लक्षणमप्यत्र पठनीयम् ॥१३२७॥ तुल्यबलविरोधः-अन्यत्रान्यत्र लब्धावकाशयोर्द्वयोः शास्त्र- योरेकत्र युगपत्प्राप्तिः । [च्छत्वबुद्धिः तुष्टिः-भोग्येष्वेतावताऽलमिति बुद्धिः १ अधिगतार्थादन्यत्र तु- तूलाऽविद्या- उपाध्यवच्छिन्नचैतन्याच्छादिकाऽविद्या १३३१॥१३३१॥ तृतीयात्वं- पच्यर्थधर्मिककरणत्वान्वयबोधानुकूलसुप्सजातीयत्वं तृप्तिः-फलेच्छाविच्छेदः १ विषयविशेषसंपर्कजं सुखमिति ग्रं०
॥
तृष्णा - प्राप्यमाणेष्वप्यर्थेष्वतृप्तिः १ यावदीप्सितद्रव्य प्राप्तौ सत्या- मपि पुनस्ततोऽधिकद्रव्याङ्क्षेति ग्रं० ॥ १३३६ ॥ तेज:- उष्णस्पर्शवत् १ चन्द्रचामीकरसमवेतत्वे सति ज्वलनस- मवेतसामान्यवान् * २ अप्रतिहताज्ञा ३ पराभिभवसामर्थ्य वा ४ स्त्रीबालकादिभिर्मूढैरनभिभाव्यत्वम् ॥ १३४१ ॥ तैजसजीवः- स्वप्ने व्यष्टिसूक्ष्मशरीराभिमानिजीवः१ व्यष्टिसूक्ष्म- कारणशरीरद्वयोपहितं चैतन्यम् । [ मध्यत्रप०
त्यागः- स्वत्वध्वंसानुकूलव्यापारः १ विभागानु० २'दान' लक्षण. त्रसरेणुः - द्व्यणुकत्रयात्मकरजः १ परमाणुषट्कसंबद्धरेणुर्वा । त्राटकम्-अश्रुसंपातपर्यन्तं सूक्ष्मलक्ष्यनिरीक्षणम् ॥१३४८॥ त्रिपुटी- त्रयाणां पुटानां पदार्थानां ज्ञातृज्ञानशेयरूपाणां समाहारः त्रिवृत्करणं- त्रीणि भूतानि द्विधा विदार्य प्रतिभूतमेकैकमर्द्ध द्विधा प्रस्फोट्य इतरभूतद्वये योजनम् ॥ १३५० ॥ त्रुटि:- क्षणद्वयात्मककालः * १ अवयवादिहीनता ॥१३५२॥ त्वगिन्द्रियं- स्पर्श (ग्राहकत्वं त्वक्त्वम् १) पलब्धिसाधनमिन्द्रियं
*द. [वच्छिन्नत्वं
दक्षिणत्वं- शरीरावयववृत्तिजातिविशेषः१ मेरुव्यवहितदेशा- दण्डः - दुष्टनिग्रहः १ ग्रहण (विच्छिन्नशासनम् २) पूर्वकशासनं दमः - इन्द्रियसंयमः १ ब्रह्मज्ञानोपयोगिव्यापारातिरिक्तबाह्येन्द्रि- यव्यापारमात्रनिरोध इति विजयसारे २ बाह्यवृत्तिनिवर्तनम् ।
-
दम्भः- परविस्त्रम्भार्थ धर्माद्याचरणम् ] पूजाख्यातिलाभार्थ स्त्र- जपध्यानादिप्रसङ्गं विना प्रकटीकरणं वा २ वेषभाषाकियाचातु- र्यादिभिः स्वमहत्त्व(र्थं व्यर्थमाडम्बरः ३) प्रकटनम् ४धर्मध्वजित्वं दया-दुःखि (तेषु भूतेष्वनुकम्पा १ ) नां प्रत्यनुजिघृक्षा १३६६॥१३६६॥ दर्पः - भर्त्सनादिहेतुभूतो मानसो विकारविशेषः १ धनस्वजन- विद्यादिनिमित्तश्चित्तस्योत्सेक इति ग्रं० ॥ १३६९ ॥ दर्शनं- विचारप्रयोजक (ज्य) ज्ञानम् १ तत्त्वज्ञानसाधनशास्त्र- मिति ग्रं० २ यथार्थनया ज्ञायते पदार्थोऽनेनेति ॥१३७२॥ दानं- स्वस्वत्वत्यागपूर्वकपरस्वत्वापादनम् १ 'त्याग' लक्षणमप्यत्र ० दान्तः- तपःक्लेशादिसहनकर्त्ता १ अन्तःकरण (सर्व) तृष्णातो निवृत्तः दार्ष्टान्तिकः- दृष्टान्तविशिष्टः १ दृष्टान्तेन युक्तः ॥ १३७९ ॥ दाहः-भस्नीकरणम् *१ अत्यन्तानलसंयोगजन्यनाशः १३८१॥१३८१॥ दिक्-अकालत्वे सत्यविशेषगुणा महती १ प्राच्यादिव्यवहारासा- धारणहेतुः । आकाशादिवारणायासाधारणेति ॥१३८३ ॥ दिनं- सूर्यकिरणावच्छिन्न कालः१ सूर्योदया(दितदस्तमयपर्य) स्त- दीक्षा- नियमः १ गुरुमुखात्स्वेष्टदेवमन्त्रग्रहणम् [पर्यन्तसमयः दीर्घसूत्री-चिरक्रियः १क्षणैकसाध्यका (र्य मासेनापि न करो- ति २ ) र्यस्य मासेन सम्पादनशीलः ॥ १३९० ॥ दुःखम्स-सर्वेषां प्रतिकूलतया वेदनीयम् १ इतरद्वेषानधीनद्वे- षविषयः । सर्पादावतिव्याप्तिवारणायेतरद्वेषानधीनेति २ द्विष्टसाधनताविषयकजन्यज्ञानाजन्यद्वेषविषयगुणः ॥ १३९३ ॥
दुराचारिणी- अपचरित्रा १ परभर्तृगामिनीति ग्रं० ॥१३९५॥ दूषकः - दोषोत्पादकः १ सदोषत्वसम्पादको वा ॥ १३९७ ॥ दूषणं-दोषजनकम् १ बाधकप्रमाणोपन्यासरूपथुक्तिभिः खण्डनं दूषितत्वम्-प्राप्तदोषत्वम् * १ दूषणयुक्तत्वम् ॥ १४०१ ॥ दृश्यत्वं- भानभास्यत्वम् * १ फलविषयत्वम् २ वृत्तिप्रतिफलित- चिद्विषयत्वमिति ग्रं० ३स्वसमसत्ताकज्ञानविषयत्वम्॥ १४०५॥ दृष्टकूटं- कूटार्थभाषितवाक्यम् १ अन्यार्थत्वे सत्यन्यार्थबोधकत्वं दृष्टकूडत्वम् २ पर्वताग्रे रथो याति भूमौ तिष्ठति सारथिः, भ्रमँश्च वायुवेगेन पदमेकं न गच्छति 'कुलालचक्रम्' पञ्चभत्री न पाञ्चाली द्विजिह्वा न च सर्पिणी, श्यामास्या न च मार्जारी यो जानाति स पण्डितः 'लेखनी' ॥१४०९ ॥ दृष्टान्तः - दृष्टः अन्तोऽवसानं निर्णयो यस्मिन् १ वादिप्रतिवा- दि (निर्णीतोर्थ: २) संमतोऽर्थः, यथा महानसम् ३ वादिप्रति- वादिनोः साध्यसाधनोभयप्रकारकतदभावद्वयप्रकारकान्यतर- निश्चयविषयः ४ निश्चितसाध्यकत्वं दृष्टान्तत्वम् ॥ १४१४ ॥ दृष्टार्थापत्तिः - अनुपपद्यमानदृष्टार्थज्ञानात्तदुपपादकीभूतार्था- न्तरकल्पनम्, यथा दिवाऽभोजिदेवदत्ते रात्रिभोजनमन्तरा- नुपपद्यमानपीनत्वदर्शनात्तदुपपादकीभूतस्यार्थान्तरस्य (रात्रि- भोजनस्य ) कल्पनम् ॥ १४१६ ॥ दृष्टिः-दर्शनम् १ चक्षुद्वारारूपोपलब्धिहेतुमनोवृत्तिः ॥१४१८॥
दृष्टिसृष्टिः-दृष्टिसम(नकालीनसृष्टि: १ ) समया विश्वसृष्टि: २ दृष्टिरेव विश्वसृष्टिः ३ त्रिविधसत्ताबहिर्भूतत्वे सत्यसद्विलक्षणत्वम् देवतात्वम्- मन्त्रकरणकहविस्त्यागभागित्वेनोद्देश्यत्वम् १४२३॥१४२३॥ देवताधिकरणन्यायः- देवतानां यज्ञादावधिकारित्वतद्भाव- योरन्यतरसाधको न्यायः १ देवतानां विग्रहवत्त्वतदभावयोरन्य० देवयानम्-सुराणां (यानम् १ ) गतिसाधनविमानम् ॥ १४२६॥ देवयानमार्गः- देवः परेशो यायतेऽनेन मार्गेण १अर्चिराद्यभि- मानिदेवाधिष्ठितो मार्ग: २ नागवीथ्युत्तरे यच्च सप्तर्षिभ्यश्च दक्षिणम्, उत्तरः सवितुः पन्था देवयानस्तु स स्मृतः । देशान्तरं - अन्यो देश: १महानद्यन्तरं यत्र गिरिर्वा व्यवधा- यक चो यत्र विभिद्यन्ते तद्देशान्तरमुच्यते ॥ १४३१ ॥ देशपरिच्छेदः - यत्किश्चिद्देशावृत्तित्वम् १ स्वाधिकरणदेश- वृत्त्यत्यन्ताभावप्रतियोगित्वमिति ग्रं० ॥ १४३३ ॥ देहः - इन्द्रियाश्रयः * १ प्रतिक्षणमुपचीयमानावयवः ॥१४३५॥ देहवासना-सदन्नपानादिसेवनबलवीर्यादिसंपादनालङ्करणादि- भिर्देहसौष्ठवसंपादनाभिनिवेशहेतुः १ देहानुभवजनितत्वे सति देहस्यैव पुनः पुनः(पुष्ट्याद्यर्थम् ) स्मरणहेतुरित्यादर्शे २ संपा- दयितुमशक्यत्वात्क्लेशबहुत्वादप्रामाणिकत्वात्पुरुषार्थानुपयोगि- त्वात्पुनर्जन्महेतुत्वादिति निरन्तराञ्चन्तनं देहवासनानिवृत्त्युपाय: देहाध्यासः- देहस्य तद्धर्मस्य वात्मतया तद्धर्मतया वाध्यासः ।
दैनन्दिनप्रलयः- ब्रह्मणः सुषुप्तिः * १ समष्टिलिङ्गशरीरलयः ।. दोषः - तावदन्यतमः * १ भ्रमोत्पादकः २ कार्यविरोधित्वं दोषत्वं द्योतकः- कियाविशेषाक्षेपकः * १ तात्पर्यग्राहकः २ संबन्धप- रिच्छेदक इति ग्रं० ३ स्वसमभिव्याहृतपदनिष्ठशक्तिव्यञ्जकः । द्रवत्वम् - आद्यस्यन्दनासमवायिकारणम् ॥ १४४८ ॥ द्रव्यत्वं - लिङ्गसङ्ख्याकारकान्वितत्वमिति वै० १ गुणक्रियाश्रय- त्वमिति मी० २ साक्षाः संबन्धेनेद्रियग्राह्यत्वम् ३ संयोगव- द्वृत्तिसत्तावान्तरजातियोगित्वमिति लक्षणमालायाम् ४ गग. नारविन्दसमवेतत्वे सति नित्यगन्धासमवेतत्वम् ॥ १४५४ ॥ द्रोहः - अहितेच्छा १ अनिष्टचिन्तनं वा २ परेषु स्वच्छन्दवृत्तिवि- रोधः * ३ दुःखजनकक्रियारूपापकारजनकश्चित्तवृत्तिविशेषः । द्वन्द्वसमासः-सर्वपदार्थप्रधानः १ परस्परानन्वित ( र्थकानेकप- दघटितत्वम् २) समस्यमाननिखिलपदार्थबोधकसमासः १४६२॥१४३२॥ द्वारं- गृहनिर्गमस्थानम् १ 'व्यापार'लक्षणमप्यत्र पठनीयम् १४६३॥१४६३॥ द्वितीयात्वं- तिबन्तपचधातूपस्थाप्यपाकथर्मिककर्मत्वानुभवा- नुकूलसुप्सजातीयत्वम् ॥ १४६४ ॥ द्वेषः- वृथा निन्दा १ परानिष्टाभिलाषः २ द्विष्टसाधनताज्ञानज- द्वैतवादः - जीवेश्वरादिभेदनिर्णायकः कथाविशेषः । [न्यगुणः द्वैताद्वैतम् - कार्यात्मना द्वैतं कारणात्मनाऽद्वैतम् ॥ १४६९ ॥ द्व्यणुकम्- परमाणुद्वयारब्धकार्यद्रव्यम् ॥ १४७० ॥
*ध* धनुर्वेदः - धनुर्विद्याबोधकशास्त्रम् १ धनुःप्रयोगसंहारज्ञापको वेदः धर्म:- अन्याश्रितत्वे सत्यस्वतन्त्रः *१ कल्याणकारिकर्म २ विहि- तकर्मजन्य इति ग्रं० २ वेदप्रतिपाद्यः प्रयोजनवदर्थः । प्रयोजनेऽ तिव्याप्तिवारणाय प्रयोजनवदिति, भोजनादावतिव्याप्तिवार- णाय वेदप्रतिपाद्य इति, श्येनादावतिव्याप्तिवारणायार्थ इति ४ कार्यनियोगापूर्वपर्यायकैः शब्दैरुच्यमानो धात्वर्थसाध्यस्वर्गा- दिफलसाधनपुरुषगुण इति प्राभाकरा: ५ यागजन्यस्वर्गजनक- वृत्तिगुणत्वव्याप्यजातिमानिति तार्किका: ६ क्रियासाध्यत्वे सति श्रेयस्कर इति लौकिकाः ७ धरति लोकान् *८ ध्रियतेनेनेति ९ सत्याज्जायते, दयया दानेन च वर्धते, क्षमायां तिष्ठति, क्रोधान्नश्यति धर्मशास्त्रं - वेदार्थ (नुभवजन्यं शास्त्रम् १) स्मरणपूर्वकरचितं शास्त्रं धर्मी- धर्माश्रयः १ प्रतियोगिभिन्नत्वे सति भेदनिरूपकत्वं धर्मित्वं धातुत्वं- क्रियावाचित्वे क्रियानिरूपितशक्तिविशिष्टत्वे वा सति धात्वर्थः- फलानुकूलव्यापारः । [गणपठितत्वं धारणा- न्यायपथस्थितिः १ सारासारावधारणपूर्वकं प्रत्युक्तिसमये स्मरणयोग्यतापादनम् २मूलाधारस्वाधिष्ठानमणिपूरकानाहत- विशुद्धाज्ञाचक्रदेशानामःयतरस्मिन्प्रत्यगात्मनि वा चित्तस्थापनं धारावाहिकज्ञानं-घटोघट इत्याकारकः सततप्रत्ययः १४९२॥१४९२॥ धृतिः - अवसन्नानां देहेन्द्रियाणामवष्टम्भहेतुः प्रयत्नः॥१४९३॥
धैर्य-शोकादिजनितोपप्लवनिवारणकारणीभूतवृत्तिः [वाहकर्ता ध्याता - ध्यानाश्रयः १ विजाती प्रप्रत्ययानन्तरितसजातीयप्रत्ययप्र ध्यानं- अन्तराऽन्तरा वृत्त्यन्तरवती प्रत्ययैकतानता (= सजाती- यप्रत्ययप्रवाहः) १ 'निदिध्यासन' लक्षणमप्यत्र पठनीयम् १४९६॥१४९६॥ ध्येयत्वम्- ध्यानविषयत्वम् ॥ १४९७ ॥ ध्रुवत्वं- प्रकृतधात्वर्थव्यापारानाश्रयत्वे सति तज्जन्यविभागाश्र- यत्वम् * १ प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वम् । *न* [जातिसंबद्धं नगरं - बुद्धिजीविजन निवासः १ पण्यक्रियादिनिपुणत्वे सत्यनेक ननु- संबोधनम् * वाक्यारम्भः २ प्रत्युक्तौ आक्षेपः । [म्यावस्था नपुंसकलिङ्गं - इदमितिव्यवहारविषयः *१सत्त्वादिगुणानां सा- नमस्कार:- 'प्रणाम' वदस्य लक्षणमनुसंधेयम् । [पार: नमस्कारमङ्गलं- स्वनिष्ठापकर्षविषयकबोधानुकूलः स्वीयव्या- नरकः- पापिलोकः पापभोगस्थानम् १ नास्त्यस्मिन्त्रमणं रतिकरं स्थानमल्पमपीति । [ग्रन्थविशेषः नाटकं - अङ्कसंध्यामुखादिमत्त्वे सति गद्यपद्यप्राकृतभाषादिमय- नादः - संवृते गलविवरे यत्कण्ठनिनादनकरणम् ॥ १५०७ ॥ नांतरीयकः- तत्सत्तानियतसत्ताकः १ अन्यनिष्पादकयत्ननिष्पाद्यः नाम- संभावना * १ विभक्तिहीनशब्दः २ लिङ्गसङ्ख्यान्वय्यर्थप्र- तिपादकमिति ० ३ शब्दनोच्चारितेनेह येन द्रव्यं प्रती-
यते, तदक्षरविधौ युक्तं नामेत्याहुर्मनीषिणः ॥ १५१३ ॥ नाममात्रत्यं - स्ववीर्यहीनत्वे सति सञ्ज्ञामात्रधारित्वम् १५१४॥१५१४॥ नास्तिकः - वेदनिन्दकः १ परलोकाद्यभावप्रतिपादक इति मं० निगमः - अध्वनिपर्यायकथनेन वेदार्थबोधकः ॥ १५१७ ॥ निगमनं- सहेतुकं पक्षस्य साध्यवत्तया पुनर्वचनम् १ हेत्वपदेशात्प्र- तिज्ञायाः पुनर्वचनम्, यथा तस्मात् (धूमात्) तथा ( वह्निमान्) इति निग्रहः -पराजयः १ अनुग्रहाभावः २'निरोध'लक्षणमप्यत्रपठ० निग्रहस्थानं- पराजयहेतुः १ वादिप्रतिवादिनोऽसामर्थ्यबोधकं निघण्टुः- नामसङ्ग्रह: *१पर्यायनाम्नामेकत्रार्थकथनार्थसङ्ग्रहः २ वैदिकद्रव्यदेवतात्मकपदार्थपर्यायशब्दात्मत्वम् ॥ १५३५ ॥ नित्यत्वं- कृताकृतप्रसङ्गित्वमिति वै० १ अविच्छिन्नपरम्पराक- त्वम् *२ सर्वकालवृत्तित्वम् ३त्रैकालिकनिषेधात्यन्ताभावाप्रति- योगित्वमिति ग्रं० ४ ध्वंस प्रतियोगिवृत्तित्वविशिष्टसत्तायोगित्वं नित्यकर्म- अवश्यापेक्षितफलसाधनं कर्म १ करणे चित्तशुद्ध्यति- रिक्तफलाननुबन्धित्वे सत्यकरणे प्रत्यवायानुबन्धित्वम्, यथा ब्राह्मणस्य संध्यागायत्र्यादि २ प्रत्यवायजनकीभूताभावप्रति- योगित्वम्, यथा एकादश्यामुपोषणमिति ३ अहरहर्जायमान- त्वम्, यथा नित्यं कुमाराः क्रीडन्तीति ॥ १५३४ ॥
नित्यप्रलयः- प्राणिनां सुषुप्तिः १ नित्यः प्रात्यहिकः प्रलयः । निदिध्यासनं- अपरोक्षनिश्चयत्वसंपादको (व्यापारः १ ) स्त-
र्कः *२ श्रुतार्थस्य नैरन्तर्येण दीर्घकालमनुसंधानम् ३विजातीय- प्रत्ययतिरस्कारेण सजातीयप्रत्ययप्रवाहीकरणमिति कौस्तुभे । निद्रा- अभावप्रत्ययालम्बना वृत्तिः * १ प्रबुद्धप्रत्यवमर्शहेतुः । निंदा- दोषाविष्करणम् १ विरोधिभिः पुरुषैः स्वस्मिन्नापादिता दो- षोक्तिरिति ग्रं० २ आस्थेन परस्य विद्यमानाविद्यमानदेषसकीर्तनं निन्दार्थवाद:- अनिष्टबोधनद्वारा ( निषेधवाक्यैकवाक्यतया निवर्तकं वाक्यम् १ ) विध्यर्थप्रवर्तकं वचनम् ॥ १५४७ ॥ निन्दितं- निन्दायुक्तम् १ शास्त्रलोकयोर्गर्हितमिति ग्रं० ॥१५४९ ॥ निपात:-) निकृष्टः पातः १ अन्तिमपतनम् * २ सिद्धप्रक्रियस्य निपातनं-) निर्देशः ३ अन्यादृशप्रयोग प्राप्तेऽन्यादृशप्रयोगकरणं निमन्त्रणं- आवश्यकश्राद्धभोजनादौ प्रवर्त्तनम् ॥ १५५२ ॥ निमित्तकारणं- स्वातिरिक्तकार्यजनकम् १ कार्योत्पत्तिमात्रका- रणम्, यथा घटादेः कुलालादि २ कार्यानुकूलव्यापारवत्त्वं नि- मित्तकारणत्वम् ३ कार्यस्थित्यनियामकत्वे सति कार्यजनिनि- यामकत्वम् । उपादानकारणवारणाय सत्यन्तम् ॥ १५५६॥ नियमः- अनुमित्यनुकूलसंबन्धः १ न्यूनाधिकावृत्तिः २अविनाभा- वेन सहावस्थानमिति ग्रं० ३ निश्चयानुकूलप्रतिबन्धः ४जन्महेतु- काम्यधर्मान्निवर्त्य मोक्षहेतौ निष्कामधर्मे नियमयति प्रेरयतीति५ शौचा (द्यन्यतमः ६) दिसंपादनम् ७कायवाक्साध्यत्वे सति योगा- ङ्गविशेषः ३ ८ आमन्नुकसाधनकर्मरू (पो व्रतः ९) पाङ्गीकारः ।
नियमविधिः-पक्षे (ऽप्राप्तस्य प्रापकत्वम् १ ) प्राप्तस्याप्राप्तांश- पूरको विधिः, यथा यागाङ्गत्वेन प्राप्तानां व्रीहीणां नखविदलनमु- सलाबहननयोर्द्वयोः पक्षयोः कदाचिन्नखविदलनस्य प्राप्तौ सत्यां मुसलावहननमप्राप्तं स्यात्तस्य पूरको द्रोहीनवहन्यादित्यव- घ्रातविधिः २ अन्यनिवृत्तिफलकसिद्धविषयक विधिः ॥१५६७ ॥ नियोगः- प्रवृत्त्यनुकूलो व्यापारः १ प्रवर्तकज्ञानोपधायकतानि- र्वाहकव्यापारः २ 'एवं कुरु' इत्याकारकादेशः । [यकं नियोज्यं -नियोग (जन्यप्रवृत्तिमत् १) र्हम् २ प्रवर्तकज्ञानोपधा- निरर्थकत्वं- प्रयोजनशून्यत्वम् १ प्रकृतानुपयोगित्वं वा १५७३॥१५७३॥ निरुक्तं- पदनामवयवार्थनिर्वचनप्रतिपादको ग्रन्थः १ वैदिकप- दानां पर्यायव्युत्पत्त्यादिप्रतिपादकं शास्त्रम् *२ शब्दस्य सर्वा- वयवार्थानुगमेन प्रसिद्धार्थादर्थान्तरे वृत्तिः, यथा सोमशब्दस्य पार्वतीसहितमहेश्वरे शक्तिरिति विवरणे । [वत्त्वं निरुपाधिकभेदत्वं- उपाधिसत्ताव्याप्यसत्ताकत्वात्यन्ताभाव- निरुपाधिकभ्रमः- अधिष्ठानज्ञाननिवर्त्यो भ्रमः ॥ १५७८ ॥ निरुपाधिकाध्यासः- उपाधिनिरूपगानधीननिरूपणाध्यासः । निरूढः - शक्तितुल्यलक्षणयार्थबोधकः शब्दः ॥ १५८० ॥ निरूढलक्षणा- अनादितात्पर्यविषयीभूतार्थनिष्टा लक्षणा, यथा नीलो घटः । [ प्रयोगः निरूपणं- लक्षणप्रमाणस्वरूपाभिधानम् १ तत्त्वज्ञानानुकूल
निरोधः- गत्यादिप्रतिरोधः *१ इन्द्रियाणां विषयेभ्यो निग्रहणं निर्गुणत्वं- गुणातीतत्वम् १ विद्यादिहीनत्वम् *२ स्वसमानस- त्ताकधर्मवद्यद्यत्तद्भिन्नत्वे सति तुच्छभिन्नत्वम् ॥ १५८८ ॥ निर्णय:- अनुभूतार्थकथनम़् *१ संदेहनिराकरणफलकं ज्ञानम् २ विरोधपरिहारकोऽधिकरणाङ्गविशेषः ३ सिद्धान्तसिद्धविचा- र्यवाक्यतात्पर्यावधारणमिति ग्रं० ॥ १५९१ ॥ निर्देशः - शब्दप्रयोगः*अव्यवधानपूर्वककथनम् २ विस्तारपूर्वक ० निर्वाहकं- उत्पत्त्यनुकूलम् १ तदन्यत्वे सति तन्निर्वाहकनिर्वाह्यं निर्विकल्पकं- वस्तुस्वरूपमात्रग्रहणम् १ संसर्गानवगाहिज्ञानम्, यथा सोऽयं देवदत्तः २ विशेषणविशेष्यसंबन्धानवगाहिज्ञानम् निर्विकल्पसमाधिः-ज्ञातृज्ञानज्ञेयविकल्पानवभासपुरःसरमा- त्मनि चित्तसमाधानम् । [शकयत्नः निवृत्तिः- प्रवृ (त्तिप्रागभावरूपमौदासीन्यम् १ ) त्त्युपाधिविना- निश्चयः - संशयविरोधिज्ञानम्१ तदभावाप्रकारकत्वे सति तत्प्रका- निषिद्धकर्म- प्रत्यवायजनकं कर्म, यथा गोहत्यादि । [रकज्ञानं निषेधवाक्यं -पुरुषनिवर्तकवाक्यम् १ अनिष्टसाधनताबोधकवा ० निष्कर्ष:- सारांश: १ इयत्तापरिच्छेदो वा २ निष्कृष्टः ॥ १६१० ॥ निष्कामत्वं- भोगेच्छाशून्यत्वम् १ विषयकामनासामान्याभाववत्त्वं निष्कामकर्म- कामनारहितं कर्म १ कर्तृत्वाभिमान फलेच्छाऽभा- ववत्त्वे सत्यन्तर्यामीश्वरचरणैकसमर्पितत्वं निष्कामकर्मत्वम् ।
..
