- - - - - - श्रीः । श्रीपुष्पदन्तविरचितं महिम्नस्तोत्रम् । मधुसूदनसरस्वतीकृतशिवविष्ण्वर्थकव्याख्यासहितम् । ॐनमः शिवाय । विश्वेश्वरं गुरुं नत्वा महिम्नाख्यस्तुतेरयम् । पूर्वाचार्यकृतव्याख्यासंग्रहः क्रियते मया ॥ १ ॥ एवं किलोपाख्यायते – कश्चित्किल गन्धर्वराजः कस्यचिद्राज्ञः प्रतिदिनं प्रमदवनकुसुमानि हरन्नासीत् । तज्ज्ञानाय शिवनिर्मा- ल्यलङ्घनेन मत्पुष्पचौरस्यान्तर्धानादिका सर्वापि शक्तिर्विनङ्क्ष्य- तीत्यभिप्रायेण राज्ञा शिवनिर्माल्यं पथि निक्षिप्तम् । तदप्रतिसंधाय च गन्धर्वराजस्तत्र प्रविशन्नेव कुण्ठितशक्तिर्बभूव । ततश्च शिवनिर्मा- ल्योल्लङ्घनेनैव ममैतादृशं वैक्लव्यमिति प्रणिधानेन विदित्वा परमकारु- णिकं भगवन्तं सर्वकामदं तमेव तुष्टाव । ननु स्तुतिर्नाम गुणकथनं, तच्च गुणज्ञानाधीनम्, अज्ञातस्य तस्य कथनासंभवात्, तथाच भगवतो गुणानामनन्तत्वेन ज्ञातुमशक्यत्वा- त्कथं तत्कथनरूपा स्तुतिरनुरूपा भवेत्, अननुरूपकथनं चोपहा- सायैवेति या शङ्का तदपनोदनव्याजेन स्वस्यानौद्धत्यं दर्शयन्नेव भगवन्तं स्तोतुमारभते— महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः । अथावाच्यः सर्वः स्वमतिपरिणामावधि गृण- न्ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ १ ॥ महिम्नः पारमिति। हे हर, सर्वाणि दुःखानि हरतीति हरः । योग्यं संबोधनम् । सर्वदुःखहरत्वेनैव प्रसिद्धोऽसि, न मम दुःखहरणे पृथग्व्यापारं करिष्यसीत्यभिप्रायः । हे सर्वदुःखहर, ते तव महिम्नः परं पारमवधिमविदुषः एतावानेव महिमेतीयत्तयाऽजानतः । कर्तृत्व- संबन्धे षष्ठी । अज्ञानत्कर्तृका स्तुतिर्यद्यसदृश्यननुरूपा । अयोग्येति यावत् । तत्तर्हि ब्रह्मादीनां सर्वज्ञानामपि गुणकथनरूपा गिरस्त्वयि विषयेऽवसन्नाः । अयोग्या एवेत्यर्थः। तैरपीयत्तयाऽज्ञानात् । इयत्ताया असत्वेन तदज्ञाने सार्वज्ञ्यव्याघातोऽपि न । सन्मात्रविषयत्वात्सर्वज्ञ- त्वस्य । अन्यथा भ्रान्तत्वप्रसङ्गात् । तथाच श्रीभागवते - 'विष्णोर्नु वी- र्यगणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसि' इति । अथेति पक्षान्तरे । यद्येवं ब्रूषे तर्हि स्वमतिपरिणामावधि स्वस्य मतिपरिणामो बुद्धिविषयता स एवावधिर्यत्रेति क्रिया- विशेषणम् । स्वबुद्ध्या यावद्विषयीकृतं तावद्गृणन् वाक्सृष्टिसा- फल्याय कथयन्सर्वोऽपि स्तोता अवाच्योऽनुपालम्भनीयः । 'सा वा- ग्यया तस्य गुणान्गृणीते करौ च तत्कर्मकरौ मनश्च । जिह्वा- ऽसती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः' इति च श्री- भागवतवचनात् । तर्हि 'नभः पतन्त्यात्मसमं पतत्रिणः' इति न्यायेन ममाप्येष परिकर आरम्भः स्तोत्रे स्तोत्रविषये निरपवादो- ऽखण्डनीयः । स्वबुद्ध्यनुसारेण योग्य इत्यर्थः । प्रथमार्धेन स्तु- तिनिराकरणव्याजेन सर्वदुरधिगममहिमत्वरूपा महती स्तुतिः कृता, उत्तरार्धेन स्तुतिसमाधानव्याजेन सर्वा स्तुतिरनुरूपेति महत्कौ- शलम् ॥ ॥ अन्यच्च गन्धर्वराजस्य महाकुशलत्वादेकेनैव श्लोकेन यथाश्रुति वक्ररीत्या च हरिशंकरयोः स्तुतिस्तयोरभेदज्ञानायाभि- प्रेता । तत्र हरपक्षे यथाश्रुति व्याख्यातं, हरिपक्षेऽपि तदेव योजनी- यम् । संबोधनपदं तु अहरेति । हरतीति हरः संहर्ता तद्विरुद्धोऽहरः । पालयितेत्यर्थः । अथवाऽहः अहो परम परा मा लक्ष्मीर्यस्येति तथा हे लक्ष्मीपते । लक्ष्मीपतित्वान्ममालक्ष्मीं स्वत एव नाशयिष्यसीति योग्यं संबोधनम् । यदि ते महिम्नः त्वन्महिमसंबन्धिनी त्वन्महिम- विषया स्तुतिः । गिरो महिम्न इति योजनापेक्षया ते स्तुतिरित्येव समीचीनम्, तत्तर्हि अवसन्नाऽल्पा असदृश्यननुरूपाप्यस्तु, नत्वन्य- देवतानामनल्पाऽनुरूपापि । अत्र हेतुगर्भं विशेषणम् । तव कीदृशस्य । ब्रह्मादीनां स्तावकानां गिरः स्तुतिरूपायाः पारं विदुषः । स्तोतुः श्रमं स्तुतेर्गुणदोषौ च जानत इत्यर्थः । सर्वदेवस्तुत्यत्वेन निरतिश- यसार्वज्ञ्येन च तवैव सर्वोत्कृष्टत्वादित्यभिप्रायः । स्तुतिफलं दर्शयन् स्वस्य विनयातिशयं दर्शयितुमाह । अथ स्वं त्वां अतिपरिणामावधि अतिक्रान्तो बुद्धिपरिपाकावधिः सीमा यत्र तादृशं यथा स्यात्तथा स्वशक्तिमतिक्रम्यापि गृणन्स्तुवन् सर्वोऽपि जनः अवाच्य आभिमु- ख्येन वाच्यः ।संभाषणीयस्त्वयेत्यर्थः । यस्मादेवं सर्वथैवानुगृह्यते त्वया स्तोता अतएव ममापि स्तोत्रे स्तुतिकर्त्रे एषः परिकरो नमस्कारा- दिप्रबन्धः । कीदृशः । अनिरपवादः न विद्यतेऽतिशयेनापवादो दूषणं यस्मात्स तथा । अहरिति वीप्सनीयम् । अहरहः सर्वदेत्यर्थः । यद्विष- यकस्तुतिकर्तृत्वेनान्योऽपि सर्वदा नमस्यः किमु वक्तव्यं स सर्वदा सर्वेषां नमस्यतरो भवतीति भगवति रत्यतिशयो व्यज्यते । एवं यस्यायोग्यापि स्तुतिः सान्निध्यफला तस्य योग्या स्तुतिः किं वा न करिष्यतीति ध्वनितम् । हरपक्षेऽप्येवम् । तत्र परम श्रेष्ठेति संबोधनम् ॥ १ ॥ पुनरप्यस्तुत्यत्वेनैव भगवन्तं स्तौति पूर्वोक्तं स्वस्य ब्रह्मादि- साम्यमुपपादयन्-- अतीतः पन्थानं तव च महिमा वाङ्मनसयो- रतव्द्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि । स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २॥ अतीत इति । पूर्वोक्तं संबोधनमावर्तनीयम् । तव महिमा सगुणो निर्गुणश्च वाङ्मनसयोः पन्थानं विषयत्वमतीतोऽतिक्रान्तः । चशब्दोऽवधारणे । अतीत एवेत्यर्थः । अनन्तत्वान्निर्धर्मकत्वाच्च । तथाच श्रुतिः 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति । वागविषयत्वे तत्र श्रुतेः प्रामाण्यं न स्यादित्याशङ्क्याह । यं श्रुतिरप्यपौरुषेय्यपि वेदवाणी चकितं भीतं यथा स्यात्तथा अभि- धत्ते तात्पर्येण प्रतिपादयति । सगुणपक्षे किंचिदप्ययुक्तं मा- भूदिति, निर्गुणपक्षे तु स्वप्रकाशस्यान्याधीनप्रकाशता मा भूदिति भयम् । केन प्रकारेण । अतद्व्यावृत्त्या सगुणपक्षे न तद्व्यावृत्तिरतद्व्या- वृत्तिस्तया । अभेदेनेत्यर्थः । 'सर्वं खल्विदं ब्रह्म' 'सर्वकर्मा सर्व- कामः' इत्यादिना सर्वाभेदेनैव भगवन्तं प्रतिपादयति न त्वेकैकशो महिमानं वदतीत्यर्थः । निर्गुणपक्षे तु न तत् अतत् । अविद्यातत्कार्या- त्मकमुपाधिद्वयमिति यावत् । तद्व्यावृत्त्या तत्परित्यागेन जहद[^१]जहल्लक्ष- णयेत्यर्थः । मायाविद्योपहितचैतन्यशक्तं तत्पदं तत्कार्यबुद्ध्याद्युपहि- तचैतन्यशक्तं त्वंपदमुपाधिभागत्यागेनानुपहितचैतन्यस्वरूपं स्व- प्रकाशमपि तदाकारवृत्तिमात्रजननेनाविद्यातत्कार्यनिवृत्त्या वोधय- तीवेति न तावता वाग्विषयत्वं मुख्यं तस्येत्यर्थः । अतएव स तादृशः सगुणो निर्गुणश्च महिमा कस्य स्तोतव्यः । कर्तरि पष्ठी । न केनापि स्तोतुं शक्य इत्यर्थः । सगुणस्य स्तोतव्यत्वाभावे हेतुमाह । कतिविधगुणः कतिविधा अनेकप्रकारा गुणा यत्र स तथा । अनन्त- त्वादेव न स्तुत्यर्ह इत्यर्थः । निर्गुणस्य स्तोतव्यत्वाभावे हेतुमाह— कस्य विषय इति । न कस्यापि विषयः निर्धर्मकत्वात् । अत एवाविष- यत्वान्न स्तुत्यर्ह इत्यर्थः। सगुणो ज्ञेयत्वेऽप्यनन्तत्वात् निर्गुणस्त्वेकरू- [^१] शक्त्युपस्थितार्थे किंचिदंशं परित्यज्य अवशिष्टार्थे लक्षणा जहजद- हल्लक्षणा --यथा तत्त्वमसीत्यादौ तत्त्वमिति पदोपस्थितयोः सर्वज्ञत्वकिंचि ज्ज्ञत्वांशयोः परित्यागपूर्वकं केवलचैतन्याभेदप्रतिपादनमित्याद्यूह्यम् पोऽपि ज्ञेयत्वाभावान्न स्तुत्यश्चेत्तर्हि स्वमतिपरिणामावधि गृणन्निति पूर्वोक्तं विरुद्धयेतेत्यत आह - पदे त्विति । अर्वाचीने नवीने भक्तानु- ग्रहार्थं लीलया गृहीते वृषभपिनाकपार्वत्यादिविशिष्टे रूपे कस्य विदुषो मनो न पतति नाविशति, कस वचो नाविशति । अपितु सर्वस्यापि मनो वचश्च विशतीत्यर्थः । तत्र हिरण्यगर्भस्यास्मदादेश्च सममेव स्तुतिक- र्तृत्वमिति न पूर्वापरविरोधः ॥ हरिपक्षेप्येवम् । अथवा यं अतद्व्यावृ- त्त्या कार्यप्रपञ्चभेदाच्चकितं भीतं मद्भिन्नत्वेन कार्यप्रपञ्चं मापश्यत्विति शङ्कमानं श्रुतिरभिधत्ते इति पूर्ववत् । अर्वाचीने पदे तु कमलकम्बु- कौमोदकीरथाङ्गकमलालयाकौस्तुभाद्युपलक्षिते नवजलधरश्याम- धामनि श्रीविग्रहे वैकुण्ठवर्तिनि वेणुवादनादिविविधविहारपरायणे गोपकिशोरे वा वृन्दावनवर्तिनि कस्य मनो नापतति, कस्य वचश्च नापतति । अपगता ततिर्विस्तारो यस्मात्तदपतति । संकुचितमि- त्यर्थः । तव श्रीविग्रहानुचिन्तने तद्गुणानुकथने च विषयान्तरपरि- त्यागेन विलीयमानावस्थं मनो वचश्चैकमात्रविषयतया संकुचितं भवति । तव श्रीविग्रहे एवासक्तं भवतीति भावः ॥ २ ॥ नन्वेवं स्तुत्यत्वेऽपि हरिहरयोः सर्वज्ञयोरनभिनवया स्तुत्या न मनोरञ्जनं तद्विना न तत्प्रसादस्तं विना न फलमिति पुनरपि स्तुतेर्वैयर्थ्ये प्राप्ते सार्थक्यं दर्शयन्स्तौति— मधुस्फीता वाचः परमममृतं निर्मितवत- स्तव ब्रह्मन्किं वागपि सुरगुरोर्विस्मयपदम् । मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन्पुरमथन बुद्धिर्व्यवसिता ॥ ३ ॥ मध्विति । हे ब्रह्मन् विभो, सुरगुरोर्ब्रह्मणोऽपि वाग्वाणी तव किं विस्मयपदं चमत्कारकारणं किम् । किंशब्द आक्षेपे । नेथर्त्यः । तत्र हेतुगर्भविशेषणमाह । तव कीदृशस्य । वाचो वेदलक्षणा निर्मितवतो निःश्वासवदनायासेनाविर्भावितवतः । कीदृशीः । मधुवत्स्फीताः माधु-. र्यादिशब्दगुणालंकारविशिष्टत्वेन मधुराः । तथा परमममृतं निरति- शयामृतवदत्यास्वाद्याम् । एतेनार्थगतमाधुर्यमुक्तम् । परमेश्वरवाचां शब्दार्थगतयोर्निरतिशयमाधुर्ययोरपि मिथस्तारतम्यं मध्वमृतश- ब्दाभ्यां द्योत्यते । अयं च वाचामुत्कर्षो महान् यत्र शब्दगुणालंका- रातिशयं विनार्थगुणालंकारातिशय इति यत्र हिरण्यगर्भस्य वाण्यपि न चमत्कारकारणं तत्र का वार्ताऽस्मदादिवाण्या इत्यर्थः । तर्हि किं स्तुत्येत्यते आह—मम त्वित्यादि । हे पुरमथन त्रिपुरान्तक, भवतो गुणकथनपुण्येन एतां स्वां वाणीं पुनामि निर्मलीकरोमीत्यभिप्रा- येणैतस्मिन्नर्थे स्तुतिरूपे मम बुद्धिर्व्यवसितोद्यता नतु स्तुतिकौशले- न त्वां रञ्जयामीत्यभिप्रायेणेत्यर्थः । वाङ्नैर्मल्येन मनोनैर्मल्यं नान्तरी- यकमिति स्तुतेः सार्थक्यमुक्तम् ॥ हरिपक्षेप्येवम् । मथ्यतेऽस्मिन्द- यादीति मथनं गोकुलम्, अथवा मथ्यन्ते आपोऽमृतार्थमिति मथनः क्षीरोदः पुरं मन्दिरं गोकुलं क्षीरोदो वा यस्येति पुरमथनसंबोध- नार्थः । सर्वमन्यत्समानम् । अथवा हे ब्रह्मन्, वाचः सर्वस्या अपि पर- मममृतं निरतिशयसारं निश्चयेन मितवतः सम्यगनुभूतवतः सुर- गुरोर्हिरण्यगर्भादिसर्वदेवतोपाध्यायस्य तव मधुस्फीता मधुरिम्णा व्याप्ता अन्तरा कटुत्वलेशेनापि रहिता वागपि वाग्देवता सरस्वत्यपि किं विस्मयपदम्। नेत्यर्थः । तस्या मद्वाचश्च महदन्तरमतिप्रसिद्धमेव । यद्यप्येवं तथापि त्वदिच्छयैव ममेयं प्रवृत्तिरित्याह-ममत्वेतामिति । निजगुणकथनपुण्येन ममत्वेतां ममत्वे वर्तमानां संसारसंसर्गकलु- षितां वाणीं वाचं । एतस्य स्तुतिकर्तुरिति शेषः । पुनामि निष्कलुषां क- रोमीत्येतस्मिन्नर्थे हे पुरमथन, भवतो बुद्धिर्व्यवसिता यतोऽतोनाय- त्तैव मम प्रवृत्तिरित्यर्थः । श्रुतिश्च भवति 'एष उ ह्येव साधु कर्म कार- यति तं यमेभ्यो लोकेभ्य उन्निनीषते एष उ एवासाधु कारयति यमधो निनीषते' इति । स्मृतिश्च'अज्ञो जन्तुरनीशोऽयमात्मनः सुख- दुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गे वा श्वभ्रमेव वा" इति । तेन परम- कारुणिकस्त्वं शरणागतवाणीपावनपुण्यहेतुस्तुतितत्परं लोकं कर्तुं स्वयमेव प्रयतमानो यया कयापि स्तुत्या प्रसीदसीत्यर्थः ॥ ३ ॥ एवं हरिहरयोः स्तुत्यत्वं सफलस्तुतिकत्वं च निरूप्य ये के- चित्पापीयांसस्तस्य सद्भावेऽपि विवदन्ते तान्निराकुर्वन्स्तौति - तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृ- त्त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु । अभव्यानामस्मिन्वरद रमणीयामरमणीं विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ ४ ॥ तवेति । हे वरद ईप्सितप्रद, यत्तव ऐश्वर्यं तद्विहन्तुं नि- राकर्तुं एके जडधियः केचिन्मन्दबुद्धयः व्याक्रोशीं विदधते । साक्षेपमुच्चैर्भाषणमाक्रोशस्तस्य व्यतिहारो व्याक्रोशी । अन्येन कर्तुमारब्धमन्यः करोति अन्येन चान्यः इति कर्मव्यतिहारः । व्याङ्पूर्वात्क्रोशेः 'कर्मव्यतिहारे णच् स्त्रियाम्' इति पाणिनि- स्मरणात् ततः स्वार्थे अञ् 'णचः स्त्रियामञ्' इति सूत्रात् । ततः स्त्रियां ङीप् । तां व्याक्रोशीमहमहमिकया कुर्वते यत्सर्वप्रमाणप्रमितं तदपि जिघांसन्तीति यत्तद्भ्यां मन्दबुद्धित्वं द्योतितम् । अतएव कर्त्र- भिप्राये क्रियाफले विदधातेरात्मनेपदम् । नहि तद्व्याक्रोशीविधानात्त- वैश्वर्यव्याघातः किंतु तेषामेवाधःपात इत्यर्थः । कीदृशं तवैश्वर्यम् । जगदुदयरक्षाप्रलयकृत् जगत आकाशादिप्रपञ्चजातस्योदयं सृष्टिं, रक्षां स्थितिं, प्रलयं संहारं च करोतीति तथा । अनेनानुमान- मुक्तम् । तच्च "अजन्मानो लोकाः" इत्यत्र व्यक्तं वक्ष्यते। तथा त्रयीवस्तु त्रय्याः त्रयाणां वेदानां तात्पर्येण प्रतिपाद्यं वस्तु "सर्वे वेदा यत्पदमा- मनन्ति" इति श्रुतेः । अनेनागमप्रमाणमुक्तम् । तथा गुणैः सत्वरजस्त- मोभिः ली(लयातै)लोपात्तैर्भिन्नासु पृथक्कृतासु । वस्तु वस्तुगत्या भेद इत्यर्थः । तिसृषु तनुषु ब्रह्मविष्णुमहेश्वराख्यासु मूर्तिषु व्यस्तं वि- विच्य न्यस्तम् । प्रकटीकृतमितियावत् । उपलक्षणं चैतत्सर्वेषामवतारा- णाम् । एतेन प्रत्यक्षं प्रमाणमुक्तम् । तेन सर्वप्रमाणप्रमितमित्यर्थः । की- दृशीं व्याक्रोशीम् । अस्मिन्नभव्यानां अस्मिंस्त्रैलोक्येऽपि नास्ति भव्यं भद्रं कल्याणं येषां तेऽभव्यास्तेषां रमणीयां मनोहरां वस्तुतस्त्वरमणी- ममनोहराम् । अमनोहरेऽपि मनोहरबुद्धिभ्रान्तिरभाग्यातिशयात्तेषा- मित्यर्थः ॥ हरिपक्षेप्येवम् । अथवा अस्मिंस्तवैश्वर्ये अभव्यानां मध्ये जडधियो जडमतेरत्यन्तमपकृष्टस्येत्यर्थः । तस्य वस्तुतोऽरमणीं व्या- क्रोशीं विहन्तुं एके मुख्या रमणीयां व्याक्रोशीं विदधत इत्यर्थः । जडधिय इत्येकवचनेन पूर्वपक्षिणस्तुच्छत्वम्, एक इति बहुवच- नेन सिद्धान्तिनामतिमहत्त्वं सूचितम् ॥ ४ ॥ ये त्वात्मप्रत्यक्षमपह्नुवते त्रयीं चान्यथा वर्णयन्ति, तेऽनुमानेनैव निराकार्याः । तच्चानुमानं क्षित्यादिकं सकर्तृकं कार्यत्वात् घटवदिति जगदुदयरक्षाप्रलयकृदित्यनेन सूचितम् । तत्र पूर्वश्लोकोक्तव्याक्रोशी- बीजप्रतिकूलतर्कमुद्भावयन्तः पूर्वपक्षिणो निराकुर्वन्स्तौति । अथवा कीदृशीं व्याक्रोशीं विदधत इत्याकाङ्क्षायां तां वदन्स्तौति - किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च । अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥ ५ ॥ किमिति । हे वरदेति पूर्वश्लोकात्संबोधनानुषङ्गः । त्वयि विषये कुतर्कस्तर्काभासः कांश्चिद्धतधियः कानपि दुष्टबुद्धीन् जगतो विश्व- स्यापि मोहायाऽन्यथाप्रतिपत्तये मुखरयति वाचालान्करोति । कीदृशे त्वयि । अतर्क्य तर्कागोचरमैश्वर्यं यस तस्मिन्सर्वतर्कागोचरे त्वयि यः कश्चित्तर्कः स्वातत्र्येणोपन्यस्यते स सर्वोप्याभास इत्यर्थः । प्रमा- णानां स्वगोचरशून्यत्वात्स्वागोचरे प्रामाण्याभावो युक्त एवेति भावः । कुतर्कमेवाह —किमीह इत्यादिना । स धाता परमेश्वरस्त्रिभुवनं सृजतीति सिद्धान्तमनूद्य तत्र दूषणमाह । खलु किंतु का ईहा चेष्टा यस्येति किमीहः । तथा कः कायः शरीरं कर्तृरूपं यस्येति किं- कायः । क उपाय: सहकारिकारणमस्येति किमुपाय: । क आधारो- ऽधिकरणमयेति किमाघार: । किमुपादानं समवायिकारणं भुवना- कारेण निष्पाद्यमस्येति किमुपादानः । सर्वत्र किंशब्द आक्षेपे । इति- शब्दः प्रकारार्थः । चशब्दः शङ्कान्तरसमुच्चयार्थः । कुलालो हि घटं कुर्वन्स्वशरीरेण व्याप्रियमाणेन चक्रभ्रमणादिचेष्टया सलिलसूत्राद्यु- पायेन चक्रादावाधारे मृदमुपादानभूतां घटाकारां करोति, एवं जग- त्कर्तापि वाच्यः । तथाच कुलालादिवदनीश्वर एवेत्यभिप्रायः । घटा- दिदृष्टान्तेन खलु क्षित्यादेः सकर्तृकत्वं साध्यते । तथाच घटादिकर्तरि कर्तृत्वौपयिकं यावद्दृष्टं क्षित्यादिकर्तर्यपि तावदवश्यं स्वीकर्तव्यम्, दृष्टान्तस्य तुल्यत्वात् । तथाचोभयतःपाशा रज्जुः । तदङ्गीकारेऽस्म- दादितुल्यत्वादनीश्वरत्वं तदनङ्गीकारे च कर्तृत्वानुपपत्त्याऽसिद्धिरेवे- त्येवंरूपः कुतर्क इत्यर्थः । सिद्धान्तं वदन्कुतर्कं विशिनष्टि-अनवसर दुःस्थः । नास्त्यवसरोऽवकाशोऽस्येत्यनवसरः, अतएव दुःस्थो दुष्ट- त्वेन स्थितः । विचित्रनानाशक्तिमायावशेन सर्वनिर्मातरि सर्वतर्का- गोचरे त्वयि नास्ति कुतर्कावसर इत्यर्थः । तथाचोक्तम्- 'अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्' इति । नच घटादिकर्तरि याव- दृष्टं तावत्क्षित्यादिकर्तर्यपि साधनीयम्, व्याप्तिं विना सामानाधि- करण्यमात्रस्यासाधकत्वात् । अन्यथा महानसे धूमवह्न्योर्व्याप्तिग्रह- णसमये एव व्यञ्जनादिमत्त्वमपि दृष्टमिति पर्वतादावपि तदनुमानं स्यात् । तस्मात्साधर्म्यसमा जातिरेषा । स्वव्याघातकत्वादनुत्तरम् । पराक्रान्तं चात्र सूरिभिरित्युपरम्यते । हरिपक्षेऽप्येवम् ॥ ५ ॥ एवं प्रतिकूलतर्कं परिहृत्यानुकूलतर्कमुद्भावयन्स्तौति— अजन्मानो लोकाः किमवयववन्तोऽपि जगता- मधिष्ठातारं किं भवविधिरनादृत्य भवति । अनीशो वा कुर्याद्भुवनजनने कः परिकरो यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६॥ अजेति । हे अमरवर सर्वदेवश्रेष्ठ, अवयववन्तोऽपि सावयवा अपि लोकाः क्षित्यादयः किमजन्मानो जन्महीनाः । किंशब्द आक्षेपे । तेन न जन्महीनाः किंतु जन्या एवेत्यर्थः । तेन सावयवत्वेन क्षित्यादेर्न जन्यत्वहेतोरसिद्धत्वम् । 'यावद्विकारं तु विभागो लोकवत्' इति न्यायात् स्वसमानसत्ताकभेद प्रतियोगित्वेनैव जन्यत्वनियमाच्च । तथा जगतां क्षित्यादीनां भवविधिरुत्पत्तिक्रियाऽधिष्ठातारं कर्तारमनादृत्या- नपेक्ष्य किं भवति । अपेक्ष्यैव भवतीत्यर्थः । तेन कार्यत्वसकर्तृकत्वयो- रव्यभिचारान्नानैकान्तिकत्वं हेतोः । तथानीशो वा ईश्वरादन्यो वा यदि कुर्यात्तर्हि भुवनजनने कः परिकरः का सामग्री । अनीश्वरस्य स्वशरीररचनामप्यजानतो विचित्रचतुर्दशभुवनरचनाऽसंभवादीश्वर एव रचनां करोतीत्यर्थः । परिकरमिति पाठे को वानीश्वरो भुवन- जनने परिकरमारम्भं कुर्यात् । अपित्वीश्वर एव कुर्यादित्यर्थः । एते- नार्थान्तरता परिहृता । एवमनुमानदोषानुद्धृत्य शङ्कितदोषान्तरं नि- राकुर्वन्नुपसंहरति—यत इति । यत एवं सर्वप्रमाणसिद्धस्त्वं, अतस्ते मन्दा मूढा नतु विद्वांसः इमे ये त्वां प्रति संशेरते संदेहवन्तः कि- मुत विपर्ययवन्त इत्यर्थः। 'जन्माद्यस्य यतः' इति न्यायेन 'यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंवि- शन्ति । तद्ब्रह्म' 'आनन्दो ब्रह्मेति व्यजानात्' इत्यादिश्रुतिरेव परमे- श्वरे प्रमाणम् । अनुमानं त्वनुकूलतर्कमात्रं श्रुतेर्न स्वातन्त्र्येण प्रमा- णमिति द्रष्टव्यम् । हरिपक्षेऽप्येवम् ॥ ६ ॥ एवं तावत्प्रतिकूलतर्कं परिहृत्य भगवद्विमुखान्निरस्य सर्वेषां शास्त्रप्रस्थानानां भगवत्येव तात्पर्यं साक्षात्परम्परया वेति वदन्स्तौति -- त्रयीसांख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च । रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७ ॥ त्रयीति । हे अमरवर, नाना संकीर्णाः पन्थानः नानापथाः ऋज- वश्च कुटिलाश्च ऋजुकुटिलाः ऋजुकुटिलाश्च ते नानापथाश्चेति ऋजुकुटिलनानापथास्ताञ्जुषन्ते भजन्तीति तथा तेषां नृणामधि- कार्यनधिकारिसाधारणानां तत्तत्साधनानुष्ठानैः साक्षात्परम्परया वा त्वमेवैको गम्यः प्राप्यः नत्वन्यः कश्चिदित्यर्थः । अत्र दृष्टान्तमाह- पयसामर्णव इव । यथा ऋजुपथजुषा गङ्गानर्मदादीनां साक्षादेव स- मुद्रः प्राप्यः, यथा वा कुटिलपथजुषां यमुनासरय्वादीनां गङ्गादिप्र- वेशद्वारा परंपराया, एवं वेदान्तवाक्यश्रवणमननादिनिष्ठानां साक्षात्त्वं प्राप्यः,अन्येषां त्वन्तःकरणशुद्धितारतम्येन परम्परया त्वमेव प्राप्यः । चेतनत्वेनैव मोक्षयोग्यत्वात्परमात्माभ्युपगमाच्चेत्यर्थः । ननु ऋजु- मार्गे सति तं विहाय किमिति कुटिलमार्गं भजन्ते ऋजुमार्गस्यैव शीघ्रफलदायित्वादित्यत आह । प्रभिन्ने प्रस्थाने इदं परं पथ्यं अदः परं पथ्यमिति च रुचीनां वैचित्र्यात्तस्मिंस्तस्मिञ्शास्त्रप्रस्थाने इदमेव श्रेष्ठमिदमेव मम हितमितीच्छाविशेषाणामनेकप्रकारत्वात् प्राग्भवी- यतत्तत्कर्मवासनावशेव ऋजुत्वकुटिलत्वेनिश्चयासामर्थ्यात्कुटिलेऽपि ऋजुभ्रान्त्या प्रवर्तन्त इत्यर्थः । प्रस्थानभेदमेव दर्शयति । त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति । सर्वशास्त्रोपलक्षणमेतत् । तथाहि त्रयीशब्देन वेदत्रयवाचिना तदुपक्षिता अष्टादश विद्या अप्यत्र विवक्षिताः । तत्र ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद इति वेदाश्च - त्वारः । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति वेदा- ङ्गानि षट् । पुराणानि न्यायो मीमांसा धर्मशास्त्राणि चेति चत्वार्यु - पाङ्गानि । अत्रोपपुराणानामपि पुराणेष्वन्तर्भावः । वैशेषिकशास्त्रस्य न्याये, वेदान्तशास्त्रस्य मीमांसायां, महाभारतरामायणयोः सांख्य- पातञ्जलपाशुपतवैष्णवादीनां च धर्मशास्त्रेष्विति मिलित्वा चतुदर्श विद्याः। तथाचोक्तम् 'पुराणन्यायमीमांसाधर्मशास्त्राङ्ग मिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश' इति । एता एव चतुर्भिरुपवेदैः सहिता अष्टादश विद्या भवन्ति । आयुर्वेदो धनुर्वेदो गान्धर्ववेदोऽर्थ- शास्त्रं चेति चत्वार उपवेदाः । ता एता अष्टादश विद्यास्त्रयी सांख्यमि• त्यनेनोपन्यस्ताः।अन्यथा न्यूनताप्रसङ्गात् । सर्वेषां चास्तिका नामेताव- न्त्येव शास्त्रप्रस्थानानि । अन्येषामप्येकदेशिनामेष्वेवान्तर्भावात् । ननु नास्तिकानामपि प्रस्थानान्तराणि सन्ति तेषामेतेष्वनन्तर्भावात्पृथग्ग- णयितुमुचितानि । तथाहि शून्यवादेनैकं प्रस्थानं माध्यमिकानाम् । क्ष- णिकविज्ञानमात्रवादेनापरं योगाचाराणाम् । ज्ञानाकारानुमेयक्षणिक- बाह्यार्थवादेनापरं सौत्रान्तिकानाम् । प्रत्यक्षस्वलक्षणक्षणिकबाह्यार्थ- वादेनापरं वैभाषिकानाम् । एवं सौगतानां प्रस्थानचतुष्टयम् । तथा दे- हात्मवादेनैकं प्रस्थानं चार्वाकाणाम् । एवं देहातिरिक्तदेहपरिणामा त्मवादेन द्वितीयं प्रस्थानं दिगम्बराणाम् । एवं मिलित्वा नास्तिकानां षट् प्रस्थानानि तानि कस्मान्नोच्यन्ते । सत्यम् । वेदबाह्यत्वात्तु तेषां म्लेच्छादिप्रस्थानवत्परम्परयापि पुरुषार्थानुपयोगित्वादुपेक्षणीयत्वमे- व । इह च साक्षाद्वा परम्परया वा पुमर्थोपयोगिनां वेदोपकरणानामेव प्रस्थानानां भेदो दर्शितोऽतो न न्यूनत्वशङ्कावकाशः ॥ अथ संक्षेपे- णैषां प्रस्थानानां स्वरूपभेदहेतुः प्रयोजनभेद उच्यते बालानां व्यु- त्पत्तये । तत्र धर्मब्रह्मप्रतिपादकमपौरुषेयं प्रमाणवाक्यं वेदः । स च मन्त्रब्राह्मणात्मकः। तत्र मन्त्रा अनुष्ठानकारणभूतद्रव्यदेवताप्रकाशकाः। तेऽपि त्रिविधाः ऋग्यजुःसामभेदात् । तत्र पादबद्धगायत्र्यादिच्छ- न्दोविशिष्टा ऋचः 'अग्निमीळे पुरोहितम्' इत्याद्याः । ता एव गीति- विशिष्टाः सामानि। तदुभयविलक्षणानि यजूंषि । 'अग्नीदग्नीन्विहर' इत्यादिसंबोधनरूपा निगदसंज्ञामन्त्रा अपि यजुरन्तर्भूता एव । तदेवं निरूपिता मन्त्राः ॥ ब्राह्मणमपि त्रिविधम् । विधिरूपम्, अर्थवादरूपम्, तदुभयविलक्षणं च । तत्र शब्दभावना विधिरिति भाट्टाः । नियोगो विधिरिति प्राभाकराः । इष्टसाधनता विधिरिति तार्किकादयः । सर्वो विधिरपि चतुर्विधः । उत्पत्यधिकारविनियो- गप्रयोगभेदात् । त[^१]त्र देवताकर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः 'आग्नेयोऽष्टाकपालो भवति' इत्यादिः । सेतिक[^२]र्तव्यताकस्य करणस्य यागादेः फलसंवन्धबोधको विधिरधिकारविधिः 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इत्यादिः । अङ्गसंबन्धबोधको विधिर्विनियोग- विधिः 'व्रीहिभिर्यजेत', 'समिधो यजति' इत्यादिः । साङ्गप्रधानक- र्मप्रयोगैक्यबोधकः पूर्वविधित्रयमेलनरूपः प्रयोगविधिः । सच श्रौत इत्येके । काल्प इत्यपरे ॥ कर्मस्वरूपं च द्विविधम् । गुणकर्म अर्थकर्म च । तत्र ऋतुकारकाण्याश्रित्य विहितं गुणकर्म । तदपि चतुर्विधम् । उत्पत्त्याप्तिविकृतिसंस्कृतिभेदात् । तत्र 'वसन्ते ब्राह्म- णोऽग्नीनादधीत', 'यूपं तक्षति' इत्यादावाधानतक्षणादिना संस्का- रविशेषविशिष्टाग्नियूपादेरुत्पत्तिः । 'स्वाध्यायोऽध्येतव्यः,' 'गां पयो दोग्धि' इत्यादावध्ययनदोहनादिना विद्यमानस्यैव स्वाध्यायपयः- प्रभृतेः प्राप्तिः । 'सोममभिषुणोति', 'व्रीहीनवहन्ति', 'आज्यं विला- पयति' इत्यादावभिषवावघातविलापनैः सोमादीनां विकारः । 'व्रीही- न्प्रोक्षति', 'पत्न्यवेक्षते' इत्यादौ प्रोक्षणावेक्षणादिभिर्व्रीह्यादिद्रव्याणां संस्कारः। एतच्चतुष्टयं चाङ्गमेव । तथा क्रतुकारकाण्यनाश्रित्य विहि- तमर्थकर्म । तच्च द्विविधम् अङ्गं प्रधानं च । अन्यार्थमङ्गम् । अनन्यार्थं प्रधानम् । अङ्गमपि द्विविधं संनिपत्योपकारकमारादुपकारकं च । तत्र [^१] 'तत्र कर्मस्वरूप' इति पाठः । [^२] 'इतिकर्तव्यताकरणस्य' इति पाठः । प्रधानस्वरूपनिर्वाहकं प्रथमं यथाऽवहननप्रोक्षणादिफलोपकारि । द्वि- तीयं यथा प्रयाजादि । एवं संपूर्णाङ्गसंयुक्तो विधिः प्रकृतिः । विकला- ङ्गसंयुक्तो विधिर्विकृतिः। तदुभयविलक्षणो विधिर्दर्वीहोमः । एवमन्य- दप्यूह्यम् । तदेवं निरूपितो विधिभागः । प्राशस्त्यनिन्दान्यतरलक्ष- णया विधिशेषभूतं वाक्यमर्थवादः । सच त्रिविधः । गुणवादोऽनुवादो भूतार्थवादश्चेति । तत्र प्रमाणान्तरविरुद्धार्थबोधको गुणवादः 'आ- दित्यो यूपः' इत्यादिः । प्रमाणान्तरप्राप्तार्थबोधकोऽनुवादः 'अग्नि- र्हिमस्य भेषजम्' इत्यादिः । प्रमाणान्तरविरोधतत्प्राप्तिरहितार्थबो- धको भूतार्थवादः 'इन्द्रो वृत्राय वज्रमुदयच्छत्' इत्यादिः । तदु- क्तम् – 'विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्त- द्धानादर्थवादस्त्रिधा मतः' इति । तत्र त्रिविधानामप्यर्थवादानां विधिस्तुतिपरत्वे समानेऽपि भूतार्थवादानां स्व[^१]तःप्रामाण्यम् । देव- ताधिकरणन्यायात् । अबाधिताज्ञातार्थज्ञापकत्वं हि प्रामाण्यम् । तच्च बाधितविषयत्वाज्ज्ञापकत्वाच्च न गुणवादानुवादयोः । भूता- र्थवादस्य तु स्वार्थे तात्पर्यरहितस्याप्यौत्सर्गिक प्रामाण्यं न विह- न्यते । तदेवं निरूपितोऽर्थवादभागः । विध्यर्थवादोभयविलक्षणं तु वेदान्तवाक्यम् । तच्चाज्ञातज्ञापकत्वेऽप्यनुष्ठानाप्रतिपादकत्वान्न विधिः । स्वतः पुरुषार्थपरमानन्दज्ञानात्मकब्रह्मणि स्वार्थे उपक्रमोप- संहारादिषड्विधतात्पर्यलिङ्गवत्तया स्वतःप्रमाणभूतं सर्वानपि विधी- नन्तःकरणशुद्धिद्वारा स्वशेषतामापादयदन्यशेषत्वाभावाच्च नार्थ- वादः। तस्मादुभयविलक्षणमेव वेदान्तवाक्यम् । तच्च क्वचिदज्ञातज्ञा- पकत्वमात्रेण विधिरिति व्यपदिश्यते । विधिपदरहितमपि प्रमाण- वाक्यत्वेन च क्वचिद्भूतार्थवाद. इति व्यवहियत इति न दोषः । तदेवं त्रिविधं निरूपितं ब्राह्मणम् ॥ एवं च कर्मकाण्डब्र- ह्मकाण्डात्मको वेदो धर्मार्थकाममोक्षहेतुः । स च प्रयोगत्रयेण [^१] 'स्वार्थेऽपि' इति पाठः । यज्ञनिर्वाहार्थमृग्यजुःसामभेदेन भिन्नः । तत्र हौत्रप्रयोग ऋग्वेदेन, आध्वर्यवप्रयोगो यजुर्वेदेन, औद्गात्रप्रयोगः सामवेदेन । ब्राह्मयाज- मानप्रयोगौ त्वत्रैवान्तर्भूतौ अथर्ववेदस्तु यज्ञानुपयुक्तोऽपि शान्ति- कपौष्टिकाभिचारिकादिकर्मप्रतिपादकत्वेनात्यन्तविलक्षण एव । एवंच प्रवचनभेदात्प्रतिवेदं भिन्ना भूयसः शाखाः । एवंच कर्मकाण्डे व्या- पारभेदेऽपि स[^१]र्वासां वेदशाखानामेकरूपकत्वमेव ब्रह्मकाण्डमिति चतुर्णां वेदानां प्रयोजनभेदेन भेद उक्तः ॥ अथाङ्गानामुच्यते । तत्र शिक्षाया उदात्तानुदात्तस्वरितह्रस्वदीर्घप्लुतादिविशिष्टस्वरव्यञ्जना- त्मकवर्णोच्चारणविशेषज्ञानं प्रयोजनम् । तदभावे मन्त्राणामनर्थक- फलत्वात् । तथा चोक्तम् – "मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथे- न्द्रशत्रुः स्वरतोऽपराधात्" इति । तत्र सर्ववेदसाधारणी शिक्षा 'अथ शिक्षां प्रवक्ष्यामि' इत्यादिन[^२]वखण्डात्मिका पाणिनिना प्रकाशिता । प्रतिवेदशाखं च भिन्नरूपाः प्रातिशाख्यसंज्ञिता अन्यैरेव मुनिभिः प्रदर्शिताः । एवं वैदिकपदसाधुत्वज्ञानेनोहादिकं व्याकरणस प्रयोज- नम् । तच्च 'वृद्धिरादैच्' इत्याद्यध्यायाष्टकात्मकं महेश्वरप्रसादेन भगवता पाणिनिनैव प्रकाशितम् । तत्र कात्यायनेन मुनिना पा- णिनीयसूत्रेण वार्तिकं विरचितम् । तद्वद्वार्तिकोपरि च भगवता प तञ्जलिना महाभाष्यमारचितम् । तदेतत्रिमुनिव्याकरणं वेदाङ्ग- माहेश्वरमित्याख्यायते । कौमारादिव्याकरणानि तु न वेदाङ्गानि किंतु लौकिकप्रयोगमात्रज्ञानार्थानीत्यवगव्यम् गन्तव्यम् । एवं शिक्षाव्या- करणाभ्यां वर्णोच्चारणे पदसाधुत्वे च ज्ञाते वैदिकमन्त्रपदानामर्थ- ज्ञानाकाङ्क्षायां तदर्थं भगवता यास्केन 'समाम्नायः समाम्नतः (स व्या- ख्यातव्यः )' इत्यादि त्रयोदशाध्यायात्मकं निरुक्तमारचितम् । तत्र च नामाख्यातनिपातोपसर्गभेदेन चतुर्विधं पदजातं निरूप्य वैदि- [^१] 'सर्वात्मना' इति पाठः। [^२] ’पञ्चखण्डात्मिका’ इति पाठः। कमन्त्रपदानामर्थः प्रदर्शितः । मन्त्राणां चानुष्ठेयार्थप्रकाशनद्वारेणैव करणत्वात्, पदार्थज्ञानाधीनत्वाच्च वाक्यार्थज्ञानस्य मन्त्रस्थपदा- र्थज्ञानाय निरुक्तमवश्यमपेक्षितम् । अन्यथानुष्ठानासंभवात् 'सृण्येव जर्भरी तुर्फरीतून' इत्यादीनामतिदुरूहाणां प्रकारान्तरेणार्थज्ञानस्यासं- भावनीयत्वाच्च । एवं निघण्ट्वादयोऽपि वैदिकद्रव्यदेवतात्मक पदार्थप - र्यायशब्दात्मका निरुक्तान्तर्भूता एव । तत्रापि निघण्टुसंज्ञकः पञ्चा- ध्यायात्मको ग्रन्थो भगवता यास्केनैव कृतः । अन्येप्यमरहेमचन्द्रा- दिप्रणीताः कोषाः सर्वे निघण्टुरूपत्वेन निरुक्तान्तर्गता द्रष्टव्याः । एवमृङ्मन्त्राणां पादबद्धच्छन्दोविशेषविशिष्टत्वात्तदज्ञाने च निन्दा- श्रवणाच्छन्दोविशेषनिमित्तानुष्ठानविशेषविधानाच्च छन्दोज्ञानाका- ङ्क्षायां तत्प्रकाशनाय 'धीश्रीस्त्रीम्' इत्याद्यष्टाध्यायात्मिका छन्दोवि- चितिर्भगवता पिङ्गलनागेन विरचिता । तत्र 'अथ लौकिकम्' इत्यन्तेनाध्यायत्रयेण गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगतीति सप्त छन्दांसि सर्वाणि सावान्तरभेदानि प्रसङ्गान्निरूपितानि । 