<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<pb n="2" />
<p>40
af</p>
<pb n="3" />
<p>重</p>
<pb n="4" />
<p>It is a reproduction of the earlier edition of
"Nirnaya Sagar Press Bombay.
ŚĀRNGADHARA PADDHATI
BEING
AN ANTHOLOGY OF SANSKRIT VERSES
COMPILED BY
ŚĀRNGADHARA
EDITED BY
DR PETER PETERSON
ने सर्व प्रतिष्ठितम्
1987
Chaukhamba Sanskrit Pratishthan
Delhi (India)</p>
<pb n="5" />
<p>CHAUKHAMBA SANSKRIT PRATISHTHAN</p>
<p>(Oriental Publishers & Distributors)</p>
<p>38 U.A., Jawaharnagar, Bungalow Road
P.B. No. 2113
DELHI 110007
Phone: 236391
Reprint Edition
1987
This Publication has been brought out with the
financial assistance from Ministry of Education
& Culture, Govt. of India .
If any defect is found in this book, please
return the copy by V.P.P. for the cost of
postage to the publishers for free exchange.
Printed in India
Published by Nevanita Dass Gupta for Chaukhamba
Sanskrit Pratishthan, 38 U.A., Jawahar Nagar,
Bungalow Road, Delhi-110 007 and printed at
Shriji Mudranalaya, K-37/117, Gopal Mandir Lane,
Varanasi.</p>
<pb n="6" />
<p>श्री शार्ङ्गधरविद्वत्संकलिता
शार्ङ्गधरपद्धतिः
सुभाषितसंग्रहरूपा
संस्कृत
डॉ. पीटर पीटर्सन
इत्येतैर्विद्वदग्रेसरैः
सुनिपुणं संशोधिता
ज्ञाने सर्व प्रतिष्ठितम्</p>
<p>चौखम्बा संस्कृत प्रतिष्ठान
दिल्ली
1</p>
<pb n="7" />
<p>चौखम्बा संस्कृत प्रतिष्ठान</p>
<p>(प्राच्यभारती के प्रकाशक एवं वितरक)</p>
<p>श्री
३८ यू.ए.. जवाहरनगर, बंगलो रोड
पोस्ट बॉक्स नं. २११३
दिल्ली ११०००७
पुनमंद्रित संस्करण</p>
<p>अन्य प्राप्तिस्थान
चौखम्बा सुरभारती प्रकाशन
के० ३७/११७, गोपालमन्दिर लेन
पो० बा० नं० ११२९, वाराणसी २२१००१
प्रमुख वितरक
चौखम्बा विद्याभवन
चौक (बनारस स्टेट बैंक भवन के पीछे),
पो० बा० नं० १०६९, वाराणसी २२१००१
दूरभाष : ६३०७६
मुद्रक-
जी मुद्रणालय
वाराणसी</p>
<pb n="8" />
<p>PREFATORY NOTE TO THE TEXT
This Edition of the Anthology of Sarngadhara is based upon
the following manuscripts:
A. An incomplete manuscript procured by me for the
Government of Bombay in the year 1886-7. Leaves 1 to 253,
stopping in the middle of our No. 4153. There is therefore no
date: and it can only be conjectured from the appearance of
the manuscript that it belongs to the 16th century. It is, so
far as I can judge, very correct.
B. A complete copy also procured by me in 1886-7 for the
Government of Bombay. Leaves 1 to 295, containing the book
up to our No. 4620, the proper end. Very beautifully written
by a Jain scribe: but neither so old nor so correct as A.
C. A manuscript belonging to my friend Pandit Durga-
prasad. Samvat 1776. Complete, and containing the Khadga-
pariksha chapter (placed by me at the end of the book as an
appendix) after the Turangaprasansa chapter, as in Aufrecht's
MS. C.
D. An incomplete copy lent to me by Mr. Jyeshtaram
Mukundji. Leaves 1 to 144, stopping in the middle of our
No. 1558.
E. A manuscript lent to me, through Mr. Jyeshtaram Mu-
kundji, our enterprising Sanskrit bookseller, by Seth Dhanaji
Mahayaji. Samvat 1819. Complete.</p>
<pb n="9" />
<p>2
F. A copy kindly lent to me from the Palace Library at
Jodhpore, by H. H. the Maharaja, through His Excellency Col.
Sir Pertab Singh. Samvat 1877. This manuscript was used
for the last part of the book, where A was wanting.
A full critical apparatus, with notes to the book, and an
Introductory Sketch of the Literature embraced in it, will
appear in a second volume, which I hope to put out next year.
PETER PETERSON.</p>
<pb n="10" />
<p>परिच्छेद-
संख्या</p>
<p>19</p>
<p>शार्ङ्गधरपद्धतिपरिच्छेद सूचीपत्त्रम्
आरम्भ-
श्लोकाङ्कः
परिच्छेदनामानि
कविवंशवर्णनम्
अनुक्रमणिका
नमस्कृति :
आशिष :
सुभाषितप्रशंसा
काव्यप्रशंसा.
सामान्यकविप्रशंसा
विशिष्टकविप्रशंसा
कुक विनिन्दा
पण्डितप्रशंसा
कुपण्डितनिन्दा
महतां प्रशंसा
.......
धीरप्रशंसा
सज्जनप्रशंसा
मनस्विप्रशंसा
उदारप्रशंसा
तेजस्विप्रशंसा
गुणप्रशंसा
संतोषप्रशंसा.
संसर्गप्रशंसा
धनप्रशंसा
दुर्जननिन्दा
कृपण निन्दा
याचकनिन्दा
वरिद्रनिश
मूर्खनिन्दा
तृष्णानिन्दा
लोभनिन्दा
दैवाख्यानम्
उद्यमाख्यानम्
प्रकीर्णकाख्यानम्
समस्याख्यानम्
प्रहेलिकापह्नुतिकूदाख्यानम्</p>
<p>49</p>
<p>पृष्ठाङ्कः
of</p>
<pb n="11" />
<p>परिच्छेद-
संख्या
* * * * * *</p>
<p>परिच्छेदनामानि</p>
<p>४७ चातक्रान्योक्तयः</p>
<p>क्रियागुप्त-कर्तृगुप्त-कर्मगुप्त-संधि
गुप्त - चिन्दुमती - चित्र
- भाषाचि
त्राख्यानम्...
प्रश्नोत्तराख्यानम्
जातिः
सवाचारः
धर्मविवृतिः
पातऋविवृतिः
खेचरभूचरेषु पूर्व सूर्यान्योक्तयः
चन्द्रान्योक्तयः
मेघान्योक्तयः
वायोरन्योक्तयः
हंसान्योक्तयः
मधुकरान्योक्तयः
कोकिलान्योक्तयः</p>
<p>मयूसन्योक्तयः
शुक्रान्योक्तयः
काका न्योक्तयः
बकान्योक्तयः
खद्योतान्योक्तयः
सिंहान्योक्तयः
गजान्योक्त यः
हरिणान्योक्तयः.
करभान्योक्तयः..
वृषभान्योक्तय:
सामान्यवृक्षान्योक्तयः
वृक्षविशेषान्योक्तयः
पर्वतान्योक्तयः
अगस्त्यान्योक्तयः
समुद्रान्योक्तयः
६३ रत्नान्योक्तयः
६४ शङ्खान्योक्तयः
आरम्म
लोकाङ्क:</p>
<p>१ष्ठाङ्कः</p>
<pb n="12" />
<p>परिच्छेद-
संख्या</p>
<p>परिच्छेदनामानि
नद्यन्योक्तयः.
तटाकान्योक्तयः
कमलान्योक्तयः
कूपान्योक्तयः
मरुस्थलान्योक्तयः
दावानलान्योक्तयः
संकीर्णान्योक्तयः</p>
<p>सामान्यराजप्रशंसा
विशिष्टराजवर्णनम्
अरिपलायनम्
राजनीतिः
नीतिः
८५ विषापहरणम् .
60
८८ कौतुकानि.</p>
<p>मिश्रकनीतिः
गजप्रशंसा.
तुरगप्रशंसा
धनुर्वेदः
गর্নम
वृक्षायुर्वेदः - उपवन विनोदः
शकुनज्ञानम्
पशूनां लक्षणानि चिकित्सा च
भूत विद्या
बालग्रहोपशमनम्,
........
कल्पस्थानम्
केशरञ्जनम्
5
सामान्यशृङ्गाररसनिर्देशः
स्त्रीपुरुषजातिभेद:
स्त्रीपुरुषसंयोगविवृतिः
स्त्रीसेवाप्रकारः
संकेताख्यानभाव-हाव-विवृतिः.
बालावर्णनम्
वयःसंधिवर्णनम् .
आरम्भ.
श्लोकाङ्कः</p>
<p>पृष्ठाङ्क:</p>
<pb n="13" />
<p>परिच्छेद-
संख्या
परिच्छेदनामानि
९८ तरुणीपृथगवयववर्णनम्
९९ समग्रस्त्रीस्वरूपवर्णनम्
6
१०० विमलम्भारे प्रियप्रस्थानवर्णनम्
१०२ नायकं प्रति नायिकोक्तिः
२०२ । विरहिण्यवस्थावर्णनम्...
१०३ नायिकां प्रति सखीवचनम्
१०४ वियोगिनीमलापा:
१०५ नायकं प्रति तृतीप्रेषणम्
१०६ वियोग्यवस्थाप्रलापवर्णनम्
१०७ नायकस्याये वृत्युक्तिः</p>
<p>नायिकां प्रति नायकावस्थावर्णनम्
१०९ वृत्युपहासप्रम
११० संभोगशृङ्गारे परस्परावलोकनम्
१११ प्रियातिथ्यादिकम्
११२ मानिनीमानाख्यानम्
११३ कलहान्तरिताप्रलापाविकम्
११४ नायक योरुक्तिप्रत्युक्ती
११५ नायक शिक्षानायकानुनयी
१९६ परस्परप्रसादः
११७ सूर्यास्तवर्णनचक्रवाकावस्थाने
११८ तमोवर्णनम्
अभिसारिकासंचारः
९२० चन्द्रोदयवर्णनम्
१२१ । पानगोष्ठीवर्णनम्......
१२२ । चाटुद्यूतक्रीडासुरतप्रशंसाः
१२३ नववधूसंगमः
१२४ सुरतकलिकथनम्
१२५ । विपरीतरतम्
१२६ सुरतानिवृत्तिः
१२७ निशीथकीडनाविकम्
१२८ प्रभातवर्णनम्...
१२२ । प्रभातवायुसूर्योदयवर्णनम्
१३० संभोगाविष्करणम्
१३१ सतीवर्णनकुलवधूवृत्ते
आरम्भ-
लोकाङ्कः</p>
<p>पृष्ठाङ्क:</p>
<pb n="14" />
<p>परिच्छेद-
संख्या
परिच्छेदनामानि
२३२ । असतीचरितम्
१३३ । ऋतुवर्णने वसन्त स्वभावाख्यानम्
१३४ मीष्मस्वभावाख्यानम्
१३५ । वर्षास्वभावाख्यानम्
२३६ । शरत्स्वभावाख्यानम्
१३७ हेमन्तस्वभावा
१३८ शिशिरस्वभावा
१३९ । संमिश्राख्यानम्
१४० वीररसनिर्देशः
१४१ करुणरसनिर्देश:
१४२ । अद्भुतरसनि०
१४३ । हास्यरसनिर्देशः
१४४ भयानकरसनिर्देशः
१४५ चीभत्सरसनिर्देशः
रौद्ररस निर्देश:</p>
<p>१४७ शान्तरसनिर्देशः
१४८ अनित्यतानिरूपणम्
१४९ विषयोपहासः</p>
<p>पश्चात्तापः
१५९ कालचरितम् .</p>
<p>विवेकः
उपदेशः
काल संख्यानम्
शारीरम्
योगः
7
...
300
आरम्भ-
लोकाङ्क:</p>
<p>१५७ । हठयोगः</p>
<p>१५८ । मार्कण्डेयारिसाधितो द्वितीयो हठयोगः ४४२०
१५९ मनःस्थिरीकरणप्रभावः
योगिमहिमा</p>
<p>योगिचर्या</p>
<p>१६२ अरिष्टज्ञानम्
१६३ विदेहमुक्तिकथनम्
ग्रन्थप्रशंसा
खड्ड परीक्षा</p>
<p>{ ४६२९</p>
<p>पृष्ठाङ्कः</p>
<p>૬૨</p>
<pb n="15" />
<p>6</p>
<pb n="16" />
<p>शार्ङ्गधरपद्धतिः
-----------
अथ कविवंशवर्णनम् ॥ १ ॥
1</p>
<lg>
  <l>यस्मिन्बुद्बुदसंकरा इव बहुब्रह्माण्डखण्डाः क्वचि-</l>
  <l>द्भान्ति क्वापि च सीकरा इव विरिञ्च्याद्याः स्फुरन्ति भ्रमात् ।</l>
  <l>चिद्रूपा लहरीव विश्वजननी शक्तिः क्वचिद्द्योतते</l>
  <l>स्वानन्दामृतनिर्भरं शिवमहापाथोनिधिं तं नुमः ॥ १ ॥</l>
</lg>
<p>2
पुरा शाकंभरीदेशे श्रीमान्हम्मीरभूपतिः |
चाहुवाणान्वये जातः ख्यातः शौर्य इवार्जुनः ॥ २ ॥
3
तस्याभवत्सभ्यजनेषु मुख्यः
परोपकारव्यसनैकनिष्ठः ।
पुरंदरस्येव गुरुर्गरीया-
न्द्विजाग्रणी राघवदेवनामा || ३ ||
4
गोपालदामोदरदेवदास-
संज्ञा बभूवुस्तनयास्तदीयाः |
नेत्रावतारा इव चन्द्रमौले-
रपाकृतध्वान्तगणास्त्रयोपि || ४ ||
5
तेषां मध्ये यस्तु दामोदरोभू-
दुत्पाद्य त्रीनात्मजान्वीतरागः |</p>
<pb n="17" />
<p>भागीरथ्यां शुद्धदेहं विधाय
ज्ञानादात्मन्येव निष्ठां जगाम ॥ ५ ॥
6</p>
<lg>
  <l>ज्येष्ठः शार्ङ्गधरस्तेषां लघुर्लक्ष्मीधरस्ततः ।</l>
  <l>कृष्णोनुजस्ततस्तेषां त्रयस्त्रेताग्नितेजसः ॥ ६ ॥</l>
</lg>
<p>7</p>
<lg>
  <l>जयति शार्ङ्गधरस्त्रिपुरापद-</l>
  <l>द्वयकुशेशयकोशमधुव्रतः ।</l>
  <l>सरससूक्तिसुधौघकलानिधिः</l>
  <l>कविकरीन्द्रकदम्बमृगाधिपः ॥ ७ ॥</l>
</lg>
<p>8</p>
<lg>
  <l>यद्यपि गुणौघनिलयः खलशैलध्वंसने जिष्णुः ।</l>
  <l>तदपि विमलहृदयान्तरसज्जनलोकस्य दासोसौ ॥ ८ ॥</l>
</lg>
<p>9</p>
<lg>
  <l>ते सज्जनाः सुकविशाखिकवित्वपुष्पा-</l>
  <l>ण्यादाय गुम्फितवतः सुगुणैर्ममैतत् ।</l>
  <l>संधारयन्तु कुसुमोज्ज्वलहाररूपं</l>
  <l>कण्ठे सुभाषितमपास्तसमस्तदोषम् ॥ ९ ॥</l>
</lg>
<p>10
न शार्ङ्गधरपद्धतिः खलजनस्य योग्या भवे-
त्सुभाषितरसोर्मयः सुकृतिलोकपेया यतः ।
सुधामदितिनन्दना दिवि पिबन्ति हृष्टान्तरा-
स्तयैव तमसः शिरो झटिति खण्डितं श्रूयते ॥ १० ।
11</p>
<lg>
  <l>आनन्दाय सतां भूयात्सुभाषितमिदं मम ।</l>
  <l>पृथक्पद्धतिसंमिश्रपरिच्छेदैर्मनोरमम् ॥ ११ ॥</l>
</lg>
<p>12</p>
<lg>
  <l>आद्यैर्मद्विहितैः पद्यैः कियद्भिरपरैरपि ।</l>
  <l>युता पद्धतिरेषास्तु सज्जनानन्ददायिनी ॥ १२ ॥</l>
</lg>
<p>----------</p>
<pb n="18" />
<p>अथानुक्रमणिका ॥ २ ॥
13</p>
<lg>
  <l>क्रियतेनुक्रमः स्पष्ट: सुबोधार्थं सुभाषिते ।</l>
  <l>अत्र तु प्रथमं ज्ञेयं कविवंशस्य वर्णनम् ॥ १ ॥</l>
</lg>
<p>14</p>
<lg>
  <l>ततोप्यनुक्रमो ज्ञेयो नमस्कृत्याशिषौ तथा ।</l>
  <l>सुभाषिते च काव्ये च शंसा सामान्यवर्णके ॥ २ ॥</l>
</lg>
<p>15</p>
<lg>
  <l>विशिष्टकविशंसा च निन्दा व कुकवेस्ततः ।</l>
  <l>प्रशंसा पण्डितस्यापि निन्दा स्याच्च कुपण्डिते ॥ ३ ॥</l>
</lg>
<p>16</p>
<lg>
  <l>प्रशंसा महतां ज्ञेया धीराणां च प्रशंसनम् ।</l>
  <l>प्रशंसा सज्जनस्यापि प्रशंसा च मनस्विनः ॥ ४ ॥</l>
</lg>
<p>17</p>
<lg>
  <l>अथोदारप्रशंसा स्याच्छंसा तेजस्विनस्ततः।</l>
  <l>गुणप्रशंसा संतोषे प्रशंसा संगतौ तथा ॥ ५ ॥</l>
</lg>
<p>18</p>
<lg>
  <l>धनप्रशंसा विज्ञेया निन्दा दुर्जनजा तथा ।</l>
  <l>ततः कृपणनिन्दा स्यान्निन्दा याचकजा तथा ॥ ६ ॥</l>
</lg>
<p>19</p>
<lg>
  <l>दरिद्रनिन्दा विज्ञेया मूर्खनिन्दा ततः परम् ।</l>
  <l>तृष्णानिन्दा लोभनिन्दा दैवाख्यानं ततः परम् ॥ ७ ॥</l>
</lg>
<p>20</p>
<lg>
  <l>उद्यमाख्यानमपरं प्रकीर्णाख्यानकं तथा ।</l>
  <l>समस्याख्यानमपरं प्रहेल्यादिप्रशंसनम् ॥ ८ ॥</l>
</lg>
<p>21</p>
<lg>
  <l>क्रियागुप्तादिकं तद्वत्प्रश्नोत्तरमतः परम्।</l>
  <l>अथ जाति: समाख्याता सदाचारस्ततः परम्॥ ९ ॥</l>
</lg>
<pb n="19" />
<p>22</p>
<lg>
  <l>धर्मस्य विवृतिर्ज्ञेया पापस्य विवृतिस्तथा ।</l>
  <l>अथान्योक्तिषु विज्ञेयं रवेः पूर्वं प्रशंसनम् ॥ १० ॥</l>
</lg>
<p>23</p>
<lg>
  <l>चन्द्रस्यान्योक्तयो ज्ञेया मेघस्यान्योक्तयस्तथा ।</l>
  <l>वायोरन्योक्तिरपरा हंसान्योक्तिस्ततः परा ॥ ११ ॥</l>
</lg>
<p>24</p>
<lg>
  <l>भ्रमरान्योक्तयस्तद्वत्कोकिलान्योक्तयस्ततः ।</l>
  <l>चातकान्योक्तयस्तद्वन्मयूरान्योक्तयस्ततः ॥ १२ ॥</l>
</lg>
<p>25</p>
<lg>
  <l>शुकान्योक्तिस्ततो ज्ञेया काकान्योक्तिस्ततः स्मृता।</l>
  <l>बकान्योक्तिः स्मृता तद्वत्खद्योतान्योक्तयस्ततः ॥ १३ ॥</l>
</lg>
<p>26</p>
<lg>
  <l>सिंहान्योक्तिर्गजान्योक्तिर्मृगान्योक्तिस्ततः परम् ।</l>
  <l>करभान्योक्तयो ज्ञेया वृषभान्योक्तयस्ततः ॥ १४ ॥</l>
</lg>
<p>27</p>
<lg>
  <l>तथा सामान्यवृक्षोक्तिर्विशिष्टतरुपद्धतिः ।</l>
  <l>पर्वतान्योक्तयः ख्याता अगस्त्यान्योक्तयस्ततः ॥ १५ ॥</l>
</lg>
<p>28</p>
<lg>
  <l>समुद्रान्योक्तयस्तद्वद्रत्नान्योक्तिस्ततः परम् ।</l>
  <l>शङ्खस्यान्योक्तयस्तद्वन्नद्यन्योक्तिस्ततः परम् ॥ १६ ॥</l>
</lg>
<p>29</p>
<lg>
  <l>तटाकान्योक्तयस्तद्वत्कमलान्योक्तयस्ततः ।</l>
  <l>कूपस्यान्योक्तयस्तद्वन्मरुस्थलभवोक्तयः ॥ १७ ॥</l>
</lg>
<p>30</p>
<lg>
  <l>ततो दावानलान्योक्तिः संकीर्णान्योक्तयस्ततः  ।</l>
  <l>अथ सर्वनृपाशंसा विशिष्टनृपवर्णनम् ॥ १८ ॥</l>
</lg>
<p>31</p>
<lg>
  <l>पलायनमरीणां च राजनीतिस्ततः परम् ।</l>
  <l>नीतिर्मित्रकनीतिश्च प्रशंसा करिणां तथा ॥ १९ ॥</l>
</lg>
<pb n="20" />
<p>32</p>
<lg>
  <l>अश्वप्रशंसा विख्याता धनुर्वेदस्ततः परम् ।</l>
  <l>गान्धर्वशास्त्रमपरं वृक्षायुर्वेद एव च ॥ २० ॥</l>
</lg>
<p>33</p>
<lg>
  <l>तथैव शकुनज्ञानं पशूनां लक्षणानि च ।</l>
  <l>विषापहरणं तद्वद्भूतविद्या ततः परम् ॥ २१ ॥</l>
</lg>
<p>34</p>
<lg>
  <l>बालग्रहोपशमनं  कौतुकानि ततः परम् ।</l>
  <l>कल्पस्थानानि केशानां रञ्जनानि ततः परम् ॥ २२ ॥</l>
</lg>
<p>35</p>
<lg>
  <l>अथ सामान्यशृङ्गारे युवतीनां प्रशंसनम् ।</l>
  <l>स्त्रीपुंसजातिकथनं तयोः संयोगवर्णनम् ॥ २३ ॥</l>
</lg>
<p>36</p>
<lg>
  <l>स्त्री सेवाकथनं तद्वत्संकेतादिप्रशंसनम् ।</l>
  <l>बालाया वर्णनं त तद्वद्वयः संघेश्च वर्णनम् ॥ २४ ॥</l>
</lg>
<p>37</p>
<lg>
  <l>तरुणीवर्णनं तद्वत्समग्रस्त्रीप्रशंसनम् ।</l>
  <l>विप्रलम्भकशृङ्गारे प्रियप्रस्थानवर्णनम् ॥ २५ ॥</l>
</lg>
<p>38</p>
<lg>
  <l>नायिकावचनं  तद्वद्वियुक्तायाः स्थितिस्तथा ।</l>
  <l>सखीवाक्यं वियुक्तायां वियोगिन्याः प्रभाषणम् ॥२६॥</l>
</lg>
<p>39</p>
<lg>
  <l>दूतिकाप्रेषणं कान्ते प्रलापश्च वियोगिनः ।</l>
  <l>दूत्युक्तिर्नायकस्याग्रे नायिकायां तदुक्तयः ॥ २७ ॥</l>
</lg>
<p>40</p>
<lg>
  <l>उपहासादिकं दूत्या नायिकायास्ततः परम् ।</l>
  <l>अथ संभोगशृङ्गारे परस्परविलोकनम् ॥ २८ ॥</l>
</lg>
<p>41</p>
<lg>
  <l>प्रियातिथ्यादिकं तद्वन्मानिनीमानवर्णनम् ।</l>
  <l>कलहोक्त्यादिकथनं मिथुनस्योक्तयस्तथा ॥ २९ ॥</l>
</lg>
<pb n="21" />
<p>42</p>
<lg>
  <l>प्रियस्य शिक्षानुनयौ प्रसादश्च परस्परम् ।</l>
  <l>सूर्यास्ते चक्रदुःखं च तमसो वर्णनं तथा ॥ ३० ॥</l>
</lg>
<p>43</p>
<lg>
  <l>संचारश्चाभिसारीणां शशाङ्कोदयवर्णनम् ।</l>
  <l>पानगोष्ठी ततः प्रोक्ता चाटुप्रभृतिवर्णनम् ॥ ३१ ॥</l>
</lg>
<p>44</p>
<lg>
  <l>सखीवाक्यं नववधूक्रीडायां तदनन्तरम् ।</l>
  <l>सुरतक्रीडिताख्यानं  विपरीतरतं तथा ॥ ३२ ॥</l>
</lg>
<p>45</p>
<lg>
  <l>निवृत्तिः सुरतस्याथ निशीथे क्रीडनादिकम् ।</l>
  <l>प्रभातवर्णनं वायुसूर्ययोर्वर्णनं तथा ॥ ३३ ॥</l>
</lg>
<p>46</p>
<lg>
  <l>रात्रिसंभोगचेष्टायाः प्रातःप्रकटनं ततः ।</l>
  <l>अथ मिश्रकशृङ्गारे सतीकुलवधूस्थितिः ॥ ३४ ॥</l>
</lg>
<p>47</p>
<lg>
  <l>असतीचरितं  तद्वद्वसन्तादेश्च वर्णनम् ।</l>
  <l>ग्रीष्मादेर्वर्णनं तद्वद्वर्षादेरपि वर्णनम् ॥ ३५ ॥</l>
</lg>
<p>48</p>
<lg>
  <l>शरत्स्वभावव्याख्यानं हेमन्तादेश्च वर्णनम् ।</l>
  <l>शिशिरादेस्तथाख्यानं संमिश्राख्यानकं ततः ॥ ३६ ॥</l>
</lg>
<p>49</p>
<lg>
  <l>ततो वीररसोक्तिः  स्यात्करुणारसवर्णनम् ।</l>
  <l>अद्भुतस्य रसभ्योक्तिरथ हास्यरसोक्तयः ॥ ३७ ॥</l>
</lg>
<p>50</p>
<lg>
  <l>भयानकश्च बीभत्सस्ततो रौद्ररसोक्तयः ।</l>
  <l>अथ शान्तरसे पूर्वं वैराग्यस्य प्रशंसम् ॥ ३८ ॥</l>
</lg>
<p>51</p>
<lg>
  <l>अनित्यतासमाख्यानं विषयादिविडम्बनम् ।</l>
  <l>पश्चात्तापस्य कथनं कालस्य चरितं तथा ॥ ३९ ॥</l>
</lg>
<pb n="22" />
<p>52</p>
<lg>
  <l>ततो विवेककथनमुपदेशस्ततः परम् ।</l>
  <l>कालसंख्या ततः प्रोक्ता शाक्तेरं तदनन्तरम् ॥ ४० ॥</l>
</lg>
<p>53</p>
<lg>
  <l>ततश्चतुर्विधे योगे योगत्रयनिरूपणम् ।</l>
  <l>ततस्तु हठयोगः स्याद्गोरक्षादिसुसाधितः ॥ ४१ ॥</l>
</lg>
<p>54</p>
<lg>
  <l>द्वितीयो हठयोगश्च मार्कण्डेयादिसाधितः  ।</l>
  <l>मनः स्थैर्यप्रभावश्च महिमाद्याश्च योगिनः ॥ ४२ ॥</l>
</lg>
<p>55</p>
<lg>
  <l>योगिचर्या ततः प्रोक्ता ज्ञानं चारिष्टजं तथा ।</l>
  <l>विदेहमुक्तिकथनं कालवञ्चनसंयुतम् ॥ ४३ ॥</l>
</lg>
<p>56
सुभाषितवरस्येति कथितोयमनुक्रमः ।</p>
<lg>
  <l>शतं त्रिषष्ट्यभ्यधिकं परिच्छेदेषु कीर्तितम् ।</l>
  <l>गणितं पद्यसंख्याभिः षट्सहस्रं शतत्रयम् ॥ ४४ ॥</l>
</lg>
<p>--------
अथ नमस्कृतिः ॥ ३ ॥
तत्रादौ गणेशः ।
57</p>
<lg>
  <l>चलत्कर्णानिलोद्धूतसिन्दूरारुणिताम्बरः ।</l>
  <l>जयत्यकालेपि सृजन्संध्यामिव गजाननः ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
58</p>
<lg>
  <l>उच्चैर्ब्रह्माण्डखण्डद्वितयसहचरं कुम्भयुग्मं दधानः</l>
  <l>प्रेङ्खन्नागारिपक्षप्रतिभटविकट श्रोत्रतालाभिरामः ।</l>
  <l>देवः शंभोरपत्यं भुजगपतितनुस्पर्धिवर्धिष्णुहस्त-</l>
  <l>स्त्रैलोक्याश्चर्यमूर्तिः स जयति जगतामीश्वरः कुञ्जरास्यः ॥ २ ॥</l>
</lg>
<p>भेरीभांकारस्य ।</p>
<pb n="23" />
<p>अथ सरस्वती ।
59
करबदरसदृशमखिलं भुवनतलं यत्प्रसादतः कवयः ।
पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ॥ ३ ।
सुबन्धोः ।
अथ शिवः ।
60</p>
<lg>
  <l>नमस्तुङ्गशिरश्रुम्बिचन्द्रचामरचारवे ।</l>
  <l>त्रैलोक्यनगरारम्भमूलस्तम्भाय शंभवे ॥ ४ ॥</l>
</lg>
<p>बाणभट्टस्य ।
61</p>
<lg>
  <l>मौनादस्तमितैव चाटुभणितिः स्रस्तैकहस्ताद्गतं</l>
  <l>दूरेप्यञ्जलिबन्धनं प्रणमनं स्तब्धार्धमूर्ध्नः कुतः ।</l>
  <l>इत्थं संघटितैकविग्रहतया व्यग्रो गिरिग्रामणी-</l>
  <l>र्जायां जातरुपं जयत्यनुनयन्देवस्त्रिलोकीगुरुः ॥ ५॥</l>
</lg>
<p>कस्यापि ।
62</p>
<lg>
  <l>वामाङ्गीकृतवामाङ्गि कुण्डलीकृतकुण्डलि ।</l>
  <l>आविरस्तु पुरो वस्तु भूतिभूत्यम्बराम्बरम् ॥ ६ ॥</l>
</lg>
<p>सार्वभौमस्य ।
63</p>
<lg>
  <l>पिनाकफणिबालेन्दुभस्ममन्दाकिनीयुता ।</l>
  <l>तथापि भव ते मूर्तिरपवर्गानुसारिणी ॥ ७ ॥</l>
</lg>
<p>देवेश्वरस्य ।
64</p>
<lg>
  <l>उदरद्वयभरणभयादर्धाङ्गाहितदारः ।</l>
  <l>यदि नैवं तस्यैकसुतः कथमद्यापि कुमारः ॥ ८ ॥</l>
</lg>
<p>सार्वभौमस्य ।
65
संध्यानतौ नरपुरंघ्रितनोः सरोष-
मुत्सारिते गिरिजया निजपाणिपद्मे ।</p>
<pb n="24" />
<p>उत्सर्पिकङ्कणफणीन्द्रफणार्पणेन
पूर्णोञ्जलिर्जयति बालमृगाङ्कमौलेः ॥ ९ ॥
कस्यापि ।
66</p>
<lg>
  <l>उच्चैरुत्तालखेलद्भुजवनपवनोद्धूतशैलौघपात-</l>
  <l>स्फारोदञ्चत्पयोधिप्रकटितमुकुटस्वर्धुनीसंगमानि ।</l>
  <l>जीयासुस्ताण्डवानि स्फुटविकटजटाकोटिसंघट्टभूरि-</l>
  <l>भ्रश्यन्नक्षत्रचक्रव्यवसितसुमनोवृष्टिपातानि शंभोः ॥ १० ॥</l>
</lg>
<p>भेरीभांकारस्य ।
67</p>
<lg>
  <l>मन्दारमालालुलितालकायै</l>
  <l>कपालमालाङ्कितशेखराय ।</l>
  <l>दिव्याम्बरायै च दिगम्बराय</l>
  <l>नमः शिवायै च नमः शिवाय ॥ ११ ॥</l>
</lg>
<p>कस्यापि ।
अथ गौरी ।
68</p>
<lg>
  <l>हर कण्ठग्रहानन्दमीलिताक्षीं नमाम्युमाम् ।</l>
  <l>कालकूटविषस्पर्शजातमूर्छागमामिव ॥ १२ ॥</l>
</lg>
<p>बाणभट्टस्य ।
अथ कृष्णः ।
69</p>
<lg>
  <l>मेधैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै -</l>
  <l>र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।</l>
  <l>इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं</l>
  <l>राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥१३॥</l>
</lg>
<p>जयदेवस्य ।
70
आनन्दमादधतमायतलोचनाना-
मानीलमावलितकंधरमात्तवंशम् ।</p>
<pb n="25" />
<p>आपादमा मुकुटमाकलितामृतौघ-
माकारमाकलयताममुमन्तरं नः ॥ १४ ॥
71</p>
<lg>
  <l>पुञ्जीभूतं प्रेम गोपाङ्गनानां</l>
  <l>मूर्तीभूतं भागधेयं यदूनाम् ।</l>
  <l>एकीभूतं गुप्तवित्तं श्रुतीनां</l>
  <l>श्यामीभूतं ब्रह्म मे संनिधत्ताम् ॥ १५ ॥</l>
</lg>
<p>एतौ राघवचैतन्यश्रीचरणानाम्
72</p>
<lg>
  <l>परमिममुपदेशमाद्रियध्वं</l>
  <l>निगमवनेषु नितान्तखेदखिन्नाः ।</l>
  <l>विचिनुत भवनेषु बल्लवीना-</l>
  <l>मुपनिषदर्थमुलूखले निबद्धम् ॥ १६ ॥</l>
</lg>
<p>73</p>
<lg>
  <l>नवनीलमेघरुचिरः परः पुमा-</l>
  <l>नवनीमवाप्य धृतगोपविग्रहः ।</l>
  <l>नवनीय कीर्तिरमरैरपि स्वयं</l>
  <l>नवनीतभिक्षुरघुना स चिन्त्यते ॥ १७ ॥</l>
</lg>
<p>एतौ बिल्वमङ्गलश्रीचरणानाम् ।
74</p>
<lg>
  <l>क्व यासि खलु चौरिके प्रमुषितं स्फुटं दृश्यते</l>
  <l>द्वितीयमिह मामकं वहसि कन्दुकं कञ्चुके ।</l>
  <l>त्यजेति नवगोपिकाकुचयुगं प्रमथ्नन्बला-</l>
  <l>ल्लसत्पुलकपञ्जरो जयति गोकुले केशवः ॥ १८ ॥</l>
</lg>
<p>दीपकस्य ।
75
दृक्पात: कमलासनेस्तु भवतो ज्ञानं मनाङ्गमारुते
श्रीकण्ठोयमितः सुरानिति नतांस्तार्क्ष्येण विज्ञापितः ।</p>
<pb n="26" />
<p>प्रेयस्याः क्व तदासनं क्व च रुतं कण्ठः क्व चेत्युल्लस-
ल्लक्ष्म्यावासितमानसो विजयते सुप्तप्रबुद्धो हरिः ॥ १९ ॥
कस्यापि ।
76</p>
<lg>
  <l>अतिविपुलं कुचयुगलं रहसि करैरामृशन्मुहुर्लक्ष्म्याः ।</l>
  <l>तदपहृतं निजहृदयं जयति हरिर्मृगयमाण इव ॥ २० ॥</l>
</lg>
<p>अरसीठक्कुरस्य ।
77</p>
<lg>
  <l>मकरीविरचनभङ्ग्या  राधाकुचकलशपीडनव्यसनी ।</l>
  <l>ऋजुमपि रेखां लुम्पन्बल्लववेषो हरिर्जयति ॥ २१ ॥</l>
</lg>
<p>हरिहरस्य ।
78
खिन्नोसि मुञ्च शैलं बिभृमो वयमिति वदत्सु शिथिलभुजः
भरमुग्रविततबाहुषु गोपेषु हसन्हरिर्जयति ॥ २२ ॥
सुबन्धोः ।
79</p>
<lg>
  <l>शिरश्छायां कृष्णः क्षणमकृत राधाचरणयो-</l>
  <l>र्भुजावल्लिच्छायामियमपि तदीयप्रतिकृतौ ।</l>
  <l>इति क्रीडाकोपे निभृतमुभयोरप्यनुनय-</l>
  <l>प्रसादौ जीयास्तामपि गुरुसमक्षं स्थितवतोः ॥ २३ ॥</l>
</lg>
<p>कस्यापि ।
80</p>
<lg>
  <l>वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते</l>
  <l>दैत्यं दारयते बलिं छलयते क्षत्त्रक्षयं कुर्वते ।</l>
  <l>पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते</l>
  <l>म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ २४ ॥</l>
</lg>
<p>जयदेवस्य ।
81</p>
<lg>
  <l>जीयासुः शकुलाकृतेर्भगवतः पुच्छच्छटाच्छोटना-</l>
  <l>दुद्यन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः ।</l>
  <l>यैर्व्यावृत्य पतद्भिरौर्वशिखिनस्तेजोजटीलं वपुः</l>
  <l>पानाध्मानवशादरोचकरुजां चक्रे चिरायास्पदम् ॥ २५ ॥</l>
</lg>
<pb n="27" />
<p>82</p>
<lg>
  <l>वियत्पुच्छाच्छोटोच्छलितजलगर्भं निधिरपा-</l>
  <l>मपां नाथः पाथः पृषतलवशून्यो वियदभूत् ।</l>
  <l>अभूद्भास्वानौर्वो दिनपतिरभूदौर्वदहन-</l>