-
निष्परिग्रहः- कन्थाकौपीनाध्यात्मपुस्तकादिव्यतिरिक्तद्रव्या- नङ्गीक ( र्ता १ ) रः ॥ १६१६ ॥ नीतिः- ) न्यायबोधकवाक्यम् १राजविद्यानियन्तृशास्त्रम् २ नीतिशास्त्रं- ) संधिविग्रहादिप्रतिपादकशास्त्रमिति ग्रं० १६१८॥१६१८॥ नृत्यं- सङ्गीतशास्त्रानुकूलहावभावपूर्वकहस्तादिव्यापारः १पदार्था- भिनयपूर्वकत्वे भूचरणसंयोगत्वे वा सति सविलासतालानुसार्यङ्गविक्षेपः नैमित्तिककर्म- कुतश्चिन्निमित्तात्कृतं कर्म, यथा पुत्रेष्ट्यादि १ अनुष्टाने फलविशेषजनकत्वे सत्यननुष्ठाने प्रत्यवायजनकम् । नैमित्तिकप्रलयः- सर्वकार्यद्रव्यध्वंसः १ कार्यद्रव्यानधिकरण- कार्याधिकरणकालः *२ कार्यब्रह्मणो दिवसावसाननिमित्तऋ- स्त्रैलोक्यमात्रप्रलयः ३एकस्मिन्मन्वादावपगतेऽपराधिपत्यान्त- नैयायिकः - षोडशपदार्थानुसारिन्यायज्ञः ।. [रालकाल: नैवेद्यं - देवतोद्देशेन (निवेदनीयद्रव्यम् १ ) त्यक्तद्रव्यम् ॥ १६२८॥ नैष्ठिकब्रह्मचारी-यावज्जीवं गृहीतब्रह्मचर्यव्रतः ॥ १६२९ ॥ नोदनसंयोगः- स्पर्शवद्द्रव्यसंयोगः ॥ १६३० ॥ नोदना- क्रियासु प्रवर्तकं वचनम् १ क्रियां प्रति प्रवर्तकं वचः । न्यायः - लोकशास्त्रप्रसिद्धदृष्टान्तः १ प्रमा(गैरर्थपरीक्षणम् २) णानु- ग्राहकतर्कः ३ उचितानुपूर्वीकप्रतिज्ञादिपञ्चकसमुदायः ४ अनु- मितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यम् न्यायशास्त्रं- परार्थानुमानप्रधानं शास्त्रम् १ पदार्थानां सर्वेषा- मनुगमरूपेण प्रकाशको ग्रन्थः ॥ १६३९ ॥
न्यूननिग्रहस्थानं- यत्किञ्चिदवयवशून्यावयवाभिधानम् १६४०॥१६४०॥ न्यूनवृत्तित्वं-तत्समानाविकरणभेदप्रतियोगितावच्छेदकत्वम्
*प*
पक्ष:- अनुमित्युद्देश्यः १ संदिग्धसाध्यवान्. २ सिषाधयिषितधर्मा- नुयोगी ३वादिप्रतिवादिदर्शितविप्रतिपत्तौ कोटि: ४ शुक्लकृष्ण- प्रतिपदादिपञ्चदश्यन्तपञ्चदशतिथ्यात्मककाल इति मौहूर्तिकाः पक्षपातः- न्यायविरुद्धपक्षावलम्बनम् १ पक्षेऽन्याय्यसाहाय्ये पातः अभिनिवेशः । [निवेश: २) स्थितिः पङ्कि:- ग्रन्थार्थबोधकशब्दः १ सजातीयपदार्थानां (क्रमेण सं. पञ्चीकरणं- स्वस्वेतरभूतचतुष्टयभागविशेषेण मिश्रीकरणम् १ भूतानि प्रत्येकं पञ्चधा विभज्य सद्भूतांशे पञ्च समुदायकरणम् २ पञ्चानां भूतानामेकैकं द्विधा विभज्य स्वार्द्धभागं विहायार्धभागं चतुर्धा विभज्येतरेषु योजनम् । [ धानुकूलसुप्सजातीयत्वं पञ्चमीत्वं- पतधात्वर्थतावच्छेदकरूपावच्छिन्नधर्मिकविभागबो. पण्डितः- पण्डा शास्त्रतात्पर्यवती सदसद्विवेकिनी वा बुद्धिः सञ्जा पतनं- पातित्यम् *१अधःसंयोगानुकूलक्रिया । [ता यस्य पतित्वं - निरतिशयहक्कियाशक्तिमत्त्वमिति शैवाः ॥ १६५८ ॥ पतितः - नरकगमन (हेतुभूतक) सूचककर्मविशेषकारकः १६५९॥१६५९॥ पतिव्रता- आर्त्तार्ते मुदिता हृष्टे प्रोषिते मलिना कृशा, मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥१६६०॥
पत्रं- लेखनाधारः १ पात्यते स्थानात्स्थानान्तरं समाचारोऽनेन। पदं- विभक्तयन्तशब्दः *१ वर्णसमूहः २ अर्थवद्वर्णो वा ३ वाक्यैकदेशः ४ प्रत्येकं संभूय वा वाक्यांशबोधको वर्णः * ५ शा[^१]ब्दप्रतीत्यजन्यशाब्दप्रतीतिजनकं वर्णात्मकम् । शाब्दप्र- तीतिजन्यशाब्दप्रतीतिजनकं वाक्यं प्रथमविशेषणेन व्याव- र्त्यते, द्वितीयेन प्रत्यक्षानुमानादावतिव्याप्तिर्व्युदस्यते, वर्णात्म- कत्वविशेषणेनादृष्टेश्वरादि ६ वृत्तिमत्त्वं पदत्वम् ॥ १६६९ ॥ पदार्थ:- पद (स्यार्थ: १) बोध्योऽर्थः २ पदनिष्टवृत्तिविषयः * ३ द्रव्याद्यन्यतमः । [स्फूर्त्यवस्था पदार्थाभावनी- असंसक्तिभूमिकाभ्यासपाटवाच्चिरं प्रपश्चापरि- पदैकवाक्यत्वं- निरूप्यनिरूपकभावापन्नविषयताप्रयोजक- त्वम् १ पदस्य वाक्येन सह्रैकवाक्यतयैकार्थबोधकत्वम् २ पद- रूपार्थवादवाक्यस्य विधिवाक्येन सह यदेकवाक्यत्वमिति ग्रं॰ पद्यं- छन्दोबद्धवाक्यम् १पादलक्षणसहितपदसमूहः । [ कारणं परत्वं- शत्रुत्वम् * 1 सीमापरिच्छिन्नत्वम्२परव्यवहारासाधारण- परकृत्यर्थवादः- पुरुषविशेषनिष्ठमिथोविरुद्धकथनम्, यथा यद्वि श्वेदेवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेवत्वम् ॥ १६८५ ॥ परतन्त्रत्वं - उत्कृष्टशास्त्रत्वम् * १ इतरसत्ताधीनसत्ताकत्वम् । परतउत्पत्तिकत्वं- ज्ञानमात्रजनकसामग्र्यतिरिक्तकारणप्रयो- [^१ शब्दजनिता या प्रतीतिस्तयाऽजन्यत्वे सति शाब्द प्रतीतिजनकं यत्तत् ।]
ज्यत्वम् १ आगन्तुकभावकारणा (पेक्षज्ञानसामग्रीजन्यत्व २) सहकृतज्ञानप्रयोजकप्रयोज्यत्वमिति ग्रं० ॥ १२८९ ॥ परतोग्राह्यत्वं- स्वाश्रयग्राहकातिरिक्त सामग्रीग्राह्यत्वम् १ ज्ञा- नमात्रग्राहकसामग्रीभिन्नसामग्रीग्राह्यत्वमिति ग्रं० ॥१६९१॥ परतःप्रमाणत्वं- आम्नायरूपमूलप्रमाणसापेक्षप्रमाणत्वम्१६९२॥१६९२॥ परदेशः - विदेशः १ स्वाधिष्ठितदेशाद्भिन्नदेशः ॥ १६९४ ॥ परप्रकाशत्वं- वेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वम् ॥१६९६॥ परममहत्त्वं- अपकर्षानाश्रयपरिमाणवत्त्वम् । [खासूत्ररहितः परमहंसः- परमः श्रेष्ठः हंस आत्मा यस्य १ आत्मनिष्ठापूर्वकशि- परमाणुः- परमः सर्वचरमकः अणुः १ मूर्तत्वे सति निरवयवः २ मनोभिन्नत्वे सति परमाणुत्वपरिमाणवान् ३ जालसूर्यमरीचिस्थं यत्सूक्ष्मं दृश्यते रजः, तस्य षष्टितमो भागः परमाणुः स उच्यते । परमात्मा- मायायां प्रधानभूतसत्त्वोपाधिकचैतन्यम् १ 'ईश्वर'लं ० परम्परासंबन्धः - स्वसंबन्धिनः संबन्ध : १ साक्षात्संबन्धिनः सं० परम्परासाधनं - परम्परयां साधनम् ॥ १७०६ ॥ परलोकः- शरीरान्तरसंबन्धः १ स्थूलशरीराभिमानपरित्याग इति ग्रं० २ पारलौकिकस्थितिस्थानम् ॥ १७०९ ॥ परवैराग्यं- ब्रह्मज्ञानसाधारणविषयवैतृष्ण्यम् ॥ १७१० ॥ परसामान्यं- अनुगतबुद्धिव्यवहारहेतुभूतसत्ता१ अधिक देशवृ- पराक्रमः- परबलनिराकरणम्१ 'पुरुषार्थ'लक्षणम [त्तित्वं
पराजयत्वं- कृत्यसाध्यत्वधीप्रयुक्तप्रवृत्त्यभावत्वम् ॥१७१४॥ परामर्शः- व्याप्तिवि (शिष्टपक्षधर्मताज्ञानम् १) षयकपक्षधर्मता- परार्थानुमानं- न्यायप्रयोज्यानुमानम् । [ज्ञानं परार्थानुमितिः-स्वयं व्याप्याद्व्यापकं प्रतीत्य परप्रतिपत्त्यर्थं प्रयुक्ता(त्पञ्चा) त्र्यवयववाक्यात्परस्य व्यापकप्रत्ययः ॥ १७१८ ॥१७१८॥ परार्द्ध - सङ्ख्या (ऽशेषः १) पर्यवसानम् २ स्थानात्स्थानं दशगुण- मेकैकं गुण्यते द्विजाः, ततो ह्यष्टादशे भागे परार्द्धमभिधीयते । परावाक्- मूलाधारचक्रस्थवाय्वभिव्यङ्ग्योतिसूक्ष्मात्माऽस्मदा- देरप्रत्यक्षः शब्दः । [णम्१) धिकार्थार्जनं परिग्रहः- शरीरनिर्वाहा (र्थकमस्पृहत्वेपि परोपनीतं बाह्योपकर - परिचयः- तत्तेदन्तोल्लेखिनी बुद्धिः १ ज्ञातस्य पौनःपुन्येन ज्ञानं परिचायकत्वं- तदघटकत्वे सत्यर्थविशेषज्ञापकत्वम् ॥ १७२६॥ परिच्छिन्नत्वं- भेदप्रतियोगित्वम् १ प्रतियोगिसमानसत्ताका- त्यन्ताभावप्रतियोगित्वमिति ग्रं० २ अत्यन्ताभावाद्यन्यतमप्र० परिणामः- पूर्वावस्थापायेऽवस्थान्तरापत्तिः १ पूर्वरूपपरित्यागे सति नानाकारप्रतिभास इति मं० २ उपादानस (लक्षणत्वे) मस- ताकत्वे सत्यन्यथाभावः । विवर्तवारणाय सत्यन्तम्, घटस्य तन्तुपरिणामत्ववारणाय विशेष्यम् ३ प्रकृतेरन्यथाभावः १७३३॥१७३३॥ परिभाषा- कृत्रिमसंज्ञा १ आधुनिकसङ्केतो वा २ उभयवृत्तिधर्मा-
वच्छिन्नसङ्केतवती संज्ञा ३ शास्त्रकृतासाधारणसङ्केतत्वम् १७३७॥१७३७॥ परिमाणं- मानव्यवहारासाधारणकारणम् । दण्डादिवारणाय मानेति, कालादिवारणायासाधारणेति, शब्दत्ववारणाय का- परिशिष्टं- अवशिष्टार्थबोधकग्रन्थः । [रणमिति परिशेष:- प्रसक्तप्रतिषेधे सत्यन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः परिशेषानुमानं- विशेषाभावसहकृतसामान्यहेतुकानुमानम् । परिसङ्ख्याविधिः- उभयप्राप्तावितरव्यावृत्तिबोधको विधिः, यथा यागाङ्गत्वेन पशुरशनाग्रहणे कर्तव्ये यागाङ्गत्वविशेषांद- श्वगर्द्दभयोर्द्वयोरशनाग्रहणशङ्कायामश्वाभिधानीमादत्ते इत्ति गर्दभरशनाग्रहणव्यावृत्तिविधिः । यथा वा पञ्च पञ्चनखा(=खड्ग- कूर्मशशशल्लकीगोधाः) भक्ष्या इति, नकलजं भक्षयेदित्यादिनि- षेधवाक्येऽतिव्याप्तिवारणायोभयप्राप्ताविति । [पार: परिहारः- दोषा(पनयः १) द्युद्धरणम्२ अज्ञानाभावसंपादकव्या- परीक्षकः - तर्केण प्रमाणैरर्थ परीक्षिता १ प्रमाणेन परीक्ष्य व्य- वहर्ता ३२ शास्त्रसंस्कृतमतिः ३ प्राप्तशास्त्रजन्यधीप्रकर्ष इति ग्रं० परीक्षा- दुष्टादुष्टतावलोकनम् १ तर्कप्रमाणादिना वस्तुतत्त्वावधारणं `परोक्षत्वं- द्व्यहवृत्तत्वम् १ कुड्यकटाद्यन्तरितत्वम् * २ परोक्ष- ज्ञानविशिष्टत्वम् ३ साक्षात्काराविषयत्वमिति ग्रं० ॥१७५५॥ परोक्षज्ञानं- विषयचित्तादात्म्यानापन्नं प्रमाणचैतन्यम् १७५६॥१७५६॥ परोपकारः- परस्य हितसम्पादनम् ॥ १७५७ ॥
पर्यन्तत्वं- तदवधिकविप्रकर्षशून्यत्वे सति तत्सन्निकृष्टत्वम् १७५८॥१७५८॥ पर्यवसानं- तात्पर्यवृत्त्या बोधनम् । [र्थकथनं पर्याय:- नानाशब्दकार्थबोधकः १ तत्समानार्थकपदान्तरेण तद- पशु:- सर्वमविशेषेण पश्यति १ पशुत्वसंबन्धी २ लोमवल्लाङ्गूलवत्त्वं पश्चिमत्वं - अस्ताचलसन्निहितदेशावच्छिन्नत्वम् ॥ १७६५ ॥ पश्यन्ती- नाभिचक्रस्थवाय्वभिव्यङ्ग्यो योगिप्रत्यक्षगोचरः शब्द पाकः - विजातीयतेजः संयोगः १ विक्लित्त्यनुकूलव्यापारो वा । पाखण्ड:- परवञ्चनार्थ (उच्छृङ्खलप्रवृत्तिः १) तपोजपाद्यभिनयः । पाखण्डी- वेद([देशान्यथा कर्ता १) विरुद्धार्थप्रतिपादकः १७७२॥१७७२॥ पाठ:- कण्ठताल्वाद्यभिघातेन शब्दस्योत्पत्तिरभिव्यत्त्किर्वा १ शास्त्रादेः पौनः पुन्योनोच्चारणम् ॥ १७७४ ॥ पाठवासना- शास्त्रतात्पर्याग्रहणपूर्वकशास्त्रपाठमात्रेष्वासक्तिः । पाणि:- मणिबन्धावध्यङ्गुलिपर्यन्तः १ आदानक्रियासाधनेन्द्रियं पात्रम् - स्वयजमानयो रक्षकम् १ पतन्तं त्रायते ॥ १७७९ ॥ पादः- श्लोकादिचतुर्थभाग: १पुनरावर्तमानत्वे सति विरतिमत्पदं पादेन्द्रियम्- गमनकियासाधनमिन्द्रियम् ॥ १७८१ ॥ पापं- अनिष्टान्तरजनकम् १ वेदैकप्रतिपाद्यमनर्थम् २ निषिद्धक्रि- पापकर्म- पापजनकं कर्म । [याजन्यं पापमध्यमम्- आम्रपनसादिशरीरापादकम् ॥ १७८६ ॥ पापसामान्यं- लोकेज्यगोगजाश्वत्थतुलस्यादिशरीरप्रापकम् ।
पापोत्कृष्टं- परतापकगुच्छगुल्मवृश्चिकादिशरीरप्रापकम् १७८८ ॥१७८८॥ पामरत्वं- शास्त्रसंस्कारशून्यत्वे सत्यैहिकविषयपरमार्थदृष्टिमवं पायु:- मलद्वारम् १ विसर्गक्रियासाधनमिन्द्रियम् ॥ १७९१ ॥ पारमार्थिकः- स्वाभाविकः १ ब्रह्मसमानसत्ताकः २ कालत्रयाबाध्यः पारायणं- भागवतादीनामा (वृत्त्या पाठ: १ ) घन्तपाठाधिकारेण प्रवृत्तं पारिभाषिकः - शास्त्रकारसङ्केतविशेषेण तत्तदर्थबोधकः शब्दः । पितृत्वम्- सपिण्डीकरणोत्तरश्राद्धजन्यफलभागित्वम् ॥१७९७॥ पुण्यं - इष्टान्तरजनकम् १ विहितानुष्ठानजन्यत्वं पुण्यत्वम् १७९९॥१७९९॥ पुण्यकर्म- पत्रित्रं कर्म १ पुण्यजनकत्वं पुण्यकर्मत्वम् ॥ १८०१ ॥ पुण्यमध्यमम्- इन्द्रादिशरीरप्रारकम् ॥ १८०२ ॥ पुण्यसामान्यम्- यक्षादिशरीरापादकम् ॥ १८०३ ॥ पुण्योत्कृष्टं- हिरण्यगर्भशरीरप्रापकम् ॥ १८०४ ॥ पुनरुक्तं - ) अनुवादं (न्यत्वे सति पुनर्वचनम् १ ) विना कथित पुनरुक्तिः ) स्य पुनः कथनम् २पुनः पुनरुक्तिः ३ एकार्थबोधका- पुरम्- बहुग्रामीणव्यवहारस्थानम् । [नेकपदोक्तिः पुरश्चरणं- मन्त्रफलसिद्ध्यर्थं नियतसङ्ख्याको जपः १ मन्त्रफल - सिद्ध्यर्थमुपोद्धातत्वेन पूर्वसेवनमिति ग्रं० ॥ १८१० ॥ पुराकल्पार्थवादः- ऐतिह्यसमाचरिततया कीर्तनम् ॥ १८११॥ पुराणं- पुरातनम् १ पुरा (भवम् २) नवम् ३ वेदाख्यानोपनि- बन्धनम् ४ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंशानुच-
रितश्चैव पुराणं पञ्चलक्षणम् । [सत्यजनकत्वं पुरुषः- पूर्ष्वष्टसु वसतीति १ पुरुषार्थसंपादनयोग्यः २ अजन्यत्वे पुरुषार्थ:- पुरुषेण साध्योऽर्थः १ त्रिविधदुःखात्यन्तनिवृत्तिः *२ पुरुषाभिलाषविषयः २ सुखावाप्तिर्दुःखपरिहार: ४ पुंस्त्वम् । पुँल्लिङ्गत्वं- अयमितिव्यवहारविषयत्वम् ॥ १८२६ ॥ पुस्तकत्वं- लिप्याधारत्वम् १ तैलाद्रक्षेजलाद्रक्षेद्रक्षेच्छिथिलब- न्धनात्, मूर्खहस्ते न दातव्यं वदेदेवश्च पुस्तकम् ॥१८२७॥ पूजा- धनाद्यर्पणम् १ पादप्रक्षालना (दिक्रिया २ ) चेनाद्यतिशयितृत्वं पूरकप्राणायामः- इडया षोडशमात्राभिः प्राणवायोः पानम् । पूर्वत्वम्- प्रागभाववत्त्वम् *१ क्रियाजन्यसंयोगप्रतियोगि- त्वम् २ उदयाचलसन्निहितदेशावच्छिन्नत्वम् ॥ १८३३ ॥ पूर्वपक्षः- सिद्धान्तविरुद्धकोटि: १ शास्त्रीयसंशयनिरासार्थः प्रश्न इति ग्रं० २ प्रकृतार्थविरोधितर्कोपन्यासरूपोधिकरणाङ्गविशेषः पूर्वमीमांसा- पूर्वकाण्डवेदविचारशास्त्रम् १ 'कर्मकाण्ड' लक्षणम० पूर्ववदनुमानं- पूर्वगृहीतव्यक्तिसामान्यविषयमनुमानम् १८३८॥१८३८॥ पूर्ववृत्तित्वं- कार्यप्रागभावाधिकरणक्षणवृत्तित्वम् ॥ १८३९ ॥ पृच्छा- ज्ञातुमिच्छा १ जिज्ञासाविषयकज्ञानानुकूलव्यापारः । पृथक्त्वम्- पृथग्व्यवहारासाधारणकारणम् ॥ १८४२ ॥ पृथिवी- पृथुत्वगुणयुक्ता १ गन्धसहचरितचतुर्दशगुणवतीति ग्रं० पैशून्यं- परो (क्षे परदूषणवचनम् १)स्मै परोक्षे परदोषप्रकाशनं
पौरुषेयत्वं-नूतनानुपूर्वीरचनत्वम् १ प्रमाणान्तरेणार्थमुपलभ्य विनिर्मितत्वमिति ग्रं० २ पूर्वानुपूर्व्यनपेक्षपुंविशेषबुद्ध्यधीनानु- पूर्वीमत्त्वम् *३ सजातीयोच्चारणानपेक्षोच्चारणविषयत्वम् १८५०॥१८५०॥ प्रकरणं- उभयाकाङ्क्षा १ सङ्गवाक्यसापेक्षं प्रधानवाक्यमिति मी० २ सङ्गतिप्रदर्शनप्रयोजिकाकाङ्क्षा *३ एकार्थप्रतिपादकग्र - न्थांशः ४ शास्त्रसिद्धान्तप्रतिपादको ग्रन्थः ५ शास्त्रैकदेशसं- बद्धं शास्त्रकार्यान्तरे स्थितमिति ग्रं० ॥ १८५६ ॥ प्रकारत्वं- सामान्यभेदकत्वम् १ भासमानवैशिष्ट्यप्रतियोगित्वं प्रकाशनत्वम्- स्वाभिप्रायाविष्करणम् ॥ १८५९ ॥ प्रकाशमानत्वं- स्वसत्तायां स्वसत्ताप्रकारकसंशयाद्यगोचरत्वम् प्रकृतत्वं- प्रकरणप्राप्तत्वम् १ प्रतिज्ञाविषयत्वमिति ग्रं० १८६२॥१८६२॥ प्रकृतिः - प्राचीनकर्मसंस्काराधीनस्वभावः * १ सत्त्वरजस्तमो गुणानां साम्यावस्था २ सम्पूर्णाङ्गसंयुक्तो विधिः ३ प्राथमि- कविधिप्रतिपादितसमग्रेतिकर्तव्यताकत्वमिति मी० ४ अज- न्यत्वे सति जनकत्वं प्रकृतित्वम् ५ तत्त्वान्तरारम्भकत्वमिति सां० ६ अर्थावबोधहेतुप्रत्ययविधानावधिभूतशब्दत्वम् ७ प्रत्य- यनिष्टविधेयतानिरूपितोद्देश्यताश्रयत्वमिति वै० ॥ १८७० ॥ प्रकृतिभावः - संधिकार्यरहितत्वम् १ निर्विकारस्वरूपेणावस्थानं प्रगल्भत्वं- प्रवीणमतित्वम् १ कार्याकार्यावधारणक्षमत्वं वा । प्रणाम: - स्वापकर्षबोधककर शिरः संयोगादिव्यापारः॥ १८७५॥
प्रतिकूलं - द्वेषविषयः १ विरुद्धपक्षावलम्बित्वं प्रतिकूलत्वम् । प्रतिग्रह:- अदृष्टार्थ (दत्ताङ्गीकारः १) त्यक्तद्रव्यस्वीकारः १८७९॥१८७९॥ प्रतिज्ञा- कर्तव्यत्वप्रकारकज्ञानानुकूलव्यापारः १ उत्तरकाले स्वक- र्तव्यत्वेन निर्देश:, यथा 'इदं करिष्यामि' इत्याकारकवाक्यम् *२ साध्यविशिष्टपक्षबोधजनकवचनम्, यथा पर्वतो वह्निमानिति । प्रतिज्ञाहानिः- स्वकृतोक्तपरित्यागः १ प्रतिज्ञातार्थपरित्यागः। प्रतितन्त्रसिद्धान्तः- समानतन्त्रसिद्धः परतन्त्रासिद्धः १ वादि- प्रतिवाद्येकतरमात्राभ्युपगतः सिद्धान्त इति ग्रं० ॥ १८८६ ॥ प्रतिपादनं- प्रतिपाद्यं मुखतः प्रतिज्ञाय पश्चात्तत्सिद्धिहेतुप्रदर्श- नम् । उपोद्धातवारणाय मुखत इति, असंबद्धहेतुव्यावृत्यर्थ तत्सिद्धीति १ प्रतिपत्त्यनुकूलशब्दप्रयोगः ॥ १८८८ ॥ प्रतिप्रसवः - प्रतिषि (द्धस्य प्रतिषेधे पु०) द्धैकदेशस्य पुनर्विधानं प्रतिबन्ध्युत्तरं- अनिष्टान्तर प्रसञ्जकमुत्तरम् १ नोद्य[^१]परिहारसाम्य मिति ग्रं० २प्रकृतैककल्पे प्रवृत्तं पुरुषमुद्दिश्याप्रकृतकल्पान्तरापादनं प्रतिबन्धः- ) कार्यानुकूलकिञ्चिद्धर्मविघटकः, यथाग्नौ दाह- प्रतिबन्धकः- ) रूपकार्यानुकूलस्य कस्यचिद्धर्मस्य शक्तयाख्य- स्य विघटको मणिमन्त्रौषधादि: १ सामग्रीकालीनकार्यानुत्पाद- प्रयोजकः २ पुष्कलकारणे सति कार्योत्पादविरोधी । सामग्र्य- भावं व्यावर्तयितुं पुष्कलेति ३ कारणीभूताभावप्रतियोगी । [^१ यदि पुरुषत्वादयं चौरस्तदा एवंत्वमभि चौरः स्या इत्यापादनम्।]
