<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<p>श्रीसुधर्मेन्द्रमहोदयः
कृष्णावधूत कवीशविरचितः
गौरवसम्पादकाः
पण्डितकेसरी श्री राजा एस्. गिरियाचार्याः
सम्पादकाः
विद्वान् श्री एस्. वि. भीमभट्टमहोदयाः
विद्वान् श्री राजा एस्. पवमानाचार्याः
प्रकाशकाः
अध्यक्षाः
श्रीगुरुसार्वभौमसंस्कृतविद्यापीठम्
मन्त्रालयः</p>
<pb n="2" />
<p>श्रीसुधर्मेन्द्रमहोदयः
कृष्णावधूतकवीशविरचितः
गौरवसम्पादकाः
पण्डितकेसरी श्री राजा एस्. गिरि आचार्या:
सम्पादकाः
विद्वान् श्री एस्. वि. भीमभट्ट महाशयाः
विद्वान् श्री राजा एस्. पवमानाचार्या:
प्रकाशकाः
अध्यक्षाः
श्रीगुरुसार्वभौम संस्कृत विद्यापीठम्
मन्त्रालयः</p>
<pb n="3" />
<p>प्रथमावृत्तिः क्रि. श. १९९५
१००० प्रतीकानि
सर्वेऽधिकाराः स्वायत्तीकृताः
मुद्रकः
डि. यस्. कृष्णाचार्यः, प्रभा मुद्रणालयः, बेंगलूरु 560004
-
-</p>
<pb n="4" />
<p>SUDHARMENDRAMAHODAYAHA
OF
KRISHNAVADHOOTAKAVISHA
Hon. Editor
Panditakesari
RAJA S. GIRIACHARYA
Editors
Vidwan S. V. BHIMABHAT
Vidwan RAJA S. PAVAMANACHARYA
Published by
PRINCIPAL
SRI GURUSARVABHOUMA SAMSKRITA
VIDYAPEETHAM
SRI RAGHAVENDRASWAMY MUTT
MANTRALAYAM-518345
Kurnool Dist. (A.P.)</p>
<pb n="5" />
<p>First Edition 1995
1000 Copies
All Rights Reserved by the Publishers
JAN) DICENTE
F11ANS AJUDA 2512Z BETO *
Printed by D. S. Krishnachar, M.Sc., at Prabha Printing House
22-A, Dr. D. V. Gundappa Road, Basavanagudi, Bangalore-4</p>
<pb n="6" />
<p>किञ्चित् प्रास्ताविकम्
अस्याः सुधर्मेन्द्रमहोदयनामिकाया: लघुकृते: अलंकार-
शास्त्रैकदेशलक्षणग्रन्थरूपाया: लक्ष्यरूपा: श्रीसुधर्मेन्द्रतीर्थमहोदयाः
पूर्वाश्रमे भारद्वाजगोत्रोद्भवाः श्रीगणेशाचार्यनाम्ना प्रसिद्धवैया-
करणा: श्रीसुज्ञानेन्द्रतीर्थश्रीपादानां प्रीत्यादरभाजनान्यभूवन् ।
श्रीसुज्ञानेन्द्रतीर्थगुरुभ्य एव स्वीकृततुर्याश्रमा: मंत्रालयक्षेत्रे
बहुवर्षपर्यन्तं श्रीमूलरामपूजां श्रीगुरुराजसेवां च निर्वहन्त एते
आचार्येभ्यः त्रिंशाः परमहंसा: हंसनामकपरमात्मन: दिग्विजय-
विद्यासिंहासनं पर्यभूषयन् मंत्रालयक्षेत्रे गुरुगजसन्निधावेव
वृन्दावनं प्रविश्य हरिध्यानपरायणा अभवन् ।
एतेषां महानुभावानां परमानुप्रभाजनीभूताः काव्य-