  <l>श्चलत्काये यस्मिन्स जयति हरिर्मीनवपुषा ॥ २६ ॥</l>
</lg>
<p>कस्याप्येतौ ।
83</p>
<lg>
  <l>न पङ्कैरालेपं कलयति धरित्रीव्ययभया-</l>
  <l>न्न मुस्तामादत्तेप्युरगनगरभ्रंशभयतः ।</l>
  <l>न धत्ते ब्रह्माण्डस्फुटनभयतो घुर्धुररवं</l>
  <l>वराहो माहात्म्यादिति जयति संकोचिततनुः ॥ २७ ॥</l>
</lg>
<p>हनूमतः ।
84</p>
<lg>
  <l>दैत्यानामधिपे नखाङ्कुरकुटीकोणप्रविष्टात्मनि</l>
  <l>स्फारीभूतकडारकेसरसटासंघट्टघोराकृतेः ।</l>
  <l>सक्रोधं च सविस्मयं च सगुरुव्रीडं च सान्तःस्मितं</l>
  <l>क्रीडाकेसरिणो हरेर्विजयते तत्कालमालोकितम् ॥ २८ ॥</l>
</lg>
<p>इन्द्रकवेः ।
अथ ब्रह्मा ।
85</p>
<lg>
  <l>तं वन्दे पद्मसद्मानमुपवीतच्छटाछलात् ।</l>
  <l>गङ्गा स्रोतस्त्रयेणैव यं सदैव निषेवते ॥ २९ ॥</l>
</lg>
<p>राजशेखरस्य ।
अथ रविः ।
86</p>
<lg>
  <l>शुक्रतुण्डच्छवि सवितुश्चण्डरुचः पुण्डरीकवनबन्धोः ।</l>
  <l>मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः ॥ ३० ॥</l>
</lg>
<p>नागम्मायाः ।
-----------</p>
<pb n="28" />
<p>अथाशिषः ॥ ४ ॥
तत्र पूर्वं गणेशः ।
87</p>
<lg>
  <l>दन्ताग्रनिर्भिन्नहिमाचलोर्वी-</l>
  <l>रन्ध्रोत्थिताहीन्द्र मणिप्रभौघे ।</l>
  <l>नागाननः स्तम्भधिया कपोलौ</l>
  <l>घर्षन्पितृभ्यां हसितः पुनातु ॥ १ ॥</l>
</lg>
<p>श्री गोविन्दराजदेवानाम् ।
88</p>
<lg>
  <l>एकदन्तद्युतिसितः शंभो: सूनुः श्रियेस्तु वः ।</l>
  <l>विद्याकन्द इवोद्भिन्ननवाङ्कुरमनोहरः ॥ २ ॥</l>
</lg>
<p>श्रीधनददेवानाम् ।
89</p>
<lg>
  <l>गण्डस्थलीगलदमन्दमदप्रवाह-</l>
  <l>माद्यद्विरेफमधुरस्वरदत्तकर्णः ।</l>
  <l>हर्षादिवालसनिमीलितनेत्रयुग्मो</l>
  <l>विघ्नच्छिदे भवतु भूतपतिर्गणेशः ॥ ३ ॥</l>
</lg>
<p>आसीनगरप्राकारप्रशस्तेः ।
90</p>
<lg>
  <l>विघ्नेशो वः स पायाद्विहतिषु जलधीन्पुष्कराग्रेण पीत्वा</l>
  <l>यस्मिन्नुद्धृत्य तोयं वमति तदखिलं दृश्यते व्योम्नि देवैः ।</l>
  <l>क्वाप्यम्भः क्वापि विष्णुः क्वचन कमलभूः क्वाप्यनन्तः क्वचिच्छ्रीः</l>
  <l>क्वाप्यौर्वः कापि शैलाः क्वचन मणिगणाः क्वापि नक्रादिसत्त्वा:  ॥ ४ ॥</l>
</lg>
<p>हनूमतः ।
91</p>
<lg>
  <l>सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारबर्हि-</l>
  <l>त्रासान्नासाग्ररन्ध्रं  विशति फणिपतौ भोगसंकोचभाजि ।</l>
  <l>गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणे-</l>
  <l>र्वैनायक्यश्चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः ॥ ५ ॥</l>
</lg>
<p>भवभूतेः ।</p>
<pb n="29" />
<p>अथ शिवः ।
92</p>
<lg>
  <l>उपहरणं विभवानां संहरणं सकलदुरितजालस्य ।</l>
  <l>उद्धरणं संसाराचरणं वः श्रेयसेस्तु विश्वपतेः ॥ ६ ॥</l>
</lg>
<p>विद्यारण्यश्रीचरणानाम् ।
93</p>
<lg>
  <l>आसीने पूष्णि तूष्णीं व्यसनिनि शशिनि व्योम्नि कृष्णे सतृष्णे</l>
  <l>दैत्येन्द्रे याति निद्रां द्रवति मघवति क्लान्तकान्तौ कृतान्ते ।</l>
  <l>अब्रह्मण्यं ब्रुवाणे कमलपुटकुटीश्रोत्रिये शान्त्युपाये</l>
  <l>पायाद्वः कालकूटं झटिति कवलयँल्लीलया नीलकण्ठः ॥ ७ ॥</l>
</lg>
<p>लक्ष्मणखण्डप्रशस्तेः ।
94</p>
<lg>
  <l>वक्रं शीतकरोधरो घनरसः कामप्रदो विग्रहः</l>
  <l>श्वासो गन्धवहः सरोरुहसुहृत्पाणि: स्मिताभा शुचिः ।</l>
  <l>वक्षः पीनपयोधराधिकरणं पृथ्वी नितम्बस्थली-</l>
  <l>त्यष्टौ धूर्जटिमूर्तयः स्मरभयाद्दुर्गाश्रिताः पान्तु वः ॥ ८ ॥</l>
</lg>
<p>दवेश्वरस्य ।
95
कस्त्वं  शूली मृगय भिषजं नीलकण्ठः प्रियेहं
केकामेकां कुरु पशुपतिर्नैव दृश्ये विषाणे ।
स्थाणुर्मुग्धे न वदति तरुर्जीवितेशः शिवाया
गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः ॥ ९ ।
भारतीकवेः
96</p>
<lg>
  <l>च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं</l>
  <l>द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया ।</l>
  <l>अवोचद्यं पश्येत्यवतु स शिवः सा च गिरिजा</l>
  <l>स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः ॥ १० ॥</l>
</lg>
<p>क्रीडाचन्द्रस्य ।</p>
<pb n="30" />
<p>97</p>
<lg>
  <l>कल्पान्ते क्रोधनस्य त्रिपुरविजयिनः क्रीडया संचरिष्णोः</l>
  <l>कृत्वापि प्राणिजातैर्निजमुखकुहरातिथ्यमप्राप्ततृप्तेः ।</l>
  <l>दिग्भित्ती: प्रेक्ष्य शून्याः प्रलयजलनिधिप्रेक्षितात्मीयमूर्ति-</l>
  <l>ग्रासव्यासक्तमोघश्रमजनितरुषः पान्तु वो गर्जितानि ॥ ११ ॥</l>
</lg>
<p>भेरीभांकारस्य ।
98</p>
<lg>
  <l>कल्पान्ते शमितत्रिविक्रममहाकङ्कालबद्धस्फुर-</l>
  <l>च्छेषस्यूतनृसिंह पाणिनखरप्रोतादिकोलामिषः ।</l>
  <l>विश्वैकार्णवताविशेषमुदितौ तौ मत्स्यकूर्मावुभौ</l>
  <l>कर्षन्धीवरतां गतः स्यतु सतां मोहं महाभैरवः ॥ १२ ॥</l>
</lg>
<p>छित्रमस्य ।
अथ लोचनम् ।
99</p>
<lg>
  <l>पक्ष्मालीपिङ्गलिम्नः कण इव तडितां यस्य कृत्स्नः  समूहो</l>
  <l>यस्मिन्ब्रह्माण्डमीषद्विघटितमुकुले कालयज्वा जुहाव ।</l>
  <l>अर्चिर्निष्टप्तचूडाशशिगलितसुधाघोरझांकारिकोणं</l>
  <l>तार्तीयं यत्पुरारेस्तदवतु मदनप्लोषणं लोचनं वः ॥ १३ ॥</l>
</lg>
<p>भवभूतेः ।
अथ गणाः ।
100</p>
<lg>
  <l>संध्याताण्डवडम्बरव्यसनिनो देवस्य चण्डीपते-</l>
  <l>र्भ्रष्टापीडविशीर्ण मुण्डचयनव्यग्रा गणाः पान्तु वः ।</l>
  <l>यैरौत्सुक्यवशीकृतैर्ग्रहगणाद्राहौ गृहीते हठा-</l>
  <l>त्सूर्याचन्द्रमसोर्मिथ: स्मितवतोर्जातं करास्फालनम् ॥ १४ ॥</l>
</lg>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ जटाजूटः ॥</l>
</lg>
<p>101</p>
<lg>
  <l>स धूर्जटिजटाजूटो जायतां विजयाय वः ।</l>
  <l>यत्रैकपलितभ्रान्तिं करोत्यद्यापि जाह्नवी ॥ १५ ॥</l>
</lg>
<p>सूरवर्मणः</p>
<pb n="31" />
<p>अथ पार्वती ।
102</p>
<lg>
  <l>प्रत्यासन्नविवाहमङ्गलविधौ देवार्चनव्यग्रया</l>
  <l>दृष्ट्वाग्रे परिणेतुरेव लिखितां गङ्गाधरस्याकृतिम् ।</l>
  <l>उन्मादस्मितरोपलज्जितधिया गौर्या कथंचिच्चिरा-</l>
  <l>द्वृद्धस्त्रीवचनात्प्रिये विनिहितः पुष्पाञ्जलिः पातु वः ॥ १६ ॥</l>
</lg>
<p>103</p>
<lg>
  <l>वक्ष:पीठे निरीक्ष्य स्फटिकमणिशिलामण्डलस्वच्छभासि</l>
  <l>स्वां छायां साभ्यसूया त्वमियमिति मुहुः सत्यमाश्वासितापि ।</l>
  <l>वामे मे दक्षिणेस्याः भवसि कुवलयं नाहमित्यालपन्ती</l>
  <l>दन्ताश्लेषा सहासं  मदनविजयिना पार्वती वः पुनातु ॥ १७ ॥</l>
</lg>
<p>कस्यापि ।
104</p>
<lg>
  <l>स्वेदस्ते कथमीदृशः प्रियतमे त्वन्नेत्रवह्नेर्विभो</l>
  <l>कस्माद्वेपितमेतदिन्दुवदने भोगीन्द्रभीतेस्तव ।</l>
  <l>रोमाञ्चः कथमेष देवि भगवन्गङ्गाम्भसां सीकरै-</l>
  <l>रित्थं  भर्तरि भावगोपनपरा गौरी चिरं पातु वः ॥ १८ ॥</l>
</lg>
<p>कस्यापि ।
अथ षण्मुखः ।
105</p>
<lg>
  <l>अर्चिष्मन्ति विदार्य वक्रकुहराण्यासृक्कितो वासुके</l>
  <l>रङ्गुल्या विषकर्बुरान्गणयतः संस्पृश्य दन्ताङ्कुरान् ।</l>
  <l>एकं त्रीणि च सप्त पञ्च  षडिति प्रध्वस्तसंख्याक्रमा</l>
  <l>वाचः क्रौञ्चरिपोः शिशुत्वविकलाः श्रेयांसि पुष्णन्तु वः ॥ १९ ॥</l>
</lg>
<p>कस्यापि ।
अथ गङ्गा ।
106
मुक्ताभा नृकपालशुक्तिषु जटावल्लीषु मल्लीनिभा
वह्नौ लाजनिभा दृशो मणिनिभा भोगोत्करे भोगिनाम् ।</p>
<pb n="32" />
<p>अथाशिषः
नृत्या वर्तविवर्तनेरितपयः संमूर्छनोच्छालिताः
खेलन्तो हरमूर्ध्नि पान्तु भवतो गङ्गापयोबिन्दवः ॥ २० ॥
कृष्ण मिश्रस्य ।
107</p>
<lg>
  <l>एषा धर्मपताकिनी तटसुधासेवावसन्नाकिनी</l>
  <l>शुष्यत्पातकिनी भगीरथतपः साफल्यहेवाकिनी ।</l>
  <l>प्रेमारूढपिनाकिनी गिरिसुतासाकेकरालोकिनी</l>
  <l>पापाडम्बरडाकिनी त्रिभुवनानन्दाय मन्दाकिनी ॥ २१ ॥</l>
</lg>
<p>कस्यापि ।
अथ ताण्डवम् ।
108</p>
<lg>
  <l>देवा दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमु वः</l>
  <l>पातालं व्रज मेदिनि प्रविशत क्षोणीतलं भूधरा: ।</l>
  <l>ब्रह्मन्नुन्नय दूरमात्मभुवनं नाथस्य नो नृत्यतः</l>
  <l>शंभो: संकटमेतदित्यवतु वः प्रोत्सारणा नन्दिनः ॥ २२ ॥</l>
</lg>
<p>महानाटकात् ।
109</p>
<lg>
  <l>संध्याताण्डवडम्बरव्यसनिनो भर्गस्य चण्डभ्रमि-</l>
  <l>व्यानृत्यद्भुजदण्डमण्डलभुवो झञ्झानिलाः पान्तु वः ।</l>
  <l>येषामुच्छलतां जवेन झगिति व्यूहेषु भूमीभृता-</l>
  <l>मुड्डीनेषु विडौजसा पुनरसौ दम्भोलिरालोकितः ॥ २३ ॥</l>
</lg>
<p>सोमनाथप्रशस्तैः ।
अथ हरिहरौ ।
110</p>
<lg>
  <l>स्फटिकमरकतश्रीहारिणोः प्रीतियोगा-</l>
  <l>त्तदवतु वपुरेकं कामकंसद्विषोर्वः ।</l>
  <l>भवति गिरिसुतायाः सार्धमम्भोधिपुत्र्या</l>
  <l>सदृशमहसि कण्ठे यत्र सीमाविवादः ॥ २४ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="33" />
<p>111</p>
<lg>
  <l>यौ तौ शङ्खकपालभूषितकरौ मालास्थिमालाधरौ</l>
  <l>देवौ द्वारवतीश्मशाननिलयौ नागारिगोवाहनौ ।</l>
  <l>द्वित्र्यक्षौ बलिदक्षयज्ञमथनौ श्रीशैलजावल्लभौ</l>
  <l>पापं वो हरतां सदा हरिहरौ श्रीवत्सगङ्गाधरौ ॥ २५ ॥</l>
</lg>
<p>कस्यापि ।
अथ चण्डी ।
112</p>
<lg>
  <l>विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे</l>
  <l>जाताशङ्के शशाङ्के विरमति मरुति व्यक्तवैरे कुबेरे ।</l>
  <l>वैकुण्ठे कुण्ठितास्त्रे  महिषमतिरुषं पौरुषोपघ्ननिघ्नं</l>
  <l>निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥ २६ ॥</l>
</lg>
<p>बाणभट्टस्य ।
अथ कृष्णः ।
113</p>
<lg>
  <l>पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः ।</l>
  <l>त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिवाहवः ॥ २७ ॥</l>
</lg>
<p>कस्यापि ।
114</p>
<lg>
  <l>भ्राम्यन्मन्दरकंदरोदरदरीव्यावर्तिभिर्वारिधेः</l>
  <l>कल्लोलैरलमाकुलं कलयतो लक्ष्म्या मुखाम्भोरुहम् ।</l>
  <l>औत्सुक्यात्तरलाः स्मराद्विकसिता भीत्या समाकुञ्चिताः</l>
  <l>क्रोधेन ज्वलिता मुदा मुकुलिताः शौरेर्दृशः पान्तु वः ॥ २८ ॥</l>
</lg>
<p>कस्यापि ।
115</p>
<lg>
  <l>अर्धोन्मीलितलोचनस्य पिबतः पर्याप्तमेकं स्तनं</l>
  <l>सद्यः प्रस्तुतदुग्धदिग्धमपरं हस्तेन संमार्जतः ।</l>
  <l>मात्रा चाङ्गुलिलालितम्य चिबुके स्मेरायमाणे मुखे</l>
  <l>विष्णोः क्षीरकणाम्बुधामधवला दन्तद्युतिः पातु वः ॥२९॥</l>
</lg>
<p>बिल्वमङ्गलश्रीचरणानाम् ।</p>
<pb n="34" />
<p>अथाशिषः
116</p>
<lg>
  <l>अस्मिन्कुञ्जे विनापि प्रचलति पवनाद्वर्तते कोपि नूनं</l>
  <l>पश्यामः किं न गत्वेत्यनुसरति गणे भीतभीतेर्भकाणाम् ।</l>
  <l>तस्मिन् राधासखो वः सुखयतु विलसल्लीलया कैटभारि-</l>
  <l>र्व्यतन्त्रानो मृगारिप्रबलघुरघुरारावरौद्रान्निनादान् ॥३०॥</l>
</lg>
<p>कस्यापि ।
117</p>
<lg>
  <l>दर्पणार्पितमालोक्य मायास्त्रीरूपमात्मनः ।</l>
  <l>आत्मन्येवानुरक्तो वः शिवं दिशतु केशवः ॥ ३१ ॥</l>
</lg>
<p>कस्यापि ।
118</p>
<lg>
  <l>गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते</l>
  <l>किं त्वेवं विजनस्थयोर्हतजन: संभावयत्यन्यथा ।</l>
  <l>इत्यामन्त्रणभङ्गेिसूचितवृथावस्थानखेदालसा-</l>
  <l>माश्लिष्यन्पुलकाङ्कुराञ्चिततनुर्गोपीं हरिः पातु वः ॥ ३२ ॥</l>
</lg>
<p>कस्यापि ।
119</p>
<lg>
  <l>हृदयं कौस्तुभोद्भासि हरेः पुष्णातु वः श्रियम् ।</l>
  <l>राधाप्रवेशरोधाय दत्तमुद्रमिव श्रिया ॥ ३३ ॥</l>
</lg>
<p>कुमुदस्य ।
120</p>
<lg>
  <l>रामो नाम बभूव हुं तदबला सीतेति हुं तां पितु-</l>
  <l>र्वाचा पञ्चवटीवने निवसतस्तस्याहरद्रावणः ।</l>
  <l>कृष्णेनेति पुरातनीं निजकथामाकर्ण्य मात्रेरितां</l>
  <l>सौमित्रे  क्व धनुर्धनुर्धनुरिति प्रोक्ता गिरः पान्तु वः ॥ ३४ ॥</l>
</lg>
<p>वसुंधरस्य ।
121</p>
<lg>
  <l>सकलभुवनबन्धोर्वैरभिन्दोः सरोजै-</l>
  <l>रनुचितमिति मत्वा यः स्वपादारविन्दम् ।</l>
  <l>घटयितुमिव मायी योजयत्याननेन्दौ</l>
  <l>वटदलपुटशायी मङ्गलं वः कृषीष्ट ॥ ३५ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="35" />
<p>122</p>
<lg>
  <l>कोयं द्वारि हरिः प्रयाह्युपवनं शाखामृगस्यात्र किं</l>
  <l>कृष्णोहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् ।</l>
  <l>राधेहं मधुसूदनो व्रज लतां तामेव पुष्पान्विता-</l>
  <l>मित्थं निर्वचनीकृतो दयितया  ह्रीणो हरिः पातु वः ॥ ३६ ॥</l>
</lg>
<p>कस्यापि
अथ दशावताराः ।
123</p>
<lg>
  <l>दिश्याद्वः शकुलाकृतिः स भगवान्नैःश्रेयसीं संपदं</l>
  <l>यस्य स्फूर्जदतुच्छपुच्छशिखरप्रेंग्खोलनक्रीडनैः ।</l>
  <l>विष्वग्वार्धिसमुच्छलज्जलभरैर्मन्दाकिनीसंगतै-</l>
  <l>र्गङ्गासागरसंगमप्रणयिनी जाता विहायःस्थली ॥ ३७ ॥</l>
</lg>
<p>124</p>
<lg>
  <l>निष्प्रत्यूहमनल्पकल्पचलितत्रैलोक्यरक्षागुरु:</l>
  <l>क्रीडाकूर्मकलेवरः स भगवान्दिश्यादमन्दां मुदम् ।</l>
  <l>कल्पान्तोदधिमध्यमज्जनवशाद्व्यासर्पतः संलुठ-</l>
  <l>-पष्ठे यस्य बभूव सैकतकणच्छायं धरित्रीतलम् ॥ ३८ ॥</l>
</lg>
<p>125
दृप्यद्दैत्यकुटुम्बिनीजनमनःसंतोषसंकोचनः
कुर्याद्विश्वमनश्वरं स भगवान्क्रीडावतारो हरिः
यद्दंष्ट्राङ्कुरकोटिकोटरकुटीकोणान्तरस्थेयसी
पृथ्वी भात्यवदातकेतकदलालीनेव भृङ्गाङ्गना ॥ ३९ ॥
हनुमत एते ।
126</p>
<lg>
  <l>चटच्चटिति चर्मणि च्छमिति चोच्छलच्छोणिते</l>
  <l>धगद्धगिति मेदसि स्फुटरवास्थिनि ष्ठागिति ।</l>
  <l>पुनातु भवतो हरेर मरवैरिवक्षःस्थल-</l>
  <l>क्वणत्कर जपञ्जर क्रकचकाषजन्मानलः ॥ ४० ॥</l>
</lg>
<p>वाक्पतिराजस्य</p>
<pb n="36" />
<p>127</p>
<lg>
  <l>ब्रह्माण्डच्छत्रदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः</l>
  <l>क्षोणीनौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः ।</l>
  <l>ज्योतिश्चक्राक्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोङ्घ्रिदण्डः</l>
  <l>श्रेयस्त्रैविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ॥ ४१ ॥</l>
</lg>
<p>दण्डिनः ।
128</p>
<lg>
  <l>किं दोर्भ्यां  किमु कार्मुकोपनिषदा भर्गप्रसादेन किं</l>
  <l>किं वेदाधिगमेन भास्वति  भृगोर्वंशे च किं जन्मना ।</l>
  <l>किं चानेन ममाद्भुतेन तरसा पीडां कृतान्तोपि चे-</l>
  <l>द्विप्राणां कुरुतेन्तरित्यनुशयो रामस्य पुष्णातु वः ॥ ४२ ॥</l>
</lg>
<p>हनूमतः ।
129</p>
<lg>
  <l>कूर्मो मूलवदालवालवदपां राशिर्लतावद्दिशो</l>
  <l>मेघा: पल्लववत्प्रसूनफलवन्नक्षत्रसूर्येन्दवः ।</l>
  <l>स्वामिन्व्योमतरुः क्रमे मम कियाञ्छ्रुत्वेति गां मारुतेः</l>
  <l>सीतान्वेषणमादिशन्दिशतु वो रामः सलज्जः श्रियम् ॥ ४३ ॥</l>
</lg>
<p>कस्यापि
130</p>
<lg>
  <l>कृष्ण त्वं नवयौवनोसि चपलाः प्रायेण गोपाङ्गनाः</l>
  <l>कंसो भूपतिरब्जनालमृदुलग्रीवा वयं गोदुहः ।</l>
  <l>तद्याचेञ्जलिना भवन्तमधुना वृन्दावनं मद्विना</l>
  <l>मा यासीरिति नन्दगोपवचसां नम्रो हरिः पातु वः ॥४४॥</l>
</lg>
<p>बिल्वमङ्गलश्रीचरणानाम् ।
131</p>
<lg>
  <l>ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं</l>
  <l>पश्यानङ्गशरातुरं जनमिमं त्रातापि नो रक्षसि ।</l>
  <l>मिथ्याकारुणिकोसि निर्दयतरस्त्वत्तः कुतोन्यः पुमा-</l>
  <l>ञ्शश्वन्मारवधूमिरित्यभिहितो बुद्धो जिनः पातु वः ॥ ४५ ॥</l>
</lg>
<p>श्रीहरिगणस्य ।</p>
<pb n="37" />
<p>132</p>
<lg>
  <l>उद्यत्करकरवालः शकतिमिरध्वंसने महानिपुण: ।</l>
  <l>कल्किहरिर्वः पायादपायतः कलिनिशान्तोत्थः ॥ ४६ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
133</p>
<lg>
  <l>पाठीन: कमठः किटिर्नरहरिः खर्वाकृतिर्भार्गवो</l>
  <l>राम: कंसनिपूदनो दशबल: कल्की च नारायणः ।</l>
  <l>युष्माकं स विभूतयेस्तु भगवान्सेतुर्भवाम्भोनिधा-</l>
  <l>वुत्ताराय युगे युगे युगपतिस्त्रैलोक्यनाथो हरिः ॥ ४७ ॥</l>
</lg>
<p>हनुमतः ।
अथ लक्ष्मीः ।
134</p>
<lg>
  <l>पायात्पयोधिदुहितुः कपोलामलचन्द्रमाः ।</l>
  <l>यत्र संक्रान्तबिम्बेन हरिणा हरिणायितम् ॥ ४८ ॥</l>
</lg>
<p>कस्यापि ।
135</p>
<lg>
  <l>उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा</l>
  <l>धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्या ।</l>
  <l>भूयस्तत्काल कान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः</l>
  <l>शय्यामालिङ्ग्य नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥४९ ॥</l>
</lg>
<p>निशानारायणस्य ।
अथ सूर्यः ।
136</p>
<lg>
  <l>सिन्दूरस्पृहया स्पृशन्ति करिणां कुम्भस्थमाधोरणा</l>
  <l>भिल्ली पल्लवशङ्कया विचिनुते सान्द्रद्रुमद्रोणिषु ।</l>
  <l>कान्ताः कुङ्कमशङ्कया करतले मुद्रन्ति लग्नं च य-</l>
  <l>त्तत्तेजः प्रथमोद्भवं भ्रमकरं सौरं चिरं पातु वः ॥ ५० ॥</l>
</lg>
<p>त्रिविक्रमस्य ।</p>
<pb n="38" />
<p>137</p>
<lg>
  <l>जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं</l>
  <l>रक्तैः सिक्ता इवौघैरुदयगिरितटीधातुधाराद्रवस्य ।</l>
  <l>आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै</l>
  <l>भूयासुर्भासयन्तो भुवनमभिनवा मानवो भानवीयाः ॥५१ ॥</l>
</lg>
<p>138</p>
<lg>
  <l>भक्तिप्रह्वाय दातुं मुकुलपुटकुटीकोटरक्रोडलीनां</l>
  <l>लक्ष्मीमाक्रष्टुकामा इव कमलवनोद्घाटनं कुर्वते ये ।</l>
  <l>कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः</l>
</lg>
<lg>
  <l>कल्याणं वः क्रियासुः किसलयरुचयस्ते करा भास्करस्य ॥ ५२॥</l>
  <l>एतौ मयूरस्य ।</l>
  <l>---------</l>
  <l>अथ सुभाषितप्रशंसा ॥५॥</l>
</lg>
<p>139</p>
<lg>
  <l>संसदि तदेव भूषणमुपकारकमवसरे धनं मुख्यम् ।</l>
  <l>सूक्तं दधति सुवर्णं कल्याणमनर्घमिह धन्याः ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
140</p>
<lg>
  <l>कथमिह मनुष्यजन्मा संप्रविशति सदसि विबुधगमितायाम् ।</l>
  <l>येन न सुभाषितामृतमाह्लादि निपीतमा तृप्तेः ॥ २ ॥</l>
</lg>
<p>चाणक्यस्य ।
141</p>
<lg>
  <l>सुभाषितमयैर्द्रव्यैः संग्रहं न करोति यः ।</l>
  <l>सोपि प्रस्तावयज्ञेषु कां प्रदास्यति दक्षिणाम् ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
142</p>
<lg>
  <l>प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः ।</l>
  <l>भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ ४ ॥</l>
</lg>
<p>त्रिविक्रमभट्टस्य ।</p>
<pb n="39" />
<p>143</p>
<lg>
  <l>ये सूक्तीन्दुकलाकलङ्कजनका ये गाढगर्वज्वरा</l>
  <l>ये वा केवलतर्ककर्कशधियः साक्षाच्च ये श्रोत्रियाः ।</l>
  <l>ये वा द्वेषमयीमलीमसधियस्तान्प्राज्ञगोष्ठी रस-</l>
  <l>प्रौढप्रावृडवग्रहान्परिहरन्वाचां प्रसारं कुरु ॥५॥</l>
</lg>
<p>कस्यापि ।
144</p>
<lg>
  <l>कर्णामृतं सूक्तिरसं विमुच्य</l>
  <l>दोषेषु यत्नः सुमहान्खलस्य ।</l>
  <l>अवेक्षते केलिवनं प्रविष्टः</l>
</lg>
<lg>
  <l>क्रमेलकः कण्टकजालमेव ॥ ६ ॥</l>
  <l>विल्हणस्य ।</l>
  <l>---------</l>
  <l>अथ काव्यप्रशंसा ॥ ६ ॥</l>
</lg>
<p>145</p>
<lg>
  <l>अविदितगुणापि सुकवेर्भणितिः कर्णेषु वमति मधुधाराम् ।</l>
  <l>अनधिगतपरिमलापि हि हरति दृशं मालतीमाला ॥ १ ॥</l>
</lg>
<p>सुबन्धोः ।
146</p>
<lg>
  <l>निरवद्यानि पद्यानि यद्यनाद्यस्य का क्षतिः ।</l>
  <l>भिक्षुकक्षाविनिक्षिप्तः किमिक्षुर्नीरसो भवेत् ॥ २ ॥</l>
</lg>
<p>भवभूतेः ।
147</p>
<lg>
  <l>कान्पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि ।</l>
  <l>किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
148</p>
<lg>
  <l>ख्यातिं गमयति सुजनः सुकविर्विदधाति केवलं काव्यम् ।</l>
  <l>पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="40" />
<p>149
विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न मौर्ख्ये  स्वे
निन्दति कञ्चुकमेव प्रायः शुष्कस्तनी नारी ॥ ५ ॥
कस्यापि ।
150</p>
<lg>
  <l>याता यान्ति च यातारो लोकाः शोकाधिका भुवि ।</l>
  <l>काव्यसंबन्धिनी कीर्ति: स्थायिनी निरपायिनी ॥ ६ ॥</l>
</lg>
<p>श्रीअनन्तदेवानाम् ।
151</p>
<lg>
  <l>किं तेन किल काव्येन मृद्यमानस्य यस्य ताः ।</l>
  <l>उदधेरिव नायान्ति रसामृतपरम्पराः ॥ ७ ॥</l>
</lg>
<p>जयमाधवस्य ।
152</p>
<lg>
  <l>नवोक्तिर्जातिरग्राम्या श्लेषोक्लिष्ट: स्फुटो रसः ।</l>
  <l>विकटाक्षरसंबन्धः कृत्स्नमेकत्र दुष्करम् ॥ ८ ॥</l>
</lg>
<p>बाणभट्टस्य ।
153</p>
<lg>
  <l>दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमायाति ।</l>
  <l>दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन ॥ ९ ॥</l>
</lg>
<p>154</p>
<lg>
  <l>यन्त्राकृष्टसुवर्णसूत्रमिव यत्पद्यं सुमेरोस्तटा-</l>
  <l>दुन्मीलत्कुरुविन्दकन्दल इव स्वच्छ : पदार्थस्तु यः ।</l>
  <l>यत्राप्युल्लसदंशुकान्तरलसत्कान्ताकुचान्तोपमं</l>
</lg>
<lg>
  <l>व्यङ्ग्यं यत्तदहो कवित्वमपरं वाग्देवतोपप्लवः ॥ १० ॥</l>
  <l>कयारप्येतौ ।</l>
  <l>------------</l>
  <l>अथ सामान्यकविप्रशंसा ॥ ७ ॥</l>
</lg>
<p>155
कतिपयनिमेषवर्तिनि जन्मजरामरणविह्वले जगति ।
कल्पान्तकोटिबन्धुः स्फुरति कवीनां यशःप्रसरः ॥ १ ।
शङ्खधरस्य ।</p>
<pb n="41" />
<p>156</p>
<lg>
  <l>सुभाषितरसास्वादवद्धरोमाञ्चकञ्चुकाः ।</l>
  <l>विनापि कामिनीसङ्गं कवयः मुखमासते ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
157</p>
<lg>
  <l>सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे ।</l>
  <l>उत्पादका न बहवः कवयः शरभा इव ॥ ३ ॥</l>
</lg>
<p>बाणभट्टस्य ।
158</p>
<lg>
  <l>कवयः परितुष्यन्ति नेतरे कविसूक्तिभिः ।</l>
  <l>न ह्यकूपारवत्कूपा वर्धन्ते विधुकान्तिभिः ॥ ४ ॥</l>
</lg>
<p>श्रीधनददेवानाम् ।
159</p>
<lg>
  <l>किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः ।</l>
  <l>परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥ ५॥</l>
</lg>
<p>त्रिविक्रमभट्टस्य ।
160</p>
<lg>
  <l>मुखमात्रेण काव्यस्य करोत्यहृदयो जनः ।</l>
  <l>छायामच्छामपि श्यामां राहुस्तारापतेरिव ॥ ६ ॥</l>
</lg>
<p>बाणभट्टस्य ।
161</p>
<lg>
  <l>लङ्कापते: संकुचितं यशो य</l>
  <l>द्यत्कीर्तिपात्रं रघुराजपुत्रः ।</l>
  <l>स सर्व एवादिकवेः प्रभावो</l>
  <l>न कोपनीयाः कवयः क्षितीन्द्रैः ॥ ७ ॥</l>
</lg>
<p>बिल्हणस्य ।
162</p>
<lg>
  <l>उत्फुल्लगल्लैरालापाः क्रियन्ते दुर्मुखैः सुखम् ।</l>
  <l>जानाति हि पुनः सम्यक्कविरेव कवेः श्रमम् ॥ ८ ॥</l>
</lg>
<p>त्रिविक्रमभट्टस्य ।
163
शीलाविज्जामारुलामोरिकाद्याः
काव्यं कर्तुं सन्तु विज्ञाः स्त्रियोपि ।</p>
<pb n="42" />
<p>विद्यां वेत्तुं वादिनो निर्विजेतुं
दातुं वक्तुं यः प्रवीणः स वन्द्यः ॥ ९ ॥
श्रीधनददेवानाम् ।
164</p>
<lg>
  <l>अपि मुदमुपयान्तो वाग्विलासैः स्वकीयैः</l>
  <l>परभणितिषु तृप्तिं यान्ति सन्तः कियन्तः ।</l>
  <l>निजघनमकरन्दस्यन्दपूर्णालवाल:</l>
  <l>कलशसलिलसेकं नेहते किं रसालः ॥ १० ॥</l>
</lg>
<p>जयदेवस्य ।
165</p>
<lg>
  <l>ते धन्यास्ते महात्मानो तेषां लोके स्थितं यशः ।</l>
  <l>यैर्निबद्धानि काव्यानि ये वा काव्येषु कीर्तिताः ॥ ११ ॥</l>
</lg>
<p>कस्यापि ।
166</p>
<lg>
  <l>जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।</l>
  <l>नास्ति येषां यशः काये जरामरणजं भयम् ॥ १२ ॥</l>
</lg>
<p>भर्तृहरेः ।
167</p>
<lg>
  <l>महीपतेः सन्ति न यस्य पार्श्वे</l>
  <l>कवीश्वरास्तस्य कुतो यशांसि ।</l>
  <l>भूपाः कियन्तो न बभूवुरुर्व्यां</l>
  <l>नामापि जानाति न कोपि तेषाम् ॥ १३ ॥</l>
</lg>
<p>बिल्हणस्य ।
168</p>
<lg>
  <l>अर्थान्केचिदुपासते कृपणवत्केचित्त्वलंकुर्वते</l>
  <l>वेश्यावत्खलु धातुवादिन इवोद्बघ्नन्ति केचिद्रसान् ।</l>
  <l>अर्थालंकृतिसद्रसद्रवमुचां वाचां प्रशस्तिस्पृशां</l>
  <l>कर्तारः कवयो भवन्ति कतिचित्पुण्यैरगण्यैरिह ॥ १४ ॥</l>
</lg>
<p>श्रीराघवचैतन्यश्रीचरणानाम् ।
169</p>
<lg>
  <l>कविवाक्यामृततीर्थस्नानैः पूता भृशं यशोदेहाः ।</l>