प्रतिबिम्बत्व-तदधीनत्वे सति तत्सदृशत्वम् १ उपाध्यन्तर्गत्वे सत्यौपाधिकपरिच्छेदशून्यत्वे सति बहिःस्थितस्वरूपकत्वम् । बि म्बवारणायाद्यम्, घटावाशादिवारणाय द्वितीयम्, दर्पणाद्यन्तर्ग- ततदवयववारणाय तृतीयमिति न्यायरत्नावल्याम् २ उपाधिनि- मित्तस्वप्रतियोगिकव्याप्यावृत्तिभेदकत्वे सत्युपाधिपरिच्छिन्नत्वं प्रतिभा- प्रत्युत्पन्नमति: १ नवनवो (ल्लेख)न्मेषशालिनी बुद्धिः । प्रतिभाप्रमाणं- अनियतदेशकालमाकस्मिकं सदसत्सूचकं ज्ञानम् १ श्वस्ते भ्रातागन्तेत्यादिकमिति ग्रं० ॥ १९०४ ॥ प्रतियोगी- यस्याभावः सः १ प्रति पूर्वं योगस्संबन्ध: २ विरोधि- त्वं प्रतियोगित्वम् ३ धर्मिभिन्नत्वे सति भेदनिरूपकत्वम् १९०८॥१९०८॥ प्रतिवादः- वादिप्रयुक्तन्यायवाक्यविरुद्धवाक्यप्रयोगः १९०९॥१९०९॥ प्रतिवादी- वादिप्रयुक्तन्यायविरुद्धन्यायवाक्यप्रयोगकर्ता १९१०॥१९१०॥ प्रतिषेधत्वम्- कर्तृत्वाभावानुकूलव्यापारत्वम् ॥ १९११ ॥ प्रतीकः- प्रतिरूपः *१ आश्रयान्तरप्रत्ययस्याश्रयान्तरे प्रक्षेपः २ तद्भिन्नत्वे सति तद्बोधकत्वं प्रतीकत्वम् ॥ १९१४ ॥ प्रतीकोपासनं- अन्यवस्तुनोऽन्यरूपेणोपासनम् १ ब्रह्मप्रती- कानामादित्यादीनां ब्रह्मदृष्टयोपासनमिति ग्रं० ॥ १९१६ ॥ प्रत्यक्षम्-) ज्ञानाकरणकं ज्ञानम् १ इन्द्रिा र्थसन्निकर्षोत्प प्रत्यक्षप्रमा -) ज्ञानम् । सन्निकर्षध्वंसवारणाय ज्ञानमिति, अनुमित्यादिवारणायेन्द्रियार्थसन्निकर्षेति २ व्याप्त्याद्यज-
न्यत्वे सति स्वकालावच्छिन्नार्थबोध: ३ अनुपलब्ध्यर्थापत्ति- शब्दानुमानोपमानजप्रमितिव्यतिरिक्तत्वे सति प्रमितिः । अनु- मादावतिव्याप्तिवारणायानुपलब्धीत्यादिविशेषणम्, घटा- दिवारणाय प्रमितिरिति ४ अनधिगताबाधितवर्तमानयोग्य- विषयचैतन्याभिन्नं प्रमाणचैतन्यम् । अधिगतार्थविषयकयथा- र्थस्मृतावतिप्रसङ्गवारणार्थमनधिगतेति विषयविशेषणम्, भ्रमज्ञानेऽतिव्याप्तिवारणायाबाधितेति, धर्माधर्मयोः प्रत्यक्ष- वारणाय योग्येति ५ 'ज्ञानगतप्रत्यक्ष 'लक्षणमप्यत्र पठनीयम् प्रत्यक्षविषय:- इन्द्रियजन्यज्ञानविषयः*१ योग्यत्वे सति वर्तमा- नविषयचैतन्याभिन्नप्रमाणचैतन्यविषयः २' विषयगतप्रत्यक्ष 'ल० प्रत्यक्षप्रमाणं- प्रत्यक्षप्रमाकरणम् । अनुमानादावतिव्याप्तिवार णाय प्रत्यक्षेति, दण्डादिवारणाय प्रमेति । [त्कार्यनिवृत्तिः प्रत्यक्षबाधः- तत्त्वमस्यादिवाक्योत्थात्मसाक्षात्कारेणाज्ञानत- प्रत्यभिज्ञाज्ञानं- तत्तेदन्तावगाहिज्ञानम् १ संस्कारेन्द्रियसंप्रयो- गोभयजन्यं ज्ञानम्, यथा सोऽयं देवदत्त इति ॥ १९२८ ॥ प्रत्ययः - विश्वासः * १ प्रकृतिम (मुद्दिश्य) वधीकृत्य विधीयमानः स्वार्थबोधकः शब्दविशेष: ३ धातुप्रातिपदिकान्यतरनिष्ठो- द्देश्यतानिरूपितविधेयताश्रयत्वं प्रत्ययत्वम् ॥ १९३२ ॥ प्रत्यवायत्वं- विध्युल्लङ्घनजन्यत्वम् १ आगामिदुःखजनकत्वं वा प्रत्याहारः- इन्द्रियाणां स्वस्वविषयवैमुख्येनावस्थानम् १९३५॥१९३५॥
प्रत्युत्तरं - प्रतिपक्ष्युच्चरितनिराकरणसमर्थवाक्यम् ॥ १९३६॥ प्रथमत्वं - पूर्वज्ञानविषयत्वम् * १ स्वापेक्षापूर्वरहितत्वम् १९३८॥१९३८॥ प्रथमाविभक्तित्वं- सङ्केतविशेषसम्बन्धेन प्रथमापदवत्त्वम् । प्रदक्षिण- दक्षिणावर्तेन देवमुद्दिश्य भ्रमणम् ॥ १९४० ॥ प्रधानं- सत्त्वरजस्तमोगुणसाम्यावस्था १ 'प्रकृति' लक्षणमप्य त्र० प्रध्वंसाभावः - जन्यत्वे सत्यविनाश्यभावः १ अविनाशित्वे सति प्रतियोगिस (त्तोत्तरकालिकाभावः २) मवायिमात्रवृत्त्यभावः । साम- यिकाभावादिवारणाय सत्यन्तम्, अन्योन्याभाववारणाय मात्रेति प्रपञ्चः - चिद्भिन्नत्वम्१ परिच्छिन्नत्वं प्रपञ्चसामान्यं लक्षणम् २वैप- प्रबन्धत्वं- सङ्घटितनानावाक्यसमुदायत्वम् । [रीत्यं प्रमा- अविसंवादिज्ञानमिति बौद्धाः १ अव्यभिचार्यनुभव इति भाट्टाः २ प्रमाणजन्यं ज्ञानमिति नै० ३ अनधिगततत्त्वबोधः पौरुषेयो व्यवहारहेतुरिति सां० ४ बोधे[^१]द्धा वृत्ति[^२]वृत्तीद्धबोधो वा ५ स्मृतिभिन्नत्वे सत्यबाधितार्थगोचरज्ञानम् ॥ १९५४ ॥ प्रमाणं- प्रमीयतेनेनेति १ सम्यग्ज्ञानमिति जैना: २ प्रमाकरणम् । छिदादिकरणकुठारादावतिव्याप्तिवारणाय मा पदम्, भ्रमज्ञान- करणदुष्टचक्षुरादावतिव्याप्तिवारणाय प्र पदम्, प्रमाप्रमाण- मित्युक्तेऽसंभवः स्यादतः करणमित्युक्तम् ३ व्यापारवत्तासं- बन्धेन प्रमितिविभाजकोपाध्यवच्छिन्नासाधारणकारणम् । चा- [^१ बोधेनेद्धा प्रकाशिता वृत्तिः । २ वृत्तौ प्रतिबिम्बितं चैतन्यम् ।]
क्षुषादिप्रमित्यसाधारणकारणे विषयेन्द्रियसंबन्धादौ व्यापारेऽ तिव्याप्तिवारणाय व्यापारवत्तासम्बन्धेनेति, अन्यप्रमाण- स्यान्यप्रमाणत्वापत्तिवारणाय विभाजकोपाध्यवच्छिन्न- ति, चाक्षुषादावपि व्यापारवत्तासंबन्धेन मनसः कारणत्वात्त- त्रातिव्याप्तिवारणायासाधारणेति ४ असंदिग्धाविपरीतान- धिगतविषयकबोधरूपप्रमाकरणम् । संशयविपर्ययस्मृतिकरणे- ध्वतिप्रसङ्गवारणायोपात्तं बोधरूपमांशे क्रमशो विशेषणत्रय- मिति योगिनः ५ अगृहीतग्राहिज्ञानकरणमिति मी० ६ अ- ज्ञातार्थज्ञापकम् ७ दोषासहकृतज्ञानकरणमित्यद्वैतसिद्धौ संवादिप्रवृत्तिजननयोग्यज्ञानजनकमिति ब्रह्मविद्याभरणे ९ साधनाश्रयाव्यतिरिक्तत्वे सति प्रमाव्याप्तत्वं प्रमाणत्वम् १९६४॥१९६४॥ प्रमाणगतविपरीतभावना- श्रुतीनामहेयानुपादेयब्रह्मप्रति- पादकत्वे निष्फलत्वप्रसङ्गाच्छ्रुतयः कर्मपरा एवेति निश्चया- त्मिका चित्तवृत्तिः ॥ १९६५ ॥ प्रमाणगतासंभावना- प्रमाणगोचरसंभावनाविरहः १ ब्रह्मणो घटादिवत्सिद्धत्वेन मानान्तरगम्यत्वाच्छ्रुतिस्तत्प्रतिपादिका कथं भवेत् ? फलाभावान्न भवेदेवेत्याकारिका चित्तवृत्तिः ॥१९६७ ॥ प्रमाणचैतन्यं - अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यम् ॥ १९६८ ॥ प्रमाता - प्रमाश्रयः १ प्रमाणैर्योऽर्थ प्रमिणोति सः ॥१९७० ॥ प्रमातृचैतन्यं- अन्तःकरणा(विच्छिन्न चैतन्यम् १)विशिष्टचैतन्यं
प्रमादः - कर्तव्येऽकर्तव्यत्वधिया ततो निवृत्तिः १ अकर्तव्ये कर्तव्यत्वधिया तत्र प्रवृत्तिर्वा २ प्रयत्नेन कर्तव्ये कार्ये विस्मृतिः प्रमेयत्वम्- अवधार्यम् * १ प्रमाविषयत्वम् ॥ १९७७ ॥ प्रमेयगतविपरीतभावना- योग्यं योग्येन संबद्ध्यते इति न्यायात्रिगुणात्मकप्रपञ्चोपादानं त्रिगुणात्मिका मायैव न ब्रह्मेति निश्चयात्मिका चित्तवृत्तिः ॥ १९७८ ॥ २ प्रमेयगतासंभावना - प्रमेयगोचरसंभावनाविरहः १ ब्रह्मण- स्सच्चिदानन्दरूपिणोऽनृतजडदुःखात्मकप्रपञ्चविलक्षणत्वेन त- त्कारणत्वं कथं भवेत् ? न भवेदेवेत्याकारिका चित्तवृत्तिः १९८०॥१९८०॥ प्रमेयचैतन्यं-) विषयप्रकाशकं विषयाधिष्ठानभूतं चैतन्यम् १ विषयचैतन्यं-) अज्ञातं घटाद्यवच्छिन्नं चैतन्यमिति ग्रं० । प्रयत्नः- करोमीत्यनुभवविषयवृत्तिगुणत्वव्याप्यजातिमान् १९८२॥१९८२॥ प्रयोगः - शब्दादीनामुच्चारगम्*१ शस्त्रादिमोचनम् ॥ १९८४॥ प्रयोगविधिः- साङ्गे कर्मण्यनुष्ठापको विधिः १ प्रयोगा शुभा वबोधको विधिः । [भृत्यादीन्प्रयुनक्ति प्रयोजकः- अनुष्ठापकः १ साक्षात्परम्परया वा कारणम् २कार्यादौ- प्रयोजनं- यमर्थमधिकृत्य प्रवर्तते १ प्रवृत्तिहेत्विच्छाविषयः । ज्ञा- नसुखत्वादिवारणार्थं प्रवृत्तिहेत्विति २ बुद्धिविषयत्वे सति स्वसंबन्धितयेच्छाविषयत्वं प्रयोजनत्वम् ॥ १९९३ ॥ प्रयोज्यं - प्रयोक्तुं शक्यम् *१ साक्षात्परम्परया वा जन्यम् ।
प्रलयः - त्रैलोक्यनाशः१ सकलभावकार्यविनाश इति ग्रं० २भूता- दिलयाधारकालः ३स नित्यनैमित्तिकदैनन्दिनमहात्यन्तिकरूपः प्रलापः- व्यर्थालाभः १ निष्प्रयोजनानर्थकवाक्यम् ॥ १९९८ ॥ प्रवचनं - प्रकृष्टव्वाक्यम् १ अर्थानुसंधानपूर्वककथनं वा ॥ २०००॥ प्रवर्तकं - इष्टसाधनताविषयकं कृतिसाध्यताज्ञानम् १ स्वविशे- षणवत्ताप्रतिसंधानजन्यं कार्यताज्ञानमिति गुरवः २ अन्या- प्रेरितत्वे सति तादृशलिङुञ्चारयितृत्वं प्रवर्तकत्वम् ॥ २००४॥ प्रवर्तना- प्रवृत्त्यनुकूलो व्यापारः ॥ २००५।॥२००५॥ प्रवृत्तिः - शब्दानामर्थबोधनशक्तिः * १ स्वस्वविषये इन्द्रि- यादीनां सञ्चारः २ रागजन्या रागविषयको गुणः ॥ २००८ ॥ प्रशंसा- गुणाविष्क ( रणम् १ ) रिण स्तुतिः ॥ २०१० ॥ प्रश्नः- जिज्ञासाविष्करणम् १ अविज्ञातार्थज्ञानार्थमिच्छाप्रयोज्य- वाक्यमिति ग्रं० २ प्रतिवचनानन्तरमाक्षेपोत्थानम् ॥२०१३॥ प्रश्वासः - कोष्ठ्यवायोर्बहिर्निःसारणम् ॥ २०१४ ॥ प्रसङ्ख्यानं - सत्यज्ञानम् १ शब्दयुक्तिप्रत्ययानामावृत्तिः । प्रसङ्गः- प्रकृष्टसङ्गः १ लक्ष्ये लक्षणसंबन्धः * २ अन्योद्देशे- ऽन्यसिद्धिः ३ निरूपणयोग्यत्वम् ॥ २०२० ॥ प्रसङ्गसङ्गतिः- स्मृतस्योपेक्षानर्हत्वम् १ उपोद्धातादिभिन्नत्वे सत्यनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयत्वम् २०२२॥२०२२॥ प्रसिद्धत्वं- विख्यातत्वम् १ अनेकज्ञानविषयत्वं वा ॥२०२४ ॥
-
प्रस्तावना- ग्रन्थावतारणार्थव्याख्यानांशः १ अमुख्यार्थप्रतिपा- दकत्वे सति मुख्यार्थ (सूचकत्वम् २ ) प्रवर्तकत्वं प्रस्तावनात्वम् प्रहेलिका- दुर्विज्ञानार्थप्रश्नः १ 'दृष्टकूड' लक्षणमप्यत्र पठनीयम् प्राकृतप्रलयः- कार्यब्रह्मविनाशनिमित्तकः सकलकार्यविनाशः । प्रागभावः- पूर्ववृत्त्यभावः १ अजन्यत्वे सति विनाश्यभावः । घटादिवारणाय सत्यन्तम्, परमाणुशरणाय विनाशीति २ कार्यसमवायिकालान्यावृत्तित्वे सति कार्योत्पत्तिपूर्वकालीनाभावः। ध्वंसेऽतिव्याप्तिवारणाय कार्योत्पत्तिपूर्वकालीनेति २०३२॥२०३२॥ प्राग्लोपः- उत्तरोत्तरेणैव पूर्वपूर्वकार्यसंभवे पूर्वेषामन्यथासिद्धिः प्राशः - सुषुप्तौ विलीनेऽन्तःकरणेऽज्ञानमात्र साक्षी १व्यष्टिकारण- शरीरमात्रोपहितं चैतन्यमिति ग्रं० २ प्रकर्षेण जानातीति २०३६॥२०३६॥ प्राणः - शरीरान्तःसञ्चारी वायुः । महावाय्वादावतिव्याप्तिवारणाय विशेषणम्, मन आदिवारणाय विशेष्यम्, धनञ्जयवारणाय स- ञ्चारीति १ प्राग्गमनशीलत्वे सति नासाग्रस्थानवान्२ मिलितस- मस्तापञ्चीकृतपञ्चमहाभूतराजसांशकार्यत्वे सति क्रियाशक्तिप्रधानं प्राणमयकोशः- कर्मेन्द्रियैः सहितः प्राणः ॥ २०४० ॥ प्राणायामः- प्राणवृत्तिनिरोधः १ निःश्वासोच्छ्रासयोर्गतिविच्छे- दकारकव्यापारः २ रेचकपूरककुम्भकलक्षणः प्राण निग्रहोपायः प्रातिपदिकत्वं- धातुप्रत्ययप्रत्ययान्तभिन्नत्वे सत्यर्थवत्त्वम्*१ विभक्त्यर्थशून्यत्वे सति व्यक्तिमात्रार्थवत्त्वम् ॥ २०४५ ॥
प्रातिभासिकः- प्रतिभासकाले भवः १ ब्रह्मज्ञानं विना बाध्यमान इति ग्रं० २ अध्यासकाले भासमानत्वे सत्यध्यासभिन्नकालेऽभा- समानः ३ आगन्तुकदोषसहकृताविद्याकार्यत्वम् ॥ २०४८ ॥ प्रादुर्भावः- प्रथमप्रकाशः १ पूर्वरूपरसादिनाशपूर्वकं रूपरसा- द्यन्यतमोत्पत्तिः ॥ २०५१ ॥ प्रामाण्यं- तद्वति तत्प्रकारकत्वम् १ अबाधिताज्ञातार्थज्ञापकत्वम् प्रायश्चित्तं- पापक्षयमात्रसाधनं कर्म, यथा कृच्छ्रचान्द्रायणादि । मात्रशब्दात्तुलापुरुषाश्वमेघादिव्यावृत्तिः १ प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते, तपो निश्चयसंयुक्तं प्रायश्चित्तं तदुच्यते प्रारब्धकर्म- वर्तमानशरीरारम्भकं कर्म १ प्रारब्धकार्य सुख- दुःखादिरूपं युगकल्पादिपर्यन्तमनुभोक्तव्यं येन तत् २०५७॥२०७५॥ प्रार्थना- नम्रताज (सूच) नकवाक्यम् १ उत्कर्षप्रतिपादनेच्छा । प्रीतिः - इष्टे वस्तुनि मनसोभिनिवेशः १ दयारसार्द्रान्तःकरणवृत्तिः प्रेयः- अतिशयप्रियम् * १ देवगुरुमित्रादिविषयः प्रीतिप्रकर्षः । प्रेरकः - तदनुकूलप्रयत्नाधारः १ प्रवृत्त्यनुकूलव्यापाराश्रयो वा । प्रेरणं- प्रयोजकव्यापारः १ स्वाभिलषितोपायाज्ञानादप्रवृत्तापकृ- ष्टप्रयोज्यस्योपायविषयकप्रवृत्त्यनुकूलो व्यापार इति सारदर्पणे प्रैषः - प्रमाणान्तरप्रमितेऽर्थे पुरुषनिष्ठा पुरुषप्रवर्तना ॥ २०६७ ॥ प्रौढिवादः- स्वबुद्ध्युत्कर्षप्रदर्शनार्थमनभिमतार्थकथनम् १ उत्क- र्षस्याहतावुत्कर्षहेतुत्वकल्पनमिति ग्रं० ॥ २०६८ ॥
*फ* फलं- प्रकरणप्रतिपाद्यस्य श्रूयमाणं तज्ज्ञानात्तत्प्राप्तिप्रयोजनम्, यथा अथ सम्पत्स्य इत्यद्वितीयज्ञानात्तत्संपत्तिरूपं फलम् १ ससाधनसुखदुःखोपभोगः २ व्यापारजन्यत्वं फलत्वम् ३ स्व- कर्तव्यताप्रयोजकेच्छाविषयत्वम्। [भिव्यक्तं चैतन्यं फलचैतन्यं- ज्ञातं घटाद्यवच्छिन्नं चैतन्यम् १ अन्तःकरणवृत्त्य फलव्याप्तिः - ) स्वाकारवृत्तिप्रतिबिम्बितचैतन्यविषयत्वम् १ फलव्याप्यत्वं -) वृत्तिबिम्बितचिदभिव्यक्तचैतन्याश्रयत्वम् । फलोपकार्यङ्गं- यागाङ्गद्रव्याद्यनुद्दिश्य केवलं विधीयमानं कर्म १ स्वव्यापारातिरिक्तव्यवधानराहित्येन प्रधानोपकारकम्, यथा प्रयाजादि अदृष्टरूपेण स्वव्यापारमात्रेण प्रधानयागस्य २०८२॥२०८२॥ फलोपधायकत्वं- कार्याव्यवहितपूर्ववृत्तित्वसम्बन्धेन फल- विशिष्टत्वम्, यथा कुलालहस्तस्थदण्डे ॥ २०८३ ॥ *ब* बन्धः - आत्मनोऽज्ञानतत्कार्यसम्बन्धः १ सत्यत्वेन ज्ञायमानो दृश्यसंबन्धः *२ अणिमाद्यष्टैश्वर्याशासिद्धसङ्कल्पः ३ देवमनु- ष्याद्युपासनाकामसङ्कल्पो वा ४ यमाद्यष्टाङ्गयोगसङ्कल्पो वा ५ वर्णाश्रमधर्मकर्मसङ्कल्पो वा ६ यागव्रततपोदानविधिविधानज्ञा- नसंभवः *७केवलमोक्षापेक्षासङ्कल्पः ८ सङ्कल्पमात्रसंभवो वा । बन्धुः - संबन्धेनोपकर्ता १ विच्छेदासह्यक इति ग्रं० ॥२०९३॥
बलं- साधनसामग्री १ विचित्रकार्यानुकूलशक्तित्रो॥२९०५॥ बलवत्त्वं- बलविशिष्टत्वम् १ कार्यसिद्धिप्राक्कालिकप्राप्तिकर्तृत्वम् । बहिरङ्गं- परनिमित्तकम् १ बहिः प्रकृतेर्बाह्यमङ्ग यस्य २०९९॥२०९९॥ बहिर्मुखं - बहिः बाह्यविषये मुखं प्रवणता यस्य ॥ २१०० ॥ बहुव्रीहिसमासः - अन्यपदार्थप्रधानः समासः २ संबन्धि- लाक्षणिकत्वव्याप्योत्तरपदकसमासः ॥ २१०२ ॥ बहूदक:- बहूनि उदकानि शौचाङ्गतया यस्य ॥ २१०३ ॥ बाधः - अर्थासङ्गतिः *१ अपरोक्षमिथ्यात्वनिश्चयः २सविलासा- विद्यानिवृत्तिरिति ग्रं० ३ प्रतीतार्थं परित्यज्यान्यार्थकल्पनमित्य - द्वैतदीपिकायाम् ४ पूर्वप्रत्ययस्य व्यधिकरणप्रकारकत्वनि- श्चयः ५ पक्षनि (ष्ठः साध्याभावः ६ ) ष्ठप्रमाविषयत्वप्रकारा- भावप्रतियोगिसाध्यक इति नै० ॥ २१११ ॥ बाधसामानाधिकरण्यं- अन्यतरस्य बाधेन सामानाधिक- रण्यम्, यथाऽभासवादिमतेऽन्तःकरणप्रतिविम्बितस्य जीवस्य बाधेन ब्रह्मणा सामानाधिकरण्यम्(=अभेदः), यथा वा जगतो बाधेन 'सर्वं खल्विदं ब्रह्मेत्यादिश्रुत्युक्तं जगतो ब्रह्मणा सामा० बालः - शास्त्रार्थज्ञानविवेकशून्यः १ अधीतकाव्यकोशव्याकरणा- नधीतवेदान्तशास्त्रः । कणादादावतिव्याप्तिवारणायानधीत- वेदान्तेति, स्तनन्धयेऽतिप्रसक्तिवारणायाधीतकाव्येति । बिस्वत्वं- उपाधिनिमित्तस्वप्रतियोगिकव्याप्यवृत्तिभेदाश्रयत्वे
सति औपाधिकपरिच्छेदरहितत्वमिति सङ्क्षेपशारीरके १ उपाध्यनन्तर्गतत्वे सत्युपाध्यन्तर्गतरूपाभिन्नबहिःस्थितत्वम् । बुद्धिः - निश्चयात्मिकान्तःकरणवृत्तिः *१ जानामीत्यनुव्यवसा- बृंहणत्वं- शरीरवृद्ध्यादिहेतुत्वम् । [यविषयगुण: बौद्धः - बुद्धितत्त्वे व्यवस्थितः १ बुद्धमतावलम्बित्वं बौद्धत्वम् । ब्रह्म- निरवच्छिन्नचैतन्यम् १ निखिलनामरूपात्मकप्रपञ्चाकारेण परिणममानमायाधिष्ठानमिति ग्रं० २ बृहत्त्वं बृहणत्वं वा । ब्रह्मचर्य - उपस्थसंयमः १ अष्टा[^१]ङ्गमैथुनवर्जनम् २ कायेन मनसा वाचा सर्वावस्थासु सर्वदा, सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रचक्षते ब्रह्मज्ञानं- त्रिगुणावच्छिन्नातीततुरीयशुद्धचैतन्यविषयकज्ञानम् ब्रह्मणस्तटस्थलक्षणं- उत्पत्तिस्थितिलयकारणत्वम् १भूतोपा- दानत्वे सति कर्तृत्वम् । कुलालादावतिव्याप्तिपरिहाराय भूते- ति, मायायामतिव्याप्तिनिवृत्तये कर्त्रिति २ निखिलजग (दुपा- दानगोचरापरोक्षज्ञानचिकीर्षाकृत्याश्रयत्वम् ३) दभिन्ननिमि- त्तोपादानत्वम् । शुक्त्यवच्छिन्नचैतन्येऽतिव्याप्तिवारणाय नि- [^१ स्त्रिया दर्शनं (= रागपूर्वकं रूयादि विषयकज्ञानम् १) स्पर्शनं (=रागपूर्वकं क्रियाविशेषजन्यं ज्ञानम् २)केलिः: (रागपूर्वकः परिहासा- दिव्यवहार:३) कीर्तनं.(= रूयादेर नुराग पूर्वकं सौंदर्यादिवर्णनम् ४ ) गुह्यभाषणं (= रागपूर्वकं रहसि संभाषणम्५) सङ्कल्पः(=इयं मे स्या- दिति६ ) अध्यवसाय: (=अनया 'रं स्ये' रमिष्ये इति निश्चयः ७) क्रिया- निवृत्तिः (= सुरतसिद्धिरनुभवविशेषो वा८ ) चेत्यष्टौ मैथुनस्याङ्गानि]
