<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<pb n="2" />
<p>शारदा-गौरव-ग्रन्थमाला ...८
श्रीशिवराज्योदयम्
महाकविः
डॉ. श्रीधर भास्कर वर्णेकर
M.A.,D.Lit.
मूल्यं ४० रूप्यकाः</p>
<pb n="3" />
<p>प्रकाशक:
पं. वसन्त अनन्त गाडगीळ
शारदा-गौरव-ग्रन्थमाला
४२५ सदाशिवपेठ, पुण्यपत्तनम् ३०
प्रथमावृत्तिः
श्रीशिवजयन्त्युत्सवः
शिवशक: २९८, ख्रि. १९७२
सर्वाधिकाराः प्रकाशकायत्ताः
मुद्रकः
पं. वसन्त अनन्त गाडगीळ
श्रीशारदा-मुद्रण-सिद्धि-मन्दिरम्
४२५ सदाशिवपेठ, पुण्यपत्तनम् ३०
यशवन्त-मुद्रणालयः
१८३५, सदाशिवपेठ, पुण्यपत्तनम् ३०</p>
<pb n="4" />
<lg>
  <l>शिवराजेन वीरेण</l>
  <l>मनोवाक्कायकर्मभिः ।</l>
  <l>अर्चितायार्पये भक्त्या</l>
  <l>देवाय जनतात्मने ॥</l>
</lg>
<pb n="5" />
<pb n="6" />
<p>प्राक्कथनम्
कृती भविष्यति वर्णेकरसूरिः ।
प्रतिबिम्बित-मनुज-सुलभ-गुणदोषजाते पञ्चषसहस्र वर्षावधिमात्र-
स्पष्टरूपरेखे मनुष्यजातीतिहासक्रमे विरलानुपाता एवाविर्भावा महापुरु-
षाणाम् । तत्र केचन धर्मानुशासन-शोधित-स्वान्ताः केचिद् विज्ञानसिद्धयुद्-
भासित-दिगन्ताः केस्विच्च स्वपराक्रमनिरस्त-पारतन्त्र्यध्वान्ताः समवृतन् ।
चरमकोटिसमाविष्टास्तत्र कराङगुलिमेयसंख्या एव ते येषु समन्वय उप-
लभ्यो गुणविशेषाणां वीरता-साधुता-चातुरी- सर्वजनक्षेमपरता-प्रभृतीनाम् ।
एतेषु धुरीणाग्रेसर-नर-केसरिषु निःसन्देहम् अग्रगण्यः पुण्यश्लोकः श्रीमत्-
शिवच्छत्रपतिः । किमत्र चित्रं यत्तद्गुणैः कर्णमागत्य डॉ. श्री. भा. वर्णेकर:
कविर्न चापलाय- किन्तु दशहायनाधिकायत महाकाव्य-प्रणयन-व्यवसायाय
प्रचोदितः। दिष्ट्या फलेग्रहिरभूदयं द्राघीयान् व्यायासः प्रकाशनोन्मुखश्च
सहृदयानां समक्षम्। तस्येदं प्राक्कथनं मत्तोऽभिजग्मिवान् कविर्माम्
अतितरां समभावयत् ।
पुरः स्थापितं सहृदयानाम् इदं श्रीशिवराज्योदयं महाकाव्यं
वर्णेकरस्य द्विपञ्चाशदधिकाष्टशताधिक त्रिसहस्रपदमितम् ( ३८५२)
अष्टषष्टिसर्गायामवन्न केवलं काव्यस्य परन्तु महाकाव्यस्यापि तांस्तान्
विदग्धवर्णितान् गुणान् सम्यक् पुष्णाति । संस्फूर्तिर्भावानाम् उत्कट उन्मेष:
प्रतिभाविष्कारश्चारुपद-विन्यासः सदुपमार्थान्तरन्यासाद्यलङकार-प्राचुर्यं
सर्वम् इदम् उपलभेत सहृदयः पठितास्यां कृतौ । तत्रापि कविनाश्रिता
वैदर्भीरीतिरतीव साम्प्रता समुहलसति पदे पदे । यथाह कविरेकः
अनभ्रवृष्टि: श्रवणामृतस्य सरस्वतीविभ्रमजन्मभूमिः ।
वैदर्भरीतिः कविनामुदेति सौभाग्यलाभप्रतिभूर्जनानाम् ॥ "
यथाह भवभूतिः—" कालो ह्ययं निरवधिर्विपुला च पृथ्वी । " शनैः
शनैरस्तङ्गामिनि सुरभारतीप्रणये भारतेऽद्यतने महाकाव्यस्यास्यानवद्य-
पद्यस्य न विद्येरन् आस्वादयितारो रसिका: पर्याप्त संख्या: कामम् । द्रढीयान्
पुनर्मम विश्वासो यदचिरादेवोक्षितकालस्थलसीमां कृतिमात्मनः सर्वतोवि-
सारि-रसिक-मण्डलं रञ्जयित्वा संस्कृत-साहित्य-प्राङ्गणे लब्धवर्णाम्
आलोक्य कृती भविष्यति वर्णकरसूरिः ।
हैदराबाद दि. ९।१।७२
चिं. द्वा. देशमुख</p>
<pb n="7" />
<p>वीरचरितं स्थाने स्थाने प्रगीयते स्म । पुण्यपत्तनवास्तव्यः खाडिलकर-
नामधेयः कश्चन " शाहीर : " ( कविरिति संस्कृतभाषायाम् ) नागपुरम्
आगत्य स्थाने स्थाने शिवचरित्र-विषयाणि वीरगीतानि ( पोवाडे इति
मराठी-भाषायाम् ) महता आवेशेन उच्चैः गायति स्म । तेषां वीरगीतानां
भूयः श्रवणेन उन्मनस्क इवाहमासम् । श्री. खाडिलकर-विरचितानि तानि
सर्वाणि वीरगीतानि मया शीघ्रमेव कण्ठस्थीकृतानि । अफजलखानवधम्
अधिकृत्य विरचितं तदीयं वीरगीतं नितान्तं खलु मे प्रियमासीत् यथा-
वसरं च एतानि वीरगीतानि वयस्यमण्डले उच्चैर् अहम् अगायम् ।
१९२७ तमे ख्रिस्ताब्दे राष्ट्रिय-स्वयंसेवक-संघेन समं प्रथमः परि-
चयो मेऽभवत् । संघधुरीणानां व्याख्यानेषु शिवाजिचरित्रविषया नाना-
विधा ऐतिहासिक्य आख्यायिका अनैतिहासिक्यश्च कथा मयाऽश्रूयन्त ।
संघकार्यकर्तृषु अण्णा सोहनी-नामधेयः व्यायामविद्याविशारदः परमोत्साह-
बल-संपन्नः कश्चन तरुणः कार्यकर्ता तदानीं नागपुरे आसीत् । अनेन
महानुभावेन सह दृढः खलु मे परिचयोऽभवत् । स हि ऐतिहासिक कथा-
निवेदन-कर्मणि बाढं प्रवीण आसीत् । बालकानां भावोद्दीपने असाधारणं
तस्यासीत् कौशल्यम् । शिवचरित्रानुबद्धा नानाविधा वीराद्भुत कथा:
प्रत्यहम् अनुभूता इव स मह्यं बहुशो निवेदयति स्म ।
अथैकदा मया पृष्टम् " कथं भवान् शिवाजिचरित्रविषयम् एतत्
सर्वं जानाति ? अपि भवान् तस्मिन् समये स्वयमासीत् ।
सोऽब्रवीत् "ओम् ! आसमहं तदानींतने काले साक्षात् शिवच्छत्रपतेः
अश्वभूतः । एतद् हि वाक्यं तेन तथा खलु उच्चारितं यथा तत्र बालस्य
मे द्रढीयानभवद् विश्वासो दीर्घकालपर्यन्तम् ।
नागपुरे दादाशास्त्री कायरकर-नामधेयः कश्चन सुविश्रुतः कीर्तन-
कला-कोविदः तेषु दिवसेषु स्वीयेन कथानिवेदन-कौशल्येन नितान्तं लोक-
प्रियतां प्राप । स हि महानुभावः कीर्तनावसरेषु महाराष्ट्रेतिहासगतानि
' आख्यानानि' अतीव रोचकतया वर्णयति स्म । तत्र च शिवचरित्र-
संबन्धीनि विविधानि आख्यानानि भृशं खलु मह्यम् अरोचन्त । नैकवारं
श्री. दादाशास्त्रि कायरकर-महाभागस्य कीर्तनानि श्रावं श्रावं मया शिव-
चरित्ररसपानं बाल्ये वयसि कृतमासीत् ।
१९३० तमे ख्रिस्ताब्दे त्रिशततम-शिवजन्ममहोत्सव-निमित्तं महा-
राष्ट्रस्थ-बालकानां प्रियतमया 'आनन्द ' -नाम-मासिक-पत्रिकया कश्चन
सचित्रः शिवाजिविशेषाङ्क: प्रकाशितः । दृष्टमात्र एव स शिवाजि-विशे-
षाङ्क: नितान्ततृषितेनेव मया नैकवारम् समग्रतया नूनं निपीतः । अतः-
पूर्वं न मया सविस्तरं शिवचरित्रं क्वचिदपि पठितुम् अलभ्यत ।</p>
<pb n="8" />
<p>-३-
वयसः १४ तमे वर्षे मया चित्रकलायाः किमपि प्राथमिकं ज्ञानं
प्राप्तम् । चित्रकलाध्यापकेन हि आरम्भ एव शिवरायस्य रेखाचित्रम्
अस्मत्पुरतः स्वाध्यायार्थम् आलिखितम् ।
तत्र शिवराजचित्रालेखने किमपि नैपुण्यं प्राप्तवता मया सर्वेषु
पुस्तकेषु गृहभित्तिषु च इतस्ततः शिवराजस्य चित्राणि आलिखितानीति
स्मर्यते ।
शिवचरित्र-संबद्धानि शिवनेरी-सिंहगड-रायगड-प्रतापगड-प्रमु-
ख्यानि दुर्ग-स्थानानि समक्षं द्रष्टुं तीव्रप्रेरणा मनसि काले काले उदभवत् ।
परं स मे मनोरथः क्षुद्रतरङ्गवत् उदितमात्रोऽस्तमगच्छत् । चित्रपटगृहे
शिवचरित्र-दर्शनावसरे तानि तीर्थीभूतानि स्थानानि कदाचनावलोक्य
शुक्तिकादर्शनेन रजतदर्शनस्येव आनन्दो मयाऽधिगतः ।
श्री. दु. आ. तिवारी-नामधेयेन कविना विरचितानि महाराष्ट्र-
संग्राम-गीतानि तदानीं महाराष्ट्रे सर्वत्र नितान्तं लोकप्रियाणि आसन् ।
चित्रकला परीक्षायां लब्धप्रावीण्याय मे " मराठ्यांची संग्राम गीते"
इत्याख्यं तदीयं काव्यपुस्तकं विद्यालयेन उपहारीकृतम् । अल्पीयसैव
कालेन तत्रत्यानि प्राय: सर्वाणि संग्रामगीतानि मया आत्मसात् कृतानि ।
कवितागायने मम पितृचरणानामपि आसीत् काचिदभिरुचिः । ते हि
सायंतनं सन्ध्यावन्दनं समाप्य दोलामधिष्ठाय तानि सङ्ग्रामगीतानि
सस्वरं गायन्ति स्म । अहमपि दोलार्धासनमधिष्ठाय तैः साकं गानरसम्
आस्वादयम् ।
स्वातन्त्र्यवीर-सावरकरस्य राष्ट्रीयगीतेषु
"हे हिन्दुशक्तिसंभूत दीप्ततम तेजा।
हे हिन्दु नृसिंहा प्रभो शिवाजी राजा ।
इत्येतत् शिवस्तवनं नितान्तम् प्रियतया विहार-शय्यासन-भोजनेषु
नैकवारम् अहम् अगायम् ।
एवं भूयः श्रवणमनन-वाचनादिभिः मया बाल्ये एव वयसि काचन
आध्यात्मिकी शिव- समीपता समासादिता । तथैव शिवचरित्र - कवनप्रेर-
णापि रूढमूलेव वल्लरी क्रमशोऽन्तःकरणे प्रावर्धत । १९३६ तमे
ख्रिस्ताब्दे शालान्तपरीक्षाम् उत्तीर्णस्य मे मनसि शिवकाव्य-लेखन प्रेरणा
कामपि तीव्रताम् आप । तदा संस्कृत काव्यलेखनासमर्थतया मराठी-
भाषयैव कानिचन शिवचरित्र विषयाणि पद्यानि मया व्यरच्यन्त । एतावता
कालेन संस्कृतभाषाध्ययनेन साकं संस्कृतकाव्य-ग्रन्थ-नैपुण्यम् अपि क्रमशः
प्रावर्धत । षोडश-वर्ष-देशीयस्य शालान्त-(मॅट्रिक)-परीक्षोत्तीर्णस्य</p>
<pb n="9" />
<pb n="10" />
<pb n="11" />
<pb n="12" />
<pb n="13" />
<pb n="14" />
<pb n="15" />
<pb n="16" />
<pb n="17" />
<pb n="18" />
<pb n="19" />
<pb n="20" />
<pb n="21" />
<pb n="22" />
<pb n="23" />
<pb n="24" />
<pb n="25" />
<pb n="26" />
<pb n="27" />
<pb n="28" />
<pb n="29" />
<pb n="30" />
<pb n="31" />
<pb n="32" />
<pb n="33" />
<pb n="34" />
<pb n="35" />
<pb n="36" />
<pb n="37" />
