श्रीसुधर्मेन्द्रमहोदयः कृष्णावधूत कवीशविरचितः गौरवसम्पादकाः पण्डितकेसरी श्री राजा एस्. गिरियाचार्याः सम्पादकाः विद्वान् श्री एस्. वि. भीमभट्टमहोदयाः विद्वान् श्री राजा एस्. पवमानाचार्याः प्रकाशकाः अध्यक्षाः श्रीगुरुसार्वभौमसंस्कृतविद्यापीठम् मन्त्रालयः १९९५ श्रीसुधर्मेन्द्रमहोदयः कृष्णावधूतकवीशविरचितः गौरवसम्पादकाः पण्डितकेसरी श्री राजा एस्. गिरि आचार्या: सम्पादकाः विद्वान् श्री एस्. वि. भीमभट्ट महाशयाः विद्वान् श्री राजा एस्. पवमानाचार्या: प्रकाशकाः अध्यक्षाः श्रीगुरुसार्वभौम संस्कृत विद्यापीठम् मन्त्रालयः १९९५ प्रथमावृत्तिः क्रि. श. १९९५ १००० प्रतीकानि सर्वेऽधिकाराः स्वायत्तीकृताः मुद्रकः डि. यस्. कृष्णाचार्यः, प्रभा मुद्रणालयः, बेंगलूरु 560004 SUDHARMENDRAMAHODAYAHA OF KRISHNAVADHOOTAKAVISHA Hon. Editor Panditakesari RAJA S. GIRIACHARYA Editors Vidwan S. V. BHIMABHAT Vidwan RAJA S. PAVAMANACHARYA Published by PRINCIPAL SRI GURUSARVABHOUMA SAMSKRITA VIDYAPEETHAM SRI RAGHAVENDRASWAMY MUTT MANTRALAYAM-518345 Kurnool Dist. (A.P.) First Edition 1995 1000 Copies All Rights Reserved by the Publishers JAN) DICENTE F11ANS AJUDA 2512Z BETO * Printed by D. S. Krishnachar, M.Sc., at Prabha Printing House 22-A, Dr. D. V. Gundappa Road, Basavanagudi, Bangalore-4 किञ्चित् प्रास्ताविकम् अस्याः सुधर्मेन्द्रमहोदयनामिकाया: लघुकृते: अलंकारशास्त्रैकदेशलक्षणग्रन्थरूपाया: लक्ष्यरूपा: श्रीसुधर्मेन्द्रतीर्थमहोदयाः पूर्वाश्रमे भारद्वाजगोत्रोद्भवाः श्रीगणेशाचार्यनाम्ना प्रसिद्धवैयाकरणा: श्रीसुज्ञानेन्द्रतीर्थश्रीपादानां प्रीत्यादरभाजनान्यभूवन् । श्रीसुज्ञानेन्द्रतीर्थगुरुभ्य एव स्वीकृततुर्याश्रमा: मंत्रालयक्षेत्रे बहुवर्षपर्यन्तं श्रीमूलरामपूजां श्रीगुरुराजसेवां च निर्वहन्त एते आचार्येभ्यः त्रिंशाः परमहंसा: हंसनामकपरमात्मन: दिग्विजयविद्यासिंहासनं पर्यभूषयन् मंत्रालयक्षेत्रे गुरुगजसन्निधावेव वृन्दावनं प्रविश्य हरिध्यानपरायणा अभवन् । एतेषां महानुभावानां परमानुप्रभाजनीभूताः काव्यशास्त्रोभयनदीष्णाः श्रीकृष्णावधूतपण्डिताः श्रीगुरुसार्वभौम राघवेन्द्रतीर्थकर्मन्दिनामन्तरङ्गभक्ता: माकिं षष्टितोऽप्याधिकान् ग्रन्थान् निरमासिषुः । तेषु मंदारमरंदचम्पू: राघवेन्द्रपटलम्, सुलभव्याकरणम्, तर्कसंग्रहव्याख्यारूप: पदार्थसागर: इत्यादयोऽनेके