शास्त्रोभयनदीष्णाः श्रीकृष्णावधूतपण्डिताः श्रीगुरुसार्वभौम
राघवेन्द्रतीर्थकर्मन्दिनामन्तरङ्गभक्ता: माकिं षष्टितोऽप्याधिकान्
ग्रन्थान् निरमासिषुः । तेषु मंदारमरंदचम्पू: राघवेन्द्रपटलम्,
सुलभव्याकरणम्, तर्कसंग्रहव्याख्यारूप: पदार्थसागर: इत्यादयो-
ऽनेके ग्रन्थाः सुग्रहा: सुज्ञानप्रदाश्च वर्तन्ते । अनेके ग्रन्थाः मुद्रा-
पिताश्च विराजन्ते ।
प्रकृतं सुधर्मेन्द्रमहोदयनामकमिदं लघुलक्षणकाव्यम् लक्ष्य-
भूतानां तेषामेवाराधनमहोदये तदनुग्रहाशंसया इदंप्रथमतया
संशोध्य मुद्रापयित्वा संप्रकाश्यते । अस्य ग्रन्थस्य संशोधनसमये एका</p>
<pb n="7" />
<p>मातृका श्रीगुरुसार्वभौमसंस्कृतविद्यापीठीया अन्या च श्री राजा
एस्. गिरि आचार्याणां चेति द्वे मातृके समुपयुक्ते । तद्दातृभ्यः
कृतज्ञतामावेद्य, एतद्द्रन्थमुद्रापणानुज्ञां दत्तवद्भ्यः श्रीश्रीसुशमीन्द्र-
तीर्थश्रीचरणेभ्य: प्रणतितती: समर्पयाम: । एतद्गन्थावलोक-
यितृभ्यः श्री गुरुवर्याः श्री सुधर्मेन्द्रतीर्थमहोदया: नित्यमहोभाग्यं
वितरन्तु, श्री राघवेन्द्रतीर्थगुर्वन्तर्यामी भारतीशान्तर्गतः श्री
मूलरामचन्द्रः तान् सकलभाग्यप्रदानपूर्वकं रक्षत्विति संप्रार्थयामहे ।
मंत्रालय क्षेत्रम्
भाववत्सरीय शुक्ला षष्ठी
7-1-1995
विदुषां वशंवदाः
साणूरु भीमभट्टाः
राजा एस्. पवमानाचार्या:</p>
<pb n="8" />
<p>---
श्री राघवेन्द्र तीर्थगुरु सार्वभौमाः</p>
<lg>
  <l>पूज्याय राघवेन्द्राय सत्यधर्मरताय च ।</l>
  <l>भजतां कल्पवृक्षाय नमतां कामधेनवे ॥</l>
</lg>
<pb n="9" />
<p>श्रीसुधर्मेन्द्रतीर्थाः
bription
36.</p>
<lg>
  <l>सुधांशुमित्र सम्भूतं सुज्ञानेन्द्रसुधाम्बुधो ।</l>
  <l>सुधीसन्दोहसंसेव्यं सुधर्मेन्द्रगुरुं भजे ॥</l>
</lg>
<pb n="10" />
<p>श्रीमत्सुजयीन्द्रतीर्थश्रीपादाः</p>
<lg>
  <l>सुयमीन्द्रकराब्जोत्थं सुविद्याबोधकं सदा ।</l>
  <l>सुमूलरामपूजाढ्यं सुजयीन्द्रगुरुं भजे ॥</l>
</lg>
<p>upal</p>
<pb n="11" />
<p>॥ श्रीः ॥
श्री कृष्णावधूतकवीशविरचितः
॥ सुधर्मेन्द्रमहोदयः ॥</p>
<lg>
  <l>श्री रामाय नमः पुनः पुनरसौ दद्यात्समुद्यद्धियं</l>
  <l>वाणीञ्चामृतधोरणीं गुणलवान् स्तोतुं गुरोः प्रारभे ।</l>
  <l>यस्यालं जगति प्रकृष्टयशसां घाटीभिरापाण्डरे</l>
  <l>शेकुर्वस्तुविवेचने न कवयः स्तोतुं गुणान् किं पुनः ॥ १ ॥</l>
</lg>
<lg>
