शतं सुभाषितानि 1. भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती । तस्माद्धि काव्यं मधुरं तस्मादपि सुभाषितम् ॥ 2. पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥ 3. सुभाषितेन गीतेन युवतीनां च लीलया । मनो न भिद्यते यस्य स योगी ह्यथवा पशुः ॥ 4. द्राक्षा म्लानामुखी जाता शर्करा चाश्मता गता । सुभाषितरसं दृष्ट्वा सुधा भीता दिवंगता । 5. काकः कृष्णः पिकः कृष्णः को भेदः काकपिकयोः । वसन्तकाले सम्प्राप्ते काकः काकः पिकः पिकः ॥ 6. शैले शैले न माणिक्यं मौक्तिकं न गजे गजे । साधवो न हि सर्वत्र चन्दनं न वने वने ॥ 7. छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे । फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥ 8. उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः सः साधुरिति कीर्तितः ॥ 9. साधुनां दर्शनं पुण्यं तीर्थभूता हि साधवः । तीर्थं फलति कालेन सद्यः साधुसमागमः ॥ 10. स्वभावं न जहात्येव साधुरापद्गतोपि सन् । कर्पूरः पावकस्पृष्टः सौरभं लभतेतराम् ॥ 11. आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः । परं परोपकारार्थं यो जीवति स जीवति ॥ 12. गङ्गा पापं शशी तापं दैन्यं च कल्पतरुस्तथा । पापं तापं च दैन्यं घ्नन्ति सन्तो महाशयाः ॥ 13. सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि । छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ 14. नागुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी । गुणी च गुणरागी च विरलः सरलो जनः ॥ 15. परोपकाराय वहन्ति नद्यः परोपकाराय दुहन्ति गावः । परोपकाराय फलन्ति वृक्षाः परोपकारार्थम् इदं शरीरम् ॥ 16. पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः । नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥ 17. पादपानां भयं वातात् पद्मानां शिशिराद् भयम् । पर्वतानां भयं वज्रात् साधुनां दुर्जनाद्भयम् ॥ 18. अधमा धनमिच्छन्ति धनमानौ तु मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ 19. दम्भेन लोभेन भिया ह्रिया वा प्रायो विनीतो जन एष सर्वः । वैराग्यस्त्वाहृदयं विनीतं नरं वरं दुर्लभमेव मन्ये ॥ 20. घटं भित्त्वा पटं छित्त्वा (कृत्वा) रासभरोहणम् । येनकेनाप्युपायेन प्रसिद्धः पुरुषो भवेत् ॥ 21. अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ 22. न मातृसदृशो बन्धुः न मातृसदृशः सखा । कुपुत्रो भुवि जायेत न कुमाता भवेत् क्वचित् ॥ 23. शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे । औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥ 24. पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः । न पापफलमिच्छन्ति पापं कुर्वन्ति यत्नतः ॥ 25. अङ्गं गलितं फलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चति आशापिण्डम् ॥ 26. दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः । कालः क्रीडति गच्छत्यायुः तदपि मुञ्चत्याशावायुः ॥ 27. नाभिषेको न संस्कारः सिंहस्य क्रियते वने । विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ 28. एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः । स्वप्नेऽप्येवं विधा चिन्ता मृगेन्द्रस्य न जायते ॥ 29. अविश्रामं वहेद्भारं शीतोष्ण च न विन्दते । ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत् गर्दभात् ॥ 30. अजवत् भोजनं कुर्यात् गजवत् स्नानमाचरेत् । शुकवत् भाषणं कुर्यात् बकवत् ध्यानमाचरेत् ॥ 31. उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ 32. न कश्चिदपि जानाति किं कस्य श्वो भविष्यति । अतः श्वः करणीयानि कुर्यात् अद्यैव बुद्धिमान् ॥ 33. विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥ 34. हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम् । श्रोतस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम् ॥ 35. उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयः पानं भुजङ्गानां केवलं विषवर्धनम् 36. पठतो नास्ति मूर्खत्वं जपतो नास्ति पातकम् । मौनिनः कलहो नास्ति न भयं चास्ति जाग्रतः ॥ 