श्रीशङ्कराभ्युदयम् SRI SHANKARABHYUDAYA By SRI RAJACHUDAMANI DIKSHITA 1986] राजचूडामणिदीक्षितविरचितं श्रीशङ्कराभ्युदयम् महाकाव्यम् प्रस्तावना लेखक: श्री थे. श्रीनिवास शर्मा, शिरोमणिः, एम्. ए. संस्कृत विभागाध्यक्ष:, अण्णामले सर्वकलाशाला टिप्पणकर्ता वैद्य शि. वे. राधाकृष्ण शास्त्री त्रिशिरः पुरी प्रकाशक संस्था शिमिलि श्री वेङ्कटराम शास्त्री ट्रस्ट् [Rs.10-00 SRI SHANKARABHYUDAYAM BY SRI RAJACHUDAMANI DIKSHITA Foreword by S. SRINIVASA SARMA, Siromani, M.A., 1986] Annamalai University. Edited with notes and Published by Vaidya S. V. Radhakrishna Sastri, 22, Veereswaram Approach Road, Srirangam-620006 On behalf of Simili Venkatarama Sastri Trust [Rs. 10-00 श्रीगुरुभ्यो नमः अथ किञ्चितिवेदये कलये भगवत्पादशङ्करं लोकशङ्करम् । इतस्तत संगृहीतः रचिरै: कविवाक्सुमैः ॥ सत्यालङ्करणं वासोभूषणाभं कथानकम् । दृश्यते तन्मियो भिन्नं कवीनां कलनावशातु ॥ विभ्रामकं तच्चरितक्रमवस्तुनिरूपणे । ऐतिह्यमूलं विविधं सत्यं तेन न भिद्यते ॥ "कलये भगवत्पादशङ्करं प्राच्यवाक्सुमैः" इति काचि दाशा बलवत्युदिता दशभ्यो वत्सरेभ्यः प्राक् । स मनोरथः शताधिकगुण: फलितो गुरुकृपया यन्महतोऽतिविस्तृतात् तदुविषयकप्राच्यवाक्सुमोद्यानातु मन्मनोरुचिर: मकरन्द: मया सम्भृतः, सङ्कलितश्च श्रीशङ्करविजयमकरन्दरूपेण १९७८ वत्सरे, श्रीकाञ्चीकामकोटिपीठाधिपजगद्गुरु श्रीशङ्कराचार्य श्रीजयेन् सरस्वती श्रीचरणानां चरणयोः तेषां पीठाधिरोहणरजतजयन्त्युत्सवावसरे कालट्यां श्री शङ्करभगवत्पाद की तिस्तम्भप्रतिष्ठावसरे उपायनत्वेन उपहृतश्च । ततस्तं संगृह्य श्रीशङ्करविजयमकरन्दसारं समकलयं, यश्च विशिरः पुरस्थाचार्यग्रन्थप्रकाशनसमितिः प्राकाशयत् १९८० वत्सरे । श्रीशङ्करविजय मकरन्दस्य तृतीयं संस्करणमधुनैव संपन्नं इति हृदयावकाशाधिकोऽमितस्तोषभरः । न गर्यो ममता वा तत्र, कृतकृत्यं मन्वानस्य मे भावपूरः कोऽपि सात्विकः । गुरुकृपा निदानं तत्र । श्रीशङ्करविजयमकरन्दं समीक्षितवतां इदं सुज्ञातं यत्स ग्रन्थो न मया स्वतन्त्रतया रचितः परं बृहच्छङ्करविजयादिभ्यः शताधिकेभ्यो मुद्रितामुद्रितेभ्यः तत्र तत्रोपलब्धयैव शब्दानुपूर्व्या सङ्कलित लोकाकरग्रन्थपरिचयदानपूर्वकं इतस्ततः सङ्कलितः, कयापि मन्मनो रुचिरया विधया सन्हब्धश्चेति । तथा सङ्कलने प्रवृत्तस्य प्रतिग्रन्थगत ऐतिह्यमूलक: कविमनश्चित्रणमूल कश्च चरितक्रमवस्तुनिरूपणादौ मिथो विसंवाद उपलब्धः, यं कथ मपि सामञ्जस्येन समाधातुं नापारयम् । ऐतिह्यमूलकत्वात् प्रामाणिकाप्रामाणिकचिन्ता दूरे न केवलं चरितक्रमे, परं कालनिर्णयेऽपि न कोऽपि ग्रन्थ उपाकरोत् ! किमु तेषां महापुरुषाणां समकालिका वाल्मीकिसदृशाः वश्यतथ्यवचसः कवयो नावतिषत ? तत्सूक्तिसंकलने अक्षरलोपमपि विना तद्गुप्तौ तद्विशदने जागरूका अपि पद्मपादादयः वृत्तसंग्रहे उदासीनाः । भगवत्पादादयस्ते च महापुरुषा न स्वचरितकलने व्यापृताः । तेषामप्रतिमं प्रातिभं चक्षुः परोक्षमपि अध्यक्षितवत् । नीरसोऽपि विषय: तत्सूक्तिजातारूढ : सत्यत्वेन एकान्ततः रसभरितो बभूव । ते न स्वचरितने सादरा इति न चित्रमेतत् । तेषां जीवितकालोऽपि अद्यत्वे विसंवादी जातः । संप्रदायैकपरायणतया स्थितवन्तो महामनीषिणोऽपि विद्वांसोऽद्य अन्यत्त संप्रदायमनुसरन्तोऽपि कालविषये संप्रदाय निराकृतवन्त इति चित्रमेतत् । श्रीशङ्करभगवत्पादानां तत्परम्परागतानां च महीयसां जीवितसमयः, तत्तत्परंपरासंप्रदायगोप्तृषु पीठेषु पुण्यश्लोकपूर्वपुरुषस्मरणार्थेषु ग्रन्थेषु प्रायः एकरूपतया रक्षित उपलभ्यते । परं तत्राविश्रने विदेशीय विवेचनाप्रसरो हेतुरभवत् । स्वस्वसंप्रदायागतं कालनिर्णय दूरेऽपास्य विदेशीयैः निर्दिष्टं कालचिन्तनं कथश्चित संघटय्य तैः प्रकाश्यते । श्रीभगवत्पाद-३सूक्तिसहस्रे यादृशी श्रद्धा, श्रीभगवत्पादमहिमनि यावती प्रतिपत्तिः, न तावान् विश्रंभ: संप्रदायागतेषु गणनेष्विति शोच्येयं दशा । अस्तु । सर्वेऽपि शङ्करचरितनिबन्धार: व्यासाचलमाधवादयः ऐतिह्यमेव प्रमाणमुल्लिखन्ति स्पष्टगुद्द्घोषयन्ति तथा । "ऐतिह्यमेवात्र वदन्ति चैवं तदेव मूलं मम भाषणेऽपि " इति व्यासाचलो वदति पद्मपादटीकादाहप्रसंगे ( व्यासाचलीयशङ्करविजये ८-७६)। अत्रैव सन्दर्भेऽमुमेव श्लोकं तथैवोद्धृतवान् माधवोsपि । ( माधवीयशङ्करविजये १४-१६) ऐतिह्यं विभिन्नम् । न कोऽप्यैतिह्यं एकरूपतया स्रष् मीठे । लोको भिन्नरुचिः । न सर्वः सर्वमाददाति । न वा एकरूपं प्रकाशयति । अयमेव हेतुः ऐतिह्यविसंवादे । शङ्करादर्वाचीनो व्यासाचलो योगीन्द्रः ततोप्यर्वाचीनो राजचूडामणिमखी । ततोऽप्यर्वाचीनो माधवः । माधवः समर्थतम एषु, यतु स्वतन्त्रतया ग्रन्थरचनेऽव्यावृतः, प्राक्तनाचार्यरचितपद्येषु स्वपद्यानि संगमथ्य मनोहरं कमपि ग्रन्थसुद्भावयामास । व्यासाचलीय आनन्द गिरीयशंकरविजयगता राजचूडामणिदीक्षितकृत शंकराभ्युदय रामभद्र दीक्षितकृत पतञ्जलि-चरितगताच उपत्रिशतं श्लोका माधबीये तयैव शब्दानुपूर्व्या क्वचि द्वितपदभेदेन चोपलभ्यन्ते । संकलने प्रवृत्ततया पौर्वापर्य समीक्षायां प्रतिसर्ग वृत्तबन्धे एकविधे रचनायां, पुनरुक्तिवर्जने वा न माधवः तथा श्रद्दधाति । श्रीशङ्करविजयमकरन्दसङ्कलने मम अग्रगामी आचार्योऽयमेव । श्रीमाधवेन सङ्कलनोपयोगितया उपात्तेषु मूलग्रन्थेषु शङ्कराभ्युदयं प्राधान्येन निर्देशमर्हति । यस्य द्वितीय तृतीयचतुर्थसर्गेभ्यः १८९ श्लोकघटितेभ्य: १६२ श्लोका माधवेनोपात्ताः । इतरेभ्यः स पञ्च । श्रीमाधवेन स्वसंकलने मूलतयोपात्तमिदमिति परमोपादेयत्वमाकलय्य तस्य प्रकाशनाय प्रवर्ते । मनोरमं रसिकजनोपजीव्यमिदं शङ्कराभ्युदयं नाग काव्यं अष्टसर्गात्मकम् । अडयारग्रन्थागारगतां तस्य सव्याख्यां मातृकां सहृदयापत्रिकायां प्रकाशितपूर्वं मूलमात्रं चावलम्ब्य सटिप्पणं एतत्प्रकाश्यते । अडयारग्रन्थागारगतायां मातृकायां मूलेन सह व्याख्या षष्ठं सर्गं यावदुपलभ्यते । व्याख्याता चानं यक्षसंस्थान्वयसंभवो भारद्वाजः श्रीमद्वालकृष्णकृपालब्धप्रतिभ: श्रीरामकृष्णसूरी आनन्दघनभारतीशिष्य इति व्याख्यामुखतः सर्गान्तोल्लेखतश्चावगम्यते । शब्दकल्पतरु:, आश्वलायनसूत्रानुसारी प्रयोगकल्पतरुः सूतसंहितासार: इत्यादयो ग्रन्थास्तत्प्रणीता इति व्याख्यारंभे तेनैव निरूपितम् । सप्तमोऽष्टमच सर्गः सहृदयापत्रिकायां उपलब्धः । महाविदुषा रा. कृष्णमाचार्येण रायपेट्टे वी. कृष्णमाचार्य महोदयसहकृतेन संपादिता सहृदया पत्रिका; यस्याः षष्ठवार्षिक ( १९१३ - १४) ७ - १० सञ्चिकासु प्रमादीशवर्षप्रकाशितासु अयं सप्तमाष्टमसर्गात्मको भाग उपलभ्यते । तदन्वेषणे प्रवृत्तेन मया तिरुपतिक्षेत्रस्थ श्रीवेङ्कटेश्वर सर्वकलाशालान्तर्गतप्राच्यविभागसंशोधनसंस्था ग्रन्थागारे महता प्रयासेन दृष्टा तस्याः पत्रिकायाः पुराणी मातृका यस्यां संपादकमहोदयेत सप्तमाष्टम सर्गप्रकाशनावसरे प्राक्कथनाथ उल्लिखितो भाग इदानीं स्मरणा । 9 "अत्यद्भुतवाग्विलासास्वादनीयमिदं काव्यं सर्गषद् पर्यन्त मेवास्माभिरधिगतं प्रकाशितं चेति ज्ञातचरमेव सहृदानाम् । -4अद्य कुंभघोणनगरविराजमानदिव्यश्रीकाञ्ची मकोटिपीठाधिपै: देववाण्यभ्युदयबद्धदीक्षै: श्रीमच्छङ्करयतिसा भौम: श्रीरङ्गस्थश्रीवाणीविलासमुद्रणालयाध्यक्षस्य गुरुभक्त खामणे: श्रीबालसुब्रह्मण्यार्यस्य प्राचीनग्रंथमुद्रणपरिश्रममन्यादृशमभिनन्द्य स्वीय सरस्वतीनिलयात् प्रदत्तेषु ग्रन्थरत्नेषु एकतमात् श्रीशङ्कराभ्युदयकोशात् सप्तमाष्टमसर्गों समुपलभ्य तमिमं भागं सांप्रतं सहृदयायां प्रकाशयितुमुपक्रान्ता वयं लोकगुरावस्मिन् कार्तज्ञ्यं वहामः ।' एतदन्वेषणे तत्प्रतिकरणे शोधने चोपकृतवन्तौ मन्मित्रवरौ तिरुपतिस्थकेन्द्रीयसंस्कृत विद्यापीठप्राचार्य श्री ति. गो. अनन्तसुब्रह्मण्यशर्ममहोदयः मधुरा कामराज सर्वकलाशालासंस्कृतविभागाध्यापक श्री ल. वीरराघवशर्म महोदयश्च तयोः कृतज्ञतां निवेदये । " नाहं साहित्यशास्त्रप्रवीण: । परं कविभिरन्यैरचुंबिता: बहू: कल्पना: अत्रानुभवामि । व्याख्याता श्रीरामकृष्णसूरिणा बहुपकृतं मम पाठशोधने । कर्ता चास्य काव्यस्य, श्रीराजचूडामणिदीक्षितः । चोलराजधानी तञ्जापुरीं शासितवतः रघुनाथनायकभूपस्य (१६१४१६३३ क्रि) सभामयं अलञ्चकारेति इतिहासविदः । महाकवेरस्य पितामहः लक्ष्मीभवस्वामिभट्ट अद्वैतचिन्तामणे: कर्ता । पिता चास्य परमशांभवस्य विद्वदग्रेसरस्य श्रीमदप्पय्यदीक्षितेन्द्रस्य श्वशुर:, तुण्डीरमण्डलगतसूरसमु ग्रहारवासी षड्दर्शनीपारदृश्वा सर्वतन्त्रस्वतन्त्रः श्रीनिवार दीक्षित । सूरप्पनायकेन तत्प्रदेशाधिपेन स्वावासं प्रति तस्य शुभागमनं प्रतीक्ष माणेन दिवापि गजानामुपरि दीपधारिणः कश्चित्पुरतो विधाय स्वागतव्याहारः कृतः, यो राजां स्वागतकरणे एव प्रदश्येत । अतोऽस्य 'दन्तिद्योतिदिवाप्रदीपाङ्कः' इति विरुदमासीत् । अयं रत्नखेटदीक्षित इत्यपि प्रसिद्ध आसीतु । सन्ध्यासन्धुक्षितांभोधरनलिकगणादुद्गतान् सीसखण्डान् ताराकारान्निरोधुं शशिरविकपटाद्विभ्रतो रत्नखेटौ । अन्योन्यं युध्यमानावृदयचरमभूभृत्प्रवीराविति द्राक् उक्त्या ख्यातापराख्यः क्षितिपतिवचसा रत्नखेटाध्वरीति ॥ इति राजचूडामणि दीक्षित कृत रुविमणी परिणयाव्य महाकाव्यव्याख्यात्रा बालयज्ञवेदेश्वरेण 'सन्ध्यावर्णनचातुरीप्रमुदितेन राज्ञा कृतं नाम रत्नखेटाध्वरीति' कथ्यते । स्वपितरि रत्नखेटदीक्षिते कवेरस्य परा भक्तिः स्वपूर्वजेषु परमादरच श्रीशङ्करभगवत्पादविजययात्रावसरे, पवित्रयन्नव स भैक्षचर्यया स्वयं भवस्वामिसुधीनिकेतनम् । पिनाकिनों प्राप धुनों निवर्तते पिनाकिनी यत्र निमज्जतां तनुः ॥ (७-४०) निरीक्षमाणः पथि सत्यमङ्गलं निवासयोग्यं मणिखेटयज्वनः । पयोनदीं प्राप पयो यदम्भसा विमिश्रितं वेत्तुमलं न सारसाः ॥ (७-४४) इति पिनाकिनीपयोनदीतीरयात्राव्याजेन प्रकटीक्रियते । रत्नखेटाध्वरिणो द्वितीयः पुतः अर्धनारीश्वरदीक्षितः । ईश्वरदीक्षित इत्यपि तं वदन्ति । सोऽस्य विद्यागुरुः । अत एव सर्वत्र सर्गान्ते "श्री मदर्धनारीश्वरगुरुचरण सहजतालब्धविद्यावैशद्यस्य" इति स्मरणेन, ग्रन्थारम्भ एव 'अधीत्य निखिलं शास्त्रमग्रजादीश्वरेष्टिनः" इति स्मरणेन च गुरुभक्ति प्रकटयत्ययं कविः ॥ परमशाम्भवोऽयं कविः गीर्वाणेन्द्रयतीश्वरमात्मनो गुरुं ग्रन्थारम्भे प्रस्तौति । प्रपञ्चसारसारसंग्रहकर्ता चायं गीर्वाणेन्द्रसरस्वतीनामको यतीश्वरः, श्रीमद्बोधेन्द्रसरस्वती श्रीचरणैः श्रीनीलकण्ठदीक्षितेन्द्रैश्च परमया भक्त्या स्मर्यते । ( पृ. ३ ) प्रपञ्चसारसारसंग्रहे आदावन्ते च स्वगुरून्प्रणमत्येवं, यथाऽऽदौ"नत्वा श्रीशङ्कराचार्य अमरेन्द्रयतीश्वरम् । कुर्वे प्रपञ्चसारस्य सारसंग्रहमुत्तमम् ॥" अन्ते च, "शङ्करश्चामरेन्द्रश्च विश्वेश्वर इति त्रयः । पुनन्तु मामकों बुद्धि आचार्या: कृपया मुदा ॥ अमरेन्द्रयतिः शिष्यो गीर्वाणन्द्रस्य योगिनः । तस्य विश्वेश्वरः शिष्यः गीर्वाणेन्द्रोऽहमस्य तु । शिष्यः प्रपञ्चसारस्य व्यदधां सारसंग्रहम् ॥ इति । भगवत्पादश्रीशङ्कराचार्य: प्रपञ्च राख्यस्य मन्त्रशास्त्रप्रकरणग्रन स्य रचयिता । तस्य सारसंग्रहो गीर्वाणेन्द्रेण प्रणीतः । अतः प्रथमं तं प्रणमति । ततः स्वगुरुं अमरेन्द्रम् । गीर्वाणेन्द्रस्य शिष्योरेन्द्रः, तच्छिष्यो विश्वेश्वरः, तच्छिष्यो गीर्वाणेन्द्रः राजचूडामणिदीक्षितगुरु अमरेश्वरविश्वेश्वरयोरुभयोः सकाशादयं गीर्वाणेन्द्रयोगोन्द्र प्राप्तविद्य इति प्रतीयते । ( पृ. ३ ) + शङ्कराभ्युदयगता श्रीशङ्करकथा - कालविषये मौनी कविः । तथैव पीठविषये भैरवो नृसिंहान्मोचितः, तदभीष्टां सिद्धि च प्रापितः इति भगवत्पादोचितो व्यवहार: । (पृ. ५० ) क्वचित्क्रमभेदं विना प्राच्यैरुदाहृतेव कथा स्वीकृता । पतञ्जलि चरितप्रणेता रामभद्रदीक्षितेन कृते पतञ्जलिचरितकाव्ये अस्मिन् काव्ये च काञ्च्येव सिद्धिस्थलम् । तत्रैव कथासमाप्तिश्च । कथाक्रमपौर्वापर्य अकिञ्चित्करम् । भगवत्पादानां द्वे मूर्ती । एका तद्विरचित्तशताधिकदिव्यप्रबन्धरूपा सूक्तिमयी योगिभिर्भक्तैः अन्यैश्च मादृशैः पामरैः सततं बहुधा अनुसन्धीयमाना, सदैवकरूपापि बहुभिर्बहुधा व्याख्याता । मूर्तिरन्या, "शंभोमूर्तिश्चरति भुवने शंकराचार्य रूपा" इति सार्धवत्सरसहस्रयुग्मे तत्र तत्र भगवत्पादप्रवतितपीठेषु विराजमानैः परमहंसपरिव्राजकाचार्यवर्यः तन्मनस्कैस्तदाला पैस्तद्विचेष्टैस्तदात्मकः तद् गुणानेव गायद्भिः स्वाचरणेन तदभेदं प्रकटयद्भिः अनारतं स्मार्यमाणा, काञ्ची-कालटी-प्रयाग-रामेश्वर-हरिद्वारेषु दिव्यालयेषु गृहीतविग्रहा भक्तैः प्रणम्यमाना, विविधालङ्करणा, विविधकाव्यशतगीयमाना । उभयोर्मूर्त्योः भक्ति वर्धयदिदं काव्यं विचित्रं सहृदयेरास्वाद्यमिति समर्पये तेषां पुरतः । एतस्य चानुबन्धात्मकः श्रीरामभद्रदीक्षितकृतात् पतञ्जलिचरितनामकात्काव्यात श्रीगोविन्दभगवत्पादश्रीशङ्करभगवत्पादचरितसंबद्धो भागः श्रीशङ्करभगवत्पादचरितामृत से वार्थिभिरास्वादनीय इति त्रिया अन्ते योजितः । निर्णयसागरमुद्रणालयात्प्रसृतायां काव्यमालायां प्रकाशितचरं अद्यत्वे दुष्प्रापमिदं काव्यम् । चिराय पूर्णो मनोरथः । श्रीमद्भगवत्पादचरिताब्धिती रे सञ्चरता मया य च्छ्या समासादितमिदं ग्रन्थरत्नम् । तद्भवतां पुरत उपह्रियते । एतेन प्रसीदन्तु मय जगद्गुरवो भगवत्पादाः तत्प्रतिष्ठित श्रीकाञ्चीकाम कोटिपीठाधीशाच ॥ शम् । शि. वे. राधाकृष्णशास्त्री 22, वीरेश्वरं अप्रोच रोड्, श्रीरंगम् - 620006 श्रीगुरुभ्यो नमः प्रस्तावना त्रिशिरः पुरीयविद्वद्वरेण्येन वैद्यवरेण श्रीमता शि. वे. राधाकृष्णशास्त्रिमहाशयेन निजतपः परीपाकप्रसृतस्य पितृभक्तिपताकायितस्य श्री शिमिषि वेङ्कटरामशास्त्रिनिधिनियोगस्योपलक्षे, स्वोपज्ञटिप्पणेन सह प्रकाश्यमानमिदं सरसगम्भीरवाग्विलासमाधुरी विजृंभितं श्रीशङ्कराभ्युदयाभिख्यं अष्टसर्गात्मकं काव्यमवलोकयतां सहृदयानां सुरभारती सेवकानां आस्तिकधुरन्धराणां चैकपदे प्रमोदभर: समुल्लसत्येव । यतोऽत्र काव्ये कविभिरितरैरचुम्बिता नवनवा: कल्पनाः काव्यस्य समास्वादनीयत्वमेकतो विस्फोरयन्ति; अपरत आस्तिकानां आचार्य महिमानुशीलनरसिकानां इदमित्थमिति चित्रे निवेश्येव, वस्तुतत्त्वं आग्रहानुग्रहविकल्पास्पृष्टं अवगाह्यमानं चमत्करोति चेतांसि । दशभिर्वषैराराधितोऽयं संपादकस्य मनोरथ: सद्य: पचेलिमतामाप्नोति, श्रीकाञ्चीकामकोटिपरमाचार्याणां करुणाकटाक्षप्रसरै: पूर्तिश्व समृच्छति । धन्योऽस्य काव्यतल्लजस्य संपादकः श्रीमान् राधाकृष्णशास्त्री, धन्याश्च सहृदया: योऽद:काव्यसंपदुन्मेषं कटाक्षयन्ति । ऐतिह्यमूलं आचार्यश्रीशङ्करभगवत्पादानां चरितमत काव्ये प्रायशः प्राचीनैराहतमेव दरीदृश्यते । यत्रकुत्रचितु काव्यसौन्दर्यमभीप्सता कविवरेण विपरिवर्तितमिव यत्ततु अकिञ्चित्रं प्रमुखकथासूत्रस्येति प्रत्यक्षमेव । अल प्रथमे सर्गे भगवत्पादावतार :, बाललीला, उपनयनविद्याग्रहणे, संन्यासस्वीकारः, गुरुसेवा, ग्रन्थनिर्माणं इत्यादिĴ विषया: वर्ण्यन्ते । द्वितीये व्यासानुग्रहः, सनन्दनस्य शिष्यतया स्वीकारः, कुमारिलभट्टसमागमः, विश्वरूपसमागमः, तेन सह वादे विजयः इत्यादयो वर्ण्यन्ते । तृतीये जनन्या अन्त्येष्टि: महासुराल येशक्षेत्रगमनं, पञ्चपादिकामनुद्य पद्मपादस्य शोकापनयनं, राजशेखरानुग्रहः, तोटकानुग्रहः हस्तामलकस्य शिष्यतथा स्वीकारः, इतीमे वर्णिताः । चतुर्थे गोकर्ण गमनं, हरिहर गमनं, मूकाम्बिकाक्षेत्रमार्गे मृतशिशोरुज्जीवनं, अमरुगकायप्रवेश:, मूकाम्बिकाक्षेत्रगमनं, कापालिकाय सिद्धिदानं च वर्ण्यन्ते । पञ्चमे अनन्तशयनमधुराक्षेत्रगमनं, षष्ठे दर्भशयनरामेश्वरगमनं, सप्तमे कावेरीतीरे श्रीरङ्गक्षेत्रगमनं, चिदम्बरारुणाचल- सत्यव्रतक्षेत्र - काञ्चीगमनं, कामाक्ष्यालयप्रवेशः, सर्वज्ञपीठारोहणं, " अष्टमे सावरणदेवतायाः परदेवतायाः कामाक्ष्याः स्तुतिः काञ्च्यां भगवत्पादानां सिद्धिश्च वर्ण्यन्ते । . भगवत्पादीयचरित्रचित्रणे यद्यप्ययं कविशेखरो बद्धादर:, तथाप्यौचित्यात् चित्रणीयवस्तुसंपदं महार्थामतिपावनीं चापादयितुमनाः काव्यदृष्ट्या धर्मेकतानदृष्ट्या च, अतिमनोज्ञाः काश्चन स्तुती: भगवत्पादीयतयोपनिबध्नातीति विशेषत उल्लेखनमर्हति । तत्र महाकाव्यलक्षणस्य दिनुन्मीलनं यथावसरं सम्भवत्यपि । प्रथमं तावत् वर्णनीयचरित्रस्योत्तरोत्तरं द्रुततरक्रममुपलक्षयन् यदा इदंकविः कुशलतया किमपि कामनीयकमभिनवं उन्मेषयितुमनाः तृतीयाष्टमसर्गयोरन्तराले हरि-हर देवीस्तुती: काश्चन स्वायत्तीकरोति, न केवलं तदा सहृदयमनांसि परवशीकरोति, परं पूर्णप्रज्ञः स्वयमपि निर्वृतो भवति । स्तुतयः इमाः परिगणनया विष्णुपरा: चतस्रः, शिवपरा: तिस्रः हरिहरयोः समुच्चित्यैका, अंबिकापराश्चतस्रश्च भवन्ति । अष्टमे सर्गेऽपि परदेवतायाः स्तवो यथाऽत्र, नान्यत्र कुत्रापि दृष्टचर: " " -११दक्षिणदेशे प्रधानानि क्षेत्राणि प्रायशोऽत्र भगवत्पादयात्राप्रसङ्गे वर्ण्यन्ते । चरित्रसन्दर्भेषु, परैरनुल्लिखितकल्पनासु चास्य वश्यवाचः कविशेखरस्यानुकूल्यमातन्वनी पदानां निरर्गला विन्यासचातुरी सुधारसपरीवाहं मेदुरमनुआवयति रसिकान् प्रतिश्लोकम् । रूपकोत्प्रेक्षातिशयोक्त्यादयोऽलंकारा अपि अहमहमिकया अतिश्लक्ष्णं घटते । दृश्यतामयं श्लोक:** गोकर्णेश्वर: अर्धनारीश्वरोऽनुभूयते । वामे हिमगिरिजा भागे वक्षोजभरेण या अवतिरनुभूयते अनुभूयतां नाम, सा दक्षिणभागे सदाशिवमप्यवनमयति । इदमसह्यं, न केवलं परस्य पुम्स, परमभक्तस्थापि कवेः । किं करोति सः ? पुर्वं त्रिपुरदाहकाले धनुरूपं मेरुं कराने कलयति स्म किल ! कविरुत्प्रेक्षते कल्याणशैलं तं धनुरूप मालम्बयष्टितया कलयति उक्तवैषम्यापनयनायैवेति फलम् । " वक्षोजभारावनकभागवैषम्यभूमापनिनीषयेव । कल्याणशैलं कलयन्कराने शर्माणि निर्मातु सदाशिवोऽयम् ॥ (४ =४) अन्योन्योपकारकरीत्या घटमानयोरुभयोबहूनां वालङ्काराणां एकत्र समावेशः प्रायः कृतहस्तानां महाकवीनां प्रबन्धेषु दृश्यते । यथाऽत्रैव, अर्धनारीश्वरस्तोत्रे - 'वामः स्तन उन्नतः, दक्षिणस्तु न, पुमवयवत्वात् । अतो वामस्य दक्षिणः स्तनः सपत्नः सर्वथा नेति, निस्सपत्नतया निर्भरं जातेन मोदेनेव वामः स्तनः प्रवर्धते' इत्युत्प्रेक्षा । सा चोपकरोति अन्यामनुपदं स्वरसतया अंकुरितामतिशयोक्तिम । कथं ? एवं प्रकामं प्रवर्धमानस्य -१२कुचाग्रस्य घर्षणात्किल परदेवतायाचिबुकं निम्नं जातमिति असम्बन्धे संबन्धातिशयोक्ति दिशा । ( ४ - १३ ) अनन्तशयने पद्मनाभस्य वर्णनम् । भगवत उदरमतिसुन्दरम् । तन्मध्ये चातिगम्भीरं सुषिरं ( नाभिकुहरं ) जगत्वितयसृष्टये मृदं हरता विधिना कृतमिव पश्यतः कवेरुत्प्रेक्षा श्रीहर्षकवेः 'हृतसारमिवेन्दुमण्डलं' इत्यादिपद्यमनुस्मारयति । सद्यस्तत्रैव नवरोमराजि: लतिकेव दृश्यते । सा ( लतिका ) तदिदं सुषिरं आलवालआलवाले किल सुप्रतिष्ठा भवति । मिवेत्यन्या उत्प्रेक्षा । उभयोर्मेलनमत श्लोके विधिना जगत्त्रितयसृष्टये मृदं हरता कृतेन सुषिरेण हारिणा । नवरोमराजिलतिकालवालभूवलयेन नाभिकुहरेण शोभितम् ॥ (५-११) अर्थान्तरन्यासोऽपि साधुतमांशभाग्भवति । दृश्यतामयम् जगदीश तावकगुणांशकीर्तनादपि भाग्यभाग्भवति विश्ववन्द्यताम् । जलधेः कियन्त्यपि जलान्युपादधत् जलदो न किं व्रजति कीर्तनीयताम् ॥ ( ५ - ३०) अपरच, अथवा गिरीश ! मम वाग्जगन्मयं न भवन्तमर्चयितुमक्षमा भवेत् । किमु मीलताऽपि विशिखः प्रचोदितो धरणीशरव्यमपराधयत्यये ॥ ( ५ ३२ ) - १३श्रीमीनाक्षीस्तवे मीनाक्ष्याः कटाक्षांकुरवर्णने कविरयं मूककविमतिशेत इति नातिशयोक्तिः । दर्भशयने रामस्तवं व्याजीकृत्य कति कल्पनाः कवेः समुदयन्ति ? इयमतिमनोहरा इयमियमियमिति पल्लवानुपल्लवं यदि कल्प्यते पट्टिका तर्हि रामस्तवसन्दर्भ: निश्शेषं समुद्धृतः स्यात् । स सन्दर्भ: सावधानं सहृदयैरास्वादनीयस्तत्रैव । श्रीरङ्ग क्षेत्रे श्रीरङ्गनाथमुपश्लोकयता कविना, विष्णोर्दशाप्यवतारा वर्णिताः । तथा हरिहरक्षेत्रे वैकुण्ठकैलासविवर्तभूते अद्वैतमुद्रामिव दर्शयन्तौ हरिहरी समुच्चित्य द्वयर्थाभिर्वाग्भिः सचमत्कारं विष्णो: शिवस्य चावतारा: स्तोत्ररूपेणावतारिताः । उभयत्रापि प्रसिद्धमवतारक्रममनुल्लंघ्य वर्णिताः । परमयं विशेष:- प्रथमे प्रत्येकमवतारस्यैकैक: श्लोकः, द्वितीये अवतारप्रयोजनीभूतविषयप्रपञ्चनाय प्रत्येकं द्वौ श्लोकावुपनिबद्धाविति । द्वितीये सर्गे गङ्गायमुनयो: संभेदं सर्वश्रा नूतनया सरण्या वर्णयतोऽस्य कवेचातुरीं अतिक्रान्तश्रीमत्कालिदासां भावयामः । प्रातिस्विकगङ्गावर्णने ध्वनिचमत्कारेण रसिकमनांस्युत्तरलयति कविः । यथा-गङ्गा सन्मार्ग़वर्तिन्यपि शिष्टैरस्पृश्यानि अस्थीनि सत्यमाददाति । कुत: ? 'आ: ज्ञातमम्ब हृदयं तव' इत्यामृशन् कविः, 'प्राय: प्रसाधनकृते कृतमज्जनानां' इत्युत्प्रेक्षया गङ्गायां मज्जन्तः शिवरूपेण बहिरागच्छन्तीति वस्तुवनि स्फोरयति । (२-२६) कृष्णपक्षक्षपासु चन्द्रकला हीयन्ते, देवास्ताश्चरन्तीति प्रसिद्धिः । परंतु कविः, 'चान्द्री: कला हरसि, नैव चरन्त्य मर्त्याः' इत्यपह्नुत्यलङ्कारेण 'प्रतिक्षणं गङ्गायां मज्जनोत्तर-१४क्षण एवं नवनवाः शिवाः सहस्रशः उत्पद्यन्ते, तेषामेकैकशः प्रसाधनाय इन्दुकलासहस्रमपेक्ष्यते' इति वस्तु व्यङ्ग्यविषयतां प्रापयति द्वितीया । ( २ - २८ ) तथा सद्य: शिरः समधिरोहसि मानिता चेत् व्याकुर्वती किल लघुप्रकृतेः स्वभावम् । दत्से त्वदाश्रितवतां द्रुतमर्धचन्द्र जह्रोः कुमारि ! जडतां च विवृण्वती त्वम् ॥ इति व्याजनिन्दया, गङ्गायां श्रद्धया स्नातवतां तदाश्रितानां च पारमेश्वरसारूप्ये पर्यवसितं वस्तु व्यंग्यपथमानयति कविः । (२-३०) ताम्रपर्णी गङ्गा चोभे जलानां ( जडानां च ) मुक्तात्मतापरिणतिप्रदाने शक्ते; परं तु ताम्रपर्णी तत्व स्वातीनक्षत्रे वृष्टिमपेक्षते, गङ्गा तु नेति व्यतिरेकस्यातिश्लक्ष्णा भङ्गी कुत्रचित् । (२-२७) तस्यास्य काव्यतल्लजस्य कर्ता क: ? सुचिरात् संस्कृतसाहित्यस्य स्वर्णयुगायमाने क्रैस्तवषोडशसप्तदशशताब्दात्मके काले विद्यया जन्मना वा श्रीमदप्पयदीक्षितसंबन्धिनस्तत्सदृक्षा महनीया बहवो विद्वांसः समजनिषत । तेष्वन्यतमः यज्ञनारायणापरनामा राजचूडामणिदीक्षितोऽस्य प्रणेता । मखिनोः कामाक्षी (रत्नखेट ) श्रीनिवासयोरात्मजोऽयमपि मखी, अर्धनारीश्वरदीक्षितस्याग्रजस्य शिष्यः, श्रीगीर्वाणेन्द्रस्याध्यात्मविद्यागुरोनिदेशेनेदं काव्यं कृतवानितीदं वृत्तजातमदः काव्यप्रस्तावनाश्लोकैरवगम्यते । सप्तविंशतिस्तदीया ग्रन्थाः । तत्र तन्त्रशिखामणिः, शास्त्रदीपिकाव्याख्या, मणिदर्पणं, युद्धकाण्डचम्पू कान्तिमतीपरिणयं, कमलिनीकलहंसं, आनन्दराघवं, 2 काव्यदर्पणं, रुक्मिणी परिणयं, इदं शङ्कराभ्युदयं च काव्यमिति दश ग्रन्थाः इदानीमुपलभ्यन्त इति च ज्ञायते । उक्तशताब्दीमध्यजातानां दीक्षितवंश्यानां ग्रन्थेषु व्याख्यायां, विश्लेषणे, उपबृंहणे, परिवृत्त्यसहपदविन्यासे च काचिदभिनवा सरणिः सुश्लिष्टमाता दृश्यते इति विशिष्यावधेयोऽशः । 9 आनन्दगिरीयादिप्राचीनचरित्रग्रन्थेषु कांच्यां भगवत्पादानां सिद्धिरिति रूढमूलं, पश्चात्तनैश्चरित्रकारैः कैश्चन विपरिवर्तित मपि वस्तुतत्त्वं यथावन्निविशङ्कं प्रकटीकुर्वदिदं काव्यं श्रीराम- भद्रदीक्षितस्य पतञ्जलिचरितेन संवादं भजते इत्यतस्तद्गत- शङ्करभगवत्पादचरित्रसंबन्धी भाग: अनुबन्धतया अत्र संयो- जितो विद्वदास्तिकानां मोदाय कल्पेत ॥ 'नानपेक्षितमुच्यते' इति सङ्कल्पेनेव संयोजितं टिप्पणं, अपेक्षितं सर्वं स्वारसिकरीत्या विवृणोति । अयं हेम्नः परमामोदः यत् द्वयर्थकहरिहरस्तोत्रे सावरणदेवतायाः परदेवतायाः स्तोत्ररूपेऽष्टमसर्गे च टिप्पणस्यास्योपयोगिता बहुगुणेति । काव्यकर्तुराशयं समुचितया रमणीयया सरण्या प्रकाशयदिदं नातिविस्तरमपि काव्यगौरवं पुष्णाति । टिप्पणकारः ब्रह्मश्रीयुतो राधाकृष्णशास्त्री आजानशुद्धे पण्डितकुले, पण्डितवरैः साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं यथायथं पोषयद्भिः भ्रातृभिः सह जनिमलभत । महदिदं प्रमोद स्थानं यन्मातुलोऽस्य तज्जापुर्यां यशस्वी महाकवि : श्रीसुन्दरेशशर्मा प्रेमविजय - रामामृततरङ्गिणी - रामकर्णामृतादिग्रन्थानां प्रणेतेति । सर्वशास्त्रेषु प्राधान्येन चायुर्वेदेऽयं निष्णातः । संस्कृतसाहितीसमास्वादनेऽभिनवकृतिरचनेषु सदुपन्यासेषु च M बद्धाादरोऽसौ अनितरसाधारणं विश्लेषणव्याख्यानचातुर्यमाबिभर्तीति सहृदया: 'संस्कृती' पाठका: सम्यग्जानन्त्येव । अचिरात् स्वपितृपादस्मारकं निधिनियोगमायोज्य तदुद्वारा श्रीशङ्करविजयमकरन्दं, श्री विष्णुसहस्रनामस्तोत्रद्राविडीव्याख्यां अन्याश्च कृतीस्सविमर्श प्राकाशयत् याः सहृदयानामादरातिशयेन परिवृत्तिपरंपरामवगाहमाना: प्रकाशन्ते । " संस्कृत सेवा, गुरुचरणसेवेत्युभे स्वधर्मतया स्वीकृत्य धृत्या नियमेन च पालयन्तमेनं 'स धर्मश्चिरं एनं परिपालयतु' इत्या- शंसमाना पण्डितमण्डली, इतोऽप्यप्रकाशितान् श्री राजचुडा मणिदीक्षितग्रन्थान् अन्यांश्च ग्रन्थतल्लजान प्रकाशनपथमव- तारयतु अयं मनीषी इति सादरं सप्रेम च प्रार्थयते ॥ विजयतां संस्कृतश्रीः । संस्कृतविभागः, अण्णणामले सर्वकलाशाला, अण्णामलैनगरम् । विद्वज्जन विधेयः शे. श्रीनिवास शर्मा ॥ श्रीगुरुभ्यो नमः । ॥ श्रीशङ्कराभ्युदयः ॥ श्री राजचूडामणिदीक्षितविरचितः । प्रथमः सर्गः अस्ति स्वस्तिकृदस्तोकशस्तिश्चूडामणिर्मखी । कर्लोविश्वजितः पुत्रः कामाक्षीश्रीनिवासयोः ॥ १॥ अधीत्य निखिलं शास्त्रमग्रजादीश्वरेष्टिनः । विदुषां प्रीतये येन व्याकृता शास्त्रदीपिका ॥ २ ॥ यत्नं विर्नव विहितो येन तन्त्र शिखामणिः । नव्या सङ्घर्षकाण्डस्य न्यायमुक्ताबलिस्तथा ॥३॥ न्यायचूडामणिर्नाम्ना न्यायजातोपबृंहिता । रुचिदत्तस्य च व्याख्या रुचिरा येन निमिता ॥४॥ टिप्पणी श्रीगुरुभ्यो नमः । दयमान दीर्घनयना देशिकताभब्य दृश्यदक्षकरा । वामकरनिहितदण्डा पुरतो मम भातु सा गुगेर्मूतिः ॥ दण्डालनकरांबुजं पदयुग श्लिष्यद्वटीपादुकं शीर्षाेविकभक्तदत्ततुलसीबिल्वादिमालाभरम् । मार्गाभ्यागतसज्जनात्र लितसाष्टांगप्रणामोन्मिषत् कारुण्यं हृदि भावये गुरुवरं श्रीकामोटीश्वरम् । अथ श्रीराजचूडामणिदीक्षिताभिधोऽयं कविः स्वप्ले स्क्गुरुणा समादिष्टः श्रोशङ्करभगवत्पादचचित वर्णनपर काव्यमिदं प्रस्तीति, 2 श्रीशङ्कराभ्युदये काव्यप्रकाशिकायाश्च यः करोति स्म दर्पणम् । कर्णामृतायमानानि काव्यानि च तथा शतम् ॥५॥ अनि पूर्वतया आत्मानमेव प्रथमं पञ्चभिः श्लोकैः प्रस्तुवन् । चूडामणि- चित्यपि प्रथा तस्य । अयं मखी, पितरौ मखिनौ, दंपत्योः सहाधि- कारात्, अग्रजोऽपि मखीति कुलेन जन्मना शुद्धः ॥ १॥ ईश्वराख्योऽग्रजः अर्धनारीश्वरदीक्षित इति प्रथितः, कालिदास- कृतस्त्र अंबास्तवस्य व्याख्याता, चूडामणेर्गुरुः ॥२॥ प्रकाशदर्पणान्ते अत्रानुद्दिष्टान् स्वकृत ग्रन्थानेवं नाम्ना संगृह्णाति कविरयम् । व्याकृता याजुषी शाखा तथोपनिषदोऽखिलाः । प्रणीता चामिहोत्रादेः प्रायश्चित्तप्रदीपिका ॥ मणिदर्पणनामानं महितं वाङ्मुखं मणेः । खण्डवयस्य दुर्बादिखण्डनाय व्यधत्त सः ॥ येन शृंगारसर्वस्वनामा भाणोऽष्यभण्यत । यश्चैकाङ्क्षा भोजचंपोर्यद्रकाण्डमप्रयत् ॥ येन भारतचंपूश्च वृत्ततारावली तथा । विहिता शङ्कराचार्यतारावल्या: सहोदरें ॥ सवतपत्र स्वतन्त्रस्य श्रीनिवासमखीशितुः । कर्त विश्वजितो येन तातस्य यमिता कथा । रघुवीराम्य कृष्णस्य पांडवानां च याः कथाः । प्रत्यक्षरश्लेषमयैः पद्यैर्हयैरबर्णयत् ॥ यमिता मञ्जुभाषिण्या येन सीतापते कथा । शंकराभ्युदयाभिख्यं काव्यं येनंब निर्मितम् ॥ काव्यं कंसवधं रुक्मिाहमपि यो व्यधात् । येनोदिता कमलिनीकलहंसा ख्यनाटिका ॥ प्रथमः सर्गः । शर्वर्याश्चरमे यामे शयानस्स कदाचन ॥ गीर्वाणेन्द्रगुरुं बुद्धया गीर्वाणेन्द्रमलोकत ॥६।॥ अनुग्रहादाप्तविद्यं अमरेश्वरयोगिनः । विश्वेश्वरयतीशानविनेयं विनयोज्ज्वलम् ॥७॥ पर्यायशङ्कराचार्यं पारे वाचामवस्थितम् । प्रपञ्चसारप्रमुखप्रबन्धकृतिवेधसम् ॥ ८॥ प्रत्यग्ब्रह्मैक्यनिध्यानप्रहसन्मुखपङ्कजम् । तत्तन्मन्त्रानुसन्धानतत्परं तमसः परम् ॥९॥ आनन्दराघवं नाम नाटकं च प्रपञ्चितम् । येन व्यतान्यलङ्कारचूडायण्यभिधा कृतिः ॥ अथ वृत्तिविवेकेग विचित्रा चित्रमञ्जरो । येन व्यतानि श्रोराजचूडामणिमखीन्दुना ॥ काव्यदर्पणनामासौ प्रबन्धो विदुषां मुदे । इति ॥५॥ 8 गुरुं प्रस्तौति - अमरेश्वरयोगिनः तन्नाम्नो गुरोः प्राप्तविद्यं विश्वेश्वरण्यतीशानस्य शिष्यं, यं शिष्टाः स्वगुरुनाम साक्षान्न कथनीयमिति हेतुना, श्रीशंकराचार्यशिष्यपरंपरान्तेवासित्वेन वा विवेकवैराग्यनानातन्त्रपारंगतत्वादिसंपत्तिभिः श्रीशंकरभगवत्पादसादृश्येन वा श्रीशंकराचार्य इति पर्यायेण नामान्तरेण व्यवहरन्ति । अयं प्रपञ्चसारारूपभगवत्पाद श्रीशंकर कर्तृककमन्त्रशास्त्रग्रंथविवरणभूतस्य प्रपञ्चसारसारसंग्रहस्य कर्ता । भगवन्नामबोधेन्द्रसरस्वतीस्वामिपादाः श्री शंकरभगवत्पादप्रतिष्ठित श्रीकामकोटिपीठाधिष्ठाने ५९ तमाचार्यत्वेन व्यराजन्त । ते अद्वैतभूषणाख्ये स्वकृते ग्रन्थे गुरुमेनं प्रणमन्ति ८ गीर्वाणेन्द्रयतीन्द्राणां चरणांबुरुहद्वयम् । स्वर्गापवर्गदं पुंसां नौमि विघ्नोपशान्तये ॥ इति ॥ तथा ते स्वकृतायां आत्मबोधटीकायांश्रीशङ्कराभ्युदये कृपया चोदितस्तेन कृपणानुजिघृक्षुणा । स एष कुरुते काव्यं शङ्कराभ्युदयाभिधम् ॥१०॥ श्रीशङ्करभगवत्पादावतारः केरलेषु नभोलङ्घिकेरभूरुहशालिषु । अस्ति कश्चिन्महानग्रहारः कालटिनामकः ॥११॥ विद्याधिराज इत्यस्मिन् विश्रुतान्वयनामकः । विपश्चितामग्रगण्यो व्याकुर्वाणो विदिद्युते ॥१२॥ यस्य नाम्ना शिवगुरुस्तनयो विनयोज्ज्वलः । महितोऽजनि यत्पत्नी मखपण्डितकन्यका ॥ १३॥ अध्यैष्ट चतुरो वेदानयष्ट स महाध्वरैः । अलब्ध निखिलान्कामानन्तरेण सुतोदयम् ॥ १४॥ ततस्स तनयाकांक्षी तरुणीसचिवश्चिरम् । तपसा तोषयामास तरुणेन्दुशिखामणिम् ॥१५॥ अद्वैतपीठस्थितदेशिकं तं हृद्यात्मविद्याविशदान्तरङ्गम् । नित्यं भजामो विशदस्वरूपं गीर्वाणयोगीन्द्रगुरुं हृदन्तः ॥ इति प्रणमन्ति । " अर्धे तनोरद्रिसुतामयोऽस्मीत्यहंयुना कि फलमादियूना । गोर्काणयोमीन्द्रमुपास्महे तं सर्वात्मना शैलसुतात्मको यः ॥" इति शिवलीलार्णवे श्रीनीलकण्ठदीक्षिवेन्द्राः स्मरन्त्येनम् ॥९॥ अग्रे, ग्राममुभयतः हरिहरौ दिव्यालयस्थौ यत्र सः अग्रहारः । समुदायस्वे बहवो भागिनः तत्र देवालयो विप्राश्च अग्रिमं भागं हरन्ति इति, ते यत्र सः अग्रहारः ॥१२॥ मख पण्डितस्य कन्यका आर्याम्बा । मखण्डितः कालटीसमीपस्थे मेलपास इति ग्रामेऽवसदिति प्रथा ॥ १५॥ प्रथमः सर्गः । सामिनीलवपुस्ताक्षात् यामिनीशार्धशेखरः । वाचमूचे प्रसन्नात्मा वाञ्छिताधिकदायिनीम् ॥१६॥ वरयस्व बहून्पुत्रान् वत्स ! मूढांश्चिरायुषः । सर्वज्ञमेकमथवा सौम्य संकुवितायुषम् ॥१७॥ संमन्त्र्य प्रियया तेन सर्वज्ञे तनये वृते । अन्तधिमतनिष्टासावनन्तद्धकर विभुः ॥ १८ ॥ आकुलं जगदुद्धर्तुं अद्वैतपरिपन्थिभिः । जठरं तद्विलासिन्या जगदीशोऽभजत्स्वयम् ॥१९॥ आनीलरोमवल्लीकमलक्षितवलित्रयम् । बभार पाण्डवक्षोजं बाला दौहृदलक्षणम् ॥२०॥ खिद्यमानाऽपि नर्मोक्तौ किञ्च मञ्चाधिरोहणे । विजित्यान्यानसा वैच्छद्विद्यासिंहासने स्थितिम् ॥ २१ ॥ समानापि ससत्वानां विषयेषु विरागिता । सुदृशोऽजनि गर्भस्य सुतचारित्रशंसिनी ॥२२॥ शुचिस्मितायाः शुशुभे रुचिरा रोमवल्लरी । वेणुर्नव इव न्यस्तो वेधसाऽस्य शिशोः कृते ॥२३॥ 5 मूढबहुपुत्रवरणे वत्सेति संबोधनं बालवदज्ञस्त्वं इति बोधनाय । सर्वज्ञकुलकरणे सौम्येति, तदा प्राज्ञो युक्तका रीति ॥ १७ ॥ धर्मरक्षणाय सन्ततिः प्रार्थ्यते । चिरायुषामपि मूढानामपत्यत्वे धर्मरक्षणाय इत्याशा दूरे । सर्वज्ञस्यापत्यत्वे अदीर्घजोत्रितत्वात् वंश प्रतिष्ठायै इत्याशा दूरे । उभयथापि आशाभंगे समे, मूढापेक्षया सबंज्ञो वरम् । अनन्तधि करो भगवान् वृतादधिकं दद्यादेव ॥ १८ ॥ 6 श्रीशङ्करभ्युदये पयोधरमिषात्तन्व्याः पयःपानोचितौ शिशोः । कलशावमृतापूर्णी कलयामास कञ्जभूः ॥२४॥ द्वैतवादं कुचद्वन्द्वे मध्ये माध्यमिकं मतम् । गर्भस्थ एव पृथुको गर्हयामास सुध्रुवः ॥२५॥ शुभंयुनि दिने सूनुमहंयुकुमतासहम् । प्रासूत गुहमाले सा सासूदेव शुचिस्मिता ॥२६॥ दिग्भिः प्रसेदे पवनं: दिव्यगन्धैरभूयत । प्रदक्षिणीभवज्ज्वालैः जज्वले ज्वलनंरपि ॥ २७ ॥ ततः शिवगुरुः स्नातो धवलाम्बरसंवृतः । वित्तेशमधरीकुर्वन् दत्ते स्म विविधं धनम् ॥ २८॥ पुरोधसं पुरस्कृत्य पुण्याहविधिपूर्वकम् । चकार स विधानज्ञो जातकर्मादिकाः क्रियाः ॥ २९ ॥ पूर्वं कुचद्वैत अभूत् । शंकरे गर्भगे तत्कालोचितस्तनोपचयेन स्तनद्वैतभानं नष्टम् । द्वैतवादो निरस्त इव । पूर्वं तन्व्यास्तस्या मध्य- भाग: शून्यप्राय आसीत् । अधुना गर्भभरालसाया उच्छनोदराया: सा शून्यता ध्वस्तेव । माध्यमिका: शून्यवादिनो बौद्धा अपि पृथुकेनानेन निरस्ता: । पृथुक: शिशु, पृथु उच्चं कायति शब्दायते इति, प्रथते इति, इदानीं शिशुरपि पृथुर्महान् बुभूषते इति वा । गर्भस्थ एवायं द्वैत माध्यमिकवादनिरसनेन पृथुर्महान् बुभूषत इव ॥२५॥ गुहमाता पार्वती न गुहूं गर्भे दधार, न प्रासूत, नपोषवा स्तन्येन । इयं मासान्नव गर्भ धृत्वा प्रसूय स्वस्तन्येन पोषितवतीति पार्वतीतोऽपि गरीयसी ॥२६॥ प्रथमः सर्गः । अर्धेन्दुशेखरस्यायमवतारममुं विदन् । शङ्करं जगतां चक्रे शङ्करं नामतोऽपि सः ॥ ३० ॥ श्रीशङ्करबाललीला मञ्चेऽथ शायिते बाले मानसं पूरितं सताम् । वीक्षमाणे मणीगुच्छान् विनीलं विद्विषां मुखम् ॥३१॥ पद्भ्यां सन्ताडयन्नेव पर्यङ्कफलकं शनैः । बिभेद शतधा सद्यो भेदवादिमनोरथान् ॥३२॥ द्विवान्वर्णान्वदत्यस्मिन् द्वैतिनो मौनिनोऽभवन् । पद्भ्यां सञ्चरमाणे तु परायन्त दिशो दश ।॥३३॥ आक्षपादमुखान्ग्रन्थान् आर्हताद्यागमानपि । पपाठ सुनिरासाय प्रागेवोपनयादसौ ॥३४॥ उपनयनं विद्याग्रहणं च अकृत्वोपनयं ताते हन्त दिष्टगत गते । उपषष्ठे वयस्येष उपानीयत बन्धुभिः ॥३५॥ 7 क्रियैकत्र, विकृतिः फलं चान्यत्र ॥३१, ३२॥ उपषष्ठं पञ्चमं वय: । "शिवगुरुरुपनीय शङ्करायं निगममशेषमथाध्यजीगपत्तम् । नियतिरिदमसासहिहि नीचा नियतमनोनयदन्त रे गुरुं द्याम् ॥" इति बृहच्छङ्कर विजये "चौलं कर्प समाप्य चोपनयनं ताते दिवं प्रस्थिते" इति प्राचीनशङ्करविजये । "उपनीय दिवं गते स्वताते" इति सदाशिवब्रह्मेन्द्राः जगद्गुरुरत्नमालायाम् । चिद्विलासीये च तथैव । परं 'उपनीतिमकृत्वैव इति आनन्दगिरीये । 'तं पञ्चमान्द उपनेतुमनाः स एव पञ्चसाप' इति व्यासाचलीये । 'बाल्य एव मृते ताते जनन्या परिपोषितः । उपनीत' इति गोविन्दनाथीये । उपनीत( → श्रोशङ्कराभ्युदये अधीत्य चतुरो वेदान् अङ्गषट्कोपबृंहितान् अरंस्त जैमिनीयेऽध्वन्यधियोगमजागरीत् ॥३६॥ इतिहासपुराणादीन्बीक्षमाणः स्मृतीरपि । सर्वज्ञपदवीं लेभे सप्तमे हायने बटुः ॥३७॥ 2 अधीतमखिलं शास्त्रमालोक्य स पुनः पुनः । व्याख्याय सौख्यभरितान्विधेयन्विदधेतमाम् ॥ ३८॥ राजशेखरनामाऽथ राजा तं द्विजशेखरम् । स्वभ्यर्च्य श्रावयामास स्वकृतं नाटकत्रयम् ॥३९॥ अनुजज्ञे गृहान्गन्तुं अभिनन्द्य जनाधिपम् । दृशापि नास्पृशत्तेन दत्तानि द्रविणानि सः ॥४०॥ निरीक्ष्य मातरं मङ्क्तुं निम्नगां गन्तुमक्षमाम् । निर्ममे योगशक्त्यासौ निष्कुटेऽम्बाभिधां नदीम् ॥४१॥ स्तदा मात्रा' इति शिवरहस्ये । 'उपनयं किल पञ्चमवत्सरे... द्विज वधूनियता जननी शिशोधित' इति माधवीये । अत्र च "उपनय- मकृत्वा दिष्टगत याते ताते बन्धुभिरुपानीयत" इति । उपनयनं द्विः क्रियते, प्रथमं ब्रह्मरूपादेशेन द्विजत्वापादनेन ब्रह्मणः समीपे नयनं असावादित्यो ब्रह्म ब्रह्मैवाहमस्मि इति ब्रह्मभावनामुख्यक सन्ध्या- क्रमकरणयोग्यतासाधनेन, पश्चात् उपाकर्मणा ब्रह्मणो वेदस्य समीपे नयनं वेदाध्ययनयोग्यतासाधनेनेति । प्रथमं पिता चकार, दिवंगते तस्मिन् उपाकर्षणा वेदाध्ययनयोग्यतासिद्धि माना बन्धुवर्गो वेति सङ्गतिरत्र युक्ता भाति ॥३५॥ अम्बाभिधां नदीं पुत्र विद्या उत्तरशाखाभूनां - "अम्बाहितार्थ मानीता पुत्रेणात्मगृहान्तिकम् । अंबापगेति चाख्याता" इति गोविन्दनाथीये ॥४१ - प्रथमः सर्गः । तत्तटे भवनं शौरे: तरङ्गहतिभङ्गुरम् । * • उद्धृत्य नातिदूरेऽथ योगशक्त्या चकार सः ॥४२॥ संन्यासस्वी करणम ततः शुद्धाष्टमे तस्यां तटिया मज्जनोन्मुखः । ग्राहेण सरग्रहेष गृहीतचरणोऽभवत् ॥४३॥ 1 'अवहारगृहीतानिः आपद्यत्यन्तधोरधोः । अन्तिके स निमज्जन्ती गंवामिणवोचत ॥४४॥ नक्रोऽयं वो मानवस्यतिलो जले। करवाणि किमम्बाही कालो हि दुरत्रिमः ॥४५॥ अष्टमूर्तिरवादी मा अष्टवर्षकजी विनम् । विधिना विहितः कालो पुत्रकृत्यमकृत्वा मत्पुत यासि कथं स्विति । उच्चकै रुदतीमेनां उवाच स पुनः सुधीः ॥४७॥ : ४६॥ चतुर्थमाश्रमं प्राप्य जन्मान्तरतयोदितम् । ..पुत्रकृत्याय जीवामि पुनरष्टावहं समाः ॥४८॥ " veideorek गृहीत संम्यासेन गृहात्प्रव्रजनात्पूर्वं देवालयोद्धरणमिति व्यासा- चलीये माधवीये गोविन्दनाथीये च ॥४२॥ 9 अवहरतीत्यवहारो नक्र: । आपदि प्रथम पद्यते । अस्य तु तदानीं धीरा धीः ॥४४॥ अष्टमूर्तिः पृथिव्यादिभूतपश्चक- सूर्य-चन्द्र यज्वाख्य-मूर्त्यष्टकयुतः शंभुः । -विषमः जोकितान्तकरः ॥४६॥ 2 10 श्रीशङ्कराभ्युदये तया तथेत्यनुज्ञातस्तपस्विन्या कथश्चम । संन्यस्तोऽहमिति प्राह सन्निरुध्येन्द्रियाणि सः ॥४९॥ ततो दिव्याम्बरधरस्तप्तचामीकरप्रभः । देवभूयंगतो नको दिवि तिष्ठन्नवोचत ॥५०॥ भवत्प्रसादान्मुक्तोस्मि भारतीप्रियशापतः । क्षमस्व मन्तुमित्युक्त्वा क्षणादन्तरधत्त सः ॥५१॥ प्रव्रज्या गुरुसेवा च सान्त्वयञ्जननीं काले सन्निधानप्रतिज्ञया । पर्याप्तधैर्यः प्रसभं प्रवाज स शङ्करः ॥५२॥ शिष्यं शुकर्षिशिष्यस्य गौडपादयतीशितुः । गोविन्दभगवत्पादं गुरुमग्रे ददर्श सः ॥५३॥ एष गन्धर्व: पुष्परथो नाम ब्रह्मशापानक्रतां गतः आचार्यपाद- पादस्पर्शात् ततो विमुक्तः इति क्वचित् ॥५१॥ अग्रे नर्मदायास्तीरे ॥ ५३॥ फणाधर शिखामणिरादिशेष पातालं गत्वा आदिशेषात् येन योगशास्त्रेण सह कृत्स्नं व्याकरणमपि साधितं पूर्णतया अधीत्यावगतं, तं गोविन्दभगवत्पादम् । कथैषा अत्रानुसन्धेया । चिदंबरे सभानटो देवः परमेश्वरो ननते । पाणिनिर्नाम कश्चन तापसः तस्य नृत्यत: हस्तगताया ढक्काया नादा दवगतैः वर्णजालैः लब्धबोध: व्याकरणसूत्राणि निर्ममे । यानि वररुचि : वार्तिकेन व्याचख्यौ । विष्णो: पर्यंक भूतः आदिशेष: विष्णोश्वगतनटेश माहात्म्यः दिदिक्षुर्भुवमागतः सुताथिन्या गोण्याः सवित्रेऽर्ध्य मर्पयन्त्या हस्तात्पतन् तस्याः पुत्रीभूय पतञ्जलिनामा चिदंबरे नटेशानं दृष्ट्वा सिद्धोऽभूत् नटनं · भगवान् नटेश: तमादिदेश पाणिनीयसूत्राणां भाष्यकरणे । तदाज्ञया संपन्नं भाष्यं प्रथमः सर्गः । पातालतलमाविश्य फणाधरशिखामणेः । येन व्याकरणं कृत्स्नं योगेन सह साधितम् ॥५४॥ 11. तस्य प्रसादमासाद्य तत्तादृशदयानिधेः । संन्यासगृह्य विहितं सर्वं कर्माचरत्सुधीः ॥५५॥ कृष्णद्वैपायनाचार्यकृतसूत्रानुरोधतः । कृत्रिमेतरवाङ्‌मौलि कृत्स्नमस्मादबुद्ध सः ॥५६॥ सहस्रसंख्येभ्यः शिष्येभ्यो बोधयितुं गृहोतसहस्रफण: जवनिकान्तर्गतः स्वतेज: शिष्येभ्य: संवृण्वन् पतञ्जलिरुपदिदेश समयेन, न कोऽपि जवनिकां उत्क्षिपेत् न वा बहिर्गच्छेत् इति । गौडः कश्चित् पाठमध्ये बहिर्ययौ । अन्यः कश्चिज्जवनिकां उदक्षिपत् । सर्वे शेषतेजसा दग्धाः । बहिर्गतो गौड : शिष्य एकोऽवशिष्टः । पतञ्जलि: नियमभंगाद् ब्रह्मरक्षो- भावभीतं तं अनुजग्राह, " शिष्यस्ते भविता कश्चित् । तस्मै मस्कृति- मध्यापय । शापान्मुक्तो भवे.' इति । तं नत्वा ततः प्रस्थाय गौडो रेवातट जगाम शिष्यं प्रतीक्षनाणः । निजां सहस्रमुखीं मूर्तिपुत्रां दृष्टा अन्तेवसन्त शिष्या मा भैषुरिति कृपया शान्तः एकानतेन कतिवन शिष्यानन्वग्रहोत् पतञ्जलिः । ततः पातालं स्वस्थानं जगाम रक्षोभावमापत्रे शिष्ये गौडे दयमानः स्वांशेन चन्द्रशर्मनामानं विप्रभवतारयामास । स विप्र- वटुश्चन्द्र शर्मा पातालतलमाविश्य शेषात् व्याकरणयोगदर्शनेऽधिजगाम । पश्चात् रेवातटे गौडं स्वकीयव्याकरणज्ञानेन सन्तोष्य, तस्मादधीत- पातञ्जलभाष्यः लब्धगार्हस्थ्यो बभूव । गौडोऽपि शुक्राचार्यात् गृहीत- पारमहंस्थो जीवन्मुक्तो माण्डूक्योपनिषद्विवृतिप्रमुख ग्रन्यप्रणेता बभूव यं गौडपादा इत्याहुः । चन्द्रशर्मापि विरतो गौडप देभ्यो गृहील- पारमहंस्यो रेवातीरे शिष्यार्थी उवास इति ॥५४॥ तत्तादृशेति स्वरूपप्रकारस्मारकौ दयाया अनिरूप्यंत्वं ख्यापयतः । गृह्यन्ते संगृह्यन्ते कर्मकलापक्रमबोधकानि वाक्यान्यत्रेति गृह्यं, आपस्तंबादिप्रणीतं, सन्न्यासविषयकगृह्यविहितं कर्म ॥५५॥ कृत्रिमेतरा अपौरुषेया वाकू नित्या श्रुतिरूपा । तन्मौलिरुप12 श्रीशङ्करा भ्युदये ग्रन्थनिर्माणम् गुरोर्गोविन्दपादस्य गुणराशेरनुज्ञया । विष्णोर्नास्तां सहस्रस्यः व्यतानी द्भाव्यमादितः ॥ ५७॥ .. मन्त्रागममहाम्भोधि मथित्वा बुद्धिमस्थतः । प्रपञ्चसा रत्रमुख प्रबन्धामृतमाददे ॥५८॥ सौभाग्यविद्यामपि तां सुभगोदयपद्धतिम् । निर्ममे मन्त्रशास्त्रार्थनिक्षेपमणिपेटिके ॥ ५९॥ 5 ~ निषद्रूपः । तं अबुद्ध अर्थतोऽवगतवान् ॥५६॥ प्रथमं विष्णुसहस्रनामभाष्य ग्रथनम् । कथा चात्रानुसन्धेया- दुर्मत निरासाय यथार्थग्रहणाय च श्रुतिस्मृतिपुराणाख्य प्रस्थानत्रयगतात्म- विद्या प्रतिपादकग्रन्थानां भाष्य रचनाय भोगोविन्दभगवत्पादैरादिष्टः शंकरः प्रथमं कं ग्रन्थं भाष्यरचनायादद्यामिति विचारयन्नास्त, यावता तत्र यहच्छयोपगता काचन बालिका विष्णुसहस्रनामग्रन्थमादाय भगवत्पाद- समीपे न्यस्तवती । तां ईश्वरदत्तां प्रेरणामाकलथ्य प्रथमं विष्णु- सहस्रनाम्नां भाष्यं रचयामास इति ॥५७॥ . सौभास्यविद्या सुमवेदमपद्धतिश्च मन्त्रशास्त्रार्थनिधनाय मञ्जूषारूल इमो प्रत्थो विशिष्य-चूडामणिदीक्षितेन पूर्णतया अधोतो ता सकाशादितिः प्रतीयते। अमबास्तवव्याख्यानाकम्भे अस्य कवे रग्रजः अर्धनारीश्वर दीक्षित एवं प्रस्तौति + "कामाक्षोत्तम श्रीमान7 21 नारीश्वरसुधी । अम्बास्तवस्य व्याख्यानं कुरुते गुरुसंमतम् । ( गुरुणा स्वपिता रत्ववेदश्रीनिवास मखिता सम्मत) श्रीशङ्कराचार्यकृतो प्रबन्धी सौभाग्य विद्य/ सुभगोड्याख्यौ । पुनश्च तौ साधु विचिन्त्य बुद्धचा तद्व- नाहं कर निबन्धम्" ॥ इति । श्रीविद्यासंप्रदायानुगे अस्मिन् गुरुकुले एती मम्मी विशिष्य पाठ्यतया होताविति प्रतीयते ॥ ५९॥ i प्रथमः सर्गः । सगुणब्रह्म बोध कसक्कान् मन्दाधिकारिणः । अनुगृह्णन्नथातानीदसौ हरिहरस्तुतीः ॥६०॥ अतन्तनीत्प्रकरणान्यतात्मपराणि सः । सौन्दर्यलहरीमुख्याः स्तुतीरपि परश्शताः ॥६१॥ करतलकलिताद्वयात्मतत्वं क्षपितदुरन्तचिरन्तनप्रमोहम् । उपचितमुद्रितोदितर्गुणौघैः उपनिषदाम प्रभुज्जहार भाष्यम् ॥ सोऽयं कदाचन शुभानि निषेवमाणः तीर्थानि तैथिकजनस्सह तीर्थपादः । गौरीगुरोः स्रवदमन्दझसेपरीतां खेलज्म रोयुत्तदरों बदरीमवासीत् ॥