'अथ लौकिकम्' इत्यारभ्याध्यायपञ्चकेन पुराणेतिहासादावुपयोगीनि लौकिकानि छन्दांसि प्रसङ्गान्निरूपितानि व्याकरणे लौकिकपद- निरूपणवत् । एवं वैदिककर्माङ्गदर्शादिकालज्ञानाय ज्योतिषं भग- वतालगधेन गर्गादिभिश्च प्रणीतं बहुविधमेव । एवं शाखान्तरीय- गुणोपसंहारेण वैदिकानुष्ठानक्रमविशेषज्ञानाय कल्पसूत्राणि । तानि च प्रयोगत्रयभेदास्त्रिविधानि । तत्र हौत्रप्रयोगप्रतिपादकान्याश्वला- यनसांख्यायनादिप्रणीतानि । आध्वर्यवप्रयोगप्रतिपादकानि बौधाय- नापस्तम्बकात्यायनादिप्रणीतानि । औद्गात्रप्रयोगप्रतिपादकानि तु लाट्या[^१]यनत्रीयायणादिभिः प्रणीतानि । एवं निरूपितः षण्णामङ्गानां प्रयोजनभेदः ॥ चतुर्णामुपाङ्गानामधुनोच्यते । तत्र सर्गप्रतिसर्गवंशम- न्वन्तरवंशानुचरितप्रतिपादकानि भगवता बादरायणेन कृतानि पुरा- [^१] 'लाह्यायनद्राह्मायणादिभिः' इति पाठः । णानि तानि च ब्राह्मं पाद्मं वैष्णवं शैवं भागवतं नारदीयं मार्कण्डेयं आ- ग्नेयं भविष्यं ब्रह्मवैवर्तं लैङ्गं वाराहं स्कान्दं वामनं कौर्मं मात्स्यं गारुडं ब्रह्माण्डं चेत्यष्टादश । एवमुपपुराणान्यप्यनेकप्रकाराणि द्रष्टव्यानि ॥ न्याये आन्वीक्षिकी पञ्चाध्यायी गौतमेन प्रणीता । प्रमाणप्रमेयसं- शयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वा- भासच्छलजातिनिग्रहस्थानाख्यानां षोडशपदार्थानामुद्देशलक्षणप- रीक्षाभिस्तत्त्वज्ञानं तस्याः प्रयोजनम् । एवं दशाध्यायं वैशेषिकशास्त्रं कणादेन प्रणीतम् । द्रव्यगुणकर्म सामान्य विशेषसमवायानां षण्णां भावपदार्थानामभावसप्तमानां साधर्म्यवैधर्म्याभ्यां व्युत्पादनं तस्य प्रयोजनम् । एतदपि न्यायपदेनोक्तम् ॥ एवं मीमांसापि द्विविधा । कर्ममीमांसा शारीरकमीमांसा च । तत्र द्वादशाध्यायी कर्ममीमांसा 'अथातो धर्मजिज्ञासा' इत्यादिः 'अन्वाहार्ये च दर्शनात्' इत्यन्ता भगवता जैमिनिना प्रणीता । तत्र धर्मप्रमाणं १, धर्मभेदाभेदौ २, शेषशेषिभावः ३, क्रत्वर्थपुरुषार्थभेदेन प्रयुक्तिविशेषः ४, श्रुत्यर्थ- पाठादिक्रमभेदः ५, अधिकारविशेषः ६, सामान्यातिदेशः ७, विशेषातिदेशः ८, ऊहः ९, बाधः १० तन्त्रं ११, प्रसङ्गश्च १२, इति क्रमेण द्वादशानामध्यायानामर्थाः । तथा च संकर्षकाण्डम- प्यध्यायचतुष्टयात्मकं जैमिनिना प्रणीतम् । तच्च देवताकाण्संज्ञया प्रसिद्धमप्युपासनाख्यकर्मप्रतिपादनत्वात्कर्ममीमांसान्तर्गतमेव ॥ तथा चतुरध्यायी शारीरकमीमांसा 'अथातो ब्रह्मजिज्ञासा' इत्यादिः 'अनावृत्तिः शब्दात्' इत्यन्ता जीवब्रह्मैकत्वसाक्षात्कारहेतुश्रवणा- ख्यविचारप्रतिपादकान्न्यायानुपदर्शयन्ती भगवता बाद्रायणेन कृता । तत्र सर्वेषामपि वेदान्तवाक्यानां साक्षात्परम्परया वा प्रत्यग- भिन्नाद्वितीये ब्रह्मणि तात्पर्यमिति समन्वयः प्रथमाध्यायेन प्रदर्शितः । तत्र च प्रथमपादे स्पष्टब्रह्मलिङ्गयुक्तानि वाक्यानि विचारितानि । द्वितीयपादे त्वस्पष्टब्रह्मलिङ्गयुक्तान्युपास्यब्रह्मविषयाणि । तृतीयपादे- Sस्पष्ट ब्रह्मलिङ्गानि प्रायशो ज्ञेयब्रह्मविषयाणि । एवं पादत्रयेण वा- क्यविचारः समापितः । चतुर्थपादे तु प्रधानविषयत्वेन संदिह्यमा- नान्यव्यक्ताजादिपदानि चिन्तितानि ॥ एवं वेदान्तानामद्वये ब्रह्मणि सिद्धे समन्वये तत्र संभावितस्मृतितर्कादिविरोधमाशङ्क्य तत्परिहारः क्रियत इत्यविरोधो द्वितीयाध्यायेन दर्शितः । तत्राद्यपादे सांख्ययो• गकाणादादिस्मृतिभिः सांख्यादिप्रयुक्तैस्तर्कैश्च विरोधो वेदान्तसम- न्वयस्य परिहृतः । द्वितीये पादे सांख्यादिमतानां दुष्टत्वं प्रतिपा- दितं, स्वपक्षस्थापनपरपक्षनिराकरणरूपपक्षद्वयात्मकत्वाद्विचारस्य । तृतीये पादे महाभूतसृष्ट्यादिश्रुतीनां परस्परविरोधः पूर्वभागेन परिहृतः । उत्तरभागेन तु जीवविषयाणाम् । चतुर्थपादे इन्द्रियादि- विषयश्रुतीनां विरोधपरिहारः ॥ तृतीयाध्याये साधननिरूपणम् । तत्र प्रथमपादे जीवस्य परलोकगमननिरूपणेन वैराग्यं निरूपि- तम् । द्वितीयपादे पूर्वभागेन त्वंपदार्थः शोधितः । उत्तरभागेन च तत्पदार्थः । तृतीयपादे निर्गुणे ब्रह्मणि नानाशाखापठितः पुनरु क्तपदोपसंहारः कृतः। प्रसङ्गाच्च सगुणविद्यासु शाखान्तरीयगुणोपसं- हारानुपसंहारौ निरूपितौ । चतुर्थपादे निर्गुणब्रह्मविद्याया बहिरङ्ग- साधनान्याश्रमधर्मयज्ञदानादीनि, अन्तरङ्गसाधनानि शमदमनि- दिध्यासनादीनि च निरूपितानि ॥ चतुर्थेऽध्याये सगुणनिर्गुण- विद्ययोः फलविशेषनिर्णयः कृतः । तत्र प्रथमपादे श्रवणाद्यावृत्त्या निर्गुणं ब्रह्म, उपासनावृत्त्या सगुणं वा ब्रह्म साक्षात्कृत्य जीवतः पापपुण्यालेपलक्षणा जीवन्मुक्तिरभिहिता । द्वितीयपादे म्रियमाण- सोत्क्रान्तिप्रकारश्चिन्तितः । तृतीयपादे सगुणब्रह्मविदो मृतस्यो- तरमार्गोऽभिहितः । चतुर्थपादे पूर्वभागेन निर्गुणब्रह्मविदो विदे- हकैवल्यप्राप्तिरुक्ता । उत्तरभागेन सगुणब्रह्मविदो ब्रह्मलोके स्थिति- रुक्तेति । इदमेव सर्वशास्त्राणां मूर्धन्यं, शास्त्रान्तरं सर्वमस्यैव शेष- भूतमितीदमेव मुमुक्षुभिरादरणीयं श्रीशंकरभगवत्पादोदितप्रकारे- णेति रहस्यम् ॥ एवं धर्मशास्त्राणि मनुयाज्ञवल्क्यविष्णुयमाङ्गि- रोवसिष्ठदक्षसंवर्तशातांतपपराशरगौतमशङ्खलिखितहारीतापस्तम्बोश- नोव्यासकात्यायनबृहस्पतिदेवलनारदपैठीनसिप्रभृतिभिः कृतानि व- र्णाश्रमधर्मविशेषाणां विभागेन प्रतिपादकानि । एवं व्यासकृतं महाभारतं, वाल्मीकिकृतं रामायणं च धर्मशास्त्र एवान्तभूतं स्पष्ट- मितिहासत्वेन प्रसिद्धम् । सांख्यादीनां धर्मशास्त्रान्तर्भावेऽपीह स्वशब्देनैव निर्देशात्पृथगेव संगतिर्वाच्या । अथ वेदचतुष्टयस्य क्रमेण चत्वार उपवेदाः । तत्रायुर्वेदस्याष्टौ स्थानानि भवन्ति सूत्रं शारीरमैन्द्रियं चिकित्सा निदानं विमानं कल्पः सिद्धिश्चेति । ब्रह्मप्र- जापत्यश्विधन्वन्तरीन्द्रभरद्वाजात्रेयाग्निवेश्यादिभिरुपदिष्टश्चरकेण सं- क्षिप्तः । तत्रैव सुश्रुतेन पञ्चस्थानात्मकं प्रस्थानान्तरं कृतम् । एवं वा- ग्भटादिभिरपि बहुधेति न शास्त्रभेदः ॥ कामशास्त्रमप्यायुर्वेदान्तर्ग- तमेव । सुश्रुतेन वाजीकरणाख्यकामशास्त्राभिधानात् । तत्र वात्स्या- यनेन पञ्चाध्यायात्मकं कामशास्त्रं प्रणीतम् । तस्य च विषयवैराग्य- मेव प्रयोजनं, शास्त्रोद्दीपितमार्गेणापि विषयभोगे दुःखमात्रपर्यवसा- नात् । चिकित्साशास्त्रस्य च रोगतत्साधनरोगनिवृत्तितत्साधनज्ञानं प्रयोजनम् ॥ एवं धनुर्वेदः पादचतुष्टयात्मको विश्वामित्रप्रणीतः । तत्र प्रथमो दीक्षापादः । द्वितीयः संग्रहपादः । तृतीयः सिद्धि- पादः । चतुर्थः प्रयोगपादः । तत्र प्रथमपादे धनुर्लक्षणमधिकारि- निरूपणं च कृतम् । तत्र धनुःशब्दश्चापे रूढोऽपि चतुर्विधायुध- वाची वर्तते । तच्च चतुर्विधं मुक्तं अमुक्तं मुक्तामुक्तं यन्त्रमुक्तं च । तत्र मुक्तं चक्रादि, अमुक्तं खड्गादि, मुक्तामुक्तं शल्यावान्तरभेदादि । यन्त्रमुक्तं शरादि । तत्र मुक्तमस्त्रमित्युच्यते । अमुक्तं शस्त्रमित्युच्यते । तदपि ब्राह्मवैष्णवपाशुपतप्राजापत्याग्नेयादिभेदादनेकविधम् । एवं साधिदैवतेषु समन्त्रकेषु चतुर्विधायुधेषु येषामधिकारः क्षत्रियकुमारा- णां तदनुयायिनां च ते सर्वे चतुर्विधाः पदातिरथगजतुरगारूढाः दीक्षाभिषेकशकुनमङ्गलकरणादिकं च सर्वमपि प्रथमपादे निरूपि- तम् । सर्वेषां शस्त्रविशेषाणामाचार्यस्य च लक्षणपूर्वकं संग्रहणप्र कारो दर्शितः द्वितीये पादे । गुरुसंप्रदायसिद्धानां शस्त्रविशेषाणां पुनःपुनरभ्यासो मन्त्रदेवतासिद्धिकरणमपि निरूपितं तृतीयपादे । एवं देवतार्चनाभ्यासादिभिः सिद्धानामस्त्रविशेषाणां प्रयोगश्चतुर्थ - पादे निरूपितः । क्षत्रियाणां स्वधर्माचरणं युद्धं दुष्टदस्युचौरादिभ्यः प्रजापालनं च धनुर्वेदस्य प्रयोजनम् । एवं च ब्रह्मप्राजापत्यादिक- मेण विश्वामित्रप्रणीतं धनुर्वेदशास्त्रम् ॥ एवं गान्धर्ववेदशास्त्रं भर- तेन प्रणीतम् । तत्र नृत्यगीतवाद्यभेदेन वहुविधोऽर्थः प्रपञ्चितः॥ दे वताराधन निर्विकल्पकसमाध्यादिसिद्धिश्च गान्धर्ववेदस्य प्रयोजनम् । एवमर्थशास्त्रं च बहुविधं नीतिशास्त्रमश्वशास्त्रं गजशास्त्रं शिल्पशास्त्रं सूपकारशास्त्रं चतुःषष्टिकलाशास्त्रं चेति । ( ताश्चतुःषष्टिकलाः शैवा- गमोक्ताः- गीतम् १, वाद्यम् २, नृत्यम् ३, नाट्यम् ४, आलेख्यम् ५, विशेषकच्छेद्यम् ६, तण्डुलकुसुमबलिविकाराः ७, पुष्पास्तर- णम् ८, दशनवसनाङ्गरागा: ९, मणिभूमिकाकर्म १०, शयनर- चनम् ११, उदकवाद्यम् १२, उदक (घातः ) वादः १३, अद्भुत- दर्शनवेदिता १४, मालाग्रथनकल्पः १५, शेखरापीडयोजनम् १६, नेपथ्ययोगः १७, कर्णपत्रभङ्गाः १८, गन्धयुक्तिः १९, भूषणयो- जनम् २०, इन्द्रजालम् २१, कौचुमारयोगाः २२, हस्तलाघवम् २३, चित्रशाकापूपभक्तविकारक्रिया: २४, पानकरसरागासवयोज- नम् २५, सूचीवापकर्म २६, सूत्रक्रीडा २७, वीणाडमरुकवाद्या- नि २८, प्रहेलिकाप्रतिमालाः २९, दुर्वञ्चकयोगाः ३०, पुस्तकवाच- नम् ३१, नाटिकाख्यायिकादर्शनम् ३२, काव्यसमस्यापूरणम् ३३, पट्टिकावेत्रबाणविकल्पाः ३४, तर्कुकर्माणि ३५, तक्षणम् ३६, वास्तुविद्या ३७, रूप्यरत्नपरीक्षा ३८, धातुवादः ३९, मणिराग- ज्ञानम् ४०, आकरज्ञानम् ४१, बृक्षायुर्वेदयोगाः ४२, मेषकुक्क्रु- टलावकयुद्धविधिः ४३, शुकसारिकाप्रलापनम् ४४, उत्सादनम् ४५, केशमार्जनकौशलम् ४६, अक्षरमुष्टिकाकथनम् ४७, म्ले- छितकविकल्पाः ४८, देशभाषाज्ञानम् ४९, पुष्पशकटिकानिमित्त- ज्ञानम् ५०, यन्त्रमातृका ५१, धरणमातृका ५२, असंवाच्यसं- पाट्यम् मानसीका व्यक्रियाविकल्पाः ५३, छलितकयोगाः ५४, अभिधानकोशछन्दोज्ञानम् ५५, क्रियाविकल्पाः ५६, ललितवि- कल्पाः ५७, वस्त्रगोपनानि ५८, द्यूतविशेषः ५९, आकर्षक्रीडा ६०, बालक्रीडनकानि ६१, वैनायकीविद्याज्ञानम् ६२, वैजयिक- विद्याज्ञानम् ६३, वैतालिकीविद्याज्ञानम् ६४, इति चतुःपष्टिकलाः) नानामुनिभिः प्रणीतं । तस च सर्वस्य लौकिकालौकिकतत्तत्प्रयोज- नभेदो द्रष्टव्यः । एवमष्टादश विद्यास्त्रयीशब्देनोक्ताः ॥ तथा सांख्यशा- स्त्रं कपिलेन भगवता प्रणीतम् । तत्र त्रिविधदुःखात्यन्तनिवृत्तिरत्य- न्तपुरुषार्थ इत्यादिषडध्यायाः । तत्र प्रथमेऽध्याये विषया निरूपिताः, द्वितीयेऽध्याये प्रधानकार्याणि, तृतीयेऽध्याये विषयवैराग्यम्, चतु- र्थेऽध्याये विरक्तानां पिङ्गलाकुर[^१]रादीनामाख्यायिकाः, पञ्चमेऽध्याये परपक्षनिर्जयः, षष्ठे सर्वार्थसंक्षेप: । प्रकृतिपुरुषविवेकज्ञानं सांख्य- शास्त्रस्य प्रयोजनम् ॥ तथा योगशास्त्रं भगवता पतञ्जलिना प्रणीतम् 'अथ योगानुशासनम्' इत्यादिपादचतुष्टयात्मकम् । तत्र प्रथमे पादे चित्तवृत्तिनिरोधात्मकं समाधिवैराग्यरूपं च तत्साधनं निरूपि- तम् । द्वितीये पादे विक्षिप्तचित्तस्यापि समाधिसिद्ध्यर्थं यमनिय- मासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि निरूपि- तानि । तृतीयपादे योगविभूतयः । चतुर्थपादे कैवल्यमिति । तस्य च विजातीय प्रत्यय निरोधद्वारेण निदिध्यासनसिद्धिः प्रयोजनम् ॥ तथा पशुपतिमतं पाशुपतं शास्त्रं भगवता पशुपतिना पशुपाशविमो- क्षणाय 'अथातः पाशुपतयोगविधिं व्याख्यास्यामः' इत्यादिपञ्चाध्यायं [^१.] ’कुमारादीनां’ इति पाठ: । विरचितम् । तत्राध्यायपञ्चकेनापि कार्यरूपो जीवः पशुः, कारणं पशुपतिरीश्वरः, योगः पशुपतौ चित्तसमाधानं, विधिर्भस्मना त्रिषव- णस्नानादिर्निरूपितः । दुःखान्तसंज्ञको मोक्षश्चास्य प्रयोजनम् । एते एव कार्यकारणयोगविधिदुःखान्ता इत्याख्यायन्ते ॥ एवं शैवं मन्त्र- शास्त्रमपि पाशुपतशास्त्रान्तर्गतमेव द्रष्टव्यम् ॥ एवं च वैष्णवनारदा- दिभिः कृतं पञ्चरात्रम् । तत्र वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाश्चत्वारः पदार्था निरूपिताः । भगवान्वासुदेवः परमेश्वरः सर्वकारणं त - स्मादुत्पद्यते संकर्षणाख्यो जीवस्तस्मान्मनः प्रद्युम्नस्तस्मादनिरुद्धो- ऽहंकारः । सर्वे चैते भगवतो वासुदेवस्यैवांशभूतास्तदभिन्ना एवेति तस्य वासुदेवस्य मनोवाक्कायवृत्तिभिराराधनं कृत्वा कृतकृत्यो भव- तीत्यादि च निरूपितम् । एवं वैष्णवमन्त्रशास्त्रं परिमितमपि पञ्च- रात्रमध्येऽन्तर्भूतम् । वामागमादिशास्त्रं तु वेदबाह्यमेव ॥ तदेवं दर्शि- तः प्रस्थानभेद । सर्वेषां संक्षेपेण त्रिविध एव प्रस्थानभेदः । तत्रार- म्भवाद एकः, परिणामवादो द्वितीयः, विवर्तवादस्तृतीयः । पार्थि- वाप्यतैजसवायवीयाश्चतुर्विधाः परमाणवो द्व्यणुकादिक्रमेण ब्रह्मा- ण्डपर्यन्तं जगदारभन्ते । असदेव कार्यकारणव्यापारादुत्पद्यत इति प्रथमः तार्किकाणां मीमांसकानां च । सत्वरजस्तमोगुणात्मकप्रधा- नमेव महदहंकारादिक्रमेण जगदाकारेण परिणमते, पूर्वमपि सू- क्ष्मरूपेण सदेव कार्यं कारणव्यापारेणाभिव्यज्यत इति द्वितीयः पक्षः सांख्ययोगपाशुपतानां, ब्रह्मणः परिणामो जगदिति वैष्णवानामपि । स्वप्रकाशपरमानन्दाद्वितीयं ब्रह्म स्वमायावशान्मिथ्यैव जगदाकारेण कल्प्यत इति तृतीयः पक्षो ब्रह्मवादिनाम् । सर्वेषां च प्रस्थानकर्तॄणां मुनीनां विवर्तवादपर्यवसानेनाद्वितीये परमेश्वरे एव वेदान्तप्रति- पाद्ये तात्पर्यम् । नहि ते मुनयो भ्रान्ताः सर्वज्ञत्वात्तेषां, किंतु ब- हिर्विषयप्रवणानामापाततः परमपुरुषार्थे प्रवशो न भवतीति ना- स्तिक्यनिवारणाय तैः प्रकारभेदाः प्रदर्शिताः । तत्र तेषां तात्पर्य- मबुद्ध्वा वेदविरुद्धेऽप्यर्थे तेषां तात्पर्यमुत्प्रेक्षमाणास्तत्तन्मतमेवोपादे- यत्वेन गृह्णन्तो जना ऋजुकुटिलनानापथजुषो भवन्तीति न सर्वेषा- मृजुमार्गे एव प्रवेशो, नच विप[^१]र्ययेऽपि परमेश्वराप्राप्तिरन्तःकर- णशुद्धिवशेन पश्चादृजुमार्गाश्रयणादेवेत्यर्थः । हरिपक्षेऽप्येवम् ॥ ७॥ एवं सर्वशङ्कोद्धारेण हरिहरस्वरूपं निरूप्य तदेवार्वाचीनपदस्थं स्तौति --- महोक्ष: खट्वाङ्गं परशुरजिनं भस्म फणिनः कपालं चेतीयत्तव वरद तन्त्रोपकरणम् । सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ८ महोक्ष इति । हे वरद, तव परिपूर्णपरमेश्वरस्याप्येतत्तन्त्रोप- कारणं तन्त्रस्य कुटुम्बधारणस्योपकरणं साधनम् । तदेवाह । म- होक्षः महानुक्षा वृद्धवृषभः, खट्वाङ्गं खट्वाया अवयवः शस्त्रविशेषः कापालिकानां प्रसिद्धः, परशुः टङ्कः कुठारो वा, अजिनं चर्म, भस्म विभूतिः, फणिनः सर्पाः, कपालं मनुष्यशिरोस्थि चेति सप्तकम् । नन्वेवं दरिद्रस्तुष्टोऽपि किं दास्यतीत्यत आह – सुरा इत्यादि । सुरास्तु भवत्सेवया भवद्भ्रूप्रणिहितां भवतो भ्रूविक्षेपमात्रेण सम- र्पितां तां तामसाधारणीमृद्धिं संपत्तिं दधति धारयन्ति । त्वमति- दरिद्रस्त्वद्भक्तास्तु सर्वेऽसुरास्त्वत्प्रसादात्समृद्धा इति व्यतिरेकं तु- शब्द आह । यो ह्यन्यान्धनवतः करोति स तदपेक्षयाधिकधनवान्भ- वतीति प्रसिद्धं लोके । ननु तर्हीदृशोऽपि स्वयं कथं महोक्षादिमा- त्रपरिवार इत्यत आह – नहीत्यादि । हि यस्मात्स्व आत्मनि स्व- रूपे चिदानन्दघने आरमत्याक्रीडत इति तथा तं न भ्रमयति न मोहयति । विषयमृगतृष्णा विषया इन्द्रियार्थाः शब्दस्पर्शरूपरस- [^१.] 