श्रीमत्सुमतीन्द्रयतिसार्वभौमविरचितः
श्रीरामदण्डकः
(सव्याख्यः )
संपादकः, संशोधकश्च विद्वान् राजा. एस्. पवमानाचार्यः
मन्त्रालयः
प्रकाशकाः अध्यक्षाः
श्रीगुरुसार्वभौमसंस्कृतविद्यापीठम्
मन्त्रालयः
१९९३ श्रीमत्सुमतीन्द्रयतिसार्वभौमविरचितः
श्रीरामदण्डकः
( सव्याख्यः )
संपादक:, संशोधकश्च विद्वान् राजा. एस्. पवमानाचार्य :
मन्त्रालयः
प्रकाशकाः अध्यक्षाः
श्रीगुरुसार्वभौमसंस्कृतविद्यापीठम्
मन्त्रालयः
१९९३ ग्रन्थप्रतयः १०००
प्रथममुद्रणम्: १९९३
सर्वेऽधिकाराः स्वायत्तीकृताः
पवमानमुद्रणालयः
धारवाड
॥ TR far ॥
ಶ್ರೀಮಧ್ವಾಚಾರ್ಯರ ಮಹಾಸಂಸ್ಥಾನದಲ್ಲಿ ಪೂಜೆಗೊಳ್ಳುವ ಶ್ರೀಮೂಲರಾಮಚಂದ್ರದೇವರು श्रीमद्राघवेन्द्रतीर्थगुरुसार्वभौमाः
CLOSOOC00
श्रीमतो राघवेन्द्रस्य नमामि पदपङ्कजे । कामिताशेषकल्याणकलनाकल्पपादपौ ॥ । ग्रन्थकर्तारः ।
श्रीमत्सुमतीन्द्रतीर्थश्रीपादाः
पूर्णप्रज्ञमताम्बोधिपूर्णेन्दुमकलङ्किनम् । सुजनाम्बुधिभास्वन्तं सुमतीन्द्रगुरुं भजे ॥ । श्रीमत्सुजयीन्द्रतीर्थ श्रीपादाः ।
सुयमींद्रकराब्जोत्थं सुविद्याबोधकं सदा ।
सुमूलरामपूजाढ्यं सुजयींद्रगुरुं भजे ॥
॥ श्रीः ॥
श्रीश्रीचरणानामनुग्रहवचनम्
श्रीमत्परमहंसपरिव्राजकाचार्यपदवाक्यप्रमाणपारावारपारङ्गत
श्रीमद्वैष्णवसिद्धान्त
सर्वतन्त्रस्वतन्त्र
प्रतिष्ठापनाचार्य श्रीपादपद्माराधक जगद्गुरु
श्रीमन्मूलरघुपतिवेदव्यासदेवदिव्य
श्रीमन्मध्वाचार्यमुख्यमहासंस्थानाधीश्वर श्रीमद्राघवेन्द्रगुरुसार्वभौम
श्रीमत्सुयमीन्द्रतीर्थ
मठीयवेदान्तसाम्म्राज्य
विद्यासिंहासनाधीश्वर
श्रीपादकरकमलसञ्जात श्रीमत्सुजयीन्द्रतीर्थ श्रीपादवरकुमारक
श्रीमत्सुशमीन्द्रतीर्थ श्रीपादैः
अस्मत्परमप्रियतमेभ्यः चि ॥ राजा. एस्. पवमानाचार्येभ्यः कृता नारायणस्मृति: । आस्माकीनामाज्ञामनुरुध्य भवद्भिः श्रीमत्सुमतीन्द्रतीर्थ पूज्यपादैर्विरचितः श्रीमन्मूलरामस्तुतिरूपः श्रीरामदण्डकाख्यो ग्रन्थः तत्कृतेनैव व्याख्यानेन सहितः इदंप्रथमतया सङ्गृह्य संशोध्य च समर्पितः
।
वयं श्रीगुरुसार्वभौमसंस्कृतविद्यापीठाध्यक्षान्, प्रांशुपालांश्च ग्रन्थं मुद्राप्य, अस्मच्छिष्येभ्य: सुलभतया दण्डकार्थमवगमयितुं प्रकाशयितुं समादिशाम ।
यथाऽस्मदादेशं ग्रन्थमिमं सम्पादितवद्भ्यः भवद्भयः अस्मदुपास्यः श्रीगुरुराजान्तर्गतश्रीभारतीशान्तर्यामी श्रीजानकीजानि: इतोऽप्यधिकतया ज्ञानभक्त्यायुरारोग्यैश्वर्यादीनि दद्यादिति सम्प्रार्थयामहे 11 इति नारायणस्मृतिः । ॥ श्रीः ॥ उपोद्घात:
महामहिमशालिन: "टिप्पण्याचार्य चक्रवर्तिन" इति प्रथिताः श्रीमत्सुमतीन्द्रतीर्थश्रीमच्चरणा: नैकान् ग्रन्थान् व्यरचयन् ।
श्रीमत्सुमतीन्द्रतीर्थाः"श्रीरामदण्डक" इति श्रीमूलरामस्तुत्यात्मकं आपादमस्तकवर्णनरूपं ग्रन्थं, तद्व्याख्यानं च चक्रुः । सव्याख्यः ग्रन्थोऽयं इदंप्रथमतया मुद्रित इति भूयान् सन्तोष: । ग्रन्थस्यास्य संशोधनकार्ये अधोनिर्दिष्टाः पञ्च हस्तलिखितप्रतयः उपयोजिताः ।
१) मन्त्रालय श्रीराघवेन्द्रस्वामिमठीया प्रति:
२) श्रीगुरुसार्वभौमपूर्वाश्रमवंशीयानां "पण्डितकेसरी'' इति यथार्थबिरुदभाजां, श्री राजा. एस्. सुज्ञानेन्द्राचार्याणां श्री राजा. एस्. गिरियाचार्येत्युपनामप्रथितानां "श्रीधीरेन्द्रवाग्विहार" ग्रन्थालयीया प्रति:
३) "पण्डितरत्न"मिति अन्वर्थकप्रशस्तिभूषितानां वैकुन्ठवासिनां श्रीआचार्य वेङ्कोबाचार्याणां ग्रन्थालयीया प्रतिः ।
४) विदुषां परमपदभाजां श्रीअर्चक वेङ्कोबाचार्याणां ग्रन्थालयीया प्रतिः ।
५) श्री राजा. एस्. पवमानाचार्याणां "श्रीसुजयीन्द्रग्रन्थ भण्डारीया च प्रतिः । एता उपर्युक्ताः हस्तलिखितप्रती: उपयुज्य, संशोधनकार्ये विशिष्टतया सहकृतानां उपप्रांशुपालानां श्रीकुरडिसुशीलेन्द्राचार्याणां, अध्यापक विद्वान् श्रीपुराणिकसुब्रह्मण्याचार्याणां, ग्रन्थस्यास्य हस्तलिखितप्रतीर्दत्वा संशोधनकार्ये उपकृतवतां श्रीमतां महाशयानां, मुद्रणोपयुक्तां समीचीनां हस्तलिखितप्रतिं कृतवतां विद्वान् श्रीकडप राघवेन्द्राचार्याणां तथा अल्पीयसि काले ग्रन्थमिमं सुष्ठु मुद्रितवतां श्रीपवमानमुद्रणालयस्वामिनां श्री आ. रा. पञ्चमुखी महाशयानाञ्च, उपकारं सहकारञ्च कृतज्ञतापूर्वकं स्मरामि । इतोऽप्यधिकतया, ज्ञानभक्त्यायुरारोग्यैश्वर्यादीनि दत्वा, अस्मद्गुरुचरणोपास्यः श्रीमन्मूलरघुपतिवेदव्यास: मत्कृतज्ञानसेवां स्वीकुर्वन् संरक्षत्विति सम्प्रार्थये ।
इत्थम्
विद्वान् राजा. एस्. पवमानाचार्य :
संपादक:, संशोधकश्च
श्रीपादपौत्रः
मन्त्रालयः
[N/A]
॥ श्रीः ॥
॥ श्रीमत्परमहंसेत्याद्यमन्दबिरुदबृन्दभूषितसर्वतन्त्रस्वतन्त्र