  <l>येषां त एव भूपा जीवन्ति मृता वृथैवान्ये ॥ १५ ॥</l>
</lg>
<pb n="43" />
<p>170</p>
<lg>
  <l>अमृतोत्प्रेक्षणे चारुरशेषजनसज्जनः ।</l>
  <l>कविर्गरुडवन्मान्य इन्द्रवज्रादिवृत्तकृत् ॥ १६ ॥</l>
</lg>
<p>एतौ शार्ङ्गधरस्य ।
171</p>
<lg>
  <l>काव्यमय्यो गिरो यावच्चरन्ति विशदा भुवि ।</l>
</lg>
<lg>
  <l>तावत्सारस्वतं स्थानं कविरासाद्य तिष्ठति ॥ १७ ॥</l>
  <l>कस्यापि ।</l>
  <l>------------</l>
  <l>अथ विशिष्टकविप्रशंसा ॥ ८ ॥</l>
</lg>
<p>172</p>
<lg>
  <l>कवीन्दुं नौमि वाल्मीकिं यस्य रामायणीं कथाम् ।</l>
  <l>चन्द्रिकामिव चिन्वन्ति चकोरा इव साधवः ॥ १ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
173</p>
<lg>
  <l>श्रवणाञ्जलिपुटपेयं विरचितवान्भारताख्यममृतं यः ।</l>
  <l>तमहमरागमतृष्णं कृष्णद्वैपायनं वन्दे ॥ २ ॥</l>
</lg>
<p>नारायणभट्टस्य ।
174</p>
<lg>
  <l>त्रयोग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः ।</l>
  <l>त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥ ३ ॥</l>
</lg>
<p>राजशेखरस्य ।
175</p>
<lg>
  <l>कवयः कालिदासाद्याः कवयो वयमप्यमी ।</l>
  <l>पर्वते परमाणौ च पदार्थत्वं प्रतिष्ठितम् ॥ ४॥</l>
</lg>
<p>कृष्णभट्टस्य ।
176</p>
<lg>
  <l>कविरमरः कविरचल: कविरभिनन्दश्च कालिदासश्च ।</l>
  <l>अन्ये कवयः कपयश्चापलमात्रं परं दधति ॥ ५ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="44" />
<p>177</p>
<lg>
  <l>श्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरे -</l>
  <l>लंकारे कतिचित्सदर्थविषये चान्ये कथावर्णके ।</l>
  <l>आः सर्वत्र गभीरधीरकविताविन्ध्याटवीचातुरी-</l>
  <l>संचारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः ॥ ६ ॥</l>
</lg>
<p>श्री चन्द्रदेवानाम् ।
178</p>
<lg>
  <l>भवभूतिमनादृत्य निर्वाणमतिना मया ।</l>
  <l>मुरारिपदचिन्तायामिदमाधीयते मनः ॥ ७ ॥</l>
</lg>
<p>कस्यापि ।
179</p>
<lg>
  <l>शब्दार्थयोः समो गुम्फः पाञ्चालीरीतिरुच्यते ।</l>
  <l>शीलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥ ८ ॥</l>
</lg>
<p>कस्यापि ।
180</p>
<lg>
  <l>नीलोत्पलदलश्यामां विज्जकां मामजानता ।</l>
  <l>वृथैव दण्डिना प्रोक्तं सर्वशुक्ला सरस्वती ॥ ९ ॥</l>
</lg>
<p>विज्जकायाः ।
181</p>
<lg>
  <l>इन्दुप्रभारसविदं विहगं विहाय</l>
  <l>कीरानने स्फुरसि भारति का रतिस्ते ।</l>
  <l>आद्यं यदि श्रयसि जल्पतु कौमुदीनां</l>
  <l>गोविन्दराजवचसां च विशेषमेषः ॥ १० ॥</l>
</lg>
<p>देवेश्वरस्य ।
182</p>
<lg>
  <l>यथेयं वाग्देवी सुकविमुखवासव्यसनिनी</l>
  <l>कुहूकण्ठीकण्ठे विलसति तथा चेदनवधिः ।</l>
  <l>तदा भूमीभागे निरुपमतमः किंचिदिव वा</l>
  <l>समाधत्ते साम्यं धनदभणितीनां मधुरिमा ॥ ११ ॥</l>
</lg>
<p>श्रीधनददेवानाम् ।</p>
<pb n="45" />
<p>183
न मुग्धदयिताधरे न विषभाजि रत्नाकरे
न राहुमुखकोटरे न किल तार्क्ष्यपक्षान्तरे ।
सुदर्शनकवीश्वरे रसिकचक्रचूडामणौ
गुणौकसि सुधा बुधास्त्यजत सान्द्रचन्द्रभ्रमम् ॥ १२ ।
श्रीहरिहरिदेवानाम् ।
184</p>
<lg>
  <l>सरस्वतीव कार्णाटी विजयाङ्का जयत्यसौ ।</l>
  <l>या वैदर्भगिरां वासः कालिदासादनन्तरम् ॥ १३ ॥</l>
</lg>
<p>कस्यापि ।
185</p>
<lg>
  <l>माघेन विघ्नितोत्साहा नोत्सहन्ते पदक्रमे ।</l>
  <l>स्मरन्तो भारवेरेव कवयः कपयो यथा ॥ १४ ॥</l>
</lg>
<p>धनपालस्य ।
186</p>
<lg>
  <l>हृदि लग्नेन बाणेन यन्मन्दोपि पदक्रमः ।</l>
  <l>भवेत्कविकुरङ्गाणां चापलं तत्र कारणम् ॥ १५ ॥</l>
</lg>
<p>187</p>
<lg>
  <l>तावत्कविविहंगानां ध्वनिर्लोकेषु शस्यते ।</l>
  <l>यावन्नो त्रिशति श्रोत्रे मयूरमधुरध्वनिः ॥ १६ ॥</l>
</lg>
<p>त्रिलोचनस्यैतौ ।
188</p>
<lg>
  <l>भासो रामिलसोमिलौ वररुचिः श्रीसाहसाङ्क: कवि-</l>
  <l>र्मेण्ठो भारविकालिदासतरलाः स्कन्धः सुबन्धुश्च यः ।</l>
  <l>दण्डी बाणदिवाकरौ गणपतिः कान्तश्च रत्नाकरः</l>
  <l>सिद्धा यस्य सरस्वती भगवती के तस्य सर्वेपि ते ॥१७॥</l>
</lg>
<p>189</p>
<lg>
  <l>अहो प्रभावो वाग्देव्या यन्मातङ्गदिवाकरः ।</l>
  <l>श्रीहर्षस्याभवत्सभ्यः समो बाणमयूरयोः ॥ १८ ॥</l>
</lg>
<pb n="46" />
<p>190</p>
<lg>
  <l>सरस्वती पवित्राणां जातिस्तत्र न देहिनाम् ।</l>
  <l>व्यासस्पर्धी कुलालोभूद्यद्द्रोणो भारते कविः ॥ १९ ॥</l>
</lg>
<lg>
  <l>राजशेखरस्यैते ।</l>
  <l>अथ कुकविनिन्दा ॥९॥</l>
</lg>
<p>191</p>
<lg>
  <l>अप्रगल्भाः पदन्यासे जननींरागहेतवः ।</l>
  <l>सन्त्येके बहुलालापाः कवयो बालका इव ॥ १ ॥</l>
</lg>
<p>त्रिविक्रमभट्टस्य ।
192</p>
<lg>
  <l>गणयन्ति नापशब्दं न वृत्तभङ्गं क्षयं न चार्थस्य ।</l>
  <l>रसिकत्वेनाकुलिता  वेश्यापतयः कुकवयश्च ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
193</p>
<lg>
  <l>द्राघीयसा धार्ष्ट्यगुणेन युक्ताः</l>
  <l>कै: कैरपूर्वैः परकाव्यखण्डैः ।</l>
  <l>आडम्बरं ये वचसां वहन्ति</l>
  <l>ते केपि कन्थाकवयो जयन्ति ॥ ३ ॥</l>
</lg>
<p>बिल्हणस्य ।
194</p>
<lg>
  <l>धिक्त्वां रे कलिकाल याहि विलयं केयं विपर्यस्तता</l>
  <l>हा कष्टं श्रुतिशालिनां व्यवहतिर्म्लेच्छोचिता दृश्यते ।</l>
  <l>एकैर्वाङ्ग्मयदेवता भगवती विक्रेतुमानीयते</l>
  <l>निः शङ्कैरपरैः परीक्षणविधौ सर्वाङ्गमुद्घाट्यते ॥ ४ ॥</l>
</lg>
<p>बिल्हणस्य ।
195</p>
<lg>
  <l>कविभिर्नृपसेवासु वित्तालकारहारिणी ।</l>
  <l>वाणी वेश्येव लोभेन परोपकरणीकृता ॥ ५ ॥</l>
</lg>
<p>क्षेमेन्द्रस्य ।</p>
<pb n="47" />
<p>196</p>
<lg>
  <l>अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः ।</l>
  <l>अनाख्यातः सतां मध्ये कविश्चौरो विभाव्यते ॥ ६ ॥</l>
</lg>
<p>-------------
अथ पण्डितप्रशंसा ॥ १० ॥
197</p>
<lg>
  <l>अधिगतपरमार्थान्पण्डितान्मा वमंस्था-</l>
  <l>स्तृणमिव लघुलक्ष्मीर्नैव तान्संरुणद्धि ।</l>
  <l>मदमिलितमिलिन्दश्यामगण्डस्थलानां</l>
  <l>न भवति विसतन्तुर्वारणं वारणानाम् ॥ १ ॥</l>
</lg>
<p>198</p>
<lg>
  <l>इह तुरगशतैः प्रयान्तु मूर्खा</l>
  <l>धनरहितास्तु बुधाः प्रयान्तु पद्भ्याम् ।</l>
  <l>गिरिशिखरगतापि काकपङ्क्तिः</l>
  <l>पुलिनगतैर्न समत्वमेति हंसैः ॥ २ ॥</l>
</lg>
<p>199</p>
<lg>
  <l>अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् ।</l>
  <l>अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
200</p>
<lg>
  <l>उदीरितोर्थ: पशुनापि गृह्यते</l>
  <l>हयाश्च नागाश्च वहन्ति नोदिताः ।</l>
  <l>अनुक्तमप्यूहति पण्डितो जनः</l>
  <l>परेङ्गितज्ञानफला हि बुद्धयः ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
201</p>
<lg>
  <l>पण्डिते हि गुणाः सर्वे मूर्खे दोषाश्च केवलाः ।</l>
  <l>तस्मान्मूर्खसहस्रेण प्राज्ञ एको न लभ्यते ॥ ५ ॥</l>
</lg>
<pb n="48" />
<p>202</p>
<lg>
  <l>गीतशास्त्रविनोदेन कालो गच्छति धीमताम् ।</l>
  <l>व्यसनेन हि मूर्खाणां निद्रया कलहेन वा ॥ ६ ॥</l>
</lg>
<p>कयोरप्येतौ ।
203</p>
<lg>
  <l>हर्तुर्याति न गोचरं किमपि शं पुष्णाति सर्वात्मना</l>
  <l>ह्यार्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् ।</l>
  <l>कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं</l>
  <l>येषां तान्प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥ ७ ॥</l>
</lg>
<p>204</p>
<lg>
  <l>त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः</l>
  <l>ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।</l>
  <l>इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरं</l>
</lg>
<lg>
  <l>यद्यस्मासु पराङ्मुखोसि वयमप्येकान्ततो निःस्पृहाः ॥ ८ ॥</l>
  <l>एतौ भर्तृहरेः ।</l>
  <l>--------------</l>
  <l>अथ कुपण्डितनिन्दा ॥ ११ ॥</l>
</lg>
<p>205</p>
<lg>
  <l>व्यासादीन्कविपुंगवाननुचितैर्वाक्यै: सलीलं हस-</l>
  <l>न्नुच्चैर्जल्प निमील्य लोचनयुगं  श्लोकान्सगर्वं पठ ।</l>
  <l>काव्यं धिक्कुरु यत्परैर्विरचितं स्पर्धेस्व सार्धं बुधै-</l>
  <l>र्यद्यभ्यर्थयसे श्रुतेन रहितः पाण्डित्यमाप्तुं बलात् ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
206</p>
<lg>
  <l>ये संसत्सु विवादिनः परयशःशूलेन शल्याकुलाः</l>
  <l>कुर्वन्ति स्वगुणस्तवेन गुणिनां यत्नाद्गुणाछादनम् ।</l>
  <l>तेषां रोषकषायितोदरदृशां कोपोष्णनिःश्वासिनां</l>
  <l>दीप्ता रत्नशिखेव कृष्णफणिनां विद्या जनोद्वेजिनी ॥ २ ॥</l>
</lg>
<pb n="49" />
<p>207</p>
<lg>
  <l>ग्रीवास्तम्भभृतः परोन्नतिकथामात्रे शिरःशूलिनः</l>
  <l>सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूतस्थितेः ।</l>
  <l>अन्तर्द्वेषविषप्रवेशविषमक्रोधोष्णनिःश्वासिनः</l>
  <l>कष्टा नूनमपण्डितस्य विकृतिर्भीमज्वरारम्भभूः ॥ ३ ॥</l>
</lg>
<p>क्षेमेन्द्रस्यैतौ ।
208</p>
<lg>
  <l>अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।</l>
</lg>
<lg>
  <l>ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ ४ ॥</l>
  <l>भर्तृहरेः।</l>
  <l>-----------</l>
  <l>अथ महतां प्रशंसा ॥ १२ ॥</l>
</lg>
<p>209</p>
<lg>
  <l>विपदि धैर्यमथाभ्युदये क्षमा</l>
  <l>सदसि वाक्पटुता युधि विक्रमः ।</l>
  <l>यशसि चाभिरतिर्व्यसनं श्रुतौ</l>
  <l>प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ १ ॥</l>
</lg>
<p>भर्तृहरेः ।
210</p>
<lg>
  <l>इयमुन्नतसत्त्वशालिनां</l>
  <l>महतां कापि कठोरचित्तता ।</l>
  <l>उपकृत्य भवन्ति दूरतः</l>
  <l>परतः प्रत्युपकारशङ्कया ॥ २ ॥</l>
</lg>
<p>211</p>
<lg>
  <l>नाल्पीयसि निबध्नन्ति पदमुन्नतचेतसः ।</l>
  <l>येषां भुवनलाभेपि नि:सीमानो मनोरथाः ॥ ३ ॥</l>
</lg>
<p>212</p>
<lg>
  <l>अहो किमपि चित्राणि चरित्राणि महात्मनाम् ।</l>
  <l>लक्ष्मीं तृणाय मन्यन्ते तद्भरेण नमन्त्यपि ॥ ४ ॥</l>
</lg>
<p>एते देवेश्वरस्य ।</p>
<pb n="50" />
<p>213</p>
<lg>
  <l>किं वा परेण बहुना परिजल्पितेन</l>
  <l>संसर्ग एव महतां महते फलाय ।</l>
  <l>अम्भोनिधेस्तटरुहास्तरवोपि येन</l>
  <l>वेलाजलोच्छलिवरत्नकृतालवालाः ॥ ५ ॥</l>
</lg>
<p>214</p>
<lg>
  <l>आपत्स्वेव हि महतां शक्तिरभिव्यज्यते न संपत्सु ।</l>
  <l>अगुरोस्तथा न गन्धः प्रागस्ति यथाग्निपतितस्य ॥ ६ ॥</l>
</lg>
<p>कयोरप्येतौ ।
215</p>
<lg>
  <l>वज्रादपि कठोराणि मृदूनि कुसुमादपि ।</l>
  <l>लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ ७ ॥</l>
</lg>
<p>भवभूतेः ।
216</p>
<lg>
  <l>जितरोषरया महाधियः</l>
  <l>सपदि क्रोधजितो लघुर्जनः ।</l>
  <l>विजितेन जितस्य दुर्मते-</l>
  <l>र्मतिमद्भिः सह का विरोधिता ॥ ८ ॥</l>
</lg>
<p>माघस्य ।
217</p>
<lg>
  <l>गवादीनां पयोन्येद्युः सद्यो वा जायते दधि ।</l>
  <l>क्षीरोदधेस्तु नाद्यापि महतां विकृतिः कुतः ॥ ९ ॥</l>
</lg>
<p>देवेश्वरस्य ।
218</p>
<lg>
  <l>संपदो महतामेव महतामेव चापदः ।</l>
  <l>वर्धते क्षीयते चन्द्रो न तु तारागणः क्वचित् ॥ १० ॥</l>
</lg>
<p>219</p>
<lg>
  <l>अपकुर्वन्नपि प्रायः प्राप्नोति महतः फलम् ।</l>
  <l>और्वं  दहन्तमेवाग्निं संतर्पयति सागरः ॥ ११ ॥</l>
</lg>
<pb n="51" />
<p>220</p>
<lg>
  <l>महतां प्रार्थनेनैव विपत्तिरपि शोभते ।</l>
  <l>दन्तभङ्गो हि नागानां श्लाघ्यो गिरिविदारणे ॥ १२ ॥</l>
</lg>
<p>221</p>
<lg>
  <l>तरुमूलादिषु निहितं जलमाविर्भवति पल्लवाग्रेषु ।</l>
  <l>निभृतं यदुपक्रियते तदपि महान्तो वहन्त्युच्चै:॥ १३ ॥</l>
</lg>
<p>222</p>
<lg>
  <l>अचिन्त्याः पन्थान: किमपि महतामन्धकरिपो-</l>
  <l>र्यदक्ष्णोभूत्तेजस्तदकृत कथामप्यमदनाम् ।</l>
  <l>मुनेर्नेत्रादत्रेर्यदजनि पुनर्ज्योतिरहह</l>
  <l>प्रतेने तेनेदं मदनमयमेव त्रिभुवनम् ॥ १४ ॥</l>
</lg>
<p>केषामप्येते ।
223</p>
<lg>
  <l>महात्मानोनुगृह्णन्ति भजमानान् रिपूनपि ।</l>
</lg>
<lg>
  <l>सपत्नी: प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगाः ॥ १५ ॥</l>
  <l>माघकवेः ।</l>
  <l>---------</l>
  <l>अथ वीरप्रशंसा ॥१३॥</l>
</lg>
<p>224</p>
<lg>
  <l>सह परिजनेन विलसति धीरो गहनानि तरति पुनरेकः ।</l>
  <l>विषमेकेनं निपीतं त्रिपुरजिता सह सुरैरमृतम् ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
225</p>
<lg>
  <l>निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु</l>
  <l>लक्ष्मीः समाविशतु गच्छतु वा यथेच्छम् ।</l>
  <l>अद्यैव वा मरणमस्तु युगान्तरे वा</l>
  <l>न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ २ ॥</l>
</lg>
<p>भर्तृहरेः ।
226</p>
<lg>
  <l>श्लाघ्या महतामुन्नतिरद्भुतमध्यवसितं च धीराणाम् ।</l>
  <l>कनकगिरिरनभिलङ्घयो रविरनिशमनुज्झितारम्भः ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="52" />
<p>227</p>
<lg>
  <l>कदर्थितस्यापि हि धैर्यवृत्ते-</l>
  <l>र्न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।</l>
  <l>अधोमुखस्यापि कृतस्य वह्ने-</l>
  <l>र्नाधः शिखा यान्ति कदाचिदेव ॥ ४ ॥</l>
</lg>
<p>भर्तृहरेः ।
228</p>
<lg>
  <l>ये दीनेषु दयालवः स्पृशति यानल्पोपि न श्रीमदो</l>
  <l>व्यग्रा ये च परोपकारकरणे हृष्यन्ति ये याचिताः ।</l>
  <l>स्वस्थाः सन्ति च यौवनोन्मदमहाव्याधिप्रकोपेपि ये</l>
  <l>तैः स्तम्भैरिव सुस्थितैः कलिभरक्लान्ता धरा धार्यते ॥५॥</l>
</lg>
<p>229</p>
<lg>
  <l>अर्थः सुखं कीर्तिरपीह मा भू-</l>
  <l>दनर्थ एवास्तु तथापि धीराः ।</l>
  <l>निजप्रतिज्ञामनुरुध्यमाना</l>
  <l>महोद्यमाः कर्म समारभन्ते ॥ ६ ॥</l>
</lg>
<p>कयोरप्येतौ ।
230</p>
<lg>
  <l>अङ्गणवेदी वसुधा कुल्या जलधिः स्थली च पातालम् ।</l>
</lg>
<lg>
  <l>वल्मीकश्च सुमेरु: कृतप्रतिज्ञस्य धीरस्य ॥ ७ ॥</l>
  <l>बाणभट्टस्य ।</l>
  <l>-----------</l>
  <l>अथ सज्जनप्रशंसा ॥ १४ ॥</l>
</lg>
<p>231</p>
<lg>
  <l>उपकर्तुं  प्रियं वक्तुं कर्तुं स्नेहमकृत्रिमम् ।</l>
  <l>सज्जनानां स्वभावोयं केनेन्दुः शिशिरीकृतः ॥ १ ॥</l>
</lg>
<p>232</p>
<lg>
  <l>निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।</l>
  <l>नहि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मसु ॥ २ ॥</l>
</lg>
<pb n="53" />
<p>233
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । ।
अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥ ३ ॥
234</p>
<lg>
  <l>हृदयानि सतामेव कठिनानीति मे मतिः ।</l>
  <l>खलवाग्विशिखैस्तीक्ष्णैर्भिद्यन्ते न मनाग्यतः ॥ ४ ॥</l>
</lg>
<p>235</p>
<lg>
  <l>अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् ।</l>
  <l>सदालोकहिते युक्ता रत्नदीपा इवोत्तमाः ॥ ५॥</l>
</lg>
<p>केषामप्येते ।
236</p>
<lg>
  <l>उपचरितव्याः सन्तो यद्यपि कथयन्ति नैकमुपदेशम् ।</l>
  <l>यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि ॥ ६ ॥</l>
</lg>
<p>भर्तृहरेः ।
237</p>
<lg>
  <l>सुजनो न याति वैरं परहितनिरतो विनाशकालेपि ।</l>
  <l>छेदेपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ ७ ॥</l>
</lg>
<p>रविगुप्तस्य
238</p>
<lg>
  <l>अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचा: ।</l>
  <l>हेम्नः कठिनस्यापि द्रवणोपायोस्ति न तृणानाम् ॥ ८ ॥</l>
</lg>
<p>कस्यापि ।
239</p>
<lg>
  <l>अनुकुरुतः खलसुजनावग्रिमपाश्चात्यभागयोः सूच्याः ।</l>
  <l>विदधाति रन्ध्रमेको गुणवानन्यस्तु पिदधाति ॥ ९ ॥</l>
</lg>
<p>गोभट्टस्य ।
240</p>
<lg>
  <l>सन्तोपि सन्तः क्व किरन्तु तेजः</l>
  <l>क्व नु ज्वलन्तु क्व ननु प्रथन्ताम् ।</l>
  <l>विधाय रुद्धा ननु वेधसैव</l>
  <l>ब्रह्माण्डकोषे घटदीपकल्पाः ॥ १० ॥</l>
</lg>
<pb n="54" />
<p>241</p>
<lg>
  <l>गोत्रस्थितिं न मुञ्चन्ति सदा सन्नतिमाश्रिताः ।</l>
  <l>उदन्वन्तश्च सन्तश्च महासत्त्वतयानया ॥ ११ ॥</l>
</lg>
<p>242</p>
<lg>
  <l>ब्रूतेन्यस्यासतोप्यार्यो गुणान्दोषांस्तु दुर्जनः ।</l>
  <l>तुल्येप्यसत्ये किं त्वेको गच्छत्यूर्ध्वमधोपरः ॥ १२ ॥</l>
</lg>
<p>243</p>
<lg>
  <l>आस्तामन्यत्सुजनाः परोपकारैककरणदुर्ललिताः ।</l>
  <l>संतापितपिशुनेषु स्वगुणेष्वपि हन्त खिद्यन्ते ॥ १३ ॥</l>
</lg>
<p>244</p>
<lg>
  <l>यदमी दशन्ति दशना रसना तत्स्वादमनुभवति ।</l>
  <l>प्रकृतिरियं विमलानां क्लिश्यन्ति यदन्यकार्येषु ॥ १४ ॥</l>
</lg>
<p>देवेश्वरस्य ।
245</p>
<lg>
  <l>शरदि न वर्षति गर्जति वर्षति वर्षासु निःस्वनो मेघः ।</l>
  <l>नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥१५॥</l>
</lg>
<p>246</p>
<lg>
  <l>अद्यापि नोज्झति हरः किल कालकूट</l>
  <l>कूर्मो बिभर्ति धरणी खलु पृष्ठभागे ।</l>
  <l>अम्भोनिधिर्वहति दुर्वहवाडवाग्नि-</l>
  <l>मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ १६ ॥</l>
</lg>
<p>247</p>
<lg>
  <l>आदिमध्यनिधनेषु सौहृदं</l>
  <l>सज्जने भवति नेतरे जने ।</l>
  <l>छेदतापनविघर्षताडनै-</l>
  <l>र्नान्यभावमुपयाति काञ्चनम् ॥ १७ ॥</l>
</lg>
<p>248
ये जाते व्यसने निराकुलधिय: संपत्सु नाभ्युन्नताः
प्राप्तेनैव पराङ्गमुखाः प्रणयिनि प्राणोपयोगैरपि ।</p>
<pb n="55" />
<p>ह्रीमन्तः स्वगुणप्रकाशनविधावन्यस्तुतौ पण्डिता-
स्ते भूमण्डलमण्डनैकतिलकाः सन्तः कियन्तो जनाः ॥१८॥
249</p>
<lg>
  <l>मुखेन  नोद्गिरत्यूर्ध्वं  हृदये न नयत्यः ।</l>
  <l>जरयत्यन्तरे साधुर्दोषं विषमिवेश्वरः ॥ १९ ॥</l>
</lg>
<p>250</p>
<lg>
  <l>तदपकृतं विधिनार्थेिषु यत्सन्तः स्वल्पसंपदो विहिताः ।</l>
  <l>तुच्छे पयसि घनानां सीदति बत जीवलोकोयम् ॥ २० ॥</l>
</lg>
<p>केषामप्येते ।
251</p>
<lg>
  <l>नूनं दुग्धाब्धिमन्थोत्थाविमौ सुजनदुर्जनौ ।</l>
</lg>
<lg>
  <l>किं त्विन्दोः सोदर: पूर्व: कालकूटस्य चेतरः ॥ २१ ॥</l>
  <l>राजशेखरस्य ।</l>
  <l>----------</l>
  <l>अथ मनस्विप्रशंसा ॥ १५ ॥</l>
</lg>
<p>252</p>
<lg>
  <l>कामं प्रियानपि प्राणान्विमुञ्चन्ति मनस्विनः ।</l>
  <l>इच्छन्ति न त्वमित्रेभ्यो महतीमपि सत्क्रियाम् ॥ १ ॥</l>
</lg>
<p>भर्चोः ।
253</p>
<lg>
  <l>अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुम् ।</l>
  <l>अहो बत महत्कष्टं चक्षुष्मानपि याचते ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
254</p>
<lg>
  <l>पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालीं  कपाली-</l>
  <l>मादाय न्यायगर्भं द्विजहुतहुतभुग्धूमधूम्रोपकण्ठम् ।</l>
  <l>द्वारं द्वारं प्रवृत्तो वरमुदरदरीपूरणाय क्षुधार्तो</l>
  <l>मानी प्राणी स्वदेशे न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥ ३ ॥</l>
</lg>
<pb n="56" />
<p>255</p>
<lg>
  <l>चरमहिमुखे  क्रोधाध्माते करो विनिवेशितो</l>
  <l>विषमपि वरं पीत्वा सुप्तं कृतान्तनिवेशने ।</l>
  <l>गिरिवरतटान्मुक्तश्चात्मा वरं शतधा कृतो</l>
  <l>न तु खलजनावाप्तैरर्थैः कृतं हितमात्मनः ॥ ४ ॥</l>
</lg>
<p>एतौ भर्तृहरेः ।
256</p>
<lg>
  <l>ब्रह्माण्डं कियदस्ति तत्र वसुधापिण्डं किमाचक्ष्महे</l>
  <l>तत्राप्येकतरं तु खण्डममितास्तस्मिन्नृपाः केचन ।</l>
  <l>तेभ्यो दैन्यशतोपनीतविभवा दृष्टानुकम्पास्तु ते</l>
  <l>धिन्ग्मूढाः स्पृहयन्ति हन्त किमपि स्वार्थेन तेभ्योपि ये ॥ ५ ॥</l>
</lg>
<p>श्रीदेवगणदेवानाम् ।
257</p>
<lg>
  <l>पातालान्न विमोचितो बत बलिर्नीतो न मृत्युः क्षयं</l>
  <l>नोन्मृष्टं शशलाञ्छनस्य मलिनं नोन्मूलिता व्याधयः ।</l>
  <l>शेषस्यापि धरां विधृत्य न कृतो भारावतारः क्षणं</l>
  <l>चेतः सत्पुरुषाभिमानमनिशं मिथ्या वहन्खिद्यसे ॥ ६ ॥</l>
</lg>
<p>258</p>
<lg>
  <l>एक: स एव जीवति हृदयविहीनोपि सहृदयो राहुः ।</l>
  <l>यः सकललघिमभाजनमुदरं न बिभर्ति दुष्पूरम् ॥ ७ ॥</l>
</lg>
<p>259</p>
<lg>
  <l>वरं हालाहलं पीतं सद्यः प्राणहरं विषम् ।</l>
  <l>न तु दृष्टं धनान्धस्य भ्रूभङ्गकुटिलं मुखम् ॥ ८ ॥</l>
</lg>
<p>260</p>
<lg>
  <l>प्रत्युपकुर्वन्बह्वपि न भवति पूर्वोपकारिणा तुल्यः ।</l>
  <l>एकोनुकरोति कृतं निष्कारणमेव कुरुतेन्यः ॥ ९ ॥</l>
</lg>
<p>261</p>
<lg>
  <l>कामं वनेषु हरिणास्तृणेन जीवन्त्ययत्नसुलभेन ।</l>
  <l>धनिषु न दैन्यं विदधति ते खलु पशवो वयं सुधियः ॥१०॥</l>
</lg>
<pb n="57" />
<p>262</p>
<lg>
  <l>ब्रूत नृतनकूष्माण्डफलानां के भवन्त्यमी ।</l>
  <l>अङ्गुलीदर्शनाद्येन विलीयन्ते मनस्विनः ॥ ११ ॥</l>
</lg>
<p>कयामप्येते ।
263</p>
<lg>
  <l>ब्रह्माण्डमण्डलीमात्रं किं लोभाय मनस्विनः ।</l>
  <l>शफरीस्कुरितेनाब्धेः क्षुब्धता जातु जायते ॥ १२ ॥</l>
</lg>
<p>264</p>
<lg>
  <l>कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः ।</l>
  <l>मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥ १३ ॥</l>
</lg>
<p>एतौ भर्तृहरेः ।
265</p>
<lg>
  <l>पादाहतं यदुत्थाय मूर्धानमधिरोहति ।</l>
  <l>स्वस्थादेवापमानेपि देहिनस्तद्वरं रजः ॥ १४ ॥</l>
</lg>
<p>266</p>
<lg>
  <l>मा जीवन्यः परावज्ञादु:खदग्धोपि जीवति ।</l>
  <l>तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥ १५ ॥</l>
</lg>
<p>267</p>
<lg>
  <l>समूलघातमध्नन्तः परान्नोद्यन्ति मानिनः ।</l>
</lg>
<lg>
  <l>प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥ १६ ॥</l>
  <l>एते माघकवेः ।</l>
  <l>--------------</l>
  <l>अथोदारप्रशंसा ॥ १६ ॥</l>
</lg>
<p>268</p>
<lg>
  <l>आकारमात्रविज्ञानसंपादितमनोरथाः ।</l>
  <l>ते धन्या ये न शृण्वन्ति दीनाः प्रणयिनां गिरः ॥ १ ॥</l>
</lg>
<p>269</p>
<lg>
  <l>देहि देहीति जल्पन्ति त्यागिनोप्यर्थिनोपि च ।</l>
  <l>आलोकयन्ति रभसादस्ति नास्तीति न क्वचित् ॥ २ ॥</l>
</lg>
<pb n="58" />
<p>270</p>
<lg>
  <l>युद्ध्यन्ते पक्षिपशवः पठन्ति शुकशारिका: ।</l>
  <l>दातुं शक्नोति यो वित्तं स शूरः स च पण्डितः ॥ ३ ॥</l>
</lg>
<p>271</p>
<lg>
  <l>एकेन तिष्ठताधस्तादन्येनोपरि तिष्ठता ।</l>
  <l>दातृयाचकयोर्भेदः कराभ्यामेव सूचितः ॥ ४ ॥</l>
</lg>
<p>272</p>
<lg>
  <l>सैव परं न विनश्यति तनुरपि या श्रीर्निवेशिता सत्सु ।</l>
  <l>अवशिष्यते हिमांशोः सैव कला या स्थिता शंभौ ॥ ॥</l>
</lg>
<p>273</p>
<lg>
  <l>अयं निजः परो वेति गणना लघुचेतसाम् ।</l>
  <l>उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ ६ ॥</l>
</lg>
<p>274</p>
<lg>
  <l>बोधयन्ति न याचन्ते भिक्षाचारा गृहे गृहे ।</l>
  <l>दीयतां दीयतां नित्यमदातुः फलमीदृशम् ॥ ७ ॥</l>
</lg>
<p>केषामप्येते ।
275</p>
<lg>
  <l>अर्थिनां कृपणा दृष्टिस्त्वन्मुखे पतिता सकृत् ।</l>
  <l>तदवस्था पुनर्देव नान्यस्य मुखमीक्षते ॥ ८ ॥</l>
</lg>
<p>दण्डिनः ।
276</p>
<lg>
  <l>यद्ददासि विशिष्टेभ्यो यच्चाञ्प्राप्ति दिने दिने ।</l>
  <l>तत्ते वित्तमहं मन्ये  शेषमन्यस्य रक्षसि ॥ ९ ॥</l>
</lg>
<p>भगवतो व्यासस्य ।
277</p>
<lg>
  <l>किं तथा क्रियते लक्ष्म्या या वधूरिव केवला ।</l>
  <l>या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥ १० ॥</l>
</lg>
<p>विक्रमादित्यस्य ।
278</p>
<lg>
  <l>लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः ।</l>
  <l>धन्यो बलिः स येनास्य भिक्षापात्रीकृतः करः ॥ ११ ॥</l>
</lg>
<pb n="59" />
<p>279</p>
<lg>
  <l>कर्णस्त्वचं शिबिर्मांसं जीवं जीमूतवाहनः ।</l>
  <l>ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥ १२ ॥</l>
</lg>
<p>280</p>
<lg>
  <l>द्विः शरं नाभिसंधत्ते द्वि: स्थापयति नाश्रितान् ।</l>
  <l>द्विर्ददाति न चार्थिभ्यो रामो  द्विर्नाभिभाषते ॥ १३ ॥</l>
</lg>
<p>केषामप्येते ।
281
दाता नीचोपि सेव्यः स्यान्निष्फलो न महानपि !