खिलेति, असंभववारणाय जगदेति ४ 'ईश्वर' लक्षणमप्यत्र प० ब्रह्मनिष्ठत्वम्- वेदान्तवेद्यब्रह्मात्मनावस्थितत्वम् ॥ २१३३ ॥ ब्रह्मविद्यात्वं- जगन्मिथ्यात्वबोधकत्वे सति स्वस्वरूपनिश्चायकत्वं ब्रह्मा- सत्त्वोपसर्जनभूतरजोगुणावच्छिन्नचैतन्यम् ॥ २१३५ ॥ ब्रह्माण्डं- ब्रह्मणो जगत्स्त्रष्टुः (कारणीभूतमं ) रण्डम् १ स्वावरण- भूतलो कालोकपर्वततद्वाह्यपृथिवीतद्वाह्यसमुद्रैः सहितो देशः । ब्रह्मानन्दः - द्वैतभानाभावविशिष्टनिद्राऽभावकालीनब्रह्माभिमु- खवृत्त्यभिव्यङ्ग्य आनन्दः १ ब्रह्मग आनन्दः ॥ २१३९ ॥ ब्राह्मणः - नैसर्गिकशमादिनवसाधनसंपन्नः १ ब्राह्मणेतरावृत्तित्वे सति सकलब्राह्मगव्यक्तिवृत्तित्वम् २ तपःश्रुतञ्च योनिश्च ह्येत द्ब्राह्मणकारणम्, तपःश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः । ब्राह्मणभागः- कर्मविधायकवाक्यम् १ मन्त्रतात्पर्यार्थप्रकाश- को वेदभाग इत्यृग्वेदभाष्ये २ वेदत्वे सति मन्त्रभिन्नत्वं ब्रा- ह्मणभागत्वम् । कल्पसूत्रादिवारणाय सत्यन्तम् ॥ २१३४ ॥ *भ* भक्तिः - आराध्य (त्वेन ज्ञानम् १ ) विष (यिकासक्ति: २) यकराग- भक्षणं- गलबिलाधस्संयोगानुकूलो व्यापारः । [विशेष: भयं- परतोनिष्टसंभावमा१ आगामिदुःखानुसंधानजन्यमानसोद्वेग इति ग्रं० २ विषयविशेषदर्शनश्रवणनिबन्धनञ्चेतसोऽनवस्थानं भागत्यागलक्षणा- शक्यैकदेशपरित्यागेनैकदेशे वृत्तिः, यथा
तत्त्वमसीत्यादिवाक्ये सर्वज्ञत्वाल्पज्ञत्वादिविरुद्धांशपरित्यागेन चिन्मात्रयोरभेदः १ शक्यतावच्छेदकपरित्यागेनव्यक्तिमा- त्रबोधप्रयोजिका लक्षणा ॥ २१५४ ॥ भारतं - भरतवंश्यानधिकृत्य कृतो लक्षश्लोकात्मको ग्रन्थः २१५५॥२१५५॥ भारतवर्षम् - उत्तरेण समुद्रस्य हिमाद्रेश्चैव दक्षिणे, वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥ २१५६ ॥ भावः - अन्तर्निगूढेच्छा * १ क्रियानिर्वय योऽर्थः क्रियैव वा २ क्रियायाः फलम्, यथा ओदनं पर्चात देवदत्तः ३ अपरिस्पन्द - नसाधनसाध्यो धात्वर्थ इति ग्रं० ४ प्रतियोगिनिरूपणानपेक्षनि- रूपणकः ५ समवायैकार्थसमवायान्यतरसंबन्धेन सत्तावानिति नै० ६ विधिमुखप्रतीतिविषय इति वे० । [पारः भावना- फलानुकूलव्यापारः१ भवितुर्भवनानुकूलो भावयितुर्व्या- भावनासंस्कारः- जन्यज्ञानजन्यसंस्कार इति नवीनाः १ पूर्वा- नुभवजन्यः स्मृतिहेतु: संस्कारः । आत्मादिवारणाय प्रथमद- लम्, अनुभवध्वंसवारणाय द्वितीयदलम् ॥ २१७७ ॥ भाविकालः-) सूर्यपरिस्पन्दादिक्रियाप्रागभावावच्छिन्नः का. भविष्यत्वं -) लः १ वर्तमानप्रागभावप्रतियोगित्वम् २१७१॥२१७१॥ भाषणम्- यत्कि (ञ्चिज्) ञ्चाज्ञानानुकूलशब्दप्रयोगः ॥२१७२॥ भाषा- प्रतिज्ञासूचिका १ तत्तद्देशस्थजनवर्तननिर्वाहकवाक्यमि- ति ग्रं० २ मनोभावव्यञ्जकोवर्णात्मकः शब्दः ३ भाष्यतेऽनयेति
भाष्यं - सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः, स्व- पदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः । सागरा- दिवर्णनस्य भाष्यत्वव्यावृत्तये सूत्रार्थेति, पदवृत्तिव्यावृत्तये वाक्यैरिति, वार्तिकस्य तत्त्वनिरासाय सूत्रानुसारीति, वृत्तेस्तत्त्वव्यावृत्त्यर्थं स्वपदानीति पाराशरपुराणे २१७७॥२१७७॥ भिक्षा- ग्रासमात्रं (न्नम् १ ) भवेद्भिक्षा पुष्कलन्तु चतुर्गुणम्, पुष्क- लानि च चत्वारि हन्तकारी विधीयते २ अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनाम्, द्वात्रिंशत्तु गृहस्थस्य यथेष्टं ब्रह्मचारिणां भिक्षुः- भिक्ष (ते इति १) पजीवी २ भिक्ष (णशील: ३) कारको वा ४ चतुर्थाश्रमी ५ यतिश्च ब्रह्मचारी च विद्यार्थी गुरुपो- षकः, अध्वगः क्षीणवृत्तिश्च षडेते भिक्षवः स्मृताः । भिन्नत्वं- प्रस्फुटितत्वम् * १ भेदा (धिकरणत्वम् २) नुयोगित्वम् । भूतत्वं- बहिरिन्द्रियग्रह्यविशेषगुणवत्त्वम् । आत्मन्यतिव्याप्ति- वारणाय बहिःपदम्, कालादावतिव्याप्तिवारणाय विशेषेति, द्रव्यत्ववारणाय गुणेति १ अन्यतत्त्वानुसन्धानकालत्वम् २१९१॥२१९१॥ भूतकालः- प्रारब्धपरिसमाप्तक्रियाश्रयः १ सूर्यपरिस्पन्दादि- कियाध्वंसावच्छिन्नः कालः २वर्तमानध्वंसप्रतियोगी ॥२१९४ ॥ भूतप्रतिबन्धः- पूर्वानुभूतविषयस्यावशेन पुनः पुनः स्मरणम् भृतार्थवादः - तत्काले तद्गुणज्ञापकः शब्दः, यथा 'जरायाम-
प्ययं शूर' इति १ प्रमाणान्तर (परिप्राप्तार्थाभिधायित्वम् २) वि- रोधतत्प्राप्तिरहितार्थबोधकोऽर्थवादः,यथा इन्द्रो वृत्राय वज्रमुदयच्छदित्यादिः ॥ २१९८ ॥ भूमिका- वेशान्तरपरिग्रहः *१ ग्रन्थाभासः २ प्रयोजनसंपादिका युक्तिः*अन्यरूपेऽन्यप्रवेश इति नाटकज्ञाः ४ चित्तस्यावस्थावि- शेष इति योगिनः५हर्म्यादेरुत्तरोत्तरभूमिवज्ज्ञानस्यावस्थाविशेष: भेदः - विदारणम् १पृथक्करणमिति ग्रं० २अन्योन्याभावत्वं भेदत्वं भेदकः- मैत्रीनाशकः* १ विदारणानुकूलव्यापाराश्रयः २२०७॥२२०७॥ भेदाभावः- मानाभावादयुक्तेश्च न भिदेश्वरजीवयोः, जीवा- नामचितां चैव नात्मनो न परस्परमिति भेदधिक्कारे । भोक्ता - सुखदुःखाकारवृत्त्युपहितं चैतन्यम् ॥ २२०८ ॥ भोगः- विभवभेदः*१ सुखदुःखान्यतरसाक्षात्कारः ॥२२१०॥ भोग्यं- सुखदुःखान्यतरसाक्षात्कारिज्ञानविषयः (= सुखादिः) । भोजनम् - कठिनद्रव्यस्य गलबिलाधःसंयोजनम् ॥ २२१२ ॥ भ्रमः- विपरीतनिर्णयः * १ विसंवादिज्ञानम् २ अतस्मिंस्त- (न्द्रह: ३)द्बुद्धिरिति ग्रं० ४निष्फलप्रवृत्तिजनको बोधः ॥ २२१७ ॥
*म*
मङ्गलं- अभीष्टार्थसिद्धिः १ विघ्नविनाशनानुकूलव्यापारविशिष्टत्वं मङ्गलत्वम् २ समाप्तिप्रतिबन्धकीभूतदुरितविशेषविघातकत्वम् मतं- संमतम्१अभिप्रेतज्ञानं वा २ निषेधवाचकशब्दः ॥२२२३॥
मत्सरः- आत्मधिकारविशेषः *१परोत्कर्षासहनपूर्वकस्वोत्कर्ष- वाञ्छा २स्वसमानसंपत्तिदर्शनासहनत्वं मत्सरत्वम् ॥२२२६॥ मदः- मत्सदृशः कोऽस्तीति (गर्वविशेषः१) हर्षबुद्धि: २ विद्या- दिनिमित्तात्स्वस्मिन्नाधिक्यबुद्धिः । [लात्मा शब्द: मध्यमावाणी- हृञ्चक्रस्थवाय्वभिव्यङ्ग्यः पश्यन्त्या अपि स्थू- मध्यस्थः- विवदमानयोः (रुभयोरपि पक्षपाती हितैषी वा१ )सद- सद्वाक्यविचारकः२स्वार्थरक्षापूर्वकपरार्थसाधकत्वं मध्यस्थत्वं मनः- मननात् १ सर्वेन्द्रियप्रवर्तकान्तरिन्द्रियम्* २ सङ्कल्पविकल्पा- त्मकवृत्तिमदन्तःकरणम् ३सुखदुःखादिसाक्षात्कारकारणत्वे सती- न्द्रियत्वं मनस्त्वम् । चक्षुरादिवारणाय सत्यन्तम्, आत्ममनःसं- योगादिवारणायेन्द्रियमिति४स्पर्शरहितत्वे सति कियावत्वम्५ द्रव्यसमवायिकारणत्वर द्विताणुसमवेतद्रव्यत्वापरजातिमत्त्वम् । मननं- साधकबाधकप्रमाण (भ्यां श्रुतितात्पर्यनिर्णयः १) पन्या- सरूपयुक्तिभिः श्रुतिवाक्यार्थसमर्थनम्*२ श्रुतार्थ (स्य युक्तायुक्त- त्वपर्यालोचनम् ३)निश्चयानुकूलप्रमेयसंदेहनिवर्तकयुक्तयनुसंधानं मनुष्यः- मनोरपत्यम् । [कारपरिणामः मनोनाशः- मनसो नाशः १ वृत्तिरूपपरिणामत्यागेन निरोधा- मनोमयः- मनोऽतिरिक्तोपाधिशून्यः ॥ २२४६ ॥ मनोमयकोशः- ज्ञानेन्द्रियैः सहितं मनः ॥ २२४७ ॥ मनोव्यसनम्- चौर्यादीच्छाहेतुभूतं व्यसनम् ॥२२४८॥
मनोहरः- मनसो हरः १ यस्मिन्सत्कं मनः पुंसां नान्येन ह्रियते मनः, अन्येभ्यो यच्च हरति तन्मनोहरमुच्यते २२५०॥२२५०॥ मन्त्रः- गुप्तभाषणम् *१ प्रयोगसमवेतार्थस्मारको वाक्यविशेष : २ अनुष्ठानकारणभूनद्रव्यदेवताप्रकाशकः ३वेदत्वे सति ब्राह्मणभि- मन्त्रभागः- मन्त्रविधानप्रतिपादको वेदभागः । [न्नत्वं मन्दप्रज्ञत्वम्- श्रुतार्थग्रहणधारणापटुत्वम् ॥ २२५६ ॥ मन्दवैराग्यं - पुत्रदारादिविषयवियोगे धिक्संसारमितिबुद्ध्या विषयजिहासा [ न्द्रियवियोगः मरणावस्था- चरमशरीरप्राणसंयोगध्वंस: १ पूर्वविद्यमानदेहे- मर्यादा- न्याय्यपथस्थितिः १ स्थित्यनतिक्रम इति ग्रं० ॥ २२६१ ॥ मलमासः - रविसङ्क्रान्त्यभावविशिष्टचान्द्रमासः ॥ २२६२ ॥ मलिनवासना- ज्ञानप्रतिबन्धकीभूता वासना ॥ २२६३ ॥ महत्त्वम्- प्रमाणागम्यशरीरकत्वम् १ महतो भावः ॥ २२६५ ॥ महात्मा- परोपकारव्यसनी १ अहेतुकहितकारको वा २ महा- नात्मा स्वभावो यस्य । [श्वासौ पुरुषश्चेति महापुरुषः- महान् कामादिभिरक्षुभितमानसः पुरुषः १ महां- महाप्रकरणं- फलभावनायाः प्रकरणम् १ मुख्यभावनासंबन्धित्वं महाप्रलयः- सर्वभावकार्यध्वंसः १जन्यभावानधिकरणकालः २ ब्रह्मणो नाशावस्थेति पौराणिका: ३'प्राकृतप्रलय'लक्षणमप्यत्र० महाभारतं- महान्तं भारं तनोतीति *१ महद्भारतम् २ महत्त्वे
सति भारतम् ३ 'भारत' लक्षणमप्यत्र पठनीयम् ॥२२७८॥ महामोहः- प्राम्यभोगसुखैषणा *१ साधनरहितस्यापि सर्व- सुखजातीयं मे भूयादिति विपर्ययविशेषः ॥२२८०॥ महावाक्यं- महद्वाक्यम् १परस्परसंबद्धार्थकवाक्यम्२वाक्यस- मुदायरूपत्वे सत्येकवाक्यमिति मी० ३ जीवब्रह्मैक्यबोधकवाक्यं महाविद्यानुमानत्वं -पक्षे प्रकारान्तरेण साध्योपसंहारशा- लित्वे सति दृष्टान्ते प्रकारान्तरेण साध्योपसंहारशालित्वम् । मात्रा- हस्ववर्णोच्चारणकालः * १ स्वजानुमण्डल पाणिना त्रि:- परामृश्यच्छोटिकावच्छिन्नः कालः ॥ २२८७ ॥ मानसजपः - जिह्वौष्ठादिव्यापाररहितं शब्दार्थयोश्चिन्तनम् । मानः- पुरुषान्तरेण संपादितः सत्कारः १ सर्वत्राप्रणतिभावः २२९०॥२२९०॥ मानित्वं- विद्यमानैरविद्यमानैर्वा गुणैरात्मनः श्लाघनम् ॥२२९१॥२२९१॥ माया- परवञ्चनेच्छा १ हृदयेन्यथा कृत्वा बहिरन्यथा व्यवहर- णम् २रजस्तमोनभिभूतशुद्धसत्त्वप्रधाना३ अघटितघटिका शक्तिः ४ निरूपयितुमशक्यत्वे सति विस्पष्टं भासमाना । आ- त्मन्यतिव्याप्तिवारणाय सत्यन्तम् ५ स्वाश्रयाव्यामोहकरत्वे सतीतरव्यामोहकारणत्वं मायात्वम् ६ विपरीतप्रवृत्तिहेतुत्वे सति विषयोपादानत्वे सति विक्षेपशक्तिप्रधानत्वम् ॥ २२९८ ॥ मित्रम्- मिनोति मानं करोतीति १ प्रत्युपकारमनपेक्ष्य स्नेहेनो- पकारक: २ सर्वविषयेष्वेककार्यकर्तेति ग्रं० ॥ २३०१ ॥
मिथ्यात्वं- निःस्वरूपत्वमिति बौद्धाः १ कालासम्बन्धित्वमिति नै० २ शानबाध्यत्वमिति विवरणे ३ अध्यासविषयत्वम् ४ ब्रह्मभिन्नत्वमिति परिमले ५ प्रतिपन्नोपाधौ त्रैकालिकनिषेध- प्रतियोगित्वम् । असद्व्यावर्तनाय प्रतिपन्नोपाधाविति वि शेषणम्, प्रागभावादिप्रतियोगित्वमादायांशतः सिद्धसाधनवा- रणाय त्रैकालिकेति ६ ज्ञाननिवर्त्यत्वे सति ज्ञाना (तिरिक्ता- निवर्त्यत्वम् ७ ) घटितसामग्र्यनिवर्त्यत्वम् । आत्मन्यतिव्याप्ति- वारणाय सत्यन्तम्, घटं नाशयामीति ज्ञानपूर्वकं मुद्गरपाता- दिना तन्नाशदर्शनात्तद्वारणाय विशेष्यम् ८ असत्त्वाविशेषेपि कदाचित्प्रतीयमानत्वम् । गगनकमलादावतिन्याप्तिवारणाय कदाचिदिति मुक्तावल्याम् ९ स्वानधिकरणानधिकरणात्य- न्ताभावप्रतियोगित्वमिति तत्त्वविवेके १० स्वाश्रयत्वेनाभिम- तयावन्निष्टात्यन्ताभावप्रतियोगित्वम् । अभिमतपदमसंभव- वारणाय, यावत्पदमर्थान्तरवारणायेति परिभाषायाम् ११ अयं प्रपञ्चो मिथ्यैव सत्यं ब्रह्माहमद्वयम् अत्र प्रमाणं वेदान्ता गुरवोनुभवस्तथा । [ शरीरप्रापकं मिश्रितकर्ममध्यमं- स्वाश्रमोचितकाम्यकर्मानुष्ठानादि योग्य- मिश्रितकर्मसामान्यं-चाण्डालव्याधाद्यधमशरीरप्रापकम् । मिश्रितकर्मोत्कृष्टं - निष्कामकर्मानुष्ठानादियोग्यशरीरप्रापकम् मीमांसा- विचारपूर्वकतत्त्वनिर्णयः *१वेद (वाक्यविचार: २) ।र्थ -
कर्मनिर्णायको ग्रन्थः २ कर्मब्रह्मविषयकसंशयनिवारकवाक्यम् । मुक्त:-पुनः संसाराभाववान् १ अविद्याकामकर्मपारन्त्र्यरहितः मुक्तिः-निखिलबन्धराहित्येन स्थितिः १ 'मोक्ष'लक्षणमप्यत्रप● मुख्यार्थः- स्वीयप्रवृत्तिनिमित्तप्रकारकप्रतीतिविशेष्यप्रसिद्धार्थः। मुख्यप्रयोजनत्वं- अन्येच्छानधीनेच्छाविषयत्वम् ॥२३२५॥ मुख्यसामानाधिकरण्यं- अज्ञानोपहितस्य जीवस्याबाधेन ब्रह्मणा सामानाधिकरण्यम् । [नादिभिः सत्कारः मुदिता- भोग्यवस्तुदर्शनजश्चित्तविकारः*१पुण्येष्वभ्युत्थास- मुनित्वं- वेदशास्त्रार्थतत्त्वावगन्तृत्वम् १दुःखपङ्क्रमग्नजगदुद्दिधीर्षु- त्वमिति ग्रं० २ निरन्तराद्वितीयार्थमननशीलत्वम् ॥२३३१॥ मुमुक्षा- स्वरूपेच्छा १ हे धातः । संसारबन्धनान्मम मोचनं कदा भविष्यतीतीच्छा ॥ २३३३ ॥ मुमुक्षुः- मोक्षेच्छुः १ स्वात्मानं द्वैतबन्धान्मोक्तुमिच्छु: २३३५॥२३३५॥ मूढः- कर्तृत्वायहकारभावारूढः १इदमर्थसाधनमिदमनर्थसाधन- मूढावस्था- निद्रातन्द्रादिप्रस्तावस्था । [मिति विवेकशुन्यः मूर्ख:- प्रकृतज्ञानरहितः १लोकवेदविरुद्धपक्षावलम्बी २ हिताहित- ज्ञानशून्य: *शास्त्रज्ञानशून्यः ४ वेदशास्त्राधीतत्वे सति संसारा[^३]सक्तः मूर्च्छावस्था- मुद्गरादिप्रहरणानन्तरं विशेषविज्ञानीपरमावस्था मूर्तत्वं- क्रिया (श्रयत्वम् )वद्द्रक्ष्यत्वम्२परिच्छिन्नपरिमाणवद्द्रव्यत्वे मूलम्- टीकार्हग्रन्थः *१ सर्वाद्यम् २ अकारणकत्वं मूलत्वम् ।
मूलाज्ञानं- ब्रह्मावरकमज्ञानम् १ निरवयवावच्छिन्नविभुचैतन्या- मृत्युः- दीर्घनिद्रा १ विजातीयात्ममनःसंयोगनाशः । [च्छादकं मृदुः- क्रोधशून्यः १'अक्रूर' लक्षणमप्यत्र पठनीयम् ॥२३५१॥ मेधा- धारणावती बुद्धिः १ अनेकश्रुतग्रन्थार्थधारणशक्तिर्वा । मेधावी- मेधायुक्तः १ गुरूपदिष्टपदार्थग्रहणधारणपटुरिति ग्रं० मैत्री- परानुद्वेगजनिका वृत्तिः १सुखिष्वात्मीयत्वभावनमित्यादर्शे मैथुनं- सुखविशेषहेतुशुक्रक्षरणानुकूलो व्यापारः ॥ २३५८ ॥ मोक्षः- स्वातन्त्र्यम् १ मृत्युर्वेति चार्वाकाः २. उत्तराधरभावेन नि- रन्तरोत्पादक्लेशादिदोषदूषितबोधसंततिविच्छेद इति माध्य- मिका: ३ पुनर्भावनाप्रकर्षपरिलब्धपरिशुद्धचित्तसंतान इति योगाचाराः ४ प्रलीननिखिलोपाधेः क्षेत्रज्ञस्य सततोर्द्ध्घगति - रिति जैना: ५ आनन्दमयपरमात्मनि जीवात्मलय इति त्रिदण्डिनः ६ जीवस्य लिङ्गशरीरापगम इति भास्करीयाः ७ अक्षयशरीरादिलाभः ८ विष्णुभक्तिधर्माचरणाद्विष्णुलोकग- मनं वेति वैष्णवाः ९ सर्वकर्तृत्वमेकं विहाय वासुदेवस्य सर्वज्ञत्वादीनां कल्याणगुणानामाप्तिमत्त्वे सति भगवद्याथा- त्म्यानुभव इति रामानुजीयाः १० जगत्कर्तृत्व, लक्ष्मीपतित्व, श्रीवत्सवर्जं भगवज्ज्ञानायत्तनिर्दुःखपूर्णसुखमिति माध्वाः ११ द्विभुजकृष्णेन सह स्वांशभूतानां जीवानां गोलोके लीलानु- भव इति वल्लभीयाः १२ पारमैश्वर्यप्राप्तिरिति माहेश्वराः १३
-
चन्द्रचूडवपुषः सतः पार्वत्यालिङ्गनमिति कापालिकाः १४ पूर्णात्मतालाभ इत्यभिनवगुप्ताचार्याः १९ पाशुपतधर्माचरणा- त्पशुपतिसमीपगमनमेव पुनरावृत्तिरहितमिति पाशुपता: १६ पञ्चाग्निविद्याद्युपासनैरर्चिरादिमार्गेण हिरण्यगर्भप्राप्तिरिति हैरण्यगर्भाः १७ पारदरसपानेन देहस्थैर्यमिति रसेश्वरवा- दिनः १८ आत्यन्तिकैकविंशतिदुःखध्वंसः १९ स्वसमाना- धिकरणदुःखप्रागभावासमानकालीनदुःखध्वंसः । संसारका- +लीनदुःखध्वंसस्य मोक्षत्ववारणाय कालीनान्तं दुःखविशे- षणम्, अस्मदीयदुःखसमानकालीनशुकमोक्षेऽव्याप्तिवारणाय स्वसमानाधिकरणेतिदुःखविशेषणमिति तार्किकाः २० स्वर्गादिरिति मी० २१ दुःखसाधनशरीरनाशे नित्यनिरति- शयसुखाभिव्यक्तिरिति तदेकदेशिनः २२ नित्यसुखसाक्षात्कार इति भाट्टाः २३ आत्यन्तिकदुःखप्रागभावपरिपालनमिति प्राभाकरा: २४ परापश्यन्तीमध्यमावैखरीति वाणीचतुष्टये प्रथमायाः पराख्याया ब्रह्मरूपाया वाण्या दर्शनमिति पाणि- नीयाः २५ प्रकृतिपुरुषविवेकदर्शनात्तद विवेकनिवृत्तौ पुरुषस्य स्वरूपेणावस्थानमिति साङ्ख्ययोगिनः २६ चित्तानुत्पादनमित्य- न्ये २७ संसारोपरम इत्यपरे २८ आत्महानिरित्येके २९ निखि- लदुःखनिवृत्तिनुरस्सरं स्वात्मानन्दावाप्ति: ३० विद्यानिरस्तावि- द्यातकार्यब्रह्म (भावापत्तिः ३१)आत्मनावस्थानमिति वे० २३९०॥२३९०॥
मोचनं- दूरीकरणम् १ बहिःक्षरणावच्छिन्नव्यापारो वा २३९२॥२३९२॥ मोहः- ममत्वबुद्धिः १ चित्तवैकल्यम् २ वस्तुतत्त्वानवधारिणी चित्तवृत्तिः ३ हितेष्वहितबुद्धिरहितेषु हितबुद्धिर्वा ४ सत्येन यथार्थज्ञानरूपेण विवेकन मोहस्य निवृत्तिः ॥ २३९६ ॥ मौनं वाक्संय (मः १) महेतुर्मनःसंयमः २ वाचौ यस्मान्नि- वर्तन्ते तद्वक्तुं केन शक्यते, प्रपञ्चो यदि वक्तव्यः सोपि शब्दविवर्जितः । इति वा तद्भवेन्मौनं सर्वं सहजसंज्ञितम्, गिरां मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् ॥ २३९८ ॥ म्लेच्छ : - अप ( शब्द: १ ) भाषणम् २ गोमांसखादको यस्तु विरुद्धं बहु भाषते, सर्वाचारविहीनश्च म्लेच्छ इत्यभिधीयते । *य* यजमानः- स्वार्थश्रौतस्मार्तकर्मानुष्ठानकर्ता १ यजतीति २४०३॥२४०३॥ यजुर्मन्त्रः- अनियताक्षरपादावसानो मन्त्रः १ वृत्तगीतिवर्जितत्वे सति प्रश्लिष्टपठित [१९७५] मन्त्रः, यथाग्नीदग्नीन्विहरेति २४०५॥२४०५॥ यजुर्वेदः - यजुर्बहुलो वेदः १ यजुरवयवको वेदः २ यजु ( र्वि- नियोजकत्वं यजुर्वेदत्वम् ३) र्द्रव्यको वेद इति सुधायाम् २४०९॥२४०९॥ यज्ञः- देवतोद्देशेन हविस्त्यागः १ यूपसंबन्धरहितत्वे सति शास्त्र- विहितकमविशेषः । [सार विवेकः यतमानवैराग्यं- अस्मिन्संसारे इदं सारमिदमसार मिति सारा-
