<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<p>SANSKRIT STUDY MADE EASY SERIES
॥ श्रीरामजयम् ॥
॥ संस्कृतद्वितीयादर्श</p>
<p>(SamskritaDwiteeyadarsa)</p>
<p>READER II
VADHYAR & BORS
KALPATHI PALGHAT 3
Published by
R. S. VADHYAR & SONS
Book-Sellers & Publishers
KALPATHI :: PALGHAT
S.INDIA
2001
10
47
678 003.
RS. 16/-</p>
<pb n="2" />
<p>॥ संस्कृतद्वितीयादर्शः ॥</p>
<p>( SAMSKRITA DWITEEYADARSA)</p>
<p>READER II
By
Vidyasagar K. L. V. SASTRI,
Mahopadhyaya, Siromani, Sahityanipuna, Vidyalankara etc.,
Retired Senior Sanskrit Pandit,
THE PRESIDENCY COLLEGE, MADRAS.
ALL RIGHTS RESERVED.
PUBLISHED BY
R. S. VADHYAR & SONS,
Book-Sellers & Publishers
KALPATHI, PALGHAT-3.
S. INDIA.
2001</p>
<pb n="3" />
<p>विद्यया
विन्द ते
अ भृतम् ॥
Sanskrit Study Made Easy Series
A Reformed Series of Four Illustrated Sanskrit Readers,
With Grammatical Conversational Exercises,
Glossary etc.,
For a Pleasant & Quick Study of Sanskrit.
Most widely used throughout India and Foreign Countries.
Viz: Ceylon, Siam, Bangkok, Germany, Italy, Australia,
California, San Francisco etc.
AND SELECTED BY THE EMBASSY OF INDIA
and The Ministry of Education and Scientific
Research of Govt. of India for Presentation to
Foreign Students of Sunskrit.
Printed at Rajan & Co., Printers
1, Goomes Street, Madras - 600 001</p>
<pb n="4" />
<p>अनुक्रमणिका - CONTENTS
-
पाठः</p>
<note>१. श्रीकृष्णप्रार्थना</note>
<note>३. नालिकेरवृक्षः</note>
<note>४. परोप्रकारप्रशंसा</note>
<p>कमलम्</p>
<note>६. नहुषमहाराजः</note>
<note>७. पक्षिणः</note>
<note>८. कीलोत्पाटी वानरः</note>
<note>९. धौम्य आरुणिच</note>
<note>१०. लोभी मत्सरी च</note>
<note>११. श्रीरामगुणानुवर्णनम्</note>
<note>१२. कदली</note>
<note>१३. हंसः</note>
<note>१४. उष्ट्र:</note>
<note>१५. महात्मा दधीचः</note>
<note>१६. मुधुकराः</note>
<note>१७. नगरम्</note>
<note>१८. आहार:</note>
<note>१९. समुद्रः प्रवहणं च
(पद्यपाठः)
(पद्यपाठः)
(पद्यपाठः)
(पद्यपाठः)</note>
<pb n="5" />
<p>संस्कृतद्वितीयादर्श – अनुक्रमणिका
-
पाठ:</p>
<note>२०.</note>
<note>२२.</note>
<p>शकटम्</p>
<note>२१. दैवं पुरुषकारश्च</note>
<p>त्रिशङ्कुमहाराजः</p>
<note>२३. सहपाठिनां संभाषणम्</note>
<note>२४. गृध्रो मार्जार</note>
<note>२५. हिमालयः</note>
<note>२६. साधवः</note>
<note>२७. श्रीबुद्धदेवः</note>
<note>२८. विद्यया विन्दते अमृतम्</note>
<note>२९. चाटुश्लोकाः</note>
<note>३०. वाराणसी क्षेत्रम्</note>
<note>३१. श्रीशङ्कराचार्यः</note>
<note>३२. सुभाषितावलिः प्रथमं दशकम्
(पद्यपाठः)
(पद्यपाठ:)
(पद्यपाठः)
(पद्यपाठः)</note>
<p>तथा
द्वितीयं दशकम्
तृतीयं दशकम्</p>
<p>99
तथा
INDEX OF पर्यायपदानि
Do
कृत्प्रत्ययान्ताः
Do
उपसर्गाः
Sanskrit Participles with English
equivalents and Examples
99
5:
पृष्ठम्</p>
<p>૧૨</p>
<pb n="6" />
<p>॥ श्रीरामजयम् ॥
॥ विद्यया विन्दते अमृतम् ॥
॥ संस्कृतद्वितीयादर्श: ॥
IV BAJAU</p>
<note>१. श्रीकृष्णप्रार्थना</note>
<p>1</p>
<lg>
  <l>जयतु जयतु देवो देवकीनन्दनोऽयं</l>
  <l>जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।</l>
  <l>जयतु जयतु मेघश्यामलः कोमलाङ्गः</l>
  <l>जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥</l>
</lg>
<pb n="7" />
<p>संस्कृतद्वितीयादर्श
2</p>
<lg>
  <l>हे देव हे दयित हे जगदेकबन्धो</l>
  <l>हे कृष्ण हे चपल हे करुणैकसिन्धो ।</l>
  <l>हे नाथ हे रमण हे नयनाभिराम</l>
  <l>हा हा कदा नु भवितासि पदं शो ॥</l>
</lg>
<p>हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।
हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां
हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥ ३
जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं
पाणिद्वन्द्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु ।
कृष्णं लोकय लोचनद्वय हरेर्गच्छाघ्रियुग्मालयं
जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन् नमाधोक्षजम् ॥ ४
कृष्णो रक्षतु मां चराचरगुरुः कृष्णं नमस्याम्यहं
कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः ।
कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं
कृष्णे भक्तिरचञ्चलाऽस्तु भगवन् हे कृष्ण तुभ्यं नमः॥५
(मुकुन्द मालास्तोत्रात् उद्धृताः इमे श्लोकाः).</p>
<pb n="8" />
<p>प्रथमः पाठः - श्रीकृष्णप्रार्थना
(१) प्रश्ना: १. प्रथमश्लोके प्रथमान्तानि पदानि सम्बुध्यन्ततया
विपरिणमय्य वाक्यानि रचयत । २. द्वितीये तृतीये चतुर्थे
च श्लोके सम्बुध्यन्तानि पदानि प्रथमान्ततया विपरिणमय्य
वाक्यानि घटयत । ३. जिह्वया: चेतसा पाणिद्वन्द्वादिना च
किं किं कर्तव्यम् ? ४. पञ्चमलोके कृष्णशब्दस्य स्थाने
सर्वत्र रामशब्दं निवेश्य लोकं पठत ॥
(२) प्रयोगं विपरिणमयत-
3</p>
<note>१. चराचरगुरुः कृष्णो मां रक्षतु ।</note>
<note>२. भोः श्रोत्रद्वय ! त्वमच्युतस्य कथाः शृणु</note>
<note>३. भो: पुण्डरीकाक्ष ! जगत्त्रय गुरुं त्वां विनाऽन्यं न जानामि ।</note>
<p>(३) निर्दिष्टानां धातूनां लटः रूपैः वाक्यानि पूरयत-
1</p>
<note>१. कृष्णस्य भक्ताः सर्वदा तदीयानि चरितानि श्रु</note>
<note>२. भोगिनामगार्ग्य भगवंतस्तत्वं योगिनो ज्ञा 11
(४) कृत्प्रत्ययान्ताः (Participles)</note>
<p>जि to conquer – ( जयति) = जितः, जितवान्, जयन्,
जीयमानः, जित्वा, विजित्य, जेतुम्, जेतव्यम्, जेयम् ।</p>
<lg>
  <l>ज्ञा to know – (ज्ञानाति) = ज्ञातः, ज्ञातवान्, जानन्,</l>
  <l>शायमानः, ज्ञात्वा, विज्ञाय, ज्ञातुम् ज्ञातव्यम्, ज्ञेयम् ।</l>
  <l>श्रु to hear – ( शृणोति) = श्रुतः, श्रुतवान्, शृण्वन्, श्रूय-</l>
  <l>माणः, श्रुत्वा प्रतिश्रुत्य, श्रोतुम्, श्रोतव्यम्, श्राव्यम् ॥</l>
</lg>
<lg>
  <l>(५) समासः - देवक्याः नन्दनः देवकीनन्दनः- तत्पुरुष समासः ।</l>
  <l>अस्मिन् पाठे तत्पुरुष समासान् वदत ॥</l>
</lg>
<p>(६) पर्यायाः-
नयनम् ६ - लोचनं नयनं नेत्रम् ईक्षणं चक्षुरक्षिणी ॥
-</p>
<pb n="9" />
<p>4
संस्कृतद्वितीयादशें</p>
<note>१. नन्दन m son</note>
<p>प्रदीप light
मेघश्यामल a black-like
a cloud</p>
<note>२. दयित a. m. dear</note>
<p>दृशू f eye
पर a other
पुण्डरीकाक्ष .. m. lotus - । ४. जिह्वा tongue
eyed i.e., विष्णु
चेतः " mind
अङ्घ्रियुग्म n pair of
foot
भवितासि (First future )
would be
पदम् " object
पारीण a he who fulfile
one's desire
रामानुज १८ कृष्ण here
राम means बलराम
N Noun विशेष्यम्
a Adjective विशेषणम्
(oan be used in all
the 3 genders)
m Masculine पुंलिङ्गम्
f Feminine स्त्रीलिङ्गम्
जित्र P. smell
घ्राण % nose
मूर्धन् m head
अधोक्षज m विष्णु</p>
<note>५. नमस्यामि P. I bow</note>
<note>३. सिन्धुकन्या / daughter</note>
<p>of the ocear,
i.e., लक्ष्मी
अमरशत्रु m enemy of
देवाः
Note that in Sloka 5 the declension of कृष्ण
is used in all the 7 cases in singular number.
ABBREVIATIONS USED
।n Neuter नपुंसकलिङ्गम्
P. Parasmaipadi
परस्मैपदी
A. Atmanepadi
आत्मनेपदी
in. Indeclinable अव्ययम्</p>
<pb n="10" />
<p>यात
द्वितीयः पाठः-
5</p>
<note>२. सिंहः</note>
<p>अपि युष्माभिः कदाऽपि कुत्रापि सिंहो दृष्टः ? नास्माभिः
दृष्टः । पश्यत, अत्रास्ति सिंहस्य चित्रम् । सिंहो न ग्राम्यः,
किन्तु वन्यो मृगः । अरण्यवासिनां शार्दूलसूकरादीनां मध्ये
सिंहः शूरो मानी गम्भीरो बलिष्टश्च । अनितरसाधारणेन
विक्रमेण स सर्वान मृगानतिशेते । अतः स 'मृगराज: ' इति
प्रथां भजते ॥
सिंहानां शिरमि कण्ठे च धूसराः केसराः सन्ति ।
अतस्ते केसरिण इत्यभिधीयन्ते । तेषामास्यमतीव विस्तृतम् ।</p>
<pb n="11" />
<p>6
द्वितीयाद
तेन ते पञ्चास्या इत्याख्यायन्ते । तेषामक्षिणी पिङ्गले भासुरे
च। सिंहेष्वतिदीर्घाः खरा नखराः परुषा दन्ताश्वेश्वरेण सृष्टाः॥
केसरिणो न सर्वत्र देशेषु निवसन्ति । आफ्रिका खण्डे
ते प्राचुर्येणोपलभ्यन्ते । भारतखण्डे तु ते पुरा शुतुया:
सिन्धोच मध्यवर्तिनि सिकतारण्ये न्यवसन् । इदानीं तु ते
गुर्जरदेशस्य दक्षिणतः स्थितेषु घोराराण्येषु वसन्ति ॥
मृगेन्द्राः प्राधान्येन मत्तैमैः सह विगृह्णन्तस्तेषां मूर्धान-
मारुह्य गण्डौ च भित्वा तत्रत्यं मांस भक्षयन्ति । एवं वने
स्थितानितरान् मृगानपि ते निम्नन्ति । यदा ते परितश्चरन्तो
न मृगान् विन्दन्ति तदा तारं गर्जन्ति । तद्द्वर्जनं श्रुत्वा सर्वे
मृगाः सभयमितस्ततो धावन्ति । तदा सिंहाः सत्वरं तेषामुपरि
निपत्य तान् विध्यन्ति ॥
कदाचिदाहारमलभमानः सिंहः सर्वावयवान् स्तब्धीकृत्य
भूमौ शेते । तथा शयानं तं दृष्ट्वा मृगास्तं मृतं मन्यमानास्त-
स्यान्तिके चरन्ति । मृगभागतं दृष्ट्वा सिंहो झटित्युत्थाय तं
गृह्णाति । इत्थं सिंहाः स्वबुद्धिकौशलेन जीविकां वर्तयन्ति ।
१) प्रश्ना:- १. सिंहः कीदृशो मृगः १
कीडशा: ?</p>
<note>२. सिंहानामवयनाः</note>
<note>३. सिंहाः कुत्र उपलभ्यन्ते ?</note>
<note>४. कीदृशस्तेषामाहारः १ ५. कथं च ते तं</note>
<p>लभन्ते ? ६. सिंहस्य बुद्धिकौशलं वर्णयत ॥
२) प्रयोगं त्रिपरिणमयत -
१) केसरिणो न सर्वत्र देशेषु वसन्ति ।</p>
<pb n="12" />
<p>द्वितीयः पाठः - सिंहः</p>
<note>२. मृगेन्द्राः प्राधान्येन मन्तेभानां मांस भक्षयन्ति ।</note>
<note>३. अन्तिकमागतान् मृगान् सिंहो झटिति गृह्णाति ॥</note>
<p>(३) उपसर्गयोगादर्थभेद:-
शी = शेते, अतिशेते, अनुशेते, आशेते, विशेते, संशेते ।
,
9
ग्रह् = गृह्णाति गृह्णते। अनुगृह्णाति, निगृह्णाति, परिगृह्णाति,
प्रतिगृह्णाति, विगृह्णाति, संगृह्णाति । एवम् अनुगृहीते
इत्यादि आत्मनेपदेऽपि द्रष्टव्यम् ॥
-
(४) विकरणभेद:-
विद् ज्ञाने to know-वेत्ति । विद् सत्तायाम् to be विद्यते ।</p>
<lg>
  <l>विद् विचारणे to consider —विन्ते ।</l>
  <l>विद प्राप्तौ to obtain- विन्दति, विन्दते ॥</l>
</lg>
<p>The following
forms of the root विद्
sloka shows the different</p>
<lg>
  <l>सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे ।</l>
  <l>· विन्दते विन्दति प्राप्तौ रूपभेदो विदेः स्मृतः ॥</l>
</lg>
<p>.
-
(५) समानशब्दा: – दक्षिणतः, पश्चिमतः, उत्तरतः, पूर्वतः ॥
(६) पर्यायाः-
सिंह: ६ ~ सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः ।
शार्दूल m tiger
खर a severe, sharp
परुष a hard
सूकर m boar
मानिन् a possessed of प्राचुर्य a plenty
self respect
7
गम्भीर @ grave
धूसर a grey
केसर m. n. the mane
पिङ्गल a reddish-brown
at the river Sutlej
सिन्धु f the Indus river
सिकतारण्य % sandy
jungle
। जीविका / livelihood.</p>
<pb n="13" />
<p>00
संस्कृतद्वितीयादश</p>
<note>३. नालिकेरवृक्षः</note>
<p>वृक्षोऽयं नालिकेर इति नारिकेल इति नारिकेर इति
नारीकेल इति नाडिकेर इति केर इति चैवं बहुधाऽभिधीयते ।
केरोऽयं केरलेषु बाहुल्येन प्ररोहति । अत एवास्य देशस्य
'केरलव्यपदेशः' इत्याचक्षते जनाः ॥
नालिकेस: समुद्राणामासनेषु सिकतिलेषु प्रदेशेषु
अरोप्यमाणाः पञ्चषैरब्दैः फलन्ति । बाल्ये नालिकेराणां द्वित्राणि
वर्षाणि यावजलसेचनमावश्यकम् । ततः परं ते स्वयमेव</p>
<pb n="14" />
<p>तृतीयः पाठः-नालिकेरवृक्षः
पादैर्भूतलाञ्जलमाकृष्य पिबन्ति । क्रमशः प्रवृद्धास्ते प्रथमवयसि
पीतं तोयं स्मरन्त हवामृतकल्पमुदकं शिरसि बहन्तो मनुष्याणां
प्रत्युपकार माचरन्ति ॥ उक्तं च नीतिशतके -
"प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
शिरसि निहितभारा नारिकेला नराणाम् ।
उदकममृतकल्प दराजीवनान्तं
न हि कृतग्रुपकारं साधवो विस्मरन्ति ॥ " - इति ।
नालिकेरस्य सर्वमङ्गं सप्रयोजनं दृश्यते । केरफलसारो
न केवलं विविधेभ्यो व्यञ्जनेभ्य उपयुज्यते, किन्तु तमातपे
शोषयित्वा यन्त्रे निधाय निष्पीडितात् तस्मात् स्नेहोऽपि गृह्यते
जनैः । स्वेहग्रहणात् परमवशिष्यमाणः कल्कः पिण्याकम् ।
पिण्याकं गोभ्यो रोचते। केचित्तु तेन विविधान् भक्ष्यविशेषान्
कुर्वन्ति ॥
नालिकेर:- शाखारहितो वृक्षः । चित्रमवलोक्यताम्-
दृश्यते तत्र दीर्घदीघों नालिकेरकाण्डः । काण्डस्य शिरसि द्वा-
दशाधिकानिपत्राण्यवेक्ष्यन्ते । केषुचिदेशेषु केरपत्रैर्गृहपटलादिकं
निर्मीयते। तस्य काण्डोऽपि पनसादिवद् गृहदारुत्वेनोपयुज्यते ।
फलत्वचा रज्जवः क्रियन्ते, आस्तरणान्यप्यूयन्ते ॥
अपरिणतं नालिकेरं लाङ्गलीत्युच्यते । लाङ्गलीजलं
निदाघकाले पीयमानं स्वादु हितं च भवति । मद्यकाराः
पल्लवकाण्डात् स्यन्दमानं रसं गृहीत्वा मद्यं संपादयन्ति । तत्
9</p>
<pb n="15" />
<p>10
संस्कृतद्वितीयादशें
केचित् पिबन्ति । किन्तु तत् पीयमानमुन्मादं जनयति । तस्मात्
तत् सर्वथा न पेयम् ॥
न सुरां पिवेत् ; न कलजं भक्षयेत् इति हि महतामुपदेशः ॥
;
(१) प्रश्ना:- १. नालिकेरः कथं बहुधाऽभिधीयते २. नालिकेराः
कुत्र वाहुल्येन प्ररोहन्ति? ३. कथं ते वर्ज्यन्ते? ४. प्रवृद्धास्ते
किं कुर्वन्ति ? ५. कानि प्रयोजनानि नालिकेरवृक्षस्य</p>
<note>६. लाङ्गलीं मद्यं चाधिकृत्य किं.</note>
<p>जानीध्वे ? ७. महान्तः किम् उपदिशन्ति ।
(२) कर्तरिप्रयोगं वदत-
तत्फलस्य च ?</p>
<note>१. फ़लत्वचा रज्जवः क्रियन्ते, आस्तरणान्यप्यूयन्ते ।</note>
<note>२. केरफलसारो विविधेभ्यो व्यञ्जनेभ्य उपयुज्यते ।</note>
<note>३. यन्त्रे निष्पीडितात् केरफलसारात् सेहो गृह्यते जनैः ॥</note>
<p>(३) एकं पदं वदत (Give one word fcr) :-</p>
<note>१. आसनेषु सिकतिलेषु प्रदेशेषु । २. सर्वम् अङ्गम् ॥</note>
<p>(४) समानशब्दा:-
एको
हौ
त्रयो
वा
वा त्रयो
वा चत्वारो
चत्वारो वा पच
वा षट्
पञ्च
वा = एकद्वाः ।
वा = द्वित्राः ।
वा = त्रिचतुराः ।
चतुःपञ्चाः ।
पञ्चषाः, ॥ इत्यादयः
वा
वा
=
1
५) उपसर्गयोगादर्थमेद:-
युज् –युङ्क्ते, अभियुङ्के, उद्युके, उपयुङ्क्ते,
नियुङ्क्ते, प्रयुङ्क्ते, वियुङ्क्ते, विनियुके, संयुङ्क्ते ।
मा-माति । अनुमाति, निर्माति, परिमाति, प्रमाति ॥</p>
<pb n="16" />
<p>तृतीयः पाठः –नालिकेरवृक्षः
६) कृत्प्रत्ययान्ता :-
,</p>
<lg>
  <l>ग्रह to receive —( गृह्णाति) = गृहीतः, गृहीतवान्, गृह्णन्,</l>
  <l>गृह्यमाणः, गृहीत्वा ( अनुगृह्य), ग्रहीम्, ग्रहीतव्यम्, ग्राह्यम् ।</l>
  <l>पा (पित्र) to drink- (पिवति) = पीतः, पीतवान्, पिवन,</l>
  <l>पीयमानः, पीत्वा, निपीय, पातुम् गतव्यम्, पानीयम् ॥</l>
</lg>
<p>७) जनपदवाचकाः शब्दा नित्यं पुंलिङ्गा बहुवचनान्ताथ, यथा
केरलाः, मद्राः, नेपालाः, आन्ध्राः वङ्गाः, कलिङ्गाः,
मगधाः, महाराष्ट्राः, सौराष्ट्राः काश्मीराः, कर्णाटकाः,
भारतीयाः, सिंहलाः, आङ्गलाः (Englishmen),
कम्बोडिया: (Combodians) इत्यादयः ॥
८) पर्यायाः-</p>
<lg>
  <l>संवत्सरः ६ - संवत्सरो वत्सरोऽदो हायनोऽस्त्री शरत् समाः ।</l>
  <l>पर्णम् ६-पत्र पलाशं छदनं दलं पर्णे छदः पुमान् ॥</l>
</lg>
<p>-
सिकतिल o sandy
अमृतकल्प a nearly equal
to nector
'केरफलसार m kernel
-व्यञ्जन " an article used
in seasoning food
आतप m heat of the Sun
स्नेह m oil
कल्क m the viscous
sediment deposited
by oily substances
when ground
पिण्याक n oil-cake
11
। नालिकेरकाण्ड m the trunk
of & coconut tree
[house
। गृहपटल % the roof of a
दारु % timber
आस्तरण a car pet
अपरिणत a unripe
अङ्गली f tender
निदाघm Summer
मद्य % tuddy
। उन्नाद m intoxication.
सुरा f toddy
कलख % flesh
सिंहला: Ceylonese
C000-
[nut</p>
<pb n="17" />
<p>12
संस्कृतद्वितीयादर्श</p>
<note>४. परोपकारप्रशंसा</note>
<lg>
  <l>श्रूयतां धर्मसर्वस्वं यदुक्तं ग्रन्थकोटिषु ।</l>
  <l>परोपकारः पुण्याय पापाय परपीडनम् ॥</l>
</lg>
<lg>
  <l>परोपकारः कर्तव्यः प्राणैरपि धनैरपि ।</l>
  <l>परोपकारजं पुण्यं न स्यात् ऋतुशतैरपि ॥</l>
</lg>
<lg>
  <l>परोपकारशून्यस्य धिङ् मनुष्यस्य जीवितम् ।</l>
  <l>जीवन्तु पशवस्तेषां चर्माप्युपकरिष्यति ॥</l>
</lg>
<p>8</p>
<lg>
  <l>परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः ।</l>
  <l>परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ॥</l>
</lg>
<p>श्रोत्रं तेनैव न कुण्डलेन दानेन पाणिन तु कङ्कणेन ।
विभाति कायः खलु सज्जनानां परोपकारेण न चन्दनेन ॥ ५</p>
<lg>
  <l>पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षः ।</l>
  <l>नादन्ति सस्यान्यपि वारिवाहाः परोपकाराय सतां विभूतयः ॥</l>
</lg>
<p>१) प्रश्ना:- १. ग्रन्थकोटिषूक्तं धर्मसर्वस्वं किम् ? २. कुतः परोप-
कारः कर्तव्यः ? ३. 'जीवन्तु पशवः' कुत इदं प्रार्थ्यते ?</p>
<note>४. परोपकाराय के किं कुर्वन्ति ? ५. सज्जनानां काय: केन</note>
<p>विभाति ? ६. 'परोपकाराय सतां विभूतयः' इर्द दृष्टान्तेन
निरूपयत १</p>
<pb n="18" />
<p>चतुर्थः पाठः- परोपकारप्रशंसा
२) निर्दिष्टानां धातूनां लिङो रूपैः वाक्यानि पूरयत-
१) भूतिमिच्छन्तो जनाः स्वीयानि कर्माणि काले कृ....।
२) वयं बालादपि शुकादपि युक्तियुक्तं वचो ग्रह्... ।</p>
<lg>
  <l>३) श्रेयस्कामो जनः सूर्योदये सूर्यास्तमये च न शी... ।</l>
  <l>४) वयं धार्मिकेभ्य आचार्येभ्यो धर्म, ध्रु.... ॥</l>
</lg>
<p>३) उपसर्गयोगादर्थभेदः -
बहू - वहति, वहते। आवहति, उद्वहति, निर्वहति, प्रवहति,
विवहति । एवमात्मनेपदेऽपि । 'प्रवहति' इत्ययं तु
नित्यं परस्मैपदीति बोध्यम् ।
भा - भाति । प्रतिभाति, विभाति, अनुभाति ॥
४) कृत्प्रत्ययान्ताः-
कृ to do - करोति, कुरुते कृतः, कृतवान्, कुर्वन,
(अनुकृत्य), कर्तुम्, कर्तव्यम्,</p>
<lg>
  <l>क्रियमाणः, कृत्वा</l>
  <l>करणीयम्, कार्यम् ।</l>
  <l>मृ to die – म्रियते - मृतः, मृतवान्, त्रियमाणः, मृत्वा</l>
  <l>( अनुमृत्य), मर्तुम्, मर्तव्यम्, मरणीयम् ॥</l>
</lg>
<p>13
५) समानरूपा धातवः– द्रा, पा, भा, मा, या, वा, स्ना, ॥
६) चरन्, वहन्, पश्यन्, रुदन, गच्छन्– एषां शत्रन्तानां</p>
<lg>
  <l>लटि प्रथमपुरुषैकवचने रूपाणि निर्दिशत ।</l>
  <l>७) पर्यायाः – प्राणाः २ - पुंसि भूम्यसवः प्राणाः ॥</l>
</lg>
<p>(पुंसि = पुंलिङ्गे; भूम्नि = बहुवचने)</p>
<p>ऋतु m s&crifice याग
वारिवाह m cloud मेघ
2
विभूति / prosperity
चर्म n skin.</p>
<pb n="19" />
<p>14
संस्कृतद्वितीयादशें</p>
<note>५. कमलम्</note>
<p>कमलानि परसिप जायन्ते । अतस्तानि सरसि-
जानि पङ्कजान्यम्भोजानीत्यादिभिः शब्दैर्व्यवहियन्ते । कमलेषु
नानाजातयः सन्ति । तत्र नीलमम्भोरुहम् 'उत्पलम्' इति,
रक्तम् 'कोकनदम्' इति, सितम् ' पुण्डरीकम्' इति चाभिधां
भजति ॥
कुवलयान्यपि सरसिपक एव जायन्ते । अथापि तेषां
न पङ्कजादिशब्दैर्व्यवहारः । कुवलयानि कमलाकाराण्येव ।
किन्तु तेषु सौगन्ध्यं नास्ति ॥</p>
<pb n="20" />
<p>पञ्चमः पाठः- कमलम्
15
चित्रं पश्य, कानिचित् कुसुमानि मुकुलितानि, कानिं-
कुसुमस्याधस्ता दृश्यमानः
चित् विकसितानि च दृश्यन्ते ।
प्रकाण्डो मृणालम् । मृणालस्यान्तभांगे
छिद्राणि तन्तवश्च वर्तन्ते ॥
कमलसरांसि कमलिन्य इति कुमुदुसरांसि कुमुदिन्य
इति चोच्यन्ते । कमलिन्यः सूर्यस्य कुमुदिन्यचन्द्रस्य चोदये
विकसन्ति । तेन सूर्य कमलिनीनायकी, चन्द्र कुमुदिनी-
नायक इति च प्रसिध्यतः । हेमन्ते हिमेन सिक्ताः कमलिन्यः
स्मरणीयशोभाः सम्पद्यन्ते ॥
कलानां मध्यमागे किज्जलकाः सन्ति । तेषु सुगन्धयः
परागा विद्यन्ते । मधुकराः प्राधान्येन कमलेभ्यो मधु पिवन्ति ॥
यद्यपि मल्लिकादीनि कुसुमानि कमलापेक्षया सुगन्धि-
तराणि तथापि तेपामेतावत् सौन्दर्य नास्ति । अरविन्दान्येव
कुसुमेषु सुन्दरतमानि । अत एव पद्मं पद्मायाः सम निगद्यते ॥
१) प्रश्नाः १. कुतः कमलानि सरसिजानि पङ्कजानीत्यादिभिः
शब्दैः व्यवहियन्ते ? २. उत्पल कोकन पुण्डरीकं व किम् ?</p>
<note>३. कुवलयान्यधिकृत्य किं जानीथ ? ४. किं नाम मृणालम् ?</note>
<note>५. 'कमलिनीनायकः' 'कुमुदिनीनायकः' इति व्यपदेशे</note>
<p>किं कारणम् ? ६. कुतः पद्म पद्मायाः सद्म निगद्यते ?