कविकण्ठीरव
श्रीमत्सुमतीन्द्रतीर्थगुरुपादविरचितः ॥
*श्रीरामदण्डक:*
श्रीमदानन्दतीर्थभगवत्पादाचार्येभ्यो नमः । श्रीगुरुभ्यो नमः ॥
भानुवंशाब्धिराकेन्दुं धानुष्ककुलशेखरम् ।
सानुमद्धीरताधारं नोनुमस्त्वां रघूह रघूद्वह॥
नमदमरकिरीटपाली - मिषारार्तिकालीन - सच्चम्पकाली -
रुचिप्रौढिकेलीसुहृद्रलपाली रुचिप्रौढिकेलीसुहृद्रत्नपाली समञ्चत्प्रवालीय- रागप्रतोलीक -
हीराङ्करालीक - दीपप्रणाली (दीपप्राभाली) घनोद्यत्प्रभाली -
विनीराजितालीनशोभामधूली - भरामिश्रधूली - भृतप्रान्तनाली -
सदिन्द्राश्ममौलीरिताभा - निचोली - भवद्योमराली -
गमानीलचूलीयुगादियालीढ गमानीलचूलीयुगाङ्घिद्वयालीढ - लक्ष्मीकहेलीरितन्यक्कुहेली -
वियोगानरालीभवत्पौष्पगौलीझरी - लोलुभालीहितस्तोक -
कालीभवत्सन्मृणाली - लसत्फुल्लनालीक - मात्मार्पितालीक
तापप्रसाराहितात्यर्थघोरातिसङ्कोचकारागृहस्थान - नीरागवास -
प्रकारार्पितेशाङ्घ्रिता - राजमानोरुभारामभूताब्ज - वैरापनोद -
क्षमाराधनानम्र - ताराधिभूमण्डलीराजिधीकृन्नखारारभद्भूरि -
गौरानघद्योत - साराभिधज्योत्स्निकाराग - (राशि इति पाठान्तरम्)
- सज्जत्पटीरानुलेपो - हारावली - सत्पटीराजिताशावधूराजहृन्मोद
भारावतारादरं मूलरामदेवं नुमः श्रीपतिम् ॥ १ ॥
मणिमयपदचञ्चुलीला चलच्छिञ्जिनीला -
लसत्सन्मरालाबला - केलिकोलाहलाकृष्टखेलामिलद्वंसकालाप केलिकोलाहलाकृष्टखेलामिलद्धंसकालाप
वाचालतालासिपादाब्जबालातपप्रेमशी लामलद्योत - जालाभिध -
लक्ष्ण श्लक्ष्ण - चोलावरुद्धेन्द्रनीलात्मक स्थूलकीलाभ जङ्घाद्वयी॥
लालितीदत्तमूलाभिलाषोरुकालापिनच्छादनालाभवच्छोण चेलावृत
स्मारकालापभागर्व हालाहलम् ॥ कान्तिवेलातिसन्धान
खेलासजद्द्योतमालालसज्जम्भकालाश्मकादर्शभालावकाष्ठीवदाला -
सितम् ॥ कामहालारसामोदि शालावनीवापि कूलाधिरूढोरुनाला -
लिरम्भानुवेलादृतश्रीविशालातुलोरुद्वयालानसम्पर्चनाला -
लसोत्कण्ठितेलासुतावाशिता - लालगन्मेखलालासिरश्मिप्रचा -
लामलस्वर्णचैलावृतस्वप्रभाला - विताब्दान्तराला -
वलच्चञ्चलालातभामानशूलासिकम् ॥ केलिलोलात्मनिर्वृत्त
कीलालजावासकैलासवासि धुपालादिलोकौघ द्युपालादिलोकौघ -
सालालिबीजालवालाभ - नाभीविलाभासुरम् ॥ २ ॥
विलसितरुचिपूरनामातुलस्वच्छकामामृताम्भोधिसीमालस -
द्वीचिकामानदोद्यद्वलीमालिका- भाभिरामाबृहत्कुक्षिधामावसद्विश्व -
भूमानमुद्यल्ललामानुयत्तारदामा लसयोवनी लसद्द्योवनी
मालहारिप्रभाभाव
किंमीररामा लघुरुस्थली मानसाम्भोजिनी मारकेली समाघात भोग
प्रकामादरोद्युक्तहेमाहितार्चाविभामानहारिस्ववामाकुचाख्यत्रियामा -
वियुक् पक्षिसामाधिकोत्थान सोमानुजग्रावधामाधि -
पालोकसामाजिकामोदिवैमानिकेन्द्रोचितामानवीयानुलोमाङ्ग रागोरु
गन्धाति भारोपसन्धानधौरासमिन्धान - वातानुबन्धार्पितानन्दसिन्धाव -
नुन्मज्जदन्धाखिलाशामुखम् ॥ धावदाराब्धि मन्थानशैले कबन्धाहिते
सेतुबन्धावृतोदन्वदन्धा - वहीशानुबन्धावितेष्वस्त्र - सन्धावजम्रानु -
रन्धान लोकस्वरन्धायिताभी पदम् ॥ धामवदूषणं धामवद्भूषणं धार्मिकाघाति
सन्धानधौरेयसन्धानुपाले स्वयं धारणालाञ्छनं, धारयन्तं परं धातृवन्द्यं
भुजप्राञ्चले ॥ ३ ॥
सुललितनवकम्बुनिन्दासमुत्थानकन्दायित श्रीसमुन्दानघद्योत -
बृन्दावृतस्निग्धबृन्दारकाराम मन्दारसंवासविन्दाधि पूगाग्रभिन्दान
कण्ठाभिनन्दासहाभानुविन्दान शोभाभिसन्धायि रेखात्रयं
दामभिस्स्वर्णसन्दानितैर्बिभ्रतं दापिताभं गलम् ॥ दास्यभृत्कौरविन्दाश्म
तेजोमुकुन्दापहारात्यमन्दाभदन्तछदम् ॥ दादलच्चारुकुन्दालिभा
गर्वहुन्दायिदन्तावलिम् ॥ कालचाम्पेयसङ्काशनासम् ॥ समङ्कागत
श्रुत्यलङ्कारभापुञ्जसङ्काचिगण्डद्वयम् ॥ कामपूर्वेषु सङ्काङ्क्षिताक्षिश्रियम्
॥ कान्तिकासारसङ्काचदुल्लोलशङ्काकरभ्रूयुगम् ॥
कान्तकस्तूरिकाङ्कालिकार्धेन्दुकम् कालिकाकलङ्काभियुक्कैशिकम् ॥
कालितानम्र पङ्कान्धकाराल्यहङ्कारहासांशु सङ्काशि सज्जन्मृगाङ्कायमान
आननम् ॥ काञ्चनश्री कुदुङ्काभकोटीर
सङ्कानिरत्नागदङ्कारभानश्यदङ्कासि मालिन्यपङ्कातिरुग्दिग्विटङ्कावलिम्
॥ जानकीमङ्गलापाङ्ग कालिन्दिकासङ्गिलावण्यगङ्गादृतानङ्गमातङ्गमीडे
जगन्मङ्गलं श्रीमूलरामदेवम् ॥ ४ ॥
गौडरीतिस्फुटाटोप विकटार्थपदोद्भटः ।
सुमतीन्द्रकृतिर्दीप्रानुप्रासो रामदण्डकः ॥ १ ॥
सतां मौलिषु कोटीरन्वतंसन्कर्णवीथिषु ।
हारन्कण्ठे च रामेण करुणां मयि कारयेत् ॥ २ ॥
सतां मौलिश्रवः कण्ठे किरीटोत्तंसहारकः ।
रोचतां सौमतीन्द्रोऽयं हड़ये हृदये रामदण्डकः ॥ ३॥
रत्नश्रीरुचिराकृतिस्फुरदुरो रम्यप्रभावेन्दिरा
सक्तं मुद्रिततृष्णया सरसया चित्तस्वपाकस्फुरा ।