यतिचान्द्रायणं- एकमासं प्रत्यहं मध्याह्नकालेऽष्टाष्टपिण्डाशनं यथार्थज्ञानं- अबाधितार्थविषयज्ञानम् १ फलवत्प्रवृत्तिजननयो- ग्यम्, यथा रजते इदं रजतमिति ज्ञानम् २ अविसंवादिज्ञानम् यथेष्टाचरणं- अतिक्रमः १ यथाभिप्रेतानुष्ठानमिति ग्रं० २ शास्त्रमर्यादोल्लङ्घनपूर्वकस्वेष्टविषयक प्रवृत्तिः ॥ २४५९ ॥ यमः- हिंसादिभ्यो निषिद्धधर्मेभ्यो योगिनं यमयति निवर्तय तीति १ अहिंसा (द्यन्यतमः २ ) दिपरिग्रहः ३ मनोमात्र - साध्यत्वे सति निवृत्तिलक्षणयोगाङ्गविशेषः ४ यमफलानि सकामानां योगशास्त्रे कथितानि, तथाहि-अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः १ क्रियाफलाश्रयत्वम् २ सर्वरत्नोप- स्थानम् ३ वीर्यलाभः ४ जन्मकथन्तासंबोधः ॥ २४२३ ॥ यागः- मन्त्रकरणकः १ वह्नयाद्यधिकरणमिति ग्रं० २ सयूपत्वे स- त्यन्त्याहुतित्वं यागत्वम् अग्निहोत्रवारणाय सत्यन्तम्, देव- गृहस्थण्डिलविशेषादिवारणायान्त्याहुतीति ३ 'यज्ञ' लक्षणम- याचनं- स्वीकार (दान) नुकूलो व्यापारः । [प्यत्र पठनीय यात्रा- किञ्चित्कार्यमुद्दिश्य देशान्तरगमनम् ॥ २४२९ ॥ युक्तयोगित्वं- सर्वदा ( पदार्थज्ञानवत्त्वम् १ ) समाधिमत्त्वम् । युक्ति:- अर्थावधारणम् १ स्वपक्षसाधकविपक्षबाधकप्रमा- णोपन्यासः । [ सकलज्ञानवत्वं युञ्जानयोगित्वं- कादाचित्कसमाधिमत्त्वम् १ चिन्तासहकारेण
युतसिद्धिः - परस्परसम्बन्धशून्ययोरवस्थानम्॥ २४३६ ॥ युद्धम् - परस्पराभिघातार्थं शस्त्रादिक्षेपणव्यापारः ॥२४३७॥ योगः- अलब्धलाभः *१ दैवासुरवृत्तिनिरोधः २ स्वरूपावस्थिति- हेतुचित्तवृत्तिनिरोधः ३ क्लेशकर्मादिपरिपन्थित्वे सति चि० ४ क्लेशकर्मविघटकत्वे सति प्रमाणविपर्ययादिवृत्तिनिरोधत्वं योग- त्वम् । क्षिप्तमूढादिषु माभूद्योगत्वमिति सत्यन्तनिवेशस्तथा च तत्र वृत्तिनिरोधसत्त्वेपि क्लेशकर्माद्यविघटकत्वात्तस्य न तेषु योग- त्वम्, विवेकख्यातावपि तद्विघटकत्वात्तद्वारणाय निरोधान्तम् योगक्षेमत्वं- अनुभवानुसारवस्तुस्थितिसङ्घनत्वम् ॥ २४४३ ॥ योगरूढं- योगार्थप्रतिपादकपदम् १ शास्त्रकल्पितावयवार्थानु- संधानपूर्वकसमुदायशक्त्यर्थबोधकपदमिति स्फोटचन्द्रिकायां योगरूढिः- योगार्थवृत्तिरूढिः, यथा पङ्कजादिपदेषु ॥ २४४६॥ योगशक्तिः - अवयवशक्तिः, यथा पाचकादिपदानाम् २४४७॥२४४७॥ योग्यं- योगार्द्दम् १अन्यतरोपस्थितावन्यतरस्याबाधितम् २४४९॥२४४९॥ योग्यता- बाधकप्रमाणाभावः *१ वाक्यार्थाबाध: २ तात्पर्य - विषयसंसर्गाबाधः, यथा पयसा सिञ्चति ३ एकपदार्थे परपदार्थ- सम्बन्धः ४ कार्यविशेषोत्पादने सामर्थ्यमिति ग्रं० ॥ २४५४॥ योग्यानुपलब्धिः- अभावप्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जितोप- लब्धिरूपप्रतियोगिकानुपलब्धिः, यथा भूतले घटो नास्तीति प्रतीतिसिद्धघटाभावप्रतियोगिनो घटस्य यद्यत्र घटः स्यादितिप्र-
सञ्जनेन (= आपादनेन) तर्ह्युपलभ्येतेति प्रसञ्जितोपलब्धिरूपप्रति- योगिका घटस्यानुपलब्धिस्तया भूतले घटाभावप्रमा जायते इति योनिजशरीरं- शुक्रशोणितयोः परस्परमेलनजन्यं शरीरम् । यौक्तिकबाधः- मृद्व्यतिरेकेण घटाभावनिश्चयवन्निखिलकार- णीभूतब्रह्मव्यतिरेकेण प्रपश्चाभावनिश्चयः ॥ २४५७ ॥ यौगपद्यं - एकका (लवृत्तित्वम् १) लोत्पत्तिकत्वम् ॥ २४५९ ॥ यौगिकः- प्रकृतिप्रत्ययद्वारार्थवाचकः शब्दः १ अवयवशक्त्य- र्थशक्तिद्वागवबोधकः शब्दः, यथा प्रियः सुखद इत्यादिः । यौगिकरूढिः- योगार्थभिन्नार्थवृत्तिरूढिः, यथोद्भिदादिपदेषु १ अवयवशक्तिसमानाधिकरणसमुदायशक्तिरूपा रूढिः ॥ २४६३॥ *र* रक्षा- रक्षणम् १ अनिष्टनिवृत्त्यनुकूलव्यापारः ॥ २४६५ ॥ रजस्त्वं- प्रेरकत्वे सति सक्रियत्वे सति दुःखहेतुत्वम् ॥ २४६६॥ रतिः- भोगविलासार्थक्रिया १ यूनोरन्योन्यविषयस्थायिनीच्छेति ग्रं० २ वस्तुविशेषविषयिका प्रीतिः * ३ बाह्यसाधननिरपेक्षा । रमणीयत्वं- लोकोत्तराह्लादजनकज्ञानविषयत्वम् ॥ २४७१॥ रसः- रस्यते इति१भुक्तान्नपरिणाम: *२ रसनेन्द्रियमात्र ग्राह्यगुणः रसनेन्द्रियं- रस (ग्राहकत्वं रसनत्वम् १) ओपलब्धिसाधन मिन्द्रि- यम् । रसनेन्द्रियरससंबन्धादावतिव्याप्तिनिरासायेन्द्रियमिति रसास्वादः - विक्षेपनिवृत्तिजम्यानन्दानुभवः १ समाध्यारम्भ- समये ब्रह्मानन्दानवाप्तौ स्थूलवृत्त्यभावानन्दास्वाद इति ग्रं०
रागः- ध्वनिविशेषेण चित्तरजकः * १ उत्कटेच्छा २ अभिमत- विषयाभिलाषो वा ३ विषयानुबुभूषा ४ पुनःपुनर्विषयानुरञ्जने- च्छेति ग्रं० ५ रूयादिष्विष्टसाधनताबुद्ध्या स्नेहः ६ प्राप्तो विषयः क्षयकारणे सत्यपि न क्षीयतामित्येवमाकारश्चित्तवृत्तिविशेषः । रात्रिः- अहर्निपरीता १ सूर्यमण्डलादर्शनयोग्यकालः ॥ २४८६॥ रामायणम् - रामचरितमधिकृत्य कृतो प्रन्थः ॥ २५८७ ॥ रुद्रः - सत्त्वोपसर्जनभूततमोगुणावच्छिन्न चैतन्यम् ॥ २४८८ ॥ रूढः - प्रकृतिप्रत्ययार्थमनपेक्ष्य समुदायशक्तयाऽर्थबोधकः शब्दः, यथा गोवृक्षादिः १ सङ्केतयुक्तो नाम ॥ २४९० ॥ रूढिः- समुदायशक्तिः, यथा घटादिपदानाम् ॥ २४९१ ॥ रूपम् - तत्तद्वृत्तिरुद्दिष्टधर्मः १ चक्षुर्मात्रप्राह्यो गुणः । सङ्ख्यादि- वारणाय मात्रपदम्, प्रभावारणाय गुणपदम् ॥ २४९३ ॥ रूपकम्- उपमानोपमेययोरभेदे साम्यप्रतीतिः ॥ २४९४ ॥ रेचकप्राणायामः- पीतस्य वायोर्द्वात्रिंशन्मात्राभिस्त्यागः । रोगः- धातुवैषम्यहेतुको (व्याधिः १) मानसः शारीरो वा विकार- *ल* [ विशेषः लक्षकः - शक्यार्थसंबन्ध्यनुभावकः १ 'लाक्षणिक' लक्षणमप्यत्रप० लक्षणं- इतरभेदज्ञापकम् १ असाधारणध (र्म: २)र्मप्रतिपादकवा- क्यमिति ग्रं० ३ ज्ञानजनकज्ञानविषयः ४ अव्यायतिव्यायसंभ- वदोषत्रयशून्यम्, यथा गोः सास्नादिमत्त्वम्५ समानासमानजाती- यव्य ( वर्तको लक्ष्यगतः कश्चिल्लोकप्रसिद्धाकार: ६ )वच्छेदकम् ।
नीलमुत्पलमित्यत्र सजातीयमात्रव्यवच्छेदके विशेषणऽतिप्रस- ङ्गवारणायासमानजातीयेति, रूपं गुण इत्यादी विजातीय- द्रव्यव्यवच्छेदकधर्मेतिव्याप्तिवारणायसमानजातीयेति ७ लक्ष्यतावच्छेदकसमनियतम् । लक्ष्यतावच्छेदकसमनियतत्वं नाम लक्ष्यतावच्छेदकेन सह समव्याप्तिकत्वम् यथाऽन्तःक- रणावच्छिन्नं चैतन्यं प्रमातृचैतन्यमिति प्रमातृलक्षणे यत्र यत्रान्तःकरणावच्छिन्न चैतन्यत्वं तत्र तत्र प्रमातृत्वं यत्र यत्र च प्रमातृत्वं तत्र तत्रान्तःकरणावच्छिन्नचैतन्यत्वमिति लक्ष्य- तावच्छेदकेन प्रमातृत्वेन सह लक्षणस्य समव्याप्तिः ॥२५०५॥ लक्षणप्रयोजनं- व्यावृत्तिर्व्यवहारो वा ॥ २५०६ । लक्षणा- शक्यसंबन्धः*बोध्यसंबन्धः २स्वशक्तिज्ञाप्यसंबन्ध इति ग्रं० ३शक्यार्थस्मृतिव्यवहितशक्यार्थसंबन्धिपदार्थविषयाप्रतीति लक्षितः- लक्षणाश्रयः १ लक्षणया बोधितोऽर्थः ॥ २५१२ ॥ लक्षितलक्षणा- शक्यपरम्परासंब(न्धेनार्थान्तरप्रतीति १ )न्धः, यथा द्विरेफो रौतीति वाक्ये द्विरेफस्य भ्रमरपदे संबन्धस्तस्य च मधुकरे ॥ २५१४ ॥ लक्ष्यं- लक्षयितुं योग्यम्१वक्तृतात्पर्यविषयत्वे सति शक्यसंबद्धम् लघुत्वं-हस्वसंज्ञकवर्णवृत्तिधर्मविशेषः ४१ शीघ्राल्पोपस्थितिकत्वं लज्जा- अकृत्यप्रवृत्तिः ] अकार्यकरणादिजन्यो ज्ञानविशेषः *२ मुखसंवरणादिकार्यजनको मनोविकारविशेषः ॥ १५२५ ॥ लयः- संश्लेष: १ कार्यस्य कारणे समावेशः *२ प्रकृतेर्विरुद्धपरि-
णामः ३३ अखण्डवस्त्वनवलम्बनेन चित्तवृत्तेर्निद्रा ॥१५२८॥ ललितः- शृङ्गारहावजन्यः क्रियाविशेषः ॥ २५२९ ॥ लाक्षणिकः- लक्षणाभिज्ञः *१लक्षणयार्थबोधकः शब्दः ॥ २५३१ ॥ लाघवम्- लघोर्भावः १ तर्कविशेषविषयत्वम् ॥ २५३३ ॥ लिङ्गं- पुंसोऽसाधारणचिह्नम् *१व्या(प्त्याश्रयः २) प्तिविशिष्टपक्ष- धर्मताविशिष्टहेतुः ३ शब्दसामर्थ्यम् । अङ्कुरादिजननानुकूल- बीजादिसामर्थ्यवारणाय शब्देति मी० ४ प्राकृतगुणगताव- स्थात्मकधर्म इति वै० ५ लीनस्यार्थस्य (तात्पर्यादेः ) गमकम् । लिङर्थत्वं- प्रवृत्तिजनकज्ञानविषयत्वम् १ कार्यबुद्धिगोचरत्वे सति (भावार्थसाध्यफलजनकत्वम् २) प्रवर्तकत्वम् ॥ २५४२ ॥ लिपिः- शब्दानुमापकरेखा १ अक्षरनामकसाङ्केतिकचिह्नमिति ग्रं० लीला- शृङ्गारभावचेष्टा १ स्त्रीणां क्रीड़ारूपव्यापारः *२ प्रिया- नुकरणम् ३ रहस्यपूर्णव्यापारः ॥ २५४८ ॥ लेखक:- लेखनकर्ता १ शीर्षोपेतान्सुसंपूर्णान्समश्रेणिगता- न्समान्, अक्षरान्विलिखेद्यस्तु स लेखक इति स्मृति: २५५०॥२५५०॥ लेशाविद्या- प्रारब्धकर्मसंपादनपटीयानविद्याया अवस्थाविशे- षः १क्षालितलशुनभाण्डानुवृत्तलशुनवासनाकल्पोऽविद्यासंस्कारः लोकः- प्राणिनां कर्मफलभोगस्थानविशेषः ॥ २५५२ ॥ लोकवासना- सर्वे जना यथा मां न निन्दन्ति यथा वा स्तुवन्ति तथैव सर्वदाचरिष्यामीत्यशक्यार्थाभिनिवेश: १ लोकानुभवज नितत्वे सति लोकस्यैव पुनः पुनः ( रञ्जनाद्यर्थम् ) स्मरणहेतु-
रित्यादर्श २ संपादयितुमशक्यत्वात्पुरुषार्थानुपयोगित्वात्क्लेश- बहुत्वादिति निरन्तरञ्चिन्तनं लोकवासनानिवृत्त्युपाय: २५५२॥२५५२॥ लोकसङ्ग्रहः- लोकनिष्ठसदाचारविषयकप्रवृत्तिजनको व्यापारः । लोभः- परद्रव्याभिलाषः १ परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते, अभिलाषो द्विजश्रेष्ठ स लोभः परिकीर्तितः २ अस्तेयेनापरि- ग्रहेण संतोषेण दानेन चास्य निवृत्तिः ॥ २५५५ ।॥२५५५॥ लोभी- स्वद्रव्यापरित्यागित्वे सति परद्रव्यजिघृक्षुः ॥२५५६॥ लोलुपः- अत्यासक्तः १ अतिलोभयुक्तः *२निरर्थकमानसचेष्टावान् लौकिक:-लोकप्रसिद्धः १ अप्राप्तशास्त्रजन्यधीप्रकर्ष इति ग्रं० लौकिकगुणाधानवासना- समीचीनशब्दादिविषयसंपादनं लौकिकदोषापनयनदेहवासना- चिकित्सकोक्तेरौषधै (र्मु- खादिप्रक्षालनम् १) र्व्याध्याद्यपनयनम् ॥ २५६३ ॥ *व* वक्तृतात्पर्य - पुरुषाभिप्रायः १ तदर्थप्रतीतीच्छयोच्चरितत्वम् । वक्रोक्तिः - वक्रमार्गेणोक्तिः १ एकेनान्याभिप्रायेणोक्तं वाक्यम् वश्चकः- वञ्चनकर्ता १ अन्यथा स्थितस्य वस्तुनोऽन्यथा रूपेण कथादिनाऽन्यमोहोत्पादक इति ग्रं० ॥ २५६९ ॥ वश्चनं- स्वार्थसिद्धि (फलकं कपटाचरणम् १ ) व्याजेन वशीकरणं वर्णः- शब्दस्य स्फुटावस्था * १ ब्राह्मणादिजातिभेदकः २५७२॥२५७२॥ वर्तमानकालः- सूर्यपरिस्पन्दादिक्रियावच्छिन्नः कालः १ वर्तमा नोपाधिसंबन्धी स्वध्वंसप्रागभावानधिकरणवृत्तित्वमिति नै०३
२
प्रयोगावच्छिन्नकालः ४ प्रारब्धापरिसमाप्तकियाश्रय इति वै० वर्तमानप्रतिबन्धः- वर्तमानकालीनत्वे सति तत्त्वज्ञानप्रतिरोधः वशीकारवैराग्यं - ऐहिकामुष्मिकविषयजिहासा ॥ २५७८ ॥ वस्तुनिर्देशमङ्गलं - स्वेष्टतमदेवतागुणगणोक्तिः ॥ २५७९ ॥ वस्तुपरिच्छेदः - अन्योन्याभावप्रतियोगित्वम् १ यत्किञ्चिद्वस्त्व- वागिन्द्रियं - वचनकियासाधनमिन्द्रियम् । [नात्मत्वं वाक्यं- समभिव्याहार इरि मी० १ स्वार्थबोधसमाप्त इति वै०२ पदसमूहः। घटादिसमूहवारणाय पदेति ३ आकाङ्क्षायोग्यतास- न्निधिमत्पदसमुदायः । विलम्बोच्चारितपदसमुदायैतिव्याप्तिवा- रणाय सन्निधीति, अग्निना सिञ्चेदिति वाक्येऽतिव्याप्तिव्या- त्यर्थ योग्यतेति, गौरश्वः पुरुषो हस्तीत्यत्रातिव्याप्तिवारणा- याकाङ्क्षेति ४ शाब्दप्रतीतिजन्यशाब्दप्रतीतिजनकं पदात्मकं वाक्यशेषः- कथावसानम् १ अपेक्षितगुणसमर्पकः २ प्रकृतार्थ- विधायक इति ग्रं० ३ विध्यर्थसंदेहाधीनाकाङ्क्षाप्रयुक्तप्रयोगविषयः वाक्यार्थः - पदोपस्थापितपदार्थानां परस्परसंबन्धः १ साका- ङ्क्षपदार्थो निराकाङ्क्षः, यथा गौरित्युक्ते किमित्याकाङ्क्षा भवति, ततो गच्छत त्युक्ते निराकाङ्क्ष भवति २ वाक्यतात्पर्यविषयः । वाक्यैकवाक्यता- अङ्गबोधकवाक्यस्याङ्गिबोधकवाक्येन सहै- कवाक्यता १ प्रत्येकं भिन्नभिन्नसंसर्गप्रतिपादकयोर्वाक्ययोरा- काङ्क्षावशेन महावाक्यार्थबोधकत्वम् । [ स्मृतिजनकः वाचकः- पुराणादिपाठकः *१शक्यार्थबोधकः शब्दः २पदार्थ-
वाच्यत्वं- वचनार्हत्वम् *१ पदजन्यप्रतीतिविषयत्वम्॥२६०५॥ वाञ्छा- इष्टसाधनताधीजन्याभीष्टविषयचित्तवृत्तिः ॥ २६०६ ॥ वादः- तत्त्व ( बुभुत्सुना सह कथा १ ) निर्णयफलः कथाविशेषः २ यथार्थबोधेच्छुवाक्यमिति ग्रं० ३ स्वाभिमतार्थकथनम् २६१०॥२६१०॥ वादी- प्रथमपक्षप्रतिपादकः १ विचारस्थले वादकथाकर्तेति ग्रं० २ प्रकृतसाध्यसिद्ध्यर्थन्यायप्रयोगकर्ता ॥ २६१३ ॥ वानप्रस्थः- गृहस्थाश्रममपहाय गृहीतमुनिवृत्तिरसंन्यस्तः२६१४॥२६१४॥ वायु:- शब्दस्पर्शगुणकः १ रूपरहितत्वे सति स्पर्शवत्त्वं वायुत्वम् वारणं- क्रियाप्रतिषेधः १ प्रवृत्तिविमुखीकरणं वा ॥ २६१८ ॥ वार्त्ता- अन्योन्यकथनम् १ कथोपकथनमिति ग्रं० ॥ २६२० ॥ वार्तिकं- उक्तानुक्तदुरुक्ता (र्थव्यक्तकारित्वं वार्तिकत्वम् १ ) नां चिन्ता यत्र प्रर्वतते, तं प्रन्थं वार्त्तिकं प्राहुर्वार्तिकज्ञा मनीषिणः वासना- अनुभवजन्या स्मृतेर्हेतुः १ पूर्वापरपरामर्श विना सह- सोत्पद्यमानस्य क्रोधादिवृत्तिविशेषस्य हेतुश्चित्तगतः संस्कार- विशेषः, यथा स्वस्वदेशाचारकुलधर्मभाषास्वभावभेदतद्गता- पशब्दसुशब्दादिषु प्राणिनामभिनिवेशः २ सुषुप्त्यवस्थागता घीसूक्ष्मावस्था । [ सत्यपि क्रोधाद्यनुत्पत्तिः वासनाक्षयः- विवेकजन्यचित्तप्रशमवासनादान बाह्यनिमित्ते वासनानन्दः - ब्रह्मध्यानादे[१^]र्व्युत्थितस्य या आनन्दस्य वासना । [^१ आदिपदेन विषयध्यानस्य सुषुप्तेश्च परिग्रहः ।]
विकल्पः - विविधकल्पनम् १पक्षान्तरबोधकः शब्दः *२ शब्दशा- नानुपाती वस्तुशून्यः ३ स्वविरोध्युत्तरज्ञानाबाध्यत्वे सति वस्तु० विकारत्वं- जन्यत्वे सत्यजनकत्वम् * १ प्रकृतेरन्यथाभावः २६३३॥२६३३॥ विकृतिः- विकलाङ्गसंयुक्तो विधिः १ आतिदेशिकेतिकर्तव्यता- कत्वं विकृतित्वम् २ जन्यत्वे सति जनकत्वम् ३तत्त्वानारम्भकत्वं विक्षेपः- पुनःपुनर्विषयानुसन्धानम् *१ असम्भवत्कालान्त- रककार्यव्यासङ्गमुद्भाव्य कथाविच्छेदः ॥ २६३९ ॥ विक्षेपशक्तिः- आकाशादिविविधकार्यजननानुकूलमज्ञानसामर्थ्य विग्रहः- विरोधमात्रम् *१ वृत्त्यर्थावबोधकवाक्यम् २ समासादि- वृत्तिसमानार्थकवाक्यम् । [भूतधर्मविघटकः विघ्नः- समीहितक्रियास्वरूपप्रतिबन्धः १ कार्योत्पादप्रयोजकी- विचार:- प्रमाणेन तत्त्वपरीक्षा *१ तात्पर्यनिर्णयानुकूलयुक्त्य- नुसन्धानम् । [वणमननात्मिका वृत्तिः विचारणाभूमिका- गुरुमुपसृत्य वेदान्तवाक्यविचारात्मकश्र- विचित्रं- विशेषेण चित्रम् *१ स्वविपरीतफलनिष्पत्तये प्रयत्नः । विच्छेदः - एकजातीयद्रव्यगुणादीनामन्यजातीयेन व्यवधानम् विजयः- पराहङ्कारखण्डनम् ॥ २६५१ ॥ विजातीयभेदः - विरुद्धजातिकृतो भेदः, यथा वृक्षस्य शिलादितः विज्ञानमयकोशः - ज्ञानेन्द्रियैः सहिता बुद्धिः ॥ २६५३ ॥ वितण्डा - स्वपक्षस्थापनहीना विजिगीषुकथा १ स्वपक्षानिर्दे- शपूर्वकं परपक्षखण्डनमात्रोद्देशेन कथोपकथनम् ॥ २६५५ ॥
वितर्क:- सन्देहाद्यनन्तरं जायमान ऊहः ॥ २६५६ ॥ विदेहमुक्ति:- भाविशरीरानारम्भः १ तत्त्वज्ञानिनो भोगेन प्रारब्धकर्मक्षये वर्तमानशरीरपातः ॥ २६५८ ॥ विद्या- पुरुषार्थसाधनम् १ वेदार्थपरिज्ञानम् *२ विद्याहेतुशास्त्रम् विद्यामदः - मत्सदृशः को वेत्त्यहं पण्डितो न मत्तोऽन्यः पण्डितोऽस्तीति मनसोऽभिनिवेश: १ अहं कः ? मत्तोप्यधिकाः पण्डिता बहवः सन्ति तस्मान्मामपि कश्चित्पण्डितः पराभवि- ष्यतीति निरन्तरश्चिन्तनं विद्यामदनिवृत्त्युपायः ॥ २६६२ ॥ विद्वत्संन्यासः- गृहस्थाश्रमादौ कृतश्रवणादिभिरुत्पन्नसा- क्षात्कारेण गृहस्थादिना चित्तविश्रान्तिलक्षणां जीवन्मुक्ति- मुद्दिश्य क्रियमाणः संन्यासः ॥ २६६३ ॥ विधानं- अप्र (प्तस्य प्राप्तये कथनम् १ ) वृत्तप्रवर्तनम् २६६५॥२६६५॥ विधिः- शास्त्रोक्तव्यवस्था १ प्रवर्तकज्ञानविषयो धर्मः *२ विधा- यकवाक्यम् ३ पुरुषप्रवर्तकवाक्यं वा ४ अज्ञातार्थज्ञापको वेद- भागः ५ अप्राप्तप्रापको विधिरिति वैदिकाः ६ शब्दभावना विधिरिति भाट्टाः ७ नियोगो विधिरिति प्राभाकराः ८ इष्टसाध- नताबोधकप्रत्ययसमभिव्याहृतवाक्यमिति तार्किकादयः२६७४॥५६७४॥ विनिगमनाविरहः- एकतरपक्षपातियुक्तिविरहः ॥ २६७५ ॥ विनियोगः- अनुष्ठानक्रमविधानम् १ प्रकृतक्रियाप्रवृत्तिः २६७७॥२६७७॥ विनियोगविधिः- अङ्गप्रधानसंबन्धबोधको विधिः ॥२६७८॥
