<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<p>-</p>
<pb n="2" />
<p>-</p>
<pb n="3" />
<p>-</p>
<pb n="4" />
<p>-</p>
<pb n="5" />
<p>-</p>
<pb n="6" />
<p>-</p>
<pb n="7" />
<p>श्रीः ।
श्रीपुष्पदन्तविरचितं
महिम्नस्तोत्रम् ।
मधुसूदनसरस्वतीकृतशिवविष्ण्वर्थकव्याख्यासहितम् ।
ॐनमः शिवाय ।</p>
<lg>
  <l>विश्वेश्वरं गुरुं नत्वा महिम्नाख्यस्तुतेरयम् ।</l>
  <l>पूर्वाचार्यकृतव्याख्यासंग्रहः क्रियते मया ॥ १ ॥</l>
</lg>
<p>एवं किलोपाख्यायते – कश्चित्किल गन्धर्वराजः कस्यचिद्राज्ञः
प्रतिदिनं प्रमदवनकुसुमानि हरन्नासीत् । तज्ज्ञानाय शिवनिर्मा-
ल्यलङ्घनेन मत्पुष्पचौरस्यान्तर्धानादिका सर्वापि शक्तिर्विनङ्क्ष्य-
तीत्यभिप्रायेण राज्ञा शिवनिर्माल्यं पथि निक्षिप्तम् । तदप्रतिसंधाय
च गन्धर्वराजस्तत्र प्रविशन्नेव कुण्ठितशक्तिर्बभूव । ततश्च शिवनिर्मा-
ल्योल्लङ्घनेनैव ममैतादृशं वैक्लव्यमिति प्रणिधानेन विदित्वा परमकारु-
णिकं भगवन्तं सर्वकामदं तमेव तुष्टाव ।
ननु स्तुतिर्नाम गुणकथनं, तच्च गुणज्ञानाधीनम्, अज्ञातस्य तस्य
कथनासंभवात्, तथाच भगवतो गुणानामनन्तत्वेन ज्ञातुमशक्यत्वा-
त्कथं तत्कथनरूपा स्तुतिरनुरूपा भवेत्, अननुरूपकथनं चोपहा-
सायैवेति या शङ्का तदपनोदनव्याजेन स्वस्यानौद्धत्यं दर्शयन्नेव
भगवन्तं स्तोतुमारभते—
महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।</p>
<pb n="8" />
<p>अथावाच्यः सर्वः स्वमतिपरिणामावधि गृण-
न्ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ १ ॥
महिम्नः पारमिति। हे हर, सर्वाणि दुःखानि हरतीति हरः ।
योग्यं संबोधनम् । सर्वदुःखहरत्वेनैव प्रसिद्धोऽसि, न मम दुःखहरणे
पृथग्व्यापारं करिष्यसीत्यभिप्रायः । हे सर्वदुःखहर, ते तव महिम्नः
परं पारमवधिमविदुषः एतावानेव महिमेतीयत्तयाऽजानतः । कर्तृत्व-
संबन्धे षष्ठी । अज्ञानत्कर्तृका स्तुतिर्यद्यसदृश्यननुरूपा । अयोग्येति
यावत् । तत्तर्हि ब्रह्मादीनां सर्वज्ञानामपि गुणकथनरूपा गिरस्त्वयि
विषयेऽवसन्नाः । अयोग्या एवेत्यर्थः। तैरपीयत्तयाऽज्ञानात् । इयत्ताया
असत्वेन तदज्ञाने सार्वज्ञ्यव्याघातोऽपि न । सन्मात्रविषयत्वात्सर्वज्ञ-
त्वस्य । अन्यथा भ्रान्तत्वप्रसङ्गात् । तथाच श्रीभागवते - 'विष्णोर्नु वी-
र्यगणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसि'
इति । अथेति पक्षान्तरे । यद्येवं ब्रूषे तर्हि स्वमतिपरिणामावधि
स्वस्य मतिपरिणामो बुद्धिविषयता स एवावधिर्यत्रेति क्रिया-
विशेषणम् । स्वबुद्ध्या यावद्विषयीकृतं तावद्गृणन् वाक्सृष्टिसा-
फल्याय कथयन्सर्वोऽपि स्तोता अवाच्योऽनुपालम्भनीयः । 'सा वा-
ग्यया तस्य गुणान्गृणीते करौ च तत्कर्मकरौ मनश्च । जिह्वा-
ऽसती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः' इति च श्री-
भागवतवचनात् । तर्हि 'नभः पतन्त्यात्मसमं पतत्रिणः' इति
न्यायेन ममाप्येष परिकर आरम्भः स्तोत्रे स्तोत्रविषये निरपवादो-
ऽखण्डनीयः । स्वबुद्ध्यनुसारेण योग्य इत्यर्थः । प्रथमार्धेन स्तु-
तिनिराकरणव्याजेन सर्वदुरधिगममहिमत्वरूपा महती स्तुतिः कृता,
उत्तरार्धेन स्तुतिसमाधानव्याजेन सर्वा स्तुतिरनुरूपेति महत्कौ-
शलम् ॥ ॥ अन्यच्च गन्धर्वराजस्य महाकुशलत्वादेकेनैव श्लोकेन
यथाश्रुति वक्ररीत्या च हरिशंकरयोः स्तुतिस्तयोरभेदज्ञानायाभि-
प्रेता । तत्र हरपक्षे यथाश्रुति व्याख्यातं, हरिपक्षेऽपि तदेव योजनी-
यम् । संबोधनपदं तु अहरेति । हरतीति हरः संहर्ता तद्विरुद्धोऽहरः ।</p>
<pb n="9" />
<p>पालयितेत्यर्थः । अथवाऽहः <flag>अहो परम </flag>परा मा लक्ष्मीर्यस्येति तथा
हे लक्ष्मीपते । लक्ष्मीपतित्वान्ममालक्ष्मीं स्वत एव नाशयिष्यसीति
योग्यं संबोधनम् । यदि ते महिम्नः त्वन्महिमसंबन्धिनी त्वन्महिम-
विषया स्तुतिः । गिरो महिम्न इति योजनापेक्षया ते स्तुतिरित्येव
समीचीनम्, तत्तर्हि अवसन्नाऽल्पा असदृश्यननुरूपाप्यस्तु, नत्वन्य-
देवतानामनल्पाऽनुरूपापि । अत्र हेतुगर्भं विशेषणम् । तव कीदृशस्य ।
ब्रह्मादीनां स्तावकानां गिरः स्तुतिरूपायाः पारं विदुषः । स्तोतुः
श्रमं स्तुतेर्गुणदोषौ च जानत इत्यर्थः । सर्वदेवस्तुत्यत्वेन निरतिश-
यसार्वज्ञ्येन च तवैव सर्वोत्कृष्टत्वादित्यभिप्रायः । स्तुतिफलं दर्शयन्
स्वस्य विनयातिशयं दर्शयितुमाह । अथ स्वं त्वां अतिपरिणामावधि
अतिक्रान्तो बुद्धिपरिपाकावधिः सीमा यत्र तादृशं यथा स्यात्तथा
स्वशक्तिमतिक्रम्यापि गृणन्स्तुवन् सर्वोऽपि जनः अवाच्य आभिमु-
ख्येन वाच्यः ।संभाषणीयस्त्वयेत्यर्थः । यस्मादेवं सर्वथैवानुगृह्यते त्वया
स्तोता अतएव ममापि स्तोत्रे स्तुतिकर्त्रे एषः परिकरो नमस्कारा-
दिप्रबन्धः । कीदृशः । अनिरपवादः न विद्यतेऽतिशयेनापवादो दूषणं
यस्मात्स तथा । अहरिति वीप्सनीयम् । अहरहः सर्वदेत्यर्थः । यद्विष-
यकस्तुतिकर्तृत्वेनान्योऽपि सर्वदा नमस्यः किमु वक्तव्यं स सर्वदा
सर्वेषां नमस्यतरो भवतीति भगवति रत्यतिशयो व्यज्यते । एवं
यस्यायोग्यापि स्तुतिः सान्निध्यफला तस्य योग्या स्तुतिः किं वा
न करिष्य<fix>तीति</fix> ध्वनितम् । हरपक्षेऽप्येवम् । तत्र परम श्रेष्ठेति
संबोधनम् ॥ १ ॥
पुनरप्यस्तुत्यत्वेनैव भगवन्तं स्तौति पूर्वोक्तं स्वस्य ब्रह्मादि-
साम्यमुपपादयन्--</p>
<lg>
  <l>अतीतः पन्थानं तव च महिमा वाङ्मनसयो-</l>
  <l>रतव्द्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।</l>
  <l>स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः</l>
  <l>पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २॥</l>
</lg>
<pb n="10" />
<p>अतीत इति । पूर्वोक्तं संबोधनमावर्तनीयम् । तव महिमा
सगुणो निर्गुणश्च वाङ्मनसयोः पन्थानं विषयत्वमतीतोऽतिक्रान्तः ।
चशब्दोऽवधारणे । अतीत एवेत्यर्थः । अनन्तत्वान्निर्धर्मकत्वाच्च ।
तथाच श्रुतिः 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति ।
वागविषयत्वे तत्र श्रुतेः प्रामाण्यं न स्यादित्याशङ्क्याह । यं
श्रुतिरप्यपौरुषेय्यपि वेदवाणी चकितं भीतं यथा स्यात्तथा अभि-
धत्ते तात्पर्येण प्रतिपादयति । सगुणपक्षे किंचिदप्ययुक्तं मा-
भूदिति, निर्गुणपक्षे तु स्वप्रकाशस्यान्याधीनप्रकाशता मा भूदिति
भयम् । केन प्रकारेण । अतद्व्यावृत्त्या सगुणपक्षे न तद्व्यावृत्तिरतद्व्या-
वृत्तिस्तया । अभेदेनेत्यर्थः । 'सर्वं खल्विदं ब्रह्म' 'सर्वकर्मा सर्व-
कामः' इत्यादिना सर्वाभेदेनैव भगवन्तं प्रतिपादयति न त्वेकैकशो
महिमानं वदतीत्यर्थः । निर्गुणपक्षे तु न तत् अतत् । अविद्यातत्कार्या-
त्मकमुपाधिद्वयमिति यावत् । तद्व्यावृत्त्या तत्परित्यागेन जहद[^१]जहल्लक्ष-
णयेत्यर्थः । मायाविद्योपहितचैतन्यशक्तं तत्पदं तत्कार्यबुद्ध्याद्युपहि-
तचैतन्यशक्तं त्वंपदमुपाधिभागत्यागेनानुपहितचैतन्यस्वरूपं स्व-
प्रकाशमपि तदाकारवृत्तिमात्रजननेनाविद्यातत्कार्यनिवृत्त्या वोधय-
तीवेति न तावता वाग्विषयत्वं मुख्यं तस्येत्यर्थः । अतएव स
तादृशः सगुणो निर्गुणश्च महिमा कस्य स्तोतव्यः । कर्तरि पष्ठी । न
केनापि स्तोतुं शक्य इत्यर्थः । सगुणस्य स्तोतव्यत्वाभावे हेतुमाह ।
कतिविधगुणः कतिविधा अनेकप्रकारा गुणा यत्र स तथा । अनन्त-
त्वादेव न स्तुत्यर्ह इत्यर्थः । निर्गुणस्य स्तोतव्यत्वाभावे हेतुमाह—
कस्य विषय इति । न कस्यापि विषयः निर्धर्मकत्वात् । अत एवाविष-
यत्वान्न स्तुत्यर्ह इत्यर्थः। सगुणो ज्ञेयत्वेऽप्यनन्तत्वात् निर्गुणस्त्वेकरू-
[^१] शक्त्युपस्थितार्थे किंचिदंशं परित्यज्य अवशिष्टार्थे लक्षणा जहजद-
हल्लक्षणा --यथा तत्त्वमसीत्यादौ तत्त्वमिति पदोपस्थितयोः सर्वज्ञत्वकिंचि
ज्ज्ञत्वांशयोः परित्यागपूर्वकं केवलचैतन्याभेदप्रतिपादनमित्याद्यूह्यम्</p>
<pb n="11" />
<p>पोऽपि ज्ञेयत्वाभावान्न स्तुत्यश्चेत्तर्हि स्वमतिपरिणामावधि गृणन्निति
पूर्वोक्तं विरुद्धयेतेत्यत आह - पदे त्विति । अर्वाचीने नवीने भक्तानु-
ग्रहार्थं लीलया गृहीते वृषभपिनाकपार्वत्यादिविशिष्टे रूपे कस्य विदुषो
मनो न पतति नाविशति, कस वचो नाविशति । अपितु सर्वस्यापि मनो
वचश्च विशतीत्यर्थः । तत्र हिरण्यगर्भस्यास्मदादेश्च सममेव स्तुतिक-
र्तृत्वमिति न पूर्वापरविरोधः ॥ हरिपक्षेप्येवम् । अथवा यं अतद्व्यावृ-
त्त्या कार्यप्रपञ्चभेदाच्चकितं भीतं मद्भिन्नत्वेन कार्यप्रपञ्चं मापश्यत्विति
शङ्कमानं श्रुतिरभिधत्ते इति पूर्ववत् । अर्वाचीने पदे तु कमलकम्बु-
कौमोदकीरथाङ्गकमलालयाकौस्तुभाद्युपलक्षिते नवजलधरश्याम-
धामनि श्रीविग्रहे वैकुण्ठवर्तिनि वेणुवादनादिविविधविहारपरायणे
गोपकिशोरे वा वृन्दावनवर्तिनि कस्य मनो नापतति, कस्य वचश्च
नापतति । अपगता ततिर्विस्तारो यस्मात्तदपतति । संकुचितमि-
त्यर्थः । तव श्रीविग्रहानुचिन्तने तद्गुणानुकथने च विषयान्तरपरि-
त्यागेन विलीयमानावस्थं मनो वचश्चैकमात्रविषयतया संकुचितं
भवति । तव श्रीविग्रहे एवासक्तं भवतीति भावः ॥ २ ॥
नन्वेवं स्तुत्यत्वेऽपि हरिहरयोः सर्वज्ञयोरनभिनवया स्तुत्या न
मनोरञ्जनं तद्विना न तत्प्रसादस्तं विना न फलमिति पुनरपि
स्तुतेर्वैयर्थ्ये प्राप्ते सार्थक्यं दर्शयन्स्तौति—</p>
<lg>
  <l>मधुस्फीता वाचः परमममृतं निर्मितवत-</l>
  <l>स्तव ब्रह्मन्किं वागपि सुरगुरोर्विस्मयपदम् ।</l>
  <l>मम त्वेतां वाणीं गुणकथनपुण्येन भवतः</l>
  <l>पुनामीत्यर्थेऽस्मिन्पुरमथन बुद्धिर्व्यवसिता ॥ ३ ॥</l>
</lg>
<p>मध्विति । हे ब्रह्मन् विभो, सुरगुरोर्ब्रह्मणोऽपि वाग्वाणी तव किं
विस्मयपदं चमत्कारकारणं किम् । किंशब्द आक्षेपे । नेथर्त्यः । तत्र</p>
<pb n="12" />
<p>हेतुगर्भविशेषणमाह । तव कीदृशस्य । वाचो वेदलक्षणा निर्मितवतो
निःश्वासवदनायासेनाविर्भावितवतः । कीदृशीः । मधुवत्स्फीताः माधु-.
र्यादिशब्दगुणालंकारविशिष्टत्वेन मधुराः । तथा परमममृतं निरति-
शयामृतवदत्यास्वाद्याम् । एतेनार्थगतमाधुर्यमुक्तम् । परमेश्वरवाचां
शब्दार्थगतयोर्निरतिशयमाधुर्ययोरपि मिथस्तारतम्यं मध्वमृतश-
ब्दाभ्यां द्योत्यते । अयं च वाचामुत्कर्षो महान् यत्र शब्दगुणालंका-
रातिशयं विनार्थगुणालंकारातिशय इति यत्र हिरण्यगर्भस्य वाण्यपि
न चमत्कारकारणं तत्र का वार्ताऽस्मदादिवाण्या इत्यर्थः । तर्हि किं
स्तुत्येत्यते आह—मम त्वित्यादि । हे पुरमथन त्रिपुरान्तक, भवतो
गुणकथनपुण्येन एतां स्वां वाणीं पुनामि निर्मलीकरोमीत्यभिप्रा-
येणैतस्मिन्नर्थे स्तुतिरूपे मम बुद्धिर्व्यवसितोद्यता नतु स्तुतिकौशले-
न त्वां रञ्जयामीत्यभिप्रायेणेत्यर्थः । वाङ्नैर्मल्येन मनोनैर्मल्यं नान्तरी-
यकमिति स्तुतेः सार्थक्यमुक्तम् ॥ हरिपक्षेप्येवम् । मथ्यतेऽस्मिन्द-
यादीति मथनं गोकुलम्, अथवा मथ्यन्ते आपोऽमृतार्थमिति मथनः
क्षीरोदः पुरं मन्दिरं गोकुलं क्षीरोदो वा यस्येति पुरमथनसंबोध-
नार्थः । सर्वमन्यत्समानम् । अथवा हे ब्रह्मन्, वाचः सर्वस्या अपि पर-
मममृतं निरतिशयसारं निश्चयेन मितवतः सम्यगनुभूतवतः सुर-
गुरोर्हिरण्यगर्भादिसर्वदेवतोपाध्यायस्य तव मधुस्फीता मधुरिम्णा
व्याप्ता अन्तरा कटुत्वलेशेनापि रहिता वागपि वाग्देवता सरस्वत्यपि
किं विस्मयपदम्। नेत्यर्थः । तस्या मद्वाचश्च महदन्तरमतिप्रसिद्धमेव ।
यद्यप्येवं तथापि त्वदिच्छयैव ममेयं प्रवृत्तिरित्याह-ममत्वेतामिति ।
निजगुणकथनपुण्येन ममत्वेतां ममत्वे वर्तमानां संसारसंसर्गकलु-
षितां वाणीं वाचं । एतस्य स्तुतिकर्तुरिति शेषः । पुनामि निष्कलुषां क-
रोमीत्येतस्मिन्नर्थे हे पुरमथन, भवतो बुद्धिर्व्यवसिता यतोऽतोनाय-
त्तैव मम प्रवृत्तिरित्यर्थः । श्रुतिश्च भवति 'एष उ ह्येव साधु कर्म कार-
यति तं यमेभ्यो लोकेभ्य उन्निनीषते एष उ एवासाधु कारयति
यमधो निनीषते' इति । स्मृतिश्च'अज्ञो जन्तुरनीशोऽयमात्मनः सुख-</p>
<pb n="13" />
<p>दुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गे वा श्वभ्रमेव वा" इति । तेन परम-
कारुणिकस्त्वं शरणागतवाणीपावनपुण्यहेतुस्तुतितत्परं लोकं कर्तुं
स्वयमेव प्रयतमानो यया कयापि स्तुत्या प्रसीदसीत्यर्थः ॥ ३ ॥
एवं हरिहरयोः स्तुत्यत्वं सफलस्तुतिकत्वं च निरूप्य ये के-
चित्पापीयांसस्तस्य सद्भावेऽपि विवदन्ते तान्निराकुर्वन्स्तौति -</p>
<lg>
  <l>तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृ-</l>
  <l>त्त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु ।</l>
  <l>अभव्यानामस्मिन्वरद रमणीयामरमणीं</l>
  <l>विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ ४ ॥</l>
</lg>
<p>तवेति । हे वरद ईप्सितप्रद, यत्तव ऐश्वर्यं तद्विहन्तुं नि-
राकर्तुं एके जडधियः केचिन्मन्दबुद्धयः व्याक्रोशीं विदधते ।
साक्षेपमुच्चैर्भाषणमाक्रोशस्तस्य व्यतिहारो व्याक्रोशी । अन्येन
कर्तुमारब्धमन्यः करोति अन्येन चान्यः इति कर्मव्यतिहारः ।
व्याङ्पूर्वात्क्रोशेः 'कर्मव्यतिहारे णच् स्त्रियाम्' इति पाणिनि-
स्मरणात् ततः स्वार्थे अञ् 'णचः स्त्रियामञ्' इति सूत्रात् । ततः
स्त्रियां ङीप् । तां व्याक्रोशीमहमहमिकया कुर्वते यत्सर्वप्रमाणप्रमितं
तदपि जिघांसन्तीति यत्तद्भ्यां मन्दबुद्धित्वं द्योतितम् । अतएव कर्त्र-
भिप्राये क्रियाफले विदधातेरात्मनेपदम् । नहि तद्व्याक्रोशीविधानात्त-
वैश्वर्यव्याघातः किंतु तेषामेवाधःपात इत्यर्थः । कीदृशं तवैश्वर्यम् ।
जगदुदयरक्षाप्रलयकृत् जगत आकाशादिप्रपञ्चजातस्योदयं सृष्टिं,
रक्षां स्थितिं, प्रलयं संहारं च करोतीति तथा । अनेनानुमान-
मुक्तम् । तच्च "अजन्मानो लोकाः" इत्यत्र व्यक्तं वक्ष्यते। तथा त्रयीवस्तु
त्रय्याः त्रयाणां वेदानां तात्पर्येण प्रतिपाद्यं वस्तु "सर्वे वेदा यत्पदमा-
मनन्ति" इति श्रुतेः । अनेनागमप्रमाणमुक्तम् । तथा गुणैः सत्वरजस्त-
मोभिः ली(लयातै)लोपात्तैर्भिन्नासु पृथक्कृतासु । वस्तु वस्तुगत्या भेद</p>
<pb n="14" />
<p>इत्यर्थः । तिसृषु तनुषु ब्रह्मविष्णुमहेश्वराख्यासु मूर्तिषु व्यस्तं वि-
विच्य न्यस्तम् । प्रकटीकृतमितियावत् । उपलक्षणं चैतत्सर्वेषामवतारा-
णाम् । एतेन प्रत्यक्षं प्रमाणमुक्तम् । तेन सर्वप्रमाणप्रमितमित्यर्थः । की-
दृशीं व्याक्रोशीम् । अस्मिन्नभव्यानां अस्मिंस्त्रैलोक्येऽपि नास्ति भव्यं
भद्रं कल्याणं येषां तेऽभव्यास्तेषां रमणीयां मनोहरां वस्तुतस्त्वरमणी-
ममनोहराम् । अमनोहरेऽपि मनोहरबुद्धिभ्रान्तिरभाग्यातिशयात्तेषा-
मित्यर्थः ॥ हरिपक्षेप्येवम् । अथवा अस्मिंस्तवैश्वर्ये अभव्यानां मध्ये
जडधियो जडमतेरत्यन्तमपकृष्टस्येत्यर्थः । तस्य वस्तुतोऽरमणीं व्या-
क्रोशीं विहन्तुं एके मुख्या रमणीयां व्याक्रोशीं विदधत इत्यर्थः ।
जडधिय इत्येकवचनेन पूर्वपक्षिणस्तुच्छत्वम्, एक इति बहुवच-
नेन सिद्धान्तिनामतिमहत्त्वं सूचितम् ॥ ४ ॥
ये त्वात्मप्रत्यक्षमपह्नुवते त्रयीं चान्यथा वर्णयन्ति, तेऽनुमानेनैव
निराकार्याः । तच्चानुमानं क्षित्यादिकं सकर्तृकं कार्यत्वात् घटवदिति
जगदुदयरक्षाप्रलयकृदित्यनेन सूचितम् । तत्र पूर्वश्लोकोक्तव्याक्रोशी-
बीजप्रतिकूलतर्कमुद्भावयन्तः पूर्वपक्षिणो निराकुर्वन्स्तौति । अथवा
कीदृशीं व्याक्रोशीं विदधत इत्याकाङ्क्षायां तां वदन्स्तौति -</p>
<lg>
  <l>किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं</l>
  <l>किमाधारो धाता सृजति किमुपादान इति च ।</l>
  <l>अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः</l>
  <l>कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥ ५ ॥</l>
</lg>
<p>किमिति । हे वरदेति पूर्वश्लोकात्संबोधनानुषङ्गः । त्वयि विषये
कुतर्कस्तर्काभासः कांश्चिद्धतधियः कानपि दुष्टबुद्धीन् जगतो विश्व-
स्यापि मोहायाऽन्यथाप्रतिपत्तये मुखरयति वाचालान्करोति । कीदृशे