वज्राद्दुष्करभाविभासुरशरातंकिक्षपाटंधुरा
राजन्तं रजनीसहायवदनं रामं गिरामो गिरा ॥ ४॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यपदवाक्यप्रमाण- पारावार
पारङ्गत सर्वतन्त्रस्वतन्त्र श्रीमद्वैष्णवसिद्धान्तप्रतिष्ठापनाचार्य
श्रीमन्मूलरघुपतिवेदव्यासदेव श्रीपादपद्माराधक जगद्गुरु
श्रीमन्मध्वाचार्यमुख्यमहासंस्थानाधीश्वर श्रीमद्राघवेन्द्रतीर्थ -
गुरुसार्वभौममठीयदिग्विजयविद्यासिंहा सनाधीश
श्रीमत्परिमळाचार्यान्तेवसदग्रणि श्रीमद्योगीन्द्रतीर्थ
श्रीपादकरकमलसञ्जात श्रीमत्सूरीन्द्रतीर्थ श्रीपादवरकुमारक
कविकण्टीरव श्रीमत्सुमतीन्द्रतीर्थगुरुपादविरचितः श्रीरामदण्डकः
समाप्तः ॥
॥ श्रीकृष्णार्पणमस्तु ॥
॥ श्रीमदानन्दतीर्थभगवत्पादाचार्येभ्यो नमः ॥
* हरिः ॐ *
॥ श्रीरामदण्डक व्याख्या ॥
सान्द्रानन्दद्युसिन्धुबन्धुलहरीभिक्षाकनम्रामर-
स्फायन्मौलिकिरीटकोटिविलसन्नीलोपलाभोज्वलौ
जल्पाकालिकरालमल्लखुरलीभूतारुणाम्भोरुह -
श्रीलुण्टाकरुचीरघूद्वहमणे: पादौ चकास्तां हृदि ॥ १ ॥
कलादधानस्सकलास्समन्तादानन्दकन्दस्सुमनोजनानाम् ।
सदा वसन्सत्पदवीषु कामं भूयान्मुदे कोऽपि कलाधरो नः
॥ २ ॥
इह खलु भगवतः श्रीमूलरामदेवस्य पादादिकेशवर्णनरूपमखण्ड
पण्डितमण्डलकण्ठमण्डनं दण्डकं चिकीर्षन् श्रीमुद्दुवेङ्कटकृष्णाभिधान:
(परिव्राज्यप्राप्त्यनन्तरं सुमतीन्द्रतीर्थश्रीपादनाम्ना प्रथितः) मनीषी
"आशीर्नमस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम्" । इति वचनान्नुतिरूपं
मङ्गलमादावाचरति - "भानुवंशे"ति ॥ हे रघूद्वह ! राम -
भानोस्सूर्यस्य वंशोऽन्ववाय एव अब्धिस्समुद्रः तस्य हर्षोत्कर्षहेतुत्वा
द्राकेन्दुं पूर्णचन्द्रं । धनुः प्रहरणमेषां ते धानुष्काः क्षत्रिया: । प्रहरणमिति
ठक् । "इसुसुत्क्रान्तात्क: " इति कः । तेषां कुलस्य वंशस्य शेखरं
- श्रेष्ठम् । सानव: प्रस्था अस्मिन् सन्तीति सानुमान् पर्वत: । "स्नुः
प्रस्थस्सा नुरस्त्रिया" मित्यमरः । तस्य धीरताया धैर्यस्य आधारं
अधिकरणभूतम् । कुलाचलधीरतासदृक्षधैर्यशालिनमिति यावत् । त्वां
भवन्तं । नोनुभः पौनः पुन्येन भृशं वा स्तुमः । "णुस्तुता' विति धातोर्यङ्
लुकि प्रत्ययलक्षणेन 'सन्यङो'रिति द्वित्वे "पूर्वोऽभ्यास"
इत्यभ्याससंज्ञायां गुणे 'यङ्लुको' रित्यभ्यासस्य गुणे च लटि
परस्मैपदमुत्तमपुरुषबहुवचनम् ॥
अत्र रघूद्वहे पूर्णचन्द्रत्वारोपे सूर्यान्ववाये समुद्रत्वारोपस्य हेतुत्वेन
रूपकहेतुरूपकस्य वर्णनात् परम्परितरूपकालङ्कारः॥
सानुमद्धीरताधारमित्यत्र दार्थवृत्तिनिदर्शनालङ्कारश्च ॥ सर्वपादादौ
नुशब्दानुवृत्ते: अनुप्रासरूपशव्दालङ्कारश्चेत्येतेषां 'मौक्तिक पद्मराग' न्यायेन
संसृष्टिः । तदुक्तं- "ग्राह्ये भेदे तु संसृष्टिरग्राह्ये सङ्करस्स्मृतः" इति ॥ १॥
* अथ पादतलवर्णनम् *
नमदिति ॥ नमतां नमस्कुर्वतां अमराणां - आदित्यानां किरीटानि मुकुटानि तेषां पाल्यः पङ्क्तयः एव तन्मणिकान्तीनामुत्तरत्र दीपतया वर्ण्यमानत्वात्। मिषारार्तिका: कपटनीराजनभाजनानि तासु लीनानि श्लिष्टानि प्रत्युप्तानि च तानि सतां प्रशस्तानां चम्पकानां कुसुमानामाल्या: पङ्क्ते: रुचि: प्रौढि: कान्त्यतिशयः तस्याः केलीसुहृन्दि लीलामित्राणि तत्सदृक्षाणीति यावत् तानि (सदृशानीति पा०) रत्नानि वालवायजमणयस्ते हि जात्या चम्पकप्रसूनसङ्काशकान्तिभाजो भवन्ति । तेषां पालीभिः राजिभिः समञ्चंती सङ्गच्छमाना अर्थात्कान्तिभिरिति लभ्यते । प्रवालस्य तत्र खचितस्य विद्रुमस्यायं प्रवालीयः । "प्रवालो विद्रुमः पुंसी"ति शब्दरत्नाकरः । "तस्य वा नामधेयस्ये" ति वृद्धसंज्ञायां 'वृद्धाच्छ' इति छप्रत्ययः स चासौ रागो रक्तिमा तस्य प्रतोली वीथी येषां ते तथोक्ताः । 'न घृतश्चे'ति कप् । ते च ते हीराणां वज्राणामङ्करा: प्ररोहा एव सादृश्यादलीका: अनृताः "अलीकं त्वप्रियेऽनृत" इत्यमरः । दीपा: प्रदीपाः तेषां प्रणाली तदीया कान्तिनिस्सरणपदवी । यद्यपि 'द्वयोः प्रणाली पयस: पदव्या' मित्यभिधानेन प्रणालीशब्दः पयस्सम्बन्धिक मार्गविशेषे प्रसिद्धः तथापीह पयस्सदृशवस्तुमात्रमार्गवाचकतया गृह्यते । तथा हि कवयः । 