37. बाणेन युद्धं न तु भाषणेन ज्ञानेन साधुः न तु वल्कलेन । रथेन यात्रा न मनोरथेन श्रमेण विद्या न तु पुस्तकेन ॥ 38. आशाया ये दासास्ते दासास्सर्वलोकस्य । आशा येषां दासी तेषां दासायते लोकः ॥ 39. जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥ 40. दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ 41. वनानि दहतो वह्नेः सखा भवति मारुतः । स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥ 42. यो ध्रुवाणि परित्यज्य अध्रुवं परिसेवते । धुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव तत् ॥ 43. अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च । अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः ॥ 44. शतं विहाय भोक्तव्यं सहस्रं स्नानमाचरेत् । लक्षं विहाय दातव्यं कोटिं त्यक्त्वा हरिं स्मरेत् ॥ 45. चिन्तनीया हि विपदाम् आदावेव प्रतिक्रिया। न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ॥ 46. कर्ता कारयिता चैव प्रेरकश्चानुमोदकः । सुकृते दुष्कृते चैव चत्वारः समभागिनः ॥ 47. यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पुराकृतम् कर्म कर्तारमनुगच्छति ॥ 48. गुणवज्जनसंसर्गात् याति नीचोऽपि गौरवम् । पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते । 49. वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह । न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥ 50. शतेषु जायते शूरः सहस्रेषु च पण्डितः । वक्ता दशसहस्रेषु दाता भवति वा न वा ॥ 51. महानुभावसंसर्गः कस्य नोन्नतिकारकः । रथ्याम्बु जाह्नवीसङ्गात् त्रिदेशैरपि वन्द्यते ॥ 52. अकरणात् मन्दकरणं श्रेयः । मन्दकरणात् सद्यकरणं श्रेयस्तरम् ॥ 53. आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया । पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च ॥ 54. श्लोकार्धेन प्रवक्षामि यदुक्तं ग्रन्थकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ॥ 55. यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिध्यति ॥ 56. अद्भिः गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥ 57. गुरवः सन्ति बहवः शिष्य - वित्तापहारकाः । दुर्लभः स गुरुलोके शिष्य-चित्तापहारकः ॥ 58. चिन्तायास्तु चितायास्तु बिन्दुमात्रं विशेषतः । चिता दहति निर्जीवं चिन्ता दहति जीवितम् ॥ 59. अन्नदानं परं दानं विद्यादानमतः परम् । अन्नेन क्षणिका तृप्तिः यावज्जीवं च विद्यया ॥ 60. प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः । तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ॥ 61. त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ 62. व्याधितस्यार्थहीनस्य देशान्तरगतस्य च । नरस्य शोकदग्धस्य सुहृद्दर्शनमौषधम् ॥ 63. अनेकशास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्नाः । यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमध्यात् ॥ 64. प्रणयो मरणान्तः स्यात् कोपस्तु क्षणभङ्गुरः । उपदेशो यथाकालं विद्वेषो न कदाचन ॥ 65. गते शोकं न कुर्वीत भविष्यं नैव चिन्तयेत् । वर्तमानेषु कालेषु वर्तयन्ति विचक्षणाः ॥ 66. पुष्पेषु चम्पा नगरीषु लङ्का नदीषु गङ्गा नृवरेषु रामः । रामासु रम्भा पुरुषेषु विष्णुः काव्येषु माघः कविकालिदासः ॥ 67. विद्या ददाति विनयं विनयाद् याति पात्रताम् । पात्रत्वाद् धनमाप्नोति धनाद् धर्मं ततः सुखम् ॥ 68. गच्छन् पिपीलिको याति योजनानां शतान्यपि । अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ॥ 69. काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन च मूर्खाणां निद्रया कलहेन वा ॥ 70. विना वेदं विना गीतां विना रामायणीं कथाम् । विना कविं कालिदासं भारतं भारतं न हि ॥ 71. एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना । वासितं तद्वनं सर्वं सुपुत्रेण कुलं तथा ॥ 72. आहार-निद्रा-भयं-मैथुनं च समानमेतत्पशुभिर्नराणाम् । धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः ॥ 73. सङ्गीतमपि साहित्यं सरस्वत्याः स्तनद्वयम् । एकमापारमधुरं अन्यतालोचनामृतम् ॥ 