२) तत्तद्धातूनां निर्दिष्टेः लकारैः वाक्यानि पूरयत-
१) सरसिजानि शैवलेनावृतान्यपि रम्याणि भा... (लट् ) ।</p>
<lg>
  <l>२) मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तन्.... (लहू)।</l>
  <l>३) त्वं तस्मात् सरसः पञ्चषाणि कमलानि ग्रह... (लोट् ॥</l>
</lg>
<pb n="21" />
<p>16
संस्कृतद्वितीयादश
३) अतिशायनार्थकौ तरप्-तमप् प्रत्ययौ (Degress of
Comparison ) -
सुगन्धि
सुन्दरम्
४) कृत्प्रत्ययान्ताः-
सुगन्धितरम्
सुन्दरतरम्</p>
<lg>
  <l>सुगन्धितमम् ।</l>
  <l>सुन्दरतमम् ॥</l>
</lg>
<p>सिच् to water - ( सिञ्चति) सितः, सिक्तवान्, सिञ्चन्,
सिध्यमानः, सिक्त्वा, (निषिच्य) सेक्तुम्, सेक्तव्यम्'
सेचनीयम्, सेव्यम् ।
मु to set free – (मुञ्चति) मुक्तः, मुक्तवान्, मुञ्चन्
सुच्यमानः मुक्त्वा (विमुच्य ) मोक्तुम् मोक्तव्यम्,
मोचनीयम्, मोच्यम् ॥
५) उपसर्गयोगादर्थभेदः -
अय् - अयते । उद्यते परा + अयते
पद् - पद्यते। आपद्यते, उत्पद्यते,
प्रपद्यते, प्रतिरद्यते, विरद्यते, विनतिरद्यते, सम्पद्यते ॥
पलायते ।
उपपद्यते, निष्पद्यते,
६) पर्यायाः-</p>
<lg>
  <l>=</l>
  <l>पद्मम् १७ वा पुंसि पद्म नलिनम् अरविन्दं महोत्पलम् ।</l>
  <l>सहस्र रत्त्रं कमले शतपत्रं कुशेशयम् ॥</l>
  <l>पड्रुहं तामरसं सारसं सरसीरुहम् ॥</l>
</lg>
<p>विसप्रसून राजीव पुष्कराम्भोरुहाणि च ॥
पुष्पम् ५ - स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुम सुमम् ॥
(स्त्रियः
: सुमनसः सुमनस् शब्दः स्त्रीलिङ्गः,
बहुवचनान्तब्ध इत्यर्थः) ॥</p>
<pb n="22" />
<p>षष्ठः पाठः-नहुष महाराजः
उत्पल n blue lotus
n
कोकनद " red lotus
पुण्डरीक » white lotus
अभिधा f name नामन्
। किञ्जल्क m filament of
17
सौगन्ध % fragrance; odour । अरविन्द n a lotus
मुकुलित @ haif blossomed । पद्म % lotus
विकसित a blossomed
प्रकाण्ड in stem
शृणाल % stem of a lotus
तन्तु m fibre
& lotus
पराग m the pollen of a
lotus
पद्मा / Goddess Lakshmi
समन् ?" abode
शैवल % moss
लक्ष्मन् % mark</p>
<note>६. नहुषमहाराजः</note>
<p>पुरा किल चन्द्रवंशे पुरूरवस: पौत्र आयुषः पुत्रः
शीलवान् मतिमान् धार्मिकच नहुषो नाम नरपतिरासीत् । स
न्य महता विभवेन शतमश्वमेधानाहृत्य द्वितीयः शतक्रतुरिव
व्यराजत ॥
अत्रान्तरे वृत्रं हत्वा पापमवाप्य स्वपदात् अच्युतो
वासवः तत्प्रायश्चित्ततया कञ्चित्कालमन्तर्जले न्यलीयत ।
तस्मिन्नवसरे नहुषोऽयं देवराजपदमधिरोपितः । तत्पदमधिरूढ -
मात्र एवं स राजा श्रीमान्धः सर्वमेव लोकं तृणायामन्यत ॥</p>
<pb n="23" />
<p>संस्कृतद्वितीयादर्श
अथ स इन्द्राणीं द्रष्टुमिच्छन् महताऽऽडम्बरेण तस्या
वासभवनं गच्छन् सप्तर्षीनानाय्य स्वशिविकावहनायादिदेश ।
सप्तर्षयस्तस्य शासन मनुल्लङ्घनीयं ज्ञात्वा शिविकां वहन्तः कथं
कथमपि चेलुः । राजा च तान् सर्वान् पढ़े पढ़े स्वलतः
परुषवचनैरनिन्दन् । विशेषतचेतरैः सह गन्तुमशक्तं हूस्वकाय-
मगस्त्यम् – 'कुम्भडिम्भ ! मर्प सर्प' इत्यधिचिक्षेप ॥
18
87. Pin</p>
<lg>
  <l>आत्मानमघिक्षिप्तं पश्यन् भृशं व्याकुलीभूतश्चुलुकी-</l>
  <l>कृताम्भोराशि: कुम्भयोनिर्नहुषं 'सर्पो भव' इत्यशपत् ।</l>
  <l>सप्तमात्र एव नहुषो महाकायः काकोदरो भूत्वा शिविकातः</l>
  <l>क्षितौ पपात ॥</l>
</lg>
<p>मानो हि महतां धनम् । अतः उन्नतं पदं प्राप्तो
मान्यान् नावमन्येत ॥
✔</p>
<pb n="24" />
<p>षष्ठः पाठः- नहुषमहाराज:
19
१) प्रश्ना:- १. नहुष: कीडशो नरपतिरासीत् ? २. कस्मिन्न
वसरे स देवराजपदमधिरोपितः ? ३. कुतः स महाकायः
काकोद्रोऽभवत् ? ४. नहुषस्य कथया क उपदेश गृह्यते
युष्माभिः ?
२) लोकं तृणायामन्यत - अत्र व्याकरणविशेषः कः ?
३) कृत्प्रत्ययान्ताः-
हन्यमानः,
हुन् to kill — हन्ति=हतः, हतवान्, घ्नन्,
हत्वा, (निहत्य) हन्तुम् हन्तव्यः, हननीयः, वध्य. ।
think – मन्यते-मतः, मतवान्, मन्यमानः,
मन् to
मत्वा, (अवमत्य) मन्तुम् मन्तव्यः, मननीयः, मान्यः ।
शपू to curse -शपति = शप्तः, शप्तवान्, शपन्, शप्य-
मानः, शप्त्वा, (अभिशप्य) शप्तुम्, शप्तव्यम्,
शपनीयम् ।
>
लिए to throw - क्षिपति = क्षिप्तः, क्षिप्तवान्, क्षिपन्,
क्षिप्यमाणः, क्षिप्त्वा, (आक्षिप्य) क्षेतुम् क्षेतव्यम्,
क्षेपणीयम्, क्षेप्यम् ॥
>
४) पर्यायाः-
-
इन्द्राणी ५- पुलोमजा शचीन्द्राणी पौलोमी मघवप्रिया ।
अगस्त्यः ४- -कुम्भयोनिरगस्तिः
: स्यात् अगस्त्यः-
[कुम्भसम्भवः ॥</p>
<lg>
  <l>सर्पः २६ - सर्पः प्रदाकुः भुजगो भुजंगोऽहिर्भुजंगमः ।</l>
  <l>आशीविषो विषधरकी व्यालः सरीसृपः ॥</l>
</lg>
<lg>
  <l>कुण्डली गूढपाञ्चक्षुःश्रवाः काकोदरः फणी ।</l>
  <l>दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः ॥</l>
</lg>
<p>उरगः पन्नगो भोगी जिलगः पवनाशनः ।</p>
<pb n="25" />
<p>संस्कृतद्वितीयादर्श
सर्प 2. (Imperanive
mood) you move on.
med चुलुकीकृताम्भोराशि m be
who has made. the
20
विभव m riches
आहृत्य in. having perfor-
शिबिका / p&lanquin
शासन " order
सर्प m. serpent
दाहा
ocean, a handful of
water</p>
<note>७. पक्षिणः</note>
<p>पक्षिणां पक्षौ पादौ च स्तः । अतस्ते पक्षाभ्यां व्योनि
डयितुं पादाभ्यां भूमौ चलितुं च शक्नुवन्ति । यदा ते डयन्ते</p>
<pb n="26" />
<p>सप्तमः पाठः - पक्षिणः
-
21
तदा पक्षौ विवृण्वन्ति, यदा च क्वचिदुपविशन्ति तदा संवृण्व-
न्ति । कुक्कुटादयः केचिदण्डजाः पक्षत्रन्तोऽपि सम्यग्डयितुं
न प्रभवन्ति । गरुडाः कदाचिदत्यूर्ध्न नभसि पतन्ति । हंसादयः
केचित पक्षिणो जले चरन्ति ॥
पक्षिणो वृक्षशाखासु नीडानि निर्माय तत्र निवसन्ति ।
नीडानि तृणकणैर्निर्मीयन्ते । आलेख्येऽस्मिनेका विहगी
शाखायामुपविष्टा । तस्याः सविघे कथित कुलायो दृश्यते ।
तस्मिन् कुलाये चत्वारः शावकाः सन्ति ।
साविहगी तेभ्यो
धान्यकणान् ददाति ॥
विहङ्गा अहन्याहाराय चरित्या सायं स्वनीडमा
गच्छन्ति । रात्रौ तत्र निद्राय प्रातस्तरां प्रबुध्यन्ते । अनुध्य
च वृक्षात् वृक्षमटन्तो मधुरं विरुवन्तश्च जनानामानन्दं
जनयन्ति । उदिते च भानौ भूय एवाहारार्थ भ्राम्यन्ति । पक्षिणां
इन्ताभावात् ते चञ्च्चा भक्ष्याणि खादन्ति । वाग्गुदानां तु
इन्ताः सन्ति, पक्षौ च स्तः । ते न अण्डजाः । अतः ते
मृगजातात्रन्तर्भवन्ति ॥
विहगा: फलानि धान्यानि कमीन कीटान् वा यथेष्ट-
माहरन्ति । पारावतः पिकः शुकश्चटकश्च प्राधान्येन धान्यानि
फलानि च खादन्ति । गृध्रस्तार्क्ष्यो बक इत्यादयो मांसमध्य-
अन्ति । काको मांसं धान्य फलं च भक्षयति । अग्नि-
कणमक्षिणः शिलाशकलभक्षिणच केचिद्विहगाः श्रूयन्ते ।</p>
<pb n="27" />
<p>संस्कृतद्वितीयादश
चातकास्तु केवलं जलदेभ्य: पतितान् जलबिन्दूनाहरन्तो
जीवन्तीति कवयो वर्णन्ति ॥
22
१) प्रश्नाः- १. के के पक्षिणः कुत्र कुत्र कथं चलन्ति ?</p>
<note>२. ते कुत्र निवसन्ति ? ३. दिवा नक्तं च पक्षिणः कथं</note>
<p>कालं नयन्ति ? के के पक्षिणः किं किं भक्षयन्ति ?</p>
<note>५. वाग्गुदाः कस्यां जातौ अन्तर्भवन्ति ? कुतः ?
(aotive) बुध्यमानः (Passive) बुध्या, (प्रबुध्य)</note>
<p>२) नाम निर्दिश्य प्रयोगं विपरिणमयत -
१) विहगाः फलानि कीटान् वा यथेष्टमाहरन्ति ।</p>
<lg>
  <l>२) अधिकणभक्षिणः केचिद्विहगाः श्रुयन्ते ।</l>
  <l>३) पक्षिभिर्वृक्षाणां शाखासु नीडानि निर्मीयन्ते ॥</l>
</lg>
<p>३) निर्दिष्टैस्तत्तद्धातूनां लकारैः वाक्यानि पूरयत-
१) वयं व्योमयानेन व्योनि डयितुं शक्... (लट्) ।
२) वयं शिशुभ्यो गवां क्षीरं यच्छ्र... (लट्) ।
३) न खलु क्षुधितोऽपि शार्दूल: शाइलं अद्... (लट्) ।
४) कृत्प्रत्ययान्ताः-
-
विश् to enter – विशति - विष्टः,
विश्यमानः, विष्वा (प्रविश्य )
बेश्यम् ।
--
विष्टवान्, विशन्,
वेष्टुम् बेष्टव्यम्,
?
बुधू to know-दुध्यते = बुद्धः, बुद्धबान्, बुध्यमानः</p>
<p>बोद्धुम् बोध्यम्, बोधनीयम्, बोध्यम् ॥</p>
<pb n="28" />
<p>सप्तमः पाठः- पक्षिणः
५) उपसर्गयोगादर्थभेदः-
विशू - विशति । आविशति, उपविशति, निर्विशति
प्रविशति संविशति ।
वृ - वृणोति, वृणुते,। आवृणोति, अपवृणोति, अपावृणोति,
विवृणोति संवृणोति । एवम् आवृणुते इत्यादि
आत्मनेपदेऽपि द्रष्टव्यम् ॥</p>
<p>पक्ष m. a wing
व्योमन् n sky
डयन्ते A fly
६) पर्यायाः-
पक्षी २७— खगे विहङ्ग विहग विहङ्गमविहायसः ।
शकुन्ति पक्षि शकुनि शकुन्त शकुनद्विजाः ।</p>
<lg>
  <l>पतत्रि पत्रि पतग पतत्पत्ररथाण्डजाः ।</l>
  <l>नगौकोवाजिविकर वि विष्कर पतत्रयः ॥</l>
</lg>
<p>नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसङ्गमाः ॥
23
विवृण्वन्ति P. open
संवृण्वन्ति P. close
अण्डज m bird
आलेख्य n picture
कुलाय m nest
विरुवत् a crying
चञ्चु / beak
पाग्गुद m bat
कृमि m worm
कीटm an insect
पारावत m pigeon
चटक m sparrow
गृध्र m vulture
तार्क्ष्य m Garuda
बक m crane
चातक m a kind of bird
which lives only on
rain drops.</p>
<pb n="29" />
<p>संस्कृतद्वितीयादश</p>
<note>८. कीलोत्पाटी वानरः</note>
<lg>
  <l>अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति ।</l>
  <l>स नूनं निधनं याति कीलोत्पाटीव वानरः ॥</l>
</lg>
<p>तद्यथा – अस्ति ब्रह्मारण्यस्य समीपे विरिञ्चिपुरं नाम
नगरम् । तत्र शुभदत्तनामा धनवान् वैश्यः प्रतिवसति । तस्य
चिराय सन्ततिर्नासीत् । तेन स धर्मपरो भूत्वा दानधर्मादिक
माचरत् । व्रतान्यन्वतिष्ठत् । कूपतटाकादीन्यखानयत् ।
अन्ततश्च दैवज्ञानामादेशेन कञ्चिदेवालयं निर्मातमुपाक्रमत ॥
24
अथ सोऽरण्यपरिसरे कारुभिर्दारुकर्म कारयामास
एकस्मिन् दिवसे कारवः करपत्रेणैकं स्तम्भं किञ्चिदूरं विदार्य</p>
<pb n="30" />
<p>25
अष्टमः पाठः --कीडोत्पाटी वानरः
द्वयोः खण्डयोर्मध्ये कीलकं निधाय मध्याहे भोजनाय गृह
गताः । तदा तत्र कश्चिद्धलवान् वानरसन्दोहः क्रीडभागतः ॥
वानराः प्रकृत्या चपलाः । अव्यापारेषु व्यापारो वान-
राणां जातौ प्रसिद्धः । तेषामेको वानरः कालप्रेरित इव तं
कीलकं हस्ताभ्यां धृत्वा पादौ च दारुखण्डयोरुपरि निधायो-
पविष्टः । तदा तस्य पुच्छो दारुखण्डयोरभ्यन्तरं प्रविशत् ।
स वानरस्तं कीलकमचलयन् । स तु दृढतरोऽभूत् । अथापि
स चापल्यादविरतो भूयोऽपि चलयन् महता यत्लेन तं
कीलकमकृष्टवान् । आकृष्टे च कीलके चूर्णितपुच्छः स
इष्टदेवतां स्मरन् पञ्चत्यं गतः ॥
प्रश्नाः – १. कः कुत्र देवालयं निर्मातुमुपाक्रमत ? २. कुत्र
वानरसन्दोहः क्रीडन्नागतः १ ३. एको वानरः किमकरोत् ?</p>
<note>४. ततः किं वृत्तम् ? ५. अनया कथया किमस्माभिर्गृह्यते ?</note>
<p>२) अधोरेखाकितानां स्थाने तत्तद्धातूनां 'लिट् रूपाणि
निवेशयत-
"</p>
<note>१. तस्य चिराय सन्ततिः न आसीत् ।</note>
<note>२. तस्य पुच्छो दारुखण्डयोरभ्यन्तरं प्राविशत् ।</note>
<p>३) प्रयोगान्तरतया विपरिणमयत -</p>
<note>१. जलं जलसम्पर्क महाजलाय भवति ।</note>
<note>३. किं हीनकुसुमं सहकार मधुकराः सेवन्ते ?</note>
<pb n="31" />
<p>26
संस्कृतद्वितीयादर्श
४) उपसर्गयोगादात्मनेपदम् – उपक्रमते, प्रक्रमते ॥
५) कृत्प्रत्ययान्ताः (Participles )
कृष् to plough— कर्षति = कृष्टः, कृष्टवान्, कर्पन्
कृष्यमाणः, कृष्ट्वा, (आकृष्य) कष्टुम्, कष्टव्यम्, कर्षणीयम् ।
पिष् to crush – पिनष्टि = पिष्टः, पिष्टवान्, पिंषन्,
पिष्यमाणः पिष्टा, (निष्पिध्य) पेष्टुम्, पेष्टव्यम्,
पेषणीयम् ॥
६) पर्यायाः-
वानरः ९ – कपि प्लवङ्ग प्लवग शाखामृग वलीमुखाः
मर्कटो वानरः कीशो वनौकाः ॥
दैवशः ८-</p>
<lg>
  <l>सांवत्सरो ज्यौतिषको दैवक्षगणकाचपि ।</l>
  <l>स्युमहूर्तिक मौहूर्त ज्ञानिकातन्तिका अपि ॥</l>
</lg>
<p>दैवज्ञ m astrologer
आदेश m advice
कारु m carpenter
करपत्र 3 saw
कीलक m wedge
सन्दोह m group; multi-
5
प्रकृति / natural form
●
इष्टदेवता f Favourite
[tude । पञ्चत्व " Death
Deity
सहकार m mango tree</p>
<pb n="32" />
<p>नवमः पाठः- धौम्य आरुणिश्च
27</p>
<note>९. धौम्य आरुणिश्च</note>
<p>आसीत् कश्चिदृषिधौम्यो नाम । तस्य शिष्यास्त्रयो
चभूवुः-आरुणिः, उपमन्युः, वेदश्च, इति । स एकदा शिष्यमारुणि
पाञ्चाल्यं प्रेषयामास –' गच्छ, केदारखण्डं बधान ' - इति ॥
-
स उपाध्यायेन समादिष्ट आरुणिस्तत्र गत्वा तत् केदार-
खण्डं बन्धुं नाशकत् । स क्लिश्यमानोऽपश्यदुपायम्-
'भवतु, एवं करिष्यामि' – इति । स तत्र केदारखण्डे
संविवेश । शयाने च तथा तस्मिन्नुदकं तस्थौ ॥</p>
<pb n="33" />
<p>28
संस्कृतद्वितीयादर्श
ततः किश्चिदतीत्योपाध्यायो
धौम्यः शिष्यावपृच्छत्-
-इति । तौ तं प्रत्यूचतु:-
6
क्क आरुणिः पाञ्चाल्यो गतः ११ – इति । तौ तं
'भगवन् ! त्वयैव प्रेषितो गच्छ केदारखण्डं बघान ' - इति ।
स एवमुक्तः प्रत्युवाच – 'तर्हि तत्र सर्वे गच्छामो यत्र स गतः
इति । तत्र गंत्वोपाध्यायस्तस्याहानाय शब्द चकार – 'भो
आरुणे ! पाश्चात्य ! क्कासि ? वत्स ! एहि ' — इति ॥
स तदाकर्ण्यारुणिरुपाध्यायवाक्यं तस्मात् केदारखण्डात्
सहसोत्थाय तमुपाध्यायमुपतस्थे, प्रोवाच चैनम् – 'अय-
मस्म्यत्र केदारखण्डे निस्सरमाणमुदकमचारणीयं संरोधुं
संविष्टः । भगवच्छदं श्रुत्वैव सहसा विदार्य केदारखण्डम्,
भवन्तमुपस्थितः । तदभिवादये भवन्तम् । आज्ञापयतु भवान्
कमर्थ करवाणि — इति ॥
स एवमुक्त उपाध्यायः प्रत्युवाच – 'यस्मात् केदारखण्डं
विदार्योत्थितस्तस्मात 'उद्दालक एवं नाम्ना त्वं भविष्यसि;
यस्माच्च महूचननुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसि । सर्वच</p>
<lg>
  <l>वेदास्ते प्रतिभास्यन्ति, सर्वाणि च शास्त्राणि ' – इति ।</l>
  <l>अथोपाध्यायेनानुगृहीत आरुणिर्गुरुकुलात् गृहं न्यवर्तत ॥</l>
</lg>
<p>प्रेषयामास ?
१) प्रश्नाः १. आरुणिः कस्य शिष्यः ? २. तमुपाध्यायः कुत्र</p>
<note>३. उपाध्यायेनादिष्टः स किं चकार ?</note>
<note>४. किञ्चिदतीत्योपाध्यायेनाहूतः</note>
<note>५. उपाध्यायः किं प्रत्युवाच ?</note>
<p>किं
प्रोवाच ?</p>
<pb n="34" />
<p>नवमः पाठः – धौम्य आरुणिश्च
२) तत्तद्धातूनां निर्दिष्टे: लकारैः वाक्यानि पूरयत-
१) पुरा शिष्या गुरुकुले वसन्तो विद्यां ग्रह... (लिट्) ।
२) उपाध्यायेनादिष्टः शिष्यो गां गोष्ठे बन्धू... (लट्) ।</p>
<lg>
  <l>३) केदारखण्डे शयानः स निःसरमाणमुदकं रुध्... (लिट्) ।</l>
  <l>४) नदी पर्वतादुत्पद्य समुद्रम् उप + इ ... (लट्) ॥</l>
</lg>
<p>३) कृत्प्रत्ययान्ताः-
बन्धु to bind – बध्नाति = बद्धः बद्धवान्, बध्नन्,
बध्यमानः, बद्ध्वा, आबध्य, बन्धुम्, बद्धव्यम्, बध्यम् ।
रुधू to obstruct रुणद्धि रुद्धः, रुद्धवान्, रुन्धन,
रुध्यमानः, रुद्द्ध्वा, (निरुध्य) रोधुम्, रोधनीयम्,
रोद्धव्यम्, रोध्यम् ॥
४) उपसर्गयोगादर्थमेदः -
B
केदारखण्ड m small dyke
संविवेश P. lied down
एहि (आ+ इहि ) 22 ( you)
come
3
इ – एति । अत्येति, अध्येति, अन्वेति, उपैति, अभ्येति,
अवैति, प्रत्येति, व्यपैति, समेति ।
ज्ञा - ज्ञापयति । आज्ञापयति, विज्ञापयति, अनुज्ञापयति ॥
५) उपसर्गयोगादात्मनेपदम् – स्था – तिष्ठति । उपतिष्ठते ।
६) पर्यायाः-
गुरुः५
– उपाध्यायोऽध्यापकः स्यादाचार्योदेशिको गुरुः ।
शिष्यः५ – छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः ।
यशः ७–यशः कीर्तिः समज्या च स्तवः स्तोत्रं स्तुतिर्नुतिः
29
पाञ्चाल्य a native of
पाञ्चाल
गुरुकुल n teacher's
abode</p>
<pb n="35" />
<p>संस्कृतद्वितीयादर्श</p>
<note>१०. लोभी मत्सरी च</note>
<p>लोभो मत्सरव पुरुषस्य श्रेयसः पन्थानमवरुन्धाते ।
मत्सरी पुरुषः परस्य हानिमेवात्मनो लाभं मन्यते । लोभी तु
लोभेनान्धीकृतो गर्तपातं न पश्यति । श्रूयते चात्र काचित्
कथा, यथा – आस्तामेकस्मिन् ग्रामे सुन्दसुन्दरनामानौ द्वो
पुरुषौ । तयोः सुन्दोऽतीव लोभी, सुन्दरोऽत्यन्तं मत्सरी
चासीत् । तावेकदा चराचरगुरुं भगवन्तं परमेश्वरं प्रत्यक्षीकर्तुं
क्वचिच्छिवमन्दिरे तपस्तेपाते ।
,
30
तयोस्तपसा प्रीतो
भवानीपतिः सद्य एवाविर्भूय
जगाद – 'भोः साहसिकौ ! युवयोरनन्यसाधारण्या भक्त्या
-
तुष्टोऽस्मि । अलं भूयसा तपसा । वरं वृणीतम् । यद्वरिष्येथे
तद्दास्यामि । परन्तु यः प्रथमं यद्वरिष्यते स तल्लभेत ।
अन्यस्तु तदेव द्विगुणं लप्स्यते' – इति ॥
-
भगवतो महादेवस्य तद्वचनं श्रुत्वा लोभी सुन्द:-
'नाहमादौ वरं वृणे । अयं मम सखा भूरि द्रविणं याचिष्यते !
तदेव द्विगुणं मया लभ्येत' - इति विचिन्त्य स्वयं तूष्णीमान्त ॥
परस्योत्कर्षमसहमानो मत्सरी सुन्दरस्तु लोभिनं
वञ्चयितुकामः साष्टाङ्गं प्रणिपत्य शिवमभ्यर्थयामास - 'भगवन् !
भक्तवत्सल ! यदि मयि प्रसन्नोऽसि यदि च ते मय्यनुकम्पा
तर्हि ममैकं नयनमन्धीभवतु' - इति । 'तथास्तु' इति शूलिनोक्तं</p>
<pb n="36" />
<p>-लोभी मत्सरी च
31
दशमः पाठ:--
मत्सरी सद्य एवँकाक्षो जातः । लोभिनस्तु द्वे अप्यक्षिणी
उपहने अभृताम् ॥</p>
<note>२. तौ</note>
<p>१) प्रश्ना:- १. सुन्दः सुन्दरश्च कीदृशावास्ताम् १
किमर्थं तपस्तेपाते ? ३. भवानीपतिराविर्भूय कि जगाद ?</p>
<note>४. तद्वचनमाकर्ण्य लोभी सुन्दः किमचिन्तयत् ? ५. मत्सरी</note>
<p>सुन्दरः शिवं किमभ्यर्थयामास ? ६. तेन किं वृत्तम् ?