त्वयि । अतर्क्य तर्कागोचरमैश्वर्यं यस तस्मिन्सर्वतर्कागोचरे त्वयि
यः कश्चित्तर्कः स्वातत्र्येणोपन्यस्यते स सर्वोप्याभास इत्यर्थः । प्रमा-</p>
<pb n="15" />
<p>णानां स्वगोचरशून्यत्वात्स्वागोचरे प्रामाण्याभावो युक्त एवेति
भावः । कुतर्कमेवाह —किमीह इत्यादिना । स धाता परमेश्वरस्त्रिभुवनं
सृजतीति सिद्धान्तमनूद्य तत्र दूषणमाह । खलु किंतु का ईहा चेष्टा
यस्येति किमीहः । तथा कः कायः शरीरं कर्तृरूपं यस्येति किं-
कायः । क उपाय: सहकारिकारणमस्येति किमुपाय: । क आधारो-
ऽधिकरणमयेति किमाघार: । किमुपादानं समवायिकारणं भुवना-
कारेण निष्पाद्यमस्येति किमुपादानः । सर्वत्र किंशब्द आक्षेपे । इति-
शब्दः प्रकारार्थः । चशब्दः शङ्कान्तरसमुच्चयार्थः । कुलालो हि घटं
कुर्वन्स्वशरीरेण व्याप्रियमाणेन चक्रभ्रमणादिचेष्टया सलिलसूत्राद्यु-
पायेन चक्रादावाधारे मृदमुपादानभूतां घटाकारां करोति, एवं जग-
त्कर्तापि वाच्यः । तथाच कुलालादिवदनीश्वर एवेत्यभिप्रायः । घटा-
दिदृष्टान्तेन खलु क्षित्यादेः सकर्तृकत्वं साध्यते । तथाच घटादिकर्तरि
कर्तृत्वौपयिकं यावद्दृष्टं क्षित्यादिकर्तर्यपि तावदवश्यं स्वीकर्तव्यम्,
दृष्टान्तस्य तुल्यत्वात् । तथाचोभयतःपाशा रज्जुः । तदङ्गीकारेऽस्म-
दादितुल्यत्वादनीश्वरत्वं तदनङ्गीकारे च कर्तृत्वानुपपत्त्याऽसिद्धिरेवे-
त्येवंरूपः कुतर्क इत्यर्थः । सिद्धान्तं वदन्कुतर्कं विशिनष्टि-अनवसर
दुःस्थः । नास्त्यवसरोऽवकाशोऽस्येत्यनवसरः, अतएव दुःस्थो दुष्ट-
त्वेन स्थितः । विचित्रनानाशक्तिमायावशेन सर्वनिर्मातरि सर्वतर्का-
गोचरे त्वयि नास्ति कुतर्कावसर इत्यर्थः । तथाचोक्तम्- 'अचिन्त्याः
खलु ये भावा न तांस्तर्केण योजयेत्' इति । नच घटादिकर्तरि याव-
दृष्टं तावत्क्षित्यादिकर्तर्यपि साधनीयम्, व्याप्तिं विना सामानाधि-
करण्यमात्रस्यासाधकत्वात् । अन्यथा महानसे धूमवह्न्योर्व्याप्तिग्रह-
णसमये एव व्यञ्जनादिमत्त्वमपि दृष्टमिति पर्वतादावपि तदनुमानं
स्यात् । तस्मात्साधर्म्यसमा जातिरेषा । स्वव्याघातकत्वादनुत्तरम् ।
पराक्रान्तं चात्र सूरिभिरित्युपरम्यते । हरिपक्षेऽप्येवम् ॥ ५ ॥</p>
<pb n="16" />
<p>एवं प्रतिकूलतर्कं परिहृत्यानुकूलतर्कमुद्भावयन्स्तौति—</p>
<lg>
  <l>अजन्मानो लोकाः किमवयववन्तोऽपि जगता-</l>
  <l>मधिष्ठातारं किं भवविधिरनादृत्य भवति ।</l>
  <l>अनीशो वा कुर्याद्भुवनजनने कः परिकरो</l>
  <l>यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६॥</l>
</lg>
<p>अजेति । हे अमरवर सर्वदेवश्रेष्ठ, अवयववन्तोऽपि सावयवा
अपि लोकाः क्षित्यादयः किमजन्मानो जन्महीनाः । किंशब्द आक्षेपे ।
तेन न जन्महीनाः किंतु जन्या एवेत्यर्थः । तेन सावयवत्वेन क्षित्यादेर्न
जन्यत्वहेतोरसिद्धत्वम् । 'यावद्विकारं तु विभागो लोकवत्' इति
न्यायात् स्वसमानसत्ताकभेद प्रतियोगित्वेनैव जन्यत्वनियमाच्च । तथा
जगतां क्षित्यादीनां भवविधिरुत्पत्तिक्रियाऽधिष्ठातारं कर्तारमनादृत्या-
नपेक्ष्य किं भवति । अपेक्ष्यैव भवतीत्यर्थः । तेन कार्यत्वसकर्तृकत्वयो-
रव्यभिचारान्नानैकान्तिकत्वं हेतोः । तथानीशो वा ईश्वरादन्यो वा
यदि कुर्यात्तर्हि भुवनजनने कः परिकरः का सामग्री । अनीश्वरस्य
स्वशरीररचनामप्यजानतो विचित्रचतुर्दशभुवनरचनाऽसंभवादीश्वर
एव रचनां करोतीत्यर्थः । परिकरमिति पाठे को वानीश्वरो भुवन-
जनने परिकरमारम्भं कुर्यात् । अपित्वीश्वर एव कुर्यादित्यर्थः । एते-
नार्थान्तरता परिहृता । एवमनुमानदोषानुद्धृत्य शङ्कितदोषान्तरं नि-
राकुर्वन्नुपसंहरति—यत इति । यत एवं सर्वप्रमाणसिद्धस्त्वं, अतस्ते
मन्दा मूढा नतु विद्वांसः इमे ये त्वां प्रति संशेरते संदेहवन्तः कि-
मुत विपर्ययवन्त इत्यर्थः। 'जन्माद्यस्य यतः' इति न्यायेन 'यतो वा
इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंवि-
शन्ति । तद्ब्रह्म' 'आनन्दो ब्रह्मेति व्यजानात्' इत्यादिश्रुतिरेव परमे-
श्वरे प्रमाणम् । अनुमानं त्वनुकूलतर्कमात्रं श्रुतेर्न स्वातन्त्र्येण प्रमा-
णमिति द्रष्टव्यम् । हरिपक्षेऽप्येवम् ॥ ६ ॥</p>
<pb n="17" />
<p>एवं तावत्प्रतिकूलतर्कं परिहृत्य भगवद्विमुखान्निरस्य सर्वेषां
शास्त्रप्रस्थानानां भगवत्येव तात्पर्यं साक्षात्परम्परया वेति वदन्स्तौति --</p>
<lg>
  <l>त्रयीसांख्यं योगः पशुपतिमतं वैष्णवमिति</l>
  <l>प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।</l>
  <l>रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां</l>
  <l>नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७ ॥</l>
</lg>
<p>त्रयीति । हे अमरवर, नाना संकीर्णाः पन्थानः नानापथाः ऋज-
वश्च कुटिलाश्च ऋजुकुटिलाः ऋजुकुटिलाश्च ते नानापथाश्चेति
ऋजुकुटिलनानापथास्ताञ्जुषन्ते भजन्तीति तथा तेषां नृणामधि-
कार्यनधिकारिसाधारणानां तत्तत्साधनानुष्ठानैः साक्षात्परम्परया वा
त्वमेवैको गम्यः प्राप्यः नत्वन्यः कश्चिदित्यर्थः । अत्र दृष्टान्तमाह-
पयसामर्णव इव । यथा ऋजुपथजुषा गङ्गानर्मदादीनां साक्षादेव स-
मुद्रः प्राप्यः, यथा वा कुटिलपथजुषां यमुनासरय्वादीनां गङ्गादिप्र-
वेशद्वारा परंपराया, एवं वेदान्तवाक्यश्रवणमननादिनिष्ठानां साक्षात्त्वं
प्राप्यः,अन्येषां त्वन्तःकरणशुद्धितारतम्येन परम्परया त्वमेव प्राप्यः ।
चेतनत्वेनैव मोक्षयोग्यत्वात्परमात्माभ्युपगमाच्चेत्यर्थः । ननु ऋजु-
मार्गे सति तं विहाय किमिति कुटिलमार्गं भजन्ते ऋजुमार्गस्यैव
शीघ्रफलदायित्वादित्यत आह । प्रभिन्ने प्रस्थाने इदं परं पथ्यं अदः
परं पथ्यमिति च रुचीनां वैचित्र्यात्तस्मिंस्तस्मिञ्शास्त्रप्रस्थाने इदमेव
श्रेष्ठमिदमेव मम हितमितीच्छाविशेषाणामनेकप्रकारत्वात् प्राग्भवी-
यतत्तत्कर्मवासनावशेव ऋजुत्वकुटिलत्वेनिश्चयासामर्थ्यात्कुटिलेऽपि
ऋजुभ्रान्त्या प्रवर्तन्त इत्यर्थः । प्रस्थानभेदमेव दर्शयति । त्रयी सांख्यं
योगः पशुपतिमतं वैष्णवमिति । सर्वशास्त्रोपलक्षणमेतत् । तथाहि
त्रयीशब्देन वेदत्रयवाचिना तदुपक्षिता अष्टादश विद्या अप्यत्र
विवक्षिताः । तत्र ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद इति वेदाश्च -</p>
<pb n="18" />
<p>त्वारः । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति वेदा-
ङ्गानि षट् । पुराणानि न्यायो मीमांसा धर्मशास्त्राणि चेति चत्वार्यु -
पाङ्गानि । अत्रोपपुराणानामपि पुराणेष्वन्तर्भावः । वैशेषिकशास्त्रस्य
न्याये, वेदान्तशास्त्रस्य मीमांसायां, महाभारतरामायणयोः सांख्य-
पातञ्जलपाशुपतवैष्णवादीनां च धर्मशास्त्रेष्विति मिलित्वा चतुदर्श
विद्याः। तथाचोक्तम् 'पुराणन्यायमीमांसाधर्मशास्त्राङ्ग मिश्रिताः । वेदाः
स्थानानि विद्यानां धर्मस्य च चतुर्दश' इति । एता एव चतुर्भिरुपवेदैः
सहिता अष्टादश विद्या भवन्ति । आयुर्वेदो धनुर्वेदो गान्धर्ववेदोऽर्थ-
शास्त्रं चेति चत्वार उपवेदाः । ता एता अष्टादश विद्यास्त्रयी सांख्यमि•
त्यनेनोपन्यस्ताः।अन्यथा न्यूनताप्रसङ्गात् । सर्वेषां चास्तिका नामेताव-
न्त्येव शास्त्रप्रस्थानानि । अन्येषामप्येकदेशिनामेष्वेवान्तर्भावात् । ननु
नास्तिकानामपि प्रस्थानान्तराणि सन्ति तेषामेतेष्वनन्तर्भावात्पृथग्ग-
णयितुमुचितानि । तथाहि शून्यवादेनैकं प्रस्थानं माध्यमिकानाम् । क्ष-
णिकविज्ञानमात्रवादेनापरं योगाचाराणाम् । ज्ञानाकारानुमेयक्षणिक-
बाह्यार्थवादेनापरं सौत्रान्तिकानाम् । प्रत्यक्षस्वलक्षणक्षणिकबाह्यार्थ-
वादेनापरं वैभाषिकानाम् । एवं सौगतानां प्रस्थानचतुष्टयम् । तथा दे-
हात्मवादेनैकं प्रस्थानं चार्वाकाणाम् । एवं देहातिरिक्तदेहपरिणामा
त्मवादेन द्वितीयं प्रस्थानं दिगम्बराणाम् । एवं मिलित्वा नास्तिकानां
षट् प्रस्थानानि तानि कस्मान्नोच्यन्ते । सत्यम् । वेदबाह्यत्वात्तु तेषां
म्लेच्छादिप्रस्थानवत्परम्परयापि पुरुषार्थानुपयोगित्वादुपेक्षणीयत्वमे-
व । इह च साक्षाद्वा परम्परया वा पुमर्थोपयोगिनां वेदोपकरणानामेव
प्रस्थानानां भेदो दर्शितोऽतो न न्यूनत्वशङ्कावकाशः ॥ अथ संक्षेपे-
णैषां प्रस्थानानां स्वरूपभेदहेतुः प्रयोजनभेद उच्यते बालानां व्यु-
त्पत्तये । तत्र धर्मब्रह्मप्रतिपादकमपौरुषेयं प्रमाणवाक्यं वेदः । स च
मन्त्रब्राह्मणात्मकः। तत्र मन्त्रा अनुष्ठानकारणभूतद्रव्यदेवताप्रकाशकाः।
तेऽपि त्रिविधाः ऋग्यजुःसामभेदात् । तत्र पादबद्धगायत्र्यादिच्छ-</p>
<pb n="19" />
<p>न्दोविशिष्टा ऋचः 'अग्निमीळे पुरोहितम्' इत्याद्याः । ता एव गीति-
विशिष्टाः सामानि। तदुभयविलक्षणानि यजूंषि । 'अग्नीदग्नीन्विहर'
इत्यादिसंबोधनरूपा निगदसंज्ञामन्त्रा अपि यजुरन्तर्भूता एव ।
तदेवं निरूपिता मन्त्राः ॥ ब्राह्मणमपि त्रिविधम् । विधिरूपम्,
अर्थवादरूपम्, तदुभयविलक्षणं च । तत्र शब्दभावना विधिरिति
भाट्टाः । नियोगो विधिरिति प्राभाकराः । इष्टसाधनता विधिरिति
तार्किकादयः । सर्वो विधिरपि चतुर्विधः । उत्पत्यधिकारविनियो-
गप्रयोगभेदात् । त[^१]त्र देवताकर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः
'आग्नेयोऽष्टाकपालो भवति' इत्यादिः । सेतिक[^२]र्तव्यताकस्य करणस्य
यागादेः फलसंवन्धबोधको विधिरधिकारविधिः 'दर्शपूर्णमासाभ्यां
स्वर्गकामो यजेत' इत्यादिः । अङ्गसंबन्धबोधको विधिर्विनियोग-
विधिः 'व्रीहिभिर्यजेत', 'समिधो यजति' इत्यादिः । साङ्गप्रधानक-
र्मप्रयोगैक्यबोधकः पूर्वविधित्रयमेलनरूपः प्रयोगविधिः । सच
श्रौत इत्येके । काल्प इत्यपरे ॥ कर्मस्वरूपं च द्विविधम् । गुणकर्म
अर्थकर्म च । तत्र ऋतुकारकाण्याश्रित्य विहितं गुणकर्म । तदपि
चतुर्विधम् । उत्पत्त्याप्तिविकृतिसंस्कृतिभेदात् । तत्र 'वसन्ते ब्राह्म-
णोऽग्नीनादधीत', 'यूपं तक्षति' इत्यादावाधानतक्षणादिना संस्का-
रविशेषविशिष्टाग्नियूपादेरुत्पत्तिः । 'स्वाध्यायोऽध्येतव्यः,' 'गां पयो
दोग्धि' इत्यादावध्ययनदोहनादिना विद्यमानस्यैव स्वाध्यायपयः-
प्रभृतेः प्राप्तिः । 'सोममभिषुणोति', 'व्रीहीनवहन्ति', 'आज्यं विला-
पयति' इत्यादावभिषवावघातविलापनैः सोमादीनां विकारः । 'व्रीही-
न्प्रोक्षति', 'पत्न्यवेक्षते' इत्यादौ प्रोक्षणावेक्षणादिभिर्व्रीह्यादिद्रव्याणां
संस्कारः। एतच्चतुष्टयं चाङ्गमेव । तथा क्रतुकारकाण्यनाश्रित्य विहि-
तमर्थकर्म । तच्च द्विविधम् अङ्गं प्रधानं च । अन्यार्थमङ्गम् । अनन्यार्थं
प्रधानम् । अङ्गमपि द्विविधं संनिपत्योपकारकमारादुपकारकं च । तत्र
[^१] 'तत्र कर्मस्वरूप' इति पाठः ।
[^२] 'इतिकर्तव्यताकरणस्य' इति पाठः ।</p>
<pb n="20" />
<p>प्रधानस्वरूपनिर्वाहकं प्रथमं यथाऽवहननप्रोक्षणादिफलोपकारि । द्वि-
तीयं यथा प्रयाजादि । एवं संपूर्णाङ्गसंयुक्तो विधिः प्रकृतिः । विकला-
ङ्गसंयुक्तो विधिर्विकृतिः। तदुभयविलक्षणो विधिर्दर्वीहोमः । एवमन्य-
दप्यूह्यम् । तदेवं निरूपितो विधिभागः । प्राशस्त्यनिन्दान्यतरलक्ष-
णया विधिशेषभूतं वाक्यमर्थवादः । सच त्रिविधः । गुणवादोऽनुवादो
भूतार्थवादश्चेति । तत्र प्रमाणान्तरविरुद्धार्थबोधको गुणवादः 'आ-
दित्यो यूपः' इत्यादिः । प्रमाणान्तरप्राप्तार्थबोधकोऽनुवादः 'अग्नि-
र्हिमस्य भेषजम्' इत्यादिः । प्रमाणान्तरविरोधतत्प्राप्तिरहितार्थबो-
धको भूतार्थवादः 'इन्द्रो वृत्राय वज्रमुदयच्छत्' इत्यादिः । तदु-
क्तम् – 'विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्त-
द्धानादर्थवादस्त्रिधा मतः' इति । तत्र त्रिविधानामप्यर्थवादानां
विधिस्तुतिपरत्वे समानेऽपि भूतार्थवादानां स्व[^१]तःप्रामाण्यम् । देव-
ताधिकरणन्यायात् । अबाधिताज्ञातार्थज्ञापकत्वं हि प्रामाण्यम् ।
तच्च बाधितविषयत्वाज्ज्ञापकत्वाच्च न गुणवादानुवादयोः । भूता-
र्थवादस्य तु स्वार्थे तात्पर्यरहितस्याप्यौत्सर्गिक प्रामाण्यं न विह-
न्यते । तदेवं निरूपितोऽर्थवादभागः । विध्यर्थवादोभयविलक्षणं
तु वेदान्तवाक्यम् । तच्चाज्ञातज्ञापकत्वेऽप्यनुष्ठानाप्रतिपादकत्वान्न
विधिः । स्वतः पुरुषार्थपरमानन्दज्ञानात्मकब्रह्मणि स्वार्थे उपक्रमोप-
संहारादिषड्विधतात्पर्यलिङ्गवत्तया स्वतःप्रमाणभूतं सर्वानपि विधी-
नन्तःकरणशुद्धिद्वारा स्वशेषतामापादयदन्यशेषत्वाभावाच्च नार्थ-
वादः। तस्मादुभयविलक्षणमेव वेदान्तवाक्यम् । तच्च क्वचिदज्ञातज्ञा-
पकत्वमात्रेण विधिरिति व्यपदिश्यते । विधिपदरहितमपि प्रमाण-
वाक्यत्वेन च क्वचिद्भूतार्थवाद. इति व्यवहियत इति न दोषः ।
तदेवं त्रिविधं निरूपितं ब्राह्मणम् ॥ एवं च कर्मकाण्डब्र-
ह्मकाण्डात्मको वेदो धर्मार्थकाममोक्षहेतुः । स च प्रयोगत्रयेण
[^१] 'स्वार्थेऽपि' इति पाठः ।</p>
<pb n="21" />
<p>यज्ञनिर्वाहार्थमृग्यजुःसामभेदेन भिन्नः । तत्र हौत्रप्रयोग ऋग्वेदेन,
आध्वर्यवप्रयोगो यजुर्वेदेन, औद्गात्रप्रयोगः सामवेदेन । ब्राह्मयाज-
मानप्रयोगौ त्वत्रैवान्तर्भूतौ अथर्ववेदस्तु यज्ञानुपयुक्तोऽपि शान्ति-
कपौष्टिकाभिचारिकादिकर्मप्रतिपादकत्वेनात्यन्तविलक्षण एव । एवंच
प्रवचनभेदात्प्रतिवेदं भिन्ना भूयसः शाखाः । एवंच कर्मकाण्डे व्या-
पारभेदेऽपि स[^१]र्वासां वेदशाखानामेकरूपकत्वमेव ब्रह्मकाण्डमिति
चतुर्णां वेदानां प्रयोजनभेदेन भेद उक्तः ॥ अथाङ्गानामुच्यते । तत्र
शिक्षाया उदात्तानुदात्तस्वरितह्रस्वदीर्घप्लुतादिविशिष्टस्वरव्यञ्जना-
त्मकवर्णोच्चारणविशेषज्ञानं प्रयोजनम् । तदभावे मन्त्राणामनर्थक-
फलत्वात् । तथा चोक्तम् – "मन्त्रो हीनः स्वरतो वर्णतो वा
मिथ्या प्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथे-
न्द्रशत्रुः स्वरतोऽपराधात्" इति । तत्र सर्ववेदसाधारणी शिक्षा 'अथ
शिक्षां प्रवक्ष्यामि' इत्यादिन[^२]वखण्डात्मिका पाणिनिना प्रकाशिता ।
प्रतिवेदशाखं च भिन्नरूपाः प्रातिशाख्यसंज्ञिता अन्यैरेव मुनिभिः
प्रदर्शिताः । एवं वैदिकपदसाधुत्वज्ञानेनोहादिकं व्याकरणस प्रयोज-
नम् । तच्च 'वृद्धिरादैच्' इत्याद्यध्यायाष्टकात्मकं महेश्वरप्रसादेन
भगवता पाणिनिनैव प्रकाशितम् । तत्र कात्यायनेन मुनिना पा-
णिनीयसूत्रेण वार्तिकं विरचितम् । तद्वद्वार्तिकोपरि च भगवता प
तञ्जलिना महाभाष्यमारचितम् । तदेतत्रिमुनिव्याकरणं वेदाङ्ग-
माहेश्वरमित्याख्यायते । कौमारादिव्याकरणानि तु न वेदाङ्गानि
किंतु लौकिकप्रयोगमात्रज्ञानार्थानीत्यव<error>गव्यम्</error> <fix>गन्तव्यम्</fix> । एवं शिक्षाव्या-
करणाभ्यां वर्णोच्चारणे पदसाधुत्वे च ज्ञाते वैदिकमन्त्रपदानामर्थ-
ज्ञानाकाङ्क्षायां तदर्थं भगवता यास्केन 'समाम्नायः समाम्नतः (स व्या-
ख्यातव्यः )' इत्यादि त्रयोदशाध्यायात्मकं निरुक्तमारचितम् । तत्र
च नामाख्यातनिपातोपसर्गभेदेन चतुर्विधं पदजातं निरूप्य वैदि-
[^१] 'सर्वात्मना' इति पाठः।
[^२] ’पञ्चखण्डात्मिका’ इति पाठः।</p>
<pb n="22" />
<p>कमन्त्रपदानामर्थः प्रदर्शितः । मन्त्राणां चानुष्ठेयार्थप्रकाशनद्वारेणैव
करणत्वात्, पदार्थज्ञानाधीनत्वाच्च वाक्यार्थज्ञानस्य मन्त्रस्थपदा-
र्थज्ञानाय निरुक्तमवश्यमपेक्षितम् । अन्यथानुष्ठानासंभवात् 'सृण्येव
जर्भरी तुर्फरीतून' इत्यादीनामतिदुरूहाणां प्रकारान्तरेणार्थज्ञानस्यासं-
भावनीयत्वाच्च । एवं निघण्ट्वादयोऽपि वैदिकद्रव्यदेवतात्मक पदार्थप -
र्यायशब्दात्मका निरुक्तान्तर्भूता एव । तत्रापि निघण्टुसंज्ञकः पञ्चा-
ध्यायात्मको ग्रन्थो भगवता यास्केनैव कृतः । अन्येप्यमरहेमचन्द्रा-
दिप्रणीताः कोषाः सर्वे निघण्टुरूपत्वेन निरुक्तान्तर्गता द्रष्टव्याः ।
एवमृङ्मन्त्राणां पादबद्धच्छन्दोविशेषविशिष्टत्वात्तदज्ञाने च निन्दा-
श्रवणाच्छन्दोविशेषनिमित्तानुष्ठानविशेषविधानाच्च छन्दोज्ञानाका-
ङ्क्षायां तत्प्रकाशनाय 'धीश्रीस्त्रीम्' इत्याद्यष्टाध्यायात्मिका छन्दोवि-