  <l>राम त्वत्करुणामबाघसरणां याचेऽद्य पूर्वाधिकां</l>
  <l>कस्ते वत्स समागतो हि समयः चिन्ताप्रदस्तादृशः ।</l>
  <l>कांश्चित् स्तोतुमहं यते गुणलवान् मन्दस्सुधर्मेन्द्रगान्</l>
  <l>इत्याकर्ण्य करं स मूर्ध्नि निदधौ स्तोतुं ततः प्रोत्सहे ॥ २ ॥</l>
</lg>
<lg>
  <l>मोदध्वं कवितालतामृतरसं संसेव्य मे सूरयः</l>
  <l>पूर्वेषां विदुषां प्रबन्धरचना किं नास्ति लोकत्रये ।</l>
  <l>निस्साराश्रयणा पुरातनकृतिः किं वर्णनीयं परं</l>
  <l>सैषा मे सरसाश्रिता खलु यया भद्रा सुधर्मेन्द्रभूः ॥ ३ ॥</l>
</lg>
<lg>
  <l>कैलासीयति भूधरान् सुरगिरौ हर्म्यायति प्रेयसी-</l>
  <l>दर्शं पश्यति चन्द्रिकां निजसभाचारं चरत्यम्बरे ।</l>
  <l>दिक्कान्तासु दुकूलति स्तनतटीष्वासाम्पटीरायते</l>
  <l>नर्नर्ति त्रिदिवे नटीव नितरां कीर्तिस्सुधर्मेन्द्रभू: ॥ ४ ॥</l>
</lg>
<pb n="12" />
<lg>
  <l>सुधर्मेन्द्रमुपाश्रित्य शोभतां कविता मम ।</l>
  <l>सुदृढोपघ्नसम्बद्धा सुदृढं शोभते लता ॥ ५ ॥</l>
</lg>
<lg>
  <l>सत्कवेः काव्यमाश्रित्य नेता कल्पं स जीवति ।</l>
  <l>काव्यञ्चापि महानेतृसंसर्गाच्चिरजीवितम् ॥ ६ ॥</l>
</lg>
<lg>
  <l>सत्कवेर्वा<flag>ङ</flag>यादर्शमवलम्ब्य यशोऽमलम् ।</l>
  <l>नायकस्य कवेर्वापि चिरं जीवति निश्चलम् ॥ ७ ॥</l>
</lg>
<lg>
  <l>अतोऽहं त्रैलोक्यप्रकटितसुधर्मेन्द्रयतिनो</l>
  <l>मुहुः श्रावं श्रावं गुणमणिमनर्घ्यं चिरतरम् ।</l>
  <l>यते स्तोतुं कृष्णः कविरहह मुग्धोऽपि बहुधा</l>
  <l>प्रबन्धानां कर्ता रघुपतिपदैकोरुशरण: ॥ ८ ॥</l>
</lg>
<lg>
  <l>सारस्याद्वा कवेर्नेतुर्गौरवाद्वा विमत्सरात् ।</l>
  <l>सारस्याद्बा दयालुत्वात्स्वीकुर्वन्तु कृतिं बुधाः ॥ ९ ॥</l>
</lg>
<p>आदौ काव्यसामान्यलक्षणम् ।</p>
<lg>
  <l>सालङ्कारौ च सगुणौ शब्दार्थौ दोषवर्जितौ ।</l>
  <l>काव्याम्नायानुरोधेन निबद्धौ काव्यमिष्यते ॥</l>
</lg>
<p>अत्र दोषपदेन श्रुतिकटुत्वन्यूनोपमादयो ग्राह्याः । तेन न
भारतप्रदिष्वतिव्याप्तिः । शब्दार्थयोरविनाभावात् द्विवचननिर्देशः ।
काव्याम्नायानुरोधेनेति स्वरूपकथनम् ॥</p>
<pb n="13" />
<p>अथ शब्दार्थस्वरूपे निरूप्येते-</p>
<lg>
  <l>अकारादिक्षकारान्तवर्णात्मा शब्द इष्यते ।</l>
</lg>
<lg>
  <l>स शब्दो द्विविधः प्रोक्तः पदवाक्यविभेदतः ॥</l>
  <l>सुप्तिङन्यतरस्यापि प्रकृतिः पदमीरितम् ।</l>