२) लिट: स्थाने 'लङ्' रूपाणि निवेशयत —
१) पुरा विश्वामित्रो नाम ऋषिर्घोरं तपस्तेपे ।</p>
<lg>
  <l>२) तस्य तपसा तुष्टो भगवांस्तस्य पुरस्तादाविर्बभूव ।</l>
  <l>३) तथा विचिन्त्य लोभी सुन्दस्तूष्णीमासाञ्चके ॥</l>
</lg>
<p>३) प्रयोगं विपरिणमयत -
१) गच्छ, वे दारखण्डं बधान ।
२) आज्ञापयतु भवान् कमर्थ करवाणि ।</p>
<lg>
  <l>३) परितुष्टाद्भगवतः स वरं वृणीते ।</l>
  <l>४) दुष्टः स्वदोषान् संवृणोति, परदोषांचापावृणोति ॥</l>
</lg>
<lg>
  <l>४) विकरणभेद: - वृ - वरणे - वृणाति, वृणीते ।</l>
  <l>वृ— आच्छादने – वृणोति, वृणुते ॥</l>
</lg>
<p>५) उपसर्गयोगादर्थभेदः-
सद्— सीइति ।
निषीदति,
कम्पू – कम्पते ।
-
आसीदति उत्सीदति, उपसीदति,
प्रसीदति, विषीदति, प्रत्यासीदति ॥
अनुकम्प ते</p>
<pb n="37" />
<p>32
६) कृत्प्रत्ययान्ताः
प्री to be
संस्कृतद्वितीयादर्श
-
—
-
pleased – प्रीयते = प्रीतः, प्रीतवान्,
प्रीत्वा (संप्रीय), प्रेतुम्, प्रेतव्यम् ।
तुष् to be pleased – तुष्यति = तुटः,
प्रीयमाणः,
तुष्टवान्,
तुध्यन्, तुष्टा, (सन्तुष्य) तोष्टुम्, तोषणीयम्,
तोष्यम् ॥
७) अतिशायनार्थका: (Degrees of comparison):-
Positive
Comparitive
बहुः
पटुः
महान्
अन्तिकः
८) पर्यायाः-
भूयान्
पटीयान् पटुतः,
महीयान्
महत्तर:
दवीयान्
नेदीयान्
मत्सर १ - मत्सरोऽन्यशुभ द्वेषे ।
लोभः
- लोमस्तृष्णा च गर्धनम् ।
-
लोभी ६ – लुब्धोऽभिलाषुकस्तृष्णक् लोभी गृध्नुश्च गर्धनः ।
लोभ m avarice, greed
मत्सर m jealousy
हानि flogs
गर्तपात m falling into a
Superlative
भूयिष्ठः
पढिष्ठः-
:-पटुतमः
महिष्ठः- महत्तमः
दविष्ठः
नेदिप्र:
'साहसिक ? bold
द्विगुण & twofold
द्रविण १% wealth
शूलिन् १८ Lord Siva
उपहृत @ injured
ditch
शिवमन्दिर n Siva's temple । अझि the eye</p>
<pb n="38" />
<p>संस्कृतद्वितीयादर्श</p>
<note>११. श्रीरामगुणानुवर्णनम्</note>
<lg>
  <l>इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।</l>
  <l>नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥</l>
</lg>
<lg>
  <l>बुद्धिमान् नीतिमान् वाग्मी श्रीमाञ्छत्रुनिबर्हणः ।</l>
  <l>विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥</l>
</lg>
<p>महारस्को महेष्वासो गूढजत्रु ररिन्दमः ।
आजानुबाहुः सुशिरा: सुललाट: सुविक्रमः ॥ ३
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।
पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥ ४</p>
<lg>
  <l>धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः ।</l>
  <l>यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ॥</l>
</lg>
<p>प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ॥ ६</p>
<lg>
  <l>रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।</l>
  <l>वेदवेदाङ्ग तत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥</l>
</lg>
<p>सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥ ८</p>
<lg>
  <l>सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।</l>
  <l>आर्यः सर्वसमचैत्र सदैव प्रियदर्शनः ॥</l>
</lg>
<p>33</p>
<pb n="39" />
<p>34
एकादशः पाठः- श्रीरामगुणानुवर्णनम्
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥ १८
विष्णुना सदृशो वीर्ये सोमवत् प्रियदर्शनः ।
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥ १६</p>
<lg>
  <l>धनदेव गुणस्त्यागे सत्ये धर्म इवांपरः ।</l>
</lg>
<lg>
  <l>तमेवं गुणसम्पन्नं रामं सत्यपराक्रमम् ॥</l>
  <l>ज्येष्ठ श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् ।</l>
  <l>प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥</l>
  <l>यौवराज्येन संयोक्तुम् ऐच्छत् प्रीत्या महीपतिः ॥</l>
</lg>
<p>( श्रीमद्वाल्मीकि रामायणे बालकाण्डे प्रथमसर्गात्
उद्घृताः ८–२० श्लोकाः )
.
१) प्रश्नाः – १. श्रीरामस्य गुणान् स्व स्व वाक्यैः वर्णयत ।
२) दशरथ: केन कारणेन रामं यौवराज्येन योक्तुमैच्छत् १
२) निर्दिष्टानां घातूनां 'लङ्' रूपैः वाक्यानि पूरयत-
१) श्रीरामः इक्ष्वाकुवंशेदशरथस्य सुतत्वेन – ( जन्) ।
२) स नीत्या प्रीत्या च प्रजा:- (पाल्) ।
३) श्रीरामः स्मृतिमान् प्रतिभानवांश्च – (अस्) 13</p>
<pb n="40" />
<p>संस्कृतद्वितीयादश
३) त्याप्रन्ययान्तैः पः वाक्यानि पूर्यत -
१) रामः पुरा पितुर्वचनाद्राज्यं त्यज्... वनं गतवान् ।
२) पचवां वसतस्तस्य सहचरीं रावणो हृ...लङ्कां गतः ।
३) रामो वानरैः सह सागरं तृ...लङ्कां प्रविष्टवान् ।
४) तत्र रणे रावणं हन्- राज्यं च विभीषणाय दा-
सीतामायायोध्यां प्रतियातवान् ।
-
४) पर्यायाः-
बुद्धिः १४ – बुद्धिर्मनीय धिषण धी: प्रज्ञा शेमुषी मतिः :
प्रेक्षोपलब्धिश्चित् संवित् प्रतिपातचेतनाः
वशिन् m one who has
subdued his passions
वाग्मिन m an eloquent
man
35
निवर्हण & destroyer
कम्युग्रीव o having the
neck like conch
shell
वेद m the scriptures of
the Hindus, viz. ऋग्वेद,
यजुर्वेद, सामवेद & अथर्ववेद
वेदाङ्ग % name of certain
classes of works auxi-
liary to the Vedas
They are six in number-
शीक्षा व्याकरण छन्दो
निरुक्तं ज्योतिष तथा
कल्पश्चेति षडङ्गानि
वेदस्या हुर्मनीषिणः ॥
प्रतिभानवान् a real witted:
सिन्धु / a river
सोम m moon
कालाग्नि destructive fire
also श्रीरुद्रमूर्ति
धनदः m epithet of कुबेर
प्रकृति f the subjects</p>
<p>(of a King )</p>
<p>in to entrust
with.</p>
<pb n="41" />
<p>संस्कृतद्वितीयादर्श</p>
<note>१२. कदली</note>
<p>जगति
बिद्यामानास्तरुलतादिरूपा उद्भिदः केचिन
फलपाकान्ताः केचितथाभूताथ । तेषु फलपाकान्ता उद्भिदः
'ओषधयः' इत्युच्यन्ते ।
कदलीनां फलपाक एवान्तो
भवति । अतस्ता ओषधयो भवन्ति । त्रीहियवादयोऽप्योषधि -
वर्गेऽन्तर्भवन्ति ॥
36
कदल्यः फलदेवृद्भित्सु प्रशस्ताः क्षिप्रफलाच । वर्षेणकेन
ताः फलन्ति । कदलीप्रसव एकस्मिन् शतद्वयाधिकानि फलानि
न्स्युः । सहस्रफला अपि केचिद्रम्भातरवः सन्ति ॥</p>
<pb n="42" />
<p>द्वादशः पाठः कदली
37
रम्भाफलानि नानाजातीयानि सन्ति, तेषां गुणो वर्ण
आकारो रुचिश्व तत्तजातिभेदाद्भिद्यन्ते । सामान्यतः कदली-
फलानि त्वचि पीतवर्णानि । कानिचिद्रक्तवर्णानि । अन्यानि
कानिचिदन्तः पक्कान्यपि त्वचि हरितवर्णानि अपक्कानीव
लक्ष्यन्ते । कानिचित् फलानि भक्ष्यमाणानि ज्वरमुत्पादयन्ति ।
कदल्यः प्राधान्येन भारतवर्ष सर्वत्र प्ररोहन्ति । आफ्रि-
कामेरिकाखण्डयोरपि ता बहुत्रोपलभ्यन्ते । कदल्याः सर्वोऽपि
भाग उपयोगाय कल्पते । तस्याः पत्राणि भोजनामत्रत्वेनोप-
युज्यन्ते । कदल्याः काण्डे स्थितानां त्वचा पाटनायामन्ने
काण्डमार उपलभ्यते । तस्मात् काण्डसाराद मेरिकाखण्डस्था-
जना: सक्तून् सम्पाद्य तैरपूपान् राधयन्ति । एवं कदलीफले-
भ्योऽपि शोषितेभ्योऽपूपोपयुक्तान् सक्तून् सम्पादयन्ति जनाः ॥
कदलीद्रुमाणां मूलेऽङ्कराः प्ररोहन्ति । ते स्थलान्तरे
संरोप्य माणाः पुष्टाङ्गाः फलानि वितरन्ति । केपाञ्चित् कदली-
फलानामन्तर्भागे बीजानि विद्यन्ते । तान्यप्युप्यमानान्युद्भि-
द्यन्ते । कदल्यो दोहदं जलं च सर्वदाऽपेक्षन्ते ॥
१) प्रश्ना:- १. का नाम ओषधयः ? २. कदल्यः कथमोषधि-
वर्गेऽन्तर्भवन्ति ? ३. नानाजातीयानि रम्भाफलानि कीह-
शानि ? ४. कदल्यः प्राधान्येन केषु देशेषूत्पद्यन्ते ?
कदलीनां प्रयोजनानि कानि ? ६. ताः कथं प्ररोप्यन्ते?</p>
<pb n="43" />
<p>संस्कृतद्वितीयादश
38
२) प्रयोग विपरिणमयत -
-
१) कानिचित् फलानि भक्ष्यमाणानि ज्वरमुत्पादयन्ति ।
२) तस्याः पत्राणि भोजनामत्रत्वेनोपयुज्यते जनैः ।</p>
<lg>
  <l>३) कदल्यः काण्डस्यान्तः काण्डसार उपलभ्यते ।</l>
  <l>४) यादृशं बीजमुप्यते तादृशं फलमवाप्यते ॥</l>
</lg>
<p>३) अतिशायनार्थकैः पदैः वाक्यानि पूरयत-
१) जम्बुकः काकात् .. (पटु) ।
२) भूमौ स्थलभागात् जलभागः
(बहु) ।
३) भगवान् क्षणोरणीयान् महतो (महत्) ।
४) सूर्यापेक्षया चन्द्रो भूमेः... (अन्तिक) ।
५) चन्द्रापेक्षया सूर्यः... (दूर ) ।
..
...
४) उपसर्गविशेषाः – अन्तर्, आविम्, तिरस्, प्रादुस् ।
-
भू - भवति । अन्तर्भवति, आविर्भवति, तिरोभवति,
प्रादुर्भवति ।
अस – अस्ति । आविरस्ति, प्रादुरस्ति
कृ करोति, कुरुते आविष्करोति । आविष्कुरुते,
तिरस्करोति, तिरस्कुरुते ।
1
धा
दधाति, धत्ते । तिरोधाति, तिरोधत्ते, अन्तर्दधाति,
अन्तर्धन्ते ॥</p>
<pb n="44" />
<p>द्वादशः पाठः-की
५) उपसर्गयोगादर्थभेदः—
ईस् — ईक्षते। अपेक्षते, अवेक्षते, उपेक्षते, परीक्षते, प्रेक्षते,
प्रतीक्षते, वीक्षते, समीक्षते ॥
६) कृत्प्रत्ययान्ताः-
पत्र to cook - (पचति) = पक्क:- पकवान, पचन, पच्यमानः,
पक्त्वा (विपच्य) पक्तुम्, पक्तव्यम्, पच्यम् ॥
3)
७) पर्यायाः-
कदली ५ – कदली वारणवसा रम्भा मोचांऽशुमत्फला ॥
उद्भिद् m plant
ओषधि / herb
व्रीहि m corn
यच m barley
गुण N. m quality
वर्ण Nm colour
39
आकार m shape
त्वच् / skin, bark
भोजनामत्र भोजनपात्र
dining plate
सक्तु m flour
दोहद् m. n. manure.</p>
<pb n="45" />
<p>40
संस्कृतद्वितीया दर्श</p>
<note>१३.</note>
<p>यद्यपि पक्षिणः प्रायेण नभसि डयन्ते तरुशाखासु च
निवसन्ति, तथापि हंसादयः केचित पक्षिणः सलिलवासिनः
पृथिवीचारिणश्च दृश्यन्ते । ते बाहुल्येन पद्मिनीषु वसन्ति ।
मन्दं भूमौ सञ्चरन्ति च । तेषां पक्षौ कोमलौ । अतस्ते
डयमानाः सुदूरं गन्तुं न पारयन्ति ॥
तेषां गतिमधिकृत्य काचित् कथा श्रूयते, यथा-कदा-
चिदेकः काको हंसस्य मन्दगामितामुपहसन् सव्याजमवोचत्-
'मुखे ! त्वं डयनेऽत्यन्तं निपुण इति मया बहुशः श्रुतम् ।
अतस्तव गतिं परीक्षितुमिच्छामि । युगपदमस्माद्देशान् प्रस्थि-
तयोरावयोः कतरः प्रथमं सरसः पारं ग्रामोतीति परीक्षावहे । तन्
किमद्य मया सह ग्लहं कर्तुं सजोऽसि ? इति । हंसः 'तथा.
कुर्वः' इति तद्वचनमङ्गीचकार ॥</p>
<pb n="46" />
<p>त्रयोदशः पाठः- हंसः
41
ततस्तावुभावपि युगपत् प्रातिष्ठेताम् । हंसो यावत् पञ्च-
पाणि पदानि गच्छति तावत् काको द्रुतं उयमानः सुदूरं जगाम
परं काको द्रुतगत्या नितान्तं श्रान्तः सरसः मध्ये पतित्वा पञ्चत्वं
गतः । हंसस्तु मन्दं सञ्चरन् पदे पदे विश्राम्यन केनचित
समवेन सरसः पारं प्रापत् ॥
हंसानां गरुतः वेताः, इतराण्यङ्गानि तु पीतानि ।
केषाञ्चन हंसानां चञ्चवश्चरणाच लोहिताः । ते राजहंसा इति
व्यपदिश्यन्ते । मल्लिकाक्षा अपि हंसभेदा एव । तेषां चञ्चव-
चरणाश्च धूम्रवर्णा: । हंसानां स्त्रियो 'हंस्यः' इति 'वरटा: '
इति चाभिधीयते ॥
यथा विष्णोर्गरुडस्तथा ब्रह्मणो वाहनं हंस इति पुराणेपु
श्रयते । कवयो हंसान् नीरक्षीरयोः पृथकरणे शक्तानाहुः ।
उक्तं च -</p>
<lg>
  <l>हंसः शुक्लो वकः शुक्लः को भेदो बकहंसयोः ।</l>
</lg>
<lg>
  <l>नीरक्षीरविभागे तु हंसो हंसो बको बकः ॥ इति ॥</l>
  <l>ईडशा हंसाः सम्प्रति कुत्रापि नोपलभ्यन्ते जगति ।</l>
  <l>कविभिस्तावदेतादृशानां हंसानां रात्रौ सञ्चारः मानसाख्ये</l>
  <l>सरगम निवासच वयेते ॥</l>
</lg>
<p>हंसा बिसाहारा इत्याचक्षते कवयः । अथापि ते बाहुल्येन
मत्स्यान् भक्षयन्ति । हंसाः पद्मसरसामलङ्कारभृताः प्रेक्षकाणा-
मक्षीण्यावर्जयन्ति ॥</p>
<pb n="47" />
<p>संस्कृत द्वितीयादर्श
42
१) प्रश्ना:- १. पक्ष्यन्तराणां हंसादीनां च को भेदः ? हंसानां
गतिः कीदृशी ? ३. तामधिकृत्य का कथा श्रूयते ?</p>
<note>४. हंसभेदाः के ? ५. कान तेषां लक्षणानि ?</note>
<note>६. कवि-</note>
<p>भिरुक्ता हंसाः कीदृशाः ? ७. हंसानामाहारः कः ?
२) प्रयोगान्तरतया विपरिणमयत -</p>
<lg>
  <l>१) हंसा: प्राधान्येन पद्मिनीषु वसन्ति ।</l>
  <l>२) कवयो हंसान नीरक्षीरविभागे शक्तानाडुः ॥</l>
</lg>
<p>३) निर्दिष्टेलकारैः वाक्यानि पूरयत-
१) शुकोऽपि जनैः शिक्षितो राम रामेति ब्रू... लङ् ।
२) रावणेन पृष्टो हनूमान् रामस्य दूतोऽहमिति आ+चक्ष्-
३) मवचनात् त्वं पितरमेवं ब्रू लोट् ।
४) उपसर्गयोगादर्थभेदः-
चर् चरति । अनुचरति, आचरति, उच्चरति, उपवरति,
परिचरति, प्रचरति, सञ्चरति ।
लभ् – लभते । आलभते, उपलभते, उपालभते, विमल नते।
५) कृत्प्रत्ययान्ताः-
चक्षु to tell – (चष्टे) । ख्यातः, ख्यातवान्, चक्षाणः,
ख्यात्वा, (आख्याय), ख्यातुम्,
ख्यायमानः,
ख्यातव्यः ख्येयः ।</p>
<pb n="48" />
<p>त्रयोदशः पाठः - हंसः
असू
to be – (अस्ति) । भूतः, भूतवान्, सन्, अनुभूयमानः,
भूत्वा, (अनुभूय), भवितुम्, भवितव्यम्, भाग्यम् ॥
६) अङ्कीकरोति, अलङ्करोति, नमस्करोति, वशीकरोति एतैः
पृथक् पृथक्, वाक्यानि रचयत ॥
७) एकपदं वदव १. नितान्तं श्रान्तः । २. नितान्तं पटुः॥
८) पर्यायाः-
ईसः ५- हंसानु श्वेत गरुतबाङ्गा मानसौकसः ।
राजहंसस्य लक्षण:-
'राजहंसास्तु ते चञ्चुचरणैर्लोहितैः लिताः ॥' इति
43
युगपत् in simulta.
पारn the other bank
ग्लह m bet
गरुत् m feather
धूम्रवर्ण: a smoke
neously । बकः » crane [coloured
%
विसाहार a one whose
food is lotus stalk
प्रेक्षक a observer,</p>
<pb n="49" />
<p>44
संस्कृतद्वितीयादर्श
Huye
-
उष्ट्रो नाम कश्चिद्वक्रकायो जन्तुः । स गज इवात्यन्तं
प्रांशुः । तस्यावयवास्तु तनीयांसः । तस्य चरणाः कृशा दीर्घाश्च ।
कन्धरा त्वायता कुटिला च । पुच्छो हुस्त्रः । उष्ट्राणां पृष्ठभाग
एको गडुर्विद्यते । केषाञ्चित्तु द्वौ गइ स्तः । उष्ट्राः सर्वदोर्ध्वमेव
पश्यन्ति ॥
इत्यमुष्टो यद्यपि विरूपाकृतिस्तथापि स मनुष्याणामत्य-
न्तोपकारी जन्तुः । गजो हि गुरुतरान् भारान् बोढुं क्षमते, न तु
शीघ्रं गन्तुम् । अश्वस्तावद्द्रुतं गन्तुं शक्नोति, न त्वति महतो</p>
<pb n="50" />
<p>चतुर्दशः पाठः-उष्ट्रः
45
भारान् वोढुम् । उष्ट्रस्तु महान्ति भाण्डानि वहन् द्रुततरं
गच्छति । चित्रेऽस्मिन्नेकः पुरुषः उष्ट्र्स्योपरिष्टादुपविष्टः ।
कदाचित् पञ्चषा अपि जना उष्ट्रमारूढाः सञ्चरन्ति ॥
सन्ति खल्वारभादिदेशेषु समुद्रवदतिविशाला अदृश्यमान
सीमानो मरुभूमयः; यत्र हि गृहाणां नदीनां कृपानां वृक्षाणां च
कथाsपि न विद्यते, तत्रोष्ट्राः केवलं सञ्चारार्थमुपयुज्यन्ते । उष्ट्राः
खलु बहून् दिवसान् निराहाराः सञ्चरितुं शक्ताः । प्रस्थानकाले
ते पञ्चषेभ्योः दिवसेभ्यः पर्याप्तं जलं पिबन्ति । अतः समुद्रेषु
महानौका इव मरुभूभागेषु सञ्चरतां जनानामुष्ट्रा एवाश्रयाः । अत
एवारमीयाः सार्थवाहा उष्ट्रान् स्तुत्या गीत्या चोपगायन्ति ॥
उष्ट्रा: प्राधान्येन निम्बपत्राण्यश्नन्ति । कण्टकवृक्षेषु तेषां
महती प्रीतिः । उष्ट्राणां शावका: 'करभा' इत्यभिधीयन्ते ।
कलभास्तु करिशावकाः ॥
त्यन्तोपकारी जन्तुः ?
२) प्रश्नाः – कथमुष्ट्रो विरूपाकृतिः ? २. कथं स मनुष्याणाम-</p>
<note>३. कस्मादारभीया उष्ट्रान स्तुत्या</note>
<p>गीत्या चोरगायन्ति ? ४. उष्ट्राः किं भक्षयन्ति ? ५. करमाः
कलभाध के ?
२) प्रयोगं विपरिणमयत-
१) गजा गुरुतरान् भारान् वहन्ति ।</p>
<lg>
  <l>२) उष्ट्रा बहून् दिवसान् निराहारः सञ्चरितुं शक्नुवन्ति ।</l>
  <l>३) ते पञ्चषेभ्यो दिवसेभ्यः पर्याप्तं जलमे दैव पिवन्ति ॥</l>
</lg>
<pb n="51" />
<p>46
।
संस्कृतद्वितीयादश
३) निर्दिष्टानां धातूनां लटो रूपैः वाक्यानि पूरयत-
१) यस्मान्मद्वचनमनुष्ठितं तस्माच्छ्रेयः (अवाप् )
२) सर्वे वेदाः सर्वाणि च शास्त्राणि ते (प्रति + भा).
३) अन्यस्तु प्रथमेन यद्याचितं ततो द्विगुणं (लभ्) 1
४) भो, सखे, अहं कर्णमधुरं ते गानं (ध्रु)...।
४) अतिशायनार्थकानि विशेषरूपाणि-
तनीयान्
स्थवीयान्
कशीयान्
लघीयान्
गरीग्रान्
हसीयान्
द्राधीयान्
तनुः
स्थूल:
कृशः
लघुः
गुरुः
६)
७)
ह्रस्वः
दीर्घः
५) कृत्प्रत्ययान्ताः-
-
तनिष्ठः
स्थविष्ठः ।
ऋशिष्ठः ।
लधिष्ठः ।
गरिष्ठः ।
हसिष्ठः ।
द्राघिष्ठः ।
बहू to carry – (वहति) ऊढः, ऊढवान्, वहन्, उह्यमानः,
ऊवा, (समुह्य) वोदुम्, वोढव्यम्, वहनीयम् ।
रुह् to grow — (रोहति) । रूढः, रूढवान्, रोहन्,
रूवा, रोढुम्, रोढव्यम्, रोहणीयम् ॥
एकपदीकुरुत-अत्यन्तं प्रांशुः, अतीव गुरुः, अतीव द्रुतम् ॥
पर्यायाः-
उष्ट्रः ४- - उष्ट्रे कमेलक मय, महाङ्गाःः–
'करभः' शिशुः उष्ट्राणां वृन्दम् ' = औट्रकम् ॥
उष्ट्र m camel
मरुभूमि f desert
काय m body
कुश & lean
आयत a long
गहु m hump
ig: a high, tall
करभ m young camel
कलभ m young elephant
आरभीय Arab
"
निम्ब % margo-tree
! कण्टकवृक्ष % Thorny tree</p>
<pb n="52" />
<p>पञ्चदशः पाठः- महात्मा दघीचः
47</p>
<note>१५. महात्मा दधीचः</note>
<p>कालेया नाम दानवाः पुरा वृत्रं समाश्रित्य त्रिविष्टपं
पीडयामासुः । तान् हन्तुमशक्क्रु अन्तः शक्रादयो देवाः परिम्लान-
मुखश्रियो ब्रह्माणमुपेत्य हृदयङ्गमैः स्तवैस्तं तुष्टुवुः । अथ
पुरस्तादाविर्भूताय तस्मै दानवभयं निवेद्य तमन्वयुञ्जत- 'भगवन्
किमत्र करवामहै' इति । ब्रह्माऽब्रवीत् - 'वत्साः, मा बिभीत ।</p>
<pb n="53" />
<p>48
संस्कृत द्वितीयादर्श
दधीचमृषिं गत्वा तस्यास्थीनि गृहीत । तैश्च वज्रं कृत्वा तेन
वृत्रं हत' इति ॥
तद्वचन मनुसृत्य देवाः सद्य एव दधीचस्याश्रमं गत्वा
नत्वा च तं तदीयान्यस्थीन्ययाचन्त । तेषामभ्यर्थनया स महर्षिः
प्रहर्षमगात् । आत्मनः शरीरलाभं बह्वमन्यत । स्वीयं तपः
फलितमाकलयत् । सद्य एव स महात्मा त्रैलोक्यस्य हिता-
।
यात्मनः प्राणानुत्ससर्ज । परासोस्तस्यास्थीन्यादाय देवा-
स्त्वष्ट्रा वज्रं कारयामासुः ॥
तदनु शक्रपुरोगमा: सुमनसो रोदसी आवृत्य तिष्ठन्तं
कालेयैरभिरक्षितुं वृत्रमभ्ययान् । तैः सह देवानां तुमुलमायोधनं
प्रवर्तत । रजोभिः सर्वाः ककुभो व्याप्यन्त । सर्वे लोका
अकम्पन्त । एवं भृते व्यतिकरे विष्णुतेजसाssविष्टो जिष्णुरे-
काकी रणधुरां वहन् वृत्रस्य शिरसि वज्रमपातयत् । वृत्रो
भग्नशिराः क्षितावपतत् । देवाः समाश्वसन् । इन्द्रो 'इत्रहा'
इति प्रथां प्राप्नोत् ॥
१) प्रश्ना:- १. शकादयो देवाः किन्निमित्तं ब्रह्माणमुपायन्, किञ्च
तमन्व युञ्जत ? २. ब्रह्मा किमब्रवीत् ? ३. देवाः किमकुर्वन् ?</p>
<note>४. दधीचः किमकरोत् ? ५. देवाः किं चक्रः ?</note>
<note>६. ते कमभ्यायन् ? ७. ततः किमासीत् ?</note>
<p>२) प्रयोगं विपरिणमयत-</p>
<note>१. भगवन् किमत्र करवाम है ।</note>
<lg>
  <l>२. दधीचमृषि गत्वा तस्यास्थीनि गृहीत ।</l>
  <l>तैश्च वज्रं कृत्वा तेन वृत्र इत ॥</l>
</lg>
<note>३.</note>
<pb n="54" />
<p>पञ्चदशः पाठः-- महात्मा दधीचः
३) निर्दिष्टेलकारैः वाक्यानि पूरयत</p>
<note>१. ब्रह्मा परिम्लानमुखश्रियो देवान् अनु + युज... (लङ्) ।</note>
<note>२. शक्रपुरोगमा देवा दधीचमृषिं गत्वा तस्यास्थीनि ग्रह-</note>
<p>49
३) सं+आ+श्वस् (लोट् ) भवन्तः, युष्माकै पीडा नश् .