ग्रन्थाः सुग्रहा: सुज्ञानप्रदाश्च वर्तन्ते । अनेके ग्रन्थाः मुद्रापिताश्च विराजन्ते । प्रकृतं सुधर्मेन्द्रमहोदयनामकमिदं लघुलक्षणकाव्यम् लक्ष्यभूतानां तेषामेवाराधनमहोदये तदनुग्रहाशंसया इदंप्रथमतया संशोध्य मुद्रापयित्वा संप्रकाश्यते । अस्य ग्रन्थस्य संशोधनसमये एका मातृका श्रीगुरुसार्वभौमसंस्कृतविद्यापीठीया अन्या च श्री राजा एस्. गिरि आचार्याणां चेति द्वे मातृके समुपयुक्ते । तद्दातृभ्यः कृतज्ञतामावेद्य, एतद्द्रन्थमुद्रापणानुज्ञां दत्तवद्भ्यः श्रीश्रीसुशमीन्द्रतीर्थश्रीचरणेभ्य: प्रणतितती: समर्पयाम: । एतद्गन्थावलोकयितृभ्यः श्री गुरुवर्याः श्री सुधर्मेन्द्रतीर्थमहोदया: नित्यमहोभाग्यं वितरन्तु, श्री राघवेन्द्रतीर्थगुर्वन्तर्यामी भारतीशान्तर्गतः श्री मूलरामचन्द्रः तान् सकलभाग्यप्रदानपूर्वकं रक्षत्विति संप्रार्थयामहे । मंत्रालय क्षेत्रम् भाववत्सरीय शुक्ला षष्ठी 7-1-1995 विदुषां वशंवदाः साणूरु भीमभट्टाः राजा एस्. पवमानाचार्या: -- श्री राघवेन्द्र तीर्थगुरु सार्वभौमाः पूज्याय राघवेन्द्राय सत्यधर्मरताय च । भजतां कल्पवृक्षाय नमतां कामधेनवे ॥ श्रीसुधर्मेन्द्रतीर्थाः bription 36. सुधांशुमित्र सम्भूतं सुज्ञानेन्द्रसुधाम्बुधो । सुधीसन्दोहसंसेव्यं सुधर्मेन्द्रगुरुं भजे ॥ श्रीमत्सुजयीन्द्रतीर्थश्रीपादाः ००००००० सुयमीन्द्रकराब्जोत्थं सुविद्याबोधकं सदा । सुमूलरामपूजाढ्यं सुजयीन्द्रगुरुं भजे ॥ upal ॥ श्रीः ॥ श्री कृष्णावधूतकवीशविरचितः ॥ सुधर्मेन्द्रमहोदयः ॥ श्री रामाय नमः पुनः पुनरसौ दद्यात्समुद्यद्धियं वाणीञ्चामृतधोरणीं गुणलवान् स्तोतुं गुरोः प्रारभे । यस्यालं जगति प्रकृष्टयशसां घाटीभिरापाण्डरे शेकुर्वस्तुविवेचने न कवयः स्तोतुं गुणान् किं पुनः ॥ १ ॥ राम त्वत्करुणामबाघसरणां याचेऽद्य पूर्वाधिकां कस्ते वत्स समागतो हि समयः चिन्ताप्रदस्तादृशः । कांश्चित् स्तोतुमहं यते गुणलवान् मन्दस्सुधर्मेन्द्रगान् इत्याकर्ण्य करं स मूर्ध्नि निदधौ स्तोतुं ततः प्रोत्सहे ॥ २ ॥ मोदध्वं कवितालतामृतरसं संसेव्य मे सूरयः पूर्वेषां विदुषां प्रबन्धरचना किं नास्ति लोकत्रये । निस्साराश्रयणा पुरातनकृतिः किं वर्णनीयं परं सैषा मे सरसाश्रिता खलु यया भद्रा सुधर्मेन्द्रभूः ॥ ३ ॥ कैलासीयति भूधरान् सुरगिरौ हर्म्यायति प्रेयसी- दर्शं पश्यति चन्द्रिकां निजसभाचारं चरत्यम्बरे । दिक्कान्तासु दुकूलति स्तनतटीष्वासाम्पटीरायते नर्नर्ति त्रिदिवे नटीव नितरां कीर्तिस्सुधर्मेन्द्रभू: ॥ ४ ॥ सुधर्मेन्द्रमुपाश्रित्य शोभतां कविता मम । सुदृढोपघ्नसम्बद्धा सुदृढं शोभते लता ॥ ५ ॥ सत्कवेः काव्यमाश्रित्य नेता कल्पं स जीवति । काव्यञ्चापि महानेतृसंसर्गाच्चिरजीवितम् ॥ ६ ॥ सत्कवेर्वायादर्शमवलम्ब्य यशोऽमलम् । नायकस्य कवेर्वापि चिरं जीवति निश्चलम् ॥ ७ ॥ अतोऽहं त्रैलोक्यप्रकटितसुधर्मेन्द्रयतिनो मुहुः श्रावं श्रावं गुणमणिमनर्घ्यं चिरतरम् । यते स्तोतुं कृष्णः कविरहह मुग्धोऽपि बहुधा प्रबन्धानां कर्ता रघुपतिपदैकोरुशरण: ॥ ८ ॥ सारस्याद्वा कवेर्नेतुर्गौरवाद्वा विमत्सरात् । सारस्याद्बा दयालुत्वात्स्वीकुर्वन्तु कृतिं बुधाः ॥ ९ ॥ आदौ काव्यसामान्यलक्षणम् । सालङ्कारौ च सगुणौ शब्दार्थौ दोषवर्जितौ । काव्याम्नायानुरोधेन निबद्धौ काव्यमिष्यते ॥ अत्र दोषपदेन श्रुतिकटुत्वन्यूनोपमादयो ग्राह्याः । तेन न भारतप्रदिष्वतिव्याप्तिः । शब्दार्थयोरविनाभावात् द्विवचननिर्देशः । काव्याम्नायानुरोधेनेति स्वरूपकथनम् ॥ अथ शब्दार्थस्वरूपे निरूप्येते अकारादिक्षकारान्तवर्णात्मा शब्द इष्यते । स शब्दो द्विविधः प्रोक्तः पदवाक्यविभेदतः ॥ सुप्तिङन्यतरस्यापि प्रकृतिः पदमीरितम् । अन्यतरग्रहणेन न परस्पराव्याप्तिः ॥ तिङ्सुबन्तोभयपदसमूहो वाक्यमिष्यते ॥ समासव्यावृत्त्यर्थमन्तग्रहणम् । तिङन्तसमुदायस्सुबन्तसमुदायस्तदुभयसमुदायश्चेति वाक्यं त्रिविधम् । तिङन्तसमुदायो यथा–पचति भवतीति । पाकानुकूला कृतिरस्तीत्यर्थः । पाको भवतीति यावत् । सुबन्तसमुदायो यथा–घटः पटश्च जात इत्यादि । तदुभयसमुदायो यथा–गां विसृजाश्वं बधानेति । पदन्तु त्रिविधं शक्तलक्षकव्यञ्जकात्मना । साक्षात्सङ्केतितार्थं यदभिधत्ते हि वाचकम् ॥ अन्यानुसन्धानमन्तरा विवक्षितार्थबोधजनकं पदं शक्तम् । लक्षके व्यञ्जके च शक्यार्थानामनुसंधानानन्तरमेव विवक्षितार्थ- बोधोदयात्तद्वारणायान्तरान्तम् ॥ व्यञ्जनालक्षणाभ्यां तद्बोधे व्यञ्जकलक्षके ॥ लक्षणया विवक्षितार्थबोधजनकं पदं लक्षकम् । व्यञ्जनया विवक्षितार्थबोधजनकं पदं व्यञ्जकमित्यर्थः । त्रितयं यथा– सुधर्मेन्द्रश्चन्द्रो निवसतु चिराय क्षितितले सहस्राक्षस्साक्षादवतरित उर्वीसुरतया । रघूत्तंसस्यार्चा पुनरपि विधातुं किमु न चे त्सुधर्मेन्द्रेत्याख्यां न भजति कुतोऽन्यो भुवि जनः ॥ १० ॥ अत्र "सर्वे देवा यतिनि सन्निविष्टाः तत्रापि हंसे परमहंसे विशेषात् । तस्मादस्मिन् ध्याते पूजिते च सर्वे देवा ध्यात- पूजास्ततो भावयेत्सर्वदेवमयत्वतो यति"मिति महाहंसो[^1]पनिष- दुक्तेरिन्द्रादित्वाद्युक्तिः । अत्र सहस्राक्षादिपदं शक्तम् । चन्द्र- पदस्य सामानाधिकरण्येनान्वयबाधात्तत्सादृश्यविशिष्टे लक्षणा । ततश्च सुधर्मेन्द्रचन्द्रयोरभेदान्वयः । पुनरितिपदन्तु पूर्वमिन्द्रो जयतीर्थगुरुत्वेनावतीर्य रघुपतिपूजामकरोदित्यर्थस्य व्यञ्जकम् । व्यञ्जकं पदं वाक्यञ्च भवति । शक्तं लक्षकञ्च पदमेव । न तु वाक्यम् । तत्र व्यञ्जनयैव निर्वाहात् ॥ अथ शब्दवृत्तिनिरूप्यते या शब्दमात्रव्यापाररूपिणी शब्दवृत्तिका । कैशिक्यादिवारणाय मात्रपदम् ॥ अभिधा लक्षणा चैव व्यञ्जना चेति सा त्रिधा । व्यापारो वस्तुधीहेतुर्मुख्यः शब्दगतेऽभिधा ॥ [^1]एतन्नामकोपनिषन्मृग्या । एतद्वाक्यवृन्दं समुपलभ्यमानोपनिषत्संग्रहादिपुस्तकेषु नोपलभ्यते । किंतु प्रसिद्धेयमुपनिषत् । अन्यवृत्त्यसहायत्वे सति वस्तुज्ञानहेतुत्वं शक्तेः लक्षणम् । लक्षणाव्यञ्जनावारणाय सत्यन्तम् । अनेकव्यक्तिकद्रव्यस्थले विवक्षानुसारेण जातौ व्यक्तौ वा शक्तिः । एकव्यक्तिकद्रव्यस्थले व्यक्तावेव । अनेकव्यक्तिकगुणादिस्थलेऽपि व्यक्तावेव । तत्र जात्यभावात् । एतद्विवरणं मत्कृतमन्दारमरन्दे [^1]द्रष्टव्यम् । शक्तिग्रहस्तु व्याकरणादिना भवति । तदुक्तं पूर्वैः– [^2]शक्तिग्रहं व्याकरणोपमान कोशाप्तवाक्यात् व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ॥ इति । रूढिर्योगो योगरूढिरिति सा त्रिविधा मता । रूढिस्त्वव्यवधानेन व्यापारोऽर्थस्य बोधकः ॥ अवयवार्थानुसन्धानमन्तरा विवक्षितार्थबोधकः व्यापारो रूढिः ॥ पदं रूढं बुधाः प्रोचुस्ताह्ग्रढिमुपाश्रितम् । यथागुरुः सुधर्मेन्द्र उदेतुकामं गुणैर्विनिद्रैर्गणनादरिद्रैः । - [^1]मन्दारमरन्दचम्पूरित्येतैरेव कविभिर्विरचितो ग्रन्थः । परन्तु तत्र श्लोकरूपे इदानीं मुद्रिते एतद्विवरणं न दृश्यते । [^2]मुक्तावल्यां शब्दपरिच्छेदे उद्धृतमेतत्पद्यम् । मुदं जनानां जनयन्नजस्रं भूमौ दधौ यः खलवादिशिक्षाम् ॥ ११ ॥ अत्र गुणादिपदानि रूढानि ॥ योगोऽवयबोधेन स्यादर्थस्याभिधायकः । अवयवार्थानुसन्धानपूर्वकं अर्थबोधको व्यापारो योगः । यौगिकं कथ्यते प्राज्ञैः योगेन सहितं पदम् । तर्हि व्यापारद्वयेनार्थबोधे वाक्यभेदापत्तिरिति चेदिष्टापत्तिः, लौकिकवाक्यानां वक्तृविवक्षाधीनत्वात् । अर्थशक्तिमूलका व्यञ्जना यथा नहि प्रियस्फुरत्कीर्ते जैत्रयात्रोन्मुखो भव । इति वादिवधूः प्रोचे सुधर्मेन्द्रे विराजति ॥ १२ ॥ अत्र वाक्यार्थशक्त्या त्वं सुधर्मेन्द्रसमीपे गतश्चेत् सर्ववादिजयाय प्रवृत्तः सः त्वां सर्वथा जेष्यति । ततस्तव प्रवर्धमानकीर्तेरप- यशःप्राप्तिर्भवतीति वस्तु व्यज्यते । अत्रेदं रहस्यम्–व्यञ्जना शब्दस्यैव कल्पनीया नत्वर्थस्य । नहि प्रियेत्यादौ व्यञ्जनाया अर्थवृत्तित्वेन निर्वाहेऽपि हंसो जयति सामोदेत्यादौ अप्राकरणि- कार्थबोधाय शब्दवृत्तित्वमवश्यमङ्गीकरणीयम् । उभयवृत्तित्व- कल्पने गौरवेण लाघवाच्छब्दवृत्तित्वमेव कल्प्यम् । सा त्वेकैव नानार्थस्थले शब्दसामर्थ्येनैव व्यञ्जनया वक्तृतात्पर्यप्रतीतिरिति शब्दशक्तिमूलका । नहि प्रियेत्यादावर्थसामर्थ्येनैव वक्तृ- विवक्षितापजयाशङ्काप्रतीतेः अर्थशक्तिमूलका । उभयत्रापि व्यञ्जनया अर्थप्रतिपत्तौ शब्दः सहकारी । शब्दशक्तिमूलक- व्यञ्जनास्थले न लक्षणया निर्वाहः । वाच्यार्थबाधाभावात् । नाप्यनुमानेन चारितार्थ्यम् । औपम्यादिसाधकलिङ्गाभावात् । अर्थशक्तिमूलकव्यञ्जनास्थलेऽपि न लक्षणयोपपत्तिः । वाच्यार्थ- बाधाभावात् । नाप्यनुमानेन निर्वाहः । व्यंग्यव्यञ्जकयोः व्याप्त्यभावात् । तथाहि इयं वादिवधूः पत्यपजयाशङ्किनी नहि प्रियेत्यादिवाक्यवत्त्वात्सम्प्रतिपन्नवदित्यादिप्रयोगः कल्पनीयः । पत्यपजयाशङ्काभावेऽपि प्रियविरहमसहमानाया ईदृशोक्तिसम्भ- वात् व्यभिचारः[^1] । अतोऽनियतकार्यप्रतीतिर्व्यञ्जनयैव ॥ किञ्च एकस्मादेवार्थाद्वक्तृविवक्षानुसारेणानेकव्यंग्यार्थप्रतीति रनुमानरीतिविरुद्धा । नात्राभिधा । तस्याः संकेतितार्थ एव कुण्ठित- त्वात् शक्तिग्राहकाम्नायाभावाच्चेति ध्येयम् ॥ ॥ इति शब्दनिरूपणम् ॥ [^1]अस्यानुमानस्य विरहिण्युक्ते वचने व्यभिचरितत्वात् इत्यभिप्रायः । अर्थस्तु त्रिविधः शक्यलक्ष्यव्यंग्यविभेदतः । शाब्दबोधजनकतासमानाधिकरणशक्तिविषयत्वं शक्तत्वम् । शाब्दबोधविषयतासमानाधिकरणशक्तिविषयत्वं शक्यत्वमिति शक्तशक्ययोर्भेदः । एवमग्रेऽपि । एवं त्रिविधोऽप्यर्थः वक्तृबोद्धव्यविशेषादिज्ञानादर्थान्तरस्य व्यञ्जको भवति । तदुक्तम् – "[^1]वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः । प्रस्तावदेशकालादेः विशेषात्प्रतिभाजुषाम् । योऽर्थस्यान्यार्थधीहेतुर्व्यापारी व्यञ्जनैव सा ॥" इति । नहि प्रियेत्यादौ बोद्धव्यविशेषस्य श्रीसुधर्मेन्द्रगुरुनिष्ठसकलवादिजयदक्षाखिलविद्यावैशद्यरूपार्थस्य ज्ञानाद्वक्तृनिष्ठपत्यपजयाशङ्का व्यज्यते ॥ एवमन्यत्र यथासम्भवं द्रष्टव्यम् । इदमेव शक्यार्थस्य व्यञ्जकत्वे उदाहरणम् । लक्ष्यार्थस्य व्यञ्जकत्वन्तु पूर्वमेव तत्र तत्र द्रष्टव्यम् । यथा वा वदाम्येतद्धीमन् किमिति कृपणानर्थयसि तान् व्रज त्वं जङ्घालुर्गुरुवरसुधर्मेन्द्रचरणम् । - [^1]काव्यप्रकाशस्था एते श्लोकाः कविभिरेतैरेव कृतायां मंदार- मरंदचम्प्वां समुद्धृताः । पुटम् १८१ निर्णयसागरयन्त्रालये १९२४ तमवर्षे मुद्रितं पुस्तकम् । प्रदानाद्यस्याब्धिः शममयति मज्जीवनमिति पुरोधायेवाभ्रं जिगमिषुबुधानां प्रसरति ॥ १३ ॥ अत्र किमिति कृपणानित्यादिना कथने सिद्धे वदामीतिवचनमनुप- योगबाघितं सत्, उपदेशस्य सम्यक्त्वे पर्यवस्यति । ततस्तत्र लक्षणा । अनेन सर्वेऽपि बुधाः श्रीसुधर्मेन्द्रमाश्रित्य दारिद्र्यं जहुः । त्वमपि तथा कुरुषे चेत् छिन्नदारिद्र्यो भविष्यसि । चिन्तां मा गा इत्यादिशिक्षादानं व्यज्यते ॥ व्यंग्यार्थस्य व्यञ्जकत्वं यथा चातुर्यं किमु वर्ण्यते गुरुवरश्रीमत्सुधर्मेन्द्रगं द्रव्योत्सर्जनमार्जनं यदकरोत् निर्बाधभाग्योदयः । यत्प्रत्यर्थिजनेषु जन्मसहजं वीक्ष्यैव दैन्यं सुहृत् दारिद्र्यं सहते हि केवलममून्मत्वा शरण्यानिति ॥ १४ ॥ अत्रोत्तरार्धे उत्प्रेक्षालङ्कारेण केवलपदेन अन्यत्र दारिद्र्यं निषिध्य प्रतिवादिष्वेव स्थापनात् परिसंख्यारूपार्थालङ्कारो व्यज्यते । तेन प्रतिवादिनां श्रीसुधर्मेन्द्रभयेन खिन्नत्वमितरेषां तदाश्रयेण सौख्यं व्यज्यते । तेन श्रीसुधर्मेन्द्रगुरोर्लोकोत्तरत्वं व्यज्यते । स्वतो विरुद्धयोस्त्यागार्जनयोः स्वात्मकैकाधिकरणप्रापणाच्चातुर्यम् ॥ समस्तदेवसान्निध्यसिद्धिभाजो जगद्गुरोः । पावित्र्यं व्रजताद्वाणी सुधर्मेन्द्रस्य कीर्तनात् ॥ १५ ॥ यथा तुष्यन्ति विबुधाः सुधर्मेन्द्रमहोदयात् । तथा कृष्णकवीशस्य सुधर्मेन्द्रमहोदयात् ॥ १६ ॥ ॥ इति श्रीकृष्णावधूतकवीशविरचितः सुधर्मेन्द्र महोदयः समाप्तः ॥ को दामत्वमवाप वार्धिमथने[^1] मन्थानतां[^2] चाप को मन्थानो विधृतश्च[^3] केन विभुना कोऽभूत्तमोघ्नस्ततः ।[^4] कस्तत्रोत्थविषं[^5] पपौ सुरगणे दत्तञ्च केनामृतम्[^5] तत्प्रश्नोत्तरमध्यवर्णघटिते भूयात्सुभक्तिर्मम ॥ वाहीकृतमहाधेनुगणाधिपविनायकौ[^7] । भवतां भवतां भूत्यै पार्वतीपरमेश्वरौ ॥ [^1]वासुकि: - सु [^2]भूधरः - ध [^3]कूर्मेण - र्मे [^4]चन्द्रमाः - न्द्र [^5]सुयोगी - यो [^6]योगीशेन - गी सुधर्मेन्द्रयोगी। सुधर्मेन्द्रयोगिनि मम सुभक्तिर्भूयात् इति कविराशास्ते । [^7] वाहीकृतः महाघेनुगणाधिपः नन्दी, एवं वाहीकृतः वीनां पक्षिणां नायकः गरुडः याभ्यां पार्वती - परमेश्वराभ्यां तथाभूतौ शम्भुविष्णू ।