  <l>अन्यतरग्रहणेन न परस्पराव्याप्तिः ॥</l>
  <l>तिङ्सुबन्तोभयपदसमूहो वाक्यमिष्यते ॥</l>
</lg>
<p>समासव्यावृत्त्यर्थमन्तग्रहणम् । तिङन्तसमुदायस्सुबन्तसमु-
दायस्तदुभयसमुदायश्चेति वाक्यं त्रिविधम् । तिङन्तसमुदायो
यथा–पचति भवतीति । पाकानुकूला कृतिरस्तीत्यर्थः । पाको
भवतीति यावत् । सुबन्तसमुदायो यथा–घटः पटश्च जात
इत्यादि । तदुभयसमुदायो यथा–गां विसृजाश्वं बधानेति ।</p>
<lg>
  <l>पदन्तु त्रिविधं शक्तलक्षकव्यञ्जकात्मना ।</l>
</lg>
<lg>
  <l>साक्षात्सङ्केतितार्थं यदभिधत्ते हि वाचकम् ॥</l>
  <l>अन्यानुसन्धानमन्तरा विवक्षितार्थबोधजनकं पदं शक्तम् ।</l>
  <l>लक्षके व्यञ्जके च शक्यार्थानामनुसंधानानन्तरमेव विवक्षितार्थ-</l>
  <l>बोधोदयात्तद्वारणायान्तरान्तम् ॥</l>
</lg>
<p>व्यञ्जनालक्षणाभ्यां तद्बोधे व्यञ्जकलक्षके ॥
लक्षणया विवक्षितार्थबोधजनकं पदं लक्षकम् । व्यञ्जनया
विवक्षितार्थबोधजनकं पदं व्यञ्जकमित्यर्थः । त्रितयं यथा–</p>
<pb n="14" />
<lg>
  <l>सुधर्मेन्द्रश्चन्द्रो निवसतु चिराय क्षितितले</l>
  <l>सहस्राक्षस्साक्षादवतरित उर्वीसुरतया ।</l>
  <l>रघूत्तंसस्यार्चा पुनरपि विधातुं किमु न चे -</l>
  <l>त्सुधर्मेन्द्रेत्याख्यां न भजति कुतोऽन्यो भुवि जनः ॥ १० ॥</l>
</lg>
<p>अत्र "सर्वे देवा यतिनि सन्निविष्टाः तत्रापि हंसे परमहंसे
विशेषात् । तस्मादस्मिन् ध्याते पूजिते च सर्वे देवा ध्यात-
पूजास्ततो भावयेत्सर्वदेवमयत्वतो यति"मिति महाहंसो[^1]पनिष-
दुक्तेरिन्द्रादित्वाद्युक्तिः । अत्र सहस्राक्षादिपदं शक्तम् । चन्द्र-
पदस्य सामानाधिकरण्येनान्वयबाधात्तत्सादृश्यविशिष्टे लक्षणा ।
ततश्च सुधर्मेन्द्रचन्द्रयोरभेदान्वयः । पुनरितिपदन्तु पूर्वमिन्द्रो
जयतीर्थगुरुत्वेनावतीर्य रघुपतिपूजामकरोदित्यर्थस्य व्यञ्जकम् ।
व्यञ्जकं पदं वाक्यञ्च भवति । शक्तं लक्षकञ्च पदमेव । न तु
वाक्यम् । तत्र व्यञ्जनयैव निर्वाहात् ॥
अथ शब्दवृत्तिनिरूप्यते-</p>
<lg>
  <l>या शब्दमात्रव्यापाररूपिणी शब्दवृत्तिका ।</l>
  <l>कैशिक्यादिवारणाय मात्रपदम् ॥</l>
</lg>
<lg>
  <l>अभिधा लक्षणा चैव व्यञ्जना चेति सा त्रिधा ।</l>
  <l>व्यापारो वस्तुधीहेतुर्मुख्यः शब्दगतेऽभिधा ॥</l>
</lg>
<p>-
[^1]एतन्नामकोपनिषन्मृग्या । एतद्वाक्यवृन्दं समुपलभ्यमानोप-
निषत्संग्रहादिपुस्तकेषु नोपलभ्यते । किंतु प्रसिद्धेयमुपनिषत् ।</p>