(ऌट् ) ॥
४) उपस्योगादर्थभेदः-
आप - आप्नोति, अवाप्नोति, समाप्नोति, प्राप्नोति, व्याप्नोति ।
श्वसू – श्वसिति । आश्वसिति, निःश्वसिति, विश्वसिति ।
सृ – सरति । अनुसरति, अपसरति, उपसरति, निःसरति.
परिसरति, प्रसरति ॥
५) कृत्प्रत्ययान्ताः-
3
श्रि (to approach) - (श्रयति, श्रयते) =श्रितः श्रितवान्,
श्रयन्, श्रयमाणः, श्रियमाणः, श्रित्वा (आश्रित्य )
अयितुम् श्रयितव्यम्, श्रयणीयम् ।
ऋ (to move) - (सरति) - सृतः, सृतवान्, सरन्, अनुलिय-
माणः, सृत्वा, (अनुसृत्य) सर्तुम्, सतं यम्, सरणीयम् ।
स्तु (to praise ) – (स्तौति, स्तवीति) - स्तुतः, स्तुतवान्,
स्तुवन् स्तूयमानः, स्तुत्वा, (संस्तुत्य), स्तोतुम्,
स्तोतव्यम्, स्तवनीयम् ।
9
नम् (to salute) – नमति = नतः, नतवान्, नमन्, नम्य-
मानः, नत्वा, (प्रणम्य) नन्तुम्, नन्तव्यम्, नम्यम् ॥
६) पर्यायाः-</p>
<lg>
  <l>असुरः १० - असुरा दैत्य दैतेय दनुजेन्द्रारि दानवाः ।</l>
  <l>शुक्रशिष्याः दितिसुताः पूर्वदेवाः सुरद्विषः ॥</l>
</lg>
<p>8</p>
<pb n="55" />
<p>50
संस्कृतद्वितीयादश
महात्मा @ महाशयः- उदारचित्तः, दयालुः, noble minded
त्रिविष्टप " heaven
परिस्लान a faded; withe-
हृदयङ्गम a &ttractive [red ।तुमुल a fierce
दानव m demon
अन्वयुञ्जत 4 युज् with अनु
&sked, questioned
सुमनस् m god
रोदसी n sky and earth
अस्थि n bone
वज्र " thunderbolt
परासु a devoid of life
त्वष्ट्र m divine architect
शक्रपुरोगम & headed
by Indra
आयोधन n battle
ककुभ् / direction,
व्यतिकर m occurance
जिष्णु m Indra
रणधुरा f brunt of the
battle
वृत्रहन् m Indra, the
destroyer of वृत्र</p>
<note>१६. मधुकराः</note>
<lg>
  <l>मधु स्वदन्तो मधुरं स्वनन्तः</l>
  <l>सुमात् सुमं समदं भ्रमन्तः ।</l>
  <l>मधुव्रताः पुष्परजोविकीर्णाः</l>
  <l>सौन्दर्यसारा इव भान्ति सृष्टेः ॥</l>
</lg>
<p>गुञ्जन्ति गायन्ति परिभ्रमन्ति
माद्यन्ति मञ्जन्ति सुमोदरेषु ।
quarter
लिहन्ति सौमं मधु विद्रवन्ति
मिलन्ति खेलन्ति च मत्तचित्ताः ॥</p>
<pb n="56" />
<p>पोडशः पाठः- मधुकराः</p>
<lg>
  <l>उच्चावचं पुष्परसं निपीय</l>
  <l>निधाय चैनं मधुकोशपत्रे ।</l>
  <l>तन्वन्ति तावत् स्वयमात्मतृप्तिं</l>
  <l>धिन्वन्ति पश्चाद्भुवनं च तेन ॥</l>
</lg>
<lg>
  <l>बाला: पडङ्घीननुकृत्य नित्यं</l>
  <l>नानाविधात् पुस्तकपुष्पवृन्दात् ।</l>
  <l>सञ्चिन्वते ज्ञानरसं रसाग्रयं ॥</l>
  <l>सम्मोदयन्ते च जगत् समग्रम् ॥</l>
</lg>
<note>१. बालाः षडङ्घीननुकुर्वन्ति, पुस्तकपुष्पात् रसं</note>
<p>सञ्चिन्वन्ति च । २) मधुकराः पुष्पेभ्यो मकरन्तं
लिहन्ति, परेषां तृप्तिं तन्वन्ति च ।
51
१) प्रश्नाः – १. मधुवताः क इव भान्ति ? २. ते किं कुर्वन्ति ?</p>
<note>३. मधुव्रताः स्वयं किं लभन्ते ? ते पश्चात् किं कुर्वन्ति ?</note>
<note>५. बालाः षडङ्घीननुकृत्य किं कुर्वन्ति ?</note>
<p>२) शत्रन्तैः पदैः वाक्यानि पूरयत-</p>
<note>१. वसन्ते चूताङ्कुगन् ( सु+अद् ) पिकाः मधुरं गायन्ति ।</note>
<p>२) रामकथानादं (श्रु) कः परां मुदं न याति ।</p>
<note>३. मधुकराः पुष्पेभ्यो मधु (लिह्) ... मधुरं गुञ्जन्ति ॥</note>
<p>३) प्रयोगं विपरिणमयत -
४) उपसर्गयोगादर्थ भेदः -
-</p>
<p>चि-चिनोति, चिनुते, निश्चिनोति, परिचिनोति, विचिनोति ।
सञ्चिनोति - एवमात्मनेपदेऽपि द्रष्टव्यम् ।
मद् – माद्यति । उन्माद्यति, प्रमाद्यति ॥</p>
<pb n="57" />
<p>संस्कृत द्वितीयादर्श
लिहू to lick – ( लेढि, लोढे) । लोढः, लीढवान्, लीढन्,
लिहानः, लिह्यमानः, लीढ़वा, (अवलिय) लेदुम्,
लेढव्यम्, लेहनीयम्, लेह्यम् ॥</p>
<p>६) गृह्णन्, चिन्वन् तन्वन् वृण्वन् शृण्वन् वृणन्,
एषां शत्रन्तानां लटि प्रथमपुरुषैकवचने रूपाणि निर्दिशत ॥
७) पर्यायाः-
52
५) कृत्प्रत्ययान्ताः-</p>
<lg>
  <l>मधु ३ - मधु क्षौद्रं माक्षिकम् ...</l>
  <l>मधुकरः ९- मधुव्रतो मधुकरो मधुलिण्मधुपालिनः ।</l>
  <l>द्विरेफपुष्पलिङ्भृङ्ग षट्पदभ्रमरालयः ॥</l>
  <l>मकरन्दः ४–मकरन्दः पुष्परसः परागः सुमनोरजः ॥</l>
</lg>
<p>>
मधु "
मकरन्दु 976
सुम a flower
मधुव्रत m bee
पुष्परजोविकीर्ण: a
उच्चावच a various
bes -
मधुकोश m bee hive
meared with_pollen । तावत् in. firstly, before
सौन्दर्यसार m essence of doing anything else
} Honey
लिहन्ति P. lick [flower
सौम & pertaining to a
विद्रवन्ति P. go &w&y
मिलन्ति P. assemble
गुञ्जन्ति P. hum [beauty । धिन्वन्ति P. please
मज्जन्ति P. dive into
षडङ्घ्रि m bee
सुमोदर " the inner part सञ्चिन्वते A gather
of a flower
-
together
रसाश्रय the best of रसs
लघुडाइतिf the stroke of
& stick.</p>
<pb n="58" />
<p>सप्तदशः पाठः नगरम्
53
नगरम्
किं नाम नगरम् ? यत्र सहस्रशो जनानामधिवासः,
नैकविधानां गृहाणां श्रेणयः, विविधा राजकीयाः कार्यालयाः
विविधविद्याग्रहणोपयुक्ता विद्यालयाः, नानाविधैः ऋथ्यैर्वस्तुभि -
रलंकृताः पण्यवीथिकाच विद्यन्ते तन्नगरम् । नैकविधा देवालयाः,
पुष्पोद्यानानि, प्रमदवनानि, कूपाः, तटाकानि, अन्यान्यपि
जनानामुपयुक्तानि तानि वस्तूनि नगरेषु सुलभानि ।
यद्यपि ग्रामवासः सुखतरस्तथापि पत्तनेषु विद्याया व्यवसायस्य
8</p>
<pb n="59" />
<p>54
संस्कृतद्वितीयादर्श
वाणिज्यस्य च सम्पत्तावस्ति सौकर्यातिशयः । प्रधानभृताः
जीविकार्जनोपायाः सर्वे नगरेष्वेव सुलभाः । अतोऽद्यत्वे जनाः
प्रायेण ग्रामान् परित्यज्य नगराण्यधिवसितुमिच्छन्ति ॥
नगराणि नानाविधैः सुधालिप्तैर्भवनैरुपशोभन्ते । पञ्च-
षाभिर्भूमिकाभिरुपनिबद्धान्युन्नतानि भवनानि मुम्बा, दिल्ली
वाराणसी, कालिघट्ट, मद्रपुरी प्रभृतिषु प्रधाननगरेषूपलभ्यन्ते ।
अमेरिकाखण्डे केषुचिन्नगरेषु विंशत्या त्रिंशता वा भूमिका-
भिरलंकृतान्यभ्रंलिहानि रम्माणि हर्म्याणि समुल्लसन्ति । भारत-
वर्षीयेषु नगरेष्वेतादृशानि वेश्मानि दुर्लभान्येव । तत्रापि
ग्रामेषु प्रायेण कुटीरकल्पान्यल्पीयांस्येव गृहाणि नियन्ते ॥
चित्रमवलोक्यताम् – नगरस्यैका रथ्या तत्र दृश्यते ।
स्थ्यायाः पार्श्वे केचिद्गृहाः समलोक्यन्ते । यद्यपि ते नातीवो -
नतास्तथापि सुधाधवलाः पवनप्रवेशक्षमैर्वातायनैरुपेताः शुचयः
सुन्दराय वर्तन्ते । एतादृशेषु गृहेषु वसन्तो जनाः पुरवास-
सुलभैरामयैर्न परिभूयेरन् । रथ्याया परिसरे केचिद्दीपस्थाणवो
दृश्यन्ते, येषु निशामुखे दीपाः प्रज्वाल्यन्ते । तेन तत्र जनानां
रात्रौ सञ्चारः सुकरो भवति । अद्यत्वे नगराणिप्रायेण
विद्युत्प्रदीपैरुद्योतन्ते ॥
नगरेषु गतागतार्थ जनैर्विविधानि वाहनान्युपयुज्यन्ते ।
वृषभशकटमवशकटं च सर्वसाधारणं वाहनम् । धनिनस्तु
भूयस्तया पाश्चात्यदेशीयानि यानान्युपयुञ्जते । ग्रामेषु
वसतां जनानामीदृशानि सौकर्याणि दुर्लभानि ॥</p>
<pb n="60" />
<p>सप्तदशः पाठः-नगरम्
१) प्रश्ना:- १. ग्रामापेक्षया नगरेषु कीदृशाः सौकर्यातिशया:?</p>
<note>२. नगरेषु कीडशानि गृहाणि विद्यन्ते ? ३. चित्रे किमवलो-</note>
<p>क्यते ? ४. क्रीडशानि सौकर्याणि ग्रामेषु दुर्लभानि ?
२) प्रयोगं विपरिणमयत-
१) अद्यत्वे जनाः नगराण्यधिवस्तुमिच्छन्ति ।</p>
<lg>
  <l>२) चित्रेऽस्मिन् नगरस्यैका रथ्या दृश्यते ।</l>
  <l>३) रथ्यायाः पाश्र्वं केचिद्गृहां अवलोक्यन्ते ॥</l>
</lg>
<p>३) वसति, अधिवसति- अनयोः प्रयोगे विशेषं दर्शयत ।
४) कृत्प्रत्ययान्ताः-
लिपू to overspread – (लिम्पति) = लिप्तः, लिप्तवान्,
लिम्पन्, लिप्यमानः, लिप्त्वा, (विलिप्य) लेप्तुम्,
लेप्तव्यम्, लेपनीयम् ।
वसन्,
वसू to dwell — (वसति) = उषितः, उषितवान्,
उष्यमानः, उषित्वा, (अध्युष्य) वस्तुम्, वस्तव्यम्,
वसनीयम् ॥
५) अतिशायनार्थकानि विशेषरूपाणि-
ज्यायान्
वर्षीयान्
यवीयान्
कनीयान्
अल्पीयान्
कनीयान्
वृद्धः
युवा
अल्पः
19
६) विंशतिः त्रिंशत्
अशीतिः, नवतिः,
{
55
>
चत्वारिंशत् पञ्चाशत्
शतम् - एतैः वाक्यानि रचयत ॥
ज्येष्ठः
वर्षिष्ठः
यविष्ठः
कनिष्ठः
अल्पिष्ठः
कनिष्ठः
षष्टिः, सप्ततिः,.</p>
<pb n="61" />
<p>56
संस्कृतद्वितीयादर्श
७) पर्यायाः
नगरम्
आपण:</p>
<lg>
  <l>५ - पू: (स्त्री) पुरीनगर्यो वा पत्तनं पुटमेशनम् ।</l>
  <l>४ - आपणस्तु निषद्यायां विपणिः पण्यवीथिका ॥</l>
</lg>
<lg>
  <l>सुन्दरम् १२ - सुन्दरं रुचिरं सुषमं साधु शोभनम् ।</l>
  <l>कान्तं मनोरमं रुच्यं मनोक्षं मञ्जु मञ्जुलम् ॥</l>
</lg>
<p>कय्य a merchandise
(अखंलिह a touching the
sky
कुटीरकल्प a nearly equal
to a hut
-
पुष्पोद्यान flower garden
प्रमदवन % pleasure
garden
श्रेणय: Rows
व्यवसाय m industry
वाणिज्य % trade
सम्पन्ति / accomplishment
सौकर्य % convenience
जीविका / livelihood
अद्यत्वे in. now -&-days
सुधालिप्त a white washed
भूमिका f storey, stair
वातायन % window
आमय m disease
रथ्या f Road
। निशामुख beginning of
n
night
विद्युत्प्रदीप m electric
light
पाश्चात्यदेशीय o of western
a
countries
यान % Vehicle.</p>
<note>१८. आहारः</note>
<p>अस्त्यस्माकमुदरे विलक्षणः कचिदग्भिः, योऽन्तः स्थितः
शरीरमखिलमुष्णायति । तस्य चाग्नेरिन्धनमाहारो भवति ।
आहार एव रक्तमांसरूपेण परिणतो देहस्य बलं जनयति ॥
सोऽयमाहारः सात्त्विक, राजसः, तामस इति त्रिविधः ।
सात्त्विको नाम रस्यः स्निग्बो मधुरः शुचित्र । स चायुः सत्त्वं
बलं बुद्धि सुखमारोग्यं च पुष्णाति ॥</p>
<pb n="62" />
<p>अष्टादशः पाठः – आहारः
57
राजसो नामातिकटुरत्यम्लोऽत्युष्णस्तीक्ष्णो रूक्षो विदाही
च । स च शौर्यमहङ्कारं दादर्थं कामं क्रोधं शोकं चोत्पादयति ॥
तामसस्तु यातयामो गतरसः पूतिः पर्युषितो जुगुप्सि-
तश्च । अयमेव राक्षसाहारो नाम । अयमाहारो मनुष्याणां मदं
मात्सर्यमभिमान महङ्कारं दम्भं च तनोति ॥
यथा हि दुष्टो वायुः अशुद्धं जलं च नानाविधानामाम-
यानां प्रभवो भवति तथैव कुत्सित आहारोऽपि । तस्मात्
सात्त्विक एवाहार: प्रशस्ततमः । सैनिकास्तु राजसमप्याहारं
गृह्णन्तो न दुष्यन्ति । तामस आहारस्तु सर्वथैव त्याज्यः ॥
भारतीया वयं शाल्यन्नमश्नीमः । यौरोपास्तु गोधूमं
बाहुल्येनोपयुञ्जते। शाल्यन्नापेक्षया मुद्गो माष आढको गोधूमश्च
बलकारी भवति । ऋषयः कन्दैर्मृलैः फलैः पर्णैरद्भिश्च जीवन्ति ॥
अत्यधिकमत्यल्पं च न भोक्तव्यम् । अत्यल्पभोजन मग्निं
ज्वलयितुं न पर्याप्नोति । अत्यधिकं भोजनमजीयत अग्निं मन्दी
करोति । तस्मान्मितमेव भोजनं हितकारि भवति । यावता
भुक्तेन भुन्निवृत्तिर्जायेत तावदेव भोक्तव्यम् । तदेव मितभोजनं
नाम । केचित्त्वपेक्षितादधिकं भुञ्जते । बुद्धिमन्तस्तु न भोज-
नार्थ जीवन्ति, किन्तु जीवनार्थं भुञ्जते ॥
१) प्रश्नाः- - १. त्रिविधा आहाराः फे? २. तेषां गुणाः कीदृशाः?</p>
<note>३. कुतः सात्विक एवाहारः प्रशस्ततमः ? ४. शाल्यन्नापेक्षया</note>
<p>के वलकारिणः १५ कस्मादत्यधिकमत्यल्पं च न भोक्तव्यम् ?</p>
<note>६. मितभोजनं नाम किम् ?</note>
<p>—</p>
<pb n="63" />
<p>संस्कृतद्वितीयादर्श
58
२) प्रयोगं विपरिण मयत
१) स आयुः सत्वं बलं वृद्धिं सुखमारोग्यं च पुष्णाति ।
२) अयं मनुष्याणां मर्द मात्सर्यमभिमानमहङ्कारं च तनोति ।
३) केचिदपेक्षितादधिकं भुञ्जते ।
३) अतिशायनार्थकैः पदैः वाक्यानि पूरयत-
१) राजसादाहारात् सात्विक आहारः (प्रशस्तः) ।
२) गुडापेक्षया शर्करा (मधुर ) ।
३) पक्षिणां मध्ये हंसः ( चारु) ।
४) यन्, यान्, ध्नन्, वनन्, लिम्पन्- एपां शत्रन्तानां
लटि प्रथमपुरुषैकवचने रूपाणि निर्दिशत ॥
५) कृत्प्रत्ययान्ताः-
भुज to enjoy - (भुङ्क्ते) = भुक्तः, भुक्तवान्, भुखानः
भुज्यमानः, भुक्त्वा, ( उपभुज्य), भोक्तुम्, भोक्तव्य::
भोजनीयः, भोज्यः ।
युज् to unite — (युङ्क्त) • युक्तः, युक्तवान्, युञ्जानः,
युज्यमानः, युक्त्वा (प्रयुज्य), योक्तुम् योक्तव्यम्,
योजनीयम्, योज्यम् ।
,
9
न्यज् to abandon-(न्यजति) = त्यक्तः, त्यक्तवान्, त्यजन्,
त्यज्यमानः, त्यक्त्वा, (परित्यज्य) त्यक्तुम् व्यक्तव्यः,
त्यजनीयः, त्याज्यः ।
भुज to worehip - (भजति) = भक्तः, भक्तवान्, भजन्,
भज्यमानः, भुक्त्वा, (विभज्य), भुक्तम्, भक्तव्यम्,
भजनीयम् ॥
६) पर्यायाः-
>
आहारः ३ – भोजनं जग्धिराहाराः ।
कवलः
१ - ग्रासस्तु कवलः पुमान् !!
उदरम् ५ - पिचण्डः कुक्षिरुदरं तुन्द्रं च जठरोऽस्त्रियाम् ।</p>
<pb n="64" />
<p>एकोनविंशः पाठः
विलक्षण a strange, extra-
ordinary
इन्धन n fuel
रस्य @_juicy, sapid
स्निग्ध a oily
अत्यम्ल a very sour
तीक्ष्ण a hot
- समुद्रः प्रवहणं च
प्रभव m source
अतिकटु a very pungent । शाल्यन्न % rice
or acrid । गोधूम m wheat
मुद्र m green-gram
माष m pulse ; black-
आढक m dhal
कन्द bulbous root
infl&mmation ! क्षुध् / hunger
रूक्ष a astringent
विदाहिन् m causing
यातयाम a stale, used
पूति a foul smelling
पर्युषित o not fresh
जुगुप्सित a detested
59
[gram</p>
<note>१९. समुद्रः प्रवहणं च</note>
<p>समुद्रो नामातिविस्तीर्णोऽदृश्यमानपार: सुतरां अगा-
घोऽम्भसां राशिः । स च क्वचित् क्वचित् क्रोशत्रयमगाधो
वर्तते । समुद्रेषु वात्योत्पादितास्तरङ्गाः सततमुद्भवन्ति । अतस्ते
दुखगाहाः ॥
समुद्रेषु नैक विधानि यादांसि प्रतिवसन्ति । भूमौ
निवसतां प्राणिनां मध्ये गजा एव गरिष्टा बलिष्ठाव । अच्छौ तु
ततोऽपि महीयांसौ बलीयांसश्च तिमिङ्गलाख्या जलचराः सन्ति ।
ते तदा तदा जलस्योपरि प्लवमानाः सांयात्रिकाणां द्वीपश्रममु
त्पादयन्ति । शश्वच्च वालप्रहारेण ते महानौका अपि मजयन्ति ।</p>
<pb n="65" />
<p>संस्कृतद्वितीयादर्श
नानाविधा महान्तो मत्स्याः सागरे विद्यन्ते । धीवराः
प्लवैः सागरं प्रविश्य जालैस्तान् वध्नन्ति । मूल्यवन्ति रत्नानि
प्रवालानि मुक्ताफलानि च समुद्रेषु जायन्ते । अत एव तेषां
रत्नाकरव्यपदेशः ॥
60
वयं नदीनकाभिस्तरामः । पारावारास्तु कल्लोलेराकुलाः
नौभिस्तरीतुं न शक्याः । अतस्तत्र प्रवहणैः सञ्चरन्ते जनाः ।
प्रवहणेषु कानिचिद्वायुना नीयमानानि कानिचिद्राष्पशक्त्या
चाल्यमानानि च । यथैव स्थले बाप्पशकटानि तथैव जले
बाप्पप्रवहणान्युपयुज्यन्ते ॥
'</p>
<pb n="66" />
<p>एकोनविंशः पाठः - समुद्रः प्रवहणे च
61
उपि।
वायुना प्रेर्यमाणं प्रवहणं काचिद्वात्याभिहतं निमज्जे-
बाप्पप्रवणेषु सञ्चरतां जनानां नैतादृशं महवयं
विद्यते बाप्पप्रवहणानि स्तम्भदीपः निर्दिश्यमान मागण्येक्रया
होरया वियत्यधिकान् क्रोशान् प्रयान्ति । अतो बाप्पप्रवहणेश
प्रान्त जनाः सुदूराण्यपि द्वीपान्तराणि कतिपयैरेव दिवः
प्राप्तुं शक्नुवन्ति ॥
?
१) प्रश्ना : – १ को नाम समुद्रः कुतः समुद्राः दुरवगाहाः</p>
<note>२. समुद्रेषु कीदृशानि यादांसि प्रतिवसन्ति ? ३. कुतस्तेषां</note>
<p>रत्नाकरव्यपदेशः ? ४. तत्र कैः सञ्चरन्ते जनाः ?