चितिर्भगवता पिङ्गलनागेन विरचिता । तत्र 'अथ लौकिकम्'
इत्यन्तेनाध्यायत्रयेण गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगतीति
सप्त छन्दांसि सर्वाणि सावान्तरभेदानि प्रसङ्गान्निरूपितानि । 'अथ
लौकिकम्' इत्यारभ्याध्यायपञ्चकेन पुराणेतिहासादावुपयोगीनि
लौकिकानि छन्दांसि प्रसङ्गान्निरूपितानि व्याकरणे लौकिकपद-
निरूपणवत् । एवं वैदिककर्माङ्गदर्शादिकालज्ञानाय ज्योतिषं भग-
वतालगधेन गर्गादिभिश्च प्रणीतं बहुविधमेव । एवं शाखान्तरीय-
गुणोपसंहारेण वैदिकानुष्ठानक्रमविशेषज्ञानाय कल्पसूत्राणि । तानि
च प्रयोगत्रयभेदास्त्रिविधानि । तत्र हौत्रप्रयोगप्रतिपादकान्याश्वला-
यनसांख्यायनादिप्रणीतानि । आध्वर्यवप्रयोगप्रतिपादकानि बौधाय-
नापस्तम्बकात्यायनादिप्रणीतानि । औद्गात्रप्रयोगप्रतिपादकानि तु
लाट्या[^१]यनत्रीयायणादिभिः प्रणीतानि । एवं निरूपितः षण्णामङ्गानां
प्रयोजनभेदः ॥ चतुर्णामुपाङ्गानामधुनोच्यते । तत्र सर्गप्रतिसर्गवंशम-
न्वन्तरवंशानुचरितप्रतिपादकानि भगवता बादरायणेन कृतानि पुरा-
[^१] 'लाह्यायनद्राह्मायणादिभिः' इति पाठः ।</p>
<pb n="23" />
<p>णानि तानि च ब्राह्मं पाद्मं वैष्णवं शैवं भागवतं नारदीयं मार्कण्डेयं आ-
ग्नेयं भविष्यं ब्रह्मवैवर्तं लैङ्गं वाराहं स्कान्दं वामनं कौर्मं मात्स्यं गारुडं
ब्रह्माण्डं चेत्यष्टादश । एवमुपपुराणान्यप्यनेकप्रकाराणि द्रष्टव्यानि ॥
न्याये आन्वीक्षिकी पञ्चाध्यायी गौतमेन प्रणीता । प्रमाणप्रमेयसं-
शयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वा-
भासच्छलजातिनिग्रहस्थानाख्यानां षोडशपदार्थानामुद्देशलक्षणप-
रीक्षाभिस्तत्त्वज्ञानं तस्याः प्रयोजनम् । एवं दशाध्यायं वैशेषिकशास्त्रं
कणादेन प्रणीतम् । द्रव्यगुणकर्म सामान्य विशेषसमवायानां षण्णां
भावपदार्थानामभावसप्तमानां साधर्म्यवैधर्म्याभ्यां व्युत्पादनं तस्य
प्रयोजनम् । एतदपि न्यायपदेनोक्तम् ॥ एवं मीमांसापि द्विविधा ।
कर्ममीमांसा शारीरकमीमांसा च । तत्र द्वादशाध्यायी कर्ममीमांसा
'अथातो धर्मजिज्ञासा' इत्यादिः 'अन्वाहार्ये च दर्शनात्' इत्यन्ता
भगवता जैमिनिना प्रणीता । तत्र धर्मप्रमाणं १, धर्मभेदाभेदौ २,
शेषशेषिभावः ३, क्रत्वर्थपुरुषार्थभेदेन प्रयुक्तिविशेषः ४, श्रुत्यर्थ-
पाठादिक्रमभेदः ५, अधिकारविशेषः ६, सामान्यातिदेशः ७,
विशेषातिदेशः ८, ऊहः ९, बाधः १० तन्त्रं ११, प्रसङ्गश्च १२,
इति क्रमेण द्वादशानामध्यायानामर्थाः । तथा च संकर्षकाण्डम-
प्यध्यायचतुष्टयात्मकं जैमिनिना प्रणीतम् । तच्च देवताकाण्संज्ञया
प्रसिद्धमप्युपासनाख्यकर्मप्रतिपादनत्वात्कर्ममीमांसान्तर्गतमेव ॥ तथा
चतुरध्यायी शारीरकमीमांसा 'अथातो ब्रह्मजिज्ञासा' इत्यादिः
'अनावृत्तिः शब्दात्' इत्यन्ता जीवब्रह्मैकत्वसाक्षात्कारहेतुश्रवणा-
ख्यविचारप्रतिपादकान्न्यायानुपदर्शयन्ती भगवता बाद्रायणेन कृता ।
तत्र सर्वेषामपि वेदान्तवाक्यानां साक्षात्परम्परया वा प्रत्यग-
भिन्नाद्वितीये ब्रह्मणि तात्पर्यमिति समन्वयः प्रथमाध्यायेन प्रदर्शितः ।
तत्र च प्रथमपादे स्पष्टब्रह्मलिङ्गयुक्तानि वाक्यानि विचारितानि ।
द्वितीयपादे त्वस्पष्टब्रह्मलिङ्गयुक्तान्युपास्यब्रह्मविषयाणि । तृतीयपादे-</p>
<pb n="24" />
<p>Sस्पष्ट ब्रह्मलिङ्गानि प्रायशो ज्ञेयब्रह्मविषयाणि । एवं पादत्रयेण वा-
क्यविचारः समापितः । चतुर्थपादे तु प्रधानविषयत्वेन संदिह्यमा-
नान्यव्यक्ताजादिपदानि चिन्तितानि ॥ एवं वेदान्तानामद्वये ब्रह्मणि
सिद्धे समन्वये तत्र संभावितस्मृतितर्कादिविरोधमाशङ्क्य तत्परिहारः
क्रियत इत्यविरोधो द्वितीयाध्यायेन दर्शितः । तत्राद्यपादे सांख्ययो•
गकाणादादिस्मृतिभिः सांख्यादिप्रयुक्तैस्तर्कैश्च विरोधो वेदान्तसम-
न्वयस्य परिहृतः । द्वितीये पादे सांख्यादिमतानां दुष्टत्वं प्रतिपा-
दितं, स्वपक्षस्थापनपरपक्षनिराकरणरूपपक्षद्वयात्मकत्वाद्विचारस्य ।
तृतीये पादे महाभूतसृष्ट्यादिश्रुतीनां परस्परविरोधः पूर्वभागेन
परिहृतः । उत्तरभागेन तु जीवविषयाणाम् । चतुर्थपादे इन्द्रियादि-
विषयश्रुतीनां विरोधपरिहारः ॥ तृतीयाध्याये साधननिरूपणम् ।
तत्र प्रथमपादे जीवस्य परलोकगमननिरूपणेन वैराग्यं निरूपि-
तम् । द्वितीयपादे पूर्वभागेन त्वंपदार्थः शोधितः । उत्तरभागेन
च तत्पदार्थः । तृतीयपादे निर्गुणे ब्रह्मणि नानाशाखापठितः पुनरु
क्तपदोपसंहारः कृतः। प्रसङ्गाच्च सगुणविद्यासु शाखान्तरीयगुणोपसं-
हारानुपसंहारौ निरूपितौ । चतुर्थपादे निर्गुणब्रह्मविद्याया बहिरङ्ग-
साधनान्याश्रमधर्मयज्ञदानादीनि, अन्तरङ्गसाधनानि शमदमनि-
दिध्यासनादीनि च निरूपितानि ॥ चतुर्थेऽध्याये सगुणनिर्गुण-
विद्ययोः फलविशेषनिर्णयः कृतः । तत्र प्रथमपादे श्रवणाद्यावृत्त्या
निर्गुणं ब्रह्म, उपासनावृत्त्या सगुणं वा ब्रह्म साक्षात्कृत्य जीवतः
पापपुण्यालेपलक्षणा जीवन्मुक्तिरभिहिता । द्वितीयपादे म्रियमाण-
सोत्क्रान्तिप्रकारश्चिन्तितः । तृतीयपादे सगुणब्रह्मविदो मृतस्यो-
तरमार्गोऽभिहितः । चतुर्थपादे पूर्वभागेन निर्गुणब्रह्मविदो विदे-
हकैवल्यप्राप्तिरुक्ता । उत्तरभागेन सगुणब्रह्मविदो ब्रह्मलोके स्थिति-
रुक्तेति । इदमेव सर्वशास्त्राणां मूर्धन्यं, शास्त्रान्तरं सर्वमस्यैव शेष-
भूतमितीदमेव मुमुक्षुभिरादरणीयं श्रीशंकरभगवत्पादोदितप्रकारे-</p>
<pb n="25" />
<p>णेति रहस्यम् ॥ एवं धर्मशास्त्राणि मनुयाज्ञवल्क्यविष्णुयमाङ्गि-
रोवसिष्ठदक्षसंवर्तशातांतपपराशरगौतमशङ्खलिखितहारीतापस्तम्बोश-
नोव्यासकात्यायनबृहस्पतिदेवलनारदपैठीनसिप्रभृतिभिः कृतानि व-
र्णाश्रमधर्मविशेषाणां विभागेन प्रतिपादकानि । एवं व्यासकृतं
महाभारतं, वाल्मीकिकृतं रामायणं च धर्मशास्त्र एवान्तभूतं स्पष्ट-
मितिहासत्वेन प्रसिद्धम् । सांख्यादीनां धर्मशास्त्रान्तर्भावेऽपीह
स्वशब्देनैव निर्देशात्पृथगेव संगतिर्वाच्या । अथ वेदचतुष्टयस्य
क्रमेण चत्वार उपवेदाः । तत्रायुर्वेदस्याष्टौ स्थानानि भवन्ति सूत्रं
शारीरमैन्द्रियं चिकित्सा निदानं विमानं कल्पः सिद्धिश्चेति । ब्रह्मप्र-
जापत्यश्विधन्वन्तरीन्द्रभरद्वाजात्रेयाग्निवेश्यादिभिरुपदिष्टश्चरकेण सं-
क्षिप्तः । तत्रैव सुश्रुतेन पञ्चस्थानात्मकं प्रस्थानान्तरं कृतम् । एवं वा-
ग्भटादिभिरपि बहुधेति न शास्त्रभेदः ॥ कामशास्त्रमप्यायुर्वेदान्तर्ग-
तमेव । सुश्रुतेन वाजीकरणाख्यकामशास्त्राभिधानात् । तत्र वात्स्या-
यनेन पञ्चाध्यायात्मकं कामशास्त्रं प्रणीतम् । तस्य च विषयवैराग्य-
मेव प्रयोजनं, शास्त्रोद्दीपितमार्गेणापि विषयभोगे दुःखमात्रपर्यवसा-
नात् । चिकित्साशास्त्रस्य च रोगतत्साधनरोगनिवृत्तितत्साधनज्ञानं
प्रयोजनम् ॥ एवं धनुर्वेदः पादचतुष्टयात्मको विश्वामित्रप्रणीतः ।
तत्र प्रथमो दीक्षापादः । द्वितीयः संग्रहपादः । तृतीयः सिद्धि-
पादः । चतुर्थः प्रयोगपादः । तत्र प्रथमपादे धनुर्लक्षणमधिकारि-
निरूपणं च कृतम् । तत्र धनुःशब्दश्चापे रूढोऽपि चतुर्विधायुध-
वाची वर्तते । तच्च चतुर्विधं मुक्तं अमुक्तं मुक्तामुक्तं यन्त्रमुक्तं च ।
तत्र मुक्तं चक्रादि, अमुक्तं खड्गादि, मुक्तामुक्तं शल्यावान्तरभेदादि ।
यन्त्रमुक्तं शरादि । तत्र मुक्तमस्त्रमित्युच्यते । अमुक्तं शस्त्रमित्युच्यते ।
तदपि ब्राह्मवैष्णवपाशुपतप्राजापत्याग्नेयादिभेदादनेकविधम् । एवं
साधिदैवतेषु समन्त्रकेषु चतुर्विधायुधेषु येषामधिकारः क्षत्रियकुमारा-
णां तदनुयायिनां च ते सर्वे चतुर्विधाः पदातिरथगजतुरगारूढाः</p>
<pb n="26" />
<p>दीक्षाभिषेकशकुनमङ्गलकरणादिकं च सर्वमपि प्रथमपादे निरूपि-
तम् । सर्वेषां शस्त्रविशेषाणामाचार्यस्य च लक्षणपूर्वकं संग्रहणप्र
कारो दर्शितः द्वितीये पादे । गुरुसंप्रदायसिद्धानां शस्त्रविशेषाणां
पुनःपुनरभ्यासो मन्त्रदेवतासिद्धिकरणमपि निरूपितं तृतीयपादे ।
एवं देवतार्चनाभ्यासादिभिः सिद्धानामस्त्रविशेषाणां प्रयोगश्चतुर्थ -
पादे निरूपितः । क्षत्रियाणां स्वधर्माचरणं युद्धं दुष्टदस्युचौरादिभ्यः
प्रजापालनं च धनुर्वेदस्य प्रयोजनम् । एवं च ब्रह्मप्राजापत्यादिक-
मेण विश्वामित्रप्रणीतं धनुर्वेदशास्त्रम् ॥ एवं गान्धर्ववेदशास्त्रं भर-
तेन प्रणीतम् । तत्र नृत्यगीतवाद्यभेदेन वहुविधोऽर्थः प्रपञ्चितः॥ दे
वताराधन निर्विकल्पकसमाध्यादिसिद्धिश्च गान्धर्ववेदस्य प्रयोजनम् ।
एवमर्थशास्त्रं च बहुविधं नीतिशास्त्रमश्वशास्त्रं गजशास्त्रं शिल्पशास्त्रं
सूपकारशास्त्रं चतुःषष्टिकलाशास्त्रं चेति । ( ताश्चतुःषष्टिकलाः शैवा-
गमोक्ताः- गीतम् १, वाद्यम् २, नृत्यम् ३, नाट्यम् ४, आलेख्यम्
५, विशेषकच्छेद्यम् ६, तण्डुलकुसुमबलिविकाराः ७, पुष्पास्तर-
णम् ८, दशनवसनाङ्गरागा: ९, मणिभूमिकाकर्म १०, शयनर-
चनम् ११, उदकवाद्यम् १२, उदक (घातः ) वादः १३, अद्भुत-
दर्शनवेदिता १४, मालाग्रथनकल्पः १५, शेखरापीडयोजनम् १६,
नेपथ्ययोगः १७, कर्णपत्रभङ्गाः १८, गन्धयुक्तिः १९, भूषणयो-
जनम् २०, इन्द्रजालम् २१, कौचुमारयोगाः २२, हस्तलाघवम्
२३, चित्रशाकापूपभक्तविकारक्रिया: २४, पानकरसरागासवयोज-
नम् २५, सूचीवापकर्म २६, सूत्रक्रीडा २७, वीणाडमरुकवाद्या-
नि २८, प्रहेलिकाप्रतिमालाः २९, दुर्वञ्चकयोगाः ३०, पुस्तकवाच-
नम् ३१, नाटिकाख्यायिकादर्शनम् ३२, काव्यसमस्यापूरणम् ३३,
पट्टिकावेत्रबाणविकल्पाः ३४, तर्कुकर्माणि ३५, तक्षणम् ३६,
वास्तुविद्या ३७, रूप्यरत्नपरीक्षा ३८, धातुवादः ३९, मणिराग-
ज्ञानम् ४०, आकरज्ञानम् ४१, बृक्षायुर्वेदयोगाः ४२, मेषकुक्क्रु-</p>
<pb n="27" />
<p>टलावकयुद्धविधिः ४३, शुकसारिकाप्रलापनम् ४४, उत्सादनम्
४५, केशमार्जनकौशलम् ४६, अक्षरमुष्टिकाकथनम् ४७, म्ले-
छितकविकल्पाः ४८, देशभाषाज्ञानम् ४९, पुष्पशकटिकानिमित्त-
ज्ञानम् ५०, यन्त्रमातृका ५१, धरणमातृका ५२, असंवाच्यसं-
पाट्यम् मानसीका व्यक्रियाविकल्पाः ५३, छलितकयोगाः ५४,
अभिधानकोशछन्दोज्ञानम् ५५, क्रियाविकल्पाः ५६, ललितवि-
कल्पाः ५७, वस्त्रगोपनानि ५८, द्यूतविशेषः ५९, आकर्षक्रीडा
६०, बालक्रीडनकानि ६१, वैनायकीविद्याज्ञानम् ६२, वैजयिक-
विद्याज्ञानम् ६३, वैतालिकीविद्याज्ञानम् ६४, इति चतुःपष्टिकलाः)
नानामुनिभिः प्रणीतं । तस च सर्वस्य लौकिकालौकिकतत्तत्प्रयोज-
नभेदो द्रष्टव्यः । एवमष्टादश विद्यास्त्रयीशब्देनोक्ताः ॥ तथा सांख्यशा-
स्त्रं कपिलेन भगवता प्रणीतम् । तत्र त्रिविधदुःखात्यन्तनिवृत्तिरत्य-
न्तपुरुषार्थ इत्यादिषडध्यायाः । तत्र प्रथमेऽध्याये विषया निरूपिताः,
द्वितीयेऽध्याये प्रधानकार्याणि, तृतीयेऽध्याये विषयवैराग्यम्, चतु-
र्थेऽध्याये विरक्तानां पिङ्गलाकुर[^१]रादीनामाख्यायिकाः, पञ्चमेऽध्याये
परपक्षनिर्जयः, षष्ठे सर्वार्थसंक्षेप: । प्रकृतिपुरुषविवेकज्ञानं सांख्य-
शास्त्रस्य प्रयोजनम् ॥ तथा योगशास्त्रं भगवता पतञ्जलिना प्रणीतम्
'अथ योगानुशासनम्' इत्यादिपादचतुष्टयात्मकम् । तत्र प्रथमे पादे
चित्तवृत्तिनिरोधात्मकं समाधिवैराग्यरूपं च तत्साधनं निरूपि-
तम् । द्वितीये पादे विक्षिप्तचित्तस्यापि समाधिसिद्ध्यर्थं यमनिय-
मासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि निरूपि-
तानि । तृतीयपादे योगविभूतयः । चतुर्थपादे कैवल्यमिति । तस्य
च विजातीय प्रत्यय निरोधद्वारेण निदिध्यासनसिद्धिः प्रयोजनम् ॥
तथा पशुपतिमतं पाशुपतं शास्त्रं भगवता पशुपतिना पशुपाशविमो-
क्षणाय 'अथातः पाशुपतयोगविधिं व्याख्यास्यामः' इत्यादिपञ्चाध्यायं
[^१.] ’कुमारादीनां’ इति पाठ: ।</p>
<pb n="28" />
<p>विरचितम् । तत्राध्यायपञ्चकेनापि कार्यरूपो जीवः पशुः, कारणं
पशुपतिरीश्वरः, योगः पशुपतौ चित्तसमाधानं, विधिर्भस्मना <flag>त्रिष</flag>व-
णस्नानादिर्निरूपितः । दुःखान्तसंज्ञको मोक्षश्चास्य प्रयोजनम् । एते
एव कार्यकारणयोगविधिदुःखान्ता इत्याख्यायन्ते ॥ एवं शैवं मन्त्र-
शास्त्रमपि पाशुपतशास्त्रान्तर्गतमेव द्रष्टव्यम् ॥ एवं च वैष्णवनारदा-
दिभिः कृतं पञ्चरात्रम् । तत्र वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाश्चत्वारः
पदार्था निरूपिताः । भगवान्वासुदेवः परमेश्वरः सर्वकारणं त -
स्मादुत्पद्यते संकर्षणाख्यो जीवस्तस्मान्मनः प्रद्युम्नस्तस्मादनिरुद्धो-
ऽहंकारः । सर्वे चैते भगवतो वासुदेवस्यैवांशभूतास्तदभिन्ना एवेति
तस्य वासुदेवस्य मनोवाक्कायवृत्तिभिराराधनं कृत्वा कृतकृत्यो भव-
तीत्यादि च निरूपितम् । एवं वैष्णवमन्त्रशास्त्रं परिमितमपि पञ्च-
रात्रमध्येऽन्तर्भूतम् । वामागमादिशास्त्रं तु वेदबाह्यमेव ॥ तदेवं दर्शि-
तः प्रस्थानभेद । सर्वेषां संक्षेपेण त्रिविध एव प्रस्थानभेदः । तत्रार-
म्भवाद एकः, परिणामवादो द्वितीयः, विवर्तवादस्तृतीयः । पार्थि-
वाप्यतैजसवायवीयाश्चतुर्विधाः परमाणवो द्व्यणुकादिक्रमेण ब्रह्मा-
ण्डपर्यन्तं जगदारभन्ते । असदेव कार्यकारणव्यापारादुत्पद्यत इति
प्रथमः तार्किकाणां मीमांसकानां च । सत्वरजस्तमोगुणात्मकप्रधा-
नमेव महदहंकारादिक्रमेण जगदाकारेण परिणमते, पूर्वमपि सू-
क्ष्मरूपेण सदेव कार्यं कारणव्यापारेणाभिव्यज्यत इति द्वितीयः पक्षः
सांख्ययोगपाशुपतानां, ब्रह्मणः परिणामो जगदिति वैष्णवानामपि ।
स्वप्रकाशपरमानन्दाद्वितीयं ब्रह्म स्वमायावशान्मिथ्यैव जगदाकारेण
कल्प्यत इति तृतीयः पक्षो ब्रह्मवादिनाम् । सर्वेषां च प्रस्थानकर्तॄणां
मुनीनां विवर्तवादपर्यवसानेनाद्वितीये परमेश्वरे एव वेदान्तप्रति-
पाद्ये तात्पर्यम् । नहि ते मुनयो भ्रान्ताः सर्वज्ञत्वात्तेषां, किंतु ब-
हिर्विषयप्रवणानामापाततः परमपुरुषार्थे प्रवशो न भवतीति ना-
स्तिक्यनिवारणाय तैः प्रकारभेदाः प्रदर्शिताः । तत्र तेषां तात्पर्य-</p>
<pb n="29" />
<p>मबुद्ध्वा वेदविरुद्धेऽप्यर्थे तेषां तात्पर्यमुत्प्रेक्षमाणास्तत्तन्मतमेवोपादे-
यत्वेन गृह्णन्तो जना ऋजुकुटिलनानापथजुषो भवन्तीति न सर्वेषा-
मृजुमार्गे एव प्रवेशो, नच विप[^१]र्ययेऽपि परमेश्वराप्राप्तिरन्तःकर-
णशुद्धिवशेन पश्चादृजुमार्गाश्रयणादेवेत्यर्थः । हरिपक्षेऽप्येवम् ॥ ७॥
एवं सर्वशङ्कोद्धारेण हरिहरस्वरूपं निरूप्य तदेवार्वाचीनपदस्थं
स्तौति ---
महोक्ष: खट्वाङ्गं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ८
महोक्ष इति । हे वरद, तव परिपूर्णपरमेश्वरस्याप्येतत्तन्त्रोप-
कारणं तन्त्रस्य कुटुम्बधारणस्योपकरणं साधनम् । तदेवाह । म-
होक्षः महानुक्षा वृद्धवृषभः, खट्वाङ्गं खट्वाया अवयवः शस्त्रविशेषः
कापालिकानां प्रसिद्धः, परशुः टङ्कः कुठारो वा, अजिनं चर्म, भस्म
विभूतिः, फणिनः सर्पाः, कपालं मनुष्यशिरोस्थि चेति सप्तकम् ।
नन्वेवं दरिद्रस्तुष्टोऽपि किं दास्यतीत्यत आह – सुरा इत्यादि ।
सुरास्तु भवत्सेवया भवद्भ्रूप्रणिहितां भवतो भ्रूविक्षेपमात्रेण सम-
र्पितां तां तामसाधारणीमृद्धिं संपत्तिं दधति धारयन्ति । त्वमति-
दरिद्रस्त्वद्भक्तास्तु सर्वेऽसुरास्त्वत्प्रसादात्समृद्धा इति व्यतिरेकं तु-
शब्द आह । यो ह्यन्यान्धनवतः करोति स तदपेक्षयाधिकधनवान्भ-
वतीति प्रसिद्धं लोके । ननु तर्हीदृशोऽपि स्वयं कथं महोक्षादिमा-
त्रपरिवार इत्यत आह – नहीत्यादि । हि यस्मात्स्व आत्मनि स्व-
रूपे चिदानन्दघने आरमत्याक्रीडत इति तथा तं न भ्रमयति न
मोहयति । विषयमृगतृष्णा विषया इन्द्रियार्थाः शब्दस्पर्शरूपरस-
[^१.] 'न वा पर्यवसानेऽपि’ इति पाठः।</p>
<pb n="30" />
<p>गन्धास्त एव मृगतृष्णा जलबुद्ध्या गृह्यमाणा मरीचिका । यथा मृग-
तृष्णा रविरश्मिरूपा जलविरुद्धस्वभावापि भ्रान्त्या जलमयीवाभा-
सते तथा विषया अपि दुःखरूपा भ्रान्त्या सुखरूपा आभासन्त
इति रूपकार्थः । यत्र जीवोऽपि स्वात्मारामतां प्राप्तो न विषया-
सक्तो भवति, तत्र किमु वक्तव्यं नित्यमुक्तः परमेश्वरो विषयैर्ना-
भिभूयत इत्यभिप्रायः । तेन वृषभारूढा खट्वाङ्गपरशुफणिकपाला-