<pb n="15" />
<p>अन्यवृत्त्यसहायत्वे सति वस्तुज्ञानहेतुत्वं शक्तेः लक्षणम् ।
लक्षणाव्यञ्जनावारणाय सत्यन्तम् । अनेकव्यक्तिकद्रव्यस्थले
विवक्षानुसारेण जातौ व्यक्तौ वा शक्तिः । एकव्यक्तिकद्रव्य-
स्थले व्यक्तावेव । अनेकव्यक्तिकगुणादिस्थलेऽपि व्यक्तावेव । तत्र
जात्यभावात् । एतद्विवरणं मत्कृतमन्दारमरन्दे [^1]द्रष्टव्यम् ।
शक्तिग्रहस्तु व्याकरणादिना भवति । तदुक्तं पूर्वैः–
[^2]शक्तिग्रहं व्याकरणोपमान -
कोशाप्तवाक्यात् व्यवहारतश्च ।
वाक्यस्य शेषाद्विवृतेर्वदन्ति
सान्निध्यतः सिद्धपदस्य वृद्धाः ॥ इति ।</p>
<lg>
  <l>रूढिर्योगो योगरूढिरिति सा त्रिविधा मता ।</l>
  <l>रूढिस्त्वव्यवधानेन व्यापारोऽर्थस्य बोधकः ॥</l>
</lg>
<p>अवयवार्थानुसन्धानमन्तरा विवक्षितार्थबोधकः व्यापारो रूढिः ॥
पदं रूढं बुधाः प्रोचुस्ताह्ग्रढिमुपाश्रितम् ।
यथा-
गुरुः सुधर्मेन्द्र उदेतुकामं
गुणैर्विनिद्रैर्गणनादरिद्रैः ।
-
[^1]मन्दारमरन्दचम्पूरित्येतैरेव कविभिर्विरचितो ग्रन्थः । परन्तु
तत्र श्लोकरूपे इदानीं मुद्रिते एतद्विवरणं न दृश्यते ।
[^2]मुक्तावल्यां शब्दपरिच्छेदे उद्धृतमेतत्पद्यम् ।</p>
<pb n="16" />
<p>मुदं जनानां जनयन्नजस्रं
भूमौ दधौ यः खलवादिशिक्षाम् ॥ ११ ॥
अत्र गुणादिपदानि रूढानि ॥
योगोऽवयबोधेन स्यादर्थस्याभिधायकः ।
अवयवार्थानुसन्धानपूर्वकं अर्थबोधको व्यापारो योगः ।
यौगिकं कथ्यते प्राज्ञैः योगेन सहितं पदम् ।
तर्हि व्यापारद्वयेनार्थबोधे वाक्यभेदापत्तिरिति चेदिष्टापत्तिः,
लौकिकवाक्यानां वक्तृविवक्षाधीनत्वात् । अर्थशक्तिमूलका
व्यञ्जना यथा-</p>
<lg>
  <l>नहि प्रियस्फुरत्कीर्ते जैत्रयात्रोन्मुखो भव ।</l>
  <l>इति वादिवधूः प्रोचे सुधर्मेन्द्रे  विराजति ॥ १२ ॥</l>
</lg>
<p>अत्र वाक्यार्थशक्त्या त्वं सुधर्मेन्द्रसमीपे गतश्चेत् सर्ववादिजयाय
प्रवृत्तः सः त्वां सर्वथा जेष्यति । ततस्तव प्रवर्धमानकीर्तेरप-
यशःप्राप्तिर्भवतीति वस्तु व्यज्यते । अत्रेदं रहस्यम्–व्यञ्जना
शब्दस्यैव कल्पनीया नत्वर्थस्य । नहि प्रियेत्यादौ व्यञ्जनाया
अर्थवृत्तित्वेन निर्वाहेऽपि हंसो जयति सामोदेत्यादौ अप्राकरणि-
कार्थबोधाय शब्दवृत्तित्वमवश्यमङ्गीकरणीयम् । उभयवृत्तित्व-
कल्पने गौरवेण लाघवाच्छब्दवृत्तित्वमेव कल्प्यम् । सा त्वेकैव
नानार्थस्थले शब्दसामर्थ्येनैव व्यञ्जनया वक्तृतात्पर्यप्रतीतिरिति</p>