जलार्थी वारिधिं त्यक्त्वा पश्य कूपं निषेवते ॥ १४ ॥
-----------
अथ तेजस्विप्रशंसा ॥ १७ ॥
282</p>
<lg>
  <l>बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् ।</l>
  <l>तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥ १ ॥</l>
</lg>
<p>283</p>
<lg>
  <l>सिंह: शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।</l>
  <l>प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥ २ ॥</l>
</lg>
<p>284</p>
<lg>
  <l>तेजांसि यस्य प्रशमं प्रयान्ति</l>
  <l>धाराप्रहारेण स वह्निरन्यः ।</l>
  <l>अयं पुनर्वाडवनामधेयः</l>
  <l>समुद्रमापीय बिभर्ति तेजः ॥ ३ ॥</l>
</lg>
<p>285</p>
<lg>
  <l>एक: स एव तेजस्वी सैहिकेयः सुरद्विषाम् ।</l>
  <l>शिरोमात्रावशेषेण जीयन्ते येन शत्रवः ॥ ४ ॥</l>
</lg>
<p>केषामप्येते ।
286
मौनी पादप्रहारेपि न क्षमी नीच एव सः J
आकृष्टशस्त्रो मित्रेपि न तेजस्वी खलो हि सः ॥ ५ ॥
क्षेमेन्द्रस्य ।</p>
<pb n="60" />
<p>287</p>
<lg>
  <l>तुल्येपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् ।</l>
  <l>हिमांशुमाशु ग्रसते तन्त्रदिम्नः स्फुटं फलम् ॥ ६ ॥</l>
</lg>
<p>माघकवेः ।
288</p>
<lg>
  <l>तेजस्विनि क्षमासारे नातिकार्कश्यमाचरेत् ।</l>
  <l>अतिनिर्मन्थनादग्निश्चन्दनादपि जायते ॥ ७ ॥</l>
</lg>
<p>289</p>
<lg>
  <l>तेजोहीने महीपाले स्वे परे च विकुर्वते ।</l>
  <l>निःशङ्को हि जनो धत्ते पदं भस्मन्यनूष्मणि ॥ ८ ॥</l>
</lg>
<p>कयोरप्येतौ
---------
अथ गुणप्रशंसा ॥ १८ ॥
290</p>
<lg>
  <l>गुणाः कुर्वन्ति दूतत्वं दूरेपि वसतां सताम् ।</l>
  <l>केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥ १ ॥</l>
</lg>
<p>291</p>
<lg>
  <l>गुणवज्जनसंपर्काद्याति स्वल्पोपि गौरवम् ।</l>
  <l>पुष्पाणामनुषङ्गेण सूत्रं शिरसि धार्यते ॥ २ ॥</l>
</lg>
<p>292</p>
<lg>
  <l>गुणाः सर्वत्र पूज्यन्ते पितृवंशो निरर्थकः ।</l>
  <l>वासुदेवं नमस्यन्ति वसुदेवं न मानवाः ॥ ३ ॥</l>
</lg>
<p>293</p>
<lg>
  <l>गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः ।</l>
  <l>अलिरेति वनात्कमलं न दर्दुरस्त्वेकवासोपि ॥ ४ ॥</l>
</lg>
<p>294</p>
<lg>
  <l>नीरसान्यपि रोचन्ते कर्पासस्य फलानि मे ।</l>
  <l>येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥ ५ ॥</l>
</lg>
<pb n="61" />
<p>295</p>
<lg>
  <l>गुणा गुणज्ञेषु गुणीभवन्ति</l>
  <l>ते निर्गुणं प्राप्य भवन्ति दोषाः ।</l>
  <l>सुस्वादुतोयाः प्रवहन्ति नद्यः</l>
  <l>समुद्रमासाद्य भवन्त्यपेयाः ॥ ६ ॥</l>
</lg>
<p>296</p>
<lg>
  <l>गुणिनं जनमालोक्य निजबन्धनशङ्कया ।</l>
  <l>राजंल्लक्ष्मीः  कुरङ्गीव दूरं दूरं पलायते ॥ ७ ॥</l>
</lg>
<p>297</p>
<lg>
  <l>गुणैः सर्वज्ञकल्पोपि सीदत्येको निराश्रयः ।</l>
  <l>अनर्घमपि माणिक्यं हेमाश्रयमपेक्षते ॥ ८ ॥</l>
</lg>
<p>298</p>
<lg>
  <l>गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम् ।</l>
  <l>विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ॥ ९ ॥</l>
</lg>
<p>299</p>
<lg>
  <l>गुणैर्गौरवमायाति न महत्यापि संपदा ।</l>
  <l>पूर्णेन्दुर्न तथा वन्द्यो निष्कलङ्को यथा कृशः ॥ १० ॥</l>
</lg>
<p>300</p>
<lg>
  <l>न सौख्यसौभाग्यकरा गुणा नृणां</l>
  <l>स्वयं गृहीताः सुदृशां कुचा इव ।</l>
  <l>परैर्गृहीता द्वितयं वितन्वते</l>
  <l>न तेन गृह्णन्ति निजं गुणं बुधाः ॥ ११ ॥</l>
</lg>
<p>301</p>
<lg>
  <l>कौशेयं कृमिजं सुवर्णमुपलाद्दूर्वापि गोरोमतः</l>
  <l>पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् ।</l>
  <l>काष्ठादग्निरहे: फणादपि मणिर्गोपित्ततो रोचना</l>
  <l>प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥१२॥</l>
</lg>
<p>केषामप्येते ।</p>
<pb n="62" />
<p>302</p>
<lg>
  <l>गुणैरुत्तुङ्गतां याति नोच्चैरासनसंस्थितः ।</l>
  <l>प्रासादशिखरस्थोपि काकः किं गरुडायते ॥ १३ ॥</l>
</lg>
<p>भर्तृहरेः ।
303</p>
<lg>
  <l>गुणवन्तः क्लिश्यन्ते प्रायेण भवन्ति निर्गुणाः सुखिनः ।</l>
  <l>बन्धनमायान्ति शुका यथेष्टसंचारिणः काकाः ॥ १४ ॥</l>
</lg>
<p>304</p>
<lg>
  <l>गुणो दूषणतां याति दूषणं गुणतां क्वचित् ।</l>
  <l>तथा हि नम्रता दोषः स्तनयोः स्तब्धता गुणः ॥ १५ ॥</l>
</lg>
<p>305</p>
<lg>
  <l>अहो वैचित्र्यमेतस्य संसारस्य किमुच्यते ।</l>
  <l>गुणोपि क्लेशहेतुः स्याद्विश्रान्तः कण्ठकन्दले ॥ १६ ॥</l>
</lg>
<p>306</p>
<lg>
  <l>अनवसरे गुणवानपि हृदयादवतार्यते हारः ।</l>
</lg>
<lg>
  <l>पश्य शलाकावसरे तृणेपि भूपैः प्रसार्यते स्वकरः ॥१७॥</l>
  <l>केषामप्येते ।</l>
  <l>------------</l>
  <l>अथ संतोषप्रशंसा ॥ १९ ॥</l>
</lg>
<p>307</p>
<lg>
  <l>अकृत्वा परसंतापमगत्वा खलनम्रताम् ।</l>
  <l>अनुत्सृज्य सतां वर्त्म यत्स्वल्पमपि तद्बहु ॥ १ ॥</l>
</lg>
<p>व्यासस्य ।
308</p>
<lg>
  <l>वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या</l>
  <l>सम इह परितोषो निर्विशेषो विशेषः ।</l>
  <l>स हि भवति दरिद्रो यस्य तृष्णा विशाला</l>
  <l>मनसि च परितुष्टे कोर्थवान्को दरिद्रः ॥ २ ॥</l>
</lg>
<p>भर्तृहरेः ।</p>
<pb n="63" />
<p>309</p>
<lg>
  <l>दरिद्रस्य परा मूर्तिस्तृष्णा न द्रविणाल्पता ।</l>
  <l>जरद्रवधनः शंभुस्तथापि परमेश्वरः ॥ ३ ॥</l>
</lg>
<p>विष्णुशर्मणः ।
310</p>
<lg>
  <l>संतोषामृततृप्तानां यत्मुखं शान्तचेतसाम् ।</l>
  <l>कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ ४ ॥</l>
</lg>
<p>311</p>
<lg>
  <l>आगमिष्यन्ति ते भावा ये भावा मयि भाविताः ।</l>
  <l>अहं तैरनुगन्तव्यो न तेषामन्यतो गतिः ॥ ५ ॥</l>
</lg>
<p>312</p>
<lg>
  <l>यो मे गर्भगतस्यापि वृत्ति कल्पितवान्स्वयम् ।</l>
  <l>शेषवृत्तिविधाने च स किं सुप्तोथवा मृतः ॥ ६ ॥</l>
</lg>
<p>313</p>
<lg>
  <l>आचेन्तितानि दुःखानि यथैवायान्ति देहिनाम् ।</l>
  <l>सुखान्यपि तथा मन्ये दैन्यमत्रातिरिच्यते ॥ ७ ॥</l>
</lg>
<p>314</p>
<lg>
  <l>पञ्चमेहनि षष्ठे वा शाकं पचति यो गृहे ।</l>
  <l>अनृणी चाप्रवासी च स वारिचर मोदते ॥ ८ ॥</l>
</lg>
<p>315
आत्माधीनशरीराणां स्वपतां निद्रया स्वया ।
कदन्नमपि मर्त्यानाममृतत्वाय कल्पते ॥ ९ ।
316</p>
<lg>
  <l>सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसम् ।</l>
  <l>उपानद्गूढपादस्य ननु चर्मावृतैव भूः ॥ १० ॥</l>
</lg>
<p>भगवतो व्यासस्यैतौ ।
317</p>
<lg>
  <l>आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म ।</l>
  <l>स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थेः   ॥ ११॥</l>
</lg>
<pb n="64" />
<p>318</p>
<lg>
  <l>सर्पाः पिबन्ति पवनं न च दुर्बलास्ते</l>
  <l>शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।</l>
  <l>कन्दैः फलैर्मुनिवराः क्षपयन्ति कालं</l>
  <l>संतोष एव पुरुषस्य परं निधानम् ॥ १२ ॥</l>
</lg>
<p>319</p>
<lg>
  <l>अर्थी करोति दैन्यं लब्धार्थो गर्वमपरितोषं च ।</l>
  <l>नष्टधनश्च स शोकं सुखमास्ते नि:स्पृहः पुरुषः ॥ १३ ॥</l>
</lg>
<p>320</p>
<lg>
  <l>तन्मूलं गुरुतायास्तत्सौख्यं तद्यशस्तदौर्जित्यम् ।</l>
</lg>
<lg>
  <l>तत्सौभाग्यं पुंसां यदेतदप्रार्थनं नाम ॥ १४ ॥</l>
  <l>केषामप्येते ।</l>
  <l>--------------</l>
  <l>अथ संसर्गप्रशंसा ॥ २० ॥</l>
</lg>
<p>321</p>
<lg>
  <l>महानुभावसंसर्गः कस्य नोन्नतिकारकः ।</l>
  <l>रथ्याम्बु जाह्नवीसङ्गात्रिदशैरपि वन्द्यते ॥ १ ॥</l>
</lg>
<p>322</p>
<lg>
  <l>द्रवत्वात्सर्वलोहानां ममत्वान्मृगपक्षिणाम् ।</l>
  <l>भयाल्लोभाच्च मूर्खाणां दर्शनात्संगतं सताम् ॥ २ ॥</l>
</lg>
<p>323</p>
<lg>
  <l>विकृतिं नैव गच्छन्ति सङ्गदोषेण साधव ।</l>
  <l>आवेष्टितं महासर्पैश्चन्दनं न विषायते ॥ ३ ॥</l>
</lg>
<p>324</p>
<lg>
  <l>न स्थातव्यं न गन्तव्यं क्षणमप्यधमैः सह ।</l>
  <l>पयोपि शौण्डिनीहस्ते मदिरां मन्यते जनः ॥ ४ ॥</l>
</lg>
<pb n="65" />
<p>325</p>
<lg>
  <l>वीणावंशाश्रयात्तुम्बं चुम्बत्युच्चै: कुचौ स्त्रियः ।</l>
  <l>तत्तु नापितसंसर्गाद्रक्तं नक्तंचरो यथा ॥ ५ ॥</l>
</lg>
<p>326</p>
<lg>
  <l>किंचिदाश्रयसौन्दर्याद्धत्ते शोभामसाध्वपि ।</l>
  <l>कान्ताविलोचने न्यस्तं मलीमसमिवाञ्जनम् ॥ ६ ॥</l>
</lg>
<p>327</p>
<lg>
  <l>आश्रयवशेन सततं गुरुता लघुता च जायते जन्तोः ।</l>
  <l>विन्ध्ये विन्ध्यसमानाः करिणो बत दर्पणे लघवः ॥ ७ ॥</l>
</lg>
<p>328</p>
<lg>
  <l>संसर्गाद्भवति हि साधुता खलानां</l>
  <l>साधूनां न च खलसंगमात्खलत्वम् ।</l>
  <l>आमोदं कुसुमभवं मृदेव धत्ते</l>
  <l>मृद्गन्धं न च कुसुमानि धारयन्ति ॥ ८ ॥</l>
</lg>
<p>329</p>
<lg>
  <l>असाधुः साधुर्वा भवति खलु जात्यैव पुरुषो</l>
  <l>न सङ्गाद्दौर्जन्यं न हि सुजनता कस्यचिदपि ।</l>
  <l>प्ररूढे संसर्गे मणिभुजगयोर्जन्मजनिते</l>
  <l>मणिर्नाहेर्दोषान्स्पृशति न तु सर्पो मणिगुणान् ॥ ९ ॥</l>
</lg>
<p>केषामप्येते ।
330
संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपत्त्रस्थितं राजते ॥
स्वातौ सागरशुक्तिसंपुटगतं तज्जायते मौक्तिकं
प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ॥ १० ॥
331</p>
<lg>
  <l>अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।</l>
  <l>पुरुषविशेषं प्राप्ता भवन्ति योग्या अयोग्याश्च ॥ ११ ॥</l>
</lg>
<p>एतौ विष्णुशर्मणः ।</p>
<pb n="66" />
<p>अथ धनप्रशंसा ॥ २१ ॥
332</p>
<lg>
  <l>जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छतु</l>
  <l>शीलं शैलतटात्पतत्वभिजन: संदह्यतां वह्निना ।</l>
  <l>शौर्ये वैरिणि वचमाशु निपतत्वर्थोस्तु नः केवलं</l>
  <l>येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे ॥ १ ॥</l>
</lg>
<p>333</p>
<lg>
  <l>यस्यास्ति वित्तं स नरः कुलीनः</l>
  <l>स पण्डितः स श्रुतवान्गुणज्ञः ।</l>
  <l>स एव वक्ता स च दर्शनीयः</l>
  <l>सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ २ ॥</l>
</lg>
<p>एतौ भर्तृहरेः ।
334</p>
<lg>
  <l>वयोवृद्धास्तपोवृद्धा ज्ञानवृद्धास्तु ये परे ।</l>
  <l>ते सर्वे धनवृद्धस्य द्वारे तिष्ठन्ति किंकराः ॥ ३ ॥</l>
</lg>
<p>चाणक्यस्य ।
335</p>
<lg>
  <l>हेतुप्रमाणयुक्तं वाक्यं न श्रूयते दरिद्रस्य ।</l>
  <l>अव्यतिपरुषमसत्यं पूज्यं वाक्यं समृद्धस्य ॥ ४ ॥</l>
</lg>
<p>क्षेमेन्द्रस्य ।
336</p>
<lg>
  <l>अर्थार्थी जीवलोकोयं श्मशानमपि सेवते ।</l>
  <l>जनितारमपि त्यक्त्वा निःस्वं गच्छति दूरतः ॥ ५॥</l>
</lg>
<p>337</p>
<lg>
  <l>न सा विद्या न तच्छीलं न तद्दानं न सा कला ।</l>
  <l>अर्थार्थिभिर्न तच्छौर्यं  धनिनां यन्न कीर्त्यते ॥ ६ ॥</l>
</lg>
<p>338</p>
<lg>
  <l>यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि ।</l>
  <l>आकाशे पक्षिमिश्चैव तथा सर्वत्र वित्तवान् ॥ ७ ॥</l>
</lg>
<pb n="67" />
<p>339</p>
<lg>
  <l>न वित्तं दर्शयेtप्राज्ञः कस्यचित्स्वल्पमप्यहो ।</l>
  <l>मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥ ८ ॥</l>
</lg>
<p>एते विष्णुशर्मणः ।
340</p>
<lg>
  <l>लक्ष्म्या परिपूर्णोहं  न भयं मेस्तीति मोहनिद्रैषा ।</l>
  <l>परिपूर्णस्यैवेन्दोर्भवति भयं सिंहिकासूनोः ॥ ९ ॥</l>
</lg>
<p>341</p>
<lg>
  <l>भक्ते द्वेषो जडे प्रीतिररुचिर्गुरुलङ्घनम् ।</l>
  <l>मुखे च कटुता नित्यं धनिनां ज्वरिणामिव ॥ १० ॥</l>
</lg>
<p>342</p>
<lg>
  <l>आलिङ्गिताः परैर्यान्ति प्रस्खलन्ति समे पथि ।</l>
  <l>अव्यक्तानि च भाषन्ते धनिनो मद्यपा इव ॥ ११ ॥</l>
</lg>
<p>343</p>
<lg>
  <l>पतन्ति खड्गधारासु विशन्ति मकरालयम् ।</l>
  <l>किं न कुर्वन्ति सुभगे कष्टमर्थार्थिनो जनाः ॥ १२ ॥</l>
</lg>
<p>344</p>
<lg>
  <l>गुणयुक्तोप्यधो याति रिक्तः कूपे घटो यथा ।</l>
</lg>
<lg>
  <l>निर्गुणोपि भृतः पश्य जनैः शिरसि धार्यते ॥ १३ ॥</l>
  <l>केषामप्येते ।</l>
  <l>---------</l>
  <l>अथ दुर्जननिन्दा ॥ २२ ॥</l>
</lg>
<p>345</p>
<lg>
  <l>खलः सर्षपमात्राणि परच्छिद्राणि पश्यति ।</l>
  <l>आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥ १ ॥</l>
</lg>
<p>346</p>
<lg>
  <l>न विना परवादेन रमते दुर्जनो जनः ।</l>
  <l>काकः सर्वरसान्भुक्त्त्वा विनामेध्यं न तृप्यति ॥ २ ॥</l>
</lg>
<p>एतौ व्यासस्य ।</p>
<pb n="68" />
<p>347</p>
<lg>
  <l>परितोषयिता न कश्चन</l>
  <l>स्वगतो यस्य गुणोस्ति देहिनः ।</l>
  <l>परदोषकथाभिरल्पक:</l>
  <l>स्वजनं तोषयितुं किलेच्छति ॥ ३ ॥</l>
</lg>
<p>348</p>
<lg>
  <l>सहजान्धदृशः स्वदुर्नये</l>
  <l>परदोषेक्षणदिव्यचक्षुषः ।</l>
  <l>स्त्रगुणोच्चगिरो मुनिव्रताः</l>
  <l>परवर्णग्रहणेष्वसाधवः ॥ ४ ॥</l>
</lg>
<p>एतौ माघकवेः ।
349</p>
<lg>
  <l>विषधरतोप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः ।</l>
  <l>यदयं नकुलद्वेषी स कुलद्वेषी पुनः पिशुनः ॥ ५ ॥</l>
</lg>
<p>350</p>
<lg>
  <l>अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः ।</l>
  <l>तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः ॥६॥</l>
</lg>
<p>एतौ सुबन्धोः ।
351</p>
<lg>
  <l>लब्धोच्छायो नीचः प्रथमतरं स्वामिनं पराभवति ।</l>
  <l>भूमिरजो रथ्यादावुत्थापकमेव संवृणुते ॥ ७ ॥</l>
</lg>
<p>एष रविगुप्तस्य ।
352</p>
<lg>
  <l>उपकृतमनेन सुहृदयमित्यसतामस्ति न क्वचिदपेक्षा ।</l>
  <l>होतुः स्वहस्तमाश्रितमुद्वृत्तोग्निर्दहत्येव ॥ ८ ॥</l>
</lg>
<p>353</p>
<lg>
  <l>विषमा मलिनात्मानो द्विजिह्वा जिह्मगा इव ।</l>
  <l>जगत्प्राणहरा नित्यं कस्य नोद्वेजकाः खलाः ॥ ९ ॥</l>
</lg>
<p>हरिगणस्य ।</p>
<pb n="69" />
<p>354</p>
<lg>
  <l>दुर्जनः परिहर्तव्यो विद्ययालंकृतोपि सन् ।</l>
  <l>मणिना भूषितः सर्पः किमतौ न भयंकरः ॥ १० ॥</l>
</lg>
<p>चाणक्यस्य ।
355</p>
<lg>
  <l>परिशुद्धामपि वृत्तिं समाश्रितो दुर्जनः परान्व्यथते ।</l>
  <l>पवनाशिनोपि भुजगाः परोपतापं न मुञ्चन्ति ॥ ११ ॥</l>
</lg>
<p>356</p>
<lg>
  <l>नीच: समाश्रितोवश्यमनवाप्य पराश्रयम् ।</l>
  <l>छिद्रं न रतिमाप्नोति दृष्टान्तोत्र कटीभवः ॥ १२ ॥</l>
</lg>
<p>357</p>
<lg>
  <l>खलानां कण्टकानां च द्विविधैव प्रतिक्रिया ।</l>
  <l>उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥ १३ ॥</l>
</lg>
<p>358</p>
<lg>
  <l>सुमुखोपि सुवृत्तोपि सन्मार्गपतितोपि सन् ।</l>
  <l>सतां वै पादलग्नोपि व्यथयत्येव कण्टकः ॥ १४ ॥</l>
</lg>
<p>359</p>
<lg>
  <l>अपूर्वः कोपि कोपाग्निः सज्जनस्य खलस्य च ।</l>
  <l>एकस्य शाम्यति स्नेहाद्वर्धतेन्यस्य वारितः ॥ १५ ॥</l>
</lg>
<p>360</p>
<lg>
  <l>निमित्तमुद्दिश्य हि यः प्रकुप्यति</l>
  <l>ध्रुवं स तस्यापगमे प्रशाम्यति ।</l>
  <l>अकारणद्वेषि मनोस्ति यस्य</l>
  <l>कथं जनस्तं परितोषयिष्यति ॥ १६ ॥</l>
</lg>
<p>361</p>
<lg>
  <l>पादाहतोपि दृढदण्डसमाहतोपि</l>
  <l>यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः ।</l>
  <l>हर्षादिवैष पिशुनोत्र मनुष्यधर्मा</l>
  <l>कर्णे परं स्पृशति हन्त्यपरं समूलम् ॥ १७ ॥</l>
</lg>
<pb n="70" />
<p>362</p>
<lg>
  <l>नौश्च दुर्जनजिह्वा च प्रतिकूलविसर्पिणी ।</l>
  <l>परप्रतारणायैव दारुणा केन निर्मिता ॥ १८ ॥</l>
</lg>
<p>363</p>
<lg>
  <l>यस्मिन्वंशे समुत्पन्नस्तमेव निजचेष्टितैः ।</l>
  <l>दूषयत्यचिरेणैव घुणकीट इवाधमः ॥ १९ ॥</l>
</lg>
<p>364</p>
<lg>
  <l>प्रेरयति परमनार्यः शक्तिविहीनोपि जगदभिद्रोहे ।</l>
  <l>तेजयति शस्त्रधारां स्वयमसमर्था शिला छेत्तुम् ॥ २० ॥</l>
</lg>
<p>365</p>
<lg>
  <l>स्वभावकठिनस्यास्य कृत्रिमां विभ्रतो नतिम् ।</l>
  <l>गुणोपि परहिंसायै  चापस्य च खलस्य च ॥ २१ ॥</l>
</lg>
<p>336</p>
<lg>
  <l>अय:पिण्ड इवोत्तप्ते खलानां हृदये क्षणात् ।</l>
  <l>पतिता अपि नेक्ष्यन्ते गुणास्तोयकणा इव ॥ २२ ॥</l>
</lg>
<p>367</p>
<lg>
  <l>वर्जनीयो मतिमता दुर्जनः सख्ययैरयोः ।</l>
  <l>श्वा भवत्यपकाराय लिहन्नपि दशन्नपि ॥ २३ ॥</l>
</lg>
<p>368</p>
<lg>
  <l>वक्रतां  विभ्रतो यस्य गुह्यमेव प्रकाशते ।</l>
  <l>कथं खलु समो न स्यात्पुच्छेन पिशुनः शुनः ॥ २४ ॥</l>
</lg>
<p>369</p>
<lg>
  <l>शिरसि निहितोपि नित्यं यत्नादपि सेवितो बहुस्नेहैः ।</l>
  <l>तरुणीकच इव नीचः कौटिल्यं नैव विजहाति ॥ २५ ॥</l>
</lg>
<p>370</p>
<lg>
  <l>पात्रमपात्रीकुरुते दहति गुणं स्नेहमाशु नाशयति ।</l>
  <l>अमले मलं प्रयच्छति दीपज्वालेव खलमैत्री ॥ २६ ॥</l>
</lg>
<p>371</p>
<lg>
  <l>स्नेहेन भूतिदानेन कृतः स्वच्छोपि दुर्जनः ।</l>
  <l>दर्पणश्चान्तिके तिष्ठन्करोत्येकमपि द्विधा ॥ २७ ॥</l>
</lg>
<pb n="71" />
<p>372</p>
<lg>
  <l>यथा यथैव स्नेहेन भूयिष्ठमुपचर्यते ।</l>
  <l>धत्ते तथा तथा तापं महावैश्वानरः खलः ॥ २८ ॥</l>
</lg>
<p>373
स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
अहो नु सदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥ २९ ।
374</p>
<lg>
  <l>नैवात्मनो विनाशं गणयति पिशुन: परव्यसनहृष्टः ।</l>
  <l>प्राप्य सहस्रविनाशं समरे नृत्यति कबन्ध इव ॥३०॥</l>
</lg>
<p>375</p>
<lg>
  <l>दह्यमानाः सुतीव्रेण नीचाः परयशोग्निना ।</l>
  <l>अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते ॥ ३१ ॥</l>
</lg>
<p>376</p>
<lg>
  <l>खल: सत्क्रियमाणोपि ददाति कलहं सताम् ।</l>
  <l>दुग्धधौतोपि किं याति वायसः कलहंसताम् ॥ ३२ ॥</l>
</lg>
<p>केषामप्येते ।
377</p>
<lg>
  <l>न विषममृतं कर्तुं शक्यं प्रयत्नशतैरपि</l>
  <l>त्यजति कटुतां न स्वां निम्ब: स्थितोपि पयोह्रदे ।</l>
  <l>गुणपरिचितामार्यां  वाणीं न जल्पति दुर्जन-</l>
</lg>
<lg>
  <l>श्चिरमपि बलाध्माते लोहे कुतः कनकाकृतिः॥ ३३ ॥</l>
  <l>भर्तृहरेः ।</l>
  <l>-------</l>
  <l>अथ कृपणनिन्दा ॥ २३ ॥</l>
</lg>
<p>378
यदर्ज्यते परिक्लेशैरर्जितं यन्न भुज्यते ।'
विभज्यते यदन्तेन्यैः कस्यचिन्मास्तु तद्धनम् ॥ १ ॥</p>
<pb n="72" />
<p>379</p>
<lg>
  <l>यत्करोत्यरतिं क्लेशं तृष्णां मोहं प्रजागरम् ।</l>
  <l>न तद्धनं कदर्याणां हृदयव्याधिरेव सः ॥ २ ॥</l>
</lg>
<p>एतौ क्षेमेन्द्रस्य ।
380</p>
<lg>
  <l>मृत्युः शरीरगोप्तारं वसुरक्षं वसुंधरः ।</l>
  <l>दुश्चारिणी च हसति स्वपतिं पुत्रवत्सलम् ॥ ३ ॥</l>
</lg>
<p>बाणभट्टस्य ।
381</p>
<lg>
  <l>नन्दनरेन्द्रद्रविणैर्दुष्कृतमिव किमपि विहितमतिघोरम् ।</l>
  <l>वसुधातलोष्मपाको विरमति नाद्यापि यत्तेभ्यः ॥ ४ ॥</l>
</lg>
<p>वल्लभदेवस्य ।
382</p>
<lg>
  <l>गाढतरनिबद्धमुष्टेः  कोषनिषण्णस्य सहजमलिनस्य ।</l>
  <l>कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥ ५ ॥</l>
</lg>
<p>गोभट्टस्य ।
383</p>
<lg>
  <l>कृपण समृद्धीनामपि भोक्तारः सन्ति केचिदतिनिपुणाः ।</l>
  <l>जलसंपदोम्बुराशेर्यान्ति वशं सर्वदैव वडवाग्नेः ॥ ६ ॥</l>
</lg>
<p>प्रकाशवर्षस्य ।
384</p>
<lg>
  <l>प्राप्तानपि न लभन्ते भोगान्मोक्तुं स्वकर्मभिः कृपणाः ।</l>
  <l>मुखपाकः किल भवति द्राक्षापाके बलिभुजां हि ॥ ७ ॥</l>
</lg>
<p>रविगुप्तस्य ।
385</p>
<lg>
  <l>त्यागभोगविहीनेन धनेन धनिनो यदि ।</l>
  <l>भवामः किं न तेनैव धनेन धनिनो वयम् ॥ ८ ॥</l>
</lg>
<p>कस्यापि ।
386</p>
<lg>
  <l>कृपणेन समो दाता न भूतो न भविष्यति ।</l>
  <l>अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ॥ ९ ॥</l>
</lg>
<p>व्यासस्य ।</p>
<pb n="73" />
<p>387</p>
<lg>
  <l>यो न ददाति न भुङ्क्ते सति विभवे नैव तस्य तद्द्रव्यम् ।</l>
  <l>तृणमयकृत्रिमपुरुषो रक्षति सस्यं परस्यार्थे ॥ १० ॥</l>
</lg>
<p>कस्यापि ।
388</p>
<lg>
  <l>कृपणेन मृतेनापि शवेनेव न दीयते ।</l>
  <l>मांसं वर्धयता तेन काकस्योपकृतिः कृता ॥ ११ ॥</l>
</lg>
<p>389</p>
<lg>
  <l>उदारचरितस्त्यागी याचितः कृपणोधिकम् ।</l>
  <l>एको धनं ततः प्राणानन्यः प्राणांस्ततो धनम् ॥ १२ ॥</l>
</lg>
<p>390</p>
<lg>
  <l>दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।</l>
  <l>यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ १३ ॥</l>
</lg>
<p>391</p>
<lg>
  <l>नोपभोक्तुमपि क्लीबो जानात्युपचितां श्रियम् ।</l>
</lg>
<lg>
  <l>ग्राम्यो विरागयत्येव रमयन्नपि कामिनीम् ॥ १४ ॥</l>
  <l>केषामप्येते ।</l>
  <l>----------</l>
  <l>अथ याचकनिन्दा ॥ २४ ॥</l>
</lg>
<p>392</p>
<lg>
  <l>देहीति वक्तुकामस्य यद्दु:खमुपजायते ।</l>
  <l>दाता चेत्तद्विजानीयाद्दद्यात्स्वपिशितान्यपि ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
393</p>
<lg>
  <l>वेपथुर्मलिनं वक्रं दीना वाग्गद्गदः स्वरः ।</l>
  <l>मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥ २ ॥</l>
</lg>
<p>व्यासस्य ।</p>
<pb n="74" />
<p>394</p>
<lg>
  <l>भ्रातर्धातरशेषयाचकजने वैरायसे सर्वदा</l>
  <l>यस्माद्विक्रमशालिवाहनमहीभृन्मुञ्जभोजादयः ।</l>
  <l>अत्यन्तं चिरजीविनो न विहितास्ते विश्वजीवातवो</l>
  <l>मार्कण्डध्रुवलोमशप्रभृतयः सृष्टाः प्रभूतायुषः ॥ ३ ॥</l>
</lg>
<p>395</p>
<lg>
  <l>उड्डीना गुणपत्रिणः सुखफलान्याराद्विकीर्णान्यधः</l>
  <l>पर्यस्ताः परितो यशः स्तबकिता: संपल्लतापल्लवाः ।</l>
  <l>प्रागेवापसृतः प्रमोदहरिणश्छाया कथान्तं गता</l>
  <l>दैन्यारण्यमतङ्गजेन महता भग्नेभिमानद्रुमे ॥ ४ ॥</l>
</lg>
<p>396</p>
<lg>
  <l>विद्यावत: कुलीनस्य धनं याचितुमिच्छतः ।</l>
  <l>कण्ठे  पारावतस्येव वाक्करोति गतागतम् ॥ ५ ॥</l>
</lg>
<p>397</p>
<lg>
  <l>दक्षिणाशाप्रवृत्तस्य प्रसारितकरस्य च ।</l>
  <l>तेजस्तेजस्विनोर्कस्य हीयतेन्यस्य का कथा ॥ ६ ॥</l>
</lg>
<p>398</p>
<lg>
  <l>गुरुतामुपयाति यन्मृतः</l>
  <l>पुरुषस्तद्विदितं मयाधुना ।</l>
  <l>ननु लाघवहेतुरर्थिता</l>
  <l>न मृते तिष्ठति सा मनागपि ॥ ७ ॥</l>
</lg>
<p>399</p>
<lg>
  <l>साधुरेवार्थिभिर्याच्यः क्षीणवित्तोपि सर्वदा ।</l>
  <l>शुष्कोपि हि नदीमार्गः खन्यते सलिलार्थिभिः ॥ ८ ॥</l>
</lg>
<p>400</p>
<lg>
  <l>तृणादपि लघुस्तूलस्तूलादपि हि याचकः ।</l>
  <l>वायुना किं न नीतोसौ मामयं प्रार्थयिष्यति ॥ ९ ॥</l>
</lg>
<p>केषामप्येते ।</p>
<pb n="75" />
<p>अथ दरिद्रनिन्दा ॥ २५ ॥
401</p>
<lg>
  <l>उत्थाय हृदि लीयन्ते दरिद्राणां मनोरथाः ।</l>
  <l>बालवैधव्यदग्धानां कुलस्त्रीणां कुचा इव ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
402</p>
<lg>
  <l>हे दारिद्र्य नमस्तुभ्यं सिद्धोहं त्वत्प्रसादतः ।</l>
  <l>पश्याम्यहं जगत्सर्वं न मां पश्यति कञ्चन ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
403</p>
<lg>
  <l>इह लोकेपि धनिनां परोपि स्वजनायते ।</l>
  <l>स्वजनोपि दरिद्राणां तत्क्षणाद्दुर्जनायते ॥ ३ ॥</l>
</lg>
<p>404</p>
<lg>
  <l>रोगी चिरप्रवासी परान्नभोजी परावसथशायी ।</l>
  <l>यज्जीवति तन्मरणं यन्मरणं सोस्य विश्रामः ॥ ४ ॥</l>
</lg>
<p>405</p>
<lg>
  <l>परीक्ष्य सत्कुलं विद्यां शीलं शौर्यं सुरूपताम् ।</l>
  <l>विधिर्ददाति निपुणः कन्यामिव दरिद्रताम् ॥ ५ ॥</l>
</lg>
<p>406</p>
<lg>
  <l>दारिद्र्यानलसंतापः शान्तः संतोषवारिणा ।</l>
  <l>याचकाशाविघातान्तर्दाहः केनोपशाम्यति ॥ ६ ॥</l>
</lg>
<p>407</p>
<lg>
  <l>अर्था न सन्ति न च मुञ्चति मां दुराशा</l>
  <l>त्यागान्न संकुचति दुर्ललितं मनो मे ।</l>
  <l>याच्चा च लाघवकरी स्ववधे च पापं</l>
  <l>प्राणा: स्वयं व्रजत किं प्रविलम्बितेन ॥ ७ ॥</l>
</lg>
<p>माघकवेः ।
408
मारोदीश्चिरमेहि वस्त्ररुचिरान्दृष्ट्वाद्य बालानिमा-
नायातस्तव वत्स दास्यति पिता ग्रैवेयकं वाससी ।</p>
<pb n="76" />
<p>श्रुत्वैवं गृहिणीवचांसि निकटे कुद्यस्य निष्किञ्चनो
निःश्वस्याश्रुजलप्लवप्लुतमुखः पान्थः पुनः प्रस्थितः ॥ ८ ॥
409</p>
<lg>
  <l>वासःखण्डमिदं प्रयच्छ यदि वा स्वाङ्के गृहाणार्भकं</l>
  <l>रिक्तं भूतलमत्र नाथ भवतः पृष्ठे पलालोच्चयः ।</l>
  <l>दंपत्योरिति जल्पितं निशि यदा चौरः प्रविष्टस्तदा</l>
  <l>लब्धं कर्पटमन्यतस्तदुपरि क्षित्वा रुदन्निर्गतः ॥ ९ ॥</l>
</lg>
<p>410
वृद्धोन्धः पतिरेष मञ्चकगतः स्थूणावशेषं गृहं
कालोभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो !
यत्नात्संचिततैलबिन्दुघटिका भग्नेति पर्याकुला
दृष्ट्वा गर्भभरालसां निजवधूं श्वश्रूश्चिरं रोदिति ॥ १० ॥
411</p>
<lg>
  <l>अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया ।</l>
  <l>अहमपि न तया न तया वद राजन्कस्य दोषोयम् ॥ ११ ॥</l>
</lg>
<p>दरिद्रस्य दोषः । केषामप्येते ।
412</p>
<lg>
  <l>चण्डालश्च दरिद्रश्च द्वावेतौ सदृशाविह ।</l>
</lg>
<lg>
  <l>चण्डालस्य न गृह्णन्ति दरिद्रो न प्रयच्छति ॥ १२ ॥</l>
  <l>श्रीवाल्मीके: ।</l>
  <l>----------</l>
  <l>अथ मूर्खनिन्दा ॥ २६ ॥</l>
</lg>
<p>413</p>
<lg>
  <l>यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।</l>
  <l>लोचनाभ्यां विहीनस्य दर्पण: किं करिष्यति ॥ १ ॥</l>
</lg>
<p>चाणक्यस्य ।
114
वितरति गुरु: प्राज्ञे विद्यां यथैव तथा जडे
न तु खलु तयोर्ज्ञाने शक्तिं करोत्युपहन्ति वा ।</p>
<pb n="77" />
<lg>
  <l>भवति च पुनर्भूयान्भेदः फलं प्रति तद्यथ ।</l>
  <l>प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदां चयः ॥ २ ॥</l>
</lg>
<p>कालिदासस्य ।
415</p>
<lg>
  <l>लभेत सिकतासु तैलमपि यत्नतः पीडय-</l>
  <l>न्पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दित: ।</l>
  <l>कदाचिदपि पर्यटञ्छशविषाणमासादये-</l>
  <l>न्न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ३ ॥</l>
</lg>
<p>416</p>
<lg>
  <l>प्रसह्य मणिमुद्धरेन्मकरवक्रदंष्ट्राङ्कुरा -</l>
  <l>त्समुद्रमपि संतरेत्प्रचलदूर्मिमालाकुलम् ।</l>
  <l>भुजंगमपि कोपितं शिरसि पुष्पवद्धारये-</l>
  <l>न्न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ४ ॥</l>
</lg>
<p>एतौ भर्तृहरेः ।
417</p>
<lg>
  <l>मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।</l>
  <l>अशुभं वाक्यमादत्ते पुरीषमिव शूकरः ॥ ५ ॥</l>
</lg>
<p>व्यासस्य ।
418</p>
<lg>
  <l>उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।</l>
</lg>
<lg>
  <l>पयःपानं भुजंगानां केवलं विषवर्धनम् ॥ ६ ॥</l>
  <l>चाणक्यस्य ।</l>
  <l>------------</l>
  <l>अथ तृष्णानिन्दा ॥ २७ ॥</l>
</lg>
<p>419</p>
<lg>
  <l>बलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः ।</l>
  <l>गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥१ ॥</l>
</lg>
<p>भर्तृहरेः ।
420</p>
<lg>
  <l>तृष्णे देवि नमस्तुभ्यं धैर्यविप्लवकारिणि ।</l>
  <l>विष्णुस्त्रैलोक्यनाथोपि यत्त्वया वामनीकृतः ॥ २ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="78" />
<p>421</p>
<lg>
  <l>भ्रान्तं याचनतत्परेण मनसा देहीति वाक्प्रेरिता</l>
  <l>भुक्तं मानविवर्जितं परगृहे साशङ्कया काकवत् ।</l>
  <l>साक्षेपं भ्रुकुटीकटाक्षकुटिलं दृष्टं खलानां मुखं</l>
  <l>तृष्णे देवि यदन्यदिच्छसि पुनस्तत्रापि सज्जा वयम् ॥ ३ ॥</l>
</lg>
<p>422</p>