'अवतंस: कर्णभूषण' मित्यभिधानेन अवतंसशब्दं कर्णभूषणे प्रसिद्धमपि चूडावतंस: कुलावतंस इत्यादौ भूषणमात्रे प्रयुज्यते । तस्याः घनं निबिडं यथाभवति तथा उद्यन्तीभिः निस्सरन्तीभिः प्रभानां कान्तीनामालिभिः पङ्क्तिभि: विनीराजिता आरार्तिता अत एवालीना निबिडा । शोभाधिक्यलाभादिति भावः । शोभा: पादकान्तय एव उत्तरत्र पादस्याब्जतया वर्ण्यमानत्वात् । मधूल्यस्सुराभेदा: । "तद्भेदा माधवः पैष्टी गौली माध्वी मधूल्यपी"ति शब्दरत्नाकरः । इह तु सुमसम्बन्धित्वान्मकरन्दा इत्यर्थः । तासां भरैः अतिशयैः । "अप्यथातिशयो भर" इत्यमरः । आमिश्राभि रामिलिताभिः धूल्यो रेणव एव धूल्य: परागा: । श्लिष्टरूपकमेतत् । ताभिर्भूतस्य पूर्णस्य प्रान्तस्य पादपरिसरदेशस्य अनालीनाली सम्पद्यमानास्ति नाली सती । अभूततद्भावे च्विः । अस्य च्यावितीकारः च्वावितीकारः। इन्द्राश्ममौलिभ्यः इन्द्रनीलखचितकिरीटेभ्यः ईरिता निस्सृता आभा: प्रभाश्च । निचोलीभवन्त्यः प्रान्तस्य प्रच्छदपटीभवन्त्यः । "निचोल: प्रच्छदपट " इत्यमरः । द्योमरालीगमानां स्वर्गसीमन्तिनीनाम् । द्योस्स्वर्गस्य मराल्या: हंसस्त्रियाः । "हंसो मरालश्चक्राङ्गो मानसौकास्सित छद" इति शब्दरत्नाकरः । गमो गमनमिव गमो यासान्ताः । "गृहवृट्टनिश्चिगमश्चे" ति भावे इः ङ्ः। सप्तम्युपमानेत्युपमानपूर्वपद बहुव्रीहिः । तासां नीला श्यामाच श्यामाश्च ता: चूल्यश्च केशवेषविशेषाः । अथवा यथाश्रुतेन्द्राश्ममौलीरिताभानां विशेषणम् । तदा हि नीलोपलकान्तीनां स्वतो नीलानां नीलीसतां देवस्त्रीनीलचूलीभिः प्रच्छादितत्वोक्तया गुणोत्कर्ष उक्तो भवति । ताभिर्युनक्तीति युजा युक्तेन अङ्मयोः अङ्घ्र्योः रामस्य पादयोर्द्वयेन युगेनालीढास्वादिता स्वीकृतेति यावत् । लक्ष्मीश्शोभा यस्य तत् । "शोभासम्पत्तिपद्मासु लक्ष्मीदते (श्रीरपि कथ्यते पाठान्तरम्)"ति विश्वः । नघृतश्चेति कप् । हेलिना भानुना । "हीनसर्पे हरे सिंहे हेलिरालिङ्गने रवा" विति वैजयन्ती । ईरितायाः क्षिप्तायाः अत एव न्यग्भूतायाः अध: पतन्त्याः कुहेल्या: हिमधूलिकायाः । कुहेलिहि मधूलिके" ति शब्दरत्नाकरः । वियोगेन विरहेण अनरालीभवन्त्याः अकुटिलीभवन्त्याः ऋजूभवन्त्या इत्यर्थः । समीचीनाया इति यावत् । पुष्पस्य कुसुमस्य सम्बन्धिन्याः गौल्या स्सुराविशेषस्य । "तद्भेदा माधव: पैष्टी गौली"ति शब्दरत्नाकरः । मकरन्दस्येति यावत् । झरी - प्रवाह: । "प्रवाहो निर्झरो झर" इत्यमरः । भानूदये समुज्जृम्भात्किरणानां वियोगतः । पयोजाताग्रलग्नानां कुहेलीनां विकासनात् । पद्मानां मकरन्दानां सामीचीन्यं भवेदिति भावः । तस्यां लोलुभानां लोलुपानाम् । "समौ लोलुपलोलुभा" वित्यमरः । अलीनां भ्रमराणां ईहितेन चेष्टया स्तोकमल्पं कालीभवन्नीली भवत् सत्या प्रशस्तया मृणाल्या बिसेन लसत् राजत् अत एव फुल्लं विकसितं समूलत्वादिति भावः । नालीकं सहस्रपत्रं कमलं यस्य तत् । "सहस्रपत्रं नालीक" मिति शब्दरत्नाकरः ।
नमस्यन्नाकिमकुटविलसन्मणिविभाभिराक्रान्त दीपश्रीभिः
लब्धातिरक्तिमाभाभरामिश्र रजोराजितम् । लेखविलासिनीनील-
कुन्तलकान्तिलब्धातिनैल्याभिर्बलारि नीलोपलाभाभिरपि शोभितं
श्रीमूलरामाङ्घ्रियुगलं अहिमांशुकिरणसञ्चारलब्धममन्दमकरन्दसन्दानितं
सकन्दमिन्दिन्दिरबृन्दविलासाङ्गीकृतनीलश्रियं पद्मं तिरस्करोतीतिभावः ॥
॥ इति पादतलवर्णनम् ॥
* अथ नखवर्णनम् *
आत्मेति ॥ आत्मना स्वेन, अर्पितस्य प्रापितस्य, अलीकस्य
अप्रियस्य, मुकुलनकरत्वादिति भावः । तापस्य सन्तापस्य । प्रसारण
विसरणेन, आहितं प्रापितं, अत्यर्थघोरमतिदारुणं अतिसङ्कोच: ।
अत्यन्तमुकुलनमेव ग्लानिकरत्वात् कारागृहस्थानं बन्धनालयस्थलं ।
" कारा स्याद्बन्धनालयः" इत्यमरः । तस्मिन्नीरागवासस्य रक्तिमाभावतया
वासस्य प्रकारेण रीत्या । लोके हि कारामन्दिरबन्दीकृतः पुमान्
कुत्राप्यनभिलाषुः को वसतीति वस्तुतया साधारणेन नीरागशब्देन व्यज्यते
। अर्पितया प्रापितया ईशस्याङ्घ्रितया अङ्घ्रिभावेन राजमानानां
भासन्तीनामुर्वीणामुत्कृष्टानां भानां कान्तीनामारामभूतं उपवनभूतं
"आरामस्यादुपवन" मित्यमरः । आकरमिति यावत् । स हि
नानाविधकुसुमानामाकरो भवति । तस्यान्जस्य तस्याब्जस्यकमलस्य कारागारसदृशे
संसारे दु:खपारंपरीमनुभवन्तो रागद्वेषतिरस्कारेण तपस्यन्तो भगवदङ्घ्रि
प्रतिपद्य राजन्त इत्यर्थान्तरध्वनिः । वैरस्य तद्विषयकद्वेषस्य अपनोदे
अपाकरणे क्षमा समर्थनाराधनाय पूजनाय तादर्ये तादथ्र्ये चतुर्थी । चतुर्थीति
योगविभागात्समासः । आनम्रस्यानतस्य ताराधिभुव: ताराधिपस्य ।
"अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः" इत्यमरः । मण्डल्याः
बिम्बस्य । "मण्डलं त्रिषु बिम्बोऽस्त्री"ति शब्दरत्नाकरः । राजेस्समूहस्य
धियस्तद्विषयमतेः कृद्धयः कृद्भ्यः कुर्वद्भयः कुर्वद्भ्यः नखेभ्यो नखरेभ्यः आरारभतां पुनः
पुनरारभमाणानां निस्सरतामिति यावत् । भूरीणां बहूनां गौराणां शुभ्राणामत
एवानघानां निर्मलानां द्योतानां शोभानां सार उत्कर्षांश इत्यभिधा यस्याः
। "सारो बले स्थिरांशेचे"त्यमरः । तस्याः ज्योत्स्निकाया: कौमुद्या:
