शारदा-गौरव-ग्रन्थमाला ...८ श्रीशिवराज्योदयम् महाकविः डॉ. श्रीधर भास्कर वर्णेकर M.A.,D.Lit. मूल्यं ४० रूप्यकाः प्रकाशक: पं. वसन्त अनन्त गाडगीळ शारदा-गौरव-ग्रन्थमाला ४२५ सदाशिवपेठ, पुण्यपत्तनम् ३० प्रथमावृत्तिः श्रीशिवजयन्त्युत्सवः शिवशक: २९८, ख्रि. १९७२ सर्वाधिकाराः प्रकाशकायत्ताः मुद्रकः पं. वसन्त अनन्त गाडगीळ श्रीशारदा-मुद्रण-सिद्धि-मन्दिरम् ४२५ सदाशिवपेठ, पुण्यपत्तनम् ३० यशवन्त-मुद्रणालयः १८३५, सदाशिवपेठ, पुण्यपत्तनम् ३० शिवराजेन वीरेण मनोवाक्कायकर्मभिः । अर्चितायार्पये भक्त्या देवाय जनतात्मने ॥ प्राक्कथनम् कृती भविष्यति वर्णेकरसूरिः । प्रतिबिम्बित-मनुज-सुलभ-गुणदोषजाते पञ्चषसहस्र वर्षावधिमात्रस्पष्टरूपरेखे मनुष्यजातीतिहासक्रमे विरलानुपाता एवाविर्भावा महापुरुषाणाम् । तत्र केचन धर्मानुशासन-शोधित-स्वान्ताः केचिद् विज्ञानसिद्धयुद्भासित-दिगन्ताः केस्विच्च स्वपराक्रमनिरस्त-पारतन्त्र्यध्वान्ताः समवृतन् । चरमकोटिसमाविष्टास्तत्र कराङगुलिमेयसंख्या एव ते येषु समन्वय उपलभ्यो गुणविशेषाणां वीरता-साधुता-चातुरी- सर्वजनक्षेमपरता-प्रभृतीनाम् । एतेषु धुरीणाग्रेसर-नर-केसरिषु निःसन्देहम् अग्रगण्यः पुण्यश्लोकः श्रीमत्शिवच्छत्रपतिः । किमत्र चित्रं यत्तद्गुणैः कर्णमागत्य डॉ. श्री. भा. वर्णेकर: कविर्न चापलाय- किन्तु दशहायनाधिकायत महाकाव्य-प्रणयन-व्यवसायाय प्रचोदितः। दिष्ट्या फलेग्रहिरभूदयं द्राघीयान् व्यायासः प्रकाशनोन्मुखश्च सहृदयानां समक्षम्। तस्येदं प्राक्कथनं मत्तोऽभिजग्मिवान् कविर्माम् अतितरां समभावयत् । पुरः स्थापितं सहृदयानाम् इदं श्रीशिवराज्योदयं महाकाव्यं वर्णेकरस्य द्विपञ्चाशदधिकाष्टशताधिक त्रिसहस्रपदमितम् ( ३८५२) अष्टषष्टिसर्गायामवन्न केवलं काव्यस्य परन्तु महाकाव्यस्यापि तांस्तान् विदग्धवर्णितान् गुणान् सम्यक् पुष्णाति । संस्फूर्तिर्भावानाम् उत्कट उन्मेष: प्रतिभाविष्कारश्चारुपद-विन्यासः सदुपमार्थान्तरन्यासाद्यलङकार-प्राचुर्यं सर्वम् इदम् उपलभेत सहृदयः पठितास्यां कृतौ । तत्रापि कविनाश्रिता वैदर्भीरीतिरतीव साम्प्रता समुहलसति पदे पदे । यथाह कविरेकः अनभ्रवृष्टि: श्रवणामृतस्य सरस्वतीविभ्रमजन्मभूमिः । वैदर्भरीतिः कविनामुदेति सौभाग्यलाभप्रतिभूर्जनानाम् ॥ " यथाह भवभूतिः—" कालो ह्ययं निरवधिर्विपुला च पृथ्वी । " शनैः शनैरस्तङ्गामिनि सुरभारतीप्रणये भारतेऽद्यतने महाकाव्यस्यास्यानवद्यपद्यस्य न विद्येरन् आस्वादयितारो रसिका: पर्याप्त संख्या: कामम् । द्रढीयान् पुनर्मम विश्वासो यदचिरादेवोक्षितकालस्थलसीमां कृतिमात्मनः सर्वतोविसारि-रसिक-मण्डलं रञ्जयित्वा संस्कृत-साहित्य-प्राङ्गणे लब्धवर्णाम् आलोक्य कृती भविष्यति वर्णकरसूरिः । हैदराबाद दि. ९।१।७२ चिं. द्वा. देशमुख वीरचरितं स्थाने स्थाने प्रगीयते स्म । पुण्यपत्तनवास्तव्यः खाडिलकरनामधेयः कश्चन " शाहीर : " ( कविरिति संस्कृतभाषायाम् ) नागपुरम् आगत्य स्थाने स्थाने शिवचरित्र-विषयाणि वीरगीतानि ( पोवाडे इति मराठी-भाषायाम् ) महता आवेशेन उच्चैः गायति स्म । तेषां वीरगीतानां भूयः श्रवणेन उन्मनस्क इवाहमासम् । श्री. खाडिलकर-विरचितानि तानि सर्वाणि वीरगीतानि मया शीघ्रमेव कण्ठस्थीकृतानि । अफजलखानवधम् अधिकृत्य विरचितं तदीयं वीरगीतं नितान्तं खलु मे प्रियमासीत् यथावसरं च एतानि वीरगीतानि वयस्यमण्डले उच्चैर् अहम् अगायम् । १९२७ तमे ख्रिस्ताब्दे राष्ट्रिय-स्वयंसेवक-संघेन समं प्रथमः परिचयो मेऽभवत् । संघधुरीणानां व्याख्यानेषु शिवाजिचरित्रविषया नानाविधा ऐतिहासिक्य आख्यायिका अनैतिहासिक्यश्च कथा मयाऽश्रूयन्त । संघकार्यकर्तृषु अण्णा सोहनी-नामधेयः व्यायामविद्याविशारदः परमोत्साहबल-संपन्नः कश्चन तरुणः कार्यकर्ता तदानीं नागपुरे आसीत् । अनेन महानुभावेन सह दृढः खलु मे परिचयोऽभवत् । स हि ऐतिहासिक कथानिवेदन-कर्मणि बाढं प्रवीण आसीत् । बालकानां भावोद्दीपने असाधारणं तस्यासीत् कौशल्यम् । शिवचरित्रानुबद्धा नानाविधा वीराद्भुत कथा: प्रत्यहम् अनुभूता इव स मह्यं बहुशो निवेदयति स्म । अथैकदा मया पृष्टम् " कथं भवान् शिवाजिचरित्रविषयम् एतत् सर्वं जानाति ? अपि भवान् तस्मिन् समये स्वयमासीत् । सोऽब्रवीत् "ओम् ! आसमहं तदानींतने काले साक्षात् शिवच्छत्रपतेः अश्वभूतः । एतद् हि वाक्यं तेन तथा खलु उच्चारितं यथा तत्र बालस्य मे द्रढीयानभवद् विश्वासो दीर्घकालपर्यन्तम् । नागपुरे दादाशास्त्री कायरकर-नामधेयः कश्चन सुविश्रुतः कीर्तनकला-कोविदः तेषु दिवसेषु स्वीयेन कथानिवेदन-कौशल्येन नितान्तं लोकप्रियतां प्राप । स हि महानुभावः कीर्तनावसरेषु महाराष्ट्रेतिहासगतानि ' आख्यानानि' अतीव रोचकतया वर्णयति स्म । तत्र च शिवचरित्रसंबन्धीनि विविधानि आख्यानानि भृशं खलु मह्यम् अरोचन्त । नैकवारं श्री. दादाशास्त्रि कायरकर-महाभागस्य कीर्तनानि श्रावं श्रावं मया शिवचरित्ररसपानं बाल्ये वयसि कृतमासीत् । १९३० तमे ख्रिस्ताब्दे त्रिशततम-शिवजन्ममहोत्सव-निमित्तं महाराष्ट्रस्थ-बालकानां प्रियतमया 'आनन्द ' -नाम-मासिक-पत्रिकया कश्चन सचित्रः शिवाजिविशेषाङ्क: प्रकाशितः । दृष्टमात्र एव स शिवाजि-विशेषाङ्क: नितान्ततृषितेनेव मया नैकवारम् समग्रतया नूनं निपीतः । अतःपूर्वं न मया सविस्तरं शिवचरित्रं क्वचिदपि पठितुम् अलभ्यत । -३वयसः १४ तमे वर्षे मया चित्रकलायाः किमपि प्राथमिकं ज्ञानं प्राप्तम् । चित्रकलाध्यापकेन हि आरम्भ एव शिवरायस्य रेखाचित्रम् अस्मत्पुरतः स्वाध्यायार्थम् आलिखितम् । तत्र शिवराजचित्रालेखने किमपि नैपुण्यं प्राप्तवता मया सर्वेषु पुस्तकेषु गृहभित्तिषु च इतस्ततः शिवराजस्य चित्राणि आलिखितानीति स्मर्यते । शिवचरित्र-संबद्धानि शिवनेरी-सिंहगड-रायगड-प्रतापगड-प्रमुख्यानि दुर्ग-स्थानानि समक्षं द्रष्टुं तीव्रप्रेरणा मनसि काले काले उदभवत् । परं स मे मनोरथः क्षुद्रतरङ्गवत् उदितमात्रोऽस्तमगच्छत् । चित्रपटगृहे शिवचरित्र-दर्शनावसरे तानि तीर्थीभूतानि स्थानानि कदाचनावलोक्य शुक्तिकादर्शनेन रजतदर्शनस्येव आनन्दो