'न वा पर्यवसानेऽपि’ इति पाठः। गन्धास्त एव मृगतृष्णा जलबुद्ध्या गृह्यमाणा मरीचिका । यथा मृग- तृष्णा रविरश्मिरूपा जलविरुद्धस्वभावापि भ्रान्त्या जलमयीवाभा- सते तथा विषया अपि दुःखरूपा भ्रान्त्या सुखरूपा आभासन्त इति रूपकार्थः । यत्र जीवोऽपि स्वात्मारामतां प्राप्तो न विषया- सक्तो भवति, तत्र किमु वक्तव्यं नित्यमुक्तः परमेश्वरो विषयैर्ना- भिभूयत इत्यभिप्रायः । तेन वृषभारूढा खट्वाङ्गपरशुफणिकपाला- लंकृतचतुर्भुजा चर्मवसना भस्माङ्गरागा विविधभूषणा माहेश्वरी मूर्तिर्गुरूपदेशेन ज्ञाता स्तुत्यादिभिराराध्येत्यर्थः । वस्तुतस्तु पुरुषप्रधानमहदहंकारतन्मात्रेन्द्रिय भूतानि महोक्षादिरूपेण गुप्तानि भगवन्तं महेश्वरमुपासत इत्यागमप्रसिद्धम् । तस्य जगत्कुटुम्बस्य तत्त्वान्येवोपकरणमिति निष्कर्षः । हरिपक्षे तु । महोक्षः अक्षश्चक्रं 'अक्षो रथावयवके च बिभीतके स्यादक्षाणि पण्डितजना विदुरिन्द्रि- याणि' इति धरणिः। महस्तेजोरूपं, भस्मफणिनः भस्मवच्छुभ्रस्य कोमलाङ्गस्य च फणिनः शेषस्याऽजिनं शरीरत्वक् खट्वा शय्या । तथा कपालं कं शिरः पाल्यतेऽनेनेति कपालं शिरउपधानं तस्यैव भस्म- फणिनोऽङ्गं किंचिदुच्छ्रितावयवविशेषः । अथवा केन जलेन पा- ल्यत इति कपालं पद्मं शङ्खो वा तस्मिन्पक्षे भस्म फणिनोऽङ्गं अजिनं च खट्वा, अङ्गं पर्यङ्कस्थानीयं अजिनं च तदुपरि आस्तृतवस्त्रस्था- नीयमिति बोद्धव्यम् । तथा परशुरिति परशुरामावताराभिप्रायेण । ह वरद, एतावत्तव तन्त्रोपकरणमित्यादिपूर्ववत् । अथवा विषयमृ- गतृष्णा अविद्यान्तःकरणोपरक्तं प्रतिविम्बकल्पं जीवं व्यामोहय त्यपि रामं अनन्तसत्यज्ञानानन्दात्मकत्वेन योगि[^१]नां रतिविषयं त्वां बिम्बकल्पं न मोहयति न स्वावरणांशेनाभिभवति । उपाधेः प्रति- बिम्बपक्षपातित्वात् । कीदृशी सा । स्वात्मा स्वः सच्चिदानन्दात्म- [^१] 'योगिनामविषयं' इति पाठः । कस्त्वमेवात्मा स्वरूपं यस्याः सा, तथा त्वय्यध्यस्ता सा स्वसत्ता- स्फूर्तिप्रदं त्वां कथं व्यामोहयेदित्यर्थः । अत्रापि चक्रादीनां भगव- द्विभूतित्वं विष्णुपुराणादौ प्रसिद्धम् ॥ ८ ॥ एवं स्तुत्ययोर्हरिहरयोर्निर्गुणं सगुणं च स्वरूपं निरूपितं, संप्रति स्तुतेः प्रकारं निरूपयन्स्तौति- ध्रुवं कश्चित्सर्वं सकलमपरस्त्वध्रुवमिदं परो ध्रौव्याघ्रौव्ये जगति गदति व्यस्तविषये । समस्तेऽप्येतस्मिन्पुरमथन तैर्विस्मित इव स्तुवञ्जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥९॥ ध्रुवमिति । हे पुरमथन, तैः स्तुतिप्रकारैस्त्वां स्तुवन्न जिह्रेमि नाहं लज्जे । विसित इव जातचमत्कार इव । यथा कश्चिदद्भुतं दृष्ट्वा विस्मितस्तत्परवशत्वालोकोपहासमगणयित्वा विचेष्टते तथा- हमपि स्तोतुमयं न जानातीति जनो मामुपहसिष्यतीति लज्जा- मगणयन् त्वत्स्तुतौ प्रवृत्तोऽस्मीत्यर्थः । तैः कैः प्रकारैरित्याह – ध्रुव- मित्यादि । कश्चित्कोऽपि सांख्यपातञ्जलमतानुसारी सर्वं समग्रं ज- गद्ध्रुवं जन्मनिधनरहितं सदेव गदति । व्यक्तं वदतीत्यर्थः। नह्य- सत उत्पत्तिः संभवति न वा सतो विनाश इत्याविर्भावतिरोभावमा- त्रमुत्पत्तिविनाशशब्दाभ्यामभिलक्ष्यते । तेन परमेश्वरोऽपि तावन्मा- त्रस्येष्टे न त्वसत उत्पत्तेः, सतो वा विनाशस्येत्यभिप्रायः । इति सत्कार्यवाद एकः पक्षः । तथाऽपरोऽन्यः सुगतमतानुवर्ती सक- लमिदमध्रुवं क्षणिकमिति गदति । नहि सतः स्थिरत्वं संभवति । अर्थक्रियाकारित्वमेव सत्त्वम् । तच्च सदर्थस्सेक्ष[^१]णयोगेन न विलम्बे- नोत्पद्यते इति । एकस्मिन्क्षणे सर्वार्थक्रियासमाप्तेरुत्तरक्षणेऽसत्त्वमेव । [^१] 'सदर्थस्याक्षेपायोगेन' इति पाठः । तथाच परमेश्वरस्यापि क्षणिकविज्ञानसंतानरूपत्वादसावसत उत्प त्तेरीष्टे नतु सतः स्थिरत्वायेति द्वितीयः पक्षः सर्वक्षणिकतावा - दलक्षणः ॥ तदुभयपक्षासहिष्णुश्च परस्तार्किकः समस्तेऽप्येतस्मि - ञ्जगति ध्रौव्याघ्रौव्ये नित्यत्वानित्यत्वे व्यस्तविषये भिन्नधर्मवर्तिनी गदति ( आकाशादिचतुष्कपृथिव्यादिचतुष्कपरमाणवश्च नित्याः ) आकाशकालदिगात्ममनःपृथिव्यादिपरमाणवश्च नित्याः इति वा । कार्यद्रव्याणि चानित्यानि । तथा चानित्यानामुत्पत्तिविनाशयोरीष्टे परमेश्वरो नतु नित्यानामपीत्यर्थः । इत्येवं तृतीयः पक्षः । तथाच त्रिष्वप्येतेषु द्वैताङ्गीकारादद्वितीयसन्मात्ररूपस्य परमेश्वरस्य स्प र्शोऽपि नास्तीति सोपाधिकसंकुचितैश्वर्यरूपेण स्तुतिः सर्वथा ल- ज्जाकरीत्यर्थः । तर्हि किमिति न लज्जस इत्यत आह । ननु अहो खलु निश्चितं मुखरता वाचालता धृष्टा निर्लज्जा । तथाच मुखर- तैव लज्जामपहरतीत्यर्थः । एवं सर्वप्रकारप्रवादकवादादीनामा- भासत्वमुक्तम्, अद्वितीयवादस्यैव लज्जानास्पदत्वेन सत्यत्वमिति द्रष्टव्यम् । एतच्च 'त्वमर्कस्त्वं सोमः' इत्यादौ स्पष्टीकरिष्यते । हरिपक्षेऽप्येवम् । तत्र पुरमथनशब्दः प्राग्व्याख्यातः ॥ ९ ॥ एवं लोकनवकेन स्तुतिसामग्रीं निरूप्य स्तुतौ प्रस्तुतायां समस्तप्रभाववतामग्रेसरयोर्हरिविरंच्योरपि त्वत्प्रसादादेव त्वत्सा- क्षात्कार इत्येवं निरतिशयं माहात्म्यं प्रकटयन्स्तौति - तवैश्वर्यं यत्नाद्यदुपरि विरंचिर्हरिरधः परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः । ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश य त्स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥१०॥ तवेति । हे गिरिश, तवानुवृत्तिः सेवा किं न फलति । अपितु सर्वमेव फलति । त्वत्साक्षात्कारपर्यन्तं फलं ददातीत्यर्थः । तत्रा- न्वयव्यतिरेकाभ्यां कारणतां द्रढयितुं भगवदनुवृत्तिव्यतिरेके फल- व्यतिरेकमाह । यद्यस्मादनलस्कन्धवपुषस्तेजःपुञ्जमूर्तेस्तवैश्वर्यं स्थूलं रूपं परिच्छेत्तुमियत्तयावधारयितुमुपर्यूर्ध्वं विरंचिर्ब्रह्मा अधोऽधस्ताद्ध- रिर्विष्णुः यत्नात्सर्वप्रयत्नेन यावद्गन्तुं शक्तौ तावद्यातौ गतौ अनलं नाऽलम् । न परिच्छेत्तुं समर्थावित्यर्थः । यत्र स्थूलरूपमप्यपरि- च्छेद्यं तत्र दुरे सूक्ष्मरूपपरिच्छेदसंभावना । तेन त्वदनुवृत्तिं विना हरिविरंच्योः प्रसिद्धमहाप्रभावयोरपि त्वं न विज्ञेयस्तत्र का वार्ता - ऽन्येषामिति व्यतिरेकमुक्त्वाऽन्वयमाह । ततस्तस्मा (त्कारणा) - त्स्वयत्नवैफल्यादनन्तरं ताभ्यां हरिविरंचिभ्याम् । 'श्लाघह्नुङ्स्था- शपां ज्ञीप्स्यमानः' इति चतुर्थी । तयोर्ज्ञानायेत्यर्थः । कीदृशाभ्यां भक्तिश्रद्धाभरगुरुगृणद्भ्याम् । भक्तिरत्र कायिकी सेवा, श्रद्धास्तिक्य- बुद्धिः (मानसीसेवा), तयोर्भरोऽतिशयस्तेन गुरु श्रेष्ठं निरतिशयं यथा तथा गृणद्भ्यां स्तुवद्भ्यां वाचिकीं सेवां कुर्वद्भ्याम् । यद्धि गु- रुतरं भवति शिलोच्चयादि तत्पवनपर्जन्यादिभिर्न विक्रियामुपैति अलघुद्रव्यत्वात्, तथा स्तुतिरप्यतिगौरववती शिलोच्चयादिस्था- नीया पवनपर्जन्यस्थानीयैर्विघ्नैचालयितुं न शक्येति गुरुशब्देन ध्वनितम् । एवंरूपेण तवैश्वर्यं स्तुवद्भ्यां ताभ्यां किमित्याह । स्वयं तस्थे स्वयमेव नतु तयोः प्रयत्नेन तस्थे स्वमात्मानं प्रकाशयति स्म । अत्र तवैश्वर्यमिति कर्तृपदं द्रष्टव्यम् । 'प्रकाश- नस्थेयाख्ययोश्च' इत्यात्मनेपदम् । यद्वा गृणद्भ्यामिति कर्तरि तृतीया । तस्थे स्थितं निवृत्तमिति भावप्रत्ययः । ततस्तयोर्निवृत्तावपि किं तवानुवृत्तिर्न फलति । अपितु फलत्येवेत्यर्थः । तस्मादेव हरिविरं- चिभ्यामपि त्वदनुवृत्त्यैव त्वं साक्षात्कृतः का वार्ताऽन्येषामित्य- न्वय उक्तः । एवं त्वदनुवृत्तिरेव सर्वं फलतीत्यन्वयव्यतिरेकाभ्यां दृढीकृतम् ॥ हरिपक्षे तु गिरौ गोवर्धनाख्ये शेते गोपी रमयन्निति गिरिशः श्रीविष्णुः । अथवा गिरिं मन्दरं श्यति तनूकरोति क्षीरोदं मथ्नन्निति गिरिशः । योजनिका पूर्ववत् । हरिः सर्पः शेषः विरंचि शेषाभ्यामपि त्वत्कृपयैव त्वं प्राप्त इति पूर्ववत्सर्वम् । अत्र 'अनिल' इति क्वचित्पाठः स न सांप्रदायिकः । तथा चान्यत्रोक्तम् 'नोर्ध्वं गम्यः सरसिजभुवो नाप्यधः शार्ङ्गपाणेरासीदन्तस्तव हुतवहस्क- न्धमूर्त्या स्थितस्य' इति ॥ १० ॥ अथ बलिरावणयोरसुरयोरपि भगवदनुग्रहं दर्शयन्स्तौति - अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं दशास्यो यद्बाहूनभृत रणकण्डूपरवशान् । शिरः पद्मश्रेणीरचितचरणाम्भोरुहवलेः स्थिरायास्त्वद्भक्तेत्रिपुरहर विस्फूर्जितमिदम् ११ अयत्नादिति । हे त्रिपुरहर, स्थिराया निश्चलायास्त्वद्भक्तेस्तव सेवायाः विस्फूर्जितमिदं प्रभावोऽयम् । किंविशिष्टायास्त्वद्भक्तेः । शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः । शिरांस्येव पद्मानि अर्थाद्रा- वणस्य तेषां श्रेणी पङ्किस्तया रचितः कल्पितश्चरणाम्भोरुहयोः पाद- पद्मयोर्बलिरुपहारो यस्यां सा तथा । रावणेन हि नवभिर्निजशिरोभिः स्वहस्तकृत्तैः शंभोरुपहारः कृत इति पुराणप्रसिद्धम् । किं तद्वि- स्फूर्जितमित्यत आह । यत् दशास्यो रावणो बाहून्विशतिभुजान् । कीदृशान् । रणाय युद्धाय कण्डूः खर्जूः । अतिस्पृहेति यावत् । तया परवशांस्तदधीनानभृत धृतवान् । रणकण्डूर्हि रणेनैव निवर्तते । रणसंभवाच्च सर्वदा कण्डूरेव तद्भुजेष्विति भावः । तर्हि रणं संपाद्य किमिति तत्कण्डूं न निवर्तयतीति चेन्न, प्रतिमल्लाभावा- दित्याह । त्रिभुवनं त्रैलोक्यमवैरव्यतिकरं न विद्यते वैरस्य विरोधस्य व्यतिकरः कारणं दर्पादि यत्र तत्तथा आपाद्य संपद्य । त्रैलोक्यव- र्तिनो वीरानिन्द्रादीन्स्वदास्यं नीत्वेत्यर्थः। तदप्ययत्नादयत्नेनैव । स्वयमेव रावणपराक्रमं श्रुत्वा सर्वे वीरा दर्पादि त्यक्तवन्त इत्यर्थः । तथा चानायासेनैव निर्जितत्रिजगतो रावणस्य भुजानां कण्डूर्नैव शान्तेत्येष शौर्यातिशयो भगवद्भक्तेरेव प्रभाव इत्यर्थः । 'आसाद्य ' इति क्वचित्पाठः । तस्य प्राप्येत्यर्थः ॥ हरिपक्षे तु त्रीणि जाग्रत्स्व- प्नसुषुप्त्याख्यानि पुराणि भक्तानां जीवानां स्वसाक्षात्कारेण हर- तीति त्रिपुरहरो विष्णुः । हे त्रिपुरहर मोक्षदायक विष्णो, द- शास्यो यत्तादृशान् बाहून्भुजानभृत तत्त्वद्भक्तेरेव पूर्व कृताया इदानीं फलरूपेण परिणममानायाः, अतएव स्थिराया अनेककल्प- व्यवधानेऽपि यावत्फलपर्यन्तं स्थायिन्यास्तव सेवाया विस्फूर्जितमिदं नान्यस्य प्रभावोऽयमित्यर्थः । त्वदीयवैकुण्ठपुरद्वारपालस्य पार्षद- प्रवरस्य ब्रह्मशापव्याजेन त्वदिच्छयैवासुरीं योनिमनुभवतोऽपि रा- वणस्य त्वद्भक्तिप्रभावादेव निरतिशयं पौरुषमित्यर्थः । तथाच बलैर्वैरोचनेः त्वद्भक्तेर्विस्फूर्जितमिदं यागशालायां त्वदागमनत्वत्पा- णितोयदानत्वच्चरणाम्बुजस्पर्शनादि एतत्सर्वं सूचयन्संबोधयति । हे शिरःपद्मश्रेणीरचितचरणाम्भोरुह । अत्रापि बलेरिति संबध्यते । बलेः शिर एव पद्मश्रेणी पद्ममयी निःश्रेणिका पादविक्षेपभूमि- स्तस्यां रचितमर्पितं चरणाम्भोरुहं येन स तथा । योगपद्मपीठे हि भगवच्चरणारविन्दं तिष्ठतीति शास्त्रप्रसिद्धेः भगवच्चरणारविन्दा- धारत्वे बलेः शिरोऽपि पद्मपीठत्वेन निरूपितम् । शिरःशब्दस्य नित्यसापेक्षत्वाच्चात्र सापेक्षसमासो न दोषाय, देवदत्तस्य गुरु- कुलमितिवत् । बलिना खलु भगवद्वामनावतारप्रार्थनया पदत्रय- मिता भूमिर्देयेति प्रतिज्ञातं, तत्र पदद्वयेनैव सर्वस्मिञ्जगति भग- वताक्रान्ते स्वसत्यपालनाय तृतीयपदस्थाने स्वशिर एव बलिना दत्तं, तच्च भगवता स्वपादाम्बुजेनावष्टब्धमिति पुराणप्रसिद्धम् । नह्येतादृशः प्रसादो ब्रह्मादिभिरपि लब्धोऽस्ति । तस्माद्बलिकृताया- स्त्वद्भक्तेरेव प्रभावोऽयमित्यर्थः ॥ ११ ॥ एवं बलिरावणयोर्भक्तिवशादनुग्रहं प्रदर्श्य तयोरेव दर्पवशा- न्निग्रहं प्रदर्शयन्स्तौति- अमुष्य त्वत्सेवासमधिगतसारं भुजवनं बलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः । अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्यासीद्ध्रुवमुपचितो मुह्यति खलः १२ अमुष्येति ॥ हे त्रिपुरहर, अमुष्य पूर्वश्लोकोक्तस्य राव- णस्य प्रतिष्ठा स्थितिः त्वयि अलसचलिताङ्गुष्ठशिरसि सति पातालेऽप्यलभ्या आसीत् । अलसं मन्दं यथा स्यात्तथा चलितं कम्पितमङ्गुष्ठशिरोऽङ्गुष्ठाग्रं येन स तथा तस्मिन् । चलितमिति ह्रस्वत्वं च कम्पतेश्चलतेर्मित्त्वानुशासनात् । तथाच तवाङ्गुष्ठ- कम्पनमात्रेणैव तस्य वीराभिमानिनोऽधःप्रवेशोऽशक्यप्रतीकार आसीदित्यर्थः । अमुष्य किं कुर्वतः । त्वदधिवसतावपि कैलासे तव मन्दिरेऽपि स्फटिकगिरौ भुजवनं भुजवृन्दं विंशतिसंख्याकं बलाद्विक्रमयतोऽतिशौर्येण व्यापारयतः । इममुत्पाट्य लङ्कायां नेष्यामीत्यभिप्रायेण भुजचेष्टां कुर्वत इत्यर्थः । कीदृशं भुजवनम् । त्वत्सेवासमधिगतसारं तव सेवया समधिगतः प्राप्तः सारो बलं येन तत्तथा । त्वत्प्रसादेनैव बलमासाद्य त्वद्गृहमुत्पाटयतीत्यहो कृतघ्न- ता मौढ्यं चेत्यभिप्रायः । एवं हि पुराणप्रसिद्धम् 'भगवत्प्रसादादा- सादितबलेन रावणेन स्वबलपरीक्षार्थं भगवन्निवासस्यापि कैलास- स्योत्पाटनमारब्धम् । ततश्च पार्वत्या भीतया प्रार्थितो भगवान्कै- लासस्याधोगमनार्थमङ्गुष्ठाग्रमात्रं शनैर्व्यापारयामास । तावन्मा- त्रेणैव क्षीणबलो रावणः पातालं प्रविवेश । पुनश्च भगवता करु- णया समुद्धृतः' इति । ननु भगवत्प्रसादाल्लब्धवरो रावणः कथं भगवन्तं तदानीं विस्मृतवानित्यत आह । ध्रुवं निश्चितं उपचितः समृद्धः सन् खलः कृतघ्नो मुह्यति कृतं विस्मरति । स्वोपचयहेतुमपि न गणयतीत्यर्थः ॥ हरिपक्षे तु । कैलासे केलिः क्रीडा सैव प्रयो जनमस्येति कैलः कैलोऽसिः खड्गो यस्य सः कैलासिः । इच्छामात्रेण निर्जितसर्वशत्रोरपि तव क्रीडार्थमेव नन्दुकधारणमित्यर्थः । अमु- ष्य बलेः त्वदधिवसतौ त्वन्निवासे तव स्वत्वास्पदीभूतेऽपि त्रैलो- क्ये बलान्मदीयमिदं त्रैलोक्यमिति स्वत्वाभिमानाद्भुजवनं हस्तो- दकं विक्रमयतः मम स्वत्वत्यागपूर्वकमेतस्य प्रतिग्रहीतुः स्वत्वमुत्पादयामीत्यभिप्रायेण भगवतः पाणावुदकं प्रयच्छतः । कीदृशं भुजवनम् । त्वत्सेवया समधिगतः सारः सौभाग्यविशेषो येन तत्तथा । तव पाणिपद्मसंबन्धेनातितरां शोभमानमुदकमित्यर्थः । तथाच सर्वजगन्निवासस्य तब स्वत्वास्पदीभूतं यत्तत्स्वकीयमिति मत्वा तुभ्यं ददतो बलेर्महानेवापराधः । त्वया तु परमकारुणिकेन प्रतिज्ञातविक्रमत्रयमितभूमिदानेऽपि तस्यासामर्थ्यमासाद्य तस्य म[^१]त्ततानिवृत्तये योग्य एव दण्डः कृत इत्याह । त्वयि अलसच- लिताङ्गुष्ठशिरसि सति तस्य प्रतिष्ठा स्थितिः पातालेऽप्यलभ्यासीत् का वार्ता स्वर्गमर्त्ययोः । अथवा पाताले विद्यमानस्यापि बलेरि- न्द्रादिभिरप्यलभ्या प्रतिष्ठा कीर्तिरासीत् । तत्र सर्वदा भगवतः संनिहितत्वादिति भावः । अलसं सलीलं चलितः कम्पितोऽङ्गु- ष्ठः शिरसि अर्थाद्बलेर्येन तस्मिन् । तथा तृतीयविक्रमभूम्यर्थं बलिना शिरसि प्रसारिते तत्र च त्वदीयपादाङ्गुष्ठसंबन्धमात्रेणैव तस्य पातालप्रवेशो जात इत्यर्थः । ध्रुवमुपचित इत्यार्थान्तरन्यासः पूर्ववत् । अथवा खलोऽयमसुरो बलिरुपचितः मुह्यति । अतो मोहनिवृत्तयेऽपचितः कर्तव्य इति भगवतोऽभिप्रायवर्णनम् । 'यस्या- हमनुगृह्णामि तस वित्तं हराम्यहम्' इति भगवद्वचनात् ॥ १२ ॥ पूर्वत्र भगवद्विषये समुन्नतयोर्बलिरावणयोरत्यन्तमवनतिर्द- र्शिता । अधुना तत्रावनतयोरिन्द्रबाणयोरत्यन्तमुन्नतिं दर्शयन्ह - रिहरौ स्तौति — [^१] 'ममतानिवृत्तये' इति पाठः । यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती- मध्यश्चक्रे बाणः परिजनविधेयत्रिभुवनः । न तच्चित्रं तस्मिन्वरिवसितरि त्वच्चरणयो- र्न कस्या उन्नत्यै भवति शिरसस्त्वय्यवनतिः १३ यदिति । सुत्राम्ण इन्द्रस्यर्द्धि संपत्तिं परमोच्चैः सतीमप्यध- श्चक्रे न्यक्कृतवान् । बाणो बलिसुतः । कीदृशः । परिजनविधेयत्रिभुवनः परिजनो दासस्तद्वद्विधेयं वश्यं त्रिभुवनं यस्य, परिजनानामिव विधेयं वश्यं त्रिभुवनं यस्येति वा । स तथा उच्चैः सतीं यदधश्चक्रे तदन्यत्र चित्रमपि तस्मिन्बाणे न चित्रं नाश्चर्यम् । कीदृशे । त्वच्च- रणयोर्वरिवसितरि नमस्कर्तरि । इन्द्रसंपत्तेरप्यधःकरणं त्वन्नम- स्कारस्य न पर्याप्तफलं किंत्वेकदेशमात्रमित्याह । न कस्या इति । त्वयि विषये शिरसो याऽवनतिर्नमस्क्रिया सा कस्यै उन्नत्यै न भवति । अपि तु सर्वामेवोन्नतिं मोक्षपर्यन्तां जनयितुं समर्था भवत्येवे- त्यर्थः । अवनतिरप्युन्नतिहेतुरित्यतिशयोक्तिसंकीर्णोऽयमर्थान्तर- न्यासः । सर्वोत्कृष्टत्वमचिन्त्यमहिमत्वं च भगवतः सूचयतीति भावः ॥ हरिपक्षे तु । हे परम वरद, सुत्राम्ण इन्द्रस्य बाणः शर एकोऽपि ऋद्धिं संपत्तिमुच्चैरधोऽपि सतीं त्रिभुवनव्यापिनीं चक्रे कृतवानितियत् तत्तस्मिन्सुत्राम्णि न चित्रमित्यादिपूर्ववत् । त्वत्प्र- सादादेव सर्वानसुरानेकेनापि बाणेन जित्वा त्रिभुवनराज्यं प्रा- प्तवानिन्द्र इत्यर्थः । अत्र बाण इति शस्त्रमात्रोपलक्षणम् । कीदृशो बाणः । परिजनवद्विधेयमायत्तं त्रिभुवनं यस्मात्स तथा । शेषं पूर्ववत् ॥ १३ ॥ अधुना कालकूटप्रलयजलयोः संहारं दर्शयन्शंकरनारायणौ स्तौति - अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा- विधेयस्यासीद्यस्त्रिनयन विषं संहृतवतः । स कल्माषः कण्ठे तव न कुरुते न श्रियमहो विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥१४॥ अकाण्डेति । हे त्रिनयन, विषं समुद्रमथनोद्भुतं कालकू- टाख्यं गरलं संहृतवतः पीतवतस्तव कण्ठे यः कल्माषः कालिमा- सीत्स कालिमा तव कण्ठे श्रियं शोभां न कुरुते किम् । अपि तु कुरुत एवेत्यर्थः । ननु भगवानतिशयितविशेषदर्शी महानर्थहेतुकं विषं किमिति पीतवानित्यत आह । अकाण्ड इति । अकाण्डेऽस- मये ब्रह्माण्डक्षयो महाप्रलयो विषोर्मिवेगात्संभावितस्तस्माच्चकिता भीता देवाऽसुरा इन्द्रबलिप्रभृतयस्तेषु कृपा दया तया विधेयस्य वश्यस्य । अन्यस्यैतत्पाने सामर्थ्यं नास्तीति विश्वत्राणाय विषं स्वयमेव पीतवानित्यर्थः । ननु विषविकारात्कल्माषः कथं कण्ठे शोभां तनोतीत्यत आह । अहो इत्यादि । अहो आश्चर्ये । भुव- नभयभङ्गव्यसनिनः परमेश्वरस्य विकारोऽपि श्लाध्यः प्रशंसनीयः । भुवनस्य लोकस्य भयं त्रासस्तस्य भङ्गो निरन्वयनाशः स एव व्यसनं सर्वमन्यद्विहाय क्रियमाणत्वाद्व्यसनं तदस्यास्तीति तथा तस्य । तेन जगदुपकृतिकृतं दृषणमपि भूषणमेवेत्यर्थः ॥ हरि- पक्षे तु । हे त्रिनयन त्रयाणां लोकानां नयनवत्सर्वावभासक, 'तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम्' इति श्रुतेः । अकाण्डेऽकाले ब्रह्माण्डक्षयो महाप्रलयः । दैनं- दिनप्रलयजलपूरवेगात्संभावितस्तस्माच्चकिता ये देवासुराः स्वायं - भुवमनुप्रभृतयस्तद्विषयककृपावशीकृतस्य तव विषं जलं 'विषं क्ष्वेडं विषं जलम्' इत्यादिकोशात् । तच्च प्रलयकालीनं यज्ञवाराहरूपे- णावगाह्य पङ्कीकृत्य संहृतवतः शोषितवतः पङ्कव्यामिश्रणेन यः कल्माषो मलिनिमासीत्स कल्माषः स्तोतृभिर्वर्ण्यमानः अर्थात्स्तो- तॄणां कण्ठे श्रियं शोभां न कुरुते इति न । अपितु कुरुत एवेत्य- र्थः। अर्थान्तरन्यासः पूर्ववत् ॥१४॥ असिद्धार्था नैव क्वचिदपि सदेवासुरनरे निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः । स पश्यन्नीश त्वामितरसुरसाधारणमभूत् स्मरः स्मर्तव्यात्मा न हि विशिषु पथ्यः परिभवः १५ असिद्धार्था इति । हे ईश, यस्य स्मरस्य विशिखा वाणाः सदेवासुरनरे जगति देवासुरनरादिसहिते त्रैलोक्ये जयिन उत्सृष्टाः क्वचिदप्यसिद्धार्था अकृतकार्या न निवर्तन्ते । अपि तु सिद्धार्था एव नित्यं जयिन एव भवन्ति । जयिन इति स्मरस्य वा विशेषणम् । नित्यं जयशीलस्येत्यर्थः । स एतादृशपौरुषवा- नपि स्मरः यथान्ये देवा मम जय्यास्तथाऽयमपीतीतरदेवतुल्यं त्वां पश्यन् स्मर्तव्यात्माभूत् स्मर्तव्यः स्मरणीय आत्मा शरीरं यस्य स तथा । नष्ट इत्यर्थः । पश्यन्निति हेतौ शतृप्रत्ययः । लक्षण- हेतौ च शतुः स्मरणात् । 'तद्वैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे' इतिवत् । तेनेतरदेवसाधारणत्वेन त्वद्दर्शनमेवव्यवधानेन विनाश- हेतुः का वार्ता परिभवादेरिति भावः । तत्र कैमुतिकन्यायमाह । नहीत्यादि । हि यस्माद्वशिषु जितेन्द्रियेष्वन्येष्वपि परिभवस्ति- रत्कारः पथ्यो हितो न भवति । स्वनाशायैव संपद्यत इति यावत् । किं पुनः परमवशिनां वरे परमेश्वरे त्वयीत्यर्थः ॥ हरिपक्षे तु । हे इतरसुर सर्वविलक्षण देव, पूर्व स्मर्त- व्यात्मा स्मृतोऽपि स्मरः कामस्त्वां पश्यन्नभूज्जातः । त्वत्सका- शाज्जात इत्यर्थः । पितैव खलु पुत्रं जातमात्रमवलोकयति, अतः पुत्रोऽपि तमेवावलोकयतीति पश्यन्नभूदित्यनेन जन्यजनकभावो लभ्यते । कथं जातः । साधारणं तव तुल्यरूपं यथा स्यात्तथा । 'आत्मा वै पुत्रनामासि' इति श्रुतेः । तत्किं सर्वांशेन भगवत्तुल्यः, तथा च 'न तस्य प्रतिमाऽस्ति यस नाम महद्यशः', न त - समश्चाभ्यधिकश्च विद्यते' इत्यादिश्रुतिविरोध इत्याशङ्क्य वैल- क्षण्यमाह । नहीत्यादि । वशिषु जितेन्द्रियेषु हि यत्स्मात्स्मरो न पथ्यो न हितः । तत्र हेतुः परिभवः परिभवत्यनर्थे योजयतीति परिभवः कामः । स खलु सर्वेषां संसारबन्धहेतुः, परमेश्वरस्तु सर्वेषां संसारबन्धस्यात्यन्तोच्छेदहेतुरिति महद्वैलक्षण्यमित्यर्थः । असिद्धार्था इत्यादि पूर्ववत् ॥ १५ ॥ अथ जगद्रक्षणार्थे नर्तनावतरणे दर्शयन्हरिहरौ स्तौति – मही पादाघाताद्व्रजति सहसा संशयपदं पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् । मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटा जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६॥ महीति । हे ईश, जगद्रक्षायै त्वं नटसि नृत्यसि । संध्यायां जगन्ति जिघांसन्तं वरलब्धतत्कालबलं महाराक्षसं निजताण्डवेन मोहयसीत्यर्थः । त्वं तु जगतां रक्षायै नृ[^१]त्यसि, जगन्ति तु त्वत्ता- ण्डवेन संशयितानि भवन्तीत्याह । महीत्यादि । तव चरणाघातेन सहसा संशयपदं संकटं मही व्रजति । तथा विष्णोः पदमन्तरिक्षं भ्राम्यद्भुजपरिधरुग्णग्रहगणं भुजा एव परिघाः अतिसुवृत्तपीवरदृढ- दीर्घत्वात्तैर्भ्राम्यद्भिर्भुजरूपपरिघै रुग्णाः पीडिताः ग्रहगणा नक्षत्रस- मूहा यत्र तत्तथा संशयपदं व्रजतीत्यर्थः । तथा द्यौः स्वर्लोकः अनि- भृता असंवृता या जटास्ताभिस्ताडितं तटं प्रान्तदेशो यस्याः सा तथा मुहुर्दौस्थ्यं दुःस्थत्वं याति । एवं च क्रमेण त्रयाणां लोका- नामपि संशयो दर्शितः । नन्वसौ सर्वज्ञोऽप्यपायमपर्यालोचयन्नेव किमित्येवंविधताण्डवे प्रवृत्त इत्यत आह । नन्विति । ननु अहो विभुता परममहत्ता । प्रभुतेति यावत् । वामैव प्रतिकूलेव । [^१.] ’नटसि’ इति पाठः। अनुकूलमाचरत्यपि किंचित्प्रतिकूलमवश्यमाचरतीत्येवंशब्दार्थः ॥ दृश्यते हि स्वल्पकेऽपि राजनि स्वदेशरक्षणाय सेनया सह संच- रति स्वदेशोपद्रवः, किमुत तादृशे महेश्वर इत्यर्थः । हरिपक्षे तु । हे ईश, त्वं जगद्रक्षायै नटसि नटवदाचरसि । नटशब्दादा- चारार्थे क्विपि प्रत्ययलोपे नटसीति रूपम् । मत्स्यादिभूमिकां भ - जसीत्यर्थः । कस्यामवस्थायां जगद्रक्षणार्थमवतरणमित्युच्यते । महीपादित्यादि । महीं पातीति महीपो राजा तस्मादाघातात्सा मही सह समकालमेव संशयपदं व्रजति । आ समन्ताद्धातो नाशोऽस्मा - दित्याघातो हिंस्रः । तथा च यदैव हिंस्रस्य राज्यं तदैव संकटं व्रजतीत्यर्थः । तथा च विष्णोः पदमधिष्ठानं यत्र भगवान्विष्णुः स्वविभूतिभिः सह पूज्यते तद्विष्णोः पदं देवयजनाख्यं यज्ञशा- लादि । तत्कीदृशम् । भ्राम्यद्भिर्भुजस्थपरिघैर्भुजरूपपरिधैर्वा रुग्णो भग्नो ग्रहगणः सवित्रादिरूपः सोम[^१]पात्रसमूहो यत्र तत्तथा यागा- दिशुभकर्माणि यदा ध्वस्यन्ते तदेत्यर्थः । तथा द्यौर्दौस्थ्यं याति । अनिभृतजटा: पाषण्डव्रतचिह्नभूतास्ताभिराताडितं अभावमिव ग- मितं तटं तुङ्गं पदं सत्यलोकाख्यं यस्याः सा तथा । पाखण्डिभिर्हि वैकुण्ठलोकोऽपि नाङ्गीक्रियते किं पुनरिन्द्रादिलोक इत्यर्थः । यदा चैवं तदा त्वं नटवदाचरसीत्यर्थः । तथाच भगवद्वचनं गीतासु-- 'यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥' इति । श्रीभागवते च - 'यर्ह्यालयेष्वपि सतां न कथा हरेः स्युः पाखण्डिनो द्विजजना वृषला नृदेवाः । स्वाहास्वधावषडिति स्म गिरो न यत्र शास्ता भविष्यति कलेर्भ- गवान्युगान्ते ॥' इत्यादि । नन्विच्छामात्रेणैव जगन्ति रक्षितुं क्षमोऽपि किं मत्स्यादिरूपैः क्लिश्यतीत्यत आह । नन्वित्यादि । ननु निश्चितं विभुता विभववत्ता । संपन्नतेति यावत् । वामैव [^१] 'पात्रविशेषसमूहो' इति पाठः । वक्रैव सत्यप्यृजौ प्रकारे वक्रेणैव प्रकारेण स्वसंपत्ति सफलयितुं संपन्नः कार्यं करोतीत्यर्थः । तेनाष्टविधमैश्वर्यमौत्प[^१]त्तिकं दर्शयन्भक्ता- नामभिध्यानाय तानि तानि श्रवणमनोहराणि चरितानि तेन तेना- वतारेण धत्ते भगवानिति भावः ॥ १६ ॥ अथ गङ्गया उद्धरणधारणे दर्शयन्हरिहरौ स्तौति - वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते । 'जगद्द्वीपाकारं जलधिवलयं तेन कृतमि- त्यनेनैवोन्ने॒यं धृतमहिम दिव्यं तव वपुः ॥ १७ ॥ वियदिति । हे ईश, अनेनैव लिङ्गेन तव दिव्यं दिवि भवं सर्वदेवनियन्तृ वपुः शरीरं धृतमहिम सर्वेभ्यो महत्तरं उन्नेयमूह- नीयम् । तब वपुषः सर्वमहत्तरत्वमेतावतापि निश्चेतुं शक्यं किमिति प्रमाणान्तरमत्रापेक्षितव्यमिति एवकारार्थः । इतिशब्दः प्रकारार्थे । एवंप्रकारेण लिङ्गेनेत्यर्थः । तमेव प्रकारं दर्शयति । वियदित्यादि । वियदाकाशं व्याप्नोत्याच्छादयतीति तथा तारागणेन नक्षत्रवृन्देन स्वान्तःपातिना गुणिता शुभ्रत्वादिगुणसजातीयत्वाद्व- र्धिता फेनोद्गमरुचिर्यस्य स तथा एतादृशो वारां प्रवाहः स तव शिरसि पृषतलघुदृष्टः पृषताद्विन्दोरपि लघुरल्पतरः पृषतलघुः स इव दृष्ट आलोकितः । तेन तु वारां प्रवाहेण जलधि- वलयं जगद्द्वीपाकारं कृतं जलधीनां वृन्दं जगद्भूलोको द्वीपाकारं जम्बूद्वीपादिसप्तकरूपं यस्मिंस्तत्तथा विहितम् । 'अगस्त्येन हि सप्तसु समुद्रेषु पीतेषु पुनर्भगीरथानीतगङ्गाप्रवाहेणैव तेषां पूरणं जातम्' इति पुराणप्रसिद्धम् । तथाच यो जलराशिस्तव शिरसि बिन्दोरप्यल्पो दृष्टः स एवात्र कियान्मन्दाकिनीनाम्ना वियद्व्या- [^१.] 'श्वर्यमात्ययिकं' इति पाठः । प्यास्ते, कियान्भागीरथीति गङ्गेति च प्रसिद्धो भूलोके सप्तसमु- द्रानापूर्यास्ते, कियांस्तु भोगवतीति संज्ञया पातालमभिव्याप्यास्ते इत्यनेन तव दिव्यवपुषो महत्त्वमनुमीयत इत्यर्थः ॥ हरिपक्षे तु । तारागणैर्गुणिताः फेना यस्याः सा तारागणगुणितफेना गङ्गा तस्या उद्गमे उद्भवे रुचिः शोभा यस्य स तथा शिरसि सर्वलो- कानां शिरःस्थानीये ब्रह्मलोके बलिछलनोत्क्षिप्तचरणाङ्गुष्ठनिर्भिन्न- ब्रह्माण्डविवरादागतो गङ्गोत्पत्तिहेतुर्वियद्व्यापको यो वारां प्रवाहः स ते त्वया पृषतलघुदृष्टः बिन्दोरपि लघुदृष्टः बिन्दोरपि लघु यथा स्यात्तथोपलब्ध इत्यर्थः । अनेनैव लिङ्गेन च तव दिव्यं वपुः बलिछलनार्थे दिव्याकाशे आविर्भावितं त्रैविक्रमं रूपं धृतम- हिमोन्नेयम् । शेषं पूर्ववत् ॥ १७ ॥ अथ लङ्कात्रिपुरदाहौ दर्शयन्हरिहरौ स्तौति – रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति । दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि- र्विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः १८ रथ इति । हे ईश ! त्रिपुरतृणं दिघक्षोस्तव कोऽयमाडम्बरवि- धिः त्रयाणां पुराणां समाहारस्त्रिपुरं तदेव तृणं अनायासनाश्यत्वात् । तद्दग्धुमिच्छोस्तव केयं महत्प्रयोजनमुद्दिश्येव संभ्रमरचना । नहि लौकिका अपि नखच्छेद्ये कुठारं परिगृह्णन्ति, अतस्तवात्यल्पे प्रयोजने न महान्प्रयास उचित इत्यर्थः । आडम्बरविधिमेव दर्श- यति । रथ इत्यादि । क्षोणी पृथ्वी रथरूपेण परिणता, शतघृति- र्ब्रह्मा यन्ता सारथिः, अगेन्द्रः पर्वतश्रेष्ठो मेरुः धनुः कोदण्डं, सोमसूर्यौ द्वे चक्रे, रथचरणं चक्रं तद्युक्तपाणिर्विष्णुः शरो बाणः, चतुर्थवाक्ये श्रुतोऽप्यथोशब्दः सर्वत्र वाक्यभेदाय योजनीयः । इतिशब्दः प्रकारार्थः । त्रिभुवनमपीच्छामात्रेण संहरतस्तवैवंप्रका- रेण सामग्रीसंपादनमाडम्बरमात्रमित्यर्थः । एवमाक्षिप्य परिहार - माह । विधेयैरित्यादि । खलु निश्चितं प्रभोरीश्वरस्य धियो बुद्धयः संकल्प विशेषाः परतन्त्राः पराधीना न भवन्ति, अपि तु स्वतन्त्रा एव । ताः कीदृश्यः । विधेयैः स्वाधीनैः पदार्थैः क्रीडन्त्यः खेलन्त्यः । नहि क्रीडायां प्रयोजनाद्यपेक्षास्ति । तस्माद्विचित्राणि वस्तूनि स्वाधी- नतया क्रीडासाधनीकृत्य क्रीडतस्तव सर्वाणि कार्याणि स्वेच्छामा- त्रेण कर्तुं क्षमस्य लौकिकवैदिकनियमानधीनबुद्धेर्न किंचिद्प्यनुचि- तमित्यर्थः ॥ हरिपक्षे तु । त्रीणि त्रिकूटगिरिशिखराणि पुराण्या- श्रयो यस्येति त्रिपुरं लङ्कापुरं तदेव तृणं तद्दग्धुमिच्छोस्तव कोऽयं श्रीरामरूपेण सुग्रीवसख्यसमुद्रबन्धनादिश्चाडम्बरविधिः । रथः क्षोणीत्यादिरूपकं । क्षोणीव रथः, शतधृतिरिव यन्ता, अगेन्द्र इव धनुः, चन्द्रार्काविव रथचक्रे, रथचरणपाणिरिव शरः, स्वतु- ल्यवीर्यो बाण इत्यर्थः । क्षोण्यादिसदृशरथाद्युपादानमेतादृशात्य- ल्पप्रयोजनायापेक्षितुमुचितं न भवतीत्यर्थः । शेषं पूर्ववत् ॥ १८ ॥ अथेन्द्रोपेन्द्रयोर्भक्तिं तत्फलं च दर्शयन्हरिहरौ स्तौति - हरिस्ते साहस्रं कमलबलिमाधाय पदयो- र्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् । गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९ ॥ हरिरिति । हे त्रिपुरहर, हरिर्विष्णुस्तव पदयोः साहस्रं सह- स्रसंख्यापरिमाणं कमलानां पद्मानां बलिमुपहारं । सहस्रकमलात्मकं बलिमित्यर्थः । आधाय समर्प्य तस्मिन्कमलसहस्रवलावेकोने सति एकेन कमलेन भक्तिपरीक्षार्थं त्वया गोपितेन हीने सति नियम- भङ्गो माभूदिति तत्पूरणार्थं तदा कमलान्तरमलभमानो निज- मात्मीयं नेत्रकमलमेवोदहरदुत्पाटितवान् । यदैवं स्वनेत्रोत्पाटन- रूपं भजनं, असौ भक्त्युद्रेकः भक्तेः सेवाया अत्यन्तप्रकर्षः चक्रवपुषा सुदर्शनरूपेण परिणतिं गतः त्रयाणां जगतां रक्षायै जागर्ति । परि- पालनार्थं सावधान एव वर्तते इत्यर्थः । एवमाख्यायिका च पुराणप्रसिद्धा । तथा चैवंविधाचिन्त्यमाहात्म्यस्त्वमसीति भावः ॥ हरिपक्षे तु । त्रिपुरहरेति प्राग्व्याख्यातम् । हरिरिन्द्रस्तव पदयोः साहस्रं कमलबलिमाधाय । कीदृशं नेत्रकमलं नेत्राण्येव कमलानि यस्मिन्स तथा नेत्रसहस्रात्मकं कमलसहस्रबलिमित्यर्थः । युगप- न्नेत्रसहस्रव्यापारेण त्वच्चरणयोर्दर्शनरूपमाराधनं कृत्वेत्यर्थः । आ- राधनप्रयोजनमाह । निजमात्मानमेकः सहायान्तरशून्यः । अनेन तस्मिन्नेतल्लोकविलक्षणे स्वर्गलोके उदहरदुद्धृतवान् । स्वर्लोका- धिपतिमात्मानं कृतवानित्यर्थः । निजमुद्धर्तुं युगपन्नेत्रसहस्रेण त्वच्चरणावलोकने यत्प्रवणत्वं असौ भक्त्तयुद्रेकः चक्रवपुषा चक्रं सैन्यं ऐरावतोच्चैःश्रवःप्रभृति तद्रूपेण परिणतिं गतः परिणतः स- मुद्रमथनेन लक्ष्मीपीयूषादिप्रादुर्भावात् । त्रयाणां लोकानां रक्षायै जागर्तीत्यादिपूर्ववत् ॥ १९ ॥ एवं पूर्वश्लोकेषु परमेश्वराराधनादेव सर्वपुरुषार्थप्राप्तिरन्वयव्य- तिरेकाभ्यामुक्ता । तत्र केचिन्मीमांसकंमन्याः परमेश्वरनिरपे- क्षाकर्मजनितादपूर्वादेव शुभाशुभप्राप्तिरित्याहुस्तान्निराकुर्वन्हरिहरौ स्तौति - क्रतौ सुप्ते जाग्रत्वमसि फलयोगे ऋतुमतां क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते । अतस्त्वां संप्रेक्ष्य क्रतुषु फलदानप्रतिभुवं श्रुतौ श्रद्धां बद्ध्वा कृतपरिकरः कर्मसु जनः ॥२०॥ क्रताविति । हे त्रिपुरहरेति संबोधनं पूर्व श्लोकादनुषज्यते क्रतौ यागादिकर्मणि आशुतरविनाशिस्वभावत्वात्सुप्ते लीने स्वकारणे सूक्ष्मरूपतां प्राप्ते ध्वस्ते सति । क्रतुमतां यागादिकर्मकारिणां का- लान्तरदेशान्तरभावितत्तत्फलसंबन्धे तन्निमित्तं त्वं जाग्रदसि प्रबुद्ध एव वर्तसे । वर्तमाने विहितेन शत्रा जागरणस्य सर्वदा- स्तित्वमुच्यते तेन सर्वदैवावहितोऽसीत्यर्थः । ननु लिङादिपद- वाच्यक्रियायाः स्वर्गादिसाधनत्वान्यथानुपपत्त्या कल्प्यमपूर्वमेव फलयोगाय जागर्ति किमीश्वरेणेत्यत आह । क्वेत्यादि । प्रध्वस्तं विनष्टं कर्म पुरुषस्य चेतनस्य फलदातुराराधनं विना क्व फलति । नक्कापीत्यर्थः । नहि लोके कुत्रापि विनष्टस्य कर्मणोऽपूर्वद्वारा फलजनकत्वं दृष्टम् । लोकानुसारिणी च वेदेऽपि कल्पना लोक- वदधिकरणन्यायात् । चेतनस्य तु राजादेराराधितस्य विनैवा- पूर्वं सेवादेः फलजनकत्वं दृश्यते । तत्र लोकदृष्टप्रकारेणैव वैदि- ककर्मणामपि फलजनकत्वसंभवे न लोकविरुद्धापूर्व फलदातृत्व- कल्पनावकाशः । अपूर्वं हि लोकसिद्धकारणान्तरनिपेरक्षं वा स्व- र्गादिफलं जनयेत्तत्सापेक्षं वा । आद्ये तत्फलोपभोगयोग्यदेहेन्द्रि- यादिकमपि नापेक्षेत । न चैतदिष्टं, सर्वस्यापि सुखदुःखादेः शरी- रसंयुक्तात्ममनोयोगादिदृष्टकारणजन्यत्वाभ्युपगमात् । द्वितीये तु लोकसिद्धदेहेन्द्रियाद्यपेक्षावदीश्वरापेक्षापि नियता, लोके तथादर्श- नात्। तस्माच्छ्रुतिन्यायसिद्धेश्वरपदार्थधर्मिबाघकल्पनाद्वरमपूर्वपदा- र्थस्य नैरपेक्ष्यधर्ममात्रबाधकल्पनम् । 'फलमत उपपत्तेः' इति न्या- यात् । इदं चापूर्वमभ्युपेत्य तत्सापेक्षत्वमीश्वरस्योक्तम् । वस्तु- तस्तु नापूर्वे किंचित्प्रमाणमस्ति । लिङादीनामिष्टाभ्युपायतावाचक- त्वात् । तदन्यथानुपपत्तेश्च श्रुतिन्यायसहस्रसिद्धपरमेश्वरेणैवोप- क्षयात् नापूर्वसिद्धिः । अपूर्वं च तत्फलदातृत्वं च द्वयं भवद्भिः कल्प्यम् । अस्माभिस्तु केवलमीश्वरः कल्प्यः । तस्य फलदातृत्वा- दिकं तु चेतनत्वाद्राजादिवल्लोक्सिद्धमेव । सर्वज्ञत्वेन च तत्तत्क- र्मानुरूपफलदातृत्वान्न वैषम्यनैर्घृण्यादिदोषप्रसङ्गः । यत एवं त्व- मेव सर्वकर्मफलदाताऽतस्त्वां क्रतुषु श्रौतस्मार्तकर्मसु कालान्तर - फलसाधनेषु फलदानप्रतिभुवं फलदानाय लग्नकमिव संप्रेक्ष्य स- म्यक् श्रुतिस्मृतिन्यायैः प्रकर्षेण निश्चित्य कर्मफलदातुस्तव सद्भाव- प्रतिपादिकायां हि श्रुतौ 'एतस्य वा अक्षरस्य प्रशासने गार्गि द्या- वापृथिव्यौ विधृते तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः' 'कर्माध्यक्षः सर्वभूताधिवासः' 'एष उ ह्येव साधु कर्म कारयति तं यमुन्निनीषते एष उ एव वाऽसाधु' इत्यादिकायां श्रुतौ श्रद्धां बद्ध्वा अर्थवादत्वप्रयुक्तस्वार्थाप्रामाण्यशङ्कानिरासेन लोकसिद्धदृढतरन्या- यानुगृ[^१]हीततया देवताधिकरणन्यायेन स्वार्थे प्रामाण्यं निश्चित्य जनः श्रुतिस्मृतिविहितकर्माधिकारी कर्मसु श्रौतस्मार्तेषु कृतपरिकरः कृतः परिकर उद्यमो येन स तथा । कृतारम्भो भवतीत्यर्थः । प्रतिभू- सादृश्यं च एतावन्मात्रेणैव विवक्षितम् । यथा कश्चिदुत्तमर्णः प्रमाणनिश्चितं दीर्घकालावस्थानं स्वधनार्पणसमर्थं कंचित्प्रतिभुवं निरूप्य अधमर्णे पलायिते मृते वा एतस्मादेव कुशलिनः प्रति- भुवः सकाशात्स्वधनं प्राप्स्यामीत्यभिप्रायेण यस्मैकस्मैचिदधमर्णायर्णं प्रयच्छति तद्वदधमर्णस्थानीये कर्मणि प्रलीनेऽपि परमेश्वरादेव प्रतिभूस्थानीयात्तत्फलं प्राप्यामीत्यभिप्रायेणोत्तमर्णस्थानीयो यज- मानो निःशङ्कमेव कर्मानुतिष्ठतीति भावः ॥ हरिपक्षेप्येवं । शेषं पूर्ववत् । यद्वा सुजनः साधुजनः कर्म श्रुतिस्मृतिविहितं कर्माकृत कृतवान् । कीदृशः सुजनः । परिकरः परि सर्वतः कं सुखं राति ददातीति तथा सर्वेषां सुखकरः । अहिंसक इत्यर्थः । 'दृढपरिकरः' इति क्वचित्पाठः । तस्य दृढारम्भ इत्यर्थः । अयं च न सांप्रदायिकः ॥ २० ॥ [^१] 'गृहीतेन' इति पाठः । एवं भगवत्प्रसादेन क्रतुफलप्राप्तिमुक्त्वा विहितानां शुभफल- जनकत्वानुपपत्त्या धर्माख्यमपूर्वं द्वारत्वेन कल्पनीयमिति पक्षो निराकृतः । संप्रति विहिताकरणनिषिद्धकरणयोरशुभफलस्य भग- वत्प्रसादासाध्यत्वात्तदर्थमवश्यमधर्माख्यमपूर्वं कल्पनीयमिति शङ्कायां राजाज्ञालङ्घनादेरिव भगवदाज्ञोल्लङ्घनादखिलानर्थफलत्वं दृष्टद्वारेणैव भविष्यतीत्यभिप्रायेण भगवतोऽप्रसादेन क्रतुफलाप्राप्तिमनर्थप्राप्तिं च दर्शयन्हरिहरौ स्तौति – क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता- मृषीणामार्त्विज्यं शरणद सदस्या: सुरगणाः । क्रतुभ्रेषस्त्वत्तः क्रतुफलविधानव्यसनिनो ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥२१॥ क्रियेति । हे शरणद, दक्षो दक्षनामा प्रजापतिः स्वयं क्रिया- स्वनुष्ठेयासु दक्षः प्रवीणः । यज्ञविधौ कुशल इत्यर्थः । एतेन वि- द्वत्त्वमधिकारिविशेषणमुक्तम् । तथा तनुभृतां शरीरिणामधीशः स्वामी प्रजापतित्वात् । एतेन सामर्थ्यमधिकारिविशेषणमुक्तम् । एतादृशः क्रतुपतिर्यजमानः । तथा ऋषीणां त्रिकालदर्शिनां भृगु - प्रभृतीनामार्त्विज्यमृत्विक्त्वमध्वर्य्वादिरूपता । तथा सुरगणा ब्रह्मादयो देवगणाः सदस्याः सभ्या उपद्रष्टारः । एतादृशसर्वसाम- ग्रीसंपत्तावपि त्वत्तः परमेश्वरादप्रसन्नात्क्रतोयज्ञस्य भ्रेषः भ्रंशो जातः । कीदृशात् । क्रतुफलविधानव्यसनिनः क्रतोर्यज्ञस्य फलं स्वर्गादि तस्य विधानं निष्पादनं तेन व्यसनी तदेकनिष्ठस्तस्मात् क्रतुफलदातृस्वभावोऽपि त्वामवज्ञाय क्रतुभ्रंशहेतुतां नीत इत्यर्थः । एतदेव द्रढयन्नाह । ध्रुवमिति । ध्रुवं निश्चितं क्रतुफलदातरि पर- मेश्वरे विषये श्रद्धाविधुरं भक्तिरहितं यथा स्यात्तथानुष्ठिता मखा यज्ञा क्रतुर्यजमानस्याभिचाराय नाशायैव भवन्तीत्यर्थ॥ हरिपक्षे तु । तनुभृतामधीशः क्रतुपतिः तनुं स्वशरीरमेव बिभ्रति पुष्ण- न्तीति तनुभृतो दैत्या देवबाह्यास्ते हि सुरनरपितृभ्यो न प्रयच्छ- न्ति सर्वहिंसया स्वशरीरमेव पुष्णन्ति तेषामधीशो राजा बलिः क्रतुपतिर्यजमानः, अथवा तनून्क्षीणान्बिभ्रति पुष्णन्ति ते तनु- भृतो वदान्यास्तेषामधीशो दातृ[^१]वीराग्रण्यो बलिः । कीदृशः । क्रिया- दक्षोदक्षः उत्कृष्टान्यक्षाणीन्द्रियाणि यस्य स उदक्षः क्रियादक्ष- श्चासावुदक्षश्चेति स तथा । सुरेषु देवेषु गण्यन्ते इति सुरगणा देवतुल्याः पुरुषाः सदस्याः । श्रद्धाविधुरत्वं च भगवदनुगृहीते- न्द्रादिदेवगणैः सह विरोधात् । स्वभक्तद्रोहो हि भगवतः स्वद्रो- हादप्यधिकः । शेपं पूर्ववत् ॥ २१ ॥ अथ ब्रह्ममारीचयोर्मृगरूपयोर्वधं दर्शयन्हरिहरौ स्तौति - प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा । धनुःपाणेर्यातं दिवमपि सपत्राकृतममुं त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ २२ ॥ प्रजानाथमिति । हे नाथ नियामक, तव परमेश्वरस्य धनुः- पाणेः धृतपिनाकस्य मृगव्याधरभसः मृगान्विध्यतीति मृगव्याधो लुब्धकः तस्येव रभस उत्साहातिरेको मृगव्याधरभसः शर एव तथा आरोपितः स चार्द्रानक्षत्ररूपेण परिणत इति पुराणप्रसिद्धः । अमुं प्रजानाथं ब्रह्माणं दिवं स्वर्गं यातं प्राप्तमपि नक्षत्रमध्ये मृग- शिरोरूपेण परिणतमपि तथा सपत्राकृतं सह पत्रेण शरं शरीरे प्र- वेश्यातिव्यथां नीतः सपत्राकृतस्तादृशमिवात्मानं मन्यमानम् । रूप- कमेतत् । शरस्यार्द्रानक्षत्ररूपेण संनिधानमात्रं नतु ताडनमिति द्रष्टव्यम् । अथवा शरेण ताडित एव ब्रह्मा रुद्रस्य क्रोधोत्साहवि- [^१] 'दानवाग्रगण्यो' इति पाठः । शेष एवार्द्रानक्षत्ररूपेण परिणत इति पुराणान्तरप्रसिद्ध्या द्रष्टव्यम् । अतएव त्रसन्तं बिभ्यन्तमद्यापि न त्यजति । इदानीमपि धनु - ष्पाणिमेव त्वां सर्वदा दर्शयतीत्यर्थः । तस्यैतादृशदण्डार्हतामाह । स्वामात्मीयां दुहितरं पुत्रीं रोहिद्भूतां लज्जया मृगीभूतां ऋश्यस्य मृगस्य वपुषा शरीरेण रिरमयिषुं रमयितुमिच्छुम् । इयं चेलज्जया मृगीभूता तर्ह्यहमपि मृगरूपेणैनां भजिष्यामीति बुद्ध्या मृगरूपेण प्रसभं हठेनानिच्छन्तीमपि तां गतं रत्यर्थं प्राप्तम् । तस्य परमवशि- नोऽपि स्वमर्यादातिक्रमे कारणं वदन्विशिनष्टि । अभिकं कामु- कम् । कामेनाभिभूतत्वात्स्वमर्यादोल्लङ्घिनमित्यर्थः । एवंहि पु- राणेषु प्रसिद्धम् - 'ब्रह्मा स्वदुहितरं संध्यामतिरूपिणीमालोक्य काम- वशो भूत्वा तामुपगन्तुमुद्यतः । सा चायं पिता भूत्वा मामुपगच्छ- तीति लज्जया मृगीरूपा बभूव । ततस्तां तथा दृष्ट्वा ब्रह्मापि मृगरूपं दधार । तच्च दृष्ट्वा त्रिजगन्नियन्त्रा श्रीमहादेवेनायं प्रजानाथो धर्म- प्रवर्तको भूत्वाप्येतादृशं जुगुप्सितमाचरतीति महतापराधेन दण्ड- नीयो मयेति पिनाकमाकृष्य शरः प्रक्षिप्तः । ततः स ब्रह्मा व्रीडितः पीडितश्च सन् मृगशिरोनक्षत्ररूपो बभूव । ततः श्रीरुद्रस्य शरो- ऽप्यार्द्रानक्षत्ररूपो भूत्वा तस्य पश्चाद्भागे स्थितः । तथा चार्द्रामृगशि- रसोः सर्वदा संनिहितत्वाद्यापि न त्यजति' इत्युक्तम् । हरिपक्षे तु । हे नाथ, रोहिद्भूतां गतं प्रजानाथं दिवं यातमपि धनुष्पाणेस्तव मृगव्याधरभसोऽद्यापि न त्यजति । रोहितो हरिण्याः सकाशाद्भवतीति रोहिद्भूर्हरिणशावकः तस्य भावो रोहिद्भूता तां गतम् । हरिण - शावकत्वं प्राप्तमित्यर्थः । प्रजाः प्राणिनो नाथति उपतापयतीति प्रजानाथो राक्षसः स च प्रकृते मारीचाख्यस्तम् । किमर्थं तस्य मृगरूपधारणमित्यत आह । प्रसभमभिकं रिरमयिषुं प्रकृष्टा शौर्या- दियुक्ता सभा यस्य स प्रसभस्तं तादृशं, अभितः कानि शिरांसि यस्य सोऽभिको दशग्रीवस्तम् । सीतापहरणोपायेन क्रीडयितु- मिच्छुम् । तथा स्वां दुहितरमयोनिजां कन्यां सीतां ऋश्यस्य वपुषा विचित्रमृगशरीरेण रिरमयिषुं प्रमोदयितुमिच्छुम् । विचि- त्रमृगरूपं मां दृष्ट्वा सीता स्त्रीस्वभावादतिमुग्धा मच्चर्मग्रहणार्थं श्री - रामं प्रेरयिष्यति । ततो रामे बहुदूरं मयाऽपसारिते लक्ष्मणे च तदुद्देशार्थं गते एकाकिनीं सीतां रावणः सुखेन हरिष्यतीत्यभि- प्रायेण धृतविचित्रमृगशरीरमित्यर्थः । अत एव बाणेन सपत्रा- कृतत्वाद्दिवं परलोकं यातम् । मृतमित्यर्थः । अमुं मृतमपि त्रसन्त- मद्यापि तव मृगव्याधरभसो न त्यजतीत्युत्प्रेक्षारूपो ध्वनिः । शेषं पूर्ववत् ॥ २२ ॥ परमवशिनां वरावपि श्रीराममहादेवौ लक्ष्मीपार्वत्यनुकम्पया स्त्रैणमिवात्मानं दर्शयत इति प्रतिपादयन्स्तौति — स्वलावण्याशंसाधृतधनुषमह्नाय तृणव- त्पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि । यदि स्त्रैणं देवी यमनिरत देहार्धघटना- दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ २३ ॥ स्वलावण्येति । हे पुरमथन, हे यमनिरत, यमनियमासना- द्यष्टाङ्गयोगपरायण । एतेन जितेन्द्रियत्वमुक्तम् । पुष्पायुधं कामं त्वया तृणवत्तृणमिव अह्नाय शीघ्रं प्लष्टं दुग्धं पुरः साक्षादेवाव्यव- धानेन दृष्ट्वा चाक्षुषज्ञानविषयीकृत्य । कीदृशं पुष्पायुधम् । स्व- लावण्याशंसाधृतधनुषं स्वस्याः पार्वत्याः यल्लावण्यं सौन्दर्यातिश- यस्तद्विषया आशंसा परमयोगिनमपि श्रीरुद्रमस्याः सौन्दर्यातिश- येन वशीकरिष्यामीति या प्रत्याशा तया निमित्तभूतया घृतं ध - नुर्येनेति तथा तम् । एतेन स्वलावण्यातिशयस्यापि श्रीरुद्र विषये- ऽकिंचित्करत्वमुक्तम् । तथा चैवं स्खलावण्यवैयर्थ्यं पुष्पायुधस्य तृणवद्दाहं च स्वयं साक्षात्कृत्वापि देवी पार्वती इयं चिरकालं मामुद्दिश्य तपः कृतवती विरहदुःखं मा प्राप्नोत्विति करुणामात्रेण देहार्धघटनात् त्वया स्वशरीरार्धेऽवस्थापनाद्धेतोर्भ्रमबीजात् यदि त्वां सर्वयोगिनां वरं स्त्रैणं यद्ययं मदधीनो न भवेत्कथं मां स्व- शरीरार्धे स्थापयेदिति भ्रान्त्या स्त्रीसक्तं यद्यवैति विशेषादर्शनात्कल्प- यति तर्हि तदद्धा युक्तमेव तस्याः । अयुक्तस्यापि युक्तत्वे हेतुमाह । बतेत्यादि । हे वरद, अतिदुर्लभमपि स्वदेहार्धं दत्तमिति वरदेति योग्यं संबोधनम् । बत अहो, युवतयस्तरुण्य: मुग्धा अतत्त्वज्ञाः । स्वभावत एवेति शेषः । तथा च सहजानां युवतविभूषणानां प्रधानं मौग्ध्यमनुकुर्वन्त्याः स्वरूपतश्चितिरूपाया अपि देव्या मि - थ्याज्ञानं युक्तमित्यर्थः ॥ हरिपक्षे तु । हे अर्धघटनादव, घटनाया अर्धमित्यर्धघटना अर्धपिप्पलीवत् । तस्या दवो वनवह्निः । दाहक इति यावत् । सीतारूपाया लक्ष्म्याः रामरूपेणोचितात्संयोगात्स्वे- च्छयाऽर्धसंभोगं दत्त्वाऽविप्रलम्भं दत्तवानसीत्यर्थः । सा पूर्वश्लो- कोक्ता देवी सीतारूपा लक्ष्मीः । कीदृशी । यमनिरतदेहा अत्यन्त - पतिव्रता । तथा पुरमथनपुष्पा पुरस्य शरीरस्य मथनानि पीडकानि पुष्पाणि यस्याः सा तथा । पुष्पाणामपि स्प[^१]र्शासहा । अतिसुकुमा- राङ्गीत्यर्थः । त्वां श्रीरामरूपं यदि स्त्रैणमवैत्य[^२]वगच्छति तदद्धेत्या- दिपूर्ववत् । त्वां कीदृशम् । स्वलावण्याशं स्वकीयं लावण्यमत्र शौर्यादिगुणकृतं सौन्दर्यं तस्मिन्नाशा यस्य स स्वलावण्याशस्तम् । सीताया अनुद्धरणात्स्वस्य शौर्यादिग्रसिद्धिर्गच्छेदिति स्वकीर्तिर- क्षार्थिनमित्यर्थः । अत एव धृतधनुषं सज्जीकृतकोदण्डम् । इदमेकं भ्रमबीजमुक्तम् । भ्रमवीजान्तरमाह । अह्नाय तृणवत्पुरः प्लुष्टं दृष्ट्वा शीघ्रमेव तृणस्येव पुरो लङ्कायाः प्लुष्टं दाहम् । भावे क्तः । तथा युधं युद्धमपि दृष्ट्वा । आयुधशब्दस्य शस्त्रे युद्धे चानुशासनात् । तथा च स्वकीर्तिरक्षार्थमत्यन्तपतिव्रतायाश्च देव्याः कारुण्येन क्लेश- १. रतिः' इति पाठः । २ 'मेति प्रत्येति' इति पाठः । विमोचनार्थं सज्जीकृतकोदण्डं त्वामर्धघटनादेवमप्ययं यदि मद- धीनो न भवेत्तदा कथमेतादृशदुष्करकर्माणि मामुद्दिश्य कुर्यादिति भ्रमेण स्त्रीसक्तमिव कल्पयतीत्यर्थः । शेषं पूर्ववत् ॥ २३ ॥ अथ स्वयममङ्गलशीलतया क्रीडन्नपि भक्तानां मङ्गलमेव द - दासि, स्वयममङ्गलशीलानामपि भक्तानां त्वमेव मङ्गलमसीति च वदन् शंकरनारायणौ स्तौति – स्मशानेष्वाक्रीडा मरहर पिशाचा: सहचरा- श्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः । अमङ्गल्यं शीलं तव भवतु नामैवमखिलं तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ २४ ॥ स्मशानेति । हे स्मरहर, हे वरद, तवाखिलमपि शीलं सर्वमपि चरितं एवंप्रकारेणामङ्गल्यं मङ्गलविपरीतं भवतु नाम । किं नस्तेन निरूपितेनेत्यर्थः । तथापि स्वयममङ्गलशीलोऽपि स्मर्तॄणां तव स्मरणकर्तॄणां त्वं परमं मङ्गलमेवासि निरतिशयं कल्याणमेव भ- वसि । तेनामङ्गलशीलोऽयं रुद्रो न मङ्गलकामैः सेवनीय इति भ्रमं परिहृत्य मनोवाक्कायप्रणिधानैः सर्वदा सर्वैः सेवनीयोऽसी- त्यर्थः । एवंपदसूचितममङ्गल्यं शीलमेव दर्शयति । स्मशानेष्वि- त्यादि । स्मशानेषु शवशयनेष्वासमन्तात्केलिः, पिशाचाः प्रेताः सहायाः, चिताभस्म शवदाहस्थं भस्माङ्गलेपोऽङ्गरागसाधनम्, नृक- रोटी मनुष्य शिरोस्थिसमूहः स्रङ्माला । अपिशव्दादन्यदप्यार्द्रचर्मादि ॥ हरिपक्षे तु । हे वरद, तव स्मर्तॄणाममङ्गल्यं शीलं भवतु नाम, तथापि तेषां त्वमेव परमं मङ्गलमसीत्यर्थः । तथाच गीतासु - 'अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः' इति । अथवा तव नामस्मर्तॄणामिति योज्यम् । नाममात्रं स्मरतां परनं मङ्गलमसि त्वां स्मरतां तु किमु वा- च्यमित्यर्थः । कीदृशं नाम । अखिलं न खिलं फलरहितमखिलं सर्वदा सर्वत्र सफलमित्यर्थः । अत्यन्तपापित्वेन प्रसिद्धानामजामिलादी- नामपि त्वं नाममात्रस्य पुत्रनामत्वेन मरणव्यथया शिथिलकरणत्वेन च मन्दमुच्चारणेऽपि सर्वपापक्षयद्वारा परमपुरुषार्थप्राप्तिश्रवणात । अमङ्गल्यं शीलमेव दर्शयति स्मशानेष्वित्यादिरूपकेण । अत्य- न्ततिरस्कृतिवाच्यो ध्वनिरयं लक्षणामूलः । शवशयनतुल्येषु सर्वदा रोदनप्रधानेषु गृहेष्वा ईषत् क्रीडा । अल्पकालं वैषयिकतुच्छसु- खप्राप्तिरित्यर्थः । तथाच स्मरहरपिशाचा: सहचराः स्मरणं स्मरः शास्त्रीयो विवेकस्तं हरन्तीति स्मरहराः पिशाचतुल्याः पुत्रभा- र्यादयः पिशाचाः, स्मरहराश्च ते पिशाचाश्च स्मरहरपिशाचाः । यथा पिशाचाः स्वावेशेन ज्ञानलोपं कृत्वा पुरुषमनर्थे योजयन्ति तथा पुत्रभार्यादयोऽपि । तादृशाश्च वस्तुगत्या वैरिणोऽपि सहैव चरन्ति न क्षणमपि त्यजन्तीति सहचराः । तथा चिताभस्मतुल्य आलेपः । देहस्य विमूत्रपूयादिपूर्णत्वेनातिजुगुप्सितत्वात्तदालेपनस्याप्यति- जुगुप्सितत्वम् । तथा मनुष्यशिरोस्थिसमूहतुल्या माला पिशाच- तुल्यं भार्यादि विनोदहेतुत्वात् । अपिशब्दादन्यदपि सर्वं चरितं विषयसङ्गिनाममङ्गलमेव । एतादृशा अपि चेत्त्वां त्वन्नाम वा स्म- रन्ति तदा त्वमेव तेषां मङ्गल्यरूपेणाविर्भवसीत्यहोऽतिभक्तवात्स- ल्यमित्यर्थः । हरपक्षेप्येवं योजनीयम् ॥ २४ ॥ अतीतः पन्थानमित्यत्र हि पदार्थत्रयमुपन्यस्तं, कतिविधगुण इत्यनेन सगुणमैश्वर्यं, कस्य विषय इत्यनेनाद्वितीयं ब्रह्मस्वरूपं, पदे त्वर्वाचीन इत्यनेन लीलाविग्रहविहारादि । तत्र अजन्मानो लोका इत्यत्र सामान्यतः परमेश्वरसद्भावं दृढीकृत्य, तवैश्वर्यं यत्नाद्यदुप- रीत्यादिना सगुणमैश्वर्यं लीलाविग्रहविहारादिकं च वर्णितम् । संप्रत्यद्वितीयं ब्रह्मस्वरूपं वक्तव्यमवशिष्यते । तद्नभिधाने पूर्वो- क्तस्व सर्वस्यापि तुषकण्डजानवत्त्वप्रसङ्गान्निर्गुणब्रह्मस्वरूपस्यैव सर्वश्रुतिस्मृतितात्पर्यविषयत्वेन सत्यत्वात्, सर्वस्यापि प्रपञ्चस स्व- प्नवन्मिथ्यात्वात् । तस्मान्निर्गुणब्रह्मनिरूपणायोत्तरग्रन्थारम्भः । तत्र पूर्वश्लोके त्वं परमं मङ्गलमसीत्युक्तम् । तत्रैवमाशङ्क्यते । मङ्गलं हि सुखम् । न चेश्वरस्य सुखखरूपत्वं संभवति, सुखस्य जन्यत्वा- द्गुणत्वाच्च, ईश्वरस्य नित्यत्वादद्रव्यत्वाच्च । नित्यज्ञानेच्छाप्रयत्नवा- नीश्वरो न सुखरूपो नापि सुखाश्रय इति तार्किकाः । क्लेशकर्मवि- पाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरश्चितिरूपो न सुखरूप इति पातञ्जलाः । तदेवं नाद्वितीय ईश्वरो नापि सुखस्वरूप इत्याशङ्क्य तस्याद्वितीयपरमानन्दरूपत्वे विद्वदनुभवरूपं प्रत्यक्षं प्रमाणं वद- न्स्तौति - मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदससिलोत्सङ्गितदृशः । यदालोक्याह्लादं ह्रद इव निमज्ज्यामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् २५ मन इति । हे वरद, यत्किमपि तत्त्वं इदंतया वक्तुमशक्यं सत्यज्ञानानन्तानन्दात्मकं वस्त्वालोक्य वेदान्तवाक्यजन्ययाऽख- ण्डाकारवृत्त्याऽपरोक्षीकृत्य यमिनः शमादिसाधनसंपन्नाः परमहंसाः अन्तराह्लादंं बाह्यसुखविलक्षणं निरतिशयमुखं दधति पूर्वं विद्यमा नमेव धारयन्ति न तूत्पादयन्ति नित्यत्वात् । तत्तत्वं किल भवानिति । किलेति प्रसिद्धौ । सत्यज्ञानानन्तानन्दात्मकत्वेनैव श्रु - तिषु प्रसिद्धो भवान्न तार्किकाद्युक्तप्रकारः । अतस्त्वं कथं परमं मङ्गलं न भवसीति वाक्यशेषः । तत्राह्लादस्य निरतियत्वं द- र्शयितुं दृष्टान्तमाह । अमृतमये ह्रदे निमज्ज्येव । यस्य खलु लेश- मात्रमपि स्पृष्ट्वा सकलसंतापोपशमेन सुखिनो भवन्ति, किमुत व- क्तव्यं तस्य निमज्जनरूपसर्वाङ्गसंयोगेनेति कारणातिशयात्कार्यस्या - प्यतिशयः सूचितः । यद्यपि ब्रह्मानन्दस्य सर्वातिशयिनो न कोऽपि दृष्टान्तोऽस्ति तथापीषत्साम्येनापि लोकानां बुद्धिदार्ढ्यायैवमुक्तम् । एतादृशब्रह्मानन्दानुभवस्थासाधारणं कारणमाह । मन इत्यादिना । चित्ते हृदयाम्बुजे मनः संकल्पविकल्पात्मकमवधाय निरुध्य । वृ- त्तिशून्यं कृत्वेत्यर्थः । कीदृशं मनः । प्रत्यक् चक्षुरादीन्द्रियद्वारा बहिर्विषयप्रवृत्तिप्रतिकूलतया अन्तर्मुखतयैवाञ्चतीति प्रत्यक् । की- दृशा यमिनः । सविधं सप्रकारं यथा स्यात्तथा आत्तमरुतः । शास्त्रो- पदिष्टमार्गेणैव कृतप्राणायामा इत्यर्थः । अत्र सविधमित्यनेन यम- नियमादिसाधनानि सूच्यन्ते । आत्तमरुत इत्यनेन चतुर्थः कु- म्भकः । विषयेभ्य इन्द्रियाणां निवर्तनरूपः प्रत्याहारः प्रत्यक्पदेन सूचितः । चित्त इत्यनेन हृदयाम्बुजाख्यदेशसंब[^१]न्धात्समूहावलम्ब- नाख्या धारणोक्ता । अवधायेत्यनेन ध्यानसमाधी । तदुक्तं भगवता पतञ्जलिना – 'देशसंबन्धश्चित्तस्य धारणा । तत्र प्रत्ययैकतानता ध्या- नम् । तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः' इति । चि- त्तस्य वशीकरणार्थं मूलाधारस्वाधिष्ठानमणिपूरकानाहतविशुद्ध्या- ज्ञाख्यचक्राणामन्यतमे देशेऽवस्थापनं धारणेत्युच्यते । प्रत्ययस्य ए- कतानता (ए[^२]कविषयप्रवणता) विषयः प्रवाहः । स च द्विविधः । वि- च्छिद्यविच्छिद्य जायमानः संततश्चेति । तावुभौ क्रमेण ध्यानसमाधी भवतः । एतेनाष्टाङ्गयोगपरिपाको ब्रह्मसाक्षात्कारहेतुर्निदिध्यासन- रूपत्वेनोक्तः । एवं ब्रह्मानन्दानुभवस्य कारणमुक्त्वा कार्यमाह । प्रहृष्यद्रोमाणः प्रकर्षेण पुलकिताङ्गाः । तथा प्रमदसलिलोत्सङ्गि- तदृशः हर्षाश्रुपूर्णनेत्राः । एतदुभयं च यमिनामानन्दानुभवानुमाने लिङ्गमुक्तम् । अत्र प्रशब्देनोत्सङ्गितशब्देन च लौकिकसुखापे- क्षयाऽतिशयविशेषो व्यज्यते । यस्य च तत्त्वस्यालोकनमात्रे- [^१] 'संबन्धद्वारेण धारणोक्ता' इति पाठः । [^२] 'एकतानतैकविषयः' इति पाठः। णाप्यन्ये परमाह्लादं बिभ्रति, तत्स्वयं परमाह्लादरूपं भवतीति किमु वक्तव्यमित्युक्तम् । 'विज्ञानमानन्दं ब्रह्म' 'आनन्दो ब्रह्मेति व्यजानात्' 'एष एव परम आनन्दः' 'यो वै भूमा तत्सुखं' 'कोह्यो- वान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्' इत्याद्याः श्रुतयश्चास्मिन्नर्थे प्रमाणत्वेन द्रष्टव्याः ॥ हरिपक्षेऽप्येवम् ॥ २५॥ एवमद्वितीये ब्रह्मणि परमानन्दरूपे सर्वात्मके विद्वदनुभवरूपं प्रत्यक्षं प्रमाणमुक्तम् । अधुना तस्यैवाद्वितीयत्वं तर्केणापि साध- यन्स्तौति— त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह- स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च । परिच्छिन्नामेवं त्वयि परिणता विभ्रतु गिरं न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥२६॥ त्वमर्क इति । हे वरद, परिणताः परिपक्वबुद्धयस्त्वयि विषये एवं परिच्छिन्नामेवंप्रकारेण परिच्छिन्नत्वेन त्वां प्रतिपादयन्तीं गिरं वाचं बिभ्रतु धारयन्तु नाम । केन रूपेण परिच्छिन्नमित्यत आह । त्वमर्क इत्यादिना । अत्र सर्वत्र त्वंशब्दो वाक्यालंकारार्थः । उश- ब्दोऽवधारणे त्वमित्यनेन संबध्यते । चशब्दः समुच्चये । इतिशब्दः समाप्तौ । अर्कादयः प्रसिद्धाः । आत्मा क्षेत्रज्ञो यजमानरूपः । एते चाष्टौ श्रीरुद्रमूर्तित्वेनागमप्रसिद्धा वक्ष्यमाणभवादिनामाष्टक- सहिताश्चतुर्थ्यन्ता नमोन्ता अष्टौ मन्त्रा भवन्ति ते गुरूपदेशेन ज्ञा- तव्याः । एतदष्टमूर्तित्वं चान्यत्राप्युक्तम्– 'क्षितिहुतवहक्षेत्रज्ञाम्भ:- प्रभञ्जनचन्द्रमस्तपनवियदित्यष्टौ मूर्तीर्नमो भव बिभ्रते' इति । तेन सर्वात्मकमपि त्वामर्काद्यष्टमात्रमूर्ति वदन्तीत्यर्थः । अत्रापरि- णता इत्यस्मिन्नर्थे परिणता इति सोपहासं विभ्रत्विति लोटाननुम- तावप्यनुमतिप्रकाशनात्। तेन सर्वथानुचितमेवैतदित्यर्थः। बर्हि किमुचितं ज्ञात्वा त्वयेदमनुचितमुच्यत इत्यत आह । नेत्यादिना । हि यस्मात् इह जगति तत्तत्त्वं वस्तु वयं न जानीमो यद्वस्तु त्वं न भवसि । त्वद्भिन्नमिति यावत् । अत्र स्वस्य प्रमाणकौशलेनो- त्कर्षं ख्यापयितुं विद्म इति बहुवचनम् । वयं तु त्वदभिन्नत्वेनैव युक्त्या सर्वं जानीम इत्यर्थः । एवं च तव सर्वात्मकत्वादर्कादि- विशेषरूपाभिधानं व्यर्थमेव । तथा च श्रुतिः - 'इन्द्रं मित्रं वरुण- मग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः' 'एष उ ह्येव सर्वे देवाः' इति च सर्वदेवभेदं वारयति । नहि सदतिरिक्तं किंचिदुपलभ्यते सद्रूपश्चा- त्मा त्वमेवेति तर्केणापि सिद्धमद्वैतम् । नच सर्वस्य ब्रह्मरूपत्वे घटा- दिज्ञानस्यापि ब्रह्मज्ञानस्वरूपत्वात्ततोऽपि मोक्षप्रसङ्ग इति वाच्यम् । अन्यानुपरक्तचैतन्यभावस्यैव मोक्षहेतुत्वात् । घटाद्याकारज्ञानस्य चाविद्यापरिकल्पितान्योपरक्तचैतन्यविषयत्वात् । अन्योपरक्तचैत- न्यस्य च सद्रूपेण चक्षुरादिविषयत्वेऽप्यन्यानुपरक्तसैतस्य न वे- दान्तवाक्यमात्रविषयत्वव्याघातः । ननु सर्वस्य सन्मात्रत्वेऽपि ना- द्वैतसिद्धिः । भिन्नानामपि सत्ताजातियोगेन सदाकारबुद्धिविषयत्व- संभवात् । अन्यथा द्रव्यगुणकर्मादिभेदव्यवहारोऽपि न स्यादिति चेन्न । द्रव्यं सद्गुणः सन्नित्यादिप्रतीतेर्द्रव्यत्वादिधर्मविशिष्टैकसन्मा- त्रविषयत्वमेव न तु द्रव्यादिधर्मिषु भिन्नेषु सत्ताख्यधर्मविषयत्वम्, धर्मिकल्पनातो धर्मकल्पनाया लघुत्वात् । एकस्मिन्नसति च सर्वा- भिन्ने मायिकनानात्वप्रतीत्युपपत्तेः । द्वौ चन्द्रावित्यत्रेव न पारमा- र्थिकभेदकल्पनावकाशः । तथाचायं प्रयोगः । अयं द्रव्यगुणादिभे- दव्यवहारः सर्वभेदानुगतजात्यात्मकैकवस्तुमात्रावलम्बनः । भेदव्य- वहारत्वाद्द्विचन्द्रभेव्यवहारवदिति । तस्मान्नाचेतनं सचेतनं वा किंचिदपि परमात्मनो भिन्नमुपपद्यते । 'स एष इह प्रविष्टः' 'अ- नेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि' इत्यादिश्रुत्या प्रवेष्टुरविकृतस्यैव जीवरूपेण प्रवेशप्रतिपादनात् । तथा 'इदं सर्वे यदयमात्मा' इत्यादिश्रुत्या ब्रह्मैकोद्भवत्वब्रह्मसमान्यब्रह्मैकप्रलयत्वा- दिहेतुभिरूर्णनाभ्यादिदृष्टान्तेनाकाशादिप्रपञ्चस्य ब्रह्मात्मकत्वप्रति- पादनात् 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इति च कण्ठत एवाद्वितीयत्वोक्तेः । एवं च सदाकारप्रत्यक्षमभेदव्यवहारत्व- लिङ्गं सार्वात्म्यश्रुत्यन्यथानुपपत्तिश्चेति प्रमाणत्रयमुक्तम् । विस्तरेण चात्र युक्तयो वेदान्तकल्पलतिकायामनुसंधेयाः । तस्मान्न विद्म इत्यादिना साध्वेवोक्तमद्वितीयत्वम् ॥ हरिपक्षे तु । अर्कादिशब्देन तत्तदवच्छिन्ना देवतात्मान उच्यन्ते । 'य एवासावादित्ये पुरुष एत- देवाहं ब्रह्मोपासे' इत्यादिनाऽजातशत्रवे दृप्तबालाकिनोपदिष्टाः बृ- हदारण्यके कौषीतकिब्राह्मणे च प्रसिद्धाः । परिच्छिन्नत्वादिदोषे - णाब्रह्मत्वं चैषां तत्रैवाजातशत्रुणा प्रतिपादितम् । 'सहोवाचाजातश- त्रुरेतावन्नून इत्येतावद्वृत्तिनैतावता तावद्विदितं भवति' इत्यादिना । अन्यत्सर्वे समानम् ॥ २६ ॥ एवं प्रत्यक्षानुमानार्थापत्तिभिरद्वितीयत्वं परमेश्वरस्य सर्वात्म- कत्वेन प्रसाध्य तदेवागमेनापि साधयन्स्तौति — अथवा क्रमेण पूर्व- श्लोकद्वये त्वंपदार्थं तत्पदार्थं च परिशोध्यानेन श्लोकेनाखण्डं वाक्यार्थं वदन्स्तौति – त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा- नकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति । तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् २७ त्रयीमिति । हे शरणद आर्ताभयप्रद, ओमिति पदं त्वां सर्वात्मानमद्वितीयं गृणाति अवयवशक्त्या समुदायशक्त्या च प्रतिपादयति । अतएवोंकारस्यावयवशक्त्या वाक्यत्वेऽपि समु- दायशक्त्या पङ्कजादेरिव पदत्वमुपपन्नं योगरूढिस्वीकारात् । तदस्वीकारेऽपि 'सुप्तिङन्तं पदम्' इति वैयाकरणपरिभाषया पदत्वं 'कृत्तद्धितसमासाश्च' इत्यनेन समासस्यापि प्रातिपदिकसं- ज्ञाविधानात्सुबन्तत्वमुपपन्नमेव । कीदृशमोमिति पदम् । समस्तं अकारोकारमकाराख्यपदत्रयकर्मधारयसमासनिष्पन्नम् । एतेन समुदायशक्तिरुक्ता । तथा व्यस्तं भिन्नम् । अकार-उकार - मकारा- ख्यस्वतन्त्रपत्रयात्मकमित्यर्थः । एतेनावयवशक्तिरुक्ता । इदं च पदद्वयमभिधेयेऽपि योज्यम् । त्वां कीदृशम् । समस्तं सर्वात्मकं, तथा व्यस्तमध्यात्माधिदैवादिभेदेन भिन्नतया प्रतीयमानम् । तथाच व्यस्तमोमिति पदं व्यस्तं त्वां गृणाति, समस्तमोमिति पदं समस्तं त्वां गृणातीत्युक्तं भवति । एतदेव दर्शयति – त्रयी- मित्यादिना । त्रयीं देवत्रयं, तिस्रो वृत्तयो जाग्रत्स्वप्नसुषुप्त्याख्या अन्तःकरणस्यावस्थाः । एतच्च विश्वतैजसप्राज्ञानामप्युपलक्षणम् । त्रिभुवनं भूर्भुवःस्वः । एतदपि विराढिरण्यगर्भाव्याकृतानामुपल- क्षणम् । त्रयः सुराः ब्रह्मविष्णुमहेश्वराः । एतच्च सृष्टिस्थितिप्रलया- नामप्युपलक्षणम् । एतच्च सर्वमकाराद्यैस्त्रिभिर्वर्णैरभिदधदभिधावृ- त्या प्रतिपादयद्व्यस्तमित्यर्थः । एवमत्र प्रकारः । ऋग्वेदो जाग्रदव- स्था भूर्लोको ब्रह्मा चेति चतुष्टयमकारार्थः । तथा यजुर्वेदः स्वप्नावस्था भुवर्लोको विष्णुश्चेति चतुष्टयमुकारार्थः । तथा साम- वेदः सुषुप्त्यवस्था स्वर्लोको महेश्वरश्चेति चतुष्टयं मकारार्थः । इदं माण्डूक्यनृसिंहतापनीयाथर्वशिखादावन्यदप्युक्तं गुरूपदेशाज्ज्ञात- व्यम् । अतिरहस्यत्वान्नेह सविशेषमुच्यते । तस्मादध्यात्माधि- दैवाधिभूताधिवेदाधियज्ञादियावदन्यत्रोक्तमस्ति तत्सर्वमत्रोपसं- हर्तव्यं न्यूनतापरिहाराय । तथाच सर्वप्रपञ्चाकारेण व्यस्तं त्वां अकारोकारमकारैर्व्यस्तमोमिति पदमभिदधत्त्वां गृणावीति सं- बन्धः । तथा ती सर्वविकारातीतं तुरीयं अवस्था - त्रयाभिमानिविलक्षणं तव धाम स्वरूपं अखण्डचैतन्यात्मकम् । तवेति राहोः शिर इतिवद्भेदोपचारेण षष्ठी । अणुभिर्ध्वनि- भिरवरुन्धानं स्वत उच्चारयितुमशक्यैरर्धमात्रायाः श्रुतोचारणवशेन निष्पाद्यमानैः सूक्ष्मशब्दैरवबोधं कुर्वत्प्रापयत् । समुदायशक्त्या बोधयदिति यावत् । अर्धमात्राया एकत्वेऽपि ध्वनिभिरिति बहुवचनं प्लुतोच्चारणे चिरकालमनुवृत्तायास्तस्या अनेकध्वनिरू- पत्वान्न विरुद्धम् । ध्वनीनां चाणुत्वाणुतरत्वाणुतमत्वादिकं गुरूपदे- शादधिगन्तव्यम् । तथाचार्घमात्रारूपेण समस्तमोमिति पदं समुदाय - शक्त्या सर्वविकारातीतं तुरीयं स्वरूपमभिधत् समस्तं त्वां गृणाती- ति संबन्धः । एवं च पदार्थाभिधानमुखेनाखण्डवाक्यार्थसिद्धिरर्था- दुक्ता । तथाहि स्थूलप्रपञ्चोपहितचैतन्यमकारार्थः, तत्र स्थूल- प्रपञ्चांशत्यागेन केवलचैतन्यमकारेण लक्ष्यते । तथा सूक्ष्मप्रपञ्चो - पहितचैतन्यमुकारार्थः, तत्र सूक्ष्मप्रपञ्चांशत्यागेनोकारेणोपलक्ष्यते । तथा स्थूलसूक्ष्मप्रपञ्चद्वयकारणीभूतमायोपहितचैतन्यं मकारार्थः, तादृशमायांशपरित्यागेन मकारेण चैतन्यमात्रं लक्ष्यते । एवं तुरी- यत्वसर्वानुगत्वोपहितचैतन्यमर्धमात्रार्थः तदुपाधिपरित्यागेनार्ध- मात्रया चैतन्यमात्रं लक्ष्यते । एवं चतुर्णां सामानाधिकरण्यादभेदबो- घे परिपूर्णमद्वितीयचैतन्यमात्रमेव सर्वद्वैतोपमर्देन सिद्धं भवति । लक्ष- णया परित्यक्तानां चोपाधीनां मायातत्कार्यत्वेन मिथ्यात्वात्, स्वरूप - बोधेन च स्वरूपाज्ञानात्मकमायातत्कार्यनिवृत्तेर्न पृथगवस्थानप्रसङ्गः। नह्यधिष्ठानसाक्षात्कारानन्तरमापतध्यस्तमुपलभ्यते त्रय्यादीनां वाक्यार्थबोधानुपयोगेप्युपासनायामुपयोगात्पृथगभिधानं द्रष्टव्यम् । तस्मात्सर्वं द्वितीयशून्यं प्रत्यगभिन्नं ब्रह्म प्रणववाक्यार्थ इति सिद्धम् । एतच्च सर्वेषां तत्त्वमस्यादिमहावाक्यानामुपलक्षणम् । तेषामपि प्रत्य- गभिन्नपरिपूर्णाद्वितीयब्रह्मप्रतिपादकत्वात् । यथा च शब्दादपरोक्ष- निर्विकल्पकबोधोत्पत्तिस्तथा प्रपञ्चितमस्माभिर्वेदान्तकल्पलतिकाया- मित्युपरम्यते ॥ हरिपक्षेप्येवम् ॥ २७ ॥ एवं तावदद्वितीयब्रह्मवाचकत्वेन प्रणव उपन्यस्तः, एतस्य चार्था- नुसंधानं जपश्च समाधिसाधनत्वेन पतञ्जलिना सूत्रितः 'समाधिसि- द्विरीश्वरप्रणिधानात्' इति । 'ईश्वरप्रणिधानाद्वा' इति सूत्रान्तरं 'तस्य- वाचकः प्रणवः' 'तज्जपस्तदर्थभावनम्' इति सूत्राभ्यां प्रणवजपस्य प्रणिधानशब्दार्थत्वेन व्याख्यानात् । श्रुतौ च 'एतदालम्बनं श्रेष्ठमे- तदालम्बनं परम् । एतदालम्बनं ज्ञात्वा यो यदिच्छति तस्य तत् ॥' इत्यादिना तस्य सर्वपुमर्थहेतुत्वमुक्तम् । एतस्य चातिदुरूहार्थत्वेन स्त्रीशूद्राद्यनर्हत्वेन चासाधारणत्वात्सर्वसाधारणानि प्रसिद्धानि भग- वद्वाचकानि पदानि जपार्थत्वेन वदन् स्तौति-- भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां- स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् । अमुष्मिन्प्रत्येकं प्रविचरति देव श्रुतिरपि प्रियायास्मै धाम्ने प्रविहितनमस्योऽस्मि भवते २८ भव इत्यादि । हे शरणद, हे देव, इदं यदभिधानाष्टकं नामाष्टकं अमुष्मिन्नभिधानाष्टके विषये प्रत्येकमेकैकशः । प्रतिना- मेति यावत् । श्रुतिर्वेदः प्रविचरति प्रकर्षेण बोधकतया चरति । वर्तत इत्यर्थः । अपिशब्दात्स्मृतिपुराणागमादिकमपि । अथवा प्रणव इवामुष्मिन्नपि श्रुतिः प्रविचरतीति योज्यम् । यद्यप्यष्टाध्याया- र्थकाण्डे वह्निनामत्वेनैतानि समाम्नातानि तथापि वहेर्भगवद्वि- भूतित्वात्तन्नामत्वेऽपि न भगवन्नामत्वव्याघातः । यद्वा अमुष्मिन्ना- माष्टके देवानां ब्रह्मादीनामपि श्रुतिः श्रवणेन्द्रियं प्रविचरति साव- धानतया वर्तते । देवा अपि त्वन्नामश्रवणोत्सुकाः किं पुनरन्य इत्यर्थः । किं तन्नामाष्टकमित्यत आह । भव इत्यादि । महता महच्छब्देन सह वर्तत इति सहमहान्महादेवः तथैवागमप्रसिद्धेः । इतिशब्दः समाप्त्यर्थः । यस्य च नाममात्रमपि सर्वपुरुषार्थप्रदं स पुनः स्वयं कीदृश इति भक्त्युद्रेकेण प्रणमति । प्रियायेत्यादिना । अस्मै स्वप्रकाशचैतन्यरूपत्वेन सर्वदा परोक्षाय भवते महेश्वराय । कीदृशाय । धाम्ने सर्वेषां शरणभूताय चिद्रूपायेति वा । यो- ग्यमुपचारं किमपि कर्तुमशक्नुवन्नहं केवलं प्रविहितनमस्योऽस्मि प्रकर्षेण वाङ्मनःकायव्यापारातिशयेन विहिता नमस्या नमस्क्रिया येन स तथा । ( केवलं तुभ्यं कृतनमस्कारो भवामीत्यर्थः । ) प्रणिहितेति पाठेऽप्येवमेवार्थः ॥ हरिपक्षेऽप्येवम् । भवादीनां च हरिनामत्वं योगवृत्त्या संभवत्येव सहस्रनामस्तुतिपठितत्वाच्चेति द्रष्टव्यम् । अथवा यदिदमभिधानाष्टकं अमुष्मिन्प्रत्येकं देवश्रुतिरपि देवशब्दोऽपि प्रविचरति संबद्धो भवति । तथा च भवदेव इत्यादिरूपं तव रहस्यनामाष्टकमित्यर्थः । तथाच भवस्य रुद्रस्यापि देव आराध्य इत्यर्थः । एवमन्येष्वपि नामसु द्रष्टव्यम् ॥ २८ ॥ एवं जातभक्त्युद्रेको नमस्कारमेवानुवर्तयन्दुरूहमहिमत्वेन भगवन्तं स्तौति – नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः । नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो नमः सर्वस्मै ते तदिदमितिसर्वाय च नमः ॥ २९ ॥ नम इति । हे प्रियदव अभीष्टनिर्जनवनविहार, ते तुभ्यं नेदि- ष्ठायात्यन्तनिकटवर्तिने, दविष्ठायात्यन्तदूरवर्तिने च नमोनमः । हे स्मरहर कामान्तक, क्षोदिष्ठाय क्षुद्रतराय महिष्ठाय महत्तराय च तुभ्यं नमोनमः । तथा हे त्रिनयन त्रिनेत्र, वर्षिष्ठाय अतिवृद्धाय वृद्धतरायेति वा यविष्ठाय युवतमाय च तुभ्यं नमोनमः । एवम- त्यन्तविरुद्धस्वभावस्याल्पबुद्धिभिः कथमपि स्वरूपनिर्णयासंभवात्स- र्वदा नमस्कार एव करणीय इति प्रदर्शनाय नमस्कारशब्दावृत्तिः । तथाच श्रुति:-- 'दूरात्सुदूरे तदिहान्तिके च' 'अणोरणीयान्महतो महीयान्' 'त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कु- मारी । त्वं जीर्णो दण्डेनाञ्चसि त्वं जातो भवसि विश्वतोमुखः' इत्यादि । तथा किंबहुना सर्वस्मै सर्वरूपाय तुभ्यं नमः । 'इदं सर्वे यदयमात्मा' इति श्रुतेः । ननु तर्हि सर्वविकाराभिन्नत्वादिना- शित्वप्रसङ्ग इत्याशङ्क्य, सर्वस्याध्यस्तत्वेन वास्तवभेदाभावात्सर्व बाधाधिष्ठानत्वेन च श्रुतिषु सामानाधिकरण्येन व्यपदेशादद्विती- यस्य ब्रह्मणो न विकारगन्धोऽपि संभाव्यत इत्यभिप्रायेण नम- स्कुर्वन्नाह – तदिदमिति सर्वाय च नम इति । तत्परोक्षमिदमपरो- क्षमित्यनेन प्रकारेणानिर्वाच्यं सर्वे यत्र स तदिदमितिसर्वस्तस्मै । बहुव्रीहावन्यपदार्थप्रधानत्वान्न सर्वनामता । तेन सर्वाधिष्ठानभूताय तुभ्यं नम इत्यर्थः ॥ हरिपक्षेप्येवम् । केवलं संबोधनत्रयमन्यथा व्याख्येयम् । प्रियाणि वैषयिकसुखानि वैराग्योद्बोधेन दुनोति नाशयतीति प्रियदवः । तथाच स्मरो वासना तं हरति स्वभक्त्यु- द्रेकेणेति स्मरहरः । तथा त्रयाणां लोकानां नयनवत्सर्वार्थावभासक- स्त्रिनयन इति प्रागपि व्याख्यातम् ॥ २९ ॥ अधुना पूर्वोक्तसर्वार्थसंक्षेपेण नमस्कुर्वन्स्तुतिमुपसंहरति- बहलरजसे विश्वोत्पत्तौ भवाय नमोनमः प्रचलतमसे तत्संहारे हराय नमोनमः । जनसुखकृते सत्वोद्रिक्तौ मृडाय नमोनमः प्रमहसिपदे निस्त्रैगुण्ये शिवाय नमोनमः ॥ ३० ॥ बहलेति । विश्वोत्पत्तौ विश्वोत्पत्तिनिमित्तं बहलं तमःसत्वा- भ्यामधिकं रजो यस्य तस्मै उद्रिक्तरजसे भवत्यस्माज्जगदिति भवो ब्रह्ममूर्तिस्तस्मै तुभ्यं नमोनमः । तथा तत्संहारे तस्य विश्वस्य संहा- रनिमित्तं प्रबलं सत्वरजोभ्यामनभिभूतमुद्रिक्तं तमो यस्य तस्मै हरतीति हरो रुद्रमूर्तिस्तस्मै नमोनमः । तथा जनानां सुखकृते सुखनिमित्तम् । कृतशब्दोऽव्ययो निमित्तवाची । सत्वस्योद्रिक्तावुद्रेके रजस्तमोभ्यामाधिक्ये स्थितायेत्यर्थाल्लभ्यते । 'सत्वोद्रेके' इति वा पाठः । अथवा सत्वोद्रिक्तौ सत्यां जनानां सुखं करोतीति जनसुखकृत्तस्मै । यद्वा सुखस्य कृतं करणम् । भावे क्तः । तस्मिन् तन्निमित्तम् । एवं व्याख्याने प्रक्रमभङ्गदोषो न भवति पूर्वपर्याय - द्वये उत्तरपर्याये च सप्तम्यन्तनिमित्तनिर्देशात् । मृडयति सुखयति मृडो विष्णुस्तस्मै । पालनस्यैवोद्देश्यत्वात्क्रमभङ्गेण पश्चान्निर्देशः । एवं गुणत्रयोपाधीनत्वान्निर्गुणं प्रणमति । प्रमहसिपदे निस्स्रैगुण्ये शि- वाय नमोनमः निर्गतं त्रैगुण्यं यस्मात्तन्निस्स्रैगुण्यं तस्मिन्पदे पद- नीये तत्पदप्राप्तिनिमित्तम् । कीदृशे । प्रमहसि प्रकृष्टं माययानभिभूतं महो ज्योतिर्यस्मिंस्तत्तथा । सर्वोत्तमप्रकाशरूपत्रिगुणशून्यमोक्षनि- मित्तमित्यर्थः । शिवाय निस्रैगुण्यमङ्गलस्वरूपाय 'शिवमद्वैतं च- तुर्थं मन्यन्ते' इति श्रुतेः । प्रमहसि पदे स्थितायेति वा । हरिपक्षे- प्येवम् ॥ ३० ॥ एवमस्तुत्यरूपेणैव भगवन्तं स्तुत्वा स्वसौद्धत्यपरिहारं 'मम त्वेतां वाणीम्' इत्यत्रोपक्रान्तमुपसंहरन्नाह - कृशपरिणति चेतः क्लेशवश्यं क्व चेदं क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः । इति चकितममन्दीकृत्य मां भक्तिराधा- द्वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥ ३१ ॥ हे वरद सर्वाभीष्टदेत्युपसंहारे योग्यं संबोधनम् । तव पाद- योर्मद्वाक्यपुष्पोपहारं भक्तिराधात् त्वद्विषया रतिरर्पितवती । यथा पुष्पाणि मधुकरेभ्यः स्वमकरन्दं प्रयच्छन्त्यन्येषामपि दूरात् गन्ध- मात्रेण प्रमोदमादधति तथैतानि स्तुतिरूपाणि वाक्यानि भ- क्तिरसिकेभ्यो भगवन्माहात्म्यवर्णनामृतरसं प्रयच्छन्त्यन्येषा- मपि श्रवणमात्रेणापि वस्तुस्वभाव्यात्सुखविशेषमाधतीति ध्वन- यितुं ज्ञापयितुं वाक्यपुष्पत्वेन निरूपितम् । तथा च वाक्या- न्येव पुष्पाणि तैरुपहारः पूजार्थमञ्जलिस्तमित्यर्थः । किं कृत्वा आधादित्यनेन हेतुना चकितं भीतं स्तुतेर्निवर्तमानं माममन्दी- कृत्य न मन्दममन्दं कृत्वा । बलात्स्तुतौ प्रवर्त्येत्यर्थः । तथा चान्य- मत्या प्रवृत्तस्य मम स्खलितेऽपि क्षन्तव्यमित्यभिप्रायः । इतिशब्देन सूचितं भयकारणमाह - कृशेत्यादिना । कृशा अल्पा परिणतिः परि- पाको यस्य तत्तथा । अल्पविषयमित्यर्थः । तादृशं मम चेतश्चित्तं ज्ञानं वा । तथा क्लेशानामविद्यास्मितारागद्वेषाभिनिवेशानां वश्यमाय - तम् । सर्वदा रागद्वेषादिदोषसहस्रकलुषितमित्यर्थः । क्लेशेनातिप्रयत्नेन वश्यमिति वा तेन त्वद्गुणवर्णनेऽत्यन्तायोग्यमित्यर्थः । गुणानां सीमा संख्यापरिणामयोरियत्ता तामुल्लङ्घयितुं शीलं यस्याः सा गुणसीमो- ल्लङ्घिनी शश्वदृद्धिः नित्या विभूतिः । तेनैतादृशदुर्वासनासहस्रकलु - षितमित्यल्पविषयं मम मनः क्व, अनन्ता नित्या तव परमा विभूतिर्वा क्व इत्यत्यन्तासंभावना मम भयहेतुरित्यर्थः । एतदवधारणे च तव भक्तिरेव कारणमिति भक्तेरत्यन्तासंभावितफलदानेऽपि सामर्थ्यं दर्शयति । यस्मादेवं तस्मात्सर्वापराधानविगणय्य परमकारुणिकेन त्वया त्वद्विषया भक्तिरेव ममोद्दीपनीयेति वाक्यतात्पर्यार्थः ॥३१॥ असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी । लिखति यदि गृहीत्वा शारदा सार्वकालं तदपि तव गुणानामीश पारं न याति ॥३२॥ असुरसुरमुनीन्द्रैरचिंतस्येन्दुमौले- र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य । सकलगणवरिष्ठः पुष्पदन्ताभिधानो रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ॥ ३३ ॥ अहरहरनवद्यं धूर्जटे: स्तोत्रमेत- त्पठति परमभक्त्या शुद्धचित्त: पुमान्य: । स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र प्रचुरतरधनायुः पुत्रवान्कीर्तिमांश्च ॥ ३४ ॥ महेशान्नापरो देवो महिम्नो नापरा स्तुतिः । अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ ३५॥ दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः । महिम्नस्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥३६॥ इमे (३२–३६) श्लोकाः स्तोत्रान्तर्गताः सुगमाश्चेति सर्वं भद्रम् ॥ हरिशंकरयोरभेदबोधो भवतु क्षुद्रधियामपीति यत्नात् । उभयार्थतया मयेदमुक्तं सुधियः साधुतयैव शोधयन्तु ॥ १ ॥ यत्नतो वक्रया रीत्या कर्तुं शक्यं विधान्तरम् । यद्यपीह तथाप्येष ऋजुरध्वा प्रदर्शितः ॥ २ ॥ श्लोकानुपात्तमिह न प्रसङ्गात्किंचिदीरितम् । श्लोकोपात्तमपि स्तोकैरक्षरैः प्रतिपादितम् ॥ ३ ॥ महिम्नाख्यस्तुतेर्व्याख्या प्रतिवाक्यं मनोहरा । इयं श्रीमद्गुरोः पादपद्मयोरर्पिता मया ॥ ४ ॥ टीकान्तरं कश्चन मन्दधीरितः सारं समुद्धृत्य करोति चेत्तदा । शिवस्य विष्णोर्द्विजगोसुपर्वणामपि द्विषद्भावमसौ प्रपद्यते ॥ ५ ॥ भूतिभूषितदेहाय द्विजराजेन राजते । एकात्मने नमो नित्यं हरये च हराय च ॥ ६ ॥ इति श्रीमत्परमहंसश्रीमद्विश्वेश्वरसरस्वतीचरणारविन्दमधुपश्रीमधु- सुदनसरस्वतीविरचिता महिम्नस्तुतिव्याख्या संपूर्णा॥ कुसुम[^१]दशननामा सर्वगन्धर्वराजः शिशुशशिधरमौलेर्देवदेवस्य दासः । स खलु निजमहिम्नो भ्रष्ट एवास्य रोषा- त्स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्नः ॥ ३७ ॥ सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः । व्रजति शिवसमीपं किंनरैः स्तूयमानः स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥ ३८ ॥ आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् । अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ॥ ३९ ॥ इत्येषा वाङ्मयी पूजा श्रीमच्छंकरपादयोः । अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ ४० ॥ तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर । यादृशोऽसि महादेव तादृशाय नमो नमः ॥ ४१ ॥ एककालं द्विकालं वा त्रिकालं य पठेन्नरः । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ४२ ॥ श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्बिषहरेण हरप्रियेण । कण्ठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३ ॥ इति श्रीपुष्पदन्तविरचितं शिवमहिम्नस्तोत्रं संपूर्णम् ॥ [^१] महिम्नस्तुतेरेकत्रिंशच्लोका एव श्रीमधुसूदनसरस्वत्याख्ययतिवरैर्व्या- ख्याताः । ततो द्वात्रिंशदादि षट्त्रिंशत्पर्यन्तं श्लोकान्संगृह्याग्रे व्याख्योपसंहारे 'इमे श्लोकाः स्तोत्रान्तर्गताः सुगमाश्चेति सर्वं भद्रं' इति लिखितमस्ति नाग्रे- तनानिक्लोपटया तथापि लोकपाठमनुसृत्यास्माभिरत्र संगृहीतानीति शम्॥ महिम्नस्तोत्रपद्यानामकारादिकोशः । 20- श्लोकाङ्कः । पृष्ठाङ्क: पृष्ठाङ्कः ३२ अकाण्डब्रह्माण्ड १० अजन्मानो लोकाः ६ २ ३ अतीतः पन्थानं ३० अमुष्य त्वत्सेवा १२ २८ अयत्नादापाय ११ ६१ असितगिरिसमं ३२ १५ ३३ ३४ असिद्धार्था नैव ६२ असुरसुरमुनीन्द्र ६२ अहरहरनवयं ६३ आसमाप्तमिदं ६३ कुसुमदशननामा ६० कृशपरिणति ... ... ….. ... ... ... ... ... ... *** ४० ६३ इत्येषा वाङ्मयी ६३ एककालं द्विकालं ४२ ८ किमीहः किंकायः "!" ... .*. ... ... ३१ ४० ऋतौ सुप्ते जाग्रत् २० ४३ क्रियादक्षो दक्षः २१ ४१ ... १४ ५२ त्वमर्कस्त्वं सोमः ६२ दीक्षा दानं तपः २५ ध्रुवं कश्चित्सर्व ५८ नमो नेदिष्टाय ४४ प्रजानाथं नाथ ६३ तव तत्त्वं न जानामि ७ तवैश्वर्यं यत्तत् २६ तवैश्वर्यं यत्नात् १० ४ ११ त्रयी सांख्यं योगः ... ५४ त्रयीं तिस्रो वृत्तीः .... ... ... ५९ बहलरजसे ५७ भवः शर्वो रुद्रः ५ मधुस्फीता वाचः ५० मनः प्रत्यक्चित्ते १ महिम्नः पारं ते ३५ मही पादाघातात् ६२ महेशान्नापरो २३ महोक्षः खदानं ३२ यदृद्धिं सुत्राम्णो ४८ स्मशानेष्वाक्रीडा ४६ स्खलावण्याशंसा ३९ हरिस्ते साहस्रं २७ इति महिनश्लोकानामकारादिवर्णक्रमकोशः । ३८ रथः क्षोणी यन्ता ३७ वियद्यापी तारा ६३ श्रीपुष्पदन्तमुख ६३ सुरवरमुनिपूज्यं श्लोकाङ्क: २६ ... ... ... BOD ... ... ... ... ... ... ... ... ... ... ... ... ९ २९ २२ ३० २८ ३ २५ १ १६ ३५ ८ १३ १८ १७ ३८ २४ २३ १९ 0. Late Pt. Manmohan Shastri Collection Jammu. Digitized by eGang - -