विपरीतभावना- अतस्मिँस्तद्बुद्धिः, यथा देहे आत्मत्वबुद्धिः । विपर्यय:- बाध्यमानं ज्ञानम् १ अतस्मिँस्तत्प्र (त्ययः २) कारकनिर्णयः विप्रतिपत्तिः- संशयजनकवाक्यम् १ विरुद्ध (कोटिद्वयोपस्थापक: शब्द: २ ) र्थ ( प्रतिपादकानेकवचनम् ३) कवाक्यद्वयजन्यप्रतीतिद्वयं विप्रलिप्सा- वञ्चनेच्छा १अन्यथा प्रतीतस्यार्थस्यान्यथा बोधयि- विभक्तिः- विभाग: १ सुप्तिङित्येतदन्यतरा । [तुमिच्छा विभागः- प्राप्तिपूर्विकाऽप्राप्तिः *१ परस्परासङ्कीर्णव्याप्यधर्मक- थनम् २ संयोगसमानाश्रयत्वे सति संयोगनाशकत्वं विभागत्वम् । विभुत्वं- सर्वमूर्तद्रव्यसंयोगित्वम्१परममहत्त्वम् * २सर्वदेशवृत्तित्वं विरक्तः - अननुरक्तः १ विषयवासनाशून्यो वा २ स्वस्वरूप (ज्ञान- पूर्वकलौकिकवेदिककर्माकारकः ३ ) अतिरिक्तरतिरहितः २६९९॥२६९९॥ विरागः- इहामुत्र (फलभोगोपेक्षाबुद्धिः१) र्थभोगेष्वरुचिः २७०१॥२७०१॥ विराट्र- पञ्चीकृतपञ्चमहाभूतकार्यसमष्टिस्थूलशरीरः १ समष्टि- स्थूल ( प्रपञ्चाभिमानी २) सूक्ष्मकारणशरीरोपहितं चैतन्यम् । विरुद्धत्वं- ) विरोधयुक्तत्वम् १ एका (धिकरणावृत्तित्वम् २) व- विरोधित्वं-) च्छेदेनैकत्रावर्तमानत्वम् ३सहा (संभव: ४) नवस्था (ननियमः ५) यित्वम् *६ साध्यव्यापकीभूताभावप्रतियोगित्वम् विरोधः- इष्टार्थभङ्गः १ विपरीतार्थकत्वम् ॥ २७१० ॥ विलासत्वं- रागरहितत्वे सति कार्योन्मुखीभावत्वम् ॥२७११ ॥ विवरणं- व्याख्यानप्रन्थव्याख्यानम् *१पूर्वोच्चरितवाक्यस्योत्त-
रवाक्येनार्थकथनम् २ तत्समानार्थकपदान्तरेण तदर्थकथनम् विवर्तः- पूर्वावस्थानपायेऽवस्थान्तरापत्तिः १ पूर्वरूपापरित्यागे- न ( रूपान्तरप्रदर्शक: २) [ सत्यनानाकारप्रतिभास इति ग्रं० ३उपा- दानविषमसत्ताकत्वे सत्यन्यथाभावः। परिणामवारणाय सत्यन्तं विवर्तवादः - अधिष्ठानस्वरूपमपरित्यज्य दोषवशाद्रूपान्तरेण ( प्रतीतस्य) कथनम् ॥ २७२३ ॥ विवादः - विरुद्धो वादः १ पक्षप्रतिपक्षपरिग्रहेण वदन [ संयोग विवाहः - विशिष्टं वहनम् १ भार्यात्वसंपादककर्म २सहधर्मचारिणी- विविदिषा- वेदनेच्छा १ सद्यःस्वतत्त्वसाक्षात्कारकरणैकपराय- णत्वं जनयत्स्वचित्तवृत्तिः । मुमुक्षोरष्टाङ्गयोगैकतत्परत्वं जनय- न्त्यां वृत्तौ व्यभिचारवारणाय सद्य इति पदम्, साक्षात्कार- तदिच्छयोः क्रमाद्बोधयितुं स्वपदद्वयम् अद्वैतब्रह्मेतरवस्तुत्र- त्यक्षहेतुतादृग्वृत्तावतिव्याप्त्यभावार्थं तत्त्वेति, साक्षात्कारस्थले ज्ञानेत्युक्तौ परोक्षज्ञानकारणनिरुक्तवृत्तावतिप्रसङ्गस्तद्द्वारणाय साक्षात्कारेति, तथा करणस्थले हेतुपदनिवेशे कमणां शा- न्त्यादीनामपि बहिरङ्गान्तरङ्गहेतुत्वेन तादृक्स्थले व्यभिचार- परिहारार्थं करणेति, एकपदं लौकिकव्यापारान्तरव्युदासाय, परायणपदं वैदिककर्मरत्यभावार्थम्, जनयदिति प्रतिबन्ध- राहित्यार्थम् चित्तेति पराभिमतात्मधर्मेच्छाव्यावृत्त्यर्थम् । विविदिषासंन्यासः - विवेकादिसाधनसम्पन्नेन तत्त्वज्ञानमु- द्दिश्य क्रियमाणः संन्यासः ॥ २७२४ ॥
विवेकः- नित्यानित्यवस्तुविचारः १संदेहानन्तरं जायमान ऊहः विशिष्ट:- विशेषण (युक्तः १) विशेष्यसंबन्धावगाहिज्ञान संबन्धी विशिष्टाद्वैतं- द्वैतविशिष्टमद्वतम् १ सूक्ष्मचिदचिदात्मकशरीर- विशिष्टस्य कारणस्य परमात्मनः, स्थूलचिदचिदात्मकशरीरवि- शिष्टस्य कार्यस्य परमात्मनश्चैक्यम् २ विशिष्टं युक्तं मिलितमद्वैतं. विशेषत्वं- अल्प (तर विषयत्वम् १ व्यापकत्वम् *२स्वतो व्या (व र्तक) वृत्तत्वम् ३ निःसामान्यत्वे सत्येकमात्रसमवेतत्वम् ४ अन्त्य - व्यावर्तकत्वे परमसोमावर्त्तित्वे वा सति नित्यद्रव्यमात्रवृत्तित्वम् । विशेषणं- विशिष्यतेऽनेन १ विशेष्यधर्मः २ प्रत्याय्यव्यावृत्त्यधि- करणतावच्छेदकत्वं विशेषणत्वम् ३ स्वकालनियतव्यावृत्तिबोध- जनकत्वमित्यद्वैतरत्नरक्षणे ४ कार्यान्वयित्व सति कार्यकाले नि- यमेन वर्तमानत्वे सति व्यावर्तकत्वम्, यथा नीलरूपादिकं घट- स्य ५ प्रतीयमानवैशिष्टयप्रतियोगित्वम् ६ सजातीयमात्राठ्याव- र्तकं केवलविशेषणम् ७स्वेतरकृत्स्नव्यावर्तकं लक्षणरूपविशेषणम् विशेषणविशेष्यभावसंबन्धः- मिथो विशेषणविशेष्ययोरनु- लोमप्रतिलोमतया विशेषणविशेष्यत्वे १ यत्किञ्चिन्निष्ठविशेषणता- निरूपितविशेष्यता, यत्किं०ष्यतानि०षणता वा । [चित्तवृत्तिः विशेषाहङ्कारः- ब्राह्मणोऽहं क्षत्रियोहमित्याद्यभिमानात्मिका विशेष्यं- व्यावर्त्यम् *विशेष्यताश्रयः २ भासमानवैशिष्टयानुयोगित्वं विश्रामः- श्रमापनयनम् *१ प्रवृत्तव्यापारस्यावसानम् २७५२ ॥२७५२॥
विश्वजीव:- जागरे व्यष्टिस्थूलशरीराभिमानिजीवः १ व्यष्टि - स्थूलसूक्ष्मकारणशरीरत्रयोपहितं चैतन्यमिति ग्रं० ॥ २७५४ ॥ विश्वव्यसनं - गृहक्षेत्रादिसंपादनेच्छाहेतुर्व्यसनम् ॥ २७५५॥ विश्वासः - वञ्चकत्वाभावसंभावना १ निर्दोषत्वेनाभिमानो वा । विषमम् - विरूप ( कार्योत्पत्तिः १ ) सङ्घटनम् ॥ २७५९ ॥ विषयत्वं- संविन्निरूपकत्वम् *१पदवाच्यत्वम् २ शरीरेन्द्रियभि- न्नत्वे सति जन्यत्वे सति साक्षात्परम्परया वोपभोगसाधनत्वम् । शरीरादावतिव्याप्तिनिरासाय शरीरेन्द्रियभिन्नत्वे सती- ति, कालादिवारणाय जन्यत्वे सतीति, परमाण्वादावति- व्याप्तिवारणाय विशेष्यदलम् ३ विशब्दश्च विशेषार्थः सिनोति- र्बन्धनार्थकः, विशेषेण सिनोतीति विषयोऽर्थनियामकः २७६६॥२७६६॥ विषयचैतन्यं- 'प्रमेयचैतन्य' वदस्य लक्षणमनुसन्धेयम् २७६७॥२७६७॥ विषयगतपरोक्षता- योग्यविषयस्यानावृतसंवित्तादात्म्याभावः विषयगतप्रत्यक्षत्वं- ज्ञानाकारार्पणक्षमहेतुत्वम् । चक्षुरादि- व्युदासायाकारसमर्पकत्वविशेषणमिति सौगताः १ तत्तदर्थस्य स्वव्यवहारानुकूलचैतन्याभेदः २ योग्य (विषयस्य वर्तमानप्र- मातृचै० ३) त्वे सति स्वाकारवृत्त्युपहितप्रमातृचैतन्याभिन्नत्वम् विषयवाक्यं- विचार (र्हि वाक्यम् १)विधायकं वाक्यम् २७७४॥२७७४॥ विषयवासना- शब्दादिविषयाणां भुज्यमानत्वदशाजन्यः सं-
स्कारः । [ व्यङ्ग्य भानन्दः विषयानन्दः- तत्तत्स्रक्चन्दनवनितादिविषयाकारैकाग्रबुद्ध्यभि- विषयी- विषयासक्तः १ शास्त्रानुसारैहिकविषयभोक्तृत्वे सत्यामु- ष्मिार्थकर्मकर्ता *२ विषयिताश्रयः * ३ विषय ( निष्ठावरण- निवर्तकत्वं विषयित्वम् ४) वभासकचैतन्यम् ॥ २७७७ ॥ विष्णुः- रजस्तमोगुणोपसर्जनकसत्त्वावच्छिन्नचैतन्यम् २७७८॥२७७८॥ विसंवादः- प्रमाणान्तरेण बाधः १ प्रमाणाननुसरणत्वे सत्य- न्यथा स्थितस्यार्थस्यान्यथा कथनत्वम् ॥ २७८१ ॥ विसंवादिभ्रमः - विफलप्रवृत्तिजनको भ्रमः ॥ २७८२ ॥ विस्मयः - नष्टगर्व: १ अपूर्ववस्तुदर्शनादिजन्यो मानसोल्लासः । विहितं- विधेयम् १ धर्मापादकं कर्म २ इष्टसाधनत्वेन वेदबोधित वीतानुमानं अन्वयमुखेन प्रवर्तनानं विधायकमनुमानम् । वृत्तिः - सूत्रमात्रव्याख्या * १ शाब्दबोधहेतुपदार्थोपस्थित्य- नुकूल: पदपदार्थयोः स्मार्यस्मारकभावसम्बन्धः * २ विषय- चैतन्याभिव्यञ्जकोऽन्तः[१^]करणाज्ञानयोः परिणामविशेषः । क्रो- धादिवृत्तावतिव्याप्तिवारणाय विषयचैतन्याभिव्यञ्जक इति, चक्षुरादौ विषयचैतन्याभिव्यञ्ज केऽतिव्याप्तिवारणार्थ- मन्तःकरणाशानयोः परिणामविशेष इति ॥२७९१॥ [^१ व्यावहारिकघटपटाद्यर्थाकाराऽन्तःकरणस्य परिणामात्मिका वृत्तिः, प्रातिभासिकशुक्तिरजताद्यर्थाकारा त्वज्ञानस्य परि०वृत्तिरिति विभागः ।]
वृत्तिविषयत्वं- शक्तिलक्षणान्यतरज्ञानाधीनज्ञानविषयत्वम् । वृत्तिव्याप्तिः-) विषयस्य स्वाकारवृत्त्या संबन्धः १ वृत्तिविष- वृत्तिव्याप्यत्वं-) यत्वम् २ वृत्त्युपहितचेतनविषयत्वमिति ग्रं० ३ विशिष्टशब्दादिप्रमाणबलात्तत्तद्विषयाकारधीसमुन्मेषाभिव्यक्तत्वं वृद्धिः - संवर्धनम् १ अवयवोपचयः ॥ २७९९ ॥ वेगत्वं- क्रियाजन्यत्वे सत्यन्यक्रियाजनकत्वम्। गुरुत्वादिवारणाय सत्यन्तम् विभागादिवारणायान्यक्रियाजनकत्वमिति । वेदः- मीनशरीरावच्छिन्नभगवद्वाक्यम् १ ब्रह्ममुखनिर्गतधर्म- ज्ञापकशास्त्रमिति पौराणिकाः २ सम्प्रदायानुसारेण स्वरादिवि- शिष्टा या वर्णानुपूर्वीपरिपाटी सः ३ इष्टप्राप्त्यनिष्टपरिहार- योरलौकिकमुपायं यो ग्रन्थो वेदयति सः । अलौकिकपदेन प्रत्यक्षानुमाने व्यावर्त्येते इति सायणभाष्ये ४ धर्मब्रह्मप्रति- पादकमपौरुषेयं प्रमाणवाक्यम् । भारतादावतिव्याप्तिवारणा- यापौरुषेयमिति, आत्मादौ तद्दोषवारणाय वाक्यमितीति प्रस्थानभेदे ५ मन्त्रब्राह्मणात्मकत्वं वेदत्वम् ६ शब्दतदुपजीवि- प्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्य- वाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वम् । व्यासादिचाक्षुषजन्ये भारतादौ दृष्टार्थकायुर्वेदादौ चातिव्याप्तिवारणाय सत्यन्तम् ७ वि(हि) दिताखिलशास्त्रार्थसर्वधर्मनिरूपणात्, दर्शनानां प्रमाणत्वाद्वेद इत्यभिधीयते ८ विद्यन्ते, ज्ञायन्ते, लभन्ते
वा एभिर्धर्मादिपुरुषार्था इति वेदाः ॥ २८०७ ॥ वेदान्तः - जीवब्रह्माभेदबोधकवाक्यम् १वेदानामन्तोऽवसानभागः वेदि:- यज्ञार्थपरिष्कृता भूमिः *१ गृहोपकरणविशेषः ॥२८११ ॥ वेश्या - वित्तमात्रोपाधिप्रकटितानुरागवती ॥ २८१२ ॥ वैखरीवाक्- मौखिकवाय्वभिव्यङ्ग्यः सर्वश्रुतिगोचरः स्थूलः शब्दः वैखानसः- ग्रामबहिष्कृताकृष्टपच्यौषधिकरणकाग्निहोत्रादि कर्मकर्ता वैधर्म्यम्- विरुद्धो धर्मः १ असाधारणो धर्मः *२ विभिन्नधर्म (व वैधर्म्यदोषः- एकधर्म्यसमावेशः । [त्त्वम् ३) वेत्तृत्वं वैयधिकरण्यं- भिन्नविभक्तयन्तानां पदानां विभिन्नार्थनिष्ठत्वम् वैयात्यं- अप्रतिसमाधेयश्रपरम्परायां मौनम् १ निर्लज्जत्वम् । वैरम्- शत्रु ( ता १ ) भावः २ परस्परविरोधः ॥ २८२४ ॥ वैराग्यं- विष (येषु जिहासा १) यवैतृष्ण्यम् २ दृष्टादृष्टविषयेषु स्पृहाविरोधी चित्तपरिणामविशेष इति ग्रं० ॥ २८२७ ॥ वैराग्यकारणं- शरीरं व्रणवत्तद्यदन्नञ्च व्रणलेपनम्, व्रणशो- धनवत्स्नानं वस्त्रञ्च व्रणपट्टवत् । इत्यादि भावनम् ॥२८२९॥ वैशेषिकशास्त्रं- कणादप्रणीतं शास्त्रम् १ विशेषं पदार्थभेदमधि कृत्य कृतं शास्त्रम् ॥ २८३० ॥ वैश्यः - कृषिगोरक्षत्राणिज्यादिस्वाभाविककर्मसंपन्नः ॥ २८३१॥ वैश्वदेवः - विश्वदेवसंबन्धीयो होमः । [मानो बलिः वैश्वदेवबलिः- अग्निपितृगोश्वकाकादिभ्यो मन्त्रविशेषेण दीय-
वैश्वानरः- 'विराड्' वदस्य लक्षणमनुसन्धेयम् ॥ २८३४ ॥ वैष्णवः- विष्णुमन्त्रोपासकः १ वैखानसाद्यागमोक्तदीक्षायुक्तः । वंश:- अविछिन्नाधारः १ पितृपितामहादिरूपोत्पाद प्रबन्ध इति ग्रं० २ पुत्रपौत्रपरम्परानुगतशरीर सन्ततिप्रवाहः ॥ २८३८ ॥ व्यक्तिः- पदार्थ (भिव्यक्तिः १) मात्रम् २ जात्याश्रयद्रव्यम् २८४०॥२८४०॥ व्यङ्ग्य:- व्यञ्जनया बोधितोऽर्थः ॥ २८४१ ॥ व्यञ्जकः- हृद्गतभावप्रकाशकोऽभिनयः *१ स्वविषयेऽस्ति प्रकाशते इत्यादिव्यवहारप्रतिबन्धकमात्रापनेता ॥ २८४४ ॥ व्यञ्जना- प्रकटकारकक्रिया १ मुख्यार्थसंबद्धासंबद्धसाधारणमु- ख्यार्थबाधप्रहाद्यप्रयोज्यप्रसिद्धा प्रसिद्धार्थविषयकधीजनकत्वम् व्यतिरेकः- परस्परमर्थानागमः १ यदभावे यदभावः, यथा यत्र यत्र सर्वप्राणिहिंसनशीलित्वे सति पशुत्वाकृतिविशिष्टा काचन व्यक्तिर्न भवति तत्र तत्र सिंह प्रत्ययोपि न भवति २ विभिन्नत्वम् व्यतिरेकवैराग्यं- चित्तगतदोषाणां मध्ये पक्केभ्योऽपक्कान्व्य- तिरेकेणावधार्य तज्जिहासा ॥ २८५१ ॥ व्यतिरेकव्यभिचार :- कारणाभावे कार्यसत्त्वम् १ कार्या- धिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वमिति ग्रं० ॥ २८५३ ॥ व्यतिरेकव्याप्तिः- हेत्वभावसाध्याभावयोर्व्याप्तिः १ साध्या- भाव (पुरःसरत्वम् २) व्यापकीभूताभावप्रतियोगित्वम् २८५६॥२८५६॥ व्यतिरेकसहचार:- कारणाभावे कार्याभावः ॥ २८५७ ॥
व्यतिरेक्यनुमानं - व्यतिरेकव्याप्तिविशिष्टहेतुकानुमानम् । व्यधिकरणत्वं- तदधिकरणावृत्तित्वम् १ 'वैयधिकरण्य' लक्षणमप्य ० व्यपदेशः- कपटम् १ विरुद्धानुष्ठानम् * २ शब्दप्रयोगः ३ नामो- ल्लेखनम् * ४ मुख्यव्यवहारः ५ एकस्मिन्नुभयारोपः, यथा देवदत्तस्यैक एव पुत्रः स एव ज्येष्ठः स एव कनिष्ठः ॥२८६५॥ व्यपेक्षा- सामर्थ्यविशेषः १ अवयवार्थापेक्षणम् २ 'एकार्थिभाव' लक्षण० व्यभिचारः - निन्दिताचारः * १ साध्याभाववदत्तित्वम् २८७२॥२८७२॥ व्यभिचारिणी- भ्रष्टाचारिणी स्त्री १ जारसमूहगामिनी २८७४॥२८७४॥ व्यर्थः - विफलः *अर्थशून्यः २स्वसमानाधिकरणावश्यल्कृप्तधर्मान्त- व्यवधानं- द्रव्यान्तरेण द्रव्यान्तरस्याच्छादनम्। [रघटितः व्यवसाय:- प्राथमिकज्ञानम् १ विषयविषयकज्ञानं ता २ ज्ञान- विष (यकलौकिकमानसप्रत्यक्षविषयः ३) यीभूतं ज्ञानम् २८८२॥२८८२॥ व्यवसायबुद्धिः- निश्चयात्मिका बुद्धिः १ यद्भवेत्तद्भवतु मया तु यन्निश्चितं तन्निश्चितमेवेति दृढविचार इति ग्रं० ॥२८८४ ॥ व्यवस्था- विषयान्तरपरिहारेण विषयविशेषस्थापनम् २८८५॥२८८५॥ व्यवहारः- कार्यानुकूलशब्दप्रयोगः *भाषोत्तरक्रियानिर्णायक: २ वादिप्रतिवादिकर्तृकः संभवद्भोगस (क्षि) त्त्वप्रमाणको विरोध- कोटिव्यवस्थापनानुकूलो व्यापार इति मदनरत्ने ३वि नानार्थे- ऽव सन्देहे हरणं हार उच्यते, नानासन्देहहरणाद्व्यवहार इति स्मृतः ४व्यवहिते (ज्ञायतेनेन५) हानोपादानादिकं क्रियतेनेनेति
व्यष्टिः पृथक्पृथगवभासमानः पदार्थः १ प्रत्येकवृक्षवदनेकबुद्धि व्यसनं- इष्टानिष्टवस्तुषु चित्तसं (योजनम् ) लग्नम् । [विषयः व्याकरणं- व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा यस्मिंस्तत् १ प्रत्यय- विधानसामर्थ्यादर्थनिश्चयः २ अर्थविशेषमाश्रित्य स्वरप्रकृति- प्रत्ययादिविशेषादीन्विदधत्पदखण्डार्थविशेषज्ञापको ग्रन्थः ३ वेदाङ्गत्वे सति शब्दसाधुताबोधकत्वं व्याकरणत्वम् ॥२८९७॥ व्याकरणप्रयोजनं- वैदिकपदसाधुत्वज्ञानेनोहादिकम् १ म्लेच्छा मा भूमेत्यधेयं व्याकरणमिति महाभाष्ये ॥ २८९९ ॥ व्याख्यानं- वक्तृता १ फलमाहात्म्योपासनप्रकारादिकथनमिति ग्रं० २ पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना, आक्षे- पस्य समाधानं व्याख्यानं पञ्चलक्षणम् ॥ २९०२ ॥ व्याघातः- विरुद्धसमुच्चयः १ परस्परविरुद्धधर्मयोरेकाधिकरणे समुच्चयः *२ असंबद्धार्थकवावयम् ३ यावज्जीवमहं मौनी ब्रह्म- चारी च मे पिता, माता तु मम वन्ध्याऽऽसीदपुत्रश्च पितामहः । व्याजः- विभवाभाव: * १ अन्यफलसाधनतया स्वेष्टस्यान्यफ- लसाधनत्वेन ज्ञापितस्याचरणम् ॥ २९०८॥ व्यापकत्वं - सर्वसंबद्धत्वम् * १ अधिकदेशवृत्तित्वम् २ स्वाधि- करणवृत्त्यन्ताभावाप्रतियोगित्वम् * ३ देशाद्यन्तरहितत्वम् । व्यापारत्वं- तज्ज[१^]न्यत्वे सति त (त्सहायत्वम् १ ) ज्जन्यजनकत्वम्, [^१ कारकेण जन्यत्वे सति तत्कारकजन्यक्रियां प्रतिजनकः ।]
यथा कुठारदारुसंयोगः । ईश्वरेच्छादिवारणाय सत्यन्तम्, दण्डरूपादिवारणाय तज्जन्यजनकत्वमिति ॥ २९१४ ॥ व्याप्ति:- व्यापनम् १ साध्य (भाववदवृत्तित्वम् २ ) साधनयोर- व्यभिचरितसंबन्धः ३ साधनसमानाधिकरणात्यन्ताभावाप्र- तियोगिसाध्यसामानाधिकरण्यमिति ग्रं० ४ स्वाभाविकसंबन्धः व्याप्यत्वं - अव्याप्याभाववदवृत्तित्वम् १ साध्यवदन्यावृत्तित्वे सति व्याप्त्याश्रयत्वम् *२ न्यूनदेशवृत्तित्वम् ॥ २९२२ ॥ व्याप्यवृत्तित्वम्- स्वसमानाधिकरणात्यन्ताभाव ( प्रतियोगि- त्वम् १ ) प्रतियोगितानवच्छेदकधर्मवत्त्वम् ॥ २९२४ ॥ व्यायामः- स्वास्थ्योन्नतिसंपादनार्थं विधिपूर्वकमङ्गसञ्चालनम् । व्यवर्तकत्वं- लक्ष्यवृत्तित्वे सतीतरभेदव्याप्यत्वम् ॥२९२६॥ व्यावहारिकत्वं- आगन्तुकदोषासहकृताविद्याकार्यत्वम् ज्ञानपूर्वाबाधितत्वे सत्यात्मज्ञानोत्तरसत्तास्फूर्तिशून्यत्वम् २९२८॥२९२८॥ व्यावृत्तिः- तद्धर्मावच्छिन्नेतरभेदः ॥ २९३० ॥ व्यासङ्गः- कार्यान्तर (नासक्तिः १) परित्यागेनैकपरत्वम् २९३२ ॥२९३२॥ व्यासज्यवृत्तित्वं- एक (मात्रवृत्तिधर्मान०) त्वानवच्छिन्नपर्याप्तिमत्त्वं व्युत्पत्तिः- शक्तिग्रहजन्यसंस्कारः १ शब्दानामर्थावबोधकशक्ति- रिति ग्रं० २ समुदायशब्दस्यावयवशोऽर्थबोधकशक्तिः २९३६॥२९३६॥ व्रतं- नियमाभिधानम् १क्रियाविषयकोनियमः २दीर्घकालानुपालनी- यसङ्कल्पः३सम्यक्सङ्कल्पजनितानुष्ठेयक्रियाविशेषरूपमिति हेमाद्रौ