मयाऽधिगतः । श्री. दु. आ. तिवारी-नामधेयेन कविना विरचितानि महाराष्ट्रसंग्राम-गीतानि तदानीं महाराष्ट्रे सर्वत्र नितान्तं लोकप्रियाणि आसन् । चित्रकला परीक्षायां लब्धप्रावीण्याय मे " मराठ्यांची संग्राम गीते" इत्याख्यं तदीयं काव्यपुस्तकं विद्यालयेन उपहारीकृतम् । अल्पीयसैव कालेन तत्रत्यानि प्राय: सर्वाणि संग्रामगीतानि मया आत्मसात् कृतानि । कवितागायने मम पितृचरणानामपि आसीत् काचिदभिरुचिः । ते हि सायंतनं सन्ध्यावन्दनं समाप्य दोलामधिष्ठाय तानि सङ्ग्रामगीतानि सस्वरं गायन्ति स्म । अहमपि दोलार्धासनमधिष्ठाय तैः साकं गानरसम् आस्वादयम् । स्वातन्त्र्यवीर-सावरकरस्य राष्ट्रीयगीतेषु "हे हिन्दुशक्तिसंभूत दीप्ततम तेजा। हे हिन्दु नृसिंहा प्रभो शिवाजी राजा । इत्येतत् शिवस्तवनं नितान्तम् प्रियतया विहार-शय्यासन-भोजनेषु नैकवारम् अहम् अगायम् । एवं भूयः श्रवणमनन-वाचनादिभिः मया बाल्ये एव वयसि काचन आध्यात्मिकी शिव- समीपता समासादिता । तथैव शिवचरित्र - कवनप्रेरणापि रूढमूलेव वल्लरी क्रमशोऽन्तःकरणे प्रावर्धत । १९३६ तमे ख्रिस्ताब्दे शालान्तपरीक्षाम् उत्तीर्णस्य मे मनसि शिवकाव्य-लेखन प्रेरणा कामपि तीव्रताम् आप । तदा संस्कृत काव्यलेखनासमर्थतया मराठीभाषयैव कानिचन शिवचरित्र विषयाणि पद्यानि मया व्यरच्यन्त । एतावता कालेन संस्कृतभाषाध्ययनेन साकं संस्कृतकाव्य-ग्रन्थ-नैपुण्यम् अपि क्रमशः प्रावर्धत । षोडश-वर्ष-देशीयस्य शालान्त-(मॅट्रिक)-परीक्षोत्तीर्णस्य श्रीशिवराज्योदयम् महाकाव्यम् "सह्यमहाराष्ट्रीयम्" नाम प्रथमः सर्गः । श्रीमदूर्जितमुदग्रमैश्वरं सर्वदुःखविपदोघसंहरम् । धाम शैवमथवाऽस्तु वैष्णवं मन्महे मनसि तन्निरन्तरम् ॥१॥ अस्ति दक्षिणदिगेकमण्डनं नातितुङ्गशिखरावलीमयम् । भारतस्य परमप्रियं महाराष्ट्रमित्युचितनाम मण्डलम् ॥ २ ॥ भाति यत्र शिखरावली मधौ पुष्पितव्रततिजालकावृता । पुष्प बिल्वदलपुञ्जपूजिता स्थाणुलिङ्गशतमालिकेव सा ॥३॥ यत्र पर्वततटीस्खलन्नदी-नीरगद्गदनदन्महाध्वनिः । मेघगर्जतधियाऽभिनन्द्यते ताण्डवेन समदैः शिखावलैः ॥४॥ वार्षकालिकसहस्रनिर्झरै: भास्करोज्ज्वलमयूखभास्वरैः । भाति हीरकरसावगुण्ठितो रत्नसानुरिव यो द्रवीभवन् ॥ ५ ॥ दुर्गसानुजलकुण्डदर्पणो बिम्बिता शरदि तारकावली । यत्र सम्परिविसर्पिरोचिषा विन्दते द्विगुणितोज्ज्वलप्रभाम् ॥ ६॥ मेघपुञ्जवृततुङ्गशृङ्गवान् शारदीं च दधदैन्दवीं कलाम् । ध्यानसुस्थिरविशालविग्रहो व्योमकेश इव चन्द्रशेखरः ॥ ७॥ यस्य दुःसहनिसर्गतेजसा कुण्ठितै रिपुकुलैर्विनिर्ममे । रोषनिःश्वसितसोष्ममारुतैः हैमनेऽपि पवने कवोष्णता ॥८॥ ज्योतिषा परिविकीर्णरोचिषा यत्र दाहसमयेषु संहृतम् । विप्रतापभयलज्जया ध्रुवं दाहताधिकमधित्यकास्वपि ॥९॥ ब्रह्मशैलजनिता सरिद्वरा येन भाति हि निजाङ्कलालिता । पूर्वसागरसमागमोत्सुका स्वर्णदीव गिरिचक्रवर्तिना ॥१०॥ देवतात्महिमशैलसञ्चितं सिन्धुतोऽम्बु परिगृह्य पावनम् । सिन्धुसागर उदूर्मिपाणिभिर्यं निषिञ्चति चिराय भक्तितः॥११॥ उन्नतावनतसानुराजिभिः यः पिताऽपि सरितां सहस्रशः । पार्थिवः पतिरिव प्रभासते सुस्थिरायितमहोर्मिभीषणः ॥ १२॥ सप्तदिव्यकुलपर्वतान्तरे सप्तवाहवदतिप्रतापवान् । सहयनामभृदपीह यः सदाऽऽविश्चकार हि निजामसह्यताम् ॥१३ २ श्रीशिवराज्योदयम् । ज्ञाननिष्ठ-जनचित्त-विष्टरः-चञ्चल-श्रुतिविशिष्ट-विग्रहः । श्रीचिन्तामणेश्वर: (थेऊर ) श्री विनायक : ( मढ ) श्रीमहागणपतिः ( रांजणगांव) श्रीबल्लाळेश्वर: (पाली) प्रथमः सर्गः । ३ यत्रचाष्टविषयेषु राजते सोऽष्टसिद्धिविभवो विनायकः । श्रीविघ्नेश्वरः (ओझर ) श्रीगिरिजावरदः ( जुन्नर ) श्रीसिद्धिविनायकः (सिद्धटेक ) श्री मयूरेश्वरः (मोरगांव) ४ श्रीशिवराज्योदयम् । सागर: परशुरामयाचितो याचकस्य समवेक्ष्य वीरताम् । यस्य पश्चिमतटाश्रयां ददौ वासभूमिरिति तामुपत्यकाम् ॥ १४॥ द्वादशात्मशुभलिङङ्गतोधिकान्यत्र भूरि रुचितोऽवधाप्य च । शम्भुना तदितराणि भारते सर्वतो निदधिरे कथञ्चन ॥१५॥ ज्ञाननिष्ठजनचित्तविष्टरश्चञ्चलश्रुतिविशिष्टविग्रहः । यत्र चाष्टविषयेषु राजते सोऽष्टसिद्धिविभवो विनायकः ॥ १६॥ ★ पञ्चवटी तच्चिरन्तनमहर्षिसेवितं प्राप्य पूतवटपञ्चकं पदम् । यत्र दाशरथिनाऽपि विस्मृतं मातृसन्निधिमहासुखं चिरम् ॥१७॥ ★ रामचन्द्र पदपङ्कजाङ्कितां जानकीविरहदुःखसाक्षिणीम् । यत्र पावनतमां वनस्थलीं वन्दते परमभक्तितो जनः ॥१८॥ रावणापहृतजानकीशुचा व्याकुलस्य रघुनन्दनस्य च । येन वानरबलेन सर्वथा घोरसंगरसहायता ददे ॥ १९ ॥ प्रथमः सर्गः । ५ वीरमारुतिः । ग्रामसीमसु सरित्तटेषु वा यत्र पिप्पलतलेषु दृश्यते । लोहितो ह्यसुरशोणितैरिव दक्षिणाभिमुखवीरमारुतिः ॥२०॥ ★ ★ ब्रह्मविष्णुशिवनामतस्त्रिधा संविभक्तवपुषः परात्मनः । यत्र चात्रिमुनिपुत्रविग्रहे भावुकैश्चिरमुपासितैकता ॥२१॥ अप्रतिष्ठमिव काशिकापुरं साङ्गवेदविदुषां द्विजन्मनाम् । गर्जनाभिरकरोच्च तत् प्रतिष्ठानमस्य हृदयैकभूषणम् ॥२२॥ कीर्तनाहतमदगमर्दलकांस्यतालशततालनादिनी । धर्ममन्दिरमनोज्ञघण्टिका यत्र पण्ढरपुरी प्रकाशते ॥२३॥ पाण्डुरङ्गदृढभक्तिविह्वला: पण्डिताश्च वणिज: कृषीवला: । यत्र सत्कविपवित्रगीतिभिः नादयन्ति गिरिकाननान्यपि ॥२४॥ ईश्वरोपनिषदर्थबोधिनीं ज्ञानभक्तिकवितासुधामयीम् । प्राकृतामपि गिरं चकार यो ज्ञानराज इह सोऽधितिष्ठति ॥२५॥ योगिभिश्चिरसमाधिधारिभिर्भूमिगर्भनिहितात्ममूतिभिः । देश एष सकलोऽपि संस्फुरद् - योगशक्तिरिव भाति सर्वथा ॥२६॥ ६ श्रीशिवराज्योदयम् । पण्ढरपुरी कीर्तनाहतमृदङ्गमर्दलकांस्यतालशततालनादिनी । धर्ममन्दिरमनोज्ञघण्टिका यत्र पण्ढरपुरी प्रकाशते ॥ २३ ॥ ★ भूमिगर्भगतशास्त्रविज्जनः प्रज्वलन्मुखममुं महागिरिम् । शङ्कते, परमनेन तत्सदाऽऽविष्कृतं निजजनोग्रतेजसा ॥२७. व्याघ्रनृन्दविततोच्चगर्जन: गह्वरप्रतिनिनादमेदुरैः । व्यञ्जयत्यतिभयंकरायतिं वीरवृत्तिमिव यः स्वभावजाम् ॥२८। यः स्वधर्मपरिरक्षणोद्यतैः खड्गशूलधनुरादिकोविदैः शस्त्रकोश इव संबभौ जनैः हिन्दुभूकटितरावलम्बित: ॥ २९॥ आहिमालयमुदीर्णसद्यशाः वीरवर्यविनताङ्घ्रिपङ्कजः । येन मेकलसुतातटे कृतो हर्षहीन इव हर्षवर्धनः ॥ ३०॥ सर्ववर्णकुलसम्भवाङ्गना जन्मसिद्धरणरागतः सदा । यत्र शस्त्रमयकेलिशालिनी चण्डिकेव ददृशेऽद्रिसम्भवा ॥३१॥ मल्लकेलिषु विशेषरागत: शोणमृत्कणविलिम्पनैर्नराः । यत्र वार्धकसितान् स्वमूर्धजान् चक्रिरेऽम्बुजपरागसुन्दरान् ॥३२॥ प्रथमः सर्गः । ७ पाण्डुरङ्गः । पाण्डुरङ्गदृढभक्तिविह्वला: पण्डिताश्च वणिज: कृषीवला: । यत्र सत्कविपवित्रगीतिभिः नादयन्ति गिरिकाननान्यपि ॥ २४ ॥ ★ * पारतन्त्र्यहतशक्तिभिर्जनैर्यत्रवीरचरितेऽवलोकितः । दुष्प्रधर्षतमवीर्यभासुरः क्षात्रधर्म इव मूर्ति-सञ्चरः ॥ ३३ ॥ राक्षसप्रतिमघोरशात्रवे प्रेरयन् मरणभीतिवेपथुम् । चापचक्रधर-रामकृष्णयोर् योऽभवत् प्रतिनिधिः स्वकर्मणा । यत्र वेरुलशिलोच्चये दृढं बुद्धविष्णुशिवसेवकैः कृतम् । शिल्पकर्म तदनल्पमूर्तिकं विस्मयास्पदमशेषभूतले ॥३५॥ यद् विलोक्य सकलाः कलाविदः विस्मयस्तिमितलोचना इव । स्वानुभूतिमपि तर्कयन्ति ते स्वप्नवच्च विततैन्द्रजालवत् ॥३६॥ वेदनादरहितेऽपि भूतले वैदिकद्विजकुलोत्थितैः स्वरैः । मार्जितप्रणववर्णमूर्धगश्चन्द्रबिन्दुरिव यो ह्यभासत ॥ ३७॥ ★ ८ श्रीशिवराज्योदयम् । ज्ञानराजः । ईश्वरोपनिषदर्थबोधिनीं ज्ञानभक्तिकवितासुधामयीम् । प्राकृतामपि गिरं चकार यो ज्ञानराज इह सोऽधितिष्ठति ॥ २५ ॥ ★ ★ ★ ★ ★ ★ धर्मराज्यजनितं सुदुर्लभं पुण्यकर्मनिरतैश्च मानवै: । यत्र भूमितल एव पावने स्वर्गलोकसुखमन्वभूयत ॥ ३८॥ तत्र चन्दनवने यथोरगा: नन्दनोपवन उन्मदासुराः । म्लेच्छशासनधुरन्धराः खरा हन्त सौख्यमपहन्तुमुद्यताः ॥३९॥ यत्र सौख्यमसुखं हि तत्र च यत्र सम्पदथ तत्र वा विपत् । तद्विरुद्धमपि तन्वती क्वचित् कालचक्रगतिरिद् गरीयसी ॥४०॥ वेदमन्त्रमयपावनध्वनिः यत्र कर्णपथमागतः पुरा । हन्त तत्र हतविप्रयोषितां क्रन्दनार्तनिनदोऽपि शुश्रुवे ॥४१॥ यत्र भक्तजनवृन्दनर्तनं तन्तुवाद्यसहितं मनोहरम् । तत्र बर्बरविलासिताण्डवं मद्यपानसहितं भयंकरम् ॥४२॥ प्रथमः सर्गः । ९ श्रीक्षेत्रनृसिंहवाडी ब्रह्मविष्णुशिवनामतस्त्रिधा संविभक्तवपुषः परात्मनः । यत्र चात्रिमुनिपुत्रविग्रहे भावुकैश्चिरमुपासितैकता ॥ २१ ॥ - स्त्रीजनातिशयपूज्यभावतो यत्र ताः समरमन्त देवताः । 'तत्र मङ्गलविवाहमण्डपाद् वह्निसाक्षिकमपाहृताः स्त्रियः ॥४३॥ १० श्रीशिवराज्योदयम् । दुःखदग्धहृदयाङ्गनाजन-श्वासमारुतविशेषदाहतः । म्लानता बत लतास्वभासत सोष्मता च मलयानिलेष्वपि ॥४४॥ फुल्लपद्मरुचिगैरिकध्वजान् सन्निपात्य सकलान् सनातनान् । शैवलातिहरिता ध्वजाः पुनः सर्वतो हि यवनैः प्ररोपिताः ॥ ४५ ॥ हन्त देवगिरिणापहारितं तच्च पूर्वपदमात्मनामतः । म्लेच्छकर्मभिरभूदचिन्तितैः सोऽपि दैत्यगिरिरेव तत्त्वतः ॥ ४६॥ ग्रामपत्तनसरित्सरोवराः म्लेच्छवाक्कलुषितात्मसंज्ञकाः । नष्ट-पूर्व-विभवा नृपा इव तेऽभवन परिचयेऽपि दुर्विदाः ॥४७॥ रामदेवनृपतेर्विखण्डितं मुण्डमुद्धृतवसाशिरास्थिकम् । हन्त कच्चरजलप्रणालिकावक्त्रमित्युपहितं नराधमैः ॥ ४८ ॥ शालिवाहननिवासमन्दिरं सन्निपात्य तदतीवसुन्दरम् । तत्र चन्दिरकलाधरं स्वकं मन्दिरं यवनशासकैः कृतम् ॥ ४९॥ अग्निचन्द्ररविवंशजैरपि क्षत्रियैर्हतबलैरिवाहतैः । हा श्ववृत्तिरुररीकृताऽधमम्लेच्छशासकपदेषु निस्त्रपम् ॥ ५० ॥ काश्यपात्रिभृगुमुख्यगोत्रजाः ब्राह्मणाः श्रुतिपथात् परिच्युताः । देववाचमपहाय मङ्गलां म्लेच्छवाचि धनलोभतो रताः ॥ ५१ ॥ उद्यदर्कदरपाटलप्रभां ये प्रभातसमये ह्युपासिरे । ते तदाङ्गुलिपिनद्धकर्णकाः वारुणीमभिमुखा ववन्दिरे ॥ ५२ ॥ पाहि पाहि भगवन् जनानिमान् म्लेच्छराज्यपरिपीडितानिति । प्रार्थयंश्चिरमुदश्रुलोचना: साधवः क्वचन भग्नमन्दिरे ॥ ५३ ॥ ग्लानिरत्र घटते यदा यदा धर्मसाधुजनयोस्तदा तदा । सम्भवामि तदिदं वचः स्वकं विस्मृतं किमधुना जनार्दन ॥ ५४॥ धर्मसंस्कृति विनाशकारिणी चित्तवित्तवलवृद्धिशोषिणी । म्लेच्छराज्यघटिता हि दासता ऐहिकी प्रकटनिर्ऋतिर्नृणाम् ॥५५॥ गौरियं हि जननीव ते मता नस्तथैव, परमत्र साऽधुना । हन्त हन्त पथिलोकसङ्कुले हन्यते चिरमनाथवत् प्रभो ! ॥ ५६॥ किं करोमि बत कुत्र यानि वा प्रार्थयाम्यथ कमत्र राघव । दृश्यते तत्र तपोवनस्थली ध्वस्तनन्दनवनस्थलीव सा ॥ ५७॥ घोरसंकटतमोविदारिणी निर्मलान्तरनभोविहारिणी । चन्द्रिकेव जगदीशतोषिणी भक्तिरेव हि सतां बलीयसी ॥५८॥ भक्त्याकुलार्तवचनैः सततं जनानां चेतोऽद्रवद् द्रुतम हो जगदीश्वरस्य ॥ भक्तान्तरङ्गभवविह्वलवाच एव देवान्तरद्रवविधावुचितोऽभ्युपायः ॥ ॥ ॥ इति श्रीशिवराज्योदये महाकाव्ये प्रथमः सर्गः समाप्तः ॥ श्रीशिवराज्योदयम् महाकाव्यम् । "साधुवर्यद्वयम्" नाम द्वितीयः सर्गः तुकारामः रामदास : रामदासतुकारामौ ह्यध्यात्मज्ञानदीपकौ । असङ्गशस्त्रसन्नद्धौ भिन्नावप्येककेन्द्रगौ ॥ २ ॥ ***** अथ भाविनमुत्कर्षमावेदयितुमत्थितौ । उग्रशान्तौ महासाधू सूर्याचन्द्रमसाविव ॥ १ ॥ रामदासतुकारामौ हयध्यात्मज्ञानदीपकौ । असङ्गशस्त्रसन्नध्दौ भिन्नावप्येककेन्द्रगौ ॥२॥ महाराष्ट्रमहाम्भोधौ तयोरुज्वलतेजसोः । सहसोत्थानमभवत् चन्द्र कौस्तुभयोरिव ॥३॥ तयोः सम्पर्कतः सद्यो जनता-हृदयाम्बरे । आत्मतेजः समुत्स्फूर्तं मैत्रावरुणसप्रभम् ॥४॥ १२ श्रीशिवराज्योदयम् । दिव्यतेजस्विनोरासीत् तयोः समसमागमः । मुक्तिप्रदो महाराष्ट्रे भक्तिकर्माध्वनोरिव ॥ ५ ॥ लोकार्थकामसिद्ध्यर्थं प्रायेण करुणैश्वरी । आविर्भवति लोकेस्मिन् मूर्तिमाधाय धार्मिकीम् ॥ ६॥ सत्सुधासिन्धुलहरी चित्कल्पतरुमञ्जरी सुखेन्दुमृगकस्तूरी करुणा पारमेश्वरी ॥ ७ ॥ सामर्थ्यश्वर्ययशसां कीर्तिसम्पत्तितेजसाम् । जननी जन्मभूमिश्च करुणा परमेश्वरी ॥८॥ तुकाराम: अभङ्गवाणी यस्याभूद् आर्षवाणीव पूजिता स्वानुभूत्येकसारत्वात् कविता सारवत्तया ॥ ९॥ य "स्तुकाराम"यं कायं स्वर्गं नीत्वा सलोकताम् । द्यावापृथिव्योरकरोत् पुण्यै: परमहंसवत् ॥ १० ॥ अब्राह्मणोऽपि ब्रह्मज्ञः निर्द्वन्द्वो द्वन्द्ववानपि । यो मोहकोऽपि निर्मोही विग्रही चाप्यविग्रहः ॥ ११ ॥ क्षणशः कणशश्चैव तनुक्षेत्रे विहङ्गमैः । क्षीयमाणेऽपि भजनैः योऽकरोत् पुण्यसञ्चयम् ॥ १२ ॥ विठ्ठलस्मृतिमात्रेण निर्यन्नीरं यदक्षिजम् । हृदये नीरसस्यापि भक्तिवल्लीमवर्धयत् ॥१३॥ मञ्जुलोन्नादिनीं श्रुत्वा यद् वीणामैकतान्तवीम् । चातुर्मास्येऽपि वैकुण्ठे निद्राभङ्गोऽभवद्धरेः ॥ १४. मध्ये वैष्णववीराणां वीणादण्डधरः सदा । तर्जयन्निव नास्तिक्यं ददृशे स तदग्रणीः ॥१५॥ यं प्राकृतकविश्रेष्ठम् अप्राकृतगुणान्वितम् । अनूत्सिक्तमनूचाना वन्द्या अपि ववन्दिरे ॥ १६ ॥ प्रसाद इव सच्चित्ते यद् भालफलके बभौ । धवलस्तिलको हृद्यो गोपीचन्दनकल्पितः ॥१७॥ शश्वदन्तःप्रवृत्तस्य जपयज्ञस्य साक्षिणी । तुलसीकाष्ठमालाऽसौ यदीयहृदये बभौ ॥ १८ ॥ प्राक्तनानां सुतपसां परिपाक इवाबभौ । धौतवासोमयो वेशो यस्य काये तपोमये ॥१९॥ द्वितीय: सर्ग: । १३ सर्वत्रेश्वरभावेन सर्वथाऽवनतं शिरः । यस्योष्णीशसितं रेजे यशः स्वमिव पिण्डितम् ॥२०॥ हृदयंगमभावार्द्रं दिव्यभक्तिरसप्लुतम् । वचो-ब्रह्म ननर्तेव यदीयहरिकीर्तने ॥ २१ ॥ वैदेहीमिव यद् वाणीं गङ्गेवेन्द्रायणी नदी । चिररात्राय निर्मग्नां संररक्षोद्द्धार च ॥ २२ ॥ प्राकृतामपि यदवाणी सेवमानोऽत्र विन्दते । सुसंस्कृतत्वं दुष्प्रापं सर्वलोकशुङ्करम् ॥२३॥ सीताया इव यद्वाच: स्पर्शतो रघुनाथवत् विमूढोऽपि समाजोऽयं प्रकृति स्वामपद्यत ॥२४॥ यदीयैः कांस्यतालानां तालमन्वाहतैः पर्दैः । संक्षुण्णो भक्तिमार्गोऽभूत् स महाराष्ट्रमण्डले ।॥ २५॥ रामदासः- यद्रूपेण महौजस्कः क्षात्रभावः परन्तपः । प्राप्तुं भूयस्तपःशक्तिं ब्राह्मीं मूर्तिमिवाश्रितः ॥ २६ ॥ भक्तिप्रियोऽनिकेतश्च वसुधककुटुम्बकः । लोकप्रपञ्चनिरतस्तथाप्येकान्तमास्थितः ॥ २७ ॥ जाग्रद्दिवानिशं बाह्यान्तरारिदमनोद्यतः । रात्रिबुद्धं दिवासुप्तं नूनं संयमिनं हसन् ॥२८॥ कालेन महता नष्टः यः कृष्णेनापि बोधितः । स समुज्जीवितो येन कर्मयोगः स्वकर्मणा ॥ २९॥ गोदावरीसरिन्नीरे यो निमग्नार्धविग्रहः । जपमग्नो जनैर्मेने जपयज्ञ: सविग्रहः ॥३०॥ तिष्ठन्नेकेन पादेन ह्यामध्यन्दिनमोदयात् । सहस्रपादमुद्यन्तं कुर्वंल्लज्जारुणप्रभम् ॥ ३१॥ गोदावरीसरित्कुण्डे तिष्ठन् तिष्ठद्गु यो बभौ । जटाल: श्मश्रुलो मूर्तस्तिष्ठद्धोम इवोज्ज्जलः ॥ ३२॥ उर्ध्वचन्दनरेखाभ्यां भालस्थाभ्यां विरोधिनोः । तुल्यत्वमादिशन्नूनं प्रपञ्चपरमार्थयोः ॥ ३३ ॥ तीर्थाभिषेकपूतं स्वं वपुर्भूयोऽपि भूतिमत् । कृत्वा दिशन् सहावस्थां पावित्र्यैश्वर्ययोरिह ॥ ३४॥ रघुवीरगुणग्रामं क्रमश: संस्मरन्निव । चलदोष्ठपुटं नित्यं भ्रामयञ्जपमालिकाम् ॥ ३५॥ १३ १४ श्रीशिवराज्योदयम् । ब्रह्मचर्यव्रतप्राप्तं दण्डमुद्यम्य पैप्पलम् । तर्जयन्निव निर्भीकः सर्वान् धर्मरिपून् सदा ॥ ३६ ॥ अष्टमूर्तेरपावित्र्याद् रक्षन्नापोमयीं तनुम् । वज्रसारे दधन् मुष्टौ तीर्थोदककमण्डलुम् ॥ ३७॥ पाञ्चभौतिकपिण्डस्य धारणार्थमयाचत । पञ्चमुष्टिमितं धान्यं योऽन्वहं गृहपञ्चके ॥ ३८ ॥ रघुवीरजयोद्घोषं गर्जन्नुच्चैर्गृहे गृहे । रामदासशुभोपाधिं प्रापोपाधिक्षयेऽपि यः ॥ ३९ ॥ पदस्थपादुकायुग्मोत्थितैश्चटचटायितैः । निर्दिशंस्तीर्थसञ्चारे धर्मस्य त्वरितां गतिम् ॥ ४० ॥ आशीर्वचनसंयुक्तां यदीयां सहसोदिताम् । ब्रह्मवर्चस्विनीं पुण्यां वाचमर्थोऽनुधावितः ॥ ४१ ॥ कञ्चित् पञ्चत्वमापन्नं नरमुज्जीव्य लीलया । योऽव्यञ्जयत् स्वसामर्थ्यं राष्ट्रसंजीवनक्षमम् ॥ ४२ ॥ येनाप्रपादमाधाय कौपीनं गैरिकारुणम् । अरुणेनेव निर्दिष्टः स्वातन्त्र्याहर्नवोदयः ॥ ४३ ॥ श्मश्रुलेन जटालेन स्वाननेन च यो बभौ । धूमावृतो महातेजा यज्ञाग्निरिव जङ्गमः ॥ ४४ ॥ नवोदितः समर्थोऽसौ विश्वामित्र इवापरः । प्रबोधयन्महाराष्ट्र मित्रवन्मन्त्रवगिरा ॥ ४५ ॥ धगद्धगद्विनिर्गच्छत्प्रलयंकरदाहभूत् । ज्वालेव सर्पसत्रस्य यद्वाणी रणकर्कशा ॥ ४६ ॥ धीरगर्जनया लोका: येन सर्वे प्रबोधिताः । नवोदितेन मेघेन सिंहा इव गुहाशयाः । ४७ ॥ धर्मराज्याग्रदूताभं यमासेतुहिमाचलम् । सञ्चरन्तं प्रतिक्षेत्रं प्रतिपादं नतो जनः ॥४८॥ तिमिरनिचयमग्ने रत्नसूमण्डलेऽस्मिन् कथमपि स सुधांशुर्वारुणो हन्ति दोषम् । जगति परमशेषध्वान्तविध्वंसनार्थम् दिनमणिरिव नान्यः कोऽपि पुण्यप्रतापी ॥४९॥ सन्मन्त्रजागरविनिर्गतनैद्रमुद्रः लोकोऽखिलः कमपि मानवलोकबन्धुम् । सह्योदयाद्रिशिखरे समुदीयमानं भास्वत्सहस्रकरमीक्षितुमातुरोभूत् ॥५०॥ ॥ इति श्रीशिवराज्योदये महाकाव्ये द्वितीयः सर्गः समाप्तः ॥ 66 श्रीशिवराज्योदयम् महाकाव्यम् । "वसन्तमाङ्गल्यम्" नाम तृतीयः सर्गः अथ प्रशान्ते शिशिरर्तुयुग्मे नीहारमन्दीकृतचन्द्रसूर्ये । प्रम्लापिताशेषसरोजवृन्दे समागतोऽसौ सकलर्तुराजः ॥ १॥ काष्ठावशिष्टास्तरवो महान्तः नष्टश्रियो भूपतयो यथैव । वसन्तभाग्योदयकालयोगे विनिर्गतां प्रापुरिवात्मलक्ष्मीम् ॥२॥ पिकद्विजा उद्गिरणेऽसमर्थाः चिराय ये मञ्जुलकूजितर्चाम् । वसन्तसौराज्यमनुप्रवृत्तं तेषां पुनः कूजनसामगानम् ॥३॥ नवीनचूताङ्कुररक्तकण्ठा : वसन्तराजागमनाग्रदूताः । सुस्वागतं पञ्चमरागतानैः पुंस्कोकिला ऊचुरखण्डमुच्चैः ॥४॥ ते दाक्षिणात्या मलयानिलाश्च श्रीखण्डसंपर्कसुगन्धवन्तः । सह्यप्रपातोच्छलितैस्तुषारै: आलिङ्गिता स्नेहभरेण गाढम् ॥ ५॥ पादाहतोऽद्यावधि दासवद् यो दधार शोभामसकृत् सशोकः । विनैव पादाभिहतिं स एव बभार शोभामसमामशोकः ॥ ६॥ आम्रप्ररोहानवधूनयन्तो वेगप्रवृत्ता मलयाद्रिवाताः । उड्डीनभृङ्गालिभिरुन्मदाभिः गुञ्जारवं मङ्गलमीरयन्ति ॥७॥ प्रफुल्लपङ्केरुहकोशजन्यं मधु प्रकामं मधुरं पिबन्तः । मधोर्यशः सञ्जगुरुच्चकैस्ते गुञ्जारवैरुन्मदचञ्चरीकाः ॥८॥ उद्गीयमानं स्वयशो निशम्य प्रसन्नचेता इव माधवोऽसौ । प्रफुल्लगुच्छच्छविभिर्मनोज्ञं शुचिस्मितं सम्प्रकटीचकार ॥ ९॥ निसर्गकाषायरुचस्तरूणां नवोद्गताश्चञ्चलपल्लवास्ते । विरेजिरे सह्यगिरौ विरुढा: उदर्कभाग्योदयवैजयन्त्यः ॥१०॥ हेमन्तसम्पातपराहताऽसौ अज्ञातवासेव हि याज्ञसेनी । सह्याद्रिसंस्था सुनिसर्गलक्ष्मी: पुनर्नवं वैभवमुद्दधार ॥११॥ मनोहरां वीक्ष्य मधुप्रवृत्तिं महाधनो यादववंशकेतुः । विदर्भसीमास्थितपत्तने स्वे वसन्तमाङ्गल्यमहं व्यतानीत् ॥ १२॥ निमन्त्रितास्तेन महोत्सवाय सम्बन्धिनो ये सविशेषसङ्गाः । सुखप्रमोदावसरे नराणां प्रियः सुहृद्द्बन्धुसमागमो हि ॥ १३॥ सुहृज्जनानां गृहमागतानां सुखाधिवासार्थमकारयत् सः । गृहाङ्गणे मण्डपमेकमुच्चैः मनोरथाकारमिवात्मनश्च ॥ १४॥ श्रीशिवराज्योदयम् । विचित्रवासःस्थगितोद्वितानः स्तम्भावनद्धोज्ज्वलकर्पटश्च । अधः समास्तीर्णकटिर्विरेजे स मण्डपः कौतुकमण्डपाभः ॥१५॥ न्यस्ताः प्रतिस्तम्भमुदारगुच्छा: सपादपाः गैरिकरक्तकुण्ड्यः। ताभिर्गुहोद्यानमनोज्ञशोभाम् अचूचुरत्सत्पटमण्डपोऽसौ ॥ १६ ॥ निमन्त्रिताभ्यागतबान्धवानां सम्मानयोग्यानि सुखासनानि । फेनाच्छवासःपरिसंस्तृतानि हंसासनानीव बभुर्मृदूनि ॥ १७॥ तन्मण्डपद्वारमुदारमुच्चैः विस्तीर्णसत्पर्णमयेन युक्तम् । रम्भातरुस्तम्भचयेन रेजे तिष्ठत्प्रतीहारमिवोत्पताकम् ॥ १८ ॥ तत्तो नभोमध्यमतीत्य किञ्चित् सूर्ये समुत्सर्पति पश्चिमाशाम् । सत्स्वागतं वक्तुमनाः स राजा तन्मण्डपद्वारमुपेत्य तस्थौ ॥१९॥ तदात्मजा काञ्चनकान्तकान्तिः पद्माननाऽसौ पितृसन्निधाने । बभौ सुमुक्ताभरणाऽम्बुजाक्षी पद्मेव साक्षात् सविधे पयोधेः ॥ २०॥ ततः समेताः क्रमशः सखाय: लसन्महोष्णीषभृतः सुवस्त्राः । सुकुण्डलाः काञ्चनरत्नहाराः सचन्दनाङ्का विहसन्मुखास्ते ॥२१॥ पयःसितान् कज्जलकृष्णवर्णान् तथैव कांश्चिद् विलसत्पृषत्कान् । विभूषणोत्रादवतस्तुरङ्गान् अध्यास्य केचित् समये समेताः ॥२२॥ विलम्बिघण्टामणिशंङखगुञ्जा मालाधरैरुत्ककुदैर्वृषैश्च । संवाह्यमानैः शकटैरुपेताः केचित् पुनः केचन पादचर्याः ॥२३॥ तेष्वागतः कश्चन यौवनाढ्यः धीरोद्धतोऽल्पाल्पविभूषिताङ्गः । कराङ्गुलीलग्नकरेण साकं बालेन जल्पन् सकुतुहलेन ॥२४॥ सुधाकरास्यः कुमुदेक्षणश्च बिम्बाधरो मौक्तिककान्तदन्तः । तं मण्डपं वीक्ष्य मुदान्वितोऽसौ पप्रच्छ किञ्चित्पितरं किशोरः ॥ २५ ॥ तातायमुच्चैर्नवमण्डपो हि सुदर्शन: केन विनिर्मितोऽत्र ? निशम्य तद्वाक्यमसौ युवापि प्रसारिताग्राङ्गुलिराह बालम् ॥ २६॥ अमुं पुरा पश्यसि भूषणाढ्यं प्रालम्बसंवेष्टितकण्ठभागम् । हसन्मुखं त्वामभिवीक्षमाणं तस्यैव राज्ञः शुभमण्डपोऽयम् ॥२७॥ निमन्त्रितास्तेन वयं समस्ताः अत्यादरेणाद्य महोत्सवाय । तद् याहि शीघ्रं समयातिपात: कदापि कार्यो न निमन्त्रितेन ॥ २८ ॥ "यन्नैव कार्य: समयातिपातः तत् किं विवाहो भविताऽत्र तात? कालातिपातो हि विवाहयोगे न युज्यते खल्विति ते वदन्ति ॥२९॥ श्रुत्वेति मुग्धां तनयस्य वाणीं तं वक्तुकामः परिहासपूर्वम् । पिताऽऽह "नूनं तव मङ्गलार्थं सन्मण्डपोऽयं च महोत्सवश्च ॥३०॥ तद् वाक्यभावार्थमनाकलय्य मुग्धः स बालः पुनराह तातम् । "तन्मन्दमन्दं किमु सम्प्रयासि ? धावन्तमन्वेहि च सत्वरं माम् ॥ ३१ ॥ तृतीयः सर्गः । १७ इत्थं शिशोस्तस्य समुत्सुकस्य सम्मानयंस्तं मधुरानुरोधम् । युवा सधीरस्त्वरयाससाद तन्मण्डपद्वारमुदर्कभाग्यम् ॥३२॥ दृष्टवा कुमारं तमदृष्टपूर्वं उत्साहसम्पन्नमतिप्रसन्नम् । द्वारस्थिता स्मेरसरोरुहाक्षी पप्रच्छ मन्दं पितरं किशोरी ॥ ३३॥ " कः सत्वरं तात कुमार एष: धावन्निवाभ्येत्यभिमण्डपं नः । स्थास्यत्यसौ किं सदनेऽस्मदीये चिराय, यास्यथवाऽचिरेण ॥३४॥ निशम्य कन्यावचनं तदुत्कं हसन् स राजा सहसा प्रसन्नः । कर्तुं परीहासमिवातिमुग्धं समीपमभ्यागतमेनमाह ॥ ३५ ॥ "हं हो महाराज ! नवागतेन ह्येनां किशोरी प्रतिहाररक्षीम् । नामाद्यनावेद्य न जातु लभ्यः सद्यः प्रवेश: शुभमण्डपेऽस्मिन् ॥३६॥ स प्राह बालः सहसा, श्रुणुध्वं कुलं पितुर्नाम ममापि नाम । भास्वत्कुले भोसलनामधेये जातोऽस्मि मालोजिसुतः शहाजिः ॥ ३७॥ अन्योन्यमुवीक्ष्य कुमारकौ तौ जातप्रमोदावनिमित्तमेव । स्वजन्मजन्मान्तरजातसङ्गम् अनुस्मरन्ताविव निर्विकारम् ॥ ३८॥ सुखोपविष्टेषु सुहृज्जनेषु ताम्बूलपात्रेषु च चारितेषु । समुन्नते मण्डपमध्यभागे निशारुकं प्रादुरभून्मनोज्ञम् ॥ ३९ ॥ तदा तदाकर्णयतां जनानां संवादसक्तश्रवणेन्द्रियाणि । मञ्जीरनादेन पदोत्थितेन हठादिवाकृष्य वशीकृतानि ॥४०॥ शैलेन्द्रकन्या-नटराजरूपं शैलूषयुग्मं प्रियचारुवेशम् । धिमिद्धिमिद्ध्वाननिषक्तपादं झटित्यकर्षन्नयनानि तेषाम् ॥४१॥ तपस्विनीं भूधरराजकन्यां परीक्षमाणः शिववर्णिलिङ्गी । नाट्येन यास्यन् विकटं सगीतम् आश्चर्यवत् सभ्यजनैरलोकि ॥ ४२ ॥ शिव:- " वद वद पर्वतराजसुते ! तप एवं कस्य कृते तपसि ? अमलमिदं कमलं च कुवलये मानिनि ! किं त्वं म्लापयसि ? ॥४३॥ पार्वती - " त्रिगुणातीतं त्रिभुवननाथं त्रिदशमहेशं कि स्मरसि ? । त्रिपुरहरं वा त्रिखरशरं वा त्रिनयनकमलं किं नमसि "? ॥४४॥ शिव:- "शशिनि किमिति तनुषे तनमानं मृगशिशुनयने मन्थरताम् ? हिमनगतनये विततश्वसने सन्तनुषे वा किमहिमताम् ?" ॥ ४५ ॥ पार्वती - "गगनसुकेशं चन्द्रविभूषं भसितसितं तं कि मनुषे ? भुजगकुण्डलं मेचककण्ठं परमयोगिनं किं वनुषे ?" ॥४६॥ शिवः - " वद वद बाले वितथतपस्विनि ! किमिति दरिद्रं कामयसे ? " पार्वती-"चल चल दूरे भगवन्निन्दक! किमिति वृथा मां पीडयसे ?" ॥ ४७ तदीश्वरीयप्रणयप्रदर्शि विलासलास्यं प्रविलोकयन्ती सभाऽभवत्सा विगतान्यसंज्ञा गाढानुरागैकरसावमग्ना ॥४८॥ १८ श्रीशिवराज्योदयम् । तौ बालकौ नृत्यरसानभिज्ञौ नातिप्रसन्नाविव नर्तनेन । प्रौढा हि यस्मिन् विषये सरागा: प्रायेण तस्मिन् शिशवोऽपरागाः ॥४९॥ तौ हेतुनाऽनाकलितेन बालौ परस्परं केनचिदान्तरेण । आकृष्यमाणाविव मुग्धभावौ समागतौ मण्डपपार्श्वकोणे ॥५०॥ बाल: स तामाह रुषेव किञ्चित्, "यदा मया नाम निवेदितं ते । तदैव नावेदितमात्मनोऽपि नाम त्वया मां प्रति किं नु मूढे ? " ॥ तं रोषदष्टाधरमोषदिद्धं विलोक्य भूयः परिहासबुद्ध्या । "जिजाह" मित्युक्तवती व्यतानीत् वक्त्रेऽस्यपार्श्वस्थितकुंकुमं सा ॥५२॥ दृष्ट्वैव तस्याः प्रथमापराधं स भूयसा रोषभरेण बाल: । मुष्टिद्वये कुंकुममाददानः प्रतिक्रियां हि द्विगुणां चकार ॥ ५३॥ भूयश्च बालाऽपि तथा चकार पुनः स बालोऽपि हि तादृशं च । जिह्वाग्रदर्शं विविधोपहासं तौ चक्रतुः कुङ्कुमरागकेलिम् ॥५४॥ तिरस्करिण्यन्तरसंस्थितानां नवाङ्गनानां चटुलेक्षणानि । तयोरनागस्करयोरकर्षत् अह्नाय सा कुङ्कुमरागलीला ॥