<lg>
  <l>नास्त्यन्या तृष्णया तुल्या कापि स्त्री सुभगा क्वचित् ।</l>
  <l>या प्राणानपि मुष्णन्ती भवत्येवाधिकं प्रिया ॥ ४ ॥</l>
</lg>
<p>423</p>
<lg>
  <l>व्युता दन्ताः सिताः केशा दृग्निरोधः पदे पदे ।</l>
  <l>पातसज्जमिमं देहं तृष्णा साध्वी न मुञ्चति ॥ ५ ॥</l>
</lg>
<p>424</p>
<lg>
  <l>तृष्णे त्वमपि तृष्णान्धा त्रिषु स्थानेषु वर्तसे ।</l>
  <l>व्याधितेष्वनपत्येषु जरापरिणतेषु च ॥ ६ ॥</l>
</lg>
<p>425</p>
<lg>
  <l>धनेषु जीवितव्येषु स्त्रीषु भोजनवृत्तिषु ।</l>
  <l>अतृप्ता मानवाः सर्वे याता यास्यन्ति यान्ति च ॥ ७ ॥</l>
</lg>
<p>426</p>
<lg>
  <l>तृष्णे देवि नमस्तुभ्यं या त्वं सर्वस्य सर्वदा ।</l>
  <l>उत्पादयस्ययत्नेन गोष्पदे सागरभ्रमम् ॥ ८ ॥</l>
</lg>
<p>427</p>
<lg>
  <l>अपि मेरूपमं प्राज्ञमपि शूरमपि स्थिरम् ।</l>
</lg>
<lg>
  <l>तृणीकरोति तृष्णैषा निमेषेण नरोत्तमम् ॥ ९ ॥</l>
  <l>केषामप्येते ।</l>
  <l>--------</l>
  <l>अथ लोभनिन्दा ॥ २८ ॥</l>
</lg>
<p>428</p>
<lg>
  <l>लोभः सदा विचिन्त्यो लुब्धेभ्यः सर्वतो भयं दृष्टम् ।</l>
  <l>कार्याकार्यविचारो लोभविमूढस्य नास्त्येव ॥ १॥</l>
</lg>
<pb n="79" />
<p>429</p>
<lg>
  <l>अतिसाहसमतिदुष्करमत्याश्चर्यं  च दानमर्थानाम् ।</l>
  <l>योपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥ २ ॥</l>
</lg>
<p>430</p>
<lg>
  <l>केपि स्वभावलुब्धास्तीव्रतरां यातनामपि सहन्ते ।</l>
  <l>न तु संत्यजन्ति वित्तं मात्सर्यमिवाधमाः सततम् ॥ ३ ॥</l>
</lg>
<p>431</p>
<lg>
  <l>और्वा इवातिलुब्धा भवन्ति धनलवणवारिबहुतृष्णाः ।</l>
  <l>तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य ॥ ४ ॥</l>
</lg>
<p>432</p>
<lg>
  <l>सत्यप्रशमतपोभिः सत्यधनैः शास्त्रवेदिभिर्विजितः ।</l>
  <l>लोभोवटं प्रविष्टः कुटिलं हृदयं किराटानाम् ॥ ५ ॥</l>
</lg>
<p>एते क्षेमेन्द्रस्य ।
433</p>
<lg>
  <l>नात्यर्थमर्थार्थनया लुब्धमुद्वेजयेज्जनम् ।</l>
  <l>अब्धिर्दत्ताश्वरत्नश्रीर्मथ्यमानोसृजद्विषम् ॥ ६ ॥</l>
</lg>
<p>434</p>
<lg>
  <l>प्रायेण धनिनामेव धनलोभो निरन्तरम् ।</l>
</lg>
<lg>
  <l>पश्य कोटिद्वयोपेतं लक्षाय प्रणतं धनुः ॥ ७ ॥</l>
  <l>एतौ कयोरपि ।</l>
  <l>---------</l>
  <l>अथ दैवाख्यानम् ॥ २९ ॥</l>
</lg>
<p>435</p>
<lg>
  <l>ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे</l>
  <l>विष्णुर्येन दशावतारगहने क्षिप्तः सदा संकटे ।</l>
  <l>रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः</l>
  <l>सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ १ ॥</l>
</lg>
<p>भर्तृहरेः ।</p>
<pb n="80" />
<p>436</p>
<lg>
  <l>नमस्यामो देवान्ननु हतविधेस्तेपि वशगा</l>
  <l>विधिर्वन्द्यः सोपि पतिनियतकर्मैकफलदः ।</l>
  <l>फलं कर्मायत्तं यदि किममरैः किं च विधिना</l>
  <l>नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ २ ॥</l>
</lg>
<p>437</p>
<lg>
  <l>खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके</l>
  <l>वाञ्छन्देशमनातपं विधिवशाद्बिल्वस्य मूलं गतः ।</l>
  <l>तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः</l>
  <l>प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥ ३ ॥</l>
</lg>
<p>438</p>
<lg>
  <l>मज्जत्वम्भसि यातु मेरुशिखरं शत्रूञ्जयत्वाहवे</l>
  <l>वाणिज्यं कृषिसेवनादि सकला विद्याः कला: शिक्षतु ।</l>
  <l>आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं</l>
  <l>नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ ४ ॥</l>
</lg>
<p>एते भर्तृहरे: ।
439</p>
<lg>
  <l>स्ववश: करोति कर्म प्रमादतः परवशो भवति ।</l>
  <l>स्ववशो रोहति वृक्षं निपतत्यवशस्ततः पुरुषः ॥ ५ ॥</l>
</lg>
<p>कस्यापि ।
440
किं त्वं न वेत्सि जगति प्रख्यातं लाभकारणे मूल॑म् ।
विधिलिखिताक्षरमालं फलति कपालं न भूपालः ॥ ६ ।
441</p>
<lg>
  <l>द्विपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोप्यन्तात् ।</l>
  <l>आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥ ७ ॥</l>
</lg>
<p>442</p>
<lg>
  <l>भाग्यवन्तं प्रसूयेथा मा शूरं मा च पण्डितम् ।</l>
  <l>शूराश्व कृतविद्याश्च वने सीदन्ति पाण्डवाः ॥ ८ ॥</l>
</lg>
<pb n="81" />
<p>443</p>
<lg>
  <l>गजभुजंगविहंगमबन्धनं</l>
  <l>शशिदिवाकरयोर्ग्रहपीडनम् ।</l>
  <l>मतिमतां च विलोक्य दरिद्रतां</l>
  <l>विधिरहो बलवानिति मे मतिः ॥ ९॥</l>
</lg>
<p>444</p>
<lg>
  <l>न केवलं मनुष्येषु दैवं देवेष्वपि प्रभुः ।</l>
  <l>सति मित्रे धनाध्यक्षे चर्मप्रावरणो हरः ॥ १० ॥</l>
</lg>
<p>445</p>
<lg>
  <l>अम्भोधिः स्थलतां स्थलं जलधितां धूलीलवः शैलतां</l>
  <l>मेरुमृत्कणतां तृणं कुलिशतां वज्रं तृणक्लीबताम् ।</l>
  <l>वह्निः शीतलतां हिमं दहनतामायाति यस्येच्छया</l>
  <l>लीलादुर्ललिताद्भुतव्यसनिने दैवाय तस्मै नमः ॥ ११ ॥</l>
</lg>
<p>446</p>
<lg>
  <l>अरक्षित तिष्ठति दैवरक्षितं</l>
  <l>सुरक्षितं दैवहतं विनश्यति ।</l>
  <l>जीवत्यनाथोपि वने विसर्जितः</l>
  <l>कृतप्रयत्नोपि गृहे न जीवति ॥ १२ ॥</l>
</lg>
<p>447</p>
<lg>
  <l>सच्छिद्रो मध्यकुटिलः कर्णः स्वर्णस्य भाजनम् ।</l>
  <l>धिग्दैवं निर्मलं नेत्रं पात्रं कज्जलभस्मनः ॥ १३ ॥</l>
</lg>
<p>448</p>
<lg>
  <l>दाता बलि: प्रार्थयिता च विष्णु-</l>
  <l>र्दानं च भूर्वाजिमखस्य कालः ।</l>
  <l>नमोस्तु तस्यै भवितव्यतायै</l>
  <l>यस्याः फलं बन्धनमेव जातम् ॥ १४ ॥</l>
</lg>
<p>केषामन्येते ।</p>
<pb n="82" />
<p>अथोद्यमाख्यानम्
449</p>
<lg>
  <l>भगवन्तौ जगन्नेत्रे सूर्याचन्द्रमसावपि ।</l>
  <l>पश्य गच्छत एवास्तं नियतिः केन लंघ्यते ॥ १५ ॥</l>
</lg>
<p>दण्डिकवेः ।
450</p>
<lg>
  <l>प्रतिकूलतामुपगते हि विधौ</l>
  <l>विफलत्वमेति बहुसाधनता ।</l>
  <l>अवलम्बनाय दिनभर्तुरभू-</l>
  <l>न्न पतिष्यतः करसहस्रमपि ॥ १६ ॥</l>
</lg>
<p>माघकवेः ।
451</p>
<lg>
  <l>प्रियसखि विपद्दण्डप्रान्तप्रपातपरंपरा-</l>
  <l>परिचयचले चिन्ताचक्रे निधाय विधिः खलः ।</l>
  <l>मृदमिव बलात्पिण्डीकृत्य प्रगल्भकुलालव-</l>
  <l>द्भ्रमयति मनो नो जानीम: किमत्र करिष्यति ॥ १७ ॥</l>
</lg>
<p>विज्जकायाः ।
452</p>
<lg>
  <l>किं करोति नरः प्राज्ञः शूरो वाप्यथ पण्डितः ।</l>
  <l>दैवं यस्य छलान्वेषि करोति विफलाः क्रियाः ॥ १८ ॥</l>
</lg>
<p>चाणक्यस्य ।
453</p>
<lg>
  <l>यन्मनोरथशतैरगोचरं</l>
  <l>न स्पृशन्ति कवयो गिरापि यत् ।</l>
  <l>स्वप्नवृत्तिरपि यत्र दुर्लभा</l>
</lg>
<lg>
  <l>लीलयैव विदधाति तद्विधिः ॥ १९ ॥</l>
  <l>देवगणस्य ।</l>
  <l>--------------</l>
  <l>अथोद्यमाख्यानम् ॥ ३० ॥</l>
</lg>
<p>454</p>
<lg>
  <l>न दैवमिति संचिन्त्य त्यजेदुद्योगमात्मनः ।</l>
  <l>अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥ १ ॥</l>
</lg>
<pb n="83" />
<p>455</p>
<lg>
  <l>उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी-</l>
  <l>दैवं हि दैवमिति कापुरुषा वदन्ति ।</l>
  <l>दैवं निहत्य कुरु पौरुषमात्मशक्त्या</l>
  <l>यत्ने कृते यदि न सिद्ध्यति कोत्र दोषः ॥ २ ॥</l>
</lg>
<p>कृष्णमिश्रस्य ।
456</p>
<lg>
  <l>विहाय पौरुषं यो हि दैवमेवावलम्बते ।</l>
  <l>प्रासादसिंहवत्तस्य मूर्ध्नि तिष्ठन्ति वायसाः ॥ ३ ॥</l>
</lg>
<p>457</p>
<lg>
  <l>उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः ।</l>
  <l>नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ४ ॥</l>
</lg>
<p>458</p>
<lg>
  <l>पूर्वजन्मजनितं पुराविदः</l>
  <l>कर्म दैवमिति संप्रचक्षते ।</l>
  <l>उद्यमेन तदुपार्जितं चिरा-</l>
  <l>द्दैवमद्यमवशं न तत्कथम् ॥ ५ ॥</l>
</lg>
<p>459</p>
<lg>
  <l>दैवं पुरुषकारेण साध्यसिद्धिनिबन्धनम् ।</l>
  <l>योतिक्रमितुमिच्छेत स लोके नावसीदति ॥ ६ ॥</l>
</lg>
<p>460</p>
<lg>
  <l>कामपि श्रियमासाद्य यस्तद्वृद्धौ न चेष्टते ।</l>
  <l>तस्यायतिषु न श्रेयो बीजभोजिकुटुम्बवत् ॥ ७ ॥</l>
</lg>
<p>केषामप्येते ।
461</p>
<lg>
  <l>संपदा सुस्थिनंमन्यो भवति स्वल्पयापि यः ।</l>
  <l>कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ ८ ॥</l>
</lg>
<p>462</p>
<lg>
  <l>असंपादयतः  कंचिदर्थं जातिक्रियागुणैः ।</l>
  <l>यवृच्छाशब्दवत्पुंसः संज्ञायै जन्म केवलम् ॥ ९ ॥</l>
</lg>
<p>एतौ माघकवेः ।</p>
<pb n="84" />
<p>अथ प्रकीर्णकाख्यानम् ॥ ३१ ॥
463</p>
<lg>
  <l>दानाय लक्ष्मीः सुकृताय विद्या</l>
  <l>चिन्ता परब्रह्मविनिश्चयाय ।</l>
  <l>परोपकाराय वचांसि यस्य</l>
  <l>वन्द्यस्त्रिलोकीतिलकः स एकः ॥ १ ॥</l>
</lg>
<p>श्रीदेवगणदेवानाम् ।
464</p>
<lg>
  <l>निष्कलङ्ककलयैकयापि यः</l>
  <l>सयुतः स खलु पूज्यते जनैः ।</l>
  <l>भद्र पश्य जलजोपि धार्यते</l>
  <l>शंकरेण शिरसा निशाकरः ॥ २ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
465</p>
<lg>
  <l>एके सत्पुरुषाः परार्थघटका: स्वार्थ परित्यज्य ये</l>
  <l>सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।</l>
  <l>तेमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये</l>
  <l>ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ ३ ॥</l>
</lg>
<p>भर्तृहरेः ।
466</p>
<lg>
  <l>अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः ।</l>
  <l>इतरेन्धनजन्मा यो धूमः सोगुरुभवो धूपः ॥ ४ ॥</l>
</lg>
<p>गोवर्धनाचार्यस्य ।
467</p>
<lg>
  <l>अहो बत महत्कष्टं विपरीतमिदं जगत् ।</l>
  <l>येनापत्रपते साधुरसाधुस्तेन तुष्यति ॥ ५ ॥</l>
</lg>
<p>468</p>
<lg>
  <l>अदाता पुरुषस्त्यागी धनं संत्यज्य गच्छति ।</l>
  <l>दातारं कृपणं मन्ये मृतोप्यर्थं न मुञ्चति ॥ ६ ॥</l>
</lg>
<p>एतौ व्यासस्य ।</p>
<pb n="85" />
<p>469</p>
<lg>
  <l>दातव्यं भोक्तव्यं सति विभवे संचयो न कर्तव्यः ।</l>
  <l>पश्येह मधुकरीणां संचितमर्थं  हरन्त्यन्ये ॥ ७ ॥</l>
</lg>
<p>470</p>
<lg>
  <l>अशठमलोलमजिह्मं त्यागिनमनुरागिणं विशेषज्ञम् ।</l>
  <l>यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता तत्र ॥ ८ ॥</l>
</lg>
<p>471</p>
<lg>
  <l>या स्वसद्मनि पद्मेपि संध्यावधि विजृम्भते ।</l>
  <l>इन्दिरा मन्दिरेन्येषां कथं तिष्ठति सा चिरम् ॥ ९ ॥</l>
</lg>
<p>472</p>
<lg>
  <l>रक्षन्ति कृपणाः पाणौ द्रव्यं कव्यमिवात्मनः ।</l>
  <l>तदेव सन्तः सततमुत्सृजन्ति यथा मलम् ॥ १० ॥</l>
</lg>
<p>473</p>
<lg>
  <l>सद्विद्या यदि का चिन्ता वराकोदरपूरणे ।</l>
  <l>शुकोप्यशनमाप्नोति राम रामेति च ब्रुवन् ॥ ११ ॥</l>
</lg>
<p>474</p>
<lg>
  <l>ददतो युद्ध्यमानस्य पठतः पुलको न चेत् ।</l>
  <l>आत्मनश्च परेषां च धिक्त्यागं पौरुषं वचः ॥ १२ ॥</l>
</lg>
<p>475</p>
<lg>
  <l>न तद्भुक्तं न तत्पीतं न तत्सुप्तं न तद्गतम् ।</l>
  <l>यन्मांसमाहिषक्षीरललनावाजिवर्जितम् ॥ १३ ॥</l>
</lg>
<p>476</p>
<lg>
  <l>दुर्जनदूषितमनसां पुंसां सुजनेपि नास्ति विश्वासः ।</l>
  <l>बाल: पयसा दग्धो दध्यपि फूत्कृत्य भक्षयति ॥ १४ ॥</l>
</lg>
<p>477
करोति निर्मलाधारस्तुच्छस्यापि महार्घताम् ॥
अम्बुनो विन्दुरल्पोपि शुक्तौ मुक्ताफलं भवेत् ॥ १५ ।</p>
<pb n="86" />
<p>478</p>
<lg>
  <l>अन्तः कटुरपि लघुरपि सद्वृत्तं यः पुमान्न संत्यजति ।</l>
  <l>स भवति सद्यो वन्द्यः सर्षप इव सर्वलोकस्य ॥ १६ ॥</l>
</lg>
<p>479</p>
<lg>
  <l>किमाद्यत्वगुरुत्वाभ्यां चरमोपि गुणैर्गुरुः ।</l>
  <l>केतकी कुसुमे पश्य लघुपत्रेपि गौरवम् ॥ १७ ॥</l>
</lg>
<p>480</p>
<lg>
  <l>पतितोपि राहुवदने तरणिर्बोधयति पद्मखण्डानि ।</l>
  <l>भवति विपद्यपि महतामङ्गीकृतवस्तुनिर्वाहः ॥ १८ ॥</l>
</lg>
<p>481</p>
<lg>
  <l>निःसारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।</l>
  <l>न सुवर्णे ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते ॥ १९ ॥</l>
</lg>
<p>482</p>
<lg>
  <l>स एव धन्यो विपदि स्वरूपं यो न मुञ्चति ।</l>
  <l>त्यजत्यर्ककरैस्तप्तं हिमं देहं न शीतताम् ॥ २० ॥</l>
</lg>
<p>483</p>
<lg>
  <l>मासि मासि समा ज्योत्स्ना पक्षयोरुभयोरपि ।</l>
  <l>तत्रैकः शुक्लपक्षोभूद्यशः पुण्यैरवाप्यते ॥ २१ ॥</l>
</lg>
<p>484</p>
<lg>
  <l>सौभाग्यं विरलस्य स्यात्समकर्मगुणेष्वपि ।</l>
  <l>षट्त्रिंशदायुधा पृथ्वी खड्गायत्तैव कथ्यते ॥ २२ ॥</l>
</lg>
<p>485</p>
<lg>
  <l>हस्तादपि न दातव्यं गृहादपि न दीयते ।</l>
  <l>परोपकरणार्थाय वचनेपि दरिद्रता ॥ २३ ॥</l>
</lg>
<p>486</p>
<lg>
  <l>पातितोपि कराघातैरुत्पतत्येव कन्दुकः ।</l>
  <l>प्रायेण हि सुवृत्तानामस्थायिन्यो विपत्तयः ॥ २४ ॥</l>
</lg>
<p>487</p>
<lg>
  <l>पदस्थितस्य पद्मस्य मित्रे वरुणभास्करौ ।</l>
  <l>पदच्युतस्य तस्यैव क्लेददाहकरावुभौ ॥ २५ ॥</l>
</lg>
<pb n="87" />
<p>488</p>
<lg>
  <l>वनानि दहतो वह्नेः सखा भवति मारुतः ।</l>
  <l>स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥ २६ ॥</l>
</lg>
<p>489</p>
<lg>
  <l>गतः स कालो यत्रासीदवज्ञा कल्पशाखिनाम् ।</l>
  <l>उदुम्बरफलेभ्योपि स्पृहयामोधुना वयम् ॥ २७ ॥</l>
</lg>
<p>490</p>
<lg>
  <l>भोज्यं भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः ।</l>
  <l>विभवो दानशक्तिच नाल्पस्य तपसः फलम् ॥ २८ ॥</l>
</lg>
<p>491</p>
<lg>
  <l>व्यथयतितरामुपेतः स्वच्छप्रकृतीनवद्यलेशोपि ।</l>
  <l>भृशमुद्विजते चक्षुः सक्तेन रजःकणेनापि ॥ २९ ॥</l>
</lg>
<p>492</p>
<lg>
  <l>शरदि समग्रनिशाकरकरशतहततिमिरसंचया रजनी ।</l>
  <l>जलदान्तरितार्कामपि दिवसच्छायां न पूरयति ॥ ३० ॥</l>
</lg>
<p>493</p>
<lg>
  <l>वरमुन्नतलाङ्गूलात्सटाधूननभीषणात् ।</l>
</lg>
<lg>
  <l>सिंहात्पादप्रहारोपि न सृगालाधिरोहणम् ॥ ३१ ॥</l>
  <l>केषामप्येते ।</l>
  <l>-------------</l>
  <l>अथ समस्याख्यानम् ॥ ३२ ॥</l>
</lg>
<p>494</p>
<lg>
  <l>सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।</l>
  <l>दलितश्चकितश्छन्नस्तव सैन्ये विसर्पति ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादिति पादद्वयं समस्या ।
495</p>
<lg>
  <l>कामं कामदुधे धुक्ष्व मित्राय वरुणाय च ।</l>
  <l>वयं वीरेश दानेन सर्वान्कामानशीमहि ॥ २ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="88" />
<p>कामं कामदुधे धुक्ष्व मित्राय वरुणाय च । सर्वान्कामानशीम-
हि इति पादत्रयं समस्या ।
496</p>
<lg>
  <l>असमाने समानत्वं भविता कलहे मम ।</l>
  <l>इति मत्त्वा ध्रुवं मानी मृगात्सिंह: पलायते ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
मृगात्सिंह: पलायत इति पादैकं समस्या ।
497</p>
<lg>
  <l>विद्यायां दुर्मदो येषां कार्पण्यं विभवे सति ।</l>
  <l>तेषां दैवाभिशप्तानां सलिलादग्निरुत्थितः ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
सलिलादग्निरुत्थित इति पादैकं समस्या ।
498</p>
<lg>
  <l>दामोदरकराघातविह्वलीकृतचेतसा ।</l>
  <l>दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥ ५ ॥</l>
</lg>
<p>बाणस्य ।
शतचन्द्रं नभस्तलमिति पादैकं समस्या ।
499</p>
<lg>
  <l>विधे पिधेहि शीतांशुं यावदायाति मे पतिः ।</l>
  <l>आयाते दयिते कुर्याः शतचन्द्रं नभस्तलम् ॥ ६ ॥</l>
</lg>
<p>कस्यापि ।
500</p>
<lg>
  <l>भीष्मग्रीष्मर्तुसंतापशून्यरथ्यान्तरस्थयोः ।</l>
  <l>अन्योन्यालापसुखिनोर्यूनोश्चन्द्रायते रविः ॥ ७ ॥</l>
</lg>
<p>कस्यापि ।
यूनोश्चन्द्रायते रविरिति पादैकं समस्या ।
501</p>
<lg>
  <l>स्वस्ति क्षत्रियदेवाय जगद्देवाय भूभुजे ।</l>
  <l>यद्यशः पुण्डरीकान्तर्गगनं भ्रमरायते ॥ ८ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="89" />
<p>गगनं भ्रमरायत इति पादैकं समस्या ।
502</p>
<lg>
  <l>यत्कण्ठे गरलं विराजतितरां शीर्षे च मन्दाकिनी</l>
  <l>वामाङ्गे गिरिजामुखं कटितटे शार्दूलचर्माम्बरम् ।</l>
  <l>माया यस्य भवं रुणद्धि सकलं तस्मै नमः शंभवे</l>
  <l>जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥ ९ ॥</l>
</lg>
<p>कस्यापि ।
जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवदिति पादैकं समस्या ।
503</p>
<lg>
  <l>रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा</l>
  <l>निरालम्बो मार्गश्चरणरहितः सारथिरपि ।</l>
  <l>रविर्गच्छत्यन्तं प्रतिदिनमपारस्य नभसः</l>
  <l>क्रियासिद्धिः सत्वे वसति महतां नोपकरणे ॥ १० ॥</l>
</lg>
<p>कस्यापि ।
क्रियासिद्धिः सत्त्वे वसति महतां नोपकरण इति पादैकं समस्या ।
504</p>
<lg>
  <l>विजेतव्या लङ्का चरणतरणीयो जलनिधि-</l>
  <l>र्विपक्ष: पौलस्त्यो रणभुवि सहायाश्च कपयः ।</l>
  <l>तथाप्येको रामः सकलमवधीद्राक्षसकुलं</l>
  <l>क्रियासिद्धि:सत्त्वे वसति महतां नोपकरणे ॥ ११ ॥</l>
</lg>
<p>कस्यापि ।
505</p>
<lg>
  <l>घटो जन्मस्थानं मृगपरिजनो भूर्जवसनो</l>
  <l>वने वासः कन्दाशनमपि च दुःस्थं वपुरिदम् ।</l>
  <l>तथाप्येकोगस्त्यः सकलमपिवद्वारिधिजलं</l>
  <l>क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ १२ ॥</l>
</lg>
<p>कस्यापि ।
506
अस्माकं जलजीविनां जलमिदं सद्वाजिराजिव्रजैः
पातव्यं पररक्तरक्तमनसां तृप्तिः पतीनां क्षयः ।</p>
<pb n="90" />
<p>मत्वैवं महराजदेव नृपते त्वज्जैत्रयात्रोत्सवे
मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वैरिस्त्रियः ॥१३॥
श्रीआनन्ददेवानाम् ।
मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वैरिस्त्रिय इति
पादैकं समस्या ।
507
स्फुरिते जठरे विष्णोर्नवनीतभुजः शिशोः ।
मक्षिकापादघातेन कम्पितं भुवनत्रयम् ॥ १४
शार्ङ्गधरस्य ।
मक्षिकापादघातेन कम्पितं भुवनत्रयमिति पादद्वयं समस्या ।
508
रामाभिषेके मदविह्वलायाः
करच्युतो हेमघटस्तरुण्याः ।
सोपानमासाद्य करोति शब्दं
ठं ठं ठ ठं ठं ठ ठ ठं ठ ठं ठः ॥ १५ ।
कस्यापि ।
ठंठमिति चरमपाद: समस्या ।
509</p>
<lg>
  <l>उन्नमय्य सकचग्रहमास्यं</l>
  <l>चुम्बति प्रियतमे हठवृत्त्या ।</l>
  <l>हुं हु हुं हु हु हु  हुं   हु हु हुं हुं</l>
  <l>कुजितं भवति मानधनायाः ॥ १६ ॥</l>
</lg>
<p>विज्जकायाः ।
हुं हुं हुं हु इति पादैकं समस्या ।
510</p>
<lg>
  <l>प्रलयसहायकनवती गोलानाचम्य सकलभूमिरुहाम् ।</l>
  <l>विलसति दवदहनावलिरिह जलवाहः परं शरणम् ॥ १७ ॥</l>
</lg>
<p>मुरारेः ।
सहायकनवती गोलानाचम्येति पादैकं समस्या ।</p>
<pb n="91" />
<p>511</p>
<lg>
  <l>सुरताय नमस्तस्मै जगदानन्दहेतवे ।</l>
  <l>आनुषङ्गि फलं यस्य भोजराज भवादृशाः ॥ १८ ॥</l>
</lg>
<p>सरस्वतीकुटुम्बदुहितुः ।
सुरताय नमस्तस्मै जगदानन्दहेतव इति पादद्वयं समस्या ।
512</p>
<lg>
  <l>अतसीपुष्पसंकाशं खं वीक्ष्य जलदागमे ।</l>
  <l>ये वियोगेपि जीवन्ति न तेषां विद्यते भयम् ॥ १९ ॥</l>
</lg>
<p>माघस्य ।
अतसीपुष्पसंकाशं न तेषां विद्यते भयमिति पादद्वयं समस्या ।
513</p>
<lg>
  <l>मम करग्रहणाय पणीकृतं</l>
  <l>यदि न राघवतोप्यधिरोहति ।</l>
  <l>सखि तदैवमभून्मम जीवितं</l>
  <l>शशकशृङ्गमयं कठिनं धनुः ॥ २० ॥</l>
</lg>
<p>कस्यापि ।
शशकशृङ्गमयं कठिनं धनुरिति पादैकं समस्या ।
-------------
अथ प्रहेलिकापह्नुतिकूटाख्यानम् ॥ ३३ ॥
514</p>
<lg>
  <l>अपदो दूरगामी च साक्षरो न च पण्डितः ।</l>
  <l>अमुखः स्फुटवक्ता च यो जानाति स पण्डितः ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
अत्र लेखपत्रं प्रकटीकृतम् ।
515</p>
<lg>
  <l>वने जाता वनं त्यक्त्वा वने तिष्ठति नित्यशः ।</l>
  <l>पण्यस्त्री न च सा वेश्या यो जानाति स पण्डितः ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
अत्र नौका प्रकटीकृता नागवल्ली च ।</p>
<pb n="92" />
<p>516</p>
<lg>
  <l>गोपालो न च गोपालस्त्रिशूली न च शंकरः ।</l>
  <l>चक्रपाणिः स नो विष्णुर्यो जानाति स पण्डितः ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
अत्र महोक्षः प्रकटीकृतः ।
517</p>
<lg>
  <l>उच्छिष्टं शिवनिर्माल्यं वमनं शवकर्पटम् ।</l>
  <l>काकविष्ठासमुत्पन्नाः पञ्चैतेतिपवित्रकाः ॥ ४ ॥</l>
</lg>
<p>उच्छिष्टं दुग्धम् । शिवनिर्माल्यं गङ्गा । वमनं मधु । शवकर्पटं
पट्टाम्बरम् । काकविष्ठासमुद्भूताः पिप्पलादय इति प्रकटीकृताः ।
518
विजितात्मभवद्वेषिगुरुपादहतो जनः ।
हिमापहामित्रधरैर्व्याप्तं व्योमाभिनन्दति ॥ ५ ।
दण्डिनः ।
विना गरुडेन जित इन्द्रः । तदात्मभवोर्जुनः । तद्वेषी कर्णः ।
तद्गुरुः सूर्यः । तत्पादहतस्तत्किरणसंतप्तः । हिमापहाग्निः । तदमित्रं
पानीयम् । तद्धरा मेघाः । इति प्रकटीकृतम् ।
519</p>
<lg>
  <l>काचिन्मृगाक्षी प्रियविप्रयोगे</l>
  <l>गन्तुं निशापारमपारयन्ती ।</l>
  <l>उद्गातुमादाय करेण वीणां</l>
  <l>मृगाङ्कमालोक्य शनैरहासीत् ॥ ६ ॥</l>
</lg>
<p>कस्यापि ।
वीणां किमर्थमहासीत् यतोयं गीतप्रियो मृगाङ्कमृगो मत्प्रयुक्तं
गीतमाकर्णयितुं ततश्चेदवतरति तदा चन्द्रो निष्कलङ्क: स्यात् ।
मन्मुखसाम्यं च लभेत । प्रियविप्रयोगे संतापकरो मे हिमांशुः ।
अतोस्य शत्रोश्चन्द्रमसो मन्मुखसाम्यं मा भूदिति वीणामहासीत् ।
इति प्रकटितोर्थः ।</p>
<pb n="93" />
<p>520</p>
<lg>
  <l>तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः ।</l>
  <l>गुरूणां संनिधानेपि कः कूजति मुहुर्मुहुः ॥ ७ ॥</l>
</lg>
<p>अत्र कलश: प्रकटीकृतः ।
521</p>
<lg>
  <l>अवलोक्य स्तनौ वध्वा गुञ्जाफलविभूषितौ ।</l>
  <l>निःश्वस्य रोदितुं लग्ना कुतो व्याधकुटुम्बिनी ॥ ८ ॥</l>
</lg>
<p>धर्मदासस्यैतौ ।
शबरस्त्री पुत्रजायायाः स्तनौ गुञ्जाफलालंकृतौ दृष्ट्वा कुतो निःश्व-
स्य रुरोद । यतो मत्पुत्र एतस्यामनुरक्तस्तथा क्षीणतां गतो यथा गजा-
न्विनिहत्य गजमुक्ताफलहारैः स्तनौ विभूषयितुं नालम् । अतो निष्प्र-
यासग्राह्यैर्गुञ्जाफलैर्विभूषयति । पुत्रे च क्षीणे सति तदर्जितनिर्वाह-
वृत्ते: सर्वस्यापि कुटुम्बस्य जीवितसंदेहः । अतो व्याधकुटुम्बिनी
दुःखान्निःश्वस्य रोदितुं लग्ना । इति प्रकटीकृतोयमर्थः ।
522
गीत्वा किमपि व्याधः शृङ्गं जग्राह तरुणहरिणस्य ।
तमथ समीक्ष्योद्यतकरमेणीमपि लज्जिता व्याधी । ९ ॥
शार्ङ्गधरस्य ।
अस्यार्थः । व्याधः किमप्यद्भुतं गीत्वा गीतमूर्छनाविलीनचित्तस्य
तरुणहरिणस्य शृङ्गं जग्राह । किमर्थं जग्राह यतो मद्गीतसुखित-
स्त्वं याचकस्य मे इदं शिरोदानं देहि । अथ तं हरिणं शिरोदाना-
योद्यतकरं समीक्ष्य तज्जायां हरिणीं पत्युर्भक्त्या निजशिरोदानायो-
द्यतकरां च समीक्ष्य व्याधसार्थचारिणी व्याधी लज्जिता । केन हे-
तुना लज्जिता यतोयं हरिणो दाता इयं च हरिणी पतिभक्ता दातुर्जा-
या मत्कान्तो याचकः अहं च याचकजाया वरमेते पशवो न वयं
मनुष्या इति लज्जिता । अयं प्रथमोर्थः ।</p>
<pb n="94" />
<p>अथवा व्याधजायायाः परिणीतः पूर्वपुरुषो मृतः स च विद्य-
मानः संगृहीतो द्वितीयः पुरुषः । तं च विलोक्य चिन्तितवती । यतो
निजकान्तवियोगासहिष्णुः शिरोदानायोद्यतकरा पतिभक्ता वरमियं
हरिणी । परिणीतप्रियमरणे जीविता संगृहीतभर्तृका चासती नाहं
मानुषीति लज्जिता । इति द्वितीयोर्थः ।
अथवा इति चिन्तितं तया । यतो येन कर्णेन गीतं श्रुतं तस्य
दातुः कर्णस्य पुरो याच्ज्ञायै करो न प्रसारितो व्याधेन । नीरसक-
ठिनकुटिलशृङ्गस्य पुरः करः प्रसारितः । अनुचितं कृतं मूढेन ।
कृतेप्यनुचिते अकृतपात्रविचारो गीतरसज्ञः स्वभावकृपणं याचकं
जानन्मृगयूथपतिर्निजशिरोदानायोद्यतकरो जातः । अतो व्याधी तं
हरिणं चतुरं ज्ञात्वा तं च व्याधं मूर्खं ज्ञात्वा हरिणीं च तादृशीं
पतिभक्तां वीक्ष्य लज्जिता । इति तृतीयोर्थः ।
अथापह्नुतिः ॥
523</p>
<lg>
  <l>रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति ।</l>
  <l>तत्किं तरुणी नहि नहि वाणी बाणस्य मधुरशीलस्य ॥१९॥</l>
</lg>
<p>524</p>
<lg>
  <l>सीत्कारं  संजनयति व्रणयत्यधरं तनोति रोमाञ्चम् ।</l>
  <l>नागरिकः किमु मिलितो नहि नहि सखि हैमनः पवनः ॥ ११ ॥</l>
</lg>
<p>धर्मदासस्यैतौ ।
525</p>
<lg>
  <l>वर्षति मेघे नितरामपतितया नैव शक्यते स्थातुम् ।</l>
  <l>उत्कत्कण्ठितासि तरले नहि नहि सखि पिच्छिलः पन्थाः ॥१२॥</l>
</lg>
<p>कस्यापि ।
526</p>
<lg>
  <l>प्रहरति न पञ्चबाण: केवलमबले निमेषोपि ।</l>
  <l>वर्षति परं न देवः क्षणदापि मृगाक्षि विप्रयोगे ते ॥ १३ ॥</l>
</lg>
<pb n="95" />
<p>अथ कूटाः
527</p>
<lg>
  <l>केशवं पतितं दृष्ट्वा द्रोणो हर्षमुपागतः ।</l>
  <l>रुदन्ति कौरवाः सर्वे हा केशव कथं गतः ॥ १४ ॥</l>
</lg>
<p>कस्यापि ।
के पानीये । शवं मृतकम् । द्रोण: कृष्णकाकः । कौरवाः सृ-
गाला: । इति सुबोधमेतत्पद्यम् ।
528</p>
<lg>
  <l>अम्बरमम्बुनि पत्रमराति:</l>
  <l>पीतमहीनगणस्य ददाह ।</l>
  <l>यस्य वधूस्तनयं गृहमब्जा</l>
  <l>पातु स वो हरलोचनवह्निः ॥ १५ ॥</l>
</lg>
<p>दूरान्वयः । कस्यापि ।
स कृष्णो वो युष्मान्पातु यस्याम्बरं पीतम् । यस्य गृहमम्बुनि ।
यस्य पत्रमहीनगणस्यारातिः । यस्य वधूरब्जा । यस्य तनयं हरलो-
चनवह्निर्ददाह । इति सुबोधमेतत्पद्यम् ।
529</p>
<lg>
  <l>लक्ष्मीर्यादोनिधेर्यादो नादो वादोचितं वचः ।</l>
  <l>बिभ्यती धीवरेभ्यो या जडेष्वेव निमज्जति ॥ १६ ॥</l>
</lg>
<p>कस्यापि ।
लक्ष्मीर्यादोनिधेः समुद्रस्य यादो जलजन्तुः अदो वचो वादोचितं
न । यतो धीवरेभ्यो विचक्षणेभ्यो बिभ्यती त्रस्यन्ती जडेष्वेव कदर्ये-
ष्वेव निमज्जाते तिष्ठति । इति सुबोधमेतत्पद्यम् ।
530</p>
<lg>
  <l>पानीयं पातुमिच्छामि त्वत्त: कमललोचने ।</l>
  <l>यदि दास्यसि नेच्छामि नो दास्यसि पिबाम्यहम् ॥ १७ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="96" />
<p>यदि दासी असि नेच्छामि । नो दासी असि पिबाम्यहम् ।
इति सुबोधमेतत्पद्यम् ।
531</p>
<lg>
  <l>नदीज लङ्केशवनारिकेतु-</l>
  <l>र्नगाह्वयो नाम नगारिसूनुः ।</l>
  <l>एषोङ्गनावेषधरः प्रमाथी</l>
  <l>जित्वा वयं नेष्यति चाद्य गा वः ॥ १८ ॥</l>
</lg>
<p>बालभारतस्य ।
नाम भो नदीज भीष्म एष दृश्यमानः अङ्गनावेषधरः स्त्रीरू -
प्रधारी लङ्केशवनारिकेतुर्वानरध्वजः नगाह्वयः अर्जुननामा यतः ।
किंभूतः नगारिसूनुरिन्द्रपुत्रः । उ भोः कौरवाः अयं प्रमाथी हन्ता ।
अद्य वो युष्मान् जित्वा गाश्च नेष्यति । इति सुबोधमेतत्पद्यम् ।
532</p>
<lg>
  <l>चञ्चद्वादशनीलनीरजयुतं सप्ताम्बुजोद्भासितं</l>
  <l>नित्यं षोडशशोणपद्मरुचिरं धात्रानिशं सेवितम् ।</l>
  <l>क्षीराम्भोधिगृहं सहस्रदलसत्पर्यङ्कविश्रान्ति य-</l>
  <l>त्पायाद्वः कमलाङ्गसङ्गिशयनं तन्नीलरोचिर्महः ॥ १९ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
अस्य व्याख्या । तन्नीलरोचिः श्यामप्रभं महस्तेजः कृष्णल-
क्षणं वो युष्मान्पायात् । तत्किंभूतम् । कमलाङ्गसङ्गिशयनं लक्ष्मी
सनाथशय्यम् । पुन: किंभूतम् । सहस्रदलसत्पर्यङ्कविश्रान्ति सहस्रफ-
णादिव्यशयनशेषस्थितम् । पुनः किंभूतम् । क्षीराम्भोधिगृहं दुग्ध-
समुद्रनिवासम् । पुन: किंभूतम् । धात्रा नाभिसरोरुहस्थेन
ब्रह्मणा अनिशं सेवितमध्यासितम् । पुनः किंभूतम् । षोडशशोणपद्म-
रुचिरं षोडशारुणकमलमनोहरम् । षोडशशोणपद्मानां विवृतिः ।
विष्णोश्चत्वारो हस्ता द्वौ चरणौ । तावन्त एव ब्रह्मणः । द्वौ करौ द्वौ
चरणौ लक्ष्म्याः । एवं षोडश शोणपद्मरुचिरम् । पुन: किंभूतम् ।</p>
<pb n="97" />