<pb n="38" />
<pb n="39" />
<pb n="40" />
<pb n="41" />
<pb n="42" />
<pb n="43" />
<pb n="44" />
<p>श्रीशिवराज्योदयम् महाकाव्यम्
"सह्यमहाराष्ट्रीयम्" नाम प्रथमः सर्गः ।</p>
<lg>
  <l>श्रीमदूर्जितमुदग्रमैश्वरं सर्वदुःखविपदोघसंहरम् ।</l>
  <l>धाम शैवमथवाऽस्तु वैष्णवं मन्महे मनसि तन्निरन्तरम् ॥१॥</l>
</lg>
<lg>
  <l>अस्ति दक्षिणदिगेकमण्डनं नातितुङ्गशिखरावलीमयम् ।</l>
  <l>भारतस्य परमप्रियं महाराष्ट्रमित्युचितनाम मण्डलम् ॥ २ ॥</l>
</lg>
<lg>
  <l>भाति यत्र शिखरावली मधौ पुष्पितव्रततिजालकावृता ।</l>
  <l>पुष्प बिल्वदलपुञ्जपूजिता स्थाणुलिङ्गशतमालिकेव सा ॥३॥</l>
</lg>
<lg>
  <l>यत्र पर्वततटीस्खलन्नदी-नीरगद्गदनदन्महाध्वनिः ।</l>
  <l>मेघगर्जतधियाऽभिनन्द्यते ताण्डवेन समदैः शिखावलैः ॥४॥</l>
</lg>
<lg>
  <l>वार्षकालिकसहस्रनिर्झरै: भास्करोज्ज्वलमयूखभास्वरैः ।</l>
  <l>भाति हीरकरसावगुण्ठितो रत्नसानुरिव यो द्रवीभवन् ॥ ५ ॥</l>
</lg>
<lg>
  <l>दुर्गसानुजलकुण्डदर्पणो बिम्बिता शरदि तारकावली ।</l>
  <l>यत्र सम्परिविसर्पिरोचिषा विन्दते द्विगुणितोज्ज्वलप्रभाम् ॥ ६॥</l>
</lg>
<lg>
  <l>मेघपुञ्जवृततुङ्गशृङ्गवान् शारदीं च दधदैन्दवीं कलाम् ।</l>
  <l>ध्यानसुस्थिरविशालविग्रहो व्योमकेश इव चन्द्रशेखरः ॥ ७॥</l>
</lg>
<lg>
  <l>यस्य दुःसहनिसर्गतेजसा कुण्ठितै रिपुकुलैर्विनिर्ममे ।</l>
  <l>रोषनिःश्वसितसोष्ममारुतैः हैमनेऽपि पवने कवोष्णता ॥८॥</l>
</lg>
<lg>
  <l>ज्योतिषा परिविकीर्णरोचिषा यत्र दाहसमयेषु संहृतम् ।</l>
  <l>विप्रतापभयलज्जया ध्रुवं दाहताधिकमधित्यकास्वपि ॥९॥</l>
</lg>
<lg>
  <l>ब्रह्मशैलजनिता सरिद्वरा येन भाति हि निजाङ्कलालिता ।</l>
  <l>पूर्वसागरसमागमोत्सुका स्वर्णदीव गिरिचक्रवर्तिना ॥१०॥</l>
</lg>
<lg>
  <l>देवतात्महिमशैलसञ्चितं सिन्धुतोऽम्बु परिगृह्य पावनम् ।</l>
  <l>सिन्धुसागर उदूर्मिपाणिभिर्यं निषिञ्चति चिराय भक्तितः॥११॥</l>
</lg>
<lg>
  <l>उन्नतावनतसानुराजिभिः यः पिताऽपि सरितां सहस्रशः ।</l>
  <l>पार्थिवः पतिरिव प्रभासते सुस्थिरायितमहोर्मिभीषणः ॥ १२॥</l>
</lg>
<p>सप्तदिव्यकुलपर्वतान्तरे सप्तवाहवदतिप्रतापवान् ।
सहयनामभृदपीह यः सदाऽऽविश्चकार हि निजामसह्यताम् ॥१३</p>
<pb n="45" />
<p>२                                                                                                     श्रीशिवराज्योदयम् ।
ज्ञाननिष्ठ-जनचित्त-विष्टरः-चञ्चल-श्रुतिविशिष्ट-विग्रहः ।
श्रीचिन्तामणेश्वर: (थेऊर )
श्री विनायक : ( मढ )
श्रीमहागणपतिः ( रांजणगांव)
श्रीबल्लाळेश्वर: (पाली)</p>
<pb n="46" />
<p>प्रथमः सर्गः ।                                                                                                   ३
यत्रचाष्टविषयेषु राजते सोऽष्टसिद्धिविभवो विनायकः ।
श्रीविघ्नेश्वरः (ओझर )
श्रीगिरिजावरदः ( जुन्नर )
श्रीसिद्धिविनायकः (सिद्धटेक )
श्री मयूरेश्वरः (मोरगांव)</p>
<pb n="47" />
<p>४                                                        श्रीशिवराज्योदयम् ।</p>
<lg>
  <l>सागर: परशुरामयाचितो याचकस्य समवेक्ष्य वीरताम् ।</l>
  <l>यस्य पश्चिमतटाश्रयां ददौ वासभूमिरिति तामुपत्यकाम् ॥ १४॥</l>
</lg>
<lg>
  <l>द्वादशात्मशुभलिङङ्गतोधिकान्यत्र भूरि रुचितोऽवधाप्य च ।</l>
  <l>शम्भुना तदितराणि भारते सर्वतो निदधिरे कथञ्चन ॥१५॥</l>
</lg>
<lg>
  <l>ज्ञाननिष्ठजनचित्तविष्टरश्चञ्चलश्रुतिविशिष्टविग्रहः ।</l>
  <l>यत्र चाष्टविषयेषु राजते सोऽष्टसिद्धिविभवो विनायकः ॥ १६॥</l>
</lg>
<p>★
पञ्चवटी</p>
<lg>
  <l>तच्चिरन्तनमहर्षिसेवितं प्राप्य पूतवटपञ्चकं पदम् ।</l>
  <l>यत्र दाशरथिनाऽपि विस्मृतं मातृसन्निधिमहासुखं चिरम् ॥१७॥</l>
</lg>
<p>★</p>
<lg>
  <l>रामचन्द्र पदपङ्कजाङ्कितां जानकीविरहदुःखसाक्षिणीम् ।</l>
  <l>यत्र पावनतमां वनस्थलीं वन्दते परमभक्तितो जनः ॥१८॥</l>
</lg>
<lg>
  <l>रावणापहृतजानकीशुचा व्याकुलस्य रघुनन्दनस्य च ।</l>
  <l>येन वानरबलेन सर्वथा घोरसंगरसहायता ददे ॥ १९ ॥</l>
</lg>
<pb n="48" />
<p>प्रथमः सर्गः ।                                                                                                   ५
वीरमारुतिः ।</p>
<lg>
  <l>ग्रामसीमसु सरित्तटेषु वा यत्र पिप्पलतलेषु दृश्यते ।</l>
  <l>लोहितो ह्यसुरशोणितैरिव दक्षिणाभिमुखवीरमारुतिः ॥२०॥</l>
</lg>
<p>★
★</p>
<lg>
  <l>ब्रह्मविष्णुशिवनामतस्त्रिधा संविभक्तवपुषः परात्मनः ।</l>
  <l>यत्र चात्रिमुनिपुत्रविग्रहे भावुकैश्चिरमुपासितैकता ॥२१॥</l>
</lg>
<lg>
  <l>अप्रतिष्ठमिव काशिकापुरं साङ्गवेदविदुषां द्विजन्मनाम् ।</l>
  <l>गर्जनाभिरकरोच्च तत् प्रतिष्ठानमस्य हृदयैकभूषणम् ॥२२॥</l>
</lg>
<lg>
  <l>कीर्तनाहतमदगमर्दलकांस्यतालशततालनादिनी ।</l>
  <l>धर्ममन्दिरमनोज्ञघण्टिका यत्र पण्ढरपुरी प्रकाशते ॥२३॥</l>
</lg>
<lg>
  <l>पाण्डुरङ्गदृढभक्तिविह्वला: पण्डिताश्च वणिज: कृषीवला: ।</l>
  <l>यत्र सत्कविपवित्रगीतिभिः नादयन्ति गिरिकाननान्यपि ॥२४॥</l>
</lg>
<lg>
  <l>ईश्वरोपनिषदर्थबोधिनीं ज्ञानभक्तिकवितासुधामयीम् ।</l>
  <l>प्राकृतामपि गिरं चकार यो ज्ञानराज इह सोऽधितिष्ठति ॥२५॥</l>
</lg>
<lg>
  <l>योगिभिश्चिरसमाधिधारिभिर्भूमिगर्भनिहितात्ममूतिभिः ।</l>
  <l>देश एष सकलोऽपि संस्फुरद् - योगशक्तिरिव भाति सर्वथा ॥२६॥</l>
</lg>
<pb n="49" />
<p>६                                                                                          श्रीशिवराज्योदयम् ।
पण्ढरपुरी</p>
<lg>
  <l>कीर्तनाहतमृदङ्गमर्दलकांस्यतालशततालनादिनी ।</l>
  <l>धर्ममन्दिरमनोज्ञघण्टिका यत्र पण्ढरपुरी प्रकाशते ॥ २३ ॥</l>
</lg>
<p>★
भूमिगर्भगतशास्त्रविज्जनः प्रज्वलन्मुखममुं महागिरिम् ।
शङ्कते, परमनेन तत्सदाऽऽविष्कृतं निजजनोग्रतेजसा ॥२७.
व्याघ्रनृन्दविततोच्चगर्जन: गह्वरप्रतिनिनादमेदुरैः ।
व्यञ्जयत्यतिभयंकरायतिं वीरवृत्तिमिव यः स्वभावजाम् ॥२८।
यः स्वधर्मपरिरक्षणोद्यतैः खड्गशूलधनुरादिकोविदैः
शस्त्रकोश इव संबभौ जनैः हिन्दुभूकटितरावलम्बित: ॥ २९॥</p>
<lg>
  <l>आहिमालयमुदीर्णसद्यशाः वीरवर्यविनताङ्घ्रिपङ्कजः ।</l>
  <l>येन मेकलसुतातटे कृतो हर्षहीन इव हर्षवर्धनः ॥ ३०॥</l>
</lg>
<lg>
  <l>सर्ववर्णकुलसम्भवाङ्गना जन्मसिद्धरणरागतः सदा ।</l>
  <l>यत्र शस्त्रमयकेलिशालिनी चण्डिकेव ददृशेऽद्रिसम्भवा ॥३१॥</l>
</lg>
<lg>
  <l>मल्लकेलिषु विशेषरागत: शोणमृत्कणविलिम्पनैर्नराः ।</l>
  <l>यत्र वार्धकसितान् स्वमूर्धजान् चक्रिरेऽम्बुजपरागसुन्दरान् ॥३२॥</l>
</lg>
<pb n="50" />
<p>प्रथमः सर्गः ।                                                                                                      ७
पाण्डुरङ्गः ।</p>
<lg>
  <l>पाण्डुरङ्गदृढभक्तिविह्वला: पण्डिताश्च वणिज: कृषीवला: ।</l>
  <l>यत्र सत्कविपवित्रगीतिभिः नादयन्ति गिरिकाननान्यपि ॥ २४ ॥</l>
</lg>
<p>★
*</p>
<lg>
  <l>पारतन्त्र्यहतशक्तिभिर्जनैर्यत्रवीरचरितेऽवलोकितः ।</l>
  <l>दुष्प्रधर्षतमवीर्यभासुरः क्षात्रधर्म इव मूर्ति-सञ्चरः ॥ ३३ ॥</l>
</lg>
<p>राक्षसप्रतिमघोरशात्रवे प्रेरयन् मरणभीतिवेपथुम् ।
चापचक्रधर-रामकृष्णयोर् योऽभवत् प्रतिनिधिः स्वकर्मणा ।</p>
<lg>
  <l>यत्र वेरुलशिलोच्चये दृढं बुद्धविष्णुशिवसेवकैः कृतम् ।</l>
  <l>शिल्पकर्म तदनल्पमूर्तिकं विस्मयास्पदमशेषभूतले ॥३५॥</l>
</lg>
<lg>
  <l>यद् विलोक्य सकलाः कलाविदः विस्मयस्तिमितलोचना इव ।</l>
  <l>स्वानुभूतिमपि तर्कयन्ति ते स्वप्नवच्च विततैन्द्रजालवत् ॥३६॥</l>
</lg>
<lg>
  <l>वेदनादरहितेऽपि भूतले वैदिकद्विजकुलोत्थितैः स्वरैः ।</l>
  <l>मार्जितप्रणववर्णमूर्धगश्चन्द्रबिन्दुरिव यो ह्यभासत ॥ ३७॥</l>
</lg>
<p>★</p>
<pb n="51" />
<p>८                                                                                                श्रीशिवराज्योदयम् ।
ज्ञानराजः ।</p>
<lg>
  <l>ईश्वरोपनिषदर्थबोधिनीं ज्ञानभक्तिकवितासुधामयीम् ।</l>
  <l>प्राकृतामपि गिरं चकार यो ज्ञानराज इह सोऽधितिष्ठति ॥ २५ ॥</l>
</lg>
<p>★    ★    ★    ★    ★    ★</p>
<lg>
  <l>धर्मराज्यजनितं सुदुर्लभं पुण्यकर्मनिरतैश्च मानवै: ।</l>