लंकृतचतुर्भुजा चर्मवसना भस्माङ्गरागा विविधभूषणा माहेश्वरी
मूर्तिर्गुरूपदेशेन ज्ञाता स्तुत्यादिभिराराध्येत्यर्थः । वस्तुतस्तु
पुरुषप्रधानमहदहंकारतन्मात्रेन्द्रिय भूतानि महोक्षादिरूपेण गुप्तानि
भगवन्तं महेश्वरमुपासत इत्यागमप्रसिद्धम् । तस्य जगत्कुटुम्बस्य
तत्त्वान्येवोपकरणमिति निष्कर्षः । हरिपक्षे तु । महोक्षः अक्षश्चक्रं
'अक्षो रथावयवके च बिभीतके स्यादक्षाणि पण्डितजना विदुरिन्द्रि-
याणि' इति धरणिः। महस्तेजोरूपं, भस्मफणिनः भस्मवच्छुभ्रस्य
कोमलाङ्गस्य च फणिनः शेषस्याऽजिनं शरीरत्वक् खट्वा शय्या । तथा
कपालं कं शिरः पाल्यतेऽनेनेति कपालं शिरउपधानं तस्यैव भस्म-
फणिनोऽङ्गं किंचिदुच्छ्रितावयवविशेषः । अथवा केन जलेन पा-
ल्यत इति कपालं पद्मं शङ्खो वा तस्मिन्पक्षे भस्म फणिनोऽङ्गं अजिनं
च खट्वा, अङ्गं पर्यङ्कस्थानीयं अजिनं च तदुपरि आस्तृतवस्त्रस्था-
नीयमिति बोद्धव्यम् । तथा परशुरिति परशुरामावताराभिप्रायेण ।
ह वरद, एतावत्तव तन्त्रोपकरणमित्यादिपूर्ववत् । अथवा विषयमृ-
गतृष्णा अविद्यान्तःकरणोपरक्तं प्रतिविम्बकल्पं जीवं व्यामोहय
त्यपि रामं अनन्तसत्यज्ञानानन्दात्मकत्वेन योगि[^१]नां रतिविषयं त्वां
बिम्बकल्पं न मोहयति न स्वावरणांशेनाभिभवति । उपाधेः प्रति-
बिम्बपक्षपातित्वात् । कीदृशी सा । स्वात्मा स्वः सच्चिदानन्दात्म-
[^१] 'योगिनामविषयं' इति पाठः ।</p>
<pb n="31" />
<p>कस्त्वमेवात्मा स्वरूपं यस्याः सा, तथा त्वय्यध्यस्ता सा स्वसत्ता-
स्फूर्तिप्रदं त्वां कथं व्यामोहयेदित्यर्थः । अत्रापि चक्रादीनां भगव-
द्विभूतित्वं विष्णुपुराणादौ प्रसिद्धम् ॥ ८ ॥
एवं स्तुत्ययोर्हरिहरयोर्निर्गुणं सगुणं च स्वरूपं निरूपितं, संप्रति
स्तुतेः प्रकारं निरूपयन्स्तौति-</p>
<lg>
  <l>ध्रुवं कश्चित्सर्वं सकलमपरस्त्वध्रुवमिदं</l>
  <l>परो ध्रौव्याघ्रौव्ये जगति गदति व्यस्तविषये ।</l>
  <l>समस्तेऽप्येतस्मिन्पुरमथन तैर्विस्मित इव</l>
  <l>स्तुवञ्जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥९॥</l>
</lg>
<p>ध्रुवमिति । हे पुरमथन, तैः स्तुतिप्रकारैस्त्वां स्तुवन्न जिह्रेमि
नाहं लज्जे । विसित इव जातचमत्कार इव । यथा कश्चिदद्भुतं
दृष्ट्वा विस्मितस्तत्परवशत्वालोकोपहासमगणयित्वा विचेष्टते तथा-
हमपि स्तोतुमयं न जानातीति जनो मामुपहसिष्यतीति लज्जा-
मगणयन् त्वत्स्तुतौ प्रवृत्तोऽस्मीत्यर्थः । तैः कैः प्रकारैरित्याह – ध्रुव-
मित्यादि । कश्चित्कोऽपि सांख्यपातञ्जलमतानुसारी सर्वं समग्रं ज-
गद्ध्रुवं जन्मनिधनरहितं सदेव गदति । व्यक्तं वदतीत्यर्थः। नह्य-
सत उत्पत्तिः संभवति न वा सतो विनाश इत्याविर्भावतिरोभावमा-
त्रमुत्पत्तिविनाशशब्दाभ्यामभिलक्ष्यते । तेन परमेश्वरोऽपि तावन्मा-
त्रस्येष्टे न त्वसत उत्पत्तेः, सतो वा विनाशस्येत्यभिप्रायः । इति
सत्कार्यवाद एकः पक्षः । तथाऽपरोऽन्यः सुगतमतानुवर्ती सक-
लमिदमध्रुवं क्षणिकमिति गदति । नहि सतः स्थिरत्वं संभवति ।
अर्थक्रियाकारित्वमेव सत्त्वम् । तच्च सदर्थस्सेक्ष[^१]णयोगेन न विलम्बे-
नोत्पद्यते इति । एकस्मिन्क्षणे सर्वार्थक्रियासमाप्तेरुत्तरक्षणेऽसत्त्वमेव ।
[^१] 'सदर्थस्याक्षेपायोगेन' इति पाठः ।</p>
<pb n="32" />
<p>तथाच परमेश्वरस्यापि क्षणिकविज्ञानसंतानरूपत्वादसावसत उत्प
त्तेरीष्टे नतु सतः स्थिरत्वायेति द्वितीयः पक्षः सर्वक्षणिकतावा -
दलक्षणः ॥ तदुभयपक्षासहिष्णुश्च परस्तार्किकः समस्तेऽप्येतस्मि -
ञ्जगति ध्रौव्याघ्रौव्ये नित्यत्वानित्यत्वे व्यस्तविषये भिन्नधर्मवर्तिनी
गदति ( आकाशादिचतुष्कपृथिव्यादिचतुष्कपरमाणवश्च नित्याः )
आकाशकालदिगात्ममनःपृथिव्यादिपरमाणवश्च नित्याः इति वा ।
कार्यद्रव्याणि चानित्यानि । तथा चानित्यानामुत्पत्तिविनाशयोरीष्टे
परमेश्वरो नतु नित्यानामपीत्यर्थः । इत्येवं तृतीयः पक्षः । तथाच
त्रिष्वप्येतेषु द्वैताङ्गीकारादद्वितीयसन्मात्ररूपस्य परमेश्वरस्य स्प
र्शोऽपि नास्तीति सोपाधिकसंकुचितैश्वर्यरूपेण स्तुतिः सर्वथा ल-
ज्जाकरीत्यर्थः । तर्हि किमिति न लज्जस इत्यत आह । ननु अहो
खलु निश्चितं मुखरता वाचालता धृष्टा निर्लज्जा । तथाच मुखर-
तैव लज्जामपहरतीत्यर्थः । एवं सर्वप्रकारप्रवादकवादादीनामा-
भासत्वमुक्तम्, अद्वितीयवादस्यैव लज्जानास्पदत्वेन सत्यत्वमिति
द्रष्टव्यम् । एतच्च 'त्वमर्कस्त्वं सोमः' इत्यादौ स्पष्टीकरिष्यते ।
हरिपक्षेऽप्येवम् । तत्र पुरमथनशब्दः प्राग्व्याख्यातः ॥ ९ ॥
एवं लोकनवकेन स्तुतिसामग्रीं निरूप्य स्तुतौ प्रस्तुतायां
समस्तप्रभाववतामग्रेसरयोर्हरिविरंच्योरपि त्वत्प्रसादादेव त्वत्सा-
क्षात्कार इत्येवं निरतिशयं माहात्म्यं प्रकटयन्स्तौति -</p>
<lg>
  <l>तवैश्वर्यं यत्नाद्यदुपरि विरंचिर्हरिरधः</l>
  <l>परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः ।</l>
  <l>ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश य</l>
  <l>त्स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥१०॥</l>
</lg>
<p>तवेति । हे गिरिश, तवानुवृत्तिः सेवा किं न फलति । अपितु
सर्वमेव फलति । त्वत्साक्षात्कारपर्यन्तं फलं ददातीत्यर्थः । तत्रा-</p>
<pb n="33" />
<p>न्वयव्यतिरेकाभ्यां कारणतां द्रढयितुं भगवदनुवृत्तिव्यतिरेके फल-
व्यतिरेकमाह । यद्यस्मादनलस्कन्धवपुषस्तेजःपुञ्जमूर्तेस्तवैश्वर्यं स्थूलं
रूपं परिच्छेत्तुमियत्तयावधारयितुमुपर्यूर्ध्वं विरंचिर्ब्रह्मा अधोऽधस्ताद्ध-
रिर्विष्णुः यत्नात्सर्वप्रयत्नेन यावद्गन्तुं शक्तौ तावद्यातौ गतौ अनलं
नाऽलम् । न परिच्छेत्तुं समर्थावित्यर्थः । यत्र स्थूलरूपमप्यपरि-
च्छेद्यं तत्र दुरे सूक्ष्मरूपपरिच्छेदसंभावना । तेन त्वदनुवृत्तिं विना
हरिविरंच्योः प्रसिद्धमहाप्रभावयोरपि त्वं न विज्ञेयस्तत्र का वार्ता -
ऽन्येषामिति व्यतिरेकमुक्त्वाऽन्वयमाह । ततस्तस्मा (त्कारणा) -
त्स्वयत्नवैफल्यादनन्तरं ताभ्यां हरिविरंचिभ्याम् । 'श्लाघह्नुङ्स्था-
शपां ज्ञीप्स्यमानः' इति चतुर्थी । तयोर्ज्ञानायेत्यर्थः । कीदृशाभ्यां
भक्तिश्रद्धाभरगुरुगृणद्भ्याम् । भक्तिरत्र कायिकी सेवा, श्रद्धास्तिक्य-
बुद्धिः (मानसीसेवा), तयोर्भरोऽतिशयस्तेन गुरु श्रेष्ठं निरतिशयं
यथा तथा गृणद्भ्यां स्तुवद्भ्यां वाचिकीं सेवां कुर्वद्भ्याम् । यद्धि गु-
रुतरं भवति शिलोच्चयादि तत्पवनपर्जन्यादिभिर्न विक्रियामुपैति
अलघुद्रव्यत्वात्, तथा स्तुतिरप्यतिगौरववती शिलोच्चयादिस्था-
नीया पवनपर्जन्यस्थानीयैर्विघ्नैचालयितुं न शक्येति गुरुशब्देन
ध्वनितम् । एवंरूपेण तवैश्वर्यं स्तुवद्भ्यां ताभ्यां किमित्याह ।
स्वयं तस्थे स्वयमेव नतु तयोः प्रयत्नेन तस्थे स्वमात्मानं
प्रकाशयति स्म । अत्र तवैश्वर्यमिति कर्तृपदं द्रष्टव्यम् । 'प्रकाश-
नस्थेयाख्ययोश्च' इत्यात्मनेपदम् । यद्वा गृणद्भ्यामिति कर्तरि तृतीया ।
तस्थे स्थितं निवृत्तमिति भावप्रत्ययः । ततस्तयोर्निवृत्तावपि किं
तवानुवृत्तिर्न फलति । अपितु फलत्येवेत्यर्थः । तस्मादेव हरिविरं-
चिभ्यामपि त्वदनुवृत्त्यैव त्वं साक्षात्कृतः का वार्ताऽन्येषामित्य-
न्वय उक्तः । एवं त्वदनुवृत्तिरेव सर्वं फलतीत्यन्वयव्यतिरेकाभ्यां
दृढीकृतम् ॥ हरिपक्षे तु गिरौ गोवर्धनाख्ये शेते गोपी रमयन्निति
गिरिशः श्रीविष्णुः । अथवा गिरिं मन्दरं श्यति तनूकरोति क्षीरोदं</p>
<pb n="34" />
<p>मथ्नन्निति गिरिशः । योजनिका पूर्ववत् । हरिः सर्पः शेषः विरंचि
शेषाभ्यामपि त्वत्कृपयैव त्वं प्राप्त इति पूर्ववत्सर्वम् । अत्र 'अनिल'
इति क्वचित्पाठः स न सांप्रदायिकः । तथा चान्यत्रोक्तम् 'नोर्ध्वं
गम्यः सरसिजभुवो नाप्यधः शार्ङ्गपाणेरासीदन्तस्तव हुतवहस्क-
न्धमूर्त्या स्थितस्य' इति ॥ १० ॥
अथ बलिरावणयोरसुरयोरपि भगवदनुग्रहं दर्शयन्स्तौति -
अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद्बाहूनभृत रणकण्डूपरवशान् ।
शिरः पद्मश्रेणीरचितचरणाम्भोरुहवलेः
स्थिरायास्त्वद्भक्तेत्रिपुरहर विस्फूर्जितमिदम् ११
अयत्नादिति । हे त्रिपुरहर, स्थिराया निश्चलायास्त्वद्भक्तेस्तव
सेवायाः विस्फूर्जितमिदं प्रभावोऽयम् । किंविशिष्टायास्त्वद्भक्तेः ।
शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः । शिरांस्येव पद्मानि अर्थाद्रा-
वणस्य तेषां श्रेणी पङ्किस्तया रचितः कल्पितश्चरणाम्भोरुहयोः पाद-
पद्मयोर्बलिरुपहारो यस्यां सा तथा । रावणेन हि नवभिर्निजशिरोभिः
स्वहस्तकृत्तैः शंभोरुपहारः कृत इति पुराणप्रसिद्धम् । किं तद्वि-
स्फूर्जितमित्यत आह । यत् दशास्यो रावणो बाहून्विशतिभुजान् ।
कीदृशान् । रणाय युद्धाय कण्डूः खर्जूः । अतिस्पृहेति यावत् । तया
परवशांस्तदधीनानभृत धृतवान् । रणकण्डूर्हि रणेनैव निवर्तते ।
रणसंभवाच्च सर्वदा कण्डूरेव तद्भुजेष्विति भावः । तर्हि रणं
संपाद्य किमिति तत्कण्डूं न निवर्तयतीति चेन्न, प्रतिमल्लाभावा-
दित्याह । त्रिभुवनं त्रैलोक्यमवैरव्यतिकरं न विद्यते वैरस्य विरोधस्य
व्यतिकरः कारणं दर्पादि यत्र तत्तथा आपाद्य संपद्य । त्रैलोक्यव-
र्तिनो वीरानिन्द्रादीन्स्वदास्यं नीत्वेत्यर्थः। तदप्ययत्नादयत्नेनैव ।
स्वयमेव रावणपराक्रमं श्रुत्वा सर्वे वीरा दर्पादि त्यक्तवन्त इत्यर्थः ।
तथा चानायासेनैव निर्जितत्रिजगतो रावणस्य भुजानां कण्डूर्नैव</p>
<pb n="35" />
<p>शान्तेत्येष शौर्यातिशयो भगवद्भक्तेरेव प्रभाव इत्यर्थः । 'आसाद्य '
इति क्वचित्पाठः । तस्य प्राप्येत्यर्थः ॥ हरिपक्षे तु त्रीणि जाग्रत्स्व-
प्नसुषुप्त्याख्यानि पुराणि भक्तानां जीवानां स्वसाक्षात्कारेण हर-
तीति त्रिपुरहरो विष्णुः । हे त्रिपुरहर मोक्षदायक विष्णो, द-
शास्यो यत्तादृशान् बाहून्भुजानभृत तत्त्वद्भक्तेरेव पूर्व कृताया
इदानीं फलरूपेण परिणममानायाः, अतएव स्थिराया अनेककल्प-
व्यवधानेऽपि यावत्फलपर्यन्तं स्थायिन्यास्तव सेवाया विस्फूर्जितमिदं
नान्यस्य प्रभावोऽयमित्यर्थः । त्वदीयवैकुण्ठपुरद्वारपालस्य पार्षद-
प्रवरस्य ब्रह्मशापव्याजेन त्वदिच्छयैवासुरीं योनिमनुभवतोऽपि रा-
वणस्य त्वद्भक्तिप्रभावादेव निरतिशयं पौरुषमित्यर्थः । तथाच
बलैर्वैरोचनेः त्वद्भक्तेर्विस्फूर्जितमिदं यागशालायां त्वदागमनत्वत्पा-
णितोयदानत्वच्चरणाम्बुजस्पर्शनादि एतत्सर्वं सूचयन्संबोधयति ।
हे शिरःपद्मश्रेणीरचितचरणाम्भोरुह । अत्रापि बलेरिति संबध्यते ।
बलेः शिर एव पद्मश्रेणी पद्ममयी निःश्रेणिका पादविक्षेपभूमि-
स्तस्यां रचितमर्पितं चरणाम्भोरुहं येन स तथा । योगपद्मपीठे हि
भगवच्चरणारविन्दं तिष्ठतीति शास्त्रप्रसिद्धेः भगवच्चरणारविन्दा-
धारत्वे बलेः शिरोऽपि पद्मपीठत्वेन निरूपितम् । शिरःशब्दस्य
नित्यसापेक्षत्वाच्चात्र सापेक्षसमासो न दोषाय, देवदत्तस्य गुरु-
कुलमितिवत् । बलिना खलु भगवद्वामनावतारप्रार्थनया पदत्रय-
मिता भूमिर्देयेति प्रतिज्ञातं, तत्र पदद्वयेनैव सर्वस्मिञ्जगति भग-
वताक्रान्ते स्वसत्यपालनाय तृतीयपदस्थाने स्वशिर एव बलिना
दत्तं, तच्च भगवता स्वपादाम्बुजेनावष्टब्धमिति पुराणप्रसिद्धम् ।
नह्येतादृशः प्रसादो ब्रह्मादिभिरपि लब्धोऽस्ति । तस्माद्बलिकृताया-
स्त्वद्भक्तेरेव प्रभावोऽयमित्यर्थः ॥ ११ ॥
एवं बलिरावणयोर्भक्तिवशादनुग्रहं प्रदर्श्य तयोरेव दर्पवशा-
न्निग्रहं प्रदर्शयन्स्तौति-</p>
<pb n="36" />
<p>अमुष्य त्वत्सेवासमधिगतसारं भुजवनं
बलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।
अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद्ध्रुवमुपचितो मुह्यति खलः १२
अमुष्येति ॥ हे त्रिपुरहर, अमुष्य पूर्वश्लोकोक्तस्य राव-
णस्य प्रतिष्ठा स्थितिः त्वयि अलसचलिताङ्गुष्ठशिरसि सति
पातालेऽप्यलभ्या आसीत् । अलसं मन्दं यथा स्यात्तथा चलितं
कम्पितमङ्गुष्ठशिरोऽङ्गुष्ठाग्रं येन स तथा तस्मिन् । चलितमिति
ह्रस्वत्वं च कम्पतेश्चलतेर्मित्त्वानुशासनात् । तथाच तवाङ्गुष्ठ-
कम्पनमात्रेणैव तस्य वीराभिमानिनोऽधःप्रवेशोऽशक्यप्रतीकार
आसीदित्यर्थः । अमुष्य किं कुर्वतः । त्वदधिवसतावपि कैलासे
तव मन्दिरेऽपि स्फटिकगिरौ भुजवनं भुजवृन्दं विंशतिसंख्याकं
बलाद्विक्रमयतोऽतिशौर्येण व्यापारयतः । इममुत्पाट्य लङ्कायां
नेष्यामीत्यभिप्रायेण भुजचेष्टां कुर्वत इत्यर्थः । कीदृशं भुजवनम् ।
त्वत्सेवासमधिगतसारं तव सेवया समधिगतः प्राप्तः सारो बलं येन
तत्तथा । त्वत्प्रसादेनैव बलमासाद्य त्वद्गृहमुत्पाटयतीत्यहो कृतघ्न-
ता मौढ्यं चेत्यभिप्रायः । एवं हि पुराणप्रसिद्धम् 'भगवत्प्रसादादा-
सादितबलेन रावणेन स्वबलपरीक्षार्थं भगवन्निवासस्यापि कैलास-
स्योत्पाटनमारब्धम् । ततश्च पार्वत्या भीतया प्रार्थितो भगवान्कै-
लासस्याधोगमनार्थमङ्गुष्ठाग्रमात्रं शनैर्व्यापारयामास । तावन्मा-
त्रेणैव क्षीणबलो रावणः पातालं प्रविवेश । पुनश्च भगवता करु-
णया समुद्धृतः' इति । ननु भगवत्प्रसादाल्लब्धवरो रावणः कथं
भगवन्तं तदानीं विस्मृतवानित्यत आह । ध्रुवं निश्चितं उपचितः
समृद्धः सन् खलः कृतघ्नो मुह्यति कृतं विस्मरति । स्वोपचयहेतुमपि
न गणयतीत्यर्थः ॥ हरिपक्षे तु । कैलासे केलिः क्रीडा सैव प्रयो</p>
<pb n="37" />
<p>जनमस्येति कैलः कैलोऽसिः खड्गो यस्य सः कैलासिः । इच्छामात्रेण
निर्जितसर्वशत्रोरपि तव क्रीडार्थमेव नन्दुकधारणमित्यर्थः । अमु-
ष्य बलेः त्वदधिवसतौ त्वन्निवासे तव स्वत्वास्पदीभूतेऽपि त्रैलो-
क्ये बलान्मदीयमिदं त्रैलोक्यमिति स्वत्वाभिमानाद्भुजवनं हस्तो-
दकं विक्रमयतः मम स्वत्वत्यागपूर्वकमेतस्य प्रतिग्रहीतुः
स्वत्वमुत्पादयामीत्यभिप्रायेण भगवतः पाणावुदकं प्रयच्छतः ।
कीदृशं भुजवनम् । त्वत्सेवया समधिगतः सारः सौभाग्यविशेषो येन
तत्तथा । तव पाणिपद्मसंबन्धेनातितरां शोभमानमुदकमित्यर्थः ।
तथाच सर्वजगन्निवासस्य तब स्वत्वास्पदीभूतं यत्तत्स्वकीयमिति
मत्वा तुभ्यं ददतो बलेर्महानेवापराधः । त्वया तु परमकारुणिकेन
प्रतिज्ञातविक्रमत्रयमितभूमिदानेऽपि तस्यासामर्थ्यमासाद्य तस्य
म[^१]त्ततानिवृत्तये योग्य एव दण्डः कृत इत्याह । त्वयि अलसच-
लिताङ्गुष्ठशिरसि सति तस्य प्रतिष्ठा स्थितिः पातालेऽप्यलभ्यासीत्
का वार्ता स्वर्गमर्त्ययोः । अथवा पाताले विद्यमानस्यापि बलेरि-
न्द्रादिभिरप्यलभ्या प्रतिष्ठा कीर्तिरासीत् । तत्र सर्वदा भगवतः
संनिहितत्वादिति भावः । अलसं सलीलं चलितः कम्पितोऽङ्गु-
ष्ठः शिरसि अर्थाद्बलेर्येन तस्मिन् । तथा तृतीयविक्रमभूम्यर्थं बलिना
शिरसि प्रसारिते तत्र च त्वदीयपादाङ्गुष्ठसंबन्धमात्रेणैव तस्य
पातालप्रवेशो जात इत्यर्थः । ध्रुवमुपचित इत्यार्थान्तरन्यासः
पूर्ववत् । अथवा खलोऽयमसुरो बलिरुपचितः मुह्यति । अतो
मोहनिवृत्तयेऽपचितः कर्तव्य इति भगवतोऽभिप्रायवर्णनम् । 'यस्या-
हमनुगृह्णामि तस वित्तं हराम्यहम्' इति भगवद्वचनात् ॥ १२ ॥
पूर्वत्र भगवद्विषये समुन्नतयोर्बलिरावणयोरत्यन्तमवनतिर्द-
र्शिता । अधुना तत्रावनतयोरिन्द्रबाणयोरत्यन्तमुन्नतिं दर्शयन्ह -
रिहरौ स्तौति —
[^१] 'ममतानिवृत्तये' इति पाठः ।</p>
<pb n="38" />
<p>यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती-
मध्यश्चक्रे बाणः परिजनविधेयत्रिभुवनः ।
न तच्चित्रं तस्मिन्वरिवसितरि त्वच्चरणयो-
र्न कस्या उन्नत्यै भवति शिरसस्त्वय्यवनतिः १३
यदिति । सुत्राम्ण इन्द्रस्यर्द्धि संपत्तिं परमोच्चैः सतीमप्यध-
श्चक्रे न्यक्कृतवान् । बाणो बलिसुतः । कीदृशः । परिजनविधेयत्रिभुवनः
परिजनो दासस्तद्वद्विधेयं वश्यं त्रिभुवनं यस्य, परिजनानामिव
विधेयं वश्यं त्रिभुवनं यस्येति वा । स तथा उच्चैः सतीं यदधश्चक्रे
तदन्यत्र चित्रमपि तस्मिन्बाणे न चित्रं नाश्चर्यम् । कीदृशे । त्वच्च-
रणयोर्वरिवसितरि नमस्कर्तरि । इन्द्रसंपत्तेरप्यधःकरणं त्वन्नम-