<p>नित्यमविनाशि । पुनः किंभूतम् सप्ताम्बुजोद्भासितं सप्तकमलशोभि-
तम् । सप्ताम्बुजानां विवृतिः । चत्वारि मुखपद्मानि ब्रह्मणः । एकं
नाभिसरोरुहम् । एकं विष्णोर्मुखम् । एकं लक्ष्म्या मुखम् । एवं
सप्ताम्बुजोद्भासितम् । पुनः किंभूतम् । चञ्चद्द्वादशनीलनीरजयुतं शोभ-
मानद्वादशनीलोत्पलयुक्तम् । द्वादशनीलनीरजानां विवृतिः । अष्टौ
नयनानि ब्रह्मणः । द्वे विष्णो: । द्वे लक्ष्म्याः । एवं द्वादशनीलनीर-
जयुतम् । अत्रापह्नुतिरलंकारः । इति सुबोधमेतत्पद्यम् ।
533</p>
<lg>
  <l>विकसति नयनाभ्यां कैरवं पङ्कजं च</l>
  <l>श्लथयति चरणाब्जं ब्रह्मचर्यं  पयोधेः ।</l>
  <l>उरसि लसति यस्य श्रेयसां संप्रदाय:</l>
  <l>स फणिनमधिशेते पद्मया पद्मनाभः ॥ २० ॥</l>
</lg>
<p>अभिरामपशुपतेः ।
अस्य व्याख्या । स पद्मनाभः पद्मया सह फणिनं शेषमधि-
शेते । यस्य नयनाभ्यां चन्द्रसूर्यलक्षणाभ्यां कैरवं पङ्कजं च विक
सति । यस्य चरणाब्जं गङ्गाजनकं पयोधेर्ब्रह्मचर्यं  श्लथयति दूरी-
करोति । यस्योरसि श्रेयसां संप्रदायः कौस्तुभमणिर्लसति । एवंविधः
पद्मनाभः फणिनमधिशेते । अत्राप्यपह्नुतिरलंकारः । इति सुबोध-
मेतत्पद्यम् ।
-----------
अथ क्रियागुप्त-कर्तृगुप्त-कर्मगुप्त-संधिगुप्त- बिन्दुमती - चित्र-भाषाचित्राख्यानम् ॥ ३४ ॥
534</p>
<lg>
  <l>आगतः पाण्डवाः सर्वेदुर्योधनसमीहया ।</l>
  <l>तस्मै गां च सुवर्णं च रत्नानि विविधानि च ॥ १ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="98" />
<lg>
  <l>यो धनसमीहया आगतस्तस्मै सर्वे पाण्डवा गां च सुवर्णं च विविधानि रत्नानि च अदुः ददति स्म ।</l>
  <l>इति क्रिया गुप्तम् ॥</l>
</lg>
<p>535</p>
<lg>
  <l>गौरीनखरसादृश्यश्रद्धया शशिनं दधौ ।</l>
  <l>इहैव गोप्यते कर्ता वर्षेणापि न लभ्यते ॥ २ ॥</l>
</lg>
<p>कस्यापि ।</p>
<lg>
  <l>इः कामः तं हन्तीति इहा ईश्वरः ।</l>
  <l>इति कर्तृगुप्तम् ॥</l>
</lg>
<p>536</p>
<lg>
  <l>अन्नवस्त्रसुवर्णानि रत्नानि विविधानि च ।</l>
  <l>ब्राह्मणेभ्यो नदीतीरे ददाति व्रज सत्वरम् ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
हे ब्राह्मण । इभ्य: समृद्धः ।
इत्यपि कर्तृगुप्तम् ॥
537</p>
<lg>
  <l>एहि हे रमणि पश्य कौतुकं</l>
  <l>धूलिधूसरतनुं दिगम्बरम् ।</l>
  <l>सापि तद्वदनपङ्कजं पपौ</l>
  <l>भ्रातरुक्तमपि किं न बुध्यसे ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।</p>
<lg>
  <l>कौ पृथिव्यां तुकं बालं पश्य ।</l>
  <l>इति कर्मगुप्तम् ॥</l>
</lg>
<p>538</p>
<lg>
  <l>पिबतस्ते शरावेण वारि कल्हारशीतलम् ।</l>
  <l>केनेमो दुर्विदग्धेन हृदये संनिरोपितौ ॥ ५ ॥</l>
</lg>
<p>शरौ बाणौ । एण हरिण ।
इति संधिगुप्तम् ॥</p>
<pb n="99" />
<p>539</p>
<lg>
  <l>वटवृक्षो महानेष मार्गमावृत्य तिष्ठति ।</l>
  <l>तावत्त्वया न गन्तव्यं यावन्नान्यत्र गच्छति ॥ ६ ॥</l>
</lg>
<p>कस्यापि ।
वटो ब्राह्मण । ऋक्षो भल्लूकः ।
इत्यपि संधिगुप्तम् ॥
540
न मयागोरसाभिज्ञं चेतः कस्मात्प्रकुप्यसि
अस्थानरुदितैरेभिरलमालोहितेक्षणे ॥ ७ ॥
दण्डिनः ।
न निषेधे । मे मम । आगोरसाभिज्ञं अपराधरसज्ञांतृ ।
इत्यपि संधिगुप्तकम् ॥
541</p>
<lg>
  <l>त्रिनयनचूडारत्नं मित्रं सिन्धोः कुमुद्वतीदयितः ।</l>
  <l>अयमुदयति घुसृणारुणरमणीवदनोपमश्चन्द्रः ॥ ८ ॥</l>
</lg>
<p>ठि ठ ठ ठ ठू ठा ठ ठं ठि ठं ठि ठो: ठु ठु ठ ठी ठ ठि ठ
॰                       ॰.    ॰      ॰          ॰
ठ ठ ठु ठ ठ ठि ठु वृ ठा ठु ठ ठ ठ ठी ठ ठ  ठो ठ ठ ठ ठ: ॥
॰ ॰
इति बिन्दुमती ॥
542</p>
<lg>
  <l>विश्वस्य हेतुरमरैर्बहु गीयसे त्वं</l>
  <l>विश्वंभरे शवशिवे त्रिगुणात्ममूर्ते ।</l>
  <l>चिद्व्योमतोपि परमां प्रथमं वदन्ति</l>
  <l>त्वां योगिनस्तुतिपरा: प्रणिधानदृष्ट्या ॥ ९ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
अस्य वसन्ततिलकच्छन्दसो दुर्गास्तुतिरूपस्य पद्यस्य चतुर्णामपि
पादानां षष्ठसप्तमाष्टमाक्षर लोपेनेन्द्रवज्रावृत्तं शिवस्तुतिश्च जायते ।</p>
<pb n="100" />
<p>543</p>
<lg>
  <l>नमामि मामनोनुन्नमानं मुनिममानिनम् ।</l>
  <l>नानाननममानाममोंनामानमुमेनमुम् ॥ १० ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
नमामि नमस्करोमि । कम् । उं विष्णुम् । न केवलमुं विष्णुम् ।
उमेनं पार्वतीनाथम् । हरिहरावित्यर्थः । किंभूतम् । मामनोनुन्नमा -
नम् । मां लक्ष्मीः तस्या मनसो नुन्नः अपहृतो मानो येन सः तम् ।
लक्ष्मीचाञ्चल्यगर्वापहारिणम् । पुनः किंभूतम् । मुनिं योगीश्वरम् ।
पुनः किंभूतम् । अमानिनम् । नास्ति मानो यस्यासौ तम् । पुनः
किंभूतम् । नानाननम् । नानाविधान्याननानि मुखानि यस्यासौ तम् ।
दशावतारत्वान्नैकविधमुखम् । पुनः किंभूतम् । अमानामम् । अमा-
नमाकाशममति क्रमतीत्यमानामः तम् । पुनः किंभूतम् । ॐनामानम् ।
ब्रह्मस्वरूपम् । एवंविधम् उम् उमेनं च हरिं हरं च नमामि ।
द्व्यक्षरः ।
544</p>
<lg>
  <l>तारतारतरैरेतैरुत्तरोत्तरतो रुतैः ।</l>
  <l>रतार्ता तित्तिरी रौति तीरे तीरे तरौ तरौ ॥ ११ ॥</l>
</lg>
<p>द्व्यक्षरः कालिदासस्य ।
545</p>
<lg>
  <l>नागविशेषे शेषे शेषेशेषेपि संहृते जगति ।</l>
  <l>हंस्यसिकालं कालं का लङ्कालङ्घने स्तुतिर्भवतः ॥ १२ ॥</l>
</lg>
<p>देवेश्वरस्य सानुप्रासः ।
546</p>
<lg>
  <l>लीलास्मितेन शुचिना मृदुनोदितेन</l>
  <l>व्यालोकितेन लघुना गुरुणा गतेन ।</l>
  <l>व्याजृम्भितेन जघनेन च  दर्शितेन</l>
  <l>सा हन्ति तेन गलितं मम जीवितेन ॥ १३ ॥</l>
</lg>
<p>दण्डिनः सानुप्रासः ।
547
मधुरया मधुबोधितमाधवी
मधुसमृद्धिसमेधितमेधया ।</p>
<pb n="101" />
<p>मधुकराङ्गनया मुहुरुन्मद-
ध्वनिभृता निभृताक्षरमुज्जगे ॥ १४ ॥
माघकवेः कठिनानुप्राससहितं चतुर्थपादान्तयमकम् ।
548</p>
<lg>
  <l>आम्नायानामाहान्त्या वा-</l>
  <l>ग्गीतीरीतीः प्रीतीर्भीतीः ।</l>
  <l>भोगो रोगो मोदो मोहो</l>
  <l>ध्येये चेच्छेत्क्षेमे देशे ॥ १५ ॥</l>
</lg>
<p>दण्डिनश्चातुर्मातृकं विद्युन्मालाछन्दः ।
अस्य व्याख्या। आम्नायानां वेदानामन्त्या वागुपनिषदाह अक-
थयत् । किमाह । गीती: ईती: प्रीती: भीतीः भोगः रोगः</p>
<lg>
  <l>मोदः मोहः क्षेमे शुभे देशे आत्मपरमात्मानौ ध्येये इच्छेत् ।</l>
  <l>इति चित्राणि ॥</l>
</lg>
<p>549</p>
<lg>
  <l>उत्सरङ्गकलितोरुकटारी-</l>
  <l>भाजिराउतभयंकरभालाः ।</l>
  <l>सन्तु पायकगणा जय तैस्त्वं</l>
  <l>गामगोहरमिलाप इलावी ॥ १६ ॥</l>
</lg>
<p>कस्यापि ।
अस्य व्याख्या । हे राजन् पायकगणा: सेवकलोकाः उत्स-
रङ्गकलितोरुकटारीभाजिराः सन्तु । उत्सरङ्गा अतिमुदिताः कलि-
तोरुकटाः सज्जितपृथुलकपोला ये अरीभाः शत्रुगजास्तेषां योसा-
वाजिः सङ्ग्रामस्तं रान्ति ददतीति उत्सरङ्गकलितोरुकटारीभाजिराः ।
उत पुनः भयंकरभालाः भ्रुकुटीभीषणललाटाः सन्तु । तैः पायक-
गणैः इलापः पृथ्वीरक्षकः इलावी जितकंदर्पस्त्वम् अगोहरम् अगोग्रहं
यथा स्यादेवं गां पृथिवीं जय । परदेशानात्मीयान्कुरु ।</p>
<pb n="102" />
<p>550</p>
<lg>
  <l>नूनं बादल छाइ खेह पसरी निःश्राणशब्दः खरः</l>
  <l>शत्रुं पाडि लुटालि तोडि हनिसौं एवं भणन्त्युद्भटाः ।</l>
  <l>झूठे गर्व भरामघालि सहसा रे कन्त मेरे कहे</l>
  <l>कण्ठे पाग निवेश जाह शरणं श्रीमल्लदेवं प्रभुम् ॥ १७ ॥</l>
</lg>
<lg>
  <l>श्रीकण्ठपण्डितस्य ।</l>
  <l>इति भाषाचित्रम् ॥</l>
</lg>
<p>------------
अथ प्रश्नोत्तराख्यानम् ॥ ३५ ॥
तेष्वन्तरालापाः ।
551</p>
<lg>
  <l>गच्छन्ति क्वाजिवह्नौ हुतनिजतनवः का भिनत्ति स्वकूले</l>
  <l>किं स्याद्योज्यं विकल्पे क्रकचनिभनखैः किं नृसिंहेन भिन्नम् ।</l>
  <l>की दृग्दित्याः प्रसूतिः किमनलशमनं का नृपैः पालनीया</l>
  <l>को वन्द्यः कः प्रमार्ष्टि  त्रिभुवनकलुषं स्वर्धुनीवारिपूरः ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
स्वः । धुनी । वा । रिपूर : । पुनरप्यनुलोमेन । स्वर्धुनी । वारि ।
पूः। अः । पुनरपि सर्वम् । स्वर्धुनीवारिपूरः ।
552</p>
<lg>
  <l>पुंसः संबोधनं किं विदधति करिणां के रुजोग्नेर्भिषक्किं</l>
  <l>का शून्या ते रिपूणां नरवर नरकं कोवधीद्रोचकं किम् ।</l>
  <l>के वा वर्षासु न स्युर्बिसमिव हरिणा किं नखाग्रैर्विभिन्नं</l>
  <l>को वा मार्गे विसर्पन्विघटयति तरून्नर्मदावारिपूरः ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
नः । मदाः । वारि । पूः । अः । पुनरप्यनुलोमेन । नर्म । दावाः ।
रिपूरः । पुनः सर्वम् । नर्मदावारिपूरः ।
553
के भूषयन्ति स्तनमण्डलानि
कीदृश्युमा चन्द्रमसः कुतः श्रीः ।</p>
<pb n="103" />
<p>किमाह सीता दशकण्ठभीता
हारामहादेवरतातमातः ॥ ३ ॥
कस्यापि ।
हारा: । महादेवरता । तमातः रात्रेः । पुनः सर्वम् । हा राम
हा देवर तात मातः ।
554</p>
<lg>
  <l>रवेः कवेः किं समरस्य सारं</l>
  <l>कृषेर्भयं किं किमुशन्ति भृङ्गाः ।</l>
  <l>खलाद्भयं विष्णुपदं च केषां</l>
  <l>भागीरथीतीरसमाश्रितानाम ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
भाः । गीः । रथी । ईतिः । रसम् । आश्रितानाम् । पुनः सर्वम् ।
भागीरथीतीरसमाश्रितानाम् ।
555</p>
<lg>
  <l>कः प्रार्थ्यते मदनविह्वलया युवत्या</l>
  <l>भाति क्व पुण्ड्रकमुपैति कथं बतायुः ।</l>
  <l>क्वानादरो भवति केन च राजतेब्जं</l>
  <l>बाह्यास्थि किं फलमुदाहर नालिकेरम् ॥ ५॥</l>
</lg>
<p>कस्यापि ।
ना । अलिके । अरम् । प्रतिलोमेन । रङ्के । अलिना । पुन: स-
र्वम् । नालिकेरम् ।
556</p>
<lg>
  <l>कम्य मरौ दुरधिगमः कः कमले कथय विरचितावासः ।</l>
  <l>कैस्तुष्यति चामुण्डा रिपवस्ते वद कुतो भ्रष्टाः ॥ ६ ॥</l>
</lg>
<p>आद्युत्तरजातिर्धर्मदासस्य ।
कस्य जलस्य । कः ब्रह्मा । कैः शिरोभिः । कुतः पृथिव्याः ।
557</p>
<lg>
  <l>नलिनीदलगतजललवतरलं किं यौवनं धनं चायुः ।</l>
  <l>के शशधरकरनिकरानुकारिणः सज्जना एव ॥ ७ ॥</l>
</lg>
<p>कम्यापि ।</p>
<pb n="104" />
<p>558</p>
<lg>
  <l>किं क्रूरं स्त्रीहृदयं किं गृहिण : प्रियहिताय दारगुणाः ।</l>
  <l>कः कामः संकल्पः किं दुष्करसाधनं प्रज्ञा ॥ ८ ॥</l>
</lg>
<lg>
  <l>दण्डिनः ।</l>
  <l>अथ प्रश्नोत्तरेषु बाह्यालापाः ॥</l>
</lg>
<p>559</p>
<lg>
  <l>नीचेषु यावनी वाणी का क: स्याच्छुभदो जने ।</l>
  <l>शंभोरावरणं किं कं भजन्ते व्याधयो जनम् ॥ ९ ॥</l>
</lg>
<p>श्रीहरिहरदेवानाम् ।
प्रश्नोत्तरं किम् । अवेलाभोजिनम् । अबे । लाभः । अजिनम् ।
पुनः सर्वम् । अवेलाभोजिनम् ।
560</p>
<lg>
  <l>कस्मिन्स्वपिति कंसारि: का वृत्तिरधमा नृणाम् ।</l>
  <l>किं ब्रूते पितरं बाल: किं दृष्ट्वा रमते मनः ॥ १० ॥</l>
</lg>
<p>कस्यापि ।
प्रश्नोत्तरं किम् । शेषेसेवाबापररूपम् । शेषे । सेवा । बापर ।</p>
<lg>
  <l>रूपम् ।</l>
  <l>अथ प्रश्नोत्तरेषूक्ति प्रत्युक्तयः ॥</l>
</lg>
<p>561</p>
<lg>
  <l>कियन्मात्रं जलं विप्र जानुदघ्नं नराधिप ।</l>
  <l>तथापीयमवस्था ते नहि सर्वे भवादृशाः ॥ ११ ॥</l>
</lg>
<p>प्रथमपादस्तृतीयपादश्च नदीमुत्तितीर्षोर्भोजराजस्योक्ति: । द्वितीय-
पादचतुर्थपादश्च राजदर्शनार्थं छद्मकाष्ठभारवाहपण्डितस्य प्रत्युक्तिः ।
562</p>
<lg>
  <l>भूरिभारभराक्रान्त बाधति स्कन्ध एष ते ।</l>
  <l>न तथा बाधते स्कन्धो यथा बाधति बाधते ॥ १२ ॥</l>
</lg>
<pb n="105" />
<p>पूर्वार्धं मृगयाया गृहमागच्छतः शिबिकारूढस्य भोजराजस्योक्तिः ।
उत्तरार्धं च राजदर्शनार्थं  छद्मशिबिकावाहपण्डितस्य प्रत्युक्तिः ।
563</p>
<lg>
  <l>यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते</l>
  <l>तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।</l>
  <l>अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी-</l>
  <l>कटाक्षोल्कापातत्रणकिणकलङ्काङ्किततनुम् ॥ १३ ॥</l>
</lg>
<p>पूर्वार्धं रात्रौ चन्द्रमसं वर्णयतो भोजराजस्य । उत्तरार्धं च
राजदर्शनार्थं छद्मचोरस्य पण्डितस्य ।
564</p>
<lg>
  <l>इदमनुचितमक्रमश्च पुंसां</l>
  <l>यदिहं जरास्वपि मान्मथा विकाराः ।</l>
  <l>इदमपि न कृतं नितम्बिनीनां</l>
  <l>स्तनपतनावधि जीवितं रतं वा ॥ १४ ॥</l>
</lg>
<p>पूर्वार्धं शारिक्रीडां कुर्वत्याः शीलाभट्टारिकायाः । उत्तरार्धं च
भोजराजस्य ।
565
अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुला:
पञ्चाशन्मधुगन्धलुब्धमधुपाः क्रोधोद्धुराः सिन्धुराः ।
लावण्योपचयप्रपञ्चचतुरं पण्याङ्गनानां शतं
दण्डे पाण्ड्यनृपेण ढौकितमिदं वैतालिकायार्पय ।॥ १५ ॥
निखिलमपि पद्यं विज्ञापयतो भाण्डागारिकस्योक्तिः । वैतालि-
कायार्पयेति च सप्ताक्षराणि वैतालिकगीतदत्तकर्णस्य विक्रमादि-
त्यस्य प्रत्युक्तिः ।
566
अलमतिचपलत्वात्स्वप्नमायोपमत्वा-
त्परिणतिविरसत्वात्संगमेनाङ्गनायाः ।</p>
<pb n="106" />
<p>इति यदि शतकृत्वस्तत्वमालोचयाम-
स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ॥ १६ ॥
पूर्वार्धं शिक्षां ददतो गुरोरुक्तिः । उत्तरार्धं च राजकन्यानुर-
क्तस्य बिल्हणस्य भित्तिलेखप्रत्युक्तिः ।
567</p>
<lg>
  <l>अङ्गणं तदिदमुन्मदद्विप-</l>
  <l>श्रेणिशोणितविहारिणो हरेः ।</l>
  <l>उल्लसत्तरुणकेलिपल्लवां</l>
  <l>शल्लकीं त्यजति किं मतङ्गजः ॥ १७ ॥</l>
</lg>
<p>पूर्वार्धं तच्चित्तपरीक्षिकाया राजकन्याया उक्तिः । उत्तरार्धं तद-
नुरक्तस्य बिल्हणस्य प्रत्युक्तिः।
588</p>
<lg>
  <l>निरर्थकं जन्म गतं नलिन्या</l>
  <l>यया न दृष्टं तुहिनांशुबिम्बम् ।</l>
  <l>उत्पत्तिरिन्दोरपि निष्फलैव</l>
  <l>दृष्टा विनिद्रा नलिनी न येन ॥ १८ ॥</l>
</lg>
<p>पूर्वार्धं राजकन्यानुरक्तस्य बिल्हणस्योक्तिः । उत्तरार्धं तदनुरक्त-
चित्ताया राजकन्यायाः ।
-------------
अथ जातिः ॥ ३६ ॥
569</p>
<lg>
  <l>मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः ।</l>
  <l>कलापिन: प्रनृत्यन्ति काले जीमूतमालिनि ॥ १ ॥</l>
</lg>
<p>570</p>
<lg>
  <l>कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः ।</l>
  <l>पारावत: परावृत्य रिरंसुश्चुम्बति प्रियाम् ॥ २ ॥</l>
</lg>
<p>एतौ दण्डिनः ।</p>
<pb n="107" />
<p>571</p>
<lg>
  <l>स्थित्वा स्थैर्यादुपाम्भः समजठर शिराश्चक्रमूर्तिर्मुहूर्तं</l>
  <l>धूर्तः संव्यक्ततीरः कतिचिदपि पदान्युच्चकैः कुञ्चिताङ्घ्रि:।</l>
  <l>पश्चाद्ग्रीवां प्रसार्य त्वरितगतिरपां मध्यमाविश्य चञ्च्वा</l>
  <l>चञ्चन्तीमूर्ध्वकण्ठ: कथमपि शफरीं स्फारिताक्षो बकोत्ति ॥ ३ ॥</l>
</lg>
<p>गोविन्दराजदेवानाम् ।
572</p>
<lg>
  <l>चञ्चच्चञ्चलचञ्चुचुम्बनचलच्चूडाग्रमुग्रं पत-</l>
  <l>च्चक्राकारकरालकेसरसटास्फारस्फुरत्कंधरम् ।</l>
  <l>वारं वारमुदङ्घ्रिचञ्चलघनभ्रश्यन्नखक्षुण्णयो-</l>
  <l>र्दृष्टा कुक्कुटयोर्द्वयोः स्थितिरिति क्रूरक्रमं युध्यतोः ॥ ४ ॥</l>
</lg>
<p>वररुचेः ।
573</p>
<lg>
  <l>पक्षावुत्क्षिप्य धुन्वन्सकलतनुरुहाभोगविस्तारितात्मा</l>
  <l>प्रागेवोड्डीननिद्रः स्फुरदरुणकरोद्भासितं खं निरीक्ष्य ।</l>
  <l>प्रात: प्रोत्थाय नीडस्थितचपलतनुर्घर्घरध्वानमुच्चै-</l>
  <l>रुद्ग्रीवं पूर्वकायोन्नतविकटसटः कुक्कुटो रारटीति ॥ ५ ॥</l>
</lg>
<p>कस्यापि ।
574</p>
<lg>
  <l>आलोकत्रस्तनारीकृतसभयमहानादधावज्जनौघ-</l>
  <l>व्याप्तद्वारप्रदेशप्रचुरकलकलाकर्णनस्तब्धचक्षुः ।</l>
  <l>काष्ठं दण्डं गृहाणेत्यतिमुखर जनैस्ताडितो लोष्टघातै-</l>
  <l>र्भीत: सर्पो गृहस्यानधिगतविवरः कोणतः कोणमेति ॥ ६ ॥</l>
</lg>
<p>दिविरकिशोरकस्य ।
575</p>
<lg>
  <l>धूलीधूसरतनवो राज्यस्थितिरचनकल्पितैकनृपाः ।</l>
  <l>कृतमुखवाद्यविकाराः क्रीडन्ति तुनिर्भरं डिम्भाः ॥ ७ ॥</l>
</lg>
<p>रुद्रटस्य ।
576
आयातो भवतः पितेति सहसा मातुर्निशम्योदितं
धूलीधूसरितो विहाय शिशुभिः क्रीडारसान्प्रस्तुतान् ।</p>
<pb n="108" />
<p>दूरात्स्मेरमुखः प्रसार्य ललितं बाहुद्वयं बालको
नाधन्यस्य पुरः समेति परया प्रीत्या रटन्घर्घरम् ॥ ८॥
उत्कटस्य ।
577</p>
<lg>
  <l>अकूर्चारम्भोपि प्रति चिबुकदेशं करतलं</l>
  <l>प्रतिज्ञायां कुर्वन्युवतिषु दृशं स्निग्धतरलाम् ।</l>
  <l>कुमारोहंकारात्परिषदि समानानगणय -</l>
  <l>न्भुजौ वक्षः पश्यन्नववयसि कान्तिं वितनुते ॥ ९ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
578</p>
<lg>
  <l>खड्गहस्तोरिमालोक्य हर्षामर्षसमन्वितः ।</l>
  <l>शूर: पुलकितो रक्तनेत्रो हसति जृम्भते ॥ १० ॥</l>
</lg>
<p>लक्ष्मीधरस्य ।
579</p>
<lg>
  <l>गायति हसति च नृत्यति हृदयेन धृतां प्रियां विचिन्तयति ।</l>
  <l>समविषमं न च विन्दति गृहगमनसमुत्सुकः पथिकः ॥ ११ ॥</l>
</lg>
<p>कस्यापि ।
580</p>
<lg>
  <l>मातर्धर्मपरे दयां कुरु मयि श्रान्तेद्य वैदेशिके</l>
  <l>द्वारालिन्दककोणके सुनिभृतं यास्यामि सुप्त्वा निशि ।</l>
  <l>इत्युक्ते सहसा प्रचण्डगृहिणीवाक्येन निर्भर्त्सितः</l>
  <l>स्कन्धन्यस्तपलालमुष्टिविभवः पान्थः पुनः प्रस्थितः ॥ १२ ॥</l>
</lg>
<p>रविदत्तस्य ।
581</p>
<lg>
  <l>भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तवोद्धुष्यते</l>
  <l>स्थाने रूपमनुत्तमं सुकृतिना दानेन कर्णो जितः ।</l>
  <l>इत्यालोक्य भृशं दृशा करुणया शीतातुरेण स्तुत:</l>
  <l>पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः ॥ १३ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="109" />
<p>582</p>
<lg>
  <l>विलासमसृणोल्लसन्मुसललोलदो: कन्दली-</l>
  <l>परस्पर परिस्खलद्वलयनि:स्वनोद्वन्धुराः ।</l>
  <l>लसन्ति कलहुंकृतिप्रसभकम्पितोर: स्थल-</l>
  <l>त्रुटद्गमकसंकुला: कलमकण्डनीगीतयः ॥ १४ ॥</l>
</lg>
<p>विज्जकायाः ।
583</p>
<lg>
  <l>आकर्षन्निव गां त्रमन्निव खुरौ पश्चार्धमुज्झन्निव</l>
  <l>त्वीकुर्वन्निव खं पिबन्निव दिशो वायूंश्च मुष्णन्निव ।</l>
  <l>साङ्गारप्रकरां स्पृशनिव भुवं छायाममृष्यन्निव</l>
  <l>प्रेङ्खच्चामरवीज्यमानवदनः श्रीमान्हयो धावति ॥ १५ ॥</l>
</lg>
<p>सिंहदत्तस्य ।
584</p>
<lg>
  <l>पुरो नुन्नः पश्चाद्व्रजति विधृतश्चोच्छ्रिततनुः</l>
  <l>समुत्पत्योत्तानः पतति पथि लोकान्प्रविशति ।</l>
  <l>हयः किंचिद्रच्छेद्यदि नयति पत्तिं क्वचिदहो</l>
  <l>कशाघाते तिष्ठत्यथ चरणघातेन खनति ॥ १६ ॥</l>
</lg>
<p>सूक्तिसहस्रात् ।
585</p>
<lg>
  <l>आघ्रायाघ्राय गन्धं विकटमुखपुटो दर्शयन्दन्तपंक्तिं</l>
  <l>धावत्युन्मुक्तनादो मुहुरपि च रसाद्भ्रष्टया पृष्ठलग्नः ।</l>
  <l>गर्दभ्या पादघातद्विगुणितसुरतप्रीतिराकृष्टशिश्नो</l>
  <l>वेगादारुह्य मुह्यन्नवतरति खरः खण्डितेच्छश्चिरेण ॥ १७ ॥</l>
</lg>
<p>मयूरस्य ।
586</p>
<lg>
  <l>घ्रात्वा श्रोणीमजाया विततमभिमुखं वक्त्रसंकोचभङ्गं</l>
  <l>स्थित्वा सूर्यं निरीक्ष्य प्रविकसितसटो घट्टयन्क्ष्मां खुरेण ।</l>
  <l>बोबोकारान्प्रकुर्वन्मणिशकलनिभं चालयन्नेत्रयुग्मं</l>
  <l>छागश्चाटूननेकांश्चतुर इव विटो मन्मथान्धः करोति ॥ १८ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="110" />
<p>587</p>
<lg>
  <l>पार्श्वस्फालावलेपाच्चटुलितचरणोल्लेखिताकाशदेशः</l>
  <l>संघट्टाटोपकोपप्रकटितरसनापल्लवालीढसृक्कः ।</l>
  <l>किंचित्साचीकृतास्यः स्फुरदधरपुटः स्फारिताताम्रचक्षु-</l>
  <l>र्घोराघाताभिलाषादपसरति रुष दर्शयेन्नेष मेषः ॥ १९ ॥</l>
</lg>
<p>शकवर्मणः ।
588
ग्रीष्मादित्यकरप्रतप्तसिकतामध्योपविष्टः सुखं
शेते गौरखरो मरुस्थलभुवि प्रोथं विधाय क्षितौ ॥
गुञ्जज्जाहककण्टकाहतमरुद्भूतोत्पतद्धूलिभि-
श्छन्नाङ्गः कृकलासकोपि निभृतं मार्तण्डमुद्वीक्षते ॥ २० ॥
589</p>
<lg>
  <l>मार्गं देहि पदं निधेहि निभृतं शब्दं समाकर्णय</l>
  <l>श्वानं वारय कन्दलात्कलकलः कोयं सखे तावकः ।</l>
  <l>इत्यन्योन्यमनेकधा मृगवधव्यापारपारंगमै-</l>
  <l>र्व्याधैः कोप्यधिको रसः प्रतिपदं जल्पद्भिरुत्पाद्यते ॥ २१ ॥</l>
</lg>
<p>पुष्पाकरस्य ।
590</p>
<lg>
  <l>वामस्कन्धनिषण्ण शार्ङ्गकुटिलप्रान्तार्पिताधोमुख-</l>
  <l>स्यन्दच्छोणितलम्बमानशशकान्वेणीस्खलच्चामरान् ।</l>
  <l>ज्यान्तप्रोतकपोतपोतनिपतद्रक्ताक्ततूणीरका-</l>
  <l>न्सोपश्यत्करिकुम्भभेदजनिताक्रन्दान्पुलिन्दान्पुरः ॥ २२ ॥</l>
</lg>
<p>क्षेमेन्द्रस्य ।
591</p>
<lg>
  <l>गर्जन्हरिः साम्भसि शैलकुञ्जे</l>
  <l>प्रतिध्वनीनात्मकृतान्निशम्य ।</l>
  <l>पदं बबन्ध क्रमितुं सरोषः</l>
  <l>प्रतर्कयन्नन्यमृगेन्द्रनादम् ॥ २३ ॥</l>
</lg>
<p>भद्रस्वामिनः ।</p>
<pb n="111" />
<p>592</p>
<lg>
  <l>लीढव्यस्तविपाण्डुराग्रनखयोराकर्णदीर्णं मुखं</l>
  <l>विन्यस्याग्रिमयोर्युगे चरणयोः सद्यो विभिन्नद्विपः ।</l>
  <l>एतस्मिन्मदगन्धवासितसट: सावज्ञतिर्यग्वल-</l>
  <l>त्सृक्कान्ताहतिधूतलोलमधुपः कुञ्जेषु शेते हरिः ॥ २४ ॥</l>
</lg>
<p>593
अम्भोमुचां सलिलमुद्वमतां निशीथे
तालीवनेषु निभृतस्थितकर्णतालाः ।
आकर्णयन्ति करिणोर्धनिमीलिताक्षा
धारारवान्दशनकोटिनिषण्णहस्ताः ।॥ २५ ॥
कस्यापि ।
594</p>
<lg>
  <l>नयनपथनिरोधक्रोधनिर्धूतभाल-</l>
  <l>भ्रमदविरलरोमस्तोमबद्धान्धकारः ।</l>
  <l>कृमिकवलनलोभोत्खातवल्मीकरन्ध्रो-</l>
  <l>त्थितफणिफणघातैरुच्छलत्येष भल्लः ॥ २६ ॥</l>
</lg>
<p>भदनस्य ।
595</p>
<lg>
  <l>यदर्कांशुक्लान्तः स्फुरदरुणपुष्पोदरधिया</l>
  <l>प्रविष्टो नासान्तः क्वणितमलिडिम्भ: प्रकुरुते ।</l>
  <l>कपिः स्थित्वा स्थित्वा तदिदमनुशृण्वन्विचकितो</l>
  <l>धुनोत्यास्यं रौति प्रचलति चलत्युच्छलति च ॥ २७ ॥</l>
</lg>
<p>कस्यापि ।
596</p>
<lg>
  <l>गर्जित्वा मेघधीरं प्रथममथ शनैर्मण्डलीकृत्य देहं</l>
  <l>श्रृङ्गाभ्यां भीषयन्तावभिमुखमवनिं दारयन्तौ खुराग्रै: ।</l>
  <l>मन्दं मन्दं समेत्य स्थिरनिहतपदं दत्तघातौ सरोषं</l>
  <l>युध्येते चालयन्तौ कुटिलितमसकृत्पुच्छमेतौ महोक्षौ ॥ २८ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="112" />
<p>597</p>
<lg>
  <l>आहत्याहत्य मूर्ध्ना द्रुतमनुपिबत: प्रस्तुतं मातुरूधः</l>
  <l>किंचित्कुब्जैकजानोरनवरतचलच्चारुपुच्छस्य धेनु: ।</l>
  <l>उत्तीर्णं तर्णकस्य प्रियतनयतया दत्तहुंकारमुद्रा</l>
</lg>
<lg>
  <l>विस्रंसिक्षीरधारालवशबलमुखस्याङ्गमातृप्ति लेढि ॥ २९ ॥</l>
  <l>मयूरस्य ।</l>
  <l>----------</l>
  <l>अथ सदाचारः ॥ ३७ ॥</l>
</lg>
<p>598</p>
<lg>
  <l>श्रोत्रियं सुभगामग्निं साग्निं गां धार्मिकं नदीम् ।</l>
  <l>प्रातरुत्थाय यः पश्येदापद्भ्यः स प्रमुच्यते ॥ १ ॥</l>
</lg>
<p>599</p>
<lg>
  <l>पापिष्ठं दुर्भगामन्त्यं नग्नमुत्कृत्तनासिकम् ।</l>
  <l>अप्रियं प्रातरुत्थाय पश्यन्कलिमवाप्नुयात् ॥ २ ॥</l>
</lg>
<p>600</p>
<lg>
  <l>प्रेतधूमे विरेके च वान्तौ च क्षुरकर्मणि ।</l>
  <l>दुःस्वप्ने दुर्जनस्पर्शे स्नानमात्रं विधीयते ॥ ३ ॥</l>
</lg>
<p>601</p>
<lg>
  <l>उदक्यापतितम्लेच्छचाण्डालाद्यभिभाषणे ।</l>
  <l>मार्जारमूषकस्पर्शे विण्मूत्रोत्सर्गदर्शने ॥ ४ ॥</l>
</lg>
<p>602</p>
<lg>
  <l>अशुचीक्षणेश्रुपाते कलहे श्वासकासयोः ।</l>
  <l>रथ्यामसर्पणेभ्यङ्गे- क्षुते नर्मण्युपस्पृशेत् ॥ ५ ॥</l>
</lg>
<p>603</p>
<lg>
  <l>कुर्यादाचमनाभावे भास्करस्यावलोकनम् ।</l>
  <l>स्पृशेद्वा सार्द्रतृणगोगोविड्भूदक्षिणश्रुतीः ॥ ६ ॥</l>
</lg>
<pb n="113" />
<p>604</p>
<lg>
  <l>देवाधिकारिणो म्लेच्छान्विकर्मस्थान्द्विजानपि ।</l>
  <l>विलोक्योपस्पृशेत्स्पृष्ट्वा सवासा जलमाविशेत् ॥ ७ ॥</l>
</lg>
<p>605</p>
<lg>
  <l>अजाश्वं  मुखतो मेध्यं गावो मेध्यास्तु पृष्ठतः ।</l>
  <l>ब्राह्मणाः पादतो मेध्याः स्त्रियो मेध्यास्तु सर्वतः ॥ ८ ॥</l>
</lg>
<p>606</p>
<lg>
  <l>नास्ति यज्ञः स्त्रिया: किंचिन्न व्रतं नोपवासकः ।</l>
  <l>या तु भर्तरि शुश्रूषा तया स्वर्गं जयत्यसौ ॥ ९ ॥</l>
</lg>
<p>607</p>
<lg>
  <l>मृते भर्तरि या नारी ब्रह्मचर्ये व्यवस्थिता ।</l>
  <l>मृता सा लभते स्वर्गं यथा ते ब्रह्मचारिणः ॥ १० ॥</l>
</lg>
<p>608</p>
<lg>
  <l>तिस्रः कोट्योर्धकोटिश्च यानि लोमानि मानुषे ।</l>
  <l>तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति ॥ ११ ॥</l>
</lg>
<p>609</p>
<lg>
  <l>व्यालग्राही यथा व्यालं बिलादुद्धरते बलात् ।</l>
  <l>एवं पतिं समुद्धृत्य नारी स्वर्गेषु मोदते ॥ १२ ॥</l>
</lg>
<p>610</p>
<lg>
  <l>पृथक्वितां समारुह्य न विप्रा गन्तुमर्हति ।</l>
  <l>भर्तृदेहेन या याति तस्या लोकाः सनातनाः ॥ १३ ॥</l>
</lg>
<p>611</p>
<lg>
  <l>शुचि भूमिगतं तोयं शुचिर्नारी पतिव्रता ।</l>
  <l>शुचि: क्षेमकरो राजा संतोषी ब्राह्मणः शुचिः ॥ १४ ॥</l>
</lg>
<p>612</p>
<lg>
  <l>नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने ।</l>
  <l>वत्सोपि स्तनपाने स्याच्छ्वा मृगग्रहणे शुचिः ॥ १५ ॥</l>
</lg>
<pb n="114" />
<p>613</p>
<lg>
  <l>गच्छेदेको न पन्थानं स्वयं नोपानहौ हरेत् ।</l>
  <l>शिरसा न वहेद्भारं न प्रधावेत वर्षति ॥ १६ ॥</l>
</lg>
<p>614</p>
<lg>
  <l>न स्नानमाचरेद्भुक्त्त्वा नातुरो न महानिशि ।</l>
  <l>न वस्त्रैः सह नाजस्रं नाविज्ञाते जलाशये ॥ १७ ॥</l>
</lg>
<p>615</p>
<lg>
  <l>नद्या यद्यत्परिभ्रष्टं यच्चावर्तसमन्वितम् ।</l>
  <l>गतप्रत्यागतं यच्च तत्तोयं परिवर्जयेत् ॥ १८ ॥</l>
</lg>
<p>616</p>
<lg>
  <l>ब्राह्मण्यजागोमहिष्यः सूताः शुष्का नवोदकाः ।</l>
  <l>नद्यः शुद्धा दशाहेन शुद्धापो भूमिगा नवाः ॥ १९ ॥</l>
</lg>
<p>617</p>
<lg>
  <l>प्रवहद्ब्राह्मणं तोयं ताडागं क्षत्रियोदकम् ।</l>
  <l>वापीकूपगतं वैश्यं शूद्रं च गृहभाण्डगम् ॥ २० ॥</l>
</lg>
<p>618</p>
<lg>
  <l>अप्स्वात्मानं न वीक्षेत नावगाहेत्पयोरयम् ।</l>
  <l>संदिग्धनावं नारोहेन्न बाहुभ्यां नदीं तरेत् ॥ २१ ॥</l>
</lg>
<p>619</p>
<lg>
  <l>शीतास्वप्सु निषिच्योष्णा मन्त्रसंभारसंभृताः ।</l>
  <l>स्नानं गृहेपि कुर्वाण: प्रामोति ज्ञानजं फलम् ॥ २२ ॥</l>
</lg>
<p>620</p>
<lg>
  <l>नाग्निं  मुखेनोपधमेन्नाधः कुर्यान्न लङ्घयेत् ।</l>
  <l>नामेध्यं प्रक्षिपेद्वह्नौ  न च पादौ प्रतापयेत् ॥ २३ ॥</l>
</lg>
<p>621</p>
<lg>
  <l>देवालयं चत्वरं च नक्तं सेवेत न द्रुमान् ।</l>
  <l>शून्याटवीं शून्यगृहं श्मशानं च दिनेष्वपि ॥ २४ ॥</l>
</lg>
<pb n="115" />
<p>622</p>
<lg>
  <l>जलं पिबेन्नाञ्जिलना शयानं न प्रबोधयेत् ।</l>
  <l>परान्नं वा चरन्तीं गां धयन्तीं च न वारयेत् ॥ २५ ॥</l>
</lg>
<p>623</p>
<lg>
  <l>शय्यादीपाधमस्तम्भच्छायां दूरेण संत्यजेत् ।</l>
  <l>नर्मालापं न कुर्वीत धीमानसहनैः सह ॥ २६ ॥</l>
</lg>
<p>624</p>
<lg>
  <l>नोर्ध्वजानुश्चिरं तिष्ठेन्नस्यादुत्कटकासनः ।</l>
  <l>न नासिकां विकुष्णीयान्न स्वयं कर्तयेन्नखान् ॥ २७ ॥</l>
</lg>
<p>625</p>
<lg>
  <l>सर्वथा संत्यजेद्वादं न कंचिन्मर्मणि स्पृशेत् ।</l>
  <l>सर्वान्परित्यजेदर्थान्स्वाध्यायस्य विरोधिनः ॥ २८ ॥</l>
</lg>
<p>626</p>
<lg>
  <l>कुशं स्वर्णं सदा धार्यं बहिर्माल्यं न धारयेत् ।</l>
  <l>नागन्धं बिभृयात्पुष्पं नात्मार्थं गुम्फयेत्स्रजम् ॥ २९ ॥</l>
</lg>
<p>627</p>
<lg>
  <l>नित्यमामलके लक्ष्मीर्नित्यं हरितगोमये ।</l>
  <l>नित्यं शंखे  च पद्मे च नित्यं शुक्ले च वाससि ॥ ३० ॥</l>
</lg>
<p>628</p>
<lg>
  <l>बालार्कं प्रेतधूमं च वृद्धां स्त्रीं पल्वलोदकम् ।</l>
  <l>आयुष्कामो न सेवेत रात्रौ च दधिभोजनम् ॥ ३१ ॥</l>
</lg>
<p>629</p>
<lg>
  <l>नोत्सङ्गे भक्षयेन्नाश्नन्मौलिं भूमिं च संस्पृशेत् ।</l>
  <l>क्वचिद्रच्छेन्न चोच्छिष्टः पश्येज्ज्योतींषि नाशुचिः ॥ ३२ ॥</l>