६३॥ स द्वादशे वयसि तत्र समाधिनिष्ठैः ब्रह्मषिभिः श्रुतिशिरो बहुधा विचार्य । श्रीव्यासदेशिकशिखामणिसूत्वराशः भव्यं गभीरमधुरं फणति स्म भाष्यम् ॥ ६४॥ 13 ये मन्दाधिकारिणः आत्मविद्या ग्रहणे, सगुणब्रह्मभावन एव एकान्तेन सक्ता तेषां: सगुण ब्रह्मभावनामुखेन क्रमेण निर्गुणब्रह्मावगतये उपकारिणीः सत्यं ज्ञानमनस्तमिति गोविन्दाष्टक प्रभृती: स्तुती: व्यतानीत् विस्तृतात् 3 चक्का ॥६०॥:: T 73 * 9 मध्यमाधिकारिणां कृते सर्ववेदान्तसिद्धान्तसारसंग्रहाद्रीन् अन्ते उत्तमाधिकारिणां कृते उपनिषदां भाष्यमा रुचितवान् । उदिलोदितैः एवमेव मित्युपदेशेन अलंभावाना पत्त्या पुनः पुनरुपदिष्ठैः ॥ ६१॥ तीर्थो गुरुः, तेन दीव्यन्ति क्रीडन्ते मोदन्ते इति तैथिकाः शिष्याः । तीर्थं पुण्यक्षेत्रं, तीर्थभूतौ पादी यस्य । शिष्यस्य गुरुचरणावेव तीर्थं न गङ्गा न काशी ॥६३ ॥ भव्यं मङ्गलात्मकं, मङ्गलं मङ्गलानां चेति प्रथितं भगवन्नाम 14 श्रीशङ्कराभ्युदयें विद्वद्भिः शुकमुनितातसूत्रपङ्क्तेः व्याकुर्वन्नुपनिषदा व भाष्यमेषः । ब्रह्मषिव्रजबहुमानितो बदर्या सानन्दं रुचिरमुवास शङ्करायः ॥६५॥ इति दन्तिद्योतिदिवाप्रदोषाङ्क - सत्यमङ्गल रत्नखेटश्रीनिवासदीक्षिततनूजस्य कामाक्षीगर्भसम्भवस्य श्रीमदर्धनारीश्वरगुरुचरण सहजता लब्धविद्यावैशद्यस्य राजचूडामणिदोक्षितस्य कृतिषु शङ्कराभ्युदये काव्ये प्रथमः सर्गः । प्रथमं मङ्गलादितया व्याख्याय मध्ये मङ्गलात्मक स्तोत्रप्रकरणादीन्, अन्ते मङ्गलान्तत्वेन सूत्रभाष्यं चकार । एवं मङ्गलादीनि मंगलमध्यान मङ्गलान्तानि च तदीयग्रन्थरत्नानि प्रथन्ते । बदर्या सूत्रभाष्यप्रणयन, काश्यामितरग्रन्थजातप्रणयनमिति काचित् प्रसिद्धिः ६४॥ शुकमुनितातो व्यासः । तदीयायाः सूत्रपंक्तेः उपनिषदां च भाष्यं व्याकुर्वन् विद्वद्भयः शिष्येभ्यः विशदतया अध्यापयन् विद्वद्भिः सह शास्त्रार्थविचारं कुर्वाण, ब्रह्मषिव्रजेन बहुमानित: बदर्या सानन्दमुवास ॥ 'शङ्करो दर्शयामास गुरू ग्रन्थसमुच्चयम् । गौडपादोऽभवत्प्रीतः प्रशिष्ये विनयोज्ज्वले । लोकशंकरणे शक्तं चिकीर्षुस्तं जगद्गुरुम् । त्रिकालविदलंचक्रे भगवत्पादसंज्ञया । बदरीवासिनस्सव भगवत्पादयोगिनम् । शङ्कराचार्यनाम्न । च तुष्टुवुर्भक्तिपूर्वकम् । इति ब्रह्मानन्दोयशङ्करविजये ॥ ६५॥ द्वितीय: सर्ग: व्यासानुग्रहः तत्रैकदा नवतमालसमानशोभं चामीकरव्रततिचारुजटाकलापम् । विद्युल्लतावलयवेल्लितवारिवाह- सच्छायमैक्षत सत्यवतीतनूजम् ॥ १॥ भद्रेणचर्मपरिवीतकटीतटीकं नीलाम्बुदाबृतनितम्बमिवाञ्जनाद्रिम् । आलोलफेनघवलत्रिगुणोपवीतं आलक्षितविपथगोमिमिवाभ्रमार्गम् ॥ २॥ इतिवृत्तक्रमे, पौत्रापर्यं ग्रन्थेषु बहुध उपलभ्यते एकंकस्मिन्नितिवृत्तेऽपि ऐतिह्यं मिथो भिद्यते । व्याससमागमो द्वेधा वर्ण्यते । व्यासो गृहीतवृद्ध द्विजरूप: गङ्गातीरे शिष्यानध्यापयन्तं आचार्यमुपसृत्य "तदतर प्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्यां" इति तृतीयाध्यायगतं सूत्रमधिकृत्य वादमारभत । दिनाष्टकं प्रवृत्ते वादेऽशान्ते शङ्करः पद्मपादसूचितं द्विजरूपं व्यासमवगत्य प्रणनाम, व्यासश्च तमनुजग्राहेति आनन्द गिरीये माधवीये चिद्विलासीये सदानन्दीये भगवस्पादाभ्युदये च । व्यासः शङ्करं द्रष्टुं साक्षादा गच्छत् अन्वगृह्णाच्चेति व्यासाचलीये गुरुवंशकाव्ये गोविन्दनाथीये शङ्कराभ्युदये च । व्यासेनंत्र दीर्घायुष्ट्वं अनुगृहीतमिति व्यासाचलीयमाधवीय-सदानन्द्रीय-शङ्कराभ्युदय- गुरुवंश काव्येषु, व्यासध्यातेन तत्र सन्निहितेन ब्रह्मणा अनुगृहीत मिति प्राचीनशङ्करविजय - आनन्दगिरीय-चिद्विलासीय - जगद्गुरुरत्नमालास्तोत्रेषु ॥ तमालनलं बपु स्वर्णच्छाया जटेति विद्यदलंकृतो मेघ इव भाति > व्यासः ॥ १॥ भद्रमेणचर्म नीलाम्बुद इव, भगवान्व्यासोऽञ्जनाद्रिरिव । आलोलं फेनघवलं च उपवीतं श्यामे अभ्रमार्गे दिवंगताया: गङ्गायाः ऊभि- मालेव ॥ २ ॥ 16 श्रीशङ्कराभ्युदये गाढोपगूढमनुरागजुषा रजन्या गर्हापदं विदधतं शरदिग्दुबिम्बम् । तापिञ्छरीतितनुकांग्तिझरीपरीतं कान्तेन्दुकान्तघटितं कलशं दधानम् ॥३॥ सप्ताधिकाच्छतरविंशतिमौक्तिकाढ्यां सत्वस्य मूर्तिमिव बिभ्रतमक्षमालाम् । तत्ता दृशस्वपतिवंशविवृद्धये प्राक् तारावलीमुपगतामिव चातुम् ॥४॥ द्वीपे क्वचित्समुदयत् द्रुतमेधमानः शांखासहस्रसचिवश्शुक सेव्यमानः । उल्लासयत्यहह यस्तिलको मुनीनां उच्चैः फलानि सुदृशां निजपादभाजाम् ॥५॥ श्रीशङ्करोऽथ सह शिष्यगणेन दुरात् + प्रत्युद्गतः पदसरोरुहयोः प्रणम्य । . चन्द्रकायलं व्यासमुनेर्हस्ते चन्द्रकान्तशिवाघटितः कलश: । कलशं व्यासतनुगतो नीलिमा पर्येति । रजनी कामिनो चन्द्रमुगूहते । तथोपमूढः चन्द्रा व्यासघृतकलशं आत्मानं गर्हत इव ॥ ॥ " + व्यासो बिमति सप्तविंशतिमुक्ताघटिताक्षमालां, चन्द्रवंशाभिवृद्धये तारागणो व्यासमुपास्त इव । व्यासेन किल कुरुवंशाभिवृद्धिः ॥४॥ वेदशाखासहस्रं सचिवा यस्य । तिलको नाम कश्चिद्वनस्पतिः । अयं व्यासाख्यः तिलकवृक्षः क्वचित् (द्वोपे) जातः, जन्मभूमेः अन्यत्र द्रुतं एघमान: शाखा सहस्र सहाय: सद्यः क्षणाद्वृद्धः । वेदशाखासहस्रं सहायभूतमस्य । शुकै: फलास्वादशीलः - शुकेन महर्षिणा सुतेन सेव्यमानः । सुशां ज्ञानिनां निजपादमाजां अर्थ उच्च फलानि कांक्षिताधिकरसानि उल्लासयति सद्यः स्वाद्यत्वेन प्रकटयति ॥५॥ द्वितीय सर्गः । ऊचे मुनीश्वरमुदारमुखारविन्द- माध्वीकसारमतिदायिपुराणजातम् ॥६॥ धत्से घनातिशमनाय हृदा गिरीशं गोपाय सेऽधिवदनं च चिरन्तनीर्गाः । दूरीकरोषि नरकं च दयार्द्रदृष्टया कस्ते गुणान्गदितुमद्भुतकृष्ण शक्तः ॥७॥ अद्यानवद्यमजनिष्ट जनुर्ममेदं अद्यैव मे सुचरितानि पचेलिमानि । पादारविन्दभजनात्तव देशिकेन्द्रे- त्युक्त्वाग्रतो निविविशे स इदंनिदेशात् ॥ ८॥ अव्याजकन्दलदमन्ददयारसाभिः आशीभिरेनमभिनन्द्य स शङ्करायम् । वाचंयमेन्दुरथ वाचमुवाच वाणी- वीणाकलक्वणतृणीकरणप्रवीणम् ॥ ९॥ 17 उदारं मुनीश्वरमुखं वेदपाठपरिपुतत्वेन वेटरक्षकत्वेन च । तन्मुखारविन्दगलितो मकरन्दः पुराणजातम् । अरविन्द पेक्षया मकरन्दोSल्पिष्ठ: लोके । अत्र तु बहुविस्तृतं वेदोपबृम्हकत्वान्महत् पुराणजातमिति तदप्युदारमेव ॥६५ व्यासोऽपि कृष्णः । परमद्भुतः । हृदये शिवं दधाम:, वांचि वेदान् गोपायन् दृष्ट्या नरकबाधां दूरीकरोतीत्यद्भुतत्वम् ॥७॥ ; इदं निदेशात् अस्य व्यासस्य निदेशात् अनुज्ञां प्राप्य निविविशे उपविवेश ॥८॥ वाचो भाषणात् यच्छति विस्मयतीति वाचंयमो मुनिः । अव्याजेन 3 18 श्रीशङ्कराभ्युदये दोषानुषंगकलयापि सुदूरमुक्ताः धत्सेऽधिमानसमहो सकलाः कलाश्च । सर्वात्मना गिरिजयोपहितस्वरूपः शक्यो न वर्णयितुमद्भुतशङ्करस्त्वम् ॥१०॥ भावं सदीयमवबुध्य यथावदेवं भाष्यं प्रणेतुमनलं भगवानपीशः । आकर्ण्य सिद्धमुखतो हरसन्निधौ तत् आद्यन्तमामममिह त्वदवेक्षणाय ॥११॥ अष्टौ वयांसि विभुना तव वत्स दत्ता- न्यन्यानि चाष्ट भवता सुधियाजितानि । भूयोऽपि षोडश भवन्तु भवाज्ञया ते भूयाच्च भाष्यमिदमारविचन्द्रतारम् ॥१२॥ इत्थं निगद्य ऋषिवृष्णि तिरोहितेऽस्मिन् अन्तविवेकनिधिरप्यथ विव्यथे सः । हुत्तापहारिनिरुपाधिकृपारसानां तत्तादृशां कथमहो विरहो विषहाः ॥ १३॥ स्वरसत: कन्दलत् अंकुरयन् अमन्दः अधिक: दयारस: यासु ताभि- राशीभिः, कन्दलो नवांकुरः ॥९॥ अद्भुतकृष्ण भगवत्पादन् अदभुतशंकर इत्यायति । सुदूरमुक्ताः अत्यन्तमसंस्पृष्टाः ॥१०॥ भक्तहृदयानुसारिणी भगवत आज्ञा । भवेन दत्तानि अष्टौ वयांसि । सन्यासं स्वीकृतवता सुधिया पुनरष्टावाजितानि । अद्य भव आज्ञापयति मन्मुखन भूयोऽपि षोडश वयांसि भवन्त्विति ॥१२॥ द्वितीय: सर्ग: । सनन्दनस्य शिष्यतया स्वीकारः सह्यात्मजातटभवोऽखिलतीर्थसेवा- सक्तस्सनन्दसदृशोऽथ सनन्दनाख्यः । वन्दा रुसंसृतिमहार्णवकर्णधारं वर्णी चिरन्तनवचोऽन्तगुरुं वन्दे ॥ १४ ॥ संसारघोरजलधेस्तरणाय शश्वत् सांयात्रिकीभवनमथंयमानमेनम् । हन्तोत्तमाश्रमतरीमधिरोप्य पारं निन्ये निपातितदयारसकेनिपातः ॥ १५ ॥ अवन्द्वभक्तिममुमात्मपदारविन्द- द्वन्द्वे नितान्तदयमानमना मुनीन्द्रः । आम्नायशेखररहस्यनिधानकोशं आत्मीयकोशमखिलं विरपाठयत्तम् ॥१६॥ ईर्ष्याभराकुलहुदामितराश्रवाणां प्रख्यापयन्ननुपमामदसीयभक्तिम् । 19 कावेरीतीजातस्य तीर्थान्तरसेवासक्ति: नैसर्गिकी । सनन्दः चतुस्सनेष्वन्यतमः । तत्सदृशोऽयम् । वन्दारुरभिवादकः ॥१४॥ । सांयात्रिकः पोतवणिक् यो नावा जलधि तारयति । उत्तमाश्रमः संन्यास एव तरी नौः । केनिपातः नौचालको दारुखण्ड: दयैव के- निपातः ॥१५॥ आत्मीयः कोशः स्वकृतग्रन्थजातम् । त्रिः पाठनं संशयविपर्यासदहितस्य सम्यग्रहणाय ॥१६॥ 20 श्रीशङ्कराभ्युदयें अभ्रापगापरतटस्थममुं कदाचित् आकारयन्निगमशेखरदेशिकेन्द्रः ॥ १७॥ सन्तारिकाऽनवधिसंसृतिसागरस्य कि तारयेन्न सरितं गुरुपादभक्तिः । इत्यञ्जसा प्रविशतः स्वमियं द्युसिन्धुः पद्मान्युदञ्वयति तस्य पदे पदे स्म ॥१८॥ पाथोरुहेषु विनिवेश्य पदं क्रमेण प्राप्तोपकण्ठम मुमप्रतिमानभक्तिम् । आनन्द विस्मितनिरन्तरितान्तरोऽसौ आश्लिष्य पद्मपदनामपदं व्यतानीत् ॥ १९॥ कुमारिलभट्टसमागमः भाष्यस्य वार्तिक मथैष कुमारिलेन भट्टेन कारयितुमादरवान्मुनीन्दुः । वन्ध्यायमानमदविन्ध्यमहीधरेण वाचंयमेन चरितां हरितं प्रतस्थे ॥२०॥ आश्रवः गुरुवाक्यानतिलंधी शिष्यः । 'आश्रवो वचने स्थितः' ॥१७॥ " । धुसिन्धुः गंगा । अञ्जसा शीघ्रं, स्वं स्वीयं प्रवाहं, उदश्वयति स्म धारकत्वेन उदगमयत् ॥१८॥ I शबरसूत्रभाष्यकर्ता कुमारिलभट्टः ललितभावभरितव्याख्याकारित्वेन प्रथितः । अगस्त्यशिष्यो विन्ध्यः महामेरुणा अस्पर्धत मत्तः, गुरुणा निवारितः स्वीयं मदं वन्ध्यं व्यर्थमिवाकरोत् । अगस्त्यचरिता हुरितु दिग्दक्षिणा ॥२०॥ द्वितीयः सर्गः । आमज्जतां किल तनुमसितां सितां च कर्तुं कलिन्दसुतया कलितानुषङ्गाम् । अह्नाय जहनुतनयामथ निनुताघां मध्ये प्रयागमनयन्मुनिरक्षिमार्गम् ॥ २१ ॥ अन्तेवसद्भिरमलच्छविसंप्रदाय अध्येतुमाश्रितजला कुहचिन्मरालः । चक्रद्वयेन रजनौ सहवाससौख्य- संशोलनाय किल संवलिताऽपरत्र ॥२२॥ क्षोणीसरोरुहदृशः कुचकुंभसोम्नि कस्तूरिकाबहुलकर्दममेचकान्ता । आबद्ध रेखसितपक्षतिचित्रिता या भव्योत्तरीयकदुकूलपटीव भाति ॥२३॥ 21 प्रयागे गंगा यमुनया संगच्छते । गंगा शिवप्रिया, यमुना विष्णु- प्रिया । प्रयागादन्यत्र गंगा स्वपूरे आमजत: शिवरूपान् करोति, यमुना च विष्णुरूपान्, अव तु उभे मिलिते हरिहररूपान् कुरुतः सिता तनूः शिवस्य, असिता विष्णोः । अह्नाय शोघेण ॥२१॥ 9 गंगायाः शुक्लवर्णत्वेन सत्वाकारतया अमलच्छविसंप्रदाय: सात्विको प्रवृत्तिरधीयते मरालः । यमुनायाः कृष्णवर्णत्वेन तमोरूपतया तत्र तमोरूप रात्रिसहवाससुखमधीयते चक्रयुगलेन ॥२२॥ क्षोणो भूमिः सा काचित्सुरिव । तस्याः कुचकुम्भसीम्नि उत्तरीयकक्कूलपटांव यमुनायुतगंगा भाति । सा पटी यस्याः कस्तूरिकाबहलकर्दमेन मेचक: नीलोऽन्तः प्रान्तप्रदेशः, यमुनाया इदं लक्षणम् । आबद्धरेखामिः रेखाबद्धाभिः सिताभिः श्वेतवर्णाभिः पक्षतिभिः पक्षमूले; चित्रिता भव्या च । इदं गंगाया: लक्षणम् ॥२३॥ 22 श्रीशङ्कराभ्युदये वाणी अज्ञातसम्भवतिरोधिकथापि यस्याः सितासिततयैव गृणाति रूपम् । भागीरथीं यमुनया परिचीयमानां एनां विगाह्य मुदितो मुनिरित्यभाणीत् ॥२४॥ सिद्धापगे पुरविरोधिजटोपरोध- क्रुद्धा कुतश्शतमदस्सदृशान् विधत्से । बद्धा न किन्नु भवितासि जटाभिरेषां अद्धा जडप्रकृतयो न विदन्ति भावि ॥२५॥ सन्मार्गवर्तनपरापि सुरापगे त्वं अस्थीन्यवश्यमशुचीनि किमाददासि । आः ज्ञातमम्ब हृदयं तव सज्जनानां प्रायः प्रसाधनकृते कृतमज्जनानाम् ॥२६॥ त्वं ताम्रपर्ण्यपि सुधाशधुने जलानां मुक्तात्मना परिणतौ परमं निदानम् । 7 अज्ञातसंभवतिरोधिकथा उत्पत्तिविनाश हिता नित्या वाणी वेदः । " सितासिते सरिते यत्र संगथे तवाप्लुतासो दिवमुपतन्ति " इति श्रुतिः । ( ऋग्वेदखिले ८-३-६ ) ॥२४॥ सिद्धापगे देवनदि ! पुरविरोधिना शिवेन जटासु निरोधात् क्रुद्धा त्वं कृत्याकृत्यं न जानीषे । यतः आमज्जतः सर्वान् शिवरूपान् विधत्से, यतः तेषां जटासु शतशस्तव बन्धो भविता । डलयोरभेदात् जल- प्रकृतिस्त्वं जडप्रकृतिरसि ॥ २५ ॥ शिष्ठै: अस्थीन्यस्पृश्यानि । परं त्वं अवश्यं तान्याददासि । अस्थनामावश्यकता तव तादृशी, आमज्जतां शिवरूपेण बहिरागच्छतां सतामाभूषणाय ॥२६॥ द्वितीयः सर्गः । भेदोऽयमत्र भवती समयानपेक्षा सा स्वातिवृष्टिसमयं समवेक्षमाणा ॥२७॥ अम्ब त्वमम्बरपये बहुलक्षपासु चान्द्री: कला हरसि नैव चरन्त्यमर्त्याः । नो चेत्कुतः प्रतिनवान्नयनायुधांस्तान् स्याते प्रसाधयितुमिन्दुकलासहस्रम् ॥ २८ ॥ स्वापानुषङ्गजडताभरितान् जनौघान् स्वापानुषङ्गजडता विधुरान् विधत्से । दूरी भवद्विषयगहृदोऽपि तूर्णं धूर्तावतंसयसि देवि क एष मार्गः ॥२९॥ सद्यः शिरः समधिरोहसि मानिता चेतु व्याकुर्वती किल लघुप्रकृतेः स्वभावम् । 23 ▪▪▪▪▪▪▪▪ मुक्ता: मौक्तिकानि ज्ञानिनश्च । जलानां मौक्तिकात्मना परिणति- स्ताम्रपर्ण्य, जडानां अज्ञानां ज्ञानित्वेन परिणतिरत्र । जलानामित्यत्र लडयोषभेदः । स्वातीनक्षत्रे वृष्टौ मुक्तोत्पत्तिः ॥२७॥ बहुलक्षणा: कृष्णपक्षत्रिय । तामु चन्द्रकलास्त्वमेव अपहरसि । देवाः कृष्णपक्षे चन्द्रकला : चरन्ति भक्षयन्तीति तु मृषैव । प्रतिक्षणं त्वय्यामज्जनोत्तरक्षण एव नवनवा: नयनायुधा: शिवा: सहस्रश उत्पद्यन्ते । तृतीयं नयनं दाहकमिति तदेवःयुधं शिवस्येति नयनायुधः सः तेषा- मेकैकश प्रसाधनाय इन्दुकलासहस्रं अपेक्ष्यते इति त्वमेव चन्द्रकला हरसि । न देवा: हरमित ॥२८॥ 9 स्वापो निद्रा तमप्रभवा यदनुषंगेण जडताभरितो जनौघः । स्वकीयेन अपां समूहेन ( स्वीया: आप: स्वापं ) जडताया मुक्तान् विधत्से । धूर्तो धत्तर: खलजनश्च । धत्तूरावतंसः शिवः । विषयेभ्यो दूरीभवतः धूर्तावतंसान् शिवरूपान्, खलजनाग्रगण्यान् आतनोषीति विरोधाभासः ॥२९॥ सतः 24 श्रीशङ्कराभ्युदये दरसे त्वदाश्रितवतां द्रुतमर्धचन्द्रं जहोः कुमारि जडतां च विवृण्वती त्वम् ॥३०॥ इत्यालपन्नथ तुषानलदह्यमान- देहं गुरून्मथनदोषभरापनुत्त्यं । मौनी स तीरभुवि मण्डनमुख्यशिष्यैः आरादुपासितमलोकत भट्टपादम् ॥३१॥ दूरे विधूतदुरितौघमपाङ्गभङ्गया तं देशिकं तदनु नेत्रपथावतीर्णम् । तेजोविशेषपरिबुद्धतदीयतत्वो वाचा हृदा च विनतो वदति स्म मट्टः ॥३२॥ जाने भवन्तमहमार्य निजार्धजानि अद्वैतरक्षणकृते विहितावतारम् । प्रागेव चेन्नयनसद्म कृतार्थयेथाः पापक्षयाय बत नेदृशमाचरिष्यम् ॥ ३३॥ लघुप्रकृतयः अल्पम्वभावा जनाः मानिता गर्वं प्राप्नुवन्ति, सद्यो मानयितुः शिरोऽधिरोहनि । तद्वत् पुण्यतीर्थमिति व संमानेन स्नातवतां शिवरूपं प्राप्तवतां गंगाधरताद्धयं तेषां शिरोऽधिरोसि । ज़डा आश्रितानां अर्धचन्द्रं गलहस्तिकां ददन्ति निस्सारणाय । त्वमपि त्वामाश्रितानां परमेश्वर सारूप्य संपादकं अर्धचन्द्रं ददासि । गलस्तिका गले हस्तं दत्वा निस्सारणम् ॥३०॥ आलपन् गंगया साक्षात् आभाषमाणः । गुरुन्मथनं गुरुहिता ॥३१॥ तुषानलेन बहिः स्वीयपापचरितेन अन्नश्च दह्यमानो भट्टपाद: भगवत्पादकटाक्षपातेन विधूतपापतया प्रथममन्तस्तापं जहौ, साक्षात् दर्शनेन बहिस्तापञ्च ॥३२॥ ईदृशं प्रायश्चित्तार्थत्वेऽपि शरीरनाशार्थकत्वादकरणीयम् ॥३३॥ द्वितीयः सर्गः । बाह्यं मतं निरसितुं सुगतादधीत्य बाल्यात्तमेव समघातयमार्य जित्वा । ईशं निरास्थमपि च स्वत एव वेदा मानं न तत्कृततयेतिमताभिमानात् ॥३४॥ प्रायोऽधुना तदुभयप्रभवाघशान्त्ये प्राविक्षमार्य तुषपावकमात्तदीक्षः । भाग्यं न मेऽप्यजनि शाबरभाष्यवत्त्व- द्भाष्येsपि किञ्चन विलिख्य यशोऽधिगन्तुम् ॥ ३५॥ इत्यूचिवांसमय भट्टकुमारिलं तं ईषद्विकस्वरमुखांबुजमाह मौनी । श्रुत्युक्तकर्मविमुखान् सुगतान्निहन्तुं जाने भवन्तमिह जातमहं गुहन्तु ॥३६॥ सम्भावनापि भवतो न हि पातकस्य सत्यं व्रतं चरसि सज्जनशिक्षणाय । उज्जीवयामि करकांबुकणोक्षणेन भाष्येऽपि मे कलय वार्तिकमङ्ग भव्यम् ॥३७॥ 25 बाह्यं वेदबाह्यम् । वेदाः स्वतः प्रमाणभूताः नित्या अकर्तृकाः । परमेश्वरः सर्वज्ञतमः परमाप्तोऽपि वेदानां न कर्ता । यदि कश्चिकर्ता- Sभविष्यत् भ्रमप्रमादादिवक्तृदोषाः तत्र प्रसक्ता अभविष्यन् । ततोऽपि ईश्वरो नापेक्ष्यते । कर्म साक्षात्फलं ददाति । अतोऽपि ईश्वरो नापेक्ष्यते । इति मोमांसकमताभिमानात् ईश्वरं निरास्थं निरस्तवान् ॥ गुरुद्रोहः ईश्वरनिन्दा इति पापद्वयम् ॥३५॥ करकः कमण्डुलः ॥३७॥ 4 26 श्रीशङ्कराभ्युदये प्रत्युत्तरं व्यधित भट्टगुरुर्मुनीन्दो मय्यल्पकेऽपि महिमोकिरियं तवाहा॑ । आजानतोऽल कुटिलेऽपि जने महान्तः स्वारोपयन्ति हि गुणं धनुषीव शूराः ॥३८॥ सञ्जीवनाय चिरकालमृतस्य च त्वं शक्तोऽसि शङ्कर दयोमिकटाक्षपातेः । आरब्धमेतदधुना व्रतमागमोक्तं मुखन् सतां न भवितास्मि मुधा चिनिन्द्यः ॥३९॥ चार्वाकदर्शन विधानसशेषधातृ- शापेन संप्रति शतऋतुदेशिकेन्द्रः । विद्योतते मगधसीमति विश्वरूप- नामा समस्तनयसागरपारदृश्वा ॥४०॥ अम्बेक इत्यभिहितस्य हि तस्य लोकैः अम्बेति बान्धवजनैरभिधीयमाना । शप्ता सरोरुह्भवेन सरस्वती सा जाता वधूरुभयमा रतिकाभिधाना ॥४१॥ सर्वासु शास्त्रसरणीषु स विश्वरूपो मत्तोऽधिकः प्रियतमश्च ममाश्रवेषु । तत्प्रेयसीं शमधनेन्द्र विधाय साक्ष्ये वादे विजित्य तमिमं वशगं विधेहि ॥४२॥ गुणो मौर्वी धार्मिकत्वादिणिश्च ॥३८॥ अंबेक: अंबेति विश्वरूपस्य उभभात्याच लोकेऽभिधानम् । उंदेक: उंवेति पाठः तत् त्राहूतं नामेति माधवीयव्याख्यायाम् ॥४२ ॥ s द्वितीयः सर्गः । तेनैव तावककृतिष्वपि वार्तिकानि कमन्दिवर्यतम कारय आ वितम्बः । त्वं विश्वनाथ इव से समये समागाः तत्तारकं समुपदिश्य कृतार्थयेथाः ॥४३॥ इत्यूचिवांसमिममृद्धसुखप्रकाशं ब्रह्मोपदिश्य बहिरन्तरपास्तमोहम् । तन्वन्दयानिधिरसौ तरसाश्रमार्ग- मार्गादवाय विषयान्मगधा भिधानान् ॥४४॥ आराध्य साम्बशिवनाहित वैश्वदेवः पश्यन्नथातिथिजनान्परितो दिशासु । त्रय्यन्तदेशिकममुं विदशाध्वनाऽसौ अभ्यर्णमागतमलोकत विश्वरूपः ॥ ४५ ॥ 27: वाराणसीपुरपतिः कृपया अत्र सन्निहितः इव तारकं ब्रह्मोपदेष्टुम् ॥ ऋद्धः समृद्धः पूर्णः सुखप्रकाशः आत्मानन्दानुभव: तद्रूपं ब्रह्म उपदिश्य तेनोपदेशेन संसारमूलाज्ञानमोहनाशं तम्वन्, अभ्राणां मार्गोऽन्तरिक्षं तन्मार्गात् विहायसगत्या ॥४४॥ ▸ कथाक्रमोऽव द्वेषा। अतिथी प्रतीक्षमाणं विश्वरूपमुपगम्य शंकरो वादभिक्षां यथाचे । अभ्युपगते च वादे, भिक्षां स्त्रीचकार । ततः सपणवन्धं प्रवृत्ते वादे, जितो विश्वरूपः संन्यासमगृह्णात् । तत्पत्नी वाणी शापान्मुक्ता अन्तरधादिति शंकराभ्युदयगतः क्रमः, व्यासाचलीये गुरुवंशकाव्ये गोविन्दनाथीये चानुत्रियते । आनन्द गिरीय माधवीयचिद्विलासीयादौ तु पत्र्ये कर्मणि प्रवृत्तो विश्वरूपः । निमन्त्रितौ । मुद्रिते द्वारे शङ्करः गगनमार्गादन्तरवततार । क्रोधेनाध्यक्षिपद्विश्वरूपः शंकरम् । व्यासजैमिनी शमं उपादिशताम् । शङ्करेण प्रस्तुतां वादभिक्षां विश्वरूपः अङ्गीकार । वादे जितः सः । उभयव्यासजैमिनी + 28 श्रीशङ्कराभ्युदयें मन्थानशैलमथनश्रममन्तरेण स्वैरं सुधारसमिव स्वरसोपपन्नम् । आकस्मिकं निधिमिवानवधिश्व जानन् एनं सभाजयति ह स्म यतिप्रवीरम् ॥४६॥ भिक्षां प्रतिश्रुतवति प्रथमं स वाद- भिक्षाप्रदानमथ, वाग्मिनि विश्वरूपे । स्वर्णाभसूपघृतपायसशर्करेक्षु- रंभारसालपनसाढ्यमभुंक्त भैक्षम् ॥४७॥ जेतुः पराजित इहाश्रममाददीते- त्येतौ मिथः कृतपणौ यतिविश्वरूपौ । अम्बामुदारधिषणामभिषिच्य साक्ष्ये जल्पं वितेनतुरथो जयदत्तदृष्टी ॥४८॥ इत्थं तयोः कथयतोस्तु समक्षमेव यातेषु षट्सु दिवसेष्वथ सप्तमेऽह्नि । भारत्या जयाय प्रवृत्तस्य शङ्करस्य परकायप्रवेशः, कामतन्त्रानुभवः, ततः परावृत्य उभयभारत्या जय इति क्रमः । विशेषस्तु श्रीशङ्कर- विजयमकरन्दे अस्मत्संकलिते द्रष्टव्यः ॥४५॥ विश्वरूपः शङ्करागमनेन सुधां प्राप्तां अमन्यत सुधा तु मथनश्रम- लभ्या, इयं तु सुधा स्वैरं स्वेच्छया प्राप्ता स्वरसोपपन्ना चेति विशेषः ॥ प्रथमं भिक्षां, अथ ततः, वादभिक्षाप्रदानं प्रतिश्रुतवति विश्व- रूपे भैक्षमभुंक्त ॥४७॥ अम्बां विश्वरूपपत्नोम् ॥४८॥ द्वितीयः सर्गः । भिक्षार्थमुच्चलतमद्य युवामितीमौ ऊचेऽव्यमुं पुनरुवाच यतीन्द्रमम्बा ॥४९॥ कोपातिरेकवशतश्शपता पुरा मां शापावधिस्तव जयो विहितो विधाता । साऽहं यथाऽऽगतमुपैमि यतिप्रवीरे- त्युक्त्वा तिरोधिमकृतोभयभरती सा ॥५०॥ संन्यागृह्यविधिना सकलानि कर्मा- यह्राय शङ्करगुरुविदुषोऽस्य कुर्वन् । कर्णे जगौ किमपि तस्वमसीति वाक्यं कर्णेजपं निखिलसंसृतिदुःखहानेः ॥५१॥ भाष्ये विधत्स्व मम वत्स कृति गभीरां इत्यूचिवांसमवदद्गुरुमेष नमः । क्वाहं क्व भाष्यमनघं तदथापि युष्मत्- कारुण्यतः किमपि कर्तुमहं यतिष्ये ॥५२॥ कर्मैकतानमतिरेष कथं गुरो ते विश्वासपात्रमभवद्वत विश्वरूपः । भाष्यस्य पद्मपद एव करोतु टीकां इत्यूचिरे रहसि योगिवरं विधेयाः ॥ ५३॥ 29 स्वभर्तुः पराजयं मध्यस्थरूपेण निश्चित्य, पराजितो जेतुराश्रमं स्वीकुर्यादिति पणनं चानुसृत्य, स्वभर्तारं संभ्या सनं सिद्धवत्कृत्य अद्य युवां भिक्षार्थं उच्चलतं उद्गच्छतं इति एकप्रकारेण उभावचे ॥४९॥ तव जयः त्वत्कर्तृको जयः ॥५०॥ कर्णेजपं फलस्य प्रकाशनात्प्रागेव रहसि सूचकम् ॥५१॥ कर्मणि कर्ममार्गे एकताना अनन्यविषयतया प्रवृत्ता मतिर्यस्य ॥