<pb n="17" />
<p>शब्दशक्तिमूलका । नहि प्रियेत्यादावर्थसामर्थ्येनैव वक्तृ-
विवक्षितापजयाशङ्काप्रतीतेः अर्थशक्तिमूलका । उभयत्रापि
व्यञ्जनया अर्थप्रतिपत्तौ शब्दः सहकारी । शब्दशक्तिमूलक-
व्यञ्जनास्थले न लक्षणया निर्वाहः । वाच्यार्थबाधाभावात् ।
नाप्यनुमानेन चारितार्थ्यम् । औपम्यादिसाधकलिङ्गाभावात् ।
अर्थशक्तिमूलकव्यञ्जनास्थलेऽपि न लक्षणयोपपत्तिः । वाच्यार्थ-
बाधाभावात् । नाप्यनुमानेन निर्वाहः । व्यंग्यव्यञ्जकयोः
व्याप्त्यभावात् । तथाहि इयं वादिवधूः पत्यपजयाशङ्किनी नहि
प्रियेत्यादिवाक्यवत्त्वात्सम्प्रतिपन्नवदित्यादिप्रयोगः कल्पनीयः ।
पत्यपजयाशङ्काभावेऽपि प्रियविरहमसहमानाया ईदृशोक्तिसम्भ-
वात् व्यभिचारः[^1] । अतोऽनियतकार्यप्रतीतिर्व्यञ्जनयैव ॥
किञ्च एकस्मादेवार्थाद्वक्तृविवक्षानुसारेणानेकव्यंग्यार्थप्रतीति
रनुमानरीतिविरुद्धा । नात्राभिधा । तस्याः संकेतितार्थ एव कुण्ठित-
त्वात् शक्तिग्राहकाम्नायाभावाच्चेति ध्येयम् ॥
॥ इति शब्दनिरूपणम् ॥
-
[^1]अस्यानुमानस्य विरहिण्युक्ते वचने व्यभिचरितत्वात् इत्यभिप्रायः ।</p>
<pb n="18" />
<p>अर्थस्तु त्रिविधः शक्यलक्ष्यव्यंग्यविभेदतः ।
शाब्दबोधजनकतासमानाधिकरणशक्तिविषयत्वं शक्तत्वम् ।
शाब्दबोधविषयतासमानाधिकरणशक्तिविषयत्वं शक्यत्वमिति
शक्तशक्ययोर्भेदः । एवमग्रेऽपि । एवं त्रिविधोऽप्यर्थः वक्तृ-
बोद्धव्यविशेषादिज्ञानादर्थान्तरस्य व्यञ्जको भवति । तदुक्तम् –
"[^1]वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः ।
प्रस्तावदेशकालादेः विशेषात्प्रतिभाजुषाम् ।
योऽर्थस्यान्यार्थधीहेतुर्व्यापारी व्यञ्जनैव सा ॥" इति ।
नहि प्रियेत्यादौ बोद्धव्यविशेषस्य श्रीसुधर्मेन्द्रगुरुनिष्ठसकल-
वादिजयदक्षाखिलविद्यावैशद्यरूपार्थस्य ज्ञानाद्वक्तृनिष्ठपत्यपजया-
शङ्का व्यज्यते ॥ एवमन्यत्र यथासम्भवं द्रष्टव्यम् ।
इदमेव शक्यार्थस्य व्यञ्जकत्वे उदाहरणम् । लक्ष्यार्थस्य
व्यञ्जकत्वन्तु पूर्वमेव तत्र तत्र द्रष्टव्यम् । यथा वा-
वदाम्येतद्धीमन् किमिति कृपणानर्थयसि तान्
व्रज त्वं जङ्घालुर्गुरुवरसुधर्मेन्द्रचरणम् ।
-
[^1]काव्यप्रकाशस्था एते श्लोकाः कविभिरेतैरेव कृतायां मंदार-
मरंदचम्प्वां समुद्धृताः । पुटम् १८१ निर्णयसागरयन्त्रालये १९२४
तमवर्षे मुद्रितं पुस्तकम् ।</p>
<pb n="19" />