रागात् धावल्यरूपात् राशीति वा पाठ: । सज्जन्तीभिस्सन्नद्धाभि
रुत्पाद्यमानाभिरिति यावत् । पाटीरानुलेपो मलयजगन्धः उरुहारावली
उन्नतमुक्तासर: सत्पटी - प्रशस्तवस्त्रं च ताभि: उत्तरत्र दिशांवधू तया
वर्ण्यमानत्वात् । एवं सम्पद्यमानाभिज्र्योत्स्निकाभिरिति यावत् । राजितानां
भूषितानामाशा दिश एव वध्वस्तासां राजानो नायका इन्द्रादयो
लोकपालास्तेषां हृन्मोदभारावतारे स्वान्तसन्तोषातिशयप्रापणे आदरणं
यस्येति व्यधिकरणबहुव्रीहिः । स्वस्वविलासिनीनां
पाटीरानुलेपाद्यनवद्यालङ्कारलाभान्मनसि मोदमावहन्ते मघवन्मुखा देवा इति
भावः । तमेतादृशं श्रियस्तातायास्तस्या एव लक्ष्मीत्वादिति भावः । पतिं
धवं मूलरामदेवं नुमस्तुम: अभ्यर्हितत्वाच्च यमिति लभ्यते ।
निस्सीमशोणिमारुणपङ्कजापमानपदयोः मूलरामपादयोर्लसतां
चन्द्रबिम्बानुकारिणां नखराणां कान्तिश्रेणीभिः
कौमुदीशोभानुकारिणीभिस्सर्वत्र सञ्चारिणीभिर्दशदिशां भागा
धवलीभवन्तीति भावः ॥ १ ॥
॥ इति नखवर्णनम् ॥ ॥ अथ जङ्घावर्णनम् ॥
मणिमयेति ॥ मणिमयस्य मञ्जीरखचितमणिविकारस्य,
पदचञ्चुनः पादतुण्डस्य । "प्राण्यङ्गत्वावन्द्व प्राण्यङ्गत्वाद्द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्'
इत्येकवद्भावः । शिञ्जिन्या: मरालितया वर्णनात्तत्खचितमणिषु
पदचञ्चुत्वारोप:, लीलया क्रीडया, चलनादनुरूपाया चलन्ती शिञ्जिनी
नूपुरः । 'शिञ्जिनीनूपुरज्ययो"रिति वैजयन्ती । सैवोत्तरत्र पादकटकस्य
हंसतया वर्णनात् । लालसती भृशं शोभमाना सती । समीचीना मरालाबला
हंसवधूः तस्याः केली कोलाहलेन क्रीडाकलकलध्वनिना, आकृष्टः
स्वीकृत:, खेलया लीलया, मिलन् हंसक: पादकटक एव हंसक: हंसः
। 'हंसक: पादकटक" इत्यमरः । स्वार्थे कन् । तस्यालापेन ध्वनिना,
प्राप्तया वाचालतया जल्पाकतया । "स्याज्जल्पाकस्तु वाचाल" इत्यमरः
। लासिनो भासिन:, पादाब्जस्य पादपद्मस्य, बालातपे तरुणारुणकिरणे
प्रेम स्नेह: शीलं स्वभावो यस्य तथोक्तः तादृश इति यावत् । अत एवामलो
निर्मलः द्योतानां कान्तीनां जालस्समूह इत्यभिधा यस्य तेन, शुक्ष्णेन श्लक्ष्णेन
स्निग्धेन, चोलेन प्रछदपटेन, अवरुद्धाया आवृतायाः, इन्द्रनील आत्मा
स्वरूपं यस्य तत् स्थूलं कीलं शङ्क: तस्याभेवाभा यस्यास्तत्सदृशायास्तस्याः
जङ्घाद्वय्याः यस्य जङ्घायुगलस्य लालित्या ललिततया शोभया । "ललनं
केलिशोभयो" रित्यमरः । ब्राह्मणादित्वात् ध्यञ् ष्यञ् पित्वात् ङीष् ।
हलस्तद्धितस्येति यलोप: । दत्त: वितीर्ण: मूलस्याभिलाषो यस्य स तथोक्तः
उर्व्या: कालापिन्याः मयूरसम्बधिन्याः तस्येदमित्यण्णन्तत्वात् ङीप् ।
पुंवत्कर्मधारयेति पुंवद्भावः । छादनाया: आवरणस्य लाभोऽस्यास्तीति
लाभवान् शोणचेलेन अरुणवस्त्रेण आवृत: स्मारो मान्मथ: कलापास्तूणीर:
"कलापो भूषणे बर्हे तूणीरे संहतावपी"ति अमरः । तस्य सम्बन्धिनीनां
भानां कान्तीनां गर्वोऽभिमान एव हलाहलो विषविशेषो यस्य तं ॥
मणिमञ्जीरकलापमञ्जुलपादलग्नकटकशोभानुप्राणितैः पाद -
द्वयादपसरद्धिररुणकान्तिप्ररोहै: उज्वलं इन्द्रनीलशिलानिर्मितस्थूल
शङ्कसङ्काशं जङ्घायुगलम् । कलापि कलापकलितावरणं
सूक्ष्मारुणपटप्रसेवकान्तरितं मन्मथस्य तूणीरमधरीकरोतीति भावः ॥
॥ इति जङ्घावर्णनम् ॥
* अथ जानुवर्णनम् *
कान्तीति ॥ कान्ते: लावण्यस्य, वेलाया: कूलस्य, अतिसन्धाने
अतिक्रमणे, या खेला लीला । तस्यां सजतामासक्तानां
उद्वेललावण्यानामिति यावत् । द्योतानां किरणानां, मालया पङ्क्तया,
लसन्, जम्भकालस्य इन्द्रस्य, अश्मकं अश्म । स्वार्थे कः । तन्मणिः
तस्य आदर्शो मुकुरस्तन्मय इत्यर्थः । तस्याऽऽभायाश्शोभायाः, लावकाभ्यां
छेदकाभ्यां अष्ठीवद्धयां अष्ठीवद्भ्यां जानुभ्यां । "जानूरु पर्वाष्ठीवदि"त्यमरः ।
आलासितमत्यन्तं शोभितं ॥ जानुनी
निरतिशयकिरणभरितेन्द्रनीलनिर्मितमुकुरलावण्यपारम्परीमश्रु वाते इति
भावः ॥
॥ इति जानुवर्णनम् ॥ * अथोरुवर्णनम् *
कामेति ॥ कामस्य मन्मथस्य, हालायास्सुरायाः ।
"सुराकादम्बिनी हाले"ति शब्दरत्नाकरः । रसेन द्रवेण आमोदिन्याः
गन्धवत्याः । "आमोदो गन्धहर्षयो"रिति वैजयन्ती । शालावन्याः
गृहवनस्य । उद्यानस्येति यावत् । वाप्या दीर्घिकायास्तत्र स्थितायाः ।
"सरोवापी तु दीर्घिके" त्यमरः । कूले तटे, अधिरूढाभिर्जाताभिः । अत
एव उर्वी उन्नता, नालालिः काण्डपङ्क्तिः यासां ताभिः रम्भाभिः
कदलीभिः, अनुवेलमत्यन्तं, आदृतया आकाङ्क्षितया, श्रिया शोभया,
विशालौ पूर्णी, अत एव न विद्यते तुला उपमानं ययोस्तावतुलौ असदृशौ,
उरू सक्थिनी तयोर्द्वयमेव आलाने गजबन्धनस्तम्भे । "आलानं