५३ 30. श्रीशङ्कराभ्युदये ८ शिष्योक्तिभिः शिथिलितात्ममनोरथोऽसौ एनं स्वतन्दकतिनिर्मितये न्ययुंक्त । नैष्कर्म्यसिद्धिमतिराद्विदधत्स चेद्ध- न्यायामविन्दत सुरेश्वरदेशिकाव्याम् ॥५४॥ नैष्कर्म्यसिद्धिमथ तां निरवद्ययुक्ति आद्यन्तहृद्यपदबन्धमतोमवेक्ष्य । आश्चर्यचित्रितमना भृशमार्यपादो भूयो जगाद सुरपुङ्गवदेशिकेन्द्रम् ॥५५॥ लाध्यं यजुश्श्रुतिशिरो मम, कण्वशाखाशीर्ष पुनस्तव, कुलागतवेदभावात् । तद्भाष्ययोस्तनु च वार्तिकपातिहारि कीर्ति च याहि जितकार्तिक कौमुदीकाम् ॥५६ आज्ञा गुरोरनुचरैर्न हि लङ्घनीये- त्युक्त्वा तयोनिंगमरोखरगोरुदग्रम् । निर्माय वातिकमसौ निजदेशिकाय निस्सीमनिस्तुलनधीरुपदी चकार ॥५७॥ व्यासषिसूत्र चयभाष्य विवेचनाय टीकाभिध विजयडिण्डिममात्मकोर्तेः । इद्धाः प्रकाशिता न्याया यया यस्यां वा तां नैष्कर्म्यसिद्धिम् ॥५४॥ कार्तिकौमुदी शरज्ज्योत्स्ना अतिस्वच्छेन्दुप्रकाशा मनोहरी । तामपि जितवत्यस्य कीर्ति: भूयादिति ॥५६॥ उपदा उपायनं उपहारः ॥५७॥ द्वितीय: सगः । निर्माय पद्मचरणो निरवद्ययुक्ति- बद्धं प्रबन्धमतनोद्गुरुदक्षिणां सः ॥५८ ॥ आलोचयन्नथ तदात्वर्गात ग्रहाणां ऊचे गुरुस्सुरवरार्यमुपसरे सः । पञ्चैव वत्स चरणाः प्रथिता इह स्युः तत्रापि सूत्रयुगलद्वयमेव भूम्ना ॥ ५९॥ प्रारब्धकर्म परिपाकवशात्पुनस्त्वं वाचस्पतित्वमधिगत्य वसुन्जरायाम् । भव्यां विधास्यसि तमां मम भाग्यटीकां आभूतसंप्लवमधिक्षिति सा च जीयात् ॥६०॥ निखिलनिगमचूडाचिन्तया हन्त यावत्स्वपनमधिकसौख्यं निर्विशन् निर्विशङ्कम् । बहुतिथमभितोऽसौ नर्मदां नर्मदां तां मगधभुवि निवासं निर्मसे निर्ममेन्द्रः ॥६१॥ इति दन्तिद्योतिदिवाप्रदो-सत्यमलतः खेटोनिवासदीक्षिततनूजस्य कामाक्षो गर्भसम्भवस्य श्रीमदर्शनारीश्वर गुरुचरण सहजतालन्धविद्यावैशद्यस्य राजचूडामणिदीक्षितस्य कृतिषु शङ्कराभ्युदये काव्ये द्वितीयः सर्गः । सूत्रयुगद्वयं चतुःसूत्रः ॥ ५९॥ वाचस्पति मिश्रो भामतीकारः प्रसिद्धः सुरेश्वरावतारतया । अधि क्षितिक्षितौ ॥६॥ यावत्स्वपनं, रात्रौ नितं वेदासविचारे अधिकसौख्यं वेदान्तविचाराभिव्यक्तं स्वरूप निर्विधन भुञ्जतः । निर्यमाणां यतीनामिन्द्रः बहूनां तिथीनां पूरणः कालो बहुतिथ: तं कालं, मगधभुवि वासं निर्ममे ॥६१ ॥ । " 32 श्रीशङ्करा भ्युदये तृतीयः सर्गः जनन्याः अन्त्येष्टिविधानम् अथ कालटिनामकाग्रहारे जननी हन्त जरातुरा नितान्तम् । मुरवैरिपुरोन्मुखी मुनीन्दुं मुहुराधत्त मनोरथाध्वनीनम् ॥ १॥ अधिगत्य तदात्मयोगशक्तेरनुभावेन निवेद्य चाश्रितेभ्यः । अवलम्बिततारकापथोऽसावचिरादन्तिकमाससाद मातुः ॥२॥ परिपक्तिमभक्तिरेष मातुः पदपाथोजरजोऽधिमौलि तन्वन् । समुपादिशदद्वयात्मतत्वं स्वयमस्थूलमनण्वगोत्रवर्णम् ॥ ३॥ मनुते मम निर्गुणं मनो मे सगुणं ब्रह्म समीरयेति मात्रा । गदितो गदति स्म भक्तिगम्यं गरुडारूढमजं गदाग्रजं सः ॥४॥ भुजगाधिपभोगतल्पभाजं कमलाङ्कस्थलकल्पितांत्रिपद्मम् । अभियोजितमादरेण नीठावसुधाभ्यां वलमानचामराभ्याम् ॥५ मुरवैरिपुरं वैकुण्ठनो: तत्र गमनाय उन्मुखी शरीरं जिहासती । मनोरथस्य अभिलाषस्य अध्वानमलं असकृत् गच्छतीति अध्वनीनः । जयतुरा स्वनिकटे पुत्रस्थिति अकांक्षत ॥१॥ तारकापथो व्योममार्गः ॥२॥ परिपाकेन निर्वृत्ता पूर्णतामुपयाता भक्तिः यस्य ॥ ३ ॥ निर्गुणब्रह्मानुसन्धानं असकृन्मम मनः करोत्येव । परं सगुणे रुचि- रिदानी मिति तस्य मनसि धारणाय मे मह्यं तत्समीरय कथय । गदो वेदः, तस्यापि पूर्वमासीदिति गदाग्रजः । वसुदेवात् देवरक्षित यां जात: गदः, तत्पूर्वभवः कृष्णोऽपि गदाग्रजः ॥४॥ विष्णुं वर्णयति दशभिः श्लोकैः ॥५॥ तृतीयः सर्गः । 33 विहिताञ्जलिना निषेव्यमाणं विनतानन्दकृताऽग्रतो रथेन । धृतमूर्तिभिरस्त्रदेवताभिः परितः पञ्चभिरश्चितोपकण्ठम् ॥६॥ महनीयतमालकोमलाङ्ग मकुटं रत्नमयं महार्धयन्तम् । शिशिरेतरभानुशोलितानं हरिनीलोपलभूधरं हसन्तम् ॥७॥ मृगनाभिविशेषकेण तादृङ्मुखपाथोरुहषट्पदायितेन । कृतलाञ्छनफालबालचन्द्रं कचभारतकान्तिबिम्बभासा ॥८॥ शयनीयभुजङ्गफूत्क्रियाभिः सततं भंभमिति ध्वनन्तमुच्चैः । उपकण्ठमुपेत्य भिक्षमाणं निजकण्ठस्थरुचि दरं दधानम् ॥ ९॥ शयनीयभुजङ्ग निविशेषैः सकलनाणमहाध्वरैकयूपैः । चतुरोऽपि समं सतां पुमर्थात् किसु दातुं कलितं भुजेश्चतुभिः ॥ रथेन वाहनभूतेन विनतानन्दकृता गरुडेन । अस्त्रदेवताः शङ्ख- चक्रगदासिशाङ्गीख्यपञ्चायुधाभिमानिन्यो देवताः । अंचितोपकण्ठः अलंकृतनिटस्थलः ॥ ६ ॥ स्वसंपर्के रत्नमकु महामूल्यं महनीयं कुर्वन्तं नीलाचलं, भानुकरावभासित हसन्तं परिहसन्तं तत्सदृशम् ॥3॥ > . मुखपाथोरुहे मुखपद्मे ताशि इदमित्थमिति निरूपयितुमशक्ये, षटपदायितेन मृगनाभिविशेष के कस्तूरीतिलकेन कचभासत् कच- समूहात्त कान्तीनां निम्नमिव भासमानेत मृगनाभिविशेषकेण कस्तूरीतिलकेन कृतं लाञ्छनं यस्मिन् स फालमेव बालचन्द्रः यस्य तम् ॥८॥ शंख ध्वनति भंभनिति आदिशेषफूत्कियोस्थवातेन । शंखाभ भगवतः कण्डं शंखो याचते तत्कान्तिम् ॥ ९॥ आदिशेषवत् दीर्घाः पीना: सुनिवं त्ता भुजाः ॥१०॥ श्रीशङ्कराभ्युदये स्थिरकौस्तुभरत्नदीप माजा वनमालावलमानतोरणेन । कलशाम्बुधिकन्यका निकेतीभवता भव्यतमं भुजान्तरेण ॥११॥ 34 जठरस्थजगत्त्रयोजनौघभ्रमदोपान्तबुध व्रजानुबिम्बम् । मणिसारसनं महावयन्तं कमनीयेन सदा कटीतटेन ॥१२॥ शरदिन्दुमयूखचातुरीभिः चरणाम्भोजन खांशुकन्दलीभिः । अपरां नियतं भवामिनासहनां सौरतरङ्गिणी सृजन्तम् ॥१३ अतिसोदयापरपाङ्गैरतसी दामसखैरपास्तमोहम् । तुलसीदल भूषितं मुकुन्दं मनसीयं दधती मुमोच देहम् ॥ १४॥ इयमचिरहर्वलक्षपात षडवङमालसमामिलार्कचन्द्राम् । चपलां वरुणेन्द्रधातृलोकपरं वदं प्रपेढे ॥ १५॥ " कलशांबुधिः क्षीरसमुद्रः तस्य कन्यका लक्ष्मीः । अथवा कलशश्च अंबधिश्व तयोः कन्यके तुलसी लक्ष्मीच । अमृतकलशगतसुधाकणा- दाविर्भता तुलसीति स्कान्दे तुलसी विष्णुप्रेयसी वक्षस्था च ॥११॥ मणिमयं सारसनं रशना कटिभुषणम् । स्वकटीतटे स्थितिदानेन तस्य महामुल्यतां संपादयति भगवान् । तम्मिन्सारने निकटस्था बुधा: देवा: सात्वतः वा प्रतिबिम्वभूता भान्ति । जठरस्थजगत्त्रयी- जनौषभ्रमं तद्देवानुबिम्बं ददाति १२॥ सुरगणमियं तरंगिणी सौरतरंगिणी गङ्गा ॥१६॥ देवयानं ब्रह्मपथो देवपथ इति पुनरावृत्तिरहितः पन्था उपनिषत्सु कथ्यते । अचिरग्नि, अहुदिनं वलपक्ष: शुक्लपक्ष: पडुदङ्मासाः उत्तरायणं, सम संवत्सरः अनिलो वायुः अर्क चन्द्रः चपला " , विद्यत् इति क्रमेण ऊर्ध्वगतो अनानिदेवताः पूर्वपूर्वस्थानादुत्तरोत्तरस्थानं यापयन्ति पुरुषं, आतिवाहिकदेवतः वाहयन्ति । अतः परः अमानवः कश्चन वरुणेन्द्रधातृलोकानतिवाहयति । भूत्वा अतितृतीयः सगः । स्वयमेव चिकीर्षुरेष मातुश्वरजं कर्म समाजुहाव बन्धून् । किसिहास्ति ताधिकार: कित्येनसनी निनिन्दुरुच्चैः ॥ अनलं बहुधाथिताऽपि तस्मै बत नादत्त व बन्धुता तदीया । अथ कोपपरीवृतान्तरोऽसावखिलां तामशपच्च निर्ममेन्द्रः ॥ करकांबुकणोक्षणेन मातुल्तुमुत्थाप्य यत् स दाहदेशम् । मनसा विहितेऽथ मन्त्वतस्तां ज्वलिते हन्त हुताशने जुहाव ॥ महासुरालयेशगमनमु 35 विचरन्नय केरलेषु विष्वनिज शिष्यागमनं निरीक्ष्य मौनी । विनयेन महासुरालयेशं विनमन्त्रस्तुत निस्तुलानुभावम् ॥१९॥ सदसस्वविमुक्तया प्रकृत्या चिदचिद्रूपमिदं जगद्विचित्रम् । कुरुषे जगदीश लीलया त्वं परिपूर्णस्य न हि प्रयोजनेच्छा ॥२० रजसा सृजसोश सत्ववृत्तेजिगक्षसि तानसः क्षिपोधि । बहुधा परिकीर्त्यसे व स त्वं विधिवैकुण्ठशिवाभिधामिरेकः ॥ आर्यांबा एवं अचिरादीन् क्रमशोऽतीत्य, अतिवाहिकदेवताभिरतिवाहिता परं पुनरावृत्तिरहितं पदं पदनीयं ब्रह्म प्रपेदे ॥१५॥ बन्धुता बन्धुसमूहः ॥१७॥ करकः कमण्डलुः । उत्थाध्य उद्गृह्य ॥१८॥ महासुसलयेशो महादेवालयेशो भगवान् शम्भुः ॥१९॥ सदसत्त्वाभ्यां विमुक्तया अनिर्वचनीयया प्रकृत्या मायया तदधिष्ठितया मूलप्रकृत्या लीलामात्रं प्रभोः सृष्टिः । नाम्यत्किचित्प्रयोजनम् ॥ श्रीशङ्कर भ्युदये विविधेषु जलाशयेषु सोऽयं सवितेव प्रतिबिंबितस्वभावः । बहुरूपमिदं प्रविश्य विश्वं स्वयमेकोsपि भवान्विभात्यनेकः ॥ 36 इति देवमभिष्टुवन्यतीन्द्रः स महाश्रीतुरसइसन्निविष्ट: । चिरकालवियोगदीनचितैः शिरसा शिष्यगणैरथो ववन्दे ॥२३॥ पञ्चपादिकानुवादेन पद्मपादस्य शोकापनयनम् गुरुणा कुशलायोगपूर्व सदयं शिष्यगणेषु सान्त्वितेषु । अनु दीनमनाः शनैरवादीदजहद्गद्गदिकं स पद्मपादः ॥ २४ ॥ भगवन्नभिवन्ध रङ्गनाथं पथि पद्माक्षमहं निवर्तमानः । बहुधा विहितानुनीतनीतो बत पूर्वाश्रममातुलेन गेहम् ॥ २५ ॥ अहमस्य पुरा भिदावदेन्योरपि पूर्वाअनवासनानुबन्धात् । अपठं भवदीयभाव्यटीकामजयं चाव कृतानु ( भि ) योगभेनम् ॥ अथ गूढहुदो यथापुरं नामभिनन्द्याऽऽहितसत्क्रियस्य तस्य । अधिसद्म निधाय भाष्यटीकामहमस्वाप्समशङ्कितो निशायाम् ॥ तत्सृष्ट्वा तदेवानुप्रविशत् इति श्रुत्युक्तरीत्या सृष्टि पूर्वमुक्त्वा अनुप्रवेशं विवृणोति सवितेवेति ॥ २२ ॥ ववन्दे वन्दितोऽभूत् ॥२३॥ गद्गदिकं सगद्गदं भाषणं अजहत् अत्यजन् ॥२४॥ अनुनीतं अनुनयः ॥२५॥ भिदावदानां भेदवादिनां इन्दु श्रेष्ठः । अनुयोग: प्रश्न: सन्देहनिवृत्त्यर्थकः, अभियोग इति पाठे आक्षेपोक्तिः ॥२६॥ तृतीयः सर्गः । युगपर्ययनृत्यदु ग्रफालज्वलनज्वालकरालकी लजाल: । दहनोऽधिनिशीथमस्य धाम्ना बत टीकामपि भस्मसादकार्षीत् ॥ अदहत्स्वगृहं स्वयं हताशो विमग्रन्थमसौ विदग्धुकामः । मतिमान्यकरं गरं च भैक्ष्ये व्यधितास्येति विजृम्भते स्म वार्ता । अधुना धिषणा यथापुरं नो विधुनाना विशयं प्रसादमेति । विषमा पुनरीहशी दशा नः किमु युक्ता भवदंघ्रिकिकराणाम् ॥ इति वादिनमेनमार्यपाद: करुणापूरकरंबितान्तरङ्गः । अमृतोमिसखैरपास्तमोहै: वचनैः सान्त्वयति स्म वल्गुबन्धैः ॥ विषमो बत कर्मणां विपाको विषसोहोपम एष दुनिवारः । विदितः प्रथमं मसायमर्थः कथितश्चाङ्ग सुरेन्द्रदेशिकाय ॥३२ मगधेषु मदीयसन्निधौ प्राक्पठिता या किल पद्मपादिका सा । मनसो मम नापयाति शोको व्यपयातु त्वरितं लिखेत्यवादीत् ॥ प्रसभं स विलिख्य पञ्चपादों परमानन्दभरेण पद्मपादः । उदतिष्ठदतिष्ठदभ्यरोदीरुद्गायद्धसति स्म नृत्यति स्म ॥ ३४ ॥ 37 युगपर्ययो युगान्तः प्रलयकालः । उग्र : शिव: फालज्वलन: तृतीय- नेत्रभूतोऽग्निः । कीलो ज्वाला । धाम्ना गृहेण सह ॥२८॥ हता कुत्सिता आशा यस्य सः अथवाभग्नमनोरथ: । पद्मपाद- टीकाखण्डनं विधाय स्वाभिमतप्राभाकरमतं स्थापयानीति आशाया भग्नत्वात् । अस्य पद्मवादस्य स्वस्त्रेयस्यापि सतः भैक्ष्ये ॥२९॥ प्रसादं नो एति न प्राप्नोति ॥३०॥ करंबितं मिश्रितं व्याप्तम् । वल्गुबन्धैः मञ्जुलपदयोजनैः ॥३१॥ 38 श्रीशङ्कराभ्युदये राजशेखरानुग्रहः कविताकुशलोऽथ केरलक्ष्माकमनः कश्चम राजशेखराख्यः । मुनिवर्यममुं मुदा वितेने निजकोटी रनिवृटपशखाग्रम् ॥ ३५॥ प्रयते किसु नाटकलयी सेत्यमुना संयमिना ततोऽनुयुक्तः । अयमुत्तरमानदे जमावादनले साऽऽहुतितामुपागतेति ॥ ३६॥ मुखतः पठितां मुनीन्दुना तां बिलिखने विसिष्मियेऽथ भूपः । वद किं करवाणि किङ्करोऽहं वरदेति प्रणमन्व्यजिज्ञपच्च ॥ नृप कालटिनासकाकरस्था द्विजकसनधिकारिणोऽद्य शप्ताः । भवतापि तथैव ते विधेया बत पापा इति देशिकोऽशिषत्तम् ॥ तोटकस्यानुग्रहः अचिकित्स्यभगन्दराख्यरोगप्रसरच्छोणितपङ्किलां स्वशाटीम् । अजुगुप्समथो विशोधयन्तं कृपयालोकत कन्विदाश्रवं सः ॥ ३९ अय तोटककृत पद्यजातरयमज्ञातसुपर्वसूक्तिोऽपि । दययैव गुरोस्खयोशिरोऽयं स्फुटयित्वाऽजनि तोकार्थनामा ॥ क्ष्माकमनः भूपतिः । निजेन कोटीरेण निवृष्टानि पदयोर्नखाना- मग्राणि यस्य तम् ॥ ३५ ॥ सा प्रव्रजनात्पूर्व कालट्यां श्रुता । भगवतः शङ्करस्य श्रुतधरत्वं आभ्यां सन्दर्भाभ्यां वर्ण्यते ॥३७॥ आकुर्वन्ति संघीय व्यवहरन्त्यत्रेति आकरः ग्रामः ॥ ३८॥ न विद्यते जुगुप्सा यस्मिन् कर्मणि तत्तथा ॥३९॥ सुपर्वसूक्तिः देववाणी संस्कृतभाषा ॥४०॥ तृतीय: सगः । अश्विभ्यां भगन्दर चिकित्सा प्रथितैरवनौ परस्सहस्रैरगदङ्कारगणैरथाचिकित्स्ये । प्रबले सति हा भगन्दरेऽसौ स्मरति स्म स्मरशासनं मुनीन्द्रः ॥ स्मरशासनशासनान्मुनीन्दो रुपयातावुपकण्ठमश्विनौ द्वौ । अमृतवसेना तामगदङ्गारवजो निजं यथार्थम् ॥४२॥ हस्तामलकस्य शिष्यतया स्वीकरणम् शिववल्ल्यभिधं ततोऽग्रहारं श्रयति स्मैष कदाचन स्वशिष्यैः । अनुगे हुताग्निहोतदुग्धप्रसरत्यावनगन्धलोभनीयम् ॥४३॥ अहसन्त मनीक्षमाणमस्तस्पदमनातवः प्रवृत्तिमम् । विवसुमित ओकमिति द्वादशनार्षिक कमाये ॥४४॥ करुणापरिणाहपारदग्भिर्गुरुणा केवलमीक्षितः कटाक्षैः । स करामलकोकृतात्मतत्वोऽजनि हस्तामलकार्यनामधेयः ॥४५॥ ससिन्धानो मत्थाचलमथितसिन्धदरभवत्सुधाफेनाभेनावृतचिनिनेतात्ययशसा । निरन्धानो दृष्टया परमबह पन्थानमसतां पराधृष्यः शिष्यैररमत विशिष्यत्र मुनिराट् ॥ ४६॥ इति दन्तिद्योतिदिवाप्रदोपाडू- सत्यमङ्गलरत्न खेटश्रोनिवासदीक्षिततनूजस्य कामाक्षो गर्भसम्भवस्य श्रीमदर्धनारीश्वगुरुचरण सहजतालव्धविद्यावैशद्यस्य रामचूडामणिदीक्षितस्य कृतिषु शङ्कराभ्युदये काव्ये तृतीयः सर्गः । 39 शिवली श्री श्रीवलिपि अग्रहारनाम ॥ ४२ ॥ " 3 9 हसति ईते स्पृहयते वदति जानाति इति शिशो: क्रमात् वर्धमानस्य या याश्चेष्टा लोके उपलभ्यन्ते तेष्वेकामपि चेष्टां विता वयसा द्वादशवार्षिकम् ॥४४॥ > 40 श्रीशङ्कराभ्युदये चतुर्थः सर्गः p गोकर्णगमनम् अर्थकदासौ यतिसार्वभौमः सर्वाणि तीर्थानि चरन् सतीर्थ्यः । घोरात्कलेर्गोपितधर्ममारत् गोकर्णमभ्यर्णचलार्णवधम् ॥ १॥ विरिश्वनाम्भोरुहनाभवन्धं प्रपश्वनाट्याद्भुतसूत्वधारम् । तुष्टाव वामार्धवधूकमस्तदुष्टावलेपं प्रणमन्निहेशम् ॥ २॥ वामालकावल्लभभावमुद्रासीमाविभागेन्द्रमणीशिलेव । रोमावली राजति यस्य मध्ये सोमावतंसः स सुखाय भूयात् ॥ वक्षोजभारावनतैकभागवैषम्यभूमापनिनीषयेव । कल्याणशैलं कलयन्कराग्रे शर्माणि निर्मातु सदाशिवोऽयम् ॥ आकांक्षितान्योन्यमुखाभिमुख्यमपूर्यमाणाधरचुंबनेच्छम् । साङ्गत्यमूरोकृतविप्रलम्भं सौख्याय भूयादिदमादिधूनोः ॥५॥ एकोऽभिन्नो गुरुः तीर्थो येषां तेऽन्योन्यं सतीर्थ्या: । समाने तीर्थे गुरौ ये वसन्ति ते च सतीर्थ्या: पद्मपादादयः । आरत् प्राप ॥ १ ॥ वामाः मनोहरा अलका यस्याः सा स्त्री, वल्लभ: पुमान् तयो- र्भावस्य स्त्रीपुंभावस्य मुद्राया व्यवस्थिते: सीमाविभागाय न्यस्ता इन्द्र- मणी शिलेव अर्धनारीश्वरशित्रवपुषोर्मव्यगता रोनावली राजति ॥ २॥ " शिवयोवंपुषि हिमगिरिजाभागे वक्षोजभरेण यावनतिः, तदुत्थ- वैषम्यापनयनाय कल्याणशैलं मेरुं धनुरूपं आलम्बयष्टितया कराग्रे कलयति ॥४॥ एत्रशरीरित्वेन सङ्गतयोरपि अङ्गीकृतविश्लेषदुःखता आसीत् । चतुर्थः सर्गः । वपुः स्मरामः क्वचन स्मरारे: बलाहकाद्वैतवदावदनि । सौदामिनीसाध्रिमसंप्रदायसमर्थनादेशिकमन्यतश्च ॥ ६॥ 41 वामाङ्गसीमाङ्कुरवंशुतृण्याचश्चन्मृगाश्वत्तरदक्षपाणि । सव्यार्धशोभाकलमाग्रभक्षसाकांक्षकी राज्यकरं महोऽस्मि ॥७॥ कामाभिमानास्तिकनास्तिकाय कामाधिकस्पर्शनकर्मठाय । श्यामाविटांकूरचमत्कृताय श्यामारुणाय स्पृहयामि धाम्ने ॥८ अव्याजकारुण्यनिकेतचेताः सव्याधंवीक्षाविनमन्मुखेन्दुः । दिव्या शुकव्यासमुखषिनव्या भव्याय भूयान्मम भावनेयम् ॥९ यतः अन्योन्यं मुखाभ्यामाभिमुख्यं कांक्षणीयावस्यायामास्ते, संमुखीनत्वाभावात् । अत एव अधरचुंबनेच्छापि अर्यमाणैव । अन्योन्यमभिन्नतया संगतावपि विश्लेषोत्थं दुःखमेव दर्शनाद्यधरचुंबना- कांक्षाया उदयात् तदपूर्तेच ॥ ५ ॥ . " क्वचन वामे वलाहकस्य नीलमेघस्य वदावदा अधिवक्त्री श्रीः शोभा यस्मिन्, मेघश्यामं अन्यतश्च दक्षिणे सौदामिन्यास्तटितः साधिम्न: : साधुत्वस्य यः संप्रदायः, तत्समर्थनायां देशिकं तटिदरुणं वपुः ॥ वामाङ्गसोम्नि पार्वतीरूपे वामभागे अंकुरन्ती अंशव एव तृण्या तृणसमूहः तद्ग्रसनाय चञ्चन् मृगः, शिवरूपदक्ष करे यस्य सन्यार्धस्य शोभैव कलमाग्रं शालिप्ररोहः तस्य भक्षे भक्षणे साकांक्ष: कीर: शुकः, तद्वान् दक्षिणेतर : करः यस्य तथाभूत : महोऽहमस्मि ॥७॥ कामस्याभिमानो गर्वः सर्वमनोमथनजः स च आस्तिक: अस्तीति श्रद्दधानः तस्यास्तित्वममन्वानं नास्तिकं कामगर्वविरोधि कामात् कामितादधिकस्य स्पर्शे वितरणे कर्मठं कर्मणि शूरं श्यामाया रात्रेः विटस्य कामुकस्य चन्द्रस्य अंकूरेण चन्द्रकलया चमत्कृतं प्राप्तानन्दं वामे श्यामं दक्षिणेऽरुणं च तस्मै नीललोहिताय तेजसे धाम्ने स्पृहयामि ॥८॥ > 6 42 श्रीशङ्कर भ्युदयें फणावृ तैकस्तनमर्धभागे यस्योत्तरीयं ह्युपवीतमेव । मातापितृभ्यां जगतो मम स्यात्कस्मैचिदस्मै महसे नमस्या ॥ वामेतरोरःस्थललोलदामफणा मणी नायकभावुकश्रीः मुक्तावली दीव्यति यत्कुचाग्रे मोदाय भूयान्मम देवतेयम् ॥ ११ कण्ठप्रभाबन्धुरमभ्रबृन्दं कचोच्चयं तत्तटितो जटाभिः । तदंबु किश्वाश्रधुनों वितन्वन् तन्वीत धन्वी गिरिणेष सौख्यम् ॥ प्राय सपत्नत्वमुदा प्रकामं प्रवर्धमानककुचाग्रघर्षात् । निम्नं यदीयं चिबुकं नितान्तं विश्यान्मुदं मे परदेवतेयम् ॥ १३॥ सध्यार्धस्य पार्वतीरूपस्य वीक्षायै विनमन् मुखेन्दुः यस्याः, ऋषिभिः नव्या स्तुत्या, दिव्या भावना स्थितिः ॥९॥ नागयज्ञोपवीति शिवाख्यं महः । तदेव जगतो मातापितरौ । तस्योपवीतं वामभागे स्तनावरकत्वेन दक्षिणभागे उत्तरीयत्वेन चाभाति । "यस्योपवीत गुण एव फणावृनैकवक्षोरुहः कुचपटीयति वामभागे । तस्मै ममास्त तमसामवसानसीम्ने चन्द्रार्धचारुशिरसे महसे नमस्या ॥ इति एतस्यैव कवेः कृतौ कमलिनी कलहंगे मङ्गलश्लोकः ॥ १०॥ दक्षिणी स्स्थले लोल: दागभूतः सर्पः तत्फणामणिसंपर्कादधिक- मंगलकान्तियुता मुक्तावली वामोरसि कुचाये भाति ॥ ११ ॥ नीलकण्ठप्रभया बन्धुरं मनोज्ञं ऋचोच्चयं केशसंहति अभ्रबृन्दतया वितन्वन् तदनुरूपाभिर्जटाभि: तटितो वितन्वन्, अभ्रधुनीं गंगां तन्मेघ- वृष्टांबुतया वितम्वन् गिरिणा मेरुणा धन्वी ॥ १२ ॥ 1 वामस्य सतनस्य दक्षिणः स्तनपत्त शत्रुर्न भविता, दक्षिणस्य पुंरूपत्वात् । अतो निस्सपत्नतया जातेन मोदेन प्रकामं प्रवधंते वामः स्तन: । तदग्रघर्षणात् हेतोः निम्नं चिबुकम् ॥ १३॥ चतुर्थः सगः । महीध्रकन्यागलसङ्गतोऽपि माङ्गल्यतन्तुः किल हालहालस् । यत्कण्ठदेशेऽकृत कुण्ठशक्तिमैक्यानुभावादयवस्मि भूमा ॥ १४ ॥ गुणत्रयातीतविभावमित्थं गोकर्णनाथं वचसाऽर्चयित्वा । तित्रस्स रात्रीस्त्रिजगत्पवित्रे क्षेत्रे मुदाऽत्र क्षिपति स्म कालम् ॥ हरिहरक्षेत्रवासः 43 वैकुण्ठकैलास विवर्तभूतं हरत्ततोऽधं हरिशङ्करायम् । दिव्यस्थलं देशिकसार्वभौम: तीर्थप्रवासी नचिरायासीत् । १६ भ्रमापनोदाय भिदावदानां अद्वैतमुद्रामिह दर्शयन्तौ । आराध्य देवौ हरिशङ्करौ द्वौ व्यर्थाभिरित्यर्चयति स्म वाग्भिः ॥ १७॥ उदञ्चयत् सोमकला निवासं गामादरात्तत्कलयन्ननादिस् । मैनं महः किञ्चन दिव्यमङ्गीकुर्वत् विभु कुशलानि कुर्यात् ॥ मांगल्तन्तुलाहलश्च कण्ठे वासदक्षिणभागयोः स्थितौ परस्पर- विरुद्धौ । हालाहलः मांगल्यतन्तुना कुण्ठशक्तिरिति चित्रम् । तस्य भूम्न: ऐक्यानुसन्धानात् अयमहमस्मि भूमा पूर्ण: ॥१४॥ द्वयर्थाभि: हरिशङ्करपराभिः ॥१७॥ सोमकाख्योऽसुर: वेदापहारी, तं लाति गृह्णाति आरक्षति आच्छादयति इति सोमकलः, अ: कमठ: तन्निवासभूतः अनिवास: सोमकलोऽनिवासश्च यः समुद्रः तं उदश्चयन् उवेलपुर्षवत् समुद्रान्तः निलीनस्य सोमकस्य बहिर्यापनाय समुद्रं क्षोभयन् । तत् ततः अनादि गां वेदरूपां अनादि गां नौकारूपां भुवं वा आदरेण कलयन् प्रकाशयन्, मैनं मोनसंबन्धि दिव्यमप्राकृतं महो वपुः अंगोकुर्वन्, हरिः । सोम " 44 श्रोशङ्कराभ्युदये यो मन्दरागं दधदादितेयान् सुधाभुजः स्मातनुते विषादी । स्वामिन डुलीलोचितचारुमूर्ते कृपामपारां स भवान् विधत्ताम् ॥ १९ ॥ उल्लासयन्यो महिमानमुच्चैः स्फुरद्वाराहीशकलेवरोऽभूत् । तस्मै विदध्मः करयोरजस्रं सायन्तनाम्भोरुहसामरस्यम् ॥२०॥ समावहन् केसरितां वरां यः स्फुरद्विषत्कुञ्जरमाजघान । प्रह्लादमुल्लासितमादधानं पञ्चाननं तं प्रणुमः पुराणम् ॥२१॥ कलाया निवासभूतं जटाभारं उदञ्चयन् विस्तृणन्, अनादि गां जलं गंगारूपं तत् तत्र जटासु आदराकलयन मेनाया हिमवत्पत्त्या इदं पार्वतीरूपं महो अंगीकुर्वन् वामाङ्गतया आकलयन् हरः ॥१८॥ डुली कमठी, तस्या उचिता रुचिरा मूर्तिः कमठरूपा, यस्य ते, तथाभूत हरे, मन्दराख्यं अगं पर्वतं दधत्, अविषादी अतिदुर्भरमन्दर- घारणेऽप्यखिन्नः, अमृतोत्पत्तौ हेतुभूतत्वेन आदितेयान् सुधाभुजः भवा- नातनुते । यः शिवः भवान् अमन्दं अनल्पं रागं प्रीति सुरेषु दधत्, हालाहल भुक् विषापनयनेन स्वस्थहृदयान्देवान् सुधामपाययत् । डोलय- त्युत्क्षिपति शरीरादिकं हावभावादिप्रदर्शनाय ताण्डवरूपा डुली क्रीडा, तस्यां लोचिता अवलोकिता चारुमूर्तिः यस्य सः, तथाभूत शम्भो ॥ १९ ॥ " करयो सायन्तनाम्भोरुहसामरस्यं सङ्कोचं, विदध्मः करौ मुकुली- कृत्य प्रणमामः । महीयत इति महिः भूमिः, स्वदंष्ट्रया उद्धियमाणायाः तस्याः मानं परिमाणं उच्चै उल्लासयन् प्रकाशयन् वराहीशः पुंवराहः तस्य गात्रं यस्य सोऽभूत् हरिः । वरः श्रेष्ठ: अहीनामीश: स कलेवरे भूषणत्वेन यस्य । आत्मनो महिमानं श्रेष्ठतां उल्लासयन् शिवः ॥२०॥ " केसरी सिंहः, द्विषन् शत्रुरेव कुञ्जर : हिरण्यकशिपुः । पञ्चाननं व्यात्ताननं नृसिंहं हरिम् । के शिरसि सरितां वां गङ्गां समावहून्, चतुर्थः सर्गः । उदीतबल्याहरणाभिलाषो यो वामनोहार्यजिनं वसानः । तपांसि कान्तारहितो व्यतानीदाद्योऽवतादाश्रमिणामयं नः ॥ २२ 45 येनाधिकोद्यत्तरवारिणाभूत् जितोऽर्जुनः संगररंगभूमौ । नक्षत्रनाथस्फुरितेन तेन नाथेन केनापि वयं सनाथाः ॥ २३ ॥ विलासिनालीकभवेन धाम्ना कामं द्विषन्तं स दृशाश्ममस्यन् । देवो धरापत्यकुचोष्मसाक्षी देयादमन्दात्मसुखानुभूतिम् ॥ २४ ॥ द्विषन्तं कुञ्जरं गजासुरं, प्रह्लादं प्रमोदं पञ्चाननं सद्योजातादिवक्त्रपञ्चक- युतं शिवम् ॥२१॥ "" उदीत: उच्छ्रितो गर्वेण यो बलिनामकोऽसुरः तस्माद्भूमेराहणे, अथवा तस्य विनयने अभिलाषो यस्य, मनोहारि अजिनं वसान:, कान्तारहितो विवाहरहितः, आश्रमिणां ब्रह्मचर्याद्याश्रमवतां आद्य: ब्रह्मचारी हरि: । बलिमाहन्तीति बल्याहा, वामनो विष्णुः तस्य बल्याह्नः कृष्णावतारकाले, तेन सह रणे बाणासुरपक्षपातेन कृतो- ऽभिलाष : उदोतोऽधिकः यस्य, कान्तया पार्वत्या रहितो दक्षिणामूर्ति- रूपः, आश्रमिणां ऋषीण माद्य: नेता गुरुश्च शम्भुः ॥ २२ ॥ उद्यन् उद्धृतः तरवारि: खड्गो येन परशुरामेण अर्जुन कार्तवीर्यो जितः, क्षत्रनाथा राजानः, न क्षत्रनाथा यथा तथा स्फुरितं यस्य, तेन विष्णुना । उद्यत्तरं अतिशयेनोद्यत् वारि गङ्गाजलं यस्य तेन जटाधृत- गङ्गेन, अर्जुनेन जितः शिरसि गाण्डीवेन हतः, नक्षत्रनाथश्चन्द्र, तेन स्फुरितेन मौलौ भासितेन शम्भुना ॥२३॥ विलसिना नालीकभवेन धाम्ना ब्रह्मास्त्रेण, कामं यथेच्छं द्विषन्तं दृशाश्मं दृशा नेत्रं, अश्मनो विकार आश्म: । नेत्रे अश्मेव असह्यं, रावणं अस्यन् धराया अपत्यं सीता । विलासिना अलीकभवेन निटिलजेन धाम्ना अग्निन। द्विषन्तं कामं मन्मथं, आश्मं अश्मविकारो धूलि, इशा तृतीयेन अश्मधूलि अस्यन्, घरः पर्वतः तस्य सुता पार्वती ॥ 46 श्रीशङ्कराभ्युदये उत्तालकेतुः स्थिरधर्ममूर्तिः हालाहलस्वीकरणप्रवीणः । स रोहिणीशानिशचुंम्ब्यमाननिजोत्तमाङ्गोऽवतु विनायकेनाकलिता हितापं निषेदुषोत्सङ्गभुवि प्रहृष्यन् । यः पूतनामोहनचित्तवृत्तिरव्यादसौ कोऽपि कलापभूषः ॥ २६ ॥ पाठीनकेतोर्जयिने प्रतीतसर्वज्ञभावाय दयैकसीम्ने । प्रायः ऋतुद्वेषकृतादराय बोधैकधाम्ने स्पृहयामि भूम्ने ॥ २७ ॥ व्यतीतचेतोविषयं जनानां विद्योतमानाय तमोनिहन्त्रे । भूम्ने सदाघासकृताशयाय भूयांसि मे सन्तुतमां नमांसि ॥२८॥ उद्गत: तालः केतुः ध्वजो यस्य, रोहिणीशो वसुदेवः, इति बलरामः । हालाहलो विषं, रोहिणीशचन्द्रः ॥ २५ ॥ > कोऽपि भूमा ॥ वि: पक्षो । विनायकेन गरुडेन, अकलितोऽअनुभूतः अहे: ताप: यस्मिन्कर्मणि तत्तथा उत्संग भुवि समीपे निषेदुषा प्रहृष्यन् । शेषश्वासानिलजविषज्वालातापदुःख रहिततया पुरस्तादुपविष्टो गरुड । पूतनाया मोहने चित्तवृत्तिर्यस्य कलापो मयूरवर्हः । विनायको गण पति: स: शिववक्षस्थलस्याभरणभूतनागानां तापं आकलयति स्वचेष्टणा, तथा उत्सोकेस निषेदिवान् । इतनामा पूतानि नामानि शिवशंकरादीनि यस्य सः परमेश्वरता सर्वज्ञत्व सर्वकर्तृत्व- सर्व नियन्त्रत्वादिगुणवान् शंभुरिति ऊहना : ऊहं कुर्वन्तः तेषां महर्षीणां चित्ते वृत्तिः यस्य । कलापः काञ्ची रशना भूषा वामांगस्थपार्वत्या धृता " यस्य ॥२६॥ D हाला सुरा, हलं लाङ्गलं, उत्ताल के तुरुन्नत वृषभध्वजः, " " बुद्ध: पाठीनकेतो: मन्मथस्य जयी दिगम्बरत्वात् । क्रतौ क्रतु- कतरि विप्रे च द्वेषः तत्र कृतादरः । शिवोऽपि मन्मथजयी, दक्षक्रतु- द्वेषकृतादरः ॥२७॥ व्यतीतोऽतिक्रान्तः चेतसो विषयः मनोविषयभावो यस्मिन् कर्मणि तत्तथा विद्योतमानाय मनोऽतीताय । घासे तृणे कृताशयः . चतुर्थः सर्गः । वृषाकपायीवरयोः सपर्या वाचातिमोचारसयेति तम्वन् । मुनिप्रवीरो मृदितात्ममोहो मूकाम्बिकायाः सदनं प्रतस्थे ॥ २९ मूकाम्बिका क्षेत्रमार्गे मृतशिशो: उज्जीवनम् अङ्के निधाय व्यसुमात्मजातं मोहाकुलौ हन्त मुहुः प्ररुद्य । तदेकपुत्रौद्वजदम्पती स दृष्ट्वा दयाधीनतया शुशोच ॥३०॥ अपारमश्वत्यथ शोकमस्मिन्नभूयतोच्चैरशरीरवाचा । जायेत संरक्षितुमक्षमस्य जनस्य दुःखाय परं दयेति ॥ ३१ ॥ 47 आकर्ण्य वाणीमशरीरिणीं तामसाविति व्याहरति स्म तज्ज्ञः । जगत्वयी रक्षणदक्षिणस्य सत्यं तवैकस्य तु शोभते सा ॥३२॥ इतीरयत्येव यतौ द्विजातेः सुतस्सुखं सुप्त इवोदतिष्ठत् । समीप: सर्वजनीनमस्य चरित्रमालोक्य विसिष्मिये च ॥ ३३॥ परकायप्रवेशः अथानिशाखेटवशादटव्यां मूले तयोर्मोहवशाद्गतासुम् । निरीक्ष्य मार्गे मरुतं नृपालं सनन्दनं प्राह स संयमोन्द्रः ॥ ३४ ॥ कल्कि: अश्वारूढः, अश्वरक्षणाय घासे दृष्टि: तस्य । शिवस्तु अवासे पापनिर्हरणे कृताशयः ॥२८॥ वृषाकपी विष्णु शिवश्च तयोः पत्न्यौ वषाकपाय्यौ श्रीगौर्यो, तयोः वरौ पती । मोचा कदली, अतिमोचारसया कदलीतोऽव्यति- मधुरया ॥२९॥ मरुग: अमरुक इति माधवीयादौ । अनिशं आखेटस्य मृगयाया वशाद्धेतोः ॥३४॥ 48 श्रीशङ्कराभ्युदये सौन्दर्य सौभाग्यनिकेतसीमाः परश्शता यस्य सरोरुहाक्ष्यः । स एष राजा मरुगाभिधान: शेते परासुः श्रमतो धरण्याम् ॥ प्रविश्य कायं तमिमं परासोर्नृपस्य राज्येऽस्य सुतं निवेश्य । योगानुभावात्पुनरप्युपतुं उत्कण्ठते मानसमस्मदीयम् ॥३६॥ अन्यादृशानामदसीयनानाकुशेशयाक्षी किलिकिश्चितानाम् । सर्वज्ञतानिर्वहणाय सोऽहं साक्षित्वमप्याश्रयितुं समीहे ॥३७॥ इत्यूचिवांसं यतितल्लजं तं सनन्दनः प्राह ससान्त्वनम् । सर्वज्ञ नैवाविदितं तवास्ति तथापि भक्तिर्मुखरं तनोति ॥ ३८ ॥ मत्स्येन्द्रनामा हि पुरा महात्मा गोरक्षमादिश्य निजांगगुप्त्यै । नृपस्य कस्यापि तनुं परासोः प्रविश्य तत्पट्टणमाससाद ॥ ३९ ॥ भद्रासनाध्यासिनि योगिवर्ये भद्राण्यनिद्राण्यभवन्प्रजानाम् । ववर्ष कालेषु वलाहकोऽपि सस्यानि चाशास्यफलान्यभूवन् ॥ विज्ञाय विज्ञाः सचिवा नृपस्य काये प्रविष्टं कमपीह दिव्यम् । समादिशन् राजसरोरुहाक्षीः सर्वात्मना तस्य वशिक्रियायै ॥४१ सङ्गीतलास्याभिनयादिमेषु संसक्तचेता ललितेषु तासाम् । स एष विस्मृत्य मुनिस्समाधि सर्वात्मना प्राकृतवद्वभूव ॥४२॥ अन्यादृशानामनन्यसाधारणानां अस्य बहूनां पत्नीनां किलि- किञ्चितानां रोषाश्रुहर्षभीत्यादिभावसांकर्यस्य, साक्षित्वं असंगत्वेन तदीक्षितृत्वं सर्वजताया: निर्वहणाय अपेक्षितम् ॥३७॥ मुखरं अप्रियवादिनं अनपेक्षितं असमये वदन्तम् ॥ ३८॥ भद्राणि मङ्गलानि अनिद्राणि जागरूकाणि । अभीष्टफलानि ॥४०॥ आशास्यफलानि चतुर्थः सर्गः 4 49 गोरक्ष एषोऽथ गुरोः प्रवृत्ति विज्ञाय रक्षन् बहुधाइस्य देहम् । निशान्तकान्तानउनोपदेष्टा नितान्तमस्याभवदन्तरङ्गः ॥४३॥ तत्रैकदा तत्वनिबोधनेन निवृत्तरागं निजदेशिकं सः । योगानुपूर्वीमुपदिश्य नित्ये यथापुरं प्राकृतमेव देहम् ॥४४॥ हन्तेदृशोऽयं विषयानुषंग: किचोर्ध्वरेतो व्रतखण्डनेन । कि नोदयेटिकल्बिषमुल्बणं तत्कृत्यं भवानेव कृती विवेक्तुम् ॥ इत्थं समाविष्कृतभावसेनं सनन्दनं शश्वदथाभिनन्द्य । अनुज्झितन्यायमविस्तृतं च शनैः समाभाषत भाष्यकारः ॥४६ यदोरितं वत्स हितोपदेष्टा तदेतदद्धा निगमस्तथापि । असङ्गिनो न प्रभवन्ति कामा हरेरिवाभोरवधूस ॥४७॥ वज्त्रोलियोगः प्रतिभूः स एष वत्सावक णित्व विपर्यंये नः । चिरं विचारेण कृतं श्व एव समागमिष्याम्यथवा परश्वः ॥४८॥ निशान्ते प्रत्यूषे कान्तानां राजमहिषीणां नटनस्य नर्तनविद्यायाः उपदेष्टा, तद्वेषेण राज्ञोऽन्तरंग: दिवा रात्रौ च मत्स्येन्द्रदेहं पक्षन् ॥४३॥ ऊर्ध्वरेतोव्रतखण्डनेन ब्रह्मचर्यव्रतखण्डनेन ॥४५॥ 9 " आभीरवधूनां गोपीनां सखा कृष्ण: तस्येव कामा न प्रभवन्ति वशीकर्तुम् । व्यसनहेतवो न भवन्ति । "न मय्यावेशितंधियां काम: कामाय कल्पते । भर्जिता क्वथिता घाना प्रायो बीजाय नेष्यते ।" इति कृष्णे निहितमनसामपि विषये कामो नं प्रभवति । किमुत कृष्णविषये ॥ वज्रोलिर्नाम हठयोगः ऊर्ध्वरेतस्त्वसाधक: । अवकीर्णी ध्वस्तव्रतः अगम्यागमनेन त्यक्तव्रतः । तद्रूपे विपर्यये व्यतिक्रमे प्रतिभूः दोष- वारको घटकः ॥४८॥ 7 श्रीशङ्करामदये इतीरयन्त्रेव नृपस्य कार्य विशन्स साक्षात्कृतकामतन्त्रः । पद्यानि शृंगारपरिष्कृतानि शतं वदन्नेव पुनस्समागात् ॥४९॥ मूकाम्बिका क्षेत्रदर्शनम् 50 रम्योपशल्यं कृतमालसालरसालहिन्तालतमालतालैः । सिद्धिस्थलं साधकसंसदां तन्मूकाम्बिकाधाम पुनर्जगाहे ॥५०॥ उच्चावचानन्दजबाष्पमुच्चैः उद्गीर्णरोमाञ्चमुदारभक्ति । अम्बामिहापारकृपावलम्बां संभावयन्नस्तुत निस्तुलं सः ॥५१॥ पारेपराधं पदपद्ममस्सु षष्ट्युत्तरं ते त्रिशतं तु भासः । आविश्य वह्न चर्कसुधामरीचीन् आलोकवन्त्यादधते जगन्ति ॥ अन्तश्चतुष्षष्ट्युपचार भेदैः अन्तेवसत्काण्डपटीप्रदानैः । आवाहनाद्यैस्तव देवि नित्यमाराधनामादधते महान्तः ॥५३॥ ‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒----------------- अमरुकशत कमिति प्रसिद्धानि ॥४९॥ परस्य ब्रह्मण आयुषि अर्ध, परार्धद्वयजीवी ब्रह्मा, पारेपराधं परार्ध संख्थामतीत्य वर्तमानासु पदपद्माभ्यां निस्सन्तीषु भास्सु मध्ये षष्ट्युत्तर त्रिशत संख्याका भास एव चराचराणि भासयन्ति । ताः वह्नि अर्क सूधामरीचि चाविश्य आलोकं ददति । वह्नौ अष्टोत्तरशतं सूर्ये षोडशोत्तरशतं चन्द्रे षटविंशहत्तरशतं किरणा: पिण्डाण्डब्रह्माण्ड प्रकाशकाः । भूमौ वह्निः अन्तरिक्षे सूर्यः तदुपरि नक्षत्रमण्डले चन्द्र इति ब्रह्माण्डे, मुलाधारस्वाधिष्ठानामकाग्निखण्डे अग्निः, मणिपूरकानाह ताख्य सूर्यखण्डे सूर्य: विशुद्धय ज्ञाख्य चन्द्रखण्डे चन्द्रश्च पिण्ड ।ण्डे प्रकाशकाः ॥५२॥ 9 • काण्डपटी जवनिका पटीप्रदानः जवनि हाच्छादनैः चतुष्षष्टिभिरुपचारैः ॥५३॥ अन्तेवसद्भिः सेवकैः क्रियमाणै: काण्डसंवृततया गुप्ततया क्रियमाणैः चतुर्थः सर्गः । अम्बोपचारेष्वधिहृत्तु षष्टि शुद्धयाज्ञयोः शुद्धिदमेकमेकम् । सहस्रपद्मे द्वितयं तु साधु तन्वन्ति धन्यास्तव तोषहेतोः ॥५४॥ आराधनं ते बहिरेव केचित् अन्तर्बहिश्चैकत मेऽन्तरे वा । अन्ये परे त्वम्ब कदापि कुर्युः नैव त्वदेक्यानुभवैकनिष्ठाः ॥५५ अष्टोत्तरविंशति याः कलानां अर्ध्याः कलाः पञ्च निवृत्तिमुख्याः । तासामुपर्यंब तवांघ्रिपद्मं विद्योतमानं विबुधा भजन्ते ॥५६॥ कालाग्निरूपेण जगन्ति दग्ध्वा सुधात्मनाssप्लाव्य समुत्सृजन्तीम् । ये त्वामवन्तीममृतात्मनैव ध्यायन्ति ते सृष्टिकृतो भवन्ति ॥५७ ॥ 51 . क्रियमाणे उपचाराणां चतुष्षष्टौ, हृदये षष्टिः, विशुद्धौ कण्ठे एकं आज्ञायां एकं, सहस्रदले पद्म द्वादशान्तस्थे द्वाविति स्थानभेदः ॥ केचिरकुलाचाररता बहि: समाचाररता: अन्तः मिश्राचारा अन्त बहिश्च आराधनं कुर्वन्ति । उत्तमाधिकारिणस्तु प्रशाम्तेत राखिल- बाह्याभ्यन्तरार्थानुभवाः, त्वदैक्यानुभवमहिम्ना चिदानन्दरूपा निर्व्या पारा: तिष्ठन्ति ॥५५॥ 9 अमृताद्या: षोडश सोमकला: तपिन्याद्या द्वादश सूर्यकला: धूमाचिराद्या दश वह्निकलाः एवं कलाः अष्टत्रिंशत् । ताभ्योऽपि अर्ध्याः कलाः पृथिव्यादिभूतपञ्चककलाः पञ्च निवृत्ति: प्रतिष्ठा विद्या शान्तिः शान्त्यतीतेति । तासामुपरि सहस्रारपद्मे तवांघ्रिपद्मं विद्योतते । महीं मूलाधारे कमपि मणिपूरे हुतवहं "( स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि । मनोऽपि ग्रूमध्ये सकलमपि भित्वा कुलपथं सहस्रारे पद्म सह रहसि पत्या विहरसे ॥ " इति सौन्दर्यलहर्यां शङ्करभगवत्पादाः ॥५६॥ जगत्प्रलयसृष्टिस्थितिकारिण्या ध्यानेन सृष्टिशक्तिः जायते ॥१७॥ 52 श्रीशङ्कराभ्युदये ये प्रत्यभिज्ञामतपारविज्ञा: धन्यास्तु ते प्राग्विदितां गुरूक्त्या । सैवाहमस्मीति समाधियोगात् त्वां प्रत्यभिज्ञाविषयं विदध्युः ॥ आधारचक्रे च तदुत्तरस्मिन् आराधयन्त्यैहिकबोधलुब्धाः । उपासते ये मणिपूरके त्वां वासस्तु तेषां नगराद्वहिस्ते ॥ ५९॥ अनाहते देवि भजन्ति ये त्वां अन्तः स्थितिस्त्वन्नगरे तु तेषाम् । शुद्धधाज्ञयोयें तु यजन्ति तेषां क्रमेण सामीप्यसमानभोगौ । ६० सहस्रपत्रे ध्रुवमण्डलाख्ये सरोरुहे त्वामनुसन्दधानः । चतुर्विधैक्यानुभवास्तमोहः सायुज्यमम्बाञ्चति साधकेन्द्रः ॥६१ श्रीचक्रषट्चक्रकयोः पुरोऽथ श्रीचक्रमन्योरपि चिन्तितैक्यः । चक्रस्य मन्त्रस्य ततस्त्वयंक्यं क्रमादनुध्यायति साधकेन्द्रः ॥ ६२ कापालिकाय सिद्धिदानम् इत्यर्चयित्वा गिरिजां वचोभिः एकान्तमाश्रित्य वसन्तमेनम् । कालायसाकल्पितघोरशूलः कापालिकः कश्चिदिदं बभाषे ॥६३ ॥ तदिदन्त । वगाहिज्ञानेन, सा गुरुवाक्येन ज्ञाता परमेश्वर्येवाहमस्मीति प्रत्यभिज्ञाविषयं विदध्युः ॥५८ ॥ मूलाधारे स्वाधिष्ठाने चोपासनेन ऐहिकसुखलाभ, मणिपूरके त्वल्लोकबहिर्वासं, अनाहते उपासनेन सालोक्यं, विशुद्रौ सामोप्यं, आज्ञायां सारूप्यं, सहस्रारे सयुज्यं चाप्नोति । चतुविधक्यानुभवेन तस्य मोहनाशः । १. नवोन्यात्मक श्रीचक्रस्य पिण्डगतमूलाधा राबात्मक षट्चक्रस्य चैक्यं, २. श्रीचक्ररय पञ्चदशक्षियत्मिक मन्त्रस्य वैक्यम्, २. श्रीचक्रस्य देव्याचैत्रयम् ४. श्रीविद्याया देव्याश्च॑क्यं, इति चतुविधमक्यम् ॥६२ सा श्रीशैले काश्यां वा कापालिकसङ्गमी वर्ण्यते ग्रन्थान्तरेषु ॥६३॥ " चतुर्थः सर्गः । परोपकारं न विनास्ति किश्चित्प्रयोजनं ते विधुतैषणस्य । अस्मावृशाः कामवशास्तु युक्तायुक्ते विजानन्ति न योगिवर्य ॥ जीमूतवाहो निजजीवदायी दधीचिरप्यस्थि मुदा ददानः । आचन्द्रतारार्कमपायशून्यं प्राप्तौ यशः कर्णपथं गतौ हि ॥६५॥ मूर्धाभिषिक्तस्य शिरःकपालं मुनीशितुर्वा मम सिद्धिहेतुः । आद्यं पुनमें मनसाव्यलभ्यं ततः परं तत्रभवान् प्रमाणम् ॥६६॥ तथेति तस्मिन्दयया मुनीन्दाबात्मानमात्मन्यथ योजयित्वा । समाधिलीने सति हा हताशश्वकर्ष कोशाच्चदुलां कृपाणीम् ॥ 5.3 समागतस्तत्र यदृच्छ्याथ सनन्दनो वीक्ष्य दुरीहचेष्टाम् । सस्मार सद्यः प्रणतातिहारि प्रह्लादवत्स्वं परमं महस्तत् ॥६८ आविष्कृताविर्भवनः क्षणेन दंष्ट्रांकुरप्रोतदुरीहदेहः । नृत्यन्नतानीन्नृहरिविदीर्णद्युपट्टणाट्टालकमट्टहासम् ॥६९॥ प्रह्लादवथ्यो भगवान् कथं वा प्रसादितोऽयं नहरिस्त्वयेति । सविस्मयैः स्निग्धजनंः स पृष्टः सनन्दनः सस्मित मित्यवादीत् ॥ ७० ॥ पुरा किलाहोबिलभूधराये पुण्यं समाश्रित्य किमप्यरण्यम् । भक्तक वश्यं भगवन्तमेनं ध्यायन्ननेकान् दिवसाननैषम् ॥७१ ॥ हताशः कुत्सिताशो दृष्टाशो वा ॥६७॥ हिरण्यकशिपुना शस्त्र उद्यते प्रह्लादः नृसिंह सस्मार । तथा कापालिकेन खड्ग उद्यते अयं सस्मार ॥६८॥ श्रीशङ्कराभ्युदये किमर्थमेको गिरिगह्वरेऽस्मिन् वाचंयम त्वं वससीति शश्वत् । केनापि पृष्टोऽत्र किरातयूना प्रत्युत्तरं प्रागहमित्यवोचम् ॥७२ 54 आकण्ठमत्यद्भुतमर्त्य मूर्तिः कण्ठीरवात्मा परतश्च कश्चित् । मृगो बनेऽस्मिन्मृगयो वसन्मे भवत्यहो नाक्षिपये कदापि ॥७३॥ इतीरत्येव मयि क्षणेन वनेचरोऽयं प्रविशन्वनान्तम् । निबध्य गाढं नृहरि लताभिः पुण्यैरगण्यं निदधे पुरो मे ॥७४॥ महर्षिभिस्त्वं मनसाध्यगम्यो वनेचरस्येश कथं वशेऽभूः । इत्यद्भुताविष्टहृदा मयाऽसौ विज्ञाप्यमानो विभुरित्यवादीत् ॥ एकाग्रचित्तेन यथाऽमुनाहं ध्यातस्तथा धातृमुखैर्न पूर्वैः । नोपालभेयास्त्वमितीरयन्मे कृत्वा प्रसादं कृतवांस्तिरोधिम् ॥७६ आकर्ण्य तां पद्मपदस्य वाणीमानन्दमग्नैरखिलैरभावि । जगर्ज चोच्चैर्जगदण्डभाण्डं भूयोऽपि भूम्ना दलयन्नृसिंहः ॥७७ तध्वानेन द्रुतशिथिलितध्यानयोगो मुनीन्दुः पश्यन्त्र नरमृगवपुः प्राक्तनं धाम दिव्यम् । प्रत्यासीदत्प्रसृतियुगलं प्राप्तभक्तिप्रकर्ष प्रत्यग्रोद्यत्पुलकमुकुलं प्रास्तुतादस्स्तुताय ॥७८॥ कल्पान्तोज्जृंभमाणप्रमथपरिवृढप्रौढलालाटवह्नि ज्वालालीढविलोकीज नितखटखटध्वानधिक्कारधुर्यः । प्राक्तनं पुरातनं अनादि । प्रत्यासीदत् अन्योभ्यं सङ्घटमानं प्रसृतियुगलं अञ्जलिः, निकुब्जपाण्योथुंगलं, यस्मिन्कर्मणि, तथा अद: स्तुताय, अमुष्य स्तवनाय ॥७८॥ चतुथः सर्गः । मध्ये ब्रह्माण्डभाण्डोदरकुहरमसावेत्य दुःस्थामवस्थां स्त्यानस्त्यानो मदीयं दलयतु दुरितं श्रीनृसिंहाट्टहासः ॥ 55 मध्येऽवानद्धवातन्धय गुणवलयेन्धानमन्थानभूभृ- न्मन्थप्रक्षोभिदुग्धोदधिधनलहरीस्फारनादावघोरः । कल्पान्तोन्निद्ररुद्रोत्सवभवडमरुध्वानबद्धाभ्यसूयो घोरोऽयं कर्णघोषः क्षपयतु नहरेरंहसां संहति वः ॥८०॥ क्षुन्दानो मंक्षु कल्पावधिसमयसमुज्जृंभदम्भोदगंभ- स्फूर्जद्दंभोळिसङ्घस्फुरदुरुरटिता खर्वगर्वप्ररोहान् । क्रोडाकोडेन्द्रघोणासरभसविसरद्घोरघुर्पूरवधीः गम्भीरस्तेऽट्टहासो हरहर नृहरे रंहसांहांसि हन्यात् ॥ प्रमथपरिबृढो रुद्रः । स्त्यानस्त्यान: अभीक्ष्णं शब्दसन्तानवान्, मध्ये ब्रह्माण्डभाण्डोदरं ब्रह्माण्डमध्ये दुस्स्थां अवस्थामेत्य कृच्छ्रण विश्रान्तावस्थिति प्राप्य, ब्रह्माण्डमध्यं भित्वा बहिनिर्गत्य दूरं गत्वा कृच्छ्रेण समाप्ति प्राप्य, तावत्पर्यन्तं व्याप्तवान् अट्टहासः ॥ ७९ ॥ मन्थानभूभृत् सन्दर: मध्येऽवानद्धेन वातन्धयो वासुकि तद्पो गुणवलय: रज्जुबन्धः, तेन इन्धान: मन्थानभूभृत् स एव मन्थः, तेन प्रक्षोभितो दुग्धोदधिः, तस्य घना लहरी, तस्याः स्फार : नाद इव अव- घोरः । स्थितिकाले निद्राणो रुद्रः, तस्य कृत्याभावात् । प्रलयकाले कल्पान्ते उन्निद्र: रुद्रः, तदत्सवभवो डमरुध्वानः तेन बद्धाभ्यसूयः, नृरुत्थितः यो घोषः तस्याघातेन जातो यः अस्मत्कर्णदेशे घोषः । ८० ॥ " मंक्षु शोघं कल्पावधिसमये प्रलये समुज्जृम्भतां अम्भोदानां संवतख्यानां गुम्भे समूहे स्फूर्जतो ध्वननो दंभोलिसङ्घस्य उरुगतानां वज्रनिर्घोषाणां अखर्वान् अनल्पान् गर्वप्ररोहान् क्षुन्दान: चूर्णयन् । क्रीडाक्रोडस्य यज्ञवराहरूपेणावतीर्णस्य भगवतः घोणातः सरभसं निःसरतां घुघूरवाणां या श्रीः सा यस्न् िसः रंहसा वेगेन अंहांसि पापानि हन्यात् ॥ 56 श्रीशङ्कराभ्युदयै स्तुत्या तुष्टादेष तुर्यावतारात् मोहाक्रान्तं मोचयत् साधकं तम् । सिद्धिञ्चास्य श्रीमदार्थोऽनुगृह्णन् दान्तैः कैश्चित कालं नैषीत् ॥ २२॥ इति दन्तिद्योसिदिवाप्रदा-सत्यमङ्गरत्नखेट श्रीनिवासदीक्षिततनुजस्य कामाक्ष गर्भ सम्भव श्रमदा रोश्वरगुरुचरण सहजतालब्धविद्यावैशद्यस्य राजचूडामणिदोक्षितस्य कृतिषु शङ्कराभ्युदये काव्ये चतुर्थ: सर्ग: । रस्यम् । भैरवो नृसिंहात् मोचितः अभोप्सितां च सिद्धिमवांपेंति वृत्तमि अन्य पालिक नृसिंहदंष्ट्राग्रप्रोतदेहो मृत्युगवावेति । भगव पार्दा यस्यार्थे देहं त्यक्तुमैच्छन्, स तमर्थं प्रापेति कथा रुचिरा अत्र ॥८२॥ पञ्चमः सर्गः अनन्तशयनक्षेत्रगमनम् अथ वेशिकेन्दुरधिगत्य तैथिकः शनकैरनन्तशयनाभिधं स्थलम् । समवेक्षताव सरसीरुहेक्षणं श्रुतिचूलिकासमधिगम्यवैभवम् ॥ १॥ स्वभुजार्ग लालवणिमैकवाञ्छ्या शयनीयतामुपगतं फणाभृतम् । अतसीसमद्युतिभिरङ्ग कान्तिभिः कलयन्तमिन्द्रमणिकुट्टिमोपमम् ॥२॥ स्मरवरिशेखरसुधाकरे या मकुटीभवन्तमिव भानुमण्डलम् । विहितं किरीटमरुणाश्मकन्दलै : विदधानमात्मशिरसा विभूषितम् ॥३॥ स्फुटदुत्पलोदरदलोपमाङ्गकस्फुरदंशुबृन्दमतिदायिकैशिकम् । श्रुतिचूलिका उपनिषत् । तैथिकाः शिष्याः ॥१॥ भुजावर्गलाविव, तयोर्लवणिमा लावण्यम् । इन्द्रमणि: नील- मणिः ॥२॥ " चन्द्रस्य परमेश्वर शिरोऽधिरोहणेन यत् महत्वं तत्प्राप्नवानीति ईष्यंया । अरुणाश्म पद्मरागमणिः ॥३॥ 58 श्रीशङ्कराभ्युदये मकुटारुणोपलमरीचिकातप- च्छुरणानिशस्फुटितवक्त्रपङ्कजम् ॥ ४॥ चलचूर्णकुन्तलमुधानिशीथिनीसुदृढोपगूढनिटिलार्धचन्द्रकम् । करुणांबुपूरित दृगब्धितीरभू- वनमालिकायतमनोज्ञचिल्लकम् ॥५॥ श्रवणावतंसितसितेतराम्बुजभ्रमदानशौण्डनिजलोचनाञ्चलम् । वदनारविन्दनिबिरीषसौरभ- ग्रहणोदयत्कुतुक्रदीर्घनाशिकम् ॥ ६॥ रसनाग्रजाग्रद रविन्दभूवधू- नवमौक्तिकाभरणदन्तपङ्कजम् । कलशाम्बुराशितनयोष्ठमाधुरी- गरिमैकसाक्षिरसनावल्लभम् ॥ ७॥ वदनारविन्दरमणीयतासुधाजलराशिविद्रुमलतायिताधरम् । कैशिकं केशसमूहः । मकुटगतस्य अरुणोपलस्य पद्मरागस्य यो मरीचिकातपः सूर्यरश्म्युत्थ: तापः तस्य दुरणेन मिश्रणेन स्फुटितं वक्त्र- पङ्कजं यस्य ॥४॥ मुधानिशीथिनी मिथ्या रातिः । चिल्लके भ्रुधौ ॥५॥ निबिरीषं निबिडं यत् वदनार विन्दसौरभं तद्ग्रहणाय उदय- तकुतुका दीर्घनासिका यस्य ॥६॥ अरविन्दभूवधूः सरस्वती । कलशांबु राशितनया लक्ष्मीः ॥७॥ पञ्चमः सर्गः । रमणीयगण्डतलकान्तिवीचिका विहरन्मणीमकरकुण्डलोज्ज्वलम् ॥८॥ वदनाम्बुजातबिसवल्लरीभवद्- गलमूललग्नमृगनाभिकर्दमम् । उपलालयन्तमनिशं भुजान्तरे कमलासहोदरतयैव कौस्तुभम् ॥ ९॥ जठरान्तरावसथ विष्टपत्रयो- प्रकटी क्रियापरवलित्रयाञ्चितम् । निजनाभिपङ्कजमधुव्रतावली- मतिदायिरोमलतिका मनोहरम् ॥ १०॥ विधिना जगत्त्रितयसृष्टये मृदं हरता कृतेन सुषिरेण हारिंगा । नवरोमराजिलतिकालवालभू- वलयेन नाभिकुहरेण शोभितम् ॥ ११॥ दधतं पराक्रमजितेर्मृगाधिवैः उपदीकृतामिव वलग्नपष्टिकाम् । जलदभ्रमोपगतविद्युदुज्ज्वल- त्तपनीयचेलविलसत्कटीतटम् ॥ १२ ॥ 59 रमणीयतैव सुधाब्धिः ॥ ८॥ वदनं पद्मं, पद्मवल्ली गलं, कर्दम: कस्तूरिका । कौस्तुभोऽपि अमृतमथनकाले लक्ष्म्या सहोत्पन्नः ॥९॥ उपदीकृतां उपायनीकृताम् । वलग्नं देहमध्यभागो यष्टिकेव ॥१२ 60 श्रीशङ्कराभ्युदये नवरत्नकोशगतनन्दकप्रभा- शतमन्युचापशतचित्रिताम्बरम् । रसमानसारसनसारसावली- लसमानमङ्गलनितम्ब सैकतम् ॥१३॥ जघनस्थलप्रतिहतिद्विधाकृतां इव रामणीयकतरङ्गिणीझरीम् । विदधानमूरुयुगलं सुराङ्गना- कृतिमातृकाफलकमब्जजन्मनः ॥१४॥ मुनिकुञ्जरस्य ववधेऽधिमानसं प्रमदाम्बुरा शिलहरीभरैश्विरम् । मुमुदे च लोचनचकोरपत्रिणा पुरतः स्फुरत्युरुतमोहरे विधौ ॥ १५ ॥ अथ माधवं शुभतमालकाननं महनीयगन्धबनमालिकोज्ज्वलम् । उपलभ्य कोकिलयुवेव कन्दलन्- मधुर स्वर : समजनिष्ट देशिकः ॥ १६ ॥ रसमानं शब्दायत् ॥ १३॥ ब्रह्मा माणव- भगवत ऊरुयुगलात् ऊवंशी जाता नरनारायणावतारे । तदेव ऊरुयुगलं अप्सरस्सृष्ट्यै मातृकाफलकत्वेन स्वीचकार । कानां अक्षररेखाशिक्षणार्थं पुरतः स्थापितं कृष्णवर्ण फलकं मातृकाफलकं, यत्र आचार्य अ आ इति खटिकया विलिख्य माणवकाय अक्षररेखालेखन- प्रकारं दर्शयति ॥