५५॥ विदर्भराजः स च यादवोऽपि कन्यामनालोक्य समीपसंस्थाम् । पश्यन् समन्तात् सहसा ददर्श मनोहरां मुग्धकिशोरकेलिम् ॥५६॥ तत्पार्वतीशंकरनाट्यनृत्यम् शैलूषयोः कृत्रिमरागबन्धम् । सन्त्यज्य नैसर्गिकभावहृद्यं दृश्यं चकर्षास्य दृशं मनश्च ॥५७॥ अव्याजमुग्धैः शिशुहावभावैः वशेक्षणं यादवमोक्षमाणाः । मालोजिमुख्या हि सभासदस्ते तन्नेत्रकेन्द्राभिमुखा बभूवुः ॥५८ ॥ बालारुणोषःप्रतिमौ कुमारौ तौ कुङ्कुमारक्तमुखारविन्दौ । सम्पश्यतः सभ्यजनस्य हर्षो मनस्यणीयस्यमितो ममौ नो ॥ ५९॥ स्त्रीणां च तालोत्थितशिञ्जितेन पुंसां च हास्यध्वनिना तथोच्चैः । सविद्युदम्भोधरगर्जनाभः संशुश्रुवे सभ्यजनप्रहर्षः । ६०॥ आकस्मिकाम्भोधरगर्जितेन साश्चर्यभीताविव बालहंसौ । तौ दृष्टवन्तौ सहसा गुरूणां दृक्पातवेध्यत्वमिवात्मनोश्च ॥ ६१॥ पलायमानौ त्रपया महत्या भीत्या च तौ द्रागनुधाव्य बालौ । स्वयं गृहीतौ बत यादवेन बुधेन विद्याविनयौ यथैव ॥६२॥ शैलूषसन्त्याजितमञ्चकेऽसौ सन्तस्थिवानात्तकुमारयुग्मः । प्रफुल्लनेत्राननपुण्डरीकः शुचिस्मितां वाचमुवाज राजा ॥ ६३ ॥ "हे बान्धवाः सम्मुदितान्तरङ्गाः शृणुध्वमीषद् वचनं मदीयम् । यस्याखिलानन्दकराविदानीं याताविमौ कारणतां कुमारौ ॥ ६४॥. यः पार्वतीशंकरयोरिदानीम् आलोकितः सम्प्रणयोऽभिनीतः तत्पूर्तये तादृशयोश्चिराय किशोरयोर्मडगलसङ्गमोऽस्तु ॥६५॥ तृतीयः सर्गः । १९ सूर्यान्वयो भोसलनामकोऽसौ चन्द्रान्वयो यादवसंज्ञकश्च । सन्मण्डपे सेतुनिभेऽत्र यातां पूर्वापरौ तोयनिधी व योगम् ॥६६॥ चन्द्रान्वयस्योज्ज्वलवैजयन्ती जिजा विशेषोच्छ्वसितं मदीयम् । भवत्वसौ भोसलवंशहर्म्ये चिराय माङ्गल्ययशःपताका ॥" ६७॥ श्रुत्वैव सभ्या अमृतायमानं हृत्कर्णसन्तर्पणमाप्तवाक्यम् । "बाढं" 'वरं" "युज्यते " इत्यनेकैः ते साधुवादै: प्रशशंसुरुचैः ॥६८ ॥ सपदि यादव-वंश-पुरोहितः स्वयमुपेत्य तदैव जगौ मुदा । स्वरचितं चिरमङ्गलमष्टकं नववधूवरयोर्हितकाम्यया ॥६९॥ ॥ मङ्गलाष्टकम् ॥ "यस्योद्दामविवर्तनैर्जलनिधेरुच्चैः समुत्क्षेपिताः मुक्ताच्छा जलबिन्दवः समभवन् भास्वत्प्रभास्तारकाः । यः शङ्खासुरनाशितश्रुतिसमुद्धाराय बद्धव्रतः श्रीविष्णोः प्रथमावतार इह वः कुर्यात् सदा मङगलम् ॥ ७० ॥ लीलाकूर्मकलेवरेण भुवनोद्धारैकशीलेन सा मज्जन्ती प्रलयाम्बुधौ वसुमती येनोद्धृता लीलया । क्षुब्धाम्भोनिधिमन्थनेन हि परिभ्राम्यन् महामन्दरसौन्दर्यं समवाप यः स भगवान् कुर्यात् सदा मङगलम् ॥ ७१॥ कल्पान्तक्षुभिताग्निभासुरतरोज्ज्वाले विशालेक्षणे झञ्झावातविकीर्णतोयदमहासङ्घातरौद्रा: सटाः । विद्युद्दामसहस्रभास्वरविभा-जाज्वल्यमाना नखाः यस्यासन् नरसिंहरूपविभवे कुर्यात् सदा मङ्गलम् ॥७२॥ त्रैलोक्याक्रमणोद्यत - त्रिचरणप्रक्षेपणव्यापृतं यत्पादाम्बुजसम्भवत्रिपथगानिःष्यन्दसम्प्लावितम् । सद्यःसागरमज्जनोद्गतमिव ब्रह्माण्डमुद्भासितं विष्णोरद्भुतवामनाकृतिरसौ कुर्यात् सदा मङ्गलम् ॥७३॥ क्षत्रध्वान्त निमग्न भूमिवलये रक्ताक्तधाराधरो यस्य स्कन्धनिवेशितः स परशुर्बालार्ककान्तिं दधौ । मत्तः क्षत्रिय राजवंशविपिनोच्छेदाय यो दीक्षितः ब्रह्मक्षत्रमहोमयः स भगवान् कुर्यात्सदा मङ्गलम् ॥७४॥ २० श्रीशिवराज्योदयम् । रक्षोध्वान्तविनाशनाम्बरमणिर्दातृत्वचिन्तामणिः सीताकण्ठमणिर्विकर्तनमहावंशस्थमुक्तामणिः । पुण्यश्लोकशिरोमणिः सुकवितापाथोधितारामणिः मर्यादापुरुषोत्तमः स नृमणिः कुर्यात् सदा मङ्गलम् ॥७५॥ कारावासमपास्य जन्मसमये यो निर्गतो गोकुलं गोपीगोपकिशोर-गोभिरनिशं यो नीतवान् शैशवम् । नित्यं गोपदरेणुरूषिततनुर्यो गोरसोल्लालसः गोसेवार्थमुपागतः स भगवान् कुर्यात् सदा मङ्गलम् ॥ ७६ ॥ वेदोद्धारधृतव्रतोऽपि खलु यो वेदान्निनिन्द स्वयं चक्राद्यायुधसंयुतोऽपि हि तिरश्चक्रे क्रतौ हिंसनम् यः संसारसुखं सुखेन विजहौ संसारसौख्याय च श्रीविष्णोर्नवमावतार इह वः कुर्यात् सदा मङगलम् ॥ ७७ ॥ माद्यन्मलेच्छगणान्निहन्तुमखिलान् त्रातुं सतीसज्जनान् धर्म स्थापयितुं श्रुतिस्मृतिगतं पातुं च गोब्राह्मणान् । दम्पत्योरनयोरखण्डितयशाः कश्चित् पुनर्जायतां यो दिव्याद्भुतसद्गुणैरगणितैः कुर्यात् जगन्मङ्गलम्॥७८॥ शिवतमदिवसे शिवे मुहूर्ते शिवगुणयोरशिवापनोदनाय । शिवसाक्षितया शिवोदयाय प्रियतमयोः शिवमङ्गलं बभूव ॥७९॥। ॥ इति श्रीशिवराज्योदये महाकाव्ये तृतीय सर्गः समाप्तः॥ श्रीशिवराज्योदयम् महाकाव्यम् । "शिवजन्म" नाम चतुर्थः सर्गः । अथ सुतां पतिभक्तिसमत्सुकां स समवेत्य विदर्भनराधिपः प्रियसुहृत्सचिवोत्तमसन्निभां स्वगृहिणीं निजगाद मनोगतम् ॥१॥ प्रियसुताविरहं परिभाव्य सा सपदि बाष्पपरिप्लुतलोचना । प्रतिजगाद जिजाजननी पतिं किमपि कुण्ठितकण्ठमविस्फुटम् ॥२॥ हृदयनाथ ! जिजा हृदयं मम श्वसितमुच्छ्वसितं खलु जीवितम् । अमृतवर्तिरिवाक्षिसुखप्रदा वद कथं बत तद् विरहं सहे ? ॥ ३ ॥ विरहकल्पनया मम मानसं हिमवदेव घनीभवति क्षणात् । द्रवति हन्त विमर्शवशात् पुनर् वहति बाष्पभरेण बहिर्मुखम् ॥४॥ किमु वदामि जिजाविरहाकुला तदभिधानपरा रसना मम । गदितुमुत्सहते न तदप्रियं प्रिय कुरुष्व यथाभिमतं तव ॥५॥ पतिकुलाभिगमनाहनि सङ्गता उषसि ताः सुखदुःखसमाकुलाः । प्रियसखीसहवासभृशातुराः सवयसः प्रतिवेशिकुलाङ्गनाः॥६॥ विहितमङ्गलगाहनभास्वरा रुचिरकुङ्कुमचन्द्रकलाधरा । अरुणवस्त्रयुता शुशुभे जिजा शरदुषा इव सर्वमनोहरा ॥७॥ धवलपाटलनीलसरोरुहै: विहितमङ्गलकुन्तलभूषणा । मुखविलोचनपद्ममयी जिजा सपदि सा ददृशे सरसी यथा ॥८॥ विविध-हीरक-मौक्तिक-भूषणैः हृदयसन्निहितैर्विरराज सा । गुणवती मृदुमञ्जुलभाषिणी सदुपमानगणैः कविता यथा ॥ ९ ॥ नयननीर-भृशार्द्रमुखी जिजा पतिपुराभिमुखी समदृश्यत । विषमसह्यशिलोच्चयमार्गगा गिरिनदीव महार्णवगामिनी ॥१०॥ पतिमिताऽमितसम्मदमानसा तदवलोकनमोदितमानसम् । तदुदितेङ्गितमात्रवशंवदा प्रथमसिद्धिरिवोत्तमकर्मिणम् ।।११॥ अथ चिरन्तनपुण्यकृतां सतां युगयुगान्तरसञ्चितकर्मणाम् । सुपरिपाकमिवोत्कटपिण्डितं कमपि गर्भमुवाह जिजा शिवम् ॥१२॥ श्रुतिरिवाद्भुतमन्त्रबलान्विता विजयभाग् रणनीतिरिवोज्ज्वला । प्रखरवीररसा कविता यथा प्रबलगर्भधरा शुशुभे जिजा ॥१३॥ प्रथिततीर्थजलान्तरगाहने मुनितपस्विपदाम्बुजवन्दने । सकलगोद्विजसम्परिपालने मनसि साऽविरतं प्रतितत्वरे ॥ १४॥ श्रीशिवराज्योदयम् । भगवतीं महिषासुरमर्दिनीं समनुकर्तुमिवैच्छदनेकदा । प्रखरपट्टिशखड्गकृपाणभृत् निजवपुर्मुकुरे समलोकयत् ॥१५॥ नगरसीमविलङ्घनमङ्गलाहनि चतुर्दिगुपान्तजिगीषया । सरभसेव महारणरागिणी सकलदिक्षु च चक्षुरूपाक्षिपत् ॥१६॥ शरदि मङ्गलदीपमहोत्सवे पतितमन्दिरगर्भगृहेष्वपि । शतशतोज्ज्वलदीपकमालिका रचयितुं न्यदिशत् सकलान् जनान् ॥ नभसि गैरिकशोणशुभप्रभाम् उषसि सायमवेक्ष्य दिने दिने । समुदितो भगवद्ध्वज इत्यसौ प्रमुदिता समवन्दत भक्तितः ॥१८॥ न हि समैहत वीक्षितुमुज्ज्वलां निमिषमप्युदयाचलसंस्थिताम् । यवनशासनवैभवबोधिनीत्यतिशुभामपि चान्द्रमसीं कलाम् ॥१९॥ हततुरुष्कजयध्वजसप्रभेत्यभिविलोकयितुं न समैहत । मरकतोज्ज्वलपर्णसुशोभितां सुरुचिरामपि सह्यवनश्रियम् ॥२०॥ विषमसह्यगुहावनचारिणो वसनभूषणहीनतनूञ्जनान् । समवलोकयतादरतो यथा न हि तथा धनिनः स्वजनानपि ॥२१॥ हनुमदर्जुनभीमरघूत्तम-प्रभृतिवीरवरेण्यचरित्रतः । प्रथितसङ्गररौद्ररसाः कथा : निशमितुं भृशमुत्सुकतां दधे ॥ २२॥ परमपुरुषवीरचरित्रतो भृशमरोचत सैव कथाद्भुता । नखरशस्त्रबलेन महासुरो हत उरःप्रविदारमसौ यदा ॥२३॥ सकल एष जनोऽस्तु सुखाप्लुत: चिरमनामय एव च जीवतु । जगति पश्यतु भद्रमनेकधा भृशमयाचत सेति सदाशिवम् ।।२४।। पतिरिमां निकटप्रसवामथो निजनिवासमरातिकुलाकुलम् । दृढमवेत्य पदं च निरापदं किमपि सुप्रसवं समचिन्तयत् ।।२५।। निकटवर्तिनमुन्नतदुर्गमं शिवमयं च शिवासमधिष्ठितम् । गिरिगतं शिवनेरिशिवाभिधं स्ववशदुर्गमिमामहिनोदसौ ॥२६॥ निदाघवर्णनम् । अथ मधौ हि विलासविमूर्च्छिते तपनदीधितितापभयावहः । समय उष्णतयाऽतिविशोषको दहनबन्धुरिवाभियौ द्रुतम् ॥ २७ ॥ रविमवेक्ष्य सुतप्ततरं भृशं मरुदियाय स तद्गुणतां स्वयम् । बत बत क्षमया प्रथिता क्षमाऽभवदसौ सहसा ध्रुवमक्षमा ॥२८॥ खनितुमेव हि कूपतलं श्रमी विवरमेत्य भुवो भृशशीतलम् सदनशेखरसंस्थितशिल्पिनं रविकराभिहतं समुदीक्षते ॥ २९ ॥ सुघटिता समता हि निदाघतः सकलसज्जनवृन्दसमीहिता । विनिहिताः सदनेष्वखिलैर्यतो धनिभिरप्यधनैरिव मृद्घटाः ॥३०॥ चतुर्थः सर्गः । २३ क्षणश एव यथा रविरुच्चकैः समधिरोहति तुङ्गनभोगिरिम् । जगदिदं स्वकरैरुपकर्षयन् नयति सन्निधतामिव चात्मनः ॥३१॥ रविकरैरदयं युगपद् हृतं सकलमीनसरोवरजीवनम् । प्रखरतापभृतां दहनात्मनां हतबलेषु कुतः करुणाऽसताम् ॥ ३२॥ तरणिना हि धरान्तरसंस्थितान् सकलरत्ननिधीनभिवीक्षितुम् । निजसहस्रकरैरिव दारिता कठिनमृत्कवचाऽपि वसुन्धरा ॥३३॥ तपनदीधितितापभृशाकुलं पशुकुलं विनिविष्टमहर्दिवम् । तरुतले बहुपल्लवशीतले पिहितचक्षुरहान्तमपेक्षते ॥ ३४ ॥ सुषमयाsमरराज हरिद् यया बहु विराजति पाटलयोषसि । प्रतिनिशं सकलास्वपि दिक्षुसा स्फुरति नूनमहो दववह्निना ॥ ३५॥. मरुति वाति निशास्वतिदाहके स्फुरति दावमहानलतेजसि । न रविरस्तमगादिति शङ्कया बहिरियाय न घूककदम्बकम् ॥ ३६॥. विगतपङ्कमये धरणीतले तरणितापहतं खलु गोकुलम् । न च विदूरमपैतुमभीहते क्षणमहो लघुकूपसमीपतः ॥ ३७॥ कृपणतुल्यमनेन जलं चिरं विजनकूपखलेन हि सञ्चितम् । तदपनीतमतो रविणा स्वयं खलधनं हरणीयमिहाधिपैः ॥ ३८॥ सकलकूपसरःसरितां पयो रविकरैरुपशोष्य दिवानिशम् । बहूपिपासितयेव दिवाऽधुना किमदयं सकलं परिपीयते ॥ ३९ ॥ यदि सरो विजलं क्व सरोरुहं ? न हि सरोरुहमेव कुतोऽलय: ? यदलयो न कुतो मधुगुञ्जितं? न मधुगुञ्जितमेव कुतो मुदः ? ॥४०. बक उपेति सरित्तटमुत्सुको नियतदम्भतपश्चरणाय सः। विगतनीरतया पुलिने पुनः भवति तस्य नितान्तविडम्बना ॥४१॥ तपनदाह-सुदग्धतनूरियं बकततिः समगात् किमु कृष्णताम् । इति सशंकमयं बहुकौतुकी वियति पश्यति काकततिं जनः ॥४२॥ समविशद् रविरश्मिविभर्जितः प्रकुपितोऽहिरितीव पिपीलिकाः । स्वविवरं परिहाय भयाकुलाः उदककुम्भसमीपमुपस्थिताः ॥४३॥ विकचमेचकनीरजपुञ्जवत् निशि नभः प्रतिभाति च माधवे । तदभिलाषवशीकृतमानसा इव समुत्पतिता उडुहंसका: ॥४४॥ तपनदीधितितप्ततनूभृतो दिव इवाधिकघर्मपयःकणाः । उडुगणा हि निदाघनिशासु ते परिलसन्ति सुमौक्तिकसुन्दराः ॥ ४५ ॥ ॥ सुखयितुं सकलानुपनीतमित्यभिविलोकितमादरतो जनैः । पवनजेन हिमालयशृङ्गकं प्रतिनिशं शशिखण्डमदो मुदा ॥४६॥ श्रीशिवराज्योदयम् । शशिभुजङ्गवदेवसरिद्धरोऽपि स हरो न सहेत महातपम् । शिरसि सन्ततधारमतो जलं निहितमस्य जनैः प्रतिमन्दिरम् ॥४७॥ रविकरैरभितप्ततनूभृतां तरुविहीनपथं व्रजतां नृणाम् । क्वचिदकालघनो नभसि स्फुरन् वरदहस्तसमो भवति प्रभोः ॥४८॥ इति निदाघमहातापतपिते समय एव शुभाहनि माधवे । किमपि सौख्यमबोधितकारणम् स्वहृदये सहसा जनताऽन्वभूत् ॥ विपिनपुष्पसुगन्धवो मरुत् परिजहर्ष तथैव हुताशनः । मृदितभृङ्गविहङ्गकुलं जगौ किमपि मङ्गल-गीतमविस्फुटम् ॥ सकलदेवकुलेषु महाध्वनिः मुरजशंखभवोऽनददुच्चकैः । निशमिता: सुचिरं जयगर्जना: मुदितदेवगणैरिव घोषिताः ॥५१॥ सकलसज्जनमानसवर्तिनी परममङ्गलवाञ्छितवल्लरी । शुभतमेऽह्नि नवार्भकजन्मना सुफलिता शिवनेरि-महालये ॥५२॥ नवशिशोरतिभास्वरतेजसा न गृहमात्रगता लघुदीपिका: । प्रतिहता यवनाधिपमस्तकस्थितकिरीटमहामणिभा अपि ॥५३॥ पुण्ये च नामकरणाहनि मीलिताभिः तस्याङ्गनाभिरुदितं हि नवार्भकस्य तद्दुर्गदैवतसमाख्यमनन्तकीर्ति प्रेम्णा शिवाजिरिति मङ्गलनामधेयम् ॥ नृवीरवर्यस्य रणोत्सुकस्य प्रियं शहाजेरपि तच्च नाम । शिवा भवेदाजिरमुष्य चेति स नामधेयार्थमुदाजहार ॥ ५५॥ नवीनां निरुक्तिं स्वतः कल्पितां तां स्वपुत्राभिधानस्य लोकान् ब्रुवाणः । पिता मन्त्रवत् संजुगुञ्जेव भूयः नवार्भकस्य तन्मङ्गलं नामधेयम् ॥५६॥ कुटीरे कुटीरे प्रसन्नान्तराणां शिशूनां च यूनां च सीमन्तिनीनाम् । ननर्तेव जिह्वाग्रमञ्चेऽभिधानं शिवाजिः शिवाजिः शिवाजिः शिवाजिः ॥ रसालरसरक्तकण्ठपिकवृन्दमञ्जुस्वराः कृषीवलकुलाङ्गनाः प्रतिगृहं जगुः सर्वदा । सुशाययितुमर्भकान् स्वरचिताश्च गीतीर्नवाः । स्वबान्धवसुखश्रवाः प्रियशिवाजिनामाङ्किताः ॥ ५८ ॥ ॥ इति श्रीशिवराज्योदये महाकाव्ये चतुर्थः सर्गः ॥ श्रीशिवराज्योदये महाकाव्ये "शिवशिक्षणं" नाम: पञ्चमः सर्गः जिजातनूजः शिवनेरिदुर्गे दिने दिने संववृधेऽतितेजाः । यथोदयाद्रावुदयोन्मुखोऽसौ क्षणे क्षणे बालसहस्ररश्मिः ॥१॥ विलम्बिदोलाशयने शयानः मुखारविन्देन पदारविन्दम् । लिहन् मुदा मातृमनोऽरविन्दे न्यषिञ्चदानन्दसुधाप्रवर्षम् ॥ २ ॥ क्षुधाकुलं तं च विजानती सा माता जिजां सत्वरमुत्सरन्ती । गाढं गृहीत्वा हृदयावलग्नम् अपाययत् स्नेहमयं पयः स्वम् ॥३॥ स स्तन्यपीयूषरसं प्रसन्नः पपौ स्वमातुर्मुखमीक्षमाणः । आकेकराक्षोऽमृतरश्मिविम्ब-निषक्तनेत्रो हि यथा चकोर: ॥ ४ ॥ अभ्यंगसुस्नातममुं कुमारं श्रीखण्डरेखाङकित - चन्द्रभालम् । विलोकयन्ती जनताद्रिसंस्था मेने शिवाजिं शिवकल्पमेव ॥ ५ ॥ संत्यज्य मृत्क्रीडनकानि सर्वाण्यबालसत्त्वः स हि वीरबालः । कृपाणखड्गच्छुरिकादिशस्त्रैः संक्रीडितुं तत्परतां दधार ॥६॥ आकर्ण-संकृष्टधनुर्गुणोऽसौ अनन्यदृष्टिः स्थिरचित्तवृत्तिः । विध्यन् स्ववेध्यं द्रुतमप्रमादं मेने गुणज्ञैः खलु वीरयोगी ॥७॥ सम्भ्रामयन् पट्टिशमुज्जवलाभं मरुज्जवेनेव सुनीलकान्तिः । रराज स स्वेदलवार्द्रमूर्तिः तडित्परीताभिनवाम्बुदाभः ॥ ८ ॥ दूरस्थवेध्याभिमुखं स्वशूलं प्रक्षिप्य शक्त्याऽपि पुनस्तमेव । संधकामः स्वकरेण भूयः शूलानुसारी प्रदुधाव वेगात् ॥९॥ स मल्ल केलीषु शिशून् वयस्थान न केवलं जेतुमभूत्समथः । वयोऽधिका अप्यभवन्न शक्ताः तरस्विनं जेतुममं कुमारम् ॥१०॥ वृक्षाग्रशाखासु समुत्प्लवन्तं प्लवङ्गवृन्दं भृशलोलशीलम् । विडम्बयन्नड्डयन्नैः स बालः प्रमोदमग्नान् विदधे वयस्यान् ॥ ११ ॥ झञ्झामरुच्चञ्चलमुत्प्लवन्तं तुरङ्गमं रश्मिविनाकृतं च । स्फुरत्सटावग्रहणं स वेगात् क्षणादिवाध्यास्य चमच्चकार ॥ १२ ॥ उक्षाणमुन्मत्तमपि प्रसह्य विषाणयोरात्मबलेन धृत्वा । प्रत्याक्षिपत्तं हि तथा यथाऽसौ वप्रावलीलारसमुत्ससर्ज ॥१३॥ सह्याद्रिजारण्यविहारलोलं शार्दूलशावं रभसा प्रगृह्णन् । पृष्ठं समध्यास्य मुदाऽस्य हिण्डन् धीरैरपि व्यात्तभयैरलोकि ॥ १४॥ ( ६ ) कं दुनोति न सुतो विरोधकः ॥ ४५ काले मृषा वचनमाहुरगर्हणीयम् ॥ ५० ॥ अष्टादशः सर्गः ॥ अभद्रशङकाकुलमानसानां जिज्ञासुता वृद्धिमिवेत्यकस्मात् ॥ ६ मृगाधिराजस्य महागुहायां मृगी कथं प्राविशदप्रगल्भा ॥ ३२ न प्रातिकूल्यं परमाणुमानं मोहम्मदीयाः क्वचनासहन्त । उपेक्षमाणो हि रिपुस्फुलिङ्गो दावायते कालकलान्तरेण ॥ ३७ ॥ विशः सर्ग ॥ कुतो नु संज्ञाविरहोऽल्पशोऽपि कल्पेत संजीवनमन्त्रयोगे ॥ २६ ॥ एकविंशः सर्गः ॥ न शेषितव्यः खलु देवशत्रुः ॥ २८ आकाङक्षितं दुर्घटमात्मशक्त्या वीराः स्वमातुः परिपूरयन्ति ॥ ३५ ॥ द्वाविंशतितमः सर्गः ॥ जिगीषुरल्पविषयोऽल्पीय सैन्यपरिच्छदः । अल्पिष्ठेनैव कालेन जयेदिति मतिर्मम ॥ ९ निदाघ इव दावाग्निः शरत्काले द्विषद्गणः । उपेक्ष्यमाणः सहसा जायते बलवत्तरः ॥ २२ प्रीणयन्ति न कं लोके विपत्तिसहयोगिनः ॥ २५ सागरान्तर्गतः किं नु व्यज्यते वडवानलः ॥ ४७ ॥ त्रयोविंशः सर्गः ॥ रत्नाकरोऽपि जलधिनित्यं स्पृहयतीन्दवे ॥ १९ नर्ते राजेन्द्र सेवाया धर्म्यमन्यत् कलौ युगे ॥ २२ राजपीठाभिगमनै राजनिष्ठावलोकनैः । राजानुकूलाचरणं राजलक्ष्मीः प्रसीदति ॥ २४ राजस्थाणुमुपाश्रित्य वर्धते कीर्तिवल्लरी ॥ २५ शुभं कामयमानेन वाशुभं निश्चिकीर्षुणा । स्वयमेवाभिगन्तव्य धीमता राजवल्लभाः ॥ २६ ( ७ ) विहितं चेत् क्वचित् किञ्चिद् राजापथ्यमजानता । तदायतिमपध्नन्ति कृपया राजवल्लभाः ॥ २७ निजसदनमुपेतुं कस्य नात्राभिलाषः ॥ ३१ ॥ चतुविशः सर्गः ॥ निजसदनमुपेते प्राकृतेऽप्यस्मदीया विदधति खलु पूजां किं पुनः स्वे पितृव्ये ॥ ४१ स्वामिलेखे स्थिते वाचो भृत्यस्याप्रस्तुताः खलु ॥ ४३ पत्रं प्रदीर्घमप्यन्तर्भावं नाविष्करोत्यलम् ॥ ४५ ॥ पञ्चविंशः सगः ॥ सेवकानां प्रमोदाय मोदो हि स्वामिनः सदा ॥ २१ यस्मिन्नेव क्षणे सूर्यः स उदेतुं प्रवर्तते । क्षणशः कणशस्तस्मस्तमसा हि विशीर्यते ॥ २५ विजिगीषोर्बलाढयस्य प्रमत्ता अपि शत्रवः । स्वयमात्मानमाध्नन्ति प्रद्रवन्ति नमन्ति वा ॥ २६ किन्तु शीघ्रातिशीघ्रं चाप्यारादपि यियासुना । कर्दमे चान्धकारे च नाधेयः सहसा पदः ॥ २७ शूराणामुपदेशाय न षण्ढाः खलु पण्डिताः ॥ ४१ भीतोऽप्याखुबिडालस्य स्वयमायाति किं मुखे ? ॥ ४५ उत्सवेन महोत्साहो निरुत्साहेषु जायते ॥ ४७ बलं प्रबलमप्येति निर्बलत्वं विनाऽऽहम् ॥ ४९ युद्धाभावे युयुत्साऽसौ पूर्यते विजयोत्सवः ॥ आरम्भेऽन्ते हि युद्धस्य कर्तव्या विजयोत्सवाः ॥ ५० लोकेऽस्मिन् नियतिहतस्य पूरुषस्य धीरादौ प्रतिपदमेति वैपरीत्यम्॥ ५४ ॥ षडींवशः सर्गः ॥ का चिन्ता विषये स्वके ॥१७॥ बलवन्तो न वाञ्छन्ति स्थानं समबलैः समम् ॥ २२ न जातु जायते भीरौ शास्त्रयोगेन शूरता ॥ २४ नैकाकिनो हि श्रीमन्तः यान्ति क्वापि कदाचन ॥ २९ श्रीशिवराज्योदयम् ग्रन्थकर्तुः परिचयः नाम - डॉ. श्रीधर भास्कर वर्णकर M. A. D. Lit. (नागपुरम् ) जन्म - दि. ३१-७-१९१९ व्यवसायः - नागपुरविद्यापीठे प्रपाठकः रुचिः - संस्कृत-साहित्य-व्याकरण-वेदान्तेषु राष्ट्रशक्ति-मराठी साप्ताहिकस्य भूतपूर्वः प्रथमः संपादकः संस्कृत-भवितव्य-साप्ताहिकस्य योगप्रकाश-मराठी-मासिकस्य-संपादक: नागपुरस्थ-भोसला-वेदशास्त्र-महाविद्यालयस्य अध्यक्षः नागपुरस्थ-योगाभ्यासि-मण्डलस्य अध्यक्षः -योगाभ्यासि- -मण्डलस्य अध्यक्षः प्रकाशनानि १. मन्दोर्मिमाला (स्फुटकाव्यचतुःशती) २. महाभारतकथाः ३. भारतरत्नशतकम् ४. स्वातन्त्र्यवीरशतकम् ५. कालिदासरहस्यम् (शतकम्) ६. रामकृष्णपरमहंसीयम् (शतकम् ) ७. वात्सल्यरसायनम् (शतकम्) ८. अर्वाचीन संस्कृत-साहित्य (डी.लिट्. प्रबन्धः ) ९. अभंगधर्मपद (धम्मपदस्य मराठी पद्यात्मकं विवरणम् ) १०. शिवराज्योदयम्-महाकाव्यम् । ११. विवेकानन्दविजयम्-महानाटकम् । (बहुषु नियतकालिकेषु प्रकाशिताः द्विशताधिकाः निबन्धलेखाः अन्ये च नैके शोधप्रबन्धाः ) अप्रकाशितम् १. परोक्षपाणिनीयम् ( हिन्दी प्रबन्धः ) २. शिवराज्याभिषेकम् (नाटकम्)