द्वीपान्तराणि अतिशीघ्रं प्राप्तुं कथं शक्नुवन्ति जनाः ?</p>
<note>६. केषु सञ्चरतां जनानां भयं जायते ? केषु न ?</note>
<p>निर्दिष्टानां क्रियापदानां णिजन्नरूपैः वाक्यानि पूरयत
१ वात्या समुद्रेषु पर्वतोन्नतांस्तरङ्गान् (उत्पद्यते) ।</p>
<note>२. तिमिङ्गिलाः समुत्रेषु सञ्चरतां भयं ... ( जायते) ।</note>
<note>३. प्रवहणानि जनान् खण्डान्तराणि ( प्राप्नोति ॥</note>
<p>३) अतिशायनार्थकैः पवाक्यानि पूरयत-
( पृथु) 1</p>
<note>१. जलाशयेषु समुद्रः</note>
<note>२. तिमिङ्गिलेभ्यस्तिमिङ्गिलगिला:... (बलवत् ) ।</note>
<lg>
  <l>३. पर्वतेषु हिमालयः... (स्थूल) ।</l>
  <l>४) समानार्थकाः – सुतराम्, नितराम्, अतितराम् ॥</l>
</lg>
<p>१५) उपसर्गयोगादर्थभेदः-
मज्जू – मज्जति उन्मज्जति, नितजति ।
तृ - तरति । अवतररांत, वितरति उत्तरति, निस्तरति ।
5</p>
<pb n="67" />
<p>62
संस्कृतद्वितीयादर्श
६) कृत्प्रत्ययान्ताः-
वृ to cro88 - (तरति) =तीर्णः, तीर्णवान्, तरन्, तीर्यमाणः,
तीर्खा, (अवतीर्य), तर्तुम् तरितुम्, तरीतुम्, तर्तव्यम्,
तरितव्यम्, तरीतव्यम्, तरणीयम्, तार्थम् ।
कृ to scatter — (किरति) = कीर्ण:,
कीर्यमाणः, कीत्व (विकीर्य), कर्तुम्
कीर्णवान्, किरन्,
करितुम् करीतुम्,
+
-</p>
<p>कर्तव्यम्, करितव्यम्, करीतव्यम्, करणीयम्, कार्यम् ॥
७) पर्यायाः-
क्रोश m two miles
धात्या f strong wind
तरङ्ग m Wave
यादस् " Water-animal
a
पारावार )
तिमिङ्गिल १m a kind of
fish which swallows
a तिमि
सांयात्रिक m merchant
trading by sea
,
समुद्रः १५–समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।</p>
<lg>
  <l>उदन्वानुद्धिः सिन्धुः सरस्वान् सागरोऽर्णवः ।</l>
  <l>रत्नाकरो जलनिधिः यादः पतिरपां पतिः ॥</l>
</lg>
<p>१२ - नदी सरित् ।
नदी</p>
<lg>
  <l>तरङ्गिणी शैवलिनी तटिनी हादिनी धुनी।</l>
  <l>स्रोतस्वती द्वीपवती स्रुवन्ती निम्नगापगा ॥</l>
</lg>
<p>m Ocean
शश्वत् in often
वालप्रहार / stroke of
महानौका / & big ship
धीवर m fisherman
प्लव m raft
[tail
प्रवाल m विद्रुम coral
मुक्ताफल " मौक्तिकं pearl
m high wave
प्रवहण % vessel
स्तम्मदीप १८ Light house
होरा f an hour.</p>
<pb n="68" />
<p>TELE
shetation
विंशः पाठः – शकटम्
63</p>
<note>२०. शकटम्</note>
<p>अत्रैकं शकटं त्रजति । इदं वृषभशकटम् । यदश्वैरुह्यते
तदश्वशकटम् । यद्भाष्पशक्त्या गच्छति तद्वाष्पशकटम् । तस्यैव
धूमशकटमिति नामान्तरम् । केषुचिदेशेषु श्वानोऽपि शकटानि
वहन्ति । क्वचिन्महिषा अपि शकटेषु बध्यन्ते ॥
शकटेऽस्मिन् द्वौ वृषभौ नियुक्तौ । केषुचिच्छकटेष्वेकोऽपि
वृषभो नियुज्यते । पश्य, शकटस्य द्वे चक्रे स्तः । चक्रं परितः
स्थितो भागः नेमिरित्युच्यते । चक्रयोर्मध्ये मण्डलाकारेण
दृश्यमानो भागश्चक्रनाभिः । नेमेश्चक्रनाभेश्चान्तराले द्वादशार:
।</p>
<pb n="69" />
<p>संस्कृतद्वितीयादर्श
प्रोताः सन्ति । प्रायेण चक्राणि द्वादशाराणि क्रियन्ते
चक्रद्वयस्य नाभिरन्ध्रयोस्तिर्यगक्षदण्डः सङ्घटितः । तस्मिन्नश-
दण्डे शकटस्य भारस्तिष्ठति ॥
वृष्टेरातपस्य च वारणाय शकटं कटमयेन पटलेनाच्छाद्यते ।
तेन शकटं जनानां सञ्चाराय योग्यं भवति । बहवो जनाः
शकटैर्गतागत कुर्वन्ति । भारवन्ति भाण्डान्यपि शकटमागेप्य
देशादेशं नयन्ति । अद्यत्वे तु भूयस्तया वाष्पयानैरेव गतागतं
कुर्वन्ति जनाः ॥
चित्रमवलोक्यताम् ! तत्र शकटस्य पुरोभागे स्थितो
बालः शाकटिकः । स रथ्यायां शकटं नयति । यदा स शक
शीघ्रं नेतुमिच्छति तदा कशया वृषौ ताडयति । तदा तो द्रुतं
गच्छतः । यदा शकटं स्थापयितुमिच्छति तदा स नासारज्ज्वा
वृषौ पश्चादाकर्षति । तदा तौ तिष्ठतः ॥
अयं शाकटिकः पूर्वमतीव दरिद्र आसीत् । तदा स
कस्यचिद्धनिनो गृहे कर्म कुर्वन् प्रत्यहं केवल माणकचतुष्कं
बेतनमलभत । अथापि स बुद्धिमान्; यतः स लब्धस्यार्ध
स्वजीबिकायै व्ययीकुर्वन्नपरमर्धं रक्षति स्म । तथा रक्षितं च
तद्नं वर्षद्वयेन रूप्यकशतम् अभवत् । पश्चादसौ बालस्तेन
धनेनेदं शकटमिमौ वृषभौ चाक्रीणात् । सम्प्रत्ययं प्रतिदिनं
द्वित्राणि रूप्यकाण्यर्जयन् सुखेन जीविकां निर्वर्तयति ॥</p>
<pb n="70" />
<p>विंशः : पाठ:-
शकटम्
65
१) प्रश्नाः – १. के शकटानि वहन्ति ? २. शकटस्यावयवाः के ?</p>
<note>३. शकटस्य प्रयोजनं किम् ? ४. शकटस्य पुरोभागे स्थितः</note>
<note>५. स कथं शकटं नयति ? ६. कथं स्थापयति ?</note>
<note>७. इस शाकटिकमधिकृत्य किं जानीध्ये ?</note>
<p>२) योगं विपरिणमयत-</p>
<note>२. चदश्वैरह्यते तद्श्वशकटम् ।</note>
<note>२. कचिन्महिषा अपि शकटेषु वध्यन्ते ।</note>
<note>२. असो वाल इदं शमिमौ</note>
<p>३) शानजन्तैः पढ़: वाक्यानि पूरयत-
चाक्रीणात् ॥
प्राणान् विजहौ ।</p>
<note>१. दधीचः आत्मनः शरीरं बहुमन्.</note>
<note>२. आरुणिः क्लिश्... कञ्चिदुपायमपश्यत् ।</note>
<note>३. पिक: सहकारस्य शाखायां आस्... मधुरं कूजति ।</note>
<note>४. गुरोराशां ह... शिष्याः श्रेयांसि बिन्दन्ते ॥</note>
<p>800
४) कृत्प्रत्ययान्ताः-
नी to carry - (नयति, नयते) =नीतः, नीतवान्, नयन,
नीयमानः, नीत्वा, (अनुनीय), नेतुम्, नेतव्यम्
नयनीयम्, नेयम् ।
लभ् to get – ( लमते) = लब्धः, लब्धंवान्, लभमानः,
लभ्यमानः, लब्ध्वा, (उपलभ्य), लब्धुम् लग्धव्यम्,
लम्भनीयम् लभ्यम् ॥
४) उपसर्गयोगादर्थभेदः -
बन्धु - वध्नाति अनुवध्नाति, उद्ध्नाति, निर्वध्नाति,
प्रतिबध्नाति, सम्बध्नाति, आवध्नाति ॥</p>
<pb n="71" />
<p>66
६) पर्यायाः-</p>
<lg>
  <l>यानम् ५ – सर्व स्याद्वाहनं यानं युग्मं पत्रं च धोरणम् ।</l>
  <l>सर्वतः ४ - समन्ततस्तु परितः सर्वतो विष्वगित्यपि ॥</l>
</lg>
<p>संस्कृतद्वितीयादर्श
बाप्प m. n vapour, steam । तिर्यक् in. horizontal
नेमि n the circumference
अक्षदण्ड m axle
कट m mat
of a wheel
अर m spoke
प्रोत a fastened
पटल n roof
वेतन 18 wage.</p>
<note>२१. दैवं पुरुषकारश्च</note>
<lg>
  <l>दैवं फलति सर्वत्र न विद्या न च पौरुषम् ।</l>
  <l>पाषाणस्य कुतो विद्या येन देवत्वमागतम् ॥</l>
</lg>
<p>तथापि तावत्-</p>
<lg>
  <l>न दैवमिति सञ्चिन्त्य त्यजेदुद्योगमात्मनः ।</l>
  <l>अनुद्योगेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥</l>
</lg>
<lg>
  <l>यथा होकेन चक्रेन न रथस्य गतिर्भवेत् ।</l>
  <l>तथा पुरुषकारेण विना दैवं न सिध्यति ॥</l>
</lg>
<lg>
  <l>उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः ।</l>
  <l>न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखं मृगाः ॥</l>
</lg>
<lg>
  <l>विहाय पौरुष यो हि दैवमेवावलम्वते ।</l>
  <l>प्रासादसिंहवत् तस्य मूर्ध्नि तिष्ठन्ति वायसाः ॥</l>
</lg>
<pb n="72" />
<p>एकविंशः पाठः – दैवं पुरुषकारश्च</p>
<lg>
  <l>नात्युच्चशिखरो मेरुर्नातिनीचं रसातलम् ।</l>
  <l>व्यवसायद्वितीयानां नाप्यपारो महोदधिः ॥</l>
</lg>
<lg>
  <l>उद्योगिन पुरुषसिंहमुपैति लक्ष्मी</l>
  <l>देवेन देयमिति कापुरुषा वदन्ति ।</l>
  <l>दैवं निहत्य कुरु पौरुषमात्मशक्त्या</l>
  <l>यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥</l>
</lg>
<p>67
४) कृत्प्रत्ययान्ताः-</p>
<p>१) प्रश्नाः- -१. दैवस्य प्रवलतां पुरुषकारस्य कर्तव्यतां च
सोदाहरणं समर्थयत ? २. वायसाः कस्य मूर्ध्नि तिष्ठेयुः ?</p>
<note>३. दोषः कदा न भवेत् ?</note>
<p>२) प्रयोगं विपरिणमयत-</p>
<note>१. मृगाः सुप्तस्य सिंहस्य मुखं न हि प्रविशन्ति ।</note>
<lg>
  <l>२) लक्ष्मीरुद्योगिनं पुरुषसिंहमुपैति ।</l>
  <l>३) कापुरुषः दैवेन देयमिति वदन्ति ॥</l>
</lg>
<p>३) अतिशायनार्थकैः पदैः वाक्यानि पूरयत-
१) दैव पुरुषकारात् (बलवत् ) ।
२) मतिः वलात् (गुरु) ।
३) दशरथस्य पत्नीनां कौसल्या (वृद्धा ) ।
आप् to obtain –(आप्नोति) = आप्तः, आप्तवान्,
आप्नुवन, आप्यमानः, आप्त्वा, (अवाप्य), आप्तुम्,
आप्तव्यम्, आपनीयम्, आप्यम् ।
स्वप् to sleep—(स्वपिति) = सुप्तः, सुप्तवान्, स्त्रपन्.
सुप्त्वा (सुषुप्य) स्वपितुम्, स्वप्तव्यम्, स्वपनीयम्,
स्वाप्यम् ॥</p>
<pb n="73" />
<p>68
संस्कृतद्वितीयादर्श
५) उपसर्गयोगादर्थभेदः
लम्ब - लम्बते । अवलम्वते, आलम्वते, विलम्बते ॥
६) सञ्चिन्त्य, सञ्चित्य - अनयोरथभेदं निर्दिशत ॥
७) पर्यायाः-
-
भाग्यम् ६ - दैव दिष्टं भागधेयं भाग्यम् स्त्री नियतिविधिः</p>
<lg>
  <l>५ - मेरुः सुमेरुहमाद्री रत्नसानुः सुरालयः ।</l>
  <l>रसातलम् ४–अधोभुवन पाताल वलिसझ रसातलम् ॥</l>
</lg>
<p>पौरुष % manliness प्रासादसिंह m a paiatisi
artificial lion
पाषाण m stone
उद्योग m effort
पुरुषकार m manliness
मनोरथ mambition
रसातल % nether world
अपार & endless
कापुरुष m & wicked man</p>
<note>२२. त्रिशकुमहाराजः</note>
<p>आसीत् पूर्व सूर्यवंशे त्रिशङ्कर्नाम महाराजः, यः स्ववाहु-
बलेन सर्वान् शत्रूनुन्मूल्य सागरपर्यन्तां पृथिवीं शशास। धर्मेण
धगं परिपालयतः सर्वत्र विजयिनस्तस्य मनसि 'अनेन मर्त्य -
देहेनैव स्वर्गारोहणं कार्यम्, इति मनोरथः समजनि। ततः स
तदर्थकं यज्ञं कर्तुमुद्य॒क्तः कुलगुरुं तपोनिधिं वसिष्ठमुपेत्य पोरो-
हित्याय बत्रे । वसिष्ठस्तु तस्य मनोरथमपथे प्रवृत्तं बुद्धवा
तदर्थनां प्रत्याचष्ट ॥
,
तत्प्रत्याख्यानेन विद्धहृदयो राजा वसिष्ठस्य शतं पुत्रा-
नुपेत्य सप्रश्रयमेकशस्तमेवार्थं ययाचे । तेऽपि तद्वचनं नाभ्य-</p>
<pb n="74" />
<p>द्वाविंशः पाठः – त्रिशकुमहाराजः
नन्दन् । तदा रोपाविष्टो राजा परुषवचनैस्तान् भृशमनिन्दत्
तदाकर्ण्य ते क्रुद्धास्तं ' चण्डालो भव' इत्यशपन् ॥
69
ततअण्डालतां गतोऽपि त्रिशकुः कथञ्चिदात्मनो मनो-
रथं साधयितुमिच्छन् वसिष्ठस्पर्धिनं महातपस्विनं विश्वामित्रं
शरणमगच्छत् । विश्वामित्रस्तं वृत्तान्तमाकर्ण्य चण्डालस्यापि
तस्य यज्ञं कर्तुं मतिं व्यधात् । अवदच्च – 'राजन् ! मा भैषीः।
अहं त्वां याजयामि । स्वर्ग तव हस्तगतं जानीहि' – इति ॥
ततः स यज्ञं निश्चित्य ब्राह्मणानामन्त्रयितुं सर्वतः
शिष्यान् प्राहिणोत् । अकरोच्च यज्ञाय महान्तं सम्भारम् । क्लृप्ते च</p>
<pb n="75" />
<p>70
संस्कृतद्वितीयादर्श</p>
<lg>
  <l>दिवसे ब्राह्मणैः सह विश्वामित्रः सुदुष्करं सप्तवन्तु समारभत ।</l>
  <l>देवास्तु स्वाहाकारैराहूयमाना अपि न समागताः ॥</l>
</lg>
<p>तदनु विश्वामित्रः क्रुद्धो यज्ञं परित्यज्य चिरतप्तस्यात्मन-
स्तपसो बलेन त्रिशङ्कं स्वर्गमारोपयामास । इन्द्रादयो दिवौकसः
सदेहं चण्डालं स्वर्गमारोहन्तं वीक्ष्य झटित्यधः पातयामासुः ।
ततस्त्रिशङ्कः 'त्रायस्व माम्, त्रायस्व माम्' इत्याक्रोशन्नपतन ।
अध: पतंच सः 'त्रिशङ्को तिष्ठ ! तिष्ठ !! इत्युक्तवता कोपा-
क्रान्तेन कौशिकेन भूम्याकाशयोर्मध्ये स्थापितः ॥</p>
<lg>
  <l>कर्तव्यमेव कर्तव्यं कर्तव्यं लोकसम्मतम् ।</l>
  <l>अकर्तव्यं तु कुणस्त्रिशकुः स्मर्यतां जनैः ॥</l>
</lg>
<p>,
२) प्रश्नाः - १. त्रिशङ्कः कीदृशो
कीदृशो मनोरथः समजनि ?</p>
<note>४. कः कुतस्तस्य प्रार्थनां</note>
<p>चण्डालो भव इत्यशपन् ?</p>
<note>५. के कुतस्तं</note>
<note>६. ततः राजा किमकरोत् ?</note>
<note>७. स किमुक्त्वा किमकरोत् ? ८. के यज्ञं प्रति न समागताः १</note>
<note>९. तद्नु विश्वामित्रः किं चकार ? १०. ततः किं वृत्तम् ?</note>
<note>११. त्रिशको कथया कि युष्माभिर्गृह्यते ?</note>
<p>२) अधः निर्दिष्टानां धातूनां णिजन्तरूपैः वाक्यानि पूरयत-</p>
<note>१. विश्वामित्रस्त्रिशङ्ङ्कुमहाराजं (यजति – लङ्) ।</note>
<note>२. स महर्षिरात्मनस्तपोवलेन तं स्वर्गे (आरोहति – लङ् ) ।</note>
<note>३. महात्मान आरब्धं कार्यम् अन्तं (गच्छति - लङ् ) ।</note>
<note>४. चण्डालं स्वर्गमारोहन्तं देवा झटित्यधः ( पतति - लङ् ) ।</note>
<note>५. विश्वामित्रस्तं भूम्याकाशयोर्मध्ये ( तिष्ठति – लङ् ) ॥</note>
<p>राजा ?</p>
<note>३. ततः</note>
<p>प्रत्यावष्ट ?</p>
<note>२. तस्य मनसि</note>
<p>स किमकरोत् ?</p>
<pb n="76" />
<p>द्वाविंशः पाठः – त्रिशङ्कुमहाराजः
३) कृत्प्रत्ययान्ताः-
व्य ( to pierce) - विध्यति = विद्धः, विद्धवान्, विध्यन्
विध्यमानः, विध्वा, ( प्रविध्य ) वेधुम्, वेद्धव्यम्,
वेधनीयम्, वेध्यम् ॥
क्रुध् (to be angry) — क्रुध्यति = क्रुद्धः, क्रुद्धवान् क्रुध्छन्,
क्रुध्वा, (संक्रुध्य), क्रोधुम्, क्रोद्धव्यम्, क्रोधनीयम्,
क्रोध्यम् ॥
४) उपसर्गयोगादर्थभेद:-
चक्षु – चष्टे ।
आचष्टे, प्रत्याचष्टे, व्याचष्टे ।
स्मृ – स्मरति । बिस्मरति, संस्मरति ॥</p>
<p>यजमानः २- यष्टा च यजमानश्च !
पुरोहितः ३ - पुरोधास्तु पुरोहितः ॥
यज्ञः
2
५) पर्यायाः-
-
आकाश: १६ – द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करभम्बरम् ।
नभोऽन्तरिक्षं गगनम् अनन्तं सुरवर्त्म खम् ।
वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी ।
उन्मूल्य in having
uprooted
घरा f the earth.
सप्रश्रयम् in respectfully
प्राहिणोत् P. sent
सम्भार m preparation
71
७– यज्ञः सवोऽध्वरो यागः सततन्तुर्मखः क्रतुः ।
क्लप्स @ appointed, pro-
सप्ततन्तु 24 sacrifice [per
स्वाहाकार utterance of
the exclamation arer
दिवौकस् m inhabitant
of heaven</p>
<pb n="77" />
<p>72
संस्कृतद्वितीयादर्श</p>
<note>२३. सहपाठिनां संभाषणम्</note>
<p>कस्मिंश्चिदग्रहारे रामो भीमः श्यामवेति त्रयः सहपाठि
नोऽवर्तन्त । तेषां रामः सुबुद्धिः, भीमो मन्दबुद्धि, श्यामो
दुष्टबुद्धिवासीत् । रामः स्वीयं दैनन्दिनं पाठं काले पठन्नुद्यम-
झाली बभूव । भीमः पठितुकामोऽप्यप्रगल्भ आसीत् । श्यामस्तु
न जातु पठति; किन्तु सहाध्यायिन उपाध्यायं च निन्दन
कालं नयति । एकदा श्यामो भीमस्य गृहमगच्छन् । तत्र
तयोरयं सँल्लापः प्रवृत्तः -
श्यामः – सखे भीम !
HEALTH
अस्माकमुपाध्यायः दुष्टः । सः रामे
नितरां स्त्रियति । आवां च तीव्रं दण्डयति । तत्रापि
मां पदे पदे ताडयति । अतीव शोचनीयमिदम् ॥</p>
<pb n="78" />
<p>त्रयोविंशः पाठः- सहपाठिनां संभाषणम्
73
भीमः– सखे ! न युक्तमुक्तं त्वया । रामः सम्यक् पाठान् पठति ।</p>
<lg>
  <l>उपाध्यायस्य प्रश्नानां युक्ततराण्युत्तराणि च वदति ।</l>
  <l>सुलभ उपाध्यायानामुद्यमशीलेषु च्छात्रेषु पक्षपातः ॥</l>
</lg>
<p>श्यामः- किमावां न च्छात्रौ ?
भीमः – सखे ! आवामपि च्छात्रावेव । किन्तु न पाठाच
पठावः । नाप्युपाध्यायस्य प्रश्नानामुत्तराणि दद्वः ॥
श्यामः – उपाध्याय आवां न सम्यक पाठयति ॥
भीमः – सखे ! तद्व्यसङ्गतम् । एकदैवोपाध्यायो राममावां च
पाठपति, न तु रामं पृथक्तया । तस्मात् त्वदुक्तमयुक्तमेव ।
मन्ये, पठने समादरणीयः साधीयान् कोऽध्युपायः
स्यात्, येन रामः सम्यक् पठति ॥
-
श्यामः - भद्र ! मन्ये, स कामपि यक्षिणीमाराधयति, यस्याः
प्रसादेन स सम्यगधीते ॥
भीमः – गच्छावस्तस्यैवान्तिकम् । तमेव पृच्छावः ॥</p>
<p>(अथ भीमः श्यामश्व, रामस्य गृहं गच्छतः)</p>
<p>भीमः – सखे राम ! त्वया प्रत्यहं पाठाः सम्यक पठयन्ते ।
उपाध्यायस्य प्रश्नानां सम्यगुत्तराणि च दीयन्ते । तत्
कथम् ? अप्यस्ति कश्चिदुपाय: पठने समादरणीयः १
रामः सौम्य ! नात्र विशेषतः कश्चिदुपायोऽस्ति । अहं तावत्
सर्वदोपाध्यास्य वचनं श्रद्धया शृणोमि । श्रुतं च गृहं
गत्वा रात्रौ चिन्तयामि । चिन्तितं च प्रातरुत्थायाव-</p>
<pb n="79" />
<p>संस्कृतद्वितीयादशें
धारयामि । यदि तत्र सन्देह उत्पद्यते तर्हि महाय्यादिनः
उपाध्यायं वा पृष्टा तं विषयमवगच्छामि । तेनाह-
मुपाध्यायस्य प्रश्नानामुत्तरणि दातुं शक्रोनि । अथर्व
कुर्युस्तर्हि सर्वेऽपि च्छात्राः शक्ता भवेयुः । उद्यम एव
विद्यार्थिनां परमो बन्धुः ॥
भीमस्तन्निशम्य तदाप्रभृति तथैवाकरोत् । कतिपयैरेव
दिवसः सोऽपि राम इव बुद्धिमान् बालको वभूव । वास्तु
न केवलं दुष्टबुद्धिः, किन्त्वलसश्वासीत् । नामौ कदाऽप्यपाध्या-</p>
<lg>
  <l>यस्य वचनानि श्रद्धत्ते, न च गृहे जातु पुस्तकमप्युद्धाटयति ।</l>
  <l>स च परेपां प्रतारणेऽत्यन्तं निपुणः ॥</l>
</lg>
<p>74
एकस्मिन दिवसे ते त्रयोऽपि वयस्याः कापि रथ्यायाः
परिसरे क्रीडन्तो बभ्रुवुः । तदा श्यामो राममतिसन्धातु-
मिच्छन् त्रवीति -
व्यामः – सुखे राम! त्वं कर्मशूर इत्युपाध्यायो वदति । अस्तु
तावत् । अपि त्वं मया चक्षुपी निमील्य क्रियमाणं
किमपि कर्म चक्षुपी उन्मील्य करिष्यसि ? कि बीपि
रामः – (साभोदम्) सखे ! कः सन्देहः ? करिष्यामि ॥
श्यामः – सत्यम् ?
रामः – सत्यमेव ॥
-
श्यामः – सखे भीम ! त्वं साक्षी ॥
अहमस्मि साक्षी ॥
●●</p>
<pb n="80" />
<p>त्रयोविंशः पाठः- सहपाठिनां संभाषणम्
75
ततः श्याभो रथ्याया रजः पुञ्जमादाय स्वचक्षुषी निमील्य
तदुपरि प्राक्षिपत् । अत्रवीच्च रामम् - 'सखे ! यन्मया चक्षुषी</p>
<lg>
  <l>निर्माल्य कृतं तत् त्वया चक्षुपी उन्मील्य क्रियताम् ' - इति ।</l>
  <l>रामस्तदृष्ट्वा गृहं प्रति पलायत ॥</l>
</lg>
<p>॥ त्यज दुर्जनसंसर्ग भज साधुसमागमम् ॥
समादृतः
१) प्रश्नाः – १. रामो भीमः श्यामश्च कीडशा बभूवुः ? २. कुत
उपाध्यायो रामेऽस्निात् ? ३. कोऽसाबुपायो रामेण पढने</p>
<note>४. भीमः कथम् उत्तरदाने शक्तः अभवत् ?</note>
<note>५. श्यामो रामं वञ्चयितुमिच्छन् किमकरोत् ?</note>
<p>किं पठ्यते युष्माभिः ?
२) प्रयोगं विपरिषम्यत-</p>
<note>६. अनेन</note>
<note>१. स यक्षिण्याः प्रसादेन सम्यगधीते ।</note>
<note>२. न स उपाध्यायस्य वचनानि श्रद्धते ॥</note>
<p>३) निर्दिष्टेलकारः वाक्यानि पूरयत-</p>
<note>१. उद्यमिनदच्छात्रा उपाध्यायस्य प्रश्नानामुत्तराणि दा.. लट् ।</note>
<note>२. न वयमुन्मत्तानां वचनानि अत् + धा..</note>
<note>३. भृत्यः सायं विद्यालयस्य द्वाराणि पिधा
(पिधत्ते)</note>
<p>...
लट् ॥
४) उपसर्गयोगादर्थभेदः -
दा–ददाति दत्ते। आदत्ते उपादत्ते एवं आददाति इत्यादि ।
धा-दधाति, धत्ते । अतिसन्धन्ते, अपिधत्ते
अभियन्ते, अवधत्ते, विधत्ते, निवते, परिधत्ते, सन्धत्ते ।</p>
<p>एवम् 'अपिदयाति' इत्यादि ।</p>
<pb n="81" />
<p>76
५) कृत्प्रत्ययान्ताः-
संस्कृतद्विती
दा to give - (दाति, दत्ते)
Ja
ददानः दीयमानः, हत्या, (आहाय), दातु, दातव्यम्
दानीयम् देयम् ।
था (to bear) - धाति, धत्ते= हित हितवान् वध,
धीयमानः, हित्वा, (निधाय)
थानीयम् रेयम् ॥
धातुम्
धातव्यम्
६) अतिशायनार्थकानि विशेषरूपाणि-
साधीयान
श्रदान्
वरीयान
मदीयान्
बाढ:
प्रशस्य:
मृदुः</p>
<p>पृथक्ता / separateness
यक्षिणी / female यक्ष or
न जातु in. never [fairy
प्रतारण : deceit
वयस्य m friend
परिसर m vicinity
साधियः
श्रेष्ठः
वरिष्ठः
श्रविष्ठः
७) पर्यायाः-
प्रभातम् ६ प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसी अपि प्रभातं च</p>
<lg>
  <l>विनान्तः ४ दिनान्ते सायं सन्ध्या दिनक्षयः ।</l>
  <l>सखा ६ स्निग्धो वयस्यः सवया अथ मित्रं सखा सुहृत् ॥</l>
</lg>
<p>अतिसन्धातुम् in to
deceive
निमील्य in having shut
उन्मील्य in having
opened
रजःपुञ्ज m heap of dust.</p>
<pb n="82" />
<p>चतुर्विंशः पाठः- गृध्रो मार्जार
5
C.V.has
77</p>
<note>२४. गृध्रो मार्जारश्च</note>
<lg>
  <l>अज्ञातकुलशीलस्य वासो देयो न कस्यचित् ।</l>
  <l>मार्जारस्य हि दोषेण हतो गृध्रो जरद्भवः ॥</l>
</lg>
<p>-
तद्यथा – अस्ति भागीरथीतीरे गृध्रकूटनाम्नि पर्वते
महान् पर्कटीवृक्षः । तस्य कोटरे जराजीणों गलितनखनयनो
'जरद्भवनामा गृत्रः प्रतिवसति । अथ कृपया तज्जीवनाथ तद्वृक्ष-
वासिनः पक्षिणुः स्वाहारात् किञ्चित्किञ्चिद्धृत्य तस्मै ददति ।
तेनासौ जीवति । शावकानां च रक्षणं करोति ॥</p>
<pb n="83" />
<p>संस्कृत द्वितीयादशें
अथ कदाचिद्दीर्घकर्णनामा माजीर: पक्षिशावकान् भक्ष-
यितुं तत्रागतः । तमायान्तं दृष्ट्वा पक्षिशावकैर्भयार्तेः कोलाहल:
कृतः । तच्छ्रुत्वा जरद्द्भवेनोक्तम् – कोऽयमायाति ? दीर्घकणों
गृधमवलोक्य स्वयं समयमाह - ' हा हतोऽस्मि ! अधुनाऽस्य
सन्निधाने पलायितुमक्षमः । तद्यथा भवितव्यं तथा भवतु ।
तावद्विश्वासमुत्पाद्यास्य समीपमुपगच्छामि ' - ॥
78
-
एवमालोच्योपसृत्याब्रवीत् – आर्य !