</lg>
<p>630</p>
<lg>
  <l>ब्राह्मणो ब्रह्मतीर्थेन त्रिरद्भिः समुपस्पृशेत् ।</l>
  <l>कुर्वन्नाचमनं विष्णुमोंकारं चापि संस्मरेत् ॥ ३३ ॥</l>
</lg>
<pb n="116" />
<p>631</p>
<lg>
  <l>हस्तद्वयस्थितैर्दर्भैः समाचामति यो द्विजः ।</l>
  <l>सोमपानफलं तस्य भुक्त्वा यज्ञफलं लभेत् ॥ ३४ ॥</l>
</lg>
<p>632</p>
<lg>
  <l>गृहेपि निवसन्विप्रो मुनिमांसविवर्जनात् ।</l>
  <l>मांसादोन्योपि मांसस्य त्यागात्स्वर्गं व्रजेद्ध्रुवम् ॥ ३५ ॥</l>
</lg>
<p>633</p>
<lg>
  <l>आत्मार्थं यः पशुं हन्यात्सोवश्यं नरकं व्रजेत् ।</l>
  <l>देवान्पितॄन्समभ्यर्च्य खादन्मांसं न दोषभाक् ॥ ३६ ॥</l>
</lg>
<p>634</p>
<lg>
  <l>अनभिध्यां परस्वेषु सर्वसत्त्वेषु सौहृदम् ।</l>
  <l>कर्मणां फलमस्तीति मनसा त्रितयं चरेत् ॥ ३७ ॥</l>
</lg>
<p>635</p>
<lg>
  <l>प्राणातिपातं स्तैन्यं च परदाराभिमर्शनम् ।</l>
  <l>त्रीणि पापानि कायेन नित्यशः परिवर्जयेत् ॥ ३८ ॥</l>
</lg>
<p>636</p>
<lg>
  <l>असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा ।</l>
  <l>चत्वारि वाचा राजेन्द्र न जल्पेन्न च चिन्तयेत् ॥ ३९ ॥</l>
</lg>
<p>637</p>
<lg>
  <l>अहिंसा सत्यवचनं सर्वभूतानुकम्पनम् ।</l>
  <l>शमो दानं यथाशक्ति गार्हस्थो धर्म उच्यते ॥ ४० ॥</l>
</lg>
<p>638</p>
<lg>
  <l>देवान्पितॄन्मनुष्यांश्च भृत्यान्गृह्याश्च देवताः ।</l>
  <l>भोजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति ॥ ॥</l>
</lg>
<p>639</p>
<lg>
  <l>वृक्षांश्छित्त्वा  महीं भित्वा हत्त्वा कीटपिपीलकान् ।</l>
  <l>दत्त्वान्नं कार्षुकोर्थिभ्यः सर्वपापैः प्रमुच्यते ॥ ४२ ॥</l>
</lg>
<pb n="117" />
<p>640</p>
<lg>
  <l>राज्ञां दत्वा तु षड्भागं देवतानां च विंशतिः ।</l>
  <l>त्रिंशद्दत्वा च विप्राणां कार्पुको नावसीदति ॥ ४३ ॥</l>
</lg>
<p>641</p>
<lg>
  <l>चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् ।</l>
  <l>उत्थाय चासनं दद्यादेष धर्मः सनातनः ॥ ४४ ॥</l>
</lg>
<p>642</p>
<lg>
  <l>तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।</l>
  <l>सतामेतानि हर्म्येषु नोच्छिद्यन्ते कदाचन ॥ ४५ ॥</l>
</lg>
<p>643</p>
<lg>
  <l>ग्रासादर्धमपि ग्रासमर्थिभ्यः किं न यच्छसि ।</l>
  <l>इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥ ४६ ॥</l>
</lg>
<p>644</p>
<lg>
  <l>उष्णकाले जलं दद्याच्छीतकाले हुताशनम् ।</l>
  <l>प्रावृट्काले गृहं देयं सर्वकालेषु भोजनम् ॥ ४७ ॥</l>
</lg>
<p>645</p>
<lg>
  <l>अवृत्तिव्याधिशोकार्ताननुवर्तेत शक्तितः ।</l>
  <l>आत्मवत्सततं पश्येदपि कीटपिपीलकम् ॥ ४८ ॥</l>
</lg>
<p>646</p>
<lg>
  <l>गां पङ्काद्ब्राह्मणीं  दास्याद्वृत्तिं लोपाद्विजं वधात् ।</l>
  <l>मोचयन्मुच्यते जन्तुः पापादा मरणान्तिकात् ॥ ४९ ॥</l>
</lg>
<p>647</p>
<lg>
  <l>न कश्चिदपि जानाति किं कस्य श्वो भविष्यति ।</l>
  <l>अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥ ५० ॥</l>
</lg>
<p>648</p>
<lg>
  <l>अनेन मर्त्यदेहेन यल्लोकद्वयशर्मदम् ।</l>
  <l>विचिन्त्य तदनुष्ठेयं हेयं कर्म ततोन्यथा ॥ ५१ ॥</l>
</lg>
<pb n="118" />
<p>649</p>
<lg>
  <l>उपकारः परो धर्मः परोर्थः कर्मनैपुणम् ।</l>
  <l>पात्रे दानं परः काम: परो मोक्षो वितृष्णता ॥ ५२ ॥</l>
</lg>
<p>650</p>
<lg>
  <l>अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य तु संचयम् ।</l>
  <l>अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मभिः ॥ ५३ ॥</l>
</lg>
<p>651</p>
<lg>
  <l>दीपोपशमनं पुंसां कूष्माण्डच्छेदनं स्त्रियाः ।</l>
  <l>अचिरेणैव कालेन कुलच्छेदकरं मतम् ॥ ५४ ॥</l>
</lg>
<p>652</p>
<lg>
  <l>अलाबुं वर्तुलाकारं वार्ताकं कुन्दसंनिभम् ।</l>
  <l>प्राणान्तेपि न चाश्रीयान्मसूरान्नं सवल्कलम् ॥ ५५ ॥</l>
</lg>
<p>653</p>
<lg>
  <l>परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् ।</l>
  <l>नहीदृशमनायुष्यं त्रिषु लोकेषु विद्यते ॥ ५६ ॥</l>
</lg>
<p>654
मात्रा स्वस्रा दुहित्रा च न विविक्तासनो भवेत् ।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति । ५७ ॥
655</p>
<lg>
  <l>प्रकीर्णकेशामनवेक्ष्यकारिणीं</l>
  <l>सदा च भर्तुः प्रतिकूलभाषिणीम् ।</l>
  <l>परस्य वेश्माभिरतामपत्रपा-</l>
  <l>मेवंविधां योषितमाशु वर्जयेत् ॥ ५८ ॥</l>
</lg>
<p>656</p>
<lg>
  <l>हताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ।</l>
  <l>परिभूतामधः शय्यां वासयेद्व्यभिचारिणीम् ॥ ५९ ॥</l>
</lg>
<p>657
कुचेलिनं दन्तमलावधारिणं
बह्वाशिनं निष्ठुरवाक्यभाषिणम् ।</p>
<pb n="119" />
<p>सूर्योदये चास्तमने च शायिनं
विमुञ्चति श्रीरपि चक्रपाणिनम् ॥६० ॥
658</p>
<lg>
  <l>एकच्छागं द्विरावेयं त्रिगवं पञ्चमाहिषम् ।</l>
  <l>षडश्वं सप्तमातङ्गं शक्रस्यापि श्रियं हरेत् ॥ ६१ ॥</l>
</lg>
<p>659</p>
<lg>
  <l>शिरः सुधौतं चरणौ सुनिर्मलौ</l>
  <l>वराङ्गनासेवनमल्पभोजनम् ।</l>
  <l>अनग्रशायित्वमपर्वमैथुनं</l>
  <l>चिरप्रणष्टां श्रियमानयन्ति षट् ॥ ६२ ॥</l>
</lg>
<p>660</p>
<lg>
  <l>षष्ठीषु तैलं पलमष्टमीपु</l>
  <l>क्षौरक्रियां चैव चतुर्दशीषु ।</l>
  <l>स्त्रीसेवनं नष्टकलामु पुंसा-</l>
  <l>मायुःक्षयार्थं  मुनयो वदन्ति ॥ ६३ ॥</l>
</lg>
<p>661</p>
<lg>
  <l>स्नातुर्जनस्य दशमी तनयांस्त्रयोद-</l>
  <l>श्यर्थं निहन्त्युभयमेतदपि द्वितीया ।</l>
  <l>सप्तम्यनिन्दुनवमीष्वपि संपदिच्छुः</l>
  <l>स्नायात्कदाचिदपि नामलकैर्मनुष्यः ॥ ६४ ॥</l>
</lg>
<p>662</p>
<lg>
  <l>रोहिणीसहितमुत्तरात्रयं</l>
  <l>कीर्तयन्ति मुनयो ध्रुवाह्वयम् ।</l>
  <l>बीजहर्म्यनगराभिषेचना-</l>
  <l>रामशान्तिविधिषु प्रशस्यते ॥ ६५ ॥</l>
</lg>
<p>663
रोहिणीषु करपञ्चकेश्विभे
त्र्युत्तरेपि च पुनर्वसुद्वये ।</p>
<pb n="120" />
<p>रेवतीषु वसुदैवते च भे
नव्यवस्त्र परिधानमिष्यते ॥ ६६ ॥
664</p>
<lg>
  <l>रविर्नृपविलोकने सुरगुरुर्विवाहोत्सवे</l>
  <l>रणे धरणिनन्दनो भृगुसुतः प्रयाणे बली ।</l>
  <l>शनिस्तु खलु दीक्षणे सकलशास्त्रबोधे बुधः</l>
</lg>
<lg>
  <l>शशी निखिलकर्मसु ध्रुवमुदाहृतः सूरिभिः ॥६७॥</l>
  <l>एतानि धर्मशास्त्रपुराणज्योतिः शास्त्रेभ्यः ।</l>
  <l>------------</l>
  <l>अथ धर्मनिवृतिः ॥ ३८ ॥</l>
</lg>
<p>665</p>
<lg>
  <l>ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।</l>
  <l>धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥ १ ॥</l>
</lg>
<p>666</p>
<lg>
  <l>यस्य धर्मविहीनस्य दिनान्यायान्ति यान्ति च ।</l>
  <l>स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ २ ॥</l>
</lg>
<p>667</p>
<lg>
  <l>परदारपरद्रव्यपरद्रोहपरान्गमुखः ।</l>
  <l>गङ्गाप्याह कदागत्य मामयं पावयिष्यति ॥ ३ ॥</l>
</lg>
<p>668</p>
<lg>
  <l>उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् ।</l>
  <l>आयुष: खण्डमादाय रविरस्तं गमिष्यति ॥</l>
</lg>
<p>केषामप्येते ।
669</p>
<lg>
  <l>अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत् ।</l>
  <l>गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ ५ ॥</l>
</lg>
<pb n="121" />
<p>670</p>
<lg>
  <l>श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।</l>
  <l>आत्मन: प्रतिकूलानि परेषां न समाचरेत् ॥ ६ ॥</l>
</lg>
<p>एतौ व्यासस्य ।
671
परलोकहितं तात प्रातरुत्थाय चिन्तय ।
इह ते कर्मणामेव विपाकश्चिन्तयिष्यति । ७ ॥
मदालसायाः ।
672</p>
<lg>
  <l>श्रेयो धनार्थिनां धर्मः कामिनां सर्वकामदः ।</l>
  <l>धर्मोथवापवर्गस्य पारंपर्येण साधकः ॥ ८ ॥</l>
</lg>
<p>673</p>
<lg>
  <l>इज्याध्ययनदानानि तपः सत्यं क्षमा दया ।</l>
  <l>अलोभ इति मार्गोयं धर्मस्याष्टविधः स्मृतः ॥९॥</l>
</lg>
<p>674</p>
<lg>
  <l>आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम् ।</l>
  <l>प्रीतिः प्रसादो माधुर्यं मार्दवं च यमा दश ॥१०॥</l>
</lg>
<p>675</p>
<lg>
  <l>भावशुद्धिर्मनुष्यैस्तु कर्तव्या सर्वकर्मसु ।</l>
  <l>अन्यथा चुम्ब्यते कान्ता भावेन दुहितान्यथा ॥११॥</l>
</lg>
<p>676</p>
<lg>
  <l>कृत्वापि पातकं कर्म यो दद्यादन्नमर्थिने ।</l>
  <l>ब्राह्मणाय विशेषेण न स पापेन लिप्यते ॥ १२ ॥</l>
</lg>
<p>677</p>
<lg>
  <l>आ श्मशानान्निवर्तन्ते ज्ञातयः सह बान्धवैः ।</l>
  <l>त्वयैकेनैव गन्तव्यं तत्कर्म सुकृतं कुरु ॥१३॥</l>
</lg>
<p>केषामप्येते ।
678
धर्मे मतिर्भवतु वः सततोत्थितानां
स ह्येक एव परलोकगतस्य बन्धुः ।</p>
<pb n="122" />
<p>अर्थाः स्त्रियश्च निपुणैरिह सेव्यमाना
नैवात्मभावमुपयान्ति न च स्थिरत्वम् ॥ १४ ॥
कस्यापि ।
679</p>
<lg>
  <l>यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो</l>
  <l>यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।</l>
  <l>आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महा-</l>
  <l>न्संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ १५॥</l>
</lg>
<p>भर्तृहरेः ।
680</p>
<lg>
  <l>धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्धनं</l>
  <l>धर्मेणैव भवन्ति निर्मलयशोविद्यामहीसंपदः ।</l>
  <l>कान्तारेषु महाभयेषु सततं धर्मः परित्रायते</l>
  <l>धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः ॥१६॥</l>
</lg>
<p>कस्यापि ।
681</p>
<lg>
  <l>यन्नागा मदभिन्नगण्डकरटास्तिष्ठन्ति निद्रालवो</l>
  <l>द्वारे हेमविभूषिताश्च तुरगा ह्रेषन्ति यद्दर्पिता: ।</l>
  <l>वीणावेणुमृदङ्गशङ्खपणवैः सुप्तश्च यद्बोध्यते</l>
  <l>तत्सर्वं सुरलोकराजसदृशं धर्मस्य विस्फूर्जितम् ॥ १७ ॥</l>
</lg>
<p>कस्यापि ।
682</p>
<lg>
  <l>गङ्गोद्भेदे कुरुक्षेत्रे विश्रान्तौ मणिकर्णिके ।</l>
  <l>वेण्यां गयायामोंकारे स्नात्वा दत्त्वा सुखी भवेत् ॥ १८ ॥</l>
</lg>
<p>683</p>
<lg>
  <l>शरणागतरक्षार्थं स्त्रीगोद्विजहिताय च ।</l>
  <l>स्वाम्यर्थे यस्त्यजेत्प्राणांस्तस्य लोकाः सनातनाः ॥ १९ ॥</l>
</lg>
<p>684</p>
<lg>
  <l>यो न कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ।</l>
  <l>यथोक्तकारी सौम्यश्च स सुखं मृत्युमृच्छति ॥ २० ॥</l>
</lg>
<pb n="123" />
<p>685</p>
<lg>
  <l>यज्ञदानतपस्तीर्थ सेवाभिर्विजितेन्द्रियः ।</l>
  <l>भौमेषु चान्तरिक्षेषु स्वर्गेषु मनुजो व्रजेत् ॥ २१ ॥</l>
</lg>
<p>686</p>
<lg>
  <l>वसन्ति सुरलोकेषु निजपुण्यचयैर्नराः ।</l>
  <l>विमानैर्विविधाकारैः सर्वकामसमृद्धिभिः ॥ २२ ॥</l>
</lg>
<p>687</p>
<lg>
  <l>तेभ्यश्च प्रच्युता राज्ञामन्येषां च महात्मनाम् ।</l>
  <l>जायन्ते सुखिनां गेहे सद्वृत्तपरिपालकाः ॥ २३ ॥</l>
</lg>
<p>688</p>
<lg>
  <l>गायन्ति देवाः किल गीतकानि</l>
  <l>स्वर्गापवर्गस्य च हेतुभूताः ।</l>
  <l>धन्यास्तु ते भारतभूमिभागे</l>
  <l>भवन्ति भूयः कृतिनः सुरत्वात् ॥ २४ ॥</l>
</lg>
<p>689</p>
<lg>
  <l>पुनः कृत्वाद्भुतं कर्म पूर्वाभ्यासेन मानवाः ।</l>
  <l>सुरलोकं प्रयान्त्येव भाग्यवन्तो जितेन्द्रियाः ॥ २५ ॥</l>
</lg>
<p>690</p>
<lg>
  <l>परात्परतरं यान्ति नारायणपरायणाः ।</l>
  <l>न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम् ॥ २६ ॥</l>
</lg>
<p>691</p>
<lg>
  <l>वासुदेवे मनो यस्य जपहोमार्चनादिषु ।</l>
  <l>तस्यान्तरायो विज्ञेयो देवेन्द्रत्वादिकं फलम् ॥ २७ ॥</l>
</lg>
<p>692
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥ २८ ।
693</p>
<lg>
  <l>षडक्षरेण मन्त्रेण पुष्पमेकमपि स्वयम् ।</l>
  <l>लिङ्गस्य मूर्ध्नि यो दद्यात्स भूयोऽपि न जायते ॥ २९ ॥</l>
</lg>
<pb n="124" />
<p>694</p>
<lg>
  <l>उपोष्यैकादशीः सर्वास्तथा कृष्णाश्चतुर्दशीः ।</l>
  <l>ध्यात्वा हरिहरं देवं प्राप्नोति परमं पदम् ॥ ३० ॥</l>
</lg>
<p>695</p>
<lg>
  <l>मोहादवाचीमबुधाः प्रतीचीं</l>
  <l>प्राचीमुदीचीमपि पर्यटन्ति ।</l>
  <l>सच्चिन्मये मानस एव तीर्थे</l>
  <l>स्वच्छे सुखं स्नातुमपारयन्तः ॥ ३१ ॥</l>
</lg>
<p>--------------
अथ पातकविवृतिः ॥ ३९ ॥
696</p>
<lg>
  <l>कथं ते त्यक्तसद्वृत्ताः सुखं रात्रिषु शेरते ।</l>
  <l>मरणान्तरिता येषां नरकेषूपपत्तयः ॥ १ ॥</l>
</lg>
<p>697</p>
<lg>
  <l>कतिपयदिनपरमायुषि मदकारिणि यौवने दुरात्मानः ।</l>
  <l>विदधति तथापराधं जन्मैव यथा वृथा भवति ॥ २ ॥</l>
</lg>
<p>श्रीधनददेवानाम् ।
698</p>
<lg>
  <l>यद्वैरूप्यमनाथता विकलता नीचे कुले जन्मता</l>
  <l>दारिद्र्यं स्वजनाच्च यत्परिभवो  मौर्ख्यं परप्रेष्यता ।</l>
  <l>तृष्णालौल्यमनिर्वृतिः कुशयनं कुस्त्री कुभोज्यं रुजः</l>
  <l>सर्वं पापमहीरुहस्य महतो व्यक्तं फलं दृश्यते ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
699</p>
<lg>
  <l>व्याधिर्वित्तविनाशः प्रियविरहो दुर्भगत्वमुद्वेगः ।</l>
  <l>सर्वत्राशाभङ्गः स्फुटं भवत्यकृतपुण्यस्य ॥ ४॥</l>
</lg>
<p>700</p>
<lg>
  <l>त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः ।</l>
  <l>अत्युग्रपुण्यपापानामिहैव फलमश्नुते ॥ ५ ॥</l>
</lg>
<pb n="125" />
<p>701</p>
<lg>
  <l>मित्त्रद्रुहः कृतघ्नस्य स्वीघ्नस्य पिशुनस्य च ।</l>
  <l>चतुर्णामपि चैतेषां निष्कृतिं नैव श्रुश्रुमः ॥ ६ ॥</l>
</lg>
<p>702</p>
<lg>
  <l>ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।</l>
  <l>महान्ति पातकान्याहुस्तत्संसर्गी च पञ्चमः ॥ ७ ॥</l>
</lg>
<p>703</p>
<lg>
  <l>अकृतज्ञमकार्यज्ञं दीर्घरोषमनार्जवम् ।</l>
  <l>चतुरो विद्धि चाण्डालाञ्जन्मना सह पञ्चमम् ॥ ८ ॥</l>
</lg>
<p>704</p>
<lg>
  <l>ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा ।</l>
  <l>निष्कृतिर्विहिता लोके कृतघ्ने नास्ति निष्कृतिः ॥ ९ ॥</l>
</lg>
<p>धर्मशास्त्रेभ्य एते ।
705</p>
<lg>
  <l>ऋतुस्नातां तु यो भार्या नैव गच्छति मूढधीः ।</l>
  <l>घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥ १० ॥</l>
</lg>
<p>706</p>
<lg>
  <l>अदुष्टापतितां भार्यां मूढो यस्तु परित्यजेत् ।</l>
  <l>सप्तजन्मनि स स्त्रीत्वं लभते नात्र संशयः ॥ ११ ॥</l>
</lg>
<p>707</p>
<lg>
  <l>कूटसाक्षी मृषावादी यश्चासदनुशास्ति वै ।</l>
  <l>ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः ॥ १२ ॥</l>
</lg>
<p>708</p>
<lg>
  <l>रौरवं कूटसाक्षी तु याति यश्चानृतो नरः ।</l>
  <l>कुम्भीपाकं प्रयात्येव मानवो गुरुतल्पगः ॥१३ ॥</l>
</lg>
<p>मार्कण्डेयात् ।
709</p>
<lg>
  <l>स्त्रीबालस्वामिमित्रघ्ना गोघ्ना विश्वासघातिनः ।</l>
  <l>सुरापो ब्रह्महा चौरो यान्त्येते सर्वनारकान् ॥ १४ ॥</l>
</lg>
<pb n="126" />
<p>710</p>
<lg>
  <l>असत्प्रतिग्रहीता च नरके यात्यधोमुखे ।</l>
  <l>एको मिष्टान्नभुग्यः स याति पूयवहं नरः ॥ १५ ॥</l>
</lg>
<p>711</p>
<lg>
  <l>आगारदाही मित्रघ्नः शाकुनिर्ग्रामयाजकः ।</l>
  <l>रुधिरान्धे पतन्त्येते सोमविक्रयिणश्च ये ॥१६॥</l>
</lg>
<p>712</p>
<lg>
  <l>मधुहा ग्रामहन्ता च याति वैतरणीं नरः ।</l>
  <l>असिपत्रवनं याति दर्पाद्वननिकृन्तनः ॥१७॥</l>
</lg>
<p>713
मृगच्छागादिहन्ता च वह्निज्वाले निपात्यते ।
व्रतलोप्ताश्रमभ्रष्टो याति संदंशनारके ।॥१८॥
714</p>
<lg>
  <l>कृते पापेनुतापो वै यस्य पुंसः प्रजायते ।</l>
  <l>प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ १९॥</l>
</lg>
<p>एते विष्णुपुराणात् ।
715</p>
<lg>
  <l>नरकेभ्यः समुत्तीर्ण: पापी तिर्यक्त्वमश्नुते ।</l>
  <l>तरुकीटपतङ्गेषु श्वापदैकशफादिषु ॥ २० ॥</l>
</lg>
<p>716</p>
<lg>
  <l>मानुष्यं प्राप्य कुब्जो वा कुत्सितो वामनोपि वा ।</l>
  <l>म्लेच्छचण्डालशूद्रेषु वैश्यक्षत्रेषु जायते ॥२१॥</l>
</lg>
<p>717</p>
<lg>
  <l>शारीरैः कर्मदोषैश्च याति स्थावरतां नरः ।</l>
  <l>वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥२२॥</l>
</lg>
<p>718</p>
<lg>
  <l>पतितान्प्रतिगृह्याथ खरयोनिं व्रजेन्नरः ।</l>
  <l>शिष्यो गुरोः स्त्रियं गत्वा श्वयोनौ संप्रपद्यते ॥२३॥</l>
</lg>
<pb n="127" />
<p>719</p>
<lg>
  <l>गर्दभो जायते जन्तुः पित्रोश्चाप्यवमानकः ।</l>
  <l>मातापितरमाक्रुश्य शारिका संप्रजायते ॥ २४ ॥</l>
</lg>
<p>720</p>
<lg>
  <l>भर्तृपिण्डं समश्नन्यस्तद्दुष्टानि निषेवते ।</l>
  <l>सोपि मोहसमापन्नो जायते वानरो मृतः ॥२५॥</l>
</lg>
<p>721</p>
<lg>
  <l>न्यासापहर्ता नरकाद्विमुक्तो जायते कृमि: ।</l>
  <l>असूयकश्च नरकान्मुक्तो भवति लावकः ॥२६॥</l>
</lg>
<p>722</p>
<lg>
  <l>विश्वासहन्ता च नरो मीनयोनौ प्रपद्यते ।</l>
  <l>अन्नापहारी च नरो मूषकः संप्रजायते ॥ २७ ॥</l>
</lg>
<p>723
परदाराभिमर्षी च वृको घोरोभिजायते ।</p>
<lg>
  <l>गुरोः सख्युस्तथा राज्ञो भर्तुर्भार्यामुपेयिवान् ।</l>
  <l>श्वसृगालबकोलूकव्यालसूकरतां लभेत् ॥ २८ ॥</l>
</lg>
<p>724</p>
<lg>
  <l>देवतातिथिविप्राणामदत्त्वा योन्नमश्नुते ।</l>
  <l>प्रमुक्तो नरकात्सोपि वायसः संप्रजायते ॥ २९ ॥</l>
</lg>
<p>725</p>
<lg>
  <l>ज्येष्ठ पितृसमं वापि भ्रातरं योवमन्यते ।</l>
  <l>नरकात्सोपि विभ्रष्टः क्रौञ्चयोनौ प्रपद्यते ॥ ३० ॥</l>
</lg>
<p>726</p>
<lg>
  <l>शुद्रश्च ब्राह्मणीं गत्वा कृमियोनौ प्रपद्यते ।</l>
  <l>तस्यामपत्यमुत्पाद्य काष्ठान्तः कीटको भवेत् ॥ ३१ ॥</l>
</lg>
<p>727</p>
<lg>
  <l>अशस्त्रं पुरुषं हत्वा नरः संजायते खरः ।</l>
  <l>कृमि: स्त्रीवधकर्त्ता च बालहन्ता च जायते ॥ ३२ ॥</l>
</lg>
<pb n="128" />
<p>728</p>
<lg>
  <l>हृते कांस्ये तु हारीतः कपोतो रौप्यभाजने ।</l>
  <l>हत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रपद्यते ॥ ३३ ॥</l>
</lg>
<p>729</p>
<lg>
  <l>मयूरो वर्णकान्हृत्वा हृते चैवांशुके शुकः ।</l>
  <l>छुच्छुन्दरिः शुभान्गन्धान्वङ्गं हृत्वा शशो भवेत् ॥ ३४ ॥</l>
</lg>
<p>730</p>
<lg>
  <l>भूनारीकाञ्चनगवां हर्ता गत्वा तु नारकान् ।</l>
  <l>तृणगुल्मलतावल्लीत्वक्सारतरुतां लभेत् ॥ ३५ ॥</l>
</lg>
<p>एते मार्कण्डेयपुराणात् ।
731</p>
<lg>
  <l>सर्वपातकसंघातकक्षदावानलं परम् ।</l>
  <l>गोविन्दनामकथनं गङ्गास्नानं च मे मतम् ॥ ३६ ॥</l>
</lg>
<p>732</p>
<lg>
  <l>मुकुन्द दामोदर वासुदेव</l>
  <l>श्रीकान्त चक्रायुध कृष्ण विष्णो ।</l>
  <l>गोविन्द नारायण पद्मनाभ</l>
  <l>त्रिविक्रमानन्त हरे नमस्ते ॥ ३७ ॥</l>
</lg>
<p>एतौ शार्ङ्गधरस्य ।
733</p>
<lg>
  <l>तटस्थमुद्धृतं वापि शीतमुष्णमथापि वा ।</l>
  <l>गाङ्गमम्बु पुनात्येव पापादामरणान्तिकात् ॥ ३८ ॥</l>
</lg>
<p>कस्यापि ।
734</p>
<lg>
  <l>त्यज दुर्जनसंसर्गं भज साधुसमागमम् ।</l>
  <l>कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यताम् ॥ ३९ ॥</l>
</lg>
<p>कस्यापि ।
735
स्वपुरुषमभिवीक्ष्य पाशहस्तं
वदति यमः किल तस्य कर्णमूले ।</p>
<pb n="129" />
<p>परिहर मधुसूदनप्रपन्ना-
न्प्रभुरहमन्यनृणां न वैष्णवानाम् ॥ ४० ॥
विष्णुपुराणात् ।
736</p>
<lg>
  <l>रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।</l>
</lg>
<lg>
  <l>स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः ॥ ४१ ॥</l>
  <l>पद्मपुराणात् ।</l>
  <l>---------</l>
  <l>अथ खेचरभूचरेषु पूर्वं सूर्यान्योक्तयः ॥ ४० ॥</l>
</lg>
<p>737</p>
<lg>
  <l>रवेरेवोदयः श्लाघ्यः कोन्येषामुदयग्रहः ।</l>
  <l>न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ १ ॥</l>
</lg>
<p>738</p>
<lg>
  <l>खद्योतो द्योतते तावद्यावन्नोदयते शशी ।</l>
  <l>उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः ॥ २ ॥</l>
</lg>
<p>739</p>
<lg>
  <l>तस्यैवाभ्युदयो भूयाद्भानोर्यस्योदये सति ।</l>
  <l>विकासभाजो जायन्ते गुणिनः कमलाकराः ॥ ३ ॥</l>
</lg>
<p>केषामप्येते ।
740</p>
<lg>
  <l>देवो हरिर्वहतु वक्षसि कौस्तुभं त-</l>
  <l>मन्यैव काचन पुनर्द्युमणे: प्रतिष्ठा ।</l>
  <l>यत्पादसंगतितरंगितसौरभाणि</l>
  <l>धत्ते स एव शिरसा सरसीरुहाणि ॥ ४ ॥</l>
</lg>
<p>महादेवस्य ।
741</p>
<lg>
  <l>उद्यन्त्वमूनि सुबहूनि महामहांसि</l>
  <l>चन्द्रोप्यलं भुवनमण्डलमण्डनाय ।</l>
  <l>सूर्यादृते न तदुदेति न चास्तमेति</l>
  <l>येनोदितेन दिनमस्तमितेन रात्रिः ॥ ५॥</l>
</lg>
<pb n="130" />
<p>742</p>
<lg>
  <l>करान्प्रसार्य रविणा दक्षिणाशावलम्बिना ।</l>
  <l>न केवलमनेनात्मा दिवसोपि लघूकृतः ॥ ६ ॥</l>
</lg>
<p>743</p>
<lg>
  <l>निमीलनाय पद्मानामुदयायाल्पतेजसाम् ।</l>
  <l>तमसामवकाशाय व्रजत्यस्तमहो रविः ॥ ७ ॥</l>
</lg>
<p>744</p>
<lg>
  <l>येनोन्मथ्य तमांसि मांसलघनस्पर्धीनि सर्वं जग-</l>
  <l>च्चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा ।</l>
  <l>तस्मिन्नस्तमिते विवस्वति कियान्क्रूरो जनो दुर्जनो</l>
  <l>यद्बध्नाति धृतिं शशाङ्कशकलालोके प्रदीपेथवा ॥ ८ ॥</l>
</lg>
<p>केषामप्येते ।
745</p>
<lg>
  <l>पातः पूष्णो भवति महते नोपतापाय यस्मा -</l>
  <l>त्कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये ।</l>
  <l>एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभि-</l>
  <l>स्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोवकाशः ॥ ९ ॥</l>
</lg>
<p>746</p>
<lg>
  <l>गते तस्मिन्भानौ त्रिभुवनसमुन्मेषविरह-</l>
  <l>व्यथां चन्द्रो नेष्यत्यनुचितमितो नास्ति किमपि ।</l>
  <l>इदं चेतस्तापं जनयतितरामत्र यदमी</l>
  <l>प्रदीपा: संजातास्तिमिरहतिबद्धोद्धुरशिखाः ॥ १० ॥</l>
</lg>
<p>एतौ भल्लटस्य ।
747</p>
<lg>
  <l>यत्पादाः शिरसा न केन विधृताः पृथ्वीभृतां मध्यत-</l>
  <l>स्तस्मिन्भास्वति राहुणा कवलिते लोकत्रयींचक्षुषि ।</l>
  <l>खद्योतैः स्फुरितं तमोभिरुदितं ताराभिरुज्जृम्भितं</l>
  <l>घूकेरुत्थितमाः किमत्र करवै किं केन नो चेष्टितम् ॥११॥</l>
</lg>
<p>परिमलस्य ।</p>
<pb n="131" />
<p>अथ चन्द्रान्योक्तयः ॥ ४१ ॥
748</p>
<lg>
  <l>आलोकवन्तः सन्त्येव भूयांसो भास्करादयः ।</l>
  <l>कलावानेव तु ग्रावद्रावकर्मणि कर्मठः ॥ १ ॥</l>
</lg>
<p>प्रह्लादनस्य ।
749</p>
<lg>
  <l>दैवाद्यद्यपि तुल्योभृद्भूतेशस्य परिग्रहः ।</l>
  <l>तथापि किं कपालानि तुलां यान्ति कलानिधेः ॥ २ ॥</l>
</lg>
<p>भवभूतेः ।
750</p>
<lg>
  <l>अहो नक्षत्रराजस्य साभिमानं विचेष्टितम् ।</l>
  <l>परिक्षीणस्य वक्रत्वं संपूर्णस्य सुवृत्तता ॥ ३ ॥</l>
</lg>
<p>751</p>
<lg>
  <l>हर मुकुटे सुरतटिनीनिकटस्थितिलोभतो द्विजेन्द्रेण ।</l>
  <l>अपि गरलं फणिफूत्कृतिरीक्षणतीक्ष्णाशुशुक्षणिः क्षान्तः ॥ ४ ॥</l>
</lg>
<p>752</p>
<lg>
  <l>निजकरनिकरसमृद्ध्या धवलय भुवनानि पार्वण शशाङ्क ।</l>
  <l>सुचिरं हन्त न सहते हतविधिरिह सुस्थितं कमपि ॥ ५॥</l>
</lg>
<p>753</p>
<lg>
  <l>शिरसा धार्यमाणोपि सोमः सोमेन शंभुना ।</l>
  <l>तथापि कृशतां धत्ते कष्टः खलु पराश्रयः ॥ ६ ॥</l>
</lg>
<p>754</p>
<lg>
  <l>व्यज्यमानकलङ्कस्य वृद्धौ वृद्धौ कलानिधेः ।</l>
  <l>आशास्महे वयं पूर्वां सर्वश्लाघ्यां कृशां दशाम् ॥ ७ ॥</l>
</lg>
<p>केषामप्येते ।
755
नयनमसि जनार्दनस्य शंभो-
र्मुकुटमणिः सुदृशां त्वमादिदेवः ।</p>
<pb n="132" />
<p>त्यजसि न मृगमात्रमेकमिन्दो
विरमति येन कलङ्ककिंवदन्ती ॥ ८ ॥
उमापतिधरस्य ।
756
यद्यपि शिरोधिरोहति रौद्रः क्रोधेन सिंहिकातनयः ।
त्यजति न शरणं यातं सागरसूनुर्मृगं तदपि ॥ ९ ।
मदनस्य ।
757</p>
<lg>
  <l>क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोतिदूरताम् ।</l>
  <l>उपैति मित्त्राद्यच्चन्द्रो युक्तं तन्मलिनात्मनः ॥ १० ॥</l>
</lg>
<p>758</p>
<lg>
  <l>यज्जातोसि पयोनिधौ हरजटाजूटे प्रसिद्धोसि य-</l>
  <l>द्विश्वस्योदरदीपकोसि विधिना सृष्टोसि यच्चामृतैः ।</l>
  <l>भ्रातः शीतमयूख सर्वमधुना म्लानीकृतं तत्त्वया</l>
  <l>राजीवं यदपास्य कैरवकुलं नीतं विकासास्पदम् ॥ ११ ॥</l>
</lg>
<p>759</p>
<lg>
  <l>लब्धं जन्म सह श्रिया स्वयमपि त्रैलोक्यभूषाकरः</l>
  <l>स्थित्यर्थं परमेश्वरोभ्युपगतस्तेनापि मूर्ध्ना धृतः ।</l>
  <l>वृद्धिं शीतकरस्तथापि न गतः क्षीणः परं प्रत्युत</l>
  <l>प्रायः प्राक्तनमेव कर्म बलवत्कः कस्य कर्तुं क्षमः ॥१२॥</l>
</lg>
<p>केषामप्येते ।
760</p>
<lg>
  <l>पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरोः</l>
  <l>क्रान्तं येन क्षपिततमसा मध्यमं धाम विष्णोः ।</l>
  <l>सोयं चन्द्रः पतति गगनादल्पशेषैर्मयूखै-</l>
  <l>र्दूरारोहो भवति महतामप्यपभ्रंशहेतुः ॥ १३ ॥</l>
</lg>
<p>कालिदासस्य ।
761
पीयूषं वपुषोस्य हेतुरुदयो विश्वस्य नेत्रोत्सवः
प्लुष्टं भानुकरैरयं त्रिभुवनं ज्योत्स्नाभरैः सिञ्चति ।</p>
<pb n="133" />
<p>सर्वांशाप्रतिरोधकान्धतमसध्वंसाय बद्धोद्यमो
धिग्धातारमिहापि लक्ष्म लिखितुं यस्य प्रवृत्तं मनः ॥ १४ ॥
कस्यापि ।
762</p>
<lg>
  <l>निरर्थकं जन्म गतं नलिन्या</l>
  <l>यथा न दृष्टं तुहिनांशुबिम्वम् ।</l>
  <l>उत्पत्तिरिन्दोरपि निष्फलैव</l>
  <l>दृष्टा प्रहृष्टा नलिनी न येन ॥ १५ ॥</l>
</lg>
<p>कस्यापि ।
763</p>
<lg>
  <l>विरम तिमिर साहसादमुप्मा-</l>
  <l>द्यदि रविरस्तमितः स्वतस्ततः किम् ।</l>
  <l>कलयसि न पुरो महोमहोर्मि-</l>
  <l>द्युतिनिधिरभ्युदयत्ययं शशाङ्कः ॥ १६ ॥</l>
</lg>
<p>बल्लालसेनस्य ।
764</p>
<lg>
  <l>उच्चैः स्थानकृतोदयैर्बहुविधैर्ज्योतिर्मिरुद्यत्प्रभैः</l>
  <l>शुक्राद्यैः किममीभिरत्र वितथां प्रौढिं दधानैरपि ।</l>
  <l>यावलोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते</l>
</lg>
<lg>
  <l>तावच्चन्द्र कथं प्रयाति परमां वृद्धिं स रत्नाकरः ॥१७॥</l>
  <l>त्रिलोचनस्य ।</l>
  <l>-----------</l>
  <l>अथ मेघान्योक्तयः ॥ ४२ ॥</l>
</lg>
<p>765</p>
<lg>
  <l>एकस्य तस्य मन्ये धन्यामभ्युन्नतिं जलधरस्य ।</l>
  <l>विश्वं सशैलकाननमाननमवलोकते यस्य ॥ १ ॥</l>
</lg>
<p>प्रह्लादनस्य ।
766</p>
<lg>
  <l>संप्रति न कल्पतरवो न सिद्धयो नापि देवता वरदाः ।</l>
  <l>जलद त्वाय विश्राम्यति सृष्टिरियं भुवनलोकस्य ॥ २ ॥</l>
</lg>
<p>वस्तुपालस्य ।</p>
<pb n="134" />
<p>767</p>
<lg>
  <l>क्षणदृष्टनष्टतडितो निजसंपत्तेः पयोदनिवहेन ।</l>
  <l>ज्ञातं साधु यदुचितं भुवनेभ्यो वितरता वारि ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
768</p>
<lg>
  <l>प्रावृषेण्यस्य मालिन्यं दोषः कोभीष्टवर्षिणः ।</l>
  <l>शारदाभ्रस्य शुभ्रत्वं वद कुत्रोपयुज्यते ॥ ४ ॥</l>
</lg>
<p>769</p>
<lg>
  <l>जलधर जलभरनिकरैरपहर परितापमुद्धतं जगतः ।</l>
  <l>नो चेदपसर दूरं हिमकरकरदर्शनं वितर ॥ ५ ॥</l>
</lg>
<p>चन्द्रकवेः ।
770</p>
<lg>
  <l>चातक: स्वानुमानेन जलं प्रार्थयतेम्बुदात् ।</l>
  <l>स स्वोदारतया सर्वां  प्लावयत्यम्बुना महीम् ॥ ६ ॥</l>
</lg>
<p>कस्यापि ।
771</p>
<lg>
  <l>शालेयेषु शिलातलेषु च गिरेः शृङ्गेषु गर्तेषु च</l>
  <l>श्रीखण्डेषु विभीतकेषु च तथा पूर्णेषु रिक्तेषु च ।</l>
  <l>स्निग्धेन ध्वनिनाखिलेपि जगतीचक्रे समं वर्षतो</l>
  <l>वन्दे वारिदसार्वभौम भवतो विश्वोपकारिव्रतम् ॥ ७ ॥</l>
</lg>
<p>कस्यापि ।
772</p>
<lg>
  <l>नीहाराकरसारसागरसरित्कासारनीरश्रियं</l>
