अथ भर्तृहरिकृतं नीतिशतकं प्रारभ्यते । भक्तचित्तानुरोधेन धत्ते नानाकृतीः स्वयम् । अद्वैतानन्दरूपो यस्तस्मै भगवते नमः ॥ १ ॥ गोदावाक्तटवर्तिनासिकमहाक्षेत्रे पवित्रे वसन् बालंभट्टतनूभवोजननभूर्लक्ष्मीर्यदीया सती । तेनेयं विवृतिर्महाबलपराभिख्येन कृष्णेन हि श्रीमद्भर्तृहरिप्रणीतशतकत्रय्याः कृता यत्नतः ॥ २ ॥ अर्थद्योतनका भूयाद्विदुषां प्रीतयेऽनिशम् । त एवात्र विचिन्वन्तु गुणदोषौ विमत्सराः ॥ ३ ॥ इह खलु राजर्षिप्रवरः श्रीभर्तृहरिरुभयलोकसाधकं नीतिशृङ्गारवैराग्याख्य- शतकत्रयात्मकं ग्रन्थं चिकीर्षुः "सदाचरणस्य नीतिज्ञानपूर्वकत्वात्तज्ज्ञानाय प्रथमं नीतिशतकमारभमाणः" प्रारिप्सितस्य ग्रन्थस्याविघ्नतासिद्धये 'नमस्का- रात्मकं' मङ्गलमाचरति --- दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ॥ स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥ १॥ दिगिति ॥ दिग्दिशा ॥ कालो भूतादिः ॥ आदिशब्देन देशवयआदि ॥ दिक्च कालश्च तावादी येषां देशवयआदीनां तैरनवच्छिन्नाऽव्याप्ताऽतए- वानन्ता चिन्मात्रा चिद्रूपा मूर्तिर्देहो यस्य तस्मै, शान्ताय शान्तस्वरूपाय, तेजसे प्रकाशरूपाय, भगवते ब्रह्मणे नमोऽस्तु ॥ ननु यं नमसि तदस्तित्व- विषये किं मानं तत्र हेतुगर्भं विशेषणमाह स्वानुभूत्येकमानायेति ॥ स्वस्यानु- भूतिरनुभवः यद्वा स्वा स्वकीयाऽनुभूतिः सैवैकं मानमस्तित्वज्ञापकं यस्य तस्मै ॥ अस्मिन् शतकत्रये दृष्टेषु बहुषु पुस्तकेषु क्वचिच्छ्लोकानां पूर्वापरभावव्यत्ययस्त- था परस्परमिश्रीभावश्च दृश्यते तद्विचारोऽत्र न कृतः स सुधीभिर्विचारणीयः ॥ "अनुष्टुब् वृत्तम्" ॥ १ ॥ एवंहि पुरा वृत्तम् ॥ जरारोगादिनाशकमायुर्वर्धकं किमपि फलं कुतश्चि- द्ब्राह्मणाद्भर्तृहरिणा लब्धं तत्स्वपत्न्यै राज्ञा दत्तं, साप्यन्यसक्तत्वादन्यस्मै दत्त- वती, सोऽपि पुरुषोऽन्यस्यै दत्तवान्, सापि पुना राज्ञे दत्तवती, तद्दृष्ट्वा परमं वैराग्यमापन्नो राजा स्वसहितान्पत्न्यादीन्निन्दति--- यां चिन्तयामि सततं मयि सा विरक्ता साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः ॥ अस्मत्कृते च परितुष्यति काचिदन्या धिक् तां च तं च मदनं च इमां च मां च ॥ २ ॥ यामिति ॥ अहं यां सततं निरन्तरं हृदि चिन्तयामि सा मयि विरक्ता- ऽस्ति ॥ साप्यन्यं जनं जारपुरुषमिच्छति वाञ्छति, स जनोऽप्यन्यस्मिंस्त्रीजने सक्त आसक्तः, यद्वाऽन्यस्यां सक्तः, सर्वनाम्नो वृत्तिमात्रे पुंवद्भावात् ॥ अ- स्मत्कृते चास्मदर्थे त्वन्या काचित्परितुष्यति संतोषं प्राप्नोति ॥ अतो याऽस्म- दर्थे परितुष्यति तां धिक् ॥ अन्यसक्तं तं जनं धिक् ॥ इमां मदीयां स्त्रियं मां च धिक् ॥ इदं सर्व मदनकृतमिति तं मदनमपि धिगित्यर्थः ॥ "वसन्त- तिलका वृत्तम् ॥ तदुक्तं वृत्तरत्नाकरे---उक्ता वसन्ततिलका तभजा जगौ ग इति" ॥ २ ॥ अत्र लोके हि त्रिविधा जनाः अज्ञः सुज्ञोऽल्पज्ञश्चेति तत्राऽऽद्यः सुखसा- ध्यः द्वितीयस्तु सुखतरसाध्यः तृतीयस्त्वसाध्य इत्याह--- अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ॥ ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ ३ ॥ अज्ञ इति ॥ न जानातीत्यज्ञः ॥ अकिंचिज्ज्ञ इत्यर्थः ॥ स तु सुखं यथास्या- त्तथाऽऽराध्यः सेव्यः ॥ विशेषं जानातीति विशेषज्ञः स तु सुखतरमतिसुखेना- ऽऽराध्यते ॥ ज्ञानस्य लवो लेशस्तेन दुर्विदग्धः दुःशब्दो दुष्टार्थकः हिताहितवि- वेकशून्यत्वेन दुष्टं यथा स्यात्तथा चतुरः ज्ञानलेशमात्रेणाऽऽत्मानं पण्डितंमन्य इति यावत् ॥ एतादृशं नरं ब्रह्माऽपि चतुर्मुखोऽपि न रञ्जयति न साधयति न वशीकरोतीति यावत् ॥ काऽन्येषां वार्तेत्यर्थः ॥ "आर्या वृत्तम् । तदुक्तं श्रुतबोधे---यस्याः प्रथमे पादे द्वादश मात्रास्तथा तृतीयेऽपि ॥ अष्टादश द्वितीये चतुर्थके पञ्चदश साऽऽर्येति" ॥ ३ ॥ मूर्खजनचित्ताराधनं दुर्घटमिति बहुदृष्टान्तैः स्पष्टयति श्लोकद्वयेन--- प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरा- त्समुद्रमपि संतरेत्प्रचलदूर्मिमालाकुलम् ॥ भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारये- न्नतु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ४ ॥ प्रसह्येति ॥ मकरो जलजन्तुविशेषस्तस्य वक्त्रं मुखं तत्संबन्धिन्यो या दंष्ट्रा- स्तासामन्तरं मध्यं तस्मात् ॥ "दंष्ट्राङ्कुरादित्यपि पाठः" ॥ तन्मुखपतितमपि मणिं प्रसह्य हठादुद्धरेन्निष्कासयेत् ॥ तथा प्रचलन्त्यो या ऊर्मिमालास्तरङ्गप- ङ्क्ततयस्ताभिराकुलं व्याप्तं समुद्रमपि संतरेत्पारं गच्छेत् ॥ तथा कोपितं भुजङ्गं सर्पं हस्तेनोद्धृत्य शिरसि मस्तके पुष्पवत् कोऽपि धारयेत्, परंतु सत्यसति वा वस्तुनि प्रतिनिविष्टमाविष्टं मूर्खजनस्य चित्तं नाराधयेन्न साधयेन्न चालयेदित्यर्थः ॥ पृथ्वी वृत्तम् ॥ "जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः" इति तल्लक्षणात् ॥ किंच— लभेत सिकतासु तैलमपि यत्नतः पीडय- न्पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ॥ कदाचिदपि पर्यटञ्छशविषाणमासादये- न्नतु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ५ ॥ लभेतेति ॥ कश्चित्सिकताः यत्नतस्तैलनिष्कासनोपायेन, पीडयन्मर्दयन् सिकतासु वालुकास्वपि तैलं लभेत प्राप्नुयात् ॥ तथा पिपासार्दितस्तृषापीडितो मृगतृष्णिकासु मृगजलेषु सलिलमुदकं कदाचित्पिबेत् ॥ कदाचित्पर्यटन्पर्य- टनशीलः पुरुषः शशो मृगविशेषस्तस्य विषाणं शृङ्गं ब्रह्मणाऽसृष्टमप्यासाद- येत्प्राप्नुयात्, परंतु प्रतिनिविष्टमूर्खजनचित्तं नाराधयेत् ॥ पूर्वोक्तमेव वृत्तम् ॥५॥ खलजनाः केनाप्युपायेन सन्मार्गे वर्तयितुमतिदुःशका इत्याह--- व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते छेत्तुं वज्रमणीञ्छरीषकुसुमप्रान्तेन संनह्यते ॥ माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते नेतुं वाञ्छति यः खलान्पथि सतां सूक्तैः सुधास्यन्दिभिः ॥६॥ व्यालमिति ॥ यः सतां पथि मार्गे सुधाममृतं स्यन्दन्ते प्रस्रवन्ति तच्छीलैः सूक्तैः सुवचनैः खलान्दुर्जनान्नेतुं वाञ्छतीच्छति असौ व्यालं सर्पं दुष्टगजं वा ॥ व्यालो दुष्टगजे सर्पे इति मेदिनी ॥ बालैः कोमलैर्मृणालतन्तुभिः कम- लबिसतन्तुभिः रोद्धुं बद्धुं समुज्जृम्भते सम्यक्चेष्टते तथा वज्रमणीन्हीरकमणीन् ॥ वज्रो स्त्री हीरके पवावित्यमरः ॥ शिरीषकुसुमस्य पुष्पविशेषस्य "शिरस इति ख्यातस्य" ॥ 'शिरीषस्तु कपीतन इत्यमरः' ॥ प्रान्तेन प्रान्तभागेन छेत्तुं भेत्तुं संनह्यते संनद्धो भवति ॥ तथा क्षाराम्बुधेः क्षारजलसमुद्रस्य माधुर्यं मृष्टजलत्वं मधुबिन्दुना माक्षिकबिन्दुना ॥ 'मधु क्षौद्रं माक्षिकादीत्यमरः' ॥ रचयितुं कर्तुमीहते चेष्टते । एवं च व्यालादयो यथा मृणालतन्त्वादिभिर्बन्ध- नादि कर्तुमशक्यास्तथा केनाप्युपायेन खलजनाः सन्मार्गे वर्तयितुं दुःशका इति भावः ॥ "शार्दूलविक्रीडितं वृत्तम् ॥ सूर्याश्वर्मसजस्तताः सगुरवः" इति तलक्षणात् ॥ ६ ॥ इदानीमज्ञजनानामज्ञता ऽऽवरणोपायमाह--- स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छाद्नमशतायाः ॥ विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥ ७ ॥ स्वायत्तमिति ॥ विधात्रा ब्रह्मणा अज्ञताया मौर्ख्यस्य छादनमावरणम् ॥ 'छदिर् आवरणे धातुः' ॥ मौनं तूष्णींभावः विनिर्मितं रचितम् ॥ कीदृ- शम् ॥ स्वस्याऽऽत्मन आयत्तमधीनम् ॥ "अधीनो निघ्न आयत्त इत्यमरः" ॥ पुनः कीदृशम् ॥ एकान्तगुणं एकान्ता अतिशयिता गुणा यस्मिंस्तत् ॥ "अथा- तिशयो भर इत्युपक्रम्य ॥ तीव्रैकान्तनितान्तानीत्यमरः" विशेषतो विशेषेण सर्वं विन्दन्ति जानन्ति ते सर्वविदस्तेषां समाजे समूहे सभायामिति यावत् ॥ सदसद्विवेकवती बुद्धिः पण्डा, संजाता येषां ते पण्डिताः न पण्डिता अप- ण्डितास्तेषां विभूषणमलंकरणं भवति ॥ अज्ञस्य स्वाज्ञानावरणे मौनादन्य उपायो लोके नास्तीति भावः ॥ "इन्द्रवज्रा वृत्तम् स्यादिन्द्रवज्रा यदि तौ जगौ गः" इति ॥ ७ ॥ किंचिज्ज्ञानात्सर्वज्ञत्वाभिमानो भवति विशेषज्ञानात्तु तदभाव इति स्वदृ- ष्टान्तेनाऽऽह--- यदा किंचिज्ज्ञोऽहं द्विप इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः ॥ यदा किंचित्किचिह्नधजनसकाशाद्वगतं तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ ८ ॥ यदेति ॥ यदाऽहं किंचिज्जानातीति किंचिज्ज्ञः, द्वाभ्यां मुखशुण्डाभ्यां पिबतीति द्विपो गजः यथा मदेन मदजलेनान्धो विवेकशून्यस्तथाऽहमपि किंचिज्ज्ञत्वमदेनान्धः कार्याकार्यविवेकशून्यः समभवमासं, तदा सर्वमखिलं जानातीति सर्वज्ञोऽस्मीति मम मनोऽवलिप्तं गर्वितमभवत् ॥ यदा बुधजनस- काशाद्विद्वज्जनसकाशात्किंचित्किंचिच्छास्त्रादिकमवगतं प्राप्तं तदा मूर्खोऽस्मीति मम मनोऽभवदिति पूर्वस्यैवानुषङ्गः ॥ ततो ज्वर इव मे मदो व्यपगतो नष्टः ॥ 'यथा सदौषधेन ज्वरो गच्छति तथा विद्वज्जनसकाशात्प्राप्तेन ज्ञानेनाहं सर्व- ज्ञोऽस्मीत्यभिमानो गत इत्यर्थः' ज्वर इति सर्वरोगोपलक्षणम् ॥ शिखरिणी वृत्तम् "रसैरुद्रैश्छिन्ना यमनसभला गः शिखरिणीति" लक्षणात् ॥ ८ ॥ इदानीं तुच्छेषु विषयेषु लुब्धं जनं श्वदृष्टान्तेन निन्दति--- कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं निरुपमरसं प्रीत्या खादन्नरास्थि निरामिषम् ॥ सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते नहि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥ ९ ॥ कृमिकुलचितमिति ॥ कृमीणां कीटानां कुलैः समूहैश्चितं व्याप्तम् ॥ लाला मुखमलं तेन क्लिन्नमार्द्रम् ॥ "आर्द्रं सार्द्रं क्लिन्नमित्यमरः" विगन्धि दुर्गन्धम- तएव जुगुप्सितं निन्द्यम् ॥ निरामिषं निर्गतमामिषं मांसं यस्मात्तत् ॥ शुष्क- मित्यर्थः ॥ नरास्थि मनुष्यदेहास्थि, निर्गता उपमा यस्यैतादृशोऽनुपमो रसः स्वादो यस्मिन्कर्मणि यथा तथा ॥ "रसो गन्धरसे जले इत्यारभ्य पारदस्वाद- योः पुमानिति मेदिनी" प्रीत्या प्रीतिपूर्वकं खादन्भुञ्जन् श्वा शुनकः ॥ "शुनको भषकः श्वास्यादित्यमरः" पार्श्वस्थं निकटस्थितं सुरपतिमिन्द्रं वि- लोक्यापि न शङ्कते न लज्जते ॥ हि यस्मात्क्षुद्रोऽल्पो जन्तुः प्राणी परिग्रह- स्य फल्गुतां तुच्छतां न गणयति न मनुते किंत्वतितुच्छं लोकैर्निन्दितमपि कर्म करोत्येवेति भावः ॥ हरिणी वृत्तम् "रसयुगहयैर्न्सौ म्रौ स्लो गो यदा हरिणी तदेति" लक्षणात् ॥ ९ ॥ उत्तमपदाच्युतः पुरुषोऽधःपतनं प्राप्नुवन्क्षुद्रपदं प्राप्नोति न पुनरुच्चपद- मिति गङ्गादृष्टान्तेनाह--- शिरः शार्वं स्वर्गात्पतति शिरसस्तत् क्षितिधरं महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् ॥ अधोऽधो गङ्गेयं पदमुपगता स्तोकमथवा विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ १० ॥ शिरः शार्वमिति ॥ विष्णुपदादुत्तमान्निर्गता गङ्गा, स्वर्गात्प्रथमं शर्वः शिवस्तस्येदं शार्वं शिरो मस्तकं प्रति पतति, तत्ततः शिरसः क्षितिधरं हि- मालयपर्वतं पतति, उत्तुङ्गादत्युच्चान्महीं पृथ्वीं धारयतीति महीघ्रः पर्वतस्त- स्मात् "मूलविभुजादित्वात्कः" अवनिं भूमिं पतति, अवनेश्चापि सहस्रमुखै- र्जलधिं समुद्रं पतति, एवमियं गङ्गा क्रमेणाधोधः पतन्ती स्तोकमल्पं पदमु- पगता अथवा विवेकभ्रष्टानां सदसद्विचारशून्यानां विनिपातो विशेषेण पतनं नीचस्थितिरिति यावत् ॥ शतमनेकानि मुखानि द्वाराणि यस्य यस्मिन्वा एता- दृशो भवति ॥ यथा गङ्गा उत्तमस्थानाद्विष्णुपदान्निर्गता शिवमस्तकं प्रत्या- याता एतदपेक्षयाऽन्यदुत्तमं निवासयोग्यं स्थानं नास्तीति मनसि विचारमकृ- त्वा क्रमेण पर्वतादौ पतन्ती सहस्रमुखैर्जलधिं डलयोरैक्याज्जडाश्रयं नीचमेव पदं प्राप्ता न पुनरुत्तमं पदं तथा विवेकशून्याः पुरुषाह्यनेकद्वारैर्नीचपदमेव प्राप्नुवन्ति नोत्तमं पदमिति भावः ॥ शिखरिणी वृत्तम् ॥ लक्षणं तूक्तमेव ॥ १०॥ सर्वोपद्रवनिवर्तकोपायः शास्त्रे लोके च दृष्टो मूर्खबोधकोपायो न क्वाऽपि दृष्ट इत्याह--- शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ ॥ व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥११॥ शक्य इति ॥ हुतं हविरादि भुङ्क्ते इति हुतभुगग्निः "हिरण्यरेता हुतभु- गित्यमरः" जलेनोदकेन वारयितुं शमयितुं शक्यः 'शक्य इति क्रियाया यथा- संभवं सर्वत्रान्वयः' सूर्यस्यातप उष्णत्वं छत्रेण, तथा समदो मदयुक्तो नागेन्द्रो गजो निशितेनाङ्कुशेन, तथा गौश्च गर्दभश्च तौ दण्डेन लगुडेन, "दण्डोऽस्त्री लगुडेऽपि स्यादित्यमरः" व्याधी रोगो भेषजस्यौषधस्य सङ्ग्रहैः सेवनैः, तथा विषं विविधैरनेकैर्मन्त्रप्रयोगैः ॥ एवं सर्वस्योपद्रवस्य शास्त्रवि- हितमौषधं निवर्तकोपायोऽस्ति परंतु मूर्खस्यौषधं शास्त्रविहितं लौकिकं च नास्ति ॥ मूर्खत्वविघातक उपायो नास्तीत्यर्थः ॥ शार्दूलविक्रीडितं वृत्तम् ॥ लक्षणं तूक्तमेव ॥ ११ ॥ यस्तु साहित्यशास्त्राद्यनभिज्ञः स तु नराकारः पशुरेवेत्याह--- साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः ॥ तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम् ॥ १२ ॥ साहित्येति ॥ साहित्यं काव्यालङ्कारादि, संगीतं गानादि, कला शिल्पं, ताभिर्विहीनो रहितो नरः पुच्छं लाङ्गूलं विषाणं शृङ्गं ताभ्यां हीनः "पुच्छो- ऽस्त्री लूमलाङ्गूले, अतस्त्रिषु विषाणं स्यात्पशुशृङ्गे इति चेत्यमरः" ॥ साक्षात्प- शुरेव ॥ ननु पशवस्तृणं भक्षयन्त्ययं तु कुतो न खादतीति चेत्तत्राह तृणमिति ॥ तृणं न खादन्न भक्षयन्नपि जीवमान इति यत् तत्पशूनां परममुत्कृष्टं भागधेयम- दृष्टम् ॥ अन्यथा तेषां तृणाद्यलाभाज्जीवनमपि न स्यादिति भावः ॥ तस्मान्म- नुष्येण साहित्यादिकमवश्यं संपादनीयमिति तात्पर्यम् ॥ उपजातिर्वृत्तम् ॥ "उपेन्द्रवज्रा जतजास्ततो गौ स्यादिद्रवज्रा यदि तौ जगौ गः ॥ अनन्तरोदी- रितलक्ष्मभाजी पादौ यदीयावुपजातयस्ता इति" तल्लक्षणात् ॥ १२ ॥ येषां विद्यादि नास्ति तेषां पशुभूतानां मनुष्यरूपेण भूमौ संचरणमि- त्याह--- येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ॥ ते मृत्युलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥ १३ ॥ येषामिति ॥ येषां विद्याव्याकरणमीमांसादिः न नास्ति, तपो व्रतोप- वासादि न, दानं सत्पात्रे गवादि धनार्पणं न, ज्ञानं शास्त्रीयं व्यावहारिकं च न, शीलं सद्वृत्तं न गुणः सत्त्वगुणः लोकानेकविधकार्यसाधको वा न, धर्मः सदाचरणादिः न, ते मृगाः पशुभूताः "मृगः पशौ कुरङ्गे चेति मेदिनी" नरा भुवि भारभूताः सन्तो मनुष्यरूपेण चरन्ति संचरन्ति ॥ विद्यादिहीना मनुष्यरूपेणोपलभ्यमाना अपि पृथिव्या भारभूताः साक्षात्पशव एवेत्यर्थः ॥ तथा च पुरुषेण पशुत्वनिवारकविद्यादिकमवश्यं संपादनीयमित्यनेन सूचितम् ॥ पूर्वोक्तमेव वृत्तम् ॥ १३ ॥ पर्वतादौ वनचरैः सह भ्रमणं श्रेष्ठं, न मूर्खजनसंसर्गः स्वर्गेऽप्युचित इत्याह--- वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह ॥ न मूर्खजनसंपर्कः सुरेन्द्रभवनेष्वपि ॥ १४ ॥ वरमिति ॥ पर्वतदुर्गेषु गन्तुमशक्येष्वपि स्थानेषु वने चरन्तीति वनेचरा व्याघ्रादयस्तैः सह भ्रान्तं भ्रमणम् 'भावे क्तः' ॥ वरमुचितम् ॥ सुरेन्द्रभव- नेष्वपि मूर्खजनस्य संपर्कः संसर्गो वरो न भवति ॥ तथा च मूर्खजनसंसर्गः सर्वथा त्याज्य इति तात्पर्यम् ॥ अनुष्टुब् वृत्तम् ॥ १४ ॥ यस्य राज्ञो देशे कवयो निर्धनाः सन्ति स राज्ञो दोष इति मणिपरीक्षक- दृष्टान्तेनाह--- शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा विख्याताः कवयो वसन्ति विषये यस्य प्रभोनिर्धनाः ॥ तज्जाड्यं वसुधाधिपस्य कवयोप्यर्थं विनापीश्वराः कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः ॥ १५ ॥ शास्त्रोपस्कृतेति ॥ यस्य प्रभो राज्ञो विषये देशे शास्त्रेण व्याकरणादिनोप- स्कृता अलङ्कृता ये शब्दास्तैः सुन्दरा गीर्वाणी येषां ते तथा शिष्येभ्यः प्रदेयो दातुं योग्योऽध्यापनयोग्य इति यावत् ॥ आगमः शास्त्रं येषामतएव विख्याताः प्रसिद्धाः कवयो निर्धना धनरहिता वसन्ति तद्वसुधायाः पृथिव्या अधिपस्य राज्ञो जाड्यं दोषोऽस्ति न सुधियाम् ॥ हि यतस्तेऽर्थं द्रव्यादि विनापीश्वराः सन्ति "तत्र दृष्टान्तः" यैः परीक्षकैर्मणयो रत्नादयो ऽर्घतो मूल्यतः पातिताः बहुमूल्या मणयोऽल्पमूल्याः कृता अतस्ते कुपरीक्षका ज्ञा- नशून्याः कुत्स्या निन्द्या न तु मणय इत्यर्थः ॥ 'तथा च रत्नानां मूल्यं यथा- र्थमजानन्तः परीक्षका यथा निन्द्यास्तथोक्तविधकवीनां वास्तवं स्वरूपमजा- नन्तो राजानोऽपि निन्द्या इति भावः' ॥ अनेन सत्यैश्वर्ये राज्ञा कवयः संमाननीया इति व्यज्यते ॥ "शार्दूलविक्रीडितं वृत्तम्" ॥ १५ ॥ इदानीं राज्ञा विद्वांसः संमाननीया न तु गर्वेण तिरस्करणीया इति नीतिं विद्याप्रशंसापूर्वकं तं प्रति बोधयन्नाह द्वाभ्याम् — हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा ह्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् ॥ कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं येषां तान् प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥ १६ ॥ हर्तुरिति ॥ यद्धनं हर्तुश्चोरादेर्गोचरमक्षिविषयं न याति न प्राप्नोति, तथा किमपि शं कल्याणं पुष्णाति पोषयति, सर्वदाऽर्थिभ्यो याचकेभ्योऽनि- शं निरन्तरं प्रतिपाद्यमानं दीयमानमपि परामुत्कृष्टां वृद्धिं प्राप्नोति वर्धत इति यावत् ॥ तदुक्तम् "अपूर्वः शब्दकोशोऽयं विद्यते तव भारति ॥ व्ययतो वृद्धिमाप्नोति क्षयं प्राप्नोति गोपनादिति" किंच कल्पान्तेष्वपि निधनं नाशं न प्रयाति न गच्छति एतादृशविद्याख्यं विद्यानामकमन्तर्धनं गुप्तं धनं येषां तैः सह कः पुरुषः स्पर्धते स्पर्धां करोति न कोऽपि अतो हे नृपास्तान्प्रति वयं धनवन्तो राजानः इमे त्वतिदरिद्रास्तुच्छा इति मानं गर्वमुज्झत त्यजतेति भावः ॥ "शार्दूलविक्रीडितं वृत्तम्" ॥ १६ ॥ किंच--- अधिगतपरमार्थान्पण्डितान्मावमंस्था- स्तृणमिव लघु लक्ष्मीर्नैव तान्संरुणद्धि ॥ अभिनवमदलेखाश्यामगण्डस्थलानां न भवति बिसतन्तुर्वारणं वारणानाम् ॥ १७ ॥ अधिगतेति ॥ अधिगतः प्राप्तः परमार्थो यैस्तान्पण्डितान् लघु तुच्छं तृण- मिव माऽवमंस्था अपमानं मा कुरु, यतो लक्ष्मीरपि तान् नैव संरुणद्धि रोद्धुं न शक्नोति ॥ 'तत्र दृष्टान्तः' ॥ अभिनवो नूतनो यो मदो मदजलं तस्य लेखा पङ्क्तिस्तया श्यामे गण्डस्थले येषां तेषां वारणानां गजानां बिसतन्तुः कमलनालतन्तुर्वारणं रोधको न भवति ॥ मालिनी वृत्तम् "ननमयययुतेयं मालिनी भोगिलोकैरिति" तल्लक्षणात् ॥ १७ ॥ आनुषङ्गिकगुणनिवर्तको लोको दृष्टः स्वभावसिद्धगुणं निवर्तयितुं कोऽपि समर्थो नास्तीति हंसदृष्टान्तेन दर्शयन्नाह--- अम्भोजिनीवननिवासविलासमेव हंसस्य हन्ति नितरां कुपितो विधाता ॥ न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ १८ ॥ अम्भोजिनीति ॥ कुपितो विधाता ब्रह्मा हंसस्याम्भोजिनीनां कमलिनीनां वनं निवासस्थानम् "वनं नपुंसकं तीरे निवासे इति मेदिनी" तत्र निवासेन यो विलासस्तमेव नितरां हन्ति नाशयति, परंत्वस्य हंसस्य दुग्धं च जलं च तयोर्भेदः पृथक्करणं तस्य विधौ विधाने प्रसिद्धां लोकविश्रुतां वैदग्ध्यं खा- भाविकचातुर्यं तस्य कीर्तिमपहर्तुं दूरीकर्तुमसौ ब्रह्माऽपि न समर्थः काऽन्यस्य वार्तेत्यर्थः ॥ " वसन्ततिलका वृत्तम् ॥ लक्षणं तूक्तमेव" ॥ १८ ॥ अङ्गदाद्यलङ्कारेभ्यो वागलङ्कारो गरीयानित्यवश्यं स संपादनीय इत्यभि- प्रायेणाह --- केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ॥ ज भर्तृहरिकृतं वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततं वावभूषणं भूषणम् ॥ १९ ॥ केयूरा इति ॥ केयूरा बाहुभूषणानि पुरुषं न भूषयंत्यलङ्कुर्वन्ति ॥ चन्द्रो- ज्ज्वलाश्चन्द्रकान्तिसदृशा हारा मुक्तादिरचिता माला न, तथा स्नानं न, विलेपनं चन्दनादि न, कुसुमं पुष्पं न, अलङ्कृता मूर्धजाः केशा न, किंतु एका बाणी पुरुषं समलङ्करोति सम्यग्भूषयति, सा का ॥ या संस्कृता व्याक - रणादिसंस्कारयुक्ता विद्वद्भिर्धार्यते ॥ वागतिरिक्तानि भूषणानि क्षीयन्ते खलु न तु वाग्भूषणं क्षीयतेऽतो वाग्भूषणमेव सततं निरन्तरमक्षयमिति यावत् भूषणमलङ्करणं नान्यदिति भावः ॥ " शार्दूलविक्रीडितं वृत्तम्" ॥ १९ ॥ विद्यैव नरस्य रूपादिकमस्ति तद्रहितो नरः पशुरेवेत्याह- विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः ॥ विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं 66 विद्या राजसु पूजिता न तु धनं विद्याविहीनः पशुः ॥ २० ॥ विद्येति ॥ 'नामेति संभावनायाम्' ॥ नरस्य पुरुषस्य विद्यैवाधिकं श्रेष्ठं रूपमस्ति विद्यावन्तः कुरूपा अपि सर्वत्र मान्या भवन्ति न तथा केवलं सुरूपाः ॥ किंच प्रच्छन्नं स्वान्तस्थितत्वेनेतरानपहार्य गुप्तं च बाह्यसाधना- नपेक्षमननादिना रक्षितं च ॥ प्रसिद्धधनं तु चोराद्यपहार्य पेटकादिरक्षितं च ॥ विद्या, भुज्यत इति भोगोऽन्नवस्त्रादि तत्करोतीति करी संपादिकेति यावत् ॥ तथा यशः कीर्ति सुखमानन्दं च करोतीति यशःसुखकरी ॥ तद्धेतुरित्यर्थः ॥ " कृञो हेतुताच्छील्यानुलोम्येष्विति टः " ॥ विद्यैव गुरूणा- मुपदेष्टॄणां गृणाति हितमुपदिशतीति गुरुरुपदेष्ट्री ॥ विद्यैव विदेशगमने बन्धु- जनो बन्धुवद्धितकारी ॥ परमुत्कृष्टं दैवतं विद्यैव ॥ विद्यैव राज्ञा सुष्ठु पूजिता, धनं द्रविणं तु न, अतो विद्यया विहीनो रहितः पशुरेव ॥ तदुक्तम् "विहि- ताविहितविचारशून्यबुद्धेः श्रुतिविषयैर्विधिभिर्बहिष्कृतस्य ॥ उदरभरणमात्र के- वलेच्छो: पुरुषपशोश्च पशोश्च को विशेष इति " ॥ तस्मात्पुरुषेण पशुत्व- व्यावृत्तये विद्यैवावश्यं संपादनीयेति तात्पर्यम् ॥ पूर्वोक्तमेव वृत्तम् ॥ २० ॥ क्षमादिगुणयुक्तस्येतरैर्वचनादिभिः किमित्याह- क्षान्तिश्चेद्वचनेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां शातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधैः किं फलम् ॥ Digitized by Google नीतिशतकम् । किं सपैर्यदि दुर्जनाः किमु धनैर्विद्याऽनवद्या यदि व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥ २१ ॥ क्षान्तिश्चेदिति ॥ क्षान्तिः क्षमा चेद्वचनेन जगन्मनोहारिभाषणेन यद्वा दुर्जनोक्तनिन्द्यभाषणेन किम् । क्षमयैव सर्वं जगत्प्रसन्नं भवतीत्यर्थः ॥ देहिनां शरीरिणां क्रोधोऽस्ति चेदरिभिः शत्रुभिः किम् ॥ इह लोकपरलोकभ्रंशनादि सर्व शत्रुकर्म स एव करिष्यतीत्यर्थः ॥ ज्ञातिः स्वजातिः संनिधावस्ति चेदनलेनाग्निना किम् ॥ अग्निकृतं तापादिकं सैव करिष्यति ॥ यदि सुहृ- त्सखा हितकर्ता चेद्दिव्यौषधैरुत्तमौषधैः फलं साध्यं किम् ॥ यद्वा सुष्ठु सन्तुष्टं हृदन्तःकरणम् ॥ " स्वान्तं हृन्मानसं मन इत्यमरः " ॥ औषधैः शरीरहितं भवति तत्सुहृदा भवति ॥ यदि दुर्जनाः खलाः सन्ति तर्हि सर्वैः किम् ॥ दंशनं विनापि दुर्जनैः प्राणघातादिकरणे सर्वैः किं प्रयोजनमित्यर्थः यदि अनव- द्याऽनिन्द्या विद्या चेद्धनैर्द्रव्यैः किमु ॥ धनेन यथा सुखं तथा विद्ययैव भव- तीत्यर्थः ॥ यदि व्रीडा लज्जा चेद्भूषणैर्बहिरलङ्कारैः किमु ॥ तयैवालङ्करणकार्य भवति ॥ यदि सुष्ठु कीर्त्यादिवर्णन चतुरा कविता पद्यादिरचनाऽस्ति चेत्तर्हि राज्येन किम् ॥ तयैव राज्यादिसुखं भवतीत्यर्थः ॥ वृत्तं पूर्वोक्तमेव ॥ २१ ॥ उचितक्रियां कुर्वति जने न्यायमार्गस्थितिर्भवतीत्याह- दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने प्रीतिः साधुजने नयो नृपजने विद्वज्जनेष्वार्जवम् ॥ शौर्य शत्रुजने क्षमा गुरुजने नारीजने धूर्तता । ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥२२॥ दाक्षिण्यमिति ॥ खजने पुत्रकलत्रादौ दाक्षिण्यमौदार्य सारल्यम् ॥ "दक्षिणे सरलोदारावित्यमरः " परजने स्वीयातिरिक्तजने दया कृपा ॥ दुर्जने खलजने सदा शाठ्यं वञ्चकत्वम् ॥ साधुजने प्रीतिः ॥ नृपजने नयो नीतिः ॥ विद्वज्जनेषु पण्डितेष्वार्जवमृजुता ॥ शत्रुजने शौर्य शू- रत्वम् ॥ गुरुजने महाजने क्षमा तत्कृतोपद्रवसहनम् ॥ नारीजने स्त्रीनने धूर्तता धौर्त्यम् ॥ एवं प्रकारेण ये पुरुषाः कलासु कुशला निपुणास्तेष्वेव लोकानां स्थितिर्न्यायमार्गसंस्था " संस्था तु मर्यादाधारणास्थितिरित्यमरः" सर्वे लोकास्तदनुरोधेन वर्तन्त इत्यर्थः ॥ पूर्वोक्तं वृत्तम् ॥ २२ ॥ सत्संगतिर्जाड्यहरणादिकं सर्वं करोतीत्याह - जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति ॥ Digitized by Google भर्तृहरिकृतं चेतः प्रसादयति दिक्षु तनोति कीर्ति सत्संगतिः कथय किं न करोति पुंसाम् ॥ २३ ॥ जाड्यमिति ॥ सतां साधूनां संगतिः समागमः धियो बुद्धेर्जाड्यं मन्दतां हरति नाशयति ॥ वाचि वाण्यां सत्यं सिञ्चति यत्संगत्या लोकाः सत्यमेव वदन्तीत्यर्थः ॥ मानस्य संमानस्योन्नतिमुच्चतां दिशति ददाति ॥ पापमपाक- रोति दूरीकरोति ॥ चेतश्चित्तं प्रसादयति अहङ्काराद्यपाकरणेन प्रसन्नतां नयतीत्यर्थः ॥ दिक्षु दिशासु कीर्ति तनोति विस्तारयति ॥ एवं सत्संगतिः पुंसां किं किं न करोतीति कथय वद किं तु सर्वानर्थान्साधयतीत्यर्थः ॥ " वसन्ततिलका वृत्तम्" लक्षणं पूर्वमुक्तम् ॥ २३ ॥ इदानीं कवीश्वरान्सर्वोत्कर्षत्वेन वर्णयति— जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ॥ नास्ति येषां यशः काये जरामरणजं भयम् ॥ २४ ॥ जयन्तीति ॥ रसेषु शृङ्गारादिषु पक्षे पारदादिषु सिद्धाः सिद्धिमन्तः पूर्णाः सज्जा इति यावत् ॥ ते कवीश्वराः कवीन्द्राः सुकृतिनो धन्याः सन्तः "सु- कृती पुण्यवान्धन्य इत्यमरः " जयन्ति सर्वोत्कर्षेण वर्तन्ते ॥ ते के ॥ येषां यशः काये यशोरूपे देहे जरा च मरणं च ताभ्यां जातं भयं नास्ति ॥ यथा सिद्धौषधरससेवनेन प्रसिद्धदेहो जरामरणभयरहितः सन्न नश्यति तथा कवीनां शृङ्गारादिरसपूर्णनानाविधकाव्यवचनजन्यं यशः कदापि न नश्यतीति भावः ॥ अनुष्टुब् वृत्तम् ॥ २४ ॥ भगवत्कृपयैव पुत्रादयः सच्चरितादियुक्ता भवन्ति नान्यथेत्याह- सूनुः सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः स्निग्धं मित्रमवञ्चकः परिजनो निःक्लेशलेशं मनः ॥ आकारो रुचिरः स्थिरश्च विभवो विद्यावदातं मुखं तुष्टे पिष्टपहारिणीष्टदहरौ संप्राप्यते देहिना ॥ २५ ॥ सूनुरिति ॥ सूनुः पुत्रः सत् चरितमाचरणं यस्य सत्क्रियावानित्यर्थः ॥ अ- तिशयेन प्रिया प्रियतमा पत्नी सती पतिव्रता " सती साध्वी पतिव्रतेत्यमरः " स्वामी पालकः प्रसादे प्रसन्नतायामूर्ध्वं मुखं यस्य ॥ सर्वदा प्रसादकर्तेत्यर्थः ॥ मित्रं सखा स्निग्धं वात्सल्यादिगुणयुक्तम् ॥ परिजनः परिवारोऽवञ्चकः ॥ मनो- ऽन्तःकरणं निःशेषेण गतो रागद्वेषादिजन्यक्लेशस्य लवो लेशो यस्मात् ॥ आका- रो हस्तपादाद्यवयवो मूर्तिर्वा रुचिरः सुन्दरः ॥ विभव ऐश्वर्यं स्थिरश्चिरकाल- Digitized by Google • नीतिशतकम् । स्थायी ॥ मुखमाननं विद्ययाऽवदातं शुद्धम् "अवदातः सिते पीते शुद्धे इत्यमरः" इदं पूर्वोक्तं सर्व पिष्टपं जगद्धरत्युद्धरति तच्छीलस्तस्मिन् 'ताच्छील्ये णिनिः' "जगत्स्यात्पिष्टपे क्लीबं वायौ ना जङ्गमे त्रिष्विति मेदिनी" विष्टपेत्यपि पाठः ॥ इष्टं ददातीतीष्टदो हरिस्तस्मिन् तुष्टे संतुष्टे सति देहिना शरी- रिणा सम्यक्प्राप्यते नान्यथेति भावः "शार्दूलविक्रीडितं वृत्तम् " ॥ २९ ॥ प्राणिहिंसाद्यकरणमेव कल्याणमार्ग इत्याह- प्राणाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् ॥ तृष्णास्रोताविभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः ॥ २६ ॥ प्राणाघातादिति ॥ प्राणस्य स्वस्यान्यस्य वाऽऽघातो हननं तस्मान्निवृत्तिर्नि - वर्तनं, परेषां धनस्य द्रव्यस्य हरणे संयमश्चित्तनिग्रहः, परधनहरणे प्रवृत्त्यभाव इत्यर्थः । सत्यवाक्यं यथार्थभाषणं, काले पुण्यकाले शक्त्या यथाशक्त्या प्रदानं ब्राह्मणादिभ्यो दानं, परेषामन्येषां युवतिजनस्य तरुणीजनस्य कथासु मूकभा- वस्तूष्णींभावः ॥ वाचा परस्त्रीकथानुद्घाटनमित्यर्थः ॥ तृष्णाया आशायाः स्रोतः : प्रवाहस्तस्य विभङ्गो नाशः, गुरुषु महाजनेषु विनयो नम्रता, सर्व- भूतेषु सर्वप्राणिष्वनुकम्पा दया, एषः सर्वशास्त्रेषु अनुपहतोऽकुण्ठितोऽप्रति- षिद्ध इति यावत् ॥ विधिर्विधानं यस्यैतादृशः सामान्यः सर्वलोकसाधारणः श्रेयसां कल्याणानां पन्था मार्गे नान्य इत्यर्थः ॥ " स्रग्धरा वृत्तम् ॥ म्रन्नै- र्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयमिति " तल्लक्षणात् ॥ २६ ॥ नीचमध्यमोत्तमानां क्रियारम्भे वैचित्र्यमाह— प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः ॥ विभैः पुनः पुनरपि प्रतिहन्यमानाः प्रारभ्य तूत्तमजना न परित्यजन्ति ॥ २७ ॥ प्रारभ्यत इति ॥ नीचैरज्ञैर्विघ्नस्यान्तरायस्य " विघ्नोऽन्तरायः प्रत्यूह इत्यमरः" भयं भीतिस्तेन, कर्म न प्रारभ्यते खलु निश्चयेन ॥ मध्या मध्यमाः प्रारभ्य प्रारम्भं कृत्वा विघ्नेन विहताश्चालिताः सन्तो विरमन्ति विरामं प्राप्नुवन्ति, कर्म न कुर्वन्तीत्यर्थः ॥ उत्तमजनास्तु प्रारभ्यारम्भं कृत्वा विघ्नैः पुनः पुनर्वारं- Digitized by Google भर्तृहरिकृतं वारं प्रतिहन्यमानाश्चाल्यमाना अपि न परित्यजन्ति ॥ समये समये विघ्ने प्राप्तेऽपि तन्निवृत्त्युपायं कुर्वन्ति नारब्धं त्यजन्तीत्यर्थः ॥ " वसन्ततिलका वृत्तम् " ॥ साधुवदेव वर्तितव्यं नासाधुवदिति बोधयितुं साध्वाचारप्रशंसामाह- असन्तो नाभ्यर्थ्याः सुहृदपि न वाच्यः कृशधनः प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् ॥ विपद्युचैः स्थेयं पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ २८ ॥ असन्त इति ॥ असन्तो दुर्जनाः, अभ्यर्थितुं याचितुं योग्या अभ्यर्थ्या न ॥ कृशं क्षीणं धनं यस्य स सुहृदपि न याच्यो न प्रार्थनीयः ॥ प्रिया हिता न्यायादनपेताऽरहिता न्याय्या वृत्तिर्जीविका, मलिनं निन्द्यं कर्म असोः प्राणस्य भङ्गो नाशस्तस्मिन्नप्यसुकरं दुष्करम् ॥ प्राणभङ्गसमयेऽपि निन्द्यकर्मानाचरण- मित्यर्थः ॥ विपदि विपत्काले उच्चैरुन्नतं स्थेयम् ॥ स्वविपदप्रकटनमित्यर्थः ॥ महतां पदं स्थानमनुविधेयमनुसरणीयम् ॥ इदं पूर्वोक्तं षड्रूपं विषममति- कठिनं असिधारेव खड्गधारेव तीक्ष्णतरं व्रतमाचरणं सतां केनोद्दिष्टमुपदिष्टं न केनाप्यपि तु तेषां स्वभावसिद्धमित्यर्थः ॥ " शिखरिणी वृत्तम् " ॥ २८ ॥ अति दुःखमापन्नोऽपि मानी महाजनः स्वमहत्त्वविरुद्धं नीचं कर्म न करो - तीति सिंहान्योक्त्याह- 5/ क्षुत्क्षामोऽपि जराशोऽपि शिथिलप्रायोतिकष्टां दशा- मापन्नोऽपि विपन्नदीधितिरपि प्राणेषु नश्यत्स्वपि ॥ मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः किं जीर्ण तृणमत्ति मानमहतामप्रेसरः केसरी ॥ २९ ॥ क्षुत्क्षामोऽपीति ॥ क्षुधा क्षुधया क्षामो दुर्बलोsपि जरया कृशोऽपि शि- थिलः शैथिल्यं प्राप्तः प्राणः शक्तिर्यस्य ॥ " शक्तिः पराक्रमः प्राण इत्यमरः ॥ " कष्टां दशामापन्नः प्राप्तोऽपि विपन्ना नष्टा दीधितिर्दीप्तिर्यस्य सोऽपि प्राणेषु नश्यत्स्वपि नाशोन्मुखेषु सत्स्वपि मत्ता मदोन्मत्ताश्च ते इभेन्द्रा गजेन्द्रास्तेषां विभिन्ना विदारिता ये कुम्भा गण्डस्थलानि तत्संबन्धी यः कवलो मांसपिण्ड- स्तस्य ग्रासो ग्रसनं भक्षणमिति यावत् ॥ तस्मिन्नेव बद्वैका मुख्या स्पृहा वाञ्छा येन ॥ एतादृशो माने महान्तस्तेषामग्रेसरः केसरी सिंहो जीर्णं विरसं तृण- मति खादति किमपि नेत्यर्थः ॥ मानी सिंहः स्वभक्षणीयं मांसं विहाय प्राणान्तसमयेऽपि यथा जीर्णतृणादनरूपं नीचं कर्म न करोति तथा मानि- Digitized by Google नीतिशतकम् । भिर्महद्भिरपि प्राणान्तसमयेऽपि नीचं कर्म न कर्तव्यमिति भावः ॥ " शार्दूल- विक्रीडितं वृत्तम् " ॥ २९ ॥ मानी जनः पूर्वोक्तप्रकारेणाचरन्नपि स्वसत्त्वानुरूपं फलं प्राप्नोतीति श्व- सिंहदृष्टान्तेनाह— स्वल्पं स्नायुवसावशेषमलिनं निर्मासमप्यस्थि गोः श्वा लब्ध्वा परितोषमेति न तु तत्तस्य क्षुधाशान्तये ॥ सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्वानुरूपं फलम् ३० स्वल्पमिति ॥ स्नायुरङ्गप्रत्यङ्गसन्धिबन्धनशिराविशेषः वसा मेदश्व ता- भ्यामवशेषमवशिष्टमत एव मलिनं निर्मासं मांसरहितमपि स्वल्पं गोर्वृषभस्या- स्थि लब्ध्वा श्वा कुक्कुरो यद्यपि परितोषं संतोषमेति प्राप्नोति परंतु तदस्थि तस्य शुनः क्षुधायाः शान्तये निवृत्त्यर्थं न भवति ॥ सिंहस्तु अङ्कमुत्सङ्गमाग- तमपि जम्बुकं शृगालम् " शृगालजम्बुकक्रोष्टेत्यमरः " तुच्छत्वबुद्धया त्यक्त्वा द्विपं गजमेव निहन्ति ॥ कृच्छ्रं दुःखं गतोऽपि सर्वो जनः सत्त्वस्य स्वस्वभा- वस्यानुरूपमनुकूलं फलं वाञ्छति इच्छत्येव ॥ "सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोरिति मेदिनी" "पूर्वोक्तमेव वृत्तम्" ॥ ३० ॥ क्षुद्रजनस्य तुच्छत्वं महाजनस्य धीरत्वं श्वगजदृष्टान्तेन दर्शयन्नाह - लाङ्गूलचालनमधश्चरणावपातं भूमौ निपत्य वदनोदरदर्शनं च ॥ श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥ ३१ ॥ लाङ्गलेति ॥ श्वाकुक्कुरः पिण्डं प्रासं ददातीति पिण्डदस्तस्य पुरतः पिण्ड - लोभेन लाङ्गलस्य पुच्छस्य चालनं तथा अधोऽधोभागे चरणयोः पादयोर- वपातः पातनं तथा भूमौ पृथिव्यां निपत्य पतित्वा वदनं मुखमुदरं च त- योर्दर्शनं च कुरुते ॥ गजपुङ्गवो गजश्रेष्ठस्तु धीरं गभीरं यथा स्यात्तथा विलो - कयत्यवलोकयति चादुशतैः प्रियवाक्यशतैः प्रार्थितः सन् भुङ्क्ते ॥ एवं क्षुद्र - जनः श्ववल्लोभेन मुखचालनादि करोति । महाजनस्तु गाम्भीर्येण पश्यन्नत्या - दरेण प्रियवचनश्लाघितः सन् भुङ्क्ते इति भावः " वसन्ततिलका वृत्तम् ॥ " ३१ Digitized by Google भर्तृहरिकृतं वंशोन्नतिकारक एव पुरुषो गरीयान्नान्य इत्याह- परिवर्तिनि संसारे मृतः को वा न जायते स जातो येन जातेन याति वंशः समुन्नतिम् ॥ ३२ ॥ परिवर्तिनीति ॥ परिवर्तिन्यागमापायवति संसारे को न जायते जातः को वा न मृतः परंतु येन जातेनोत्पन्नेन वंशः कुलं समुन्नतिमुत्कर्षे याति प्राप्नोति स जातः अन्यो जातोऽप्यजातप्राय इत्यर्थः ॥ " अनुष्टुव वृत्तम्" ॥३२॥ महतां द्विधा वर्तनं पुष्पस्तबकदृष्टान्तेनाह- कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः ॥ मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥ ३३ ॥ कुसुमेति ॥ कुसुमानां पुष्पाणां स्तबको गुच्छः समूह इति यावत् ॥ तस्येव प्रशस्तं मनोऽस्यास्तीति तस्य विचारखतः पुरुषस्य द्वाववयवौ यस्याः सा द्वयी द्विप्रकारिका "सङ्ख्याया अवयवे तयपू, द्वित्रिभ्यां तयस्यायज्वेत्ययच् टिड्रेति ङी- पू" ॥ वृत्तिर्वर्तनं स्थितिरित्यर्थः । द्विप्रकारत्वं च श्रद्धालौ श्रोतरि सति हितो- पदेशकरणमेकम् ॥ तदभावे तूष्णींभावेन स्थितिर्द्वितीयम् ॥ कथम् ॥ यथा सति ग्रहीतरि कुसुमस्तबकेन सर्वलोकस्य मूर्ध्नि मस्तकेऽवशीर्यते अथवा ग्रही- तरि असति वने विशीर्यते नश्यति तथा मनस्विनः श्रोतरि सति हितो- पदेशकरणेन पूज्या भवन्त्यन्यथा तूष्णींभावेनावतिष्ठन्त इति भावः ॥ ' अयमेव श्लोकः पाठभेदेन चतुरधिकशतश्लोके दृश्यते अर्थतात्पर्य त्वेकमेव परंतु बहुपुस्तकेषु दृष्टत्वात्तथैव स्थापितो न तु निष्कासितः' ॥ " वृत्तम् ॥ ३३ ॥ 66 अनुष्टु दुर्जनः खपराक्रमख्यापनार्थमतितेजखिनं पुरुषं पीडयति नाल्पतेजसमिति राहुदृष्टान्तेनाऽऽह— सन्त्यन्येऽपि बृहस्पतिप्रभृतयः संभाविताः पञ्चषा- स्तान्प्रत्येष विशेषविक्रमरुची राहुर्न वैरायते ॥ द्वावेव ग्रसते दिनेश्वरनिशाप्राणेश्वरौ भास्करौ भ्रान्तः पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः ॥३४॥ सन्त्यन्ये इति ॥ बृहस्पतिर्गुरुः प्रभृतिर्मुख्यो येषां ते, पञ्च वा षड़ा पञ्चषाः ॥ "संख्यया व्ययासन्नेति बहुव्रीहिः बहुव्रीहौ संख्येयेति समासान्तो डच्" अन्येऽपि संभाविता मान्या ग्रहाः सन्ति, परंतु शीर्षमेव मस्तकमेवाव- Digitized by Google नीतिशतकम् । शेषाऽवशिष्टाऽऽक्रुतिराकारो यस्य स दानवपतिरेष राहुर्यतो विशेषोऽधिको यो विक्रमः पराक्रमस्तस्मिन् रुचिः प्रीतिर्यस्य तथाभूतोऽतस्तान् प्रति न वैरायते वैरं न कुरुते " शब्दवैरकलहेति क्य" ॥ किंतु भ्रान्तो भ्रमणं कुर्वन् " गत्यर्थेत्यादिना कर्तरि क्तः " ॥ भासं दीप्तिं कुरुतस्तौ द्वौ दिनस्य दिवसस्येश्वरः सूर्यः निशाया रात्र्याः प्राणेश्वरश्चन्द्रस्तावेव पर्वणि पूर्णिमायाममावास्यायां च ग्रसते भक्षयते पीडयतीति यावत् ॥ पश्येति जनं प्रति संबोधयति 'यथाऽन्यान् ग्रहान्विहाय राहुरतितेजखिनौ सूर्याचन्द्रमसौ पीडयति तथा दुर्जनोऽप्यल्पं जनं विहाय खपराक्रमख्यापनार्थं तेजखिनं पुरुषं पीडयतीति भावः ॥ "शार्दूलविक्रीडितं वृत्तम्" ॥ ३४ ॥ महतां चरित्रं निर्मर्यादमस्ती त्याह- वहति भुवनश्रेणीं शेषः फणाफलकस्थितां कमठपतिना मध्येपृष्ठं सदा स विधार्यते ॥ तमपि कुरुते क्रोडाधीनं पयोधिरनादरा- दहह महतां निःसीमानश्चरित्रविभूतयः ॥ ३५ ॥ वहतीति ॥ शेषः सहस्रशीर्षोऽनन्तः फणानां फटानां फलकं पट्टिका तस्यां स्थिता ताम् ॥ भुवनस्य जगतः श्रेणीं पति वहति धारयति ॥ स शेषः कमठपतिना कूर्मरूपेण भगवता मध्येपृष्ठं पृष्ठस्य मध्ये इत्यर्थः ॥ सदा सर्व- कालं विधार्यते तमपि कमठपतिं पयोधिः समुद्रः अनादरादनायासेन क्रोड- मुत्सङ्गः "क्रोडमङ्गस्तथोत्सङ्ग इति हलायुधः" तस्याधीनं स्वाधीनं कुरुते ॥ अभ्यन्तरे धारयतीत्यर्थः ॥ अहहेत्याश्चर्ये महतां चरित्रस्य विभूतय ऐश्वर्याणि निःसीमानो निरवधयः सन्तीति ॥ 'अनेन सर्वथा तृष्णात्याग उचित इति व्यज्यते' "हरिणी वृत्तम् ॥ लक्षणं तूक्तमेव ॥ ३५ ॥ क्लेशयुक्तं पितरं विहायान्यत्र स्वप्राणरक्षाकरणं नोचितमित्याह- वरं पक्षच्छेदः समदमघवन्मुक्तकुलिश- प्रहारैरुनच्छद्वहलदहनोद्गारगुरुभिः ॥ तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे न चासौ संपातः पयसि पयसां पत्युरुचितः ॥ ३६ ॥ वरमिति॥ पितरि हिमाद्रौ शस्य दुःखस्य विवशेऽधीने सति पयसां पत्युः समुद्रस्य पयसि जले तुषारादेर्हिमालयस्य सूनोमैनाकस्यासौ संपातः पतनं नो- चितो न योग्यो भवति किंतु उद्गच्छन्यो बहलोऽतिशयितो दहनोऽग्निस्तस्यो- Digitized by Google भर्तृहरिकृतं द्वार उद्गिरणं तेन गुरुभिः ॥ " रुचिभिरिति पाठे रुचिः कान्तिर्येषां तैरि- त्यर्थः " मदेन सहितः समदो यो मघवानिन्द्रस्तेन मुक्तं त्यक्तं कुलिशं वज्रं तस्य प्रहारैः पक्षाणां छेदश्छेदनं वरं श्रेष्ठो भवतीति " अनेन स्वस्य आप- त्प्राप्तावपि आपद्गतस्य पितुस्त्यागो नोचित इति ध्वन्यते" " शिखरिणी वृत्तम्॥ लक्षणं पूर्वमुक्तमेव" ॥ ३६ ॥ तेजस्वी चेतनः पुरुषः परकृतविकारं न सहत इति सूर्यकान्तमणिदृष्टान्ते- नाह- 1 यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः ॥ तत्तेजस्वी पुरुषः परकृतविकृतिं कथं सहते ॥ ३७ ॥ यदचेतनोऽपीति ॥ यद्यस्मादचेतनोऽपि चेतनारहितोऽपि इनकान्तः सूर्यकान्तमणिः सवितुः सूर्यस्य पादैः किरणैः पक्षे चरणैः स्पृष्टः सन् प्रज्वलति प्रदीप्तो भवति तत्तस्मात्तेजस्वी पुरुषः परेण कृता या विकृतिर्विकारस्तां कथं सहते न सहत इत्यर्थः " आर्या वृत्तम् ॥ लक्षणं तूक्तमेव" ॥ ३७ ॥ पराक्रमोद्दीपकस्य तेजसो हेतुर्वयो न किंतु स्वभाव एवेति सिंहशिशु - ष्टान्तेनाह— 1 • सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ॥ प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥ ३८ ॥ सिंह इति ॥ शिशुरपि बालोऽपि सिंहः प्रशस्ताः कपोलाः कपोलभित्तयः " प्रशंसावचनैश्चेति समासः [ भीतिशब्दः प्रशस्तवचनः ॥ तदुक्तं गण- रत्नमहोदधौ । मतल्लिकोद्धमिश्राः स्युः प्रकाण्डस्थलभित्तय इति ] ( यद्वा प्रदे- शवाचकः ॥ " भित्तिः प्रदेशे कुड्ये चेति विश्वः ॥ " मदेन गजमदेन मलिनाः कपोलभित्तयः प्रशस्तकपोलाः कपोलप्रदेशा वा ) येषां तेषु गजेषु निपतति वधाय चलति इयं सत्त्ववतां बलवतां प्रकृतिः स्वभाव एव ॥ वयो- Sवस्था तेजसो हेतुर्न, खलु " आर्या वृत्तम् निश्चयेन 11 द्रव्यं विना सर्वे गुणास्तृणवत्तुच्छप्राया इत्याह- जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छता- च्छीलं शैलतटात्पतत्वभिजनः संदह्यतां वह्निना ॥ शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं atha विना गुणास्तृणलवप्रायाः समस्ता इमे ॥ ३९ ॥ जातिरिति ॥ जातिर्ब्राह्मणादिस्वजाती रसातलं यातु गच्छतु ॥ गुणानां " 113211 Digitized by Google नीतिशतकम् । गणः समूहस्तस्य रसातलस्याप्यवोऽधोभागे गच्छतात् ॥ शीलं सद्वृत्तम् " शीलं स्वभावे सद्वृत्ते इत्यमरः " शैलस्य पर्वतस्य तटात्पततु ॥ अभि वंशः ॥ " संततिर्गोत्रजननकुलान्यभिजनान्वयावित्यमरः " ॥ वह्निनाऽग्निना संदह्यतां भस्मीक्रियताम् ॥ "दह भस्मीकरणे धातुः" शौर्ये शूरत्वरूपे वैरिणि शत्रौ वज्रं कुलिशमाशु शीघ्रं निपततु ॥ एवं सर्वस्य हानिर्भवतु परंतु नोऽस्माकं केवलमर्थो धनमस्तु ॥ एकेन मुख्येन येन द्रव्येण विना इमे पूर्वोक्ताः समस्ता गुणास्तृणस्य लवो लेशस्तत्प्रायास्तत्सदृशा अतितुच्छा भवन्ति ॥ " शार्दूल- विक्रीडितं वृत्तम् " ॥ ३९ ॥ अन्वयव्यतिरेकाभ्यामर्थस्य सर्वापेक्षया श्रेष्ठत्वमाह द्वाभ्याम् - 1 तानीन्द्रियाणि सकलानि तदेव कर्म सा बुद्धिरप्रतिहता वचनं तदेव ॥ अर्थोष्मणा विरहितः पुरुषः स एव त्वन्यः क्षणेन भवतीति विचित्रमेतत् तानीति ॥ सकलानीन्द्रियाणि वागादीनि तान्येव पूर्वसिद्धान्येव ॥ एव- मग्रेऽपि । कर्म क्रिया तदेव । अप्रतिहता कुण्ठिता बुद्धिः सैव, वचनं वाक्यं तदेव, स एव पुरुषः अर्थस्य द्रव्यस्योष्मा तेन विरहितः सन् क्षणेन क्षणमा- त्रेणान्य इव भवतीति एतत् विचित्रमाश्चर्यम् ॥ एकेनार्थेन विना सर्वाणी- न्द्रियादीनि व्यर्थानि भवन्ति तस्मात्पुरुषेणार्थोऽवश्यं संपादनीय इति भावः ॥ अनेन व्यतिरेको दर्शितः ॥ " वसन्ततिलका वृत्तम्" ॥ ४० ॥ किंच अन्वयमाह- यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान्गुणशः ॥ स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चन माश्रयन्ति ॥ ४१ ॥ स यस्येति ॥ यस्य नरस्य वित्तं द्रव्यमस्ति स एव नरः कुलीनः सत्कुलोत्पन्नः स एव पण्डितः बुद्धिमान् स एव "श्रुतवान् शास्त्रज्ञः श्रुतमाकणिते शास्त्रे इति मेदिनी" ॥ स एव गुणं जानातीति गुणज्ञः गुणवेत्ता । स एव वक्ता वाग्मी, च दर्शनीयो दर्शनयोग्यः, रूपवानिति यावत् ॥ सर्वे पूर्वोक्ता गुणाः काञ्चनं सुवर्णमेवाश्रयन्ति ॥ इदं सर्वेषां धनानामुपलक्षणम् ॥ धनसत्त्वे एव सर्वे गुणाः प्रकाशन्त इत्यर्थः ॥ " उपजातिर्वृत्तम् । अनन्तरोदीरितलक्ष्मभाजी पादौ यदीयावुपजातयस्ता इति " ॥ ४१ ॥ राजादयो दौर्मन्त्र्यादिभिर्नश्यन्तीत्याह- दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः संगात्सुतो लालना- द्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ॥ Digitized by Google Po भर्तृहरिकृतं ह्रोर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रया - मैत्री चाप्रणयात्समृद्धिरनयात्त्यागात्प्रमादाद्धनम् ॥ ४२ ॥ दौर्मन्त्र्यादिति ॥ नृपती राजा दुर्मन्त्रिणो भावो दौर्मन्त्र्यं तस्मात् ॥ दुर्मन्त्रसेवनादित्यर्थः ॥ नश्यति स्वराज्याष्टो भवति ॥ यतिः संन्यासी संगा- त्ख्यादिसंगात् नश्यति ॥ एवमुत्तरत्रापि नश्यतीति संबध्यते । सुतः पुत्रो लाल - नाच्छिक्षाद्यकरणादित्यर्थः ॥ विप्रो ब्राह्मणोऽनध्ययनात्स्वाध्यायापठनात्, कुलं प्रतिष्ठितवंशः कुतनयात्कुमार्गगामिनः पुत्रात्, शीलं सद्वृत्तम् " शीलं स्वभावे सद्वृत्ते इत्यमरः " खलस्य दुर्जनस्योपासनं सेवनं तस्मात्, हीर्लज्जा मद्यान्म- दिरायाः, कृषिः प्रसिद्धा अनवेक्षणाद्वारंवारमनवलोकनात्, स्नेहः प्रेम प्रवा- साश्रयादन्यत्र बहुदिवसवासात्, मैत्री मित्रत्वमप्रणयादविनयात्, समृद्धिरैश्वर्य- मनयादनीतेः, धनं त्यागादपात्रेषु दानात्प्रमादादनवधान्नश्यतीति ॥ अनेन राजादिभिर्दुमन्त्रादिसेवनं न कार्यमिति ध्वन्यते "शार्दूलविक्रीडितं वृत्तम्" ॥ दानभोगाभ्यां विहीनस्य धनस्य सर्वथा नाशो भवतीत्याह- दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ॥ यो न ददाति न भुङ्के तस्य तृतीया गति र्भवति ॥ ४३ ॥ दानमिति ॥ दानं सत्पात्रेषु, भोगः स्वाश्रितैः सह, नाशश्चोरादिभ्य एता- स्तिस्रो वित्तस्य द्रव्यस्य गतयो भवन्ति ॥ तत्र प्रकारत्रैविध्यमाह यः पुरुषः सत्पात्रेभ्यो न ददाति स्वयं न भुङ्क्ते उपभोगं न कुरुते तस्य पुरुषस्य द्रव्यस्य तृतीया गतिर्नाशो भवति ॥ तस्मात्सति धने पुरुषेण नाशभयाद्दानभोगाववश्यं कर्तव्याविति व्यज्यते " आर्या वृत्तम् " ॥ ४३॥ याचकेषु बहुदानं कुर्वन्संपदा क्षीणोऽपि जनो विशेषेण शोभत इति मण्या- दिदृष्टान्तोपन्यासपूर्वकमाह - मणिः शाणोलीढः समरविजयी हेतिनिहतो मदक्षीणी नागः शरदि सरितः श्यानपुलिनाः ॥ कलाशेषश्चन्द्रः सुरतमृदिता बालललना- स्तनिम्न शोभन्ते गलितविभवाश्चार्थिषु जनाः ॥ ४४ ॥ मणिरिति ॥ शाणो घर्षणप्रस्तरस्तत्रोल्लीढो घर्षितः कृशीकृत इति याव- त् । मणिहरकादिः, हेतिना खड्गादिना निहतः कृतक्षतः समरविजयी संग्रामे जयशीलो योद्धा, मदेन गजमदेन क्षीणो नागो हस्ती, शरदि शरत्काले श्या- नानि संकुचितानि शुष्काणीति यावत् ॥ पुलिनानि वालुकामयप्रदेशा यासु Digitized by Google नीतिशतकम् । ताः सरितो नद्यः, कलया षोडशभागेन शेषोऽवशिष्टश्चन्द्रः, सुरते पुरुषेण मृ- दिता आलिङ्गनचुम्बनादिनोपमर्दिताङ्गी बालललना नवयौवना स्त्री, एवमर्थि- षु याचकेषु गलितः संक्रामितो विभव ऐश्वर्य यैस्ते एवंविधा जना: [ नृपा इत्यपि पाठः ] तनिम्ना काश्येन क्षीणत्वेनेति यावत् ॥ अनेन पुरुषेण दानम- वश्यं कर्तव्यमिति बोधितमिति भावः 66 शिखरिणी वृत्तम् वस्तुनो लघुत्वमहत्त्व हेतुरवस्थैव नान्यदित्याह - परिक्षीणः कश्चित्स्पृहयति यवानां प्रसृतये सपश्चात्संपूर्णो गणयति धरित्रीं तृणसमाम् ॥ अतञ्चानैकान्त्याद्गुरुलघुतयाऽर्थेषु धनिना- " मवस्था वस्तूनि प्रथयति च संकोचयति च ॥ ४५ ॥ ॥ ४४॥ परिक्षीण इति ॥ कश्चिदेकः पुरुषः परिक्षीणो दरिद्रः सन् यवानां प्रसृतये अर्धाञ्जलिपरिमितधान्यार्थे स्पृहयति स्पृहां करोति ॥ दरिद्रावस्थायां तामेव यवप्रसृतिं महतीं मन्यत इत्यर्थः ॥ स एव पश्चादनन्तरं धनादिभिः संपूर्णः परिपूर्णः सन् धरित्रीं पृथ्वीं तृणसमां तृणतुल्यां गणयति गणनां करोति धनि- कावस्थायां पृथ्वीमपि तुच्छां मन्यत इत्यर्थः ॥ अतो हेतोः अवस्थैव गुरुलघु- तया गुरुत्वेन लघुत्वेन च वस्तूनि प्रथयति विस्तारयति संकोचयति च । ननु अर्थेषु स्वरूपतो गुरुत्वं लघुत्वं चास्ति किमवस्थयेत्याशङ्कयाह धनिनामिति ॥ धनिनामर्थेषु विषये अनैकान्त्यात् स्वरूपतो गुरुत्वलघुत्वयोः परस्परव्यभिचारात्॥ यश्च स्वरूपतो लघुः सदरिद्रावस्थायां गुरुर्भवति यश्च स्वरूपतो गुरुः सधनि- कावस्थायां लघुर्भवत्यतोऽवस्थैव गुरुत्वलघुत्वकारिणीति भावः ॥ शिखरिणी वृत्तम् ॥ ४५ ॥ राज्ञां पृथ्वीपालनप्रकारं बोधयति- राजन् दुधुक्षसि यदि क्षितिधेनुमेतां तेनाद्यवत्समिव लोकममुं पुषाण ॥ तस्मिंश्च सम्यगनिशं परिपोष्यमाणे नाना फलैः फलति कल्पलतेव भूमिः ॥ ४६ ॥ राजन्निति ॥ हे राजन् यदि एतां क्षितिः पृथ्वी तद्रूपां धेनुं दुधुक्षसि दो- हे ग्धुमिच्छसि तर्हि तेन दोहनेन यद्वा तेन दुवुक्षया हेतुनाद्य वत्समिवामुं लोकं पुषाण पोषय । तस्मिंश्च लोके अनिशं निरन्तरं सम्यक् उत्तमप्रकारेण परिपो- ष्यमाणे सति नाना फलैः सस्यादिभिः कल्पलतेव भूमिः फलति फलं ददाति ॥ 1 Digitized by Google भर्तृहरिकृतं अनेन पृथ्वीदोहनपूर्वकं प्रजापालनमेव राज्ञा कर्तव्यमिति तंप्रति नीतिर्बोधि- तेति ॥ वसन्ततिलकावृत्तम् ॥ ४६ ॥ राजनीतिर्नैकविधा किंत्वनेकविधाऽस्तीति वेश्यादृष्टान्तेन वर्णयति— सत्याऽनृता च परुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या ॥ नित्यव्यया प्रचुरनित्यधनागमा च वेश्याङ्गनेव नृपनीतिरनेकरूपा ॥ ४७ ॥ सत्येति ॥ कचित्सत्या सत्यमिश्रा ॥ क्वचिदिति सर्वत्र योजनीयम् ॥ अ- नृता असत्यमिश्रा, परुषा निष्ठुरा, "निष्ठुरं परुषं प्राम्यमित्यमरः" प्रियवादो- Sस्यामस्तीति प्रियवादिनी प्रियभाषणयुक्तेत्यर्थः ॥ हिंस्रा घातुका, "शरारुर्घातुको हिंस्र इत्यमरः " दयालुर्दयाशीला, अर्थपरा धनतत्परा, वदान्या दानशौण्डा, " स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे इत्यमरः " नित्यं व्ययो धनापगमो यस्याम् ॥ प्रचुरोऽधिको नित्यं धनागमो धनप्राप्तिर्यस्याम् ॥ वेश्याङ्गनेव पण्य- स्त्रीव नृपनीती राजनीतिरनेकरूपाऽनेकप्रकारा अस्ति । समये समये सत्यभा- षणादियुक्ता यथा वेश्याऽनेकप्रकारा तथा राजनीतिरप्यनेकप्रकारेति भावः ॥ पूर्वोक्तमेव वृत्तम् ॥ ४७ ॥ आज्ञादि षङ्गुणा राजपुरुषेऽपेक्षिता तद्विना तेषां राजाश्रयो व्यर्थ इत्याह-- आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणं च ॥ येषामेते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥ ४८ ॥ आज्ञेति ॥ दुर्जनानां आज्ञा शासनं " निदेशः शासनं च सः ॥ शिष्टिश्वाज्ञे त्यमरः " कीर्तिर्यशः सर्वदिक्षु, ब्राह्मणानां पालनं रक्षणं, दानं सत्पात्रेभ्यः, भोगः स्रक्ताम्बूलादेः खस्मिन्, आपद्भयो मित्राणां संरक्षणं च एते पूर्वोक्ताः येषां न प्रवृत्ता न प्राप्ताः तेषां पार्थिवस्य राज्ञ उपाश्रयेणाश्रयेण कोऽर्थः किं प्रयोजनं न किमपीत्यर्थः " शालिनी वृत्तम् ॥ शालिन्युक्ता तौ तगो गोsब्धिलोकैरिति तल्लक्षणात् ॥ ४८ ॥ स्वप्रारब्धसंचितमर्थे पुरुषा लभन्ते नाधिकमिति घटदृष्टान्तेनाह--- यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम् ॥ Digitized by Google नीतिशतकम् । तद्धरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥ ४९ ॥ यद्धात्रेति ॥ धात्रा ब्रह्मणा निजभालपट्टे स्वकपाले लिखितं स्तोकं लघु महद्बहु वा यद्धनं तन्मरुस्थलेऽपि निर्जलदेशेऽपि प्राप्नोति ॥ ततो लिखिता- दधिकं मेरौ काञ्चनगिरावपि न प्राप्नोति ॥ तत्तस्मात् धीरो भव धैर्यमालंब्य तिष्ठ ॥ वित्तवत्सु धनिषु कृपणां दीनां वृति जीविकां वृथा व्यर्थ मा कृथा मा कुरु ॥ हे जन त्वं पश्य ॥ घटः कूपे स्वल्पोदके पयोनिधावपि तुल्यं स्वप्रमाणानुरूपं जलं गृह्णाति नाधिकमित्यर्थः ॥ धनेच्छुना पुरुषेण लाभस्य प्रारब्धाधीनत्वाद्धनिषु कृपणया वृत्त्या न वर्तितव्यमिति तात्पयम् ॥ शार्दूल- विक्रीडितं वृत्तम् ॥ ४९ ॥ स्वाश्रिते जने तद्देन्योक्तिप्रतीक्षा न कर्तव्येति मेघान्योक्त्या दर्शयति- त्वमेव चातकाधारोऽसीति केषां न गोचरः ॥ किमम्भोदवराऽस्माकं कार्पण्योक्ति प्रतीक्षसे ॥ ५० ॥ त्वमेवेति ॥ हे अम्भोदवर हे मेघश्रेष्ठ अस्माकं चातकानां कार्पण्योक्ति दै- न्योक्तिं किं प्रतीक्षसे इमे दीना भूत्वा मां प्रार्थयिष्यन्ति तदाऽहं वृष्टिं करो - मीति किमिच्छसि यतस्त्वमेव चातकानां पक्षिविशेषाणामाधार आश्रयोऽसीति केषां गोचरः प्रत्यक्षं न किंतु सर्वेषामस्तीति ॥ तस्मात्स्वाश्रितजनदैन्योक्ति- प्रतीक्षाकरणमनुचितमिति भावः " अनुष्टुब् वृत्तम् " ॥ ९० ॥ पुरुषेण कस्यापि पुरतो दीनवचनं न वक्तव्यमिति चातकान्योक्त्या दर्शयति- रेरे चातक सावधानमनसा मित्र क्षणं श्रूयता- मम्भोदा बहवो हि सन्ति गगने सर्वे तु नैतादृशाः ॥ केचिद्वृष्टिभिरायन्ति वसुधां गर्जन्ति केचिद्र्था यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीन वचः ॥ ५१ ॥ रे चातकेति ॥ रेरे इति वीप्सा नीचसंबोधने ॥ हे चातक हे मित्र सावधानमनसा अव्यग्रचित्तेन क्षणं क्षणमात्रं श्रूयताम् ॥ हि यस्माद्गगने अम्भो जलं ददातीत्यम्भोदा मेघा बहवः सन्ति परंतु सर्वे एतादृशाः करुणा- वन्तो न ॥ कुतः केचिद्वृष्टिभिर्वर्षणैर्वसुधां पृथ्वीमार्द्रयन्ति जलयुक्तां कुर्वन्ति केचिद्वृथा व्यर्थ गर्जन्ति गर्जनां कुर्वन्ति न वर्षन्ति ॥ तस्माद्यं यं मेघं पश्यसि तस्य तस्य पुरतोऽग्रे दीनं वचो वाक्यं मा ब्रूहि मा वद ॥ अनेन ये दान- Digitized by Google २४. भर्तृहरिकृतं शीलास्तान्प्रति याचना कर्तव्या नेतरान्प्रतीति सूचितमिति भावः " शार्दू- लविक्रीडितं वृत्तम् ॥ ५१ ॥ दुर्जनस्य स्वभावसिद्धलक्षणमाह- अकरुणत्वमकारणविग्रहः परधने परयोषिति च स्पृहा ॥ स्वजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम् ॥५२॥ अकरुणेति ॥ सर्वप्राणिषु अकरुणत्वं निर्दयत्वम् ॥ अकारणविग्रहः कारणं विना वैरम् ॥ परस्य धने द्रव्ये तथा परस्य योषिति स्त्रियां स्पृहेच्छा ॥ स्वजनाः बन्धुजनाश्च तेषु सहिष्णोर्भावः सहिष्णुता न सहिष्णुता असहि- ष्णुता असहनता ॥ दुरात्मनां दुर्जनानामिदं पूर्वोक्तं दोषचतुष्टयं प्रकृत्या स्वभावेन सिद्धं नान्यतः प्राप्तमित्यर्थः ॥ द्रुतविलम्बितं वृत्तम् ॥ द्रुतविलम्बित- माह नभौ भराविति तल्लक्षणात्" ॥ ५२ ॥ विद्यालङ्कृतस्यापि दुर्जनस्य संगो न कर्तव्य इति सर्पदृष्टान्तेनाह— दुर्जनः परिहर्तव्यो विद्ययाऽलङ्कृतोऽपि सन् ॥ मणिना भूषितः सर्पः किमसौ न भयंकरः ॥ ५३ ॥ दुर्जन इति ॥ दुर्जनोऽसज्जनो विद्ययाऽलङ्कृतोऽपि सन् परिहर्तुं व्यक्तुं योग्यः परिहर्तव्योऽस्ति ॥ न सहवासयोग्य इत्यर्थः ॥ तत्र दृष्टान्तः ॥ असौ प्रसिद्धः सर्पः मणिना भूषितोऽपि भयं करोतीति भयंकरः [ मेघर्तिभयेषु कृञ इति खच् ॥ अरुर्द्विषेति मुम् ] न किं अपि तु भयंकर एव ॥ मणि- ना भूषितोऽपि सर्पो यथा भयंकरस्तथा विद्वानपि दुर्जनोऽतस्तस्य संगः सर्वथा न कर्तव्य इति भावः ॥ " अनुष्टुत्र् वृत्तम्" ॥ १३ ॥ गुणिनां सर्वे गुणा दुर्जनैर्दोषत्वेनैव गण्यते इति वक्तुं तत्तद्गुणेषु तत्तदो- षारोपप्रकारमाह- जायं हीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं शूरे निर्घृणता ऋजौ विमतिता दैन्यं प्रियालापिनि ॥ तेजस्विन्यवलिप्तता मुखरिता वक्तर्यशक्तिः स्थिरे तत्को नाम गुणो भवेत्सगुणिनां यो दुर्जनैर्नाङ्कितः ॥ ५४ ॥ जाड्यमिति ॥ ह्रीर्लज्जाऽस्तीति तस्मिन्पुरुषे जडस्य भावो जाड्यमारोपय- न्तीति शेषः ॥ एवमेवोत्तरत्रापि यथायथं बोध्यम् ॥ व्रते रुचिः प्रीतिर्यस्य त- स्मिन्पुरुषे दम्भः परप्रतारणार्थमनुष्ठानम् ॥ शुचौ शुद्धपुरुषे कितवस्य धूर्तस्य Digitized by Google नीतिशतकम् । भावः कैतवं धूर्तता, शूरे शौर्यादिगुणयुक्ते निर्घृणता निर्दयता, ऋजी सरले विमतिता बुद्धिहीनता, प्रियमालपति तच्छीले पुरुषे दैन्यं दीनता, तेजस्विनि तेजोविशिष्टे अवलिप्तता गर्विष्ठता, "अवलेपस्तु गर्ने स्याल्लेपने भूषणेऽपि चेति मेदिनी" वक्तरि वचनपटौ निन्दितमुखमस्य तस्य भावो मुखरता अब- द्धमुखरता अबद्धवक्तृत्वमिति यावत् ॥ "दुर्मुखे मुखराबद्धावित्यमरः " ॥ स्थि- रे निश्चले अशक्तिः शक्तिराहित्यम् ॥ तत्तस्मात् गुणिनां को नाम स गुणो भवेत् यो दुर्जनैर्दुष्टजनैर्नाङ्कितोऽनारोपितदोष इत्यर्थः ॥ "शार्दूलविक्रीडितं वृत्तम्" ॥ ५४ ॥ हेयोपादेयतया दोषान्गुणांश्च दर्शयति- लोभवेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ॥ सौजन्यं यदि किं निजैः सुमहिमा यद्यस्ति किं मण्डनैः सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ ५५ ॥ लोभश्चेदिति ॥ लोभः प्राप्तेऽप्यर्थेऽधिकप्राप्तीच्छा चेत् अगुणेन गुणराहित्ये - न किम् ॥ एकस्मिन्लोभे सति सर्वगुणानां व्यर्थत्वादित्यर्थः ॥ तदुक्तं भागवते "यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः ॥ लोभः स्वल्पोऽपि ता - न्हन्ति श्चित्रो रूपमिवेप्सितमिति ॥ पिशुनस्य दुर्जनस्य भावः पिशुनता दुर्जन- ता ॥ पिशुनो दुर्जनः खल इत्यमरः " ॥ सर्वेषां पापानां पिशुनतायामेवान्त- र्भावादित्यर्थः ॥ सत्यं यथार्थभाषणं चेत्तपसा कृच्छ्रचान्द्रायणादिना किम् ॥ सत्येनैव कृच्छ्रादिफलप्राप्तेरित्यर्थः ॥ [तदुक्तं श्रुतौ । सत्यं परं पर ५ सत्य सत्येन न सुवर्गाल्लोकाच्यवन्ते कदाचन सता हि सत्यं तस्मात्सत्ये र- मन्ते ॥ सत्येन वायुरावाति सत्येनादित्यो रोचते दिवि सत्यं वाचः प्रतिष्ठा सत्ये सर्वं प्रतिष्ठितं तस्मात्सत्यं परमं वदन्तीति ] ॥ यदि मनोन्तःकरणं शु- चि शुद्धं चेत्तीर्थेन तीर्थस्नानेन किम्, तीर्थस्नानजन्यफलस्य तेनैव जनना- दित्यर्थः ॥ सुजनस्य भावः सौजन्यं यदि चेत् निजैरात्मीयैः किम् ॥ सुजनत- या सर्वेषामात्मीयत्वसंपादनादित्यर्थः ॥ [ गुणैरिति पाठे इतरैर्गुणैरित्यर्थः ] ॥ सौजन्येनैवेतरगुणानां कार्यकरणादित्यर्थः ॥ यदि सुष्ठु महिमा माहात्म्यमैश्वर्य- मिति यावत् ॥ चेत् मण्डनैरितरभूषणैः किम् ॥ तस्यैव सर्वभूषणकार्यकारित्वा- दित्यर्थः ॥ यदि सद्विद्या उत्तमविद्या चेत् धनैः किम् ॥ सर्वधनेषु विद्याधनस्य ૪ Digitized by Google भर्तृहरिकृतं प्राधान्यादित्यर्थः यद्यपयशो ऽपकीर्तिश्चेन्मृत्युना किम् ॥ तस्यैव मृत्युकार्यकारि- त्वादित्यर्थः ॥ " पूर्वोक्तं वृत्तम्" ॥ ९५ ॥ दुष्परिहराणि मानसिकानि दुःखानि कथयितुं तानि गणयित्वा दर्शयति- शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ॥ प्रभुर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गनगतः खलो मनसि सप्त शल्यानि मे ॥ ५६ ॥ शशीति ॥ शशी चन्द्रो दिवसे धूसरः प्रभाहीनः, कामिनी स्त्री गलितं नष्टं यौवनं यस्याः सा, सरः सरोवरं विगतं वारिजं कमलं यस्मात्तत्, शो- भना आकृतिः करचरणाद्यवयवो यस्य तस्य मुखमाननं न विद्यन्ते अक्षरा - णि वर्णा यस्मिन्तत् अक्षररहितमित्यर्थः ॥ प्रभुः स्वामी धने परायणस्तत्परः, सज्जनः साधुजनः सततं निरन्तरं दुर्गतो दारिद्र्यं प्राप्तः ' खलो दुर्जनः नृप- स्य राज्ञोंऽगने चत्वरे गतः प्राप्तः, "अङ्गनं चत्वराजिरे इत्यमरः " ॥ एता- नि सप्त शल्यानि मे मनसि वर्तन्ते ॥ "पृथ्वी वृत्तम् ॥ लक्षणं पूर्वमुक्तमेव" ॥९६॥ अत्यन्तकोपाविष्टानां राज्ञां स्वीयः कोऽपि नास्तीत्यग्निदृष्टान्तेनाह— न कश्चिश्चण्डकोपानामात्मीयो नाम भूभुजाम् ॥ होतारमपि जुह्वानं स्पृष्टो दहति पावकः ॥ ५७ ॥ न कश्चिदिति ॥ चण्डोऽत्यन्तः कोपः क्रोधो येषां तेषां भुवं भुञ्जन्ति ते भूभुजो राजानस्तेषामात्मीयः स्वकीयः कश्चित्कोऽपि नास्ति, नामेति प्रसि- द्धम् ॥ तत्र दृष्टान्तः, जुहोति हविर्ददातीति जुह्वानस्तं होतारमपि तेन स्पृष्टः कृतस्पर्शः पावकोऽग्निर्दहत्येव न तु तमुपेक्षते इत्यर्थः ॥ तथा राजा- नोऽपीति भावः ॥ " अनुष्टुत्र् वृत्तम्" ॥ ९७ ॥ सेवाधर्मोऽतिकठिन इत्याह- मौनान्मूकः प्रवचनपटुर्वातुलो जल्पको वा धृष्टः पार्श्वे वसति च तदा दूरतश्चाप्रगल्भः ॥ क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ५८ ॥ मौनान्मूक इति ॥ सेवाधर्मः परममत्यन्तं गहनो दुरधिगमोऽस्ति ॥ यतो Digitized by Google नीतिशतकम् । योगिनामप्यगम्यो ज्ञातुमशक्यः ॥ तमेवाह मौनान्मौनधारणान्मूको ऽस्तीत्युच्यत इति शेषः ॥ एवमेवाग्रेऽपि ॥ मौनधारिणं पुरुषं मूकत्वेन गणयन्तीत्यर्थः ॥ प्रवचने पटुः समर्थश्चेत् बातं न सहते वातुलो वातरोगी ॥ " वातूलो वातुलोऽपि - स्यादिति द्विरूपकोशाद्धस्वमध्योऽपि ॥ वातसुखसेवनयोरदन्तः ॥ बाहुलकादु- लजिति रामाश्रमीकारः ॥ " वातुलो वातलेऽपि स्यादिति हेमचन्द्रः " अथवा जल्पको वाचालः ॥ वाग्मिनं पुरुषं वाचालत्वेन वातरोगित्वेन वा गणयन्ती- त्यर्थः ॥ पार्श्वे पार्श्वभागे वसति चेत् धृष्टोऽविनीतः ॥ " धृष्टे धृष्णुर्वियातश्चे- त्यमरः" ॥ लज्जारहितो वा ॥ " स्यादधृष्टे तु शालीन इत्यमरकोशेऽधृष्टश- ब्देन सलज्जस्य ग्रहणादर्थादृष्टशब्देन निर्लज्जस्य ग्रहणम् " ॥ सर्वदा समीपे वसन्तं पुरुषं धृष्टत्वेन निर्लज्जत्वेन गणयन्तीत्यर्थः ॥ दूरतो वसतीति पूर्वस्यै- वानुषङ्गः ॥ चेत् तदा अप्रगल्भोऽप्रौढ : ॥ दूरे वसन्तं पुरुषमप्रौढत्वेन गण- यन्ती त्यर्थः ॥ क्षान्त्या क्षमया युक्त इति शेषः ॥ चेत् भीरुर्भयशीलः ॥ क्षमाशीलं पुरुषं भीरुत्वेन गणयन्तीत्यर्थः ॥ यदि न सहते तदा प्रायशो बाहुल्येन नाभिजातः अज्ञोऽकुलीनो वा ॥ "अभिजातस्तु कुलजे बुधे इत्यमरः " असहनशीलं पुरुषमज्ञत्वेनाकुलीनत्वेन गणयन्तीत्यर्थः "मन्दाक्रान्ता वृत्तम् ॥ मन्दाक्रान्ता जलधिषडगैम्भ न तौ तागुरू चेदिति तल्लक्षणात्" ॥ ९८ ॥ नीचसेवाकारिणः सुखिनो न भवन्तीत्याह- उद्भासिताखिलखलस्य विशृङ्खलस्य प्राग्जातविस्तृतनिजाधमकर्मवृत्तेः ॥ दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्य गोचरगतैः सुखमाप्यते कैः ॥ ५९ ॥ उद्भासितेति ॥ उद्भासिताः प्रकाशिता अखिलाः खला येन तस्य विशृ- ङ्खलस्य प्रतिबन्धरहितस्य प्राग्जातं पूर्वजन्मनि जातमिदानीं विस्तृतं निजं स्वकीयमधमं निन्द्यं कर्म तस्मिन्वृत्तिर्वर्तनं यस्य, दैवाददृष्टादवाप्तः प्राप्तो विभव ऐश्वर्य येन तस्य, गुणान् द्वेष्टीति गुणद्विट् तस्यास्य नीचस्य जनस्य गोचर - गतैश्चक्षुर्विषयगतैः कैः पुरुषैः सुखमाप्यते प्राप्यते न कैश्चिदित्यर्थः ॥ "वस- न्ततिलका वृत्तम्" ॥ ५९ ॥ Digitized by Google भर्तृहरिकृतं खलसज्जनयोर्मित्रता दिनपूर्वार्धपरार्धविभागसंबन्धिच्छायेव संकोचविका- सशालिन्यस्तीति दर्शयति- आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ॥ दिनस्य पूर्वार्धपरार्धमिन्ना छायेव मैत्री खलसज्जनानाम् ॥६०॥ आरम्भगुर्वीति ॥ आरम्भे गुर्वी महती, क्रमेण क्षयिणी प्रतिक्षणं क्षय- शीला, पुरा पूर्वे लघ्वी, पश्चात् वृद्धिरस्या अस्तीति वृद्धिमती, दिनस्य दिवसस्य पूर्वार्धं च परार्धे च ताभ्यां भिन्ना, छायेव खला दुर्जनाश्च सज्जनाः साधवश्च तेषां मैत्री मित्रता भवति ॥ यथा दिनपूर्वार्धे आरम्भे छाया महती क्रमेण दिनवृद्ध्या क्षयिणी तथा खलानां मैत्री आरम्भे महती परिणामे लघ्वी भवतीत्यर्थः ॥ यथा दिनपरार्धे आरम्भे लघ्वी छाया पश्चाद्दिनद्दासे वृद्धिमती भवति तथा सज्जनानां मैत्री आरम्भे लघ्वी परिणामे क्रमेण महती भवतीति भावः ॥ "उपजातिर्वृत्तम् " ॥ ६० ॥ पिशुनाः कारणं विना जगात वैरिणो भवन्तीति लुब्धकधीवरदृष्टान्तपूर्वकं दर्शयति- मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनाम् ॥ लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ ६१ ॥ मृगमीनेति ॥ जगति लोके लुब्धको व्याधः "व्याधो मृगवधाजीवो मृग- युर्लुब्धकश्च स इत्यमरः " धीवरः कैवर्तः "कैवर्ते दासधीवरावित्यमरः" पि- शुनो दुर्जनस्ते च निष्कारणं कारणं विना वैरिणः शत्रवो भवन्ति ॥ केषामि- त्याकाङ्गायामाह मृगमीनेति तृणं च जलं च संतोषश्च तैर्विहिता वृत्तिर्जीविका येषां तेषाम् "वृत्तिर्वर्तनजीवने इत्यमरः " ॥ मृगा हरिणाश्च मीना मत्स्याश्च सज्जना साधवश्च तेषाम् ॥ ( अत्र लुब्धकधीवरौ दृष्टान्तभूतौ पिशुनश्च दा- ष्टन्तिकभूतः, तथा च यथा लुब्धकधीवरौ मृगमीनयोर्निष्कारणवैरिणौ तथा पिशुनः सज्जनानां निष्कारणवैरी भवतीति तात्पर्यम्) ॥ "आर्या वृत्तम् " ६१ वाञ्छादि गुणविशिष्टा नरा अतिपूज्या भवन्तीति दर्शयन्नाह — वाञ्छा सज्जनसंगमे परगुणे प्रीतिर्गुरौ नम्रता विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयम् ॥ - Digitized by Google नीतिशतकम् । भक्तिः शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खले येष्वेते निवसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥ ६२ ॥ वाञ्छेति ॥ एते पूर्वोक्ता निर्मला निर्दोषा गुणा येषु निवसन्ति तिष्ठन्ति तेभ्यो नरेभ्यो नमो नमस्कारोऽस्तु ॥ ते नरा नमस्कारार्हाः पूज्या इत्यर्थः ॥ एते के तानाह वाञ्छेति ॥ सज्जनानां साधूनां संगमे सहवासे वाञ्छा इच्छा, परेषां गुणस्तस्मिन्प्रीतिरभिरुचिः, गुरौ नम्रता नम्रत्वम्, विद्यायां वेदशास्त्रादि- विद्यायां व्यसनमासक्तिः' "व्यसनं त्वशुभे सक्ताविति मेदिनी" स्वस्याSS- मनो योषित स्त्रियां रती रागः " रतिः स्मरस्त्रियां रागे इति हेमचन्द्रः " लो- के अपवादो निन्दा तस्माद्भयं भीतिः, "अपवादौ तु निन्दाज्ञे इत्यमरः " शू- लिनिशिवे, "शिवः शूली महेश्वर इत्यमरः " भक्तिः परमानुरक्तिः "भक्तिः परानुरक्तिरीश्वरे इति शाण्डिल्यसूत्रात्" आत्मनो मनसो दमने निग्रहे शक्तिः सामर्थ्यम्, खले दुर्जने संसर्गः सहवासस्तस्य मुक्तिस्त्याग इति "शार्दूलविक्री- डितं वृत्तम्" ॥ ६२ ॥ " महतां स्वभावसिद्धान् गुणानाह— विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः ॥ यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ ६३ विपदीति ॥ इदं पूर्वोक्तं सर्वे महात्मनां महतां प्रकृत्या स्वभावेन सिद्धं निष्पन्नं न त्वन्यतः शिक्षितमित्यर्थः ॥ इदं किम् । विपदि विपत्तौ धीरस्य भा- वो धैर्यं धीरत्वम्, अथाभ्युदये ऐश्वर्ये क्षमा क्षान्तिः, सदसि सभायां वाक्पटु- ता वाक्पाटवम्, युधि संग्रामे विक्रमः पराक्रमः, यशसि सत्कीर्तावभिरुचिः प्रीतिः श्रुतौ वेदादिषु व्यसनमासक्तिरिति ॥ " द्रुतविलम्बितं वृत्तम्" ॥ ६३ ॥ साधूनां महत्त्वमेव प्रकारान्तरेणाह- प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः प्रियं कृत्वा मौनं सदसि कथनं नाप्युपकृतेः ॥ अनुत्सेको लक्ष्म्या निरभिभवसाराः परकथाः ॥ सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ ६४ ॥ प्रदानमिति ॥ प्रदानं ब्राह्मणेभ्यो दानं प्रच्छन्नं गुप्तं न तु प्रसिद्धमित्यर्थः ॥ गृहमुपगते प्राप्तेऽतिथौ संभ्रमविधिरादरविधानम्' "संभ्रमः साध्वसेऽपि स्या- त्संवेगादरयोरपीति मेदिनी" प्रियं हितं कृत्वा मौनं तूष्णीमवस्थानं वाचाs- Digitized by Google भर्तृहरिकृतं नुद्घाटनमित्यर्थः ॥ उपकृतेरुपकारस्यापि ॥ अपिः समुच्चये ॥ सदसि सभा- यां न कथनं कथनाभावः, स्वयं कृतस्याप्युपकारस्यानुद्घाटनमित्यर्थः ॥ लक्ष्म्याः संपत्तेरनुत्सेको गर्वः ॥ सत्यां संपत्तौ गर्वाभाव इत्यर्थः । परेषां कथाः निरभि- भवोऽभिभवरहितः सारः सारांशो यासु ताः ॥ [ चिरविभवसारा इति पाठे ] चिरं विभव एव सारो यासु ताः ॥ इदं पूर्वोक्तं सतां विषममसिधाराव्रतं के- नोद्दिष्टमिति ॥ एतस्य व्याख्यानमष्टाविंशतिश्लोके कृतमस्ति ॥ शिखरिणी वृत्तम् ॥ लक्षणं तूंक्तमेव" ॥ ६४ ॥ सत्पात्रे दानाद्येव महतां भूषणं नान्यदिति दर्शयति--- करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयिभुजयोर्वीर्यमतुलम् ॥ हृदि स्वच्छा वृत्तिः श्रुतमधिगतैकव्रतफलं विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥ ६५ ॥ करे इति ॥ इदं पूर्वोक्तं ऐश्वर्येण विनापि ऐश्वर्यमन्तरापि प्रकृत्या स्वभावेन महान्तस्तेषां मण्डनं भूषणं नान्यदित्यर्थः ॥ इदं किम् ॥ करे हस्ते श्लाघ्यः स्तुत्यस्त्यागः सत्पात्रे दानं, तदेव हस्तभूषणं, न तु कितवादिभ्यो दानमि- त्यर्थः ॥ एवमुत्तरत्राऽपि बोध्यम् ॥ शिरसि मस्तके गुरोः पादयोः प्रणयिता नम्रता, गुरुपादयोर्मस्तकस्य नम्रीकरणमित्यर्थः ॥ मुखे सत्या यथार्था वाणी, भुजयोर्बाह्वोर्विजयि जयशीलमतुलमनुपमं वीर्य बलम्, हृदि अन्तःकरणे . स्वच्छा निर्मला वृत्तिर्वर्तनम् अधिगतं प्राप्तमेकं मुख्यं व्रतमीश्वरप्राप्तिचिन्त- नरूपो नियमः स एव तस्य फलं वा येन तत् एवंविधं श्रुतं शास्त्राद्यध्ययनम्, शास्त्राध्ययनस्य मुख्यं फलमीश्वरज्ञानमिति तात्पर्यम् " शिखरिणी वृत्तम्" ६५ संपदापदोर्महतामन्तःकरणस्थितिमाह— , संपत्सु महतां चित्तं भवत्युत्पलकोमलम् ॥ आपत्सु च महाशैलशिलासंघातकर्कशम् ॥ ६६ ॥ संपत्विति ॥ महतां चित्तमन्तःकरणं संपत्सु संपत्तिषु उत्पलवत्कमलव- त्कोमलं मृदु भवति, उत्सेकरहितमित्यर्थः ॥ आपत्सु च महांश्चासौ शैल: पर्वतस्तस्य शिलानां संघातः समूहस्तद्वत्कर्कशं कठिनं विपत्काले धीरत्वं भजते इत्यर्थः "अनुष्टुब् वृत्तम् ॥ ६६ ॥ Digitized by Google नीतिशतकम् । संसर्गवशादेव गुणवैचित्र्यं भवतीत्युदकदृष्टान्तेन दर्शयति- संतप्तायसि संस्थितस्य पयसो नामाऽपि न ज्ञायते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ॥ स्वात्यां सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ॥ ६७ ॥ संतप्तेति ॥ संतप्ते आयसि लोहे संस्थितस्य पयसो जलस्य नामाऽपि न ज्ञायते, [श्रूयते इति पाठेऽपि स एवार्थः] संतप्तलोहसंपर्काज्जलं समूलं नश्यतीत्यर्थः ॥ तदेव जलं नलिन्याः कमलिन्याः पत्रे पर्णे स्थितं सन्मुक्ता- कारतया राजते शोभते, नलिनीपत्रसंसृष्टं तदेव मौक्तिकवद्भासत इत्यर्थः ॥ तदेव खात्यां खातिनक्षत्रे सागरे समुद्रे या शुक्तिस्तस्या मध्ये पतितं सन्मौ- क्तिकं जायते, शुक्तिसंसर्गात्तदेव मौक्तिकं भवतीत्यर्थः ॥ एवं प्रायेण प्रायशो - धममध्यमोत्तमगुणः संसर्गतः सहवासाज्जायते ॥ यथा तप्तलोहसंसर्गादेकस्यै- वोदकस्य परिणामे वैचित्र्यं भवति तथाऽधमादिसहवासाद्गुणवैचित्र्यं भवति ॥ तस्मात्पुरुषैरुत्तमसंसर्गः कर्तव्यो नाधममध्यमयोरिति भावः "शार्दूलविक्रीडितं वृत्तम्" ॥ ६७ ॥ आचरणवशात्पुत्रादिलक्षणमाह- यः प्रीणयेत्सुचरितैः पितरं सपुत्रो यद्भर्तुरेव हितमिच्छति तत्कलत्रम् ॥ तन्मित्रमापदि सुखे च समक्रियं य- देतत्रयं जगति पुण्यकृतो लभन्ते ॥ ६८ ॥ यः प्रीणयेदिति ॥ यत् एतत्पूर्वोक्तं त्रयं जगति लोके पुण्यकृतः सुकृतिनो लभन्ते प्राप्नुवन्ति नान्य इत्यर्थः ॥ एतत्रयं किम् ॥ यः सुचरितैः शोभनाचरणैः पितरं जनकं प्रीणयेत्संतोषयेत्स एव पुत्रो नान्य इत्यर्थः ॥ यद्भर्तुरेव हितं प्रियमिच्छति तदेव कलत्रं भार्या नान्येत्यर्थः "कलत्रं श्रोणिभार्ययो- रित्यमरः" यदापदि विपत्तौ सुखे च समा समाना क्रिया यस्य तदेव मित्रं नान्यदित्यर्थः "वसन्ततिलका वृत्तम् " ॥ ६८ ॥ प्रवृत्तिनिवृत्तिमार्गभेदेन मुख्यान्देवादीनेव सुखहेतूनाह—- एको देवः केशवो वा शिवो वा ह्येकं मित्रं भूपतिर्वा यतिर्वा ॥ एको वासः पत्तने वा वने वा ह्येका भार्या सुंदरी वा दरी वा ६९ Digitized by Google भर्तृहरिकृतं एक इति ॥ केशव विष्णुर्वाऽथवा शिवः शंकरो वा एको मुख्यो देवो ज्ञेय इति शेषः ॥ एवमुत्तरत्राऽपि यथायोग्यो बोध्यः ॥ हिः पादपूरणे ॥ प्रवृत्तिमार्गे निवृत्तिमार्गे चोभयोरपि सुखजनकत्वादित्यर्थः ॥ भूपती राजा वा यतिः संन्यासी वा एकं मुख्यं मित्रं नान्यदित्यर्थः ॥ उभयत्रो भयोर्मित्रकार्य- कारित्वादिति भावः ॥ पत्तने नगरे वा वनेऽरण्ये वा एको मुख्यो वासो वसतिर्नान्यत्रेत्यर्थः ॥ प्रवृत्तौ नगरे निवृत्तावरण्ये वासः सुखद इति भावः ॥ सुंदरी रमणी वा दरी पर्वतगुहा वा एका मुख्या भार्या पत्नी नान्येत्यर्थः ॥ प्रवृत्तौ सुंदरस्त्री निवृत्तौ गुहा च सुखदेति भावः "शालिनी वृत्तम् ॥ लक्षणं तूक्तमेव" ॥ ६९ ॥ नम्रत्वादिगुणैः साधवो जगति पूज्याभवन्तीत्याह —- नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान्गुणान्ख्यापयन्तः स्वार्थान्संपादयन्तो विततपृथुतरारम्भयत्नाः परार्थे ॥ क्षान्त्यैवाऽऽक्षेपरूक्षाक्षरमुखरमुखान् दुर्मुखान्दूषयन्तः सन्तः सावर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः ॥ ७० ॥ नम्रत्वेनेति ॥ नम्रस्य भावो नम्रत्वं तेनोन्नमन्त उन्नतिं गच्छन्तः ॥ जगति यद्वस्तु नम्रीभूतं तदुन्नतिं न गच्छाते सन्तस्तु नम्रीभावेनोन्नतिं ग- छन्ति इदमेवाश्चर्यमिति भावः ॥ एवमेवोत्तरत्रोहनीयम् ॥ तथा परेषां गुणा- स्तेषां कथनैः स्वान्स्वकीयान् गुणान् ख्यापयन्तः प्रकाशयन्तः सन्तः स्वार्था- न्संपादयन्तः ॥ तथा परेषामर्थे विततपृथुतरारम्भयत्नाः आरभ्यन्त इत्यारम्भाः कर्तव्यकृत्यानि ॥ महान्तश्च ते आरम्भाश्च महारम्भास्तेषु यत्नः ॥ पृथुतर- श्वासौ महारम्भयत्नश्च ॥ विततो विस्तृतः सर्वत्र प्रख्यात इति यावत् पृथु- तरोऽतिशयेन महान् एतादृशो महारम्भयत्नो येषां ते ॥ परार्थे कर्तव्यकृत्ये- ष्वतिशयेन यत्नकारिण इत्यर्थः ॥ तथा आक्षेपेण भर्त्सनेन रूक्षाण्यक्षराणि वर्णास्तैर्मुखरं वाचालं मुखं येषां तान् " आक्षेपो भर्त्सनाकृष्टिरिति मेदिनी" दुर्मुखान् दुष्टान् क्षान्त्या क्षमयैव दूषयन्त एतादृशाः आश्चर्येण सहिता चर्या आचरणं येषां ते सन्तः साधवो जगति बहुमता बहुमान्याः सन्तः कस्य नाभ्यर्चनीयाः पूज्या न भवन्ति अपि तु सर्वेषामपि पूज्या भवन्तीत्यर्थः "स्त्र- ग्धरा वृत्तम् ॥ म्रन्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयमिति तल्लक्षणात्" ॥ ७० ॥ Digitized by Google नीतिशतकम् । परोपकारिणां स्वभावं वृक्षादिदृष्टान्तपूर्वकं वर्णयति — भवन्ति नम्रास्तरवः फलोद्गमे नवाम्बुभिर्भूमिविलम्बिनो घनाः ॥ अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥ - - ३३ भवन्तीति ॥ सत्पुरुषाः सज्जनाः समृद्धिभिरैश्वर्यैरनुद्धता भवन्ति, परोपका- रिणां परानुपकुर्वन्ति ते परोपकारिणस्तेषामेष स्वभाव एवास्ति ॥ तत्र दृष्टा - न्तावाह~~~ तरवो वृक्षाः फलानामुद्गमे प्रादुर्भावे नम्रा भवन्ति, घना मेघाः नवानि नूतनानि अम्बूनि जलानि तैर्भूमिं विलम्बन्ते इति भूमिविलम्बिनो भवन्ति ॥ यथा फलोद्गमादौ वृक्षादयो नम्रीभवन्ति तथा ऐश्वर्यप्राप्तावपि स- त्पुरुषा नम्रीभवन्तीति भावः । " वंशस्थं वृत्तम् ॥ जतौ तु वंशस्थमुदीरितं जराविति तल्लक्षणात् " ॥ ७१ ॥ कर्णादीनां शास्त्रश्रवणादिगुणवतामेव श्रेष्ठत्वमित्याह - श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन ॥ विभाति कायः करुणापराणां परोपकारैर्न तु चन्दनेन ॥ ७२ ॥ श्रोत्रमिति ॥ श्रोत्रं कर्णः श्रुतेनैव शास्त्रश्रवणेनैव विभाति शोभते । अ- स्योत्तरत्रापि संबन्धः ॥ कुण्डलेन कर्णभूषणेन न शोभते ॥ तथा पाणिस्तो दानेन विभाति कङ्कणेन न, तथा करुणापराणां कृपापराणां कायो देहः परेषु उपकारैर्विभाति चन्दनेन न विभाति ॥ तस्माच्छास्त्रश्रवणादिकं पुरुषै- रवश्यं कर्तव्यमिति भावः " उपजाति वृत्तम् ॥ लक्षणं तूक्तमेव" ॥ ७२ ॥ सन्मित्रलक्षणमाह- पापान्निवारयति योजयते हिताय गुह्यं च गूहति गुणान्प्रकटीकरोति ॥ आपगतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥ ७३ ॥ पापादिति ॥ सन्तः साधव इदं पूर्वोक्तं सन्मित्रलक्षणं वदन्ति कथयन्ति ॥ इदं किम् ॥ पापात्पापकर्मणो निवारयति निवारणं करोति, हिताय हिताच- रणाय योजयते, गुह्यं गोप्यं गूहति गोपयति, गुणान् प्रकटीकरोति, आप- गतं विपद्गतं काले समये न जहाति न त्यजति, काले द्रव्यादिदानसमये द्रव्यादिकमपि ददाति ॥ " वसन्ततिलका वृत्तम्" ॥ ७३ ॥ सन्त इतरप्रार्थनानपेक्षया परहितायोद्योगं कुर्वन्तीति सूर्यादिदृष्टान्तेनाह— पद्माकरं दिनकरो विकचीकरोति चन्द्रो विकासयति कैरवचक्रवालम् ॥ Digitized by Google भर्तृहरिकृतं नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः स्वयं परहिताभिहिताभियोगाः ॥ ७४ ॥ पद्माकरमिति ॥ सन्तः स्वयं परहितेऽभिहितः कथितोऽभितो योग उ- पायो युक्तिर्वा येषां ते ॥ [ यद्वाऽभियोग उत्साहपूर्वको यत्नो येषां ते] एवं- विधा भवन्तीति शेषः ॥ "योगः संनहनोपायध्यानसंगतियुक्तिष्वित्यमरः ॥ उत्साहपूर्वके यत्ने योग इति कोशान्तरं च " तत्र दृष्टान्तानाह नाम्यर्थितो- Sम्येन केनाप्यप्रार्थितः दिनकरः सूर्यः पद्मानां कमलानामाकरं समूहं विकची- करोति प्रफुल्लं करोति ॥ " प्रफुलोत्फुल्लसंफुल्लव्या कोशविकचस्फुटा इत्यमरः" नाभ्यर्थित इति सर्वत्र संबध्यते ॥ नाभ्यर्थितश्चन्द्रः कैरवाणां कुमुदानां च- वालं मण्डलं विकासयति ॥ नाभ्यर्थितो जलधरो मेघोऽपि जलं ददातीति ॥ " पूर्वोक्तमेव वृत्तम् " ॥ ७४ ॥ क्रियाभेदेन सत्पुरुषादीनां चातुर्विध्यमाह - एते सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ॥ तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ ७५ ॥ एत इति ॥ ये स्वार्थे परित्यज्य त्यक्त्वा परेषामर्थान् घटयन्ति ते एते सत्पुरुषा उत्तमपुरुषा भवन्तीति शेषः ॥ एवमुत्तरत्रापि बोध्यम् ॥ तु पुनः ये स्वार्थस्याविरोधेनानुकूल्येन परार्थमुद्यममुद्योगं बिभ्रति ते सामान्या मध्यमा इत्यर्थः ॥ ये स्वार्थाय स्वार्थे कर्ते परहितं निघ्नन्ति नाशयन्ति तेऽमी मानु- षेषु मनुष्येषु राक्षसा राक्षसतुल्या विचारशून्या अधमा इत्यर्थः ॥ ये निरर्थकं निष्प्रयोजनं परहितं निघ्नन्ति ते के इति न जानीमहे । अतिनिन्द्या इत्यर्थः ॥ "शार्दूलविक्रीडितं वृत्तम्" ॥ ७५ ॥ सतां मैत्री संतापप्राप्तावपि न नश्यतीति पयोदृष्टान्तेनाह-- क्षीरेणात्मगतोदकाम हि गुणा दत्ताः पुरा तेऽखिलाः क्षीरे तापमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः ॥ गन्तुं पावकमुन्मनस्तद्भवद्दृष्ट्वा तु मित्रापदं युकं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥ ७६ ॥ क्षीरेणेति ॥ सतां साधूनां मैत्री ईदृशी क्षीरनीरसदृश्यखण्डिता अस्तीति शेषः ॥ तदेव विवृणोति ॥ पुरा पूर्व क्षीरेण दुग्धेनाऽऽत्मानं गतं प्राप्तमुदकं Digitized by Google नीतिशतकम् । जलं तस्मै ते प्रसिद्धा अखिलाः संपूर्णा गुणा माधुर्यादयो दत्ताः ॥ अग्निसं- योगे सति क्षीरे तापमवेक्ष्य दृष्ट्वा तेन पयसा जलेन खस्याऽऽत्मा देहः कृशा- नाव हुतः ॥ तत्तापेन शुष्कमभवदित्यर्थः ॥ तत्क्षीरं मित्रस्य जलस्मापदं जलशोषणरूपामापतिं दृष्ट्वा पावकमग्निं गन्तुमुन्मन उत्कण्ठितमभवत् उत्सि- क्तमभूदित्यर्थः ॥ तदेव क्षीरं तेन जलेन युक्तं सत् तु पुनः शाम्यति ॥ उ- त्सिक्तं दुग्धं जलप्रक्षेपेण शाम्यतीति लोकप्रसिद्धम् ॥ " शार्दूलविक्रीडितं वृत्तम्" ॥ ७६ ॥ महात्मानो बहूनामाश्रयभूता भवन्तीति समुद्रान्योक्त्याऽऽहं- इतः स्वपिति केशवः कुलमितस्तदीयद्विषा- मितव शरणार्थिनां शिखरिणां गणाः शेरते ॥ इतोऽपि वडवानलः सह समस्तसंवर्तकै- रही विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ ७७ ॥ इल इति ॥ इत एकस्मिन्प्रदेशे केशवो विष्णुः खपिति निद्राति ॥ इत- स्तदीयद्विषां भगवद्वैरिणां दैत्यानां कुलं समूहस्तिष्ठतीति शेषः ॥ इतश्च श- रणार्थिनां शरणागतानां शिखरिणां पर्वतानां गणाः समूहाः शेरते ॥ इतोऽपि वडवानलो वडवाग्निः समस्ताः सांवर्तकाः प्रलयकारिणोऽयस्तैः सह तिष्ठति, अहो इत्याश्चर्ये ॥ सिन्धोः समुद्रस्य वपुः शरीरं विततं विस्तृतमूर्जितमतिबलिष्ठं भरं भारं सहत इति भरसहं चास्तीति ॥ महात्मानः समुद्रवदुपकारिणामनु- पकारिणां च सर्वेषामाश्रयभूता भवन्तीति भावः " पृथ्वी वृत्तम् ॥ लक्षणं तूक्तमेव " ॥ ७७ ॥ तृष्णात्यागादिना साधुत्वं भवतीति जनमुपदिशति --- तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः सत्यं ब्रह्यनुचाहि साधुपदवीं सेवस्व विद्वज्जनान् ॥ मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय स्वान्गुणान् कीर्ति पालय दुःखिते कुरु दयामेतत्सतां लक्षणम् ॥ ७८ ॥ तृष्णामिति ॥ एतत्पूर्वोक्तं सतां साधूनां लक्षणं भवतीति शेषः ॥ एत- त्किम् ॥ तृष्णां स्पृहां छिन्धि, क्षमां क्षान्ति भज सेवस्व, पापे पापकर्मणि रतिं रागं मा कृथाः मा कुरु, सत्यं ब्रूहि वद, साधोः सज्जनस्य पदवीं मार्ग- मनुग्राहि अनुगच्छ, विद्वज्जनान्सेवस्व मान्यान्मानार्हान्मानय, विद्विषोऽप्यनुनय सांत्वय, " प्रणतिः स्यादनुनयः प्रणिपातश्च सांत्वनमिति हलायुधः " स्वा- Digitized by Google भर्तृहरिकृतं न्गुणान् प्रख्यापय, कीर्ति यशः पालय, दुःखिते दयां कुरु ॥ "शार्दूलविक्री- " डितं वृत्तम् " ॥ ७८॥ प्रकारान्तरेणापि साधूनां लक्षणं कथयस्तेषां दौर्लभ्यमाह - मनसि वचसि काये पुण्यपीयूषपूर्णा- स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः ॥ परगुणपरमाणून्पर्वतीकृत्य नित्यं निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ॥ ७९ ॥ मनसीति ॥ मनसि अन्तःकरणे, वचसि वाण्यां, काये देहे, पुण्यं सुकृ- तमेव पीयूषममृतं तेन पूर्णाः परिपूर्णाः ॥ वाक्कायमनोभिः पुण्यमेव संपाद- यन्ति न पापमित्यर्थः ॥ उपकारश्रेणिभिरुपकारपङ्क्तिभिस्त्रिभुवनं प्रीणयन्तस्त- र्पयन्तः ॥ सर्वदोपकारमेव कुर्वन्ति नापकारमित्यर्थः ॥ परेषां गुणास्तेषां परमाणून पर्वतीकृत्य तत्प्रमाणान्कृत्वा नित्यं निजहृदि स्वहृदये विकसन्तः प्रकाशमानाः ॥ सर्वदा परगुणेष्वेव दत्तदृष्टयो न दोषेष्वित्यर्थः ॥ एवंविधाः सन्तः सज्जनाः कियन्तो द्वित्रा विरलाः सन्तीति ॥ " मालिनी वृत्तम्" ॥७९॥ साधवः खनिष्ठान्गुणान् परेषु संक्रामयन्तीति मलयान्योक्त्याऽऽह- किं तेन हेमगिरिणा रजताद्विणा वा यत्राश्रिताश्च तरवस्तरवस्त एव ॥ मन्यामहे मलयमेव यदाश्रयेण कङ्कोलनिम्बकुटजा अपि चन्दनाः स्युः ॥ ८० ॥ , किं तेनेति ॥ यत्राऽऽश्रितास्तरवो वृक्षास्ते तरव एव भवन्ति तेन हेम- गिरिणा सुवर्णाचलेन वा अथवा रजताद्रिणा किं न किमपीत्यर्थः ॥ वयं तु मलयमेव मलयाचलमेव महान्तं मन्यामहे ॥ कुतः ॥ यस्याऽऽश्रयेण कङ्को- लाश्च निम्बाश्च कुटजाश्च तेऽपि चन्दनाश्चन्दनवृक्षाः स्युर्भवन्तीति ॥ चन्द- नवृक्षवद्भासन्त इत्यर्थः ॥ " वसन्ततिलका वृत्तम्" ॥ ८० ॥ धीराः पुरुषा अवश्यसंपाद्यत्वेन निश्चितमर्थं संपादयितुं यत्नं कुर्वन्तो मध्ये विघ्नैरभिभूता अपि निश्चितार्थप्राप्तिं विना न विरमन्तीत्यमुमर्थे समुद्रम- थनप्रवृत्तदेवदृष्टान्तेनाह- रत्नैर्महार्हेस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् ॥ सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः ॥ ८१ ॥ रत्नैरिति ॥ धीरा गम्भीराः पुरुषा निश्चितार्थान्निश्चितमर्थमप्राप्य न वि- Digitized by Google नीतिशतकम् । रमन्ति न विश्राम्यन्ति आरब्धं यत्नं न त्यजन्तीत्यर्थः ॥ तत्र दृष्टान्तमाह- रत्नैरिति ॥ देवा महार्हेर्महामूल्यै रत्नैर्न तुतुषुः संतोषं न प्रापुः ॥ अमृतमय- नार्थे प्रवृत्ता देवा मध्ये उत्पन्नैरपि रत्नैर्न तुतुषुरित्यर्थः ॥ तथा भीमं घोरं विषं तेन भीतिं भयं न भेजिरे न सिषिवुः ॥ महाभयजनकेनोत्पन्नेन विषेणाऽपि भयं न प्रापुरित्यर्थः ॥ किं तु सुधाममृतं विना विरामं विश्रान्ति न प्रययुर्न प्रापुः ॥ प्राप्तव्यत्वेन निश्चितार्थरूपसुधाप्राप्तिं विना यत्नं न त्यजन्तीत्यर्थः ॥ "उपेन्द्रवज्रा वृत्तम् " ॥ ८१ ॥ कार्ये दत्तदृष्टिर्विवेकी पुरुषो मध्ये प्राप्तं सुखदुःखादिकं न गणयेदिति बोधयन्नाह— कचिद्भूमौ शय्या कचिदपि च पर्यङ्कशयनं कचिच्छाकाहारी कचिदपि च शाल्योद्नरुचिः ॥ कचित्कन्थाधारी कचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ ८२ ॥ क्वचिदिति ॥ कचित्कदाचिद्भूमौ पृथिव्यां शय्या शयनं करोतीति शेषः ॥ एवमुत्तरत्रापि बोध्यम् ॥ कचिदपि च पर्यङ्गशयनम्, कचिच्छाकाहारी शा- कभोजी, कचिदपि च शाल्योदने रुचिर्यस्य सः ॥ शाल्योदनभोजीत्यर्थः ॥ क्वचित्कन्यां प्रावरणविशेषं धारयतीति धारी तथाविधः, कचिदपि च दिव्यं 'च तदम्बरं वस्त्रं तस्य धरो धारकः, कार्यार्थी कार्येच्छुः, प्रशस्तं मनोऽन्तः- करणं यस्य सः विवेकीति यावत् ॥ एवंविधः पुरुषः दुःखं न गणयति सुखं च न गणयतीति ॥ " शिखरिणी वृत्तम् " ॥ ८२ ॥ सुजनतादिसर्वभूषणापेक्षया शीलमेवोत्तमं भूषणमित्याह- ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ॥ अक्रोधस्तपसः ः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ ८३ ॥ ऐश्वर्यस्येति ॥ सुजनता सौजन्यमैश्वर्यस्य भूषणमलंकरणं भवतीति शेषः ॥ एवमुत्तरत्रापि बोध्यम् ॥ सत्यैश्वर्ये सौजन्यं संपादनीयमित्यर्थः ॥ शौर्यस्य वीर्यस्य वाक्संयमो वाङ्घ्रियमः ॥ शौर्ये सति वाचा तदुद्घाटनं न कार्यमित्यर्थः ॥ ज्ञानस्य तत्त्वज्ञानस्योपशमः शान्तिः ॥ तत्त्वज्ञाने सति शान्तिरवश्यं संपाद- नीयेत्यर्थः ॥ श्रुतस्यानेकशास्त्र श्रवणस्य विनयो नम्रता, शास्त्रश्रवणेन विन- Digitized by Google भर्तृहरिकृतं योऽवश्यं संपादनीय इत्यर्थः ॥ वित्तस्य द्रव्यस्य पात्रे सत्पात्रे व्ययो दानम्, सति वित्ते सत्पात्रे दानमवश्यं कर्तव्यमित्यर्थः ॥ तपसोऽक्रोधः क्रोधराहित्यम्, तपः कुर्वता क्रोधो न कार्य इत्यर्थः ॥ प्रभवितुर्निग्रहानुग्रहसमर्थस्य क्षमा, निग्रहानुग्रहसमर्थेन क्षमाऽवश्यं संपादनीया, धर्मस्य स्वधर्माचरणस्य निर्व्या- जता निष्कपटता, दम्भेन स्वधर्माचरणं न कार्यमित्यर्थः ॥ सर्वेषामपि ज- नानां सर्वेषां गुणानां कारणमिदं शीलं स्वभावः परं श्रेष्ठं भूषणमस्ति ॥ सर्वे एते गुणाः स्वभावानुरोधेन भवन्ति न तु बलात्कारेणेति भावः ॥ " शार्दूल- विक्रीडितं वृत्तम् " ॥ ८३ ॥ धीरपुरुषा निन्दादिभिर्न्यायमार्गान्न प्रच्यवन्तीत्याह- निदन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ॥ अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ ८४ ॥ निन्दन्विति ॥ नीत्यां नये निपुणाः कुशलाः पुरुषा निन्दन्तु निन्दां कुर्वन्तु यदिवा अथवा स्तुवन्तु, लक्ष्मीः संपत् यथेष्टं यथेच्छं समाविशत्वागच्छतु वा गच्छतु, अद्यैव मरणं मृत्युरस्तु युगान्तरेऽन्ययुगे वास्तु, तथाऽपि धीरा ग- म्भीराः पुरुषा न्यायादनपेतोऽरहितस्तस्मात्पयो मार्गात् न्यायमार्ग विहाया- Sन्यत्रैकमपि पदं चरणं न प्रविचलन्ति न गच्छन्ति ॥ अनेन सत्स्वपि निन्दा- दिषु न्यायमार्गो न हातव्य इति सूचितम् ॥ " वसन्ततिलका वृत्तम्" ॥८४॥ प्रारब्धमेव जनस्य वृद्धिक्षययोः कारणमस्तीति सर्पदृष्टान्तेनाह-- भग्नाशस्य करण्डपीडिततनोर्लानेन्द्रियस्य क्षुधा कृत्वाSSखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ॥ तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा लोकाः पश्यत दैवमेव हि नृणां वृद्धौ क्षये कारणम् ॥ ८५ ॥ भग्नाशस्योत ॥ हे लोकाः यूयं नृणां मनुष्याणां वृद्धावैश्वर्ये क्षये च दैव- मेव कारणं हि निश्चितं पश्यत । एतदेव दृष्टान्तेनोपपादयति केनचिन्मं- त्रिणा. सर्प धृत्वा करण्डे निक्षिप्तस्तस्य स्थितिमाह करण्डे पीडिता तनुर्देहो यस्यात एव भग्ना नष्टा आशा बहिर्निष्क्रमणाशा यस्य तस्य, क्षुधा क्षुधया कृत्वा म्लानानि क्षीणानीन्द्रियाणि यस्यैवंविधस्य भोगिनः सर्पस्य मुखे आखुर्मूषको विवरं करण्डस्य छिद्रं कृत्वा स्वयं निपतितो न केनाऽपि पा- Digitized by Google नीतिशतकम् । तितः ॥ असौ सर्पस्तु तस्य मूषकस्य पिशितेन मांसेन तृप्तः सन् तेनैव मूषक- विहितेन पथा मार्गेण सत्वरं बहिर्यातो निर्गतः ॥ यथा करण्डस्थितं सर्पमजा - नन्मूषकः करण्डस्य बिलं कृत्वाऽन्तः प्रविष्टः स्वादृष्टवशादेव तन्मुखे पतित्वा मृतः ॥ सर्पस्तु स्वादृष्टवशादेव तन्मांसेन तृप्तः सन् तत्कृतेन बिलद्वारेण बहिर्निर्गत्य सुखितोऽभूत्तथा सर्वोऽपि जनः स्वादृष्टवशादेव सुखदुःखादिकं भु इति भावः ॥ "शार्दूलविक्रीडितं वृत्तम् " ॥ ८५ ॥ आलस्यं विहायोद्यमकर्ता लोके सुखं प्राप्नोतीत्याह- आलस्यं हि मनुष्याणां शरीरस्थो महात्रिपुः ॥ नास्त्युद्यमसमो बन्धुः कुर्षाणो नावसीदति ॥ ८६ ॥ आलस्यमिति ॥ अलसस्य भाव आलस्यं व्यापारराहित्यं, मनुष्याणां शरीरे तिष्ठतीति शरीरस्थो महान् रिपुः शत्रुर्हि निश्चितमस्ति ॥ उद्यमेनो- योगेन समः सदृशो बन्धुर्नास्ति ॥ तमुद्यमं कुर्वाणः पुरुषो नावसीदति दारिद्रयादि दुःखं न प्राप्नोतीत्यर्थः ॥ " अनुष्टुब् वृत्तम्" ॥ ८६ ॥ वृक्षादिवदापद आगमापायित्वात्तया सन्तो न सन्तप्यन्त इत्याह- छिन्नोऽपि रोहति तरुः क्षीणोप्युपचीयते पुनश्चन्द्रः ॥ इति विमृशन्तः सन्तः सन्तप्यन्ते न ते विपदा ॥ ८७ ॥ छिन्नोऽपीति ॥ तरुर्गृक्षरिछन्नोऽपि पुना रोहति प्रादुर्भूतो भवति, तथा क्षीणोऽपि क्षीणकलोऽपि चन्द्रः पुनरुपचीयते वृद्धि प्राप्नोति इत्यनेन प्रका- रेणापद आगमापायित्वं विमृशन्तो विचारयन्तस्ते प्रसिद्धाः सन्तः साधवो विपदा आपदा न संतप्यन्ते दुःखं न प्राप्नुवन्तीति ॥ "आर्या वृत्तम्"॥८७॥ देवे प्रतिकूले सति पौरुषं निरर्थकं भवतीतीन्द्रदृष्टान्तपूर्वकं दैवस्य श्रेष्ठयमाह — नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः स्वर्गे दुर्गमनुग्रहः किल हरेरैरावतो वारणः ॥ इत्यैश्वर्यबलान्वितोऽपि बलभिद्भग्नः परैः संगरे तद्युक्तं ननु दैवमेव शरणं धिग्धिग्वृथा पौरुषम् ॥ ८८ ॥ नेतेति ॥ बृहस्पतिर्गुरुर्यस्येन्द्रस्य नेता नायकोऽस्तीति शेषः ॥ एवमुत्तर- त्रापि बोध्यम् ॥ प्रहरणमायुधं वज्रं कुलिशम् ॥ सुरा देवाः सेनायां समवेताः सैनिकाः, दुर्गे स्वर्गः, हरेर्विष्णोरनुग्रहः कृपा, किलेति प्रसिद्धम् ॥ वारणो हस्ती ऐरावतः, इति पूर्वोक्तप्रकारेण ऐश्वर्ये च बलं च ताभ्यामन्वितोऽपि • Digized by Google भर्तृहरिकृतं बलभिदिन्द्रः ॥ मघवेत्यपि पाठः ॥ संगरे संग्रामे परैः शत्रुभिः भग्नः, तत्त- स्मात् ननु निश्चितं दैवमेव शरणं रक्षित इति युक्तम् ॥ व्यक्तमिति पाठे स्पष्ट- मित्यर्थः ॥ तस्माद्वृथा दैवहीनं पौरुषं पुरुषप्रयत्नं धिग्धिगिति ॥ दैवहीनः पुरुषप्रयत्नो निष्फल इत्यर्थः ॥ " शार्दूलविक्रीडितं वृत्तम्" ॥ ८८ ॥ सर्वकृत्यस्य कर्माधीनत्वेऽपि सुधीभिर्यद्यत्कर्तव्यं तद्विचारपूर्वकमेव कर्तव्य - मिति बोधयन्नाह - कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी ॥ तथाऽपि सुधिया भाव्यं सुविचार्यैव कुर्वता ॥ ८९ ॥ कर्मायत्तमिति ॥ यद्यपि पुंसां फलं सुखदुःखादिकं कर्मायत्तं कर्माधीन- मस्ति ॥ यादृशं कर्म तादृशं सुखदुःखादिकं भवतीति भावः ॥ सती असती वा बुद्धिः कर्मानुसरत्यनुगच्छतीति कर्मानुसारिण्यस्ति, तथाऽपि सुधिया सुष्ठु विचार्यैव कर्म कुर्वता भाव्यम् ॥ बुद्धिमता पुरुषेण यद्यत्कर्म कर्तव्यं तत्त- द्विचारपूर्वकमेव कर्तव्यमित्यर्थः ॥ " अनुष्टुब् वृत्तम् " ॥ ८९ ॥ भाग्यहीनः पुरुषो यत्रकुत्राऽपि गतो दुःखमेव लभत इति खल्वाटदृष्टा- न्तेनाह- खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके वाञ्छन्देशमनातपं विधिवशात्तालस्य मूलं गतः ॥ तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥ ९० ॥ खल्वाट इति ॥ प्रायो बाहुल्येन यत्र प्रदेशे भाग्यरहितो भाग्यहीनः पु- रुषो गच्छति तत्र तं प्रत्यापदो विपत्तयो यान्ति आगच्छन्ति ॥ [ तत्रापदां भाजनमिति पाठे आपदां विपत्तीनां भाजनं पात्रं भवतीत्यर्थः ] ॥ तदेव दृ- ष्टान्तेनोपपादयति ॥ खल्वाटो निष्केशशिराः पुरुषो बहिरटन् दिवसेश्वरस्य सूर्यस्य किरणैर्मस्तके शिरसि सन्तापितः सन् अनातपमुष्णरहितं देशं वाञ्छ- निच्छन्विधिवशाद्दैववशात्तालस्य तालवृक्षस्य मूलं गतः ॥ तत्राऽपि तस्मिन्स्थ- लेऽपि प्रारब्धवशादकस्मात्पतता महाफलेनास्य खल्वाटस्य शिरः सशब्दं य- था स्यात्तथा भग्नमभूदिति शेषः ॥ [ तत्राप्याशु इति पाठे शीघ्रमित्यर्थः ] ॥ यथा सूर्यकिरणसंतप्तः खल्वाटः छायाप्रदेशे गतोऽपि तालफलेन भग्नशिरा अभवत्तथा भाग्यहीनः पुरुषः यत्र कुत्रापि गतो दुःखमेव लभत इति भावः ॥ शार्दूलविक्रीडितं वृत्तम् " ॥ ९० ॥ 66 Digitized by Google नीतिशतकम् । सर्वत्र दैवमेव बलीय इति सदृष्टान्तमाह- - गजभुजङ्गमयोरपि बन्धनं शशिदिवाकरयोर्ग्रहपीडनम् ॥ , मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः ॥ गजभुजङ्गमेति ॥ गजो हस्ती, भुजङ्गमः सर्पः, तयोरपि बन्धनं भवति ॥ शशी चन्द्रः, दिवाकरः सूर्यस्तयोर्ग्रहेण राहुणा पीडनम्, मतिमतां बुद्धिमतां दरिद्रतां दारिद्र्यं विलोक्य दृष्ट्वा विधिर्देवं बलवान्बलिष्ठोऽस्तीति मे मतिर्नि- चयोऽस्ति ॥ अहो इति वितर्के " द्रुतविलम्बितं वृत्तम् ॥ द्रुतविलम्बितमाह ॥ नभौ भराविति तल्लक्षणात् " ॥ ९१ ॥ उत्तमपुरुषाणामपि लोकेऽल्पायुष्टुं दृष्ट्वा तान्त्सृजतो ब्रह्मणोऽपि विचार- शून्यत्वं दर्शयन्नाह— सृजति तावदशेषगुणाकरं पुरुषरत्नमलङ्करणं भुवः ॥ तदपि तत्क्षणभङ्गि करोति चेदहह कष्टमपण्डितता विधेः ॥९२॥ सृजतीति ॥ तावदादौ ब्रह्मा अशेषा ये गुणास्तेषामाकरं खनिः, अशेष- गुणपरिपूर्णमित्यर्थः ॥ भुवोऽलङ्करणं शोभाकरं पुरुषरत्नं सृजति सृष्ट्वा च त- दपि पुरुषरत्नमपि तत्क्षणभङ्गि तत्क्षणनाशशीलं अल्पायुः करोति चेत् अ- हह इति खेदे, कष्टं यथा स्यात्तथा इयं विधेर्ब्रह्मणोऽपण्डितस्य भावोऽपण्डि - तताऽज्ञानिताऽस्ति " पूर्वोक्तमेव वृत्तम् " ॥ ९२ ॥ जन्मकाले विधिना ललाटलिखितस्यान्यथा करणे कोऽपि न समर्थ इति करीरादिदृष्टान्तेनाह-- पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं नोलूकोप्यवलोऽकते यदि दिवा सूर्यस्य किं दूषणम् ॥ धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं यत्पूर्व विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥ ९३ ॥ पत्रमिति ॥ करीरसंज्ञको भाषायां (नेवतीति ) प्रसिद्धो यो विटपो वृक्ष- स्तस्मिन् यदा यदि पत्रं पर्ण नैव भवति, तर्ह्ययं वसन्तस्याखिलवृक्षपत्रकुसु- मादिप्रदस्य वसन्तर्तोर्दोषोऽपराधः किं ? नास्तीत्यर्थः ॥ यदि उलको (घु- बड ) इति प्रसिद्धः पक्षिविशेषो दिवाऽपि दिवसेऽपि नावलोकते, इदं सू- र्यस्य दूषणं किम् ॥ तथा धारा जलधाराश्चातकस्य पक्षिविशेषस्य मुखे नैव पतन्ति तर्हि मेघस्य सर्वतो दृष्टिकरस्य जलदस्य दूषणं किम् ॥ किं तु पूर्वे Digitized by Google भर्तृहरिकृतं यद्विधिना ब्रह्मणा जन्मकाले ललाटे लिखितं तन्मार्जितुं दूरीकर्तुं कः क्षमः समर्थो न कोऽपीत्यर्थः ॥ वसन्तादीनां पत्रसमृद्ध्यादिसाधकत्वेऽपि करी- रादिषु पत्राद्यभावे दैवातिरिक्तं कारणं नास्ति तस्माद्दैवमेव सर्वत्र प्रबलमिति भावः ॥ "शार्दूलविक्रीडितं वृत्तम्" ॥ ९३ ॥ प्राचीनं कर्म प्रशंसति द्वाभ्याम् - नमस्यामोदेवाननु हतविधेस्तेऽपि वशगा विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः ॥ फलं कर्मायतं किममरगणैः किं च विधिना नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ ९४ ॥ नमस्याम इति ॥ वयं देवान्नमस्यामः " उपपदविभक्तेः कारकविभक्ते- र्बलीयस्त्वाद्वितीया " ॥ ननु निश्चितं तेऽपि देवा अपि हतो नष्टो यो विधिर्ब्रह्मा तस्य वशगा अधीनाः सन्ति ॥ विधिर्ब्रह्मा वन्द्योऽस्ति सोऽपि प्रतिनियतं शास्त्रनियमितं यत्कर्म तस्यैकं मुख्यं फलं ददातीति ॥ तथाविधकर्मानुरोधि फलदातेत्यर्थः ॥ फलमपि कर्मण आयत्तमाधीनमस्ति तर्हि अमरगणैर्देवैः किं विधिना च किं न किमपीत्यर्थः ॥ विधिरपि येभ्यः कर्मभ्यो न प्रभवति न पर्याप्तो भवति ॥ कर्माणि परावर्तयितुं विधिरपि समर्थो न भवतीत्यर्थः ॥ " नमः खस्तीत्यत्रालमिति पर्यायग्रहणाच्चतुर्थी " ॥ तस्मात्सर्वापेक्षया कर्मैव प्रब- लमिति तात्पर्यम् ॥ "शिखरिणी वृत्तम् " ॥ ९४॥ किं च- ब्रह्मा येन कुलालवनियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासंकटे ॥ रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ ९५ ॥ ब्रह्मेति ॥ येन कर्मणा ब्रह्माण्डमेव भाण्डं भाजनं तस्योदरे मध्ये ब्रह्मा कुलालवत्कुम्भकारवन्नियमितो नियन्त्रितः जगन्निर्माणकार्यनिर्णये इत्यर्थः ॥ यथा कुम्भकारो नानाविधघटरचनां करोति तथा ब्रह्मापि नानाविधसृष्टिरचनां करोतीत्यर्थः ॥ एवमुत्तरत्राऽपि बोध्यम् ॥ येन विष्णुर्दशदशधाऽवतारा मत्स्या- दिजन्मानि तद्रूपं गहनं दुःखं यस्मिन् तथाविधे महासंकटे क्षिप्तः पातितः प्रेरित इति यावत् ॥ " गहनं कलिले त्रिषु ॥ नपुंसकं गहरे स्याद्दुःखकान- Digitized by Google नीतिशतकम् । नयोरपीति मेदिनी" तथा येन कर्मणा रुद्रः शिवः कपालं नरकपालं तेन युक्तो यः पाणिपुटको हस्तसंपुटकस्तस्मिन् या भिक्षा तदर्थ भ्रमणं कारितः ॥ भिक्षाया आधारस्यावश्यकत्वात्तत्सापेक्षितत्वेन देवदत्तस्य गुरुकुलमित्यादिव- त्समासः ॥ तथा सूर्यो नित्यमेव गगने आकाशे भ्राम्यति भ्रमणं करोति तस्मै कर्मणे नमोऽस्तु ॥ " शार्दूलविक्रीडितं वृत्तम्" ॥ ९९ ॥ भाग्यमेव सर्वत्र समये समये फलति नाऽऽकृत्यादय इति वृक्षदृष्टान्त- पूर्वकमाह- नैवाकृतिः फलति नैव कुलं न शील विद्याऽपि नैव न च यत्नकृताऽपि सेवा ॥ भाग्यानि पूर्वतपसा खलु संचितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ ९६ ॥ नैवेति ॥ आकृतिः स्वरूपं नैव फलतिं, उत्तमाप्याकृतिरिष्टफलं न जन- यतीत्यर्थः ॥ एवमेव सर्वत्रोहनीयम् ॥ कुलं सत्कुलं नैव, शीलं सद्वृत्तं नैव वि- द्याऽपि शास्त्राभ्यासोऽपि नैव, यत्नेन प्रयत्नेन कृताऽपि सेवा शुश्रूषा न, किंतु पूर्वमाचरितं यत्तपस्तेन संचितानि पुरुषस्य भाग्यानि काले समये फलन्ति खलु निश्चयेन ॥ अत्र दृष्टान्तः ॥ यथा वृक्षाः काले समये एव फलन्ति नान्यत्र तद्वत् ॥ तस्माद्भाग्यमेव सर्वत्र फलदायकं नान्यदिति भावः ॥ " वसन्ततिलका वृत्तम्" ॥ पूर्वसंचितपुण्यानि सर्वत्र पुरुषं रक्षन्तीत्याह- वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा ॥ सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि ॥ ९७ ॥ वने इति ॥ पुरा पूर्वं कृतानि पुण्यानि सुकृतानि वने अरण्ये, रणे सं- ग्रामे, शत्रवश्च जलं चाग्निश्च तेषां मध्ये, महार्णवे महासमुद्रे, पर्वतस्य मस्तके शिखरे वा, [ पर्वतसंकटे इति पाठे पर्वते संकटे चेत्यर्थः । ] सुप्तं निद्रितं, प्रमत्तं मद्यादिना, विषमे निम्नोन्नतभूमौ स्थितं पुरुषं रक्षन्ति ॥ तस्मात्पुण्यमेव सदा नरैः कार्यमिति भावः " उपेन्द्रवज्रा वृत्तम् " ॥ ९७ ॥ सक्रियैव पुरुषेण कर्तव्येति तत्फलप्रदर्शनपूर्वकमाह - या साधूंश्च खलान्करोति विदुषो मूर्खान्हितान्द्वेषिणः प्रत्यक्षं कुरुते परोक्षममृतं हालाहलं तत्क्षणात् ॥ तामाराधय सत्क्रियां भगवतीं भोक्तुं फलं वांछितं हे साधो व्यसनैर्गुणेषु विपुलेष्वास्यां वृथा मा कृथाः ॥ ९८ ॥ Digitized by Google भर्तृहरिकृतं या साधूंश्चेति ॥ या सत्क्रिया, खलान् दुर्जनान् साधून्सज्जनान्करोति, मूर्खा- न्विदुषः पण्डितान्करोति, द्वेषिणः शत्रून् हितान् हितकरान् करोति, परोक्षं प्रत्यक्षं कुरुते, हालाहलं विषविशेषं अमृतं तत्क्षणात्क्षणमात्रेण करोति, तस्माद्धे साधो वाञ्छितमिच्छितं फलं भोक्तुं भगवतीमैश्वर्यवतीं तां सत्क्रियामाराधय, विपुलेषु गुणेषु व्यसनैरासक्तिभिरास्थां यत्नं मा कृथा मा कुरु ॥ आस्थानी - यत्नयोरास्थेत्यमरः ॥ एतादृशीं सत्क्रियां विहाय गुणास्थया तद्विरुद्धो यत्नः पुरुषेण ऩ कार्य इति भावः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ९८ ॥ धीमता पुरुषेण यद्यत्कार्य कर्तव्यं तस्य परिणामपर्यन्तं विचारं कृत्वा त- त्कर्तव्यमित्याह- गुणवद्गुणवद्वा कुर्वता कार्यमादी परिणतिरवधार्या यत्नतः पण्डितेन ॥ अतिरभसकृतानां कर्मणामाविपत्ते- " र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ९९ ॥ गुणवदिति ॥ आदौ प्रथमं गुणा विद्यन्ते यस्मिन्तगुणवत् वा अथवा अगुणवत्तद्रहितं कार्यं कुर्वता पण्डितेन यत्नतः परिणतिः परिणामोऽवधार्या विचार्या ॥ प्रथममेवारभ्यमाणस्य कर्मणः परिणामे सुखदत्वं दुःखदत्वं वेति विचारणीयमित्यर्थः॥ विपक्षे बाधकमाह - अतिरभसेनातित्वरया कृतानां क- र्मणां विपाकः परिणाम आविपत्तेर्मरणपर्यन्तं हृदयं दहतीति हृदयदाही शल्येन शङ्कुना तुल्यः ॥ वा पुंसि शल्यं शङ्कुर्नेत्यमरः " ॥ बाणाग्रजन्यत्रणतुल्यदुः- खवदिति यावत् ॥ भवतीति ॥ " मालिनी वृत्तम् ॥ लक्षणं पूर्वमुक्तमेव ॥९९॥ एतस्यां कर्मभूमौ जन्म प्राप्य पुरुषेण तप एव कर्तव्यं नान्यदित्यभिप्रा- येणाह— 66 स्थाल्यां वैदूर्यमय्यां पचति तिलकणांश्चन्दनैरिन्धनाद्यैः सौवर्णैर्लाङ्गलायैर्विलिखति वसुधामर्कमूलस्य हेतोः ॥ कृत्वा कर्पूरखण्डान्वृतिमिह कुरुते कोद्रवाणां समन्ता- त्प्राप्येमां कर्मभूमिं न चरति मनुजो यस्तपो मन्दभाग्यः ॥१००॥ स्थाल्यामिति ॥ यो मनुजो मनुष्य इमां कर्मभूमिं सदाचरणं कर्तु योग्यां भूमिं प्राप्य तपः कृच्छ्रचान्द्रायणादि न चरति न करोति स मन्दभाग्यो भा - ग्यहीनः पुरुषो वैदूर्यप्रचुरा वैदूर्यमयी तस्यां स्थाल्यां - पाकभाजने इन्धनेष्वा- द्यानि मुख्यानि तैश्चन्दनैस्तिलकणान्पचति विक्केदयति, तिलकणपाचनार्थे Digitized by Google नीतिशतकम् । स्थालीचन्दनादिसंपादनं यथा व्यर्थं तद्वदन्यत्कर्म करोतीत्यर्थः ॥ तथाऽर्क- मूलस्यार्कवृक्षमूलस्य हेतोः सुवर्णस्येमानि सौवर्णानि तैर्लाङ्गलायैहलाप्रैर्वसुधां पृथ्वीं विलिखति कर्षति ॥ अर्कमूलसंपादनार्थं खर्णलाङ्गलेन भूमिखननं यथा- व्यर्थं तद्वदित्यर्थः ॥ तथा कर्पूरखण्डान्कर्पूरवृक्षशकलानि कृत्वा कोद्रवाणां कोरदूषकाणां (हरीक इति ख्यातानां ) आसमन्तात् वृतिमावरणमिह कुरुते, कोद्रवरक्षणार्थं कर्पूरवृक्षच्छेदनं यथा व्यर्थे तद्वदित्यर्थः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ १०० ॥ सर्वस्य कर्माधीनत्वात्कृतेऽपि महति यत्ने यदवश्यं भावि तद्भवत्येवेत्याह- मज्जत्वम्भसि यातु मेरुशिखरं शत्रूञ्जयत्वाहवे वाणिज्यं कृषिसेवनादि सकलाविद्याः कलाः शिक्षताम् ॥ आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं महा- - नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ १०१ ॥ मज्जत्विति ॥ महान्पुरुषोऽम्भसि जले मज्जतु, मेरोः शृङ्गं यातु, आहवे संग्रामे शत्रून् जयतु, वणिजः कर्म वाणिज्यम्, कृषिसेवनमादिर्यासां ताश्च सकला विद्याः कलाश्च शिक्षताम्, प्रयत्नं कृत्वा खगवत्पक्षिवद्विपुलं विस्तीर्ण- माकाशं प्रयातु, तथापि भवितुं योग्यं भाव्यं न भाव्यमभाव्यं भवनानर्ह इह लोके कर्मवशतः कर्माधीनत्वात् न भवति, भाव्यस्य भवितुं योग्यस्य नाशः कुतः स्यान्न कुतश्चिदित्यर्थः ॥ [ तदुक्तम् ॥ यदभावि न तद्भावि भावि चेन्न तदन्यथेति ] "शार्दूलविक्रीडितं वृत्तम्" ॥ १०१ ॥ प्राचीनकर्मवशात्सर्वमघटमानमपि सिद्ध्यतीत्याह- भीमं वनं भवति तस्य पुरं प्रधानं सर्वे जनाः सुजनतामुपयान्ति तस्य ॥ कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ १०२ ॥ भीममिति ॥ यस्य नरस्य पुरुषस्य विपुलं बहु पूर्वसुकृतं पूर्वपुण्यमस्ति तस्य भीमं भयंकरमपि वनमरण्यं प्रधानं श्रेष्ठं पुरं नगरं भवति, तथा सर्वे जना लो- कास्तस्य सुजनस्य भावः सुजनता तां सौजन्यमुपयान्ति प्राप्नुवन्ति तद्विषये सौजन्यवन्तो भवन्तीत्यर्थः ॥ तथा कृत्स्ना संपूर्णा भूः पृथ्वी सन्त उत्तमा निधयः रत्नानि च तैः पूर्णा परिपूर्णा भवति, पूर्वकर्मानुकूल्ये वसुधाऽन्वर्था Digitized by Google भर्तृहरिकृतं सती यत्रकुत्राऽपि निध्यादिकं ददातीत्यर्थः ॥ तस्मात्पुरुषेण पुण्यकर्मैव कर्तव्यमिति तात्पर्यम् " वसन्ततिलका वृत्तम्" ॥ १०२ ॥ पुरुषस्य कर्तव्याकर्तव्ये प्रश्नोत्तराभ्यामाह- को लाभो गुणिसंगमः किमसुखं प्राज्ञेतरैः संगतिः का हानिः समयच्युतिर्निपुणता का धर्मतत्त्वे रतिः ॥ कः शूरो विजितेन्द्रियः प्रियतमा काऽनुव्रता किं धनं विद्या किं सुखमप्रवासगमनं राज्यं किमाशाफलम् ॥ १०३ ॥ को लाभ इति ॥ लाभोऽभीष्टप्राप्तिः कः ? गुणिनां गुणिपुरुषाणां संगमः संगतिः, पुरुषेण गुणवद्भिरेव संगः कर्तव्य इत्यर्थः ॥ असुखं दुःखं किम् ? प्राज्ञेभ्य इतरैर्मूखैः संगतिः, पुरुषेण मूखैः सह संगतिः कदापि न कार्ये - त्यर्थः ॥ हानिः का? समयस्य यस्मिन्काले यदवश्यकर्तव्यं तस्य कालस्य च्युतिरतिवाहनम्, पुरुषेण समये समये दत्तावधानेन भाव्यमित्यर्थः ॥ निपुणता का? धर्मस्य तत्त्वे रहस्ये रतिः प्रीतिः, सर्वदा पुरुषेण धर्माचरणमेव कर्तव्यं नाधर्माचरणमित्यर्थः ॥ शूरः कः ? विजितानीन्द्रियाणि येन स तथाविधः, पुरुषेण जितेन्द्रियेण भाव्यमित्यर्थः ॥ प्रियतमा अतिप्रिया स्त्री का ? अनु पत्यनु- रोध एव व्रतं नियमो यस्याः सा, स्वानुकूलायाः स्त्रियः संग्रहः कर्तव्यो नान- नुकूलाया इत्यर्थः ॥ धनं किम् ? विद्या शास्त्राद्यभ्यासः, पुरुषेण सदा शास्त्रा- भ्यास एव कर्तव्य इत्यर्थः ॥ सुखं किम् ? अप्रवासगमनं प्रवासगमनाभावः, प्रवासगमनं यथा न स्यात्तथा पुरुषेण स्थेयमित्यर्थः ॥ राज्यं किम् ? आज्ञैव फलं लाभो यस्य तदेव, येन राज्येनाऽऽज्ञा सफला भवेत्तादृशं राज्यं कर्त- व्यमित्यर्थः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ १०३ ॥ किनः विवेकपुरुषस्य द्वे गती भवत इति मालतीकुसुमदृष्टान्तपूर्वकमाह - मालतीकुसुमस्येव द्वे गती ह मनस्विनः ॥ मूर्ध्नि सर्वस्य लोकस्य शीर्यते वन एव वा ॥ १०४ ॥ मालतीति ॥ मालत्या जातिलतायाः कुसुमं पुष्पं तस्येव मनखिनो विवे- : पुरुषस्य द्वे गती दशे "गतिः स्त्री मार्गदशयोरिति मेदिनी" भवतः ह स्फुटम् ॥ कथम् ॥ यथा तेन कुसुमेन सर्व लोकस्य मूर्ध्नि मस्तके स्थीयते, वा अथवा वनेऽरण्ये एव शीर्यते शीर्णे भूयते तद्वन्मनखिनो गृहे लोकमान्या वने अरण्यवासिनो वा भवन्तीत्यर्थः ॥ " अनुष्टुब् वृत्तम्" ॥ १०४ ॥ 66 Digitized by Google नीतिशतकम् । पृथिव्यां सुजनस्थितेंदर्लभ्यमाह - , अप्रियवचनदरिद्रैः प्रियवचनात्यैः स्वदारपरितुष्टैः ॥ परपरिवादनिवृत्तैः क्वचित्कचिन्मण्डिता वसुधा ॥ १०५ ॥ अप्रियेति ॥ न प्रियाणि मनः संतोषकराणि च तानि वचनानि तैर्द - रिद्रा हीनास्तैः प्रियवचनैर्हितकारकवचनैराढ्याः पूर्णास्तैः, खदाराभिः खकी- यस्त्रियैव परितुष्टाः संतुष्टास्तैः परेषां परिवादो निन्दा तस्याः सकाशान्नि- वृत्ताः पराङ्मुखास्तैः, एतादृशैः पुरुषैर्वसुधा पृथ्वी कचित्क्वचिन्मण्डिताऽलङ्क- ताऽस्ति ॥ एवंविधाः पुरुषास्त्वतिदुर्लभा इति भावः "आर्या वृत्तम् " ॥ १०५ ॥ धैर्यावलम्बिनः पुरुषस्य धैर्य नाशयितुं कोऽपि न शक्नोतीत्यग्निदृष्टान्तपू- र्वकमाह- कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमाष्र्टुम् ॥ अधोमुखस्यापि कृतस्य वर्नाधः शिखा याति कदाचिदेव ॥ १०६ ॥ कदर्थितस्येति ॥ कदर्थितस्याप्यतिदुःखितस्यापि धैर्येण धीरतया वृत्तिर्व- र्तनं यस्यं तस्य धैर्यावलम्बिनः पुरुषस्य धैर्यरूपो यो गुणस्तं प्रमा नाशयितुं कैरपि न शक्यते ॥ तत्र दृष्टान्तमाह - अधोमुखस्येति ॥ अधोमुखं यस्य तस्य कृतस्याधोमुखीकृतस्येति यावत् ॥ वह्नेरग्नेः शिखा ज्वाला कदाचिदेव कदा- प्यधो न याति किंतूर्ध्वमेव गच्छति ॥ तस्माद्धीरो जनो दुःखितोऽपि धैर्ये न त्यजतीति भावः "उपजातिर्वृत्तम् " ॥ १०६ ॥ धीरपुरुषः सर्वे जगद्वशीकरोतीत्याह- कान्ताकटाक्षविशिखा न लुनन्ति यस्य चित्तं न निर्दहति कोपकृशानुतापः ॥ कर्षन्ति भूरिविषयाश्च न लोभपाशै- कत्रयं जयति कृत्स्नमिदं स धीरः ॥ १०७ ॥ कान्ताकटाक्षोते ॥ यस्य पुरुषस्य चित्तमन्तःकरणं कान्तायाः स्त्रियाः कटाक्षा अपाङ्गदर्शनानि तान्येव विशिखा बाणास्ते न लुनन्ति छिन्दन्ति ॥ तथा यस्य चित्तं कोपः क्रोध एव कृशानुरग्निस्तस्य तापः संतापो न निर्द- हति भस्मीकरोति ॥ तथा भूरि बहवो विषया लोभ एव पाशा बन्धनानि तैर्यस्य चित्तं न कर्षन्त्याकर्षन्ति स धीरो जनः कृत्स्नं सर्वमिदं लोकत्रयं जयति वशीकरोति ॥ अनेन कामादयः पुरुषेण व्याज्या इति सूचितम् ॥ " वसन्ततिलका वृत्तम् " ॥ १०७ ॥ , Digitized by Google भर्तृहरिकृतं एकएव शूरपुरुषः सर्वे जगज्जयतीति सूर्यदृष्टान्तपूर्वकं दर्शयति- एकेनापि हि शूरेण पादाक्रान्तं महीतलम् ॥ क्रियते भास्करेणेव स्फारस्फुरिततेजसा ॥ १०८ ॥ एकेनेति ॥ स्फारं विस्तीर्णं स्फुरितं देदीप्यमानं तेजो यस्य तेन भास्करेण सूर्ये - वैनाद्वितीयेन शूरेण वीरपुरुषेण महीतलं पृथ्वतिलं पादेन चरणेन पक्षे पादैः किरणैश्चाक्रान्तं व्याप्तं क्रियते ॥ यथा सूर्यः स्वपादैः सर्वे जगद्वयाप्तं करोति तथा शूरपुरुषः खपादेनाक्रान्तं करोतीति भावः " अनुष्टुत्र वृत्तम्" ॥१०८॥ लोकवल्लभशीलवतः पुरुषस्य सर्वेऽप्यनुकूला भवन्तीत्याह - वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणा- न्मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ॥ व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते यस्याने ऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ १०९ ॥ वह्निरिति ॥ यस्य पुरुषस्याङ्गे शरीरे अखिललोकानां वल्लभतममतिशयेन प्रियं शीलं सद्वर्तनं समुन्मीलत्युज्जृम्भते, तस्य वह्निरग्निरुष्णस्वभावोऽपि जलायते जलमिवाचरति ॥ जलवच्छीतलो भवतीत्यर्थः ॥ कर्तुः क्यङ् सलोपश्चेत्याचारार्थे क्यङ् ॥ एवमुत्तरत्रापि बोध्यम् । तथा जलनिधिः समुद्रो दुष्पारोऽपि कुल्यायते कुल्याऽल्पा सरित्तद्वदाचरति ॥ दुस्तरोऽपि सुतरो भवतीत्यर्थः ॥ तत्क्षणात्क्षण- मात्रान्मेरुर्मेरुपर्वतः स्वल्पशिलायते सुष्ठु अल्पा या शिला तद्वदाचरति ॥ महानपि पर्वतः स्वल्पपाषाणतुल्यो भवतीत्यर्थः ॥ मृगपतिः सिंहोतिक्रूरोऽपि सद्यः कुरङ्गायते कुरङ्गो हरिणस्तद्वदाचरति ॥ क्रौर्यं त्यजतीत्यर्थः ॥ सर्पों- Saas पि माल्यगुणायते मालागुण इवाचरति ॥ स्वक्रौर्यं त्यजतीत्यर्थः ॥ विषरसः पीयूषवर्षायते पीयूषरसोऽमृतरसस्तस्य वर्षो वर्षणं तद्वदाचरति स्वीयं मारकं गुणं त्यजतीत्यर्थः ॥ शार्दूलविक्रीडितं वृत्तम् ॥ १०९ ॥ तेजस्विनः पुरुषाः स्वीयां प्रतिज्ञां न त्यजन्तीति स्वजननीदृष्टान्तपूर्व- कमाह- लज्जागुणौघजननीं जननीमिव स्वा- मत्यन्तशुद्धहृदयामनुवर्तमानाम् ॥ तेजस्विनः सुखमसूनपि संत्यजन्ति सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥ ११० ॥ ॥ इति श्रीमद्वाजर्षिप्रवरभर्तृहरिकृतं नीतिशतकं संपूर्णम् ॥ Digitized by Google नीतिशतकम् । लज्जेति ॥ सत्यमेव व्रतं तस्मिन्व्यसनमासक्तिर्येषां ते एवंविधास्तेजस्विनः प्रभाववन्तः पुरुषाः सुखं यथा स्यात्तथा असून प्राणानपि त्यजन्ति पुनः स्वां स्वकीयां जननीं मातरमिव प्रतिज्ञां न त्यजन्ति ॥ कीदृशीं प्रतिज्ञां मातरं च ॥ असत्कर्मणि प्रवृत्तिलक्षणलज्जारूपो यो गुणौघो गुणप्रवाहस्तस्य जननी- मुत्पादिकाम् ॥ पुनः कीदृशीम् ॥ अत्यन्तं शुद्धं हृदयमन्तःकरणं यस्यां यस्या वा ताम् ॥ पुनः कीदृशीम् । अनुवर्तमानां अनुलक्षेण वर्तमानाम् ॥ अनेन सत्यभाषिणा पुंसा प्राणा अपि त्याज्याः परंतु स्वीयप्रतिज्ञा न त्या- ज्येति सूचितम् ॥ " वसन्ततिलका वृत्तम् " ॥ ११० ॥ नीत्याख्यशतकव्याख्यामर्थद्योतनिकाभिधाम् ॥ कृष्णोऽहं कृतवांस्तेन प्रीयतां विश्वसृड्विधिः ॥ १ ॥ इति कृष्णसूरिविरचितायामर्थद्योतनि- काभिधायां टीकायां नीतिशतकं संपूर्णम् ॥ Digitized by Google Digitized by Google अथ भर्तृहरिकृतं शृङ्गारशतकं प्रारभ्यते । श्रीमद्राजर्षिप्रवरो भर्तृहरिः शृङ्गाररससेवनमपि नीतिपूर्वकमेव कर्तव्यं न तद्विरुद्धमिति सूचयन् प्रथमं नीतिज्ञानाय नीतिशतकं कृत्वा ततः शृङ्गार- रसस्य परिणामे वैराग्यजनकत्वात्क्वचिद्धेयत्वेन कचिदुपादेयत्वेनादौ तं वर्ण- यित्वा पश्चाद्वैराग्यं वर्णयिष्यामीति मनसि निधाय शृङ्गारशतकं प्रारिप्सुस्तत्र कामस्य प्राधान्यादादी तन्नमस्कारात्मकं मङ्गलमाचरति-- शंभुस्वयंभुहरयो हरिणेक्षणानां येनाक्रियंत सततं गृहकर्मदासाः ॥ वाचामगोचरचरित्र- विचित्रिताय तस्मै नमो भगवते कुसुमायुधाय ॥ १ ॥ शंभुस्वयंभ्विति ॥ शंभुः शिवश्च स्वयंभूर्ब्रह्मा च हरिर्विष्णुश्च ते शंभुखयंभु- हरयः कर्तुमकर्तुमन्यथाकर्तुं शक्ता अपि येन मदनेन हरिणस्य ईक्षणे नेत्रे इव ईक्षणे यासां तासां स्त्रीणां गृहकर्मणि दासाः दासवत्सेवाकारिणः सततं निरन्त- रमक्रियन्त कृताः तस्मै अत एव वाचां वाणीनां न गोचराणि अविषयभूतानि वाचा अनुच्चारणीयानीति यावत् चरित्राणि तैर्विचित्रितो लोकविलक्षणच- 'रित्रकर्ता तस्मै अत एव भगवते ऐश्वर्यवते कुसुममेवायुधं शस्त्रं यस्य तस्मै कामाय नमोऽस्तु ॥ अत्र कस्मिंश्चित्पुस्तके चूडोत्तंसितचारुचन्द्रेति श्लोकः प्रथमं पठितः परंतु बहपुस्तकेष्वदृष्टत्वादयोग्यत्वाच्च न संगृहीतः किंत्वयमेव योग्यत्वा- दन्यत्रहुपुस्तकेषु दृष्टत्वाच्च लिखित इति ॥ वसन्ततिलका वृत्तम् । उक्ता वसन्ततिलका तभजा जगौ ग इति " तल्लक्षणात् ॥ १ ॥ " 66 यावद्भाग्योदयोऽस्ति तावच्छृङ्गारोद्बोधकं गृहादिकं स्थिरं भवति, तद्वैपरीत्ये तत्सर्वं नष्टं भवतीति नष्टतन्तुकमुक्ताजालदृष्टान्तपुरःसरं तदनित्यत्वं वर्णयति- शुभ्रं सन सविभ्रमा युवतयः श्वेतातपत्रोज्ज्वला लक्ष्मीरित्यनुभूयते स्थिरमिव स्फीते शुभे कर्मणि ॥ विच्छिन्ने नितरामनङ्गकलहक्रीडात्रुटत्तन्तुकं मुक्ता- जालमिव प्रयाति झटिति भ्रश्यद्दिशो दृश्यताम् ॥ २ ॥ शुभ्रमिति ॥ शुभ्रं सुधालेपादिना श्वेतं सद्म गृहम्, विभ्रमो विलासस्तत्स- हिता युवतयः स्त्रियः, श्वेतं शुभ्रं यदातपत्रं छत्रं तेनोज्ज्वला देदीप्यमाना Digitized by Google भर्तृहरिकृतं लक्ष्मी: संपदिति एतत्सर्वं शुभे पुण्ये कर्मणि स्फीते पुष्टे सति स्थिरमिवाचल- मिव लोकैरनुभूयते तस्मिन्पुण्ये विच्छिन्ने नष्टे सति नितरां अनङ्गः कामस्त- ननिता या कलहक्रीडा तया त्रुटन्तस्तन्तवो यस्यात एव भ्रश्यन्नष्टं मुक्ताजाल- मिव दिशो दशदिशो झटिति शीघ्रं याति नश्यतीति यावदिति सर्वैर्दृश्यतां प्रत्यक्षमनुभूयताम् ॥ " शार्दूलविक्रीडितं वृत्तम् । सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितमिति " तल्लक्षणात् ॥ २ ॥ 66 यावत्स्त्रीकटाक्षैर्विवेकी पुरुषो न ताड्यते तावत्तस्य हृदि विवेकः स्फुर- तीति स्त्रीणां विवेकध्वंसकत्वं वर्णयति— तावदेव कृतिनां हृदि स्फुरत्येष निर्मलविवेकदीपकः ॥ यावदेव न कुरङ्गचक्षुषां ताड्यते चपललोचनाञ्चलैः ॥ ३ ॥ तावदिति ॥ कुरङ्गचक्षुषां हरिणीदृशां चपलानि चञ्चलानि लोचनानि नेत्राणि तान्येवाञ्चलाः प्रान्तभागास्तैर्यावन्न ताड्यते तावदेव कृतिनां विवेकि- पुरुषाणां हृदि अन्तःकरणे एष निर्मलः कामादिमलरहितो विवेकदीपक: स्फुरति ॥ अनेन स्त्रियाः कटाक्षेण विवेकिनामपि विवेकभङ्गो भवतीति सू- चितम् ॥ " रथोद्धता वृत्तम् । रोनराविह रथोद्धता लगाविति" तल्लक्षणात् ॥ ३ ॥ स्त्रियं दृष्ट्वा निर्विकारमनसो ये ते पुरुषा जगति धन्या इत्याह- धन्यास्त एव चपलायतलोचनानां तारुण्यदर्पघनपी- नपयोधराणाम् ॥ क्षामोदरोपरिलसन्जिवलीलतानां दृष्ट्वाऽऽकृर्ति विकृतिमेति मनो न येषाम् ॥ ४ ॥ धन्यास्त इति ॥ चपले चञ्चले आयते विस्तृते लोचने नेत्रे यासाम् । ता- रुण्यस्य यौवनस्य दर्पो गर्यो यासां ताश्च । घनौ निरन्तरौ पीनौ पुष्टौ पयोधरौ स्तनौ यासां ताश्च ताश्च तासाम् ॥ क्षामं कृशं यदुदरं तस्योपरि लसन्ती त्रिवलीलता यासां तासां स्त्रीणामाकृतिमाकारं दृष्ट्वा येषां पुरुषाणां मनो विकृति विकारं नैति न प्राप्नोति त एव धन्याः पुण्यवन्तः " सुकृती पुण्यवान्धन्य इत्य- मरः " स्युः ॥ अनेन स्त्रियो दर्शनमात्रेणावश्यं मनोविकृति जनयन्तीति व्य- ज्यते 66 वसन्ततिलका वृत्तम् " ॥ ४ ॥ स्त्रीसङ्गत्यागवार्ताकारिणो जना बहवः सन्ति परंतु तज्जघनत्यागी दुर्लभ इत्याह- भवति वचसि सङ्गत्यागमुद्दिश्य वार्ता श्रुतमुखरमुखानां केवलं पण्डितानाम् ॥ Digitized by Google शृङ्गारशतकम् । जघनमरुणरत्नग्रन्थिकाञ्चीकलापं कुवलयनयनानां को विहातुं समर्थः ॥ ५ ॥ भवतीति ॥ श्रुतेन अनेकविधश्रवणेन मुखरं सशब्दं मुखमाननं येषां बहु जल्पाकानामिति यावत् । तेषां पण्डितानां सङ्गत्यागं स्त्रीसङ्गत्यागमुद्दिश्य वचस्येव केवलं वार्ता भवति वार्तामात्रमेव भवति न तु तथाचरणमित्यर्थः ॥ किंतु कुवलयं कमलपत्रं तत्सदृशे नेत्रे यासां तासां अरुणै रक्तवर्णै रत्नैर्ग्रन्थिर्म- थनं यस्मिन्नेतादृशः काञ्चीकलापः कटिभूषणं यस्मिन् तत् जघनं विहातुं त्यक्तुं कः समर्थः । न कोऽपीत्यर्थः ॥ स्त्रीसंगत्यागवार्ता वाण्या कर्तुं बहवः पण्डिताः सन्ति परंतु तत्त्यागं मनसा कर्तु कोऽपि न समर्थ इति भावः ॥ " मालिनी वृत्तम् । ननमयययुतेयं मालिनी भोगिलोकैरिति " तल्लक्षणात् ॥५॥ गजादिगर्वहरणे केचिच्छूराः सन्ति परंतु दुर्जयं कामं जेतुं समर्था अति- दुर्लभा इत्याह- मत्तेभकुम्भदलने भुवि सन्ति शूराः केचित्प्रचण्डमृ- गराजवधेऽपि दक्षाः ॥ किं तु ब्रवीमि बलिनां पुरतः प्रसह्य कन्दर्पदर्पदलने विरला मनुष्याः ॥ ६॥ मत्तेभेति॥ मत्तो मदोन्मत्तो य इभो गजस्तस्य कुम्भो गण्डस्थलं तस्य दलने विदारणे शूरा भुवि सन्ति, केचित्प्रचण्डोऽत्यन्तकोपनः ॥ " चण्डस्वत्यन्त- कोपन इत्यमरः " यो मृगराजः सिंहस्तस्य वधे हननेऽपि दक्षाः समर्थाः सन्ति किंतु परंतु कन्दर्पः कामस्तस्य दर्पो गर्वस्तस्य दलने मनुष्या विरलाः सन्तीति बलिनां बलिष्ठानां पुरतोऽप्रभागे प्रसह्य हठात् ॥ " प्रसह्य तु हठा- र्थकमित्यमरः " अहं ब्रवीमि ॥ अत्याग्रहपूर्वकं ब्रवीमीत्यर्थः ॥ 66 वसन्त- तिलका वृत्तम् " ॥ ६॥ स्त्रियः स्मितादिभावैः पुरुषमवश्यं बनन्तीत्याह - स्मितेन भावेन च लज्जया भिया पराङ्मुखै - रर्धकटाक्षवीक्षणैः ॥ वचोभिरीयकलहेन ली- लया समस्तभावैः खलु बन्धनं स्त्रियः ॥ ७ ॥ स्मितेनेति ॥ स्त्रियः स्मितेनेषद्धास्येन, भावेन हस्ताद्यवयवचालनेन, लज्जया मुखादिगोपनरूपया, भिया कदाचिद्भीत्या, पराङ्मुखैः पराचीनमुखैः, अर्धकटाक्षवीक्षणैरर्धोन्मीलितापाङ्गदर्शनैः, वचोभिश्चारुभाषणैः, ईर्ष्या परो- त्कर्षासहिष्णुत्वं तेन कलहस्तेन, लीलया विलासेन, एतैः समस्तभावैः सर्व- Digitized by Google चेष्टाभिः ॥ भर्तृहरिकृतं 66 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मखित्यमरः " ॥ पुरुषस्य बन्धनं खलु निश्चयेन भवति ॥ " वंशस्थं वृत्तम् । जतौ तु वंशस्थमुदीरितं जराविति तलक्षणात् ॥ ७ ॥ । स्त्रियः कस्य मनो वशं न कुर्वन्ति अपि तु सर्वस्यापि कुर्वन्तीत्याह- एताश्चलद्वलयसंहतिमेखलोत्थझङ्कारनू पुररवाह- तराजहंस्यः ॥ कुर्वन्ति कस्य न मनो विवशं तरु- ण्यो वित्रस्तमुग्धहरिणीसदृशाक्षिपातैः ॥ ८ ॥ एता इति ॥ चलन्ति वलयानि कङ्कणानि तेषां संहतिः समूहः मेखला काञ्ची च ताभ्यामुत्थितो झङ्कारः शब्दः, नूपुराणां पादभूषणानां वश्च ताभ्या- माहृता पराभूता राजहंसी याभिस्ताः कङ्कणकाञ्चीनपुररवैर्जितराजहंसीशब्दा इत्यर्थः ॥ एतादृश्यस्तरुण्यः, वित्रस्ता भयचकिता मुग्धा सुंदरी या हरिणी तत्सदृशानामक्ष्णां नेत्राणां पातैश्चालनैः कस्य पुरुषस्य मनोऽतः करणं विवशं व्याकुलं न कुर्वन्ति अपि तु सर्वस्यापि कुर्वन्तीत्यर्थः ॥ स्त्रियः पुरुषं सवर्था वशीकुर्वन्तीति भावः ॥ " वसन्ततिलका वृत्तम् " ॥ ८ ॥ 66 योषिदेव सुखदुःखैकहेतुर्नान्यत्किमपीत्याह- सत्यं जना वच्मि न पक्षपाताल्लोकेषु सर्वे- ष्वतितथ्यमेतत् ॥ नान्यन्मनोहारि नितम्बि- नभ्यो दुःखस्य हेतुर्न हि कश्चिदन्यः ॥ ९ ॥ सत्यमिति ॥ हे जनाः अहं सत्यं वच्मि पक्षपातान्न ॥ सर्वेषु लोकेषु एत- देवातितथ्यम् ॥ किं तत् ॥ नितम्बिनीभ्यः स्त्रीभ्योऽन्यन्मनोहारि मनसः आक- र्षकं मनःसंतोषकरमिति यावत् नास्ति, अन्यो योषिदतिरिक्तः कश्चिदपि दुःखस्य हेतुः कारणं नहि ॥ असति वैराग्ये स्त्रीभ्योऽन्यन्मनोरमं नास्ति, वैराग्यपूर्वक- विचारे क्रियमाणे दुःखहेतुरन्यन्नास्तीति भावः ॥ " इन्द्रवज्रा वृत्तम् । स्यादि- ॥ न्द्रवज्रा यदि तौ जगौ ग इति " तल्लक्षणात् ॥ ९ ॥ " स्त्रीणां स्वभावसिद्धान् कटाक्षादीन् दृष्ट्वा स्वीयत्वेन मत्वा मूढपुरुषो मो - हितो भवतीति भ्रमरदृष्टान्तपूर्वकमाह- लीलावतीनां सहजाः स्वभावास्त एव मूढस्य हृदि स्फुरन्ति ॥ रागो नलिन्या हि निसर्गसि- द्धस्तत्र भ्रमत्येव मुधा षडङ्गिः ॥ १० ॥ लीलावतीनामिति ॥ लीलावतीनां विलासवतीनां स्त्रीणां सहजाः सहो- Digitized by Google शृङ्गारशतकम् । त्पन्नाः ये स्वभावाः कटाक्षक्षेपादिधर्माः ॥ "धर्मः स्वभाव आत्मा स्यादिति ह- लायुधः" ॥ त एव मूढस्याज्ञस्य हृदि अन्तःकरणे स्फुरन्ति प्रकाशन्ते ॥ तत्र दृष्टान्तः ॥ हि यस्मात् नलिन्याः रक्तोत्पलिन्याः रागो लोहितादिर्निसर्गसिद्धः स्वभावसिद्धोऽस्ति, तत्र तस्यां नलिन्यां षडजिर्भ्रमरो मुधा व्यर्थमेव भ्रमते स्वोद्देश्यकं रागं मत्वा भ्रमरो व्यर्थमेव भ्रमतीत्यर्थः ॥ "वृत्तं पूर्वोक्तमेव ॥ १० ॥ यभिलाष एव प्रणामादिहेतुर्भवतीत्याह- । सिद्धाध्यासितकन्दरे हरवृषस्कन्धावगाढद्रुमे गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ॥ कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनो यद्वित्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ ११ ॥ सिद्धाध्यासितेति ॥ यद्यदि वित्रस्तो भयचकितो यः कुरङ्गशावो हरिण - शिशुस्तत्सदृशे नयने यासां ताः स्त्रियः स्मरास्त्रं कामास्त्रभूता न स्युस्तर्हि सिद्धैरध्यासिता अधिष्ठिताः कन्दरा गुहा यस्मिन् ॥ हरः शिवस्तस्य वृषो नन्दी तस्य स्कन्धाभ्यामवगाढा घर्षिताः द्रुमा वृक्षा यस्मिन् ॥ गङ्गया धौतं शिलातलं यस्मिन् ॥ एतादृशे श्रेयसि श्रेयःसाधनभूते निरुपद्रवे इति यावत् ॥ हिमवतः स्थाने स्थिते सति को मनस्वी जनः शिरः मस्तकं प्रणामेन मलि- नमत एव म्लानं कुर्वीत अपितु न कोऽपीत्यर्थः ॥ प्रणाममालिन्यपूर्वकशिरो- ग्लानीकरणे स्त्रिय एव हेतवो नान्ये इति भावः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ अस्मिन् संसारे परोपकारादन्यत्पुण्यमधिकं नास्ति तथा कमलनयनाभ्यः . स्त्रीभ्योऽन्यद्रम्यं नास्तीत्याह- ते भवन्तो वेदान्तप्रणिहितधियामाप्तगुरवो विचित्रालापानां वयमपि कवीनामनुचराः ॥ तथाप्येतद्द्रमो नहि परहितात्पुण्यमधिकं न चास्मिन् संसारे कुवलयदृशो रम्यमपरम् ॥ १२ ॥ भवन्त इति ॥ भवन्तो वेदान्ते प्रणिहिता धृता धीर्बुद्धियैस्तेषामाप्ताश्च गुरवः शिक्षकाः । ( मन्त्रगुरव इत्यपि पाठः ) स्थ ॥ वयमपि विचित्रा आ- लापा भाषणानि येषां तेषां कवीनामनुचरा अनुवर्तिनः स्मः ॥ तथाप्यस्मि- न्संसारे परहितात्परोपकारादधिकं पुण्यं नहि नास्ति, तथा कुवलयदृशः कमलनयनायाः स्त्रिया अपरमन्यद्रम्यं रमणीयं वस्तु नास्तीत्येतद्वयं ब्रूमः ॥ " शिखरिणी वृत्तम् । रसैरुद्रैरिछन्ना यमनसभला गः शिखरिणीति" ॥१२॥ Digitized by Google भर्तृहरिकृतं भूधरनितम्बस्य स्त्रीनितम्बस्य चेत्युभयोरपि सुखहेतुत्वात्तयोर्मध्ये आत्य - न्तिकसुखहेतुत्वं कस्येत्याशयेन पृच्छति- युग्मम् । मात्सर्यमुत्सार्य विचार्य कार्यमार्याः सम- र्यादमिदं वदन्तु ॥ सेव्या नितम्बाः किमु भूध- राणामुत स्मरस्मेरनितम्बिनीनाम् ॥ १३ ॥ . मात्सर्यमिति ॥ हे आर्याः कार्याकार्यविचारनिपुणाः ययं मात्सर्य परो- त्कर्षासहनमुत्सार्य त्यक्त्वा कार्यमवश्यकर्तव्यं विचार्य समर्यादं शास्त्रीयमर्या- दानुलङ्घन पूर्वकमिदं वक्ष्यमाणं वदन्तु ब्रुवन्तु ॥ इदं किम् ॥ लोकैर्भूधराणां पर्वतानां नितम्बाः कटकाः " कटकोऽत्री नितम्बोऽद्रेरित्यमरः " सेव्याः सेवनीयाः किमु उताथवा स्मरः कामः स्मेर ईषद्धास्य तद्युक्तानां नितम्बिनीनां स्त्रीणां नितम्बाः कटिपुरोभागाः सेव्या इति । " उपजातिर्दृषम्" ॥ १३॥ अधिकारभेदेनोभयोरपि सेव्यत्वमित्युत्तरमाह - किमिह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापै- यमपि पुरुषाणां सर्वदा सेवनीयम् ॥ अभिनवमदलीलालालसं सुन्दरीणां स्तनभरपरिखिनं यौवनं वा वनं वा ॥ १४ ॥ किमिति ॥ इह लोके बहुभिरनेकैर्युक्तत्या शून्या रहितास्तैस्तैः प्रलापैर- नर्थकवचनैः किम् ॥ उक्तैरिति पाठे उक्तैः कथितैरित्यर्थः ॥ पुरुषाणां पुरुषैः द्वयमपि द्वयमेव सर्वदा सेवनीयं सेव्यम् ॥ द्वयं किम् । अभिनवो यो मद- तारुण्यगर्वस्तत्संबन्धि लीला भ्रुकुव्यादिचालनं तेन लालसमौत्सुक्यं यस्मिन्, स्तनयोः भरोऽतिशयस्तेन परिखिन्नं परिक्किष्टं सुन्दरीणां यौवनं तारुण्यं वा अथवा वनमरण्यं वेति ॥ असति वैराग्ये यौवनवत्यः स्त्रियः सेव्याः सति तु तस्मिन्वनं सेव्यमवस्थाभेदेनोभयोरपि सुखहेतुत्वादिति भावः ॥ 66 मा- लिनी वृत्तम् " ॥ १४ ॥ यस्तरुणीभुजालिङ्गितः सन् रात्रौ शेते स धन्य इत्याह- मत्तेभकुम्भपरिणाहिनि कुङ्कुमा कान्तापयोधर- तटे रसखेखिन्नः ॥ वक्षो निधाय भुजपञ्जरमध्य- वर्ती धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥ १५ ॥ मत्तेभेति ॥ यः पुरुषः रसः शृङ्गारादिस्तत्सेवनजन्यो यः खेदस्तेन खिन्नः श्रान्तः सन् मत्तो मदोन्मत्तो य इभो गजस्तस्य कुम्भो गण्डस्थलं तद्वत्परि- Digitized by Google शृङ्गारशतकम् । णाहिनि विस्तीर्णे, कुङ्कुमेनार्द्रे, कान्तायाः पयोधरतटे स्तनतटे वक्ष उरो निधाय अर्थात्स्त्रिया एव भुजावेव पञ्जरस्तन्मध्यवर्ती सन् क्षणं क्षणमात्रं लब्धा निद्रा येन एतादृशः सन् क्षपां रात्रिं क्षपयति नयति स धन्यः ॥ अ- स्मिन्संसारे ख्यालिङ्गनपूर्वकं शयनमेवात्यन्तसुखहेतुरिति भावः ॥ " वसन्त- तिलकावृत्तम् " ॥ १५ ॥ निरतिशयरूपवतीं स्त्रियं दृष्ट्वा मोहितस्य तामलभमानस्य कस्यचित्पुरुषस्य तद्दौर्लभ्यसूचिकामुक्तिमाह- अनाघ्रातं पुष्पं किसलयमलूनं कररुहै- रनाविद्धं रत्नं मधुवनमनास्वादितरसम् ॥ अखण्डं पुण्यानां फलमिव भवद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यत इति ॥ १६ ॥ अनाघ्रातमिति ॥ न आघातं घ्राणविषयीकृतं पुष्पं कुसुमम् । न केना- प्यास्वादितमित्यर्थः ॥ कररुहैर्नखैरलून मच्छिन्नं किसलयं पल्लवः केनाप्यस्पृ- ष्टमम्लानमित्यर्थः ॥ "पल्लवोऽस्त्री किसलयमित्यमरः " अनाविद्धं वेधरहितं रत्नम्, तेजसा किंचिदपि न हीनमित्यर्थः । न आस्वादितो रसो यस्य तत् मधु- वनं मधुररसवनम्, न केनाप्युपभुक्तमित्यर्थः ॥ पुण्यानामखण्डं फलमिव अ- नघं दोषरहितं भवत्याः रूपम्, " सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः " इह संसारे कं भोक्तारं उपस्थास्यते संगमिष्यते मित्रीकरिष्यते वा इत्यहं न जाने ॥ " उपाद्देवपूजेत्यादिना संगतिकरणे मित्रीकरणे वा आत्मनेपदम् " ॥ एतस्य रू- पस्य कोवा भोक्ता भविष्यतीति नाहं जाने इत्यर्थः ॥ " शिखरिणी वृत्तम् " १६ तृष्णाया दुर्जयत्वमाह— राजन् तृष्णाम्बुराशेर्न हि जगति गतः कञ्चिदेवावसानं कोवाऽर्थोऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागः ॥ गच्छामः सद्म यावद्विकसितनयनेन्दीवरालोकिनीना- माक्रम्याक्रस्य रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ १७ ॥ राजन्निति ॥ हे राजन् जगति लोके तृष्णारूपो योंऽबुराशि: समुद्रस्तस्या- वसानमन्तं पारमिति यावत् ॥ कश्चिदपि नहि गतः ॥ अतः प्रभूतैः प्रचुरै- रथैः कोवाऽर्थः किं प्रयोजनम् । न किमपीत्यर्थः ॥ प्रभूतेऽर्थे सत्यपि तृष्णाया अशान्तेरिति भावः ॥ तथा स्ववपुषि स्वशरीरे गलिते शिथिलप्राये सति यौवने सानुरागः प्रीतियुक्तो भवति ॥ तृष्णायाः शान्त्यभावादित्यर्थः ॥ सानुराग Digitized by Google भर्तृहरिकृतं इत्यत्र पाठान्तराणि त्वनुपयुक्तत्वात्यक्तानि ॥ यतो वयं विकसितानि नयनानी- न्दीवराणि कमलानीवेन्दीवराणि तैरवलोकयन्ति तासाम् ॥ नयनेन्दीवरेत्यत्रापि पाठान्तराण्यनुपयुक्तत्वात्त्यक्तानि । प्रेयसीनां स्त्रीणां रूपं आक्रम्याक्रम्य झटिति जरया यावन्न लुप्यते छिद्यते तावत्तासां सद्म गृहं गच्छाम एव ॥ अनेन वृ- द्धत्वं प्राप्तस्यापि पुरुषस्य तृष्णाशान्तिर्नैव भवतीति सूचितमिति भावः "स्र- ग्धरा वृत्तम् । म्रुन्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयमिति" तल्लु- क्षणात् ॥ १७ ॥ कामोद्दीपकमेघादिदर्शनेन प्रियाविरहखिन्नानां पथिकानां स्थितिमाह —— उपरिघनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः ॥ क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व यापयतु ॥ १८ ॥ उपरीति ॥ उपर्युपरिष्टात् घनं निबिडं घनपटलमभ्रपटलम्, तिर्यक् तिर्यक्प्रदेशे नर्तिता मयूरा येषु ते गिरयः पर्वता अपि सन्ति, क्षितिरपि पृथ्व्यापि कन्दलैर्नवाङ्कुरैर्धवला सुन्दरी ॥ " धवलागवि ॥ वृषश्रेष्ठे पुमान्वाच्यलिङ्गः शुक्ले च सुन्दर इति मेदिनी " अस्ति, अतः पथिको दृष्टिं क यापयतु प्रापयतु विनोदयत्विति यावत् ॥ तस्मात्प्रेयसीसहवास एव सुखहेतुारीत भावः "आर्या वृत्तम् ॥ १८॥ " इह संसारे पण्डितानां द्विधा कालयापनं भवतीत्याह- संसारेऽस्मिन्नसारे परिणतितरले द्वे गती पण्डितानां तत्त्वज्ञानामृताम्भःप्लवलुलितधियां यातु कालः कदाचित् ॥ नोचेन्मुग्धाङ्गनानां स्तनजघनघनाभोगसंसर्गिणीनां स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलोलोद्यमानाम् ॥ १९ ॥ संसारे इति । अस्मिन्नसारे सारांशरहिते, परिणतिः परिणामस्तत्र तरले चञ्चले विनाशिनीत्यर्थः ॥ संसारे पण्डितानां द्वे गती मार्गौ दशे वा भवतः ॥ " गतिः स्त्रीमार्गदशयोरिति मेदिनी " ॥ द्वे के ॥ तत्त्वज्ञानमेवामृताम्भो- ऽमृतोदकं तस्मिन्प्लवोऽवगाहनम् ॥ [श्रुत इत्यपि पाठेऽपि स एवार्थः ] ॥ तस्मि - न्विषये लुलिता लुठिता धीर्बुद्धिर्येषां तेषां कालो यात्वित्येका गतिः ॥ नोचेत्तत्त्व- ज्ञानं न चेत् स्तनौ कुचौ जघनं कटिपुरोभागश्च तेषां घनो निबिडोय आभोगः परिपूर्णता तस्य संसर्गो विद्यते यासाम् ॥ [ भराभोग इत्यपि कचित्पाठः ] ॥ तासां मुग्धाङ्गनानां सुन्दरस्त्रीणां स्थूलानि यान्युपस्थानि तान्येव स्थल्यः प्रदे- शास्तासु स्थगितः स्थिरो यः करतलस्तस्य स्पर्शस्तस्मिन्लोलस्तृष्णासहितो- Digitized by Google शृङ्गारशतकम् । Sभिलाषपूर्वक इति यावत् ॥ एवंविध उद्यम उद्योगो येषां तेषाम् ॥ सर्वदा- ऽभिलाषपूर्वक नितम्बिन्युपस्थनिहितहस्तानामित्यर्थः ॥ कालो यात्विति द्विती- या गतिः ॥ इह संसारेऽसति तत्त्वज्ञाने सर्वदा नितम्बिनीसेवनं तत्त्वज्ञानव- त्सुखजनकमिति तात्पर्यम् ॥ " स्रग्धस वृत्तम् " ॥ १९ ॥ विद्वानपि पुरुषः स्त्रियं दृष्ट्वा मोहितो भवतीत्याह — कान्तेत्युत्पललोचनेति विपुलश्रोणी भरेत्युत्सुकः पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभूरिति ॥ दृष्ट्वा मुह्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि प्रत्यक्षामसिपुत्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ॥ २० ॥ कान्तेति ॥ अहो इत्याश्चर्ये विद्वानपि दोषज्ञोऽपि पुरुषः प्रत्यक्षामक्षिगो- श्वरभूतामसिपुत्रिकां प्राणान्तपर्यन्तं वेधकत्वेन छुरिकातुल्यामपि स्त्रियं दृष्ट्वा मुह्यति मोदते च ॥ ततस्तद्विषये उत्सुक उत्कण्ठितः सन् कान्तामनोहरेति, उत्पललोचना कमललोचनेति, विपुलो विस्तृतः श्रोणीभरः कटिप्रदेशो यस्याः सेति, पीनौ पुष्टावुत्तुङ्गावुन्नतौ पयोधरौ स्तनौ यस्याः सेति, सुष्ठु मुखाम्भोजं मुखकमलं यस्याः सेति, सुष्ठु शोभने भ्रुवौ भ्रुकुटी यस्याः सेति, एवं प्रस्तौति अभिरमते रममाणो भवति च । एतत् मोहस्य दुश्चेष्टितं दुर्व्यापारोऽस्ति ॥ अनेन विद्वानपि मोहेन स्त्रीलम्पटो भवतीति सूच्यते ॥ " शार्दूलविक्रीडितं " वृत्तम् ॥ २० ॥ शृङ्गारालम्बनभूतां स्त्रियं वर्णयति पञ्चभिः श्लोकैः— कचित्सुभ्रभङ्गैः क्वचिदपि च लज्जापरिगतैः क्वचिद्भीतित्रस्तैः क्वचिदपि च लीलाविलसितैः ॥ नवोढानामेतैर्वदनकमलैर्नेत्रलसितैः स्फुरन्नीलानानां प्रकरपरिकीर्णा इव दिशः ॥ २१ ॥ कचिदिति ॥ कचिच्छोभनो भ्रूभङ्गो भ्रुकुटीचालनं येषु तैः कचिदपि च लज्जां परिगतैः प्राप्तैः ॥ लज्जापरिणतैरिति पाठे लज्जया परिणतैर्नत्रैः कचि- त्या भयेन त्रस्तैस्त्रासं प्राप्तैः कचिदपि च लीलानां हावभावादीनां विल- सितं येषु तैः कचिन्नेत्राणां लसितं विलासो येषु तैः, [नेत्रचलितैरिति पाठे चलितानि नेत्राणि येषु तैः ] " वाहिताग्न्यादित्वाच्चलितशब्दस्य परनिपातः ॥ [ यद्वा नेत्राणां चलितं चलनं येषु तैः ] ॥ भावे क्तः " एतादृशैरेतैर्नवोढानां स्त्रीणां वदनकमलैर्मुखकमलैः कृत्वा स्फुरन्ति नीलाब्जानि नीलकमलानि तेषां प्रकरः Digitized by Google भर्तृहरिकृतं समूहस्तेन परिकीर्णा व्याप्ता इव दिशो भवन्ति ॥ चतुर्थचरणस्थपाठान्तराणि त्वसंबद्धत्वात्त्यक्तानि ॥ स्त्रीष्वत्यन्तासक्तस्य सर्वत्र तन्मुखादिस्फुरणं तत्सदृश- वस्तुस्फुरणं च भवतीति भावः ॥ " शिखरिणी वृत्तम्" ॥ २१ ॥ सुन्दरस्त्रीणां स्वभावसिद्धं भूषणमाह- वक्रं चन्द्रविडम्बि पङ्कजपरीहासक्षमे लोचने वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः ॥ वक्षोजाविभकुम्भविभ्रमहरौ गुर्वीं नितम्बस्थली वाचो हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम् ॥ २२ ॥ वक्रमिति ॥ चन्द्रं विडम्बयति तच्छीलम् चन्द्रानुकारि तत्सदृशमिति यावत् ॥ एवंविधं वक्रं मुखम् ॥ पङ्कजानां कमलानां परीहास उपहासस्तस्मि- न्क्षमे समर्थे तदधिकशोभाशालिनी इत्यर्थः ॥ एवंविधे लोचने ॥ स्वर्ण सुव- र्णमपाकरोति दूरीकरोति तच्छीलो जयशील इति यावत् । एवंविधो वर्णः ॥ अलिनीं भ्रमरिणीं जयति तच्छीलो भ्रमरसदृश इति यावत् । एवंविधः कचानां केशानां चयः समूहः ॥ इभानां गजानां कुम्भी गण्डस्थले तयोर्विभ्रमः शोभा "अथ विभ्रमः॥ शोभायां संशये हावे इति मेदिनी" तां हरतस्तो गजगण्ड- सदृशावित्यर्थः॥ वक्षोजौ स्तनौ ॥ गुर्वी स्थूला नितम्बस्थली कटिपश्चाद्भागः ॥ हारि मनोहारि वाचो मार्दवं मृदुत्वम् ॥ एतत्पूर्वोक्तं सर्व युवतिषु तरुणस्त्रीषु स्वाभाविकं नैसर्गिकं मण्डनं भूषणमस्ति । एते सर्वे पूर्वोक्ताः स्त्रीषु स्वभाव- सिद्धा गुणाः सन्तीति भावः॥ " शार्दूलविक्रीडितं वृत्तम्" ॥ २२ ॥ एकैव स्त्री अनुरक्तिविरक्तिभ्याममृतवत्सुखदात्री विषवद्दुःखदात्री च भवती- त्याह- नामृतं न विषं किंचिदेकां मुक्त्वा नितम्बिनीम् ॥ सैवामृतलता रक्ता विरक्ता विषवल्लरी ॥ २३ ॥ नामृतमिति ॥ एकां नितम्बिनीं स्त्रियं मुक्त्वा त्यक्त्वा किंचिदपि अमृतं नास्ति विषमपि नास्ति, किंतु सैव स्त्री रक्ताऽनुरक्ता सती अमृतलताऽमृतवल्लरी भवति, विरक्ता सती विषवल्लरी विषलता भवति ॥ प्रसिद्धममृतममृतं न भवति तद्वत्प्रसिद्धं विषं विषं न भवति, किंतु एकैव स्त्री अनुरक्तिविरक्ति- भ्याममृतरूपा विषरूपा च भवतीति भावः । "अनुष्टुब् वृत्तम्" ॥ २३ ॥ Digitized by Google शृङ्गारशतकम् । स्त्रीणां स्वभावसिद्धाः कटाक्षादयो भावाः भूषणवच्छोभादायका आयुधव- त्पुरुषाणां हृदयवेधकाश्च भवन्तीत्याह- अचातुर्याकुञ्चिताक्षाः कटाक्षाः स्निग्धा वाचो लज्जितांताच हासाः ॥ लीलामन्दं प्रस्थितं संस्मितं च स्त्रीणामेतद्भूषणं चायुधं च ॥ २४ ॥ भ्रूचातुर्येति ॥ भ्रुवोश्चातुर्य तेनाऽऽकुञ्चितानि संकुचितान्यक्षीणि येषु ते ॥ बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षचिति षच् ॥ कटाक्षा अपाङ्गदर्शनानि, स्निग्धाः प्रेमयुक्ताः वाचो वचनानि, लज्जितो लज्जायुक्तों तो मध्यो येषां ते लज्जागर्भिता इत्यर्थः ॥ हासा : हास्यानि, लीलया मन्दं प्रस्थितं गमनं, सम्यक् स्मितमीषद्धास्यं च एतत्पूर्वोक्तं सर्वं स्त्रीणां भूषणमलङ्करणमायुधं शस्त्रं च भवति ॥ " शालिनी वृत्तम् " ॥ शालिन्युक्ता तौ तगौ गोऽब्धि लोकैरिति तल्लक्षणात् ॥ २४ ॥ तारुण्यप्रादुर्भावसमये स्त्रीणां ये ये भावा आविर्भवन्ति ते ते सर्वे रम्या एवेत्याह- स्मितं किंचिद्व सरलतरलो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोक्तिसरसः ॥ गतीनामारम्भः किसलयितलीलापरिकरः स्पृशन्त्यास्तारुण्यं किमिह नहि रम्यं मृगदृशः ॥ २५ ॥ स्मितमिति ॥ वत्रे मुखे किंचिदीषत्स्मितं हास्यम्, सरलो ऽवक्रश्चासौ तर - . लचञ्चलश्चैतादृशो दृष्टयाः विभव ऐश्वर्यम्, अभिनवा या विलासोक्तयः शृङ्गार- चेष्टायुक्त भाषणानि तैः सरसो रसयुक्तो वाचां वाणीनां परिस्पंदो रचना, " रचना स्यात्परिस्पन्द इत्यमरः " ॥ किसलयितो नवाङ्करितो लीलानां परि- कर आरम्भः समूहो वा यस्मिन् " भवेत्परिकरो व्राते पर्यङ्कपरिवारयोः ॥ प्रगा- ढगात्रिकाबन्धे विवेकारम्भयोरपीति विश्वः " ॥ एवंविधो गतीनां गमनानामा- रम्भः, इह एतेषु पदार्थेषु मध्ये तारुण्यं यौवनं स्पृशन्त्या मृगदृशो मृगनय- नायाः किं रम्यं नहि अपि तु सर्वं रम्यमस्तीत्यर्थः ॥ " शिखरिणी वृत्तम्"॥२५॥ पुरुषो यावत्सुन्दरीणां दृग्विशिखैर्विद्धो न भवति तावदेव सन्मार्गादिक- मालम्बत इत्याह- सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां तावद्विधन्ते विनयमपि समालम्बते तावदेव ॥ Digitized by Google भर्तृहरिकृतं भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते योवल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ २६ ॥ सन्मार्गे इति ॥ धृतिं धैर्यं मुष्णन्ति चोरयन्तीति धृतिमुषः एते लीला- वतीनां विलासवतीनां स्त्रीणां दृष्टिबाणा नयनशराः पुरुषस्य हृदि हृदये यावन्न पतन्ति तावदेव पुरुषः सन्मार्गे आस्ते, तावदेवेन्द्रियाणां प्रभवति समर्थो भवति, स्वाधीनेन्द्रियो भवतीत्यर्थः । तावदेव निन्द्यकर्मणि लज्जां विधत्ते धारयति, निन्द्यं कर्म नाचरतीत्यर्थः ॥ तावदेव विनयमपि नम्रतामपि समा- लम्बते आश्रयते ॥ अनुद्धतो भवतीत्यर्थः ॥ कीदृशा दृष्टिपाताः ॥ भ्रूरेव चापो धनुस्तेनाकृष्टाः पश्चान्मुक्तास्त्यक्ताः ॥ पुनः कीदृशाः श्रवणपथं कर्ण- मार्ग कर्णपर्यंतमिति यावत् ॥ गताः प्राप्ताः ॥ पुनः कीदृशाः ॥ नीलानि पक्ष्माणि पुंखस्थानीयानि येषु ते ॥ " स्रग्धरा वृत्तम् " ॥ २६ ॥ अमृतमयमपि स्त्रीमुखं परिणामे विषसदृशं भवतीति किंपाकफलदृष्टान्तेन दर्शयन्नाह - यदेतत्पूर्णेन्दुद्यतिहरमुदाराकृतिधरं मुखानं तन्वयाः किल वसति यत्राधरमधु ॥ इदं तत्किपाकद्रुमफलमिदानीमति- रसं व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् ॥ २७ ॥ यदेतदिति ॥ पूर्णेन्दुः षोडशकलात्मकश्चन्द्रस्तस्य द्युतिं कान्ति हरतीति तथा, पूर्णचन्द्रसदृशमित्यर्थः । उदारा सरला या आकृतिस्तस्या घरं, "दक्षिणे सरलोदारावित्यमरः" यदेतत्तन्वङ्गयाः कृशाङ्गयाः स्त्रियो मुखाब्जं मुखकमल- मस्ति, यत्र मुखाब्जे अधरमधु अधरामृतं वसति तिष्ठति किल निश्चयेन, तदिदं मुखाब्जं किंपाको महाकालसंज्ञको द्रुमो विषवृक्षस्तस्य फलमस्ति " किंपाकः स्यान्महाकाल इति हलायुधः " तथापीदानीमुपभोगक्षम- यौवनसमयेऽति अत्यन्तं रसो गुणोऽनुरागो वा यस्मिन्नेवंविधं भवति परंतु अस्मिन्पूर्वोक्ते काले यौवनसमये व्यतीतेऽतिक्रान्ते सति असुखदं दुःखदं विष- मिव भवति [ इदं तावदित्यादि पाठान्तरं त्वप्रयोजकत्वात्यक्तम् ] तथा च स्त्रीणामतिरम्यमपि मुखाब्जादिकं सर्वमवस्थाभेदेन सुखदं दुःखदं च भवती- ति भावः "शिखरिणी वृत्तम्" ॥ २७ ॥ इदानीमस्मिन्संसारे दुष्टराजद्वारसेवाखिन्नमानसाः पुरुषास्तरुणास्त्रियो ऽव- लम्बनेन स्वस्थचित्ता भवन्तीत्याह- संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवावलम्ब- व्यासङ्गध्वस्तधैर्य कथममलधियो मानसं संनिदृद्ध्युः ॥ Digitized by Google शृङ्गारशतकम् । यद्येताः प्रोद्यदिन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः प्रैखत्काञ्चीकलापाः स्तनभरविनमन्मध्यभागास्तरुण्यः॥ २८ ॥ संसारे इति ॥ यदि अस्मिन्नसारे निःसारे संसारे प्रकर्षेणोद्यनुदयं प्राप्तो य इन्दुश्चन्द्रस्तस्य द्युतिः कान्तिस्तस्या निचय: समूहस्तं बिभ्रति धारयन्ति ताः, अम्भोजनेत्राः कमलनयनाः, प्रेखन शब्दायमानः काञ्चीकलापो यासां ताः, स्तनयोः कुचयोर्भरो भारस्तेन विनमन्नम्रो मध्यभागो यासामेवंविधा एता- स्तरुण्यस्त्रियो न स्युस्तार्हं अमलधियो निर्मलमतयः पुरुषाः कुनृपतिर्दुष्टराजा तस्य भवनद्वारं गृहद्वारं तस्य सेवा शुश्रूषा तस्या अवलम्ब आश्रयस्तस्य व्या- सङ्गोऽभ्यासस्तेन ध्वस्तं गलितं धैर्य यस्यैतादृशं मानसमन्तःकरणं कथं केन प्रकारेण संनिदध्युः धारयेयुः समाहितमनस्का भवेयुरित्यर्थः ॥ कुत्सितराज- सेवादुःखेन विमनस्काः पुरुषा उक्तविधतरुणीसेवनेन स्वस्थचित्ता भवन्तीति भावः ॥ " स्रग्धरा वृत्तम् ॥ २८ ॥ वसन्तप्रादुर्भावे सर्वेषां कामोद्दीपकपदार्थगुणानां प्रादुष्करणं भवतीति वक्तुं वसन्तं वर्णयति पञ्चभिः श्लोकः- परिमलभृतो बाताः शाखा नवाङ्कुरकोटयो मधुरविरुतोत्कण्ठा वाचः प्रियाः पिकपक्षिणाम् ॥ विरलसुरतस्वेदोद्द्वारा वभूवदनेन्दवः प्रसरति मधौ रात्र्यां जातो न कस्य गुणोदयः ॥ २९ ॥ परिमलेति ॥ मधौ वसन्तर्तौ प्रसरति प्रकटिते सति कस्य पदार्थस्य गुणानामुदयः प्रादुर्भावो न जातः अपि तु सर्वेषामपि भवतीत्यर्थः ॥ ते पदार्थाः के तानाह । वाता वायवः परिमलं सुगन्धं बिभ्रति ते एवंविधा भवन्तीति शेषः ॥ एवमुत्तरत्रापि ॥ तथा शाखाः शिफाः ॥ " शाखा शिफावरोहः स्यादित्य- मरः " ॥ नवाङ्कुराणां कोटयो यासु ता एवंविधाः, पिकपक्षिणां कोकिलप- क्षिणां वाचः मधुरं यद्विरुतं शब्दितं तेन उत्कण्ठा यासु ता अतएव प्रियाः, तथा रात्र्यां विरलः स्वल्पः सुरते स्वेदो घर्मस्तस्योद्गारः प्रादुर्भावो येषु ते ॥ अत्र पाठान्तराणि मनोरमाणि न भवन्तीति कृत्वा त्यक्तानीति बोध्यम् वधूवदनान्येवेन्दवश्चन्द्राः इति ॥ " हरिणी वृत्तम्" ॥ २९ ॥ किंच 1 मधुरयं मधुरैरपि कोकिलाकलकलैर्मलयस्य च वायुभिः ॥ विरहिणः प्रणिहन्ति शरीरिणो विपदि हन्त सुधापि विषायते ॥३०॥ Digitized by Google भर्तृहरिकृतं मधुरिति ॥ अयं मधुर्वसन्तो मधुरैरपि कोकिलानां पिकानां कलकलैः शब्दः, च पुनः मलयस्य मलयपर्वतस्य संबन्धिभिर्वायुभिः कृत्वा विरहिणः कामाग्निसं- तप्तान् शरीरिणो देहिनः प्रणिहन्ति संतापयति ॥ इममेवार्थ सामान्यमुखेन द्रढयति- विपदीति ॥ विपाद आपत्ती प्राप्तायां सुधाप्यमृतमपि विषायते विष- मिवाचरति विषवद्धातयतीत्यर्थः ॥ हन्त इति खेदे ॥ " द्रुतविलम्बितं वृत्तम् ॥ द्रुतविलम्बितमाह नभौ भराविति तल्लक्षणात् " ॥ ३० ॥ आवासः किल किंचिदेव दयितापार्श्वे विलासालसः कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ॥ गोष्ठी सत्कविभिः समं कतिपयैः सेव्याः शितांशोः कराः केषांचित्सुखयन्त्यवेहि हृदये चैत्रे विचित्राः क्षपाः ॥ ३१ ॥ आवास इति ॥ हे जन चैत्रे मासि विचित्रा: क्षपा रात्रयः केषांचित हृदये सुखयन्ति सुखं कुर्वन्तीत्यवेहि जानीहि ॥ क्षपाणां वैचित्र्यं दर्शयति-यासु क्षपासु दयितायाः स्त्रियाः पार्श्वे किंचिद्विलासेनालसो मन्दः आवासो वसतिः किंचिदेव भवतीति शेषः ॥ एवमुत्तरत्र ॥ किलेति प्रसिद्धौ ॥ एवेति वाक्य- पूरणे ॥ कर्णे कोकिलकामिनीनां कोकिलस्त्रीणां कलरवो मधुरध्वनिः, लतानां मण्डपः स्मेरः प्रफुल्लितः, "प्रफुल्लोत्फुल्लसंफुल्लोच्छुसितानि विजृम्भितम् ॥ स्मेरं विनिद्रमुनिद्रविमुद्रहसितानि चेति हेमचन्द्रः " ॥ कतिपयैः सत्कविभिः समं गोष्ठी संलापः ॥ "गोष्ठी सभासंलापयोस्त्रियामिति मेदिनी " ॥ सितांशोश्च- न्द्रस्य कराः किरणाः सेव्या भवन्ति ॥ "शार्दूलविक्रीडितम् वृत्तम्" ॥३१॥ किंच । पान्थरस्त्रीविरहानलाडुतिकथामातन्वती मञ्जरी माकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते ॥ अप्येते नवपाटलापरिमलप्राग्भारपाटञ्चरा वान्ति क्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥ ३२ ॥ पान्थेति ॥ अधुना वसन्तकाले इत्यर्थः ॥ पान्थस्य पथिकस्य स्त्री तस्या विरह एवानलोऽग्निस्तस्मिन्नाहुतिर्हवनं तस्याः कथा तामातन्वती वि- स्तारयन्ती माकन्देषु आम्रवृक्षेषु ॥ " माकन्दः सहकारेऽस्त्रीति मेदिनी " ॥ "आम्रश्वतो रसालोसौ सहकारोतिसौरभ इत्यमरच " ॥ मञ्जरी पिकाङ्गनाभिः कोकिलस्त्रीभिः सोत्कण्ठं यथा स्यात्तथा आलोक्यते ॥ अपि च एते प्रसिद्धाः नवा चासौ पाटला पाटलिवृक्षस्तत्सम्बन्धी परिमलः सुगन्धस्तस्य प्राग्भा- Digitized by Google 66 शृंगारशतकम् । १५ रोऽतिशयस्तस्य पाटञ्चराश्चोराः ॥ पाटलाकुसुमगन्धहारिण इत्यर्थः ॥ " चौरिकागारिकस्तेनदस्युतस्करमोषकाः ॥ प्रतिरोधिपरास्कन्दिपाटच्चरमलि- म्लुचा इत्यमरः ॥ क्लान्तिः क्लमस्तस्य वितानो विस्तारस्तस्य तानवं तनुत्वं कुर्वन्तीति कृतः, एवंविधाः श्रीखण्डशैलश्चन्दनपर्वतस्तत्सम्बन्धि- नोऽनिला वायवो वान्ति वहन्ति ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ३२ ॥ किंच । सहकारकुसुमकेसरनिकर भरामोदमूर्च्छितदिगन्ते ॥ मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥ ३३ ॥ सहकारेति ॥ सहकारस्याम्रवृक्षस्य कुसुमं पुष्पं तत्संबन्धिनः के- सराः किंजल्कास्तेषां निकरः समूहस्तस्य भरोऽतिशयित आमोदः सुगन्धस्तेन मूर्च्छिता व्याप्ता दिगन्ता यस्मिस्तस्मिन् मधुरं यन्मधु तेन विधुरा विकला म- धुपा भ्रमरा यस्मिंस्तस्मिन् ॥ "वैकल्येऽपि च विश्लेषे विधुरं विकले त्रिष्विति त्रिकाण्डशेषः " ॥ एवंविधे मधौ बसन्ते कस्य पुरुषस्योत्कण्ठा न भवेदपितु सर्वस्याऽपि भवेदित्यर्थः ॥ " आर्या वृत्तम् " ॥ ३३ ॥ ग्रीष्मेऽपि. हर्षकामयोर्वर्धकाः पदार्था भवन्तीति तत्पदार्थदर्शनपुरःसरं क्रमप्राप्तं ग्रीष्मं वर्णयति श्लोकत्रयेण - अच्छार्द्रचन्दनरसार्द्रकरा मृगाक्ष्यो धारा गृहाणि कुसुमानि च कौमुदी च ॥ मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥ ३४ ॥ अच्छाद्रेति ॥ ग्रीष्मे ग्रीष्मर्तौ एते प्रसिद्धाः पदार्थाः पुरुषस्य मदं हर्ष " मदो रेतसि कस्तूर्या गर्ने हर्षेभदानयोरिति मेदिनी " ॥ मदनं कामं च विवर्धयन्ति विस्तारयन्ति । एते के । अच्छः खच्छो य आर्द्रचन्दनस्तस्य र- सेनाsद्र करौ यासां ता मृगाक्ष्यो मृगनयनाः स्त्रियः, धारागृहाणि जलयन्त्र- गृहाणि, कुसुमानि पुष्पाणि, कौमुदी चन्द्रिका, मन्दः सुखस्पर्शो मरुद्वायुः, सुमनसो मालतीलताः, शुचि शुभ्रं हर्म्यपृष्ठं चेति ॥ " वसन्ततिलका वृत्तम् " ॥ ३४ ॥ किंच । art हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः परागः कासारो मलयजरजः सीधु विशदम् ॥ Digitized by Google भर्तृहरिकृतं शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो निदाघार्ता ह्येतत्सुखमुपलभन्ते सुकृतिनः ॥ ३५ ॥ 66 स्रज इति ॥ निदाघेन ग्रीष्मेणाऽर्ताः पीडिताः सुकृतिनः पुण्य- वन्त एव एतत् पूर्वोक्तं सुखं अनायासेन यथास्यात्तथोपलभन्ते प्राप्नुवन्ति ॥ हि निश्चयेन ॥ एतत्किम् ॥ हृद्यो मनोहारि आमोदः सुगन्धो यासां ता एवं- विधाः स्रजः पुष्पमालाः, व्यजनपवनस्तालवृन्तवायुः, "व्यजनं तालवृन्तक- मित्यमरः " चन्द्रकिरणाश्चन्द्रमयूखाः, परागः पुष्परेणुः, परागः कौसुमे रेणावित्यमरः " कासारः सरोवरम्, मलयजरजश्चन्दनरेणुः, विशदं स्वच्छं सीधु मद्यम्, " मैरेयमासवः सीधुरित्यमरः " ॥ " मध्वासवः सीधुसुरेति ह - लायुधश्च " ॥ शुचिः शुभ्रः सौधस्य राजगृहस्योत्सङ्ग उपरिभागः, प्रतनु सूक्ष्मं वसनं वस्त्रम्, पङ्कजदृशः कमलनयनाः स्त्रियश्चेति ॥ " शिखरिणी वृत्तम् " ॥ ३५ ॥ किंच । सुधाशुभ्रं धाम स्फुरदमलरश्मिः शशधरः प्रियावकाम्भोजं मलयजरजश्चातिसुरभि ॥ art हृद्यामोदास्तदिदमखिलं रागिण जने करोत्यन्तः क्षोभं न तु विषयसंसर्गविमुखे ॥ ३६ ॥ सुधाशुभ्रमिति ॥ तत्प्रसिद्धमिदं पूर्वोक्तमखिलं सर्वं रागिण्यनुरा- गवति जने अन्तर्मनसि क्षोभं विकारं करोति पुनः विषयाणां संसर्गः सं- पर्कस्तस्माद्विमुखे पराङ्मुखे वैराग्यवति जने इत्यर्थः ॥ न करोति ॥ इदं किम् ॥ सुधया प्रासादलेपनद्रव्येण शुभ्रं स्वच्छं धाम गृहम्, स्फुरन्तो देदीप्य- मानाः अमलाः स्वच्छाः रश्मयः किरणा यस्य स एवंविधः शशधरश्चन्द्रः, प्रियायाः स्त्रिया वक्राम्भोजं मुखकमलम्, अतिसुरभि अतिसुगन्धि मलयजश्व - न्दनस्तत्सम्बन्धि रजो धूलिः, हृद्यामोदा: मनोहारिसुगन्धा एवंविधाः स्रजः पुष्पमालाश्चेति ॥ " शिखरिणी वृत्तम् ॥ ३६ ॥ क्रमप्राप्तां प्रावृषं वर्णयति पञ्चभिः श्लोकः- - तरुणीवैषा दीपितकामा विकसितजातिः पुण्यसुगन्धिः ॥ उन्नतपीनपयोधरभारा प्रावृट् तनुते कस्य न हर्षम् ॥ ३७ ॥ तरुणीवैषेति । एषा प्रावृटू, तरुणीव युवतिरिव कस्य पुरुषस्य हर्ष न तनुते विस्तारयति अपि तु सर्वस्याऽपि हर्षं तनुते इत्यर्थः ॥ [ कुरुते इत्यपि पाठः ] ॥ कथंभूता प्रावृटू तरुणी च ॥ दीपित उद्दीपितः कामो यया पक्षे Digized by Google शृङ्गारशतकम् यस्यां च ॥ विकसिता प्रफुल्लिता जातिर्मालतीलता यस्यां पक्षे केशादौ धा- रणत्वेन विकसिता जातयो जातिपुष्पाणि यस्यामतएव पुण्यो मनोज्ञः सुगन्धो यस्याम् ॥ पक्षे अङ्गादि सौगन्ध्यं तरुणी पक्षेऽपि तथैव बोध्यम् ॥ पुण्यं त्रिषु मनोज्ञे स्यादिति विश्वः ॥ पुनः कथंभूता उन्नता उच्चाः पीनाः पुष्टाः पयोधरा मेघा यस्यां पक्षे उन्नती उच्चौ पानी पुष्टौ पयोधरौ स्तनौ यस्या इति ॥ " उपचित्रावृत्तम् ॥ नवमे भवति गुरावुपचित्रा" ॥ ३७ ॥ किंच । वियदुपचितमेघं भूमयः कन्दलिन्यो नवकुटजकदम्बा- मोदिनो गन्धवाहाः ॥ शिखिकुलकलकेकारावरम्या वनान्ताः सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ ३८ ॥ वियदिति ॥ प्रावृषि एते पूर्वोक्ताः पदार्थाः सुखिनमसुखिनं दुःखिनं वा सर्व जनमुत्कण्ठयन्ति उत्कण्ठायुक्तं कुर्वन्ति ॥ एते के । उपचिताः पुष्टा मेघा यस्मिन्तत् एवंविधं वियद्गगनम्, कन्दलिन्यो नवाङ्कुरयुक्ता भूमयः, नवा नूतनाः कुटजाः कदम्बाश्च तेषामामोदः सुगन्धोऽस्ति येषु ते गन्धवाहा वायवः, शिखिनां मयूराणां कुलं समूहस्तस्य कलो मन्द्रः केकारावः केकाशब्दस्तेन रम्या मनोहरा वनान्ता अरण्यप्रदेशाश्चेति ॥ "मालिनी वृत्तम् " ॥ ३८ ॥ किंच । इतो विद्यद्वल्लीविलसितमितः केतकितरोः स्फुरद्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः ॥ इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशां कथं यास्यन्त्येते विरहदिवसाः संभृतरसाः ॥ ३९ ॥ इत इति ॥ संभृतः पुष्टो रसः शृङ्गारादिरसो येषु ते एते पूर्वोक्ताः पक्ष्मलदृशां स्त्रीणां विरहदिवसाः कथं यास्यन्ति गमिष्यन्ति । एते के ॥ इत एकत: विद्युद्वया विद्युल्लताया विलसितम् । इत एकतः केतकितरोः केत- किवृक्षस्य स्फुरन्प्रकाशमानो गन्धः सुगन्धः, इत एकत: प्रोद्यदुद्गच्छन्यो ज- लदो मेघस्तस्य निनदो गर्जितं तस्य स्फूर्जितं स्फुरणम्, इत एकत: केकिनां मयूराणां क्रीडासु कलकलरवो बहुभिः क्रियमाणः कलकलाख्यो ध्वनिश्वेति ॥ " शिखरिणी वृत्तम्" ॥ ३९ ॥ Digitized by Google 66 किंच । भर्तृहरिकृतं असूचीसंसारे तमसि नभसि प्रौढजलद- ध्वनिप्राये तस्मिन्पतति दृषदां नीरनिचये ॥ इदं सौदामन्याः कनककमनीयं विलसितं मुदं च ग्लानिं च प्रथयति पथिष्वेव सुदृशाम् ॥ ४० ॥ असूचीति ॥ प्रौढो यो जलदो मेघस्तस्य ध्वनेः प्रायो बाहुल्यं यस्मिन्, " प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपीति विश्वः " ॥ एवंविधे नभसि श्रावणे, नभः खं श्रावणे नभा इत्यमरः " ॥ न विद्यते सूच्याः संसारः संसरणं य- स्मिन्, अतिगाढे इत्यर्थः ॥ तस्मिन् प्रसिद्धे तमसि अन्धकारे दृषदां करको - पलानां नीरेण जलेन सह निचये समूहे पतति सति इदं प्रसिद्धं कनकमिव सुवर्णमिव कमनीयं सुन्दरं सौदामन्या विद्युल्लताया विलसितं स्फुरणं पथि- वेव मार्गेष्वेव शोभने दृशौ यासां तासां स्त्रीणां मुदं हर्ष ग्लानिं क्लान्ति च प्रथयति विस्तारयति ॥ प्रोषितानां सुदृशां विद्युत्प्रकाशे हर्ष तदभावे ग्लानिं अथवा प्रियसहितानां मुदं तद्रहितानां ग्लानि चेत्युभयविधान्भावानेकस्मिन्नेव मार्गे जनयतीत्यर्थः ॥ " शिखरिणी वृत्तम् " ॥ ४० ॥ किंच । आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्गयते ॥ जाताः शीतलशीकराश्च मरुतश्चात्यन्तखेदच्छिदो धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासंगमे ॥ ४१ ॥ आसारेणेति ॥ धन्यानां पुण्यवतां प्रियासंगमे स्त्रीसंगमे दुर्दिनमपि मेघ- च्छन्नदिवसोऽपि सुदिनतां याति प्राप्नोति बतेति हर्षे ॥ तदेव विवृणोति ॥ आसारेण धारासंपातेन हेतुना प्रियतमैः पतिभिर्हर्म्यतो गृहाद्वहिर्यातुं गन्तुं न शक्यते, तथा शीतेन य उत्कम्पः कम्पनं तन्निमित्तं आयतदृशा विशालाक्ष्या स्त्रिया गाढं समालिङ्गयते पतिरिति शेषः ॥ तथा शीतलाः शीकरा अम्बु- कणा येषु ते अतएवात्यन्तं खेदं श्रमं छिन्दन्ति ते एवंविधा मरुतो वायवो जा - ता उत्पन्ना इति ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ४१ ॥ क्रमप्राप्तां शरदं वर्णयति— अर्ध नीत्वा निशायाः सरभससुरतायासखिन्नश्लथाङ्गः प्रोद्भूतासह्यवृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ॥ Digitized by Google शृङ्गारशतकम् संभोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मन्दभाग्यः॥४२॥ अर्धमिति ॥ निशाया रात्र्या अर्ध यथाकथंचिन्नीत्वा पश्चात्सरभसे सातिवेगे सुरते मैथुने य आयासः श्रमस्तेन खिन्नान्यतएव श्लथानि शिथिलीभूतान्यङ्गानि यस्य सः । एवंभूतस्तथा प्रकर्षेणोद्भूताऽतएवासह्या सोढुमशक्या तृष्णा यस्य सः। एवंभूतस्तथा मधुनो मद्यस्य मदे निरतस्तत्परो मधुमदयुक्त इत्यर्थः ॥ एवं- विधः पुरुषः विविक्ते विजने एकान्ते इति यावत् हर्म्यपृष्ठे प्रासादोपरि- भागे संभोगेन क्लान्ता ग्लानिं प्राप्ता या कान्ता स्त्री तस्या या शिथिला भुज- लता बाहुलता तया आवर्जितमानीतं, ज्योत्स्नया चन्द्रिकाया भिन्नं मिश्रं एवंविधं शारदं शरत्कालिकं सलिलं जलं कर्करीतः कर्कर्या " कर्कर्यालु- र्गलंतिकेत्यमरः " " सार्वविभक्तिकस्तसिः " यो न पिबति स मन्दभाग्योऽस्ती- ति शेषः ॥ शरदि सुरतायासखिन्नः सन्प्रासादोपरिभागे तथाविधकान्त- याऽर्पितं जलं पिबति स नरो धन्य इति भावः ॥ 66 स्रग्धरा वृत्तम्" ॥४२॥ क्रमप्राप्तं हेमन्तं वर्णयति- हेमन्ते दधिदुग्धसर्पिरशनामाञ्जिष्ठवासोभृतः काश्मीरद्रवसान्द्रदिग्धवपुषः खिन्ना विचित्रै रतैः ॥ पीनोरुस्तऩकामिनीजनकृताश्लेषा गृहाभ्यन्तरे ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ ४३ ॥ " हेमन्त इति ॥ हेमन्ते हेमन्तर्ती गृहाभ्यन्तरे गृहमध्ये सुखं यथा स्या- तथा ये शेरते निन्द्रां कुर्वन्ति ते धन्याः । कीदृशाः दधि च दुग्धं च सर्पि- घृतं च तेषामशनं येषां ते तथा माजिष्ठं मञ्जिष्ठया रंजितं वासो वस्त्रं बिभ्रति ते माजिष्ठवासोभृतः, तथा काश्मीरद्रवः केशरद्रवस्तेन सान्द्रं निबिडं दिग्धं लिप्तं वपुर्येषां ते, तथा विचित्रैरनेकप्रकारै रतैः सुरतैः खिन्नाः, तथा पीनौ पुष्टौ उरू विशालौ स्तनौ कुचौ येषां एतादृशाः ये कामिनीजनाः स्त्रीजना- स्तैः कृत आश्लेष आलिङ्गनं येषां ते तथा ताम्बूलीदलं नागवल्लीदलं पूगः क्रमुकफलं च ताभ्यां पूरितं मुखं येषां ते एवंविधाः " शार्दूलविक्रीडितं वृत्तम् ॥ ४३ ॥ " क्रमप्राप्तं शिशिरर्तुं वर्णयति द्वाभ्यां श्लोकाभ्याम् — चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधाना वक्षःसूत्कःशुकेषु स्तनभरपुलकोद्भेदमापादयन्तः ॥ Digitized by Google भर्तृहरिकृतं ऊरूनाकम्पयन्तः पृथुजघनतटात्स्रंसयन्तऽशुकानि ' व्यक्तं कान्ताजनानां विटचरितकृतः शैशिरा वान्ति वाताः ॥ ४४ ॥ चुम्बन्त इति ॥ कान्ताजनानां स्त्रीणां गण्डभित्तीः कपोलप्रदेशान् व्यक्तं स्पष्टं चुम्बन्तः, तथा अलकवति कुटिलकुन्तलवति मुखे आनने सीत्कृता- न्यादधानाः कुर्वन्तः, तथा उद्गताः कञ्जकाः चोलका येभ्यस्तेषु निष्कासित - कञ्चुकेष्विति यावत् ॥ एवंविधेषु वक्षःसु हृदयेषु स्तनयोः कुचयोर्भरो भा - रस्तस्मिन् पुलकानां रोमाञ्चानामुद्भेदमुद्गममापादयन्तः संपादयन्तः। तथा ऊरू- न्सक्थीनि आकम्पयन्त ईषत्कम्पयन्तः, पृथु विस्तीर्णं यज्जघनतटं तस्मादं- शुकानि वस्त्राणि स्रंसयन्तो निष्कासयन्त एवंविधा विटानां चरितमिव च- रितं कुर्वन्तीति ते । विटा यथा चुम्बनादि चरितं कुर्वन्ति तथा चरितकारिण इत्यर्थः ॥ तथाविधाः शैशिराः शिशिरसंबन्धिनो वाता वायवो वान्ति वह - न्तीति ॥ " स्रग्धरा वृत्तम् ॥ ४४ ॥ 66 'केशानाकलयन् दृशौ मुकुलयन् वासो बलादाक्षिप- नातन्वन्पुलकोद्गमं प्रकटयन्नङ्गेषु कम्पं गतैः ॥ वारंवारमुदारसीत्कृतकृतो दन्तच्छदान् पीडय - प्रायः शैशिर एष संप्रति मरुत्कान्तासु कान्तायते ॥ ४५ ॥ केशानिति ॥ केशान्कचानाकलयन्नितस्ततः परिभ्रामयन्, 'पक्षे धा- रयन् ' दृशौ नेत्रे मुकुलयन्मीलयन्, 'पक्षे हस्तादिनाऽऽच्छादयन् ' वासो वस्त्रं बलादाक्षिपन्नाकर्षयन्, स्पर्शादिना पुलकोद्गमं रोमाञ्चप्रादुर्भावमात- न्वन्विस्तारयन्, अङ्गेषु शरीरावयवेषु गतैर्गमनैः कृत्वा कम्पं प्रकटयन्प्रक- टीकुर्वन्, वारंवारं पुनः पुनः उदारं महत्सीत्कृतं सीत्कारशब्दं कुर्वन्तीति ते कृतः एवंविधान् दन्तच्छदानोष्ठान् पीडयन् एवंविधः ' पक्षे चुम्बनादौ दन्तक्षतैः पीडयन् ' संप्रतीदानीमेष प्रसिद्धः शैशिरः शिशिरर्तुसंबन्धी मरुद्वायुः कान्तासु स्त्रीषु प्रायः बाहुल्येन कान्तायते कान्त इवाचरतीत्यर्थः ॥ कान्तो यथा केशाकर्षणादिकं करोति तथायमपि करोतीति भावः ॥ शार्दूलविक्रीडितं वृत्तम् " ॥ ४५॥ 66 प्रोद्यत्प्रौढप्रियङ्गुद्युतिभृति विदलत्कुन्दमाद्यद्द्विरेफे काले प्रालेयवातप्रचलविकसितोद्दाममन्दारदानि ॥ येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोदरक्षा मृगाक्षी तेषामायामयामा यमसदनसमा यामिनी याति यूनाम् ॥ ४६ ॥ Digitized by Google शृङ्गारशतकम् २.१ प्रोद्यदिति ॥ प्रोद्यन्तः प्रौढाः ये प्रियङ्गवः प्रियङ्गुवृक्षास्तेषां द्युतिं शोभां बिभर्तीति द्युतिभृत् तस्मिन् प्रियङ्गुवृक्षशोभायुक्ते इत्यर्थः । तथा विदलन्तो विकसन्तो ये कुन्दाः कुन्दवृक्षास्तेषु माद्यन्तो मदं प्राप्ताः द्विरेफा भ्रमरा य- स्मिन् तस्मिन्, तथा विकसिताः उद्दामाः प्रौढा ये मन्दारा मन्दारवृक्षास्ते- षां दाम माला, प्रालेयवातेन हिमयुक्तवायुना प्रचलं चञ्चलं विकसितो- द्दाम मन्दारदाम यस्मिन् तस्मिन् एवंविधे काले क्षणमपि क्षणमात्रमपि तुहिनस्य हिमस्य क्षोदावर्णानि कणा इति यावत् ॥ तेभ्यो रक्षतीति सा शीतनिवा- रिणीत्यर्थः ॥ " चूर्णे क्षोदः समुत्पिञ्ज इत्यमरः " ॥ एवंविधा मृगाक्षी मृगलोचना स्त्री येषां कण्ठे लग्ना संलग्ना नो, तेषां यूनां यामिनी रात्रिः आ- यामो दैर्घ्यं तद्विशिष्टाः यामाः प्रहरा यस्या एवंविधा सती यमस्य सदनं गृहं तेन समा तुल्या अत्यन्तदुःखकारिणीत्यर्थः ॥ याति गच्छति ॥ स्रग्ध- रावृत्तम् 11 88 11 "" प्रियाया नासाग्रमौक्तिकं चन्द्रत्वेनोत्प्रेक्ष्य वर्णयति — 66 सुधामयोऽपि क्षयरोगशान्त्यै नासाग्रमुक्ताफलकच्छलेन ॥ अनङ्गसंजीवनदृष्टिशक्तिर्मुखामृतं ते पिबतीव चन्द्रः ॥ ४७ ॥ सुधामय इति ॥ हे नायिके सुधामयोऽमृतमयः अतएव अनङ्गस्य कामस्य संजीवने दृष्टिशक्तिर्दृष्टिसामर्थ्यं यस्य सः कामोद्दीपक इत्यर्थः ॥ एवंविधो- पि चन्द्रः क्षयरोगस्य शान्त्यै शमाय नासाया नासिकाया यदग्रं तत्संबन्धि यन्मुक्ताफलकं तस्य छलेन मिषेण ते मुखामृतं पिबतीवेत्यहं मन्ये इति शेषः ॥ 66 उपजाति वृत्तम् " 118011 संसारसुखेच्छुना कांतासहवासोऽवश्यं कार्यो न तु संसारतरणेच्छुनेत्यमुम- थं बोधयन्नाह - संसारोदधिनिस्तारपदवी न दवीयसी ॥ अन्तरादुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥ ४८ ॥ संसारेति ॥रे जन यदि अन्तरा संसारसमुद्रे दुस्तरा दुर्घटा मदिरेक्षणाः स्त्रियो न स्युस्तर्हि संसारोदधेः संसारसमुद्रस्य निस्तारो निस्तरणं तस्य, पदवी मार्गः दवीयसी दूरतरा नास्ति किन्तु समीपवर्तिन्येव [ संसारतवेति पाठे संसारेति संबोधनम् ] तथा च सति वैराग्ये कांतासेवनं त्याज्यमसति तु 'तस्मिन् सं- सारसुखेच्छुना कान्तासेवनमेव कार्यमिति भावः ॥" अनुष्टुब् वृत्तम्" ॥४८॥ Digitized by Google एतदेव भङ्गयन्तरेणाह - भर्तृहरिकृतं कामिनीकायकान्तारे कुचपर्वतदुर्गमे ॥ मा संचर मनःपान्थ तत्रास्ते स्मरतस्करः ॥ ४९ ॥ कामिनीति ॥ हे मनःपान्थ कुचावेव पर्वतौ ताभ्यां दुर्गमे गन्तुमशक्ये कामिन्याः स्त्रियाः काय एव कान्तारमरण्यं तस्मिन् मा संचर मा गच्छ, कुतः तत्र तस्मिन्नरण्ये स्मरः काम एव तस्करश्चोरः आस्ते ॥ अनुष्टुव वृत्तम् " ॥ ४९ ॥ सर्वेषामनर्थानां मूलं यौवनमित्याह- रागस्यागारमेकं नरकशतमहादुःखसंप्राप्तिहेतु- महस्योत्पत्तिबीजं जलधरपटलं ज्ञानताराधिपस्य ॥ कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं लोकेऽस्मिन्नह्यनर्थव्रजकुसुमवनं यौवनादन्यदस्ति ॥ ५० ' 66 रागस्येति ॥ रागस्यानुरागस्यैकमगारं गृहम् नरकाणां शतानि तेषु महादुःखानि तेषां संप्राप्तिस्तस्या हेतुः कारणं, मोहस्योत्पत्तिस्तस्या बीजम्, ज्ञानमेव ताराधिपश्चन्द्रस्तस्य जलधरपटलं मेघपटलवदाच्छादकमिति यावत्, कन्दर्पस्य मदनस्यैकमित्रं मुख्यमित्रम् प्रकटितो विविधा नानाप्रकाराः स्प- ष्टा ये दोषास्तेषां प्रबन्धो रचना यस्मिन्तत् एवंविधमर्थाद्यौवनमेव अस्मि - न्लोके अनर्थानां व्रजः समूहस्तस्य वनं पुष्पवाटिका, यौवनात्तारुण्याद- न्यत्किमपि नास्ति हि निश्चयेन 11 स्रग्धरा वृत्तम् " ॥ १० ॥ 66 " पूर्वश्लोके यौवनस्य सर्वानर्थकरत्वं प्रतिपाद्येदानीं तादृशं यौवनं प्राप्य यो विक्रियां न व्रजति स धन्य इत्याह- शृङ्गारमनीरदे विसृमरक्रीडारसस्रोतसि प्रद्युम्नप्रियबान्धवे चतुरता मुक्ताफलोदन्वति ॥ तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मी निधौ धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ ५१ ॥ शृङ्गारेति ॥ यः कोऽपि कश्चित्पुरुषः शृङ्गार एव द्रुमो वृक्षस्तस्य नीरदे पोषकत्वेन मेघरूपे, विसृमरो विसृत्वरो यः क्रीडारसस्तस्य स्रोतसि प्रवाहे क्रीडारसजनके इत्यर्थः ॥ प्रद्युम्नः कामस्तस्य प्रियबान्धवे हितकारिणि ब- न्धौ चतुरतैव मुक्ताफलानि तेषामुदन्वति समुद्रे, तज्जनके इत्यर्थः ॥ तन्व्याः स्त्रिया नेत्रे एव चकोरौ चकोरपक्षिणौ तयोः पर्वणि भवः पार्वणः , Digitized by Google शृङ्गारशतकम् , पौर्णिमासंबन्धी विधुश्चन्द्रस्तस्मिन् तन्वीनेत्रयोरत्यन्ताहादजनके इत्यर्थः ॥ सौभाग्यलक्ष्मीर्नितरां धीयते यस्मिंस्तथाविधे सौभाग्यलक्ष्म्या निवासस्थाने इत्यर्थः ॥ एवंविधे नवे नूतने यौवने प्राप्ते सति विक्रियां मनोविकारं न कलयति न प्राप्नोति स धन्यः पुण्यवान् पूज्य इति यावत् भवतीति शेषः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ५१ ॥ प्रायः सद्गतिप्रतिबन्धकत्वं स्त्रीणामेवेत्यभिप्रायेणाह - , शास्त्रशोऽपि प्रथितविनयोऽप्यात्मबोधोऽपि बाढं संसारेऽस्मि - भवति विरलो भाजनं सद्गतीनाम् ॥ येनैतस्मिन्निरयनगरद्वार- मुद्घाटयन्ती वामाक्षीणां भवति कुटिला भ्रूलता कुश्चिकेव ५२ शास्त्रज्ञोऽपीति ॥ एतस्मिञ्जगति निरयनगरस्य नरकपुरस्य द्वारमुद्घाट- यन्ती उद्घाटनं कुर्वन्ती, कर्त्रीत्यर्थः ॥ कुटिला वक्रा वामाक्षीणां सुन्दरनय- नानां स्त्रीणां भ्रूलता कुञ्चिकेव ( लोके किल्लीति ) प्रसिद्धसाधनभूतेव येन हेतुना भवति, तस्माद्धेतोः शास्त्रं जानातीति शास्त्रज्ञोऽपि प्रथितो वि- ख्यातो विनयो यस्यैवंविधोऽपि बाढं दृढमात्मनो बोधो ज्ञानं यस्यैवंवि- धोऽपि पुरुषः अस्मिन्संसारे सद्गतीनामुत्तमगतीनां भाजनं पात्रं विरल: कश्चिदेव भवति ॥ निरयद्वारोद्घाटनकर्त्री कुञ्चिकासदृशी मोहिका स्त्रीणां भ्रू- लता यावज्जगति जागरूका तावत् शास्त्रज्ञत्वादिगुणविशिष्टा अपि पुरुषाः सद्गतीनां पात्राणि न भवन्तीति भावः ॥ " मन्दाक्रान्ता वृत्तम् - मन्दाक्रान्ता ज- धिषडगैम्भ नतौ ताद्गुरू चेदिति तल्लक्षणात् " ॥ १२ ॥ द्रष्टव्यश्राव्यादिषु रूपादिविषयेषु किमुत्तममिति प्रश्नोत्तरविधयाऽऽह- द्रष्टव्येषु किमुत्तमं मृगदृशां प्रेमप्रसन्नं मुखं प्रातव्येष्वपि किं तदास्यपवनः श्राव्येषु किं तद्वचः ॥ किं स्वाद्येषु तदौष्ठपल्लवरसः स्पर्शेषु किं तत्तनु- येयं किं नवयौवनं सुहृदयैः सर्वत्र तद्विभ्रमः ॥ ५३ ॥ द्रष्टव्येष्विति ॥ द्रष्टव्येषु दर्शनीयवस्तुषूत्तमं किमस्तीति शेषः ॥ एव- मुत्तरत्रापि ॥ मृगदृशां मृगलोचनानां स्त्रीणां प्रेम्णा प्रसन्नं मुखमाननमुत्तमम- स्ति ॥ उत्तमपदस्य सर्वत्रान्वयः ॥ घ्रातव्येष्वपि प्राणयोग्येष्वपि उत्तमं किम्, तस्याः स्त्रिया आस्यं मुखं तत्संबन्धी पवनो वायुः, श्राव्येषु श्रवणीयेषु उत्तमं किम्, तस्याः स्त्रियो वचो वचनम्, स्वाद्येषु स्वादनीयेषु उत्तमं किम्, तस्या ओष्ठपल्लवोऽधरोष्ठपल्लवस्तत्संबन्धी रसः, स्पर्शेषु किमुत्तमम्, तस्यास्तनुः Digitized by Google भर्तृहरिकृतं शरीरम्, सुहृदयैः शोभनांतः करणैः पुरुषैः ध्येयं ध्यातुं योग्यं किम्, नवं नूतनं यौवनं तारुण्यम्, सर्वत्र सर्वकर्मणि तस्या विभ्रमो विलासश्चेष्टा वा ॥ " शार्दूलविक्रीडितं छंदः " ॥ ५३ ॥ शृङ्गाररससेवनं कुर्वताऽपि पुरुषेण वेश्यासङ्गमो न कार्यो ऽतिनिन्द्यत्वा- दिति बोधयन् वेश्यावृत्तमाह लोकत्रयेण - वेभ्याऽसौ मदनज्वाला रूपेन्धनसमेधिता ॥ कामिभिर्यत्र हूयन्ते यौवनानि धनानि च ॥ ५४ ॥ वेश्येति ॥ यत्र यस्यां कामिभिः पुरुषैः यौवनानि तारुण्यानि धनानि द्रव्याणि च हूयन्ते, असौ प्रसिद्धा वेश्या, रूपमेवेन्धनं काष्ठं तेन समेधिता वर्धिता मदनज्वाला कामाग्निज्वाला अस्ति ॥ अनेन यौवनधननाशकारिणी वेश्या पुरुषैर्न सेव्येति सूचितम् ॥ " अनुष्टुब्वृत्तम् ॥ ५४ ॥ किंच । 66 कचम्बति कुलपुरुषो वेश्याधरपल्लवं मनोशमपि ॥ चारभटचौर चेटकनटविटनिष्ठीवनशरावम् ॥ ५५ ॥ क इति ॥ चारः स्पशः, भटो नीचपुरुषविशेषः, "भटः स्यात्पुंसि वीरे च विशेषे पामरस्य चेति मेदिनी " ॥ चौरस्तेनः । चेटको दासः, "दासगोप्य- कचेटका इत्यमरः " ॥ नटो नर्तकः, विटो जारस्तेषां निष्ठीवनस्य श्लेष्मो- त्सर्गस्य शरावः पात्रविशेषस्तम्, एवंविधं मनोज्ञमपि मञ्जुलमपि वेश्याया अध- रपल्लवस्तं कः कुलपुरुषः कुलीनः पुरुषश्चुम्बति चुम्बनं करोति ॥ अपि तु न कोपीत्यर्थः ॥ तस्मात्कुलीनपुरुषेण कुलमालिन्यकरं वेश्यासेवनं न कर्तव्य- मिति सूचितम् ॥ " आर्या वृत्तम्" ॥ १९ ॥ किंच । जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ॥ यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया , पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ॥ ५६ ॥ जात्यन्धायेति । जात्यैवान्धस्तस्मै च पुनर्दुर्मुखाय दुर्गन्धेन दुष्टं मुखं यस्य तस्मै, जरया जीर्णान्यखिलान्यङ्गानि यस्य तस्मै, ग्रामीणाय ग्राम्याय विलासाचतुरायापीति यावत्, दुष्कुलाय नीचकुलाय, गलत्प्रस्रवद्य - त्कुष्ठं तेनाभिभूताय व्याप्ताय, एवंविधाय पुरुषाय लक्ष्म्या लवो लेशस्तस्य Digitized by Google शृङ्गारशतकम् । श्रद्धयेच्छया " श्रद्धा संप्रत्ययः स्पृहेत्यमरः " मनोहरं निजवपुः स्वकीयशरीरं यच्छन्तीषु ददतीषु, विवेक एव कल्पलतिका कल्पवल्ली तस्याः शस्त्रीषु शस्त्रवच्छेदिकासु एवंविधासु पण्यस्त्रीषु वेश्यासु कः पुरुषो रज्येतासक्तो भवेन्न कोऽपीत्यर्थः ॥ अनेन केवलं लक्ष्मीलेशप्राप्तीच्छया जात्यन्धत्वादिदोषविशि- ष्टायापि पुरुषाय स्वशरीरमर्पयन्ती विवेकच्छेदिका वेश्या विवेकिपुरुषेण न सेव्येति सूचितम् "शार्दूलविक्रीडितं वृत्तम् " ॥ ५६ ॥ एकचित्तपूर्वकः सङ्गम एव कामफलं विभिन्नचित्तकृतः सङ्गमस्तु शवसङ्गव- निष्फल इत्याह- एतत्कामफलं लोके यहुयोरेकचित्तता ॥ अन्यचित्तकृते कामे शवयोरिव सङ्गमः ॥ ५७ ॥ एतदिति ॥ लोके यत् द्वयोः स्त्रीपुरुषयोरेकचित्तता एकचित्तत्वमेतदेव कामस्य फलं भवतीति शेषः ॥ अन्यस्मिन्पुरुषे अन्यस्य योषिति वा यश्चित्तं तेन कृते कामे सति शवयोर्मृतयोर्द्वयोः सङ्गम इव भवति "अनुष्टुब् वृत्तम् " ५७ यावत्पर्यन्तं पुरुषः कामाधीनो न तावन्महत्त्वादयो गुणाः सन्तीत्याह - तावन्महत्त्वं पाण्डित्यं विवेकित्वं कुलीनता ॥ यावज्ज्वलति नाङ्गेषु हन्त पञ्चेषुपावकः ॥ ५८ ॥ तावदिति ॥ यावत्पुरुषस्याङ्गेषु अवयवेषु पञ्चेषुः काम एव पावकोऽग्निर्न ज्वलति तावदेव महत्त्वं महतो भावो महत्त्वं पूज्यत्वम्, पाण्डित्यं विवेकित्वं सदसद्विवेकित्वम्, कुलीनता सत्कुलप्रभवत्वं तिष्ठतीति शेषः ॥ विवेकिना पुरु- षेण कामवशेन न भाव्यमित्यनेन सूचितम् " अनुष्टुब् वृत्तम् " 119611 लोकप्रसिद्धराजवत्कामाख्यो राजा स्त्रीरूपस्वीयमुद्रोलनकर्तारं दण्डय- तीत्याह- स्त्रीमुद्रां झषकेतनस्य परमां सर्वार्थसंपत्करीं ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ॥ ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥ ५९ ॥ स्त्रीमुद्रामिति ॥ ये मूढा अज्ञानिनः कुधियः कुत्सितबुद्धयः पुरुषाः मिथ्या- फलानि स्वर्गादीनि अन्वेषयन्ति मृगयन्ति ते एवंविधाः सन्तः परमामुत्कृष्टां सर्वार्थानां संसारसुखोपयोगिपुरुषार्थानां संपदं करोतीति तां तथाविधां सर्वा- र्थप्राप्तिकरी मिति यावत् ॥ झषो मत्स्यः केतने ध्वजे यस्य एवंविधस्य कामस्य ૪ Digitized by Google भर्तृहरिकृतं स्त्रीरूपां मुद्रां विहाय त्यक्त्वाऽन्यत्र यान्ति, ते पुरुषास्तेन कामेनैव निर्दय - तरं यथास्यात्तथा निहत्य ताडयित्वा नग्नीकृता वस्त्रहीनाः कृताः । केचि- मुण्डिताः केशरहिताः कृता इति शेषः ॥ एवमेवोत्तरत्रापि बोध्यम् ॥ के- चित्पञ्चशिखीकृताः पञ्चशिखाधारिणः कृताः ॥ केचिज्जटिला जटाधारिणः कृताः, अपरेऽन्ये कापालिका नरकपालधारिणः कृता इति ॥ यथा प्रसिद्धो राजा स्वीयमुद्रोलङ्घनकर्तारं दण्डयति तथा कामाख्यो राजापि संसार- सुखसाधनं कामिन्येवेति सिद्धान्तं कृत्वा तदुपरि कृतां स्वीयां स्त्रीरूपां मुद्रामु- ल्लङ्घ्य येऽन्यथा वर्तन्ते तान् नग्नीकरणादिरूपदण्डेन दण्डयतीति भावः । " शार्दूलविक्रीडितं वृत्तम् ॥ ५९ ॥ कामजनितस्त्रीमोहो दुरुद्धर इत्यर्थं रूपकविधयाऽऽह— विस्तारितं मकरकेतनधीवरेण स्त्रीसंशितं बडिशमत्र भवाम्बुराशौ ॥ तेनाचिरात्तदधरामिषलोलमर्त्यमत्स्यान्विकृष्य स पचत्यगनुरागवहौ विस्तारितमिति ॥ अत्रास्मिन् भवाम्बुराशौ भवसमुद्रे मकरकेतनः काम एव धीवरः कैवर्तस्तेन स्त्रीसंज्ञितं स्त्रीनामकं बडिशं मत्स्यवेधनं विस्तारितं प्रसारितम् तेन कामप्रसृतबडिशेनाचिराच्छीघ्रं तासां स्त्रीणामधर एवामिषं मांसं तस्मिन् लोलाः सतृष्णा ये मर्त्यमत्स्या मनुष्यरूपा मत्स्यास्तान् विकृष्या- कृष्य सकामोऽनुरागवह्नौ प्रेमानौ पचति ॥ " वसंततिलका वृत्तम् " ॥ ६० ॥ प्रेमपूर्वक स्त्रीभिः क्रियमाणं कर्मोल्लङ्घयितुं कोऽपि न समर्थ इत्याह- उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गनाः ॥ तत्र प्रत्यूहमाधातुं ब्रह्माऽपि खलु कातरः ॥ ६१ ॥ उन्मत्तेति ॥ अङ्गनाः स्त्रिय उन्मत्तमुच्छृंखलं यत्प्रेम तस्य संरम्भाद्वेगा- द्यत् कर्म आरभन्ते तत्र प्रत्यूहं विघ्नमाधातुं कर्तुं ब्रह्माऽपि कातरो भयच - कितो भवति खलु निश्चयेन सोऽपि न समर्थोऽस्तीत्यर्थः ॥ स्त्रीचरित्रोल्लङ्घनं ब्रह्मणोऽपि दुर्घटमिति स्वकन्यानुवर्तनादिना पुराणादौ प्रसिद्धमिति भावः ॥ अनुष्टुब् वृत्तम् " ॥ ६१ ॥ 66 कामिनीष्वत्यन्तासक्तस्य पुरुषस्य ताः सर्वस्वं हरन्तीत्याह- प्रणयमधुराः प्रेमोद्गाढा रसादलसास्तथा भणितमधुरा मुग्धप्रायाः प्रकाशितसंमदाः ॥ प्रकृतिसुभगा विश्रम्भार्हाः स्मरोदयदायिनो रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ ६२ ॥ Digitized by Google: शृङ्गारशतकम् । प्रणयेति ॥ मृगीदृशां हरिणाक्षीणां स्त्रीणां स्वैरालापाः स्वेच्छाभाषणानि किमप्यनिर्वचनीयं हरन्ति सर्वस्वं हरन्तीत्यर्थः ॥ कीदृशाः स्वैरालापाः ॥ प्रणयेन नम्रतया मधुराः प्रियाः । प्रेम्णा उद्गाढा भरिताः, तथा रसाच्छृङ्गारा- दिरसादलसाः शिथिलाः ॥ तथा भणितेन रतिकूजितेन मधुराः, मुग्धप्रायाः अस्फुटाः, प्रकाशितः संमदो हर्षो येषु ते तथाविधाः प्रकृत्या स्वभावेन सुभगाः सुंदराः, विश्रम्भार्हा विश्वासयोग्याः, स्मरस्य कामस्योदयं ददति त- च्छीलाः एवंविधाः ॥ " हरिणी वृत्तम् ॥ ६२ ॥ , " " " मालाचन्दनादिधारणपूर्वकः प्रियासङ्गमः स्वर्गसुखद इत्याह- मालती शिरसि जृम्भणोन्मुखी चन्दनं वपुषि कुङ्कुमाविलम् ॥ वक्षसि प्रियतमा मनोहरा स्वर्ग एष परिशिष्ट आगतः ॥ ६३॥ मालतीति ॥ यस्य शिरसि जृम्भणे विकसने उन्मुखी मालती जातिपु- ष्पमाला अस्तीति शेषः । एवमुत्तरत्रापि बोध्यम् ॥ यस्य वपुषि शरीरे कुङ्कु- मेनाविलं मिश्रं चन्दनमस्ति, यस्य वक्षसि हृदये मनोहरा मनोज्ञा प्रियतमा स्त्री अस्ति, तस्य पुरुषस्य एष परिशिष्टः पुण्यावशिष्टः स्वर्गे भुवि आगतः प्राप्त इति बोध्यम् । "रथोद्धता वृत्तम्, रोनराविह रथोद्धता लगाविति तल्लक्षणात् ॥ इह जगति कामिन्येव सर्ववशीकरणसमर्था भवतीत्याह — - कुङ्कुमपङ्ककलङ्कितदेहा गौरपयोधरकम्पितहारा ॥ नूपुरहंसरणत्पदपद्मा कं न वशं कुरुते भुवि रामा ॥ ६४॥ कुङ्कुमेति ॥ कुङ्कुमस्य काश्मीरस्य पङ्कः कर्दमस्तेनाङ्कितश्चिह्नितो देहो यस्याः सा, गौरौ पयोधरौ स्तनौ ताभ्यां कम्पितो हारो यस्याः सा, नूपुराणि मञ्जीराण्येव हंसास्तै रणती शब्दायमाने पदपद्मे चरणकमले यस्याः सा एवंविधा रामा स्त्री भुवि पृथिव्यां कं पुरुषं वशमाधीनं न कुरुते अपि तु सर्वे वशं कु- रुते इत्यर्थः ॥ " दोधकं वृत्तम्, दोधकवृत्तमिदं भभभागौ इति लक्षणात् " ६४ स्वकटाक्षपातैरिन्द्रादीनामपि मोहनकर्तृत्वसामर्थ्यवतीनां स्त्रीणां कविभिः क्रियमाणोऽबलात्वव्यवहारो मुधेति कथयंस्तासां बलवत्त्वमाह- नूनं हि ते कविवरा विपरीतबोधा 66 ये नित्यमाहुरबला इति कामिनीनाम् ॥ याभिर्विलोलतरतारकदृष्टिपातैः शक्रादयोऽपि विजिता अबलाः कथं ताः ॥ ६५ ॥ नूनमिति ॥ ये कवयः कामिनीनां कामिनीः ॥ कर्मणः शेषत्वविवक्षायां Digitized by Google भर्तृहरिकृतं संबन्धसामान्ये षष्ठी ॥ यद्वा नामेत्यध्याहृत्य कामिनीनां नाम अबला इति नित्यमाहुर्वदन्ति, ते कविवराः कविश्रेष्ठाः विपरीतो बलवत्त्वविरुद्धो बोधो ज्ञानं येषां ते तथाविधाः सन्ति हि निश्चितम् ॥ नूनमिति वितर्के ॥ अथवा ते कविवराः कामिनीनां विषये विपरीतबोधाः सन्ति ॥ ते के ॥ ये ता: अ- बला इति आहुरित्यन्वयः ॥ कुतो विपरीतबोधा इत्याशङ्कयाह- याभिरिति ॥ याभिः कामिनीभिः विलोलतरा अतिचञ्चलास्तारका अक्षिकनीनिका येषु एवंविधा ये दृष्टिपाताः कटाक्षास्तैः शक्रादय इन्द्रादयोऽपि विजिताः ताः स्त्रियोऽबलाः कथं, अपि तु न भवन्तीत्यर्थः ॥ " वसन्ततिलका वृत्तम् "॥६५॥ दिश वनहरिणीभ्यो वंशकाण्डच्छवीनां कवलमुपलकोटिच्छिन्नमूलं कुशानाम् ॥ शुकयुवतिकपोला पाण्डुताम्बूलवल्ली- दलमरुणनखायैः पाटितं वा वधूभ्यः ॥ ६६ ॥ 66 दिशेति ॥ हे जन त्वं बने अरण्ये या हरिण्यो मृग्यस्ताभ्यः वंशस्य वेणोः काण्डो दण्डः "काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिष्वित्यमरः " ॥ तस्येव छविः कान्तिर्येषां तेषां कुशानां दर्भाणाम् ॥ " अस्त्री कुशं कुथो दर्भ इत्यमरः" ॥ उपलस्य पाषाणस्य कोटिरप्रभागस्तेन छिन्नं मूलं यस्यैवं- विधं कवलं ग्रासम् ॥ ग्रासस्तु कवलः पुमानित्यमरः " दिश देहि ॥ वा अथवा वधूभ्यः स्त्रीभ्यः अरुणानि कृष्णलोहितानि, " अरुणः कृष्णलोहित इत्यमरमाला " ईषदुक्तानीति यावत् ॥ यानि नखानि तेषामप्राणि तैः पा- टितं छिन्नं एवंविधं, शुकयुवत्याः कीरस्त्रियाः " गृधौ की रशुकौ समावि- त्यमरः " कपोलो गण्डस्तद्वत् आ ईषत् पाण्डुः पीतमिश्रश्वेतवर्णा, " पाण्डु- स्तु पीतभागार्धः केतकीधूलिसंनिभ इति शब्दार्णवः " या ताम्बूलवल्ली त- स्याः दलं पण दिशेत्यर्थः ॥ " मालिनी वृत्तम् " ॥ ६६ ॥ " स्तनभारादयो व्यथां कुर्वन्त्यथापि तदपेक्षयाऽधिकां व्यथां मध्यस्थाऽपि रोमावली ददातीत्याह- उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते रागाधिष्ठितमोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् ॥ सौभाग्याक्षरपतिकेव लिखिता पुष्पायुधेन स्वयं मध्यस्थाSपि करोति तापमधिकं रोमावली केन सा ॥६७॥ उद्वृत्त इति ॥ उद्वृत्त उन्नत एष स्तनभारः कुचभार:, तथा तरले चञ्चले नेत्रे, तथा चले भ्रूलते, तथा रागेण रक्तिम्णाऽधिष्ठितमिदमोष्ठपल्लव- Digitized by Google • शृङ्गारशतकम् । मधरपल्लवम्, एते सर्वे कामिपुरुषस्य व्यथां पीडां कुर्वन्तु नाम; परंतु तद- पेक्षया पुष्पमेवायुधं यस्य तेन कामेन स्वयं लिखिता । सौभाग्यद्योतकानि यानि अक्षराणि वर्णास्तेषां पतिरेव पङ्क्तिका ॥ स्वार्थे कः ॥ सेव मध्यस्थाऽपि रोमावली रोमपङ्क्तिः सा अधिकं यथा स्यात्तथा तापं दुःखं करोति सा केन हेतुनेत्यहं न जाने ॥ लोके हि मध्यस्थस्तथा तापं न ददातीति प्रसिद्धम्, इयं च रोमावली मध्यस्था सत्यपि हेतुं विनैवाधिकं तापं ददातीति तस्याः सर्वापे- क्षयाऽधिकतापदातृत्वमस्तीति भावः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ६७ ॥ स्त्रीणां सर्वथा प्रियः कोऽपि नास्तीत्याह- जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः ॥ हृदये चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥ ६८ ॥ जल्पन्तीति ॥ सविभ्रमा हावादिचेष्टायुक्ताः स्त्रियः "विभ्रमो भ्रान्ति- हावयोरिति मेदिनी" ॥ अन्येन पुरुषेण सार्धं जल्पन्ति, तथा अन्यं पुरुषं पश्यन्ति, तथा हृदयेऽन्तःकरणेऽन्यं चिन्तयन्ति तस्मात् योषितां स्त्रीणां प्रियः को नाम, न कोपीत्यर्थः । " अनुष्टुब् वृत्तम् " ॥ ६८ ॥ युवतीलाभ एव तपसः फलमित्याह- स्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतीः ॥ यस्मात्तपसोऽपि फलं स्वर्गः स्वर्गेऽपि चाप्सरसः ॥ ६८ ॥ खपरेति ॥ अलीकपण्डितो मिथ्यापाण्डित्यविशिष्टो यः पुरुषो युवती- स्तरुणस्त्रीर्निन्दति असौ स्वस्य परस्य च प्रतारको वञ्चकोऽस्ति ॥ कुतः ॥ यस्माद्धेतोस्तपसः फलं स्वर्गेऽस्ति स्वर्गेऽपि च अप्सरस एव फलं भोग्यं नान्यदि- त्यर्थः ॥ तपःकरणपूर्वकं खर्गे गतस्याप्यप्सरसामेव भोग्यत्वमतो युवतीनिन्दा- ऽनुचितेति भावः ॥ "पथ्या वृत्तम् । त्रिष्वंशकेषु पादो दल्यो राधेषु दृश्यते यस्याः ॥ पथ्येति नाम तस्याश्छंदोविद्भिः समाख्यातमिति तल्लक्षणात् " ॥ शशिकिरणान् निवारयन्त्याः कस्याश्चित्त्रिया वने विचरणमाह- विश्रम्य विश्रम्य वने द्रुमाणां छायासु तन्वी विचचार काचित् ॥ स्तनोत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् ॥ ७० ॥ विश्रम्येति ॥ काचित्तन्वी विरहिणी स्त्री, द्रुमाणामरण्यवृक्षाणां छायासु विश्रम्य विश्रम्य विश्रान्तिं कृत्वा, आदरार्थे वीप्सा ॥ करेण हस्तेनोद्धतं तेन स्तनोत्तरीयेण स्तनोपरिस्थवस्त्रेण शशिनश्चन्द्रस्य मयूखान्किरणान् निवार- यन्ती सती बने अरण्ये विचचार संचारं कृतवतीत्यर्थः ॥ " उपजाति वृत्तम् " ॥ Digitized by Google भर्तृहरिकृतं मनस्युत्पन्नोऽभिलाष उत्तरोत्तरमधिकाधिकः संस्तृप्तिहेतुर्न भवतीत्याह- अदर्शने दर्शनमात्रकामा दृष्ट्रा परिष्वङ्गरसैकलोलाः ॥ आलिङ्गितायां पुनरायताक्ष्यामाशास्महे विग्रहयोरभेदम् ॥ ७१ ॥ अदर्शने इति ॥ पुरुषाः स्त्रियाः प्रथमं अदर्शने दर्शनाभावे दर्शनमात्रे कामोऽभिलाषो येषां तथाभूताः भवाम इति शेषः ॥ एवमुत्तरत्राऽपि ॥ तां दृष्ट्रा परिष्वङ्गे आलिङ्गने यो रसः प्रेम तस्मिन्नेकलोला : अत्यन्तं सतृष्णा भवामः, दैववशाद्दर्शने जाते तदालिङ्गनाभिलाषिणो भवाम इत्यर्थः ॥ पुनरायताक्ष्यां दीर्घलोचनायां स्त्रियामालिङ्गितायां सत्यां वयं विग्रहयोर्देहयोरभेदं अपार्थक्यमा- शास्महे इच्छामः ॥ दैववशादालिङ्गनलाभेऽपि तावताऽतुष्यन्तो वियोगभीत्या देहाभेदमाशासानाः सन्तो न तृप्याम इति भावः ॥ " उपजाति वृत्तम्" ७१ इह संसारेऽनुकूलां स्त्रियमुपभुञ्जाना ये पुरुषास्त एव धन्या नान्ये इत्याह- उरसि निपतितानां स्रस्तधम्मिल्लकानां मुकुलितनयनानां किंचिदुन्मीलितानाम् ॥ सुरतजनितखेदस्विन्नगण्डस्थलानामधर- मधुवधूनां भाग्यवन्तः पिबन्ति ॥ ७२ ॥ उरसीति ॥ उरसि हृदये निपतितानां पतितानामर्थाद्विपरीतसुरते इत्य- र्थः ॥ स्रस्तो विस्रस्तो धम्मिल्लः केशपाशो यासां तासाम् ॥ समासान्तः कप् ॥ मुकुलिते सुखवशान्मीलिते नयने नेत्रे यासां तासाम्, किंचिदीषदुन्मीलिता- नामीषत्पश्यन्तीनामित्यर्थः ॥ सुरते जनितो यः खेदः श्रमस्तेन स्विन्ने धर्म- युक्ते गण्डस्थले कपोलौ यासां तासामेवंविधानां वधूनां स्त्रीणामधरमधु अ- धरासवं ये पिबन्ति ते भाग्यवन्तः सन्ति ॥ " मालिनी वृत्तम् " ॥ ७२ ॥ पथिकः पुरुषो नवीनमेघप्रादुर्भावं दृष्ट्वा गन्तुमशक्तः स्वप्रियां चिन्तय- न्सन् तत्रैव तिष्ठन्नास्ते तामेव चिन्तां दर्शयति- किं गतेन यदि सा न जीवति प्राणिति प्रियतमा तथाऽपि किम् ॥ इत्युदीर्य नवमेघमालिकां न प्रयाति पथिकः स्वमन्दिरम् ॥ ७३ ॥ किं गतेनेति ॥ कश्चित्पथिकः नवमेघमालिकां नूतनमेघपतिं दृष्ट्वा यदि सा प्रियतमा स्त्री मद्विरहेण न जीवति तर्हि गतेन गृहगमनेन किम्, अथवा प्राणिति जीवति तथाऽपि किं कर्तव्यमिति शेषः ॥ मेघाद्याविर्भावेण गन्तुम- शक्यत्वादित्यर्थः ॥ इति पूर्वोक्तप्रकारेण उदीर्य स्वमन्दिरं स्वगृहं न प्रयाति न गच्छति ॥ " रथोद्धता वृत्तम् "" ॥ ७३ ॥ Digitized by Google शृङ्गारशतकम् । - अङ्गीकृतस्य कामाख्यपुरुषार्थस्य परमावधिमाह - आमीलितनयनानां यत्सुरतरसो नु संविदं कुरुते ॥ मिथुनैर्मिथोऽवधारितमवितथमिदमेव कामनिर्वहणम् ॥ ७४ ॥ आमीलितेति ॥ आ ईषन्मीलिते नयने नेत्रे यासां तासां सुरते यो रसः सनु निश्चितं संविदं ज्ञानं सुखसाक्षात्कारमिति यावत् ॥ संवित्स्त्रियां प्रतिज्ञाया- माचारज्ञानसंगरे इति मेदिनी " ॥ कुरुते इति यत्, तदेवेदं मिथुनैर्द्वन्द्वैरव- धारितं निश्चितं अवितथं सत्यं कामस्य, निर्वहणं निष्ठा आरब्धस्य कामाख्य- पुरुषार्थस्य पर्यवसानमिति यावत् ॥ " निर्वहणं तु निष्ठा स्त्री संहारश्च स- मापन इति शब्दार्णवः" ॥ " गीतिर्वृत्तम्, आर्या प्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ॥ दल्योः कलयति शोभां तां गीतिं गीतवान्भुजङ्गेश इति तल्लक्षणात् " ॥ ७४ ॥ संभोगे कुलस्त्रीरतस्य रमणीयत्वमाह - प्रायामेति मनागमानितगुणं जाताभिलाषं ततः सव्रीडं तदनु श्लथीकृततनु प्रत्यस्तधैर्य प्रेमा स्पृहणीयनिर्भररहः क्रीडाप्रगल्भं पुनः ॥ ततो निःशङ्काङ्गविकर्षणाधिकसुखं रम्यं कुलस्त्रीरतम् ॥ ७५ ॥ प्राख्यामेति ॥ प्राक् रतिसमये मामा नेतिनेति निषेधवाचकशब्दैर्मनाक् ईत् न मानिता गुणा यस्मिंस्तत्, मनागित्यनेन सर्वथा गुणावमाननं नेति सूचितम् ॥ अतएव ततोऽनन्तरं जातोऽभिलाष इच्छा यस्मिंस्तत्, तदनु सत्री- डं सलज्जं यथा स्यात्तथा लयीकृता शिथिलीकृता तनुः शरीरं यस्मिंस्तत्, तनुशैथिल्यविशिष्टमित्यर्थः ॥ तथाऽपि तदलाभे पुनः प्रत्यस्तं नष्टं धैर्ये य- स्मिंस्तत्, प्रेम्णा आर्द्र स्निग्धम्, प्रेमयुक्तमित्यर्थः ॥ स्पृहणीया स्पृहायोग्या निर्भरा अतिशयिता या रहः क्रीडा एकान्तक्रीडा तया प्रगल्भं प्रौढम् ॥ ततो निःशङ्कं यदङ्गस्य विकर्षणमाकर्षणं तेनाधिकं सुखं यस्मिन्नेवंविधं कुलस्त्रीरतं कुलीनस्त्रीरतं रम्यं मनोहरमस्ति नान्यस्त्रीरतमित्यर्थः ॥ " शार्दू- लविक्रीडितं वृत्तम् " ॥७९॥ एकस्याः स्त्रिया दर्शनादर्शनभेदेनामृततुल्यत्वं विषतुल्यत्वं चाह - तावदेवामृतमयी यावल्लोचनगोचरः ॥ चक्षुः पथादपेता तु विषादप्यतिरिच्यते ॥ ७६ ॥ तावदेवेति ॥ यावत् स्त्री लोचनगोचरश्चक्षुर्विषयीभूता भवतीति शेषः ॥ ताव- Digitized by Google भर्तृहरिकृतं देव अमृतमयी अमृतप्राया भवति, तत्तुल्यसुखदत्वादित्यर्थः॥ चक्षुः पथान्नेत्रमार्गा- दपेता रहिता तु विषादपि अतिरिच्यते अधिका भवति, तत्तुल्यदुःखदातृत्वा- दित्यर्थः ॥ "अनुष्टुब् वृत्तम्" ॥ ७६ ॥ कामस्य दुर्जयत्वमपस्माररूपकेणाह— न गम्यो मन्त्राणां न च भवति भैषज्यविषयो न चापि प्रध्वंसं व्रजति विविधैः शान्तिशतकैः ॥ भ्रमावेशादङ्गे किमपि विदधद्भङ्गमसमं स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ७७ ॥ न गम्य इति ॥ अयं स्मर एवापस्मारो रोगविशेषो मन्त्राणां गम्यो न भवति, मन्त्ररूपैरुपायैरप्यपरिहार्य इत्यर्थः । च पुनर्भैषज्यं औषधं तद्विषयो न भवति, तेनाप्यपरिहार्य इत्यर्थः ॥ च पुनर्विविधैः शान्तिशतकैः शान्तिकार - कैरुपायैः प्रध्वंसं नाशं न व्रजति गच्छति, तथा भ्रमावेशादसमं न्यूनाधिक- भावेन विषममङ्गे शरीरे किमपि अनिर्वचनीयं भङ्गं भेदं शान्त्यादिनाप्यप- रिहार्य इत्यर्थः ॥ विदधत् कुर्वन्सन् दृशं दृष्टिं भ्रमयति भ्रमणं कारयति घूर्णयति च, प्रसिद्धापस्मारो हि मन्त्रादिभिः परिभवत्ययं च तैरप्यपरिहार्य - त्वादतिदुर्जय इति भावः ॥ " शिखरिणी वृत्तम् " ॥ ७७ ॥ अयं च मदनः स्त्रीकटाक्षसंचाराधीनसंचारवत्त्वात्तदाज्ञाकर इत्याह- नूनमाशाकरस्तस्याः सुभ्रुवो मकरध्वजः ॥ यतस्तन्नेत्रसंचारसूचितेषु प्रवर्तते ॥ ७८ ॥ , नूनमिति ॥ सुष्ठु भ्रुवौ भ्रुकुटी यस्यास्तस्याः स्त्रियो मकरध्वजः कामो नूनं निश्चितमाज्ञाकर आज्ञापालकोऽस्ति यतो यस्माद्धेतोस्तस्याः स्त्रियो नेत्रसं- चारेण नेत्रचालनेन सूचितेषु पुरुषेषु प्रवर्तते प्रवृत्तो भवति ॥ " अनुष्टुब् वृत्तम्" ॥ ७८ ॥ स्त्रीष्वत्यन्तासक्तः पुरुषः कमपि जगद्वयवहारं न जानातीत्याह- सति प्रदीपे सत्यग्नौ सत्सु तारारवीन्दुषु ॥ Astanations विना मे मृगशावाक्ष्या तमोभूतमिदं जगत् ॥ ७९ ॥ सतीति ॥ प्रदीपे सति, अग्नौ सति, तारा शुक्रादयः रविः सूर्यः इन्दुश्चन्द्रश्च तेषु तमोनाशकेषु सत्खपि, "सत्सु नानामणिष्वपीत्यपि पाठः " ॥ मृगशावाक्ष्या मृगस्य हरिणस्य शावो बालकस्तस्याक्षिणीवाक्षिणी नेत्रे यस्यास्तया स्त्रिया Digitized by Google शृङ्गारशतकम् ३२. सर्व जगत् तमोभूतं तमोरूपमस्ति ॥ स्त्रीकटाक्षैर्विद्धोऽहं जगति फार्यमकार्य वा किमपि न पश्यामीत्यर्थः ॥ " अनुष्टुव् वृत्तम् " ॥ ७९ ॥ एतादृशीं मोहिकां स्त्रियमेव वर्णयति- मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ॥ पाणिभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ ८० ॥ मुखेनेति ॥ सा प्रसिद्धा स्त्री चन्द्रवत्कान्तं मनोहरं तेन मुखेन [ पक्षे. चन्द्रकान्तेन मणिना, ] तथा महान्तश्च ते नीलास्तैः कृष्णवर्णैः शिरोरुहैः केशैः [ पक्षे महानीलैर्नीलमणिभिः, ] तथा, पद्मं रक्तकमलं तद्वद्रागो र क्तिमा ययोस्ताभ्यां पाणिभ्यां हस्ताभ्यां [ पक्षे पद्मरागाभ्यां पद्मरागमणि - भ्यां, ] रत्नमयीव रत्नप्रचुरेव रेजे शुशुभे ॥ " अनुष्टुब् वृत्तम् " ॥ ८० ॥ गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता ॥ शनैश्वराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ ८१ ॥ गुरुणेति ॥ सा स्त्री गुरुणा महता स्तनभारेण कुचभारेण [ पक्षे गुरु- णा बृहस्पतिना, ] भास्वता देदीप्यमानेन मुखमेव चन्द्रस्तेन, [ पक्षे भाखता सूर्येण वा चन्द्रेण च, ] शनैर्मन्दं चरतस्ताभ्यां पादाभ्यां चरणाभ्यां [ पक्षे शनै- श्वरेण, ] शनैश्चराभ्यामिति द्विवचनं तु पादयोर्विशेषणाभिप्रायेण ग्रहमयीव सूर्यादिग्रहप्रचुरेव रेजे शोभितवती ॥ " अनुष्टुब् वृत्तम् " ॥ ८१ ॥ एतामेव स्त्रियं प्रसिद्धधानुष्कापेक्षया वैलक्षण्येन वर्णयति - मुग्धे धानुष्कता केयमपूर्वा दृश्यते त्वयि । यदा विध्यसि चेतांसि गुणैरेव न सायकैः ॥ ८२ ॥ मुग्धे इति ॥ हे मुग्धे सुंदरि केयमपूर्वा प्रसिद्धधानुष्कापेक्षया विलक्षणा धनुः प्रहरणमस्य धानुष्कं तस्य भावो धानुष्कता धनुष्मत्त्वं त्वयि दृश्यते ॥ 66 तदस्य प्रहरणमित्यर्थे ठक् इसु सुक्तान्तात्क इत्यनेन ठस्य कः" शरदः कृ- तार्थेत्यादिवत्सामान्ये नपुंसकम् ॥ वैलक्षण्यमेवाह यदिति । यद्यस्मात्पुरुषाणां चेतांसि गुणैर्धनुर्ज्याभिरेव आविध्यसि हंसि, सायकैर्बाणैर्न । प्रसिद्धो हि धनुष्मान् बहिर्द्दश्यमानं लक्ष्यं बाणैर्विध्यति त्वं त्वदृश्यमपि पुरुषचेतोरूपं लक्ष्यं गुणैरेव वि- ध्यसि न तु बाणैरित्यदृष्टपूर्वा विलक्षणा तव धनुष्मत्तेति भावः॥"अनुष्टुब् वृत्तम्"॥ रागिविरागिणोर्मध्ये एकः शिव एव राजते नान्ये तेषामुभयथा च्युतत्वादित्याह - एको रागिषु राजते प्रियतमादेहार्धहारी हरो नीरागेष्वपि यो विमुक्तललनासंगो न यस्मात्परः ॥ Digitized by Google 1 भर्तृहरिकृतं दुर्वारस्मरबाणपन्नगविषज्वालावलीढो जनः शेषः कामविडम्बितो हि विषयान् भोक्तुं च मोक्तुं क्षमः ॥ ८३ ॥ एक इति ॥ प्रियतमायाः पार्वत्या देहार्धे हरति तच्छीलो हारी एवंविध एक एव हरः शिवो रागिषु राजते, यो विमुक्तस्त्यक्तो ललनासंगः स्त्रीसंगो ये- नैवंविधो नीरागेष्वपि राजते, यस्माच्छिवात्परोऽन्यः दुर्वारो वारयितुमश- क्यो यः स्मरबाणः कामबाणः स एव पन्नगः सर्पस्तस्य या विषज्वाला त- याऽवलीढ आस्वादितः शेषोऽवशिष्टो जनः कामेन विडम्बितः सन् विषयान्भो- तूं मोक्तुं त्यक्तुं च क्षमः समर्थो न भवतीति शेषः ॥ अयमेक एव शिवपार्वतीप- रिणयात्प्राक् एनं मोहयितुं प्राप्तोऽपि कामो येन दग्धोऽत एव विमुक्तलल- नासंगत्वाद्विरागिषु राजतेस्म पश्चात्पार्वतीतपश्चर्यया तुष्टः सन् तद्वियोगभङ्गभि- या तां देहार्धत्वेन धारयन् रागिष्वपि राजतेस्म नान्ये तथाविधा इति भावः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ८३ ॥ 66 स्त्रीपुरुषयोः स्थिताववस्थाभेदेनानौचित्यं व्युत्क्रमं चाह- इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकाराः॥ यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ८४ इदमिति ॥ इह लोके पुंसां पुरुषाणां जरास्वपि मन्मथस्य कामस्येमे मा - न्मथा विकारा भवन्ति इति यत्, तथा यदपि च नितम्बिनीनां स्त्रीणां स्त- नपतनावधि स्तनपतनपर्यन्तं जीवितं, वा अथवा रतं सुरतं च न कृतमिदम- नुचितमयोग्यमक्रमः क्रमाभावश्चास्तीति शेषः ॥ पुरुषस्य तारुण्यावस्थायां कामविकारोद्भवस्य सार्थक्येऽपि वृद्धावस्थायां तस्य नैरर्थक्यादनुचितत्वं क्र- मवैपरीत्यं च, स्त्रीणां च तारुण्यावस्थायां जीवितस्य रतस्य सफलत्वेऽपि वृ- द्धावस्थायां जीवितस्थिती रताकरणं चानुचितं क्रमवैपरीत्यं चेति भावः ॥ " पुष्पिताग्रा वृत्तम्, अयुजि न युगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिता- प्रेति तल्लक्षणात् ॥ ८४ ॥ " सर्पदंशजन्यविषापेक्षया स्त्रीकटाक्षवीक्षणरूपविषस्य दुश्चिकित्सकत्वमाह- व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना नीलाब्जद्युतिनाऽहिना वरमहं दष्टो न तचक्षुषा ॥ दष्ट सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो मुग्धाक्षीक्षणवीक्षितस्य नहि मे मन्त्रो नवाप्यौषधम् ॥ ८५ ॥ व्यादीर्घेति ॥ अहं व्यादीर्घेणातिविस्तीर्णेन, चलेन चञ्चलेन, वक्रा कुटिला गतिर्यस्य तेन, तेजस्विना कान्तिमता, भोगः फणाऽस्ति यस्य Digitized by Google शृङ्गारशतकम् । तेन, नीलाब्जवन्नीलकमलवद्दधुतिः कान्तिर्यस्य, 'कृष्णसर्पस्यातिविषत्वमस्ती- त्यनेन सूचितम् ' ॥ एवंविधेनाऽहिना सर्पेण दष्टः कृतदशोऽहं भविष्यामीति वरं मनाक् प्रियम् ॥ सर्पदंशजन्यविषबाधा मनाप्रियेत्यर्थः ॥ परंतु तस्या मुग्धाक्ष्याश्चक्षुषा नेत्रेण दष्टो न वरम् ॥ स्त्रीकर्तृककटाक्षदर्शनजन्यविषबाधा न प्रियेत्यर्थः ॥ कुतः ॥ तेनाहिना दष्टे सति दिशि दिशि प्रायेण बाहुल्येन धर्मार्थिनश्चिकित्सका विषवैद्याः सन्ति परंतु मुग्धाक्ष्याः सुंदरस्त्रिया ईक्षणं नयनं तेन वीक्षितस्यावलोकितस्य वीक्षणरूपविषदग्धस्येत्यर्थः ॥ मे मम मन्त्रो विषाप- हारको न, वा अथवा औषधमपि नास्तीत्यर्थः ॥ " शार्दूलविक्रीडितं वृत्तम्"॥ एतदेव भङ्गयन्तरेण वर्णयन्नाह— अपसर सखे दूरादस्मात्कटाक्षविषानलात् प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः ॥ इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधै- श्चटुलवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः ॥ ८६ ॥ अपसरेति ॥ हे सखे त्वं अस्मात् कटाक्षा एव विषानलो विषाग्निर्यरिंम- स्तस्मात् [ शिखानलादिति पाठे कटाक्षा एव शिखाज्वालास्तद्विशिष्टोऽन- लो यस्मिंस्तस्मात् ] प्रकृत्या स्वभावेन विषमः प्रसिद्धसर्पापेक्षया विलक्षण- स्तस्मात्, विलास एव फणा फटा तां बिभर्तीति भृत् तस्मात् एवंविधाद्योषि- त्सर्पात्स्त्रीरूपभुजङ्गमाद्दूरादपसर गच्छ पलायनं कुर्वित्यर्थः ॥ कुतः ॥ हि य- स्मात् इतरफणिना जातितः प्रसिद्धसर्पेण दष्टः पुरुष औषधैश्चिकित्सितुं शक्यः परंतु मन्त्रिणो मन्त्रवन्तः पुरुषाः चटुला चतुरा या वनिता स्त्री सैव भोगी सर्पस्तेन ग्रस्तं दष्टं पुरुषं त्यजन्ति चिकित्सितुं शक्ता न भवन्तीत्यर्थः ॥ "हारणी वृत्तम्, रसयुगहयैन्स नौ स्लौ गोहरिणी तदेति लक्षणात्" ॥८६॥ परस्परं संगतमनसां विरहोऽपि संगम एव विघटितमनस्कानां विरहोऽपि संगम एवेत्याह- विरहोऽपि संगमः खलु परस्परं संगतं मनो येषाम् ॥ यद्धृदयविघटितः संगमोऽपि विरहं विशेषयति ॥ ८७ ॥ विरह इति ॥ येषां मनोऽन्तःकरणं परस्परं संगतं संलग्नमस्तीति शेषः ॥ तेषां विरहोऽपि वियोगोऽपि संगम एव भवतीति शेषः ॥ य- द्यदा हृदयविघटितः विघटितं हृदयं यस्मिन्सः ॥ " वाहिताग्न्यादित्वात्पर- निपातः " एवंविधः संगमोऽपि विरहं वियोगं विशेषयति वर्धयति करोती- त्यर्थः ॥ " आर्या वृत्तम् " ॥ ८७ ॥ Digitized by Google ३.६ भर्तृहरिकृतं पुण्यैर्विना सुंदरवनितालाभो दुर्लभ इति पुण्यकरणविषये चित्तप्रार्थनां करोतीत्याह- यस्याः स्तनौ यदि घनौ जघनं विहारि वक्रं च चारु तव चित्त किमाकुलत्वम् ॥ पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा पुण्यैर्विना नहि भवन्ति समीहितार्थाः ॥ ८८ ॥ यस्या इति ॥ यस्याः स्तनौ कुचौ घनौ सान्द्रो, जघनं कटिपु - रोभागः विहारि विशेषेण मनोहारि, वक्रं मुखं च चारु सुंदरमस्ति यदि तर्हि हे चित्त तवाssकुत्वं किमिति, यदि तस्याः तेषु स्तनादिषु तव वाञ्छा इच्छा अस्ति चेत्तर्हि त्वं पुण्यं कुरुष्व ॥ हि यस्मात् पुण्यैर्विना कस्यापि समीहितार्था वाञ्छितार्था न भवन्ति न सिध्यन्तीत्यर्थः ॥ " वसन्ततिलका वृत्तम्" ॥८८॥ सुन्दरस्त्रीणां विलासस्य महत्त्वं वर्णयति—— इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरत प्रतापप्रारम्भाः स्मरविजयदानप्रतिभुवः ॥ चिरं चेतश्चौरा अभिनवविलासैकगुरवो विलासव्यापाराः किमपि विजयन्ते मृगदृशाम् ॥ ८९ ॥ इमे इति ॥ तारुण्यस्य यौवनस्य श्रीः शोभा तस्या नवो नूतनः परिमलोऽति संमर्द इति यावत् ॥ यद्वा " अतिमर्दो मनोहारिगन्धो येषु ते यौवनश्रियातिशय- शोभावन्त इत्यर्थः॥ स्यात्परिमलोतिमर्दातिमनोहरगन्धयोश्चापीति मेदिनी" प्रौढं यत्सुरतं तद्विषयको यः प्रतापः प्रभावस्तस्य प्रारम्भो येषु ते, स्मरस्य कामस्य विजयस्तस्य यद्दानं तस्य प्रतिभुवो लग्नका : विजयं दातुं समर्था इति यावत् ॥ " स्युर्लनका : प्रतिभुव इत्यमरः " चिरं चिरकालं चेतश्चोरयन्ति ते मनोहा- रिण इत्यर्थः । अभिनवो नूतनो यो विलासस्तस्यैकगुरवो मुख्यशिक्षकाः एवंवि- धा इमे प्रसिद्धाः मृगदृशां हरिणाक्षीणां विलासव्यापाराः शृङ्गारचेष्टा- विशेषाः किमपि अनिर्वचनीयं यथास्यात्तथा विजयन्ते सर्वोत्कर्षेण वर्तन्ते इति ॥ " शिखरिणी वृत्तम् ॥ ८९॥ " ऐहिक पारत्रिकभेदेन पुरुषस्य कर्तव्यमाह - आवासः क्रियतां गाने पापहारिणि वारिणि ॥ स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥ ९० ॥ आवास इति ॥ पुरुषेण पापं हरति तच्छीले गङ्गाया इदं गाङ्गं तस्मिन् Digitized by Google शृङ्गारशतकम् । वारिणि जले तत्तीरे इत्यर्थः ॥ आवासः स्थितिः क्रियतां पुण्यसंपादनार्थ- मित्यर्थः, वा अथवा हारो मुक्ताहारोऽस्ति यस्मिंस्तस्मिन् मनोहारिणि तरुण्या युवत्याः स्तनद्वये आवासः स्थितिः क्रियताम् ॥ ऐहिक सुखार्थमित्यर्थः ॥ "अनुष्टुव् वृत्तम् ॥ ९० ॥ स्त्रीणां प्रशान्तस्यापि वपुषः क्षोभकत्वं श्लेषानुविद्धरूपकविधयाऽऽह— केशाः संयमिनः श्रुतेरपि परंपारं गते लोचने चान्तर्वक्रमपि स्वभावशुचिभिः कीर्ण द्विजानां गणैः ॥ मुक्तानां सतताधिवासरुचिरं वक्षोजकुम्भद्वयं चेत्थं तन्वि वपुः प्रशान्तमपि ते क्षोभं करोत्येव नः ॥ ९९ ॥ केशा इति ॥ केशाः कचाः संयमो बन्धनमस्ति येषां ते [पक्षे संयमिनो योगिरूपाः,] सन्तीति शेषः ॥ तथा लोचने नेत्रे श्रुतेरपि कर्णस्यापि 'श्रुते- रिति जात्यभिप्रायेणैकवचनम् ' 'कर्णयोरित्यर्थः ' परंपारं गते स्तः आकर्ण- विशाले इत्यर्थः ॥ [ पक्षे श्रुतेर्वेदस्य पारं गते संपूर्णवेदाध्यायिनि इत्यर्थः, ] तथा वक्रं मुखमपि खभावेन शुचिभिः शुद्धैर्द्विजानां दन्तानां [पक्षे ब्राह्म- णानां, ] गणैः समूहैः कीर्ण व्याप्तम् " दन्तविप्राण्डजा द्विजा इत्यमरः " तथा वक्षोजौ स्तनावेव कुम्भौ घटौ तयोर्द्वयं युग्मं मुक्तानां मुक्ताहाराणां सततं निरन्तरं अधिवासो वसतिस्तया रुचिरं सुंदरम् ॥ [ पक्षे मुक्तानां जीवन्मुक्ता- नामधिवासस्तेन रुचिरमित्यर्थः, ] हे तन्वि हे कृशाङ्गि इत्थं पूर्वोक्तप्रकारेण प्रशान्तमपि ते वपुः शरीरं नोऽस्माकमन्तरन्तः करणे क्षोभं करोति ॥ "" शार्दूलविक्रीडितं वृत्तम् ॥ ९१ ॥ उद्दीपकसामग्रीसमवधाने स्त्रीणां मनसि मानोदयो न भवतीत्याह- प्रियपुरतो युवतीनां तावत्पद्मातनोतु हृदि मानः ॥ भवति न यावच्चन्दनतरुसुरभिर्निर्मलः पवनः ॥ ९२ ॥ प्रियपुरत इति ॥ यावच्चन्दनतरुणा चन्दनवृक्षेण सुरभिः सुगन्धिर्निर्मल: स्वच्छः पवनो वायुर्न भवति तावत् प्रियस्य पुरतोऽप्रभागे युवतीनां स्त्रीणां हृदि अन्तःकरणे मानोऽभिमानः पदं आतनोतु करोति चेत्करोतु ॥ तत्स- मवधाने तु सुतरां नश्यतीति भावः ॥ " आर्या वृत्तम्" ॥ ९२ ॥ स्त्रीसंगत्यागं कर्तुं विद्वानपि न समर्थ इत्याह- वचसि भवति संगत्यागमुद्दिश्य वार्ता श्रुतिमुखरमुखानां केवलं पण्डितानाम् ॥ Digitized by Google भर्तृहरिकृतं जघनमरुणरत्नग्रन्थिकाञ्चीकलापं कुवलयनयनानां को विहातुं समर्थः ॥ ९३॥ वचसीति ॥ श्रुत्या शास्त्रेण मुखराणि वाचालानि मुखानि येषां तेषां शास्त्रनिपुणानां पण्डितानां संगस्य संगतेस्त्यागमुद्दिश्य वचसि वाण्यां केवलं वार्तैव भवति नतु ते संगत्यागं कृतिविषयतामानयन्तीत्यर्थः ॥ तस्मात् अरुण- रत्नैः पद्मरागमणिभिर्ग्रन्थिर्ग्रथनं यस्मिन्नेतादृशः काञ्चीकलापो यस्मिन्तत् एवं- विधं कुवलयनयनानां कमलनयनानां स्त्रीणां जघनं कटिपुरोभागं विहातुं त्यक्तुं कः समर्थोऽस्तीति शेषः ॥ अपि तु न कोऽपीत्यर्थः ॥ " मालिनी वृत्तम्" ९३ मदनवेगस्य दुष्परिहरत्वं श्वदृष्टान्तेनाह— कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः ॥ क्षुधा क्षामो जीर्णः पिठरककपालार्पितगलः शुनीमन्वेति श्वा हतमपि निहन्त्येव मदनः ॥ ९४ ॥ कृश इति ॥ कृशः क्षीणः, काण एकाक्षः, "काणः काकैकचक्षुषोरिति मेदिनी" खञ्जः खोडः गतिविकल इति यावत् ॥ " खोडे खञ्जस्त्रिषु जरावरा इत्यमरः" श्रवणाभ्यां कर्णाभ्यां रहितो हीनः, पुच्छेन लाङ्गलेन विकलो हीनः, व्रणोऽस्यास्तीति व्रणी, पूयेन किन्न आर्द्रः, कृमीणां कुलं तस्य शतानि तैरा - वृता व्याप्ता तनुः शरीरं यस्य सः, क्षुधा क्षुधया क्षामः क्षीणः, जीर्णः वृ- द्धोऽपि, पिठरकस्य घटस्य कपाले शकले अर्पितो गलः कण्ठो येन सः, दृशोऽपि श्वा शुर्नी अनु पश्चादेति गच्छति नायं शुनीस्वभावो न शुनः खभावः किं तु मदनस्यैवायं प्रभाव इत्याह- हतमपीति ॥ मदनः कामो हतमपि विकलम- पि पुरुषं निहन्त्येव, मारयत्येव न मोचयतीत्यर्थः ॥ " शिखरिणी वृत्तम् ॥ ९४ ॥ इन्द्रियनिग्रहस्यातिदुर्घटत्वं विश्वामित्रादिदृष्टान्तपूर्वकमाह - विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशना- एता - स्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ॥ शाल्यन्नं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवा- स्तेषामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यस्तरेत्सागरम् ॥९५॥ विश्वामित्रेति ॥ वातो वायुः, अम्बु उदकं, पर्णानि पत्राणि तानि अश्न- न्ति ते, एवंविधा अन्नादित्यागिनोऽपि विश्वामित्रः पराशरश्च तौ प्रभृती येषां ते तेऽपि सुकलितं सुन्दरं स्त्रियाः मुखपङ्कजं मुखकमलं दृष्ट्वैव मोहं Digitized by Google शृङ्गारशतकम् । गताः अभूवन्निति शेषः ॥ ये तु मानवाः घृतेन सहितं सघृतं पयो दुग्धं दधि च ताभ्यां युतं शाल्यन्नमोदनं भुञ्जन्ति तेषामिन्द्रियाणां निग्रहो 'यदीति संभावनायां' यदि भवेत्तर्हि विन्ध्यः पर्वतः सागरं समुद्र तरेत् ॥ समुद्रे वि- न्ध्यतरणं यथा दुर्घटं तथा शाल्यन्नादिभोजिनामिन्द्रियनिग्रहो ऽप्यतिदुर्घट इति भावः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ९९ ॥ अत्यन्तापकारजनकत्वेन स्त्रीणां भ्रविक्षेपं खलसादृश्येन वर्णयति— अजितात्मसु संबद्धः समाधिकृतचापलः ॥ भुजङ्गकुटिलः स्तब्धो भ्रूविक्षेपः खलायते ॥ ९६॥ अजितात्मस्विति ॥ स्त्रिया भ्रूविक्षेपः कटाक्षचालनं खलायते खल इवाचरति ॥ " कर्तुः क्यङिति क्य" ॥ कीदृशो भ्रूविक्षेपः खलश्च ॥ न जित आत्मा चित्तं यैस्तेष्वजितेन्द्रियेषु संबद्ध:, तथा समाधौ चित्तैकाग्र्ये [ पक्षे सम्यगाधी मानसपीडायां विषये, ] कृतं चापलं येन सः, तथा भु- जङ्गो जारस्तद्वत् [पक्षे भुजङ्गवत्सर्पवत्, ] कुटिलः, ॥ तथा स्तब्धः स्थिरः [पक्षे गर्विष्ठः, ] एवंविधः ॥ अनुष्टुब् वृत्तम् " ॥ ९६ ॥ "" रूपकविधयाऽधरचुम्बनकुचमर्दनयोः सहेतुकत्वप्रदर्शनपूर्वकत्वं विषयनि-. गरणपूर्वकं दर्शयन् स्त्रीणां बाह्याभ्यन्तरस्वभाववैजात्यमाह - मधु तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम् ॥ अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥ ९७ ॥ मध्विति ॥ योषितां स्त्रीणां वाचि वाण्यां मधु तिष्ठति, हृदि हृदये के- वलं हालाहलं तत्संज्ञकृविषं तिष्ठतीति संबन्धः ॥ अत एव पुरुषेण स्त्रीणा- मधरोऽधरोष्ठो निपीयते हृदयं तु मुष्टिभिरेव ताड्यते ॥ " वैतालीयं वृत्तम्, षड्डिषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः ॥ न समात्रपराश्रिता कला वैतालीयेंऽते रलौ गुरुरिति तलक्षणात् " ॥ ९७ ॥ एतावत्पर्यन्तं कृतेन शृङ्गारवर्णनेन परलोकसाधनं न भवतीति तत्साधकं वैराग्यं संपादयितुमादौ तदन्तरायभूतां स्त्रियं निन्दयन्नाह श्लोकद्वयेन— आवर्तः संशयानामविनयभवनं पत्तनं साहसानां दोषाणां संनिधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् ॥ स्वर्गद्वारस्य विघ्नो नरकपुरमुखं सर्वमायाकरण्डं स्त्रीयन्त्रं न सृष्टं विषममृतमयं प्राणिनामेकपाशः ॥ ९८ ॥ आवर्त इति ॥ संशयानां संदेहानामावर्तः, जलभ्रमणवदविरतसंशयजन- कमित्यर्थः ॥ अविनयस्यानीतिकर्मणो भवनं गृहम्, अविनयाव्यभिचारीत्यर्थः Digitized by Google भर्तृहरिकृतं ॥ साहसानामविचाराणां पत्तनं नगरम्, अविचारप्रचुरमित्यर्थः ॥ दोषाणां सं- निधीयन्तेऽस्मिन्निति संनिधानं स्थानम्, दोषनिवासभूतमित्यर्थः ॥ कपटश- तमयं अनन्तकपटप्रचुरं, अप्रत्ययानामविश्वासानां क्षेत्रमुत्पत्तिस्थानं जनक- मिति यावत् ॥ स्वर्गद्वारस्य विघ्नोऽन्तरायः, नरकपुरस्य मुखम्, सर्वमायानां कपटानां करण्डम्, करण्डवत्सर्वकपटसंग्राहकमित्यर्थः ॥ विषं विषमयम्, अन्तर्विषवन्मारकमित्यर्थः ॥ बहिः अमृतमयममृतप्रचुरम्, प्राणिनां एकपाशो मुख्यबन्धनं एवंविधं स्त्रीयन्त्रं केन सृष्टं निर्मितं तन्न जाने ॥ एवंविधं स्त्रीयन्तं दृष्ट्वा ततो स्थेयमिति भावः दूरतः स्रग्धरा वृत्तम् " ॥ ९८ ॥ सत्यत्वे न शशाङ्क एष वदनीभूतो नवेन्दीवर- 66 द्वन्द्वे लोचनतां गते न कनकैरप्यङ्गयष्टिः कृता ॥ किंत्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि त्वड्यांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥ ९९ ॥ सत्यत्वे नेति ॥ सत्यत्वे याथार्थ्ये विचारिते सतीति शेषः ॥ एष शशाङ्क- 11 श्चन्द्रः वदनीभूतो न, वा अथवा इन्दीवरद्वन्द्वे नीलकमलयुग्मे लोचनतां नेत्रतां गते न, अङ्गयष्टिः शरीरयष्टिरपि कनकैः सुवर्णैः कृता न, किंतु एवं पूर्वोक्तप्रकारेण कविभिः प्रतारितं वञ्चितं मनो यस्य सः, एवंविधः त- त्त्वं याथार्थ्य विजानन्नपि यो जनः त्वक् च मांसं च अस्थि च तन्मयं मृग- दृशां हरिणीदृशां स्त्रीणां वपुः शरीरं सेवते स मन्दो मूढो मूर्ख इति या- वत् ॥ भाग्यहीनो वास्ति ॥ " मूढाल्पा पटुनिर्भाग्या मन्दा इत्यमरः " ॥ शार्दूलविक्रीडितं वृत्तम् ॥ ॥ ९९ ॥ 66 किंच- स्मृता भवति पापाय दृष्टा चोन्मादकारिणी ॥ स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ १०० ॥ ॥ इति श्रीमद्भर्तृहरिविरचितं शृङ्गारशतकं समाप्तम् ॥ स्मृति ॥ या स्त्री स्मृता सती पापाय भवति, तथा दृष्टा च उन्मादं करोति तच्छीला एवंविधा भवति, तथा स्पृष्टा सती मोहाय भवति सा दयिता प्रिया कथं नामेति संभावनायाम् ॥ " अनुष्टुब् वृत्तम् " ॥ १०० ॥ 66 मया कृष्णेन व्यरचि शृङ्गारशतकोपरि ॥ अर्थद्योतनिका व्याख्या प्रीयतां तेन माधवः ॥ १ ॥ इति श्रीमहाबलोपनामक कृष्णसूरिविर- चितायामर्थद्योतनिकाभिधायां टीकायां शृङ्गारशतकं संपूर्णम् ॥ Digitized by Google अथ भर्तृहरिकृतं वैराग्यशतकं प्रारभ्यते । अथ श्रीमद्राजर्षिप्रवरो भर्तृहरिर्द्वितीयं परिणामे वैराग्यजनकं, शृङ्गारश- तकं विधायेदानीं वैराग्यशतकं चिकीर्षुर्वैराग्यफलस्य ज्ञानस्य दाता शिवापे- क्षयाऽन्यो नास्तीति तं वर्णयति - चूडोत्तंसितचारुचन्द्रकलिकाचञ्चच्छिखाभास्वरो लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ॥ अन्तःस्फूर्जदपारमोहतिमिरप्राग्भारमुच्चाटयन् चेतः सद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ १ ॥ चूडोत्तंसितेति ॥ चूडायां केशपाशे उत्तंसिता भूषणीभूता चारू रमणीया या चन्द्रकलिका चन्द्रकला तस्याश्चञ्चन्त्यो देदीप्यमाना याः शिखा: किरणा- स्तैर्भास्वरः शोभायमानः ॥ " घृणिज्वाले शिखे अपीत्यमरः " लीलया दग्धो विलोलश्चञ्चलः कामशलभः कामपतङ्गो येन सः, श्रेयः सर्वेषां कल्याणं तस्य दशा अवस्था तदर्थं अग्रे स्फुरन्प्रकाशमानः लोकानां कल्याणं कर्तुं प्रकटीभूत इत्यर्थः ॥ अन्तरभ्यन्तरे स्फूर्जत्प्रकाशमानोऽपारः पाररहितो यो मोहः स एव तिमिरमन्धकारः अज्ञानमिति यावत्तस्य प्राग्भारोऽतिशयस्तमुच्चाटयन् समूलं ना- शयन एवंविधो भक्तचेतसि ज्ञानं प्रदीपयति प्रकाशयतीति ज्ञानप्रदीपः ॥ [प्र- ज्ञाप्रदीप इति पाठे ] -Sप्ययमेवार्थः ॥ हरः शिवो योगिनां चेत एव सद्म गृहं तस्मिन् विजयते सर्वोत्कर्षेण वर्तते ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ १ ॥ प्रायशो लोके सुभाषितचातुर्यरसज्ञानामभावात्स्वीयं सुभाषितचातुर्य निन्दयन्नाह कविः - - बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ॥ अबोधोपहताश्चान्ये जीर्णमङ्गेषु भाषितम् ॥ २ ॥ बोद्वार इति ॥ बोद्धारो ज्ञानिनः मत्सरेण अन्यस्मिन् दोषदर्शनरूप- मात्सर्येण ग्रस्ता व्याप्ताः, तथा प्रभवः राजानः स्मयेनाहमेव गुणी नान्य इति Digitized by Google भर्तृहरिकृतं गर्वेण दूषिता दोषयुक्ताः, अन्ये पूर्वोक्तातिरिक्तास्ते अबोधेन अज्ञानेनोप- हता नष्टाः सन्तीति किमपि न जानन्तीत्यर्थः ॥ अतः सर्वे भाषितं सुभाषितं अङ्गेष्वेव जीर्णे लीनं भवतीति शेषः । फलाभावाद्बहिर्न प्रकटितमित्यर्थः जीर्णमङ्गे सुभाषितमिति पाठे सुभाषितमिति स्पष्टार्थः संपद्यते ॥ अनुष्टुब् वृत्तम् ॥ महता पुण्येन संपादिता अपि लौकिका विषयाः सुखजनका न भवन्ती - त्याह- न संसारोत्पन्नं चरितमनुपश्यामि कुशलं विपाकः पुण्यानां जनयति भयं मे विमृशतः ॥ महद्भिः पुण्यौघैश्विरपरिगृहीताश्च विषया महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम् ॥ ३ ॥ न संसारेति ॥ अहं संसारे उत्पन्नं चरितं जगद्वयापारं कुशलं सुखकरं नानुपश्यामि ॥ ननु पुण्यकर्म सुखकरं स्यादित्याशङ्कयाह - विपाक इति ॥ पुण्यानां पुण्यकर्मणां विपाकः परिणामो विमृशतो विचारयतो मे भयं जनय- त्युत्पादयति ॥ कुत इत्याह; महद्भिः पुण्यौघैः पुण्यसमूहैः चिरं चिरकालं परि- गृहीताः महान्तो विषयाः विषयिणामनुरागिणां व्यसनं दुःखं दातुमिव जाय- न्ते ॥ " क्षीणे पुण्ये मर्त्यलोकं विशन्तीति वचनात्" प्राप्तानामपि स्वर्गादि- विषयाणां क्षयिष्णुत्वादित्यर्थः ॥ महता यत्नेनाचर्यमाणस्य सकामपुण्यस्य क्षयिष्णुफलजनकत्वेन दुःखदत्वेपि सद्गुरूपदेशादिनाऽऽचीर्यमाणस्य निष्का- मधर्मस्यसुखदत्वादिवशब्दः ॥ अत एव विषयिणामित्युक्तम् ॥ " शिखरिणी वृत्तम् " ॥ ३ ॥ तृष्णाविषयीभूतानां पदार्थानां महता यत्नेनापि संपादयितुमशक्यत्वात् तामेव प्रार्थयन्नाह - उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन संतोषिताः ॥ मन्त्राराधनतत्परेण मनसा नीताः स्मशाने क्षपाः संप्राप्तश्च वराटकोऽपि न मया तृष्णेऽधुना मुंच माम् ॥ ४ ॥ उत्खातमिति ॥ क्षितितलं निधेर्निक्षेपस्य शङ्कया उत्खातं खनितम् । नि- धिलाभतृष्णयेत्यर्थः ॥ तथा गिरेः पर्वतस्य संबन्धिनो धातवः स्वर्णादयो ध्माता अनेकौषधियोगेन तापिताः । स्वर्णादिलाभेच्छ्येत्यर्थः ॥ तथा सरितां नदीनां पतिः समुद्रो निस्तीर्णो लङ्घितः । रत्नादिवाञ्छयेत्यर्थः ॥ तथा नृपतयो राजानो Digitized by Google वैराग्यशतकम् । यत्नेन संतोषिताः संतोषं प्रापिताः । बहुलाभस्पृहयेत्यर्थः ॥ तथा मन्त्रस्याराधने तत्परेण सक्तेन मनसा स्मशाने क्षपा रात्रयो नीताः एवंविधे कृतेपि यत्ने मया वराटकोऽपि कपर्दिकापि न संप्राप्तोऽतो हे तृष्णे अधुना त्वमेव मां मुञ्च त्यज ॥ त्वत्परिहारस्योपायान्तरासाध्यत्वात्त्वामेवाहं प्रार्थये इत्यर्थः ॥ "शार्दू- लविक्रीडितं वृत्तम् ॥ ४ ॥ प्रार्थनयाऽप्यमुञ्चतीं तृष्णां बुद्धा पुनस्तामेव निन्दयन्नाह द्वाभ्याम् — भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किंचित्फलं त्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता निष्फला ॥ भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत्तृष्णे जृम्भसि पापकर्मनिरते नाद्यापि संतुष्यसि ॥ ५ ॥ भ्रान्तमिति ॥ अनेका दुर्गा दुर्घटप्रदेशास्तैर्विषमं देशं भ्रान्तं भ्रमणं कृतं मयेति शेषः ॥ गत्यर्थेति भावे क्तः ॥ तथाऽपि किंचिदपि फलं न प्राप्तम् ॥ तथा उचितं योग्यं, जातिर्ब्राह्मणादि: कुलमुत्तमकुलं तयोरभिमानं त्यक्त्वा सेवा कृता साऽपि निष्फला जातेति शेषः ॥ तथा परगृहेषु मानेन विवर्जितं यथा स्यात्तथा आशङ्कया भयेन काकवत् ध्वाङ्क्षवदुक्तम् "शङ्का भासे वितर्के च" इति मेदिनी ॥ तथाऽपि पापकर्मणि निरते सक्ते एवंविधे हे तृष्णे नृ- म्भसि विकसिता भवसि, अद्याऽपि न संतुष्यसि संतोषं न प्राप्नोषि ॥ एत- दपेक्षयाप्यधिकां कां कां विपत्ति दातुमिच्छतीत्यहं न जाने इति भावः ॥ "शार्दूलविक्रीडितं वृत्तम्" ॥ ५ ॥ किंच— खलोल्लापाः सोढाः कथमपि तदाराधनपरै- निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा ॥ कृतश्चित्तस्तम्भः प्रहसितधियामञ्जलिरपि त्वमाशे मोघाशे किमपरमतो नर्तयसि माम् ॥ ६ ॥ खलोल्लापा इति ॥ खलानां दुर्जनानामुल्लापा नीचभाषणानि तेषां खलानामा- राधनं सेवनं तस्मिन्परास्तत्परास्तैरेवंविधैरस्माभिरिति शेषः ॥ कथमपि महास- ङ्कटेन सोढा मर्षिताः, हसितं तदुपहसितमपि अन्तरभ्यन्तरे तत्कृतकटुभा- षणैरुत्थितं बाष्पं नेत्राश्रु निगृह्य निरुध्य शून्येन स्तब्धेन कार्याकार्यविचार- शून्येनेति यावत् ॥ एवंविधेन मनसा सोढमिति लिङ्गविभक्तिविपरिणामे- Digitized by Google भर्तृहरिकृतं नान्वयः ॥ तथा चित्तस्यान्तःकरणस्य स्तम्भो रोधः वृत्तिनिरोधेन स्थि- रीकरणमिति यावत् कृतः, ॥ तथा प्रहसिते परोपहसिते धीर्बुद्धिर्येषां तेषां परोपहसितकर्तॄणामञ्जलिर्नमस्कारोऽपि कृतः, तथाऽपि मोघा निष्फला आशा यस्या एवंविधा निष्फला हे आशे त्वं अतः कारितान्नर्तनादपरमन्यत् मां किं नर्तयसि नर्तनं कारयसि ॥ " शिखरिणी वृत्तम्" ॥ ६ ॥ जगतो मोहं वर्णयति — - आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ॥ दृष्ट्वा जन्म जरा विपत्ति मरणं त्रासश्च नोत्पद्यते पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ७ ॥ आदित्यस्येति ॥ इदं जगत् मोहमयीं मोहप्रचुरां प्रमाद एव मदिरा तां पीत्वा उन्मत्तभूतं कर्तव्याकर्तव्यविचारशून्यं अभूदिति शेषः ॥ तदेव विवृणोति-आदि- त्यस्य सूर्यस्य गतागतैरस्तोदयरूपैर्गमनागमनैः अहरहः प्रतिदिनं पुरुषस्य जी- वितमायुः संक्षीयते नश्यते, तथा बहवोऽनेकाः कार्यभाराः कार्यातिशयास्तैर्गुरु- भिर्महद्भिः व्यापारैर्व्यवहारैः कालः कियान् गतश्चेति न विज्ञायते पुरुषेणेति शेषः ॥ तथा जन्मोत्पत्तिः जरा च विपत्तिरापत्तिश्च मरणं च तेषां समाहा- रस्तत् दृष्ट्वा स्थितस्याऽपि पुरुषस्य त्रासो जन्मादिजन्यं भयं नोत्पद्यते ॥ जन्मादिविपत्तीर्दृष्टवतोऽपि पुरुषस्य तत्प्रयुक्तं भयं न भवतीत्यर्थः ॥ " शार्दू- लविक्रीडितं वृत्तम्" ॥ ७ ॥ विचारवतो जनस्य स्थितिं वर्णयन्नाह— दीनादीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्येत चेद्गेहिनी ॥ याच्ञाभङ्गभयेन गनद्गलत्रुट्यद्विलीनाक्षरं , को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी जनः ॥ ८ ॥ दीनादीनेति ॥ चेद्यदि दीनेभ्योऽपि अतिशयितानि दीनानि मुखानि येषां तैः क्षुधितैः क्षुधायुक्तैः अतएव क्रोशद्भिराक्रोशद्भिः शिशुकैर्बालकैः सदैव निरन्तरमेव आकृष्टं जीर्णमम्बरं वस्त्रं यस्याः सा ॥ यद्वा दीनेति पृथक् पदम् ॥ आकृष्टजीर्णाम्बरा अतएव दीनेत्यर्थः ॥ निरन्ना शिशुभ्योऽपि देयान्नरहिता अतएव विधुरा विकला ॥ किंकर्तव्यतामूढेति यावत् "विधुरं Digitized by Google वैराग्यशतकम् । स्यात्प्रविश्लेषे न द्वयोर्विकले त्रिष्विति मेदिनी" एवंविधा गेहिनी भार्या दृश्येत दृष्टिगोचरा भवेत् तथाऽपि को मनस्वी जनः याच्ञाया भङ्गस्तस्य भयेन गद्गदं यथास्यात्तथा गलन्ति मुखाद्बहिर्निर्गतानि, त्रुट्यन्ति स्खलन्ति अतएव विलीनानि लुप्तानि अक्षराणि वर्णा यस्मिन्कर्मणि यथा भवति तथा स्वस्य दग्धं यज्जठरमुदरं तस्यार्थे वदेदपि तु न कोऽपीत्यर्थः ॥ विचारवान्जनः पूर्वा- तु र्धोक्तविशेषणविशिष्टां भार्यां दृष्ट्वाऽपि दुष्टजठरभरणार्थे कस्याप्यग्रे न याचत इति भावः ॥ "शार्दूलविक्रीडितं वृत्तम्" ॥ ८ ॥ शरीरिणां मरणस्यातिभयहेतुत्वं वर्णयन्नाह - निवृत्ता भोगेच्छा पुरुषबहुमानो विगलितः समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः ॥ शनैर्यद्युत्थानं घनतिमिररुद्धे च नयने अहो धृष्टः कायस्तदपि मरणापायचकितः ॥९॥ निवृत्तेति ॥ यद्यपीति सर्वत्र संबध्यते ॥ भोगस्य विषयभोगस्येच्छा निवृत्ता, पुरुषस्य पुरुषत्वस्य बहुमानोऽभिमानो विगलितो नष्टः, समानाः स्वसमानव- यसः पुरुषाः सपदि तत्कालं शीघ्रमिति यावत् स्वर्याताः स्वर्ग प्राप्ता मृता इति यावत्, सुहृदोऽवशिष्टसंबन्धिनो जीवितसमं स्वसमानं येषां ते स्वजीविततुल्या आसन्निति शेषः, उत्थानमासनाच्चलनं शनैर्मन्दमभवदिति शेषः, च पुनर्न- यने लोचने घनं निबिडं यत्तिमिरं रोगविशेषस्तेन रुद्धे अवलोकनासमर्थे इति यावत् जाते, अत्र सर्वत्र वृद्धत्वमेव हेतुः ॥ तदपि एतादृशीमवस्थां प्राप्तोऽप्य- यं कायो देहः मरणरूपो योऽपायो नाशस्तेन चकितो भीतो भवति ॥ मरणं नेच्छतीत्यर्थः ॥ यतो धृष्टः अहो इत्याश्चर्ये ॥ तस्मान्मरणभयसदृशमन्यद्भयं नास्तीति भावः ॥ "शिखरिणी वृत्तम् " ॥ ९ ॥ इतरपश्वादिवृत्यपेक्षया मनुष्यवृत्तेर्वैराग्यजनकत्वेन श्रैष्ठयं दर्शयन्नाह - हिंसाशून्यमयत्नलभ्यमशनं धात्रा मरुत्कल्पितं व्यालानां पशवस्तृणाङ्कुरभुजः सृष्टाः स्थलीशायिनः ॥ संसारार्णवलङ्घमक्षमधियां वृत्तिः कृता सा नृणां यामन्वेषयतां प्रयान्ति सततं सर्वे समाप्तिं गुणाः ॥ १० ॥ हिंसेति ॥ हिंसया शून्यं रहितं, अयत्नेनाश्रमेण लभ्यं लब्धुं योग्यमेवंविधं ब्यालानां सर्पाणामशनं भोजनं धात्रा ब्रह्मणा मरुद्वायुरूपं कल्पितं कृतम्, Digitized by Google भर्तृहरिकृतं तथा पशवस्तृणाङ्कुरान् भुञ्जति ते भुजः, तथा स्थलीमकृत्रिमभूमेिं शेरते ते एवंविधाः सृष्टाः। मनुष्यातिरिक्तानां प्राणिनामुपलक्षणमिदम्, संसार एवार्णवः समुद्रस्तस्योलने क्षमा समर्था धीर्येषां तेषां नृणां सा वृत्तिर्निष्कामयजनया- जनादिका कृता, । सा का ॥ यां सततमन्वेषयतां मृगयतां पुरुषाणां सर्वे गुणाः सत्त्वादिगुणकार्याणि जन्ममरणादिरूपसंसारप्रयोजकानि समाप्ति लयं प्रया- न्ति गच्छन्ति ॥ तस्मादीश्वरेण पश्वादीनां साधारण्येन वृत्तिकल्पने ऽपि नृणां संसारोलङ्घनक्षम बुद्धिप्रदानात्तैस्तु यया वृत्त्या संसारोच्छेदः स्यात्सैव वृत्तिराश्र- यणीयेति भावः ॥ "शार्दूलविक्रीडितं वृत्तम् " ॥ १० ॥ इह कर्मभूमौ मनुष्यजन्म प्राप्य भगवद्ध्यानयागादिकर्मकान्तालिङ्गन- रूपत्रितयमकुर्वतः पुरुषस्य जन्मनो वैयर्थ्यं प्रतिपादयन्नाह - न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छिन्तये स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः ॥ नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितं मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ ११ ॥ न ध्यातमिति ॥ संसारस्य विच्छित्तये नाशाय ईश्वरस्य जगन्नियन्तुः पर- मेश्वरस्य पदं चरणं न ध्यातं न ध्यानविषयीकृतमस्माभिरिति शेषः ॥ एवमुत्तर- त्रापि ॥ ईश्वरध्यानं कृत्वा मोक्षसुखं न साधितमिति भावः ॥ तथा स्वर्गस्य द्वारं तस्य यत्कपाटं तस्य पाटने उद्घाटने पटुः समर्थो यो धर्मः यागादिः सोऽपि नोपार्जितो न संपादितो न कृत इति यावत् ॥ यागादिना स्वर्गसुखं न साधितमिति भावः ॥ तथा नार्याः पीनौ पुष्टौ यौ पयोधरौ स्तनौ तयोरूवः सक्थ्नोश्च युगलं युग्मं स्वप्नेऽपि नालिङ्गितं नाश्लेोषतम् ॥ स्त्रिया आलिङ्गनादिना विषयसुखमपि न साधितमित्यर्थः ॥ किंतु मातुर्जनन्याः केवलं यौवनं तारु - ण्यमेव वनं तस्य छेदे वयं कुठाराः कुठारसदृशा जाताः स्मेति शेषः ॥ शार्दूलविक्रीडितं वृत्तम् " ॥ ११ ॥ 66 " इह संसारे यथेच्छं भोगादीनामप्रात्या जन्मनो वैयर्थ्यमाह- भोगा न भुक्ता वयमेव भुक्तास्तपो न तप्तं वयमेव तप्ताः ॥ कालो न यातो वयमेव यातास्तृष्णा न जीर्णा वयमेव जीर्णाः १२ भोगा इति ॥ भोगा विषयभोगा न भुक्ता न सेविता अस्माभिरिति शेषः ॥ एवमुत्तरत्र ॥ किंतु वयमेव भुक्ताः निगीर्णा इति यावत्, कालेनेति Digitized by Google वैराग्यशतकम् । शेषः ॥ तथा तपः कृच्छ्रचान्द्रायणादि न तप्तं न कृतं किं तु वयमेव तप्ताः दुःखं प्राप्ताः ॥ दुःखनाशहेतुभूतं तपो न तप्तमित्यर्थः ॥ तथा कालो घट- कादिर्न यातो न गतः किं तु वयमेव याताः यस्मिन्काले यदुचितं कर्म तद्वि- हीना जाता इत्यर्थः ॥ तथा तृष्णा स्पृहा न जीर्णा किं तु वयमेव जीर्णाः तु शिथिला जाताः ॥ तृष्णाशान्तिर्न जातेत्यर्थः ॥ तस्मात्केनापि प्रकारेण न जन्मनः साफल्यमभूदिति भावः ॥ " उपजाति वृत्तम् " ॥ १२ ॥ फलाभिसंधिपूर्वकं सकामं कर्माचरद्भिरस्माभिः परमार्थहेतुभूतं निष्कामं कर्म कदापि नाचरितमित्याह- क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः सोढा दुःसहशीतवाततपनाः क्लेशान तप्तं तपः ॥ ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शंभोः पदं तत्तत्कर्म कृतं यदेव मुनिभिस्तत्तत्फलैरञ्चितम् ॥ १३ ॥ क्षान्तमिति ॥ क्षमया हेतुना परदत्तदुःखादिकं न क्षान्तं न सोढं मयेति शेषः ॥ एवं सर्वत्र किंतु भयादिहेतुना क्षान्तमित्यर्थः ॥ गृहे उचितं योग्यं सुखं संतोषतः संतोषेण न त्यक्तं किंतु पराधीनत्वादिना व्यक्तम् ॥ दुःसहाः शीतं शैत्यं वातो वायुः तपन ऊष्मा च ते सोढाः क्षान्ताः परंतु क्लेशाद्दुःखा- तपो न तप्तम्, अहर्निशं वित्तं द्रव्यं ध्यातं चिन्तितं परंतु नियमिता ये प्रा- णास्तैः शम्भोः पदं न ध्यातम् ॥ किंतु तत्तत्कर्म कृतम् ॥ तत्किम् ॥ यदेव मु- निभिस्तत्तत्फलैस्तेषां तेषां कर्मणां तानि तानि वा फलानि तैरचितं पूजितं आदरपूर्वकं कृतमिति यावत् ॥ "शार्दूलविक्रीडितं वृत्तम्" ॥ १३ ॥ आमरणपर्यन्तं केनाऽपि प्रकारेण तृष्णापूर्तेरभावात्तद्विषये यत्नो न कार्य इति सूचयन्नाह- बलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः ॥ गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ १४ ॥ बलिभिरिति ॥ मुखमाननं वलिभिराक्रान्तं व्याप्तम्, शिरो मस्तकं पलितैः सितकेशैरङ्गितं चिह्नितमभूदिति शेष उभयत्रापि ॥ गात्राणि हस्ताद्यवयवाः शिथिलायन्ते स्वक्रियाकरणेऽसमर्था भवन्तीत्यर्थः ॥ परंतु एका तृष्णा तरु- णायते तरुणीवाचरति ॥ कदापि शान्ता न भवतीत्यर्थः ॥ अनुष्टुब् वृत्तम्" ॥ १४ ॥ Digitized by Google 66 भर्तृहरिकृतं कर्मवशात्स्वस्मिन्प्राप्तं दौर्गत्यं न शोचनीयमिति श्लेषमर्यादया चन्द्रसूर्य - दृष्टान्तपूर्वकं सूचयन्नाह— येनैवाम्बरखण्डेन संवीतो निशि चन्द्रमाः ॥ तेनैव च दिवा भानुरहो दौर्गत्यमेतयोः ॥ १५ ॥ येनैवेति ॥ येनैवाम्बरखण्डेन वस्त्रखण्डेन [ पक्षे आकाशभागेन ] निशि रात्रौ चन्द्रमाः संवीतो वेष्टितस्तंनैव अंबरखण्डेन दिवा दिवसे भानुः सूर्यो - ऽपि संवेष्टितो भवति ॥ एतयोः सर्वजगन्निर्वाहकरणयोरपि सूर्याचन्द्रमसो- दौर्गत्यं एकवस्त्रखण्डेन निर्वाहकारणरूपं दैन्यमस्ति अहो इत्याश्चर्यमेतत् ॥ एवं समर्थयोरप्येतयोरेतादृशदौर्गत्यसत्त्वे कास्माकं कथेति भावः । अनुष्टुब् वृत्तम् १९ पुरुषस्य स्वयमेव विषयत्यागोऽत्यन्तसुखहेतुरिति सूचयन्नाह - अवश्यं यातारश्चिरतरमुषित्वाऽपि विषया वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् ॥ व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥ १६ ॥ अवश्यमिति ॥ विषया भोग्यपदार्थाश्विरतरं बहुकालमुषित्वाऽपि वासं कृत्वाऽपि अवश्यं यातारो गन्तारो गमिष्यन्त्येव तेषामनित्यत्वात् ॥ एवंसति बुद्धया विषयत्यागे स्वयं गमने च वियोगे विश्लेषे को भेदो न कोपीत्यर्थः ॥ यद्येन भेदेन जनः स्वयममून् विषयान्न त्यजति ॥ विषयाणां इच्छया गमने पुरुषेण बुद्धया त्यागे वियोगे भेदाभावेऽपि स्वयं गमने दुःखहेतुत्वं बुद्धया त्यागे च सुखहेतुत्वमिति सूचयितुं फलभेदं दर्शयति ॥ व्रजन्त इति ॥ एते प्रसिद्धा विषयाः स्वातन्त्र्यात्स्वेच्छया व्रजन्तो गच्छन्तः सन्तो मनसोऽतुलो- नुपमो यो परितापस्तस्मै भवन्ति मनसो दुःखदा भवन्तीत्यर्थः ॥ स्वयं पुरु- षेण त्यक्तास्तु अनन्तमपारं शमसुखं शान्तिसुखं विदधति कुर्वते हि निश्व- येन ॥ तस्माद्विषयत्यागस्य शान्तिसुखहेतुत्वात्तत्त्यागोऽवश्यं पुरुषेण कर्तव्य इति भावः ॥ " शिखरिणी वृत्तम् ॥ १६ ॥ तृष्णाशान्तेरत्यन्तसुखहेतुत्वमाह - विवेकव्याकोशे विद्धति शमे शास्यति तृषा परिष्वङ्गे तुङ्गे प्रसरति तरां सा परिणतिः ॥ जराजीर्णैश्वर्यग्रसनगहनाक्षेपकृपण- स्तृषापात्रं यस्यां भवति मरुतामप्यधिपतिः ॥ १७ ॥ Digitized by Google वैराग्यशतकम् । विवेकेति ॥ विवेकस्य व्याकोशो विकसनं यस्मिन्तस्मिन् शमे विदधति कुर्वति सति, तुङ्गे उन्नते तृषायाः परिष्वङ्गे आश्लेषे शाम्यति सति, सा परि- णतिः सुखविशेषरूपः परिणामः प्रसरतितरामतिशयेन विस्तारं प्राप्नोति ॥ सा का ॥ यस्यां परिणतौ विषये जरया जीर्णमैश्वर्य, प्रसनं अन्नादिभक्षणं तन्निमित्तो गहनो गम्भीरो य आक्षेपो निन्दा च ताभ्यां कृपणः एवंविधो म- रुतां देवानामधिपतिरिन्द्रोऽपि यस्यां परिणतौ तृषापात्रं तृष्णाभाजनं भवतीति ॥ यस्यां परिणतौ विषये साक्षादिन्द्रोऽपि स्पृहां करोतीत्यर्थः ॥ " शिखरिणी वृ- त्तम् " ॥ १७ ॥ विषयवासनापरित्यागस्यात्यन्तदुर्घटत्वमाह-- भिक्षाशनं तदपि नीरसमेकवारं शय्या च भूः परिजनो निजदेहमात्रम् ॥ वस्त्रं च जीर्णशतखण्डमयी च कन्था हाहा तथाऽपि विषया न परित्यजन्ति ॥ १८ ॥ भिक्षेति ॥ भिक्षाया अशनं भोजनं, तदपि नीरसं रसरहितं तदपि एक- वारं न द्विवारम्, तथा शय्या च शयनं च भूर्भूमिः न तूलादि, तथा परिजनः परीवारो निजदेहमात्रं स्वदेहमात्रं न स्त्रीपुत्रादि, तथा वस्त्रमाच्छादनं जीर्णा - नि यानि शतखण्डानि तत्प्रचुरा कन्था न तदतिरिक्तं किंचित्, तथापि एवं सत्यपि विषया भोग्यपदार्थवासना न परित्यजन्ति । हाहा अतिकष्टमित्यर्थः ॥ " वसन्ततिलका वृत्तम्" ॥ १८ ॥ कविजनैरतिरमणीयत्वेन वर्णितमपि स्त्रीणां रूपं विचारे कृते वस्तुतोऽति- निन्द्यमिति वर्णयन्नाह - स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ॥ स्रवन्मूत्रक्लिनं करिवरकरस्पर्धि जघनं मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम् ॥ १९ ॥ स्तनाविति ॥ मुहुः सदैव निन्द्यं कुत्सितं रूपं कविजनविशेषैः कविश्रेष्ठै- गुरु महत् अतिरमणीयभिति यावत्, कृतं कल्पितमित्यर्थः ॥ कथमित्याह । स्त- नाविति ॥ वस्तुतो मांसस्य ग्रन्थी एवंविधौ स्तनौ कुचौ कनकस्य सुवर्णस्य कलशौ घटाविति उपमितौ कनककलशोपमानेन वर्णितावित्यर्थः ॥ तथा Digitized by Google भर्तृहरिकृतं वस्तुतः श्लेष्मण अगारं गृहं एवंविधं यन्मुखमाननं तदपि च शशाङ्केन तु- लितं चन्द्रोपमानेन वर्णितमिति यावत् ॥ तथा वस्तुतः स्रवत्प्रस्रवद्य- न्मूत्रं तेन क्विनमा यज्जघनं कटिपुरोभागः तदेव करिवरो हस्तिश्रेष्ठस्तस्य करः शुण्डादण्डस्तं स्पर्धते तच्छीलं तत्सदृशत्वेन वर्णितमिति यावत् ॥ कवि- जनैरतिरम्यत्वेन वर्णितस्यापि स्त्रीरूपस्यातिकुत्सितत्वेन तद्विषयेऽत्यन्ताभि- लाषो न करणीय इति भावः ॥ " शिखरिणी वृत्तम् " ॥ १९ ॥ मोहस्य दुर्निवारत्वं वर्णयन्नाह - अजानन्माहात्म्यं पततु शलभस्तीव्रदहने स मीनोऽप्यज्ञानाद्वडिशयुतमश्नातु पिशितम् ॥ विजानन्तोऽप्येतद्वयमिह विपज्जालजटिला- न मुश्चामः कामानहह गहनो मोहमहिमा ॥ २० ॥ अजानन्निति ॥ शलभः पतङ्गः माहात्म्यमर्थादग्नेः अजानन्न जानन्सन् तीव्रस्तीक्ष्णो दहनोऽग्निस्तस्मिन्पततु, तथा स प्रसिद्धो मीनो मत्स्योsपि पि- शितं मांसं बडिशेन मत्स्यवेधनेन युतमिति अज्ञानात् अश्नाति चेत् अश्नातु भक्ष- यतु, वयं तु इह संसारे विशेषेण विजानन्तो ज्ञानवन्तोऽपि विपज्जाले नापज्जा - लेन जटिलान्व्याप्तान् कामान् विषयाभिलाषान्न मुञ्चामो न त्यजामः ॥ किं- त्याश्रयामः, एतद्विषयाश्रयणं गहनो दुर्ज्ञेयो मोहस्य महिमाsस्ति, अहहेति खेदे " शिखरिणी वृत्तम्" ॥ २० ॥ खलानामविनीतं चरितमतिदुःसहमित्याह- फलमलमशनाय स्वादु पानाय तोयं शयनमवनिपृष्ठे वल्कले वाससी च ॥ निधुवनमधुपानभ्रान्तसर्वेन्द्रियाणा- मविनयमनुमन्तुं नोत्सहे दुर्जनानाम् ॥ २१ ॥ फलमिति ॥ अशनाय भोजनाय फलमलं पर्याप्तम् ॥ ओदनादि नापेक्षित- मित्यर्थः ॥ अलमित्यस्योत्तरत्राप्यन्वयः ॥ पानाय तृषाशान्तये स्वादु मृष्टं तो- यमुदकम् न मद्यादि ॥ अवनिपृष्ठे भूपृष्ठे शयनं न पर्यङ्कादौ ॥ वाससी वस्त्रे वल्कले न कौशेयादी ॥ अतो निधुवनं मैथुनमेव मधु मद्यं तस्य पानं तेन, यद्वा निधुवनं मधु च ताभ्यां [ धनलवमध्विति पाठे ] धनस्य लबो केशः स एव मधु तस्य पानं तेन भ्रान्तानि सर्वाणि इन्द्रियाणि येषां तेषां Digitized by Google वैराग्यशतकम् । दुर्जनानामविनयमनम्रतापूर्वकमाचरणं अनुमन्तुमनुमोदितुमहं नोत्सहे समर्थी न भवामीत्यर्थः ॥ वन्यफलादिना जीवनादिकं वरं न तु खलसहवास इति भावः ॥ मालिनी वृत्तम् " ॥ २१॥ 66 अधुनातनानां जनानां जगत्संबन्धि यत्किंचिदंशे स्वामित्वमुपलभ्य तद्वि- षये उन्मादपूर्वकमभिमानकरणमनुचितमित्याह— विपुलहृदयैर्धन्यैः कैश्विजगजनितं पुरा विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ॥ इहहि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥ २२ ॥ विपुलेति ॥ विपुलं महत् हृदयं येषां तैरुदारमनस्कैरिति यावत्, धन्यैः पुण्यवद्भिः कैश्चिद्ब्रह्मादिभिः पुरा इदं जगज्जनितमुत्पादितम् ॥ अपरैर्विष्ण्वा- दिभिर्विधृतं धारितं पालितमिति यावत् ॥ अन्यैः परशुरामादिभिश्च वि- जित्य जित्वा तृणं यथा तृणमिव ॥ यथाशब्द इवार्थे ॥ " ववा यथा तथै- वैवं साम्ये इत्यमरः " ॥ कश्यपादिभ्यो दत्तम् ॥ इह हि अस्मिन्लोके अन्ये धीरा बलिप्रभृतयश्चतुर्दश भुवनानि भुञ्जते उपभुञ्जते ॥ अत्र भुजधातुरूप- भोगार्थो न पालनार्थः ॥ तथापि कतिपयानि च पुराणि नगराणि तेषां स्वाम्ये खामित्वे सति पुंसां एष मदज्वरः कः अत्यन्तमयोग्य इत्यर्थः ॥ ब्र- ह्मादिभिरपि जगज्जननादि कार्ये कृतेऽपि तादृश उन्मादो न कृतस्तदपेक्षया क्षुद्रजनानां जगत्संबन्धि यत्किंचिदंशलाभेन तद्विषये उन्मादपूर्वकमभि- मानकरणमनुचितमिति किमु वक्तव्यमिति भावः ॥ " हरिणी वृत्तम् ॥ रस- युगहयैन्स म्रौ स्लो गौ यदा हरिणी तदेति तल्लक्षणात्" ॥ २२ ॥ कंचिद्राजानं प्रति कस्यचिद्वैराग्यवतः पुरुषस्योक्तिवर्णनेन निःस्पृहत्वस्य श्रेष्ठत्वं सूचयन्नाह— त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ॥ इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरं यद्यस्मासु पराब्युखोऽसि वयमप्येकान्ततो निःस्पृहाः ॥ २३ ॥ त्वमिति ॥ हे राजन् त्वं राजा, राजत्वेनोन्नतश्चेत् वयमपि उपासितः सेवितो यो गुरुस्तस्माल्लब्धा या प्रज्ञा कार्याकार्यविवेकवती बुद्धिस्तस्यास्तया Digitized by Google भर्तृहरिकृतं योऽभिमानो गर्वस्तेनोन्नता उन्नति प्राप्ताः स्मः ॥ त्वं विभवैर्गजतुरगाद्यैश्वर्यैः ख्यातोऽसि, नोऽस्माकमपि यशांसि कवयो दिक्षु प्रतन्वन्ति विस्तारयन्ति, त्व- मिव वयमपि लोके प्रसिद्धा इत्यर्थः ॥ इत्थं पूर्वोक्तप्रकारेण हे मानद मानं द्यति खण्डयति तत्संबुद्धिः हे मानद, उभयोरप्यावयोरन्तरं भेदोऽतिदूरमतिशयेन नास्ति ॥ तस्माद्यदि त्वमस्मासु विषये पराङ्मुख आदररहितस्तर्हि वयमपि एकान्ततोऽत्यन्तं निःस्पृहा वाञ्छारहिताः स्मेति शेषः ॥ अत्यन्तनिःस्पृह- त्वाद्वयं त्वदीयादरापेक्षां सुतरां न कुर्म इति भावः ॥ " शार्दूलविक्रीडितं " वृत्तम् ॥ २३ ॥ लोके भूपतित्वाभिमानोऽतितुच्छत्वाद्वृथैवेत्याह- अभुक्तायां यस्यां क्षणमपि न यातं नृपशतै- र्भुवस्तस्या लाभ क इव बहुमानः क्षितिभुजाम् ॥ तदंशस्याप्यंशे तदवयवलेशेऽपि पतयो विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ २४ ॥ अभुक्तायामिति ॥ यस्यां क्षणमपि क्षणमात्रकालमपि अभुक्तायां सत्यां नृपशतैरनेकनृपैर्न यातं न गमनं कृतं, किं तु अनन्ताः पूर्वे नृपतयो भुक्त्वैव याता न तु चिरकालं स्थिता इत्यर्थः ॥ अचिरस्थायि संभोगवत्यास्तस्या लाभे न किंचित्फलमित्याह - भुव इति ॥ तस्याः पृथिव्या लाभे क्षितिभुजां क इव बहुमानो न कोऽपीत्यर्थः ॥ सत्यपि संभोगलाभे न सर्वस्याः किं तु तल्लेशमात्रस्य सः, तथा च तल्लाभेन महान्संतोषो न विधेय इत्याह-तदं- शस्येति ॥ तस्याः पृथिव्या अंशस्याप्यंशे तथा तस्यांशस्यावयवलेशस्तस्मिन् वयं पतयः स्वामिन इति जडा मूर्खाः विषादे कर्तव्ये सति प्रत्युत विपरीतं मुदं हर्ष विदधति कुर्वते ॥ यत्किचिदंशे पतित्वलाभेन हर्षकरणमनुचित- मिति भावः ॥ " शिखरिणी वृत्तम् " ॥ २४ ॥ परिच्छिन्नैश्वर्यवद्भयो राजभ्यो धनादियाचनमत्यन्तमनुचितमिति सूचयं- स्तेभ्यो धनाकाङ्क्षिणः पुरुषान् निन्दयन्नाह - मृत्पिण्डो जलरेखया वलयितः सर्वोऽप्ययं मन्वणु- रङ्गीकृत्य स एव संयुगशतै राज्ञां गणैर्भुज्यते ॥ नो दद्युर्ददतेऽथवा किमपि ते क्षुद्रा दरिद्रा भृशं घिग् धिगु तान्पुरुषाधमान्धनकणान्वाञ्छन्ति तेभ्योऽपि ये २५ मृत्पिण्डेति ॥ सर्वोऽप्ययं मृत्पिण्डः पृथ्वीरूपो यतो जलरेखया समुद्रेण व- Digitized by Google वैराग्यशतकम् । लयितो वेष्टितोऽस्तीति शेषः ॥ [परिवृत] इति पाठेऽपि स एवार्थः ॥ ननुइति वितर्के अयं अणुरल्पोऽस्ति न त्वपरिच्छिन्नः ॥ स एव संयुगशतैः संग्रामशते- रङ्गीकृत्य स्वीकृत्य राज्ञां गणैः समूहैर्भुज्यते ॥ [ भागीकृत्य तमेव संयुगशतै राज्ञां गणा भुञ्जते ] इति पाठे संयुगशतैस्तमेव भागीकृत्य विभागं कृत्वा राज्ञां गणाः समूहा भुञ्जते इत्यर्थः ॥ ते राजानः पूर्वं नो दद्युरथवेदानों किमपि यत्किंचिद- दते अतएव क्षुद्रास्तुच्छा दरिद्राः कृपणाः सन्ति । तथापि ये पुरुषास्तेभ्यो- ऽपि धनकणान्द्रव्यलेशान्वाञ्छन्ति ॥ [ धनलव ] मित्यपि पाठः ॥ तान्पुरुषा- धमान्पुरुषापसदान् धिग् धिगिति ॥ धिग्योगे द्वितीया ॥ ते पुरुषा अतिनिन्द्या इत्यर्थः ॥ "शार्दूलविक्रीडितं वृत्तम्" ॥ २५ ॥ विद्वदवमानिनः केवलं नटादिसत्कारकारिणः कुत्सितस्य राज्ञः सेवाया अत्यन्तानौचित्यमिति सूचयन्नाह— न नटा न विटा न गायना न परद्रोहनिबद्धबुद्धयः ॥ नृपद्मनि नाम के वयं कुचभारानमिता न योषितः ॥ २६ ॥ नेति ॥ वयं नटाः शैलूषा न ॥ "शैलालिनस्तु शैलूषा" इत्युपक्रम्य " भरता इत्यपि नटा इत्यमरः" ॥ विटा जाराः परस्त्रीवशीकरणे समर्था इति यावत् ॥ "वेश्यापतिर्भुजङ्गः स्याद्विट: पाल्लुविकः स्मृत इति हलायुधः " गायना गा- यन्ती ते गायना गानकर्तारः "ण्युट् चेति कर्तरि ण्युट् " परेषां द्रोहे निबद्धा बुद्धिर्येषां ते न ॥ [ न च सत्येतरपक्षपातिन] इति पाठे सत्यादितरदसत्त- स्मिन्पक्षपातोऽस्त्येषां ते असत्पक्षपातिन इति यावत् ॥ कुचभारेण स्तनभारेण नमिता नम्रा योषितः स्त्रियोऽपि न, [स्तनभारोन्नमिता ] इत्यपि पाठः ॥ अतो नृपसद्मनि राजगृहे उक्तानामेतेषां मध्ये वयं के न केऽपीत्यर्थः ॥ कथ- मपि न मानार्हा इत्यर्थः ॥ यत्र राज्ञः सभायां नटादीनामेव संमानार्हत्वं न विदुषां तस्य राज्ञ आराधनमस्मादृशामनुचितमिति भावः ॥ "वैतालीयं वृत्तम् ॥ षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः ॥ न समात्रपराश्रिताकला वैतालीयेऽन्ते रलौ गुरुरिति ॥ २६ ॥ कालवशेन विद्याया उत्तरोत्तरं ह्रासं वर्णयन् मूर्खराजसेवाविषये परमादर- मविधाय संसारोच्छेदहेतुभूतां विद्यामेव संपादयेदिति सूचयन्नाह - पुरा विद्वत्ताssसीदुपशमवतां क्लेशहतबे गता कालेनासौ विषयसुखसिद्ध पै विषयिणाम् ॥ Digitized by Google भर्तृहरिकृतं इदानीं तु प्रेक्ष्य क्षितितलभुजः शास्त्रविमुखा- नहो कष्टं सापि प्रतिदिनमधोधः प्रविशति ॥ २७ ॥ पुरेति ॥ पुरा पूर्व विद्वत्ता, उपशमः शान्तिरस्त्येषां तेषां आसीत् ॥ [ अमलिनधिया ] मिति पाठे न मलिना कामक्रोधादिना कलुषिता धीर्बुद्धिर्येषां तेषामित्यर्थः ॥ क्लेशस्य संसारजन्यदुःखस्य हतिर्नाशस्तस्यै आसीत् ॥ संसारदुः- खनाशसमर्थाऽऽसीदित्यर्थः ॥ असावेव कालेन गता प्राप्ताऽपि सती विषयिणां विषयसंबन्धि यत्सुखं तस्य सिद्धयै आसीत्, विषयसुखसिद्धिप्रदैवासीदित्यर्थः॥ इदानीं तु वर्तमानकाले तु क्षितितलं भुञ्जन्ति तान् क्षितितलभुजो राज्ञः, [क्षि- तिलवभुज ] इति पाठे क्षितेः पृथिव्या लवं लेशं एकदेशमिति यावत् ॥ भुञ्जन्ति तानित्यर्थः ॥ शास्त्रविमुखान् शास्त्रपराङ्मुखान् प्रेक्ष्य दृष्ट्वा साऽपि विद्वत्ता प्रतिदिनमहरहः अधोधः प्रविशति गच्छति ॥ अत्यन्तनीचस्थितिं प्राप्तेत्यर्थः ॥ इत्यहो कष्टम् ॥ विद्यायाः समूलोच्छेददशामालोच्य तद्रक्षणविषये पुरुषेण यत्नोऽवश्यं विधेय इति भावः ॥ " शिखरिणी वृत्तम् " ॥ २७ ॥ जन्मप्रभृति मरणपर्यन्तं श्रद्धापूर्वकं भगवदाराधनं कुर्वतां पुरुषाणामेव जन्मसाफल्यं नेतरेषामिति सूचयन्नाह - सकः, स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवलं कपालं यस्योचैर्विनिहितमलङ्कारविधये ॥ नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना नमद्भिः कः पुंसामयमतुलदर्पज्वरभरः ॥ २८ ॥ स जात इति ॥ स पुरुषः कोऽपि जात उत्पन्न आसीत् ॥ सफलजन्मेत्यर्थः ॥ यस्य धवलं शुभ्रं कपालं शिरोऽस्थि मदनस्य कामस्य रिपुः शिवस्तेन अलङ्कारस्य भूषणस्य विधिर्विधानं तस्मै अलंकरणायेति यावत् उच्चैरुन्नतं यथा स्यात्तथा मूर्ध्नि विनिहितं धृतम् ॥ अधुना सांप्रतं प्राणस्य त्राणे त्राणाय वा प्रवणा नम्रा मतिर्येषां तैरतएव नमद्भिर्नमस्कारं कुर्वद्भिः अन्यैर्जातैः कै- चिन्नृभिर्हेतुभिः पुंसां इतरजननमनेन सन्तुष्यतां पुरुषाणामयं प्रत्यक्षतोऽनुभू- यमानः अतुलोऽनुपमो दर्पज्वरो गर्वतापस्तस्य भरोऽतिशयः कः आत कुत्सितः व्यर्थ इति यावत् ॥ जन्मारभ्य मरणपर्यन्तं श्रद्धापूर्वकं भगवदाराधनमेव कु- तां तेन तुष्यता भगवता तेषामेव कस्यचिदवयवस्य शिरसा धारणेनानुगृ- हीतानामेव जन्मसाफल्यं तदितरेषां कतिपयजननमनमात्रेण संतुष्यतां तेनैव Digitized by Google वैराग्यशतकम् । महान्तं गर्वे वहां केनापि प्रकारेण भगवदननुगृहीतानां जन्मनः सर्वथा वैफल्य- मिति भावः ॥ " शिखरिणी वृत्तम् 113411 कस्यचिन्निःस्पृहस्य राज्ञा सह संवादमुखेन स्वसाम्यं वदतः पथिकस्य वृ- त्तान्तं वर्णयन् राजसेवनस्यातितुच्छत्वं सूचयन्नाह अर्थानामीशिषे त्वं वयमपि च गिरामीश्महे यावदित्थं शूरस्त्वं वादिदर्पज्वरशमनविधावक्षयं पाटवं नः ॥ सेवन्ते त्वां धनान्धा मतिमलहतये मामपि श्रोतुकामा- मय्यप्यास्था न चेत्सा त्वयि मम सुतरामेष राजन् गतोऽस्मि २९ अर्थानामिति ॥ हे राजन् स्वमर्थानां द्रव्याणामीशिषे ईशिताऽसि वयमपि च गिरां वाणीनामीश्महे ईशितारः स्मः ॥ यावत्संपूर्णमित्थमनेन प्रकारेणास्ति ॥ त्वं शूरः शत्रुजये समर्थोऽसि ॥ नोऽस्माकं च वादिनां प्रतिपक्षिणां दर्पज्वरो - Sहंकारतापस्तस्य शमनविधौ नाशनविधौ अक्षयं निश्चलं पाटवं पटुत्वमस्ति ॥ वादिविजये वयं शूरा इत्यर्थः ॥ धनान्धा धनप्राप्त्यर्थे किं कर्तव्यं किं न कर्तव्यमिति विवेकशून्यास्त्वां सेवन्ते ॥ मतेर्बुद्धेर्मलः कालुष्यं तस्य हतये नाशाय श्रोतुकामा उपनिषदादि श्रोतारो मामपि सेवन्ते इति संबन्धः ॥ एवं सत्यपि यदि मय्यपि तवाssस्था न चेत्तर्हि ममाऽपि त्वयि सुतरां सा नास्ति, हे राजन् एषोऽहं गतोऽस्मि ॥ एवं साम्योद्भावनं कुर्वता गच्छता निःस्पृहेण- पथिकेनेव केनाऽपि पुरुषेणातिगहना राजसेवा न कार्याऽतितुच्छत्वात्कि तु भगवद्भजनमेव कर्तव्यमिति भावः ॥ स्रग्धरा वृत्तम् " ॥ २९ ॥ दुर्वृत्तराजादिसेवनेन जीवनापेक्षया भिक्षाशनादिना जीवनं वरमिति सूचयन् कस्यचिद्वैराग्यवत उक्तिमाह- 66 अशीमहि वयं भिक्षामाशावासो वसीमहि ॥ शीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ ३० ॥ अशीमहीति ॥ वयं भिक्षामेवाशीमहि भुञ्जामहे, आशा दिगेव वासो वस्त्रं वसीमहि परिदध्महे, महीपृष्ठे पृथ्वीतले शयीमहि खपामः, ईश्वरैरैश्वर्ययुक्तैः पुरु- बैः किं कुर्वीमहि किं कुर्महे ॥ प्रयोजनाभावादित्यर्थः ॥ "अनुष्टुब्रू वृत्तम्"॥३०॥ इह संसारे सुखहेतुभूतानां मानादीनां नाशे सति पुनस्तत्संपादने यत्नम- विधाय गङ्गया विराजमाने हिमालयकुजे निवास एवं विधेय इत्याह- माने म्लायिनि खण्डिते च वसुनि व्यर्थ प्रयातेऽर्थिनि क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने ॥ Digitized by Google भर्तृहरिकृतं युक्तं केवलमेतदव सुधियां यज्जहुकन्यापयः- पूतप्रावगिरीन्द्रकन्दरदरीकुञ्ज निवासः क्वचित् ॥ ३१ ॥ मान इति ॥ माने ग्लायिनि गलिते सति, वसुनि द्रव्ये खण्डिते नष्टे सति, अर्धिनि याचके व्यर्थे सत्काररहितं यथास्यात्तथा प्रयाते गते सति, बन्धुजने क्षीणे सति, परिजने परिवारे गते सति, यौवने तारुण्ये शनैर्मन्दं मन्दं नष्टे सति सुधियां केवलमेतदेव युक्तं योग्यम् ॥ एतत्किम् ॥ जह्रुक- न्याया भागीरथ्याः पयसा पूताः पवित्रा ग्रावाणः पाषाणा यस्मिन्नेवंविधो गिरीन्द्रो हिमालयस्तस्य कन्दरो विवरम् ॥ "कन्दरोऽङ्कुरे ॥ विवरे च गुहायां चेति मेदिनी " ॥ तस्मिन् या दरी गुहा तस्यां कुञ्जो लतापिहितप्रदेशस्त- स्मिन् कचिन्निवासो वसतिरिति यत् ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥३१॥ क्लेशबहुलेतरधनिकचेतःप्रसादकरणापेक्षया खखान्तः प्रसन्नताकरणमत्यन्त- सुखप्राप्तिकरमिति स्वचित्तं प्रति बोधयतः कस्यचिदुक्तिमनुवदन्नाह- परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा 66 प्रसादं किं नेतुं विशसि हृदय क्लेशकलिलम् ॥ प्रसन्ने त्वय्यन्तः स्वयमुदितचिन्तामणिगुणे विमुक्तः संकल्पः किमभिलषितं पुष्यति न ते ॥ ३२ ॥ परेषामिति ॥ हे हृदय, हे मनः परेषामन्येषां चेतांसि प्रतिदिवसं दिवसं- दिवसं प्रति बहुधा बहुप्रकारेणाऽऽराध्य संसेव्य प्रसादं प्रसन्नतां नेतुं प्राप्तं क्लेश- रूपकलिलं गहनं दुःखमरण्यं वेति यावत् ॥ किं विशसि प्रविशसि । स्वयं उदिताः प्रादुर्भूताश्चिन्तामणेर्गुणा यस्मिन्नेवंविधे त्वयि अन्तरभ्यन्तरे प्रसन्ने सति विमुक्तस्त्यक्तः संकल्पः तेऽभिलषितमिच्छितं किं न पुष्यति अपि तु सर्व पुष्यत्येवेत्यर्थः ॥ " शिखरिणी वृत्तम् " ॥ ३२॥ प्रसन्नमनसां शिवभक्तिं कुर्वतां पुरुषाणां कदापि दुःखं न भवति किंतु सर्वदा सुखमेव भवतीति सूचयन्नाह - स्थितिः पुण्यारण्ये सह परिचयो हन्त हरिणैः फलैर्मेध्या वृत्तिः प्रतिदिवसतल्पानि दृषदः ॥ इतीयं सामग्री भवति हरभक्तिं स्पृहयतां वनं वा गेहं वा सदृशमुपशान्तैकमनसाम् ॥ ३३ ॥ स्थितिरिति ॥ पुण्यारण्ये पुण्यकारकवने स्थितिः स्थानम्, हन्तेति हर्षे ॥ Digitized by Google वैराग्यशतकम् । हरिणैर्मृगैः सह परिचयः संबन्धः फलैर्बन्यफलैर्मेध्या पवित्रा वृत्तिजीविका, दृषदः पाषाणाः प्रतिदिवसं तल्पानि शय्याः, इति अनेन प्रकारेणेयं हरस्य शिवस्य भक्ति स्पृहयतामिच्छतां उपशान्तं रागादिरहितमेकं केवलं मनो येषां तेषां पुरुषाणां सामग्री परिकरो भवति अतस्तेषां वनमरण्यं गेहं गृहं वा सदृशं तुल्यमस्तीति शेषः ॥ " वृत्तं पूर्वोक्तमेव " ॥ ३३ ॥ आशुविनाशिनां प्राणानां रक्षणार्थ राजादीनामग्रे स्वगुणख्यापनादिकम- नुचितमिति सूचयन्नाह - अमीषां प्राणानां तुलितबिसिनीपत्रपयसां कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ॥ यदाख्यानामग्रे द्रविणमदनिःशङ्कमनसां कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥ ३४ ॥ अमीषामिति ॥ विगतो विवेको येषां तैरस्माभिः बिसिन्याः कमलिन्याः पत्रेषु पयो जलं तुलितं बिसिनीपत्रपयो येषां तेषां अचिरस्थायिनामित्यर्थः ॥ एवंविधानां अमीषां प्राणानां कृते प्राणरक्षणार्थमित्यर्थः ॥ किं न व्यवसि- तं न कृतम् ॥ अपि तु सर्वमेव कृतमेवेत्यर्थः ॥ यद्यस्मात् द्रविणस्य धनस्य मदेन गर्वेण निःशङ्कं मनो येषां तेषामाढ्यानां धनिकानामग्रे वीता गता त्री- डा लज्जा येषां तैरस्माभिर्निजगुणानां स्वकीयगुणानां कथाकथनं तद्रूपं यत्पा- तकं तदपि कृतमिति ॥ 66 शिखरिणी वृत्तम् " ॥ ३४ ॥ सततमात्मापकारजनकमेव कर्म कुर्वतः पुरुषस्य पश्चात्तापपूर्वको त्तत्यनुवादेन आत्मसुखजनकमेव कर्म सदा कर्तव्यमिति सूचयन्नाह— अनावर्ती कालो व्रजति स वृथा तन्न गणितं दशास्तास्ताः सोढा व्यसनशतसंपातविधुराः ॥ कियड्याचक्षामः किमिव बत नात्मन्यपकृतं किमस्माभिर्यावत्पुनरपि तदेव व्यवसितम् ॥ ३५ ॥ अनावर्तीति ॥ न आवर्तते न परावर्तते तच्छीलोऽनावर्ती पुनः परावर्तनर- हित इति यावत्, एवंविधः कालः स वृथा निष्फलो व्रजति गच्छति तन्न गणितम् ॥ तथा व्यसनानां शतानि तेषां संपातः पतनं तेन विधुरा वि- कलाः ॥ विधुरं विकले त्रिष्विति त्रिकाण्डशेषः ॥ तास्तादशाः सोढा म- षिताः ॥ कियत् व्याचक्षामः कियद्ब्रूमः ॥ अस्माभिरात्मनि खस्मिन् विषये Digitized by Google भर्तृहरिकृतं किमिव नापकृतं अपि तु सर्वमपकृतमेवेत्यर्थः ॥ बत इति खेदे यावत्संपूर्ण किं कुत्सितं पुनरपि तदेव व्यवसितं कृतम् ॥ अपकारबुद्ध्या किमपि न व्यक्त- मित्यर्थः ॥ " शिखरिणी वृत्तम् ," ॥ ३५ ॥ कालवशेन विनाशं प्राप्नुवतामचिरस्थायिनां राज्ञां सेवनादि विहाय भग- वत्सेवनमेव कर्तव्यमिति सूचयन्नाह - भ्रातः कष्टमहो महान्स नृपतिः सामन्तचक्रं च त- त्पार्श्वे तस्य च साऽपि राजपरिषत्ताश्चन्द्रबिम्बाननाः ॥ उद्रिक्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाः सर्वं यस्य वशादगात्स्मृतिपदं कालाय तस्मै नमः ॥ ३६ ॥ भ्रातरिति ॥ हे भ्रातरिति सुहृद्भावेन संबोधनम् ॥ यः पूर्व दृष्टोऽस्मा- भिः स एव महान् नृपतिः राजा, तस्य पार्श्वे तदेव सामन्तचक्रं मांडलिकरा- जमण्डलम्, साऽपि सैव राजपरिषद्राजसभा, चन्द्रबिम्बवदाननं यासां ता- स्ता एव स्त्रियः, उद्रिक्त उन्मत्तः स एव राजपुत्रनिवहो राजपुत्रसमूहः, त- एव बन्दिनस्तुतिपाठकाः, ता एव कथा गोष्ठयः, एतत्पूर्वोक्तं सर्वं यस्य कालस्य वशात्स्मृतिपदं स्मरणमार्गमगात् कथाशेषं जगामेत्यर्थः ॥ अहो कष्टम् तस्मै कालाय नमोऽस्तु ॥ "शार्दूलविक्रीडितं वृत्तम् " ॥ ३६ ॥ , यस्य स्वीयदेहस्य रक्षणार्थं राजादिसेवनं विधीयते तस्य देहस्यापि विनाशित्वात्तद्विषयेऽप्यास्थां विहाय भगवदाराधने यत्नो विधेय इत्यभिप्राय- वानाह— वयं येभ्यो जाताश्चिरपरिगता एव खलु ते समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः ॥ इदानीमेते स्म प्रतिदिवसमासन्नपतना- द्वतास्तुत्यावस्थां सिकतिलनदीतीरतरुभिः ॥ ३७ ॥ वयमिति ॥ वयं येभ्यः पित्रादिभ्यो जातास्ते चिरं चिरकालेन परिगता नष्टाः मृता एवेत्यर्थः खलु निश्चयेन ॥ यैः भ्रात्रादिभिः समं सह संवृद्धा वृद्धिं प्राप्तास्तेऽपि स्मृतिविषयतां स्मृतिगोचरतां गमिताः प्रापिताः ॥ कालेनेति शे- षः ॥ इदानीमस्मिन्काले एते वयं प्रतिदिवसं दिवसं दिवसं प्रति आसन्नं समीपप्राप्तं यत् पतनं मृत्युः तस्माद्धेतोः सिकता वालुका विद्यते यस्यां सा सिकतिला एतादृशी या नदी तस्यास्तीरसंबन्धितरुभिर्वृक्षैस्तुल्या समाना- Digitized by Google वैराग्यशतकम् । याऽवस्था तां गताः प्राप्ताः स्म ॥ वालुकामयनदीतीरसंबन्धिनो वृक्षा यथा विनाशोन्मुखास्तथा वयमपि विनाशोन्मुखा जाता इत्यर्थः ॥ " शिखरिणी वृ- त्तम्" ॥ ३७ ॥ पुत्रादिपरिवारसहवासस्यापि कालवशेनानियतत्वात्तद्विषयेऽप्यास्था नवि- धेयेति सूचयन्नाह— यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनुबहवस्तत्र चान्ते न चैकः ॥ इत्थं चेमी रजनिदिवसौ दोलयन्वापि चाक्षौ कालः काल्या सह बहुकलः क्रीडति प्राणिशारैः ॥ ३८ ॥ - यत्रानेक इति ॥ यत्र कचिदपि गृहे अनेकः पुत्रदारादि कालवशेन तत्रैक एव तिष्ठति अथानन्तरं यत्राप्येकस्तदनुत्रहवः भवन्तीति शेषः ॥ तत्र चान्ते एकोऽपि न ॥ इत्थं अनेन प्रकारेण बव्ह्यः कलानिमेषादयो यस्मिन् यद्वा बहून्विषयान्कलयति स्वेच्छानुरोधेन संपादयतीति बहुकलः । एतादृशः काल इमौ प्रसिद्धौ रजनी रात्रिः दिवसो दिनं च तावेव अक्षौ पाशको "अक्षास्तु देवनाः पाशकाश्चेत्यमरः" ॥ दोलयन्प्रक्षिपन् सन् काल्या स्वस्त्रिया मारकश- क्त्या सह प्राणिन एव शाराः काष्टादिरचितद्यूतोपकरणविशेषाः (सोंगटी इति ख्याताः ) "शारः स्याच्छबले वाच्य लिंगः पुंसि समीरणे ॥ अक्षोपक- रणे इति मेदिनी " ॥ तैः क्रीडति क्रीडां करोति ॥ "मन्दाक्रान्ता वृत्तम्- मन्दाक्रान्ता जलधिषडगैर्भीनतो ताद्गुरू चेति तल्लक्षणात् ॥ ३८॥ अत्यल्पायुषि अस्मिन्लोके अवश्यकर्तव्यकर्मणां बहुत्वेन कर्तुमशक्यत्वाकि कर्तव्यमिति संदिहानो विचारं कुर्वन् तपस एवात्यन्तसुखहेतुत्वमिति स्वयमेव निर्णीय तस्यैवावश्यकर्तव्यतामभिप्रेत्याह तपस्यन्त इत्यादिश्लोकचतुष्टयेन- तपस्यन्तः सन्तः किमधिनिवसामः सुरनदीं गुणोदारान्दारानुत परिचयामः स विनयम् ॥ पिबामः शास्त्रौघात विविधकाव्यामृतरसा- न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ ३९ ॥ तपस्यन्त इति ॥ वयं कतिपया निमेषा आयुर्यस्य तस्मिन् एतादृशे अ- स्मिन् जने लोके किं कुर्म इति न विद्मः ॥ इति किम् ॥ तपस्यन्तस्तपश्चर्या कुर्वन्तः सन्तः सुरनदी भागीरथीमधि तत्तीरे इति यावत् ॥ निवसामो वासं Digitized by Google भर्तृहरिकृतं कुर्मः किम् ॥ उताथवा गुणैरुदारान्प्रौढान् दारान्स्त्रियः सविनयं नम्रतापूर्वकं परिचयाम आश्रयामः, गृहे स्थित्वा गृहस्थाश्रमधर्ममेवाचराम इत्यर्थः ॥ अथवा शास्त्रौघान् वेदान्तादिशास्त्र समूहान् पिबाम सेवामहे इति यावत् ॥ उत विविधानि काव्यानि तान्येवामृतरसास्तान्वा पिबाम इति ॥ " शिखरिणी वृत्तम्" ॥ ३९ ॥ अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा ॥ तृणे वा स्त्रैणे वा मम समदृशो यांतु दिवसाः सदा पुण्येऽरण्ये शिवशिवशिवेति प्रजपतः ॥ ४० ॥ अहाविति ॥ अहो सर्पे वा हारे पुष्पादि त्रजि वा, बलवति बलिष्ठे रिपौ शत्रौ वा सुहृदि मित्रे वा, मणौ हीरकादौ वा लोष्टे मृत्खण्डे वा, कुसुमशयने पुष्पपर्यङ्के वा, दृषदि पाषाणे वा, तृणे वा स्त्रैणे स्त्री समूहे वा समदृशः समानदृष्टेः सदा पुण्ये पुण्यकारकेऽरण्ये वने शिवशिवशिवेति प्रजपतो जपं कुर्वतो मम दिवसा यान्तु गच्छन्तु ॥ " शिखरिणी वृत्तम् " ॥ ४० ॥ गङ्गातीरं हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ॥ किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः शृङ्गमङ्गे मदीये ॥ ४१ ॥ गङ्गातीरे इति ॥ गङ्गातीरे भागीरथीतीरे हिमगिरेः शिलायां बद्धं पद्मा- सनं येन तस्य ब्रह्मध्यानस्याभ्यसनमभ्यासस्तस्य विधिर्विधानं तेन योगनिद्रां स- माधिं गतस्य प्राप्तस्य मम तैः सुदिवसैः भाव्यं किं ते सुदिवसा भविष्यन्ति किम् ॥ यत्रयेषु दिवसेषु ते जरठहरिणा वृद्धमृगा निर्विशङ्का भयरहिताः सन्तो मदीयेऽङ्गे शृङ्गं कण्डूयन्ते घर्षणसुखं कुर्वन्ति ॥ यस्यां मृगैः क्रियमाणं कण्डूयनमपि न ज्ञायते तादृशी समाधिर्मम कदा भविष्यतीत्यर्थः ॥ " मन्दा- क्रान्ता वृत्तम्" ॥ ४१ ॥ स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने सुखासीनाः शान्तध्वनिषु रजनीषु सरितः ॥ भवाभोगोद्विग्ना शिवशिवशिवेत्यार्तवचसः कदा स्यामाऽऽनन्दोन मबहुलबाप्पा कुलदृशः ॥ ४२ ॥ स्फुदिति ॥ शान्तो ध्वनिर्यासु एवंविधासु रजनीषु रात्रिषु स्फुरन्ती देदी- Digitized by Google वैराग्यशतकम् । प्यमाना स्फारा वृद्धि प्राप्ता या ज्योत्स्ना चन्द्रिका तया धवलितं शुभ्रीभूतं तलं यस्य तस्मिन् ॥ जले इति पाठे धवलितं जलं यस्मिन्नित्यर्थः ॥ एवंविधे सरितो भागीरथ्याः पुलिने तटे सुखेनाssसीनाः स्थिताः तथा भवस्य सं- सारस्य आभोगोऽतिशयेन सेवनं तेनोद्विग्नाः खिन्नाः अतएव शिवशिवशिवेति आर्त दुःखकारकं वचो येषां ते तथाविधाः आनन्दस्योद्गमः प्रादुर्भावस्तेन बहुलानि यानि बाष्पाणि नेत्राश्रूणि तैराकुले दृशौ नेत्रे येषां ते एतादृशा वयं कदा स्याम भवाम ॥ [आर्तवचसेति तृतीयान्तपाठे ] वचसा करणभूतेने - त्यर्थः ॥ [कदास्यामोहर्षोद्गमबहुलबाष्पप्लुतदृश इत्यपि कचित्पाठः] ॥ "शिख- रिणी वृत्तम्" ॥ ४२ ॥ आशापरित्यागस्य दुस्त्यजत्वं नदीरूपकेण वर्णयन् तत्त्यागस्यात्यन्तं सुख- हेतुत्वमाह- आशानामनदी मनोरथजला तृष्णातरङ्गाकुला रागग्राहवती वितर्कविहगा धैर्यद्रमध्वंसिनी ॥ मोहावर्त सुदुस्तराऽतिगहना प्रोत्तुङ्गचिन्तातटी तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥४३॥ आशेति ॥ मनोरथोऽभिलाष एव जलं यस्यां सा, तथा तृष्णास्तर्षा : पिपासा इति यावत् ॥ " तृष्णा स्यात्तर्षलिप्सयोरिति मेदिनी" तरङ्गास्तैराकु- ला व्याप्ता, तथा । रागा अनुरागा एव ग्राहा मकरादयो विद्यन्ते यस्यां सा ॥ तथा वितर्का एव विहगाः पक्षिणो यस्यां सा, तथा धैर्यरूपो द्रुमो वृक्षस्तस्य ध्वंसिनी नाशिनी, तथा मोहा एवाssवर्ता जलभ्रमास्तैः सुदुस्तरा तर्तुमशक्या, तथा अतिगहना अत्यन्तं गम्भीरा, प्रकर्षेणोतुङ्गोलता या चिन्ता सैव तटं यस्याः सा एवंविधा आशानाम नदी अस्ति तस्याः पारं गताः, तथा विशु- द्धं मनो येषां ते तथाविधा योगीश्वरा नन्दन्ति हर्षं प्राप्नुवन्तीत्यर्थः ॥ आशा- त्यागिनः पुरुषा अत्यन्तसुखानुभववन्तो भवन्तीति भावः ॥ " शार्दूलविक्री - डितं वृत्तम्" ॥ ४३ ॥ मनोनियमनकर्तुः पुरुषस्य दौर्लभ्यं दर्शयन्नाह - आसंसारं त्रिभुवनमिदं चिन्वतां तात ताह- जैवास्माकं नयनपदवीं श्रोत्रवर्त्मागतो वा ॥ योऽयं धत्ते विषय करिणीगाढरूढाभिमान- क्षीबस्यान्तःकरणकरिणः संयमालानलीलाम् ॥ ४४ ॥ Digitized by Google भर्तृहरिकृतं आसंसारमिति ॥ हे तात तादृक् तादृशः स पुरुषः आसंसारं संसारं या- वत् इदं त्रिभुवनं चिन्वतां मृगयतामस्माकं नयनपदवीं नेत्रमार्ग वा अथवा श्रोत्रवर्त्म कर्णमार्ग नैवाऽऽगतोऽस्तीति शेषः ॥ स कः ॥ योऽयं पुरुष: वि- पय एव करिणी हस्तिनी तस्यां गाढो दृढो रूढो योऽभिमानस्तेन क्षीबस्य मत्तस्यान्तःकरणमेव करी हस्ती तस्य संयम इन्द्रियनिग्रह एवाssलानं गज- बन्धनं तस्य लीलां धत्ते धारयति ॥ मन्दाक्रान्ता वृत्तम्" ॥ ४४ ॥ 66 शिवाराधनापूर्वकं गङ्गातीरनिवासादिकं सर्वे सोढव्यं न याचनाविशिष्टं जीवनमिति सूचयन्नाह — महादेवो देवः सारेदपि च सैवामरसरि- गुहा एवागारं वसनमपि ता एव हरितः ॥ सुहृद्वा कालोऽयं व्रतमिदमदैन्यव्रतमिदं कियद्वा वक्ष्यामो वटविटप एवास्तु दयिता ॥ ४५ ॥ महादेव इति ॥ देव एको महादेव एव, सरिदपि सा प्रसिद्धा अमरसरि- देव गङ्गेव, स्नानाद्यर्थमित्यर्थः ॥ अगारं गृहं गुहा एवं कन्दर्य एव, वसनं वस्त्रमपि ताः प्रसिद्धा हरितो दिश एवं, वस्त्रराहित्येन निर्वाह इत्यर्थः ॥ सु- हृन्मित्रं अयं प्रसिद्धः कालो वा काल एव, दयिता भार्याऽपि वटविटपो वट- वृक्षशाखा सैवास्तु इदं सर्वे व्रतं नियमो न विद्यते दैन्यं याचनारूपं यस्मि - नेतादृशं व्रतं भवति, याचनारहितं व्रतमित्यर्थः ॥ इदं कियद्वा वक्ष्यामो ऽपि तु सर्वमुक्तमेवेत्यर्थः ॥ "शिखरिणी वृत्तम्" ॥ ४५ ॥ धनाढ्यादिसेवनापेक्षया वने स्थित्वा भगवदाराधनमेव वरमिति बोधयन्नाह- ये वर्तन्ते धनपतिपुरः प्रार्थनादुःखभाजो ये चाऽल्पत्वं दधति विषयाक्षेपपर्यस्तबुद्धेः ॥ तेषामन्तःस्फुरितहसितं वासराणां स्मरेयं ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥ ४६ ॥ ये वर्तन्त इति ॥ धनपतेर्धनाढ्यस्य पुरोऽग्रभागे प्रार्थना याचना तस्या यद्दुःखं तद्भजतीति भाक् तस्य मम ये वासरा दिवसा वर्तन्ते स्मेति शेषः ॥ एवमुत्तरत्रापि ॥ ये च विषयैः कृत्वा य आक्षेपो भर्त्सनं तेन पर्यस्ता विपरी- ता बुद्धिर्यस्य ममाल्पत्वं दधति स्म ॥ तेषां वासराणां तान् दिवसानित्यर्थः ॥ अहं ध्यानस्य छेदे विच्छेदे समाधेरुत्थाने सतीत्यर्थः ॥ अन्तरभ्यन्तरे स्फुरि- Digitized by Google वैराग्यशतकम् । तं स्फुरद्रूपं हसितं यस्मिन्कर्मणि यथा भवति तथा स्मरेयं स्मरामि ॥ कथमे- ते वासरा अतिसुखदा अतीता वासरास्त्वतिदुःखदा इत्याश्चर्यपूर्वकं स्मरामी- ति भावः ॥ कीदृशोऽहम् ॥ शिखरिणः पर्वतस्य कुहरं गुहा ॥ " कुहरं ग- हरे छिद्रे इति मेदिनी" ॥ तस्मिन् ये ग्रावाणः पाषाणास्त एव शय्या त- स्यां निषण्ण उपविष्टः ॥ " मन्दाक्रान्ता वृत्तम्" ॥ ४६ ॥ विद्यादिसंपादनमकुर्वतः परदत्तानेन जीवनं संपादयतो ममायुर्व्यर्थं गत- मिति पश्चात्तापपूर्वकं वदन् विद्यादिसंपादनस्यावश्यकतां बोधयन्नाह— विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितं शुश्रूषाऽपि समाहितेन मनसा पित्रोर्न संपादिता ॥ आलोलायतलोचना युवतयः स्वप्नेऽपि नालिङ्गिताः कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेरितः ॥ ४७ ॥ विद्येति ॥ कलङ्करहिता दोषरहिता विद्या शास्त्रादिरूपा परमार्थसाधि- केति यावत्, एवंविधा नाधिगता न प्राप्ता न संपादितेति यावत् । अस्माभिरि- ति शेषः ॥ एवं सर्वत्र ॥ च पुनः वित्तं धनमपि नोपार्जितं न संपादितम्, तथा समाहितेन स्वस्थेन मनसाऽन्तःकरणेन पित्रोर्माता च पिता च पितरौ तयोः शुश्रूषा सेवाऽपि न संपादिता न कृता, तथा आलोले चञ्चले आय विस्तीर्णे लोचने नेत्रे यासां ता युवतयस्तरुणस्त्रियः स्वनेऽपि नालिङ्गिताः, सांसारिकं सुखं किमपि नानुभूतमित्यर्थः ॥ किंतु अयं कालः काकैरिवास्मा- भिः परपिण्डे अन्यदत्ताहारे लोलुपता लुब्धता तया प्रेरितः प्रक्षिप्तो नीत इति यावत् ॥ परपिण्डोपजीवनेनातिवाहित इत्यर्थः ॥ "शार्दूलविक्रीडितं वृत्तम्" ॥ ४७ ॥ संसारस्यातिदुःखदत्वं दृष्ट्वा तत्त्यागपूर्वकं वने स्थित्वा सुखदत्वाच्छिवचर- णाराधनमेव कर्तव्यमित्याह- वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः स्मरन्तः संसारे विगुणपरिणामावधिगतिम् ॥ वयं पुण्येऽरण्ये परिणतशरच्चन्द्रकिरणै- त्रियामां नेष्यामो हरचरणचित्तैकशरणाः ॥ ४८ ॥ वितीर्णे इति ॥ वयं सर्वस्वे सर्वधने वितीर्णे दत्ते सति सर्वस्वदाने कृ- ते सतीत्यर्थः ॥ हरस्य शिवस्य चरणावेव चित्तस्यैकं शरणं रक्षितृ येषां ते Digitized by Google भर्तृहरिकृतं अथवा हरचरणयोः संलग्नं यच्चित्तं तदेवैकशरणं येषां ते अथवा हरचरणयो- श्चित्तं येषां ते शिवभक्तास्त एवैकं शरणं येषां ते तथाविधाः सन्तः पुण्ये पुण्यकारकेऽरण्ये परिणताः परिणामं प्राप्ता ये शरदि चन्द्रकिरणास्तैः सहत्रि- यामां रात्रिं नेष्यामः ॥ चन्द्रकिरणैः पुण्ये सुखदे अरण्ये इति वा संबन्धः कर्तव्यः ॥ चन्द्रकिरणे इति सप्तम्यन्तपाठेऽरण्यविशेषणम् ॥ कीदृशा वयम् ॥ तरुणा या करुणा कृपा तया पूर्ण परिपूर्ण हृदयं येषां ते ॥ पुनः कीदृशाः ॥ अस्मिन्संसारे विगुणो विपरीतो यः परिणामः स्वरूपान्यथाभावः स एवावधिः सी- मा यस्या एतादृशीं गतिमवस्थां स्मरन्तश्चिन्तयन्तः ॥ संसारस्य सदोषत्वं सान्तत्वं च चिन्तयन्त इत्यर्थः ॥ " शिखरिणी वृत्तम्" ॥ ४८ ॥ मनःसंतोषस्यात्यन्तसुखहेतुत्वमिति राजानं प्रत्याह- वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या सम इह परितोषो निर्विशेषो विशेषः ॥ स तु भवति दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥ ४९ ॥ वयमिति ॥ हे राजन् इह संसारे वयं वल्कलैः परितुष्टाः स्मः ॥ त्वं च लक्ष्म्या परितुष्टोऽसि ॥ उभयोः परितोषः संतोषः समोऽस्ति ॥ इह उभयोः संतोषयोर्मध्ये एकस्य निर्विशेषः ॥ भावप्रधानो निर्देशः ॥ यद्विशेषराहित्यं स एव विशेषः ॥ तदेवोपपादयति यस्य तृष्णा विशाला विस्तीर्णा स तु द- रिद्रो भवति ॥ मनसि परितुष्टे सति अर्थवान्धनवान्कः दरिद्रश्च कः न को- पीत्यर्थः ॥ " मालिनी वृत्तम् ॥ ४९ ॥ यत्स्वच्छन्दवर्तनादिकं तन्महतस्तपसः फलमित्याह- यदेतत्स्वच्छन्द विहरणमकार्पण्यमशनं सहायैः संवासः श्रुतमुपशमै कव्रतफलम् ॥ मनो मन्दस्पन्दं बहिराप चिरस्यापि विमृश- न जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ ५० ॥ यदेतदिति ॥ एषा उदारस्य महतः कस्य तपसः परिणतिः परिणाम ए- तद् चिरस्य चिरकालं विमृशन्विचारयन्नप्यहं न जाने ॥ एषा का ॥ स्व- च्छन्दं यथास्यात्तथा विहरणं विहारः वर्तनमिति यावत् ॥ स्वाच्छन्द्यविहरण- मिति पाठे अर्शआद्यच् ॥ स्वाच्छन्द्यवत् स्वच्छन्दयुक्तमिति यावत् ॥ अकार्प- Digitized by Google वैराग्यशतकम् । ण्यं दैन्यरहितमशनं भोजनम्, आर्यैः सद्भिः सह संवासः संगतिः, उपशमः शान्तिरेवैकं मुख्यं व्रतफलं नियमसिद्धिर्यस्मिन् एवंविधं श्रुतं शास्त्रश्रवणम्, बहिरपि बहिर्विषयेष्वपि मन्दः स्पन्दश्चलनं यस्य एवंविधं मन इति यत् सै- षा ॥ " शिखरिणी वृत्तम्" ॥ ५० ॥ निःसंगत्वेन दैन्यं त्यजतां कर्मनिर्मूलनं कुर्वतां पुरुषाणां धन्यत्वमाह- पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्षमक्षय्यमन्नं विस्तीर्ण वस्त्रमाशा दशकमपमलं तल्पमस्वल्पमुर्वी ॥ येषां निःसंगताङ्गीकरणपरिणतिः स्वात्मसंतोषिणस्ते धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥ ५१ ॥ पाणिरिति ॥ पाणिर्हस्त एव पवित्रं पात्रं भाजनम् नान्यत्, भ्रमणेन. परिगतं प्राप्तं भैक्षं भिक्षासमूहः अक्षय्यमव्ययमन्नम्, आशानां दिशानां दशकं विस्तीर्ण वस्त्रम्, उर्वी पृथ्वी अपमलं निर्मलं [आशासु दशकममलमित्यपि पाठः ॥ ] अस्वल्पं महत् तल्पं शय्या, तदुक्तं भागवते द्वितीयस्कंधे – "सत्यां क्षितौ किं कशिपोः प्रयासैर्बाही स्वसिद्धे ग्रुपबर्हणैः किम् ॥ सत्यंजली किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलैरिति । एवं येषां निःसङ्गताया अङ्गीकरणं स्वीकारस्तस्य परिणतिः परिणामः, [निःसङ्गतान्तः करणेति पाठे ] निःसङ्गतायामन्तःकरणस्य परिणतिरित्यर्थः । अतएव स्वात्मनि सन्तोषिणः संतोषं प्राप्नुवन्तः, तथा संन्यस्ता दैन्यरूपा ये व्यतिकरा व्यसनानि दुःखा- नीति यावत् तेषां निकरः समूहो यैस्ते, अथ व्यतिकरः पुंसि व्यसनव्यति- षङ्गयोरिति मेदिनी ॥ " व्यसनं विपदि भ्रंशे इत्यमरवच" एवंविधाः सन्तो ये पुरुषाः कर्म निर्मूलयन्ति निर्मूलं कुर्वन्ति ते धन्याः पुण्यवन्तः सन्तीति शेषः ॥ " स्रग्धरा वृत्तम् " ॥ ५१ ॥ इतरराजाद्याराधनापेक्षया तपस एवेह परत्र श्रेयस्करत्वमाह - दुराराध्यः स्वामी तुरगचलचित्ताः क्षितिभुजो वयं तु स्थूलेच्छा महति च पदे बद्धमनसः ॥ जरा देहं मृत्युर्हरति सकलं जीवितमिदं सखे नान्यच्छ्रेयो जगति विदुषोऽन्यत्र तपसः ॥ ५२ ॥ दुराराध्य इति ॥ स्वामी चक्रवर्ती राजा दुःखेनाप्याराधयितुं शक्यः, क्षितिभुज इतरे माण्डलिका राजानः तुरगवदश्ववञ्चलं चञ्चलं चित्तं येषां ते Digitized by Google भर्तृहरिकृतं अस्थिरचित्ता इंति यावत् ॥ एवंविधाः सन्ति, वयं तु स्थूलेच्छा महाशयाः उदारान्तःकरणा इति यावत् । च पुनः महति पदे सार्वभौमादिस्थाने बद्धं मनो येषां ते एवंविधाः स्मः, जरा देहं हरति नाशयति, मृत्युश्चेदं सकलं जीवितमायुर्हरति, तस्मात् हे सखे इह जगति तपसोऽन्यत्र तपोविना वि- दुषः पण्डितस्याऽन्यच्छ्रेयः कल्याणं नास्ति ॥ "शिखरिणी वृत्तम् " ॥ १२॥ क्षणभङ्गुरविषयसुखादित्यागपूर्वकं योगाभ्यासः कर्तव्य इत्याह- भोगा मेघवितानमध्यविलसत्सौदामनीचञ्चला आयुर्वायुविघट्टिताभ्रपटलीलीनाम्बुवद्भङ्गुरम् ॥ लोला यौवनलालसा तनुभृतामित्याकलय्य द्रुतं योगे धैर्यसमाघिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः ॥ ५३ ॥ भोगा इति ॥ भोगा विषयसुखानि मेघानां वितानो विस्तारस्तस्य मध्ये विलसन्ती या सौदामनी विद्युत् तद्वचञ्चलाः विद्युद्वदतिशीघ्रविनाशिन इत्य- र्थः ॥ सन्तीति शेषः ॥ एवमुत्तरत्रापि शेषपूरणं कर्तव्यम् ॥ तथा आयुर्जीवितं वायुना विघट्टिता चालिता याभ्रपटली मेघसमूहस्तस्मिन्लीनं यदम्बु जलं त- द्वद्भङ्गुरं नाशशीलमस्ति, तथा तनुभृतां देहिनां यौवने लालसा औत्सुक्यम् ॥ "लालसौत्सुक्यतृष्णातिरेकयाच्ञासु च द्वयोरिति मेदिनी" लोला चञ्चला- स्ति ॥ यौवनस्याचिरस्थायित्वेन तदौत्सुक्यस्यापि तथात्वमित्यर्थः - इदं सर्वविषयाणामुपलक्षणम् ॥ सर्वेऽपि विषयाश्चञ्चला इत्यर्थः । " तदुक्तं भागव सप्तमस्कंधे । रायः कलत्रं पशवः सुतादयो गृहा महीकुअरकोशभूतयः ॥ सर्वेऽर्थ कामाः क्षणभङ्गुरायुषः कुर्वन्ति मर्त्यस्य कियत्प्रियं चला इति" तथा एतच्छ्लोकटीकायां तदुक्तमितिहासेषु ॥ "धनं हि पुरुषो लोके पुरुषं धनमेव वा ॥ अवश्यमेकं त्यजति तस्मात्कि धनतृष्णयोति च " ॥ इति पूर्वोक्तं सर्व- माकलय्य ज्ञात्वा हे बुधाः यूयं धैर्येण समाधिना चित्तैकाग्र्येण च या सिद्धि- स्तया सुलभे सुसाध्ये ॥ [ ध्येयसमाधाविति पाठे ] ध्येयवस्तुविषये यः समा- धिस्तेनेत्यर्थः ॥ एवंविधे योगे द्रुतं शीघ्रं बुद्धिं विदध्वं कुरुध्वम् । "शार्दूल- विक्रीडितं वृत्तम्" ॥ ५३ ॥ भिक्षया जीवनं योग्यं न पुनः स्वीयेषु दैन्येनेत्याह- पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली कपाली- मादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठम् ॥ Digitized by Google 66 वैराग्यशतकम् । द्वारं द्वारं प्रवृत्तो घरमुदरदरीपूरणाय क्षुधार्तो मानी प्राणी स धन्यो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥५४॥ पुण्ये इति ॥ मानी अभिमानी प्राणी जन्तुः, "प्राणी तु चेतनो जन्मी जन्तुरित्यमरः" ॥ क्षुधया आर्तः पीडितः सन् पुण्ये पुण्यकारके ग्रामे वा - ऽथवा महति वनेऽरण्ये सितपटः शुभ्रवस्त्रं तेन छन्ना आच्छादिता पाली आ- समन्तात्प्रदेशो यस्यास्ताम्, पालिः कर्णलतायां स्यात्प्रदेशे पङ्किचिह्नयोरित्य- जयः ॥ [ कृदिकारादिति ङीष् ॥ अल्पं कपालं कपाली घटशकलं ताम् ॥ "कपालोऽस्त्री शिरोस्थिनस्याद्घटादेः शकले व्रजे इति मेदिनी" "स्त्री स्या- त्काचिन्मृणाल्यादिर्विवक्षापचये यदीत्यमरात्स्त्रीत्वमाप" अपचये अल्पत्वे विवक्षा चेदित्यर्थः ॥ [ गौरादित्वात् ङीष् ॥ ] आदाय गृहीत्वा उदरमेव दरी गुहा तस्याः पूरणाय पूरणं कर्तुं न्यायो नीतिर्गर्भे येषामेवंविधाये द्विजा ब्राह्मणास्तै- हुतो 'यो हुतभुगग्निस्तस्य यो धूमस्तेन धूम्रं धूम्रवर्णमुपकण्ठमन्तिकभागो य- स्यैवंविधं द्वारंद्वारं प्रवृत्तो भवेदेतद्वरं योग्यं परंतु पुनः अनुदिनं दिवसंदिव- सं प्रति तुल्याः समाना ये कुल्याः कुलोद्भवा मान्या वा तेषु दीनो न भवेत् " कुल्या पयःप्रणाल्यामित्युपक्रम्य । कुलोद्भवे कुलहिते त्रिषु माम्ये पुनः पुमानि - ति मेदिनी" स धन्योऽस्ति ॥ " स्रग्धरा वृत्तम्" ॥ ५४ ॥ योगिनां स्थितिमाह— चाण्डालः किमयं द्विजातिरथवा शूद्रोऽथ किं तापसः किंवा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किम् ॥ इत्युत्पन्नविकल्पजल्पमुखरैः संभाष्यमाणा जनै- र्न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः ॥ ५५ ॥ चाण्डाल इति ॥ अयं चाण्डालः किम्, अथवा द्विजातिर्ब्राह्मणः किम्, अथवा शूद्रः किम्, वा अथवा तापसस्तपस्वी किम्, अथवा तत्त्वविवेकेन तत्त्वविवेचनेन पेशला निपुणा मतिर्बुद्धिर्यस्य स एवंविधः कोऽपि योगीश्वरः किम्, इति पूर्वोक्तप्रकारेण उत्पन्ना ये विकल्पजल्पा विकल्पयुक्त भाषणानि तैर्मुखरा वाचालास्तैर्जनैः संभाष्यमाणा अपि योगिनः क्रुद्धा न भवंति तथा तुष्टमनसः संतुष्टान्तःकरणा एवंविधा अपि न भवन्ति किंतु स्वयं स्वेच्छया पथि मार्गे यान्ति गच्छन्ति ॥ दुर्जनैर्भत्सिता अपि क्रोधहर्षरहिता योगिनः स्वाच्छंद्येन वर्तन्त इति भावः ॥ " शार्दूलविक्रीडितं वृत्तम्" ॥ १९ ॥ Digitized by Google भर्तृहरिकृतं अत्यन्तपापहेतुभूताविषयसेवनं परित्यज्य सुखहेतुभूतं वनवासं कुर्वतः पुरु- षस्य, धन्यतामाह- सखे धन्याः केचित् त्रुटितभवबन्धव्यतिकरा वनान्ते चिन्तान्तर्विषमविषयाशीविषगताः ॥ शरञ्चन्द्रज्योत्स्नाधवलगगनाभोगसुभगां नयन्ते ये रात्रिं सुकृतचयचित्तैकशरणाः ॥ ५६ ॥ सखे इति ॥ हे सखे हे मित्र ये केचित्पुरुषाः शरदि शरत्काले यश्चन्द्र- स्तस्य ज्योत्स्ना चन्द्रिका तया धवलः शुभ्रो यो गगनाभोग आकाशविस्ता- रस्तेन सुभगां मनोहरां रात्रिं नयन्ति ते धन्याः सन्तीति शेषः ॥ किंभूताः त्रुटितरिछन्नो भवबन्धनस्य संसारबन्धस्य व्यतिकरो संबन्धो येषां ते, तथा वनान्ते वनमध्ये चित्तस्यान्तर्मध्ये ये विषमा विषयास्त एव आशीविषा: सर्पा गता येषां ते, [वाहिताग्न्यादित्वाद्गतशब्दस्य परनिपातः ॥ तथा सुकृ- तानां पुण्यानां चयः समूहस्तस्मिन्यच्चित्तं तदेव एकं शरणं येषां ते एवं- विधाः ॥ पुण्यसंपादनैकचित्ता इत्यर्थः ॥ " शिखरिणी वृत्तम् " ॥ १६ ॥ संसारदुःखेन खिन्नः पुरुषः स्वचित्तं प्रार्थयते - एतस्माद्विरमेन्द्रियार्थगहनादायासदादाशु च श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणम् ॥ शान्तं भावमुपैहि संत्यज निजां कल्लोललोलां मर्ति भूयो मां भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥ ५७ ॥ एतस्मादिति ॥ हे चेतः एतस्मादायासं ददातीत्यायासदं स्तस्मात्, इ- न्द्रियाणामर्थो विषयः स एव गहनमरण्यं तस्माद्विरम निवृत्तो भव ॥ [ आ- यासकष्टाश्रयादिति पाठे ] आयासः श्रमः कष्टं दुःखं च तयोराश्रयादित्यर्थः ॥ तथा आशु शीघ्रं श्रेयसः कल्याणस्य मार्ग वर्त्मभूतम्, तथा अशेषाणि यानि दुःखानि तेषां शमने यो व्यापारस्तस्मिन् दक्षं समर्थमेवंविधं शांतं भावं स्थितिं क्षणं क्षणमात्रमुपैहि प्राप्नुहि ॥ [ स्वात्मीभावमिति पाठे ] स्वात्मीभावं स्वः स्वीयः आत्मीभावः स्वरूपस्थितिर्यस्मिन्नेवंविधं श्रेयोमार्गमुपैहीति संबन्धः । तथा कल्लोलवज्जलतरङ्गवल्लोलां चञ्चलां निजां स्वकीयां मतिं बुद्धि संत्यज भूयः पुनर्भङ्गुरां नाशशीलां भवे रति प्रेम मा भज मा कुर्वित्यर्थः ॥ किं तर्हि अधुनेदानीं प्रसीद प्रसन्नं भव ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ १७ ॥ Digitized by Google माह- वैराग्यशतकम् । निराबाधिका वने स्थितिरेव योग्येति मन्वानस्य कस्यचित्पुरुषस्योक्ति- पुण्यैर्मूलफलैः प्रिये प्रणयिनि प्रीतिं कुरुष्वाधुना भूशय्या नववल्कलैरकरणैरुत्तिष्ठ यामो वनम् ॥ क्षुद्राणामविवेकमूढमनसां यत्रेश्वराणां सदा चित्तव्याध्यविवेकविह्वलगिरां नामापि न श्रूयते ॥ ५८ पुण्यैरिति ॥ प्रणयिनि प्रणयवति प्रिये इति स्त्रियाश्चित्तवृत्तेर्वा संबोध- नम् ॥ पुण्यैः शोभनैः ॥ " पुण्यं शोभने त्रिष्विति मेदिनी " ॥ मूलानि च फलानि च तैः, तथा न क्रियन्त इत्यकरणैरकृत्रिमैरित्यर्थः ॥ भूशय्या च नववल्कलानि च तैः कृत्वा प्रीतिं मनः संतोषं कुरुष्व " प्रीतिर्योगान्तरे प्रेम्ण स्मरपत्नीमुदोः स्त्रियामिति मेदिनी " ॥ अनायासेनैव तत्प्राप्तिस्थानमाह उत्तिष्ठेति ॥ अधुना उत्तिष्ठ, वयं तत् वनमेव यामो गच्छामः ॥ तत्किम् ॥ यत्र यस्मिन्वने क्षुद्राणां तुच्छानामीश्वराणां धनिकानां नामाऽपि न श्रूयते ॥ कीदृशानामीश्वराणाम् । अविवेकेन मूढं मोहितं मनो येषां तेषाम् ॥ तथा सदा सर्वकाले चित्तव्याधिर्मनोव्याधिः अविवेकश्च ताभ्यां विह्वला व्याप्ता गीर्वाणी येषां तेषाम् ॥ [ वित्तध्यानविवेकविह्वलधियामिति पाठे ] वित्तस्य धनस्य ध्यानं चिन्ता विवेको विचारस्ताभ्यां तत्प्राप्त्युपायविह्वला व्याकुला धीर्बुद्धिर्येषां तेषामित्यर्थः ॥ [ चित्तव्याधिविकारविह्वलंगिरामिति पाठे ] चि- तव्याधिर्मनोव्याधिस्तद्रूपो यो विकारस्तेनेत्यर्थः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ९८ ॥ सांसारिकविषयसुखभोगेच्छां परित्यज्य शिवभक्त्यादिकं कुर्विति स्वचेतः प्रतिबोधयन्नाह— मोहं मार्जय तामुपार्जय रतिं चन्द्रार्धचूडामणौ चेतः स्वर्गतरङ्गिणीतटभुवामा संगमङ्गीकुरु ॥ को वा वीचिषु बुद्धदेषु च तडिल्लेखासु च स्त्रीषु च ज्वालाग्रेषु च पन्नगेषु च सरिद्वेगेषु च प्रत्ययः ॥ ५९ ॥ मोहमिति ॥ हे चेतस्त्वं मोहं मार्जय, तथा चन्द्रस्यार्धः शकलं कलेति यावत् ॥ स एव चूडामणिः शिरोभूषणं यस्य तस्मिन् शिवे तां रतिं प्रीति- मुपार्जय संपादय कुर्वित्यर्थः ॥ तथा स्वर्गतरङ्गिणी भागीरथी तस्यास्तटस- Digitized by Google भर्तृहरिकृतं बन्धि भुवस्तासामासङ्गं सङ्गतिमङ्गीकुरु स्वीकुरु ॥ गङ्गातीरनिवासं कुर्वि- त्यर्थः ॥ किंचित्कालं विषयोपभोगादिकं कृत्वा चरमे वयसि तथा करिष्या- मी ति मनुषे चेदतिचपले तस्मिन्नायुषि विश्वास मा कुर्वित्याशयेनाह - को वेति — वीचिषु जलतरङ्गेषु तथा बुद्बुदेषु जलविकारेषु तथा तडिल्लेखासु विद्युल्लतासु तथा श्रीषु संपत्सु । [स्त्रीष्वित्यपि कचित्पाठः, ] ज्वालाप्रेषु वह्निशिखाग्रेषु, तथा पन्नगेषु सर्पेषु, तथा सरिद्वेगेषु नदीवेगेषु को वा प्रत्ययो विश्वास: न कोऽपीत्यर्थः ॥ अयं भावः ॥ तरङ्गादयः पदार्था यथाऽतिचपलास्तद्वदायु- षोऽतिचपलत्वेन तस्मिन् विश्वासो न कार्य इति । अत्र दृष्टान्ततयोपन्यस्तैस्त- रङ्गादिभिस्तत्सदृशातिचपलस्य दाष्टन्तिकस्याऽऽयुषो लाभो बोध्यः ॥ " शा- र्दूलविक्रीडितं वृत्तम् " ॥ ९९ ॥ सति तथाविधे ऐश्वर्ये संसारसुखाभिलाषं कुरु नोचेदीश्वरध्यानमेव कु- विति स्वचितं प्रति बोधयन्नाह - अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः पृष्ठे लीलावलयरणितं चामरग्राहिणीनाम् ॥ यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेश्वेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ ६० ॥ पार्श्वतः पृष्ठे पृष्ठ- अग्रे इति ॥ हे चेतस्त्वं अग्रे अग्रभागे गीतं गानम्, तथा पार्श्वभागे दाक्षिणात्याः दक्षिणदिग्भवाः सरसा: रसिकाः कवयः, भागे चामरं प्रकीर्णकं गृह्णन्ति तास्तासां स्त्रीणां लीलया वलयानां कङ्कणानां रणितं शब्दः, यदि एवं पूर्वोक्तमस्ति तर्हि भवस्य संसारस्य रसस्तस्याऽऽस्वा- दने लम्पटत्वं लोलुपत्वं कुरु, नोचेत् पूर्वोक्तेश्वर्याभावे सहसा शीघ्रमेव निर्वि- कल्पे द्वैतभ्रमरहिते समाधौ प्रविश प्रवेशं कुरु ॥ समाधिमेवाश्रयस्वेत्यर्थः ॥ 66 मन्दाक्रान्ता वृत्तम् " ॥ ६० ॥ नरके तरणे इच्छा चेत्ख्यादि सुखं हित्वा करुणादिसेवनमेवावश्यं कर्त- * यमिति सूचयन्नाह— विरमत बुधा योषित्संगात्सुखात्क्षणभङ्गुरा- त्कुरुत करुणामैत्री प्रशावधूजनसंगमम् ॥ न खलु नरके हाराक्रान्तं घनस्तनमण्डलं शरणमथवा श्रोणीबिम्बं रणन्मणिमेखलम् ॥ ६१ ॥ Digitized by Google वैराग्यशतकम् । विरमतेति ॥ हे बुधा यूयं क्षणभङ्गुरात्क्षणध्वंसिनो योषितां यः संगस्तद्रूपात्सु- खाद्विरमत विरक्ता भवथ । स्त्रीसंगमे इच्छा चेत्तदर्हा स्त्रिय आह - करुणा सर्व- भूतदया च मैत्री सर्वभूतेषु मित्रता च प्रज्ञा आत्मज्ञानं च ता एव वधूजनाः स्त्रीजनास्तासां संगमं संगतिं कुरुत ॥ यतः हारेण मुक्ताहारेणाक्रान्तं व्या- तमेवंविधं घनं निबिर्ड स्तनमण्डलं कुचमण्डलमर्थात्स्त्रिया एव अथवा रणन्ती शब्दायमाना मणियुक्ता मेखला काञ्ची यस्मिन्नेवंविधं श्रोणीबिम्बं कटिमण्डलं ॥ " बिम्बं तु प्रतिबिम्बेsपि मण्डलं पुंनपुंसकमिति मेदिनी " ॥ नरके शरणं रक्षितृ न भवति खलु निश्चयेन ॥ " हरिणी वृत्तम् " ॥ ६१ ॥ निःस्पृहा लक्ष्मीमप्यतितुच्छत्वेन गणयन्तीत्याह- मातर्लक्ष्मि भजस्व कंचिदपरं मत्काङ्क्षिणी मास्म भू- भगेभ्यः स्पृहयालषो न हि वयं का निस्पृहाणामसि ॥ सद्यः स्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृते मिक्षासकुभिरेव संप्रति घयं वृत्तिं समीहामहे ॥ ६२ ॥ मातरिति ॥ हे मातर्लक्ष्मि त्वं अपरमन्यं कंचिद्भजस्व, मत्काङ्क्षिणी म- दिच्छावती मास्मभूर्मा भव ॥ हि यस्माद्वयं भोगेभ्यो भोगान् [स्पृहेरीप्सित इति संप्रदानत्वम् ] ॥ स्पृहयालवो वाञ्छावन्तो न त्वं निस्पृहाणां काऽसि ॥ अभिलषणीया न भवसीत्यर्थः ॥ संप्रतीदानीं वयं सद्यस्तत्कालं पवित्रीकृते स्थूता कृतसीवना या पलाशपत्राणां पुटिका संपुटकः स एव पात्रं तस्मिन् भिक्षया प्राप्ता ये सक्तवस्तैरेव वृत्तिं जीविकां समीहामहे वाञ्छामहे ॥ अतो नास्माकं तवोपयोग इति भावः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ६२ ॥ अवैराग्यदशायां परस्परम कृत्रिम सुहृत्त्वाद्यभिनिवेशेन आवयोरभेदबुद्धिरा- सीदिदानीं वैराग्यदशायां तादृशाभिनिवेशाभावेन भेदबुद्धिर्जातेत्यमुमर्थमुभयोः प्रश्नोत्तरमुखेनाह- यूयं वयं वयं यूयमित्यासीन्मतिरावयोः ॥ किं जातमधुना मित्र यूयं यूयं वयं वयम् ॥ ६३ ॥ यूयमिति ॥ हे मित्र यूयं वयमेव वयं यूयमेवेति पूर्वमावयोर्मतिरासीत् ॥ मित्रयोः परस्परं सुहृत्त्वाभिनिवेशेनाभेदबुद्धिरासीदित्यर्थः ॥ अधुना किं जा- तम् ॥ यूयं यूयमेव वयं वयमेवेति बुद्धिर्जाता ॥ इदानीं सुहृत्त्वाभिनिवेशाभा- वेन परस्परं भेदबुद्धिर्जातेत्यर्थः ॥ तस्मादवैराग्यदशायां सुहृत्त्वाद्यभिनिवेशे Digitized by Google भर्तृहरिकृतं सत्यपि वैराग्यदशायां स नश्यतीति भावः ॥ तदुक्तं भारते सनत्सुजातीये ॥ पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत । ममैव यूयमात्मस्था न मे यूयं न वो वयम् ॥ १ ॥ " अनुष्टुब् वृत्तम् " ॥ ६३ ॥ 66 स्वस्य वैराग्यस्थिति परस्परं संवादमुखेन वर्णयति - बाले लीलामुकुलितममी मन्थरा दृष्टिपाताः किं क्षिप्यन्ते विरम विरम व्यर्थ एष श्रमस्ते ॥ संप्रत्यन्ये वयमुपरतं बाल्यमास्था वनान्ते क्षीणो मोहस्तृणमिव जगज्जालमालोकयामः ॥ ६४ ॥ बाले इति ॥ हे बाले ते लीलाया मुकुलितं कुब्बलितं यथा स्यात्तथा, अमी मन्थरा मन्दगामिनो दृष्टिपाता अस्मासु त्वया किं क्षिप्यन्ते ॥ विरम विरम, एष ते श्रमो व्यर्थ एवास्ति ॥ कुतः ॥ संप्रतीदानीं वयमन्येऽभूम ॥ अस्माकं बाल्यमुपरतं शांतं गतमिति यावत् ॥ अस्माकमास्था वनान्ते आसीत् ॥ मोहः क्षीणो नष्टोऽभूत् ॥ जगज्जालं तृणमिवालोकयामः पश्यामः ॥ एवंविधावस्थायां तव कटाक्षक्षेपणं निरर्थकमिति भावः ॥ " मन्दाक्रान्ता वृत्तम्" ॥ ६४ ॥ तामेव वैराग्यस्थिति प्रकारान्तरेण वर्णयति- इयं बाला मां प्रत्यनवरतमिंदीवरदल- प्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनया ॥ गतो मोहोऽस्माकं स्मरकुसुमबाणव्यतिकर- ज्वरज्वाला शान्ता तदपि न वराकी विरमति ॥ ६५ ॥ इयमिति ॥ इयं बाला । इन्दीवरस्य नीलकमलस्य पत्रं पर्ण तस्य प्रभ कान्ति चोरयतीति चोरं चक्षुर्मी प्रति क्षिपति प्रेरयति, अनया किमभिप्रेतं किं वांछते ॥ अस्माकं मोहो गतोऽस्ति ॥ स्मरस्य कामस्य कुसुमबाणाः पुष्प- शरास्तेषां व्यतिकरो मिश्रीभावः संबन्ध इति यावत् ॥ तेन यो ज्वरस्तस्य ज्वाला शिखा शान्ता आसीदिति शेषः ॥ स्मरशबरबाणेति पाठे स्मर एव शबर इत्यर्थः ॥ तदपि तथापि वराकी अतितुच्छा इयं न विरमति विरामं न प्राप्नोति ॥ सति तादृशे दृढे वैराग्ये कामिन्याः कटाक्षपातादिकं सर्व व्यर्थ - मिति भावः ॥ " शिखरिणी वृत्तम् " ॥ ६५ ॥ Digitized by Google वैराग्यशतकम् । स्वहितमिच्छता पुरुषेण अचिरस्थायित्वेन तुच्छत्वबुद्ध्या हर्म्यादिकं सर्वे विहाय वनमेवाऽऽश्रयणीयमिति साधुवृत्तान्तप्रदर्शनेनाह— रम्यं हर्म्यतलं न किं वसतये श्राव्यं न गेयादिकं किंवा प्राणसमासमागमसुखं नैवाधिकं प्रीतये ॥ किंतुछ्रान्तपतत्पतङ्गपवनव्यालोलदीपाङ्कुर- च्छायाचश्ञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः ॥ ६६॥ रम्यमिति ॥ वसतये निवासाय हर्म्यतलं गृहतलं रम्यं मनोहरं न किम्, तथा गेयादिकं गानादिकं श्राव्यं श्रवणीयं न किम्, वाऽथवा प्राणसमा प्राणतुल्या प्रिया तस्याः समागमस्य सुखं प्रीतये अधिकं नैव किम् ॥ किंतु उद्भ्रान्ता भ्रममाणाः पतन्तश्च पतङ्गाः शलभास्तत्संबन्धी यः पवनो वायुस्तेन व्यालोलाश्चञ्चला दीपाङ्कुरास्तेषां छाया कान्तिस्तद्वच्चञ्चलं सकलं पूर्वोक्तमाक- लय्य ज्ञात्वा सन्तः साधवो वनान्तं वनमध्यं गताः स्मः "शार्दूलविक्रीडितं वृत्तम् " ॥ ६६ ॥ अनायासेन जीवनसाधनेषु कन्दादिषु विद्यमानेषु केवलं जीवनेच्छया खलाराधनं सुतरां न कर्तव्यमित्याशयेनाह -- किं कन्दाः कन्दरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यः प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शाखाः ॥ वीक्ष्यन्ते यन्मुखानि प्रसभमुपगतप्रश्रयाणां खलानां दुःखोपात्ताल्पवित्तस्मयवशपवनानर्तितभ्रूलतानि ॥ ६७ ॥ किं कन्दा इति ॥ कन्दरेभ्यो दरीभ्यः कन्दाः जीवनसाधनभूताः प्रलयं नाशमुपगताः किम्, तथा गिरिभ्यः पर्वतेभ्यो निर्झरा उदकप्रवाहाः प्रलयमु- पगताः किम् ॥ वाऽथवा तरुभ्यो वृक्षेभ्यो रसेन सहितानि फलानि बि- भ्रति ताः तथा वल्कलिन्यो वल्कलवत्यश्च शाखाः प्रध्वस्ता नष्टाः किम् ॥ तदुक्तं भागवते द्वितीयस्कन्धे - "चीराणि किं पथि न संति दिशन्ति भिक्षां नैवा- ङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन् ॥ रुद्धा गुहाः किमजितोऽवति नोपसन्ना- कस्माद्भजन्ति कवयो धनदुर्मदान्धान्" इति । यद्यस्माद्धेतोः प्रसभं सवेगं यथास्यात्तथा अपगतः प्रश्रयो विनयो येषां तेषां खलानां दुःखेनोपात्तं प्राप्तमल्पं वित्तं तस्य स्मयो गर्वः स एव पवनो वायुरोगस्तेन नर्तिता भ्रूलता येषु तानि एवंविधानि मुखानि लोकैर्वीक्ष्यन्तेऽवलोक्यन्ते ॥ " स्रग्धरा वृत्तम्" ॥६७॥ Digitized by Google भर्तृहरिकृतं आयाससाध्यपरपिण्डोपजीवनापेक्षया हिमवत्संबन्धिवनाश्रयणेन जीवनं वरमित्याह- गङ्गातरङ्गहिमशीकरशीतलानि विद्याधराभ्युषितचारुशिलातलानि ॥ स्थानानि किं हिमवतः प्रलयं गतानि यत्सावमानपरपिण्डरता मनुष्याः ॥ ६८ ॥ गङ्गातरङ्गेति ॥ हिमवतो हिमाद्रेः स्थानानि प्रलयं नाशं गतानि किम्, यद्यस्माद्धेतोः मनुष्याः अवमानेनापमानेन सहितो यः परपिण्डोऽन्यदत्तपि- ण्डस्तस्मिन् रता भवन्तीति शेषः ॥ कीदृशानि स्थानानि ॥ गङ्गाया भागी- रथ्यास्तरङ्गा वीचयस्तत्संबन्धिनो ये हिमशीकराः शीताम्बुकणास्तैः शीत- लानि ॥ तथा विद्याधरैरध्युषितान्यधिष्ठितानि चारूणि शिलातलानि येषां तानि ॥ " वसन्ततिलका वृत्तम् " ॥ ६८ ॥ आशुविनाशिनि शरीरे आशा न विधेयेति मेर्वादिदशाकथनपूर्वक- - माह - यदा मेरुः श्रीमान्निपतति युगान्ताग्निदलितः समुद्राः शुष्यन्ति प्रचुरमकरग्राहनिलयाः ॥ धरा गच्छत्यन्तं धरणिधरपादैरपि धृता शरीरे का वार्ता करिकरभकर्णाग्रचपले ॥ ६९ ॥ यदेति ॥ युगान्ते योऽग्निस्तेन दलितः श्रीमान् मेरुर्यदा निपतति ॥ यदेत्यस्य सर्वत्र संबन्धः ॥ यदा प्रचुरा ये मकरा ग्राहाश्च तेषां निलयो गृहं येषु ते एवंविधाः समुद्रा अपि शुष्यन्ति ॥ यदा धरणिधराणां पर्वतानां पादैर्धृताऽपि धरा अन्तं नाशं गच्छति ॥ तदा करिणो गजस्य कलभः शिशुस्तस्य कर्णां तद्वच्चपले चञ्चले एतादृशे शरीरे का वार्ता कथा न कापीत्यर्थः ॥ " शिखरिणी वृत्तम् " ॥ ६९ ॥ संसारहेतुभूतानि नानाविधानि कर्माण्याचरन्नतिखिन्नः पुरुषो वैराग्यपू- र्वकं स्वस्मिन् कर्मनिर्मूलनसामर्थ्यं प्रार्थयन्नाह - एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगंबरः ॥ कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ॥ ७० ॥ एकाकीति ॥ एकाकी संगरहितः निःस्पृह आशारहितः, शान्तः शमा- Digitized by Google वैराग्यशतकम् । दिसंपन्नः, पाणिः कर एव पात्रं भाजनं यस्य एवंविधः, दिश एवाम्बरं वस्त्रं यस्य एवंविधोऽहम् हे शंभो कर्मणां निर्मूलनं नाशनं तत्र क्षमः समर्थ एतादृशः कदा भविष्यामि " अनुष्टुब् वृत्तम्" ॥ ७० ॥ संपत्त्यादीनामतितुच्छत्वं बुद्ध्वा भक्त्यादिपुरःसरं वैराग्यमेव संपादनीय- मित्यर्थं बोधयन्नाह प्राप्ता इत्यादिश्लोकत्रयेण - प्राप्ताः श्रियः सकलकामदुघास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम् ॥ संमानिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥ ७१ ॥ प्राप्ता इति ॥ सकलाश्च ते कामास्तान् दुहन्ति ताः सकलकामपूरणसम- र्था इत्यर्थः ॥ एवंविधाः श्रियः प्राप्ताः ततः किं न किमपि फलमित्यर्थः ॥ एवमुत्तरत्र सर्वत्र बोध्यम् ॥ तथा विद्विषां शत्रूणां शिरसि पदं चरणं दत्तं ततः किम्, तथा प्रणयिनः सेवकाः विभवैर्गजाद्यैश्वर्यैः संमानितास्ततः किम्, तथा तनुभृतां प्राणिनां तनुभिः शरीरैः कल्पं कल्पपर्यंतं स्थितं ततः किम् ॥ " वसन्ततिलका वृत्तम्" ॥ ७१ ॥ जीर्णा कन्था ततः किं सितममलपटं पट्टसूत्रं ततः कि- मेका भार्या ततः किं हयकरिसुगणैरावृतो वा ततः किम् ॥ भक्तं भुक्तं ततः किं कदशनमथवा वासरान्ते ततः किं व्यक्तज्योतिर्न चान्तर्मथितभवभयं वैभवं वा ततः किम् ॥ ७२ ॥ जीर्णेति ॥ जीर्णा कन्था लब्धेति शेषः ॥ एवमुत्तरत्रापि शेषः पूरणीयः ॥ ततः किं तेन किं सुखादि न किमपीत्यर्थः ॥ एवमुत्तरत्रापि बोध्यम् ॥ सितं शुभ्रं अमलं निर्मलं पटं वस्त्रमथवा पट्टसूत्रं दुकूलादिकं ततः किम् ॥ " पटश्चित्रपटे वस्त्रेऽस्त्रीति मेदिनी " एका अद्वितीया भार्या पत्नी ततः किम् ॥ हया अश्वाः करिणो गजाश्च तेषां शोभना गणाः समूहास्तैरावृतो व्याप्तो वा ततः किम् ॥ भक्तमोदनं भुक्तं ततः किम् ॥ भिस्सा स्त्री भक्त- मन्धोऽन्नमोदनोऽस्त्री सदीदिविरित्यमरः ॥ अथवा वासरान्ते दिनान्ते कद- शनं कुत्सितभोजनं ततः किम् ॥ तथा व्यक्तं प्रत्यक्षं ज्योतिर्ब्रह्म यस्मिंस्तथा- विधं, मथितं भवभयं संसारभयं येनैवंविधं अन्तर्हृदये वैभवं वा न ततः किम् ॥ स्रग्धरा वृत्तम् " ॥ ७२ ॥ " " Digitized by Google भर्तृहरिकृतं भक्तिर्भवे मरणजन्मभयं हृदिस्थं स्नेहो न बन्धुषु न मन्मथजा विकाराः ॥ संसर्गदोषरहिता विजना वनान्ता वैराग्यमस्ति किमतः परमर्थनीयम् ॥ ७३ ॥ भक्तिरिति ॥ यस्य भवे भक्तिरस्तीति शेषः ॥ एमुत्तरत्रापि यथायोग्यं शेषः पूरणीयः ॥ हृदि अन्तःकरणे तिष्ठतीति हृदिस्थं, मरणं च जन्म च तयोर्भयम् ॥ तथा बन्धुषु स्नेहः प्रीतिर्न ॥ तथा मन्मथात्कामाज्जाता मन्मथ- जा विकारा न ॥ तथा विजना जनरहिता अतएव संसर्गाद्यो दोषस्तेन रहिता एतादृशा वनान्ताः सन्ति अतः परं तस्य पुरुषस्य वैराग्यं अर्थनीयं प्रार्थनीयं किमस्ति न किमपीत्यर्थः ॥ " वसन्ततिलका वृत्तम्" ॥ ७३ ॥ विषयत्यागपूर्वकं ब्रह्मचिन्तनमेव श्रेयस्करं नान्यदिति चित्तं प्रति बोधयन्नाह श्लोकद्वयेन- तस्मादनन्तमजरं परमं विकासि त चिन्तय किमेभिरसद्विकल्पैः ॥ यस्यानुषङ्गिण इमे भुवनाधिपत्य- भोगादयः कृपणलोकमता भवन्ति ॥ ७४ ॥ तस्मादिति ॥ तस्माद्धेतोः, हे जन न विद्यतेऽन्तो यस्य तदन्तमन्तरहि- तम्, परममुत्कृष्टं विकासि प्रकाशरूपम्, [विशोकमिति पाठे ] शोकरहितमि- त्यर्थः ॥ एतादृशं तदुपनिषदादि प्रतिपादितं ब्रह्म चिन्तय, एभिः असद्वि- कल्पैः देहभावादिविकल्पैः किम् ॥ तत्किम् ॥ यस्माद्धतोः कृपणलोकानां मता मान्या इमे भुवनस्य त्रिभुवनस्याऽऽधिपत्यं स्वामित्वं तत्संबन्धिनो भोगादयः पदार्था यस्याssनुषङ्गिणोऽनुयायिनो भवन्ति ॥ यस्यानुयायिनः सर्वे भोगा भवन्ति तद्ब्रह्म चिन्तनीयमित्यर्थः ॥ " वसन्ततिलका वृत्तम् " ॥ ७४ ॥ पातालमाविशसि यासि नभो विलङ्घय दिमण्डलं भ्रमसि मानस चापलेन ॥ भ्रान्त्वापि जातु विमलं कथमात्मनीनं तद्रा न स्मरसि निर्वृतिमेषि येन ॥ ७५ ॥ पातालमिति ॥ हे मानस हे चित्त त्वं चापलेन चापल्येन पातालमावि- शसि प्रविशसि, तथा नभ आकाशं विलङ्घयोलङ्घय यासि गच्छसि तथा Digitized by Google वैराग्यशतकम् । दिङ्मण्डलं भ्रमसि, भ्रान्त्वाऽपि जातु कदाचित् विमलं निर्मलं तथा आत्मने हितमात्मनीनं " आत्मन् विश्वजनभोगोत्तरपदात्ख" इति खप्रत्ययः ॥ तद्ब्रह्म न स्मरसि तत्किम् ॥ येन निर्वृतिं मोक्षसुखमेषि प्राप्नोषि ॥ मानस- चापलेनेत्येकं पदं वा कर्तव्यं तत्पक्षे जनेति संबोधनं देयम् ॥ भ्रान्त्वेत्यत्र [ भ्रान्त्येति पाठे ] भ्रान्त्याऽपि न स्मरसीत्यन्वयः ॥ " वसन्ततिलका वृत्तम्" ॥ सांसारिकव्यापारैः खिन्नस्य पुरुषस्याऽऽक्रोशपूर्वकमुक्तिमाह- रात्रिः सैव पुनः स एव दिवसो मत्वाऽबुधा जन्तवो धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः ॥ व्यापारैः पुनरुक्तभुक्तविषयैरेवं विधेनामुना संसारेण कदर्थिताः कथमहो मोहान्न लज्जामहे ॥ ७६ ॥ रात्रिरिति ॥ सैव रात्रिः पुनः स एव दिवस इति मत्वा कालक्रमेण गतागतयो रात्रिदिवसोरुद्योगं विना व्यर्थत्वं बुद्धेत्यर्थः ॥ उद्यमिन उद्योग- वन्तस्तथैव निभृता धृताः पोषिता वा प्रारब्धाश्च तास्ताः क्रिया यैस्ते एवंविधा अबुधा जन्तवः प्राणिनः पुनरुक्ताश्च ते भुक्ताश्च विषया येषु तैर्व्यापारैर्नि - मित्तैः कृत्वा मोहात् धावन्ति, एवंविधेनामुना संसारेण कदर्थिता दुःखिता अपि वयं कथं न लज्जामहे अपि तु लज्जामह इत्यर्थः ॥ अहो इति खेदे ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ७६ ॥ 66 वैराग्यवतः पुरुषस्य नृपतेश्च साम्यदर्शनेन राजैश्वर्यस्यातितुच्छत्वं बोधय- न्नाह द्वाभ्याम् — मही रम्या शय्या विपुलमुपधानं भुजलता वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः ॥ स्फुरद्दीपश्चन्द्रो विरतिवनितासंगमुदितः सुखं शान्तः शेते मुनिरतनुभूतिर्नृप इव ॥ ७७ ॥ . महीति ॥ मुनिः शान्तः सन् नृप इव सुखं यथा स्यात्तथा शेते निद्राति ॥ कीदृशो मुनिर्नृपश्च विरतिर्वैराग्यमेव वनिता स्त्री तस्याः संगेन मुदितो हर्षितः पक्षे विशेषेण रतिः प्रीतिर्यस्यां एवंविधा या वनिता तस्याः संगेन मुदितः ॥ पुनः कीदृशः ॥ न तन्वी अल्पा भूतिरैश्वर्यं पक्षे राज्यलक्ष्मीर्यस्यैवंविधः ॥ ऐश्वर्यमेवाह महीति ॥ मही पृथ्वी यस्य मुनेः रम्या मनोहरा शय्या, तथा भुजलता बाहुलता विपुलं विस्तीर्ण उपधानमुपधीयते आरोप्यते शिरो यत्र तत् उपबर्हः (भाषायां उशीति ख्याता ) " उपधानं तूपबर्ह इत्यमर: Digitized by Google " भर्तृहरिकृतं " आकाशं वितानमुल्लोच ( भाषायां चांदवा इति ख्यातः ) " अस्त्री वि- तानमुल्लोच इत्यमरः " ॥ अयमनुकूलोऽनिलो वायुः व्यजनं तालवृंतकम् ( पंखा इति ख्यातः ) " व्यजनं तालवृन्तकमित्यमरः तथा चन्द्रश्चन्द्रमाः स्फुरन्देदीप्यमानो दीप इति ॥ " शिखरिणी वृत्तम् " ॥ ७७ ॥ त्रैलोक्याधिपतित्वमेव विरसं यस्मिन्महाशासने तल्लुब्ध्वाऽऽसनवस्त्रमानघटने भोगे रतिं मा कृथाः ॥ भोगः कोऽपि स एक एव परमो नित्योदितो जृम्भते यत्स्वादाद्विरसा भवन्ति विषयास्त्रैलोक्यराज्यादयः ॥ ७८ ॥ त्रैलोक्येति ॥ हे जन आत्मन्निति वा यस्मिन् महच्च तच्छासनं चोपनिष- दुपदिष्टब्रह्मज्ञानं तस्मिन् सति त्रैलोक्यस्याधिपतित्वं स्वामित्वं विरसं सारही- नमेव भवति तज्ज्ञानं लब्ध्वा त्वं आसनं वस्त्रं च मानश्च तेषां घटनं यस्मिंस्त- स्मिन् भोगे रतिं प्रीतिं मा कृथाः मा कुरु ॥ तर्हि कस्मिन्भोगे प्रीतिः कर्त- व्येत्यत्राह भोग इति ॥ परम उत्कृष्टो नित्यश्चासावुदितः शास्त्रेषु उदयं प्राप्तः कथित इति यावत् ॥ एवंविधः कोऽप्यनिर्वचनीयः स एक एव भोगो ब्रह्मज्ञानविषयको जृम्भते विकासते, यस्य स्वादाद्वहणात् त्रैलोक्यस्य राज्य- मादि येषां ते एवंविधा विषया विरसा रसहीना भवन्ति ॥ " शार्दूलविक्री- डितं वृत्तम् " 110211 क्षणभङ्गुरान् सर्वान्सांसारिकान्व्यापारान्विहाय एकं ब्रह्मप्राप्तिसाधनभूतं व्यापारमेव कुर्यादिति द्योतयन्नाह श्लोकद्वयेन— किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ॥ मुक्त्वकं भवबन्धदुःखरचनाविध्वंसकालानलं स्वात्मानन्दपदप्रवेशकलनं शेषा वणिग्वृत्तयः ॥ ७९ ॥ किं वेदैरिति । वेदैः कर्मकाण्डविषयकश्रुतिभिः, तथा स्मृतिभिर्धर्मार्थ- कामप्रवर्तिकाभिः, तथा पुराणानां व्रतादिबोधकानां पठनानि तैः, तथा महान् विस्तरः पूर्वपक्षादिरूपो येषु तैः शास्त्रैः गौतमीयादिभिः, तथा स्वर्ग- रूपो ग्रामस्तस्मिन् या कुटी गृहं तस्मिन् यो निवासस्तस्य फलं ददतीति ते तैः कर्मणां यागादिकर्मणां क्रियाकरणं तस्या विभ्रमा विलासास्तैश्च किम् न किमपीत्यर्थः ॥ एतैः पूर्वोक्तैः सर्वैर्वृत्तिसंपादनमतितुच्छभिति बोधयन्नाह - मुक्त्वै- Digitized by Google वैराग्यशतकम् । .