त्वामभिवन्दे ।
गृधोऽवदत् – कस्त्वम् ? सोऽवदत् - मार्जारोऽहम् । गृध्रो
मार्जारोऽवदत् -
-
ब्रूते — दूरमपसर, नो चेद्धतो भवेस्त्वम् ।
श्रूयतां तावदस्मद्वचनम् । ततो यद्यहं वध्यस्तदा हन्तव्यः ।
गृध्रो ब्रूते — ब्रूहि किमर्थमागतोऽसि ? सोऽवदत् — अहमत्र
गङ्गातीरे नित्यस्नायी ब्रह्मचारी चान्द्रायणवतमाचरंस्तिष्ठामि ।
यूयं धर्मज्ञानरता इति विश्वासभूमयः पक्षिणः सर्व सर्वदा ममाग्रे
प्रस्तुवन्ति । अतो भवद्भयो विद्यावयोवृद्धेभ्यो धर्मं श्रोतुमि
हागतः । भवन्तश्चैतादृशा धर्मज्ञाः यन्मामतिथिं हन्तुमुद्यताः ।
मयाऽपि धर्मशास्त्राण्यधीतानि । गृहस्थधर्मश्चैषः– यदि वा धनं
नास्ति तदा प्रीतिवचसाऽप्यतिथिः पूज्य एव ।
गृध्रोऽवदत् — मार्जारो हि मांसरुचिः ! पक्षिशाबका-
यात्र निवसन्ति । तेनाहमेव त्रवीमि । तच्छ्रुत्वा मार्जारो भूमि
स्पृष्ट्वा कर्णौ स्पृशति । ब्रूते च – मया धर्मशास्त्राणि श्रुत्वा
चीतरागेणेदं दुष्करं व्रतं चान्द्रायणमध्यवसितम् । परस्परं
-</p>
<pb n="84" />
<p>79
चतुर्विंशः पाठः- गृध्रो मार्जारश्च
विवदमानानामपि धर्मशास्त्राणाम् 'अहिंसा परमो धर्मः' इत्यत्रै-
कमत्यम् । एवं विश्वासमुत्पाद्य मार्जारस्तत्कोटरे न्यवसत् ॥
ततो दिनेषु गच्छत्सु पक्षिशाबकानाक्रम्य कोटरमानीय
प्रत्यहं खादति । येषामपत्यानि खादितानि तैः शोकार्तेः
विलपद्भिरितस्ततो जिज्ञासा समारब्धा । तत् परिज्ञाय मार्जारः
कोटरान्निस्सृत्य बहिः पलायितः । पश्चात् पक्षिभिरितस्ततो
निरूपयद्भिरतत्र तस्कोटरे शाबकास्थीनि प्राप्तानि । अनन्तर-
मनेनैव जरहवेनास्माकं शाबकाः खादिता इति सवैः पक्षिभि-
निश्चित्य गृथ्नो व्यापादितः ॥
१) प्रश्नाः – १. जरद्भवः कुत्र प्रतिवसति ? २. केन स जीवति ?</p>
<note>३. दीर्घकर्णः किमर्थ तत्रागतः ? ४. स जरद्गवमवलोक्य स्वयं</note>
<p>किमाह ? ५. कथं तेन विश्वास उत्पादितः ? ६. दिनेषु '
गच्छत्सु किमभूत् ? ७. परिणामश्च कीदृश आसीत् ?
२) प्रयोगं विपरिणमयत -</p>
<note>१. दीर्धकर्ण दृष्टा पक्षिशावकैः कोलाहलः कृतः ।</note>
<note>२. यूर्य धर्मज्ञानरंता इति पक्षिणो ममाने प्रस्तुवन्ति ।</note>
<note>३. मयाऽपि धर्मशास्त्राण्यधीतानि ।</note>
<note>४. सर्वैः पक्षिभिर्मिलित्वा गृध्रो व्यापादितः ॥</note>
<p>३) अतिशायनार्थकः पढ़ः वाक्यानि पूरयत -</p>
<note>१. अल्पविद्यादविद्यः ( प्रशस्ये) ।</note>
<p>(बाढ) ।</p>
<note>२. निःश्रेयसाय कर्ममार्गात् ज्ञानमार्गः</note>
<p>(उरु) ।</p>
<note>३. मूर्खपुत्रात् मृतः पुत्रः</note>
<note>४. सर्वेषु कुसुमेषु शिरीषकुसुमं ... (मृदु ) ॥</note>
<p>www</p>
<pb n="85" />
<p>80
संस्कृतद्वितीयादर्श
४) कृत्प्रत्ययान्ताः-
पढ् to move - (पद्यते, णिजन्तं पादयति) =पादितः, पादि-
तवान्, पादयन, पाद्यमानः, पायित्वा, (सम्पाद्य)
पादयितुम्, पादयितव्यम्, पादनीयम्, पाद्यम् ।
चि to collect – (चिनोति) = चितः, चितवान्, चिन्वन्,
चीयमानः, चित्वा, (विचित्य) चेतुम्, चेतव्यम्,
चयनीयम् चेयम् ॥
५) उपसर्गयोगादर्थभेदः -
पद्- पद्यते । णिजन्तं पादयति । आपादयति । उत्पादयति,
उपपादयति, निष्पादयति प्रतिपादयति, सम्पादयति ॥
६) उपसर्गयोगादात्मनेपदम् – विवदते ॥
७) भवन्तश्चैतादृशा धर्मज्ञाः-
पूजायां बहुवचनम् ॥
८) पर्यायाः-
मार्जारः ५ – ओतुर्विडालो मार्जारः पृषदंशक आखुभुक् ।
पर्कटी ३ - प्लश्नो जटी पर्कटी स्यात् ।</p>
<lg>
  <l>वटः ३ - न्यग्रोधो बहुपाइटः ।</l>
  <l>अतिथि: ४–स्युरावेशिक आगन्तुः अतिथिन गृहागते ॥</l>
</lg>
<p>"
। वीतराग a free from desire
leaved fig-tree
कोटर m. १८. the hollow
or passion
अध्यवसितम् a resolved
of a tree विवदमान o disputing
चान्द्रायणवत n a religious ऐकमत्यम् " unanimity,
observance regulated sameness of opinion
by the waxing and अपत्य % young one
waning of the moon । surarfga a killed.
i
पर्कटीवृक्ष m the wave-</p>
<pb n="86" />
<p>पञ्चविंशः पाठः- हिमालयः</p>
<note>२५. हिमालयः
( श्री काळिदासविरचिते कुमारसंभवे 1st sloka)</note>
<lg>
  <l>अस्त्युत्तरस्यां दिशि देवतात्मा</l>
  <l>हिमालयो नाम नगाधिराजः ।</l>
  <l>पूर्वापरौ तोयनिधी वगाह्य</l>
  <l>स्थितः पृथिव्या इव मानदण्डः ॥</l>
</lg>
<p>81</p>
<p>अस्ति भारतखण्डस्योत्तरस्यां दिशि हिमालयो नाम
महीधरः; यः पूर्वापरौ तोयनिधी बगाह्य स्थितो भारतवर्षस्यो-
दीचीं सीमानमापादयति । यस्य च दैर्घ्यम् अष्टशतं क्रोशाः ।
विस्तारस्तु अवरतः पञ्चसप्ततिः क्रोशाः, परमतः पञ्चाशदुत्तर-
शतम् क्रोशाश्च भवन्ति । दैर्येण वैशाल्येन औन्नृत्येन च
हिमालयोऽयं सर्वान् पर्वतानतिशेते । न केवलं भारतखण्डे,
किन्तु समग्रेऽपि भ्रमण्डले नास्त्येतादृशोऽन्यः पर्वतः । अतोऽयं
'नगाधिराजः' इति स्थाने व्यपदिश्यते ॥
हिमालयोऽयं क्रमश उन्नतोन्नताभिस्तिसृभिः श्रेणीभिः
चकास्ति । तत्र प्रथमा श्रेणि: त्रिसहस्र पदोन्नता महाद्रुमैरा -
कीर्णा अरण्यानी भवति । अथाप्यस्या ऊर्ध्वसानुषु जनाः
प्रतिवसन्ति । 'विविधानि धान्यानि चात्र प्ररोहन्ति ।
द्वितीया श्रेणिः अष्टादशसहस्रपदोन्नता वेणुतुल्यैः दीर्घेस्टर्णः
हिंस्त्रैमृगैश्वाभिव्याप्ता । नात्र जना निवसन्ति ॥</p>
<pb n="87" />
<p>संस्कृतद्वितीयादर्श
तृतीया श्रेणिः परश्शतैरभ्रङ्कपैः शृङ्गैः संशोभते । तेषु
पञ्चचत्वारिंशच्छृङ्गात्यन्तमुन्नतानि । तेषां तुङ्गतमं गौरी-
शङ्कराख्यं शृङ्गं द्व्युत्तर नवविंशतिसहस्त्रं पदान्युच्छ्यने । नास्यां
श्रण्यां वृक्षः प्ररोहन्ति । नापि जन्तवो जीवन्ति । किन्त्वेषा
श्रेणी सर्वकालं शिलाकठिनया हिमान्या प्रावृता वर्तते । या
खलु हिमानी निदाघकाले विलीयमाना वृष्टिमन्तरेणापि
स्रोतस्विनीषु स्रोतांस्यभिवर्धयति । अत एवास्य पर्वतस्य
हिमालयव्यपदेशः ॥
82
भारतीयाः विदेशीयाच महता प्रयत्नेन गौरीशङ्करभृङ्गम्
आरोढुं चिराय प्रायतन्त । तत्र भारतीयाः सुधीराः धीमन्तः
विजयिनः अभूवन् । तेभ्यः राष्ट्रपतिना 'पद्मश्री, 'पद्मभूषण'
इत्यादीनि बिरुदानि दत्तानि । अहो ! भारतीयानां धन्यता ।
हिमालयोऽयं पूर्वपश्चिमप्रान्तयोः क्रमेण अवनतः वर्तते ।
विद्यन्ते च तत्र तिबतदेशप्रापका दुर्गमाः पन्थानः । यद्ययं
सर्वत्राप्यैकरूप्येण तुङ्गोऽभविष्यत् तर्हि तद्वाह्या जनास्तया
दिशा भारतवर्षं प्रवेष्टं नाशक्ष्यन् ॥
हिमाचलादस्माद्भङ्गाप्रभृतयो नद्यः सिन्धुप्रभृतयो नदा-
श्रोद्भूय भारतभूमौ प्रवहन्ति । यो हि वायुना नीयमानान्
मेघान् जलकणांश्च निरुन्धन् नानाविधानां नदीनां प्रभवता -
मृच्छति । भारतवर्षस्य सम्पत्समृद्धौ हिमालय एव मुख्यो
हेतुः । अत एवैनं देवतात्मानमाकलयन्ति भारतीयाः ॥</p>
<pb n="88" />
<p>83
पञ्चविंशः पाठः – हिमालयः
१) प्रश्ना:- १. हिमालयस्य शैलराज इति व्यपदेशः कथं सङ्गच्छते?</p>
<note>२. हिमालयस्य तिस्रः श्रेणीरधिकृत्य किं जानीध्ये ?</note>
<note>३. हिमालयः पूर्वपश्चिमप्रान्तयोः कीदृशो वर्तते ?</note>
<note>४. भारतवर्षस्य सम्पत्समृद्धौ हिमालयः कथं मुख्यो हेतुः ?</note>
<p>भारतीयैः कथम् अयं देवतात्मा आकलितः ?
२) ' ऌङ्' प्रयोगस्योदाहरणानि (Underlined) —
""</p>
<note>१. यदि हिमालयः सर्वत्रैक रूप्येण तुङ्गोऽभविष्यत् तर्हि</note>
<p>तद्राह्या जनास्तया दिशा भारतवर्ष न आगमिष्यत् ॥</p>
<note>२. यदि काले सुवृष्टिरभविष्यत् तर्हि सुभिक्षमभविष्यत् ॥</note>
<p>३) Qae word for :-
महत् अरण्यम् = अरण्यानी । महत् हिमम् = हिमानी ।
४) दिश: चतस्रः (Four Directions) —</p>
<note>१. पूर्वा</note>
<note>२. दक्षिणा or</note>
<p>or प्राची
or ऐन्द्री
अवाची or याम्या
प्रतीची or वारुणी
उदीची or कौवेरी
५) विदिशः चतस्रः (Four Intermediate Directions ) —</p>
<note>३. पश्चिा or</note>
<note>४. उत्तरा</note>
<p>or
East.
Soūth.
West.
North.</p>
<note>१. दक्षिणपूर्वा</note>
<p>or आग्नेयी</p>
<note>२. दक्षिणपश्चिमा or नैॠती</note>
<note>३. उत्तरपश्चिमा or वायवी</note>
<note>४. उत्तरपूर्वा</note>
<p>६) कृत्प्रत्ययान्तीः—
or ऐशानी
South-East.
North-West.
South-West.
North-East.
गाह् to dive into-(गाइते) = गाढः, गाढवान्, गाहमानः,
' गाह्यमानः, गाद्वा, (वगाह्य) गादुम्, गाढव्यम्,
गाहनीयम्, गाह्यम् ।</p>
<pb n="89" />
<p>84
संस्कृतद्वितीयादर्श
वृ to cover – (वृणोति, वृणुते) = वृतः, वृतवान्, वृण्वन्,
वृण्वानः, त्रियमाणः, वृत्वा, (संवृत्य) चरितुम्,
वरितव्यम्, वरणीयम् ॥
७) उपसर्गयोगादर्थभेदः -
रुध् – (रुणद्धि, रुन्धे) =अनुरुणद्धि, अवरुणद्धि, उपरुणद्धि,
निरुणद्धि, विरुणद्धि । एवमात्मनेपदेऽपि ।
कल् – कलयति, आकलयति, विकलयति, सङ्कलयति ॥
८) पर्यायाः-
-</p>
<lg>
  <l>हिमम् ७ – अवश्यायस्तु नीहार: तुषारस्तुहिनं हिमम् ।</l>
  <l>प्रालेय मिहिका...॥</l>
</lg>
<p>संग्त् ४-..संपत् संपत्तिः श्रीश्च लक्ष्मीश्च...
-
महीधर m mountain
तोयनिधि m ocean
उदीची / northarn
सीमन् f boundary
अवस्तः in at least
परमतः in at the most
वैशाल्य n extensiveness
समग्र " entire
स्थाने in rightly
श्रेणी / range
भरण्यानी / large forest
सानु m. n. summit
वेणुतुल्य bamboo like
परः शत a more than &
hundred
touching the
[sky
अभ्रङ्कष
शृङ्ग" peak
तुङ्गतम a the highest
गौरीशङ्कर n the Mount
Everest
सर्वकालम् in always
हिमानी f collection of
snow
स्रोतस्विनी f river, stream
अवनतः a stopping
प्रभवता f the state of
being the source</p>
<pb n="90" />
<p>षड्विंशः पाठः – साधवः
CONTA</p>
<note>२६. साधवः</note>
<lg>
  <l>उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।</l>
  <l>अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥</l>
</lg>
<lg>
  <l>यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः ।</l>
  <l>चित्त वाचि क्रियायां च साधूनामेकरूपता ॥</l>
</lg>
<lg>
  <l>नालिकेरसमाकारा दृश्यन्ते भुवि सज्जनाः ।</l>
  <l>अन्ये बदरिकाकारा बहिरेव मनोहराः ॥</l>
</lg>
<lg>
  <l>श्लोक: सुश्लोकतां याति यत्र तिष्ठन्ति साधवः ।</l>
  <l>लकारो छुप्यते तत्र यत्र तिष्ठन्त्यसाधवः ॥</l>
</lg>
<lg>
  <l>उपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् ।</l>
  <l>सदा लोकहिते युक्ता रत्नदीपा इवोत्तमाः ॥</l>
</lg>
<lg>
  <l>परपरिवादे मूकः परनारीदर्शनेऽपि जात्यन्धः ।</l>
  <l>पङ्गः परधनहरणे स जयति लोके महापुरुषः ॥</l>
</lg>
<lg>
  <l>प्रियप्राया वृत्तिर्विनयमधुरो वाचि नियमः</l>
  <l>प्रकृत्या कल्याणी मतिरनवगीतः परिचयः ।</l>
  <l>पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं</l>
  <l>चरित्रं साधूनामनुपघि विशुद्धं विजयते ॥</l>
</lg>
<p>85</p>
<p>2</p>
<pb n="91" />
<p>86
संस्कृतद्वितीयादर्श
१) प्रश्नाः – १. कः साधुः सद्भिरुच्यते ? २. साधूनामेक रूपता
कथम् ? ३. बहिरेव मनोहरा: के ? ४. 'लकारो लुप्यते तत्र'
कस्य लकारः कुत्र लुप्यते ? ५. 'रत्नदीपा इवोत्तमाः'
कथम् ? ६. ' स जयतिलोके महापुरुषः कः ? ७. साधूनां
चरित्रं कीदृशम् ?
२) प्रयोगं विपरिणमयत-</p>
<note>१. अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ।</note>
<lg>
  <l>२ स जयति लोके महापुरुषः ।</l>
  <l>3. साधूनां यशः सर्वत्र सर्वैः गीयते ॥</l>
</lg>
<p>३) तुमुन्नन्तैः पदैः वाक्यानि पूरयत-</p>
<note>१. आस्तिकः धर्म श्रु आचार्यमुपगच्छति ।</note>
<note>२. साधवः प्राणव्ययेनापि परेषान् उप+कृ यतन्ते ।</note>
<p>..E
तर्हि मांसखण्डं न लभू...
४) 'लङ्' रूपैः वाक्यानि पूरयत-</p>
<note>१. यति जम्बुक: • काकं न स्तु</note>
<note>२. यदि श्यामः सम्यक् पठ्.... तर्हि उपाध्यायस्तं न ता .....</note>
<note>३. यदि सूर्यो न वृत्... तर्हि जगदिदमन्धकारमयं भू... ॥</note>
<p>****
५) दा, धा, मा, स्था, गा, पा, हा-एषां कर्मणि लटि रूपाणि
निर्दिशत ॥
&
>
लुपू (to take &way ) – (लुम्पति, ) to be destroyed
( लुप्यति) = लुप्तः, लुप्तवान्, लुम्पन्, लुण्यमानः, लुप्त्वा,
(विलुप्य) लोप्सुम्, लोप्तभ्यम्, लोपनीयम् लोप्यम् ।
penance – (तपति) = तप्तः, तप्तवान्, तपन्,
तप्यमानः,
तप्त्वा, (सन्तप्य) तनुम्, तप्त्तव्यम्,
तपनीयम्, तप्यम् ॥
तप् to do</p>
<pb n="92" />
<p>सप्तविंशः पाठः- श्री बुद्धदेवः
87
७) उपसर्गयोगादर्थभेदः - जि - जयति । पराजयते, विजयते ॥
८) नानार्था:- साधुर्वाधुंबिके रम्ये सज्जने चाभिधेयवत् ॥
९) पर्यायाः-</p>
<lg>
  <l>सजनः ६ - महाकुल कुलीनार्य सभ्य सज्जन साधवः ।</l>
  <l>सदशः ६- समानस्तु समस्तुल्यः सदृक्षः सदृशः सदृक् ॥</l>
</lg>
<p>साधु a well disposed
सूक m dumb person
चरिका / the fruit of the । जात्यन्ध a born blind
बदरी jujube tree
पगु a lame
स्नेह m oil and affection कल्याणी f agreeable,
or love
पात्र 1% reservoir, also & । अनवगीत & f&ultless
worthy person
दशान्तर % different
lovely
अविपर्यासितरस a with
sentiment unchanged
अनुपधि a devoid of
fraud
state; a lamp
परपरिवाद m blame, stain
·२७. श्री बुद्धदेवः
आसीत् पूर्व प्रायेण पञ्चशताधिकद्विसहस्रवत्सरेभ्यः
प्रागुत्तरभारतवर्षे रोहिणीनधास्तीरे कपिलवस्तुनाम्नि नगरे
शुद्धोदनो नाम शाक्यवंशसमुद्भवः नरपतिः । मायादेवी नाम
राज्ञी तस्य जाया बभूव । तयोरात्मज एव गौतमबुद्धो नाम ।
गौतमबुद्धोऽयं 'सिद्धार्थ' इति 'शाक्यसिंह' इति चाभिधीयते ।</p>
<pb n="93" />
<p>संस्कृतद्वितीयादर्शे
राजसूनुरसौ गुणवान् रूपवान् बलवान् धीरः शूरवासीन् ।
तस्य जननात् परं सप्तमे दिवसे मायादेवी दिवं जगाम । ततः
प्रभृति शुद्धोदन एव तत्संवर्धनपरो बभूव । भविष्यचक्रवर्तिन-
मात्मनः कुमारं महताऽऽदरेण पोषयामास शुद्धोदनः ॥
88
अथ प्राप्तवयस्क : कुमारः पित्रा नियुक्तो नानादेशीया
वर्णमाला भाषाश्च पर्यशीलयत । राजोचिताः सर्वा विद्याः
कलाश्च जग्राह । धनुर्वेदे नितरां कुशलोऽभवत् । सर्वस्वामि-
गुणोपेतः स्वकुमारः समस्तसामन्ताभिवन्दितचरण चक्रवर्ती
भविष्यतीति मन्यमानः शुद्धोदनश्चेतसि परमानन्दमभजत् ॥</p>
<pb n="94" />
<p>सप्तविंशः पाठः - श्री बुद्धदेवः
अष्टादशे वर्षे तस्य निरतिशयलावण्यया यशोधराख्यया
राजसुतया सह विवाहो निर्वर्तितः पित्रा । तयोरेकः सुतः
समजनि रहुलो नाम । विवाहानन्तरमसौ गौतमो विभवैर्विराज-
माने राजभवने दश वर्षाणि बन्धुभिः सार्धं वसति स्म । नासौ
तेन निर्वृति प्रपेदे ॥
89
गौतमः प्रकृत्या विरक्तचित्तः कारुण्यनिधिः परदुःख-
दुःखितासीत् । जनानां जरामरणे विलोक्य तस्य चेतो व्या-
कुलतामगात् । जनैरनुभूयमानाः कृशास्तस्य हृदयं तुदन्ति
स्म । कथमेते जनाः क्लेशान्मुक्ता भवेयुरिति चिन्तापरो जातः ।
ततः स तदुपायमन्विष्यन्नेकस्यां गत्रौ निद्राणेषु गृहजनेषु
पितरं पुत्रं कलत्रं च वञ्चयित्वा तपोवनाभिमुखः प्रतस्थे ॥
तपोवनमासाद्यासौ शिरो मुण्डयित्वा कापायाम्बरं धृत्वा
चिरं तपस्विभिः सार्धमवसत् । नामौ तत्र जनानां क्लेशान्मुक्ते-
रुपायमलभत । अनन्तरं गयां प्राप्य तत्रासौ पडवषाणि शिष्यैः
साधमत्यवाहयत् । स च देशः पश्चात् वुद्धगयेत्याख्यां जगाम ।
बुद्धगया सम्प्रति मनोहरैर्विहारैरलङ्कृतं बौद्धानां महत्
पुण्यक्षेत्रम् ॥
अनन्तरं गौतमः कस्यचित पिप्पलतरोर्मूलमासाद्य तत्र
योगपीठ मधिरुस्तीव्रं तपोऽतप्यत । तत्रासौ बोधिमलभत ।
बोधिर्नाम निश्चिता बुद्धिः । सोऽयं पिप्पलवृक्षः पश्चात्
बोधिवृक्ष इति प्रथामवाप ॥</p>
<pb n="95" />
<p>संस्कृतद्वितीयादर्श
अस्य चैव वृक्षस्य कश्चित् शाखातरुः अशोकमहाराज
पुत्रेण ' महिन्द' नाम्ना सिंहळद्वीपे प्राचीनतमराजधान्यां
अनुराधपुरे महाविहारे सिंहलद्वीपे मतप्रचारकान् संप्रेष्य
अरोपितः, चरित्रप्रसिद्धः भूमण्डले एव प्राचीनतमः समा-
ख्यायते जनैः । यः ततः प्रभृति अद्य यावत् तत्रत्ये: साइरं
जलसेकादिना परिपोषितो दृश्यते ॥
चिरमेवं तपश्चरन् गौतमबुद्धस्तत्व प्रकाशमधिगत्य लोके
नूतनं मतं प्रचारयामास । क्लेशानां ग्रहाणाय जनैरनुसरणीयां
• सरणि दर्शयामास । कारुण्यत्रित्रशोऽसौ 'न हिंस्यात् सर्वाणि
भूतानि ' इत्युपदिदेश । पशुमारणमप्यसौ नासहत । 'अहिंसा
परमो धर्मः, सोऽधर्मः प्राणिनां चधः । इत्थं बुद्ध मतस्य
परमः सिद्धान्तः ॥
90
.
गौतमबुद्धोऽयं वैशाखे मासि पौर्णम्यां तिथौ विशाखा-
नक्षत्रे कपिलवस्तुनगरोद्याने लब्धजन्मा स्वीयेऽशीतितमे वर्षे
तस्मिन् एव मासि तस्यामेव तिथौ तस्मिन्नेव नक्षत्रे वाराणस्यां
मलिकोद्याने निर्वाणं प्राप्तः । असौ विष्णोरवतारत्वेन पुराणे-
ध्वाख्यातः ॥
यद्यपि बौद्धग्रन्थाः प्रायेण संस्कृतभाषया लिखिता-
स्तथापि बुद्धदेवः स्वीयं मतं सर्वजनसाधारण्या पालीभाषया
प्रचारयामास । अतः पण्डिता इव पामराश्चापि तन्मतमनु-
सरन्ति स्म । लोके जनानां चतुष्को भागस्तन्मतानुयायी</p>
<pb n="96" />
<p>सप्तविंशः पाठः - श्री युद्धदेवः
दृश्यते । बुद्धमतावलम्बिनः सम्प्रति भारतवर्ष सिंहलद्वीपे
वर्माप्रभृतिषु देशेषु च प्रतिवसन्ति । बुद्धमतमिदं जनैरुत्कृष्टानां
मतानामन्यतमत्वेन परिगण्यते ॥
91
१) प्रश्नाः- १. बुद्धदेवः कस्मिन् वंशे जातः ? कयोः पुत्रः ?
२ प्राप्तवयस्कः कुमारः किं किं परिशीलितवान् ? ३. गौतम-
बुद्धः प्रकृत्या कीदृश आसीत् ? ४. स कुत्र कुत्र तपश्चकार ?</p>
<note>५. कुत्रासौ बोधिमलभतः ६. बोधिवृक्षमधिकृत्य किं जानीध्वे?</note>
<p>७ तत्वप्रकाशमधिनत्य स किमकरोत् ?</p>
<note>८. तन्मतस्य परमः सिद्धान्तः कः ?</note>
<p>९ कुत्र कदा स जातः ? कुत्र कश च निर्वाण प्राप्तः ?</p>
<note>१०. तन्मतानुयायिनः सम्प्रति कुत्र भूयस्ता प्रतिवसन्ति ?</note>
<p>२) आख्यातानां स्थाने क्तवत्वन्तानि रूपाणि निवेशयत-
१) शुद्धोदनः कुमारं महताऽऽदरेण पोषयामास ।
२) स दशवर्षाणि बन्धुभिः ला वसति स्म ।</p>
<lg>
  <l>३) स नूतनं मतं लोके प्रचारयामास ।</l>
  <l>४) स जनैरनुसरणीयां सरणि दर्शयामास ॥</l>
</lg>
<p>३) साधम्, मित्रम्, कलत्रम् - एतैः पृथक् वाक्यानि रचयत ॥
४) पर्यायाः-</p>
<lg>
  <l>बुद्धः २२ – सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः ।</l>
</lg>
<lg>
  <l>समन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः ॥</l>
  <l>पडभिशो दशवलोऽद्वयवादी विनायकः ।</l>
  <l>मुनीन्द्रः श्रीधनः शास्ता मुनिः शाक्यमुनिस्तु यः</l>
  <l>स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः ॥</l>
</lg>
<pb n="97" />
<p>92
संस्कृतद्वितीयादर्श
red place of pilgri-
mage in Bihar
पिप्पल The holy fig tree
प्रहाण % quitting
सरणि: f path, way
मारणं n killing
निर्वाण n.complete ex-
tinction of individual
of worldly existence
मतं n Doctrine,
पामर: m low-man
Temple
। अन्यतमम् a.१% anyone out
गया &lEO बुद्धगया / a Sac- of a large number
शाक्य: m name of the
family of Buddha
संवर्धनम् % bringing up
नियुक्तः
5: a m. instructed
निर्वृतिः f satisfaction
व्याकुलता f perplexion
अत्यवाहयत् p. spent
कापाय A dyed of a
reddish Colour
शाखातरु: m branch-tree
विहार 9m Buddhist</p>
<note>२८. विद्यया विन्दते अमृतम्</note>
<p>पुरा धारानगरे भुक्कुण्डो नाम कश्चित् कृतविद्यो धीर-
थोरो बभूव । स कस्याश्चिद्रात्रौ कस्यचिद्वणिजः सदनं प्रविश्य
महाघणि भूषणानि मुषित्वा गृहं प्रति न्यवर्तत । निभृतं म
नगरमार्ग निर्गच्छन्नारक्षकलेक्षितो गृहीतश्च ॥
अन्येद्युः प्रातरेव तं निगडितहस्तं ते राजान्तिकं निन्युः ।
राजा च तमवलोक्य – 'कोऽयम् ?' इत्यारक्षकानप्राक्षीत् ।
आरक्षका आहुः – 'देव ! कुम्भीलकोऽयमतीतायां रात्रौ मणि-
कारवीथ्यां कस्यचिद्वणिजो वसतिं खातपातमार्गेण प्रविश्य</p>
<pb n="98" />
<p>अष्टाविंशः पाठः – विद्यया विन्दते अमृतम्
93
भ्रषणानि चोरयित्वा बहिर्गच्छन्नस्माभिगृहीत आनीतश्च । श्रुत्वा
देवः प्रमाण म्' – इति ॥
-
तेषां वचः श्रुत्वा राजा कुम्भीलकमपृच्छत् – रे ! अपि
सत्यं यदेते कथयन्ति' ? भुक्कुण्डस्तावदात्मनः कृत्यं निह्नोतु -
मशक्नुवन् क्षणं तूष्णीमास्त । भूयः सभ्रूभङ्गं पृष्टः सः - 'देव !