  <l>यत्र भूमितल एव पावने स्वर्गलोकसुखमन्वभूयत ॥ ३८॥</l>
</lg>
<lg>
  <l>तत्र चन्दनवने यथोरगा: नन्दनोपवन उन्मदासुराः ।</l>
  <l>म्लेच्छशासनधुरन्धराः खरा हन्त सौख्यमपहन्तुमुद्यताः ॥३९॥</l>
</lg>
<lg>
  <l>यत्र सौख्यमसुखं हि तत्र च यत्र सम्पदथ तत्र वा विपत् ।</l>
  <l>तद्विरुद्धमपि तन्वती क्वचित् कालचक्रगतिरिद् गरीयसी ॥४०॥</l>
</lg>
<lg>
  <l>वेदमन्त्रमयपावनध्वनिः यत्र कर्णपथमागतः पुरा ।</l>
  <l>हन्त तत्र हतविप्रयोषितां क्रन्दनार्तनिनदोऽपि शुश्रुवे ॥४१॥</l>
</lg>
<lg>
  <l>यत्र भक्तजनवृन्दनर्तनं तन्तुवाद्यसहितं मनोहरम् ।</l>
  <l>तत्र बर्बरविलासिताण्डवं मद्यपानसहितं भयंकरम् ॥४२॥</l>
</lg>
<pb n="52" />
<p>प्रथमः सर्गः ।                                                                                                       ९
श्रीक्षेत्रनृसिंहवाडी</p>
<lg>
  <l>ब्रह्मविष्णुशिवनामतस्त्रिधा संविभक्तवपुषः परात्मनः ।</l>
  <l>यत्र चात्रिमुनिपुत्रविग्रहे भावुकैश्चिरमुपासितैकता ॥ २१ ॥</l>
</lg>
<lg>
  <l>- स्त्रीजनातिशयपूज्यभावतो यत्र ताः समरमन्त देवताः ।</l>
  <l>'तत्र मङ्गलविवाहमण्डपाद् वह्निसाक्षिकमपाहृताः स्त्रियः ॥४३॥</l>
</lg>
<pb n="53" />
<p>१०                                                                                                श्रीशिवराज्योदयम् ।</p>
<lg>
  <l>दुःखदग्धहृदयाङ्गनाजन-श्वासमारुतविशेषदाहतः ।</l>
  <l>म्लानता बत लतास्वभासत सोष्मता च मलयानिलेष्वपि ॥४४॥</l>
</lg>
<lg>
  <l>फुल्लपद्मरुचिगैरिकध्वजान् सन्निपात्य सकलान् सनातनान् ।</l>
  <l>शैवलातिहरिता ध्वजाः पुनः सर्वतो हि यवनैः प्ररोपिताः ॥ ४५ ॥</l>
</lg>
<lg>
  <l>हन्त देवगिरिणापहारितं तच्च पूर्वपदमात्मनामतः ।</l>
  <l>म्लेच्छकर्मभिरभूदचिन्तितैः सोऽपि दैत्यगिरिरेव तत्त्वतः ॥ ४६॥</l>
</lg>
<lg>
  <l>ग्रामपत्तनसरित्सरोवराः म्लेच्छवाक्कलुषितात्मसंज्ञकाः ।</l>
  <l>नष्ट-पूर्व-विभवा नृपा इव तेऽभवन परिचयेऽपि दुर्विदाः ॥४७॥</l>
</lg>
<lg>
  <l>रामदेवनृपतेर्विखण्डितं मुण्डमुद्धृतवसाशिरास्थिकम् ।</l>
  <l>हन्त कच्चरजलप्रणालिकावक्त्रमित्युपहितं नराधमैः ॥ ४८ ॥</l>
</lg>
<lg>
  <l>शालिवाहननिवासमन्दिरं सन्निपात्य तदतीवसुन्दरम् ।</l>
  <l>तत्र चन्दिरकलाधरं स्वकं मन्दिरं यवनशासकैः कृतम् ॥ ४९॥</l>
</lg>
<lg>
  <l>अग्निचन्द्ररविवंशजैरपि क्षत्रियैर्हतबलैरिवाहतैः ।</l>
  <l>हा श्ववृत्तिरुररीकृताऽधमम्लेच्छशासकपदेषु निस्त्रपम् ॥ ५० ॥</l>
</lg>
<lg>
  <l>काश्यपात्रिभृगुमुख्यगोत्रजाः ब्राह्मणाः श्रुतिपथात् परिच्युताः ।</l>
  <l>देववाचमपहाय मङ्गलां म्लेच्छवाचि धनलोभतो रताः ॥ ५१ ॥</l>
</lg>
<lg>
  <l>उद्यदर्कदरपाटलप्रभां ये प्रभातसमये ह्युपासिरे ।</l>
  <l>ते तदाङ्गुलिपिनद्धकर्णकाः वारुणीमभिमुखा ववन्दिरे ॥ ५२ ॥</l>
</lg>
<lg>
  <l>पाहि पाहि भगवन् जनानिमान् म्लेच्छराज्यपरिपीडितानिति ।</l>
  <l>प्रार्थयंश्चिरमुदश्रुलोचना: साधवः क्वचन भग्नमन्दिरे ॥ ५३ ॥</l>
</lg>
<lg>
  <l>ग्लानिरत्र घटते यदा यदा धर्मसाधुजनयोस्तदा तदा ।</l>
  <l>सम्भवामि तदिदं वचः स्वकं विस्मृतं किमधुना जनार्दन ॥ ५४॥</l>
</lg>
<lg>
  <l>धर्मसंस्कृति विनाशकारिणी चित्तवित्तवलवृद्धिशोषिणी ।</l>
  <l>म्लेच्छराज्यघटिता हि दासता ऐहिकी प्रकटनिर्ऋतिर्नृणाम् ॥५५॥</l>
</lg>
<lg>
  <l>गौरियं हि जननीव ते मता नस्तथैव, परमत्र साऽधुना ।</l>
  <l>हन्त हन्त पथिलोकसङ्कुले हन्यते चिरमनाथवत् प्रभो ! ॥ ५६॥</l>
</lg>
<lg>
  <l>किं करोमि बत कुत्र यानि वा प्रार्थयाम्यथ कमत्र राघव ।</l>
</lg>
<lg>
  <l>दृश्यते तत्र तपोवनस्थली ध्वस्तनन्दनवनस्थलीव सा ॥ ५७॥</l>
  <l>घोरसंकटतमोविदारिणी निर्मलान्तरनभोविहारिणी ।</l>
  <l>चन्द्रिकेव जगदीशतोषिणी भक्तिरेव हि सतां बलीयसी ॥५८॥</l>
  <l>भक्त्याकुलार्तवचनैः सततं जनानां चेतोऽद्रवद् द्रुतम हो जगदीश्वरस्य ॥</l>
</lg>
<p>भक्तान्तरङ्गभवविह्वलवाच एव देवान्तरद्रवविधावुचितोऽभ्युपायः ॥ ॥
॥ इति श्रीशिवराज्योदये महाकाव्ये प्रथमः सर्गः समाप्तः ॥</p>
<pb n="54" />
<p>श्रीशिवराज्योदयम् महाकाव्यम् ।
"साधुवर्यद्वयम्" नाम द्वितीयः सर्गः
तुकारामः
रामदास :</p>
<lg>
  <l>रामदासतुकारामौ ह्यध्यात्मज्ञानदीपकौ ।</l>
  <l>असङ्गशस्त्रसन्नद्धौ भिन्नावप्येककेन्द्रगौ ॥ २ ॥</l>
</lg>
<p>*****</p>
<lg>
  <l>अथ भाविनमुत्कर्षमावेदयितुमत्थितौ ।</l>
  <l>उग्रशान्तौ महासाधू सूर्याचन्द्रमसाविव ॥ १ ॥</l>
</lg>
<lg>
  <l>रामदासतुकारामौ हयध्यात्मज्ञानदीपकौ ।</l>
  <l>असङ्गशस्त्रसन्नध्दौ भिन्नावप्येककेन्द्रगौ ॥२॥</l>
</lg>
<lg>
  <l>महाराष्ट्रमहाम्भोधौ तयोरुज्वलतेजसोः ।</l>
  <l>सहसोत्थानमभवत् चन्द्र कौस्तुभयोरिव ॥३॥</l>
</lg>
<lg>
  <l>तयोः सम्पर्कतः सद्यो जनता-हृदयाम्बरे ।</l>
  <l>आत्मतेजः समुत्स्फूर्तं मैत्रावरुणसप्रभम् ॥४॥</l>
</lg>
<pb n="55" />
<p>१२                                                                                                 श्रीशिवराज्योदयम् ।</p>
<lg>
  <l>दिव्यतेजस्विनोरासीत् तयोः समसमागमः ।</l>
  <l>मुक्तिप्रदो महाराष्ट्रे भक्तिकर्माध्वनोरिव ॥ ५ ॥</l>
</lg>
<lg>
  <l>लोकार्थकामसिद्ध्यर्थं प्रायेण करुणैश्वरी ।</l>
  <l>आविर्भवति लोकेस्मिन् मूर्तिमाधाय धार्मिकीम् ॥ ६॥</l>
</lg>
<p>सत्सुधासिन्धुलहरी चित्कल्पतरुमञ्जरी
सुखेन्दुमृगकस्तूरी करुणा पारमेश्वरी ॥ ७ ॥</p>
<lg>
  <l>सामर्थ्यश्वर्ययशसां कीर्तिसम्पत्तितेजसाम् ।</l>
  <l>जननी जन्मभूमिश्च करुणा परमेश्वरी ॥८॥</l>
</lg>
<p>तुकाराम:
अभङ्गवाणी यस्याभूद् आर्षवाणीव पूजिता
स्वानुभूत्येकसारत्वात् कविता सारवत्तया ॥ ९॥</p>
<lg>
  <l>य "स्तुकाराम"यं कायं स्वर्गं नीत्वा सलोकताम् ।</l>
  <l>द्यावापृथिव्योरकरोत् पुण्यै: परमहंसवत् ॥ १० ॥</l>
</lg>
<lg>
  <l>अब्राह्मणोऽपि ब्रह्मज्ञः निर्द्वन्द्वो द्वन्द्ववानपि ।</l>
  <l>यो मोहकोऽपि निर्मोही विग्रही चाप्यविग्रहः ॥ ११ ॥</l>
</lg>
<lg>
  <l>क्षणशः कणशश्चैव तनुक्षेत्रे विहङ्गमैः ।</l>
  <l>क्षीयमाणेऽपि भजनैः योऽकरोत् पुण्यसञ्चयम् ॥ १२ ॥</l>
</lg>
<lg>
  <l>विठ्ठलस्मृतिमात्रेण निर्यन्नीरं यदक्षिजम् ।</l>
  <l>हृदये नीरसस्यापि भक्तिवल्लीमवर्धयत् ॥१३॥</l>
</lg>
<p>मञ्जुलोन्नादिनीं श्रुत्वा यद् वीणामैकतान्तवीम् ।
चातुर्मास्येऽपि वैकुण्ठे निद्राभङ्गोऽभवद्धरेः ॥ १४.</p>
<lg>
  <l>मध्ये वैष्णववीराणां वीणादण्डधरः सदा ।</l>
  <l>तर्जयन्निव नास्तिक्यं ददृशे स तदग्रणीः ॥१५॥</l>
</lg>
<lg>
  <l>यं प्राकृतकविश्रेष्ठम् अप्राकृतगुणान्वितम् ।</l>
  <l>अनूत्सिक्तमनूचाना वन्द्या अपि ववन्दिरे ॥ १६ ॥</l>
</lg>
<lg>
  <l>प्रसाद इव सच्चित्ते यद् भालफलके बभौ ।</l>
  <l>धवलस्तिलको हृद्यो गोपीचन्दनकल्पितः ॥१७॥</l>
</lg>
<lg>
  <l>शश्वदन्तःप्रवृत्तस्य जपयज्ञस्य साक्षिणी ।</l>
  <l>तुलसीकाष्ठमालाऽसौ यदीयहृदये बभौ ॥ १८ ॥</l>
</lg>
<lg>
  <l>प्राक्तनानां सुतपसां परिपाक इवाबभौ ।</l>
  <l>धौतवासोमयो वेशो यस्य काये तपोमये ॥१९॥</l>
</lg>
<pb n="56" />
<p>द्वितीय: सर्ग: ।                                                                                              १३</p>
<lg>
  <l>सर्वत्रेश्वरभावेन सर्वथाऽवनतं शिरः ।</l>
  <l>यस्योष्णीशसितं रेजे यशः स्वमिव पिण्डितम् ॥२०॥</l>
</lg>
<lg>
  <l>हृदयंगमभावार्द्रं दिव्यभक्तिरसप्लुतम् ।</l>
  <l>वचो-ब्रह्म ननर्तेव यदीयहरिकीर्तने ॥ २१ ॥</l>
</lg>
<lg>
  <l>वैदेहीमिव यद् वाणीं गङ्गेवेन्द्रायणी नदी ।</l>
  <l>चिररात्राय निर्मग्नां संररक्षोद्द्धार च ॥ २२ ॥</l>
</lg>
<lg>
  <l>प्राकृतामपि यदवाणी सेवमानोऽत्र विन्दते ।</l>
  <l>सुसंस्कृतत्वं दुष्प्रापं सर्वलोकशुङ्करम् ॥२३॥</l>
</lg>
<p>सीताया इव यद्वाच: स्पर्शतो रघुनाथवत्
विमूढोऽपि समाजोऽयं प्रकृति स्वामपद्यत ॥२४॥
यदीयैः कांस्यतालानां तालमन्वाहतैः पर्दैः ।
संक्षुण्णो भक्तिमार्गोऽभूत् स महाराष्ट्रमण्डले ।॥ २५॥
रामदासः-</p>
<lg>
  <l>यद्रूपेण महौजस्कः क्षात्रभावः परन्तपः ।</l>
  <l>प्राप्तुं भूयस्तपःशक्तिं ब्राह्मीं मूर्तिमिवाश्रितः ॥ २६ ॥</l>