*श* शक्तं- कार्योत्पादनयोग्यम् १ शक्त्याश्रयः २' वाचक' लक्षणमप्यत्र ० शक्ति:- कार्यजननानुकूलं कारणनिष्ठं सामर्थ्यम् ॥ २९४२ ॥ शक्तिवृत्तिः- पदपदार्थयोर्वाच्यवाचकभावसंबन्ध इति वै० १ पदानामन्वयानुभवजनन ( योग्यत्वम् २ ) सामर्थ्यमिति वे० ३ अस्मात्पदादयमर्थो बोद्धव्य इ(त्यनादिसङ्केतः४)तीश्वरेच्छेति नै शक्तिग्राहकः- शक्तिगृहीता १ शक्तिपरिच्छेदक इति ग्रं० २९४९॥२९४९॥ शक्यः - क्रियासंभवः १ पदनिष्ठशक्तिविषयत्वं शक्यत्वम् २९५१॥२९५१॥ शठ: - जडबुद्धिः * १ कामिनीविषयकपटपटुः ॥ २९५३ ॥ शपथः- स्वोत्कसत्यत्वप्रत्यायनोद्देश्यकोऽसत्यत्वप्रसङ्गेऽनिष्टाभ्यु: पगमः १ स्वाभिप्रायबोधानुकूलशपनकरणमिति ग्रं० ॥२९५४॥ शब्दगुण:- आकाशविशेषगुणः १ श्रोत्रग्राह्यो गुणः २९५६॥२९५६॥ शब्दतात्पर्य - तदितरप्रतीतिमात्रेच्छयानुच्चरितत्वे सति तद- र्थप्रतीतिजननयोग्यत्वम्, यथा भोजनप्रकरणे सैन्धवमानये- तिवाक्यस्थं सैन्धवपदं लवणेतराश्वादिप्रत्यायनेच्छयानुच्चरित - त्वे सति लवणरूपार्थविषयकप्रतीतिजननयोग्यमिति ॥२९५७ ॥ शब्दपुनरुक्तिः- समानार्थकपूर्वानुपूर्वीकशब्दप्रयोगः, यथा घटो घटः शब्दप्रमाणं- शाब्दप्रमाकरणम् १ वर्णतादात्म्येनार्थबोध जन- कम् २ असन्निकृष्टार्थप्रतिपादकं वचनम् । अनुवादविसंवादव्यं- वच्छेदायासन्निकृष्टपदम्; अपेक्षितादिपदनिराकरणायार्थग्र -
हणम्, अनुमानत्वनिराकरणाय वचनमिति मी० ३ समयबलेन सम्यक्परोक्षानुभवसाधनम् । अनुमानादिव्यावृत्त्यर्थं समयग्र - हणम्, प्रत्यक्षव्यावृत्त्यै परोक्षपदम्, संशयादिव्यावृत्त्यै सम्य- गिति, स्मृतिव्यावृत्त्यर्थमनुभवेतीति भूषणे ४ आप्तोच्चरितत्वे सति वाक्यत्वम् । अनाप्तोच्चरितवाक्येऽतिव्याप्तिवारणाय स- त्यन्तम्, जबगडदशादावतिव्याप्तिवारणाय वाक्येति ५ स्व- समानविषयवाक्यार्थयथार्थज्ञानजन्यत्वम् ॥ २९६४ ॥ शब्दलिङ्गं - अर्थप्रकाशनसामर्थ्यमिति मीमांसकाः ॥२९६५॥ शब्दाध्याहारः- आकाङ्क्षितार्थबोधकपदानुसन्धानम् २९६६॥२९६६॥ शम:- मनःसंयमः १ नित्यनैमित्तिककर्मातिरिक्तानां व्यापा- राणामन्तरिन्द्रियनिग्रह इति तत्त्वालोके २ ब्रह्मज्ञानोपयो- गिव्यापारातिरिक्तचित्तव्यापारमात्रनिरोधः ॥ २९६९ ॥ शरीरम् - शीर्यते प्रतिक्षणं नश्यतीति १ सुखदुःखान्यतरसाक्षा- त्काररूपभोगायतनमिति वे० २ निरपेक्षत्वगिन्द्रियाधारः । अङ्गुल्याद्यवयवानां प्रत्येकं शरीरत्वनिरासाय निरपेक्षपदमिति देहात्मवादिनः ३ आत्मनो भोगायतनम् ४ अन्त्यावयविमात्र- वृत्तिचेष्टावदृत्तिजातिमत्त्वं शरीरत्वम् । हस्तत्वपृथिवीत्वद्रव्यत्व- सत्त्वादिवारणाय प्रथमवृत्तयन्तम्, घटत्वादिवारणाय चेष्टाव- वृत्तीति, घटशरीरसंयोगादिवारणाय जातिमत्त्वमिति २९७४॥२९७४॥ शरीरी- देहावच्छिन्नात्मा १ भोगा (श्रयः २) वच्छेदकत्वं शरीरित्वं
शस्त्रं- अप्रगीतमन्त्रसा (ध्या स्तुतिः १ ध्यं कर्म २) ध्यम् २९७८॥२९७८॥ शाब्दबोधः - शब्दाजातो बोधः *१ एकपदार्थेऽपरपदार्थ- संसर्गविषयकं ज्ञानम् २ शक्तिलक्षणान्यतरसंबन्धेन पदजन्य- पदार्थस्मृतित्वावच्छिन्नकारणतानिरूपितकार्यत्वम् ॥२९८१ ॥ शाब्दीप्रमा- वाक्यकरणिका प्रमा १ आप्तोक्तार्थविषयणी- शब्दजन्या वृत्तिरिति ग्रं० २ शब्दविज्ञानादसन्निकृत्रेऽर्थे- विज्ञानम् । प्रत्यक्षव्यवच्छेदार्थमसन्निकृष्टेति, आकाशं भक्ष- येत्यादिव्यवच्छेदायार्थेतीति शाबरभाष्ये ॥ २९८४ ॥ शाब्दीभावना- पुरुषप्रवृत्त्यनुकूलभावकव्यापारविशेषः २९८५॥२९८५॥ शारीरकशास्त्रं- शास्यते प्रतिपाद्यते तत्त्वं शिष्येभ्योऽनेनेति । शास्त्रम्- हितशासकम् १ एकप्रयोजनोपनिबद्धाशेषार्थप्रतिपाद कम् *२ लोकानधिगतार्थ (ज्ञापक) वक्तृत्वम् ३ प्रवृत्तिश्च निवृत्तिश्च पुंसां येनोपदिश्यते, तद्धर्माश्चोपदिश्यन्ते शास्त्रं शास्त्रविदो विदुः शास्त्रवासना- शास्त्रतात्पर्याग्रहणेन केवलशास्त्राध्ययनेष्वास- क्तिः १ शास्त्रानुभवजनितत्वे सति शास्त्रस्यैव पुनः पुनः (वा- दिजयाद्यर्थम्) स्मरणहेतुरिति ग्रं० २ अनात्मशास्त्रेषु सकल- ग्रन्थाभ्यासपाटववादिविजिगीषाद्यभिनिवेशहेतु: ३ सर्वप्रन्या- नां जन्मसहस्रैरप्यध्येतुमशक्यत्वादसारबहुलत्वाद्दर्पहेतुत्वात्स- र्वेषां वादिनां दुर्जयत्वादात्मपराभवस्यावश्यं भावित्वाद्वृथाश्रमो- यमिति निरन्तरञ्चिन्तनं शास्त्रवासनानिवृत्त्युपायः ॥२९९३॥
शास्त्रवासनाफलं- श्रमासूयामानमत्सरमहत्तिरस्कारसच्छा- स्त्रप्रद्वेषादिद्वारा महानर्थः ॥ २९९४ ॥ शास्त्रार्थवासना- शास्त्रतात्पर्याप्रहणपूर्वकशास्त्रार्थमात्रेष्वाक्तिः शास्त्रीयत्वं- शास्त्र (संबन्धित्वम् १ ) स्थपदशक्यतावच्छेदकत्वम् शास्त्रीयगुणाधानदेह०- गङ्गास्नानशालग्रामतीर्थादिसंपादनं शास्त्रीयदोषापनयनदेहवासना- स्नानाचमनादिभिरशौ- चाद्यपनयनम् । [तिरेकेण प्रपञ्चाभावनिश्चयः शास्त्रीयबाधः - अथात आदेशोनेति नेतीत्यादिश्रुत्या ब्रह्मव्य- शिक्षा- त्रुटिनिवारणम् १ प्रवृत्तिप्रयोजकेष्टसाधनताज्ञा (नानुकूलो व्यापारः २)नम् *३ हस्वदीर्घादिवैदिकस्वरोच्चारण प्र (कारप्रद- र्शको ग्रन्थः ४) तिपादकं शास्त्रम् ५ शिक्ष्यते स्थानादि कमनया । शिक्षाप्रयोजनं- उदात्तानुदात्तस्वरितहस्वदीर्घप्लुतादिविशिष्ट- स्वरव्यञ्जनात्मकवर्णोचारणविशेषज्ञानम् ॥ ३००६ ॥ शिल्पशास्त्रं- कर्षणादिगोपुरप्राकारनिर्माणादिप्रतिपादकं शास्त्रं शिष्टत्वं- अनुशासनयोग्यत्वम् १ वेदोक्ताबाधितप्रामाणिकार्थाभ्यु पगन्तृत्वे सति वेदविहिताकरणप्रत्यवायफलककर्मकारित्वम् । चैत्यवन्दनप्रवृत्तबौद्ध व्यभिचारवारणाय वेदविहितेति । शिष्टाचारः - शिष्टैर्धर्मबुद्ध्याऽनुष्ठीयमानोऽलौकिकव्यवहारः । शिष्यत्वम्- शिक्षणीयत्वम् * १ उपदेशविषयत्वम् ॥ ३०१२॥ युद्धचैतन्यं - निरवच्छिन्न चैतन्यम् १ जीवेश्वरविभागरहित चै० शुद्धत्वं- निर्मलत्वम् १ सर्वधर्मातीतत्वमिति ग्रं० ॥२०१६॥
शुद्धशास्त्रवासना- अध्यात्मशास्त्राभ्यासजन्या विषयदोषद- र्शनविवेकवैराग्यादिहेतुः ॥ ३०१७ ॥ शुद्धाद्वैतत्वं- द्वित्वसामान्याभाववत्त्वम् १ इतरसंबन्धानवच्छि- न्नकार्यकारणादिरूपद्वित्वप्रकारकज्ञानप्रतियोगिकाभाववत्वम् । शुद्धिः - वैदिककर्मयोग्यतासंपादकसंस्कारः १ दोषराहित्यम् । शुभवासनात्वं- शुभानुभवजन्यत्वे अविनाश्यैश्वर्यप्रदत्वे वा सति साधुसेवितत्वम् । निमेषोन्मेषादावतिव्याप्तिवारणायाविनाशीति शुभेच्छाज्ञानमूमिका- नित्यानित्यवस्तुविवेकादिपुरःसरा फ- लपर्यवसायिनी मोक्षेच्छा ॥ ३०२३ ॥ शृङ्गार:- प्राकृतिकसौन्दर्यव्यक्तकारी *१ रतिक्रीडाद्यर्थस्त्री पुं- सयोरन्योन्यं प्रतीच्छा २ विभावानुभात्रव्यभिचारिभिरभिव्यकं रतिरूपस्थायिभावावच्छिन्नं स्वप्रकाशानन्दात्मकं चैतन्यम् । शेषः- उपकारी *१ परोद्देश्यप्रवृत्तिकः २इतरनिवृत्तिपूर्वकावस्थानं शैवः - शिवतत्त्वे व्यवस्थितः १ पाशुपताद्यागमोत्कदीक्षायुक्तः । शोकः - इष्टवियोग (जन्यं दुःखम्अनुचिन्तनम् २) गे सति तत्प्रा- शोधनं- निर्दोषकरणम् १दोषनिवारणम् । [प्त्यशक्यप्रार्थना शौचम्- मलनिरसनम् १ शरीरमनसोः शुद्धिर्वा २ करचरणादि- प्रक्षालनम् ३ अहं ममेति विण्मूत्रलेपगन्धादिमोचनम्, शुद्ध- शौचमिति प्रोक्तं मृज्जलाभ्यां तु लौकिकम् ॥ ३०३६ ॥ श्यामा - शीतकाले भवेदुष्णा ग्रीष्मे च सुखशीतला,
-
तप्तकाञ्चनवर्णाभा सा स्त्री श्यामेति कीर्तिता ॥ ३०३७॥ श्रद्धा- गुरूक्तवेदान्तवाक्यार्थावश्यम्भावित्वनिश्चयः १ शास्त्राचा- र्योपदिष्टेऽर्थेऽननुभूतेप्येवमेवैतदिति विश्वास इति ग्रं० ३०३९॥३०३९॥ श्रमः- मार्गगमनादिजः खेदः १ स्वेदमर्दनाद्यनुभावजनको वा । श्रवणं- शब्दविषयकप्रत्यक्षम् *१ श्रोत्रियब्रह्मनिष्ठगुरुमुखच्छ्रु- तिवाक्यार्थविज्ञानम् २ उपक्रमादिभिः षड्भिर्लिङ्गैर्वेदान्तानाम- द्वितीचे ब्रह्मणि तात्पर्यावधारणमित्यादर्श ॥ ३०४४ ॥ श्राद्धं - प्रेतोद्देशेन द्रव्यत्याग: १ पित्राद्युद्देश्यको याग इति ग्रं० श्रीगुरुः- मोक्षलक्ष्मीलक्षणलक्षितः १ देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम्, सिद्धं सिद्धाधिकाराँश्च श्री' पूर्वं समुदीरयेत् । श्रुतं- श्रवणगोचरः १ काव्यनाटकादिषु परिचयः । [कल्पनं श्रुतार्थापत्तिः - अनुपपद्यमानार्थश्रवणात्तदुपपादकीभूतार्थान्तर- श्रुतिः - क्रमपरवचनम् १ निरपेक्षो रवः । रव इत्युक्ते वाक्यादावति. प्रसङ्गस्तद्वारणाय निरपेक्ष इति २स्वार्थं वक्तुं पदान्तरानपेक्षं पर्द श्रोत्रेन्द्रियं- शब्द (ग्राहकत्वं श्रोत्रत्वम् १) पलब्धिसाधनमिन्द्रियं श्रोत्रियत्वं- वेदवेदाङ्गपारगत्वम् १ वेदान्तार्थपारगत्वं वा ३०५८॥३०५८॥ श्लाघा:- अविद्यमानात्मगुणज्ञापनम् १ निजगुणाविष्करणमिति मं० श्लोषः - एकस्मिन्वाक्येऽनेकार्थता ॥ ३०६१ ॥ श्लोकः- चतुष्पादात्मकः १ छन्दो (बद्धवाक्यम् २) विशिष्टवा- क्यरचनमिति ग्रं० ३ श्लोक्यते शस्यतेऽनेनेति ॥ ३०६५॥
षष्ठीविभक्तित्वं- तिबन्तदाधात्वर्थधर्मिकस्वार्थान्वयबोधास्वरु पयोग्यत्वे सति प्रथमान्यसुप्त्वम् १ हिनस्त्यर्थहिंसाधर्मिकस्वार्थ कर्मत्वानुभवकसुप्सजातीयत्वमिति शब्दशक्तिप्रकाशिकायाम्
*स* [ योरेकत्र समावेशः सङ्करः- जातिभ्रंशः*१ परस्परात्यन्ताभावसमानाधिकरणयोधी सङ्कल्पः - कर्तव्यत्वाध्यवसायः * १ अनासन्नक्रियेच्छा ३०७१॥३०७१॥ सङ्कीर्तन- सम्यक्प्रकारेण देवतानामोच्चारणम् ॥ ३०७२ ॥ सङ्केतः- अर्थबोधजनकः शब्दव्यापारः १ अस्मात्पदादयमधे बोद्धव्य इत्याकारिकेच्छा * २ स्वाभिप्रायव्यञ्जकचेष्टाविशेषः सङ्कोचः- बहुविषयकवाक्यस्याल्पविषयकतयाव्यवस्थापनम् सङ्क्रान्ति:- राश्यन्तरसंयोगानुकूलव्यापारः ॥ ३०७६ ॥ सङ्क्षेपः - भूयसोऽर्थस्याल्पवाक्यादिना प्रकाशनम् १ लघुत्वम् सखण्डोपाधिः- बहुपदार्थघटितो धर्मः ॥ ३०७९ ॥ सङ्ख्या- एकंद्वे त्रीणीत्यादिप्रत्यक्षविषयो गुणः १ एकत्वादिव्य वहारासाधारणकारणम् । घटादिवारणायैकत्वादीति, काला दिवारणायासाघारणेति २ नियतविषयपरिच्छेदहेतुः ३०८॥३०८॥ सङ्गतिः- अकस्माजाता १ पदपदार्थयोः स्मार्यस्मारकभावसंब न्धः * २ अनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषय सङ्ग्रहः- सङ्क्षेपेण स्वरूपकथनम् १ बहर्थकवाक्यानामेकः सङ्कलनम् १ विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययो
निबन्धो यः समासेन सङ्ग्रहं तं विदुर्बुधाः ॥ ३०८८ ॥ सङ्घातः- दृढसंयोगस्समूहः १ समानधर्मवतां परस्परसंबन्धः । सजातीयभेदः- समानजातिकृतो भेदः, यथा वृक्षस्य वृक्षान्तरात् संचितकर्म- जन्मान्तरहेतुभूतं सदवस्थितं पूर्वजन्मीयं (नं ) कर्म । संज्ञा- सङ्क्षेपेण ज्ञायतेयया १ हस्तैरर्थसूचनम् *२ नाममात्रबो- धिका ३ रूढ्या बोधकशब्दमात्रप्रवृत्तिनिमित्तकत्वम् ॥ ३०९६॥ सत्कारः - प्रियभाषणपादप्रक्षालनादिपूजा १ साधुरयं तपस्वी ब्राह्मण इत्येवमविवेकिभिः क्रियमाणा-स्तुतिरिति ग्रं० ॥ ३०९८॥ सत्ता- आत्मधारणानुकूलव्यापारः १ विद्यमानत्वम् ॥३१००॥ सत्यं- स्वीकारः*१ अनर्थाननुबन्धियथाभूतार्थवचनम् २ प्रियहित- प्रमाणदृष्टश्रुतार्थभाषणम्*अबाधितज्ञानविषयः ४कालत्रयाबाध्यं सत्त्वं- सतो भावः १ कालत्रयाबाध्यत्वमिति वे०२अर्थक्रियाकारि- त्वमिति बौद्धाः । [ज्ञानसुखहेतुर्गुण: सत्त्वगुणः - विकृते कारणे सति चित्तस्याविकृतिः १लघुत्वे सति सत्त्वापत्तिभूमिका- निर्विकल्पकब्रह्मात्मैक्यसाक्षात्कारः। स्व- प्रवज्जगतो मिथ्यात्वेन स्फुरणात्स्वन इति चोच्यते ॥३१११॥ सदसद्विलक्षणत्वं- प्रतीयमानत्वे सति बाधयोग्यत्वम् ३११२ ॥३११२॥ सदाचारः- शिष्टव्यवहारः १ वेदादिशास्त्रानुसार्याचारो वा । सदुत्तरं - पृष्टस्य सम्यगुत्तरम् १ प्रतिज्ञापत्रानुसार्युत्तरमिति ग्रं० संतोष:- सन्निहितप्राणधारणमात्र हेतुना तुष्टि: १ विद्यमानभो- मीपकरणादधिकस्यानुपादित्सारूपा चित्तवृत्तिरित्यादर्शे ३११८॥३११८॥
संदेश:- वाचिकार्थकथनम् । [वह्निमान्न वा संदेहः- एकस्मिन्धर्मिणि विरुद्धकोटिद्वयज्ञानम्, यथा पर्वतो संदंशः- एकाङ्गानुवादेन विधीयमानयोरङ्गयोरन्तराले विह्नितत्वं संधिः - सामीप्यम् १ अन्योन्यं संधानम् * २ द्विवर्णोत्पन्नवर्णवि- कार: ३ अर्द्धमात्रोच्चारण कालेनाव्यवहितयोर्वर्णयोर्द्रुततरोच्चारणं संध्या - रात्रेराद्यन्तदण्डचतुष्टयात्मककालः । [म्बोच्चारणं संनिधिः- प्रकृतान्वयबोधानुकूलपदाव्यवधानम्१ पदानामविल- संनिपत्योपकार्यङ्ग- सामीप्येनोपकार्यङ्गम् १ 'स्वरूपोपकार्यङ्ग' लक्षणामप्यत्र पठनीयम् ॥ ३१२९ ॥ सन्निहितः- व्यवधानशून्यः १ स्वरूपभिन्नत्वे सति सम्बन्धी । संन्यासः - विहितानां कर्मणां विधिना परित्यागः । अविहित- निषिद्धत्यागिनां वारणाय विहितानामिति, आलस्यादिना वि. हितत्यागिनां वारणाय विधिनेति १ कर्मत्यागान्न संन्यासो न प्रैषोच्चारणेन तु सन्धौ जीवात्मनोरैक्यं संन्यासः परिकीर्तितः । संन्यासित्वं- संस्कारपूर्वकवेदाधिकारित्वे सति वैराग्यशालित्वम् सप्तमीविभक्तित्वं- पचधात्वर्थतावच्छेदकरूपावच्छिन्नधर्मि- कस्वार्थाधेयत्वबोधानुकूलसुप्सजातीयत्वम् १ चैत्रधर्मिकस्वार्था- धिकरणत्वान्वयबोधकसुप्समानानुपूर्वीकत्वमिति शब्दशक्तिप्र० समं- यत्किञ्चिनिरूपितसादृश्यवत् *औचित्येनोत्कृष्टापकृष्टयोर्योगः समदर्शित्वं- मित्रारिपक्षयोरपक्षपातित्वम् १ सर्वत्रब्रह्मदर्शित्वं वा
समनियतत्वं- तद्व्याप्यत्वे सति तद्व्यापकत्वम् १ स्वाधिकरण- वृत्त्यभावाप्रतियोगित्वमिति ग्रं० ॥ ३१३९ ॥ समन्वयः - वेदान्तानां ब्रह्मप्रमितिजनकत्वमिति तत्त्वदीपने १ ब्रह्मात्मैकत्वप्रतिपादकत्वेन वेदान्तवाक्यानां समनुगतत्वम् । समर्पणं- स्त्रोपगृहीतविषयस्य प्रतिबिम्बरूपे चित्याधानम् । समवायः - अयुतसिद्धयोः संबन्धः १ नित्यसंबन्धः । संयोग- वारणाय नित्येति, गगनादिवारणाय संबन्ध इति २ संयो- गभिन्नत्वे सति साक्षात्संबन्धत्वं समवायत्वम् ॥ ३१४५ ॥ समवायिकारणं- समवायसंबन्धावच्छिन्नकार्यतानिरूपिततादा त्म्यसंबन्धावच्छिन्न कारणतावत् । [देकबुद्धिविषयः समष्टिः- सम्यग्व्याप्तिः*१समुदायभावापन्नः पदार्थ: २ वनव- समसमुच्चयः- ज्ञानकर्मणो (र्युगपदनु०) एकस्मिन्कालेऽनुष्ठानं समाधानं- विवादभञ्जनम् १ सिद्धान्तानुकूलतर्कादिना सम्य- गर्भावधारणम् * २ निद्रालस्यप्रमादत्यागेन स्थितिः * ३ श्रवणाद्यपेक्षितचित्तैकाग्र्यम् ॥ ३१५४ ॥ समाधिः - कारणसामग्री १ असाध्यविषयाध्यवसायः * २ व्यु- त्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावे सति चित्तस्यैकाग्रता परिणाम: ३ द्रष्टृस्वरूपावस्थानहेतुश्चित्तवृत्तिनिरोध इति ग्रं० ४ वृत्त्यन्तरनिरोधपूर्वकात्मगोचरधारावाहिकचित्तवृत्तिः ॥३१५९ ॥ समानपदत्वं - एकपदत्वम् १ अखण्डपदत्वं वा * २ निमि- तानधिकरणनिमित्तिमत्पदाघटितत्वम् ॥ ३१६२ ॥
समानप्राणः- अशितपीतान्नपानादे: समीकरणकरः प्राणः । समानाधिकरणत्वं- एकाधिकरणवृत्तित्वम्'सामानाधिकरण्य' लक्ष समाप्तः-) सम्यक्प्राप्तः १ अवसानप्राप्तः * २ आरब्धकर्मणः समाप्तिः -) संपूर्णम् ३ चरम (वर्णध्वंसत्रत्त्रम् ४) वृत्तिध्वंसः । समावेश:- बहूनामर्थानामेकत्र वाक्यादौ व्यवस्थापनम् । समासः- द्व्यादिपदानामेकपदतासंपादको वृत्तिविशेषः १ व्य- स्तपदयोर्व्यस्तपदानां वैकत्र समसनमिति ग्रं० २ अभिधानाश्रि- तलोपाभाववदन्यमध्यवर्त्तिविभक्तिशून्यनामसमुदायः ३१७३॥३१७३॥ समासप्रयोजनं- ऐकपद्यमैकस्वर्यमेकविभक्तिकत्वम् ३१७४॥३१७४॥ समाहारः- साहित्यम् १ अनुद्भूतावयत्रभेदः समूहः २तुल्यवदेक- समीहा- इष्टानिष्टप्राप्तिपरिहारानुकूला चेष्टा। [क्रियान्वयित्वं समुच्चयः - विरोधानवगाहिज्ञानम् * १ परस्परनिरपेक्षाणाम- नेकेषामेकस्मिन्नन्वयः २ कर्मद्वयस्यैकक्रियानिष्ठत्वम् ॥ ३१८० ॥ स (मुदाय:) मूहत्वं- अपेक्षाबुद्धिविशेषविष(यः)यत्वम् ३१८१॥३१८१॥ समूहालम्बनं- नानाधर्मि (र्म्यव)तावगाह्ये कं ज्ञानम् १ नानाप्र- कारतानिरूपितं नानामुख्यविशेष्यताशालि ज्ञानमिति ग्रं० ३१८३॥३१८३॥ संप्रदानत्वं- त्यागानुयोगित्वम् १ दानकर्मोद्देश्यत्वं वा ३१८५॥३१८५॥ सम्प्रदाय:- शिष्टपरम्परावतीर्णोपदेश इति भरतः १ गुरु- परम्परागतसदुपदि (देशविशि) ष्टव्यक्ति समूहः ॥ ३१८७ ॥ संबद्धत्वं संबन्धयुक्तम् १ परस्परान्वितत्वमिति ग्रं० ३१८९॥३१८९॥
.