स्कारस्य न पर्याप्तफलं किंत्वेकदेशमात्रमित्याह । न कस्या इति ।
त्वयि विषये शिरसो याऽवनतिर्नमस्क्रिया सा कस्यै उन्नत्यै न
भवति । अपि तु सर्वामेवोन्नतिं मोक्षपर्यन्तां जनयितुं समर्था भवत्येवे-
त्यर्थः । अवनतिरप्युन्नतिहेतुरित्यतिशयोक्तिसंकीर्णोऽयमर्थान्तर-
न्यासः । सर्वोत्कृष्टत्वमचिन्त्यमहिमत्वं च भगवतः सूचयतीति
भावः ॥ हरिपक्षे तु । हे परम वरद, सुत्राम्ण इन्द्रस्य बाणः शर
एकोऽपि ऋद्धिं संपत्तिमुच्चैरधोऽपि सतीं त्रिभुवनव्यापिनीं चक्रे
कृतवानितियत् तत्तस्मिन्सुत्राम्णि न चित्रमित्यादिपूर्ववत् । त्वत्प्र-
सादादेव सर्वानसुरानेकेनापि बाणेन जित्वा त्रिभुवनराज्यं प्रा-
प्तवानिन्द्र इत्यर्थः । अत्र बाण इति शस्त्रमात्रोपलक्षणम् । कीदृशो
बाणः । परिजनवद्विधेयमायत्तं त्रिभुवनं यस्मात्स तथा । शेषं
पूर्ववत् ॥ १३ ॥
अधुना कालकूटप्रलयजलयोः संहारं दर्शयन्शंकरनारायणौ
स्तौति -
अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा-
विधेयस्यासीद्यस्त्रिनयन विषं संहृतवतः ।</p>
<pb n="39" />
<p>स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥१४॥
अकाण्डेति । हे त्रिनयन, विषं समुद्रमथनोद्भुतं कालकू-
टाख्यं गरलं संहृतवतः पीतवतस्तव कण्ठे यः कल्माषः कालिमा-
सीत्स कालिमा तव कण्ठे श्रियं शोभां न कुरुते किम् । अपि तु
कुरुत एवेत्यर्थः । ननु भगवानतिशयितविशेषदर्शी महानर्थहेतुकं
विषं किमिति पीतवानित्यत आह । अकाण्ड इति । अकाण्डेऽस-
मये ब्रह्माण्डक्षयो महाप्रलयो विषोर्मिवेगात्संभावितस्तस्माच्चकिता
भीता देवाऽसुरा इन्द्रबलिप्रभृतयस्तेषु कृपा दया तया विधेयस्य
वश्यस्य । अन्यस्यैतत्पाने सामर्थ्यं नास्तीति विश्वत्राणाय विषं
स्वयमेव पीतवानित्यर्थः । ननु विषविकारात्कल्माषः कथं कण्ठे
शोभां तनोतीत्यत आह । अहो इत्यादि । अहो आश्चर्ये । भुव-
नभयभङ्गव्यसनिनः परमेश्वरस्य विकारोऽपि श्लाध्यः प्रशंसनीयः ।
भुवनस्य लोकस्य भयं त्रासस्तस्य भङ्गो निरन्वयनाशः स एव
व्यसनं सर्वमन्यद्विहाय क्रियमाणत्वाद्व्यसनं तदस्यास्तीति तथा
तस्य । तेन जगदुपकृतिकृतं दृषणमपि भूषणमेवेत्यर्थः ॥ हरि-
पक्षे तु । हे त्रिनयन त्रयाणां लोकानां नयनवत्सर्वावभासक,
'तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम्'
इति श्रुतेः । अकाण्डेऽकाले ब्रह्माण्डक्षयो महाप्रलयः । दैनं-
दिनप्रलयजलपूरवेगात्संभावितस्तस्माच्चकिता ये देवासुराः स्वायं -
भुवमनुप्रभृतयस्तद्विषयककृपावशीकृतस्य तव विषं जलं 'विषं क्ष्वेडं
विषं जलम्' इत्यादिकोशात् । तच्च प्रलयकालीनं यज्ञवाराहरूपे-
णावगाह्य पङ्कीकृत्य संहृतवतः शोषितवतः पङ्कव्यामिश्रणेन यः
कल्माषो मलिनिमासीत्स कल्माषः स्तोतृभिर्वर्ण्यमानः अर्थात्स्तो-
तॄणां कण्ठे श्रियं शोभां न कुरुते इति न । अपितु कुरुत एवेत्य-
र्थः। अर्थान्तरन्यासः पूर्ववत् ॥१४॥</p>
<pb n="40" />
<p>असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा न हि विशिषु पथ्यः परिभवः १५
असिद्धार्था इति । हे ईश, यस्य स्मरस्य विशिखा वाणाः
सदेवासुरनरे जगति देवासुरनरादिसहिते त्रैलोक्ये जयिन
उत्सृष्टाः क्वचिदप्यसिद्धार्था अकृतकार्या न निवर्तन्ते । अपि तु
सिद्धार्था एव नित्यं जयिन एव भवन्ति । जयिन इति स्मरस्य
वा विशेषणम् । नित्यं जयशीलस्येत्यर्थः । स एतादृशपौरुषवा-
नपि स्मरः यथान्ये देवा मम जय्यास्तथाऽयमपीतीतरदेवतुल्यं
त्वां पश्यन् स्मर्तव्यात्माभूत् स्मर्तव्यः स्मरणीय आत्मा शरीरं यस्य
स तथा । नष्ट इत्यर्थः । पश्यन्निति हेतौ शतृप्रत्ययः । लक्षण-
हेतौ च शतुः स्मरणात् । 'तद्वैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे'
इतिवत् । तेनेतरदेवसाधारणत्वेन त्वद्दर्शनमेवव्यवधानेन विनाश-
हेतुः का वार्ता परिभवादेरिति भावः । तत्र कैमुतिकन्यायमाह ।
नहीत्यादि । हि यस्माद्वशिषु जितेन्द्रियेष्वन्येष्वपि परिभवस्ति-
रत्कारः पथ्यो हितो न भवति । स्वनाशायैव संपद्यत इति
यावत् । किं पुनः परमवशिनां वरे परमेश्वरे त्वयीत्यर्थः ॥
हरिपक्षे तु । हे इतरसुर सर्वविलक्षण देव, पूर्व स्मर्त-
व्यात्मा स्मृतोऽपि स्मरः कामस्त्वां पश्यन्नभूज्जातः । त्वत्सका-
शाज्जात इत्यर्थः । पितैव खलु पुत्रं जातमात्रमवलोकयति, अतः
पुत्रोऽपि तमेवावलोकयतीति पश्यन्नभूदित्यनेन जन्यजनकभावो
लभ्यते । कथं जातः । साधारणं तव तुल्यरूपं यथा स्यात्तथा ।
'आत्मा वै पुत्रनामासि' इति श्रुतेः । तत्किं सर्वांशेन भगवत्तुल्यः,
तथा च 'न तस्य प्रतिमाऽस्ति यस नाम महद्यशः', न त -</p>
<pb n="41" />
<p>समश्चाभ्यधिकश्च विद्यते' इत्यादिश्रुतिविरोध इत्याशङ्क्य वैल-
क्षण्यमाह । नहीत्यादि । वशिषु जितेन्द्रियेषु हि यत्स्मात्स्मरो न
पथ्यो न हितः । तत्र हेतुः परिभवः परिभवत्यनर्थे योजयतीति
परिभवः कामः । स खलु सर्वेषां संसारबन्धहेतुः, परमेश्वरस्तु</p>
<lg>
  <l>सर्वेषां संसारबन्धस्यात्यन्तोच्छेदहेतुरिति महद्वैलक्षण्यमित्यर्थः ।</l>
  <l>असिद्धार्था इत्यादि पूर्ववत् ॥ १५ ॥</l>
</lg>
<p>अथ जगद्रक्षणार्थे नर्तनावतरणे दर्शयन्हरिहरौ स्तौति –</p>
<lg>
  <l>मही पादाघाताद्व्रजति सहसा संशयपदं</l>
  <l>पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।</l>
  <l>मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटा</l>
  <l>जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६॥</l>
</lg>
<p>महीति । हे ईश, जगद्रक्षायै त्वं नटसि नृत्यसि । संध्यायां
जगन्ति जिघांसन्तं वरलब्धतत्कालबलं महाराक्षसं निजताण्डवेन
मोहयसीत्यर्थः । त्वं तु जगतां रक्षायै नृ[^१]त्यसि, जगन्ति तु त्वत्ता-
ण्डवेन संशयितानि भवन्तीत्याह । महीत्यादि । तव चरणाघातेन
सहसा संशयपदं संकटं मही व्रजति । तथा विष्णोः पदमन्तरिक्षं
भ्राम्यद्भुजपरिधरुग्णग्रहगणं भुजा एव परिघाः अतिसुवृत्तपीवरदृढ-
दीर्घत्वात्तैर्भ्राम्यद्भिर्भुजरूपपरिघै रुग्णाः पीडिताः ग्रहगणा नक्षत्रस-
मूहा यत्र तत्तथा संशयपदं व्रजतीत्यर्थः । तथा द्यौः स्वर्लोकः अनि-
भृता असंवृता या जटास्ताभिस्ताडितं तटं प्रान्तदेशो यस्याः सा
तथा मुहुर्दौस्थ्यं दुःस्थत्वं याति । एवं च क्रमेण त्रयाणां लोका-
नामपि संशयो दर्शितः । नन्वसौ सर्वज्ञोऽप्यपायमपर्यालोचयन्नेव
किमित्येवंविधताण्डवे प्रवृत्त इत्यत आह । नन्विति । ननु
अहो विभुता परममहत्ता । प्रभुतेति यावत् । वामैव प्रतिकूलेव ।
[^१.] ’नटसि’ इति पाठः।</p>
<pb n="42" />
<p>अनुकूलमाचरत्यपि किंचित्प्रतिकूलमवश्यमाचरतीत्येवंशब्दार्थः ॥
दृश्यते हि स्वल्पकेऽपि राजनि स्वदेशरक्षणाय सेनया सह संच-
रति स्वदेशोपद्रवः, किमुत तादृशे महेश्वर इत्यर्थः । हरिपक्षे
तु । हे ईश, त्वं जगद्रक्षायै नटसि नटवदाचरसि । नटशब्दादा-
चारार्थे क्विपि प्रत्ययलोपे नटसीति रूपम् । मत्स्यादिभूमिकां भ -
जसीत्यर्थः । कस्यामवस्थायां जगद्रक्षणार्थमवतरणमित्युच्यते ।
महीपादित्यादि । महीं पातीति महीपो राजा तस्मादाघातात्सा मही
सह समकालमेव संशयपदं व्रजति । आ समन्ताद्धातो नाशोऽस्मा -
दित्याघातो हिंस्रः । तथा च यदैव हिंस्रस्य राज्यं तदैव संकटं
व्रजतीत्यर्थः । तथा च विष्णोः पदमधिष्ठानं यत्र भगवान्विष्णुः
स्वविभूतिभिः सह पूज्यते तद्विष्णोः पदं देवयजनाख्यं यज्ञशा-
लादि । तत्कीदृशम् । भ्राम्यद्भिर्भुजस्थपरिघैर्भुजरूपपरिधैर्वा रुग्णो
भग्नो ग्रहगणः सवित्रादिरूपः सोम[^१]पात्रसमूहो यत्र तत्तथा यागा-
दिशुभकर्माणि यदा ध्वस्यन्ते तदेत्यर्थः । तथा द्यौर्दौस्थ्यं याति ।
अनिभृतजटा: पाषण्डव्रतचिह्नभूतास्ताभिराताडितं अभावमिव ग-
मितं तटं तुङ्गं पदं सत्यलोकाख्यं यस्याः सा तथा । पाखण्डिभिर्हि
वैकुण्ठलोकोऽपि नाङ्गीक्रियते किं पुनरिन्द्रादिलोक इत्यर्थः । यदा
चैवं तदा त्वं नटवदाचरसीत्यर्थः । तथाच भगवद्वचनं गीतासु--
'यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य
तदात्मानं सृजाम्यहम् ॥' इति । श्रीभागवते च - 'यर्ह्यालयेष्वपि
सतां न कथा हरेः स्युः पाखण्डिनो द्विजजना वृषला नृदेवाः ।
स्वाहास्वधावषडिति स्म गिरो न यत्र शास्ता भविष्यति कलेर्भ-
गवान्युगान्ते ॥' इत्यादि । नन्विच्छामात्रेणैव जगन्ति रक्षितुं
क्षमोऽपि किं मत्स्यादिरूपैः क्लिश्यतीत्यत आह । नन्वित्यादि ।
ननु निश्चितं विभुता विभववत्ता । संपन्नतेति यावत् । वामैव
[^१] 'पात्रविशेषसमूहो' इति पाठः ।</p>
<pb n="43" />
<p>वक्रैव सत्यप्यृजौ प्रकारे वक्रेणैव प्रकारेण स्वसंपत्ति सफलयितुं
संपन्नः कार्यं करोतीत्यर्थः । तेनाष्टविधमैश्वर्यमौत्प[^१]त्तिकं दर्शयन्भक्ता-
नामभिध्यानाय तानि तानि श्रवणमनोहराणि चरितानि तेन तेना-
वतारेण धत्ते भगवानिति भावः ॥ १६ ॥
अथ गङ्गया उद्धरणधारणे दर्शयन्हरिहरौ स्तौति -</p>
<lg>
  <l>वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः</l>
  <l>प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ।</l>
  <l>'जगद्द्वीपाकारं जलधिवलयं तेन कृतमि-</l>
  <l>त्यनेनैवोन्ने॒यं धृतमहिम दिव्यं तव वपुः ॥ १७ ॥</l>
</lg>
<p>वियदिति । हे ईश, अनेनैव लिङ्गेन तव दिव्यं दिवि भवं
सर्वदेवनियन्तृ वपुः शरीरं धृतमहिम सर्वेभ्यो महत्तरं उन्नेयमूह-
नीयम् । तब वपुषः सर्वमहत्तरत्वमेतावतापि निश्चेतुं शक्यं
किमिति प्रमाणान्तरमत्रापेक्षितव्यमिति एवकारार्थः । इतिशब्दः
प्रकारार्थे । एवंप्रकारेण लिङ्गेनेत्यर्थः । तमेव प्रकारं दर्शयति ।
वियदित्यादि । वियदाकाशं व्याप्नोत्याच्छादयतीति तथा तारागणेन
नक्षत्रवृन्देन स्वान्तःपातिना गुणिता शुभ्रत्वादिगुणसजातीयत्वाद्व-
र्धिता फेनोद्गमरुचिर्यस्य स तथा एतादृशो वारां प्रवाहः स तव
शिरसि पृषतलघुदृष्टः पृषताद्विन्दोरपि लघुरल्पतरः पृषतलघुः
स इव दृष्ट आलोकितः । तेन तु वारां प्रवाहेण जलधि-
वलयं जगद्द्वीपाकारं कृतं जलधीनां वृन्दं जगद्भूलोको द्वीपाकारं
जम्बूद्वीपादिसप्तकरूपं यस्मिंस्तत्तथा विहितम् । 'अगस्त्येन हि
सप्तसु समुद्रेषु पीतेषु पुनर्भगीरथानीतगङ्गाप्रवाहेणैव तेषां पूरणं
जातम्' इति पुराणप्रसिद्धम् । तथाच यो जलराशिस्तव शिरसि
बिन्दोरप्यल्पो दृष्टः स एवात्र कियान्मन्दाकिनीनाम्ना वियद्व्या-
[^१.] 'श्वर्यमात्ययिकं' इति पाठः ।</p>
<pb n="44" />
<p>प्यास्ते, कियान्भागीरथीति गङ्गेति च प्रसिद्धो भूलोके सप्तसमु-
द्रानापूर्यास्ते, कियांस्तु भोगवतीति संज्ञया पातालमभिव्याप्यास्ते
इत्यनेन तव दिव्यवपुषो महत्त्वमनुमीयत इत्यर्थः ॥ हरिपक्षे तु ।
तारागणैर्गुणिताः फेना यस्याः सा तारागणगुणितफेना गङ्गा
तस्या उद्गमे उद्भवे रुचिः शोभा यस्य स तथा शिरसि सर्वलो-
कानां शिरःस्थानीये ब्रह्मलोके बलिछलनोत्क्षिप्तचरणाङ्गुष्ठनिर्भिन्न-
ब्रह्माण्डविवरादागतो गङ्गोत्पत्तिहेतुर्वियद्व्यापको यो वारां प्रवाहः
स ते त्वया पृषतलघुदृष्टः बिन्दोरपि लघुदृष्टः बिन्दोरपि लघु
यथा स्यात्तथोपलब्ध इत्यर्थः । अनेनैव लिङ्गेन च तव दिव्यं
वपुः बलिछलनार्थे दिव्याकाशे आविर्भावितं त्रैविक्रमं रूपं धृतम-
हिमोन्नेयम् । शेषं पूर्ववत् ॥ १७ ॥
अथ लङ्कात्रिपुरदाहौ दर्शयन्हरिहरौ स्तौति –
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति ।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि-
र्विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः १८
रथ इति । हे ईश ! त्रिपुरतृणं दिघक्षोस्तव कोऽयमाडम्बरवि-
धिः त्रयाणां पुराणां समाहारस्त्रिपुरं तदेव तृणं अनायासनाश्यत्वात् ।
तद्दग्धुमिच्छोस्तव केयं महत्प्रयोजनमुद्दिश्येव संभ्रमरचना । नहि
लौकिका अपि नखच्छेद्ये कुठारं परिगृह्णन्ति, अतस्तवात्यल्पे
प्रयोजने न महान्प्रयास उचित इत्यर्थः । आडम्बरविधिमेव दर्श-
यति । रथ इत्यादि । क्षोणी पृथ्वी रथरूपेण परिणता, शतघृति-
र्ब्रह्मा यन्ता सारथिः, अगेन्द्रः पर्वतश्रेष्ठो मेरुः धनुः कोदण्डं,
सोमसूर्यौ द्वे चक्रे, रथचरणं चक्रं तद्युक्तपाणिर्विष्णुः शरो बाणः,
चतुर्थवाक्ये श्रुतोऽप्यथोशब्दः सर्वत्र वाक्यभेदाय योजनीयः ।</p>
<pb n="45" />
<p>इतिशब्दः प्रकारार्थः । त्रिभुवनमपीच्छामात्रेण संहरतस्तवैवंप्रका-
रेण सामग्रीसंपादनमाडम्बरमात्रमित्यर्थः । एवमाक्षिप्य परिहार -
माह । विधेयैरित्यादि । खलु निश्चितं प्रभोरीश्वरस्य धियो बुद्धयः
संकल्प विशेषाः परतन्त्राः पराधीना न भवन्ति, अपि तु स्वतन्त्रा
एव । ताः कीदृश्यः । विधेयैः स्वाधीनैः पदार्थैः क्रीडन्त्यः खेलन्त्यः ।
नहि क्रीडायां प्रयोजनाद्यपेक्षास्ति । तस्माद्विचित्राणि वस्तूनि स्वाधी-
नतया क्रीडासाधनीकृत्य क्रीडतस्तव सर्वाणि कार्याणि स्वेच्छामा-
त्रेण कर्तुं क्षमस्य लौकिकवैदिकनियमानधीनबुद्धेर्न किंचिद्प्यनुचि-
तमित्यर्थः ॥ हरिपक्षे तु । त्रीणि त्रिकूटगिरिशिखराणि पुराण्या-
श्रयो यस्येति त्रिपुरं लङ्कापुरं तदेव तृणं तद्दग्धुमिच्छोस्तव
कोऽयं श्रीरामरूपेण सुग्रीवसख्यसमुद्रबन्धनादिश्चाडम्बरविधिः ।
रथः क्षोणीत्यादिरूपकं । क्षोणीव रथः, शतधृतिरिव यन्ता, अगेन्द्र
इव धनुः, चन्द्रार्काविव रथचक्रे, रथचरणपाणिरिव शरः, स्वतु-
ल्यवीर्यो बाण इत्यर्थः । क्षोण्यादिसदृशरथाद्युपादानमेतादृशात्य-
ल्पप्रयोजनायापेक्षितुमुचितं न भवतीत्यर्थः । शेषं पूर्ववत् ॥ १८ ॥
अथेन्द्रोपेन्द्रयोर्भक्तिं तत्फलं च दर्शयन्हरिहरौ स्तौति -</p>
<lg>
  <l>हरिस्ते साहस्रं कमलबलिमाधाय पदयो-</l>
  <l>र्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् ।</l>
  <l>गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा</l>
  <l>त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९ ॥</l>
</lg>
<p>हरिरिति । हे त्रिपुरहर, हरिर्विष्णुस्तव पदयोः साहस्रं सह-
स्रसंख्यापरिमाणं कमलानां पद्मानां बलिमुपहारं । सहस्रकमलात्मकं
बलिमित्यर्थः । आधाय समर्प्य तस्मिन्कमलसहस्रवलावेकोने सति
एकेन कमलेन भक्तिपरीक्षार्थं त्वया गोपितेन हीने सति नियम-
भङ्गो माभूदिति तत्पूरणार्थं तदा कमलान्तरमलभमानो निज-</p>
<pb n="46" />
<p>मात्मीयं नेत्रकमलमेवोदहरदुत्पाटितवान् । यदैवं स्वनेत्रोत्पाटन-
रूपं भजनं, असौ भक्त्युद्रेकः भक्तेः सेवाया अत्यन्तप्रकर्षः चक्रवपुषा
सुदर्शनरूपेण परिणतिं गतः त्रयाणां जगतां रक्षायै जागर्ति । परि-
पालनार्थं सावधान एव वर्तते इत्यर्थः । एवमाख्यायिका च
पुराणप्रसिद्धा । तथा चैवंविधाचिन्त्यमाहात्म्यस्त्वमसीति भावः ॥
हरिपक्षे तु । त्रिपुरहरेति प्राग्व्याख्यातम् । हरिरिन्द्रस्तव पदयोः
साहस्रं कमलबलिमाधाय । कीदृशं नेत्रकमलं नेत्राण्येव कमलानि
यस्मिन्स तथा नेत्रसहस्रात्मकं कमलसहस्रबलिमित्यर्थः । युगप-
न्नेत्रसहस्रव्यापारेण त्वच्चरणयोर्दर्शनरूपमाराधनं कृत्वेत्यर्थः । आ-
राधनप्रयोजनमाह । निजमात्मानमेकः सहायान्तरशून्यः । अनेन
तस्मिन्नेतल्लोकविलक्षणे स्वर्गलोके उदहरदुद्धृतवान् । स्वर्लोका-
धिपतिमात्मानं कृतवानित्यर्थः । निजमुद्धर्तुं युगपन्नेत्रसहस्रेण
त्वच्चरणावलोकने यत्प्रवणत्वं असौ भक्त्तयुद्रेकः चक्रवपुषा चक्रं
सैन्यं ऐरावतोच्चैःश्रवःप्रभृति तद्रूपेण परिणतिं गतः परिणतः स-
मुद्रमथनेन लक्ष्मीपीयूषादिप्रादुर्भावात् । त्रयाणां लोकानां रक्षायै
जागर्तीत्यादिपूर्ववत् ॥ १९ ॥
एवं पूर्वश्लोकेषु परमेश्वराराधनादेव सर्वपुरुषार्थप्राप्तिरन्वयव्य-
तिरेकाभ्यामुक्ता । तत्र केचिन्मीमांसकंमन्याः परमेश्वरनिरपे-
क्षाकर्मजनितादपूर्वादेव शुभाशुभप्राप्तिरित्याहुस्तान्निराकुर्वन्हरिहरौ
स्तौति -</p>
<lg>
  <l>क्रतौ सुप्ते जाग्रत्वमसि फलयोगे ऋतुमतां</l>
  <l>क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।</l>