</lg>
<lg>
  <l>भक्तिप्रियोऽनिकेतश्च वसुधककुटुम्बकः ।</l>
  <l>लोकप्रपञ्चनिरतस्तथाप्येकान्तमास्थितः ॥ २७ ॥</l>
</lg>
<lg>
  <l>जाग्रद्दिवानिशं बाह्यान्तरारिदमनोद्यतः ।</l>
  <l>रात्रिबुद्धं दिवासुप्तं नूनं संयमिनं हसन् ॥२८॥</l>
</lg>
<lg>
  <l>कालेन महता नष्टः यः कृष्णेनापि बोधितः ।</l>
  <l>स समुज्जीवितो येन कर्मयोगः स्वकर्मणा ॥ २९॥</l>
</lg>
<lg>
  <l>गोदावरीसरिन्नीरे यो निमग्नार्धविग्रहः ।</l>
  <l>जपमग्नो जनैर्मेने जपयज्ञ: सविग्रहः ॥३०॥</l>
</lg>
<lg>
  <l>तिष्ठन्नेकेन पादेन ह्यामध्यन्दिनमोदयात् ।</l>
  <l>सहस्रपादमुद्यन्तं कुर्वंल्लज्जारुणप्रभम् ॥ ३१॥</l>
</lg>
<lg>
  <l>गोदावरीसरित्कुण्डे तिष्ठन् तिष्ठद्गु यो बभौ ।</l>
  <l>जटाल: श्मश्रुलो मूर्तस्तिष्ठद्धोम इवोज्ज्जलः ॥ ३२॥</l>
</lg>
<lg>
  <l>उर्ध्वचन्दनरेखाभ्यां भालस्थाभ्यां विरोधिनोः ।</l>
  <l>तुल्यत्वमादिशन्नूनं प्रपञ्चपरमार्थयोः ॥ ३३ ॥</l>
</lg>
<lg>
  <l>तीर्थाभिषेकपूतं स्वं वपुर्भूयोऽपि भूतिमत् ।</l>
  <l>कृत्वा दिशन् सहावस्थां पावित्र्यैश्वर्ययोरिह ॥ ३४॥</l>
</lg>
<lg>
  <l>रघुवीरगुणग्रामं क्रमश: संस्मरन्निव ।</l>
  <l>चलदोष्ठपुटं नित्यं भ्रामयञ्जपमालिकाम् ॥ ३५॥</l>
</lg>
<pb n="57" />
<p>१४                                                                                            श्रीशिवराज्योदयम् ।</p>
<lg>
  <l>ब्रह्मचर्यव्रतप्राप्तं दण्डमुद्यम्य पैप्पलम् ।</l>
  <l>तर्जयन्निव निर्भीकः सर्वान् धर्मरिपून् सदा ॥ ३६ ॥</l>
</lg>
<lg>
  <l>अष्टमूर्तेरपावित्र्याद् रक्षन्नापोमयीं तनुम् ।</l>
  <l>वज्रसारे दधन् मुष्टौ तीर्थोदककमण्डलुम् ॥ ३७॥</l>
</lg>
<lg>
  <l>पाञ्चभौतिकपिण्डस्य धारणार्थमयाचत ।</l>
  <l>पञ्चमुष्टिमितं धान्यं योऽन्वहं गृहपञ्चके ॥ ३८ ॥</l>
</lg>
<lg>
  <l>रघुवीरजयोद्घोषं गर्जन्नुच्चैर्गृहे गृहे ।</l>
  <l>रामदासशुभोपाधिं प्रापोपाधिक्षयेऽपि यः ॥ ३९ ॥</l>
</lg>
<lg>
  <l>पदस्थपादुकायुग्मोत्थितैश्चटचटायितैः ।</l>
  <l>निर्दिशंस्तीर्थसञ्चारे धर्मस्य त्वरितां गतिम् ॥ ४० ॥</l>
</lg>
<lg>
  <l>आशीर्वचनसंयुक्तां यदीयां सहसोदिताम् ।</l>
  <l>ब्रह्मवर्चस्विनीं पुण्यां वाचमर्थोऽनुधावितः ॥ ४१ ॥</l>
</lg>
<lg>
  <l>कञ्चित् पञ्चत्वमापन्नं नरमुज्जीव्य लीलया ।</l>
  <l>योऽव्यञ्जयत् स्वसामर्थ्यं राष्ट्रसंजीवनक्षमम् ॥ ४२ ॥</l>
</lg>
<lg>
  <l>येनाप्रपादमाधाय कौपीनं गैरिकारुणम् ।</l>
  <l>अरुणेनेव निर्दिष्टः स्वातन्त्र्याहर्नवोदयः ॥ ४३ ॥</l>
</lg>
<lg>
  <l>श्मश्रुलेन जटालेन स्वाननेन च यो बभौ ।</l>
  <l>धूमावृतो महातेजा यज्ञाग्निरिव जङ्गमः ॥ ४४ ॥</l>
</lg>
<lg>
  <l>नवोदितः समर्थोऽसौ विश्वामित्र इवापरः ।</l>
  <l>प्रबोधयन्महाराष्ट्र मित्रवन्मन्त्रवगिरा ॥ ४५ ॥</l>
</lg>
<lg>
  <l>धगद्धगद्विनिर्गच्छत्प्रलयंकरदाहभूत् ।</l>
  <l>ज्वालेव सर्पसत्रस्य यद्वाणी रणकर्कशा ॥ ४६ ॥</l>
</lg>
<p>धीरगर्जनया लोका: येन सर्वे प्रबोधिताः ।
नवोदितेन मेघेन सिंहा इव गुहाशयाः । ४७ ॥</p>
<lg>
  <l>धर्मराज्याग्रदूताभं यमासेतुहिमाचलम् ।</l>
  <l>सञ्चरन्तं प्रतिक्षेत्रं प्रतिपादं नतो जनः ॥४८॥</l>
</lg>
<lg>
  <l>तिमिरनिचयमग्ने रत्नसूमण्डलेऽस्मिन्</l>
  <l>कथमपि स सुधांशुर्वारुणो हन्ति दोषम् ।</l>
  <l>जगति परमशेषध्वान्तविध्वंसनार्थम्</l>
</lg>
<lg>
  <l>दिनमणिरिव नान्यः कोऽपि पुण्यप्रतापी ॥४९॥</l>
  <l>सन्मन्त्रजागरविनिर्गतनैद्रमुद्रः लोकोऽखिलः कमपि मानवलोकबन्धुम् ।</l>
  <l>सह्योदयाद्रिशिखरे समुदीयमानं भास्वत्सहस्रकरमीक्षितुमातुरोभूत् ॥५०॥</l>
  <l>॥ इति श्रीशिवराज्योदये महाकाव्ये द्वितीयः सर्गः समाप्तः ॥</l>
</lg>
<pb n="58" />
<p>66
श्रीशिवराज्योदयम् महाकाव्यम् ।
"वसन्तमाङ्गल्यम्" नाम तृतीयः सर्गः</p>
<lg>
  <l>अथ प्रशान्ते शिशिरर्तुयुग्मे नीहारमन्दीकृतचन्द्रसूर्ये ।</l>
  <l>प्रम्लापिताशेषसरोजवृन्दे समागतोऽसौ सकलर्तुराजः ॥ १॥</l>
</lg>
<lg>
  <l>काष्ठावशिष्टास्तरवो महान्तः नष्टश्रियो भूपतयो यथैव ।</l>
  <l>वसन्तभाग्योदयकालयोगे विनिर्गतां प्रापुरिवात्मलक्ष्मीम् ॥२॥</l>
</lg>
<lg>
  <l>पिकद्विजा उद्गिरणेऽसमर्थाः चिराय ये मञ्जुलकूजितर्चाम् ।</l>
  <l>वसन्तसौराज्यमनुप्रवृत्तं तेषां पुनः कूजनसामगानम् ॥३॥</l>
</lg>
<lg>
  <l>नवीनचूताङ्कुररक्तकण्ठा : वसन्तराजागमनाग्रदूताः ।</l>
  <l>सुस्वागतं पञ्चमरागतानैः पुंस्कोकिला ऊचुरखण्डमुच्चैः ॥४॥</l>
</lg>
<lg>
  <l>ते दाक्षिणात्या मलयानिलाश्च श्रीखण्डसंपर्कसुगन्धवन्तः ।</l>
  <l>सह्यप्रपातोच्छलितैस्तुषारै: आलिङ्गिता स्नेहभरेण गाढम् ॥ ५॥</l>
</lg>
<lg>
  <l>पादाहतोऽद्यावधि दासवद् यो दधार शोभामसकृत् सशोकः ।</l>
  <l>विनैव पादाभिहतिं स एव बभार शोभामसमामशोकः ॥ ६॥</l>
</lg>
<lg>
  <l>आम्रप्ररोहानवधूनयन्तो वेगप्रवृत्ता मलयाद्रिवाताः ।</l>
  <l>उड्डीनभृङ्गालिभिरुन्मदाभिः गुञ्जारवं मङ्गलमीरयन्ति ॥७॥</l>
</lg>
<lg>
  <l>प्रफुल्लपङ्केरुहकोशजन्यं मधु प्रकामं मधुरं पिबन्तः ।</l>
  <l>मधोर्यशः सञ्जगुरुच्चकैस्ते गुञ्जारवैरुन्मदचञ्चरीकाः ॥८॥</l>
</lg>
<lg>
  <l>उद्गीयमानं स्वयशो निशम्य प्रसन्नचेता इव माधवोऽसौ ।</l>
  <l>प्रफुल्लगुच्छच्छविभिर्मनोज्ञं शुचिस्मितं सम्प्रकटीचकार ॥ ९॥</l>
</lg>
<lg>
  <l>निसर्गकाषायरुचस्तरूणां नवोद्गताश्चञ्चलपल्लवास्ते ।</l>
  <l>विरेजिरे सह्यगिरौ विरुढा: उदर्कभाग्योदयवैजयन्त्यः ॥१०॥</l>
</lg>
<lg>
  <l>हेमन्तसम्पातपराहताऽसौ अज्ञातवासेव हि याज्ञसेनी ।</l>
  <l>सह्याद्रिसंस्था सुनिसर्गलक्ष्मी: पुनर्नवं वैभवमुद्दधार ॥११॥</l>
</lg>
<lg>
  <l>मनोहरां वीक्ष्य मधुप्रवृत्तिं महाधनो यादववंशकेतुः ।</l>
  <l>विदर्भसीमास्थितपत्तने स्वे वसन्तमाङ्गल्यमहं व्यतानीत् ॥ १२॥</l>
</lg>
<lg>
  <l>निमन्त्रितास्तेन महोत्सवाय सम्बन्धिनो ये सविशेषसङ्गाः ।</l>
  <l>सुखप्रमोदावसरे नराणां प्रियः सुहृद्द्बन्धुसमागमो हि ॥ १३॥</l>
</lg>
<lg>
  <l>सुहृज्जनानां गृहमागतानां सुखाधिवासार्थमकारयत् सः ।</l>
  <l>गृहाङ्गणे मण्डपमेकमुच्चैः मनोरथाकारमिवात्मनश्च ॥ १४॥</l>
</lg>
<pb n="59" />
<p>श्रीशिवराज्योदयम् ।</p>
<lg>
  <l>विचित्रवासःस्थगितोद्वितानः स्तम्भावनद्धोज्ज्वलकर्पटश्च ।</l>
  <l>अधः समास्तीर्णकटिर्विरेजे स मण्डपः कौतुकमण्डपाभः ॥१५॥</l>
</lg>
<lg>
  <l>न्यस्ताः प्रतिस्तम्भमुदारगुच्छा: सपादपाः गैरिकरक्तकुण्ड्यः।</l>
  <l>ताभिर्गुहोद्यानमनोज्ञशोभाम् अचूचुरत्सत्पटमण्डपोऽसौ ॥ १६ ॥</l>
</lg>
<lg>
  <l>निमन्त्रिताभ्यागतबान्धवानां सम्मानयोग्यानि सुखासनानि ।</l>
  <l>फेनाच्छवासःपरिसंस्तृतानि हंसासनानीव बभुर्मृदूनि ॥ १७॥</l>
</lg>
<lg>
  <l>तन्मण्डपद्वारमुदारमुच्चैः विस्तीर्णसत्पर्णमयेन युक्तम् ।</l>
  <l>रम्भातरुस्तम्भचयेन रेजे तिष्ठत्प्रतीहारमिवोत्पताकम् ॥ १८ ॥</l>
</lg>
<lg>
  <l>तत्तो नभोमध्यमतीत्य किञ्चित् सूर्ये समुत्सर्पति पश्चिमाशाम् ।</l>
  <l>सत्स्वागतं वक्तुमनाः स राजा तन्मण्डपद्वारमुपेत्य तस्थौ ॥१९॥</l>
</lg>
<lg>
  <l>तदात्मजा काञ्चनकान्तकान्तिः पद्माननाऽसौ पितृसन्निधाने ।</l>
  <l>बभौ सुमुक्ताभरणाऽम्बुजाक्षी पद्मेव साक्षात् सविधे पयोधेः ॥ २०॥</l>
</lg>
<lg>
  <l>ततः समेताः क्रमशः सखाय: लसन्महोष्णीषभृतः सुवस्त्राः ।</l>
  <l>सुकुण्डलाः काञ्चनरत्नहाराः सचन्दनाङ्का विहसन्मुखास्ते ॥२१॥</l>
</lg>
<lg>
  <l>पयःसितान् कज्जलकृष्णवर्णान् तथैव कांश्चिद् विलसत्पृषत्कान् ।</l>
  <l>विभूषणोत्रादवतस्तुरङ्गान् अध्यास्य केचित् समये समेताः ॥२२॥</l>
</lg>
<lg>
  <l>विलम्बिघण्टामणिशंङखगुञ्जा मालाधरैरुत्ककुदैर्वृषैश्च ।</l>
  <l>संवाह्यमानैः शकटैरुपेताः केचित् पुनः केचन पादचर्याः ॥२३॥</l>
</lg>
<lg>
  <l>तेष्वागतः कश्चन यौवनाढ्यः धीरोद्धतोऽल्पाल्पविभूषिताङ्गः ।</l>
  <l>कराङ्गुलीलग्नकरेण साकं बालेन जल्पन् सकुतुहलेन ॥२४॥</l>
</lg>
<lg>
  <l>सुधाकरास्यः कुमुदेक्षणश्च बिम्बाधरो मौक्तिककान्तदन्तः ।</l>
  <l>तं मण्डपं वीक्ष्य मुदान्वितोऽसौ पप्रच्छ किञ्चित्पितरं किशोरः ॥ २५ ॥</l>
</lg>
<p>तातायमुच्चैर्नवमण्डपो हि सुदर्शन: केन विनिर्मितोऽत्र ?