प्रमीद । अहमतीव इािऽस्मि । चौर्यणैव मया जीवनं क्रियते ।
क्षम्यताम् ' – इत्यवदत् । तच्छ्रुत्वा कुपितो राजा वधदण्डं
व्यधत्त ॥
सुधी: भुक्कुण्ड: दुस्सहाम् इमां राजाज्ञां श्रुत्वा भृशं
व्याकुलीभृतोऽपि स्वकवितया दण्डात् आत्मानं मोचयितु-
मिच्छन् कविषु राज्ञः परमं वात्सल्यं जानानः प्रत्युत्पन्नमतिः
निर्भक: ग्राह-
44</p>
<lg>
  <l>"भो भयोऽपि नष्टो</l>
  <l>भिक्षुष्टौ भीमसेनोऽपि नष्टः ।</l>
  <l>भुक्कुण्डोऽहं नृपतिस्त्वं च राजन्</l>
  <l>भब्भावल्यामन्तकः सन्निविष्टः ॥" – इति ॥</l>
</lg>
<p>तदाकण्य कविवत्सलो राजा- 'भो भुक्कुण्ड ! दण्डाहोऽपि
त्वं सुकविरमीति या क्षम्यसे । इतः परमीदृशं कर्म मा
कार्पा: – इत्युक्त्वा नेन मुटं सर्व धनं तत्तत्स्वामिभ्यः प्रत्यय
स्वदत्तन प्रभृतेन वित्तेन तं सम्भावयामान । भुक्कुण्डोऽपि
7</p>
<pb n="99" />
<p>94
संस्कृत द्वितीयादर्श
तदारभ्य त्यक्तचौर्यो राज्ञः प्रीतेः पात्रीभूतः सपुत्रकलत्रः
सुखमुवास ॥
अहो ! पश्यत विद्याया महिमानम् । तीव्रं दण्डितोऽपि
स चोरः विद्यया अमृतत्वम् अविन्दत । !
★
● किं किं न साधयति कल्पलतेव विद्या ' ॥
१) प्रश्ना –१ निभृतं नगरमार्ग निर्गच्छन् क आरक्षकैर्लक्षितो
गृहीत २ किमल गृहीतः ? ३. ते तं राजान्तिकं नीत्वा
किनवांचन् ? ४. राजा कुम्भोलकं किमपृच्छत् ? ५. कुम्भी
लकः किमकरोत् ? ६. राजा तस्य कीदृशं दण्डं व्यधत्त ?</p>
<note>७. भुस्कुण्डो राजानं किं वाह? ८. राजा तं किमुक्त्वा</note>
<p>विससर्ज ९. अनेन किं गृह्यते ?
२) निर्दिष्टेलेकॉर: वाक्यानि पूरयत-
१) भुक्कुण्डः कस्यचिद्वणिजो गृहात् भूषणानि मुप्... लइ ।
२) भुक्कुण्डः प्रथममात्मनः कृत्यं नि + हनु...लङ् ।</p>
<lg>
  <l>३) राजा तस्य वधदण्ड वि + धा...</l>
  <l>...लिट् ।</l>
  <l>४) यो वाल्ये विद्यां ग्रहू... लट्, स पश्चात् सुखं वस्... लट् ॥</l>
  <l>३) निभृतम्, प्रमाणम्, तूष्णीम्, वरम् - एतः वाक्यानि रचयतं ॥</l>
</lg>
<p>४) कृत्प्रत्ययान्ताः-
इ (गतौ) to go - (एति) = इतः, इतवान्, यन्, इयानः,
इत्वा, (उपत्य) एतुम्, एतव्यम्, अयनीयम्, एयम् ।
अध्ययनार्थस्य 'इ' धातोरप्येवमेव अधिपूर्वकाणि रूपाणि ।
The Pre. Part is अधीयानः.</p>
<pb n="100" />
<p>अष्टाविंशः पाठः- विद्यया विन्दते अमृतम् 95
(हनु) to hide - ( हुनुते, निनुते ) निनुतः, निहूनुतवान्,
निहूनुवानः हूनुत्वा, निहूनुत्य, निहोतुन्, निहोतव्यम्-
निद्रवनीयम् ।
५) पर्यायाः—</p>
<lg>
  <l>विद्वान् २२ -</l>
  <l>'विद्वान् विपश्चित् दोषज्ञः सन् सुधीः कोविदो बुधः ।</l>
  <l>धीरो मनीषी ज्ञः प्राज्ञः संख्यावान् पण्डितः कविः ॥</l>
  <l>घीमान् सूरि: कृती कृष्टिः लब्धवर्णो विवक्षणः ॥</l>
</lg>
<p>दूरदर्शी दीर्घदर्शी...
.11
..........
विन्दते 4 obtains
प्रमृतम् " immortality
कृतविद्या a educated
सदन " abode
निभृत in quietly
आरक्षक % Policeman
कुम्भीलक m thief
मणिकारवीथी jeweller's
वातपातमार्ग mexca-
vation
निगडितहस्त a with arms
fettered
street
देवः » प्रमाणम् 22 Your
Highness is the sole
judge
निहोतुम् in. to conceal
सभ्रूभङ्गम् in knitting
eye brows
सुधी a intelligent
प्रत्युत्पन्नमति a possessed
of presence of mind
भृशम् in very much
अन्तक m the God of-
a stolen
प्रभूत a plenty
at f wish-yielding
eraeper.
[death</p>
<pb n="101" />
<p>96
संस्कृतद्वितीयादश</p>
<note>२९.</note>
<p>चाटुश्लोकाः
1
गजाननमहर्निशम्
भक्तानामे कदन्तमुपास्महे ॥
अगजाननपद्मार्क
अनेकदन्तं
।</p>
<lg>
  <l>आदिमध्यान्तरहितं दशाहीनं पुरातनम् ।</l>
  <l>अद्वितीय महं वन्दे मद्रख सदृशं हरिम् ॥</l>
</lg>
<lg>
  <l>वन्दे वाञ्छितलाभाय कर्म किं तन्न कथ्यते ।</l>
  <l>कि दम्पतिमिति यामुताहो दम्पती इति ॥</l>
</lg>
<lg>
  <l>सदा वक्रः सदा क्रूरः सदा मानधनापहः ।</l>
  <l>कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥</l>
</lg>
<lg>
  <l>प्रातर्धतप्रसङ्गेन मध्याह्ने स्त्रीप्रसङ्गतः ।</l>
  <l>रात्रौ चौर्यप्रसङ्गेन कालो गच्छति धीनताम् ॥</l>
</lg>
<p>?</p>
<p>१) टिप्पणम् । चाटुश्लोकाः = रसानन्दजनकाः श्लोकाः-
१) गजाननः अपि अगजाननपझार्कः इति विरोधः ।
अगजायाः पार्वत्याः आननपद्मार्कः इति परिहारः ।
अनेकदन्तम् एकदन्तम् इति विरोधः । अनेकदं तम् इति
पदच्छेदेन परिहारः ॥</p>
<lg>
  <l>२) हरिः वस्त्रं च तुल्ये ।</l>
  <l>विष्णो: दशा (वाल्याद्यवस्था) नास्ति ॥</l>
</lg>
<p>वस्त्रस्य दशा ( अन्तम् ) नास्ति ।
३) दंपति पती इति उभयथाऽपि वक्तुं न शक्यते । आद्यः
व्याकणरीत्या असाधुः । अन्त्ये अर्थः न युज्यते, यतः
अर्धनारीश्वर स्वरूपम् एकम् ।</p>
<pb n="102" />
<p>एकीनात्रिंशः पाठः – चाटुश्लोकाः
97</p>
<lg>
  <l>४) अन्ये हा कदाचिदेव वक्राः क्रूरा: मानधनापहाश्च ।</l>
  <l>जामाता तु सदा इति विशेषः ॥</l>
</lg>
<p>५) द्यूतेन स्त्रीसेवया शौर्येण च कालयापनं कुर्वन्तः न
धीमन्तो भवेयुः इति विरोधः । द्यूतस्य प्रसङ्गः यस्मिन्
स्त्रियाः प्रसङ्गः यस्मिन्, चौर्यस्य प्रसङ्गः यस्मिन् इति
विग्रहेण क्रमशः श्रीमन्महाभारतेन, श्रीमद्रामायणेन,
श्रीमद्भागवतेन च कालं यापयन्तीति परिहारः ॥
२) प्रश्ना:- १. 'एकदन्तमुपास्महे' कीदृशम् ? २. 'बन्दे हरिम्'
कीदृशम् ? ३. कर्म कि तन्न कथ्यते कुतः ? ४. 'जामाता
दशमो ग्रहः कथम् ? ५. 'कालो गच्छति धीमताम्' केन?'
-
३) लिङ: स्थाने तव्य प्रत्ययान्तानि रूपाणि निवेश्य वाक्यानि
घटयत - १) सत्यं ब्रूयात् प्रिंय
व्यान्न ब्रूयात् सत्यमप्रियम् ।</p>
<lg>
  <l>२) न देवमिति संञ्चिन्त्य त्यजेदुद्योगमात्मनः ।</l>
  <l>३) मनोऽभिरामां शृणुयान्नित्यं हरिकथां जनः ॥</l>
</lg>
<p>३) ल्यबन्तरूपैः वाक्यानि पूरयत-
१) केसरिणः करिणां मूर्धानम् आ + रुहूतेषां गण्डौ
भिन्दन्ति ।
२) आरुणिः केदारखण्डात् सहसा उत्+स्था... समागतः ।
३) महात्मानो भुवम् अव+तृ... परहितार्थमात्मानमर्पयन्ति।
1
४) दीर्घकगैः पक्षिशाबकान् आ+क्रम् .. कोटरम् आ + नी..
चखाद ॥</p>
<pb n="103" />
<p>५) उपसर्गयोगादर्थभेदः -
आस्—आस्ते अध्यास्ते, अवास्ते, उपास्ते, उदास्ते ॥
६) नानार्था:- दशावस्थादीपवर्त्योः वस्त्रान्ते भूम्नि योपिति
- इति मेदिनी कोश:
७) पर्यायाः-
संस्कृतद्वितीयादश
वस्त्रम् ६ - वस्त्रमाच्छादनं वासः चेलं वसनमंशुकम् ।</p>
<lg>
  <l>वक्रम् ११ – "अरालं वृजिनं जिह्नम् ऊर्मिमत्कुचितं नतम् ।</l>
  <l>आविद्धं कुटिलं भुझं वेति वक्रमित्यपि ॥</l>
</lg>
<p>चाटुश्लोक m humorus
is always in the sixth
sign of कन्या (daugh-
ter) in राशिचक्र i. e.,
He is always with
कन्या. his wife.
m&ny things । द्यूतप्रसङ्ग m
(1) attach-
ment in gambling
(2) श्रीमन्महाभारत (in
which story of the द्यूत
is described)
resm (1) associa-
अगजा f born of a
verse
mountain (पार्वती)
अनेकद a bestower of
एकदन्त a one-toothed
दशाहीन o (1) he who has
no stages of life
(2) that which has no
edge
अद्वितीय a (I) matchless
(1) without & second
वाञ्छित & desired ob-
ject. कन्याराशिस्थित 14
This Planet of जामाता
tion with women
(2) श्रीमद्रामायण
चौर्यप्रसङ्ग m (1) attach
ment with theft
(2) श्रीमद्भागवत</p>
<pb n="104" />
<p>त्रिंशः पाठः- -वाराणसी क्षेत्रम्
Wh
C.V. Raj
99</p>
<p>वाराणसीक्षेत्रम्
सन्ति खलु भारतवर्षे तत्र तत्र बहूनि तीर्थक्षेत्राणि ।
तेषु- अयोध्या, मथुरा, माया, काशी, काञ्ची, अवन्तिका,
द्वारवतीत्येतानि प्रधानभूतानि । तत्रापि वाराणसी पुराणेष्वति-
शयेन वर्ण्यमानमनुत्तमं पुण्यक्षेत्रम् । सैव काशीत्युच्यते ।
सेषा भारतवर्षस्य पूर्वोत्तरभागेऽवतिष्ठते; यस्याः परिसरे
पुण्यसलिला भागीरथी प्रवहति ॥
गङ्गायां स्नानेन तत्तीर्थपानेन वा जनाः पूतात्मानो
मुक्ति प्राप्नुवन्तीति वेदाः पुराणानि चोद्घोषयन्ति ॥</p>
<pb n="105" />
<p>100
संस्कृतद्वितीयादश
उक्तं च 'भजगोविन्दे ' श्रीशङ्करभगवत्पादैः-</p>
<lg>
  <l>भगवद्गीता किञ्चिदधीता गङ्गाजललवकणिका पीता ।</l>
  <l>सकृदपि येन मुरारिसमर्चा क्रियते तस्य यमेन न चर्चा ॥</l>
</lg>
<p>अतो भारतवर्षस्य सर्वाभ्यो दिग्भ्यः सर्वभ्यो देशेभ्यश्च स्त्रियः
पुरुषा बाला वृद्धाश्र गङ्गास्नानार्थं काशीं गच्छन्ति । गत्वा च
तत्र नद्यां स्नात्वा भगवन्तं श्रीज्योतिर्लिंगमूर्ति विश्वनाथं
पश्यन्ति अर्चन्तिच ॥
गङ्गायास्तीरे निबद्धाः सुन्दराः सुविशालाच तीर्थशिलाः
सततं जनैराकीर्णा उपलभ्यन्ते । एकत्र वैष्णवाः, अन्यत्र शैवाः,
अपरत्र मतान्तरीयाथ स्वस्वचिह्नानि धरन्तः कुशहस्ताः पञ्च-
पात्रपाणयो जपन्तो ध्यायन्तश्च तीर्थशिलामल कुर्वन्ति । अन्यत्र
'केचिदुद्भाहवः पादांग्रेण तिष्ठन्त उद्यन्तं सूर्यमेकाग्रेण मनसा
ध्यायन्ति । अपरे केचन कृतप्राणायामाः पशुपतिं ध्यायन्ति ।
इत्थमेषा वाराणसी सत्कर्मणामायतनं धर्माणामावासभूमिश्च
दृश्यते ।
वाराणस्येषा बहुभूमिकैरत्युच्छ्रतर्मन्दिरैः संशोभते ।
विशेषतच नद्यास्तीरे सुप्रतिष्ठिता गृहपङ्क्तिः महतीं शोभां
बिभर्ति । नगरमिदं पुरा हाटकमयं बभूवेति श्रूयते । इदानीं तु
केवलं शिलामयं दृश्यते । गङ्गा च स्नानघट्टानामग्रतः परः
सहस्रबाष्पप्रवहणः महानौकाभिश्वाभिव्याप्ता विलसति । काशी-
नगरस्य सुषमा नदीगतं प्रवहणमारूहॅर्निरीक्षणीया ॥</p>
<pb n="106" />
<p>त्रिंशः पाठः- वाराणसी क्षेत्रम्
101
काशीक्षेत्रमिदं भारतीय विद्यायाः कुलभवनभिवाभाति ।
यतो ह्यत्र वेदाः पुराणानि शास्त्राणि च यथापुरमद्यत्वेऽपि
सश्रद्धमधीयन्ते हिन्दुमहाविश्वविद्यालये जनैः । पण्डित श्रीमदन
मोहन माळवीयमहाशयैः प्रतिष्ठापितः हिन्दु महाविश्वविद्यालयः
अत्र सुतरां चकास्ति । अत्रत्यं विद्यापीठमधिरूढो जनः
समस्तविद्यापारगत्वेन परिगण्यते । अत्र जनानां जीवि
तान्तिमक्षणे भगवान् विश्वनाथः कर्णे तारकंमन्त्रम् उपदिशति,
येन ते मुक्तिभाजो भवन्ति इत्यहो वाराणसी क्षेत्रमहिमा ॥
१) प्रश्नाः – १. भारतवर्षे प्रधानभूतानि पुण्यक्षेत्राणि कानि?</p>
<note>२. वाराणसी कीदृशं पुण्यक्षेत्रम् ? ३. के किमिति गङ्गा-</note>
<p>स्नानाथं काशीं गच्छन्ति ? ४ गङ्गातीरगतास्तीर्थशिलाः
कोहरौर्जनैराकीर्णा उपलभ्यन्ते ? ५. काशीनगरस्य शोभा
कीडशी ? ६. क्षेत्रमिदं कस्याः कुलभवनम्?
२) प्रयोगं विपरिणमयत-
१) नद्यास्तीरे विद्यमाना गृहपक्तिर्महतीं शोभां विभर्ति ।
२) वेदाः शास्त्राणि पुराणानि च सश्रद्धमधीयन्ते जनैः ।
३) निर्दिष्टेलकारः वाक्यानि पूरयत-
१) वसन्ते पद्मानि परां शोभां भृ...लटू ।</p>
<lg>
  <l>२) स्त्रियो भूषणैरात्मानम् अलं + कृ... लट् ।</l>
  <l>४) अनुत्तमम्, अमूल्यम्, अनर्धम् - एतैः वाक्यानि रचयत ॥</l>
</lg>
<p>५) कृत्प्रत्ययान्ताः –
ध्यै to meditate - ( ध्यायति) = ध्यातः, ध्यातवान्,
ध्यायन्, ध्यायमानः, ध्यात्वा, अनुध्याय, ध्यातुम्,
ध्यातव्यम्, ध्यानीयम्, ध्येयम् ।</p>
<pb n="107" />
<p>102
संस्कृतद्वितीयादर्श
सृ to bear (बिभर्ति =भृतः भृतवान् विभ्रत्, भ्रिय-
माणः, भृत्वा, (सम्भृत्य) भर्तुम्, भर्तव्यम्, भरणीयम् ।
पू to purify - (पुनाति, पुनीते) =पूतः पूतवान्, पुनन्,
पुनानः, पूयमानः, पूत्वा, परिपूय, पवितुम्, पवितव्यम्,
पवनीयम्, पाव्यम् ॥
७) उपसर्गयोगात् परस्मैपदम् – बहू (बहति, बहते ) प्रवहति ॥
८) पर्यायाः-</p>
<lg>
  <l>गङ्गा ८ - गङ्गा, विष्णुपदी, जनुतनया, सुरनिम्नगा ।</l>
  <l>भागीरथी, त्रिपथगा, त्रिस्त्रोताः, भीष्मसूरपि ॥</l>
</lg>
<p>शोभा४- सुषमा परमा शोभा; शोभा कान्तिद्युतिश्छविः ।
परमा शोभा = सुषमा इत्यर्थः (Exquiste beauty)
मोक्षः८ – मुक्तिः कैवल्य निर्वाणश्रेयोनिःश्रेयसामृतम् ।</p>
<lg>
  <l>मोक्षोऽपवर्गः ।</l>
  <l>अज्ञानम् ३–अथाज्ञानम् अविद्याऽहमतिः स्त्रियाम् ॥</l>
</lg>
<p>अयोध्या f the modern
मथुरा f the birta place
of Lord Krishna
माया j Name of Gaya
काशी / Benares
द्वारवती / Dwaraka
अवन्तिका f the modern
उज्जयिनी
Oudh
काञ्ची Name of an &nci-
ent City in South
India.
। अनुत्तम a peerless; having
no superior
मुरारि m Lord Vishnu
। समर्चा / worship
तौथंशिला f step of
bathing ghat</p>
<pb n="108" />
<p>एकविंशः पाठः - श्रीशङ्कराचार्यः
हाटक n gold
उच्छ्रित a huge
यथा पुरं ind. as before
कुलभवन n family house</p>
<note>३१. श्रीशङ्कराचार्यः</note>
<p>प्राणायाम m controlling
the breath
पशुपति m Lord Siva
आयतन % abode
103
जगद्गुरुः श्रीशङ्कराचार्यः केरलेषु चूर्णीनद्यास्तटे विद्य-</p>
<pb n="109" />
<p>104
संस्कृतद्वितीयादर्श
मान कालटिनामकं जनपदं स्वजन्मना व्यभूषयत । तस्य पिता
परमभागवतः शिवगुरुः, माता च धर्मशीला आर्यास्त्रा । सोऽय-
माचार्यः अष्टाशीत्युत्तरसप्तशततमे क्रिस्त्वब्दे नन्नवत्सरे
वैशाखमासे शुक्लृपञ्चम्यां तिथौ पुनर्वसु नक्षत्रेऽभिजिन्मुहुर्ते
भुवमवातरत् ॥
स यदा पञ्चायनोऽभूत् तदा तस्य पिता शिवगुरु
दैवदुर्विपाकात् कालधर्मं गतः । आर्याम्वा च पत्युर्वियोगेन
खिन्नाऽपि सुतस्य भविकमनुध्यायन्ती तस्थौ । बालकम्य च
विद्याग्रहणे निरतिशयं पाटवं वीक्ष्य सातवत्सरे
बन्धुभिस्तस्योपनयनं कारयामास । अनुपद मेत्र गुरुकुलमुनीतः
स बालका द्विरेव वर्षः सर्वान् वेदान् वेदशानि विविधाः
भाषायाध्यग्रीष्ट ॥
अधीत्य च सर्वाणि शास्त्राण्यष्टहायनः कुमारी जगदिदं
मृगतृष्णिकायास्तुल्यमाकलयन् संन्यासग्रहणे मधिं ववन्ध ।
तदेकपुत्रा माता च तस्येच्छां नान्वमन्यत । अथापि स एकस्मि-
नहनि आत्मानं नक्रगृहीतम् अभिनयन्, संन्यासस्त्रीकरणे
नक्राद्विमुक्ति बोधयन् कथञ्चित् तां सान्त्वयन्नन्ततस्ततयाऽनुमो
गृहात प्रस्थितः संन्यासस्य दातारं गुरुमन्विष्यन् वाराणसी-
मगच्छत् । तत्र च गोविन्दाचार्य नाम महासंयमिनं शरण-
मुपेत्य तस्मात् संन्यासमधिगत्य तस्यैव सविधे वेदान्तमध्येत ॥
गोविन्दाचार्यस्तं कश्चित कालमध्यापयन् तस्य प्रतिभा-
शक्त्या विस्मितस्तं साक्षाच्चराचरगुरोः शङ्करस्यावतारमन्यतः</p>
<pb n="110" />
<p>105
एकत्रिंशः पाठः- श्रीशङ्कराचार्यः
आदिशचैनं पाखण्डैरभिभूयमानस्य सनातनस्य सद्धर्मस्य
परिपालनाय ॥
शिरसा बहन् गुरोराज्ञां श्रीशङ्कराचार्यः सर्वत्र पुण्यक्षेत्रेषु
सञ्चरन्नुपनिषद्भिरुपदिश्यमानमद्वैतं लोके प्रचारयामास ।
आवर्जयामास मधुरमधुरया वाग्धोरण्या जनतायाश्चेतांसि ।
खण्डयामास नास्तिकानां मतानि । स्थापयामास सर्वत्रास्ति-
कानां सम्मतं सद्धर्मम् । रचयामास हृद्यया शैल्या सूत्र-
भाग्यादिकान् परः शतान् ग्रन्थान् विविधानि स्तोत्ररत्नानि च ।
अध्यापयामास च नानादिग्भ्यः समागतान् परः सहस्रान्
शिष्यान् । तेषु प्रधानभूताः - पद्म पादाचार्यः, सुरेश्वराचार्यः,
हस्तामलकाचार्यः, तोटकाचार्यः इति चत्वारः शिष्याः ॥
D
तदनु श्रीशङ्कराचार्यो महता यत्नेनोज्जीवितस्य सद्धर्मस्य
स्थिरप्रतिष्ठार्थं वदर्या जगन्नाथे काञ्च्यां द्वारकायां च मठान्
प्रतिष्ठाप्य तत्र धर्मप्रवचनाय तान् शिष्यान् न्ययुक। स्वयं च
महीशूरदेशान्तर्गते शृङ्गगिरौ प्रतिष्ठापितं मठमधिष्ठाय पाठप्रवच-
नादिकं कुर्वन्नासाञ्चक्रे । यद्यप्ययं योगीश्वरो विष्णुशिवयोरमे-</p>
<lg>
  <l>दमातिष्ठत, तथाप्यस्य भगवति शिवे महती भक्तिरासीत् ।</l>
  <l>अत एव तदनुगामिनो जनाः प्रायेण शिवभक्ताः एवोपलभ्यन्ते ॥</l>
</lg>
<p>श्रीशङ्कराचार्योऽयमल्पीयसैव कालेन आसेतुहिमाचलं
स्वीयं नित्यशुद्धं यशो विस्तार्य द्वात्रिंशे वयसि केदारनाथक्षेत्रे
समाधिमास्थाय परं धाम प्रपेदे । तेन प्रतिष्ठापितो मतधर्मश्राद्य</p>
<pb n="111" />
<p>106
संस्कृतद्वितीयादशे
यावत् समुल्लसति सर्वत्र भारते वर्षे । तत्राप्ययं दक्षिणापथे
सविशेषः प्रचरति ; यत्र हि परमकारुणिकाः श्रीकाञ्चीकामकोटि-
पीठाधिपतयः श्रीभृङ्गगिरि शारदापीठाधिपतयश्च धर्मसंस्थाप-
नार्थाय देशादेशं ब्रजन्तः शिष्यानुपदिशन्तः अधर्ममुच्चाटय-
न्ताद्वैतमतं श्रद्धया परिपालयन्तः प्रचारयन्तश्च चकासति ॥
प्रश्नाः – श्रीशंकराचार्यस्य शैशवं संन्यसनं चाधिकृत्य किं
जानीध्वे ? २. स कस्य सविधे वेदान्तमध्यैत ? ३. गुरुस्त
कस्मिन् कर्मणि न्ययुङ्क्त ? ४. गुरोराज्ञां शिरसा वन्ना-
चार्य: किं चकार ? ५. तस्य प्रधानभूताः शिष्याः के ?</p>
<note>६. सद्धर्मस्य स्थिरप्रतिष्ठार्थ स किमकरोत् ? स कदा कुत्र</note>
<p>परं धाम प्रपेदे ? तेन प्रतिष्ठापितो मतधर्मः कथम्भूतो
वर्तते ?