बन्धनस्तम्भे " इति शब्दरत्नाकरः । तस्य सम्पर्चनायां सम्पर्के । या लालसा
महानभिलाषः । "स महान् लालसा द्वयो"रित्यमरः । तस्यामुत्कण्ठिता
। सञ्जातोत्कण्ठा साभिलाषा । इलायाः क्षमाया: । "गौरिला कुम्भिनी
क्षमे"त्यमरः । तस्याः सुता तनया । सीतैव वाशिता करिणी । "धेनुका
करिणी वशा । वाशिता"तिति शब्दरत्नाकरः । तस्याः लालगन्त्यां पुनः
पुनस्सजन्त्यां । 'लगे सङ्ग' इति धातुः । मेखलायां काञ्च्यां । लासिन्य:
राजन्त्य: । रश्मयः किरणा एव रश्मयो गुणा: श्लिष्टरूपकमेतत् । तासां
प्रचालेन सञ्चारेण । अमलेन निर्मलेन, स्वर्णचलेन पीताम्बरेण, आवृतस्य
आच्छादितस्य, स्वम्यात्मनः, प्रभया कान्त्या, लावितौ लवनं छेदनं प्रापितौ
। अब्दस्य जलदस्यान्तराले मध्ये । आवलन्ती सञ्चलन्ती, चञ्चला चपला
। क्षुद्रत्वादलातमिव उल्केव । उपमितसमासः ।
"अस्त्रियामुल्मुकोऽलातमुल्के"ति शब्दरत्नाकर: । तस्य भामान:
कान्तिगर्व एव क्रौर्यातिशयात् शूलञ्च असिश्च तौ यस्य तं ॥
ननु च यदीह सीताराघवयोरुपमेययोर्यथाक्रमं सौदामिनी
नीलजलदयोर्बिम्बप्रतिबिम्बभावो विवक्षितस्तर्हि "लावितचञ्चला-
लासितमेघभामान" मिति विन्यासस्स्यात् । नैवमिति चेन्न ।
बिम्बप्रतिबिम्बभावाविवक्षया विशिष्टस्योपमानोपमेयभावाङ्गीकारेणैव
विन्यासोपपत्तेः । तथाच अन्यप्रयोगेऽपि । "निन्दन्तु निर्णीतधियो नितान्तं
मन्दा: पुनर्मामिह मा स्तुवन्तु । यूनः कुचालिङ्गनतो जरत्याः पादप्रहारं
परमं युवत्या" इत्यत्र निर्णीतबुद्धिनिन्दनमन्दमतिस्तवनयोः
युवतीपादप्रहारजरतीकुचालिङ्गनयोः बिम्बप्रतिबिम्बभावे वर्णनीयेऽपि
विन्यासव्यत्यासो दृश्यते । अथाप्याग्रहो यद्यवश्यं वर्णनीयो
बिम्बप्रतिबिम्बभाव इति, तदा बुध्या विवेचनीयमित्यलमियता ॥
तत्र मन्मथस्य लोकातिशायिशृङ्गारितया तदुद्यानस्यापि
तथात्वावश्यंभावात् । सुरारसामोदिनीनां कदलीनां तत्र जननोक्त्या
ततोप्यतिशृङ्गारिता व्यज्यते । तादृशीभिरपि ताभिरुरुसम्पद: आदरणोक्त्या
ततोप्यतिसौन्दर्यं व्यज्यते । तादृशेऽपि तस्मिन् सीतायाः आलाने करिण्या
इव नित्यसम्पर्कोक्त्या तस्यां रामदेवस्य अनुरागातिशयतरङ्गितान्तरङ्गता
व्यज्यते ॥ तथा चातिमात्रसौन्दर्यकदलीशोभानुकारिणि
काञ्चीमणिरश्मिजालानुविद्ध पीताम्बरालङ्कते ऊरुयुगे
कृतानुषङ्गनिरतिशयस्नेहरसमुख्यभाजनीकृतजनकतनयी येन निजकायेन
अतिरुचिरचञ्चलालतापरिपूरितान्तरालं कालाम्बुदमधरीकरोतीति भावः
॥
॥ इत्यूरुवर्णनम् ॥ * अथ नाभिवर्णनम् *
केलीति ॥ केलौ सर्जनलीलायां, लोलेन आसक्तेन, आत्मना
स्वेन । निर्वृत्ता: निष्पादिता: उत्पादिताः । कीलालजं कमलं, आवास
आश्रयो यस्य ब्रह्मा च कैलासवासी रुद्रः च छुपालस्स्वर्लोकाधिपतिः द्युपालस्स्वर्लोकाधिपतिः
इन्द्रश्च । ते आदयो मुख्या येषान्ते तथोक्तास्तेषां लोकानां जनानामोघः
समूह एव सालालिर्वृक्षपङ्क्तिस्तस्या बीजं कारणभूतं आलवालं जलबन्धन
- स्थानविशेषः । "स्यादालवालमावालमावाप" इत्यमरः । तस्य
आभेवाभा यस्य तेन तन्निभेनेत्यर्थः । नाभ्या: बिलेन कुहरेण आभासुरं
भृशं राजमानं ॥
अत्र भगवतो नाभीकमलस्य कमलासनं प्रति साक्षात्कारणत्व-
मितरेषां रुद्रप्रभृतीनां परम्परया कारणत्वमित्यनुसन्धातव्यम् । तथाच
चराचरप्रपञ्चविधायक विरिञ्चजन्मभूमिर्भगवतो नाभीकमलमित्यर्थः ।
एवमेवान्यत्र प्रयोगो दृश्यते । "नाना चराचरविधायक -
जन्मदेशनाभीपुटाये"ति । सकलजगज्जन्मादिकर्तेति भावः ॥ २ ॥
॥ इति नाभिवर्णनम् ॥
* अथ त्रिवलीवर्णनम् *
विलसितेति ॥ विलसितानां विराजितानां रुचीनां कान्तीनां पूरः
प्रवाह इति नाम अभिधा यस्य विलसितरुचिपूरनाम्नः अत एवातुलस्य
असदृशस्य स्वच्छस्य निर्मलस्य कामामृताम्बोधेर्मारपीयूषसिन्धोस्सीमासु
परिसरदेशेषु लसन्तीनां वीचिकानां ऊर्मीणां । "भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां
वीचि"रित्यमरः । मानं ज्ञानं ददातीति मानदा तस्या उद्यन्त्याः उन्नतायाः,
वलीनां त्रिवलीनां, मालिकाया राजेर्भाभि: कान्तिभिरभिरामे मनोरमे,
अबृहति स्वल्पे, कुक्षिधाम्नि जठरलक्षणाश्रये आवसन् विश्वेषां जगतां
भूमा बाहुल्यं यस्य तं । "बहोर्लोपो भू च बहो"रिति इष्टेमेयम्सुपरतो
भूरादेशः ॥ निजकान्तिपूरशृङ्गारपीयूषपाथोनिधी वीचिकाधियं कुर्वन्तीभिः
त्रिवलीभिर्मञ्जुले स्वल्पेऽपि जठरकुहरे सविलासं
सकलचराचरप्रपञ्चभूमानमावहतीति भगवतोऽतिमाहात्म्यमिति भावः ॥
॥ इति त्रिवलीवर्णनम् ॥
* अथ वक्षोवर्णनम् *
उद्यदिति ॥ उद्यत् वक्षसि उद्युक्तं स्थितं ललामं चिन्हं,
श्रीवत्सलक्षणं । "प्रज्ञानञ्चाप्यभिज्ञानं ललामं च ललाम चे" त्यमरः
। तदनुयन्त्योः अनुसरन्त्योः मिलितयोरिति यावत् । तारस्य शुद्धमौक्तिकस्य