३९ कमिति ॥ भवबन्धेन संसारबन्धेन यद्दुःखं तस्य रचना तस्या विध्वंसो नाश- स्तस्मिन् कालानलं प्रलयाग्निसदृशमेवंविधमेकं मुख्यं स्वस्याऽऽत्मनो यदानन्द- पदमानन्दरूपं स्थानं तस्मिन् यः प्रवेशस्तस्य कलनं संपादनं मुक्त्वा शेषा अवशिष्टा वेदाभ्यासादिना जीवनरूपाः वणिग्वृत्तयो वणिग्व्यापारा भवन्तीति शेषः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ७९ ॥ आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्री- रर्थाः संकल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूराः ॥ कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं ब्रह्मण्यासत्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥ ८० ॥ आयुरिति ॥ आयुर्जीवितं कल्लोलवज्जलतरङ्गवल्लोलं चञ्चलमस्तीति शेषः ॥ एवमुत्तरत्रापि बोध्यम् । यौवनश्रीस्तारुण्यशोभा कतिपयदिवसान् तिष्ठति तच्छीला स्थायिनी, अचिरस्थायिनीत्यर्थः ॥ तथा अर्था धनानि संकल्पकल्पा मनोरथतुल्याः, मनोरथवदाशुविनाशिन इत्यर्थः । तथा भोगपूरा विषयसुखप्रवाहाः घनसमये वर्षाकाले या तडिद्विद्युल्लता तद्वद्विभ्रमो विलासो येषामेवंविधाः, विद्युद्वदतिचञ्चला इत्यर्थः ॥ तथा प्रियाभिः स्त्रीभिः यत्प्रणीतं कृतं कण्ठस्या- ऽऽश्लेष आलिङ्गनं तत्पूर्वकमुपगूढमावरणम् । भावे क्तः । तदपि चिरं चिरकालं न, तस्मात् हे जनाः यूयं भवभयं संसारभयमेवाम्भोधिः समुद्रस्तस्य पारं परतीरं तरीतुमुल्लङ्घ्य गन्तुं ब्रह्मणि आसक्तं चित्तं येषां ते एवंविधा भवत ॥ " स्रग्धरा वृत्तम् ॥ ८० ॥ 66 - विचारवान्पुरुषो लोभाभिभूतो न भवतीति समुद्रदृष्टान्तपुरः सरमाह- ब्रह्माण्डमण्डलीमात्रं किं लोभाय मनस्विनः ॥ शफरीस्फुरितेनाब्धेः क्षुब्धता जातु जायते ॥ ८१ ॥ ब्रह्माण्डेति ॥ ब्रह्माण्डस्य मण्डली समूहस्तन्मात्रं मनस्विनो विवेकिनः पुरुषस्य लोभाय जायते किमपितु न जायते ॥ तत्र दृष्टान्तमाह शफरीति ॥ शफर्या मत्स्यविशेषस्य स्फुरितेन स्फुरणेनाब्धेः समुद्रस्य क्षुब्धता क्षोभो जातु कदाचिदपि जायते किमपितु न जायते तथा ॥ [ न तु जायते इति पाठे ] स्पष्टोऽर्थः ॥ "अनुष्टुब् वृत्तम्" ॥ ८१ ॥ Digitized by Google भर्तृहरिकृतं सारासारविवेकवतः पुरुषस्य विवेकवशात्सर्वत्र ब्रह्मभावो भवतीति विष- याक्रोशपूर्वकमाह- यदासीदशानं स्मरतिंमिरसंस्कारजनितं तदा दृष्टं नारीमयमिदमशेषं जगदपि ॥ इदानीमस्माकं पटुतरविवेकाञ्जनजुषां समीभूता दृष्टित्रिभुवनमपि ब्रह्म मनुते ॥ ८२ ॥ यदेति ॥ यदा स्मरः काम एव तिमिरमन्धकारस्तस्य संस्कारस्तेन जनितमु- त्पादितमज्ञानमासीत्तदा इदमशेषं सकलमपि जगत् नारीमयं स्त्रीप्रचुरमासीत् ॥ [ रामामयमित्यपि पाठः ] ॥ इदानीं पटुतरो यो विवेकः सदसद्विचारः स एवाञ्जनं नेत्रानं तत् जुषन्ति सेवन्ते ते जुषस्तेषां सदसद्विवेकवतामस्माकं समीभूता समत्वं प्राप्ता शत्रु मित्रौदासीन्यरहिता एकरूपेत्यर्थः ॥ एवंविधा दृष्टि- स्त्रिभुवनमपि ब्रह्म मनुते मानयतीत्यर्थः ॥ [ तनुते इति पाठे ] विस्तारयति करोतीत्यर्थः ॥ " शिखरिणी वृत्तम् " ॥ ८२ ॥ चित्तस्थैर्याभावे सकलं रम्यमपि वस्तु अरम्यमिव प्रतिभात्यतश्चित्तस्थैर्यमेव संपादनीयमिति बोधयन्नाह— रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तस्थली रम्यः साधुसमागमः शमसुखं काव्येषु रम्याः कथाः ॥ कोपो पाहितबाष्पबिन्दुतरलं रम्यं प्रियाया मुखं सर्व रम्यमनित्यतामुपगते चित्ते न किंचित्पुनः ॥ ८३ ॥ रम्या इति ॥ चन्द्रमरीचयश्चन्द्रकिरणा रम्याः सन्तीति शेषः ॥ एवमुत्त- रत्रापि शेषः पूरणीयः ॥ तृणानि हरिततृणानि सन्ति यस्यां सा तृणवती वनान्तस्थली वनमध्यस्थभूमिः रम्या, तथा सांधूनां समागमः संगतिः रम्या, तथा शमसुखं शांतिसुखं रम्यम्, तथा काव्येषु कथा वार्ता रम्याः [ प्रणयिनां रम्या मनोज्ञा गिर इति पाठे ] प्रणयिनां प्रेमवतां पुरुषाणां मनोज्ञा मनोहरा गिरो वाचो रम्या इत्यर्थः ॥ तथा कोपेन क्रोधेनोपाहितः प्राप्तो यो बाष्प- बिन्दुरश्रुबिन्दुस्तेन तरलं चञ्चलं प्रियायाः स्त्रिया मुखं रम्यम् ॥ एतत्सर्वं रम्य- मपि चित्तेऽनित्यतामध्रुवतामस्थिरतामिति यावत् ॥ उपगते सति पुनः किंचिदपि रम्यं न भवतीत्यर्थः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ८३॥ 66 Digitized by Google वैराग्यशतकम् । भिक्षाशित्वादिगुणविशिष्टस्य जनस्य जगति दौर्लभ्यमाह- भिक्षाशी जनमध्यसंगरहितः स्वायत्तचेष्टः सदा दानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः ॥ रथ्याक्षीणविशीर्णजीर्णवसनैः संप्रोतकन्थाधरो निर्मानो निरहंकृतिः शमसुखाभोगैकबद्धस्पृहः ॥ ८४ ॥ भिक्षाशीति ॥ भिक्षामश्नातीति भिक्षाशी, तथा जनमध्ये यो संगस्तेन रहितः, तथा स्वायत्ता स्वाधीना चेष्टा इन्द्रियव्यापारो यस्य स जितेन्द्रिय इति यावत् ॥ तथा सदा सर्वकालं दानं सत्पात्रेभ्यो द्रव्यसमर्पणं आदानं द्रव्यग्रहणं च ताभ्यां विरक्तो रहितो यो मार्गस्तस्मिन् निरतस्तत्परः, तथा रध्यायां ग्रामाभ्यन्तरमार्गे क्षीणानि स्वल्पानि विशीर्णानि पतितानि जीर्णानि च यानि वस्त्राणि तैः कृत्वा संप्रोता ग्रथिता या कन्था तस्या धरः, तथा निर्गतो मानः परकृतसत्काराभिलाषो यस्य, तथा निर्गता नष्टा अहंकृतिरहंकारो यस्य सः, तथा शमसुखं शान्तिसुखं तस्याऽऽभोगो विस्तारस्तस्मिन्बद्धा स्पृहा येन स एवंविधः स्थितो निर्व्यापारतया तिष्ठन्नेवंविधस्तपस्वी कश्चिदेव जनो भवति न बहव इत्यर्थः [ मनस्वीजन इति पाठे ] मनस्वी विवेकवानित्यर्थः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ८४ ॥ सांसारिके सुखे विरक्तः कश्चित्पुरुषः पृथिव्यादिपञ्चभूतेषु मातृत्वादिकं परिकल्प्य तैः सहाऽऽरण्ये संवसंस्तत्प्रसादेन प्राप्तज्ञानस्तेषामेवोपकारं मन्वा- नस्तानि प्रार्थयते— मातर्मेदिनि तात मारुत सखे तेजः सुबन्धो जल भ्रातर्व्योम निबद्ध एष भवतामग्रे प्रणामाञ्जलिः ॥ युष्मत्संगवशोपजातसुकृतोद्रेकस्फुरन्निर्मल- ज्ञानापास्तसमस्तमोहमहिमा लीये परे ब्रह्मणि ॥ ८५ ॥ मातरिति ॥ हे मातः मातृवत्पोषकत्वेन मातृतुल्ये हे मेदिनि पृथ्वि, हे तात पितृवत्सुखदत्वेन पितृतुल्य हे मारुत वायो, हे सखे सुहृद्वद्धितकारित्वेन तत्तुल्य हे तेजः अग्ने, एवमुत्तरत्राप्यूहनीयम् ॥ हे सुबन्धो जल, हे भ्रातर्व्योम आकाश, भवतामग्रे एष प्रणामयुक्तोऽञ्जलिर्हस्तसंपुटो निबद्धः कृतः ॥ [ अ- न्त्यः प्रणामाञ्जलिरिति पाठे ] अन्ते भवोऽन्त्य इत्यर्थः ॥ युष्माकं संगवशेनो- पजातो यः सुकृतस्योद्रेक आधिक्यं तेन स्फुरत्स्फुरद्रूपं यन्निर्मलं ज्ञानं तेनापास्तो निरस्तः समस्तो मोहमहिमा संसारकारणीभूतोऽज्ञानरूपो यस्य एवंविधोऽहं Digitized by Google , भर्तृहरिकृतं परे ब्रह्मणि लीये लयं प्राप्नोमि ॥ सति ब्रह्मणि लये सर्वथा भेदनिवृत्त्या प्रणामस्यासंभवादन्तिमोऽयं प्रणाम इति भावः ॥ वृत्तम् ॥ ८५ ॥ 66 शार्दूलविक्रीडितं यावच्छरीरादिस्वास्थ्यमस्ति तावदेवात्मनः श्रेयः संपादने यत्नो विधेय - इत्याह- यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो यावश्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ॥ आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महा- संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ ८६ ॥ यावदिति ॥ इदं शरीरं अरुजं न विद्यते रुजा रोगो यस्मिन्तत् एवंविधं रोगरहितं सत् यावत् स्वस्थमव्यग्रमस्ति, [ कलेवरगृहमिति पाठे ] शरीरगृह- मित्यर्थः । जरा वार्धक्यमपि यावद्दूरतस्तिष्ठतीति शेषः, यावद्वार्धकं न प्राप्तमि- त्यर्थः ॥ इन्द्रियाणां शक्तिः सामर्थ्यमपि यावदप्रतिहताऽकुण्ठिता, आयुषोऽपि क्षयो नाशो यावन्न, तावदेव विदुषा पण्डितेन आत्मनः श्रेयसि कल्याणे महान् प्रकृष्टो यत्नः कार्यः ॥ तथा हि भवने गृहे संदीप्ते अग्निना प्रज्वलिते सति तु कूपस्य खननं प्रति उद्यम उद्योगः कीदृशः व्यर्थ इत्यर्थः ॥ [ प्रोद्दीप्ते भवने इति, तथा हर्म्ये प्रज्वलिते चेत्यपि पाठौ ] क्वचित् ॥ प्रज्वलिते गृहे तच्छान्त्यर्थं तत्काले कूपखननादि प्रयासो यथा व्यर्थस्तथा शरीरस्वास्थ्याद्यभावे श्रेय :- संपादनयत्नो निष्फल इति भावः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ८६ ॥ 66 यस्यामवस्थायां यदवश्यं संपादनीयं तदसंपादयतः पुरुषस्याऽऽयुषो वै य- र्थ्यमिति सूचयन्नाह— नाभ्यस्ता भुवि वादिवृन्ददमनी विद्या विनीतोचिता खङ्गाद्यैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः ॥ कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥ ८७ ॥ नाभ्यस्तेति ॥ येन भुवि पृथिव्यां विनीतानां विनयवतां पुरुषाणामुचिता योग्या, तथा वादिनामनीश्वरादिवादिनां वृन्दं समूहं दमयति तच्छीला एवं- विधा विद्या नाभ्यस्ता, तथा खड्गायैरसिधाराभिः कृत्वा करिणां गजानां कु- म्भपीठानि गण्डस्थलानि तेषां दलनैर्विदारणैर्यशो नाकं स्वर्ग प्रति न नीतम्, Digitized by Google वैराग्यशतकम् । स्वर्गप्रापकं यशो न संपादितमित्यर्थः ॥ ( तदुक्तं यशसा प्राप्यते स्वर्गे वि- परीतादधोगतिमिति ) ॥ तथा कान्तायाः कोमलपल्लवसदृशो योऽधरोऽध- रोष्ठस्तस्य रसः स्वादश्चन्द्रोदये न पीतः, चन्द्रोदयवेलायां कान्ताधरचुम्बनमपि न कृतमित्यर्थः ॥ तस्य पुरुषस्य तारुण्यं यौवनं शून्यालये शून्यगृहे दीपवन्नि- ष्फलमेव गतं नष्टमित्यर्थः ॥ तारुण्यमित्युपलक्षणं सर्वं जीवितमित्यर्थः ॥ " शा- र्दूलविक्रीडितं वृत्तम् " ॥ ८७ ॥ - एकस्यैव ज्ञानस्याधिकारिभेदेन भेदं दृष्टान्तोपन्यासपूर्वकमाह- ज्ञानं सतां मानमदादिनाशनं केषांचिदेतन्मदमानकारणम् ॥ स्थानं विविक्तं यमिनां विमुक्तये कामातुराणामतिकामकारणम् ८८ ज्ञानमिति ॥ यत् ज्ञानं सच्छास्त्रजन्यं ज्ञानं सतां मानश्च मदश्च तावादी येषां तेषां क्रोधादीनां नाशनं शमनं भवतीति शेषः, तदेव केषांचिदधमपुरुषाणां मदमानयोः कारणं हेतुर्भवति ॥ तत्र दृष्टान्तः ॥ विविक्तं जनरहितमेकान्तमि- ति यावत् ॥ विविक्तौ पूतविजनावित्यमरः ॥ यत् स्थानं यमिनां यमनियमादि- मतां पुरुषाणां विमुक्तये मोक्षाय भवति तदेव कामातुराणां अति अत्यन्तं का- मस्य मदनस्य कारणं भवति ॥ कामोद्दीपनसाधनं भवतीत्यर्थः ॥ " इन्द्रवंशा वृत्तम् ॥ स्यादिन्द्रवंशा ततजैरसंयुतैरिति तल्लक्षणात् " ॥ ८८ ॥ संसारस्य वैचित्र्यं वर्णयन्नाह— कचिद्वीणावादः क्वचिदपि च हाहेति रुदितं कचिनारी रम्या क्वचिदपि जराजर्जरवपुः ॥ कचिद्विद्वद्गोष्ठी कचिदपि सुरामत्तकलहो न जाने संसारः किममृतमयः किं विषमयः ॥ ८९ ॥ ', कचिदिति ॥ कचित् वीणाया वादो वादनं भवतीति शेषः ॥ एवं सर्व- त्रापि बोध्यम् ॥ कचिदपि हा हा इति रुदितं रोदनं कचित् रम्या मनोहरा नारी स्त्री, कचिदपि जरया जर्जरं वपुः शरीरं यस्या एवंविधा स्त्री, कचित् विदुषां पण्डितानां गोष्ठी वार्ता क्वचिदपि सुरया मद्येन ये मत्तास्तेषां कलहः, एवंभूतः संसारः किममृतमयः सुधाप्रचुरः किं विषमयः विषप्रचुर इत्यहं न जाने ॥ एवंविधवैचित्र्यशालिनः संसारस्य दुर्निरूपत्वमिति भावः ॥ " शिख- रिणी वृत्तम् " ॥ ८९ ॥ , Digitized by Google भर्तृहरिकृतं मनोरथादिकं विहाय मुक्तिसाधनं शिवचरणध्यानमेव सर्वदा कर्तव्यमि - त्याह-- " जीर्णा एव मनोरथाः स्वहृदये यातं च तद्यौवनं हन्ताङ्गेषु गुणाश्च वन्ध्यफलतां याता गुणशैर्विना ॥ किं युक्तं सहसाऽभ्युपैति बलवान् कालः कृतान्तो ऽक्षमी ह्याज्ञातं स्मरशासनाङ्घ्रियुगलं मुक्त्वाऽस्ति नान्यागतिः ॥९०॥ जीर्णा एवेति ॥ मनोरथाः स्वहृदय एव जीर्णाः सन्तीति शेषः ॥ तथा तत्प्रसिद्धं यौवनं तारुण्यं यातं गतम्, हन्तेति खेदे अङ्गेषु गुणाः शौर्यौदार्या- दयश्च गुणज्ञैर्गुणग्राहकैर्विना वन्ध्यफलतां निष्फलत्वं याताः प्राप्ताः, बलवान् बलिष्ठः, न क्षमतेऽसौ अक्षमी क्षमारहित इत्यर्थः ॥ तथा कृतोऽन्तो नाशो ये- नैवंविधो यमस्वरूपी कालः सहसाऽभ्युपैति प्राप्नोति " कृतान्तो यमुनाभ्राता शमनो यमराड्यम इत्यमरः " आ इति स्मरणे ज्ञातम् मयेति शेषः ॥ " आ प्र- गृह्यस्मृतौ इत्यमरः " किं ज्ञातम् ॥ स्मरं कामं शास्तीति तथाविध: शिवस्तस्या- जियुगलं मुक्त्वा त्यक्त्वा तद्विनेत्यर्थः ॥ अन्या गतिर्नास्तीत्यर्थः [कालो हि सर्वा- न्तकृन्न ध्यातं मधुसुदनाङ्गियुगलं मुक्तेस्तु नान्या गतिरिति पाठे ] सर्वान्तकृत् सर्वेषां प्राणिनामन्तं नाशं करोत्येवंविधो बलवान्कालः सहसाऽभ्युपैति प्राप्नो- ति हि निश्चयेन तथाऽपि मधुसूदनस्य विष्णोरङ्घियुगलं न ध्यातं न चिन्ति- तम् ॥ मुक्तेस्तु अन्या तदङ्घ्रियुगलध्यानादपरा गतिर्नास्तीति शेषः ॥ अधुना किं युक्तं किं योग्यम् ॥ कार्याकार्यविचारशून्योहं जातोस्मीति भावः ॥ शा- र्दूलविक्रीडितं वृत्तम् " ॥ ९० ॥ अतिक्लेशसाध्ये पारमार्थिकसुखे सुखत्वबुद्धिमकृत्वा तृषादिशान्तौ सुखं मन्वानं पुरुषं निन्दति — तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि क्षुधार्तः सन् शालीन कवलयति शाकादिवलितान् ॥ प्रदीप्ते रागाग्नौ सुदृढतरमाश्लिष्यति वधूं प्रतीकारो व्याधेः सुखमिति विपर्यस्यति जनः ॥ ९१ ॥ तृषेति ॥ जनो लोकः आस्ये मुखे तृषा शुष्यति सति स्वादु मधुरं, तथा सुरभि सुगन्धि एतादृशं सलिलं जलं पिबति, तथा क्षुधार्तः सन् शाकादिभि- र्वलितान्वेष्टितान् शालीन् ओदनान् कवलयति भक्षयति, तथा रागानौ अनु- Digitized by Google वैराग्यशतकम् । रागवौ प्रदीप्ते ज्वलिते सति वधूं स्वकान्तां सुदृढतरं यथास्यात्तथा आलि- ष्यति आलिङ्गति एवं व्याधेः पिपासादिव्याधेः प्रतीकारो दूरीकरणं सुखमिति विपर्यस्यति विपरीतज्ञानवान् भवति ॥ वास्तवं सुखं येन भवति तद्विहाय तृषादि- शान्तेः सुखत्वं मनुते इति भावः ॥ " शिखरिणी वृत्तम् ॥ ९१ ॥ उदरभरणमात्र फलिकया राजादिसेवया खिन्नः कश्चिदितरसेवा न कर्त- व्येतीतरान् शिक्षयन्नाह स्नात्वेत्यादि श्लोकद्वयेन- स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वां ध्येये ध्यानं नियोज्य क्षितिधरकुहरग्रावपर्यङ्कमूले ॥ आत्मारामोऽफलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे दुःखं मोक्ष्ये कदाऽहं समचरणकरे पुंसि सेवासमुत्थम् ॥ ९२ ॥ , स्नात्वोत ॥ हे विभो अहं गाङ्गैः पयोभिर्जलैः स्नात्वा, शुचीनि कुसुमा- नि पुष्पाणि फलानि च तैस्त्वां अर्चयित्वा पूजयित्वा क्षितिधरस्य पर्वतस्य कुहरं दरी तत्संबन्धिनो ये ग्रावाणः पाषाणास्त एव पर्यङ्कः शय्या तस्याः मूले ध्येये ध्यातुं योग्ये त्वयि ध्यानं नियोज्य योजयित्वा आत्मनि स्वस्वरूपे रमते - ऽसौ आत्मारामः एवंविधः सन् हे स्मरारे कामनाशक त्वत्प्रसादात् त्वत्कृपा- तः समौ स्वसमानौ चरणौ करौ च यस्य तस्मिन्नेतादृशे पुंसि पुरुषे सेवायाः सकाशात्समुत्थमुत्पन्नं दुःखं कदा मोक्ष्ये ॥ कीदृशोऽहं न विद्यते ' फलस्य स्वर्गा- देराशा यस्यास्तीति सः तथा गुरोः वचने रतः स्थितः ॥ "स्रग्धरा वृत्तम्" ९२ शय्या शैलशिला गृहं गिरिगुहा वस्त्रं तरूणां त्वचः सारङ्गाः सुहृदो ननु क्षितिरु हां वृत्तिः फलैः कोमलैः ॥ येषां नैर्झरमम्बु पानमुचितं रत्यै च विद्याङ्गना मन्ये ते परमेश्वराः शिरसि यैर्बद्धो न सेवाञ्जलिः ॥ ९३ ॥ शय्यति ॥ शैलशिला पर्वतशिला येषां शय्या शयनम्, शय्यावन्निद्रासुख- कारिणीत्यर्थः ॥ येषामिति सर्वत्र संबध्यते ॥ गिरेः पर्वतस्य गुहा गृहम् गृहव- त्स्थातुं योग्येत्यर्थः ॥ तरूणां वृक्षाणां त्वचो वस्त्रम्, वस्त्रवच्छरीराच्छादका इत्यर्थः ॥ सारङ्गा मृगाः पक्षिणो वा सुहृदः सुहृद्वत्कार्यकारिण इत्यर्थः ॥ क्षिति- रुहां वृक्षाणां कोमलैः फलैः अन्नवत्क्षुन्निवर्तकैरित्यर्थः ॥ ननु निश्चयेन वृत्ति- र्जीविका, नैर्झरं निर्झरसंबन्धि अम्बु जलं उचितं पानं पेयम्, पानकार्यकारी- Digitized by Google भर्तृहरिकृतं त्यर्थः ॥ विद्यैव येषां रत्यै प्रीत्यै अङ्गना स्त्री, स्त्रीवत्सुखदेत्यर्थः ॥ यैः शिरसि इतरेषां राजादीनां सेवायै अञ्जलिः न बद्धो न कृतः, ते ईश्वराः समर्था इत्यहं मन्ये ॥ शय्यादिविषयान् परित्यज्य वने स्थित्वा भगवदाराधनमेव कर्तव्य- मिति भावः ॥ शार्दूलविक्रीडितं वृत्तम् ॥ ९३ ॥ विपद्धस्ते कुटुम्बे स्पृहां कृत्वा दुःखेन स्थित्यपेक्षया परमसुखदो गङ्गातीरे निवासः श्रेयानिति बोधयन्नाह— सत्यामेव त्रिलोकीसरिति हरशिरश्चम्बिनीविच्छटायां सद्वर्त्ति कल्पयन्त्यां वटविटपभवैर्वल्कलैः सत्फलैश्च ॥ कोऽयं विद्वान् विपत्तिज्वरजनितरुजाऽतीव दुःखासिकानां वक्रं वीक्ष्येत दुःस्थे यदि हि न विभृयात्स्वे कुटुम्बेऽनुकम्पाम्९४ सत्यामिति ॥ यदि हि अतीवात्यन्तं विपत्तिरेव ज्वरस्तेन जनिता या रुक् रोगस्तया दुःस्थे दुःखेनाऽपि स्थातुमशक्ये स्वे स्वकीये कुटुम्बे परिवारे अनु- कम्पां दयां न बिभृयान्न धारयेत्तर्हि हरस्य शिवस्य यच्छिरस्तच्चुम्बति तच्छी- ला हरशिरश्चुम्बिनी एवंविधा नीव्याः स्त्रीकटिवस्त्रबन्धनस्य काञ्च्या इति या- वत् ॥ छटा कान्तिर्यस्यास्तस्याम् ॥ शिवमस्तकस्थितायामित्यर्थः " नीवीपरि- पणे स्त्रीणां कटीवस्त्रनिबन्धने इति मेदिनी" तथा वटविटपो वटवृक्षस्तस्मा- द्भवैरुत्पन्नैः वल्कलैः, सत्फलैरुत्तमफलैश्च सद्वृत्ति कल्पयन्त्यां एवंविधायां त्रि- लोकीसरिति भागीरथ्यां सत्यामेव दुःखरूपा या आसिकाः स्थितयस्तासां व- क्रं कोऽयं विद्वान् वीक्ष्येत पश्येत् अपि तु न कोऽपीत्यर्थः T: ॥ स्रग्धरा वृत्तम्" ॥ ९४ ॥ वैराग्यपूर्वकं काशीनिवासस्य श्रेष्ठत्वं दर्शयति श्लोकद्वयेन— उद्यानेषु विचित्रभोजनविधिस्तीव्रातितीव्रं तपः कौपीनावरणं सुवस्त्रममितं भिक्षाटनं मण्डनम् ॥ आसन्नं मरणं च मङ्गलसमं यस्यां समुत्पद्यते 66 तां काशीं परिहृत्य हन्त विबुधैरन्यत्र किं स्थीयते ॥ ९५ ॥ उद्यानेष्विति ॥ यस्यां उद्यानेष्वारामेषु विचित्रोऽनेकप्रकारो भोजनविधिः, तथा तीव्रादतितीव्रं तपः कृच्छ्रचान्द्रायणादि, तथा कौपीनस्य गुह्यस्याssव- रणमाच्छादकं सुवस्त्रं शोभनवस्त्रम्, तथा अमितमपरिमितं भिक्षाटनं मण्डनं Digitized by Google वैराग्यशतकम् । शोभाकरम्, तथा आसन्नं समीपस्थं मरणं च यस्यां मङ्गलसमं समुत्पद्यते, तां काश परिहृत्य त्यक्त्वा विबुधैरन्यत्र किं किमर्थं स्थीयते हन्तेति खेदे ॥ काश्यामेव सर्वदा निवासः श्रेयस्करो नान्यत्रेति भावः ॥ " शार्दूलविक्रीडितं वृत्तम्" ९१ नायं ते समयो रहस्यमधुना निद्राति नाथो यदि स्थित्वा द्रक्ष्यति कुप्यति प्रभुरिति द्वारेषु येषां वचः ॥ चेतस्तानपहाय याहि भवनं देवस्य विश्वेशितु- निर्दोवारिकनिर्दयोक्त्यपरुषं निःसीमशर्मप्रदम् ॥ ९६ ॥ नायमिति ॥ ते तव अयं समयः कालो न, अधुना नाथ: स्वामी रहस्य- मेकान्तं यथा स्यात्तथा निद्राति, यदि स्थित्वा द्रक्ष्यति तर्हि प्रभुः कुप्यति, इति पूर्वोक्तप्रकारेण येषां द्वारेषु वचो वाक्यं श्रूयते इति शेषः ॥ हे चेतः ता- पुरुषानपहाय त्यक्त्वा निर्दोवारिकं द्वारपालरहितं च तन्निर्दयया उक्त्या अ- परुषं पारुष्यरहितं च, तथा निःसीमं मर्यादारहितं शर्म सुखं प्रकर्षेण ददा- तीत्येवंविधं विश्वेशितुर्विश्वेरस्य देवस्य भवनं गृहं याहि गच्छ ॥ राजादिद्वार- सेवनापेक्षया काश्यां विश्वश्वरद्वारसेवनमेव श्रेयस्करमिति भावः ॥ " शार्दूल- विक्रीडितं वृत्तम् " ॥ ९६ ॥ संसारे खिन्नः काश्चित्पुरुषः स्त्रियं संबोध्य दैवकृतेर्दुर्ज्ञेयत्वं वर्णयन्नाह - प्रियसखि विपद्दण्डव्रातप्रतापपरम्परा- परिधिंचपले चिन्ताचक्रे निधाय विधिः खलः ॥ मृदमिव बलात्पिण्डीकृत्य प्रगल्भकुलालव- मयति मनो नो जानीमः किमत्र विधास्यति ॥ ९७ ॥ प्रियसखीति ॥ हे प्रियसखि खलो दुष्टो विधि: प्रगल्भः प्रौढो यः कुला- ल: कुम्भकारस्तद्वत् मृदमिव मनश्चित्तं बलाद्बलात्कारेण पिण्डीकृत्य विपद्रूपो यो दण्डव्रातो दण्डसमूहस्तस्य प्रतापपरम्परा तद्रूपो यः परिधिर्मण्डलाकारभ्रमणं तेन चपलं तस्मिन् चिन्ताचक्रे निधाय भ्रमयति, इतः परं अत्र संसारे किं विधास्यति किं करिष्यतीति वयं नो जानीमः ॥ " हरिणी वृत्तम्" ॥ ९७ ॥ उपासनादशायां क्वचिद्रुचिवैचित्र्यादेकस्मिन्भक्त्युदयेऽपि परमार्थतोऽभे - दबुद्धिर्न त्याज्येति सूचयन्नाह - महेश्वरे वा जगतामधीश्वरे जनार्दने वा जगदन्तरात्मनि ॥ तयोर्न भेदप्रतिपत्तिरस्ति मे तथाऽपि भक्तिस्तरुणेन्दुशेखरे ॥९८ Digitized by Google भर्तृहरिकृतं महेश्वर इति ॥ जगतां लोकानामधीश्वरे नियन्तरि महेश्वरे शिवे, वाऽथवा जगतः अन्तरात्मा तस्मिन् जनार्दने विष्णौ वा तयोरुभयोर्देवयोः भेदस्य प्रतिपत्तिर्ज्ञानं नास्ति तथाऽपि तरुण इन्दुश्चन्द्रः शेखरे यस्य तस्मिन् चन्द्रशेखरे मे भक्तिरस्तीत्यर्थः ॥ 66 वंशस्थं वृत्तम् " ॥ ९८ ॥ शिवध्यानैकतत्परे पुरुषे मदनादीनां व्यापारस्य वैफल्यं सूचयन्नाह - रे कन्दर्प करं कदर्थयसि किं कोदण्डटङ्कारितै रेरे कोकिल कोमलैः कलरवैः किं त्वं वृथा जल्पसि ॥ मुग्धे स्निग्धविदग्धमुग्धमधुरैर्लोलैः कटाक्षैरलं चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥ ९९ ॥ रे कन्दर्पेति ॥ रे कन्दर्प काम त्वं कोदण्डस्य धनुषः टङ्कारितैष्टणत्कारैः करं किं किमर्थं कदर्थयसि पीडयसि, हे कोकिल त्वं कोमलैः कलरवैरव्यक्त- मधुरध्वनिभिः वृथा व्यर्थ किं जल्पसि भाषसे, हे मुग्धे सुन्दरस्त्रि ते स्निग्धाः प्रेमाद्रश्च विदग्धाः कार्यकरणे निपुणाश्च मुग्धाः सुन्दराश्च मधुराः प्रियाश्च " स्वादु प्रियौ तु मधुरावित्यमरः " ॥ तैर्लोलैश्चञ्चलैः कटाक्षैरलं पर्याप्तम् ॥ कु- तः ॥ यतो मे चेतः चन्द्रचूडस्य शिवस्य यो चरणौ तयोर्ध्यानं चिन्तनं तदे- वामृतं यस्मिन्नेतादृशं वर्तते अतः शिवध्यानतत्परे मयि कन्दर्पादिभिः क्रियमा- णाः सर्वे यत्ना विफला इति भावः "शार्दूलविक्रीडितं वृत्तम् " ॥ ९९ ॥ निरन्तरं भगवद्ध्यानतत्परस्य योगिनः स्थितिमाह — कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी निश्चिन्तं सुखसाध्यभैक्ष्यमशनं शय्या श्मशाने वने ॥ मित्रामित्र समानताऽतिविमला चिन्ताथ शून्यालये ध्वस्ताशेषमदप्रमाद मुदितो योगी सुखं तिष्ठति ॥ १०० ॥ कौपीनमिति । शतानि अनेकानि खण्डानि शकलानि तैर्जर्जरतरमतिशयेन जर्जरमेवंविधं यस्य कौपीनमाच्छादनं वस्त्रम्, तथा पुनस्तादृशी कौपीनसह - शी कन्था, तथा निश्चिन्तं चिन्तारहितं तथा सुखेन साध्यं भैक्ष्यं यस्मिन्नेवं- विधमशनं भोजनम्, श्मशाने वने वा शय्या शयनम्, मित्रामित्रयोः समानता समभावः, अथ अतिविमलाऽतिनिर्मला शून्यालये विजनगृहे चिन्ता ईश्वरध्या- नम्, अतः ध्वस्तो निरस्तोऽशेषो मदो गर्वः प्रमादोऽनवधानता च ताभ्यां मु- Digitized by Google वैराग्यशतकम् । दितो हर्षितः एवंविधः अतः स योगी सुखं तिष्ठति ॥ योगाभ्यासपूर्वकं भ- गवद्धयानपरस्य योगिनो जर्जरकौपीनादिभिश्चित्तवैकल्याभावात्सुखेन स्थितिर्भ- वतीति भावः ॥ " शार्दूलविक्रीडितं वृत्तम् " 1130011 अचिरस्थायिभोगादिविषये आशां विहाय भगवच्चिन्तनमेव सर्वदा का- र्यमिति सूचयन्नाह - भोगा भरवृत्तयो बहुविधास्तैरेव चायं भव- स्तत्कस्यैव कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः ॥ आशापाशशतोपशान्तिविशदं चेतः समाधीयतां कामोच्छित्तिवशे स्वधामनि यदि श्रद्धेयमस्मद्वचः ॥ १०१ ॥ भोगा इति ॥ रे लोकाः - बहुविधा अनेकप्रकारा भोगाः ख्यादिसुखा- नि, भङ्गुरा नाशशीला वृत्तिः प्रवर्तनं येषां ते एवंविधाः सन्तीति शेषः ॥ तै- भोगैरेव हेतुभूतैरयं भवः संसारो भवति, तत्तस्मात् कस्यैव कृते कस्य सुखस्य प्रयोजनाय, एवशब्दो वाक्यपूरणार्थः ॥ परिभ्रमत धावनं कुरुत, चेष्टितै- मणादिव्यापारैः कृतं पर्याप्तम्, यदि अस्मद्वचः श्रद्धेयं श्रद्धा विश्वसनीयमि- ति यावत् ॥ अस्ति तर्हि कामस्य उच्छित्तिर्नाशो वशे यस्य तस्मिन् कामोच्छि- त्तिकारिणीत्यर्थः ॥ एवंविधे स्वधामनि स्वप्रकाशे आत्मनि आशापाशानां शतं तस्योपशान्तिस्तया विशदं निर्मलं एवंविधं आशापाशरहितमिति यावत् ॥ चेतः समाधीयतामेकाप्रीक्रियताम् ॥ शार्दूलविक्रीडितं वृत्तम् ॥ १०१ ॥ गिरिदर्यादिनिवासपूर्वकमात्मचिन्तनं कुर्वतां पुरुषाणां धन्यतां केवलम- नोरथमात्रेण क्रीडादिसुखं चिन्तयतामधन्यत्वं च सूचयन्नाह - धन्यानां गिरिकन्दरे निवसतां ज्योतिः परं ध्यायता- मानन्दाश्रुजलं पिबन्ति शकुना निःशङ्कमङ्केशयाः ॥ अस्माकं तु मनोरथोपरचितप्रासादद्वापीतट- क्रीडाकाननकेलिकौतुकजुषामायुः परं क्षीयते ॥ १०२ ॥ धन्यानामिति ॥ शकुनाः पक्षिणः, गिरिकन्दरे पर्वतगुहायां निवसतां वासं कुर्वताम् तथा परं ज्योतिर्ब्रह्म ध्यायतां चिन्तयतां धन्यानां कृतपुण्यानां अङ्के उत्सङ्गे शेरते ते अङ्केशयाः अङ्के स्थिताः एवंभूताः सन्तः तेषामेव नेत्रे- म्यो निर्गतं आनन्देन हर्षेण यदश्रुजलं बाष्पोदकं तत् निःशङ्कं यथा स्यात्तथा पिबन्ति ॥ एतादृशानां धन्यानामेव आयुषः साफल्यमिति भावः ॥ मनोरथेनो- Digitized by Google भर्तृहरिकृतं परचितानि कृतानि प्रासादो भवनं, वापीतटं दीर्घिकातटं च ॥ " सरो वापी तु दीर्घिकेत्यमरः " क्रीडाकाननं क्रीडावनं च तेषु या केलिः क्रीडा तस्याः कौतुकं जुषन्ति ते जुषस्तेषां मनोरथमात्रकल्पितं क्रीडासुखमनुभवता- मित्यर्थः ॥ एवंविधानां अस्माकं तु आयुरायुष्यं परं केवलं क्षीयते क्षीणं भ- वति ॥ तस्माद्वयमधन्या इति भावः ॥ " शार्दूलविक्रीडितं वृत्तम्" ॥१०२॥ दैववशाज्जन्मादि यद्यत्प्राप्तं तत्तत्सर्वं मृत्युप्रभृतिभिर्ग्रस्तत्वाच्चिरस्थायि न भ- वतीति श्लोकद्वयेनाह - आघ्रातं मरणेन जन्म जरया विद्युश्चलं यौवनं संतोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः ॥ लोकैर्मत्सरिभिर्गुणावनभुवो व्यालैर्नृपादुर्जनै- रस्थैर्येण धृतिर्जगत्यपहृता ग्रस्तं न किं केन वा ॥ १०३ ॥ आघ्रातमिति ॥ मरणेन जन्म आघ्रातमाक्रान्तम्, आघ्रातमित्यस्य विभक्ति- विपरिणामेन यथायोग्यमुत्तरत्रान्वयः ॥ तथा जरया विद्युदिव चलं चञ्चलं यौ- वनं तारुण्यम्, तथा धनस्य लिप्सा लब्धुमिच्छा तया संतोषः, तथा प्रौढाया अङ्गनायाः स्त्रियस्तासां विभ्रमैर्विलासैः शमसुखं शान्तिसुखम्, मत्सरिभिः परो- त्कर्षासहिष्णुभिः लोकैः गुणाः शीलौदार्यादयः, व्यालैः सर्वैर्वनभुव आरण्यभू- मयः, दुर्जनैर्नृपा राजानः, अस्थैर्येणास्वास्थ्येन धृतिर्धैर्यमपहृता, अस्मिन् जगति केन किं न प्रस्तमपि तु सर्व ग्रस्तमित्यर्थः ॥ [ अस्थैर्येण विभूतिरप्यपहृतेति- पाठे ] विभूतिरैश्वर्यमित्यर्थः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ १०३ ॥ आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते , लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः ॥ जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसा- सत्किं नाम निरङ्कुशेन विधिना यनिर्मितं सुस्थितम् ॥ १०४ ॥ आधिव्याधिशतैरिति ॥ विविधैरनेकैर्जनस्य आधयो मानसपीडाः व्याधयः शरीररोगाश्च तेषां शतानि तैः आरोग्यं उन्मूल्यते निर्मूलीक्रियते, तथा यत्र लक्ष्मीरस्ति तत्र विविधा आपद आपत्तयः विवृतमुद्घाटितं द्वारं यासां ता इव पतन्ति आगच्छन्ति, अवारिताः प्राप्नुवन्तीत्यर्थः ॥ तथा मृत्युः अवश्यं जातं सर्व आशु शीघ्रं विवशं यथास्यात्तथा आत्मसादात्माधीनं करोति, तस्मात् निरङ्कुशेन अप्रतिबद्धेन दुर्निवारेणेति यावत् । विधिना दैवेन यन्निर्मितमुत्पादितं Digitized by Google वैराग्यशतकम् । तत्कि सुस्थितं निश्चलं नाम ॥ अपि तु किमपि सुस्थितं नेत्यर्थः [सुस्थिरमिति पाठे]पि स एवार्थः ॥ " शार्दूलविक्रीडितं वृत्तम् ॥ १०४ ॥ 66 अस्मिन्संसारे किमपि सुखसाधनं नास्तीत्याह- कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे कान्ताविश्लेषदुःखव्यतिकरविषमे यौवने विप्रयोगः ॥ नारीणामप्यवज्ञाविलसितवदनो वृद्धभावोऽप्यसाधुः संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ॥ कृच्छ्रेणेति ॥ अमेध्यं विण्मूत्रादि मध्ये मध्यभागे यस्य तस्मिन् गर्भवासे निय- मिता सङ्कचिता तनुर्देहो येषां तेः पुरुषैः कृच्छ्रेण कष्टेन स्थीयते, गर्भे दुःखं प्रदर्श्य यौवनवार्धक्ययोरपि दुःखं दर्शयति ॥ कान्तेति ॥ कान्तायाः स्त्रियो वि- श्लेष वियोगस्तेन यद्दुःखं तस्य व्यतिकरो मिश्रणं तेन विषमे संभावितसङ्कटे एतादृशे यौवने विप्रयोगः स्त्रीवियोगो भवतीति शेषः ॥ तथा नारीणां स्त्रीणा- मप्यवज्ञयाऽवमानेन विलसितं विकसितं वदनं भाषणं यस्मिन्नेवंविधो वृद्धभा- वो वार्धक्यमप्यसाधुरसमीचीनोऽस्ति ॥ अतोऽस्मिन्संसारे रे मनुष्याः यदि स्वल्पमपि सुखं किंचिदस्ति तर्हि वदत ब्रूत ॥ न किंचिदस्तीत्यर्थः ॥ " शा- र्दूलविक्रीडितं वृत्तम् " ॥ १०९ ॥ शतपरिमिते चञ्चले आयुषि किंचिदपि सुखाशा नेत्याह- आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ॥ शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते 66 जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ १०६ ॥ आयुरिति ॥ नृणां मनुष्याणां आयुः वर्षशतं शतवर्षप्रमाणं परिमितमस्ति, तस्य अर्धे पञ्चाशत्संख्याकं रात्रौ निद्रया गतम्, तस्य पञ्चाशत्संख्याकस्यार्ध- स्य अर्ध सार्धद्वादशसंख्याकं पूर्वार्ध परस्य पञ्चविंशतिसंख्याकस्योत्तरार्धस्यापर- मर्धे सार्धद्वादशसंख्याकं बालत्ववृद्धत्वयोर्गतम्, तथा व्याधिः रोगः, वियोगः कुटुम्बादिवियोगश्च ताभ्यां यद्दुःखं तेन सहितं शेषं मध्यभागस्थावशिष्टं से- वादिभिः धनिकशुश्रूषादिभिर्नीयते, अतः वारितरङ्गवच्चञ्चलतरे जीवे जीविते "जीवोऽस्त्री जीविते पुंसीति त्रिकाण्डशेषः " ॥ प्राणिनां कुतः सुखं स्यान्न कुतोऽपीत्यर्थः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ १०६ ॥ 66 Digitized by Google भर्तृहरिकृतं दुष्करकर्मकारिणो निःस्पृहान्विवेकिनः पुरुषानभिनन्दन् मनोरथमात्रलब्धेषु धनादिषु स्पृहां कुर्वन्तमात्मानं निन्दन्नाह— ब्रह्मज्ञानविवेकिनोऽमलधियः कुर्वन्त्यहो दुष्करं यन्मुञ्चन्त्युपभोगकाञ्चनधनान्येकान्ततो निःस्पृहाः ॥ न प्राप्तानि पुरा न संप्रति न च प्राप्ते दृढप्रत्ययो वाञ्छामात्रपरिग्रहाण्यपि परं त्यक्तुं न शक्ता वयम् ॥ १०७ ॥ ब्रह्मज्ञानेति ॥ ब्रह्मज्ञाने विवेको विचारो येषां ते अतएवामला अज्ञानर- हिता धीर्बुद्धिर्येषां ते पुरुषाः तत् दुष्करं दुःखेन कर्तुमशक्यं कर्म कुर्वन्ति किं तत् एकान्ततो निश्चयेन निःस्पृहा अव्यभिलाषिणः सन्त उपभोगः ख्यादि- सुखं काञ्चनं सुवर्णं च धनानि च तानि मुञ्चन्ति त्यजन्तीति यत् ॥ परं तु पुरा न प्राप्तानि संप्रति वर्तमाने काले न, प्राप्ते च दृढप्रत्ययो दृढविश्वासो न, एवं सत्यपि वयं वाञ्छामात्रेण परिग्रहो येषां तानि धनादीन्यपि त्यक्तुं परं केवलं न शक्ताः न समर्थाः इत्यहो आश्चर्यम् ॥ "शार्दूलविक्रीडितं वृत्तम्" १०७ जरादिभिर्व्याप्ते चञ्चले आयुषि प्रतिकूलं कुर्वन्तं पुरुषं शोचन्निवाह — व्याघ्रीव तिष्ठति जरा परितर्जयन्ती रोगाश्च शत्रव इव प्रहरन्ति देहम् ॥ आयुः परिस्रवति भिन्नघटादिवाम्भो लोकस्तथाप्यहितमाचरतीति चित्रम् ॥ १०८ ॥ व्याघ्रीति ॥ जरा व्याघ्रीव परितर्जयन्ती भर्त्सयन्ती सती अग्रे तिष्ठति, रोगाश्व शत्रव इव देहं प्रहरन्ति प्रहारं कुर्वन्ति, देहः सर्वदा रोगव्याप्तो भवतीत्यर्थः ॥ आयुरायुष्यं भिन्नश्वासौ घटश्च तस्मादम्भ उदकमिव परिस्र- वति नश्यति, तथाऽपि लोकोऽहितं प्रतिकूलं कर्म आचरति इति चित्रमाश्चर्य- मित्यर्थः ॥ " वसन्ततिलका वृत्तम् " ॥ १०८ ॥ सततं परब्रह्मैकतानमनसः पुरुषस्य प्रियालापादिविषयाः संतोषं न जनयन्तीत्याह- सदा योगाभ्यासव्यसनवशयोरात्ममनसो- रविच्छिन्ना मैत्री स्फुरति कृतिनस्तस्य किमु तैः ॥ प्रियाणामाला पैरधरमधुभिर्वक्र कमलैः सनिःश्वासामोदैः सकुचकलशश्लेषसुरतैः ॥ १०९ ॥ सदेति ॥ यस्य सदा निरन्तरं योगस्याभ्यासस्तस्य व्यसनं तेन वशयोरा- Digitized by Google वैराग्यशतकम् । धीनयोः आत्मा ब्रह्म मनश्च तयोः अविच्छिन्ना विच्छेदरहिता निरन्तरेति या- वत् ॥ मैत्री स्फुरति प्रकाशते परब्रह्मणि यस्य मनः सर्वदा संलग्नं भवतीत्यर्थः ॥ तस्य कृतिनः तैः प्रियाणां स्त्रीणामालापैर्भाषणैः, तथा अधरमधुभिरधरोष्ठमधु- भिः, तथा निःश्वासाः श्वासोच्छ्वासास्तत्संबन्धिनो ये आमोदाः सुगन्धास्तैः सहितैः वक्रकमलैः, तथा कुचकलशयोः श्लेष आश्लेषस्तत्सहितैः सुरतैमैथुनैश्व किमु न किमपीत्यर्थः ॥ सर्वदा सांसारिकविषयत्यागपूर्वकं ब्रह्मचिन्तनमेव कार्यमिति भावः ॥ 66 शिखरिणी वृत्तम् ॥ १०९ ॥ सततं परोपकारं कुर्वतामेव जन्म सफलमितरेषां तदुम्बरान्तर्वर्तिमशकव- द्विफलमित्याह- जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं श्लाघ्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्विचक्रम् ॥ संजातव्यर्थ पक्षाः परहितकरणे नोपरिष्टान चाधो ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे प्राणिनो जातनष्टाः ॥ ११० ॥ जात इति ॥ स प्रसिद्ध एकः कूर्मः कच्छपो जातः, येन पृथु महत् यत् भुवनं तस्य भरो भारस्तस्मै पृष्ठं स्वष्टष्ठभागः अर्पितम् ॥ स्वपृष्ठे सकलभुवन- भारो धृत इत्यर्थः ॥ तथा ध्रुवस्यौत्तानपादेर्जन्म श्लाघ्यं स्तुत्यमस्तीति शेषः ॥ यत्र यदाधारेण नियमितं तेजस्विनां सप्तर्ष्यादीनां चक्रं भ्रमति ॥ नोपरिष्टात् न चाधः परहितकरणे परोपकारकरणे संजातोऽपि व्यर्थः पक्षः साहाय्यं येषां ते "पक्षः साहाय्येप्युष्णीषे इत्यमरः " एवंविधाः अपरे प्राणिनः ब्रह्माण्डमेवोदुम्बरं तस्यान्तर्मध्ये मशकस्तद्वत् जाताः पश्चानष्टाः जातमात्रेण नष्टा भवन्ती- त्यर्थः ॥ न कोऽपि तेभ्यः परोपकारः स्वार्थश्चेति व्यर्थजन्मान इति भावः ॥ " स्रग्धरा वृत्तम् ॥ ११० ॥ 66 संसारसमुद्रोत्तरणं वाञ्छद्भिः पुरुषैः स्त्रीसङ्गः सर्वथा त्याज्य इत्याह- उन्मीलत्रिवली तरङ्गवलयाप्रोलुङ्गपीनस्तन- द्वन्द्वेनोद्यतचक्रवाकमिथुना वक्राम्बुजोद्भासिनी ॥ कान्ताकारधरा नदीयमभितः क्रूराशया नेष्यतेः संसारार्णवमज्जनं यदि ततो दूरेण संत्यज्यताम् ॥ १११ ॥ उन्मीलदिति ॥ हे जनाः यदि संसारार्णवे संसारसमुद्रे मज्जनमवगाहनं नेष्यते इष्टं न भवति ततस्तर्हि अभित आसमन्ताद्भागे क्रूरा घातुका मकरादिजीवा यस्यां सा, पक्षे क्रूरः कठोर आशयश्चित्तं यस्याः सा, "नृशंसो घातुकः क्रूर. Digitized by Google भर्तृहरिकृतं इति, कर्कशं कठिनं क्रूरं कठोरमिति चामरः " एवंविधायाः कान्तायात्रि- या आकारस्तस्य धरा धारिणी इयं नदी दूरेण दूरतः संत्यज्यताम् ॥ की - दृशी नदी ॥ उन्मीलन्त्यो याः त्रिवलय उदरस्थत्रिवलयस्ता एव तरङ्गवलया- स्तरङ्गपङ्कयो यस्यां सा ॥ तथा प्रोत्तुङ्गमुन्नतं पीनं पुष्टं च यत् स्तनद्वन्द्वं कुचयुग्मं तेन उद्यतचक्रवाकयोर्मिथुनं युग्मं यस्यां सा, तथा वक्रमेवाम्बुजं कमलं तेन उद्भासिनी शोभमाना ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ १११ पञ्चभिर्ज्ञानेन्द्रियविषयैर्वञ्चितचित्तः स्वार्थे चालभमान आक्रोशपूर्वकं तान्नि- न्दन्नाह— 66 इह हि मधुरगीतं नृत्यमेतद्रसोऽयं स्फुरति परिमलोऽयं स्पर्श एष स्तनानाम् ॥ इति हतपरमार्थैरिन्द्रियैर्भ्राम्यमाणः स्वहितकरणभूतैः पञ्चभिर्वञ्चितोऽस्मि ॥ ११२ ॥ इह हीति ॥ इह लोके मधुरं गीतं गानम्, शब्दरूपो विषय इत्यर्थः ॥ एतनृत्यं नर्तनम् चक्षुर्विषय इत्यर्थः ॥ अयं रसः स्वादुपदार्थास्वादनं, रसने- न्द्रियविषय इत्यर्थः॥ अयं परिमलो गन्धः, घ्राणेन्द्रियविषय इत्यर्थः। एष स्तनानां स्पर्शश्च, त्वगिन्द्रियविषय इत्यर्थः ॥ स्फुरतीति सर्वत्र संबध्यते ॥ इति भ्राम्यमा- णोऽहं हतो नष्टः परमार्थो यैस्तैः तथा स्वहितस्य करणे धूर्तेर्वञ्चकैः पञ्च- भिरिन्द्रियैर्वञ्चितोऽस्मि ॥ " मालिनी वृत्तम् " ॥ ११२ ॥ गात्र वैकल्यादिकारिणीं जरां निन्दन्नाक्रोशपूर्वकमाह - गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दन्तावलि- टर्नश्यति वर्धते बधिरता वक्रं च लालायते ॥ वाक्यं नाद्रियते च बान्धवजनो भार्या न श्रुश्रूषते हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ ११३ ॥ गात्रमिति ॥ जीर्णं वयो यस्य एवंविधस्य पुरुषस्य गात्रं शरीरं सङ्कुचि- तं संकोचं प्राप्तम्, तथा गतिर्गमनं विगलिता नष्टा, च पुनः दन्तावलिर्द- न्तपङ्किष्टा पतिता, दृष्टिर्नश्यति, बधिरता बधिरत्वं वर्धते, उच्चैर्घुष्टमपि न श्रूयते इत्यर्थः ॥ वक्रं मुखं च लालायते लालावदिवाचरति, अत्र लालावच्छ- ब्दस्तद्वति वर्तते, तस्मात्कर्तुः क्यङिति क्यङ् ॥ बान्धवजनो वाक्यं वचनं ना- द्वियते न स्वीकरोति, दृड् आदरे तुदादिः । तथा भार्या स्त्री न शुश्रूषते Digitized by Google वैराग्यशतकम् । न सेवां करोति, पुत्रोऽपि अमित्रायते अमित्रवदाचरतीत्यर्थः ॥ हा कष्टम् ॥ शार्दूलविक्रीडितं वृत्तम् ॥ ११३॥ इह संसारे जन्मप्रभृति मरणपर्यन्तं तदुत्तरकालमपि च सुखैकलेशोऽपि नास्तीति सूचयन्नाह - क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः क्षणं वित्तैर्हीनः क्षणमपि च संपूर्णविभवः ॥ जराजीर्णेर क्रेनेट इव वलीमण्डिततनु- र्नरः संसारान्ते विशति यमधानीजवनिकाम् ॥ ११४ ॥ क्षणमिति ॥ नरः पुरुषः नट इव संसारस्य संसरणस्य अन्ते मरणानन्त- रमित्यर्थः ॥ यमधानी यमनगरी सैव जवनिका तिरस्करिणी लोके पडदा इति प्रसिद्धा " प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सेत्यमरः " तां विशति प्रविशति ॥ कीदृशो नरो नटश्च क्षणं अल्पकालं बालो भूत्वा क्षणमपि का - मेषु विषयेषु रसिकः, युवा तथा क्षणं वित्तैर्द्रव्यैहींनो रहितः, तथा क्षणमपि च संपूर्णो विभव ऐश्वर्ये यस्य सः, तथा जरया जीर्णानि शिथिलाने तै: अ- हस्ताद्यवयवैरुपलक्षितः, तथा वलीभिः उदरस्थात्रवलीभिः मण्डिता भूषि- ता तनुः शरीरं यस्यैवंविधः नटो यथा नानाविधभूमिकाः गृहीत्वा अन्ते यथा जवनिकां प्रविशति तद्वदयं नरोऽपि बालत्वादिभूमिकाः गृहीत्वा यमपुरी- जवनिकां प्रविशतीति भावः ॥ " शिखरिणी वृत्तम् " ॥ ११४ ॥ विक्षेपकशास्त्रार्थविचाराद्यभिलाषरहितेन मनसा शिवचिन्तनमेव कर्तव्य- मित्यर्थ स्वमनःस्थितिप्रदर्शनेन सूचयन्नाह - प्रशान्तशास्त्रार्थविचारचापलं निवृत्तनानारसकाव्यकौतुकम् ॥ निरस्तनिःशेषविकल्पविप्लवं प्रपत्तुमन्विच्छति शूलिनं मनः ॥ ११५ ॥ प्रशान्तेति ॥ प्रशान्तं शास्त्रार्थस्य विचारे चापलं चाञ्चल्यं यस्य तत्, शा- स्वार्थविचारे विषये चाञ्चल्यरहितमित्यर्थः ॥ नाना अनेका रसा येषु एवंविधानि यानि काव्यानि तेषां कौतुकं निवृत्तं नानारसकाव्यकौतुकं यस्य तत्, ना- नाविधकाव्यदर्शने कौतुकरहितमित्यर्थः ॥ निरस्तो निःशेषो विकल्पानां वि- प्लव उपद्रवो यस्य तत्, निःशेषविकल्परहितमित्यर्थः ॥ एवंविधं मे मनः शूलिनं शिवं प्रपत्तं शरणीकर्तुमन्विच्छति वाञ्छति ॥ [ प्रयत्नमिति पाठे ] मनोवि - शेषणम् ॥ प्रयत्नं प्रयत्नवदित्यर्थः ॥ यती प्रयत्ने इत्यस्य निष्ठान्तस्य रूपम् ॥ " वंशस्थं वृत्तम् " ॥ ११५ ॥ Digitized by Google भर्तृहरिकृतं भोगादेः सर्वस्य सभयत्वात् सर्वथा निर्भयं वैराग्यमेवाश्रयणीयमित्याशये- नाह— भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं मौने दैन्यभयं बले रिपुभयं रूपे जराया भयम् ॥ शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद्भयं सर्व वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥ ११६ ॥ भोगे इति ॥ भोगे ख्यादिसुखे रोगात् भयं भीतिरस्तीति शेषः ॥ एवमु- त्तरत्रापि बोध्यम् ॥ कुले सत्कुले च्युतिभयं विपरीतमाचरद्भयः स्त्रीपुत्रादिभ्यो भ्रंशभयम्, वित्ते धने नृपालाद्राज्ञः सकाशाद्भयम्, समयविशेषे राजाऽपहरि- ष्यतीति भयमित्यर्थः ॥ मौने मौनवृत्त्यां दैन्यादीनतायाः भयम्, दीनतया मौनं भ्रश्येदिति भयमित्यर्थः ॥ बले शौर्ये रिपोः शत्रोः सकाशाद्भयम्, युद्धादि- प्रसंगेनेत्यर्थः ॥ रूपे सौंदर्ये जरायाः सकाशात् भयम्, जरया सौंदर्यभ्रंशभयमि- त्यर्थः ॥ शास्त्रे वादात् भयम्, वादे सति जयपराजयोरनित्यत्वादित्यर्थः ॥ गुणेखलाद्दुर्जनाद्भयम्, खलस्य गुणेषु दोषारोपस्वभावत्वादित्यर्थः ॥ काये देहे कृतान्ताद्यमाद्भयम्, एवं सर्व वस्तु भुवि पृथिव्यां भयेनान्वितं युक्तमस्ति, परं तु नृणां वैराग्यमेव अभयं निर्भयमस्तीत्यर्थः ॥ अयमेव श्लोकः पाठान्तरेण दृश्यते ॥ स यथा ॥ भोगे रोगभयं सुखे क्षयभयं वित्तेषु भूभृद्भयं दासे स्वामिभयं जये रिपुभयं वंशे कुयोषिद्धयम् ॥ माने म्लानिभयं गुणे खलभयं काये कृता- न्ताद्भयं सर्वे नाम भयास्पदं भगवतो विष्णोः पदं निर्भयम् ॥ इति ॥ अस्यार्थः स्पष्ट एवेति कृत्वा न लिख्यते ॥ "शार्दूलविक्रीडितं वृत्तम्" ॥ ११६ ॥ बैराग्यशतकव्याख्यामर्थद्योतनिकाह्निकम् ॥ . कृष्णः कुर्यामहं तेन प्रीयतां ज्ञानदः शिवः ॥ १ ॥ प्रख्याते भुवि शालिवाहनशकेऽट्र्याकाशधृत्यन्विते वर्षे पार्थिवनामके रविदिने तैषेऽसिते पक्ष के ॥ द्वादश्यां शतकत्रयस्य विवृतिः पूर्णत्वमागादियमर्थद्योतनिकाभिधाऽबुधजनोद्बोधाय या दीपिका ॥ २ ॥ इति श्रीमहाबलोपाभिधकृष्णसूरिविरचितायामर्थद्योतनिकाभिधायां टीकार्या वैराग्यशतकं संपूर्णम् ॥ ५ ॥ Digitized by Google