निशम्य तद्वाक्यमसौ युवापि प्रसारिताग्राङ्गुलिराह बालम् ॥ २६॥</p>
<lg>
  <l>अमुं पुरा पश्यसि भूषणाढ्यं प्रालम्बसंवेष्टितकण्ठभागम् ।</l>
  <l>हसन्मुखं त्वामभिवीक्षमाणं तस्यैव राज्ञः शुभमण्डपोऽयम् ॥२७॥</l>
</lg>
<lg>
  <l>निमन्त्रितास्तेन वयं समस्ताः अत्यादरेणाद्य महोत्सवाय ।</l>
  <l>तद् याहि शीघ्रं समयातिपात: कदापि कार्यो न निमन्त्रितेन ॥ २८ ॥</l>
</lg>
<p>"यन्नैव कार्य: समयातिपातः तत् किं विवाहो भविताऽत्र तात?
कालातिपातो हि विवाहयोगे न युज्यते खल्विति ते वदन्ति ॥२९॥</p>
<lg>
  <l>श्रुत्वेति मुग्धां तनयस्य वाणीं तं वक्तुकामः परिहासपूर्वम् ।</l>
  <l>पिताऽऽह "नूनं तव मङ्गलार्थं सन्मण्डपोऽयं च महोत्सवश्च ॥३०॥</l>
</lg>
<lg>
  <l>तद् वाक्यभावार्थमनाकलय्य मुग्धः स बालः पुनराह तातम् ।</l>
  <l>"तन्मन्दमन्दं किमु सम्प्रयासि ? धावन्तमन्वेहि च सत्वरं माम् ॥ ३१ ॥</l>
</lg>
<pb n="60" />
<p>तृतीयः सर्गः ।                                                                                                          १७</p>
<lg>
  <l>इत्थं शिशोस्तस्य समुत्सुकस्य सम्मानयंस्तं मधुरानुरोधम् ।</l>
  <l>युवा सधीरस्त्वरयाससाद तन्मण्डपद्वारमुदर्कभाग्यम् ॥३२॥</l>
</lg>
<lg>
  <l>दृष्टवा कुमारं तमदृष्टपूर्वं उत्साहसम्पन्नमतिप्रसन्नम् ।</l>
  <l>द्वारस्थिता स्मेरसरोरुहाक्षी पप्रच्छ मन्दं पितरं किशोरी ॥ ३३॥</l>
</lg>
<lg>
  <l>" कः सत्वरं तात कुमार एष: धावन्निवाभ्येत्यभिमण्डपं नः ।</l>
  <l>स्थास्यत्यसौ किं सदनेऽस्मदीये चिराय, यास्यथवाऽचिरेण ॥३४॥</l>
</lg>
<lg>
  <l>निशम्य कन्यावचनं तदुत्कं हसन् स राजा सहसा प्रसन्नः ।</l>
  <l>कर्तुं परीहासमिवातिमुग्धं समीपमभ्यागतमेनमाह ॥ ३५ ॥</l>
</lg>
<lg>
  <l>"हं हो महाराज ! नवागतेन ह्येनां किशोरी प्रतिहाररक्षीम् ।</l>
  <l>नामाद्यनावेद्य न जातु लभ्यः सद्यः प्रवेश: शुभमण्डपेऽस्मिन् ॥३६॥</l>
</lg>
<lg>
  <l>स प्राह बालः सहसा, श्रुणुध्वं कुलं पितुर्नाम ममापि नाम ।</l>
  <l>भास्वत्कुले भोसलनामधेये जातोऽस्मि मालोजिसुतः शहाजिः ॥ ३७॥</l>
</lg>
<lg>
  <l>अन्योन्यमुवीक्ष्य कुमारकौ तौ  जातप्रमोदावनिमित्तमेव ।</l>
  <l>स्वजन्मजन्मान्तरजातसङ्गम् अनुस्मरन्ताविव निर्विकारम् ॥ ३८॥</l>
</lg>
<lg>
  <l>सुखोपविष्टेषु सुहृज्जनेषु ताम्बूलपात्रेषु च चारितेषु ।</l>
  <l>समुन्नते मण्डपमध्यभागे निशारुकं प्रादुरभून्मनोज्ञम् ॥ ३९ ॥</l>
</lg>
<lg>
  <l>तदा तदाकर्णयतां जनानां संवादसक्तश्रवणेन्द्रियाणि ।</l>
  <l>मञ्जीरनादेन पदोत्थितेन हठादिवाकृष्य वशीकृतानि ॥४०॥</l>
</lg>
<lg>
  <l>शैलेन्द्रकन्या-नटराजरूपं शैलूषयुग्मं प्रियचारुवेशम् ।</l>
  <l>धिमिद्धिमिद्ध्वाननिषक्तपादं झटित्यकर्षन्नयनानि तेषाम् ॥४१॥</l>
</lg>
<lg>
  <l>तपस्विनीं भूधरराजकन्यां परीक्षमाणः शिववर्णिलिङ्गी ।</l>
  <l>नाट्येन यास्यन् विकटं सगीतम् आश्चर्यवत् सभ्यजनैरलोकि ॥ ४२ ॥</l>
</lg>
<p>शिव:- " वद वद पर्वतराजसुते ! तप एवं कस्य कृते तपसि ?
अमलमिदं कमलं च कुवलये मानिनि ! किं त्वं म्लापयसि ? ॥४३॥</p>
<lg>
  <l>पार्वती - " त्रिगुणातीतं त्रिभुवननाथं त्रिदशमहेशं कि स्मरसि ? ।</l>
  <l>त्रिपुरहरं वा त्रिखरशरं वा त्रिनयनकमलं किं नमसि "? ॥४४॥</l>
</lg>
<p>शिव:- "शशिनि किमिति तनुषे तनमानं मृगशिशुनयने मन्थरताम् ?
हिमनगतनये विततश्वसने सन्तनुषे वा किमहिमताम् ?" ॥ ४५ ॥
पार्वती - "गगनसुकेशं चन्द्रविभूषं भसितसितं तं कि मनुषे ?
भुजगकुण्डलं मेचककण्ठं परमयोगिनं किं वनुषे ?" ॥४६॥
शिवः - " वद वद बाले वितथतपस्विनि ! किमिति दरिद्रं कामयसे ? "
पार्वती-"चल चल दूरे भगवन्निन्दक! किमिति वृथा मां पीडयसे ?" ॥ ४७
तदीश्वरीयप्रणयप्रदर्शि विलासलास्यं प्रविलोकयन्ती
सभाऽभवत्सा विगतान्यसंज्ञा गाढानुरागैकरसावमग्ना ॥४८॥</p>
<pb n="61" />
<p>१८                                                                                                  श्रीशिवराज्योदयम् ।</p>
<lg>
  <l>तौ बालकौ नृत्यरसानभिज्ञौ नातिप्रसन्नाविव नर्तनेन ।</l>
  <l>प्रौढा हि यस्मिन् विषये सरागा: प्रायेण तस्मिन् शिशवोऽपरागाः ॥४९॥</l>
</lg>
<lg>
  <l>तौ हेतुनाऽनाकलितेन बालौ परस्परं केनचिदान्तरेण ।</l>
  <l>आकृष्यमाणाविव मुग्धभावौ समागतौ मण्डपपार्श्वकोणे ॥५०॥</l>
</lg>
<lg>
  <l>बाल: स तामाह रुषेव किञ्चित्, "यदा मया नाम निवेदितं ते ।</l>
  <l>तदैव नावेदितमात्मनोऽपि नाम त्वया मां प्रति किं नु मूढे ? " ॥</l>
</lg>
<lg>
  <l>तं रोषदष्टाधरमोषदिद्धं विलोक्य भूयः परिहासबुद्ध्या ।</l>
  <l>"जिजाह" मित्युक्तवती व्यतानीत् वक्त्रेऽस्यपार्श्वस्थितकुंकुमं सा ॥५२॥</l>
</lg>
<lg>
  <l>दृष्ट्वैव तस्याः प्रथमापराधं स भूयसा रोषभरेण बाल: ।</l>
  <l>मुष्टिद्वये कुंकुममाददानः प्रतिक्रियां हि द्विगुणां चकार ॥ ५३॥</l>
</lg>
<lg>
  <l>भूयश्च बालाऽपि तथा चकार पुनः स बालोऽपि हि तादृशं च ।</l>
  <l>जिह्वाग्रदर्शं विविधोपहासं तौ चक्रतुः कुङ्कुमरागकेलिम् ॥५४॥</l>
</lg>
<lg>
  <l>तिरस्करिण्यन्तरसंस्थितानां नवाङ्गनानां चटुलेक्षणानि ।</l>
  <l>तयोरनागस्करयोरकर्षत् अह्नाय सा कुङ्कुमरागलीला ॥५५॥</l>
</lg>
<lg>
  <l>विदर्भराजः स च यादवोऽपि कन्यामनालोक्य समीपसंस्थाम् ।</l>
  <l>पश्यन् समन्तात् सहसा ददर्श मनोहरां मुग्धकिशोरकेलिम् ॥५६॥</l>
</lg>
<lg>
  <l>तत्पार्वतीशंकरनाट्यनृत्यम् शैलूषयोः कृत्रिमरागबन्धम् ।</l>
  <l>सन्त्यज्य नैसर्गिकभावहृद्यं दृश्यं चकर्षास्य दृशं मनश्च ॥५७॥</l>
</lg>
<lg>
  <l>अव्याजमुग्धैः शिशुहावभावैः वशेक्षणं यादवमोक्षमाणाः ।</l>
  <l>मालोजिमुख्या हि सभासदस्ते तन्नेत्रकेन्द्राभिमुखा बभूवुः ॥५८ ॥</l>
</lg>
<lg>
  <l>बालारुणोषःप्रतिमौ कुमारौ तौ कुङ्कुमारक्तमुखारविन्दौ ।</l>
  <l>सम्पश्यतः सभ्यजनस्य हर्षो मनस्यणीयस्यमितो ममौ नो ॥ ५९॥</l>
</lg>
<p>स्त्रीणां च तालोत्थितशिञ्जितेन पुंसां च हास्यध्वनिना तथोच्चैः ।
सविद्युदम्भोधरगर्जनाभः संशुश्रुवे सभ्यजनप्रहर्षः । ६०॥</p>
<lg>
  <l>आकस्मिकाम्भोधरगर्जितेन साश्चर्यभीताविव बालहंसौ ।</l>
  <l>तौ दृष्टवन्तौ सहसा गुरूणां दृक्पातवेध्यत्वमिवात्मनोश्च ॥ ६१॥</l>
</lg>
<lg>
  <l>पलायमानौ त्रपया महत्या भीत्या च तौ द्रागनुधाव्य बालौ  ।</l>
  <l>स्वयं गृहीतौ बत यादवेन बुधेन विद्याविनयौ यथैव ॥६२॥</l>
</lg>
<lg>
  <l>शैलूषसन्त्याजितमञ्चकेऽसौ सन्तस्थिवानात्तकुमारयुग्मः ।</l>
  <l>प्रफुल्लनेत्राननपुण्डरीकः शुचिस्मितां वाचमुवाज राजा ॥ ६३ ॥</l>
</lg>
<p>"हे बान्धवाः सम्मुदितान्तरङ्गाः शृणुध्वमीषद् वचनं मदीयम् ।
यस्याखिलानन्दकराविदानीं याताविमौ कारणतां कुमारौ ॥ ६४॥.