74. पुस्तकस्था च या विद्या परहस्ते च यद्धनम् । कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥ 75. वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके । सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि ॥ 76. मनो नाम महाव्याघ्रः विषयारण्यभूमिषु । चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ॥ 77. मूर्खो वदति विष्णाय विद्वान् वदति विष्णवे । उभयोः सदृशं पुण्यं भावग्राही जनार्दनः ॥ 78. यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥ 79. दानेन प्राप्यते स्वर्गो दानेन सुखमश्नुते । इहामुत्र च दानेन पुज्यो भवति मानवः ॥ 80. जीवने यावत् आदानं स्यात् प्रदानं ततोऽधिकम् । इत्येषां प्रार्थना अस्माकं भगवन् परिपूर्यताम् ॥ 81. परीक्षका यत्र न सन्ति देशे नार्घन्ति रत्नानि समुद्रजानि । आभीरदेशे किल चन्द्रकान्तं त्रिभिर्वराटैर्विपणन्ति गोपाः ॥ 82. दातव्यं भोक्तव्यं सति विभवे सञ्चयो न कर्तव्यः । पश्येह मधुकारिणां सञ्चितमर्थं हरन्त्यन्ये ॥ 83. अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् । शनैः शनैः भोक्तव्यं स्वयं वित्तमुपार्जितम् ॥ 84. दुर्जनः परिहर्तव्यः विद्ययालङ्कृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ 85. धर्मस्य दुर्लभो ज्ञाता सम्यक् वक्ता ततोऽपि च । श्रोता ततोऽपि श्रद्धावान् कर्ता कोऽपि ततः सुधीः ॥ 86. भुक्त्वा तृणानि शुष्कानि पीत्वा तोयं जलाशयात् । दुग्धं ददाति लोकेभ्यः गावो विश्वस्य मातरः ॥ 87. यथेरिणे बीजम् उप्त्वा न वप्ता लभते फलम् । तथानृचे हविर्दत्त्वा न दाता लभते फलम् ॥ 88. अब्धेः क्षारं जलं पीत्वा वर्षन्ति मधुरं भुवि । परोपकारे निरताः कथं मेघा न सज्जनाः ॥ 89. पिपीलिकार्जितं धान्यं मक्षिकासञ्चितं मधु । लुब्धेन सञ्चितं द्रव्यं समूलं हि विनश्यति ॥ 90. सम्पूर्णकुम्भो न करोति शब्दम् अर्धघटो घोषमुपैति नूनम् । विद्वान् कुलिनो न करोति गर्वं गुणैर्विहीना बहु जल्पयन्ति ॥ 91. साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः । तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम् । 92. पापान्निवारयति योजयते हिताय गुह्यं निगूहति गुणान् प्रकटिकरोति । आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणम् इदं प्रवदन्ति सन्तः ॥ 93. यत्र राजा स्वयं चोरः सामात्यः सपुरोहितः । तत्राहं किं करिष्यामि यथा राजा तथा प्रजाः ॥ 94. यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः । यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥ 95. लभेत् सिकतासु तैलमपि यत्नतः पीडयन् पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः । कदाचिदपि पर्यटन् शशविषाणमासादयेत् न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ 96. न सा सभा यत्र न सन्ति वृद्धाः वृद्धा न ते ये न वदन्ति धर्मम् । धर्मो न वै यत्र च नास्ति सत्यं सत्यं न तद्यच्छलनानुविद्धम् ॥ 97. किं वाससेत्यत्र विचारणीयं वासः प्रधानं खलु योग्यतायाः । पीताम्बरं वीक्ष्य ददौ स्वकन्यां चर्माम्बरं वीक्ष्य विषं समुद्रः ॥ 98. अव्याकरणमधीतं भिन्नद्रोण्या तरङ्गिणीतरणम् । भेषजमपथ्यसहितं त्रयमिदं कृतं न कृतम् ॥ 99. रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगाः निरालम्बो मार्गः चरणरहितः सारथिरपि । रविर्गच्छत्यन्तं प्रतिदिनमपारस्य नभसः क्रियासिद्धिः सत्वे भवति महतां नोपकरणे ॥ 100. यदा किञ्चिज्ञोऽहं द्विप इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः । यदा किञ्चित् किञ्चित् बुधजनसकाशादवगतं तदा मुर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ 100100100100100100 श्रुतिस्मृतिपुराणानाम् आलयं करुणालयम् । नमामि भगवद्पादं शङ्करं लोकशङ्करम् ॥ शङ्करं शङ्कराचार्यं केशवं भादरायणम् । सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः । सदाशिवसमारम्भाम् शङ्कराचार्यमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् । पाणिनिं सूत्रकारं च प्रणोतोऽस्मि मुनित्रयम् । काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी । देशोऽयं क्षोभरहितः सज्जनाः सन्तु निर्भयाः ॥ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् ॥ आ नो भद्राः क्रतवो यन्तु विश्वतः ॥