१४॥ प्रमदः सन्तोषः । अधिमानसं मनसि मानससरसिं च । उरुतमोहरो विधुश्चन्द्र इव भगवान् भाति । यं दृष्ट्वा चकोरो लोचनरूपः मुमोद ॥१५॥ पञ्चमः सगः । श्रुतिमौलयोऽपि न विकुण्ठशक्तयः प्रभवन्ति यस्य महिमानुवर्णने । तदशेषनायकभवत्पदाम्बुजं कथय स्तवानि कथमल्पधीरहम् ॥१७॥ स्तुतिरुच्यते गुणगणस्य कीर्तनं घटते न तद्भवति निर्गुणे विभौ । असतस्तु केवलममुष्य कीर्तनं सरसायनं कथमिव स्तवोऽस्तु ते ॥१८॥ शरणागतं चरणपद्मयोरमुं परिपालयेश कृपयैव केवलम् । समवेक्ष्य किञ्चिदुपकारमात्मनः कुरुते महान्न खलु दीनरक्षणम् ॥ १९ ॥ यदि नाथ दीनविषया भवद्दया तदीप्सितं मम करस्थितं भवेत् । मदपेक्षया किमपरोऽस्ति दैन्यभुक् भवनत्रयेऽपि ननु वेत्ति तद्भवान् ॥२०॥ ॥२०॥ सुकृतं त्वया न कृतमित्युपेक्षसे यदि मां गतैव तव दीनबन्धुता । 61 विकुण्ठशक्तयः कुण्ठितशक्तयः ॥१७॥ गुणिनिष्ठगुणाभिधानं स्तवः । स निर्गुणे न घटते । असतः अविद्यमानस्य अमुष्य गुणगणस्य । सरसायनं, सरसं अयनं सारस्यस्य सन्तोषस्य अयनं वा ॥ १८॥ 62 श्रीशङ्कराभ्युदये अपि चैतदीश भवतो व्यतिक्रमो विपथान्पितंव ननु शास्ति बालकान् ॥ २१ ॥ त्रिजगज्जनिस्थितिविनाशकल्पनाधृतनैपुणीक नयनाञ्चलस्य ते । कियदस्ति मत्कभरणं कृपानिधे किमुपेक्षसेऽतिसुलभं महद्यशः ॥२२॥ अथवा भरो भवतु मत्करक्षणं करणीयमेव तदपि त्वया विभो । महतां परोपकृतये परिश्रमः कुरुते महोत्सव इवाधिक मुदम् ॥२३॥ अयि विश्वरक्षणविधानदीक्षिते त्वयि नाथनं मम तु बालचापलम् । जनके दिशत्यपि फलादिकं क्रमात् ननु रुद्यते मम ममेति बालकैः ॥ २४ ॥ बहुभिः किमत्र वचसां प्रपञ्चनैः अहमर्थये त्वदभयं सकृन्नतः । अविता तथाऽपि भविता न चेद्भवान् भवतो व्रतक्षतिरये न किं भवेत् ॥ २५ ॥ विपथानां सत्पथानानयनमेव, दीनोपेक्षणमेव तव व्यतिक्रमः मर्यादोल्लङ्घनरूपो दोषो भविता ॥२१॥ त्वत् त्वत्तः अभयं अर्थये । सकृन्नत: सकृदेव प्रपन्नायेति भवतो वचने प्रतिपत्त्या । व्रतक्षतिः- अभयं सर्वभूतेभ्यो ददाम्येतदुव्रतं ममेति गृहीतस्य व्रतस्य भङ्गः ॥२५॥ पश्चमः सर्गः । इति देवदेवनुतिपावनाननो यतिशेखरो यतमना इतस्ततः । अतिपावनानि परितस्तपोवना- न्यनघा नदीरभिययौ सरांसि च ॥२६॥ मधुरागमनम् जनता हि तत्र कृतमालिकापगाजलपानजातजडिमापनुत्तये । रसनाञ्चले मधुरसं क्षिपत्यसौ मधुरामवापस्थ तामनुत्तमम् ॥२७॥ कृतमालिकाकृतजलावगाहनः क्रमश: क्रिया: समुचिता: समाचरन् । शतशः प्रणम्य शशिखण्डमण्डनं मुखरोऽजनिष्ट मुनिशेखरो मुदा ॥ २८ ॥ भगवन्नवाङ्मनसगोचरानहो फणितुं भवद्गुणगणानशेषतः । चतुराननो न चतुराननोऽप्यतः प्रभवेयुरीश कथमीदृशा जनाः ॥ २९ ॥ जगदीश तावकगुणांशकीर्तना- दपि भाग्यभाग्भजति विश्ववन्द्यताम् । जलधेः कियन्त्यपि जलान्युपादधत् जलदो न कि व्रजति कीर्तनीयताम् ॥ ३०॥ मधु सो नारङ्गः अम्लं फलम् । जडिमानमपोहित अम्लोपयोगः ॥२७॥ 63 मधुररंसाधिकवस्तुसेवनेन जातं 64 श्रोशङ्कराभ्युवथै महिमाम्बुराशिलवमप्यजानतो मम जायते तव गुणस्तुतिस्पृहा । मनसः प्रवृत्तिमयि मन्मथद्विषन् नहि कोऽपि वारयितुमीश्वरो भवेत् ॥३१॥ अथवा गिरीश मम वाग्जगन्मयं न भवन्तमर्चयितुमक्षमा भवेत् । किमु मीलतापि विशिखः प्रचोदितो धरणीशरव्यमपराद्धयत्यये ॥३२॥ त्रिजगधुरन्धर कृपानिधे भवान् अवतादमुं जनमनन्यजीवितम् । इति कन्दलत्प्रसदबाष्पगद्गदं बहुधा निगद्य गिरिजालयं ययौ ॥ ३३ ॥ अथ तत्र सडकलकाधिरोहिणो द्रविडप्रबन्धपरदेवतात्मनः । कलशीकुमारकृतसूत्रवर्त्मना कवयन्व्यजेट कतिचित्कवीश्वरान् ॥३४॥ अधिहेमपुष्करिणि क्लृप्लभज्जनो भसितत्रिपुण्डुपरिदीपितालिकः । > यस्य भूमिरेत्र शव्यं शरलक्ष्यं स नेत्रे निमीत्त्रापि शरुं प्रचोदयितुं धरण रूपं श व्यं वेद्धु प्रचोदितः शरः वेद्धारं अपराधिनं स्वयं भूमौ पतन् शरः लक्ष्यं प्राप्नोत्येव ॥३२। प्रभवति । न करोति । O द्रविडप्रबन्धाः तमिल्भाषागताः ग्रन्था एव परदेवतेति आत्मा मनो येषां तान् संघफलकं शङ्गप्पत्रकै इति प्रसिद्धं, कलशीकुमार कृतसूत्रवत्मना अगस्त्यसूत्रानुसारेण तमिलभाषायां कवयम् ॥३४॥ पश्चमः सर्गः । अभिवन्द्य मोननयनामसावभूत् कवितात्मना परिणतात्मभक्तिकः ॥३५॥ कर्णोपान्तमणीकृतैन्दवकलानिर्यत्ननिर्यत्सुधा- कल्लोलावलिमेलन द्विगुणितप्रत्यग्र शैत्योदयः । कारुण्यामृतवाहिनीनवपरीवाहप्रियंभावुको मीनाक्ष्याः कुशलानि कोरकयताम्मुग्धः कटाक्षांकुर: ॥ ताटङ्कस्य परिस्फुरत्परिसरे तावृक्षरत्नत्विषो मार्ताण्डान्तिक खेलमानयमुनामाहात्म्यपाटच्चरः । शोणाश्माहितशाणकोणविलसन्मारास्त्रशङ्काकरो मीनाक्षि त्वदपाङ्ग एष भवतान्मोदाय खेदापहः ॥ ३७॥ प्रेमाधिक्य तद्विपाननरदप्रोत्कीर्णताटङ्ककप्रालेयधुतिमण्डले प्रकटयन्त्रायः कलङ्कश्रियम् व्यातन्वन्नपि चादरादभिसरदृशं वियामा भ्रमं मीनाक्ष्याः करुणाकटाक्षमहिमा मोहापहो जायताम् ॥ बन्दीकृत्य बलाद्यवीय रुचिभिर्लोलावतंसच्छलात् नीलाम्भोरुहमञ्जरीविनिहिता कर्णाप्रदुर्गावले । वल्गल्लोचनखञ्जरीटयुगलीवालाङ्कुर श्रीकरः पर्याप्तं नयनाञ्चलो दिशतु मे भाग्यं सुमीनाक्षि ते ॥ चिल्ली कैत वपुष्पसायकधनुर्वल्लीगुणः कामजिच्चेतः पेटकवतिधैर्यमणिसंमोषक्रियाकुश्विका । 65 " 9 मार्ताण्डस्य पुत्री यमुना। शोणाश्मना पद्मरागरत्नेनाहितः कृतः शाण: निकषोपल: तस्य कोणे विलसतः तीक्ष्णतासंपादनाय इतस्ततः " चलतः मारास्त्रस्य शंकाकरः ॥३७॥ 66 श्रीशङ्कराभ्युदये वक्त्राम्भोरुहरामणीयकसुधापाथोधिनारायणः कांक्षापूतिकृदस्तु मीननयने कान्तः कटाक्षस्तव ॥४०॥ हालाहालमरीचिकासहचरः कण्ठस्थले धूर्जटे: मध्ये फालतलं वृगन्तरुदयधूम्यांकुरश्रीकरः । मौलौ दिव्यधुनी मिलत्तरणिजाकल्लोलशङ्कावहो मुग्धे देवि दृगश्चलस्तव मुहुर्माखर्यमाविष्क्रियात् ॥४१॥ कार्ये हेतुगतो गुणस्समुद्गे दित्युच्चकैर्भाषिणः पश्यत्पादमताध्वजांघिकधियो मिथ्यागिरः कल्पयन् । नैत्याद्वैतवदावदोऽपि हृदि यो रागं विधत्ते विभोः सोऽयं देवि वृगञ्चलस्तव चिरं सौख्यानि देयान्मम ॥४२ मारच्छद्मवनेचर: श्रुतिपुटीरन्ध्रापदेशावटं सञ्छन्नं विरचय्य यच्छविमृषा तापिञ्छनव्यच्छदैः । पश्यत्फालमनोभिधानहरिणं चर्कत सद्यो वशे सौभाग्यं शफरीदृशो दिशतु मे सोऽयं कटाक्षांकुरः ॥४३॥ यच्छायाभररूपनीलपटिकामास्तीर्य गण्डस्थला- भोगाकारवणिक्पथे स्मरवपुस्सांयात्रिका विष्कृताः । द्योतन्ते परभागमेत्य हसितज्योत्स्नात्ममुक्तालयो मीनाक्षि त्वदपांग एष तनुतां मेदस्विनों मे मुदम् ॥ " कार्ये कारणगुण: समुदयेत् इति पश्यत्पादस्य अक्षपादस्य मतानु- यायिनः मताध्वजां धकधि: ! नैल्याद्वैतं वेवलं नैव्यं तद्वदावद : तत्प्रकटयिता हगंचल: प मेश्वर रागं रक्तिमानं अनुरागं नीलाद्रक्तमुत्पद्यते इति नैयायिकमतविरुवम् ॥ ४२ ॥ विधत्ते । पश्यत्फाल: निटिलाक्षः शंभुः ॥४३॥ पञ्चमः सर्गः । भंगो भृङ्गगणस्य येन नियतं भद्रासनाध्यासनं न्यवकारो नवनीलनीरजरुचां न्यायामृतं वैभवम् । शिक्षा मारशिलीमुखस्य शिरसि क्षीराभिषे कोत्सवः श्रीमान्कन्दलयत्वांग महिमा श्रेयांसि मीनाक्षि ते ॥ शौनासीरमणित्विषो गुणनिका तापिञ्छगुच्छच्छवेः पर्यायो मधुपनियां परिणतिर्वोप्सातसीरोचिषाम् । कालिन्द्याः पुनरुक्तिरुत्पलमहस्स्तोमस्य चाब्रेडनं दौर्गत्यं शफराक्षि मे तव दृशोर्वरीक्रियादञ्चलः ॥४६॥ नैराकांक्ष्यवदावदः श्रुतिपुढे नीलांबुजन्मश्रियः ताटके बलवैरिनीलमहसां नैराश्यमंकूरयन् । वैतथ्योक्तिषु कज्जलस्य च दृशोर्वाचालभावं वहन् सोऽयं मे शफरीदृशो वितरतात्सौख्यं कटाक्षांकुरः ॥ कस्तूरीद्रवकल्प्यमानमकरीचातुर्यमुल्लासयन् सातत्येन कपोलयोवरचयन् कर्णोत्पलालिश्रियम् । 67 नोलपटोपरि मुक्ता आस्तीर्य विक्रयणं वणिजां निसर्गसिद्धम् । मुक्तायाः कान्तिवर्धनं तेन जायते ॥४४॥ तेनैव मम भृङ्गगणस्य भङ्गः पराभव : येन कटाक्षमहिम्ना संपन्नः, भद्रासनाध्यासनं सिंहासनारोहणं संपन्नम् । येन नवनीलनीरजरुचां नीलोत्पलकान्तीनां न्यक्कारः तेनैव न्यायेन ज्ञानेन अमृतं अनश्वरं प्रभुत्वं संपन्नम् । येन मारास्त्रस्य शिक्षा कृता तेन मम क्षीराभिषे- कोत्सवः क्रियते ॥४५॥ 2 ▸ . श्रोत्रयोः नीलोशलस्य कटाक्षेणैव नीलशोभालहर्या लाभात् ताटङ्कयो: इन्द्रनीलमणेः नेत्रयोः कज्जलस्य चापेक्षा नोदेति ॥४७॥ 68 श्रीशङ्कराभ्युदये तन्वन्नीलसरोजदामसुषमानिणिद्रतां कैशिके श्रीमीनाक्षि शुभानि से कलयतान्मुग्धः कटाक्षांकुरः ॥ अनुदिनमिति देवीमर्चयन्वाक्प्रसूनैः अविरतसृम रोच्चैस्सौरभीसौलभीकैः । निगम शिखर चिन्ता निर्वृतो निर्थ्यलीकैः बहुदिनमिह वासं बह्वमंस्तार्यपादः ॥४९॥ इति दन्तिद्योतिदिवाप्रदोषाङ्क - सत्यमङ्गल रत्न खेट श्रीनिवासदीक्षिततनूजस्य कामाक्षीगर्भसम्भवस्य श्रीमदर्धनारीश्वरगुरुचरण सहजतालब्धविद्यावैशद्यस्य राजचूडामणिदीक्षितस्य कृतिषु शङ्कराभ्युदये काव्ये पञ्चमः सर्गः । षष्ठः सर्ग: दर्भशयनयात्रा शेखरोऽथ यमिनां सहानुगः सेतुदर्शनकुतूहलाद्व्रजन् । सिन्धुबन्धुतटसोम्नि राघवं दर्भपूलकृततल्पमस्तुत ॥ १ ॥ नित्यमेव निजमण्डलान्तरे बिभ्रति प्रणयतो विवस्वति । भूषयन्भुवननाथ तत्कुलं भूतलं दशरथादवातरः ॥ २॥ निर्दयं गुरुगिरा पुराजनौ निघ्नता स्वजननीमपि त्वया । न व्यधायि पुरुषादिनीवधे हन्त नाथ करुणेति नाद्भुतम् ॥३ वैरमंकुरयितुं किमम्बुधौ वीरराक्षसकृते न्यमज्जयः । मानवास्त्रमयप्राशसन्दितं ताटकातनयमेव मारिचम् ॥४॥ स्वीयवंशजनुना त्रिशंकुना सोयमध्वरमकारयत्पुरा । इत्युदोतनतिरीश याजयन कौशिकं कलयसे कृतज्ञताम् ॥५॥ ऊरुरुज्ज्वलगुणामजीजनन्मानिनों मघवमोहिनीं पुरा । इत्युदोर्ष्यमिव ते पदांबुजं तादृशीमजनयत्तलोदरीम् ॥ ६॥ सूर्य: स्वमण्डलमध्ये नित्यमेव मां बिभर्ति इति प्रणयेन तत्कुले अवतार ॥२॥ पुराजनौ परशुरामावतारे ॥३॥ वीरराक्षसकृते रावणादीनां वध्यानां कृते वैरं अंकुरयितुं मारीचं बीजभूतं जले न्यमज्जयः ॥४॥ पुरा ऊरु: उर्वशीमजनयत् नारायणावतारे इतीर्ण्यया इदानीं पदं अहल्यामजनयत् ॥६॥ ? श्रीशङ्कराभ्युदयें गौतमस्य गृहिणी विभो भवत्पादपङ्करुहतः पवित्रता । इत्युदश्वति न विस्मयो जगत्पावनी तदुदिता वियधुनी ॥७॥ धन्ववर्यमपि तन्बति त्वयि प्राप्तभंगमधुना घनप्रभे । सीतयोदितशुभांकुरश्रिया सद्य एव समभावि राघव ॥८॥ मैथिलीपदतलं मणीशिलां मङ्गलार्थमधिरोपयन् भवान् । पादरेणुमहिमानमामृशन्नस्तशङ्कमवदन्मनुं किमु ॥ ९॥ 70 इक्षुदण्डमिव खण्डयन्भवान् इन्दुखण्डमकुटस्य कार्मुकम् । तद्विनेयधनुषोऽधिरोपणात् कीर्तिमीश कियतीभवाप्स्यसि ॥१०॥ जानकी हरशरासकर्षणात् जानती निजकरग्रहोत्सवम् । तद्विनेयविशिखास रोपणे त्वामवेक्षततमां किमीर्ष्यया ॥११॥ पादपद्मभवा गंगा जगत्सर्वं पावयतीति अहल्यायाः पवित्रीकरणं न विस्मयावहम् ॥७॥ 9 धनप्रभो मेधाभ: धन्व मरुप्रदेशो धनुश्च । धनो यथा धन्व प्राप्तभंगं करोति तथा त्वमपि । धन्वप्रदेशे वृष्ट्या पुष्टे सीतया हल- मुखेन शुभांकुरश्रोः सद्यः संपद्यते, भग्नधनुषि त्वयि सीतया उदित- शुभांकुरया समभावि ॥८॥ सीतायाः पादतलं अश्मानमारोपयन् राघव: "अश्मानमारोह अश्मेव त्वं स्थिरा भव" इति मन्त्रमवदत् । मन्त्रमहिम्ना सीताया अश्मतापत्तौ किं करणीयमिति तस्य शङ्कव नोदिता, यतः स तदा स्वपादतलमहिमानं शिलाया अहल्यात्वापादकं आमृशन्नेव पादमश्म- न्यारोपयत् ॥९॥ शिवादधीतधनुर्वेदः परशुराम इति शिवशिष्यः ॥ १०॥ शिवधनुभंगात् अहं सीता प्राप्ता । वैष्णवधनुभंगात् काप्यन्या राममहिषी संपद्येत वेति ईर्ष्यया ॥११॥ षष्ट: सर्ग: । वत्स साधय बनाय मौनिनां इत्यधीश गुरुणा समीरितः । त्वं गतस्तदवनाय तज्जनैः कीर्त्यले गुरुनियोगकृत्कथम् ॥ १२॥ हन्त काकहतकस्य लोचनं विद्धमस्तु भवता तृणाग्रतः । मोचनेन पुनरस्य मोदवान् कौशिको वद कृतः कथं नु वा ॥ आसिकां धुरि दशाननस्वसुः नासिकामपि न सोढवानसि । आशरानपि खरान्सदूषणान् आतनोस्त्वमखरानदूषणान् ॥१४॥ 71 राम हेमहरिणार्भकग्रहे हा तवापि वितथः श्रमोऽभवत् । कांक्षितं भुवि लभेत को नु वा काननेषु मृगतृष्णया भ्रमन् ॥ राज्यसंपदि विसृज्य रागितां काननैककृतजीवनोऽपि सन् । राम हेममृगतृष्णया जनस्थानसोमनि कुतोऽकृथाः श्रमम् ॥१६॥ मुक्तमाशु कलयन्कबन्धमुन्मूलितार्कभवतापवैभवः । देव मारुतसहायवान्भवान् दक्षिणां दिशमगाधनोपमः ॥ १७ ॥ वनाय साधयेति पित्रोक्नं, त्वं तु अवनाय ( रक्षणाय ) गतः इति किमेतत् पितृवाक्यपालनम् ? ॥१२॥ काकहतकमोचनं वौशिकस्य काकशोरुलूकस्य न तोषाय । अत्र तु कौशिको मुदमाप । कौशिक इन्द्र: काकरूपजयन्तस्य पिता ॥१३॥ दशाननस्वसुः शूर्पणख्या: धुरि आसिकांपुरतः स्थिति न सोढवान्, न वा नासिकां सोढवान् । अत एव कर्तितवान् । खगन् खर- प्रभृतीन् दृषणादियुतान् न सोढवान् परं युद्धे मृतानां अपरावर्तिनां देवत्वा पादनेन अखरान् सौम्यान् अदूषणान् दूषणरहितान् आतनोः ॥१८॥ । पूर्व राज्यसंपदि जनमध्यवासे मंगदि च रागिता त्यक्ता । अधुना जनस्थानसीमनिवाङ्गीकृत: । हेममृगे तृष्णा अधुना इत्येतत्कुतः ? ॥ भवान् घनोपमः । घन: कबन्धं उदकं मुक्तं करोति, भवान् 92 श्रीशङ्कराभ्युदये वालिनं बलिनमप्युपेक्ष्य यद्वासराधिपसुतेऽकृथा दयाम् । मा वयाम्य मिहोपधि प्रभो भानुवंशजनिमेव तावकीम् ॥ १८ ॥ भाविसेतुकृतये पयोनिधौ राम पातयितुमेव रंहसा । दूरमग्रचरणेन दुन्दुभेः कायमायतमुदक्षिण द्भवान् ॥ १९ ॥ साधु वल्कमपि सप्तताममी बिभ्रतं किमु विडम्बयन्ति माम् । इत्युदीष्र्ण्य इव भूरुहो भवात् गाढमेवमभिनच्छरेण किम् ॥ निर्दलय्य नगमेककं पुरा हंसचारमकृथाः क्षितौ परम् । सप्त तान्सपदि पाटयन्यशोहंसचारमधुना जगत्त्रये ॥ २१ ॥ मारुतावृतमहेषुरन्ध्रभूमन्द्रकन्दलितसैकषट्स्वरा । त्वद्यशोभरमशेषशोभनं सप्तसाल्य निशमीश गायति ॥२२॥ ---------------------------- ‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒ कबन्धनामानं मुक्तमकरोत् । घन: सूर्योत्यतापमुन्मूलयति, भवान् सूर्यभवसुग्रीवतापं उदमूलधत् । स मारुतसहाय, भवान् वायुसुत हनुमत्सहाः ॥१७॥ उपधिर्व्याजः । बली वाली, न तथा सुग्रोव: । वंशपतिसूर्य- पक्षपाती सूर्यसुतं अपालयः ॥ साधु वल्क: वल्कलः, शोभना त्वक् च । सप्तता सजटत्वं सप्त- संख्याकत्वं च । तो जटा ॥२०॥ पूर्व एक नगं पर्वतं मन्दरं निर्दलथ्य स्थानान्निभिद्य हंसचारं गरुडनीतं अकृथाः अमृतमथनार्थे। अधुना तान्नगान् वृक्षान् सप्त तालान् पाटयन् यशोहंतचारमकृथाः । २१ । महेषुणा कृते रम्ध्रे मारुतेनावृते उत्पन्नाः सैकषट्स्वपः सप्तस्वराः यस्यां सा सप्तसाली सप्तानां सालानां समूहः ॥२२॥ षष्ठः सर्गः । वालरोमवंशंगाशरप्रभोर्वा लिनो लघु भुजान्तरान्तरे । बाणतो विघटिते त्वयि द्विषां गाढमाप घटिताररं पुरम् ॥ भ्रातृवत्सलतया तमध्यवन्पाकशासनिमुपेन्द्र वायसम् । वालिनं त्वमपराधवर्जितं निर्दयं निहतवान्कथं प्रभो ॥ २४ ॥ त्वद्भटेन पुरतोरणस्थिति तन्वताऽनिलतनूभुवा द्विधा । अक्षहीनमयमाशराग्रणीः स्वं व्यबुद्धयत सुते मृधे हृते ॥ ३५ ॥ राज्यदानविधिनाऽग्रजन्मनः प्रेमभाजनतया च तादृशा । ईश कीशसदसामधीशितुः निर्विशेषमकृथा विभीषणम् ॥ २६ ॥ ईदृशं शयनधाम नेतरत्सङ्कटेत युगसंक्षये मम । इत्यतस्स सरितां किमोशिता नाशितो न भवता शरचिषा ॥ सायकस्तव समुद्रचूषणे कौशलं किमपि कूलमुद्रुजम् । कुम्भसम्भवतपोधनान्तिके किन्नु राघव वसन्नुपाददे ॥२८॥ 73 पुरा वालिना आशरप्रभु: रावणः वालरोम्गा बद्ध: । गाढ़ घटेतारं दृढतया बद्धकवाटं रामद्भीतेः ॥२३॥' उपेन्द्र अदितेरिन्द्रानुजत्वेन जातः । भ्रातरि इन्द्रे वात्सल्येन जयन्तं काकमरक्ष इति चेत्, वालिनं कुतोऽवधीः सोऽपि इन्द्रसुतः किल ? ॥२४॥ , तोरणं बहिर्द्वारम् । द्विधा तन्वता, भिन्दता । पुरतः रणस्थिति रणेऽवस्थानं द्विधा बहुप्रकारं तन्वता, अक्षहीनं अक्षाख्यसुतहीनं नेत्रहीनं च ॥२५। कीश सदस। मधोशिता सुग्रीवः ॥२६॥ कूलमुद्रुजं कूलङ्कषं अतिशायितम् ॥२८॥ श्रीशङ्कराभ्युदये वायसेऽपि वनिताकृतागसि प्रागही विहितवान्दयामिति । अम्बुराशिरपराधवानपि त्वां समाश्रयत कि दयानिधे ॥२९॥ 74 त्वत्पादाब्जभजने विलम्बनात्तोय राशिमपराधिनं विधिः । सेतुदण्डमुदरे निपातयन् साधु पीडयति सारवं मुहुः ॥३०॥ चन्दनाचलतटीगुहागृहाच्चवितुं किल सुवेलदर्दुरम् । चञ्चलत्फणधरस्य चातुरीं अञ्चतोश तव सेतुरम्बुधौ ॥३१॥ सेतुरेष तव भोगिरापुरीसाल एव जलधौ समुच्छ्रितः । अन्यथा न पुनरस्य सर्वथा सङ्घटेत कपिशीर्षसङ्गतिः ॥ ३२ ॥ फेनपंक्तिसिचयाञ्चितो यशः केतुरोश किमु सेतुरेष ते । चारुपुष्करविसारिशीकरः चन्दनाद्रिकरिणः करो यथा ॥ ३३ ॥ चन्दनाचलम हेभपादभूसन्दिता सपदि सेतुशृङ्खला । कि त्रिकूटगिरिकूटदन्तिनो बन्धनाय भवता प्रसारिता ॥ ३४॥ सेतुरूपं दण्डं उदरे पातयन्, तदुत्थवेदनया सारवं साक्रन्दं पीडयति ॥३०॥ सुवेलो नामाचलो लंकास्थ: ॥३१॥ : साल: प्राकार: पत्तनदुर्गभूत: । तदुपरि कपिशीर्षाकृतियन्त्र- घटना आरोहच्छत्रुविध्वं नाय । अत्र क पयः कृतसेतवो विश्रान्ता: शेरते । शयानानां कवीनां शोर्षसंगतिः सेतोः सालोपरिघटित- कपिशीर्षयन्त्रात्मना उन्नीयते ॥३२॥ त्रिकूटारू गिरिकूटो दन्नी दुर्दान्तस्य गजस्य ग्रहणाय परिचितेन गजेन साकं पादयोः शृङ्खलया बन्धन क्रमेण विनयनं च हस्तिपैः क्रियते ॥ षष्ठः सर्गः । स्वीयपार्श्वचल फेनपक्षतिः सेतुबन्धतुहिनाचलात्मजः । त्वत्कटाक्षलवलाभलोभतस्तोयधेरुदयमाससाद किम् ॥३५॥ 75 योजनाः कति विलङ्गिताः पुरा योगिना हनुमतेति वेदितुम् । मर्कटैस्तव भटैनिपातितो मानदण्ड इव सेतुरेधते ॥३६ ॥ वीर तावकशरेण पाटितो वेधसा सुघटितो महीपट: । दन्तुरा यदिह दृश्यतेऽन्तरे कापि सेतुकपटेन रेखिका ॥३७॥ सागर: सगरवंशभूमिभृत्कीतिजैत्रपटहः किल प्रभो । मौखरीबधिरदिङ्मुखो भवत्सेतुकोणघटनेन जायते ॥ ३८ ॥ त्वत्कसेतुम णियष्टिकाध रस्तत्तथोमिति च गर्जितर्गृणन् । सागर: सगरमेदिनीविभोः किन्नु नर्तयति कीर्तिनर्तकीम् ॥ ३९ ॥ आशरानहह वीक्ष्य यान्पुरा याः किलेन्द्रसुदृशो ययुर्भयम् । ताभिरेव समिति स्वयं वृतांस्तन्तनीति सपदि स्म तान्भवान् ॥ तुहिनाचलात्मजो मैदाकः ॥३५॥ मह्यां आच्छादनवस्वभुत: समुद्रः शरेण पाटितः । विषयं पाटनेन दन्तुरता दृश्यते ॥३७॥ समुद्रः सागरवंशकी तिपटहः । स सेत्वाख्येन कोणेन दण्डेन हन्यते । मौखरी शब्दसन्तानः, तया दिङ्मुखा बधिरोकृताः ॥३८॥ सूत्रधार : सागर: सगराणां को तिर्नर्तकी, सूत्रकार हस्ते सेतुरूपा रत्नयष्टिः ॥ ३९ ॥ > " राक्षसेभ्यो भीताः सुरखप: अधुना समेण हतत्वात् देवभावं आपन्नांत व स्वयं वरयन्ति पतित्वेनेति चित्रम् ॥४०॥ श्रीशङ्करा भ्युदये अस्तरावणमदार्जुनहं भार्गवञ्च भगवन्निरस्यतः । कीर्तये न तव रक्षसां जयं कि हरिश्शशवधेन शस्यते ॥४१॥ 76 रामेश्वरागमनम् इत्थं ककुत्स्थ नृपतिस्थपतेर्यशांसि संकीर्तयन्नघहराणि स संयमीन्द्रः । सिन्धौ निमज्ज्य सहपवतवर्धनीकं श्री रामनाथमभिनन्द्य ततस्तमस्तौत् ॥ ४२ ॥ उद्दण्डै र्दशकण्ठबाहुपरिघैरुत्क्षिप्यमाणो हठात् कैलासो निजवामभागसभयोत्कंपाधिकोद्यत्क्रुधा । येनाङ्गुष्ठविपीडननुट ददोमे दोबसालेपनात् सद्यस्संघटितोऽजनिट स भवान्निःश्रेयसायास्तु नः ॥४३ मस्कतमणिमांसलांशुजाल: क्वचिदितरत्न भवान्प्रवालशोभः । युगपदुदितशर्वरीदिनश्रीः शिव कुरुषेऽधं इति श्रुति यथार्थम् ॥४४॥ रावणोऽर्जुनेन, कार्तवीर्येण जितः । अर्जुनश्च परशुरामेण हतः । परशुरामश्च भवता जितः । भवदग्रे रावणः शशः ॥४१॥ कैलासो रावणेन उत्क्षिप्तः शतशो भिन्नः । शिवेन स्वांगुष्ठाग्र- निपोडनेन रावणदो: पेषणं कृत्वा ततः प्रवहतो: मेदोवसयोः लेपेन कैलाससंघटना कृता ॥४३॥ शर्वरोश्रोः चन्द्रः, दिनश्री सूर्यः । श्रुतिर्जनश्रुतिः "द्विधा कृत्वा मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी " (मनु. 1-32 ) ॥४४॥ षष्ठः सर्गः । इति विहितनुतिमि रोशचूड़ा- शशिकिरणापसरत्तमः प्ररोहः । त्रिचतुरदिवसान्वसन्निहासौ मुनिपतिरुत्तरदिङ्मुखः प्रतस्थे ॥४५॥ इति दन्तिद्योतिदिवाप्रदोपाङ्क - सत्यमङ्गल रत्न खेट श्रीनिवासदीक्षिततनूजस्य कामाक्षीगर्भसम्भवस्य श्रीमदर्शनारीश्वरगुरुचरण सहजतालब्धविद्यावैशद्यस्य राजचूडामणिदोक्षितस्य कृतिषु शङ्कराभ्युदये काव्ये षष्ठः सर्गः । 77 78 श्रीशङ्कराभ्युदये सप्तमः सर्गः कावेरीतीरयात्रा अथाप्लुतः संप्रति नूपुरापगासदानदीमातृकशक्रनिष्कुटे । वृषाचले वीक्ष्य स सुन्दरं हरिं शनैरयं सह्यसुतामुदक्षत ॥१॥ समीरणालोलसरोजवाटिका नितान्त निष्यन्दिमरन्दनिर्झरैः । पदे पदे या परिवृद्धिमेयुषी प्रयाति लोकेषु मरुद्बुधाभिधा ॥२ सुधारसस्वादिमधिक्क्रियाकृतः स्वपाथसो वैवधिकैः सुधान्धसाम् । विलम्बिताः फलभारभंगुरै- विराजते या तटकेरभूरुहैः ॥ ३ ॥ सुधारसस्यास्य च भो सुधान्धसः समीक्ष्यतां तारतमीति या स्वयम् । उदस्त केर द्रुभुजोच्चकैदिश- त्यदः फलेष्वंबु गृहीतमात्मनः ॥४॥ प्रशस्त चिक्रोटकदष्टयत्तटप्ररूढ के हुफलाम्बुनिर्झरैः । प्रसपिणी सत्पथसीम्नि सारिणी सुरस्रवन्तीत्यभिमन्यते सुरैः ॥ वृषाचल: अळगर्मलै इति प्रसिद्धो मधुरान्तिकस्थो दिव्यदेशः । नूपुरापगा नूपुरगंगा । सह्यसुता कावेरी ॥१॥ वैवधिकाः जलवाहकाः । स्कन्धे उभयतो दण्डलंबिनौ जलपूर्णी कलशौ वहन् वैवधिकः ॥३॥ चिक्रोटक: श्वजात्यो वृक्षारोही मर्कटसरश: । ( भाषायां मरनाय् ) सत्पथं वियत् ॥४॥ सप्तमः सर्गः । 19 अजस्रसस्यास्थितरोचिषि क्षमामुधावधूमूर्धनि चोलसीमनि । चकास्ति या सारसधूलिधूसरा मनोज्ञसिन्दूरमयीव रेखिका ॥ श्रीरङ्गक्षेत्रगमनम् द्विधाभवन्त्याऽथ कवेरकन्यया ढोपगूढे धुरि रङ्गमन्दिरे । असौ निमज्जन्नधिचन्द्रपुष्करिण्यहीन्द्रतल्पं हरिमित्यवन्दत ॥ पितामहस्यापि पितामहो भवान् प्रभो न किञ्चिद्भवतोऽस्ति कारणम् । बिर्भात रूपाणि बहन्यपि स्वयं जनावनैषी जगदीश मायया ॥८॥ पुराणवाणीमपहृत्य वारिधौ पुरा मुरारे दनुजे तिरोहिते । कटाक्षवीक्षोपचितात्भूर्भवान् रमाक्षिलक्ष्मीमवहत् झषाकृतिः ॥९॥ परिभ्रमन्मन्दरघर्षणोदयत्किणोपमैबिन्दुभिरङ्किताकृतिः । सुधान्धसां स्वस्तिनिमित्तमादधे पयोधिकन्याप्रपदश्रियं भवान् ॥१०॥ पयोधिकन्याकुचपर्वतद्वयीभरं विसोढुं खुरलीपरिश्रमम् । पितामहस्य ब्रह्मणः पिता पद्मं तलिता ॥८॥ रमाक्षिलक्ष्मीमवहत् रमया सप्रेमदृष्टः ॥९॥ कमंपृष्ठजयिष्णुप्रपदान्त्रिता लक्ष्मीः ॥१०॥ 80 श्रीशङ्कराये विधाकामो नियतं विभो भवान् - बभार कि मन्दरमंभसांनिधौ ॥११॥ कठोरघोणाहतिमिद्विषत्तनुं दिशासु सुस्तामिव धुन्वतस्तव । रदग्रिलग्ना जलराशिपलवले क्षमा दधौ कदमलेश विभ्रमम् ॥ १२॥ भवन्नखांकूरमयूखकन्दले पुरा निमग्ने दबुजाधिपोरसि । व्यपेतसंव्यानदुकूलपल्लवा किल ह्रियाऽतिष्ठत नासुरेन्दिरा । पुरा वलारातिमुखामरावलोहिताय बल्याहरणे दृढव्रतः । पलाशदण्डप्रणयी वदुर्भवन् पदक्रमासक्तरुचिर्भवानभूत् ॥ १४॥ बलिस्त्रिलोकों भवते 'दिशन पि व्यधत्त मन्युं विधियोदितो यतः । फलप्रदेना खिलकर्मणां ततः प्रसह्य पातालतले कृतस्त्वया ॥१५॥ கமய! खुरलीपरिश्रमः वीरोचितव्यायामः ॥११॥ असुरलक्ष्मी: दनुजांधिपोरसि पाटिते व्यपेतोत्तरीया होणा नातिष्ठत - न संमुखेऽतिष्ठत न कमध्याशयं प्राकटयत् । प्रकाशनस्थेयाख्ययोश्चेत्यात्मनेपदम् । " ब्रह्मचारी देवानां कृते बलिमाहरति पलाशदण्डे प्रणयवान्, वेदसंहितायाः पदक्रमपेठे रुचिमांश्च । अयं वार्मनी ब्रह्मचारी, बले: तन्नामकासुरस्य आहरणे जये दृढव्रतः, पलाशानां मांसादानां राक्षसानां दण्डे यमने दृढव्रतः, पदवपेण विश्वाक्रमणे आंसक्तरुचिः ॥१४॥ सप्तमः सर्गः । वरूथिनीपादरजोभिरंबरं वितन्वतो भूमितलं दुरीश्वरान् । कुठारतेजोजलदान्प्रकल्पयन् व्यधत्त नक्षत्रपथं भुवं भवान् ॥ 81 क्षणेन शस्त्रक्षतमेदिनीभृति त्वयीश तादृग्भृगुवंशमौक्तिके । अभावि धाव्या व्यपराजहंसयाऽप्यहो विराजत्तरराजहंसया ॥ करोदरे यस्य निशांचरप्रभोः गिरीशशैलेन च कन्दुकायितम् । शिरांसि तस्यापि भवज्जयश्रियः प्रपेदिरे कन्दुकतां रणाङ्गणे ॥ प्ररूढवेलाटविशिञ्जिनीतते प्रभो पुरा वारिधिकूलकार्मुके । निहन्तुकामेन निशाचरप्रभुं नियोजितः सेतुशिलीमुखस्त्वया ॥ मुकुन्द हालाहलसादरोऽपि सन् भवानुपाश्रित्य तु कामपालताम् । निनाय धात्रों बत विप्रलम्बतां द्विषद्वधूनामपि कुन्तलावलिम् ॥ २०॥ आकाशं सेनापादरजोभिर्भुवं व्यतन्वन् दुरीश्वराः । भवांस्तु कुठार- तेजोरूपान् जलदान् प्रकल्पयन् वृष्ट्या शान्तरजस्कां भुवं नक्षत्रपथ आकाशं अकरोत् अर्थात् क्षत्राणां क्षत्रियाणां पन्या एवं न विद्यते यत्न तथा अकरोत् ॥१६॥ धात्री भूमि: व्यपराजहंसाऽपि निःक्षत्रियापि, विराजत्तरराजहंसा बभूव । राजहंसा मानससरस्था: हंसाः ॥१७॥ हाला मदिरा, हलः लाँगलं, तयोः सादरी बलराम:, हालाहले विषे सादयः शंभुः । कामपालो बलरामः । शंभुरपि कामपाल इति विरोधा नासः, बनराम: कुरुषु कोपेन हस्तिनापुरीं विदार्य गंगायां पातयितुं उदयुंक्तेति भागवते ॥ २०॥ 11 82 श्रीशङ्कराभ्युदये अ. रोकृतामीरकिशोरवत्सका कृतिर्भवान्वञ्चयितुं विरिश्वतम् । श्रुतिप्रतीतां चिदचित्स्वरूपतां स्फुटीकृतामोश पुरा व्यतन्तनीत् ॥ २१ ॥ अनादिनाप्यादधतेश सादितां त्वयाधिरूढस्त्वरित स्तुरङ्गमः । कलेरपाये कृतघासकौतुको- इध्यघाससंसक्तमना भविष्यति ॥ २२ ॥ इति स्तुतिप्रीणितरङ्गनायको भजन्क्रमात्पञ्चनदेश्वरादिकान् । समाश्रितो द्वारवतीमनुत्तरां स राजगोपालमवन्दत स्तुवन् ॥२३॥ अभूषयं सन्ततिमुष्णदीधितेः अहं पुरेत्याहितधीरधीश्वर । विभूषयत्यद्य विधोः कुलं भवान् दृशो: ववचित्रो ममता खलूचिता ॥२४॥ क्रमात्पुराजन्मयुगेऽपि किं प्रसूसुकेतुजासूदनवासनावशात् । अनीक्षमाणेन घृणादृशाऽप्यहो हता त्वया पूतनिकावधूप ॥ सादिता अश्वः रोहिता, घास: तृणं, अघानां आसे निरसने संसक्तमनाः कल्किरूपेण ॥ २ । द्वारवती दक्षिणद्वारकेति प्रसिद्धा मन्नारगुडी नगरी ॥२३॥ रामावतारे सूर्यवंसं कृष्णावतारे चन्द्रवंशं च विभूषयति । चन्द्रसूर्यो नेत्रे भगवतः । तयोः अन्यतरस्य ममता ममैव वम्शं व्यभूषयदित्यभिमानो माभूदिति ॥ २४ ॥ सप्तमः सर्गः । कराम्बुजातं करजाङ्‌ङ्कुशत्रुटत्तनुं तनोति स्म पुरा सुरहितम् । इतीर्ण्यया त्वच्चरणाम्बुजं ध्रुवं विलासघातैः शकटं व्यसुं व्यधात् ॥ २६ ॥ 83 पुरन्दरारातिशरात्मतां गताः पुरा बभूवुर्भुजगा इति ध्रुवम् । तदीयजातौ सरुषांबुबासो हतस्त्वयादि च हन्त कालियः ॥ उदृढतत्तादृशमन्दरोर्वराभृतो गभीरे पयसां निघौ तव । मुकुन्द गोवर्धनभूभृदुद्धृतिर्मनस्सु नः स्मेरयते न विस्मयम् ॥ तवेश धत्ते पठितैकपाठता तदुग्रबाणासनदण्ड खण्डनम् । करेणुरुन्मस्तक रेणुरप्यरे: करेऽणुरासीदिति नाभुताय नः ॥ द्विपेन्द्रसंरक्षणदीक्षितो भवान् द्विपेन्द्रमीश द्विषतोऽवधीत्कथम् । तवाथवा तादृशंसंहनाटिका- महानटस्येदमवैमि सांप्रतम् ॥ ३०॥ प्रसूः रेणुका परशुरामावतारे । सुकेतुजा ताटका रामावतारे । 'विबुध्य तां - बालकमारिकाग्रहं चराचरात्माऽऽस निमीलितेक्षणः' इति भागवते ॥२५॥ पूर्व करः हिरण्यकशिपु पवधीत् करजे तत्तनुं भिन्दन् । इदानीं चरणी विलासघातैः शकटासुरमिति विशेषः ॥२६॥ पुरा भुजगा: पुरन्दराराते: इन्द्रजितः शरा नागास्त्ररूपा अभवन् इति रुषा अद्य कालियो मदितः किम् ? ॥२७॥ कम ठरूपेण जले कुलपर्वतं मदरमुद्धृतवत: नियं भूमि- मधिष्ठाय गोवर्धनधरणे भार : ? ॥२८॥ उमः शिवः । शिवधनुर्भङ्ग इति पठितेकपाठता ॥२९॥ . 84 श्रीशङ्करा भ्युदये पदारविन्दैकपरागतः पुरा शिलामपि श्रीसदृण भवान्व्यधात् । करेण कुब्जां चिबुके पदा पदे स्पृशन्व्यधत्तेश तथेति कः स्मयः ॥३१॥ निहत्य निश्शेषमशेषराजकं मही द्विजेभ्यो नखदक्षिणीकृता । करग्रहार्हा न ममेति कि विभो तमुग्रसेनं धरणीपति व्यधाः ॥३२॥ पयोनिधिदेव भवान्तरद्वये भवत्प्रतापंज्वलनानुभाववित् । अदत्त वीतानुशयं प्रसादयन् पदं तव द्वारवतीपदास्पदम् ॥३३॥ पुरा व्यरौत्तं पुरुहूतजं मुधा सुहृत्त्वमुष्णाम्सुसुतेन शीलयन् । इतीस जातानुशयो ध्रुवं भवान् इहावतारे कृतवान् विपर्ययम् ॥ ३४॥ रसोत्तरङ्गां त्वयि रागसंपदं विधाय वंशीमधरे विवृण्वति । मनोभवो वल्लवपल्लवाधरा- मनस्स्वतानीदनुरागसम्पदम् ॥३५॥ भवान्तद्वये परशुराम-रामावतारकाले ॥३३॥ रामावतारे इन्द्रसूनुर्वाली शत्रुः सूर्यसुतः सुग्रीवः सुहृत् । कृष्णात्र- तारकाले इन्द्रसूनुरर्जुनः सुहृवं सूर्यसुतः कर्णः शत्रुः ॥३४॥ > सप्तमः सर्गः । 85 रसोत्तरं धन्व रणन्मधुव्रतं शरं सृणि पाशमपीश बिभ्रतम् । करद्वयकल्पितवेणुकं च यो भवन्तमन्तर्भजते स भाग्यभाक् ॥ चिदम्बरादिक्षेत्रगमनम् इति स्तुवन्नेत्य यतिश्चिदंबरं स नीलकण्ठं सदसि व्यलोकयत् । अवेक्ष्य यः स्वापजुषं हरिं घनं सलोकपालश्चतुरं प्रत्यति ॥ गलत्करोदश्चितकङ्कणोल्बणं निरीक्ष्य यं नृत्यति कालिका स्वयम् । तमद्भुतं वीक्ष्य स नीलकन्धरं ततस्तपस्वी गरुडापगामगात् ॥ ३८॥ फणाभृतं पावयितुं स्वरालयादुपैति यत्रोपतटं सुरापगा । निमज्ज्य तस्यां निखिलागमाकरं स कोट्टलंपाक्कमटीकताकरम् ॥३९॥ पवियत्रत्र स भैक्षचर्यया स्वयं भवस्वामिसुधीनिकेतनम् । पिनाकिनीं प्राप धुनों विवर्तते पिनाकिनी यत्र निमज्जतां तनुः ॥ श्रीविद्या राजगोपाल इति मन्त्रशास्त्रे ललिताया श्रीकृष्णस्य चैक- रूपतया ध्यानाय षट्करा देवता प्रसिद्धा, रसोत्तरं इक्षुवनु, रणन्मधुव्रतं पौष्पं शरं पाशमंकुशं चेति ललितासाधारणश्चतुभिर्भुजैः वेणुं कृष्णसाधा- रणाभ्यां भुजाभ्यां च दधती ॥३६ ॥ भवस्वामिसुधीनिकेतनम् भवस्वामी नाम भाष्यकर्ता, यस्मात् षष्ठोऽयं राजचूडामणिदीक्षितः कविः ॥ पूर्वजमहिम्नि महत्या श्रद्धया अस्थानपतितेनादरेण च, शङ्करभगबत्पादानां अस्य गृहे भिक्षाग्रहणं वर्णयति कविः । वस्तुतः भगवत्पादेभ्योऽहपर्वाचीनोऽयं भवस्वामी । अथवा बहवस्तद्वेश्याः भवस्वामिनासान: भवस्वामिनः पौत्र 2 86 श्रीशङ्कराभ्युदये अरुणाचल क्षेत्रगमनम् । विधाय तस्यां विधिवन्निमज्जनं शुचिर्ययौ शोणगिरोशितुः पुरीम् । महानलस्तंभवपुर्महेश्वरो व्युदास यस्यां विधुवेधसोमृगम् ॥४१॥ अगेन्द्रजा यत्र किलातिकोमलं कलेवराधं ददती कपालिने । तदीयमधं पुरुषं ततोऽग्रत् जडात्मजन्मा किनु वेत्ति सांप्रतम् ॥ पितृप्रसं वन्दितुमुद्यतो रुषा पृथग्भवद्वामकरो यदञ्जलिः । क्षणेन भूषाहिफणेन पूर्यते तमर्वनारीश्वरमभ्यवन्दत ॥४३॥ निरीक्षमाणः पथि सत्यमङ्गलं निवासयोग्यं मणिखेटयज्वनः । पयोनदों प्राप पयो यदंभसा विमिश्रितं वेत्तुमलं न सारसाः ॥ कुमारभवस्वामी, तत्पौत्रो भवस्वामिभट्टः । कदाचित् एतेषां पूर्वतनः कवन भवस्वामी शङ्करसमकालिक अवर्ततेति धिया कविना एवं वर्णितं स्यादित्यूह्यते । पिनाकिनी शिवाकारा तनुः विवर्तते ॥४७ । X सकपाली, तस्मै अतिकोमलं स्ववपुरधं ददौ । तदीयं अर्ध- मगृह्णात् । जडात्मनो हिमवतो जाता किल? सांप्रतं युक्तायुक्तं वेत्ति किमु ? ॥४२॥ शिवेन पितृप्रसूं सायंसन्ध्यां वन्दितुं अञ्जलिः उद्यतः । पार्वती न तां वन्दितुमुदत्सहत । रुषा स्वीयं वामकरं पृथगकरोत् । भूषाहिफणः वामकरस्थानीभवन् अञ्जलि पूर्णमातनोत् । सायंसन्ध्या पितृप्रसूरिति कोशः ॥४३॥ मणिखेटयज्वमः रत्नखेटश्रीनिवास दीक्षिता ख्यस्य कवेः पितु जनिष्यमाणस्य निवासाय योग्यम् ॥४४॥ सप्तमः सर्वः । सत्यव्रतक्षेत्रममनन् । इहावगाह्य प्रयतो यतिः शनैरियाय सत्यव्रतमिन्दिरास्पदम् । रमाधरास्वादरतोऽपि माधवो वपारसं यत्त्र स बहुमन्यत ॥ सरस्यथा मज्ज्य समाचरन्क्रियाः निरस्य मोहं निबिडं तपोनिधिः । स पुण्यकोटीनिलयं समाश्रयन् स पुण्यकोटीनिलयं स्वयप्यवेत् ॥ अवन्दतानिन्वित भक्तिरिन्दिरां ततो महादेव्यभिधां तपोधनः । हरिः स्ववक्षःस्थयदीक्षणान्नृणां अभीष्टसिद्धौ वरदत्वमश्नुते ॥ चतुर्भुजस्तंभचमत्कृते हरेरनर्धवक्षोहरिनीलमण्डपे । स्मरागमं कौस्तुभरत्नपीठिकास्थिरासिका व्याकुस्ते सदैव या ॥ विधाय डोलां वनम लिकां विभोर्भुजान्तरे पुंखिसूरिकंपिताम् । तदीयगन्धोत्तरलांलिझंक्रियाविलासमीतीवित तनोति या ॥ काञ्चीगमनम् स मस्करी काञ्चिपुरों गरीयसीमथ क्षितेरभुतकाञ्चिमैक्षत । असावशेषश्रुतिनीविरादरात् पुरारिराराधयते चिराय याम् ॥५०॥ नयी यदद्वैतरसालवल्लिका 87 ऽप्यनेकशाखोपचितात्मके उभे । सत्यव्रतक्षेत्रं यत्र वरदराजो विराजते । लघीयसी काची इति व्यवहारे ॥४५॥ 88 तयोरियत्येव भिदा यदादिमा स्फुरत्फला मूनि परा तु मूलतः ॥५१॥ कुतूहलेनाथ कुलाद्रिकन्यकाश्रीशङ्कराभ्युदये कुचाग्रसीमणमदेन मुद्रितम् । महोनिधि तत्र महा हिसङ्गतं विलोकयन्नित्थमसौ व्यजिज्ञपत् ॥५२॥ रसालमूले रचितासिकं तदा गवेषमाणा गहनागमाञ्चले । विभो लभन्ते यदमी विपश्चितो भवन्तमेषा तव वैभवोन्नतिः ॥५३॥ विमुञ्च चान्द्रया कलया वियन्नदीं विधेहि कम्पाधुनिमेव मूर्धनि । चिरेण ताभ्यामनपाहतं च यत् तवाङ्गजं तापसपाजहार सा ॥ ५४ ॥ गिरीश मारग्लपिताशये यदा कृतानुकम्पा समजायत त्वयि । तदादि कम्पेति नदीयमीर्यते न भीमसेनः किमु भीमनामकः ॥५५॥ त्रयी एकाम्रवृक्षं इति एतयोर्मध्ये त्रयो मूर्ध्नि उपनिषत्सु श्रुति शीर्ष भूतासु स्फुरत्फला एका म्रवृक्षस्याधः मूले तत्फलं राजते इति विशेषः ॥ ५१ ॥ गंगाधरो माभू: > कम्पाधरो भूयाः ॥ ५४॥ सप्तमः सर्गः । अगेन्द्रजाऽकम्पत कम्पया पुनः प्रभो भवानप्यलमभ्यकम्पत । अथापि सा भीरुरितीर्यते, भवान् पुनर्न, पुण्येन हि लभ्यते यशः ॥५६॥ भवन्तमेके पुरुषं पुरातनं परे त्रिलोकीतिलकं बभाषिरे । कुलाद्रिकन्याकुचकुम्भसङ्गते बिभषि भूम्ना पुलकाङ्कुरं कथम् ॥५७॥ सुरत्रबन्तीं सततावृतां स्वभू- शिरः स्रगङ्कुरमुशन्ति केचन । शशाङ्करेखामहमोश पाण्डुभू- शरासनाघातंकिणं तु साधये ॥५८ ॥ सुधांशुरेखोभयकोटिनिस्सरत्सुधाकणोदश्वितमौक्तिकावलिः । कुलाचलाधीशकुमारिकाकर- ग्रहोत्सवे ते शुभिकाऽभवत्किमु ॥ ५९॥ 89 कामाक्ष्यपि अनुकंपया अकम्पत, भवानपि तथा । परं सा भीरुः, भवान्परं न तथेति किमिदम् ? ॥५६॥ " तव शिरसि काचन रेखा । केचिदेनां गंगामाहुः केचित् ब्रह्म- शिरःकपालमिति अन्ये चन्द्ररेखां नैतत्साधु अर्जुनधनुःप्रहारज: किण इति तु सत्यं इत्यहं साधये ॥५८ ॥ 9 D शुभिका शुभाक्षत्रादिप्रक्षेपः ॥५९॥ 12 90 श्रीशङ्कराभ्युदये धनञ्जयोदग्रधनुर्लताहतिप्ररूढगाढव्रणशान्तये प्रभो । शिरस्यहो शुभ्रदुकूलपट्टिका सुरस्रवन्ती भवतोऽभवत्किमु ॥६० श्रीकामाक्ष्यालयप्रवेशः इति स्तुवन्निन्दुकलावतंसकं. पुरन्दरप्रष्ठ ... .... . 1 1 दिगोश्वरावलीपुरन्ध्रिकालंक्रियमाणमण्डपम् ॥६१॥ निरन्तरोपान्तसुवर्णगोपुरं चिरत्नचिन्तामणिजालनिर्मितम् । ॥ ॥६२॥ कुरङ्गनाभिद्रवकुङ्कुमच्छटापटी रकर्पूरसुवासिताङ्गणम् । मणीमयादर्शमनोज्ञझल्लिकाकनद्वितानोज्ज्वलकायमानकम् ॥ ६३ सर्वज्ञपीठारोहणम् तत्र ववचिद्रुचिरतप्तसुवर्णपीठे बौद्धार्हतादिबहुबाह्यमताध्वनीनान् । पश्यत्पदप्रमुख सूत्रकृतश्च विद्या- भद्रासनान्तिकगतानयमालुलोके ॥६४॥ तत्र स्थितान्निगमशेखरदेशिकेन्द्रो वादे विजित्य विविधानपि वावदूकान् । कामाक्ष्यालय प्रवेश ऊह्यते त्रुटितानन्तरवर्तना भागेन ॥६१ ॥ पश्यत्पद: अक्षपादः ॥६४॥ 1 इत; परं बहुषु स्थलेषु पादस्य अर्धस्य च त्रुटि: उपलभ्यते, बहु प्रयतमानेनापि असा असुपुरा । सप्तमः सर्गः । पाणौ सनन्दनमसाववलम्ब्य विद्या- भद्रासनं तदधिरोहितमुच्चचाल ॥६५॥ शृङ्गारसान्द्रकवितासरणावजित्वा मामङ्ग साहसमिदं सहसा न कुर्याः । इत्यूचिषीं विधिवधूं च विजित्य विद्याभद्रासनं विधिरिव स्त्रयमध्यरुक्षत् ॥६६॥ तथागतकथा मुधाइजनि तथैव तौतातिकं मतं विधुतमाकुलाकुलमभूत्कुलं विद्विषाम् । क्षणेन नयवद्विदा हृतमदाः कणादादयः समुल्लसति भंगुरेतरवचोंकुरे शङ्करे ॥६७॥ ततो दिविषदध्वनि ध्वनिनिवारिताशावली धुरन्धरसमीरितत्रिदशपाणिकोणाहतः । अरुन्ध हरिदन्तरं स्वरभरै भ्रमत्सिन्धुभिः घनाघनघनस्वनप्रथमबन्धुभिर्दुन्दुभिः ॥६८॥ कचभरनहनं पुलोमजायाः कतिचिदहान्यपगर्भकं यथा स्यात् । गुरुशिरसि तथा सुधाशनाः स्व स्तरुकुसुमान्यथ हर्बतोऽभ्यवर्षन् ॥६९ ॥ 91 कामतन्त्र विषयकभारती विजयः विश्वरूपा उभयभारत्या विजयरूपेण विश्वरूपजयानन्तरं निबद्धो माधवीयादिषु । जगद्गुरुरत्नमालायां अन । पुलोमजाया इन्द्रपत्न्याः केशालङ्कारणाय कञ्चन कालं पुष्पाणि नालभ्यन्त सर्वेषां स्वस्तरुकुसुमानां गुरुशिरसि प्रक्षित वात् ॥६९॥ : 92 श्रीशङ्कराभ्युदयें अद्वैत सिद्धान्त रहस्यमित्थं आवन्द्रतारार्कमनाकुलं सः । कृत्वा विकुर्वाणमता: प्रणम्य तुष्टाव देवीं निगमान्तनीवी ॥ कामाक्षीस्तुतिः करुणा रससारसुधावरुणालय विहरमाण वृक्कोणम् । अरुणाधरमवलंबे तरुणारुणकान्ति किमपि तारुण्यम् ॥७१ ॥ एणीदृशमैशानीं शोणीकृतदशदिशं शरीररुचा । वाणीमधुरिपुरभणीवेणीकुसुमांघ्रिनखरुचि वन्दे ॥७२॥ ईडामहे महेशीं चूडाविन्यासभूषितसुधांशुम् । व्रीडानुरागशबलकीडावीक्षावशंवदमहेशाम् ॥७३॥ लवलीलतामतल्लीनवलीलागन्धिललिततनुयष्टौ । भव लीलाभृति च मनो लवलीढजपारुणिम्नि तरुणिनि ॥ ह्रींकारपञ्जरशुकीमोङ्कारोधानकेलिकलकण्ठीम् । शृगारराजहाहाहंकारनिदानमाश्रये देवीम् ॥७५॥ (हरणोद्यत) कुसुमायुधश रहतधैर्यं कटाक्षमात्रेण । स्मरहरमपि संविदधत्स्फुरिताधरमस्तु वस्तु पुरः ॥७६ ॥ समयामीडे महतीं समया संवर्तमुल्लसन्तीं ताम् । समयानपेक्षमुत्पलसमया श्रेयो दृशैव वितरन्तीम् ॥७७ ॥ कम ककनत्तनुवल्लीजनकच्छायतुंगवक्षोजा । सनकसनन्दध्येया घनकबरी भातु शैलराजसुता ॥७८ ॥ विकुणिमना: विश्रान्त चेता हृष्टः ॥७०॥ समया संवर्त इति स्वाधिष्ठानचक्राधिपती शिवदंपती ॥७५॥ सप्तमः सर्गः । हस्तिमुखकठिनमस्तकशूलहरस्तनभरं जपाशोणम् । अस्ति कुलदैवतं नः स्वस्ति परेभ्यः सुधाशेभ्यः ॥७९॥ लवतामघं नयन्ती नवतामरसश्रिया दृशा भजताम् । भववामतनुर्मम सा भवतापविमुक्तये भवतात् ॥८०॥ हीमिति जपतां ददती सामितिरोभूतपौरुषं रूपम् । सा मितिविरहितमहिमा कामितसिद्धि करोतु कामाक्षी ॥८॥ संकुचदम्बुज समकुचमंकुशपाशेक्षुचापपरिमिलितम् । कुंकुमसमरुचि दैवतमंकुरितं मम कुतूहलं कुरुताम् ॥८२॥ कलया पुषितचकोरीकुलया कोरकित हेमकोटीरम् । निलयायितमुनिहृदयं कलयामः किमपि कटाक्षितारुण्यम् ॥ ललना शंभोखिजगत्कलनापालनतिरोधिकृतलीला । वलनानि दृशोरनिशं तुलनावराणि मयि भृशं तनुताम् ॥८४॥ ह्रींलेखार्थमबाधितमुल्लेखातीतसहजसौन्दर्यम् । तल्लेखा बनतं शशभृल्लेखालाञ्छितं महो महये ॥४५॥ 93 इत्थं पञ्चदशाक्षरीमनुगतैर्वणः कृतोपक्रमैः कामाक्षीं बहिराहितस्थितिमतीं पद्यैः समाराधयन् । नः अस्माकं कुलदैवतं जपाशोणं देवतमस्ति । सम्त्वम्ये देवताः सुधाशनेन तृप्यन्तः । न तैः किमपि कृत्यं नः । परेभ्य: तेभ्यः सुधाशेभ्यः स्वस्त्यस्तु ॥७९॥ पुषितं पुष्टं कुलपोषं चकोरीकुलं यया चान्द्रय / कलया ॥३॥ लेख्नैः सुरैरवनतम् ॥८५॥ " 94 श्रीशङ्करा भ्युदये कंपातीरनिवासिनी परचितं नन्तुं बिलाभ्यन्तरं गच्छन् द्वारि कृतासिकां भगवतीं तुष्टाव स श्यामलाम् ॥ श्यामलास्तुतिः ऐन्दव्या कलयाऽभिनन्द्यमकुट (मैशीं कलामाश्रये नीपानोकहमञ्जरीमधुझरीनीरन्ध्रसिक्तांगकाम् । विन्यस्य स्तनमण्डले मणिमयीं वीणां मनोहारिणीं श्रुत्यन्तान भिजातगीति (निवहं प्री) त्यालपन्तीं मुहुः ॥ ह्रींमुद्रापहाय वेगशिथिल हीबेरजा तिस्रजं (व्याध्याप्यवतं) सकान्परिगलत्काञ्च्या भजन्तीं स्वयम् । तामम्बामवलंबतां मम मनस्तादुक्कदंबाटवी- मध्ये दिव्यमणीगृहे शिवमये मञ्चे समासेदुषीम् ॥८८ ॥ श्रीमत्यंब कदंबकाननचरि क्षेमङ्करि प्राणिनां देवि त्वं मयि दीनतैकवसतौ दृष्टि निधेहि क्षणम् । कारुण्यामृतसिन्धुबन्धुविलु ठत्कल्लोलपारंपरी- संभेदाप्लवकेलिका गुणनिकासञ्जातकौतूहले ८९॥ ऐन्द्रं भूतल एव भो वितरतादैश्वर्यमुच्चैः शिवा कालोन्मीलितनीलनीरजवनीकान्तिच्छटाकोविदा । सद्य: फुल्ल जपाविपाटलतमां शार्टी समाबिभ्रती कीरं कञ्चन पाठयन्त्यनुदिनं कीर्ति पुरद्रोहिणः क्लीमित्यक्षरमेकदापि गदति क्रीडावशेनापि यः तस्य त्वं रसनाञ्चले कमलभूतन्वीं विधत्से शिवे । ॥ १० ॥ त्रितारिकाबाला त्र्यक्षरीमन्त्राक्षरोपक्रमैः श्लोकैः षड्भि: श्यामलां स्तौति ॥८७॥ सप्तमः सर्गः । पाथोराशिसुतामपाङ्गवलने पार्श्वे शतं योषितां पादाग्रे पृथिवीभुजोऽपि सकला पर्याय सेवावहान् ॥ ११ ॥ सौरभ्यस्फुरमाणबाणजयदे सौन्दर्यसंपन्निधे सौभाग्यकनिवासभूमिपरतासौलभ्यभूमावधे । वश्याशेषचराचरे कुचजितावश्यायभूमीधरे पश्यालीक (. .) यावश्यामले श्यामले ॥ ९२ ॥ इत्थं तामभिवन्द्य विश्वजननीमीशामथान्तविशन् कल्पानोकहकाननालिसुभगे कंपानदीरोधसि । कामाक्षीपदपद्मभूत शिखरं कश्चित्पुरः कांचन- क्षोणीभृत्कुलधर्वहं प्रमुमुदे पश्यन्सपद्यञ्जसा ॥ १३॥ इति दन्तिद्योतिदिवाप्रदोषाङ्क - अद्वैतविद्याचार्य - सर्वतन्त्रस्वतन्त्रलक्ष्मीभवस्वामिभट्टसुकृतपरिपाक - विश्वामित्रवंशमुक्ताफल- सत्यमङ्गलरत्न खेटश्रीनिवासदीक्षिततनयस्य कामाक्षीगर्भसम्भवस्य श्रीमदर्धनारीश्वरदीक्षित गुरुच रणसहजतालब्धविद्यावेशद्यस्य श्रीराज चूडामणिदोक्षितस्य कृतिषु शङ्कराभ्युदये काव्ये सप्तमः सर्गः । 95 96 श्रीशङ्कराभ्युदये अष्टम: सर्ग: इष्टामथ स योगीन्द्रश्चाष्टापदगिरिंस्थिताम् । तुष्टाशयः सावरणां तुष्टाव परदेवताम् ॥ १॥ मेघङ्करमणिच्छा सामेचकीकृतसत्पथः । मेरुरालनुलावरे मेबुरा मे दुरापदः ॥२॥ कूट वितयवास्तव्यकूटस्थपुरुषत्रयम् । कुरुतां मध्यमं शृङ्खं कुशलान्यस्य भूभृतः ॥३॥ काञ्चनक्षीररनीपा प्रकाश्वनाद्रुमामिह । काश्चन श्रीपुराभिख्यां कामाक्ष्याः कलये पुरीम् ॥ ४॥ उच्चैरायससालाढ्यं उच्चावचतरूच्चयम् । •उद्यानमस्य विधानां उद्योतयतु मर्म मे ॥५॥ कपिशाभं महाकालं कापिशायनलालसम् । कलयेऽत्र महाकालीकण्डाश्लेषसकौतुकम् ॥ ६॥ अष्ठापदं स्वर्ण, अष्टापद गिरिरुः ॥१॥ मेघङ्कर इन्द्रः । सत्पथं आकाशः ॥ २॥ कूटत्रितग्रम् - प्राच्यां नैर्ऋत्यां वायव्यां च दिशि कूटत्रयं मेरोः । प्राक्कूटे ब्रह्मपुरं, नैर्ऋतकूटे विष्णुपुरं, बायव्यकूटे रुद्रपुरं, कूड त्रयमध्ये मध्यमं शङ्खं श्रीपुरस्थानम् ॥३॥ श्रोपुरं यत्र वृक्षाः काञ्चनमेव क्षोरतया सवन्ति ॥४॥ अस्य पुरस्य साला: प्राकाराः पञ्चविंशतिः । प्रथमः साल: आयसः अयोमयः । तदन्तः विद्योद्यानम् ॥ ५॥ अत्र कापिशायनं मद्यं, तल्लालसो महाकालः महाकाल्या सह वर्तते ॥६॥ अष्टमः सर्गः । दीव्यद्विन्दुत्रिपश्चारद्विरष्टाष्टदलाम्बुजम् । दिश्यान्मे कालचक्राख्यं दीर्घमायुस्तदासनम् ॥७॥ वरायसाइभितः कांस्थवलयेन परिष्कृता । वरदास्तु वनभृङ्गवलया कल्पवाटिका ॥८॥ मधुमाधवलक्ष्मीभ्यां मानिनीभ्यामिहोल्लसन् । मारैकमन्त्री मे भूयान्मासः पुष्पाकरो मुदे ॥९॥ ताम्राकारेण सालेन तादृशीं प्रापितः श्रियम् ॥ तन्वीत सन्तनाक्रीडस्तन्वीं सन्तापसन्ततिम् ॥ १०॥ शुचिस्मिताभ्यां शुक्र श्रीशुचिश्रोभ्या मिहोज्ज्वलन् । शुभानि से निदाघर्तुः शुचमुन्मूलयत् क्रियात् ॥ ११॥ हारसीसापरिवृता हरिचन्दनवाटिका । हठादथ निदाघोत्थकोलाहलमपा क्रियात् ॥ १३ लक्ष्यो नाभसनाभस्यलक्ष्मीभ्यामिह सन्ततम् । लसयेन्मम साहित्यलालितीं जलदागमः ॥१३॥ 97 महाकालः कालचक्राख्यं आसनं अलंकरोति । तत् बिन्दु-त्रिकोण- पञ्चकोण - षोडशदलाष्टदलयुतम् ॥७॥ ततो वरायसा तीक्ष्णलोहेन, अभितः कांस्यवलयेन प्राकारेण परिवृता। तदन्तः कल्पवृक्षोद्यानम् ॥ ८॥ तन वसन्तर्तुः मधुश्रीमाधवश्रीशक्तिसहितः वर्तते ॥ ९ ॥ त: ताम्रनयस्तृतीयः सालः यस्यान्तः सन्तानवृक्षोद्यानम् सन्तान एव सन्तनः ॥१०॥ 13 98 श्रीशङ्कराभ्युदये महारकूटप्राकारमहनीयोपकण्ठभूः । मनोरथं पूरयतान्मम मन्दारवाटिका ॥१४॥ इन्धानमिह साकतमिषोर्जश्री कटाक्षितम् । ईशानपुरसेनान्यमीडे शरहतुं सदा ॥ १५॥ प्रथीयसा पश्चलोहप्राकारेण परिष्कृतः । पारिजातनुमा रामः पातकानि व्यपोहतु ॥१६॥ सहस्सहस्यलक्ष्मीभ्यां सरसं संलपनिह । स नो दिशतु सौभाग्यं समयो हिमिकामयः ॥ १७ ॥ कदम्बवाटिकापुष्पकदम्बास्थानमण्डपः । करोतु कलधौतेन कल्पितावरणो मुदम् ॥१८॥ तवासीनं तपोलक्ष्मीतपस्यश्रीतपः फलम् । तमत्तिकमृतुं चित्ते तनवै घनवैभवम् ॥ १९ ॥ ग्रीष्मर्तुः शुक्रश्रोशुचिश्रीशक्तिसहितः तत्र वर्तते ॥ हारसीसः वंगः । तन्मय: प्राकार : चतुर्थः । तदन्त: हरिचन्द - मोद्यानम् । यत्र वर्षर्तुः नभः श्रीनभस्यश्रीशक्तियुतः वर्तते ॥ १३ ॥ आरं पित्तलं, तन्मय: कूट: पञ्चमः । तदन्तर्मन्दारवाटिका । इषाश्री ऊर्जाश्रीशक्तिसहितः शरः यत्र वर्तते ॥ १५॥ ततः पञ्चलोहप्राकारः षष्ठ: पारिजातवाटिकायुतः । यत्र सहः श्रो सहस्य - श्रोशक्तियुतः हेमन्तर्तुः वर्तते ॥ १७॥ कलधौतं रजतं; तन्मयः प्रकार: सप्तमः; यदन्त कदम्बवाटिका, तपः श्रीनपस्पश्रेयुनः शिशिरऋ वर्तते ॥१९॥ अष्टमः सर्गः । क्लृप्तमब्जभुवा तस्यां लुप्तमोहं मणीगृहम् । तप्तचामीकरप्रायसप्तसालमुपास्महे ॥२०॥ भूरेखयास्मिन्वेदाशाभूपदिग्गजपङ्कजैः । भूत्यै पञ्चत्रिकोणाभ्यां भूषितं चक्रमस्तु नः ॥ २१॥ तत्र तारुण्यसर्वस्वतरङ्गिततलताम् । तापिञ्छकुसुमच्छायां तरुणेन्दुवतंसिनीम् ॥ २२ ॥ ताटङ्कनों सुधाफेनताराशोभेन कम्बुना । तन्त्रीनादरसास्वादतत्परां नौमि चित्कलाम् ॥ २३ ॥ स्फुरत्सुवर्णप्राकारं भूषितं सिद्धसंसदा । पूजयामः पुष्परागभूरुहप्रमदावनम् ॥ २४ ॥ पुष्यरागमणीसालपुंखितानन्दचारणा । पुण्या सरोजरागद्रुपुष्पवाटी पुनातु माम् ॥२५॥ पायाद्गोमेदकमयैः पादः परिशोभितम् । पद्मरागमणीसालपरीतं प्रमदावनम् ॥ २६॥ सहिता भैरवः कालसंकर्वणियुतादिकैः । साधयेदीहितं तत्र संवृता योगिनीशतैः ॥२७॥ 99 तदन्तः स्वर्णसालः अष्टमः, यत्र ब्रह्मानितं चिन्तामणिगृहम् ॥ भूपुर- चतुष्कोण- दशकोण - दशकोण - अष्टदल - पञ्चदकोण - त्रिकोण- युतं मन्त्रिणीचक्रमस्ति । यत्र श्यामला मन्त्रिणी आते ॥२३॥ तदन्तः पुष्परागवृक्षोद्यानं, सिद्धैः युतं, तदन्तः नवमः पुष्पराग- तदन्त: पद्मरागवृक्षोद्यानं, तदम्तः पद्मरागमणिसालो दशमः, यत्र कालसङ्कर्षणिकादिभैरवीयुता योगिन्यः भैरवाश्च देवीं आराधयन्ति ॥ साल:, 100 श्रीशङ्कराभ्युदये चारुगोमेदकमणीचमत्कृत निजावृतिः । चकास्तु लीलारण्यानी चञ्चलद्वमा हृदि ॥२८॥ वज्ञाभिधायिनीमल वाहिनीमधितस्तुषीम् । वन्देय वल्गु गन्धर्वैर्वज्रेशीमुपवीणिताम् ॥ २९ ॥ वृत्तहीरमणीसाला प्रावृषेण्यसणिद्रुमा । वरपन्नगदैतेयपालिता पुष्पवाटिका ॥३०॥ मध्ये वैडूर्यवरणं महानीलाश्मवेदिकाम् । मान्यामुपासनासिद्धर्मनवै मानिनीसखैः ॥३१॥ मुग्धेन्द्रनीलप्राकारा मुक्ताकारोपवाटिका । मुदे भवतु सुत्राममुखदेवोपलालिता ॥३२॥ रत्नगारुत्मताकारराजतालद्रुमवाटिका । राजन्मुक्तामणीसाला रञ्जयत्वञ्जसैव माम् ॥ ३३॥ कुटिलेन्दुसमच्छायक्रूरदंष्ट्राङ्कुरद्वयीम् । कुञ्चित भूसमाज्ञप्तकुलिशास्त्रमुखामराम् ॥३४॥ तदस्मुर्गोमेदकवृक्षोद्यानपरिवृतो गोमेदकमणिसाल एकादशः, तदन्तर्वज्ञमयोद्यानं, वज्राभिधा नदी, तत्तीरे वज्रेश्वरी गन्धर्व सेविता देवीमाराधयति ॥२९॥ . तदन्तर्वज्ञमणिसालः तदन्तर्वैडूर्यमणिमयोद्यानं, यत्र पन्नगा दैतेयाश्च देवीमाराधयन्ति ॥३०॥ तदन्तर्वैडूर्यमणिसाल त्रयोदशः तदन्तर्नीलमणिमयो नं, यत्र मानिनीसखा: मनुमान्धात्रादयः देवीं पूजयन्ति । तदन्त: लमणिसालातुर्दशः, तदन्तः मुक्तावाटी, यत्र दिक्पाला देवीमाराधयांत ॥ अष्टमः सर्गः । वराभये च खेटासी वल्गुं च मुसलं हलमु । वहन्तीं शङ्खचक्रे च वाराहीं पाटलाम्बराम् ॥ ३५ ॥ अश्वाननाह्वयां तत्व पालितोन्मत्तभैरवाम् । पाकारिमणिसच्छायां भावये दण्डनायिकाम् ॥३६॥ पत्ररागमणीसाला प्रवालपरिष्कृता । पद्मासननाथा नः पातु प्रसववाटिका ॥३७ ॥ पालितं पद्मनाभेन पाञ्चजन्यादिलक्ष्मणा । प्रवालक्लृप्तप्राकारं भावये रत्नमण्डपम् ॥३८॥ सभा माणिक्यसालाढया सहस्त्रस्तम्भमण्डिता । षत्रिंशत्तत्वनाथेन सनाथा शंभुनाऽवतात् ॥ ३९॥ नवरत्नोल्लसत्तालां नमाम्यमृतवाटिकाम् । नावा ताराsम्बिका नित्यं नव्यया यत्व खेलति ॥४०॥ आश्रयामो मनस्सालामानन्दमयवापिकाम् । अस्यामनघ तरणीमारूढां वारुणीमपि ॥४१॥ 101 तदन्तर्मुक्तामणिसाल: पञ्चदशः तदन्तर्मरकतवाटिका यत्र वाराही दण्डनाथा आस्ते ॥३६॥ 9 पत्र रागमणिर्मरकतं, तन्मय: षोडशः, तदन्तः प्रवालवाटिका, यत्र ब्रह्मा स्थितः, तदन्तः प्रवालप्राकारः सप्तदशः, तदन्तर्नवरत्नमण्टपं यत्र विष्णुः स्थितः, ततो माणिक्यस । लोऽष्टादशः, तदन्तः सहस्रस्तंभमण्डिता सभा, यत्र षट्त्रिंशत्तत्वनाथ : शिव आस्ते ॥३९॥ ' TE ततो नवरत्नप्राकार एकोनविंशः तदन्तः नृतवापी, यत्र तारा- देवी नौकया खेलति । तदन्तर्मनोमयः प्राकार: निशः तदन्तः आनन्द- वापी, यत्र नौकाधिरूढा वारुणी खेलति ॥४१॥ ? 102 श्रीशङ्कराभ्युदये विमर्शवापिकां ध्याये विबुद्धयावरणावृतिम् । विहरन्त्या मणिकया तरण्या कुरुकुल्यया ॥४२॥ आतपोद्गारिणीं कक्ष्यां अहंकारकृतावृतिम् । अधितिष्ठन्नजस्रं मां अव्यादानन्दभैरवः ॥४३॥ चन्द्रिकोद्गारिणीं कक्ष्यां चारुभानुमयावृतिम् । चमत्करोतु श्रेयांसि चन्द्रो नित्यं समाश्रयन् ॥४४॥ शिशिरांशुमहासालां शृङ्गाररसवापिकाम् । श्रितः शृङ्गारराजोऽसौ श्रियमङ्कुरितां क्रियात् ॥ ४५ ॥ मञ्जु ( मध्ये) शृङ्गारशालस्य महापद्माटवीमणेः । महीयमानः प्राग्भागे मङ्गलायास्तु पावकः ॥४६॥ तत्र पात्रात्मके भानौ तरङ्गितसुधारसे । तरीविहारिणीश्चान्द्रीः स्तवानि सकलाः कलाः ॥४७॥ भजे तत्रैव खेलन्तीः पञ्चब्रह्मात्मिकाः कलाः । प्रागादिषु दिशास्वर्घ्यभाजनं च प्रतिष्ठितम् ॥४८॥ तदन्त: बुद्धिसाल: एकत्रिंशः तदन्तविमर्शवापी, मणिकया माणिक्यमयया तरण्या कुरुकुल्या खेलति । ततोऽहङ्कारसाल: द्वाविंशः, तदावृता आतपोद्गारिणी कक्ष्या आनन्दभैरवाधिष्ठिता । ततः सूर्यसाल: नयोविंशः, तदन्तः चन्द्रिकोद्गारिणी कक्ष्या चन्द्राधिष्ठिता ॥४४॥ तदन्तः चन्द्रशालः चतुर्विंश, तदन्तः शृङ्गारवापिका मन्मथाधिष्ठिता । तदन्तः शृङ्गारसालः पञ्चविंशः तन्मध्ये महापद्माटवी, तस्याः प्राग्भागे देव्यर्ध्य पात्रधर: अग्नि: अर्ध्यपात्राकार : सूर्यः तदन्त अर्ध्यभूतः सुधारसः तत्र विहरस्त्यः , षोडश चन्द्रकलाः, ब्रह्मविष्णु- रुद्रेश्वरसदाशिवाख्यपश्चब्रह्मकलाः पञ्चाशत् एवं प्रागादिषु चतुर्षु दिक्षु प्रतिष्ठितं अर्ध्यभाजनचतुष्कं च ॥४८॥ > अष्टमः सर्गः । आश्रये सदने दिव्यं अनर्धमणिनिर्मितम् । तत्राग्निदिशि कुण्डस्थं हव्यवाहं च चिन्मयम् ॥४९॥ संश्रयेऽस्यान्य कोणेषु शश्वच्चक्रात्मकं रथम् । शताङ्गावपि वार्तालीसचिवेशान्यधिष्ठितौ ॥५०॥ त्रिजगत्पावनी तत्र त्रिपुरा रश्मिमालिका । तृणोतु मम पापौघतृण्यां सन्मन्त्ररूपिणी ॥५१॥ पञ्चमीश्यामलादेव्यौ भवने मणिनिर्मिते । प्राद्वारसोम्नि धाम्नोऽस्य भावये पाश्वतः स्थिते ॥५२ चित्रद्वारं चतुष्कोणं चिरत्नवचनात्मना । चिन्तामणिमयं धाम चिन्तयें चिन्तितार्थदम् ॥ ५३॥ जपाकुसुमदायादैर्जगन्मातुर्महोभरैः । जाज्वल्यमानेऽथैतस्मिश्चक्रं किमपि चिन्तये ॥५४॥ आदिमावरणे तस्य हसन्मुखसरोरुहाः । असच्चिन्तां मयूखाभाः हरन्तामणिमादयः ॥५५॥ 103 तस्यामुपरि धिष्ण्येषु तादृशेषु कृतासिकाः । तन्वन्तु भद्रं ब्राह्मचाद्याः तास्ता अष्टापि मातरः ॥५६ महापद्माटवीमध्ये चिन्तामणिगृहं, आग्नेय कोणे चिदग्निकुण्डस्थ- श्चिन्मयोऽग्निः देवीप्रभवस्थानं, नैऋतकोणे देव्याः चक्रराजरथः, वायव्ये मन्त्रिण्या: गेयचक्ररथ: ऐशाने वाराह्याः किरिचक्ररथः, (वार्ताली वाराही, सचिवेशानो मन्त्रिणोश्यामला) गृहं परितः रश्मि- मालाख्या: विविधा मन्त्ररूपिण्यो देवताः ॥५१॥ 9 गृहप्राद्वारे पार्श्वयोः पञ्चमं वाराही, श्यामला च चतुदरं गुड्म् । चिरत्नवचनानि वेदाः । गृहमध्ये श्रीचक्रम् ॥५४॥ चतुर्वेदमय104 श्रीशङ्करा भ्युदये मूर्तिमत्यस्ततोऽप्युच्चैः मूल्यापेतासु वेदिषु । मुद्रा: संकषिणीमुख्याः सदा सत्यं दिशन्तु नः ॥ ५७ ॥ त्रैलोक्यमोहनं चक्रं त्रिकं तदधितस्थुषी । वायतां प्रकटाख्याभित्रिपुरा शक्तिरावृता ॥५८ ॥ कनन्त्यः शक्तयश्चोर्ध्वं कनकासनपंक्तिषु । कामाकर्षणिका मुख्याः कामदोग्ध्रयो भवन्तु नः ॥ ५९॥ सर्वाशापूरकं चक्रं समया त्रिपुरेश्वरी । साक्षमाला वसति सा सन्नमद्गुप्तयोगिनी ॥६०॥ अवस्थितास्ततोऽप्युच्चैः हाटकासनपंक्तिषु । अर्चयामो वयं देवीरनङ्गकुसुमादिमाः ॥६१॥ सर्वसंक्षोभणे चक्रे सान्निध्यं समुपेयुषीः । सह त्रिपुरसुन्दर्या शक्तीर्गुप्ततराः स्तुमः ॥६२॥ अनङ्गकुसुमादीनां आसामूर्ध्वमवस्थिताः । भवन्तु सर्वसंक्षोभिण्यादिमाः शक्तयः सदा ॥६३॥ प्रथमावरणभूतं त्रैलोक्यमोहनचक्रं सीमफलक रूपभूपुरत्रय घटितम् । प्रथमं सोमफलकं अनिनादिसिद्धिभिरधिष्ठितं द्वितीयं ब्राह्मचादिमा- ॠष्टकयुत तृतं यं सङ्कषिण्या दिदशमुद्रादेवताभिरविष्ठितम् । तत्सीम- रेखावयं त्रैलोक्यमोह ख्यं त्रिपुरानाम्नी शक्तिः प्रकटख्याभिः योगि- नीभिरावृता अधितिष्ठति ॥५॥ > 9 तत ऊर्ध्वं सर्वाशकं चक्रं षोडशदलं यत्र कामाकर्षणिकाद्याः षोडशक्तः, त्रिपुरेशी, गुप्ताख्याः योगिन्यः ॥६०॥ अष्टमः सर्गः । सर्वसौभाग्यदे चक्रे सर्वदाहितसन्निधिम् । संश्रये संपकायाधिः स कं त्रिपुरवासिनीम् ॥६४॥ मस्तीजेतासां चलये रस्सवेदिषु । वरदाः सवसियावीः हि वयं कलाः ॥६५॥ शक्तिभिस्तु कुलोत्तीर्णसंज्ञाभि: त्रिपुराश्रियम् । सर्वार्थसाधके चक्रे समिन्धानामुपास्महे ॥६६॥ सर्वसाधाः कुलोत्तीर्णासदनस्योपरिस्थिताः । संपदं सकलाशाख्याः शक्तयः साधयन्तु नः ॥६७ ॥ कलयन्ती सर्वरक्षाकरचक्रान्तरे स्थितिम् । करोतु मे नगर्भेडया कामांस्त्रिपुरर्मालिनी ॥६८ ॥ सर्वज्ञासदनस्योर्ध्वं स्यन्वनेषु कृतासिकाः । शक्कयो वशिनीमुख्याः संसारात हरन्तु नः ॥६९॥ सार्धं चक्रे रहस्याभिः सर्वरोगहराभिधे । साधयेत् त्रिपुरासिद्धा सञ्चरन्ती शुभानि नः ॥७०॥ 105 तय ऊर्व सर्वसंक्षोभणं वर्क, अष्टदलं यत्र अतङ्गकुसुमाद्या: अष्टौ शक्तय अधिष्ठी त्रिपुरसुन्दरी गुप्तकराख्या योगिन्यः ॥६२॥ S तत ऊर्ध्वं सर्वसौभाग्यदायकं चक्रं चतुर्दशारं, तत्र सर्वसंक्षोभिण्याद्या: चतुर्दश शक्तयः, त्रिपुरवासिनी अधिष्ठात्रो, संप्रदायाख्या योगिन्यः ! ६४ । तत ऊर्ध्वं सर्वार्थसाधकं चक्रं, दशारं, तत्र सर्वसिद्धिप्रदाद्या दश कला :, कुलोत्तीर्णाख्या योगन्य: त्रिपुरा श्रीः तदधिष्ठात्री ॥६६॥ तत ऊर्ध्वं सर्वज्ञाविदशन क्तिलिरावृतं दशारं सर्वरक्षाकरं चक्रं यत्र निवअधिष्ठि ६८ ततः सर्वरोगहराभवंसक्रं अष्टुरं वशिन्यायष्टशक्तिवृतं, यदधितिष्ठति त्रिपुरा शिक्षा रहस्वारुपयोगनाभिः ॥२०॥ 106 श्रीशङ्कर भ्युदयें सम्यक् क्लृप्तनिषङ्ग स्थान् वन्देय शिवयोः शराज् । वरदाच ततोऽप्युच्चैवंलये समयेश्वरीः ॥७१॥ प्रतिष्ठितां सर्वसिद्धिप्रदचक्रान्तरे सदा । प्रणुमोऽतिरहस्याभिः परीतां त्रिपुराम्बिकाम् ॥७२॥ उपविष्टास्ततोऽप्युच्चैर्युगनाथा दिमागुरुन् । ऊरीकुर्मोऽथ नित्यास्तदूर्ध्व कामेश्वरीमुखाः ॥७३॥ कामेश्वर्या सना दूर्ध्वं कलितावसथा मुद्दा । कल्याणानि षडङ्गानां कलयन्त्वधिदेवताः ॥७४॥ आसां षडङ्ग देवीनां आलयस्योपरिस्थितम् । आसनं बिन्दुरूपं तदम्बायाः समुपास्महे ॥७५॥ अधिभिविघृतं धातृहरिरुद्रेश्वरात्मभिः । अहं सदाशिवाभिख्य फलकं मञ्चमाश्रये ॥७६॥ महानीलशिलानीलमायायवनिकावृते । मञ्चे तत्वारुणच्छायमहनीयवितःनके ॥७७॥ । अनर्धपट्टोपबर्हमच्छाच्छसिचयावृतम् हंसतूलाञ्चितं तल्पमाकल्पं कल्पतां मुदे ॥७८॥ तत्र मञ्चे समासीनं तरुणेन्दु शिखामणिम् । तापिञ्छपिञ्छ सच्छायतत्तादृशकायोच्चयम् ॥ ७९ ॥ ततः त्रिकोणात्मकं सर्वसद्धिप्रदं चक्रं यत्र शिवयोगयुधानि, 3 तदुपरि वलये कामेश्वर्याद्याः शक्तय: त्रिपुरांबा चक्रेश्वर, अतिरहस्याख्या योगिन्यश्च ॥७३॥ अष्टमः सर्गः । मकुटेन्डुकलाशेषपोहदायिललाटकम् । मुखान्जलोदलोलम्बसुग्णमदचित्रकम् ॥८॥ विजितानङ्गकोदण्डविभ्रम भ्रूविराजितम् । विश्वृङ्खलदयासिन्धुं पञ्चिका विहरदृशम् । ८.१ ॥ कनत्कनक चांपेयकान्तिलुण्टाकनासिकम् । कर्पूरवीटिकावदत्वं कपोलालोलकुण्डलम् ॥ ८२॥ मन्दस्मितमहः पुञ्ज मधुराधरपल्लवम् । मनोज्ञकुन्दकोशश्रीमलिम्लुवरदाङ्कुरम् ॥८३ ॥ पाञ्चजन्यमदाटोपपरिभावुककन्धरम् । प्रसवास्त्रे क्षुकोदण्डपाशाङ्कुशलसत्करम् ॥८४॥ भुजान्तरालसंलोलपृथुमुक्तामणिस्तरम् । पुष्पास्त्रमौर्वोललित्यपुष्ट शेमलताश्वतम् ॥ ८५ ॥ कुसुंभकुंकुमारक्त (पट्टवोल्लस) कटिम् । कूलङ्कषात्मसौभाग्यकुत्सितेभकरोरुकम् ॥८६॥ जातरूपमयादर्शजडिमावहजानुकम् । जयकाहलवैभवम् ॥८७॥ कूटस्थकमठेन्द्र श्रीकुट्टाकप्रपदद्वयम् । कुतुकानतलोकेशकोटी रविलुठत्पदम् ॥८८ ॥ 107 कन्दर्पकांक्षणीयो चैः कामनीयकशेवधिम् । कलयामि जपाशीगं कामेश्वरमहेश्वरम् ॥९॥ तदुपरि युगनाथाद्या गुरवः, पडङ्गदेवताः, त, परिबिन्दुः भगवा 108 श्रीशङ्कराभ्युदये तदङ्कतलपर्यत तटिवालोकदादावर रोजिका ॥९० । राजच्चिन्तादिनीष जितकोटी रमण्डिता । जीवञ्जीवकुलाव्याजजीवनप्रदशेखराः ॥९॥ लावण्यसुतिशङ्काईलवन्मुकाललन्तिकाय ललाटफलकात्मेन्दुलक्ष्मैणमदचित्रकाम् ॥ ९२॥ (कुंकुमच्छुरिकाशङ्का) करफाल विलोचनाम् । करुणारसमाध्वीककरांबतलान् ॥९३॥ निसर्ग हुद्यनासाग्र (निर्य) निबासकन्दलाम् । बन्धुजीवजपाबिम्बबन्धुराधरपल्लवाम् ॥९४॥ पक्वदाडिमबीजाभ ( दन्तपंक्तिद्वयोज्ज्वलाम् ।) । ९५॥ ... ( कर्पूरसान्द्र) ताम्बूल फलकोज्ज्वलाम् कटाक्षरश्मिशोणाशकीर्यम् ॥९६॥ कण्ठकम्बुगला ( लम्बित्वच्छपौक्तिकमालिकाम् । ) काश्मीरागरुपाटी रकस्तूरीच वतस्तनीम् ॥९७१ चबुलाभा (?) भ्रमाधान चञ्चुरोमलताञ्चिताम् । चूलीकृतालूर ॥९८॥ ......वालिप्तचारुकौशुंभशाटिकाम् । चऋशोभावहश्रोणीच चरकाचनकाञ्चिकाम् १९॥ k आसनं सर्वानन्दमयचक्रं पश्चह्मासनं मायायदनिका, अर वितानं, हंसतुलिकातल्पः मन्त्रीपरिस्ःि कामेश्वरः ॥८९ । डण्डवैदग्थ्य.. सुमायुधतूणीर विकल्पानल्पजंधिकाम् ॥१०० ॥ ... परीकृत डुलिश्रेणीदुर्मदप्रपदद्वयीम् । कुमारहितमाणिक्यतुला कोटिलसत्पदाम् ॥१०१॥ विचित्रपदक्रमाम् । आब्रह्मास्तम्बजननीमानन्दाद्वैतचिन्मयीम् ॥१०२॥ वेधोविधुमुखीलक्ष्मीविधूतसितचामराम् । ... ... अमः सर्गः । ... पतत्पतद्ग्रहव्यग्रभानुजान्तःपुरीजनाम् । पादुकाधारणायत्तप्रचेतःप्रमदामयीम् ॥ १०४ ॥ वारणाम् । ... ... ... ... ... ... ... तत्तदाज्ञाकरान्याशाधवपाणिगृहीतिकाम् ॥१०५॥ रसनापुष्कलायुष्यरमणीयशिलीमुखाम् । पाशांकुशपरिस्फूर्जत्पाणिपल्लवतल्लजाम् ॥१०६॥ मन्दारमालासन्दोहकुङ्कुमक्षोदपाटलम् । कुलदैवतमन्तस्तत्कुर्महे शर्महेतवे ॥१०७॥ ... ॥१०३॥ ... ... ... मधुरिमधुरीणचा पवित्र (?) करे भगवति देवि प्रसीद परे विद्ये ॥१०९॥ शंपाकचग्रहणलम्पटकान्तिपूरे कंपानदीतटवने विहितानुकम्पा । ॥१०८ ॥ श्री आनन्दकन्दालतरङ्गितमन्तरङ्गम् ॥११०॥ इत्थङ्कारमभङगुराङ्गजम हायन्त्रावकृष्ट्यानम- त्या. विनिवहोज्ज्वला ब्धिविहृतीलोलैंगिरां गुम्फनैः । कम्पातीर निवासिनीमनुदिनं कामेश्वरीम चयन ब्रह्मानन्दमविन्क्त त्रिजगतां क्षेमङ्करक्शङ्करः ॥ १११॥ 410 ... इति दन्तिद्योतिदिवाप्रदोषाच-अद्वैतविद्यावार्थसर्वतम्बस्वतन्त्रलक्ष्मीभवस्वामिभद्सुकृतपरिपाक - विश्वामित्रवंशमुक्ताफल सत्यमङ्गलरत्न खेट श्रीनिवासदीक्षित नयस्य कामाक्षीगर्भसम्भवस्य श्रीमदर्धनारीश्वरदीक्षितगुरुवरण सहजतालव्धविद्यावेशद्यस्य श्रीराज चूडामणिदीक्षितस्य कृतिषु शङ्कराभ्युदये काव्ये अष्टमः सर्गः । तदङ्कगता कामेश्वरी ॥११०॥ कम्पाती स्वासिनी कामेश्वरीमर्चयन् त्रिजगतां क्षेमङ्करः शङ्करो ब्रह्मानन्दनविन्दत । "कामक्ष्या निकटे जातु सन्निविश्य जगद्गुरुः । देहिभिदुर्भजं भेजे देहं तत्रैव सन्त्यजन् । अखण्ड ज्योतिरानन्दनक्षरं परमं पदम् । स एव शङ्कराचार्यो गुरुर्मुक्तिपद: सताम् । अद्यापि मूर्तमिवतव तिष्ठति ॥" इति संत्रदायविदामनुस्मरणम् । · परित्यज्य मौनं वटाधः स्थितिश्च प्रयान्भारतस्य प्रदेशात्प्रदेशम् । मधुम्यन्दिवाचा नयन्धमार्गे गुरुः शङ्करो नस्त्रिरूपोस्ति काञ्चयम् ॥ शङ्कपश्युदयं काव्यं चूडामणिमखीरितम् । अर्प्यते कामकोटीशदृस्पथेऽद्य सटिप्पणम् ॥ अनुवश्थः श्रीरामभद्रयज्वनः कृतेः पतञ्ज लिविजयात् यथामूलं उद्धृतं श्रीशङ्करभगवत्पादचरितम् गोविन्दभगवत्पादाचार्या: गार्हस्थ्ये चन्द्रशर्मनाम्ना प्रसिद्धाः ( पृ ११ ) । तेषां चरितं वर्णयन्कविः प्रस्तौति सप्तमे सर्गेतनयानपाठयदयं पतञ्जलेः महतीं कृति मतिमतां गणैः सह ॥ १४ पठिते पतञ्जलिनिबन्धने द्विजः कृतदारकर्मणि च पुत्रमण्डले । शुकशिष्यगौडपदगुर्वनु महात् चरमाश्रमं सुरनदीं च शिश्रिये ॥ ३१ ॥ चतुराननेन विधिनेव मुश्चता समधिष्ठितं जगदशेषमात्मनि । भजताऽमुना परमहंस से व्यतां अथ विश्वनाथपुरमाददे श्रियम् ॥३२॥ स तु विश्वनाथपुरमावसन्यतिः समुपेयुषां सदसती हि वस्तुनी । वचनेन चञ्चुकलनेन विष्टपे विविवेच हंस इव दुग्धपाथसी ॥६४॥ 112 पतहालिबिजमाव उपसंहृतेन विषयानुधावनात् परमेस्व एव परिनिष्ठितेन च । समवृत्तिना हृदयेन पप्रथे सुखदुःखयोः सखिसपत्नयोरपि ॥६५॥ स्वप्नप्रपञ्च सदृशं जगत्त्रयं विदुषा मृषा मरुमरीचिवारिव । अमुना स्वरूपमवशेषितं धिया परमात्मबोधसुखमावलक्षणम् ॥६६॥ सुरसिन्धुरोधसि गिरीशसन्निर्धावतिनीय तत्र कियतोऽप्यनेहसः । विरहास हैरनुगतस्स योगिभिः परिपावनं बदरिकाश्रमं ययौ ॥ ६७ ॥ ब्रह्माद्वैतं पश्यताऽशेषविश्वं गोविन्दस्वामीति गीतेन लोके । पुण्यक्षेत्रे तत्र नारायणीये कांश्चित्कालानाश्रमे तेन तस्थे ॥६८॥ अष्टमे सर्गे-शङ्करभगवत्पादचरितम् अत्रान्तरे सरिति नऋगृहीतपादः संन्यस्तशङ्करमुनिर्दुरिताद्विमुक्तः । गोविन्ददेशिक पदाम्बुजदर्शनाय बद्धादरो बदरिकाश्रममन्वियाय ॥ १७ ॥ शैलान्वनानि सरितो नगराणि पल्लीः ग्रामाञ्जनानपि पशून्पथि सोऽथ पश्यन् । अनुबन्ध; नन्वेंन्द्रजालिक इवभुत मिन्द्रजालं ब्रह्म॑नमेज परिदर्शयतीति मेने ॥ दण्डान्वितेन धृतरागनवाम्बरेण काशीपुरं कलितविमनीलकण्ठम् तेन प्रविष्टमजनिष्ट दिनावसाने चण्डत्विषा च शिखरं चरमाचलर ॥१९॥ तां तारकाहितरुचि तमसो निहन्त्रों तापस्य चोज्ज्वलमृगाङ्ककरां विरणमाम् । काश्यामसेवत तदा किल शङ्कराख्यो लिङ्गे शिवस्य महिते मनसा च मूर्तिम् ॥३३॥ आत्मानमेकमखिलेष्वयमद्वितीयं पश्यन्नपि व्यवहरन्निव लोकरीत्या । तुष्टाव नूतनसुधातुलितैर्वचोभिः एवं प्रयत्नकरुणाकरमिन्दुमौलि ॥३४॥ इत्थं कृतस्तुतिरबाप्य ततः प्रसन्नात् वय्यन्तसूत्वमृदुभाष्यनिबन्धशक्तिम् । काशीपुररान्निरगमत्स विकासभाजः प्रातः सरोजमुकुलादिव चञ्चरीकः ॥ ४५ ॥ अद्वैतदर्शनविदां भुवि सार्वभौमो यात्येष इत्युडुपबंबसितातपत्रम् । अस्ताचले वहति चारु पुरः प्रकाश- व्याजेन चामरतधादिव दिमघो ! ४६॥ बिम्बे भजत्युदयमम्बुजबान्धवस्य दध्यौ तदा पुरुषमेक ऋषिः स f यम् 1 113 114 पतञ्जलिविजयात् आह श्रुतिर्भगवती किल यं हिरण्य- श्मश्रुं हिरण्यकत्रमा प्रसुवर्णम् ॥ ५९॥ तेनान्ववत महता वयचिदु शालि शीतं क्वचित्क्वचिदृजु ६० विदप्यरालम् । उत्कण्टकं क्वचिदकण्टकवत्पचिच्च तद्वत्म मूर्खजन चसभिवाव्यवस्थम् ॥६०॥ आत्मानम क्रियमपव्यथमोक्षितानि पान्थैः समं स चलितः पथि लोकरीत्या । आदत्फलानि मधुराण्यपिबत्पयांसि प्रायादुपाविशदशेत तथोदतिष्ठत् ॥६१ ॥ तेन व्यनीयत तदा पदवी दवीयस्यासादितं बदरिकाश्रमभूतलं च । शंसन्ति यत्र वसति तरवो मुनीनां शाखाभिरुज्ज्वलमृगाजिन वल्कलाभिः ॥६२ ॥ आदेशमेकमनुयोक्तुमयं व्यवस्थन् प्रादेशमात्र विवरप्रतिहारभाजम् । तत्र स्थितेन कथितां यमिनां गणेन गोविन्ददेशिकगृहां कुतुकी ददर्श ॥६३॥ तस्य प्रपन्नपरितोषदुही गुहायाः स त्रिः प्रदक्षिणपरिक्रम: विधाय । द्वारं प्रति प्रणिपतञ्जगतां रोगं तुशव तुहृदयस्तमपास्सशोकम् (चेत्यम्) ॥६४॥ अनुबन्ध: पर्यतां भजति यः पतगेन्द्रकेतोः पादाङ्गदत्वमथवा परमेश्वरस्य । तस्यैव मौलिधृतसार्णवशलभूमेः शेषस्य विग्रहविशेषमहं भजे त्वाम् ॥६५॥ दृष्ट्वा ( पुरा) पुर्नानजसहत्रमुखीमभैषुः अन्तेवसन्त इति तामपहाय भूयः । एकानेन भवि यस्त्ववतीर्य शिष्यान् अन्वग्रहीन्ननु स एव पतञ्जलिस्त्वम् ॥६६॥ तस्मिन्निति स्तुवति कस्त्वमिति ब्रुवन्तं दिश्या समाधिपथरुद्ध ( रूढि) विसृट चित्तम् । गोविन्ददेशिकमुवाच तदा सवाग्भिः ( वाग्मी) प्राचीनपुण्यजनितात्मविबोधजिह्नः ॥६७ ॥ स्वामिन्नहं न पृथिवी न जलं न तेजो न स्पर्शनो न गगनं न च तद्गुणा वा । नापीन्द्रियाण्यपि तु विद्धि ततो विशिष्टो यः केवलोऽस्ति परमः स शिवोऽहमस्मि ॥६८॥ आकर्ण्य शङ्करमुनेर्वचनं तदित्थं अद्वैतदर्शनसमुत्थमुपगत्तहर्षः । स प्राह शंकर स शंकर एवं साक्षात् जातस्त्वमित्यहमवैमि समाधिनेति ॥ ६९ ॥ तस्याथ दर्शितवतश्चरणौ गुहायां द्वारेऽभ्यपूजयदुपेत्य स शङ्करायः । 115 116 पतञ्जलि विजयात् अनुबन्धः आचार इत्युपदिदेश स तत्त्वमस्मै गोविन्दलापसगुरुगुरवे यतीनाम् ॥ ७० ॥ गोविन्ददेशिकसुपास्य चिराय तस्मित् स्थिते निजम हिनि विदेहमुत्त्या । अद्वैतभाष्यमुपकल्प्य दिशो विजित्य कापुरे स्थितिमाप स शङ्करायः ॥७१॥ Ganeshnagr, Phone: 2659 Sarma's Sanatorium Press, Pudukkottai-622001