यः पार्वतीशंकरयोरिदानीम् आलोकितः सम्प्रणयोऽभिनीतः
तत्पूर्तये तादृशयोश्चिराय किशोरयोर्मडगलसङ्गमोऽस्तु ॥६५॥</p>
<pb n="62" />
<p>तृतीयः सर्गः ।                                                                                                    १९</p>
<lg>
  <l>सूर्यान्वयो भोसलनामकोऽसौ चन्द्रान्वयो यादवसंज्ञकश्च ।</l>
  <l>सन्मण्डपे सेतुनिभेऽत्र यातां पूर्वापरौ तोयनिधी व योगम् ॥६६॥</l>
</lg>
<lg>
  <l>चन्द्रान्वयस्योज्ज्वलवैजयन्ती जिजा विशेषोच्छ्वसितं मदीयम् ।</l>
  <l>भवत्वसौ भोसलवंशहर्म्ये चिराय माङ्गल्ययशःपताका ॥" ६७॥</l>
</lg>
<lg>
  <l>श्रुत्वैव सभ्या अमृतायमानं हृत्कर्णसन्तर्पणमाप्तवाक्यम् ।</l>
</lg>
<lg>
  <l>"बाढं" 'वरं" "युज्यते " इत्यनेकैः ते साधुवादै: प्रशशंसुरुचैः ॥६८ ॥</l>
  <l>सपदि यादव-वंश-पुरोहितः स्वयमुपेत्य तदैव जगौ मुदा ।</l>
  <l>स्वरचितं चिरमङ्गलमष्टकं नववधूवरयोर्हितकाम्यया ॥६९॥</l>
  <l>॥ मङ्गलाष्टकम् ॥</l>
</lg>
<lg>
  <l>"यस्योद्दामविवर्तनैर्जलनिधेरुच्चैः समुत्क्षेपिताः</l>
  <l>मुक्ताच्छा जलबिन्दवः समभवन् भास्वत्प्रभास्तारकाः ।</l>
  <l>यः शङ्खासुरनाशितश्रुतिसमुद्धाराय बद्धव्रतः</l>
  <l>श्रीविष्णोः प्रथमावतार इह वः कुर्यात् सदा मङगलम् ॥ ७० ॥</l>
</lg>
<lg>
  <l>लीलाकूर्मकलेवरेण भुवनोद्धारैकशीलेन सा</l>
  <l>मज्जन्ती प्रलयाम्बुधौ वसुमती येनोद्धृता लीलया ।</l>
  <l>क्षुब्धाम्भोनिधिमन्थनेन हि परिभ्राम्यन् महामन्दर-</l>
  <l>सौन्दर्यं समवाप यः स भगवान् कुर्यात् सदा मङगलम् ॥ ७१॥</l>
</lg>
<lg>
  <l>कल्पान्तक्षुभिताग्निभासुरतरोज्ज्वाले विशालेक्षणे</l>
  <l>झञ्झावातविकीर्णतोयदमहासङ्घातरौद्रा: सटाः ।</l>
  <l>विद्युद्दामसहस्रभास्वरविभा-जाज्वल्यमाना नखाः</l>
  <l>यस्यासन् नरसिंहरूपविभवे कुर्यात् सदा मङ्गलम् ॥७२॥</l>
</lg>
<lg>
  <l>त्रैलोक्याक्रमणोद्यत - त्रिचरणप्रक्षेपणव्यापृतं</l>
  <l>यत्पादाम्बुजसम्भवत्रिपथगानिःष्यन्दसम्प्लावितम् ।</l>
  <l>सद्यःसागरमज्जनोद्गतमिव ब्रह्माण्डमुद्भासितं</l>
  <l>विष्णोरद्भुतवामनाकृतिरसौ कुर्यात् सदा मङ्गलम् ॥७३॥</l>
</lg>
<lg>
  <l>क्षत्रध्वान्त निमग्न भूमिवलये रक्ताक्तधाराधरो</l>
  <l>यस्य स्कन्धनिवेशितः स परशुर्बालार्ककान्तिं दधौ ।</l>
  <l>मत्तः क्षत्रिय राजवंशविपिनोच्छेदाय यो दीक्षितः</l>
  <l>ब्रह्मक्षत्रमहोमयः स भगवान् कुर्यात्सदा मङ्गलम् ॥७४॥</l>
</lg>
<pb n="63" />
<p>२०                                                                                              श्रीशिवराज्योदयम् ।</p>
<lg>
  <l>रक्षोध्वान्तविनाशनाम्बरमणिर्दातृत्वचिन्तामणिः</l>
  <l>सीताकण्ठमणिर्विकर्तनमहावंशस्थमुक्तामणिः ।</l>
  <l>पुण्यश्लोकशिरोमणिः सुकवितापाथोधितारामणिः</l>
  <l>मर्यादापुरुषोत्तमः स नृमणिः कुर्यात् सदा मङ्गलम् ॥७५॥</l>
</lg>
<lg>
  <l>कारावासमपास्य जन्मसमये यो निर्गतो गोकुलं</l>
  <l>गोपीगोपकिशोर-गोभिरनिशं यो नीतवान् शैशवम् ।</l>
  <l>नित्यं गोपदरेणुरूषिततनुर्यो गोरसोल्लालसः</l>
  <l>गोसेवार्थमुपागतः स भगवान् कुर्यात् सदा मङ्गलम् ॥ ७६ ॥</l>
</lg>
<p>वेदोद्धारधृतव्रतोऽपि खलु यो वेदान्निनिन्द स्वयं
चक्राद्यायुधसंयुतोऽपि हि तिरश्चक्रे क्रतौ हिंसनम्
यः संसारसुखं सुखेन विजहौ संसारसौख्याय च
श्रीविष्णोर्नवमावतार इह वः कुर्यात् सदा मङगलम् ॥ ७७ ॥</p>
<lg>
  <l>माद्यन्मलेच्छगणान्निहन्तुमखिलान् त्रातुं सतीसज्जनान्</l>
  <l>धर्म स्थापयितुं श्रुतिस्मृतिगतं पातुं च गोब्राह्मणान् ।</l>
  <l>दम्पत्योरनयोरखण्डितयशाः कश्चित् पुनर्जायतां</l>
  <l>यो दिव्याद्भुतसद्गुणैरगणितैः कुर्यात् जगन्मङ्गलम्॥७८॥</l>
</lg>
<p>शिवतमदिवसे शिवे मुहूर्ते शिवगुणयोरशिवापनोदनाय ।</p>
<lg>
  <l>शिवसाक्षितया शिवोदयाय प्रियतमयोः शिवमङ्गलं बभूव ॥७९॥।</l>
  <l>॥ इति श्रीशिवराज्योदये महाकाव्ये तृतीय सर्गः समाप्तः॥</l>
</lg>
<pb n="64" />
<p>श्रीशिवराज्योदयम् महाकाव्यम् ।
"शिवजन्म" नाम चतुर्थः सर्गः ।
अथ सुतां पतिभक्तिसमत्सुकां स समवेत्य विदर्भनराधिपः
प्रियसुहृत्सचिवोत्तमसन्निभां स्वगृहिणीं निजगाद मनोगतम् ॥१॥</p>
<lg>
  <l>प्रियसुताविरहं परिभाव्य सा सपदि बाष्पपरिप्लुतलोचना ।</l>
  <l>प्रतिजगाद जिजाजननी पतिं किमपि कुण्ठितकण्ठमविस्फुटम् ॥२॥</l>
</lg>
<lg>
  <l>हृदयनाथ ! जिजा हृदयं मम श्वसितमुच्छ्वसितं खलु जीवितम् ।</l>
  <l>अमृतवर्तिरिवाक्षिसुखप्रदा वद कथं बत तद् विरहं सहे ? ॥ ३ ॥</l>
</lg>
<lg>
  <l>विरहकल्पनया मम मानसं हिमवदेव घनीभवति क्षणात् ।</l>
  <l>द्रवति हन्त विमर्शवशात् पुनर् वहति बाष्पभरेण बहिर्मुखम् ॥४॥</l>
</lg>
<lg>
  <l>किमु वदामि जिजाविरहाकुला तदभिधानपरा रसना मम ।</l>
  <l>गदितुमुत्सहते न तदप्रियं प्रिय कुरुष्व यथाभिमतं तव ॥५॥</l>
</lg>
<lg>
  <l>पतिकुलाभिगमनाहनि सङ्गता उषसि ताः सुखदुःखसमाकुलाः ।</l>
  <l>प्रियसखीसहवासभृशातुराः सवयसः प्रतिवेशिकुलाङ्गनाः॥६॥</l>
</lg>
<lg>
  <l>विहितमङ्गलगाहनभास्वरा रुचिरकुङ्कुमचन्द्रकलाधरा ।</l>
  <l>अरुणवस्त्रयुता शुशुभे जिजा शरदुषा इव सर्वमनोहरा ॥७॥</l>
</lg>
<lg>
  <l>धवलपाटलनीलसरोरुहै: विहितमङ्गलकुन्तलभूषणा ।</l>
  <l>मुखविलोचनपद्ममयी जिजा सपदि सा ददृशे सरसी यथा ॥८॥</l>
</lg>
<lg>
  <l>विविध-हीरक-मौक्तिक-भूषणैः हृदयसन्निहितैर्विरराज सा ।</l>
  <l>गुणवती मृदुमञ्जुलभाषिणी सदुपमानगणैः कविता यथा ॥ ९ ॥</l>
</lg>
<lg>
  <l>नयननीर-भृशार्द्रमुखी जिजा पतिपुराभिमुखी समदृश्यत ।</l>
  <l>विषमसह्यशिलोच्चयमार्गगा गिरिनदीव महार्णवगामिनी ॥१०॥</l>
</lg>
<p>पतिमिताऽमितसम्मदमानसा तदवलोकनमोदितमानसम् ।
तदुदितेङ्गितमात्रवशंवदा प्रथमसिद्धिरिवोत्तमकर्मिणम् ।।११॥</p>
<lg>
  <l>अथ चिरन्तनपुण्यकृतां सतां युगयुगान्तरसञ्चितकर्मणाम् ।</l>
  <l>सुपरिपाकमिवोत्कटपिण्डितं कमपि गर्भमुवाह जिजा शिवम् ॥१२॥</l>
</lg>
<lg>
  <l>श्रुतिरिवाद्भुतमन्त्रबलान्विता विजयभाग् रणनीतिरिवोज्ज्वला ।</l>
  <l>प्रखरवीररसा कविता यथा प्रबलगर्भधरा शुशुभे जिजा ॥१३॥</l>
</lg>
<lg>
  <l>प्रथिततीर्थजलान्तरगाहने मुनितपस्विपदाम्बुजवन्दने ।</l>
  <l>सकलगोद्विजसम्परिपालने मनसि साऽविरतं प्रतितत्वरे ॥ १४॥</l>
</lg>
<pb n="65" />
<p>श्रीशिवराज्योदयम् ।</p>
<lg>
  <l>भगवतीं महिषासुरमर्दिनीं समनुकर्तुमिवैच्छदनेकदा ।</l>
  <l>प्रखरपट्टिशखड्गकृपाणभृत् निजवपुर्मुकुरे समलोकयत् ॥१५॥</l>
</lg>
<lg>
  <l>नगरसीमविलङ्घनमङ्गलाहनि चतुर्दिगुपान्तजिगीषया ।</l>
  <l>सरभसेव महारणरागिणी सकलदिक्षु च चक्षुरूपाक्षिपत् ॥१६॥</l>
</lg>
<lg>
  <l>शरदि मङ्गलदीपमहोत्सवे पतितमन्दिरगर्भगृहेष्वपि ।</l>
  <l>शतशतोज्ज्वलदीपकमालिका रचयितुं न्यदिशत् सकलान् जनान् ॥</l>
</lg>
<lg>
  <l>नभसि गैरिकशोणशुभप्रभाम् उषसि सायमवेक्ष्य दिने दिने ।</l>
  <l>समुदितो भगवद्ध्वज इत्यसौ प्रमुदिता समवन्दत भक्तितः ॥१८॥</l>
</lg>
<lg>
  <l>न हि समैहत वीक्षितुमुज्ज्वलां निमिषमप्युदयाचलसंस्थिताम् ।</l>
  <l>यवनशासनवैभवबोधिनीत्यतिशुभामपि चान्द्रमसीं कलाम् ॥१९॥</l>
</lg>
<lg>
  <l>हततुरुष्कजयध्वजसप्रभेत्यभिविलोकयितुं न समैहत ।</l>
  <l>मरकतोज्ज्वलपर्णसुशोभितां सुरुचिरामपि सह्यवनश्रियम् ॥२०॥</l>
</lg>
<lg>
  <l>विषमसह्यगुहावनचारिणो वसनभूषणहीनतनूञ्जनान् ।</l>
  <l>समवलोकयतादरतो यथा न हि तथा धनिनः स्वजनानपि ॥२१॥</l>
</lg>
<lg>
  <l>हनुमदर्जुनभीमरघूत्तम-प्रभृतिवीरवरेण्यचरित्रतः ।</l>
  <l>प्रथितसङ्गररौद्ररसाः कथा : निशमितुं भृशमुत्सुकतां दधे ॥ २२॥</l>
</lg>
<lg>
  <l>परमपुरुषवीरचरित्रतो भृशमरोचत सैव कथाद्भुता ।</l>
  <l>नखरशस्त्रबलेन महासुरो हत उरःप्रविदारमसौ यदा ॥२३॥</l>
</lg>
<p>सकल एष जनोऽस्तु सुखाप्लुत: चिरमनामय एव च जीवतु ।
जगति पश्यतु भद्रमनेकधा भृशमयाचत सेति सदाशिवम् ।।२४।।
पतिरिमां निकटप्रसवामथो निजनिवासमरातिकुलाकुलम् ।
दृढमवेत्य पदं च निरापदं किमपि सुप्रसवं समचिन्तयत् ।।२५।।</p>
<lg>
  <l>निकटवर्तिनमुन्नतदुर्गमं शिवमयं च शिवासमधिष्ठितम् ।</l>
  <l>गिरिगतं शिवनेरिशिवाभिधं स्ववशदुर्गमिमामहिनोदसौ ॥२६॥</l>
</lg>
<p>निदाघवर्णनम् ।</p>
<lg>
  <l>अथ मधौ हि विलासविमूर्च्छिते तपनदीधितितापभयावहः ।</l>
  <l>समय उष्णतयाऽतिविशोषको दहनबन्धुरिवाभियौ द्रुतम् ॥ २७ ॥</l>
</lg>
<lg>
  <l>रविमवेक्ष्य सुतप्ततरं भृशं मरुदियाय स तद्गुणतां स्वयम् ।</l>
  <l>बत बत क्षमया प्रथिता क्षमाऽभवदसौ सहसा ध्रुवमक्षमा ॥२८॥</l>
</lg>
<p>खनितुमेव हि कूपतलं श्रमी विवरमेत्य भुवो भृशशीतलम्
सदनशेखरसंस्थितशिल्पिनं रविकराभिहतं समुदीक्षते ॥ २९ ॥</p>
<lg>
  <l>सुघटिता समता हि निदाघतः सकलसज्जनवृन्दसमीहिता ।</l>
  <l>विनिहिताः सदनेष्वखिलैर्यतो धनिभिरप्यधनैरिव मृद्घटाः ॥३०॥</l>
</lg>
<pb n="66" />
<p>चतुर्थः सर्गः ।                                                       २३</p>
<lg>
  <l>क्षणश एव यथा रविरुच्चकैः समधिरोहति तुङ्गनभोगिरिम् ।</l>
  <l>जगदिदं स्वकरैरुपकर्षयन् नयति सन्निधतामिव चात्मनः ॥३१॥</l>
</lg>
<lg>
  <l>रविकरैरदयं युगपद् हृतं सकलमीनसरोवरजीवनम् ।</l>
  <l>प्रखरतापभृतां दहनात्मनां हतबलेषु कुतः करुणाऽसताम् ॥ ३२॥</l>
</lg>
<lg>
  <l>तरणिना हि धरान्तरसंस्थितान् सकलरत्ननिधीनभिवीक्षितुम् ।</l>
  <l>निजसहस्रकरैरिव दारिता कठिनमृत्कवचाऽपि वसुन्धरा ॥३३॥</l>
</lg>
<lg>
  <l>तपनदीधितितापभृशाकुलं पशुकुलं विनिविष्टमहर्दिवम् ।</l>
  <l>तरुतले बहुपल्लवशीतले पिहितचक्षुरहान्तमपेक्षते ॥ ३४ ॥</l>
</lg>
<p>सुषमयाsमरराज हरिद् यया बहु विराजति पाटलयोषसि ।
प्रतिनिशं सकलास्वपि दिक्षुसा स्फुरति नूनमहो दववह्निना ॥ ३५॥.