"तारो मुक्तादिसंशुद्धौ तरले शुद्धमौक्तिक" इति विश्व: । दामा माला,
"डाबुभाभ्या"मिति डाप् । 'न पुंसि दामे'त्यमरः । लसन्ती द्योवनीमाला
स्वर्गवनमाला दिव्यवैजयन्ती च । "वनमाला वैजयन्ती"ति शब्दरत्नाकरः
। तयोः । "इष्टकेपीकामालानां चिततूलाभारिष्वि"ति मालाशब्दस्य
ह्रस्वः । हारिणां मनोहराणां, प्रभाणां कान्तीनां, मावो बन्ध: 'मव बन्ध'
इति धातोर्भावे घञ् । तेन किर्मीरा चित्रा "चित्रं किर्मीरकल्माष शबलैताश्च
कर्बुरे" इति अमरः । श्रीवत्सस्य नीलत्वात्तारदामाया धवलत्वात् ।
वैजयन्तीमालिकाया गौरवर्णत्वाच्च तत्प्रभवानामपि कान्तीनां
नीलधवलगौरत्वावश्यंभावात्तत्सम्बन्धे चित्रवर्णा भवतीति भावः । अत
एव रामा मनोरमा । अलघ्वी विशाला उर:स्थली वक्षःस्थानमेव
पुष्पाकरत्वसाम्यात् मानसाम्भोजिनी मानसाख्यसरसी तस्यां मारस्य
मन्मथस्य केली समाघातेन निमित्तेन आगते भोगे प्रकाममत्यन्तमादरे
तद्विषयकेच्छायामुक्तौ सन्नी सत्रद्धौ हेम्ना सुवर्णेन आहिताया: निर्मितायाः
अर्चाया: प्रतिमाया: "अर्चा पूजा प्रतिमयोरिति" वैजयन्ती । विभा
मानस्य लावण्यगर्वस्य हारिण्या अपहारिण्या: सुवर्णप्रतिमानुकारिण्या: इति
यावत् । स्ववामाया: निजस्त्रियास्सीतायाः, कुचौ स्तनावित्याख्या अभिधा
ययोस्तौ कुचाख्यौ । त्रियामायां "रात्रौ रात्रित्रियामा क्षणदा क्षपे"त्यमरः
। वियुजौ विरहिणी पक्षिणौ चक्रवाकाविति यावत् । तौ हि रात्रौ वियुञ्जाते
। तयोस्समाधिस्समाधानं धर्मो यस्य तत्तथोक्तं तदस्य धर्ममिति ठक्
समाधायकमित्यर्थः । उत्थानमुन्नमनं यस्य स तथोक्तः । सोमस्य
चन्द्रस्यानुजस्सहजो, ग्रावा उपल: कौस्तुभमणिरिति यावत् । स हि
मथनसमये चन्द्रेण सह सम्भूत इति स एव साम्याद्धामाधिपः सूर्यः
तस्यालोकस्य प्रभाया: 'समाजं समेति' सामाजिकः । 'समवायान्
समवेती'ति ठक् । तत्तुल्यस्येति यावत् । आमोदिनो गन्धिलस्य,
वैमानिकानां विमानैश्चरतां देवानां । चरतीति ठक् । इन्द्राणां श्रेष्ठानां,
उचितस्य योग्यस्य, अमानवीयस्य अमानुषस्य, अत एवानुलोमस्य
स्ववैभवानुकूलस्य, अङ्गरागस्य चन्दनस्य, उरुगन्धः
उत्कृष्टपरिमलस्तस्यातिभारस्य, उपसन्धाने ग्रहणे धोरया गतिचातुर्येण ।
"धोरा तु गतिचातुर्ये" इति शब्दरत्नाकरः । समिन्धानस्य भासमानस्य
वातस्य वायोरनुबन्धेन दिक्षुसम्बन्धेन आर्पितस्सम्पादित आनन्दस्सन्तोष:
सिन्धुरिव तस्मिन्नुन्मज्जन्ति मनानि अत एवान्धानि परवशानि अखिलानां
लालानामाशानां दिशां मुखानि । तेषां सन्तोषासम्भवात्तत्रत्या जना यस्य
तम् ॥
नीलोत्पलपुण्डरीकारुणाम्भोजराजिराजमानमानससवृक्षे श्रीवत्स-
मुक्तासरवैजयन्तीमालाविलासिनि विशाले अङ्कपालीसमासक्तायाः
सुवर्णप्रतिमानुकारिण्याः सविलासिन्याश्चक्रवाकशकुन्त सदृशाभ्यां
कुचाभ्यामाश्लिष्टे वक्षःस्थले विद्यमानचन्दनानुमोदिना वायुना दिक्षु विसर्पता
निखिलदिङ्मुखस्थितजनेष्टानन्दसन्दोहं कन्दलयतीति भावः ॥
॥ इति वक्षोवर्णनम् ॥
* अथ भुजवर्णनम् *
धावदिति ॥ धावत् पलायमानं आरं अरिसमूह एव दुस्तरत्वादब्धि
स्समुद्रः तस्य मन्थानशैले मन्दरपर्वते । उदधेर्मन्दरगिरिरिव शत्रुसमूहस्य
बाहुयुगं क्षोभकरमिति भावः । कबन्धस्य कबन्धाख्यासुरस्य अहिते
अहितकारिणि । कबन्धासुरस्य भुजौ योजनदेशावलम्बिनौ रामो बाहुयुगेन
अच्छिनदिति प्रसिद्धिः । सेतोर्बन्धेन ग्रथनेन, आवृतः अवरुद्धः,
उदन्वान्समुद्रः अल्पत्वादन्धुः कूप इव उदन्वदन्धुर्यस्य तस्मिन् ।
"पुंस्येवान्धुः प्रहिः कूप" इत्यमरः । महानपि समुद्रस्सेतुबन्धनविषये
अन्धुरिव भवतीति अतिबलशालीति भावः । अहीशानस्य भोगीन्द्रस्य बन्धौ
सुहृदि सदृशे इत्यर्थः । इतः प्राप्तः इषुणां बाणानामस्त्राणामसीनां
सन्धिस्सन्धानं सम्बन्धो येन तस्मिन् बाणासिधारिणीत्यर्थः । धार्मिकाणां
धर्मं चरतां सतां । धर्मं चरतीति ठक् । अघस्य दुःखस्य, अतिसन्धाने
प्रतारणे धौरेय्याः धुरं भारं वोट्र्यास्सन्धायाः वोढ्र्यास्सन्धायाः प्रतिज्ञाया:
अनुपालयतीत्यनुपाले । पचाद्यच् । रक्षके स्वभक्तजनानां दुःखापनोदने
बद्धकङ्कण इति भावः । एतादृशे भुजयोः प्राञ्चले अन्त्यभागे स्तम्भाविव
भुजस्तम्भौ तयोर्युग्मे युगे अजस्रं निरन्तरमनुरुन्धानानामनुसरतां, लोकानां
जनानां, स्वरंधायितं स्वर्गान्नवदाचरितं अमृतायितमिति यावत् । कर्तुः क्यङ्
सलोपश्चेति स्वरन्धशब्दात् क्यङ् सलोपश्च । अभीपदमभयमुद्राम् ।
धामवद्भूषणं कान्तिमदलङ्करणं च । तथा धारणालाञ्छनं ज्ञानमुद्रां । धारयन्तं
दधतं । स्वयं छात्रा ब्रह्मणा वन्द्यं वन्दनीयम् । अत एव परमुत्तमं तमीडे
इत्युत्तरेणान्वयः ॥
॥ इति भुजवर्णनम् ॥