  <l>अतस्त्वां संप्रेक्ष्य क्रतुषु फलदानप्रतिभुवं</l>
  <l>श्रुतौ श्रद्धां बद्ध्वा कृतपरिकरः कर्मसु जनः ॥२०॥</l>
</lg>
<p>क्रताविति । हे त्रिपुरहरेति संबोधनं पूर्व श्लोकादनुषज्यते</p>
<pb n="47" />
<p>क्रतौ यागादिकर्मणि आशुतरविनाशिस्वभावत्वात्सुप्ते लीने स्वकारणे
सूक्ष्मरूपतां प्राप्ते ध्वस्ते सति । क्रतुमतां यागादिकर्मकारिणां का-
लान्तरदेशान्तरभावितत्तत्फलसंबन्धे तन्निमित्तं त्वं जाग्रदसि
प्रबुद्ध एव वर्तसे । वर्तमाने विहितेन शत्रा जागरणस्य सर्वदा-
स्तित्वमुच्यते तेन सर्वदैवावहितोऽसीत्यर्थः । ननु लिङादिपद-
वाच्यक्रियायाः स्वर्गादिसाधनत्वान्यथानुपपत्त्या कल्प्यमपूर्वमेव
फलयोगाय जागर्ति किमीश्वरेणेत्यत आह । क्वेत्यादि । प्रध्वस्तं
विनष्टं कर्म पुरुषस्य चेतनस्य फलदातुराराधनं विना क्व फलति ।
नक्कापीत्यर्थः । नहि लोके कुत्रापि विनष्टस्य कर्मणोऽपूर्वद्वारा
फलजनकत्वं दृष्टम् । लोकानुसारिणी च वेदेऽपि कल्पना लोक-
वदधिकरणन्यायात् । चेतनस्य तु राजादेराराधितस्य विनैवा-
पूर्वं सेवादेः फलजनकत्वं दृश्यते । तत्र लोकदृष्टप्रकारेणैव वैदि-
ककर्मणामपि फलजनकत्वसंभवे न लोकविरुद्धापूर्व फलदातृत्व-
कल्पनावकाशः । अपूर्वं हि लोकसिद्धकारणान्तरनिपेरक्षं वा स्व-
र्गादिफलं जनयेत्तत्सापेक्षं वा । आद्ये तत्फलोपभोगयोग्यदेहेन्द्रि-
यादिकमपि नापेक्षेत । न चैतदिष्टं, सर्वस्यापि सुखदुःखादेः शरी-
रसंयुक्तात्ममनोयोगादिदृष्टकारणजन्यत्वाभ्युपगमात् । द्वितीये तु
लोकसिद्धदेहेन्द्रियाद्यपेक्षावदीश्वरापेक्षापि नियता, लोके तथादर्श-
नात्। तस्माच्छ्रुतिन्यायसिद्धेश्वरपदार्थधर्मिबाघकल्पनाद्वरमपूर्वपदा-
र्थस्य नैरपेक्ष्यधर्ममात्रबाधकल्पनम् । 'फलमत उपपत्तेः' इति न्या-
यात् । इदं चापूर्वमभ्युपेत्य तत्सापेक्षत्वमीश्वरस्योक्तम् । वस्तु-
तस्तु नापूर्वे किंचित्प्रमाणमस्ति । लिङादीनामिष्टाभ्युपायतावाचक-
त्वात् । तदन्यथानुपपत्तेश्च श्रुतिन्यायसहस्रसिद्धपरमेश्वरेणैवोप-
क्षयात् नापूर्वसिद्धिः । अपूर्वं च तत्फलदातृत्वं च द्वयं भवद्भिः
कल्प्यम् । अस्माभिस्तु केवलमीश्वरः कल्प्यः । तस्य फलदातृत्वा-
दिकं तु चेतनत्वाद्राजादिवल्लोक्सिद्धमेव । सर्वज्ञत्वेन च तत्तत्क-</p>
<pb n="48" />
<p>र्मानुरूपफलदातृत्वान्न वैषम्यनैर्घृण्यादिदोषप्रसङ्गः । यत एवं त्व-
मेव सर्वकर्मफलदाताऽतस्त्वां क्रतुषु श्रौतस्मार्तकर्मसु कालान्तर -
फलसाधनेषु फलदानप्रतिभुवं फलदानाय लग्नकमिव संप्रेक्ष्य स-
म्यक् श्रुतिस्मृतिन्यायैः प्रकर्षेण निश्चित्य कर्मफलदातुस्तव सद्भाव-
प्रतिपादिकायां हि श्रुतौ 'एतस्य वा अक्षरस्य प्रशासने गार्गि द्या-
वापृथिव्यौ विधृते तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि
ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः'
'कर्माध्यक्षः सर्वभूताधिवासः' 'एष उ ह्येव साधु कर्म कारयति तं
यमुन्निनीषते एष उ एव वाऽसाधु' इत्यादिकायां श्रुतौ श्रद्धां बद्ध्वा
अर्थवादत्वप्रयुक्तस्वार्थाप्रामाण्यशङ्कानिरासेन लोकसिद्धदृढतरन्या-
यानुगृ[^१]हीततया देवताधिकरणन्यायेन स्वार्थे प्रामाण्यं निश्चित्य जनः
श्रुतिस्मृतिविहितकर्माधिकारी कर्मसु श्रौतस्मार्तेषु कृतपरिकरः कृतः
परिकर उद्यमो येन स तथा । कृतारम्भो भवतीत्यर्थः । प्रतिभू-
सादृश्यं च एतावन्मात्रेणैव विवक्षितम् । यथा कश्चिदुत्तमर्णः
प्रमाणनिश्चितं दीर्घकालावस्थानं स्वधनार्पणसमर्थं कंचित्प्रतिभुवं
निरूप्य अधमर्णे पलायिते मृते वा एतस्मादेव कुशलिनः प्रति-
भुवः सकाशात्स्वधनं प्राप्स्यामीत्यभिप्रायेण यस्मैकस्मैचिदधमर्णायर्णं
प्रयच्छति तद्वदधमर्णस्थानीये कर्मणि प्रलीनेऽपि परमेश्वरादेव
प्रतिभूस्थानीयात्तत्फलं प्राप्यामीत्यभिप्रायेणोत्तमर्णस्थानीयो यज-
मानो निःशङ्कमेव कर्मानुतिष्ठतीति भावः ॥ हरिपक्षेप्येवं । शेषं
पूर्ववत् । यद्वा सुजनः साधुजनः कर्म श्रुतिस्मृतिविहितं कर्माकृत
कृतवान् । कीदृशः सुजनः । परिकरः परि सर्वतः कं सुखं राति
ददातीति तथा सर्वेषां सुखकरः । अहिंसक इत्यर्थः । 'दृढपरिकरः'
इति क्वचित्पाठः । तस्य दृढारम्भ इत्यर्थः । अयं च न
सांप्रदायिकः ॥ २० ॥
[^१] 'गृहीतेन' इति पाठः ।</p>
<pb n="49" />
<p>एवं भगवत्प्रसादेन क्रतुफलप्राप्तिमुक्त्वा विहितानां शुभफल-
जनकत्वानुपपत्त्या धर्माख्यमपूर्वं द्वारत्वेन कल्पनीयमिति पक्षो
निराकृतः । संप्रति विहिताकरणनिषिद्धकरणयोरशुभफलस्य भग-
वत्प्रसादासाध्यत्वात्तदर्थमवश्यमधर्माख्यमपूर्वं कल्पनीयमिति शङ्कायां
राजाज्ञालङ्घनादेरिव भगवदाज्ञोल्लङ्घनादखिलानर्थफलत्वं दृष्टद्वारेणैव
भविष्यतीत्यभिप्रायेण भगवतोऽप्रसादेन क्रतुफलाप्राप्तिमनर्थप्राप्तिं
च दर्शयन्हरिहरौ स्तौति –</p>
<lg>
  <l>क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता-</l>
  <l>मृषीणामार्त्विज्यं शरणद सदस्या: सुरगणाः ।</l>
  <l>क्रतुभ्रेषस्त्वत्तः क्रतुफलविधानव्यसनिनो</l>
  <l>ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥२१॥</l>
</lg>
<p>क्रियेति । हे शरणद, दक्षो दक्षनामा प्रजापतिः स्वयं क्रिया-
स्वनुष्ठेयासु दक्षः प्रवीणः । यज्ञविधौ कुशल इत्यर्थः । एतेन वि-
द्वत्त्वमधिकारिविशेषणमुक्तम् । तथा तनुभृतां शरीरिणामधीशः
स्वामी प्रजापतित्वात् । एतेन सामर्थ्यमधिकारिविशेषणमुक्तम् ।
एतादृशः क्रतुपतिर्यजमानः । तथा ऋषीणां त्रिकालदर्शिनां भृगु -
प्रभृतीनामार्त्विज्यमृत्विक्त्वमध्वर्य्वादिरूपता । तथा सुरगणा
ब्रह्मादयो देवगणाः सदस्याः सभ्या उपद्रष्टारः । एतादृशसर्वसाम-
ग्रीसंपत्तावपि त्वत्तः परमेश्वरादप्रसन्नात्क्रतोयज्ञस्य भ्रेषः भ्रंशो
जातः । कीदृशात् । क्रतुफलविधानव्यसनिनः क्रतोर्यज्ञस्य फलं
स्वर्गादि तस्य विधानं निष्पादनं तेन व्यसनी तदेकनिष्ठस्तस्मात्
क्रतुफलदातृस्वभावोऽपि त्वामवज्ञाय क्रतुभ्रंशहेतुतां नीत इत्यर्थः ।
एतदेव द्रढयन्नाह । ध्रुवमिति । ध्रुवं निश्चितं क्रतुफलदातरि पर-
मेश्वरे विषये श्रद्धाविधुरं भक्तिरहितं यथा स्यात्तथानुष्ठिता मखा
यज्ञा क्रतुर्यजमानस्याभिचाराय नाशायैव भवन्तीत्यर्थ॥ हरिपक्षे</p>
<pb n="50" />
<p>तु । तनुभृतामधीशः क्रतुपतिः तनुं स्वशरीरमेव बिभ्रति पुष्ण-
न्तीति तनुभृतो दैत्या देवबाह्यास्ते हि सुरनरपितृभ्यो न प्रयच्छ-
न्ति सर्वहिंसया स्वशरीरमेव पुष्णन्ति तेषामधीशो राजा बलिः
क्रतुपतिर्यजमानः, अथवा तनून्क्षीणान्बिभ्रति पुष्णन्ति ते तनु-
भृतो वदान्यास्तेषामधीशो दातृ[^१]वीराग्रण्यो बलिः । कीदृशः । क्रिया-
दक्षोदक्षः उत्कृष्टान्यक्षाणीन्द्रियाणि यस्य स उदक्षः क्रियादक्ष-
श्चासावुदक्षश्चेति स तथा । सुरेषु देवेषु गण्यन्ते इति सुरगणा
देवतुल्याः पुरुषाः सदस्याः । श्रद्धाविधुरत्वं च भगवदनुगृहीते-
न्द्रादिदेवगणैः सह विरोधात् । स्वभक्तद्रोहो हि भगवतः स्वद्रो-
हादप्यधिकः । शेपं पूर्ववत् ॥ २१ ॥
अथ ब्रह्ममारीचयोर्मृगरूपयोर्वधं दर्शयन्हरिहरौ स्तौति -</p>
<lg>
  <l>प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं</l>
  <l>गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।</l>
  <l>धनुःपाणेर्यातं दिवमपि सपत्राकृतममुं</l>
  <l>त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ २२ ॥</l>
</lg>
<p>प्रजानाथमिति । हे नाथ नियामक, तव परमेश्वरस्य धनुः-
पाणेः धृतपिनाकस्य मृगव्याधरभसः मृगान्विध्यतीति मृगव्याधो
लुब्धकः तस्येव रभस उत्साहातिरेको मृगव्याधरभसः शर एव
तथा आरोपितः स चार्द्रानक्षत्ररूपेण परिणत इति पुराणप्रसिद्धः ।
अमुं प्रजानाथं ब्रह्माणं दिवं स्वर्गं यातं प्राप्तमपि नक्षत्रमध्ये मृग-
शिरोरूपेण परिणतमपि तथा सपत्राकृतं सह पत्रेण शरं शरीरे प्र-
वेश्यातिव्यथां नीतः सपत्राकृतस्तादृशमिवात्मानं मन्यमानम् । रूप-
कमेतत् । शरस्यार्द्रानक्षत्ररूपेण संनिधानमात्रं नतु ताडनमिति
द्रष्टव्यम् । अथवा शरेण ताडित एव ब्रह्मा रुद्रस्य क्रोधोत्साहवि-
[^१] 'दानवाग्रगण्यो' इति पाठः ।</p>
<pb n="51" />
<p>शेष एवार्द्रानक्षत्ररूपेण परिणत इति पुराणान्तरप्रसिद्ध्या द्रष्टव्यम् ।
अतएव त्रसन्तं बिभ्यन्तमद्यापि न त्यजति । इदानीमपि धनु -
ष्पाणिमेव त्वां सर्वदा दर्शयतीत्यर्थः । तस्यैतादृशदण्डार्हतामाह ।
स्वामात्मीयां दुहितरं पुत्रीं रोहिद्भूतां लज्जया मृगीभूतां ऋश्यस्य
मृगस्य वपुषा शरीरेण रिरमयिषुं रमयितुमिच्छुम् । इयं चेलज्जया
मृगीभूता तर्ह्यहमपि मृगरूपेणैनां भजिष्यामीति बुद्ध्या मृगरूपेण
प्रसभं हठेनानिच्छन्तीमपि तां गतं रत्यर्थं प्राप्तम् । तस्य परमवशि-
नोऽपि स्वमर्यादातिक्रमे कारणं वदन्विशिनष्टि । अभिकं कामु-
कम् । कामेनाभिभूतत्वात्स्वमर्यादोल्लङ्घिनमित्यर्थः । एवंहि पु-
राणेषु प्रसिद्धम् - 'ब्रह्मा स्वदुहितरं संध्यामतिरूपिणीमालोक्य काम-
वशो भूत्वा तामुपगन्तुमुद्यतः । सा चायं पिता भूत्वा मामुपगच्छ-
तीति लज्जया मृगीरूपा बभूव । ततस्तां तथा दृष्ट्वा ब्रह्मापि मृगरूपं
दधार । तच्च दृष्ट्वा त्रिजगन्नियन्त्रा श्रीमहादेवेनायं प्रजानाथो धर्म-
प्रवर्तको भूत्वाप्येतादृशं जुगुप्सितमाचरतीति महतापराधेन दण्ड-
नीयो मयेति पिनाकमाकृष्य शरः प्रक्षिप्तः । ततः स ब्रह्मा व्रीडितः
पीडितश्च सन् मृगशिरोनक्षत्ररूपो बभूव । ततः श्रीरुद्रस्य शरो-
ऽप्यार्द्रानक्षत्ररूपो भूत्वा तस्य पश्चाद्भागे स्थितः । तथा चार्द्रामृगशि-
रसोः सर्वदा संनिहितत्वाद्यापि न त्यजति' इत्युक्तम् । हरिपक्षे तु ।
हे नाथ, रोहिद्भूतां गतं प्रजानाथं दिवं यातमपि धनुष्पाणेस्तव
मृगव्याधरभसोऽद्यापि न त्यजति । रोहितो हरिण्याः सकाशाद्भवतीति
रोहिद्भूर्हरिणशावकः तस्य भावो रोहिद्भूता तां गतम् । हरिण -
शावकत्वं प्राप्तमित्यर्थः । प्रजाः प्राणिनो नाथति उपतापयतीति
प्रजानाथो राक्षसः स च प्रकृते मारीचाख्यस्तम् । किमर्थं तस्य
मृगरूपधारणमित्यत आह । प्रसभमभिकं रिरमयिषुं प्रकृष्टा शौर्या-
दियुक्ता सभा यस्य स प्रसभस्तं तादृशं, अभितः कानि शिरांसि
<flag>यस्य सोऽभिको</flag> दशग्रीवस्तम् । सीतापहरणोपायेन क्रीडयितु-</p>
<pb n="52" />
<p>मिच्छुम् । तथा स्वां दुहितरमयोनिजां कन्यां सीतां ऋश्यस्य
वपुषा विचित्रमृगशरीरेण रिरमयिषुं प्रमोदयितुमिच्छुम् । विचि-
त्रमृगरूपं मां दृष्ट्वा सीता स्त्रीस्वभावादतिमुग्धा मच्चर्मग्रहणार्थं श्री -
रामं प्रेरयिष्यति । ततो रामे बहुदूरं मयाऽपसारिते लक्ष्मणे च
तदुद्देशार्थं गते एकाकिनीं सीतां रावणः सुखेन हरिष्यतीत्यभि-
प्रायेण धृतविचित्रमृगशरीरमित्यर्थः । अत एव बाणेन सपत्रा-
कृतत्वाद्दिवं परलोकं यातम् । मृतमित्यर्थः । अमुं मृतमपि त्रसन्त-
मद्यापि तव मृगव्याधरभसो न त्यजतीत्युत्प्रेक्षारूपो ध्वनिः । शेषं
पूर्ववत् ॥ २२ ॥
परमवशिनां वरावपि श्रीराममहादेवौ लक्ष्मीपार्वत्यनुकम्पया
स्त्रैणमिवात्मानं दर्शयत इति प्रतिपादयन्स्तौति —</p>
<lg>
  <l>स्वलावण्याशंसाधृतधनुषमह्नाय तृणव-</l>
  <l>त्पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।</l>
  <l>यदि स्त्रैणं देवी यमनिरत देहार्धघटना-</l>
  <l>दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ २३ ॥</l>
</lg>
<p>स्वलावण्येति । हे पुरमथन, हे यमनिरत, यमनियमासना-
द्यष्टाङ्गयोगपरायण । एतेन जितेन्द्रियत्वमुक्तम् । पुष्पायुधं कामं
त्वया तृणवत्तृणमिव अह्नाय शीघ्रं प्लष्टं दुग्धं पुरः साक्षादेवाव्यव-
धानेन दृष्ट्वा चाक्षुषज्ञानविषयीकृत्य । कीदृशं पुष्पायुधम् । स्व-
लावण्याशंसाधृतधनुषं स्वस्याः पार्वत्याः यल्लावण्यं सौन्दर्यातिश-
यस्तद्विषया आशंसा परमयोगिनमपि श्रीरुद्रमस्याः सौन्दर्यातिश-
येन वशीकरिष्यामीति या प्रत्याशा तया निमित्तभूतया घृतं ध -
नुर्येनेति तथा तम् । एतेन स्वलावण्यातिशयस्यापि श्रीरुद्र विषये-
ऽकिंचित्करत्वमुक्तम् । तथा चैवं स्खलावण्यवैयर्थ्यं पुष्पायुधस्य
तृणवद्दाहं च स्वयं साक्षात्कृत्वापि देवी पार्वती इयं चिरकालं</p>
<pb n="53" />
<p>मामुद्दिश्य तपः कृतवती विरहदुःखं मा प्राप्नोत्विति करुणामात्रेण
देहार्धघटनात् त्वया स्वशरीरार्धेऽवस्थापनाद्धेतोर्भ्रमबीजात् यदि
त्वां सर्वयोगिनां वरं स्त्रैणं यद्ययं मदधीनो न भवेत्कथं मां स्व-
शरीरार्धे स्थापयेदिति भ्रान्त्या स्त्रीसक्तं यद्यवैति विशेषादर्शनात्कल्प-
यति तर्हि तदद्धा युक्तमेव तस्याः । अयुक्तस्यापि युक्तत्वे हेतुमाह ।
बतेत्यादि । हे वरद, अतिदुर्लभमपि स्वदेहार्धं दत्तमिति वरदेति
योग्यं संबोधनम् । बत अहो, युवतयस्तरुण्य: मुग्धा अतत्त्वज्ञाः ।
स्वभावत एवेति शेषः । तथा च सहजानां युवतविभूषणानां
प्रधानं मौग्ध्यमनुकुर्वन्त्याः स्वरूपतश्चितिरूपाया अपि देव्या मि -
थ्याज्ञानं युक्तमित्यर्थः ॥ हरिपक्षे तु । हे अर्धघटनादव, घटनाया
अर्धमित्यर्धघटना अर्धपिप्पलीवत् । तस्या दवो वनवह्निः । दाहक
इति यावत् । सीतारूपाया लक्ष्म्याः रामरूपेणोचितात्संयोगात्स्वे-
च्छयाऽर्धसंभोगं दत्त्वाऽविप्रलम्भं दत्तवानसीत्यर्थः । सा पूर्वश्लो-
कोक्ता देवी सीतारूपा लक्ष्मीः । कीदृशी । यमनिरतदेहा अत्यन्त -
पतिव्रता । तथा पुरमथनपुष्पा पुरस्य शरीरस्य मथनानि पीडकानि
पुष्पाणि यस्याः सा तथा । पुष्पाणामपि स्प[^१]र्शासहा । अतिसुकुमा-
राङ्गीत्यर्थः । त्वां श्रीरामरूपं यदि स्त्रैणमवैत्य[^२]वगच्छति तदद्धेत्या-
दिपूर्ववत् । त्वां कीदृशम् । स्वलावण्याशं स्वकीयं लावण्यमत्र
शौर्यादिगुणकृतं सौन्दर्यं तस्मिन्नाशा यस्य स स्वलावण्याशस्तम् ।
सीताया अनुद्धरणात्स्वस्य शौर्यादिग्रसिद्धिर्गच्छेदिति स्वकीर्तिर-
क्षार्थिनमित्यर्थः । अत एव धृतधनुषं सज्जीकृतकोदण्डम् । इदमेकं
भ्रमबीजमुक्तम् । भ्रमवीजान्तरमाह । अह्नाय तृणवत्पुरः प्लुष्टं
दृष्ट्वा शीघ्रमेव तृणस्येव पुरो लङ्कायाः प्लुष्टं दाहम् । भावे क्तः ।
तथा युधं युद्धमपि दृष्ट्वा । आयुधशब्दस्य शस्त्रे युद्धे चानुशासनात् ।
तथा च स्वकीर्तिरक्षार्थमत्यन्तपतिव्रतायाश्च देव्याः कारुण्येन क्लेश-
<flag>१. रतिः' इति पाठः ।</flag> २ 'मेति प्रत्येति' इति पाठः ।</p>
<pb n="54" />
<p>विमोचनार्थं सज्जीकृतकोदण्डं त्वामर्धघटनादेवमप्ययं यदि मद-
धीनो न भवेत्तदा कथमेतादृशदुष्करकर्माणि मामुद्दिश्य कुर्यादिति
भ्रमेण स्त्रीसक्तमिव कल्पयतीत्यर्थः । शेषं पूर्ववत् ॥ २३ ॥
अथ स्वयममङ्गलशीलतया क्रीडन्नपि भक्तानां मङ्गलमेव द -
दासि, स्वयममङ्गलशीलानामपि भक्तानां त्वमेव मङ्गलमसीति च
वदन् शंकरनारायणौ स्तौति –</p>
<lg>
  <l>स्मशानेष्वाक्रीडा मरहर पिशाचा: सहचरा-</l>
  <l>श्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः ।</l>
  <l>अमङ्गल्यं शीलं तव भवतु नामैवमखिलं</l>
  <l>तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ २४ ॥</l>
</lg>
<p>स्मशानेति । हे स्मरहर, हे वरद, तवाखिलमपि शीलं सर्वमपि
चरितं एवंप्रकारेणामङ्गल्यं मङ्गलविपरीतं भवतु नाम । किं नस्तेन
निरूपितेनेत्यर्थः । तथापि स्वयममङ्गलशीलोऽपि स्मर्तॄणां तव
स्मरणकर्तॄणां त्वं परमं मङ्गलमेवासि निरतिशयं कल्याणमेव भ-
वसि । तेनामङ्गलशीलोऽयं रुद्रो न मङ्गलकामैः सेवनीय इति
भ्रमं परिहृत्य मनोवाक्कायप्रणिधानैः सर्वदा सर्वैः सेवनीयोऽसी-
त्यर्थः । एवंपदसूचितममङ्गल्यं शीलमेव दर्शयति । स्मशानेष्वि-
त्यादि । स्मशानेषु शवशयनेष्वासमन्तात्केलिः, पिशाचाः प्रेताः
सहायाः, चिताभस्म शवदाहस्थं भस्माङ्गलेपोऽङ्गरागसाधनम्, नृक-
रोटी मनुष्य शिरोस्थिसमूहः स्रङ्माला । अपिशव्दादन्यदप्यार्द्रचर्मादि ॥
हरिपक्षे तु । हे वरद, तव स्मर्तॄणाममङ्गल्यं शीलं भवतु नाम,
तथापि तेषां त्वमेव परमं मङ्गलमसीत्यर्थः । तथाच गीतासु -
'अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः
सम्यग्व्यवसितो हि सः' इति । अथवा तव नामस्मर्तॄणामिति
योज्यम् । नाममात्रं स्मरतां परनं मङ्गलमसि त्वां स्मरतां तु किमु वा-</p>
<pb n="55" />
<p>च्यमित्यर्थः । कीदृशं नाम । अखिलं न खिलं फलरहितमखिलं सर्वदा
सर्वत्र सफलमित्यर्थः । अत्यन्तपापित्वेन प्रसिद्धानामजामिलादी-
नामपि त्वं नाममात्रस्य पुत्रनामत्वेन मरणव्यथया शिथिलकरणत्वेन
च मन्दमुच्चारणेऽपि सर्वपापक्षयद्वारा परमपुरुषार्थप्राप्तिश्रवणात ।
अमङ्गल्यं शीलमेव दर्शयति स्मशानेष्वित्यादिरूपकेण । अत्य-
न्ततिरस्कृतिवाच्यो ध्वनिरयं लक्षणामूलः । शवशयनतुल्येषु सर्वदा
रोदनप्रधानेषु गृहेष्वा ईषत् क्रीडा । अल्पकालं वैषयिकतुच्छसु-
खप्राप्तिरित्यर्थः । तथाच स्मरहरपिशाचा: सहचराः स्मरणं स्मरः
शास्त्रीयो विवेकस्तं हरन्तीति स्मरहराः पिशाचतुल्याः पुत्रभा-
र्यादयः पिशाचाः, स्मरहराश्च ते पिशाचाश्च स्मरहरपिशाचाः । यथा
पिशाचाः स्वावेशेन ज्ञानलोपं कृत्वा पुरुषमनर्थे योजयन्ति तथा
पुत्रभार्यादयोऽपि । तादृशाश्च वस्तुगत्या वैरिणोऽपि सहैव चरन्ति
न क्षणमपि त्यजन्तीति सहचराः । तथा चिताभस्मतुल्य आलेपः ।
देहस्य विमूत्रपूयादिपूर्णत्वेनातिजुगुप्सितत्वात्तदालेपनस्याप्यति-
जुगुप्सितत्वम् । तथा मनुष्यशिरोस्थिसमूहतुल्या माला पिशाच-
तुल्यं भार्यादि विनोदहेतुत्वात् । अपिशब्दादन्यदपि सर्वं चरितं
विषयसङ्गिनाममङ्गलमेव । एतादृशा अपि चेत्त्वां त्वन्नाम वा स्म-
रन्ति तदा त्वमेव तेषां मङ्गल्यरूपेणाविर्भवसीत्यहोऽतिभक्तवात्स-
ल्यमित्यर्थः । हरपक्षेप्येवं योजनीयम् ॥ २४ ॥
अतीतः पन्थानमित्यत्र हि पदार्थत्रयमुपन्यस्तं, कतिविधगुण
इत्यनेन सगुणमैश्वर्यं, कस्य विषय इत्यनेनाद्वितीयं ब्रह्मस्वरूपं,
पदे त्वर्वाचीन इत्यनेन लीलाविग्रहविहारादि । तत्र अजन्मानो लोका
इत्यत्र सामान्यतः परमेश्वरसद्भावं दृढीकृत्य, तवैश्वर्यं यत्नाद्यदुप-
रीत्यादिना सगुणमैश्वर्यं लीलाविग्रहविहारादिकं च वर्णितम् ।
संप्रत्यद्वितीयं ब्रह्मस्वरूपं वक्तव्यमवशिष्यते । तद्नभिधाने पूर्वो-
क्तस्व सर्वस्यापि तुषकण्डजानवत्त्वप्रसङ्गान्निर्गुणब्रह्मस्वरूपस्यैव</p>
<pb n="56" />
<p>सर्वश्रुतिस्मृतितात्पर्यविषयत्वेन सत्यत्वात्, सर्वस्यापि प्रपञ्चस स्व-
प्नवन्मिथ्यात्वात् । तस्मान्निर्गुणब्रह्मनिरूपणायोत्तरग्रन्थारम्भः । तत्र
पूर्वश्लोके त्वं परमं मङ्गलमसीत्युक्तम् । तत्रैवमाशङ्क्यते । मङ्गलं
हि सुखम् । न चेश्वरस्य सुखखरूपत्वं संभवति, सुखस्य जन्यत्वा-
द्गुणत्वाच्च, ईश्वरस्य नित्यत्वादद्रव्यत्वाच्च । नित्यज्ञानेच्छाप्रयत्नवा-
नीश्वरो न सुखरूपो नापि सुखाश्रय इति तार्किकाः । क्लेशकर्मवि-
पाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरश्चितिरूपो न सुखरूप इति
पातञ्जलाः । तदेवं नाद्वितीय ईश्वरो नापि सुखस्वरूप इत्याशङ्क्य
तस्याद्वितीयपरमानन्दरूपत्वे विद्वदनुभवरूपं प्रत्यक्षं प्रमाणं वद-
न्स्तौति -
मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः
प्रहृष्यद्रोमाणः प्रमदससिलोत्सङ्गितदृशः ।
यदालोक्याह्लादं ह्रद इव निमज्ज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् २५
मन इति । हे वरद, यत्किमपि तत्त्वं इदंतया वक्तुमशक्यं
सत्यज्ञानानन्तानन्दात्मकं वस्त्वालोक्य वेदान्तवाक्यजन्ययाऽख-
ण्डाकारवृत्त्याऽपरोक्षीकृत्य यमिनः शमादिसाधनसंपन्नाः परमहंसाः
अन्तराह्लादंं बाह्यसुखविलक्षणं निरतिशयमुखं दधति पूर्वं विद्यमा
नमेव धारयन्ति न तूत्पादयन्ति नित्यत्वात् । तत्तत्वं किल
भवानिति । किलेति प्रसिद्धौ । सत्यज्ञानानन्तानन्दात्मकत्वेनैव श्रु -
तिषु प्रसिद्धो भवान्न तार्किकाद्युक्तप्रकारः । अतस्त्वं कथं परमं
मङ्गलं न भवसीति वाक्यशेषः । तत्राह्लादस्य निरतियत्वं द-
र्शयितुं दृष्टान्तमाह । अमृतमये ह्रदे निमज्ज्येव । यस्य खलु लेश-
मात्रमपि स्पृष्ट्वा सकलसंतापोपशमेन सुखिनो भवन्ति, किमुत व-
क्तव्यं तस्य निमज्जनरूपसर्वाङ्गसंयोगेनेति कारणातिशयात्कार्यस्या -</p>
<pb n="57" />
<p>प्यतिशयः सूचितः । यद्यपि ब्रह्मानन्दस्य सर्वातिशयिनो न कोऽपि
दृष्टान्तोऽस्ति तथापीषत्साम्येनापि लोकानां बुद्धिदार्ढ्यायैवमुक्तम् ।
एतादृशब्रह्मानन्दानुभवस्थासाधारणं कारणमाह । मन इत्यादिना ।
चित्ते हृदयाम्बुजे मनः संकल्पविकल्पात्मकमवधाय निरुध्य । वृ-
त्तिशून्यं कृत्वेत्यर्थः । कीदृशं मनः । प्रत्यक् चक्षुरादीन्द्रियद्वारा
बहिर्विषयप्रवृत्तिप्रतिकूलतया अन्तर्मुखतयैवाञ्चतीति प्रत्यक् । की-
दृशा यमिनः । सविधं सप्रकारं यथा स्यात्तथा आत्तमरुतः । शास्त्रो-
पदिष्टमार्गेणैव कृतप्राणायामा इत्यर्थः । अत्र सविधमित्यनेन यम-
नियमादिसाधनानि सूच्यन्ते । आत्तमरुत इत्यनेन चतुर्थः कु-
म्भकः । विषयेभ्य इ<fix>न्द्रि</fix>याणां निवर्तनरूपः प्रत्याहारः प्रत्यक्पदेन
सूचितः । चित्त इत्यनेन हृदयाम्बुजाख्यदेशसंब[^१]न्धात्समूहावलम्ब-
नाख्या धारणोक्ता । अवधायेत्यनेन ध्यानसमाधी । तदुक्तं भगवता
पतञ्जलिना – 'देशसंबन्धश्चित्तस्य धारणा । तत्र प्रत्ययैकतानता ध्या-
नम् । तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः' इति । चि-
त्तस्य वशीकरणार्थं मूलाधारस्वाधिष्ठानमणिपूरकानाहतविशुद्ध्या-
ज्ञाख्यचक्राणामन्यतमे देशेऽवस्थापनं धारणेत्युच्यते । प्रत्ययस्य ए-
कतानता (ए[^२]कविषयप्रवणता) विषयः प्रवाहः । स च द्विविधः । वि-
च्छिद्यविच्छिद्य जायमानः संततश्चेति । तावुभौ क्रमेण ध्यानसमाधी
भवतः । एतेनाष्टाङ्गयोगपरिपाको ब्रह्मसाक्षात्कारहेतुर्निदिध्यासन-
रूपत्वेनोक्तः । एवं ब्रह्मानन्दानुभवस्य कारणमुक्त्वा कार्यमाह ।
प्रहृष्यद्रोमाणः प्रकर्षेण पुलकिताङ्गाः । तथा प्रमदसलिलोत्सङ्गि-
तदृशः हर्षाश्रुपूर्णनेत्राः । एतदुभयं च यमिनामानन्दानुभवानुमाने
लिङ्गमुक्तम् । अत्र प्रशब्देनोत्सङ्गितशब्देन च लौकिकसुखापे-
क्षयाऽतिशयविशेषो व्यज्यते । यस्य च तत्त्वस्यालोकनमात्रे-
[^१] 'संबन्धद्वारेण धारणोक्ता' इति पाठः ।
[^२] 'एकतानतैकविषयः' इति पाठः।</p>
<pb n="58" />
<p>णाप्यन्ये परमाह्लादं बिभ्रति, तत्स्वयं परमाह्लादरूपं भवतीति
किमु वक्तव्यमित्युक्तम् । 'विज्ञानमानन्दं ब्रह्म' 'आनन्दो ब्रह्मेति
व्यजानात्' 'एष एव परम आनन्दः' 'यो वै भूमा तत्सुखं' 'कोह्यो-
वान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्' इत्याद्याः
श्रुतयश्चास्मिन्नर्थे प्रमाणत्वेन द्रष्टव्याः ॥ हरिपक्षेऽप्येवम् ॥ २५॥
एवमद्वितीये ब्रह्मणि परमानन्दरूपे सर्वात्मके विद्वदनुभवरूपं
प्रत्यक्षं प्रमाणमुक्तम् । अधुना तस्यैवाद्वितीयत्वं तर्केणापि साध-
यन्स्तौति—</p>
<lg>
  <l>त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-</l>
  <l>स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।</l>
  <l>परिच्छिन्नामेवं त्वयि परिणता विभ्रतु गिरं</l>
  <l>न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥२६॥</l>
</lg>
<p>त्वमर्क इति । हे वरद, परिणताः परिपक्वबुद्धयस्त्वयि विषये
एवं परिच्छिन्नामेवंप्रकारेण परिच्छिन्नत्वेन त्वां प्रतिपादयन्तीं गिरं
वाचं बिभ्रतु धारयन्तु नाम । केन रूपेण परिच्छिन्नमित्यत आह ।
त्वमर्क इत्यादिना । अत्र सर्वत्र त्वंशब्दो वाक्यालंकारार्थः । उश-
ब्दोऽवधारणे त्वमित्यनेन संबध्यते । चशब्दः समुच्चये । इतिशब्दः
समाप्तौ । अर्कादयः प्रसिद्धाः । आत्मा क्षेत्रज्ञो यजमानरूपः ।
एते चाष्टौ श्रीरुद्रमूर्तित्वेनागमप्रसिद्धा वक्ष्यमाणभवादिनामाष्टक-
सहिताश्चतुर्थ्यन्ता नमोन्ता अष्टौ मन्त्रा भवन्ति ते गुरूपदेशेन ज्ञा-
तव्याः । एतदष्टमूर्तित्वं चान्यत्राप्युक्तम्– 'क्षितिहुतवहक्षेत्रज्ञाम्भ:-
प्रभञ्जनचन्द्रमस्तपनवियदित्यष्टौ मूर्तीर्नमो भव बिभ्रते' इति ।
तेन सर्वात्मकमपि त्वामर्काद्यष्टमात्रमूर्ति वदन्तीत्यर्थः । अत्रापरि-
णता इत्यस्मिन्नर्थे परिणता इति सोपहासं विभ्रत्विति लोटाननुम-
तावप्यनुमतिप्रकाशनात्। तेन सर्वथानुचितमेवैतदित्यर्थः। बर्हि</p>
<pb n="59" />
<p>किमुचितं ज्ञात्वा त्वयेदमनुचितमुच्यत इत्यत आह । नेत्यादिना ।
हि यस्मात् इह जगति तत्तत्त्वं वस्तु वयं न जानीमो यद्वस्तु त्वं
न भवसि । त्वद्भिन्नमिति यावत् । अत्र स्वस्य प्रमाणकौशलेनो-
त्कर्षं ख्यापयितुं विद्म इति बहुवचनम् । वयं तु त्वदभिन्नत्वेनैव
युक्त्या सर्वं जानीम इत्यर्थः । एवं च तव सर्वात्मकत्वादर्कादि-
विशेषरूपाभिधानं व्यर्थमेव । तथा च श्रुतिः - 'इन्द्रं मित्रं वरुण-
मग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद्विप्रा बहुधा
वदन्त्यग्निं यमं मातरिश्वानमाहुः' 'एष उ ह्येव सर्वे देवाः' इति च
सर्वदेवभेदं वारयति । नहि सदतिरिक्तं किंचिदुपलभ्यते सद्रूपश्चा-
त्मा त्वमेवेति तर्केणापि सिद्धमद्वैतम् । नच सर्वस्य ब्रह्मरूपत्वे घटा-
दिज्ञानस्यापि ब्रह्मज्ञानस्वरूपत्वात्ततोऽपि मोक्षप्रसङ्ग इति वाच्यम् ।
अन्यानुपरक्तचैतन्यभावस्यैव मोक्षहेतुत्वात् । घटाद्याकारज्ञानस्य
चाविद्यापरिकल्पितान्योपरक्तचैतन्यविषयत्वात् । अन्योपरक्तचैत-
न्यस्य च सद्रूपेण चक्षुरादिविषयत्वेऽप्यन्यानुपरक्तसैतस्य न वे-
दान्तवाक्यमात्रविषयत्वव्याघातः । ननु सर्वस्य सन्मात्रत्वेऽपि ना-
द्वैतसिद्धिः । भिन्नानामपि सत्ताजातियोगेन सदाकारबुद्धिविषयत्व-
संभवात् । अन्यथा द्रव्यगुणकर्मादिभेदव्यवहारोऽपि न स्यादिति
चेन्न । द्रव्यं सद्गुणः सन्नित्यादिप्रतीतेर्द्रव्यत्वादिधर्मविशिष्टैकसन्मा-
त्रविषयत्वमेव न तु द्रव्यादिधर्मिषु भिन्नेषु सत्ताख्यधर्मविषयत्वम्,
धर्मिकल्पनातो धर्मकल्पनाया लघुत्वात् । एकस्मिन्नसति च सर्वा-
भिन्ने मायिकनानात्वप्रतीत्युपपत्तेः । द्वौ चन्द्रावित्यत्रेव न पारमा-
र्थिकभेदकल्पनावकाशः । तथाचायं प्रयोगः । अयं द्रव्यगुणादिभे-
दव्यवहारः सर्वभेदानुगतजात्यात्मकैकवस्तुमात्रावलम्बनः । भेदव्य-
वहारत्वाद्द्विचन्द्रभेव्यवहारवदिति । तस्मान्नाचेतनं सचेतनं वा
किंचिदपि परमात्मनो भिन्नमुपपद्यते । 'स एष इह प्रविष्टः' 'अ-
नेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि' इत्यादिश्रुत्या</p>
<pb n="60" />
<p>प्रवेष्टुरविकृतस्यैव जीवरूपेण प्रवेशप्रतिपादनात् । तथा 'इदं सर्वे
यदयमात्मा' इत्यादिश्रुत्या ब्रह्मैकोद्भवत्वब्रह्मसमान्यब्रह्मैकप्रलयत्वा-
दिहेतुभिरूर्णनाभ्यादिदृष्टान्तेनाकाशादिप्रपञ्चस्य ब्रह्मात्मकत्वप्रति-
पादनात् 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इति च
कण्ठत एवाद्वितीयत्वोक्तेः । एवं च सदाकारप्रत्यक्षमभेदव्यवहारत्व-
लिङ्गं सार्वात्म्यश्रुत्यन्यथानुपपत्तिश्चेति प्रमाणत्रयमुक्तम् । विस्तरेण
चात्र युक्तयो वेदान्तकल्पलतिकायामनुसंधेयाः । तस्मान्न विद्म
इत्यादिना साध्वेवोक्तमद्वितीयत्वम् ॥ हरिपक्षे तु । अर्कादिशब्देन
तत्तदवच्छिन्ना देवतात्मान उच्यन्ते । 'य एवासावादित्ये पुरुष एत-
देवाहं ब्रह्मोपासे' इत्यादिनाऽजातशत्रवे दृप्तबालाकिनोपदिष्टाः बृ-
हदारण्यके कौषीतकिब्राह्मणे च प्रसिद्धाः । परिच्छिन्नत्वादिदोषे -
णाब्रह्मत्वं चैषां तत्रैवाजातशत्रुणा प्रतिपादितम् । 'सहोवाचाजातश-</p>
<lg>
  <l>त्रुरेतावन्नून इत्येतावद्वृत्तिनैतावता तावद्विदितं भवति' इत्यादिना ।</l>
  <l>अन्यत्सर्वे समानम् ॥ २६ ॥</l>
</lg>
<p>एवं प्रत्यक्षानुमानार्थापत्तिभिरद्वितीयत्वं परमेश्वरस्य सर्वात्म-
कत्वेन प्रसाध्य तदेवागमेनापि साधयन्स्तौति — अथवा क्रमेण पूर्व-
श्लोकद्वये त्वंपदार्थं तत्पदार्थं च परिशोध्यानेन श्लोकेनाखण्डं
वाक्यार्थं वदन्स्तौति –
त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा-
नकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति ।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् २७
त्रयीमिति । हे शरणद आर्ताभयप्रद, ओमिति पदं त्वां
सर्वात्मानमद्वितीयं गृणाति अवयवशक्त्या समुदायशक्त्या च
प्रतिपादयति । अतएवोंकारस्यावयवशक्त्या वाक्यत्वेऽपि समु-</p>
<pb n="61" />
<p>दायशक्त्या पङ्कजादेरिव पदत्वमुपपन्नं योगरूढिस्वीकारात् ।
तदस्वीकारेऽपि 'सुप्तिङन्तं पदम्' इति वैयाकरणपरिभाषया
पदत्वं 'कृत्तद्धितसमासाश्च' इत्यनेन समासस्यापि प्रातिपदिकसं-
ज्ञाविधानात्सुबन्तत्वमुपपन्नमेव । कीदृशमोमिति पदम् । समस्तं
अकारोकारमकाराख्यपदत्रयकर्मधारयसमासनिष्पन्नम् । एतेन
समुदायशक्तिरुक्ता । तथा व्यस्तं भिन्नम् । अकार-उकार - मकारा-
ख्यस्वतन्त्रपत्रयात्मकमित्यर्थः । एतेनावयवशक्तिरुक्ता । इदं च
पदद्वयमभिधेयेऽपि योज्यम् । त्वां कीदृशम् । समस्तं सर्वात्मकं,
तथा व्यस्तमध्यात्माधिदैवादिभेदेन भिन्नतया प्रतीयमानम् ।
तथाच व्यस्तमोमिति पदं व्यस्तं त्वां गृणाति, समस्तमोमिति
पदं समस्तं त्वां गृणातीत्युक्तं भवति । एतदेव दर्शयति – त्रयी-
मित्यादिना । त्रयीं देवत्रयं, तिस्रो वृत्तयो जाग्रत्स्वप्नसुषुप्त्याख्या
अन्तःकरणस्यावस्थाः । एतच्च विश्वतैजसप्राज्ञानामप्युपलक्षणम् ।
त्रिभुवनं भूर्भुवःस्वः । एतदपि विराढिरण्यगर्भाव्याकृतानामुपल-
क्षणम् । त्रयः सुराः ब्रह्मविष्णुमहेश्वराः । एतच्च सृष्टिस्थितिप्रलया-
नामप्युपलक्षणम् । एतच्च सर्वमकाराद्यैस्त्रिभिर्वर्णैरभिदधदभिधावृ-
त्या प्रतिपादयद्व्यस्तमित्यर्थः । एवमत्र प्रकारः । ऋग्वेदो जाग्रदव-
स्था भूर्लोको ब्रह्मा चेति चतुष्टयमकारार्थः । तथा यजुर्वेदः
स्वप्नावस्था भुवर्लोको विष्णुश्चेति चतुष्टयमुकारार्थः । तथा साम-
वेदः सुषुप्त्यवस्था स्वर्लोको महेश्वरश्चेति चतुष्टयं मकारार्थः । इदं
माण्डूक्यनृसिंहतापनीयाथर्वशिखादावन्यदप्युक्तं गुरूपदेशाज्ज्ञात-
व्यम् । अतिरहस्यत्वान्नेह सविशेषमुच्यते । तस्मादध्यात्माधि-
दैवाधिभूताधिवेदाधियज्ञादियावदन्यत्रोक्तमस्ति तत्सर्वमत्रोपसं-
हर्तव्यं न्यूनतापरिहाराय । तथाच सर्वप्रपञ्चाकारेण व्यस्तं त्वां
अकारोकारमकारैर्व्यस्तमोमिति पदमभिदधत्त्वां गृणावीति सं-
बन्धः । तथा <flag>ती </flag> सर्वविकारातीतं तुरीयं अवस्था -</p>
<pb n="62" />
<p>त्रयाभिमानिविलक्षणं तव धाम स्वरूपं अखण्डचैतन्यात्मकम् ।
तवेति राहोः शिर इतिवद्भेदोपचारेण षष्ठी । अणुभिर्ध्वनि-
भिरवरुन्धानं स्वत उच्चारयितुमशक्यैरर्धमात्रायाः श्रुतोचारणवशेन
निष्पाद्यमानैः सूक्ष्मशब्दैरवबोधं कुर्वत्प्रापयत् । समुदायशक्त्या
बोधयदिति यावत् । अर्धमात्राया एकत्वेऽपि ध्वनिभिरिति
बहुवचनं प्लुतोच्चारणे चिरकालमनुवृत्तायास्तस्या अनेकध्वनिरू-
पत्वान्न विरुद्धम् । ध्वनीनां चाणुत्वाणुतरत्वाणुतमत्वादिकं गुरूपदे-
शादधिगन्तव्यम् । तथाचार्घमात्रारूपेण समस्तमोमिति पदं समुदाय -
शक्त्या सर्वविकारातीतं तुरीयं स्वरूपमभिधत् समस्तं त्वां गृणाती-
ति संबन्धः । एवं च पदार्थाभिधानमुखेनाखण्डवाक्यार्थसिद्धिरर्था-
दुक्ता । तथाहि स्थूलप्रपञ्चोपहितचैतन्यमकारार्थः, तत्र स्थूल-
प्रपञ्चांशत्यागेन केवलचैतन्यमकारेण लक्ष्यते । तथा सूक्ष्मप्रपञ्चो -
पहितचैतन्यमुकारार्थः, तत्र सूक्ष्मप्रपञ्चांशत्यागेनोकारेणोपलक्ष्यते ।
तथा स्थूलसूक्ष्मप्रपञ्चद्वयकारणीभूतमायोपहितचैतन्यं मकारार्थः,
तादृशमायांशपरित्यागेन मकारेण चैतन्यमात्रं लक्ष्यते । एवं तुरी-
यत्वसर्वानुगत्वोपहितचैतन्यमर्धमात्रार्थः तदुपाधिपरित्यागेनार्ध-
मात्रया चैतन्यमात्रं लक्ष्यते । एवं चतुर्णां सामानाधिकरण्यादभेदबो-
घे परिपूर्णमद्वितीयचैतन्यमात्रमेव सर्वद्वैतोपमर्देन सिद्धं भवति । लक्ष-
णया परित्यक्तानां चोपाधीनां मायातत्कार्यत्वेन मिथ्यात्वात्, स्वरूप -
बोधेन च स्वरूपाज्ञानात्मकमायातत्कार्यनिवृत्तेर्न पृथगवस्थानप्रसङ्गः।