मरुति वाति निशास्वतिदाहके स्फुरति दावमहानलतेजसि ।
न रविरस्तमगादिति शङ्कया बहिरियाय न घूककदम्बकम् ॥ ३६॥.</p>
<lg>
  <l>विगतपङ्कमये धरणीतले तरणितापहतं खलु गोकुलम् ।</l>
  <l>न च विदूरमपैतुमभीहते क्षणमहो लघुकूपसमीपतः ॥ ३७॥</l>
</lg>
<lg>
  <l>कृपणतुल्यमनेन जलं चिरं विजनकूपखलेन हि सञ्चितम् ।</l>
  <l>तदपनीतमतो रविणा स्वयं खलधनं हरणीयमिहाधिपैः ॥ ३८॥</l>
</lg>
<lg>
  <l>सकलकूपसरःसरितां पयो रविकरैरुपशोष्य दिवानिशम् ।</l>
  <l>बहूपिपासितयेव दिवाऽधुना किमदयं सकलं परिपीयते ॥ ३९ ॥</l>
</lg>
<p>यदि सरो विजलं क्व सरोरुहं ? न हि सरोरुहमेव कुतोऽलय: ?
यदलयो न कुतो मधुगुञ्जितं? न मधुगुञ्जितमेव कुतो मुदः ? ॥४०.</p>
<lg>
  <l>बक उपेति सरित्तटमुत्सुको नियतदम्भतपश्चरणाय सः।</l>
  <l>विगतनीरतया पुलिने पुनः भवति तस्य नितान्तविडम्बना ॥४१॥</l>
</lg>
<lg>
  <l>तपनदाह-सुदग्धतनूरियं बकततिः समगात् किमु कृष्णताम् ।</l>
  <l>इति सशंकमयं बहुकौतुकी वियति पश्यति काकततिं जनः ॥४२॥</l>
</lg>
<lg>
  <l>समविशद् रविरश्मिविभर्जितः प्रकुपितोऽहिरितीव पिपीलिकाः ।</l>
  <l>स्वविवरं परिहाय भयाकुलाः उदककुम्भसमीपमुपस्थिताः ॥४३॥</l>
</lg>
<lg>
  <l>विकचमेचकनीरजपुञ्जवत् निशि नभः प्रतिभाति च माधवे ।</l>
  <l>तदभिलाषवशीकृतमानसा इव समुत्पतिता उडुहंसका: ॥४४॥</l>
</lg>
<lg>
  <l>तपनदीधितितप्ततनूभृतो दिव इवाधिकघर्मपयःकणाः ।</l>
  <l>उडुगणा हि निदाघनिशासु ते परिलसन्ति सुमौक्तिकसुन्दराः ॥ ४५ ॥ ॥</l>
</lg>
<lg>
  <l>सुखयितुं सकलानुपनीतमित्यभिविलोकितमादरतो जनैः ।</l>
  <l>पवनजेन हिमालयशृङ्गकं प्रतिनिशं शशिखण्डमदो मुदा ॥४६॥</l>
</lg>
<pb n="67" />
<p>श्रीशिवराज्योदयम् ।</p>
<lg>
  <l>शशिभुजङ्गवदेवसरिद्धरोऽपि स हरो न सहेत महातपम् ।</l>
  <l>शिरसि सन्ततधारमतो जलं निहितमस्य जनैः प्रतिमन्दिरम् ॥४७॥</l>
</lg>
<lg>
  <l>रविकरैरभितप्ततनूभृतां तरुविहीनपथं व्रजतां नृणाम् ।</l>
  <l>क्वचिदकालघनो नभसि स्फुरन् वरदहस्तसमो भवति प्रभोः ॥४८॥</l>
</lg>
<lg>
  <l>इति निदाघमहातापतपिते समय एव शुभाहनि माधवे ।</l>
  <l>किमपि सौख्यमबोधितकारणम् स्वहृदये सहसा जनताऽन्वभूत् ॥</l>
</lg>
<lg>
  <l>विपिनपुष्पसुगन्धवो मरुत् परिजहर्ष तथैव हुताशनः ।</l>
  <l>मृदितभृङ्गविहङ्गकुलं जगौ किमपि मङ्गल-गीतमविस्फुटम् ॥</l>
</lg>
<lg>
  <l>सकलदेवकुलेषु महाध्वनिः मुरजशंखभवोऽनददुच्चकैः ।</l>
  <l>निशमिता: सुचिरं जयगर्जना: मुदितदेवगणैरिव घोषिताः ॥५१॥</l>
</lg>
<lg>
  <l>सकलसज्जनमानसवर्तिनी परममङ्गलवाञ्छितवल्लरी ।</l>
  <l>शुभतमेऽह्नि नवार्भकजन्मना सुफलिता शिवनेरि-महालये ॥५२॥</l>
</lg>
<lg>
  <l>नवशिशोरतिभास्वरतेजसा न गृहमात्रगता लघुदीपिका: ।</l>
  <l>प्रतिहता यवनाधिपमस्तकस्थितकिरीटमहामणिभा अपि ॥५३॥</l>
</lg>
<p>पुण्ये च नामकरणाहनि मीलिताभिः तस्याङ्गनाभिरुदितं हि नवार्भकस्य
तद्दुर्गदैवतसमाख्यमनन्तकीर्ति प्रेम्णा शिवाजिरिति मङ्गलनामधेयम् ॥</p>
<lg>
  <l>नृवीरवर्यस्य रणोत्सुकस्य प्रियं शहाजेरपि तच्च नाम ।</l>
  <l>शिवा भवेदाजिरमुष्य चेति स नामधेयार्थमुदाजहार ॥ ५५॥</l>
</lg>
<lg>
  <l>नवीनां निरुक्तिं स्वतः कल्पितां तां स्वपुत्राभिधानस्य लोकान् ब्रुवाणः ।</l>
  <l>पिता मन्त्रवत् संजुगुञ्जेव भूयः नवार्भकस्य तन्मङ्गलं नामधेयम् ॥५६॥</l>
</lg>
<lg>
  <l>कुटीरे कुटीरे प्रसन्नान्तराणां शिशूनां च यूनां च सीमन्तिनीनाम् ।</l>
  <l>ननर्तेव जिह्वाग्रमञ्चेऽभिधानं शिवाजिः शिवाजिः शिवाजिः शिवाजिः ॥</l>
</lg>
<p>रसालरसरक्तकण्ठपिकवृन्दमञ्जुस्वराः
कृषीवलकुलाङ्गनाः प्रतिगृहं जगुः सर्वदा ।</p>
<lg>
  <l>सुशाययितुमर्भकान् स्वरचिताश्च गीतीर्नवाः ।</l>
  <l>स्वबान्धवसुखश्रवाः प्रियशिवाजिनामाङ्किताः ॥ ५८ ॥</l>
</lg>
<p>॥ इति श्रीशिवराज्योदये महाकाव्ये चतुर्थः सर्गः ॥</p>
<pb n="68" />
<p>श्रीशिवराज्योदये महाकाव्ये "शिवशिक्षणं" नाम:
पञ्चमः सर्गः</p>
<lg>
  <l>जिजातनूजः शिवनेरिदुर्गे दिने दिने संववृधेऽतितेजाः ।</l>
  <l>यथोदयाद्रावुदयोन्मुखोऽसौ क्षणे क्षणे बालसहस्ररश्मिः ॥१॥</l>
</lg>
<lg>
  <l>विलम्बिदोलाशयने शयानः मुखारविन्देन पदारविन्दम् ।</l>
  <l>लिहन् मुदा मातृमनोऽरविन्दे न्यषिञ्चदानन्दसुधाप्रवर्षम् ॥ २ ॥</l>
</lg>
<lg>
  <l>क्षुधाकुलं तं च विजानती सा माता जिजां सत्वरमुत्सरन्ती ।</l>
  <l>गाढं गृहीत्वा हृदयावलग्नम् अपाययत् स्नेहमयं पयः स्वम् ॥३॥</l>
</lg>
<lg>
  <l>स स्तन्यपीयूषरसं प्रसन्नः पपौ स्वमातुर्मुखमीक्षमाणः ।</l>
  <l>आकेकराक्षोऽमृतरश्मिविम्ब-निषक्तनेत्रो हि यथा चकोर: ॥ ४ ॥</l>
</lg>
<lg>
  <l>अभ्यंगसुस्नातममुं कुमारं श्रीखण्डरेखाङकित - चन्द्रभालम् ।</l>
  <l>विलोकयन्ती जनताद्रिसंस्था मेने शिवाजिं शिवकल्पमेव ॥ ५ ॥</l>
</lg>
<lg>
  <l>संत्यज्य मृत्क्रीडनकानि सर्वाण्यबालसत्त्वः स हि वीरबालः ।</l>
  <l>कृपाणखड्गच्छुरिकादिशस्त्रैः संक्रीडितुं तत्परतां दधार ॥६॥</l>
</lg>
<lg>
  <l>आकर्ण-संकृष्टधनुर्गुणोऽसौ अनन्यदृष्टिः स्थिरचित्तवृत्तिः ।</l>
  <l>विध्यन् स्ववेध्यं द्रुतमप्रमादं मेने गुणज्ञैः खलु वीरयोगी ॥७॥</l>
</lg>
<lg>
  <l>सम्भ्रामयन् पट्टिशमुज्जवलाभं मरुज्जवेनेव सुनीलकान्तिः ।</l>
  <l>रराज स स्वेदलवार्द्रमूर्तिः तडित्परीताभिनवाम्बुदाभः ॥ ८ ॥</l>
</lg>
<lg>
  <l>दूरस्थवेध्याभिमुखं स्वशूलं प्रक्षिप्य शक्त्याऽपि पुनस्तमेव ।</l>
  <l>संधकामः स्वकरेण भूयः शूलानुसारी प्रदुधाव वेगात् ॥९॥</l>
</lg>
<lg>
  <l>स मल्ल केलीषु शिशून् वयस्थान न केवलं जेतुमभूत्समथः ।</l>
  <l>वयोऽधिका अप्यभवन्न शक्ताः तरस्विनं जेतुममं कुमारम् ॥१०॥</l>
</lg>
<lg>
  <l>वृक्षाग्रशाखासु समुत्प्लवन्तं प्लवङ्गवृन्दं भृशलोलशीलम् ।</l>
  <l>विडम्बयन्नड्डयन्नैः स बालः प्रमोदमग्नान् विदधे वयस्यान् ॥ ११ ॥</l>
</lg>
<lg>
  <l>झञ्झामरुच्चञ्चलमुत्प्लवन्तं तुरङ्गमं रश्मिविनाकृतं च ।</l>
  <l>स्फुरत्सटावग्रहणं स वेगात् क्षणादिवाध्यास्य चमच्चकार ॥ १२ ॥</l>
</lg>
<lg>
  <l>उक्षाणमुन्मत्तमपि प्रसह्य विषाणयोरात्मबलेन धृत्वा ।</l>
  <l>प्रत्याक्षिपत्तं हि तथा यथाऽसौ वप्रावलीलारसमुत्ससर्ज ॥१३॥</l>
</lg>
<lg>
  <l>सह्याद्रिजारण्यविहारलोलं शार्दूलशावं रभसा प्रगृह्णन् ।</l>
  <l>पृष्ठं समध्यास्य मुदाऽस्य हिण्डन् धीरैरपि व्यात्तभयैरलोकि ॥ १४॥</l>
</lg>
<pb n="69" />
<pb n="70" />
<pb n="71" />
<pb n="72" />
<pb n="73" />
<pb n="74" />
<pb n="75" />
<pb n="76" />
<pb n="77" />
<pb n="78" />
<pb n="79" />
<pb n="80" />
<pb n="81" />
<pb n="82" />
<pb n="83" />
<pb n="84" />
<pb n="85" />
<pb n="86" />
<pb n="87" />
<pb n="88" />
<pb n="89" />
<pb n="90" />
<pb n="91" />
<pb n="92" />
<pb n="93" />
<pb n="94" />
<pb n="95" />
<pb n="96" />
<pb n="97" />
<pb n="98" />
<pb n="99" />
<pb n="100" />
<pb n="101" />
<pb n="102" />
<pb n="103" />
<pb n="104" />
<pb n="105" />
<pb n="106" />
<pb n="107" />
<pb n="108" />
<pb n="109" />
<pb n="110" />
<pb n="111" />
<pb n="112" />
<pb n="113" />
<pb n="114" />
<pb n="115" />
<pb n="116" />
<pb n="117" />
<pb n="118" />
<pb n="119" />
<pb n="120" />
<pb n="121" />
<pb n="122" />
<pb n="123" />
<pb n="124" />
<pb n="125" />
<pb n="126" />
<pb n="127" />
<pb n="128" />
<pb n="129" />
<pb n="130" />
<pb n="131" />
<pb n="132" />
<pb n="133" />
<pb n="134" />
<pb n="135" />
<pb n="136" />
<pb n="137" />
<pb n="138" />
<pb n="139" />
<pb n="140" />
<pb n="141" />
<pb n="142" />
<pb n="143" />
<pb n="144" />
<pb n="145" />
<pb n="146" />
<pb n="147" />
<pb n="148" />
<pb n="149" />
<pb n="150" />
<pb n="151" />
<pb n="152" />
<pb n="153" />
<pb n="154" />
<pb n="155" />
<pb n="156" />
<pb n="157" />
<pb n="158" />
<pb n="159" />
<pb n="160" />
<pb n="161" />
<pb n="162" />
<pb n="163" />
<pb n="164" />
<pb n="165" />
<pb n="166" />
<pb n="167" />
<pb n="168" />
<pb n="169" />
<pb n="170" />
<pb n="171" />
<pb n="172" />
<pb n="173" />
<pb n="174" />
<pb n="175" />
<pb n="176" />
<pb n="177" />
<pb n="178" />
<pb n="179" />
<pb n="180" />
<pb n="181" />
<pb n="182" />
<pb n="183" />
<pb n="184" />
<pb n="185" />
<pb n="186" />
<pb n="187" />
<pb n="188" />
<pb n="189" />
<pb n="190" />
<pb n="191" />
<pb n="192" />
<pb n="193" />
<pb n="194" />
<pb n="195" />
<pb n="196" />
<pb n="197" />
<pb n="198" />
<pb n="199" />
<pb n="200" />
<pb n="201" />
<pb n="202" />
<pb n="203" />
<pb n="204" />
<pb n="205" />
<pb n="206" />
<pb n="207" />
<pb n="208" />
<pb n="209" />
<pb n="210" />
<pb n="211" />
<pb n="212" />
<pb n="213" />
<pb n="214" />
<pb n="215" />
<pb n="216" />
<pb n="217" />
<pb n="218" />
<pb n="219" />
<pb n="220" />
<pb n="221" />
<pb n="222" />
<pb n="223" />
<pb n="224" />
<pb n="225" />
<pb n="226" />
<pb n="227" />
<pb n="228" />
<pb n="229" />
<pb n="230" />
<pb n="231" />
<pb n="232" />