* अथ कण्ठवर्णनम् *
सुललितेति ॥ सुललितस्य सुसुन्दरस्य । नवस्य नूतनस्य । कम्बो:
शङ्खस्य । निन्दासमुत्थाने तद्विषयकोपालम्भारम्भे, कन्दायितायाः
मूलभूतायाः श्रियः सम्पदः समुन्देन उंदनेन क्लेदनेन सम्पर्केणेति यावत्
। "उदि क्लेदन " इति धातुः । अनघेन निर्मलेन । द्योतानां कान्तीनां,
बृन्देन समूहेन, आवृतः युतः स्निग्धस्य श्लक्ष्णस्य दिव्यत्वादिति भावः
। बृन्दारकाणां देवानां आरामस्योपवनस्य सम्बन्धिना मन्दारेण सह संवासस्य
विन्दः लब्ध: 'विदिर् लाभे' अस्मादनुपसर्गाल्लिम्प विन्देति कर्तरि शप्रत्ययः
। 'शेमुचादीना' मिति नुम् । स चासौ अधि अधिक: पूगः अधिपूगः
क्रमुक, तदग्रे भिन्दानस्य भित्वोत्थितस्य कण्ठस्य क्रमुक कण्ठस्य
अभिनन्दः श्लाघा, तदसहाया: आभायाः कान्तेरनुविन्दानां अनुविधायिनीं
शोभां श्रियं, अभिसन्ददाति सम्बध्नातीति तथा तादृशं, रेखात्रयं यस्य
तं । स्वर्णसन्दानितैर्हेमसम्बद्धैर्दामभिस्स्वर्णसूत्रैर्दापिताभं अर्पितशोभं गलं
बिभ्रतं । शङ्खस्येव पूगकण्ठस्यापि ग्रीवासादृश्यं प्रसिद्धम् । अनुविन्दानेति
विनत्तेस्ताछील्ये चानश् । 'न लोकाव्यये' त्यादिना कारकषष्ठ्या एव
निषेधात् शेषे षष्ठ्या निषेधाभावात् समासः ॥
॥ इति कण्ठवर्णनम् ॥
* अथ दन्तपङ्क्तिवर्णनम् *
दास्यभृत: हीनस्य स्वस्मादवरस्य, कौरविन्दाश्मनः
पद्मरागसम्बन्धिनो रत्नस्य, तेज एव मुकुन्दो निधिविशेषः, तस्यापहारे
अत्यमन्दाभ: अतिपटुकान्ति:, दन्तच्छदः अधरो यस्य तं । दादलतां भृशं
विकसतां, कुन्दकुसुमानां आलेः पङ्क्तेः, भागर्वस्य कान्तिमदस्य,
हुन्दायिनी हुङ्कारदायिनी धिक्कारिणी, ततोऽप्यतिशयितेत्यर्थः । दन्तालिः
दन्तपङ्क्तिर्यस्य तम् ॥
॥ इति दन्तपङ्क्तिवर्णनम् ॥
* अथ नासावर्णनम् *
कालेति ॥ काले वसन्ते, यच्चाम्पेयं चम्पकपुष्पं, तत्सङ्काशा
नासा यस्य तम् ॥
॥ इति नासावर्णनम् ॥ * अथ गण्डद्वयम् *
सममिति समङ्कमिति॥ समङ्कं समीपं आगतेन श्रुत्यङ्काराणां
कर्णभूषणानां, भापुञ्जेन कान्तिस्तबकेन, सङ्काचि सम्बध्नत् गण्डद्वयं यस्य
तम् ॥
॥ इति गण्डद्वयवर्णनम् ॥
* अथ नेत्रवर्णनम् *
काम इति ॥ कामस्य पूर्वेषु प्रथमशरः कमलं तेन सङ्काक्षिता
सम्प्रार्थिता । अक्षिश्रीनेत्रशोभा यस्य तम् ॥
॥ इति नेत्रवर्णनम् ॥
* अथ भ्रूवर्णनम् *
कान्तिरिति ॥ कान्तिर्लावण्यमेव कासार: सरः तत्र सङ्काचतः
शोभमानस्य, उल्लोलस्य महातरङ्गस्य, शङ्काकरं तद्विषयसन्देहदायिभ्रूयुगं
यस्य तम् ॥
॥ इति भ्रूवर्णनम् ॥
* अथ ललाटवर्णनम् *
कान्त इति ॥ कान्तो मनोज्ञः, कस्तूरिकाङ्क: कस्तूरी मुद्रा यस्य
स: अलिकं ललाटमेवार्धेन्दुः यस्य तम् ॥
॥ इति ललाटवर्णनम् ॥ * अथ केशवर्णनम् *
कालिकेति ॥ कालिकाया मेघपङ्क्ते: कलङ्के अपवादे अभियुक्तं
सन्नद्धं कैशिकं केशसमूहो यस्य तम् ॥
॥ इति केशवर्णनम् ॥
* अथ मुखवर्णनम् *
कालित इति ॥ कालितो निरस्तः आनम्राणां पङ्क:
पापमेवान्धकारस्तस्यालि: पङ्क्तिस्तस्य, अहङ्कारोऽभिमानो, येन स चासौ
हासांशुः स्मितकान्तिस्तेन, सङ्काशि शोभमानं, सज्जन् उद्यन् मृगाङ्कश्चन्द्रस्स
इवाचरत् आननं यस्य तम् ॥
॥ इति मुखवर्णनम् ॥
* अथ मकुटवर्णनम् *
काञ्चनेति ॥ काञ्चनश्रियः स्वर्णशोभायाः, कुटुङ्काभ:
विश्रान्तिकुञ्जसन्निभः, कोटीर: मकुटं, तत्र सङ्कनन्ति शोभन्त इति
सङ्कानीनि रत्नान्येवागदंकाराश्चिकित्सकास्तेषां भाभिर्नश्यत् अङ्के समीपे
आस्त इत्यङ्कासिमालिन्यं पङ्क इव मालिन्यपङ्क: एवातिरुक् महारोगो
यस्यास्सा दिशो विटङ्का इव कपोताद्याधारभूतास्तुल्या इव तेषामावलिः
यस्य तम् ॥
यथा चिकित्सकैर्नीरोगाः क्रियन्ते एवं यस्य मकुटरलैस्स्वकान्त्या मकुटरत्नैस्स्वकान्त्या
समीपगतमालिन्यमपनुद्य दिश: प्रकाशिताः क्रियन्ते ता: तादृशाः ॥
॥ इति मकुटवर्णनम् ॥
जानकीति ॥ जानक्या: मङ्गलापाङ्ग: शोभनकटाक्ष एव
कालिन्दिका यमुना तया आसङ्गिनी आसङ्गवती लावण्यमेव गङ्गा
श्रीरामदेवकान्तिरेव गङ्गा तस्यामादृतः सादर: अनङ्ग एव मातङ्गो गजो
यस्य तम् ॥
यथा गङ्गामवगाह्य गजो मज्जेत् एवं भगवलावण्ये स्मरो मन मग्न इत्यर्थः
। मदनातिशायिसौन्दर्यशालिनमिति यावत् ॥
जगतां मङ्गलं श्रीमूलरामदेवं ईडे स्तौमि ॥
गौडरीतिस्फुटाटोपविकटार्थपदोद्भटः ।
सुमतीन्द्रकृतिर्दीप्रानुप्रासो रामदण्डकः ॥
सतां मौलिषु कोटीरन्वतंसन् कर्णवीथिषु ।
हारन् कण्ठे सरामेण करुणां मयि कारयेत् ॥
सतां मौलिश्रवः कण्ठकिरीटोत्तंसहारकः ।
रोचतां सौमतीन्द्रोऽयं हरये रामदण्डकः ॥
॥ इति सर्वतन्त्रस्वतन्त्र श्रीमत्सुमतीन्द्रतीर्थ
श्रीपादविरचित - रामदण्डकव्याख्या सम्पूर्णा ॥
॥ श्रीकृष्णार्पणमस्तु ॥