संबन्धः - सम्यग्बन्धः १ संसृष्टबुद्धिव्यवहारयोर्हेतु: + २ विशिष्ट- प्रतीतिनियामकः ३ संबन्धिभिन्नत्वे सति संबन्ध्याश्रितत्वे सत्येकः संबोधनं- सम्यग्ज्ञापनम् १ अन्यत्रासक्तस्याभिमुखीकरणं वा । संभवप्रमाणं- भूयःसहचारदर्शनजन्यज्ञानम्, यथा सम्भ- वति ब्राह्मणे विद्या, सम्भवति सहस्रे शतमिति १ अविना- भाविनोऽर्थस्य सत्ताग्रहणादन्यस्य सत्ताग्रहणम् ॥ ३१९७ ॥ संभावना- शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः * १ निश्चयप्रायऔ- त्कट्यापन्नसंशयः २ उत्कटैकतरकोटिकज्ञानमिति ग्रं० ॥ ३२००॥३२००॥ सम्यग्ज्ञातत्वं- पदवाक्यमानादिविशिष्टज्ञानविषयताशालित्वम् सर्वज्ञः - सकलज्ञाता १ स्वरूपचैतन्येन स्वाध्यस्तसर्वजगदवभा- सक इति मुक्तावल्याम् २ सर्वं जानातीति ज्ञः ॥ ३२०४ ॥ सर्वनामत्वं- स्वोच्चारणानुकूलबुद्धिप्रकारविशिष्टत्वम् १ वक्तृबु- ध्दिविशेषविषयत्वावच्छेदकत्वोपलक्षितधर्मावच्छिन्नार्थवाचित्वं सवर्णः- समानो वर्णो यस्य १ स्वजनकयावत्स्थानप्रयत्नजन्य- त्वे सति स्वाजनकस्थानप्रयत्नाजन्यत्वं सवर्णत्वम् ॥ ३२०८॥ सविकल्पकं- वैशिष्ट्यावगाहिज्ञानम्, यथा घटमहं जानमीत्या- दिज्ञानम् । इच्छादिवारणाय ज्ञानमिति, निर्विकल्पकवारणाय वैशिष्ट्यावगाहीति । [ चित्तसमाधानं सविकल्पसमाधि-ज्ञातृज्ञानज्ञेयविकल्पावभासपुरःसरमात्मनि सहकारित्वं- स्वभिन्नत्वे सति स्वकार्यकारकत्वम् ॥३२११॥
सहचारः- एकाधिकरणवृत्तित्वम् १ 'सामानाधिकरण्य'लक्षणम० सहसापतनतापः- पुण्यकर्मक्षये मुद्गरादिप्रहरणजन्यस्तापः। सहानवस्थानम्- एकाधिकरणे एकस्मिन्कालेऽनवस्थितिः । सहाप्रतीतिविरोधः- एकम्मिन्काले एकाधिकरणेऽप्रतीतिः । सहायता अन्य कर्तृकक्रियायामप्राधान्येनान्वयित्वम् ॥३२१६ साकारः - धर्माश्रयः १ आकारेण सह वर्तमानः ॥ ३२१८ ॥ साक्षात्संबन्धः- पारम्पर्यरहितः संबन्धः १ वृत्तित्वनियामकः संबन्धः २यन्निष्ठसंसर्गतायां प्रतियोग्यनुयोगिविषयतानिरूपितत्वं साक्षात्साधनं- पारम्पर्यरहितं साधनम् ५ अव्यवहितपूर्वत्व- संबन्धेन कार्याधिकरणीभूतक्षणनिष्ठात्यन्ताभावप्रतियोगिता- नवच्छेदकान्यथासिद्ध्यनिरूपकधर्मवत्त्वमिति माथुर्याम् ३२२२॥३२२२॥ साक्षित्वं- वृत्तज्ञत्वम् * १ अकर्तृत्वे सति द्रष्टृत्वम् २ उदासीनत्वे सति बोद्धृत्वमिति ग्रं० ३ जीवेश्वरानुगतसर्वानुसंधातृचैतन्यत्वं साङ्ख्यशास्त्रं- सम्यग्विविच्य ख्यायन्ते प्रकटीक्रियन्ते तत्त्वानि प्रकृतिपुरुषपदार्थरूपाणि यस्मिँस्तत् । [शून्यत्वे सति तद्ग० सादृश्यं- तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् १ तदसाधारणधर्म- साधकं - साध्यज्ञापकम् १ स्वपक्षप्रमितिजनकं वा ॥३२३१॥ साधनत्वं- ब्रह्मविद्याहेतुत्वम्१व्याप्त्याधारत्वम् २ कार्यजन- कत्वम् ३ करणकारकत्वम् ॐ ४ पूर्वकालवृत्तिधर्मवत्त्वम् ३२३५॥३२३५॥ साधारणधर्मत्वं- तदितरवृत्तित्वे सति तद्वृत्तित्वम् । [शालित्वं साधारणकारणत्वं- कार्यत्वावच्छिन्नकार्यतानिरूपितकारणता-
साधुत्वम्- अपभ्रंशभिन्नत्वम् १ अभ्युदयसाधनप्रयोगविषयत्व- मिति ग्रं० २ व्याकरणबोध्यत्वम् ३ पुण्यजनकतावच्छेदकजा- तिमत्त्वम् * ४ निर्दोषत्वम् ५ प्रियकारित्वमिति ग्रं० ६ स्वपर- कार्यसाधकत्वम् ७ निर्वैरः सदयः शान्तो दम्भाहङ्कारव- र्जितः, निरपेक्षो मुनिर्वीतरागः साधुरिहोच्यते ॥३२४५ ॥ साध्यत्वं- निष्पाद्यत्वम् * १ व्याप्तिनिरूपकत्वम् २ अवयवत्वाव- च्छिन्नविषयतानिरूपितविषयताप्रयोजकत्वम् * ३ कालान्वयि- तावच्छेदकरूपवत्त्वम् ४ भाविकालवृत्तिधर्मवत्त्वम् ॥ ३२४६॥ साम- शत्रुवशीकरणोपायः १ प्रियवचनैः क्रोधोपशमनमिति ग्रं० सामग्री- कार्यायोगव्यवच्छिन्नः कारणसमुदायः ॥ ३२५३॥ साममन्त्रः- गीतिरूप [८८१४] मन्त्रः १ गीतिविशिष्टो मन्त्रः । सामयिकाभावत्वं- उत्पत्तिविनाशवत्त्वे सत्यभावत्वम् ३२५६॥३२५६॥ सामर्थ्य- पदानां परस्परसंबन्धः १ कार्यजननयोग्यत्वम् ३२५८॥३२५८॥ सामवेदः- सामबहुलो वेदः १ सामावयको वेदः २ सोम (विनि- योजकत्वं सामवेदत्वम् ३) द्रव्यको वेद इति सुधायाम् ३२६२॥३२६२॥ सामानाधिकरण्यं - एकविभक्त्यन्तत्वे सत्येकार्थनिष्ठत्वम् १ भिन्नप्रवृत्तिनिमि (त्तकत्वे सत्येकार्थप्रतिपादकत्वम् २ ) त्तानां श- ब्दानामेकस्मिन्नर्थे वृत्तिः, यथा सोयं देवदत्तः । मृद्धटः नीलमुत्पलं राज्ञः पुरुष इत्यादि वाक्येषु व्यभिचारनिरासाय क्रमेण विशेषणं सामान्यं- बहु (तरविषयः १) व्यापकम् २ नित्यमेकमनेकसमवेतं
-
-
सामान्यधर्मः- अनुगतधर्मः १ सादृश्यप्रयोजको धर्मः ३२७०॥३२७०॥ सामान्यतोदृष्टानुमानं- अदृष्टस्वलक्षणस्य सामान्यविशेषस्य दर्शनम् १ कार्यकारणभिन्नलिङ्गक्रमनुमानमिति ग्रं० २ पूर्वाग्रही- तव्यक्तिसामान्य विषयमनु० [रीभूतं सामान्यं सामान्यलक्षणसन्निकर्षः- इन्द्रियसंबद्ध विशेष्य ऋज्ञानप्रका- सामान्याहङ्कारः- सामान्यतोहमित्यभिमानात्मिका चित्तवृत्तिः सामीप्यमुक्तिः- उपास्यस (मीपवृत्तित्वम् १) मीप्यप्राप्तिः ३२७६॥३२७६॥ सायुज्यमुक्तिः- उपास्यात्मतापत्तिः १ सदोपास्यसहवृत्तित्वम्। सारत्वम्- न्याय्यत्वम् १ उत्त (मत्वम् २) रोत्तरोत्कर्षत्वम्। सारथिः- रथादिघोटकनियोगकर्ता ॥ ३२८१॥ सारूप्यमुक्तिः- उपास्यसमानस्वरूपप्राप्तिः ॥ ३२८२ ॥ सालोक्यमुक्तिः- उपास्यसमानलोकप्राप्तिः॥ ३२८३ ॥ सावयवः - अवय (वजन्यः १ ) वेन सह वर्तमानः ॥ ३२८५ ॥ सिद्धः - निष्पन्नः १ कृतकार्या वा २ सिद्धि (:-निष्पत्तिः ३) विषयः सिद्धसाधनं- प्रमाणान्तरेणावगतार्थसाधनम् ॥ ३२९० ॥ सिद्धान्तः- अबाधितो निश्चयः * १ तत्तच्छास्त्रसिद्धोऽर्थः २ वादिप्रतिवादिनिर्णीतोऽर्थः ३ प्रामाणिकत्वेनाभ्युपगतोर्थ इति ग्रं० ४ पूर्वपक्षकोटिनिरसनपूर्वकस्वीकरणीयकोटिनिर्देशः ३२९॥३२९॥ सिद्धासनम् - सिद्धये सर्वभूतादि विश्वाधिष्ठानमद्वयम्, यस्मिन्सिद्धिङ्गताः सिद्धास्तत्सिद्धासनमुच्यते ॥ ३२९५॥
सुखं - निरुपाधिकेष्टम् *१ सत्त्वपरिणामरूपप्रीत्यात्मकचित्तत्र- त्तिविशेषः २ सर्वेषामनुकूलतया वेदनीयम् । शत्रुदुःखवारणाय सर्वेषामिति ३ अन्येच्छानिधीनेच्छाविषयः । भोजनादावति- व्याप्तिवारणायान्येच्छानधीनेति ४ काम्यभावत्वम् ३३००॥३३००॥ सुन्दरी - विलक्षणसंस्थानावयववती ॥ ३३०१ ॥ सुषुप्तिजाग्रत् - सुषुझ्यवस्थायां सात्त्विकी या सुखाकारा वृत्तिः ( यदनन्तरं प्रबुद्धस्य सुखमहमस्वाप्समिति परामर्शः ) सा । सुषुप्तिसुषुप्तिः - सुषुप्त्यवस्थायां या तामसी वृत्तिः ( यद्वलात्प्र- बुद्धस्य गाढं मूढोऽहमस्वाप्समिति परामर्शः) सा ॥ ३३०३ ॥ सुषुप्तिस्वनः- सुषुप्त्यवस्थायां या राजसी वृत्तिः ( यदनन्तरं दुःखमहमस्वाप्समिति प्रबुद्धस्य परामर्शः ) सा ॥ ३३०४ ॥ सुषुप्त्यवस्था- सुखगोचराविद्यागोचराविद्यावृत्त्यवस्था १ जाग्र- त्स्वप्नोभयभोगप्रदकर्मोपरमे सति द्विविधदेहाभिमाननिवृत्तिद्वारा विशेषविज्ञानोपरमात्मिका या बुद्धेः कारणात्मनावस्थितिः ३३०६॥३३०६॥ सुहृद्- सर्वदानुगामी १ प्रत्युपकारंमनपेक्ष्य पूर्वस्नेहं विनैवोपकर्ता । सूक्ष्मशरीरत्वं- दृगगोचरत्वे सति कारणदेहभिन्नत्वम् ३३०९॥३३०९॥ सूत्रं - अल्पाक्षर (त्वे सति बह्वर्थसूचकत्वं सूत्रत्वम् १ ) मसंदिग्धं सारवद्विश्वतोमुखम्, अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः । सूत्रधारः - नाटकप्रयोगप्रधानसञ्चालकः ॥ ३३१२ ॥ सृष्टिः - संसाररचना १ उत्पत्त्यनुकूलव्यापारविशेषः ॥३३१४॥
सेवकवृद्धिव्यसनं- परराष्ट्राभिभवादीच्छ्या सेवकवृद्ध्यर्थेच्छा- हेतुर्व्यसनम् । [कारित्वं सेवा- पर (कार्यसाधनम् १ ) [र्थक्रिया २ सर्वभावेनाचार्यानुकूल- सोपाधिकभेदत्वं - उपाधिसत्ताव्याप्यसत्ताकत्वम् ॥ ३३१९॥ सोपाधिकभ्रमः- ) अधिष्टानज्ञानानिवर्त्यो भ्रमः १ उपाधि- सोपाधिकाध्यासः-) निरूपणाधीननिरूपणाध्यासः ३३२१॥३३२१॥ संयमः- इन्द्रियनिग्रहः १ सङ्कोचकारकव्यापारो वा ॥३३२३॥ संयोगः - विद्यमानयोरप्राप्तयोः प्राप्तिः *१ क्रियाजन्यद्रव्याश्रयो गुणः २संयुक्तव्यवहारासाधारणकारणम् । दण्डादिवारणाय सं- युक्तव्यवहारेति, कालादिवारणायासाधारणेति ३जन्यद्रव्य वृत्तित्वे सति स्वसमानाधिकरणाभावप्रतियोगिविभागभिन्नगुणः संवादः - परस्परं जनानां सम्यङ्मिर्णयपूर्वकं वादो भाषणम् । संवादिभ्रमः- सफलप्रवृत्तिजनकभ्रमः'अविसं ० ' स्यापीदं लक्षणं ज्ञेयं संशयः - अनवधारणज्ञानम् १ संदिग्धार्थानिश्चयः * २ एकस्मि- न्धर्मिणि विरुद्ध (भावाभावप्रकारकज्ञानम् ३ ) कोटिद्वयावगाहि- ज्ञानम्, यथा आम्रो वा पनसो वेति ४ एकत्र भासमानविरुद्ध- नानाकोटिकज्ञानम् । [वच्छिन्न प्रतियोगिताको ० संसर्गाभावः- संसर्गप्रतियोगिकोऽभावः १त्तादात्म्यभिन्न संबन्ध संसार:- मिथ्याज्ञानजन्यसंस्काररूपवासना १ स्वादृष्टोपनिबद्ध- शरीरपरिग्रह इति कलापे २ संसरति (जायते म्रियते च ) यस्मि-
न्नहं ममाभिमानेन जीवः सः ॥ ३३३९ ॥ संस्कारः- अनुभवजन्यः स्मृतिहेतुः * १ स्वाश्रयस्य प्रागुद्भूता- वस्थासमानावस्थान्तरापादकोऽतीन्द्रयो धर्मः २ आत्मविशेष- गुणवृत्तिमूर्त्तवृत्तिवृत्तिगुणत्वव्याप्यजातिमान् । घटादिवारणाय गुणत्वव्याप्येति, संयोगादिवारणायात्मविशेषगुणवृत्तीति । संस्कार्य - धू (भू) षणार्हम् १ क्रियाजनितातिशयशालित्वम् । संस्कृतत्वं - व्याकरणलक्षणाधीनसाधनयुक्तत्वम् ॥ ६३४८॥ संहिता- वर्णाना (मेकप्राणयोगः:१) मतिशयितः संनिधिः २ स्वा- भाविकार्द्धमात्राकालाधिककालव्यवायशून्यत्वम् ३ मन्त्रात्मको वेदभाग ४ धर्मबोधार्थं रचिता ५ सम्यक् हितं प्रतिपाद्यं यस्याः । स्तुतिः - गुणिनिष्ठगुणाभिधानम् १ आरोप्यगुणकथन मिति ग्रं॰ स्तुत्यर्थवादः- साक्षाद्विध्यर्थस्य प्रशंसार्थकं वाक्यम् ॥ ३३५६॥ स्तोत्रं - गीतमन्त्रसाध्यं कर्म १ साममन्त्रसाध्या स्तुतिः ३३५८॥३३५८॥ स्तोभः - निरर्थकः शब्दः १ अर्थशून्यत्वे सत्युच्चारणमात्रप्रयोज- नवच्छब्दः *२ अधिकत्वे सत्यृग्विलक्षणवर्णः ॥ ३३६० ॥ स्तोमत्वं- समूहत्वम् *१ आत्मगुणाविष्करणत्वम् ॥३३६१॥ स्त्रीपुरुषभेदः - पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा, शशो मृगो वृषोश्वश्व स्त्रीपुंसोर्जातिलक्षणम् १ को धर्मः किं यश- स्तेषां का प्रतिष्ठा च किं बुद्धिविद्याज्ञानञ्च परस्त्रीषु च यन्मनः स्त्रीलिङ्गत्वम्- इयमितिव्यवहारविषयत्वम् ॥ ३३६३ ॥
स्थलं - जलशून्यदेशः *१ तत्तद्व्यवहारजन्यशाब्दबोधविषयः । स्थानं- सन्निधिविशेषः १ स्वाभिप्रायबोधानुकूला (क्रिया) स्थितिः स्थायित्वं- स्थितिशीलत्वम् १ समधिककोलवृत्तित्वं वा ३३६८॥३३६८॥ स्थूलशरीरं - पञ्चीकृतपञ्चमहाभूतकार्यं दृग्गोचरशरीरम् १ शुक्रशोणितनिर्मितत्वे सत्यस्थ्यादिसमुदायत्वं स्थूलशरीरत्वम् । स्नानं - शरीरमज्जनम् १ कायप्रक्षालनमिति ग्रं० ॥ ३३७२ ॥ स्नेहः- चूर्णादिपिण्डीभावहेतुर्गुणः १ दर्शने स्पर्शने चापि श्रवणे भाषणेऽपि वा यत्र द्रवत्यन्तरङ्ग स स्नेह इति कथ्यते ३३७४॥३३७४॥ स्पर्श:- उप (पातकः १) तप्ता २ त्वगिन्द्रियमात्रग्राह्यो गुगः ३३७६॥३३७६॥ स्पष्टब्रह्मलिङ्गकत्वं- विषयवाक्ये ब्रह्मधर्मतया निर्णीता (र्थबो- धक) ब्रह्मलिङ्गकत्वम्, यथान्तरधिकरणविषयवाक्ये ब्रह्मधर्मतया निर्णीतं सर्वदुरितोदितत्वं फलवचनोपोद्भलनेन जीवादावसंभ- वेन ब्रह्मण्येव सङ्गमनीयं ब्रह्मधर्मतया निर्णीतं विद्यते इति तत् । स्फुटत्वं- तद्विषयकजिज्ञासानधीनप्रतिपत्तिविषयत्वम् ॥ ३३७८॥३३७८॥ स्फोटः- वर्णातिरिक्तो वर्णाभिव्यक्योऽर्थप्रत्यायको नित्यः शब्दः अर्थनिष्टविषयताप्रयोजक शक्तिमत्त्वं स्फोटत्वम् ॥ ३३८० ॥ स्मरणं -) सादृश्यानुभवाद्वस्त्वन्तरस्मृतिः १ चिरानुभूतार्थस्म- स्मृतिः -) रणशक्तिः २ अनुभूतविषयाधिकानवगाहिज्ञानम् ३ उद्भूतसंस्कारमात्रजन्यं ज्ञानम्। संस्कारध्वंसेऽतिव्याप्तिवार- णाय ज्ञानमिति, अनुभवेतिव्याप्तिवारणाय, संस्कारजन्यमि
ति, असंभववारणायोद्भूतेति, प्रत्यभिज्ञायामतिव्याप्तिवारणाय मात्रपदम् *४ वेदार्थानुवादकवाक्यम् ५ स्मरणाद्वै निमित्तानां धर्माधर्मनिरूपणात् । तिमिरोत्पाटनाद्देविस्मृतिरित्यभिधीयते ।.. स्वत्वम् - स्वामित्वम् १ प्रतिग्रहयुद्धक्रियादिजयो धर्मविशेष: २ शास्त्रसंमतययेष्टविनियोगार्हत्वम् ॥ ३३८९ ॥ स्वगतत्वं- स्वस्मिन्विद्यमानत्वम् । [लादितः स्वगतभेदः - स्वावयवैः कृतो भेदः, यथा वृक्षस्य पर्णपुष्पफ- स्वतन्त्रः - स्वेच्छाचारी १ कर्तुमकर्तुमन्यथा वा कर्तुं समर्थ: २ इतर (व्यापारानधीनव्यापारवत्त्वम् ३) सत्तानधीनसत्ताकः । स्वतउत्पत्तिकत्वं - आगन्तुकभावकारणानपेक्षज्ञानसामान्य- प्रयोजकप्रयोज्यत्वम् १ दोषाभावसहकृतज्ञानसामान्यसामग्री- जन्यत्वमिति ग्रं० २ विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्त- हेत्वजन्यत्वम् । विज्ञान सामग्री जन्यत्वम गमाण्येप्यस्तीति परतः प्रामाण्यवादिभिश्च स्वीक्रियत इत्यतिव्याप्तिरर्थान्तरता वा स्यात् तन्निवृत्त्यर्थं तदतिरिक्तहेत्वजन्यत्वमिति ३३९७॥३३९७॥ स्वतोग्राह्यं- ज्ञानग्राहका(तिरिक्तानपेक्षमिति भाट्टा: १ सामग्रीज- न्यग्रहविषय इति नै ०२ दोषाभावसहकृत (ज्ञानसामग्रीमात्रग्राह्यम् ३ यावत्स्वाश्रयग्राहकसामग्रीग्राह्यमिति वे० ४ प्रामाण्यग्रहप्रतिबन्ध- काभावकालीनयावत्स्वाश्रयानुव्यवसायग्राह्यमिति मुरारिमिश्राः स्वतःप्रमाणं- अन्यप्रमाणनिरपेक्षस्वार्थबोधनसमर्थम् ३४०३॥३४०३॥
स्वदेशगतत्वं- स्वाश्रयतावच्छेदकान्यदेशानवच्छिन्नाश्रयताकत्वं स्वधा - पित्रुद्देशेन द्रव्यत्यागः, यथा श्राद्धादौ ॥ ३४०५ ॥ स्वप्नजाग्रत् - स्वप्ने मित्रादिप्राप्तिः ॥ ३४०६ ॥ स्वप्नसुषुप्तिः - जाग्रद्दशायां वक्तुमशक्यं यत्किञ्चित्स्वप्नेऽनुभूयते स्वप्नस्वप्नः - स्वप्नंऽपिस्वप्नो मया दृष्ट इति बुद्धविषयः । [तत् स्वप्नावस्था - इन्द्रियाजन्यविषयगोचरापरोक्षान्तःकरणवृत्त्यव- स्था । जाग्रदवस्थाव्यावृत्त्यर्थमिन्द्रियाजन्येति, अविद्यावृ- त्तिमत्यां सुषुप्तावतिव्याप्तिवारणायान्तःकरणेति १ जाग्रद्भोग- प्रदकर्मोपरम सतीन्द्रियोपरमे जाग्रदनुभवजन्यसंस्कारोद्भूत- विषयतज्ज्ञानावस्था २ विपरीतदर्शनत्वं स्वत्वम् ॥ ३४११॥ स्वप्रकाशत्वं- सजातीयप्रकाशाप्रकाश्यत्वम् १ इतराप्रकाश्यत्वे संविदविषयत्वे वा सति प्रकाशमानत्वमित्यद्वैतदीपिकायाम् ३ स्वव्यवहारे स्वातिरिक्तसंविदनपेक्षत्वम् ४ अवेद्यत्वे सत्यपरो- क्षव्यवहारयोग्यत्वम् । घटादावतिव्याप्तिवारणाय सत्यन्तम्, अतीन्द्रियधर्मादावतिव्याप्तिवारणायापरोक्षेत्यादिविशेष्यम् ५ अन्यानवभास्यत्वे सति स्वव्यतिरिक्तसकलावभासत्वम् ३४१७॥३४१७॥ स्वभावः - स्वस्य भावः १ हेत्वन्तरनिरपेक्षं वस्तुस्वरूपम् *२ जन्मान्तरकृतो धर्माधर्मादिशुभाशुभसंस्कारः ॥ ३४२० ॥ स्वरः - काक्कादि (रूगे) कृते वर्णाद्युच्चारणध्वनि विशेषः १ श्रुत्य- नन्तरभावी यः शब्दो ऽनुरणनात्मकः, स्वतो रञ्जयति
श्रोतृ चित्तं स स्वर उच्यते इति रत्नाकरे ॥ ३४२२ ॥ स्वरूपयोग्यत्वं- कारणतावच्छेदकधर्मवत्त्वम्, यथा वनस्थदण्डे स्वरूपलक्षणं- स्वरूपां(तर्गते सति व्यावर्तकम् १ ) सद्यांवर्त- कम्, यथा प्रकृष्टप्रकाशचन्द्रः २ इतरानिरूप्यं लक्षणम् ३ स्वरूपमेवलक्षणम्, यथा सत्यज्ञानानन्दाः ॥ ३४२७ ॥ स्वरूपसंबन्धः- प्रतियोग्यनुयोग्यन्यतरात्मकः संबन्धः १ संब- न्धान्तरमन्तरेण विशिष्टप्रतीतिजननयोग्यत्वम् ॥ ३४२९ ॥ स्वरूपासिद्धत्वं- हेत्वभाववत्पक्षतावच्छेदकत्वम् १पक्षेऽभाववश्वं स्वरूपोपकारकं- प्रधानसाधनद्रव्यादिसंस्कारद्वारा प्रधानोपका- रकम्, यथा ज्ञानसाधनान्तःकरण संस्कार (कं) द्वारा निष्कामकर्मानु- ष्ठानमिति वे० १ कर्माङ्गद्रव्यदेवताद्युद्देशेन विधीयमानं कर्मेति मी० स्वशाखात्वं- परम्परया (ध्ययनकर्मत्वम् १) नुष्ठानविषयत्वम् । स्वाध्यायः - आवृत्तिपूर्वकवेदाध्ययनम् १ मोक्षशास्त्राध्ययनं वा । स्वामित्वं- स्वत्वनिरूपितो धर्मविशेषः*१परिव्राजकोपाधिमत्त्वं स्वारसिकलक्षणा- रूढिप्रयोजनाभाववती लक्षणा १ अधु- नातनतात्पर्यविषयीभूतार्थनिष्ठा लक्षणा ॥ ३४४१ ॥ स्वार्थानुमानम्- न्यायाप्रयोज्यानुमानम् ॥ ३४४२ ॥ स्वार्थानुमितिः - स्वस्य व्याप्यप्रतीत्यनन्तरं व्यापकप्रत्ययः । स्वाहा - देवोद्देशेन हविस्त्यागः । [स्वस्य कारः करणं स्वीकारः- ममेदमिति ज्ञानात्मकः संप्रदानव्यापारः १ अस्वस्य
*ह* हरणत्वम्- बलाग्द्रहणपूत्रेकस्थानान्तरप्रापणत्वम् ॥३४४६॥ हरिहरः - मूर्तिविशेषः १ हरियुक्तो हर इत्यन्योन्यः ॥ ३४४८॥ हर्षः - चित्तगतसुखाभिव्यञ्जिका मुखविकासादिहेतुर्धीवृत्तिः । हवनम्- देवाद्युद्देशेन मन्त्रपूर्वकं वहौ हविःप्रक्षेपः ॥ ३४५० ॥ हास: ) कण्ठोष्ठपुटविस्फूर्जनपुरःसरमहहह इत्यट्टः १ विकृतवेष. हास्यं ) वाच्केष्टादिदर्शनजन्यसुखविशेषो रदविकासादिहेतुः । हिन्दुः - हिंसातो दूरं याति १ हीनं दूषयतीति मेरुतन्त्रे २ वेद- प्रामाण्याभ्युपगन्ता ३ आसिन्धुसिन्धुपर्यन्ता यस्य भारतभू- मिका, पितृभूः पुण्यभूश्चैव स वै हिन्दुरिति स्मृतः ॥३४५६॥ हिरण्यगर्भः - अपञ्चीकृतभूत कार्यसमष्टिसूक्ष्म शरीरः १ समष्टि- सूक्ष्म (प्रपञ्चाभिमानी २) कारणशरीरोपहितं चैतन्यम् ३४५९॥३४५९॥ हिंसा- प्राणिवृत्तिच्छेदः * १ अविधिपूर्वकं प्राण्युपघातः २ प्राणवियोग (प्रयोजकव्यापारः ३) अनुकूलव्यापारः ॥ ३४६३॥ हेतुः- साध्यविषयकज्ञानजनक (ज्ञानविषयः १ ) वचनम् २ तृतीयान्त पञ्चम्यन्तं वा, यथा धूमेन धूमाद्वेति ३ प्रतिज्ञावाक्यधीजन्य- कारणाकाङ्क्षानिवतेकज्ञानजनकहेतुविभक्तिमद्वाक्यम् ॥ ३४६६॥ हेत्वाभासः - पञ्चरूपोपपन्नत्वाभावे सति तद्रूपण भासमानः १ अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषय इति ग्रं० हेयत्वं- हानक्रियाविषयत्वम्१ 'अनुपादेय' लक्षणमप्यत्र पठनीयं होता - ऋग्वेद (वेत्ता १ ) विहित कर्मविशेषकर्ता ॥ ३४७३ ॥
होमः- देवतोद्देशेन वह्नौ मन्त्रद्वारा द्रव्यत्यागः १ अग्निसंयोगानु- कूलक्रियानुकूलघृतादिवृत्तिनोदनादिव्यापार इति दिनकर्याम् । हंससंन्यासी- शिखावर्जितो यज्ञोपवीतजटाशिक्यैकदण्डक- मण्डलुधरः ग्रामैकरात्रः नित्यं कृच्छ्रचान्द्रायणपरः ॥ ३४७६॥ ही:- अकार्यप्रवृत्त्यारम्भे तत्प्रतिबन्धिका लोकलज्जा ॥ ३४७७ ॥ सहजसरलां प्रेम्णा दीर्घा समस्तविशोधिनीं, सकृदपि कृपादृष्टिं सन्तो दिशन्तु भवद्विधाः । कथमपि सती पूता सद्यस्तया विषयीकृता, मम कृतिरियं हित्वा दोषान्भवत्वतिसह्गुणा ॥ १ ॥ स्थितानि ग्रन्थेषु प्रकटमुपदिष्टानि गुरुभिः, गुणो वा दोषो वा न मम परवाक्यानि वदतः । परन्त्वस्मिन्नस्ति श्रमफलमिदं यन्निजधिया, श्रुतीनां युक्तीनामकलि गुरुवाचां च विषयः ॥ २ ॥ सिद्धान्तरीतिषु मया भ्रमदूषितेन स्यादन्यथापि लिखितं यदि किञ्चिदस्य, संशोधने सहृदयास्सदया भवन्तु सत्संप्रदायपरिशीलननिर्विशङ्काः ॥ ३ ॥ यदत्र स्खलितं किञ्चित्प्रमादेन भ्रमेण वा । तत्सर्व शोधयन्त्वार्याः कस्य न स्खलितं मनः ॥ ४ ॥ गच्छतः स्खलनं कापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सजनाः ॥ ५ ॥ बहुच्छिद्रं परित्यज्य गुणलेशजिघृक्षया । परिगृहन्त्वदो विशा ॠजवो दम्भवर्जिताः ॥ ६ ॥
मीमांसा - ग्रन्थाः
न्यायसुधा। (तन्त्रवार्तिकटीका) श्रीमद्भट्टसोमेश्वरकृता । सम्पादक - श्रीमुकुन्दशास्त्री । सम्पूर्ण 1-2 भाग 1000.00 भाट्टचिन्तामणिः। श्रीगागाभट्टविरचितः । सटिप्पणः सम्पादकः– पं. सूर्यनारायण शुक्ल 175.00
र्विस्गहगेर्द्दि. (मीमांसासूत्रस्य कांचन विस्तृता टीका) श्रीखंडदेवविरचितः । सम्पादक – म. म. चित्रस्वामिशास्त्री । 450.00 मीमांसानुक्रमणिका। मण्डनमिश्रकृता । म. म. गंगानाथ झा रचित 'मीमांसामण्डन' मण्डिता । सम्पा.- पं. ढुण्ढिराज शास्त्री । सम्पूर्ण 350.00
मीमांसान्यायप्रकाशः। आपदेवप्रणीतः । छाया-ज्ञानवतीहिन्दी- व्याख्यासहित । व्या. — डॉ. राधेश्याम चतुर्वेदी 225.00 मीमांसापरिभाषा। श्रीकृष्णयज्वविरचितः। 'आशुबोधिनी' संस्कृत- हिन्दी व्याख्योपेता, सटिप्पण-विमर्श-परिशिष्टादि विभूषिता । संस्कृत व्याख्या.- डॉ. गजानन शास्त्री मुसलगाँवकर । हिन्दी व्याख्या.डॉ. कमलनयन शर्मा । 30.00
शास्त्रदीपिका। श्रीमत्पार्थसारथिमिश्र प्रणीता । प्रत्यधिकरण- विभक्तन्यायमालायुता । सोमनाथ प्रणीत 'मयूखमालिका' व्याख्या सहिता । अस्याः प्रथमस्तर्कपादः। रामकृष्ण प्रणीत 'युक्तिस्रेहप्रपूरणी- सिद्धान्तचन्द्रिका' व्याख्यायुतः स्वोपज्ञसिद्धांतचंद्रिकागूढार्थविवरणसहितश्च ।
तर्कपाद 250.00, सम्पूर्ण 775.00
Also can be had from : Chowkhamba Krishnadas Academy, Varanasi.