२) निर्दिष्टलकारैः वाक्यानि पूरयत-
।
१) विरत चित्तो नरः संन्यासग्रहणे मतिं बन्धू.... लट्
२) सद्वित्ररेव वदान् वेदाङ्गानि च अधि + इ...लङ्</p>
<lg>
  <l>३) केदारनाथक्षेत्रे स परं धाम प्र + पद्...लङ् ।</l>
  <l>४) तदेकपुत्रा जनयित्री तस्येच्छां न अनु + मन्... लिट् ॥</l>
</lg>
<p>३) उपसर्गयोगादात्मनेपदम्
स्था- तिष्ठति । आतिष्ठते, सतिष्ठते, अवतिष्ठते, प्रतिष्ठते,
वितिष्ठते, उपतिष्ठते ।
४) उप + गत्वा, उप + इत्वा, अधि + इत्वा, अधि + स्थित्वा
आ + स्थित्वा, आ + कृष्ट्वा, सं+ गृहीत्वा, अव + आप्त्वा
-एषां स्यबन्तरूपाणि लिखत ॥</p>
<pb n="112" />
<p>एकत्रिंशः पाठः- श्री शङ्कराचार्यः
107
५) जनानां समूहः = जनता । ग्रामाणां समूहः = ग्रामता ।
वन्धूनां समूहः = बन्धुता । एवं सहायता, गजता ।
६) उदयते, आस्ते, ईक्षते, ईहते-एषां लिटि रूपाणि निर्दिशत ॥
७) पर्यायाः-
नित्यः ५ – शाश्वतस्तु ध्रुवो नित्य सदातन सनातनाः ।</p>
<lg>
  <l>तीक्ष्णम् ३ – तिग्मं तीक्ष्ण खरम् ।</l>
  <l>मृगतृष्णा २- मृगतृष्णा मरीचिका ॥</l>
</lg>
<p>परमभागवत n great
अभिजिनमुहूर्त 1m the 8th
imagination
मुहूर्त of the day com- पाखण्ड, पापण्ड " heretic
prising 24 minutes बाग्धोरणीf continuous
flow of words
before and 24 minutes
after noon
पञ्चहायन a five years
of age
devotee । प्रतिभाf vivid
मृगतृष्णिका / mirage
जनता f mankind
महीशूरदेश 10 Mysore
शृङ्गगिरि m Sringeri
welfare । आतिष्ठत A scknow-
कालधर्म m death
भविक prosperity,
निरतिशय a unsurpassed,
पाटव n cleverness, skill
State
Town
ledged
matchless । परंधामन् " the higher or
superior abode.</p>
<pb n="113" />
<p>108
संस्कृतद्वितीया
-</p>
<note>३२. सुभाषितावलिः - प्रथमं दशकम्</note>
<p>CLE</p>
<lg>
  <l>भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती ।</l>
  <l>तस्माद्धि काव्यं मधुरं तस्मादपि सुभाषितम् ॥</l>
</lg>
<lg>
  <l>द्राक्षा म्लानमुखी जाता शर्करा चामतां गता ।</l>
  <l>सुभाषितरसस्याग्रे सुधा भीता दिवं गता ॥</l>
</lg>
<lg>
  <l>किं कुलेन विशालेन शीलमेवात्र कारणम् ।</l>
  <l>भवन्ति नितरां स्फीताः सुक्षेत्रे कण्ट किद्रुमाः ॥</l>
</lg>
<lg>
  <l>सर्वत्र गुणवान् देशे चकान्ति प्रथतेतराम् ।</l>
  <l>मणिमूर्ति गले वाहों पादपीठेऽपि शोभते ॥</l>
</lg>
<lg>
  <l>गुणैरुत्तङ्गतां याद नोच्चरामनसंस्थितः ।</l>
  <l>प्रासाद शिखरस्थोऽपि काकः किं गरुडायते ॥</l>
</lg>
<p>गुणेषु क्रियतां यतः किमाटोपैः प्रयोजनम् ।
विक्रोयन्ते न घण्टाभिनवः क्षीर विवर्जिताः ॥ ६</p>
<lg>
  <l>गुणानामन्तरं प्रायस्तज्जो जानाति नेतरः ।</l>
  <l>मालती मलिकामो घ्राणं वेत्ति न लोचनम् ॥</l>
</lg>
<lg>
  <l>निर्गुणेष्वपि सत्त्वेषु दयां कुन्ति साधवः ।</l>
  <l>न हि संहरते ज्योत्स्नां चन्द्रचण्डालवेश्मनः ॥</l>
</lg>
<lg>
  <l>बलवानपि निस्तेजाः कस्य नाभिभवास्पदम् ।</l>
  <l>निश्श दीयते लोक: पश्य भस्मचये पदम् ॥</l>
</lg>
<pb n="114" />
<p>द्वात्रिंशः पाठः- सुभाषितावळि: - प्रथमं दशकम्
न प्रयत्नशतेनापि दुर्जनः सुजनो भवेत् ।
किं मर्दितोऽपि कस्तूर्या लशुनो याति सौरभम् ॥ १०
109
१) प्रश्नाः – १. काव्यं कस्मात् मधुरम् ?
स्या द्राक्षा शर्करा सुधा च किमकुर्वन् ?
नितरां स्फीताः' के? कुत्र ?
कः कुत्र ? ५.</p>
<note>२. सुभाषितरस-</note>
<note>३. ' भवन्ति</note>
<note>४. ' चकारित प्रथतेतराम्</note>
<p>6
कोऽत्र दृष्टान्तः ?
काः ?
गुणैरुत्तुङ्गतां याति नोच्चैरासनसंस्थितः '</p>
<note>६. विक्रीयन्ते न घण्टाभिः '</note>
<note>७. 'तज्ज्ञो जानाति नेतर: किम् ?</note>
<p>ज्योत्स्नां चन्द्रश्चण्डालवेश्मनः</p>
<note>८. 'न हि संहरते'</note>
<p>किमत्र दान्तिकम् ?</p>
<note>९. 'कस्य नाभिभवास्पदम् का: १ १०. 'न सुजनो भवेत्</note>
<p>अत्र दृष्टान्तः कः ?
कः ? कथम् अपि ?
२) प्रयोगं विपरिणमयत-
१) गुणाना मन्तरं प्रायस्तज्ज्ञो जानाति नेतरः ।
२) निर्गुणेष्वपि सत्वेषु दयां कुर्वन्ति साधवः ।
३) उपसर्गयोगाद्वात्मनेपदम् –
>
क्री - क्रीणाति, क्रीणीते। विक्रीणीते, परिक्रीणीते, अवक्रीणीते
-
४) नामधातुः - गरुड इव आचरति = गरुडायते । एवं झाकायते
पिकायते, शुकायते, सिंहायते, इत्यादिकम् ॥
8
५) कृत्प्रत्ययान्ताः-
"
या to go - ( याति) = यातः, यातवान्, यान् यायमानः
यात्वा, अनुयाय, यातुम्, यातव्यम्, यानीयम् ॥</p>
<pb n="115" />
<p>110
संस्कृतद्वितीयादर्श
६) पर्यायाः-
वृहत् ६ – विशङ्कटं पृथु बृहत् विशालं पृथुलं महत् ।</p>
<lg>
  <l>कारणम् ३ - हेतुर्ना * कारणं बीजम् ।</l>
  <l>निदानम् २- निदान त्वादिकारणम् ॥</l>
</lg>
<p>सुभाषितावळि N. f. A.
collection of wise
sayings
1 गीर्वाण m Devas
भारती f language
2 म्लानमुखी / which has
the appearance of
faded leaves
अरमता / the state of
being & stone
सुधा f Nector. This
is said to exist in
heaven now-a-days
in tree with
3 कटकद्रुम
thorns
स्फीत @ grown largely
4 चकास्ति Pshines</p>
<p>( *ना = पुंलिङ्गः )</p>
<p>मूर्धन् १/८ bead
गल " Neck
पादपीठ Foot-stool
5 उत्तुङ्गता / Height
गरुडायते 4. &cts like
गरुड
6 आटोप m self-conceit
a in fatara 4. are
not sold
अन्तर % difference
आमोद m fragrance
8 सत्व m a thing or a
living being
ज्योत्स्ना f Moon-light
वेश्मन् " house
9 अभिभाबास्पद
प्रथतेतराम् 4. becomes ।10 मर्दित @ Rubbed
highly famous
कस्तूरी / Musk
object of contem-
ptuous treatment
भस्मचय N. m beap
of ash
an
लशुन m. . Garlic
सौरभ " fragrance.</p>
<pb n="116" />
<p>-
द्वात्रिंशः पाठः - सुभाषितावळिः - द्वितीयं दशकम् ॥।
सुभाषितावळिः - द्वितीयं दशकम्</p>
<lg>
  <l>खलः करोति दुवृत्तं नूनं फलति साधुषु ।</l>
  <l>दशाननोऽहरत् सीतां बन्धनं तु महोदधेः ॥</l>
</lg>
<lg>
  <l>निन्दां यः कुरुतेऽन्येषां तेन स्वं दूषयत्यसौ ।</l>
  <l>से भूतिं यस्त्यजेदुच्चैर्मूर्ति तस्यैव सा पतेत् ॥</l>
</lg>
<lg>
  <l>अहो दुर्जनसंसर्गान्मानहानिः पदे पदे ।</l>
  <l>पावको लोहसङ्गेन मुद्गरैरभिहन्यते ॥</l>
</lg>
<lg>
  <l>महाजनस्य संसर्गः कस्य नोन्नतिकारकः ।</l>
  <l>रभ्याम्बु जाह्ववीसङ्गात् त्रिदशैरभिवन्द्यते ॥</l>
</lg>
<lg>
  <l>स्थिरा शैली गुणवता खलबुद्ध्या न बाध्यते ।</l>
  <l>रत्नदीपस्य हि शिखा वात्ययाऽपि न शाम्यते ॥</l>
</lg>
<lg>
  <l>उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् ।</l>
  <l>प्राय: कूपस्तृषां हन्ति सततं न तु वारिधिः ॥</l>
</lg>
<lg>
  <l>विद्वानेव विजानाति विद्वज्जन परिश्रमम् ।</l>
  <l>न हि वन्ध्या विजानाति गुर्वीं प्रसववेदनाम् ॥</l>
</lg>
<lg>
  <l>यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।</l>
  <l>लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥</l>
</lg>
<lg>
  <l>यस्य नास्ति विवेकस्तु केवलं यो बहुश्रुतः ।</l>
  <l>न स जानाति शास्त्रार्थान दर्जा पाकरसानिव ॥</l>
</lg>
<lg>
  <l>लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाम् ।</l>
  <l>शेषे धारभरक्लान्ते शेते नारायणः सुखम् ॥</l>
</lg>
<pb n="117" />
<p>112
संस्कृतद्वितीयादर्श
१) प्रश्ना:- १. 'नूनं फलति साधुषु ? किम् ? कः सीतामहरत् ?
तेन कस्य किं जातम् १ २ तेन स्वं दूषयत्यसौ' केन? 'मूर्ध्नि
तस्यैव सा पतेत्' का ? कस्य ? ३. 'मुद्गरैरभिहन्यते ' कः ?</p>
<note>४. 'त्रिदशैरभिवन्द्यते' किम् ? ५. 'खलवुद्धया न बाध्यते'</note>
<p>का ? ६. समर्थो न तथा महान्' किं कर्तुम् ? ७. 'विद्वानेव
विजानाति' किम् ? ८. 'शास्त्रं तस्य करोति किम्' कस्य ?</p>
<note>९. 'न स जानाति शास्त्रार्थान् कः ? १०. 'शेते नारायणः</note>
<p>मुखम्' कुत्र ? तेन किं ज्ञायते ?
२) प्रयोगं विपरिणमयत-
१) खे भूर्ति यस्त्यजेदुच्चैमूर्ध्नि तस्यैव सा पतेत् ।</p>
<note>२. पावको लोहसङ्गेन मुद्गरैरभिहन्यते ।</note>
<note>३. रथ्याम्बु जाह्नवी सङ्गात् त्रिदशै र भिवन्द्यते ॥</note>
<p>३) शतप्रत्ययान्तैः पर्दैः वाक्यानि पुरयत-</p>
<note>१. परवेदनां (न ज्ञा....नारायणो धाराभरक्लान्ते शेषे शेते :</note>
<note>२. दुर्जनः सह संसर्ग (कृ)...जनो मानहानिं प्राप्नोति ।</note>
<note>३. कूपो जनानां तृषां (नि+हन्)... वारिधिमतिशेते ॥</note>
<p>४) कृत्प्रत्ययान्ताः-
शी to sleep (शेते ) -शयितः,
अतिशय्यमानः,
शयितव्यम्, शयनीयम् ।
डी to fly (डयते) = डयितः,
शयित्वा,
५)
शयितवान्, शयानः,
भतिशय्य, शयितुम्
डयितवान्, ड्यमानः, -
.
·
डयित्वा, उड्डीय, डयितुम् डयितव्यम्, डयनीयम् ॥
३ - गर्वोऽभिमानोऽहङ्कारः ।
मानः २ - मानश्चित्त समुन्नतिः ।
अवमानः</p>
<lg>
  <l>९ - अनादरः परिभवः परीभावः तिरस्किया।</l>
  <l>रीढावमाननावशावहेलनमसूक्षणम् ॥</l>
</lg>
<pb n="118" />
<p>द्वात्रिंशः पाठः- सुभाषितावळि: - तृतीयं दशकम् 113
6 स्वल्प a insignificant
तृषा / thirst
वन्ध्या f barren
1 दुर्वृत्त a wicked,
ill-mannered
2 भूति / Ashes
3 पावक m Fire
मुद्रर m hammer
4 रथ्यास्वु n the water
of a road
त्रिदश m God
5 शैली f conduct
शिखा N. f. flame
वात्या N. f. whirl wind
7
woman
Taft a. f. great
8 दर्पण m mirror
9
बहुश्रुत a very learned
दर्बी / ladle,spoon
16 लक्ष्मीवत् a possessed
of Lakshmi ; also
wealth
सुभाषितावळि:– तृतीर्थं दशकम्
गुणवन्तः क्लिश्यन्ते प्रायेण भवन्ति निर्गुणाः सुखिनः ।
बन्धनमायान्ति शुकाः यथेष्टसञ्चारिणः कालाः ॥ १</p>
<lg>
  <l>अतिपरिचयादवज्ञा भवति विशिष्टेऽपि वस्तुनि प्रायः ।</l>
  <l>लोकः प्रयागवासी कृपस्नानं सदाऽऽचरति ॥</l>
</lg>
<lg>
  <l>सानैव यत्र सिद्धिर्न तत्र दण्डो बुधेन विनियोज्यः ।</l>
  <l>पित्तं यदि शर्करया शाम्यति कोऽर्थः पटोलेन ॥</l>
</lg>
<lg>
  <l>नीचो वदति न कुरुते न वदति सुजनः करोत्येव ।</l>
  <l>शरदि न वर्षति गर्जति वर्षति वर्षासु निस्वनो मेघः ॥</l>
</lg>
<lg>
  <l>सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि ।</l>
  <l>छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥</l>
</lg>
<pb n="119" />
<p>114
संस्कृतद्वितीयादर्श</p>
<lg>
  <l>वनेsपि सिंहा गजमांसभक्षिणो</l>
  <l>बुभुक्षिता नैव तृणं चरन्ति ।</l>
  <l>एवं कुलीना व्यसनाभिभूताः</l>
  <l>न नीचकर्माणि समाश्रयन्ति ॥</l>
</lg>
<lg>
  <l>वरं दरिद्रः श्रुतिशास्त्रपारगो</l>
  <l>न चापि मूर्खो बहुरत्वसंयुतः ।</l>
  <l>सुलोचना जीर्णपटाऽपि शोभते</l>
  <l>न नेत्रहीना कनकैरलङ्कृता ॥</l>
</lg>
<lg>
  <l>बोधितोऽपि बहुसूक्तिविस्तरैः</l>
  <l>किं खलो जगति सज्जनो भवेत् ।</l>
  <l>स्वापितोऽपि बहुशो नदीजलै-</l>
  <l>र्गर्दमः किमु हयो भवेत् क्वचित् ? ॥</l>
</lg>
<lg>
  <l>सम्पूर्णकुम्भी न करोति शब्द-</l>
  <l>मर्धो घटो घोषमुपैति नित्यम् ।</l>
  <l>विद्वान कुलीनो न करोति गर्व-</l>
  <l>मल्पो जनो जल्पति साहासम् ॥</l>
</lg>
<lg>
  <l>क्षारं जलं वारिमुचः पिबन्ति</l>
  <l>तदेव कृत्वा मधुरं वमन्ति ।</l>
  <l>सन्तस्तया दुर्जनदुर्वचांसि</l>
  <l>पीत्वा च सूक्तानि समुद्भिरन्ति ॥</l>
</lg>
<pb n="120" />
<p>द्वात्रिंशः पाठः - सुभाषितावळि: - तृतीयं दशकम् 115
'अति
-
१) प्रश्नाः – १ . गुणवन्ती निर्गुणाश्च कीदृशा वर्तन्ते २.
परिचयादवज्ञा' इमामुक्किं दृष्टान्तेन समर्थयत ? ३. 'न तत्र
दण्डो वुधेन विनियोज्य: ' कुत्र ? ४. नीचसुजनयोः स्वभावः
कीदृशः ? ५. 'सुरभयति मुखं कुठारस्य' कः ? ६. ' न नीच-
कर्माणि समाश्रयन्ति' के' ७. 'वरं दरिद्रः श्रुतिशास्त्रपारगो
,
न चापि मूर्खो बहुरत्तसंयुतः कोऽत्र दृष्टान्तः ? ८. स्नापि
तोऽपि बहुशो नदी जलैः गर्दभः किमु इयो भवेत् क्वचित् ' इदं
दान्तिके योजयत । ९. कुलीनस्याल्पस्य च को विशेषः ?</p>
<note>१०. 'पीत्वा च सूक्तानि समुद्गिरन्ति' के ? के इव ?</note>
<p>२) प्रयोग विपरिणमयत-
१) प्रयागवासी लोकः सदा कूपस्नानमाचरति ।</p>
<lg>
  <l>२) कुलीनाः व्यसनाभिभूताः नीचकर्माणि न समाश्रयन्ति ।</l>
  <l>३) सन्तो दुर्जनानां दुर्वचांसि पीत्वा सूक्तानि समुद्भिरन्ति ॥</l>
</lg>
<p>३) यथासम्भवं क्त्वाप्रत्ययान्तानि रूपाणि निवेश्य वाक्यानि
घटयत-
१) नीचो वदति न कुरुते न वदति सुजनः करोत्येव ।
२) स्खलः परेषां निन्दां कुरुते तेनात्मानं दूषयति च ।
३) जनाः कार्शी गच्छन्ति गङ्गायां स्नान्ति विश्वनाथ मर्चन्ति
४) रामः पितुराज्ञां शिरसोवाह वनं च जगाम ॥
४) 'लोट् ' रूपैः वाक्यानि पूरयित्वा श्लोकं पठत-</p>
<lg>
  <l>तृष्णां विद्...भजू... क्षमां हन् मदं मा घा... पापे मनः</l>
  <l>सत्यं ब्रू... अनुया... साधुपदवीं सेवू... विद्वज्जनान् ।</l>
  <l>मान्यान् मान्... विद्विषोऽप्यनुनी प्रच्छाद्स्वान् गुणान्</l>
  <l>कीर्ति पालू... दुःखिते कृ... दयामेतत्सतां लक्षणम् ॥</l>
</lg>
<p>.
.</p>
<pb n="121" />
<p>संस्कृतद्वितीयादर्श
116
-
५) नामधातुः - सुरभिं करोति = सुरभयति । एवं मलिनयति,
उष्णयति, शीतयति, दीर्घयति- इत्यादिकं भवति ॥
६) पयांया:-
चन्द्रनः ४ – गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् ।
मेघः २५ – अभ्रं मेघो वारिवाहः स्तनयित्वलाहकः ।</p>
<lg>
  <l>धाराधरो जलधरः तडित्वान् बारिदोऽवुः ।</l>
  <l>घनजीमूतमुदिर जलमुग्धूनयोनयः ॥</l>
</lg>
<p>1 बन्धन " bondage
2 अवज्ञा f disrespect
3 सामन् " pacific
fafaf complete
पित्त " bile
शर्करा / candied sugar
पटोल m & species
5
measure
attainment
of cucumber
4 शरद् / the autumn
निःस्वन a noiseless
6 कुलीन a Born of a
noble family
odorous
व्यसन " distress
7 सुलोचना f beautiful
eyed
कनक n gold ornament
४ गर्दभ m ass
हयm horse
9 सम्पूर्णकुम्भ m full pot
घोष m loud noise
साट्टहास in with a
loud laughter
चन्दनतरु m sandal tree ! 10 क्षार a saline
सुरभयति P. makes
वारिमुच् m cloud
सूक्त n good speech.</p>
<pb n="122" />
<p>पर्यायसंख्या नामानि
4
3
4
9
10
16
4
3
5
5
4
5
1
3
8
3
5
4
3
4
8
CO
पर्यायपदानां वर्णानुक्रमणिका
5
अगस्त्यः
अज्ञानम्
अतिथिः
अवमानः
असुरः
आकाश:
आपणः
आहार:
58
इन्द्राणी 19
58
उदरम्
46
39
58
110
102
112
29
116
107
76
26
56
कदली
कबल:
कारणम्
गङ्गा
गर्व:
पृष्ठम् । पर्यायसंख्या
19
12
102
6
80
5
112
2
49
27
71
17
56
गुरुः
चन्दनः
तीक्ष्णम्
दिनान्तः
दैवशः
नगरम्
2
5
6
2
22
14
6
6
4
1
3
नामानि
नदी
पद्मम्
6 पर्णम्
पर्कटी
पुरोहितः
9
2
5
पृष्ठम्
62
3
107
निदानम् 110
पक्षी
23
16
11
80
71
16
76
13
91
नयनम्
नित्यः
पुष्पम्
प्रभातम्
प्राणाः
बुद्धिः
बृहत्
भाग्यम्
मकरन्दः
मत्सरः
मधु
मधुकरः
मानः
मार्जार:
35
110
68
52
32
52
52
112
80</p>
<pb n="123" />
<p>118
पर्यायसंख्या नामानि
2
15
8
2
7
7
5
4
1
3
6
11
3
6
9
मृगतृष्णा
मेघः
मेरुः
मोक्षः
यजमानः
यशः
यज्ञः
5
4
6
6
6
71
26
यानम्
66
15
रसातलम् 68 12
राजहंसः
43
32
लोभः
लोभी
वक्रम्
वटः
संस्कृतद्वितीयादर्श
वस्त्रम्
वानरः
पृष्ठम् । पर्यायसंख्या
107
22
116
68
102
71
29
32
98
80
98
26 ।
6
4
6
4
7
आहत्य पर्यायपदानि – 75
-
नानानि
विद्वान्
शिष्यः
शोभा
सखा
सजनः
सदृशः
सर्पः
समुद्रः
सुन्दरभ्
संपत्
संवत्सरः
सर्वतः
सिंह:
हंसः
हिमम्
पृष्ठम्
95
29
102
76
87
87
19
62
56
84
11
66
7
43
84</p>
<pb n="124" />
<p>धातुः
असू
आपू
इ
15
कृष्
कृ
क्षिप
क्रुध्
गाहू
ग्रह
चक्षु
चि
झा
डी
तपू
तुष
वृ
त्यज्
दा
धा
कृत्प्रत्ययान्तानां धातूनां वर्णानुक्रमणिका
पृष्ठम्
43
67
94
13
26
62
19
71
83
11
42</p>
<p>3
3
112
86
32
62
38
76
76
1
धातुः
ध्यै
नम्
नी
पच्
पद्
पा
पित्र
पू
प्री
बन्धू
बुधू
भजू
भुज्
भृ
मन्
मुच
मृ
या
युज्
रुधू
पृष्ठम् धातुः
101
49
65
39
80
11
26
102
32
29
22
58
58
104
19
16
13
109
58
29
46
लिप्
लिहू
वस्
वह्
विश्
वृ
व्यध्
शी
श्रि
dood
सिच्
ब
स्वपू
हन्
हनु
क्षिप्
119
पृष्ठम्
65
55
52
86
55
46
22
84
71
19
112
49
3
16
49
49
67
19
95
19
3</p>
<pb n="125" />
<p>उपसर्गयोगेन भिन्नार्थकानां धातूनाम् अनुक्रमणिका ॥
धातुः
अय्
आप्
आसू
इ
कल्
क.म्यू
ग्रह
चक्षु
चर्
त्रि
ate to the new ho to
दा
धा
पाठ्
बन्धू
भा
मज्जू
पृष्ठम्
16 उत्, परा
49 अव, सम्. प्र, वि
अधि, अनु, उप, उत्
98
29
उपसर्गाः
सम्
39 अप, अव, उप, परि, प्र, प्रति, वि, सम्
84 आ, वि, सम्
31
अति, अधि, अनु, उप, अभि, अव, प्रति, वि, व्यप
अनु
7 अनु, नि, परि, प्रति, वि, सम्
पद् 16
71 आ, प्रत्या, व्या
42 प्र, वि, सम्
51 निस्, परि, वि, सम्
87 परा, वि
29 आ, वि, अनु
61 अव, वि, उत्, निस्
75 आ, उप
76
अतिसम्, अपि (पि) अभि, अव, नि, परि, सम्
आ, उत्, उप, निष्, प्र, प्रति, वि, विप्रति, सम्
82 आ, उत्, उप, निस्, प्रति, आ
65 अनु, उत्, निर्, प्रति, सं, आ
सम्,
13
प्रति, वि, अनु
61 उत्, प्र</p>
<pb n="126" />
<p>धातुः पृष्ठम्
51
उत्, प्र
10
अनु. निर्, परि, प्र
10 अनु, अभि, उत्, उप, नि, प्र, वि, विनि,
84 अनु, अव, उप, नि, वि
आ, उप, उपा, विप्र
अव. आ. वि
42
63
13 आ, उत्, निर्, प्र, वि
आ, उप, निर्, प्र, सम्
23
23
आ. अप, अपा, वि, सम्
7 अति, अनु, आ, वि, सम्
49
आ
निल्, वि
आ, उत् उप,
अनु, अप, उप,
मद्
मा
युज़ू
रुधू
लभू
लम्बू
वहू
विश्
वृं
शी
श्वसू
सद्
क्री
क्रम्
वद्
सस्कृतद्वितीयादर्श अनुक्रमणिका
उपसर्गाः
31
49
71 वि, सम्
वहू
26 उप, प्र
80 वि
29 सम्
106
नि, प्र, वि,
निः, परि, प्र
उपसर्गयोगात् आत्मनेपदि धातूनाम् अनुक्रमणिका ॥
109 वि, परि, अव
प्रत्या
आ, सम्, अव, प्र,
सम्
वि, उप
121
उपसंर्गयोगात् परस्मैपदि धातूनाम् अनुक्रमणिका ॥
102 ST</p>
<pb n="127" />
<p>Sanskrit Participles with English equivalents
and Examples
1. Past Passivē
Participle
2. Past Active
Participle
3. Present Active
Participle
4. Present Passive
Participle
5. Indeelinable Past
Participle (with-
outPreposition)
6. Indeclinable Past
Participle (with.
Preposition )
7. Infinitive of
Purpose
8. Potential Passive
Participle
कर्मणिक्त प्रत्ययः Ex. जितः
कवतु प्रत्ययः
शतृ प्रत्ययः
शानच् प्रत्ययः
क्त्वा प्रत्ययः
ल्यप्
तुमुन् प्रत्ययः
1 सत्य प्रत्ययः
प्रत्ययः
८ य
प्रत्ययः
3 अनीय प्रत्ययः
...
...
000
...
जितवान्
जयन्
जीयमानः
जित्वा
विजित्य
जेतुम्
जेतव्यम्
जेयम्
जयनीयम्
Note:—(1) Words having 1 to 4 and 8th Partic
ciples are Adjectives ( विशेषण शब्दः)
(2) Words having 5th, 6th and 7th
Participles are indeclinables (अव्ययाः)
शुभं भूयात् समस्तसन्मङ्गळानि सन्तु ॥</p>
<pb n="128" />
<p>NOTES</p>
<pb n="129" />
<p>NOTES</p>
</body>
</text>
</TEI>