<pb n="233" />
<pb n="234" />
<pb n="235" />
<pb n="236" />
<pb n="237" />
<pb n="238" />
<pb n="239" />
<pb n="240" />
<pb n="241" />
<pb n="242" />
<pb n="243" />
<pb n="244" />
<pb n="245" />
<pb n="246" />
<pb n="247" />
<pb n="248" />
<pb n="249" />
<pb n="250" />
<pb n="251" />
<pb n="252" />
<pb n="253" />
<pb n="254" />
<pb n="255" />
<pb n="256" />
<pb n="257" />
<pb n="258" />
<pb n="259" />
<pb n="260" />
<pb n="261" />
<pb n="262" />
<pb n="263" />
<pb n="264" />
<pb n="265" />
<pb n="266" />
<pb n="267" />
<pb n="268" />
<pb n="269" />
<pb n="270" />
<pb n="271" />
<pb n="272" />
<pb n="273" />
<pb n="274" />
<pb n="275" />
<pb n="276" />
<pb n="277" />
<pb n="278" />
<pb n="279" />
<pb n="280" />
<pb n="281" />
<pb n="282" />
<pb n="283" />
<pb n="284" />
<pb n="285" />
<pb n="286" />
<pb n="287" />
<pb n="288" />
<pb n="289" />
<pb n="290" />
<pb n="291" />
<pb n="292" />
<pb n="293" />
<pb n="294" />
<pb n="295" />
<pb n="296" />
<pb n="297" />
<pb n="298" />
<pb n="299" />
<pb n="300" />
<pb n="301" />
<pb n="302" />
<pb n="303" />
<pb n="304" />
<pb n="305" />
<pb n="306" />
<pb n="307" />
<pb n="308" />
<pb n="309" />
<pb n="310" />
<pb n="311" />
<pb n="312" />
<pb n="313" />
<pb n="314" />
<pb n="315" />
<pb n="316" />
<pb n="317" />
<pb n="318" />
<pb n="319" />
<pb n="320" />
<pb n="321" />
<pb n="322" />
<pb n="323" />
<pb n="324" />
<pb n="325" />
<pb n="326" />
<pb n="327" />
<pb n="328" />
<pb n="329" />
<pb n="330" />
<pb n="331" />
<pb n="332" />
<pb n="333" />
<pb n="334" />
<pb n="335" />
<pb n="336" />
<pb n="337" />
<pb n="338" />
<pb n="339" />
<pb n="340" />
<pb n="341" />
<pb n="342" />
<pb n="343" />
<pb n="344" />
<pb n="345" />
<pb n="346" />
<pb n="347" />
<pb n="348" />
<pb n="349" />
<p>( ६ )</p>
<p>कं दुनोति न सुतो विरोधकः ॥                                                                 ४५
काले मृषा वचनमाहुरगर्हणीयम् ॥                                                            ५०
॥ अष्टादशः सर्गः ॥
अभद्रशङकाकुलमानसानां जिज्ञासुता वृद्धिमिवेत्यकस्मात् ॥                           ६</p>
<lg>
  <l>मृगाधिराजस्य महागुहायां मृगी कथं प्राविशदप्रगल्भा ॥                                 ३२</l>
  <l>न प्रातिकूल्यं परमाणुमानं मोहम्मदीयाः क्वचनासहन्त ।</l>
  <l>उपेक्षमाणो हि रिपुस्फुलिङ्गो दावायते कालकलान्तरेण ॥                              ३७</l>
  <l>॥ विशः सर्ग ॥</l>
</lg>
<p>कुतो नु संज्ञाविरहोऽल्पशोऽपि कल्पेत संजीवनमन्त्रयोगे ॥                            २६
॥ एकविंशः सर्गः ॥
न शेषितव्यः खलु देवशत्रुः ॥                                                                   २८
आकाङक्षितं दुर्घटमात्मशक्त्या वीराः स्वमातुः परिपूरयन्ति ॥                         ३५
॥ द्वाविंशतितमः सर्गः ॥
जिगीषुरल्पविषयोऽल्पीय सैन्यपरिच्छदः ।
अल्पिष्ठेनैव कालेन जयेदिति मतिर्मम ॥                                                       ९
निदाघ इव दावाग्निः शरत्काले द्विषद्गणः ।
उपेक्ष्यमाणः सहसा जायते बलवत्तरः ॥                                                      २२
प्रीणयन्ति न कं लोके विपत्तिसहयोगिनः ॥                                                  २५
सागरान्तर्गतः किं नु व्यज्यते वडवानलः ॥                                                   ४७
॥ त्रयोविंशः सर्गः ॥
रत्नाकरोऽपि जलधिनित्यं स्पृहयतीन्दवे ॥                                                   १९
नर्ते राजेन्द्र सेवाया धर्म्यमन्यत् कलौ युगे ॥                                                 २२
राजपीठाभिगमनै राजनिष्ठावलोकनैः ।
राजानुकूलाचरणं राजलक्ष्मीः प्रसीदति ॥                                                    २४
राजस्थाणुमुपाश्रित्य वर्धते कीर्तिवल्लरी ॥                                                   २५
शुभं कामयमानेन वाशुभं निश्चिकीर्षुणा ।
स्वयमेवाभिगन्तव्य धीमता राजवल्लभाः ॥                                                  २६</p>
<pb n="350" />
<p>( ७ )</p>
<p>विहितं चेत् क्वचित् किञ्चिद् राजापथ्यमजानता ।
तदायतिमपध्नन्ति कृपया राजवल्लभाः ॥                                  २७
निजसदनमुपेतुं कस्य नात्राभिलाषः ॥                                      ३१
॥ चतुविशः सर्गः ॥
निजसदनमुपेते प्राकृतेऽप्यस्मदीया
विदधति खलु पूजां किं पुनः स्वे पितृव्ये ॥                                 ४१
स्वामिलेखे स्थिते वाचो भृत्यस्याप्रस्तुताः खलु ॥                          ४३
पत्रं प्रदीर्घमप्यन्तर्भावं नाविष्करोत्यलम् ॥                                 ४५
॥ पञ्चविंशः सगः ॥
सेवकानां प्रमोदाय मोदो हि स्वामिनः सदा ॥                             २१
यस्मिन्नेव क्षणे सूर्यः स उदेतुं प्रवर्तते ।
क्षणशः कणशस्तस्मस्तमसा हि विशीर्यते ॥                               २५
विजिगीषोर्बलाढयस्य प्रमत्ता अपि शत्रवः ।
स्वयमात्मानमाध्नन्ति प्रद्रवन्ति नमन्ति वा ॥                                २६
किन्तु शीघ्रातिशीघ्रं चाप्यारादपि यियासुना ।
कर्दमे चान्धकारे च नाधेयः सहसा पदः ॥                                  २७
शूराणामुपदेशाय न षण्ढाः खलु पण्डिताः ॥                              ४१
भीतोऽप्याखुबिडालस्य स्वयमायाति किं मुखे ? ॥                       ४५
उत्सवेन महोत्साहो निरुत्साहेषु जायते ॥                                  ४७
बलं प्रबलमप्येति निर्बलत्वं विनाऽऽहम् ॥                                 ४९
युद्धाभावे युयुत्साऽसौ पूर्यते विजयोत्सवः ॥
आरम्भेऽन्ते हि युद्धस्य कर्तव्या विजयोत्सवाः ॥                          ५०
लोकेऽस्मिन् नियतिहतस्य पूरुषस्य
धीरादौ प्रतिपदमेति वैपरीत्यम्॥                                             ५४
॥  षडींवशः सर्गः ॥
का चिन्ता विषये स्वके ॥१७॥
बलवन्तो न वाञ्छन्ति स्थानं समबलैः समम् ॥                            २२
न जातु जायते भीरौ शास्त्रयोगेन शूरता ॥                                 २४
नैकाकिनो हि श्रीमन्तः यान्ति क्वापि कदाचन ॥                          २९</p>
<pb n="351" />
<pb n="352" />
<pb n="353" />
<pb n="354" />
<pb n="355" />
<pb n="356" />
<pb n="357" />
<pb n="358" />
<pb n="359" />
<pb n="360" />
<pb n="361" />
<pb n="362" />
<pb n="363" />
<pb n="364" />
<pb n="365" />
<pb n="366" />
<pb n="367" />
<pb n="368" />
<pb n="369" />
<pb n="370" />
<pb n="371" />
<pb n="372" />
<pb n="373" />
<pb n="374" />
<pb n="375" />
<pb n="376" />
<pb n="377" />
<pb n="378" />
<pb n="379" />
<pb n="380" />
<pb n="381" />
<pb n="382" />
<pb n="383" />
<pb n="384" />
<pb n="385" />
<pb n="386" />
<pb n="387" />
<pb n="388" />
<pb n="389" />
<pb n="390" />
<pb n="391" />
<pb n="392" />
<pb n="393" />
<pb n="394" />
<pb n="395" />
<pb n="396" />
<pb n="397" />
<pb n="398" />
<pb n="399" />
<pb n="400" />
<pb n="401" />
<pb n="402" />
<pb n="403" />
<pb n="404" />
<pb n="405" />
<pb n="406" />
<pb n="407" />
<pb n="408" />
<pb n="409" />
<pb n="410" />
<pb n="411" />
<pb n="412" />
<pb n="413" />
<pb n="414" />
<pb n="415" />
<pb n="416" />
<pb n="417" />
<pb n="418" />
<pb n="419" />
<pb n="420" />
<pb n="421" />
<pb n="422" />
<pb n="423" />
<pb n="424" />
<pb n="425" />
<p>श्रीशिवराज्योदयम्
ग्रन्थकर्तुः परिचयः
नाम - डॉ. श्रीधर भास्कर वर्णकर M. A. D. Lit. (नागपुरम् )
जन्म - दि. ३१-७-१९१९
व्यवसायः - नागपुरविद्यापीठे प्रपाठकः
रुचिः - संस्कृत-साहित्य-व्याकरण-वेदान्तेषु
राष्ट्रशक्ति-मराठी साप्ताहिकस्य भूतपूर्वः प्रथमः संपादकः
संस्कृत-भवितव्य-साप्ताहिकस्य
योगप्रकाश-मराठी-मासिकस्य-संपादक:
नागपुरस्थ-भोसला-वेदशास्त्र-महाविद्यालयस्य अध्यक्षः
नागपुरस्थ-योगाभ्यासि-मण्डलस्य अध्यक्षः
-योगाभ्यासि- -मण्डलस्य अध्यक्षः
प्रकाशनानि</p>
<note>१. मन्दोर्मिमाला (स्फुटकाव्यचतुःशती)</note>
<note>२. महाभारतकथाः</note>
<note>३. भारतरत्नशतकम्</note>
<note>४. स्वातन्त्र्यवीरशतकम्</note>
<note>५. कालिदासरहस्यम् (शतकम्)</note>
<note>६. रामकृष्णपरमहंसीयम् (शतकम् )</note>
<note>७. वात्सल्यरसायनम् (शतकम्)</note>
<note>८. अर्वाचीन संस्कृत-साहित्य (डी.लिट्. प्रबन्धः )</note>
<note>९. अभंगधर्मपद (धम्मपदस्य मराठी पद्यात्मकं विवरणम् )</note>
<note>१०. शिवराज्योदयम्-महाकाव्यम् ।</note>
<note>११. विवेकानन्दविजयम्-महानाटकम् ।</note>
<p>(बहुषु नियतकालिकेषु प्रकाशिताः द्विशताधिकाः निबन्धलेखाः
अन्ये च नैके शोधप्रबन्धाः )
अप्रकाशितम्</p>
<note>१. परोक्षपाणिनीयम् ( हिन्दी प्रबन्धः )</note>
<note>२. शिवराज्याभिषेकम् (नाटकम्)</note>
</body>
</text>
</TEI>