<p>प्रदानाद्यस्याब्धिः शममयति मज्जीवनमिति
पुरोधायेवाभ्रं जिगमिषुबुधानां प्रसरति ॥ १३ ॥
अत्र किमिति कृपणानित्यादिना कथने सिद्धे वदामीतिवचनमनुप-
योगबाघितं सत्, उपदेशस्य सम्यक्त्वे पर्यवस्यति । ततस्तत्र
लक्षणा । अनेन सर्वेऽपि बुधाः श्रीसुधर्मेन्द्रमाश्रित्य दारिद्र्यं
जहुः । त्वमपि तथा कुरुषे चेत् छिन्नदारिद्र्यो भविष्यसि ।
चिन्तां मा गा इत्यादिशिक्षादानं व्यज्यते ॥
व्यंग्यार्थस्य व्यञ्जकत्वं यथा -</p>
<lg>
  <l>चातुर्यं किमु वर्ण्यते गुरुवरश्रीमत्सुधर्मेन्द्रगं</l>
  <l>द्रव्योत्सर्जनमार्जनं यदकरोत् निर्बाधभाग्योदयः ।</l>
  <l>यत्प्रत्यर्थिजनेषु जन्मसहजं वीक्ष्यैव दैन्यं सुहृत्</l>
  <l>दारिद्र्यं सहते हि केवलममून्मत्वा शरण्यानिति ॥ १४ ॥</l>
</lg>
<p>अत्रोत्तरार्धे उत्प्रेक्षालङ्कारेण केवलपदेन अन्यत्र दारिद्र्यं निषिध्य
प्रतिवादिष्वेव स्थापनात् परिसंख्यारूपार्थालङ्कारो व्यज्यते । तेन
प्रतिवादिनां श्रीसुधर्मेन्द्रभयेन खिन्नत्वमितरेषां तदाश्रयेण सौख्यं
व्यज्यते । तेन श्रीसुधर्मेन्द्रगुरोर्लोकोत्तरत्वं व्यज्यते । स्वतो
विरुद्धयोस्त्यागार्जनयोः स्वात्मकैकाधिकरणप्रापणाच्चातुर्यम् ॥</p>
<lg>
  <l>समस्तदेवसान्निध्यसिद्धिभाजो जगद्गुरोः ।</l>
  <l>पावित्र्यं व्रजताद्वाणी सुधर्मेन्द्रस्य कीर्तनात् ॥ १५ ॥</l>
</lg>
<pb n="20" />
<lg>
  <l>यथा तुष्यन्ति विबुधाः सुधर्मेन्द्रमहोदयात् ।</l>
  <l>तथा कृष्णकवीशस्य सुधर्मेन्द्रमहोदयात् ॥ १६ ॥</l>
</lg>
<p>॥ इति श्रीकृष्णावधूतकवीशविरचितः
सुधर्मेन्द्र महोदयः समाप्तः ॥
को दामत्वमवाप वार्धिमथने[^1] मन्थानतां[^2] चाप को
मन्थानो विधृतश्च[^3] केन विभुना कोऽभूत्तमोघ्नस्ततः ।[^4]
कस्तत्रोत्थविषं[^5] पपौ सुरगणे दत्तञ्च केनामृतम्[^5]
तत्प्रश्नोत्तरमध्यवर्णघटिते भूयात्सुभक्तिर्मम ॥</p>
<lg>
  <l>वाहीकृतमहाधेनुगणाधिपविनायकौ[^7] ।</l>
  <l>भवतां भवतां भूत्यै पार्वतीपरमेश्वरौ ॥</l>
</lg>
<p>-
[^1]वासुकि: - सु
[^2]भूधरः - ध
[^3]कूर्मेण - र्मे
[^4]चन्द्रमाः - न्द्र
[^5]सुयोगी - यो
[^6]योगीशेन - गी
सुधर्मेन्द्रयोगी। सुधर्मेन्द्रयोगिनि मम सुभक्तिर्भूयात् इति
कविराशास्ते ।
[^7] वाहीकृतः महाघेनुगणाधिपः नन्दी, एवं वाहीकृतः वीनां
पक्षिणां नायकः गरुडः याभ्यां पार्वती - परमेश्वराभ्यां तथाभूतौ
शम्भुविष्णू ।</p>
</body>
</text>
</TEI>