नह्यधिष्ठानसाक्षात्कारानन्तरमापतध्यस्तमुपलभ्यते त्रय्यादीनां
वाक्यार्थबोधानुपयोगेप्युपासनायामुपयोगात्पृथगभिधानं द्रष्टव्यम् ।
तस्मात्सर्वं द्वितीयशून्यं प्रत्यगभिन्नं ब्रह्म प्रणववाक्यार्थ इति सिद्धम् ।
एतच्च सर्वेषां तत्त्वमस्यादिमहावाक्यानामुपलक्षणम् । तेषामपि प्रत्य-
गभिन्नपरिपूर्णाद्वितीयब्रह्मप्रतिपादकत्वात् । यथा च शब्दादपरोक्ष-</p>
<pb n="63" />
<p>निर्विकल्पकबोधोत्पत्तिस्तथा प्रपञ्चितमस्माभिर्वेदान्तकल्पलतिकाया-
मित्युपरम्यते ॥ हरिपक्षेप्येवम् ॥ २७ ॥
एवं तावदद्वितीयब्रह्मवाचकत्वेन प्रणव उपन्यस्तः, एतस्य चार्था-
नुसंधानं जपश्च समाधिसाधनत्वेन पतञ्जलिना सूत्रितः 'समाधिसि-
द्विरीश्वरप्रणिधानात्' इति । 'ईश्वरप्रणिधानाद्वा' इति सूत्रान्तरं 'तस्य-
वाचकः प्रणवः' 'तज्जपस्तदर्थभावनम्' इति सूत्राभ्यां प्रणवजपस्य
प्रणिधानशब्दार्थत्वेन व्याख्यानात् । श्रुतौ च 'एतदालम्बनं श्रेष्ठमे-
तदालम्बनं परम् । एतदालम्बनं ज्ञात्वा यो यदिच्छति तस्य तत् ॥'
इत्यादिना तस्य सर्वपुमर्थहेतुत्वमुक्तम् । एतस्य चातिदुरूहार्थत्वेन
स्त्रीशूद्राद्यनर्हत्वेन चासाधारणत्वात्सर्वसाधारणानि प्रसिद्धानि भग-
वद्वाचकानि पदानि जपार्थत्वेन वदन् स्तौति--
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां-
स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।
अमुष्मिन्प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मै धाम्ने प्रविहितनमस्योऽस्मि भवते २८
भव इत्यादि । हे शरणद, हे देव, इदं यदभिधानाष्टकं
नामाष्टकं अमुष्मिन्नभिधानाष्टके विषये प्रत्येकमेकैकशः । प्रतिना-
मेति यावत् । श्रुतिर्वेदः प्रविचरति प्रकर्षेण बोधकतया चरति ।
वर्तत इत्यर्थः । अपिशब्दात्स्मृतिपुराणागमादिकमपि । अथवा
प्रणव इवामुष्मिन्नपि श्रुतिः प्रविचरतीति योज्यम् । यद्यप्यष्टाध्याया-
र्थकाण्डे वह्निनामत्वेनैतानि समाम्नातानि तथापि वहेर्भगवद्वि-
भूतित्वात्तन्नामत्वेऽपि न भगवन्नामत्वव्याघातः । यद्वा अमुष्मिन्ना-
माष्टके देवानां ब्रह्मादीनामपि श्रुतिः श्रवणेन्द्रियं प्रविचरति साव-
धानतया वर्तते । देवा अपि त्वन्नामश्रवणोत्सुकाः किं पुनरन्य
इत्यर्थः । किं तन्नामाष्टकमित्यत आह । भव इत्यादि । महता
महच्छब्देन सह वर्तत इति सहमहान्महादेवः तथैवागमप्रसिद्धेः ।</p>
<pb n="64" />
<p>इतिशब्दः समाप्त्यर्थः । यस्य च नाममात्रमपि सर्वपुरुषार्थप्रदं स
पुनः स्वयं कीदृश इति भक्त्युद्रेकेण प्रणमति । प्रियायेत्यादिना ।
अस्मै स्वप्रकाशचैतन्यरूपत्वेन सर्वदा परोक्षाय भवते महेश्वराय ।
कीदृशाय । धाम्ने सर्वेषां शरणभूताय चिद्रूपायेति वा । यो-
ग्यमुपचारं किमपि कर्तुमशक्नुवन्नहं केवलं प्रविहितनमस्योऽस्मि
प्रकर्षेण वाङ्मनःकायव्यापारातिशयेन विहिता नमस्या नमस्क्रिया
येन स तथा । ( केवलं तुभ्यं कृतनमस्कारो भवामीत्यर्थः । )
प्रणिहितेति पाठेऽप्येवमेवार्थः ॥ हरिपक्षेऽप्येवम् । भवादीनां च
हरिनामत्वं योगवृत्त्या संभवत्येव सहस्रनामस्तुतिपठितत्वाच्चेति
द्रष्टव्यम् । अथवा यदिदमभिधानाष्टकं अमुष्मिन्प्रत्येकं देवश्रुतिरपि
देवशब्दोऽपि प्रविचरति संबद्धो भवति । तथा च भवदेव इत्यादिरूपं
तव रहस्यनामाष्टकमित्यर्थः । तथाच भवस्य रुद्रस्यापि देव आराध्य
इत्यर्थः । एवमन्येष्वपि नामसु द्रष्टव्यम् ॥ २८ ॥
एवं जातभक्त्युद्रेको नमस्कारमेवानुवर्तयन्दुरूहमहिमत्वेन
भगवन्तं स्तौति –</p>
<lg>
  <l>नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो</l>
  <l>नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।</l>
  <l>नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो</l>
  <l>नमः सर्वस्मै ते तदिदमितिसर्वाय च नमः ॥ २९ ॥</l>
</lg>
<p>नम इति । हे प्रियदव अभीष्टनिर्जनवनविहार, ते तुभ्यं नेदि-
ष्ठायात्यन्तनिकटवर्तिने, दविष्ठायात्यन्तदूरवर्तिने च नमोनमः ।
हे स्मरहर कामान्तक, क्षोदिष्ठाय क्षुद्रतराय महिष्ठाय महत्तराय
च तुभ्यं नमोनमः । तथा हे त्रिनयन त्रिनेत्र, वर्षिष्ठाय अतिवृद्धाय
वृद्धतरायेति वा यविष्ठाय युवतमाय च तुभ्यं नमोनमः । एवम-
त्यन्तविरुद्धस्वभावस्याल्पबुद्धिभिः कथमपि स्वरूपनिर्णयासंभवात्स-
र्वदा नमस्कार एव करणीय इति प्रदर्शनाय नमस्कारशब्दावृत्तिः ।</p>
<pb n="65" />
<p>तथाच श्रुति:-- 'दूरात्सुदूरे तदिहान्तिके च' 'अणोरणीयान्महतो
महीयान्' 'त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कु-
मारी । त्वं जीर्णो दण्डेनाञ्चसि त्वं जातो भवसि विश्वतोमुखः'
इत्यादि । तथा किंबहुना सर्वस्मै सर्वरूपाय तुभ्यं नमः । 'इदं सर्वे
यदयमात्मा' इति श्रुतेः । ननु तर्हि सर्वविकाराभिन्नत्वादिना-
शित्वप्रसङ्ग इत्याशङ्क्य, सर्वस्याध्यस्तत्वेन वास्तवभेदाभावात्सर्व
बाधाधिष्ठानत्वेन च श्रुतिषु सामानाधिकरण्येन व्यपदेशादद्विती-
यस्य ब्रह्मणो न विकारगन्धोऽपि संभाव्यत इत्यभिप्रायेण नम-
स्कुर्वन्नाह – तदिदमिति सर्वाय च नम इति । तत्परोक्षमिदमपरो-
क्षमित्यनेन प्रकारेणानिर्वाच्यं सर्वे यत्र स तदिदमितिसर्वस्तस्मै ।
बहुव्रीहावन्यपदार्थप्रधानत्वान्न सर्वनामता । तेन सर्वाधिष्ठानभूताय
तुभ्यं नम इत्यर्थः ॥ हरिपक्षेप्येवम् । केवलं संबोधनत्रयमन्यथा
व्याख्येयम् । प्रियाणि वैषयिकसुखानि वैराग्योद्बोधेन दुनोति
नाशयतीति प्रियदवः । तथाच स्मरो वासना तं हरति स्वभक्त्यु-
द्रेकेणेति स्मरहरः । तथा त्रयाणां लोकानां नयनवत्सर्वार्थावभासक-
स्त्रिनयन इति प्रागपि व्याख्यातम् ॥ २९ ॥
अधुना पूर्वोक्तसर्वार्थसंक्षेपेण नमस्कुर्वन्स्तुतिमुपसंहरति-</p>
<lg>
  <l>बहलरजसे विश्वोत्पत्तौ भवाय नमोनमः</l>
  <l>प्रचलतमसे तत्संहारे हराय नमोनमः ।</l>
  <l>जनसुखकृते सत्वोद्रिक्तौ मृडाय नमोनमः</l>
  <l>प्रमहसिपदे निस्त्रैगुण्ये शिवाय नमोनमः ॥ ३० ॥</l>
</lg>
<p>बहलेति । विश्वोत्पत्तौ विश्वोत्पत्तिनिमित्तं बहलं तमःसत्वा-
भ्यामधिकं रजो यस्य तस्मै उद्रिक्तरजसे भवत्यस्माज्जगदिति भवो
ब्रह्ममूर्तिस्तस्मै तुभ्यं नमोनमः । तथा तत्संहारे तस्य विश्वस्य संहा-
रनिमित्तं प्रबलं सत्वरजोभ्यामनभिभूतमुद्रिक्तं तमो यस्य तस्मै
हरतीति हरो रुद्रमूर्तिस्तस्मै नमोनमः । तथा जनानां सुखकृते</p>
<pb n="66" />
<p>सुखनिमित्तम् । कृतशब्दोऽव्ययो निमित्तवाची । सत्वस्योद्रिक्तावुद्रेके
रजस्तमोभ्यामाधिक्ये स्थितायेत्यर्थाल्लभ्यते । 'सत्वोद्रेके' इति
वा पाठः । अथवा सत्वोद्रिक्तौ सत्यां जनानां सुखं करोतीति
जनसुखकृत्तस्मै । यद्वा सुखस्य कृतं करणम् । भावे क्तः । तस्मिन्
तन्निमित्तम् । एवं व्याख्याने प्रक्रमभङ्गदोषो न भवति पूर्वपर्याय -
द्वये उत्तरपर्याये च सप्तम्यन्तनिमित्तनिर्देशात् । मृडयति सुखयति
मृडो विष्णुस्तस्मै । पालनस्यैवोद्देश्यत्वात्क्रमभङ्गेण पश्चान्निर्देशः ।
एवं गुणत्रयोपाधीनत्वान्निर्गुणं प्रणमति । प्रमहसिपदे निस्स्रैगुण्ये शि-
वाय नमोनमः निर्गतं त्रैगुण्यं यस्मात्तन्निस्स्रैगुण्यं तस्मिन्पदे पद-
नीये तत्पदप्राप्तिनिमित्तम् । कीदृशे । प्रमहसि प्रकृष्टं माययानभिभूतं
महो ज्योतिर्यस्मिंस्तत्तथा । सर्वोत्तमप्रकाशरूपत्रिगुणशून्यमोक्षनि-
मित्तमित्यर्थः । शिवाय निस्रैगुण्यमङ्गलस्वरूपाय 'शिवमद्वैतं च-
तुर्थं मन्यन्ते' इति श्रुतेः । प्रमहसि पदे स्थितायेति वा । हरिपक्षे-
प्येवम् ॥ ३० ॥
एवमस्तुत्यरूपेणैव भगवन्तं स्तुत्वा स्वसौद्धत्यपरिहारं 'मम
त्वेतां वाणीम्' इत्यत्रोपक्रान्तमुपसंहरन्नाह -</p>
<lg>
  <l>कृशपरिणति चेतः क्लेशवश्यं क्व चेदं</l>
  <l>क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः ।</l>
  <l>इति चकितममन्दीकृत्य मां भक्तिराधा-</l>
  <l>द्वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥ ३१ ॥</l>
</lg>
<p>हे वरद सर्वाभीष्टदेत्युपसंहारे योग्यं संबोधनम् । तव पाद-
योर्मद्वाक्यपुष्पोपहारं भक्तिराधात् त्वद्विषया रतिरर्पितवती । यथा
पुष्पाणि मधुकरेभ्यः स्वमकरन्दं प्रयच्छन्त्यन्येषामपि दूरात् गन्ध-
मात्रेण प्रमोदमादधति तथैतानि स्तुतिरूपाणि वाक्यानि भ-
क्तिरसिकेभ्यो भगवन्माहात्म्यवर्णनामृतरसं प्रयच्छन्त्यन्येषा-</p>
<pb n="67" />
<p>मपि श्रवणमात्रेणापि वस्तुस्वभाव्यात्सुखविशेषमाधतीति ध्वन-
यितुं ज्ञापयितुं वाक्यपुष्पत्वेन निरूपितम् । तथा च वाक्या-
न्येव पुष्पाणि तैरुपहारः पूजार्थमञ्जलिस्तमित्यर्थः । किं कृत्वा
आधादित्यनेन हेतुना चकितं भीतं स्तुतेर्निवर्तमानं माममन्दी-
कृत्य न मन्दममन्दं कृत्वा । बलात्स्तुतौ प्रवर्त्येत्यर्थः । तथा चान्य-
मत्या प्रवृत्तस्य मम स्खलितेऽपि क्षन्तव्यमित्यभिप्रायः । इतिशब्देन
सूचितं भयकारणमाह - कृशेत्यादिना । कृशा अल्पा परिणतिः परि-
पाको यस्य तत्तथा । अल्पविषयमित्यर्थः । तादृशं मम चेतश्चित्तं
ज्ञानं वा । तथा क्लेशानामविद्यास्मितारागद्वेषाभिनिवेशानां वश्यमाय -
तम् । सर्वदा रागद्वेषादिदोषसहस्रकलुषितमित्यर्थः । क्लेशेनातिप्रयत्नेन
वश्यमिति वा तेन त्वद्गुणवर्णनेऽत्यन्तायोग्यमित्यर्थः । गुणानां सीमा
संख्यापरिणामयोरियत्ता तामुल्लङ्घयितुं शीलं यस्याः सा गुणसीमो-
ल्लङ्घिनी शश्वदृद्धिः नित्या विभूतिः । तेनैतादृशदुर्वासनासहस्रकलु -
षितमित्यल्पविषयं मम मनः क्व, अनन्ता नित्या तव परमा विभूतिर्वा
क्व इत्यत्यन्तासंभावना मम भयहेतुरित्यर्थः । एतदवधारणे च तव
भक्तिरेव कारणमिति भक्तेरत्यन्तासंभावितफलदानेऽपि सामर्थ्यं
दर्शयति । यस्मादेवं तस्मात्सर्वापराधानविगणय्य परमकारुणिकेन
त्वया त्वद्विषया भक्तिरेव ममोद्दीपनीयेति वाक्यतात्पर्यार्थः ॥३१॥</p>
<lg>
  <l>असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे</l>
  <l>सुरतरुवरशाखा लेखनी पत्रमुर्वी ।</l>
  <l>लिखति यदि गृहीत्वा शारदा सार्वकालं</l>
  <l>तदपि तव गुणानामीश पारं न याति ॥३२॥</l>
</lg>
<lg>
  <l>असुरसुरमुनीन्द्रैरचिंतस्येन्दुमौले-</l>
  <l>र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।</l>
  <l>सकलगणवरिष्ठः पुष्पदन्ताभिधानो</l>
  <l>रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ॥ ३३ ॥</l>
</lg>
<pb n="68" />
<lg>
  <l>अहरहरनवद्यं धूर्जटे: स्तोत्रमेत-</l>
  <l>त्पठति परमभक्त्या शुद्धचित्त: पुमान्य: ।</l>
  <l>स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र</l>
  <l>प्रचुरतरधनायुः पुत्रवान्कीर्तिमांश्च ॥ ३४ ॥</l>
</lg>
<lg>
  <l>महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।</l>
</lg>
<lg>
  <l>अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ ३५॥</l>
  <l>दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः ।</l>
  <l>महिम्नस्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥३६॥</l>
  <l>इमे (३२–३६) श्लोकाः स्तोत्रान्तर्गताः सुगमाश्चेति सर्वं भद्रम् ॥</l>
</lg>
<lg>
  <l>हरिशंकरयोरभेदबोधो भवतु क्षुद्रधियामपीति यत्नात् ।</l>
  <l>उभयार्थतया मयेदमुक्तं सुधियः साधुतयैव शोधयन्तु ॥ १ ॥</l>
</lg>
<lg>
  <l>यत्नतो वक्रया रीत्या कर्तुं शक्यं विधान्तरम् ।</l>
  <l>यद्यपीह तथाप्येष ऋजुरध्वा प्रदर्शितः ॥ २ ॥</l>
</lg>
<lg>
  <l>श्लोकानुपात्तमिह न प्रसङ्गात्किंचिदीरितम् ।</l>
  <l>श्लोकोपात्तमपि स्तोकैरक्षरैः प्रतिपादितम् ॥ ३ ॥</l>
</lg>
<lg>
  <l>महिम्नाख्यस्तुतेर्व्याख्या प्रतिवाक्यं मनोहरा ।</l>
  <l>इयं श्रीमद्गुरोः पादपद्मयोरर्पिता मया ॥ ४ ॥</l>
</lg>
<lg>
  <l>टीकान्तरं कश्चन मन्दधीरितः सारं समुद्धृत्य करोति चेत्तदा ।</l>
  <l>शिवस्य विष्णोर्द्विजगोसुपर्वणामपि द्विषद्भावमसौ प्रपद्यते ॥ ५ ॥</l>
</lg>
<lg>
  <l>भूतिभूषितदेहाय द्विजराजेन राजते ।</l>
  <l>एकात्मने नमो नित्यं हरये च हराय च ॥ ६ ॥</l>
</lg>
<p>इति श्रीमत्परमहंसश्रीमद्विश्वेश्वरसरस्वतीचरणारविन्दमधुपश्रीमधु-
सुदनसरस्वतीविरचिता महिम्नस्तुतिव्याख्या संपूर्णा॥</p>
<pb n="69" />
<lg>
  <l>कुसुम[^१]दशननामा सर्वगन्धर्वराजः</l>
  <l>शिशुशशिधरमौलेर्देवदेवस्य दासः ।</l>
  <l>स खलु निजमहिम्नो भ्रष्ट एवास्य रोषा-</l>
  <l>त्स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्नः ॥ ३७ ॥</l>
</lg>
<lg>
  <l>सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं</l>
  <l>पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः ।</l>
  <l>व्रजति शिवसमीपं किंनरैः स्तूयमानः</l>
  <l>स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥ ३८ ॥</l>
</lg>
<lg>
  <l>आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् ।</l>
  <l>अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ॥ ३९ ॥</l>
</lg>
<lg>
  <l>इत्येषा वाङ्मयी पूजा श्रीमच्छंकरपादयोः ।</l>
  <l>अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ ४० ॥</l>
</lg>
<lg>
  <l>तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।</l>
  <l>यादृशोऽसि महादेव तादृशाय नमो नमः ॥ ४१ ॥</l>
</lg>
<lg>
  <l>एककालं द्विकालं वा त्रिकालं य पठेन्नरः ।</l>
  <l>सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ४२ ॥</l>
</lg>
<lg>
  <l>श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन</l>
  <l>स्तोत्रेण किल्बिषहरेण हरप्रियेण ।</l>
  <l>कण्ठस्थितेन पठितेन समाहितेन</l>
  <l>सुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३ ॥</l>
</lg>
<p>इति श्रीपुष्पदन्तविरचितं शिवमहिम्नस्तोत्रं संपूर्णम् ॥
[^१] महिम्नस्तुतेरेकत्रिंशच्लोका एव श्रीमधुसूदनसरस्वत्याख्ययतिवरैर्व्या-
ख्याताः । ततो द्वात्रिंशदादि षट्त्रिंशत्पर्यन्तं श्लोकान्संगृह्याग्रे व्याख्योपसंहारे
'इमे श्लोकाः स्तोत्रान्तर्गताः सुगमाश्चेति सर्वं भद्रं' इति लिखितमस्ति नाग्रे-
<flag>तनानिक्लोपटया</flag> तथापि लोकपाठमनुसृत्यास्माभिरत्र संगृहीतानीति शम्॥</p>
<pb n="70" />
<p>महिम्नस्तोत्रपद्यानामकारादिकोशः ।
20-
श्लोकाङ्कः । पृष्ठाङ्क:
पृष्ठाङ्कः
३२ अकाण्डब्रह्माण्ड
१० अजन्मानो लोकाः ६</p>
<p>३ अतीतः पन्थानं
३० अमुष्य त्वत्सेवा</p>
<p>२८ अयत्नादापाय</p>
<p>६१ असितगिरिसमं</p>
<p>३४ असिद्धार्था नैव
६२ असुरसुरमुनीन्द्र
६२ अहरहरनवयं
६३ आसमाप्तमिदं
६३ कुसुमदशननामा
६० कृशपरिणति
...
...
…..
...
...
...
...
...
...
***</p>
<p>६३ इत्येषा वाङ्मयी
६३ एककालं द्विकालं ४२
८ किमीहः किंकायः
"!"
...
.*.
...
...</p>
<p>ऋतौ सुप्ते जाग्रत्</p>
<p>४३ क्रियादक्षो दक्षः २१</p>
<p>...
१४ ५२ त्वमर्कस्त्वं सोमः
६२ दीक्षा दानं तपः
२५ ध्रुवं कश्चित्सर्व
५८ नमो नेदिष्टाय
४४ प्रजानाथं नाथ
६३ तव तत्त्वं न जानामि
७ तवैश्वर्यं यत्तत्
२६ तवैश्वर्यं यत्नात् १०</p>
<p>११ त्रयी सांख्यं योगः ...
५४ त्रयीं तिस्रो वृत्तीः
....
...
...
५९ बहलरजसे
५७ भवः शर्वो रुद्रः
५ मधुस्फीता वाचः
५० मनः प्रत्यक्चित्ते
१ महिम्नः पारं ते
३५ मही पादाघातात्
६२ महेशान्नापरो
२३ महोक्षः खदानं
३२ यदृद्धिं सुत्राम्णो
४८ स्मशानेष्वाक्रीडा
४६ स्खलावण्याशंसा
३९ हरिस्ते साहस्रं</p>
<p>इति महिनश्लोकानामकारादिवर्णक्रमकोशः ।
३८ रथः क्षोणी यन्ता
३७ वियद्यापी तारा
६३ श्रीपुष्पदन्तमुख
६३ सुरवरमुनिपूज्यं
श्लोकाङ्क:</p>
<p>...
...
...
BOD
...
...
...
...
...
...
...
...
...
...
...
...</p>
<p>0. Late Pt. Manmohan Shastri Collection Jammu. Digitized by eGang</p>
<pb n="71" />
<p>-</p>
<pb n="72" />
<p>-</p>
</body>
</text>
</TEI>