  <l>त्यक्त्वा तोयद चातकेन महती सेवा समालम्बिता ।</l>
  <l>तस्यैतत्कलितं समुज्झसि शिलासंताडनं मस्तके</l>
  <l>गाढं गर्जसि वज्रमुज्झसि तडिल्लेखाभिरातर्जसि ॥ ८ ॥</l>
</lg>
<p>कस्यापि ।
773
क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः
स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः ।</p>
<pb n="135" />
<p>दुष्पूरोदरपूरणाय पिबति स्रोतःपतिं वाडवो
जीमूतस्तु निदाघतापितजगत्संतापविच्छित्तये ॥ ९ ॥
कस्यापि ।
774</p>
<lg>
  <l>अन्योपि चन्दनतरोर्महनीयमूर्तेः</l>
  <l>सेकार्थमुत्सहति तद्गुणबद्धतृष्णः ।</l>
  <l>शाखोटकस्य पुनरस्य महाशयोय-</l>
  <l>मम्भोद एव शरणं यदि निर्गुणस्य ॥ १० ॥</l>
</lg>
<p>कस्यापि ।
775</p>
<lg>
  <l>अये हेलावेलातुलितकुलशैले जलनिधौ</l>
  <l>कुतो वारामोघं बत जलद मोघं वितरसि ।</l>
  <l>समन्तादुत्तालज्वलदनलकीलाकवलन-</l>
  <l>क्लमोपेतानेतानुपचर पयोभिर्विटपिनः ॥ ११ ॥</l>
</lg>
<p>बिल्हणस्य ।
776
मार्गो भूरिमरुर्जलं स्थलभुवि स्वप्नेपि नो लभ्यते
तीव्रो वाति समीरणः क्वचिदपि च्छायाभृतो न द्रुमाः ।
अङ्गारप्रकरान्किरन्निव रविर्ग्रीष्मे तपत्यम्बरे
तद्भोः पान्थहिताय पूरय धरां पाथोद पाथोभरैः ॥ १२ ।
शार्ङ्गधरस्य ।
777</p>
<lg>
  <l>भेकैः कोटरशायिभिर्मृतमित्र क्ष्मान्तर्गतं कच्छपैः</l>
  <l>पाठीनैः पृथुपङ्कपीठलुठनाद्यस्मिन्मुहुर्मूर्छितम् ।</l>
  <l>तस्मिञ्छुष्क सरस्यकालजलदेनागत्य तच्चेष्टितं</l>
  <l>यत्राकण्ठनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ १३ ॥</l>
</lg>
<p>अकालजलदस्य ।
778
आश्वास्य पर्वतकुलं तपनोष्मतप्तं
दुर्दाववह्निविधुराणि च काननानि ।</p>
<pb n="136" />
<p>नानानदीनदशतानि च पूरयित्वा
रिक्तोसि यज्जलद सैव तवोत्तमा श्रीः ॥ १४ ॥
कस्यापि ।
779</p>
<lg>
  <l>अयि जलद यदि न दास्यसि कतिचित्वं चातकाय जलकणिकाः ।</l>
  <l>तदयमचिरेण भविता सलिलाञ्जलिदानयोग्यस्ते ॥ १५ ॥</l>
</lg>
<p>780</p>
<lg>
  <l>विलपति तथा सारङ्गोयं भवानयमुद्धतो</l>
  <l>जलमपि च ते संयोगोयं कथंचिदुपस्थितः ।</l>
  <l>उपकुरु कुरु प्रह्वं चेतो न वेत्सि यदग्रतो</l>
  <l>जलधर पुनः क्व त्वं क्वायं क्व ते जलबिन्दवः ॥ १६ ॥</l>
</lg>
<p>781</p>
<lg>
  <l>त्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः ।</l>
  <l>अस्माकमर्कवृक्षाणां पूर्वपत्रेपि संशयः ॥ १७ ॥</l>
</lg>
<p>782</p>
<lg>
  <l>त्वमेव चातकाधार इति केषां न गोचरः ।</l>
  <l>धिगम्भोद यदस्यापि कार्पण्योक्तीः प्रतीक्षसे ॥ १८ ॥</l>
</lg>
<p>केषामप्येते ।
783</p>
<lg>
  <l>एतदत्र पथिकैकजीवनं</l>
  <l>पश्य शुष्यतितरां महत्सरः ।</l>
  <l>धिंग्मुधाम्बुधर रुद्धसद्गति-</l>
  <l>र्वर्धिता किमिति तेद्रिवाहिनी ॥ १९ ॥</l>
</lg>
<p>प्रकाशवर्षस्य ।
784</p>
<lg>
  <l>अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः</l>
  <l>किमेभिर्निर्घोषैः सृज झगिति झात्कारि सलिलम् ।</l>
  <l>अये पश्यावस्थामकरुण समीरव्यतिकर-</l>
  <l>ज्वलद्दावज्वालावलिजटिलमूर्तेर्विटपिनः ॥ २० ॥</l>
</lg>
<p>अचलस्य ।</p>
<pb n="137" />
<p>785</p>
<lg>
  <l>शोषं गते सरसि शैवलमञ्जरीणा-</l>
  <l>मन्तस्तिमिर्लुठति  तापविसंष्टुलाङ्गः ।</l>
  <l>अत्रान्तरे यदि न वारिद वारिपूरै-</l>
  <l>राप्लावयेस्तदनु किं मृतमण्डनेन ॥२१॥</l>
</lg>
<p>786</p>
<lg>
  <l>कालातिक्रमणं कुरुष्व तडितां विस्फूर्जितैस्त्रासय</l>
  <l>स्फारैर्भीषय गर्जितैरतितरां कार्ष्ण्यं मुखे दर्शय ।</l>
  <l>अस्यानन्यगतेः पयोद मनसो जिज्ञासया चातक-</l>
  <l>स्याधेहि त्वमिहाखिलं तदपि न त्वत्तः परं याचते ॥ २२॥</l>
</lg>
<p>787</p>
<lg>
  <l>भूयो गर्जितमम्बुद प्रकटिता विद्युत्खमापूरितं</l>
  <l>दूरावग्रहपृष्ठनिष्ठ तदलं वृष्ट्या तत्रातः परम् ।</l>
  <l>निर्दग्धाखिलशालिहालिकवधूसंनद्धनेत्रैः परं</l>
  <l>नैराश्यादिह वर्षितव्यमधुना केदारपूरं पयः ॥ २३ ॥</l>
</lg>
<p>788</p>
<lg>
  <l>नैताः स्वयमुपभोक्ष्यसि मोक्ष्यसि जलदोषरादिषु क्वापि ।</l>
  <l>तत्किं तत्र न मुञ्चसि मुक्ता मुक्ता भवन्ति यत्रापः ॥ २४ ॥</l>
</lg>
<p>789</p>
<lg>
  <l>यदस्बुकणमादाय प्राप्नोसि जलदोन्नतिम् ।</l>
</lg>
<lg>
  <l>तस्योपर्यम्बुधेर्गर्जा मलिनस्योचितैव ते ॥ २५ ॥</l>
  <l>केषामप्येते ।</l>
  <l>-------------</l>
  <l>अथ वायोरन्योक्तयः ॥ ४३ ॥</l>
</lg>
<p>790</p>
<lg>
  <l>वरतरुविघटनपटवः कटवश्चञ्चन्ति बायवो बहवः ।</l>
  <l>तत्कुसुमबहलपरिमलगुणविन्यासे कृती त्वेकः ॥ १ ॥</l>
</lg>
<p>भानुपण्डितस्य ।</p>
<pb n="138" />
<p>791</p>
<lg>
  <l>अलिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् ।</l>
  <l>मृगमदपरिमललहरीं समीर पामरपुरे किरसि ॥ २ ॥</l>
</lg>
<p>भवभूतेः ।
792</p>
<lg>
  <l>ये जात्या लघवः सदैव गणनां याता न ये कुत्रचि-</l>
  <l>त्पद्भ्यामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्चिरम् ।</l>
  <l>उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे</l>
  <l>तुङ्गानामुपरि स्थितिं क्षितिभृतां कुर्वन्त्यमी पांसवः ॥ ३ ॥</l>
</lg>
<p>भल्लटस्य ।
793</p>
<lg>
  <l>परमो मरुत्सखाग्नेस्तेजोवृद्धिं तनोति तज्जं तु ।</l>
  <l>दीपं हरति तदस्य ज्ञातं प्रतिपत्तिनिर्वहणम् ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
794</p>
<lg>
  <l>कोयं भ्रान्तिप्रकारस्तव पवन पदं लोकपादाहतानां</l>
  <l>तेजस्वित्रातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठाम् ।</l>
  <l>अस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां</l>
  <l>केनोपायेन सह्यो वपुषि कलुषतादोष एष त्वयैव ॥ ५ ॥</l>
</lg>
<p>795</p>
<lg>
  <l>हंहो दग्धसमीर सर्पति भवत्यस्मिन्वने शाखिनां</l>
  <l>शाखाघर्षणतः स कोपि सुचिरं जज्वाल दावानलः ।</l>
  <l>येनादाहि पलायमानहरिणं भस्मीभवद्भूरुहं</l>
</lg>
<lg>
  <l>शुष्यन्निर्झरमुत्पतत्खगकुलं वेल्लद्भुजंगं वनम्॥ ६ ॥</l>
  <l>कयोरप्येतौ ।</l>
  <l>------</l>
  <l>अथ हंसान्योक्तयः ॥ ४४ ॥</l>
</lg>
<p>796</p>
<lg>
  <l>कंसारिचरणोद्भूतसिन्धुकल्लोललालितम् ।</l>
  <l>मन्ये हंस मनो नीरे कुल्यानां रमते कथम् ॥ १ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।</p>
<pb n="139" />
<p>797</p>
<lg>
  <l>अम्भोजिनीवननिवासविलासमेव</l>
  <l>हंसस्य हन्ति नितरां कुपितो विधाता ।</l>
  <l>न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां</l>
  <l>वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ २ ॥</l>
</lg>
<p>भर्तृहरेः ।
798</p>
<lg>
  <l>अपसरणमेव शरणं मौनं वा तत्र राजहंसस्य ।</l>
  <l>कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ॥ ३ ॥</l>
</lg>
<p>799</p>
<lg>
  <l>भृङ्गाङ्गनाजनमनोहरहारिगीत-</l>
  <l>राजीवरेणुकणकीर्णपिशङ्गतोयाम् ।</l>
  <l>रम्यां हिमाचलनदीं प्रविहाय हंस</l>
  <l>हे हे हताश वद कां दिशमुत्सुकोसि ॥ ४ ॥</l>
</lg>
<p>800</p>
<lg>
  <l>स्थित्वा क्षणं विततपक्षतिरन्तरिक्षे</l>
  <l>मातङ्गसङ्गकलुषां नलिनीं विलोक्य ।</l>
  <l>उत्पन्नमन्युपरिघर्घरनि:स्वनेन</l>
  <l>हंसेन साश्रु परिवृत्य गतं न लीनम् ॥ ५ ॥</l>
</lg>
<p>801</p>
<lg>
  <l>सरसि बहुशस्ताराछायां दशन्परिवञ्चितः</l>
  <l>कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः ।</l>
  <l>न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं</l>
  <l>कुहकचकितो लोकः सत्येप्यपायमपेक्षते ॥ ६ ॥</l>
</lg>
<p>802</p>
<lg>
  <l>वातान्दोलितपङ्कजच्युतरजः पुञ्जाङ्गरागोज्ज्वलो</l>
  <l>यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षः पुरा ।</l>
  <l>कान्ताचञ्चुपुटापवर्जितबिसग्रासग्रहेप्यक्षमः</l>
  <l>सोयं संप्रति हंसको मरुगतः कौपं पयो याचते ॥ ७ ॥</l>
</lg>
<pb n="140" />
<p>803</p>
<lg>
  <l>तरौ तीरोद्भूते क्वचिदपि दलाच्छादिततनुः</l>
  <l>पतद्धारासारां गमय विषमां प्रावृषमिमाम् ।</l>
  <l>निवृत्तायां तस्यां सरसि सरसोत्फुल्लनलिने</l>
  <l>स एव त्वं हंसः पुनरपि विलासास्त इह ते ॥ ८ ॥</l>
</lg>
<p>804</p>
<lg>
  <l>रे राजहंस किमिति त्वमिहागतोसि</l>
  <l>योसौ बकः स इह हंस इति प्रतीतः ।</l>
  <l>तद्गम्यतामनुपदेन पुनः स्वभूमौ</l>
  <l>यावद्वदन्ति न बकं खलु मूढलोकाः ॥ ९ ॥</l>
</lg>
<p>805</p>
<lg>
  <l>यो दिव्याम्बुजलीनमत्तमधुपप्रोद्गीतिरम्यं सर-</l>
  <l>स्त्यक्त्वा मानसमल्पवारिणि रतिं बध्नाति कैदारिके ।</l>
  <l>तस्यालीकसुखाशया परिभवक्रोडीकृतस्याधुना</l>
  <l>हंसस्योपरि टिट्टिभो यदि पदं धत्तेत्र को विस्मयः ॥ १० ॥</l>
</lg>
<p>806</p>
<lg>
  <l>अन्या सा सरसी मराल मुनिभिर्यत्तीरसोपानिका-</l>
  <l>विन्यस्तान्बलितण्डुलान्कवलयन्दृष्टोसि हृष्टैर्मुखैः ।</l>
  <l>एषा पक्कणवापिका कमलिनीखण्डेन गुप्तात्मभि-</l>
  <l>र्व्याघैस्त्वद्विधमुग्धबन्धनविधौ को नाम नो सूत्र्यते ॥११॥</l>
</lg>
<p>807</p>
<lg>
  <l>भो हंसास्तावदम्भोरुहकुहररजोरञ्जिताङ्गाः सहेलं</l>
  <l>हंसीभिः पद्मखण्डे मधुरमधुकरारावरम्ये रमध्वम् ।</l>
  <l>यावन्नायं दुरन्तो हरगलगरलव्यालजालालिनील-</l>
  <l>प्रोन्मीलन्मेघमालामलिनसकलदिङ्गमण्डलोभ्येति कालः ॥ १२॥</l>
</lg>
<p>808
हे पक्षिन्नागतस्त्वं कुत इह सरसस्तत्कियद्भो विशालं
किं मद्धाम्नोपि बाढं तदतिशठ महापाप मा ब्रूहि मिथ्या ।</p>
<pb n="141" />
<p>इत्थं कूपोदरस्थ: शपति तटगतं दर्दुरो राजहंसं
नीचः प्रायः शठार्थो भवति हि विषमो नापराधेन हृष्टः ॥१३॥
केषामप्येते ।
809</p>
<lg>
  <l>यः संतापमपाकरोति जगतां यश्चोपकारक्षमः</l>
  <l>सर्वेषाममृतात्मकेन वपुषा प्रीणाति नेत्राणि यः ।</l>
  <l>तस्याप्युन्नतिमम्बुदस्य सहसे यन्न त्वमेतावता</l>
  <l>वर्णेनैव परं मराल धवलः कृष्णश्चरित्रैरसि ॥ १४ ॥</l>
</lg>
<p>श्रीभोजदेवस्य ।
810</p>
<lg>
  <l>गतं तद्गाम्भीर्यं तटमपि चितं जालकशतैः</l>
  <l>सखे हंसोत्तिष्ठ त्वरितममुतो गच्छ सरसः ।</l>
  <l>न यावत्पङ्काक्तः कलुषिततनुर्भुरिविलस-</l>
  <l>न्वकोटो वाचाटश्चरणयुगलं मूर्ध्नि कुरुते ॥१५॥</l>
</lg>
<p>811</p>
<lg>
  <l>यदि नाम दैवगत्या जगदसरोजं कदापि संजातम् ।</l>
  <l>अवकरनिकरं विकिरति तत्किं कृकवाकुरिव हंसः ॥१६॥</l>
</lg>
<p>812</p>
<lg>
  <l>अस्ति यद्यपि सर्वत्र नीरं नीरजमण्डितम् ।</l>
  <l>रमते न मरालस्य मानसं मानसं विना ॥१७॥</l>
</lg>
<p>813</p>
<lg>
  <l>आकार: कमनीयताकुलगृहं लीलालसा सा गतिः</l>
  <l>संपर्क : कमलालयैः कलतया लोकोत्तरं कूजितम् ।</l>
  <l>यस्येयं गुणसंपदस्ति महती तस्यातिभव्यस्य ते</l>
  <l>संरब्धत्वमसद्गुमद्गुकलहे नाहं सहे हंस हे ॥१८॥</l>
</lg>
<p>814
नद्यो नीचरता दुरापपयस: कूपाः पयोराशयः
क्षारा दुष्टबकोटसंकटतटोद्देशास्तडागादयः ।</p>
<pb n="142" />
<p>भ्रान्त्वा भूतलमाकलय्य सकलानम्भोनिवेशानिति</p>
<lg>
  <l>त्वां भो मानस संस्मरन्पुनरसौ हंसः समभ्यागतः ॥१९॥</l>
  <l>केषामप्येते ।</l>
  <l>-----------------</l>
  <l>अथ मधुकरान्योक्तयः ॥ ४५ ॥</l>
</lg>
<p>815</p>
<lg>
  <l>मधुकर तव करनिकरैः किं किं क्रान्तं कुलं न कुसुमानाम् ।</l>
  <l>तद्वद सरसिजमुकुले लब्धं किंचिद्यदन्यतस्तत्किम् ॥१॥</l>
</lg>
<p>816</p>
<lg>
  <l>गौरीं चम्पककलिकामपहाय भ्रान्त दुर्बुद्धे ।</l>
  <l>शाल्मलिकुसुमद्लेषु स्वैरं गुञ्जन्न लज्जसे मधुप ॥ २ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
817</p>
<lg>
  <l>भ्रमन्वनान्ते नवमञ्जरीषु</l>
  <l>न षट्पदो गन्धफलीमजिघ्रत् ।</l>
  <l>सा किं न रम्या स च किं रन्ता</l>
  <l>बलीयसी केवलमीश्वरेच्छा ॥ ३ ॥</l>
</lg>
<p>लक्ष्म्याः ।
818</p>
<lg>
  <l>भ्रमर भ्रमता दिगन्तराणि</l>
  <l>क्वचिदासादितमीक्षितं श्रुतं वा ।</l>
  <l>वद सत्यमपास्य पक्षपातं</l>
  <l>यदि जातीकुसुमानुकारि पुष्पम् ॥ ४ ॥</l>
</lg>
<p>श्रीगणदेवानाम् ।
819</p>
<lg>
  <l>अभिनवनलिनीविनोदलुब्धो</l>
  <l>मुकुलित कैरविणीवियोगभीरुः ।</l>
  <l>भ्रमति मधुकरोयमन्तराले</l>
  <l>श्रयति न पङ्कजिनीं कुमुद्वतीं वा ॥ ५ ॥</l>
</lg>
<p>श्रीधनददेवानाम् ।</p>
<pb n="143" />
<p>820</p>
<lg>
  <l>नो मल्लीमयमीहते न भजते मत्तेभकुम्भस्थलीं</l>
  <l>वासन्तीं सहते न चन्दनवनीमालम्बते न क्वचित् ।</l>
  <l>जातीमेव हृदीश्वरीमिव महानन्दैककन्दाङ्कुरां</l>
  <l>ध्यायन्निर्वृतिमेति षट्पदयुवा योगीव वीतभ्रमः ॥६ ॥</l>
</lg>
<p>श्रीपुष्पाकरदेवानाम् ।
821</p>
<lg>
  <l>किं मालति म्लायसि यद्यविद्य-</l>
  <l>श्चुचुम्ब तुम्बीकुसुमं षडङ्घ्रि: ।</l>
  <l>प्राणी चतुर्भिश्चरणैः पशुश्चे -</l>
  <l>त्स  षड्भिरध्यर्धपशुः कथं न ॥ ७ ॥</l>
</lg>
<p>कस्यापि ।
822
केतकीकुसुमं भृङ्गः खण्ड्यमानोपि सेवते ।
दोषा: किं नाम कुर्वन्ति गुणापहृतचेतसः ॥ ८ ।॥
कस्यापि ।
823</p>
<lg>
  <l>अन्यासु तावदुपमर्दसहासु भृङ्ग</l>
  <l>लोलं विनोदय मनः सुमनोलतासु ।</l>
  <l>मुग्धामजातरजसं कलिकामकाले</l>
  <l>व्यर्थं कदर्थयसि किं नवमालिकायाः ॥ ९ ॥</l>
</lg>
<p>विकटनितम्बायाः ।
824</p>
<lg>
  <l>मदनमवलोक्य निष्फलमनित्यतां बन्धुजीवकुसुमानाम् ।</l>
  <l>वनमुपगम्य भ्रमरः संप्रति जातो जपासक्तः ॥ १० ॥</l>
</lg>
<p>825</p>
<lg>
  <l>फुल्लेषु यः कमलिनीकमलोदरेषु</l>
  <l>चूतेषु यो विलसितः कलिकान्तरस्थः ।</l>
  <l>पश्याद्य तस्य मधुपस्य शरद्व्यपाये</l>
  <l>कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति ॥ ११॥</l>
</lg>
<pb n="144" />
<p>826</p>
<lg>
  <l>स्वामोदवासितसमग्रदिगन्तराला</l>
  <l>रक्ता मनोहरशिखा सुकुमारमूर्तिः ।</l>
  <l>सेव्या सरोजकलिका तु यदैव जाता</l>
  <l>नीतस्तदैव विधिना मधुपोन्यदेशम् ॥ १२ ॥</l>
</lg>
<p>827</p>
<lg>
  <l>किं क्वापि प्रलयानलैर्विटपिनो निर्दह्य भस्मीकृताः</l>
  <l>किं वा दैवगजेन पङ्कजवनं निष्कन्दमुन्मूलितम् ।</l>
  <l>किं वा हन्त कृतान्तकेसरिभयात्त्यक्तो मदः कुञ्जरै-</l>
  <l>र्येनास्मिन्विरसे करीरकुसुमे हा भृङ्ग विश्राम्यसि ॥ १३ ॥</l>
</lg>
<p>828</p>
<lg>
  <l>अनुसरति करिकपोलं भ्रमरः श्रवणेन ताड्यमानोपि ।</l>
  <l>गणयति न तिरस्कारं दानान्धविलोचनो नीचः ॥ १४ ॥</l>
</lg>
<p>829</p>
<lg>
  <l>मधुकरगणश्चूतं त्यक्त्वा गतो नवमल्लिकां</l>
  <l>पुनरपि गतो रक्ताशोकं कदम्बतरुं ततः ।</l>
  <l>तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं</l>
  <l>परिचितजनद्वेषी लोको नवं नवमीहते ॥ १५ ॥</l>
</lg>
<p>830</p>
<lg>
  <l>यस्याः संगमवाञ्छया न गणिता वाप्यो विनिद्रोत्पला</l>
  <l>यामालिङ्ग्य समुत्सुकेन मनसा यातः परां निर्वृतिम् ।</l>
  <l>भग्नां तामवलोक्य चन्दनलतां भृङ्गेण यज्जीव्यते</l>
  <l>धैर्यं नाम तदस्तु तस्य न पुनः स्नेहानुरूपं कृतम् ॥ १६ ॥</l>
</lg>
<p>831</p>
<lg>
  <l>अपसर मधुकर दूरं परिमलबहुलेपि केतकीकुसुमे ।</l>
  <l>इह नहि मधुलवलेशो भवति परं धूलिधूसरं वदनम् ॥ १७ ॥</l>
</lg>
<pb n="145" />
<p>882</p>
<lg>
  <l>दग्धा सा बकुलावली कवलितास्ते ते रसालद्रुमाः</l>
  <l>प्लुष्टास्तेपि विनिद्रपुष्पपटलीपीतातपाः पादपाः ।</l>
  <l>भ्रातर्भृङ्ग दवाग्निना वनमिदं वल्मीकशेषं कृतं</l>
  <l>किं संप्रत्यपि काननान्तरपरिस्पन्दाय मन्दायसे ॥ १८ ॥</l>
</lg>
<p>833</p>
<lg>
  <l>दूरादुज्झति चम्पकं न च भजत्यम्भोजराजीरजो</l>
  <l>नो जिघ्रत्यपि पाटलापरिमलं धत्ते न चूते रतिम् ।</l>
  <l>मन्दारेपि न सादरो विचकिलोपान्तेपि संतप्यते</l>
  <l>तन्मन्ये क्वचिदङ्ग भृङ्गतरुणेनास्वादिता मालती ॥ १९ ॥</l>
</lg>
<p>834</p>
<lg>
  <l>ये वर्धिताः करिकपोलमदेन भृङ्गाः</l>
  <l>प्रोत्फुल्लपङ्कजरजः सुरभीकृताङ्गाः ।</l>
  <l>ते सांप्रतं प्रतिदिनं गमयन्ति कालं</l>
  <l>निम्बेषु चार्ककुसुमेषु च दैवयोगात् ॥ २० ॥</l>
</lg>
<p>835</p>
<lg>
  <l>कृत्वापि कोशपानं भ्रमरयुवा पुरत एवं कमलिन्याः ।</l>
  <l>अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ॥२१॥</l>
</lg>
<p>836</p>
<lg>
  <l>इह सरसि सहर्षं मञ्जुगुञ्जाभिरामं</l>
  <l>मधुकर कुरु केलिं सार्धमम्भोजिनीभिः ।</l>
  <l>अनुपममकरन्दामोददत्तप्रमोदा</l>
  <l>त्यजाते बत न निद्रां मालती यावदेषा ॥ २२ ॥</l>
</lg>
<p>837</p>
<lg>
  <l>येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया</l>
  <l>नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी ।</l>
  <l>भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां</l>
  <l>सोयं भृङ्गयुवा करीरविटपे बध्नाति तुष्टिं कुतः ॥ २३ ॥</l>
</lg>
<p>केषामप्येते ।</p>
<pb n="146" />
<p>अथ कोकिलान्योक्तयः ॥ ४६ ॥
838</p>
<lg>
  <l>काकैः सह विवृद्धस्य कोकिलस्य कला गिरः ।</l>
  <l>बलसङ्गेपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः ॥ १॥</l>
</lg>
<p>839</p>
<lg>
  <l>समुद्गिरसि वाचः किं पुंस्कोकिल सुकोमलाः ।</l>
  <l>श्वभ्रेस्मिञ्जडपाषाणगुरुनिर्घोषभैरवे ॥ २ ॥</l>
</lg>
<p>840</p>
<lg>
  <l>अस्यां सखे बधिरलोकनिवासभूमौ</l>
  <l>किं कूजितेन खलु कोकिल कोमलेन ।</l>
  <l>एते हि दैवहतकास्तदभिन्नवर्णं</l>
  <l>त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥ ३ ॥</l>
</lg>
<p>केषामप्येते ।
841</p>
<lg>
  <l>कोकिल कलप्रलापैरलमलमालोकसे रसालं किम् ।</l>
  <l>शरनिकरभरितशरधि: शबर: सरतीह परिसरे सधनुः ॥ ४ ॥</l>
</lg>
<p>श्रीधनददेवानाम् ।
842</p>
<lg>
  <l>तवैतद्वाचि माधुर्यं जाने कोकिल कृत्रिमम् ।</l>
  <l>यैः पोषितोसि तानेव जातपक्षो जहासि यत् ॥ ५ ॥</l>
</lg>
<p>श्रीभोजदेवस्य ।
843</p>
<lg>
  <l>मूकीभूय तमेव कोकिल मधुं बन्धुं प्रतीक्षस्व हे</l>
  <l>हेलोल्लासितमल्लिकापरिमलामोदानुकूलानिलम् ।</l>
  <l>यत्रैतास्तव सूक्तयः सफलतामायान्त्यमी तूल्लस-</l>
  <l>त्पांसूत्तम्भभृतो निदाघदिवसा: संतापसंदायिनः ॥ ६ ॥</l>
</lg>
<p>कस्यापि ।
844
येनानन्दमये वसन्तसमये सौरभ्यहेलामिल-
द्भृङ्गालीमुखरे रसालशिखरे नीताः पुरा वासराः ।</p>
<pb n="147" />
<p>आ: कालस्य वशेन कोकिलयुवा सोप्यद्य सर्वा दिशः
खेलद्वायसचञ्चुघातविदलन्मूर्धा मुहुर्धावति ॥७॥
भेरीमांकारस्य ।
845</p>
<lg>
  <l>क्वचिज्झिल्लीनादः क्वचिदतुलकाकोलकलहः</l>
  <l>क्वचित्कङ्कारावः क्वचिदपि कपीनां कलकलः ।</l>
  <l>क्वचिद्घोरः फेरुध्वनिरयमहो दैवघटना</l>
  <l>कथंकारं तारं रसति चकित: कोकिलयुवा ॥८॥</l>
</lg>
<p>कस्यापि ।
846</p>
<lg>
  <l>यस्याकर्ण्य वचः सुधाकवलितं वाचंयमानामपि</l>
  <l>व्यग्राणि ग्रथयन्ति मन्मथकथां चेतांसि चैत्रोत्सवे ।</l>
  <l>रे रे काक वराक साकममुना पुंस्कोकिलेनाधुना</l>
  <l>स्पर्धावन्धमुपेयुषस्तव नु किं लज्जापि नो जायते ॥९॥</l>
</lg>
<p>भल्लटस्य ।
847</p>
<lg>
  <l>रे बालकोकिल करीरमरुस्थलीषु</l>
  <l>किं दुर्विदग्ध मधुरध्वनिमातनोषि ।</l>
  <l>अन्यः स कोपि सहकारतरुप्रदेशो</l>
  <l>राजन्ति यत्र तव विभ्रमभाषितानि ॥ १० ॥</l>
</lg>
<p>कस्यापि ।
848</p>
<lg>
  <l>रसालशिखरासीनाः सन्तु सन्तु पतत्रिणः ।</l>
  <l>तन्मञ्जरीरसामोदविन्दुरेकः कुहूमुखः ॥११॥</l>
</lg>
<p>849</p>
<lg>
  <l>रे कीर कैतवसुगीरिति संकलय्य</l>
  <l>मा मात्र संरससि सज्जनरञ्जनाय ।</l>
  <l>बालोपि यत्र कलकण्ठसुकण्ठपीठ-</l>
  <l>संलोठिकोमलकूहुरुतपूर्णकर्णः ॥ १२॥</l>
</lg>
<p>एतौ श्रीचन्द्रदेवस्य ।</p>
<pb n="148" />
<p>850</p>
<lg>
  <l>दात्यूहा: सरसं रसन्तु सुभगं गायन्तु के काभृतः</l>
  <l>कादम्बा: कलमालपन्तु मधुरं कूजन्तु कोयष्टयः ।</l>
  <l>दैवाद्यावदसौ रसालविटपिच्छायामनासादय-</l>
  <l>न्निर्विण्ण: कुटजेषु कोकिलयुवा संजातमौनव्रतः ॥१३॥</l>
</lg>
<p>851</p>
<lg>
  <l>भ्रातः कोकिल कूजितेन किमलं नाद्याप्यनर्घ्यो गुण-</l>
  <l>स्तूष्णीं तिष्ठ विशीर्णपर्णपटलच्छन्नः क्वचित्कोटरे ।</l>
  <l>प्रोद्दामद्रुमसंकटे कटुरटत्काकावलीसंकुलः</l>
</lg>
<lg>
  <l>कालोयं शिशिरस्य संप्रति सखे नायं वसन्तोत्सवः ॥१४॥</l>
  <l>केषामप्येतौ ।</l>
  <l>-------------</l>
  <l>अथ चातकान्योक्तयः ॥४७॥</l>
</lg>
<p>852</p>
<lg>
  <l>एक एव खगो मानी चिरं जीवतु चातकः ।</l>
  <l>पिपासितो वा म्रियते याचते वा पुरंदरम् ॥१॥</l>
</lg>
<p>कस्यापि ।
853</p>
<lg>
  <l>दीनोन्नतचलपक्षतया</l>
  <l>बह्वपि लब्धमत्रस्तु ।</l>
  <l>चातक यत्संभावनया</l>
  <l>किमपि यदस्ति तदस्तु ॥२॥</l>
</lg>
<p>854</p>
<lg>
  <l>चातकस्य खलु चञ्चुसंपुटे</l>
  <l>नो पतन्ति यदि वारिबिन्दवः ।</l>
  <l>सागरीकृतमहीतलस्य किं</l>
  <l>दोष एष जलदस्य दीयते ॥३॥</l>
</lg>
<p>855</p>
<lg>
  <l>सत्यं सत्यं मुनेर्वाक्यं नादत्तमुपतिष्ठते ।</l>
  <l>अम्बुभिः पूरिता पृथ्वी चातकस्य मरुस्थली ॥ ४ ॥</l>
</lg>
<pb n="149" />
<p>856</p>
<lg>
  <l>बीजैरङ्कुरितं जटाभिरुदितं वल्लीभिरुज्जृम्भित</l>
  <l>कन्दैः कन्दलितं जनैः समुदितं धाराधरे वर्षति ।</l>
  <l>भ्रातश्चातक पातकं किमपि ते सम्यङ्ग जानीमहे</l>
  <l>येनास्मिन्न पतन्ति तावकमुखे द्वित्राः पयोबिन्दवः ॥५॥</l>
</lg>
<p>857
चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या
इह हि पतिष्यति भवतो नयनयुगादेव वारि परम् ॥ ६ ॥
858</p>
<lg>
  <l>रक्ताब्जपुञ्जरजसारुणितान्विमुच्य</l>
  <l>स्वच्छान्सुधासमरसानपि वारिराशीन् ।</l>
  <l>यच्चातकः पिबति वारिधरोदबिन्दू-</l>
  <l>न्मन्ये तदानतिभयाच्छिरसोभिमानी ॥ ७ ॥</l>
</lg>
<p>859
कृपे पानमधोमुखस्य हि भवेद्वाप्यो वराक्यः स्त्रियः
सामान्यं बकटिट्टिमैः सह सरस्येवं समालोकयन् । ।
नादत्ते तृषितोपि सिन्धुसलिलं क्रूरैर्वृतं जन्तुभि-
र्मानादुद्धतकंधरः सुरपतिं तच्चातको याचते ॥ ८ ॥
860</p>
<lg>
  <l>गर्जितबधिरीकृतककुभा</l>
  <l>किमपि कृतं न घनेन ।</l>
  <l>कियती चातकचञ्चुपुटी</l>
  <l>सापि भृता न जलेन ॥ ९ ॥</l>
</lg>
<p>861</p>
<lg>
  <l>अन्येपि सन्ति बत तामरसावतंसा</l>
  <l>हंसावलीवलयिनो जलसंनिवेशाः ।</l>
  <l>कोप्याग्रहो गुरुरयं हतचातकस्य</l>
  <l>पौरंदरीं यदभिवाञ्छति वारिधराम् ॥ १० ॥</l>
</lg>
<pb n="150" />
<p>862</p>
<lg>
  <l>अन्ये ते जलदायिनो जलधरास्तृष्णां विनिघ्नन्ति ये</l>
  <l>भ्रातश्चातक किं वृथात्र रटितैः खिन्नोसि विश्राम्यताम् ।</l>
  <l>मेघ: शारद एष काशधवलः पानीयरिक्तोदरो</l>
  <l>गर्जत्येव हि केवलं भृशतरं नो बिन्दुमप्युज्झति ॥ ११ ॥</l>
</lg>
<p>863</p>
<lg>
  <l>समागमिष्यतोम्भोद वेत्ति कः समयं तव ।</l>
  <l>रौति नो यदि सारङ्गस्तवोच्चैः खे पुरःसरः ॥ १२ ॥</l>
</lg>
<p>चन्द्रस्य ।
864</p>
<lg>
  <l>यः कृष्णं कुरुते मुखं जनयति त्रासं तडिद्भिस्तु यो</l>
  <l>यश्च प्रार्थयते परं दलयति श्रोत्राणि यो गर्जितैः ।</l>
  <l>सत्यं चातक तं तथाविधमपि भ्रातस्त्वया याचता</l>
  <l>जीमूतं कृतमेव तुल्यमनयोरर्थित्वतिर्यक्त्वयोः ॥ १३ ॥</l>
</lg>
<p>865</p>
<lg>
  <l>धिग्वारिदं परिहृतान्यजलाशयस्य</l>
  <l>यच्चातकस्य कुरुते न तृष: प्रशान्तिम् ।</l>
  <l>धिक्चातकं तमपि योर्थितयास्तलज्ज-</l>
  <l>स्तं तादृशं च यदुपैति पिपासितोपि ॥१४॥</l>
</lg>
<p>866</p>
<lg>
  <l>विश्वोपजीव्येपि पिबत्यपो न</l>
  <l>पद्माकरे यद्यपि चातकोयम् ।</l>
  <l>स्वार्थक्षतिस्तस्य तृषातुरस्य</l>
</lg>
<lg>
  <l>लघुत्वमत्रास्ति न किंचिदस्य ॥१५॥</l>
  <l>केषामप्येते ।</l>
  <l>---------</l>
  <l>अथ मयूरान्योक्तयः ॥४८॥</l>
</lg>
<p>867
एतस्मिन्मलयाचले बहुविधैः किं तैरकिंचित्करैः
काकोलूककपोतकोकिलकुलैरेकोपि पार्श्वस्थितः ।</p>
<pb n="151" />
<p>केकी कूजति चेत्तदा विघटितव्यालावलीबन्धनः
सेव्यः स्यादिह सर्वलोकमनसामानन्दनश्चन्दनः ॥ १ ॥
कस्यापि ।
868</p>
<lg>
  <l>केका कर्णामृतं ते सकुसुमकबरीकान्तिहारी कलापः</l>
  <l>कण्ठच्छाया पुरारेर्गलरुचिरुचिरा सौहृदं मेघसंघैः ।</l>
  <l>विश्वद्वेषिद्विजिह्वस्फुरदुरुपिशितैर्नित्यमाहारवृत्तिः</l>
  <l>कैः पुण्यैः प्राप्तमेतत्सकलमपि सखे चित्रवृत्तं मयूर ॥२॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
869</p>
<lg>
  <l>वेगज्वलद्विटपपुञ्जमहारवोयं</l>
  <l>गर्जिर्न तीव्रतरहेतिरियं न शम्पा ।</l>
  <l>दावाग्निधूमनिवहोयमयं न मेघः</l>
  <l>किं नृत्यसि द्रुतमितो व्रज तत्कलापिन् ॥३॥</l>
</lg>
<p>लक्ष्मीधरस्य ।
870</p>
<lg>
  <l>अये नीलग्रीव क्व कथय सखे तेद्य मुनयः</l>
  <l>परं तोषं येषां तव रवविलासो वितनुते ।</l>
  <l>अमी दूरात्क्रूरा: क्वणितमिदमाकर्ण्य सहसा</l>
  <l>त्वरन्ते हन्तुं त्वामहह शबरा:  पुङ्खितशराः ॥ ४ ॥</l>
</lg>
<p>कस्यापि।
871</p>
<lg>
  <l>हारीता: सरसं रसन्तु मधुरं कूजन्तु पुंस्कोकिला:</l>
  <l>सानन्दं गिरमुद्गिरन्तु च शुकाः किं तैः शिरस्थैरपि ।</l>
  <l>एकेनापि तलस्थितेन नदता श्रीखण्ड निस्तर्जना-</l>
  <l>द्व्यालानां च शिखण्डिनां ननु महत्पाण्डित्यमुद्दण्डितम् ॥ ५॥</l>
</lg>
<p>श्रीचन्द्रदेवानाम् ।
872
किं दूरेण पयोधरा उपरि किं नान्ये रटन्तः श्रुता
निर्व्यापारतया च पक्षिषु गताः किं वा न पक्षा वृथा ।</p>
<pb n="152" />
<p>रम्यं वा गगने न किं विहरणं किं तूग्रकाकावली-
पर्यायप्रतिपत्तिलाघवभयाद्भूमौ स्थिता बर्हिणः ॥ ६ ॥
कस्यापि ।
873</p>
<lg>
  <l>यत्नादपि कः पश्येच्छिखिनामाहारनिर्गमस्थानम् ।</l>
</lg>
<lg>
  <l>यदि जलदनिनदमुदितास्त एव मूढा न नृत्येयुः ॥ ७ ॥</l>
  <l>भर्तृहरेः ।</l>
  <l>--------------</l>
  <l>अथ शुकान्योक्तयः ॥ ४९ ॥</l>
</lg>
<p>874</p>
<lg>
  <l>शुक्र यत्तव पठनव्यसनं</l>
  <l>न गुणः स गुणाभासः ।</l>
  <l>समजनि येन तवामरणं</l>
  <l>शरणं पञ्जरवासः ॥ १ ॥</l>
</lg>
<p>श्रीधनददेवानाम् ।
875</p>
<lg>
  <l>सत्सांगत्यमवाप्य यः पुरवने नानारसास्वाद वा-</l>
  <l>न्कीर: शास्त्रविचारचारुवचनैरानन्दकारी जने ।</l>
  <l>दैवेनास्फुटवाक्प्रपञ्चविहतश्रोत्रस्य तस्याटवीं</l>
  <l>प्राप्तस्यात्मसभाप्रगल्भकपिषु स्यान्मौनमेवोचितम् ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
876</p>
<lg>
  <l>भ्रातः कीर कठोरचञ्चुकषणक्रोधायतैः कूजितैः</l>
  <l>किं माधुर्यनिषिक्तसूक्तिविशद: कण्ठावटु: शोष्यते ।</l>
  <l>सेयं दैववशादृशा परिणता राजन्यपात्रस्य ते</l>
  <l>भिल्लच्छिद्रितभित्तिमुद्रितघट: प्राप्तो यतः पञ्जरः ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
877
माणिक्यद्रवलिप्तमौक्तिकतुलां बिभ्रन्ति नो दाडिमी-
बीजान्येष निरीक्षते न रमते हैमेप्यहो पञ्जरे ।</p>
<pb n="153" />
<p>तत्तादृग्वनवाससंमदमहामोदैकमेदस्विनी
वृत्तिर्मे गलितानया हतगिरेत्येवं शुकः शोचते ॥ ४ ॥
श्रीराघवचैतन्यानाम् ।
878</p>
<lg>
  <l>इदमपटु कपाटं जर्जरः पञ्जरोयं</l>
  <l>विरमति न गृहेस्मिन्क्रूरमार्जारयात्रा ।</l>
  <l>शुक मुकुलितजिह्वं स्थीयतां किं वचोभि-</l>
  <l>स्तव वचनविनोदे नादर: पामराणाम् ॥ ५ ॥</l>
</lg>
<p>कृष्णमिश्रस्य ।
879</p>
<lg>
  <l>अमुष्मिन्नुद्याने विहगखल एष प्रतिकलं</l>
  <l>विलोल: काकोल: क्वणति किल यावत्पटुतरम् ।</l>
  <l>सखे तावत्कीर द्रढय  हृदि वाचंयमकलां</l>
</lg>
<lg>
  <l>न मौनेन न्यूनीभवति गुणभाजां गुणगणः ॥ ६ ॥</l>
  <l>कस्यापि ।</l>
  <l>------------</l>
  <l>अथ काकान्योक्तयः ॥ ५० ॥</l>
</lg>
<p>880</p>
<lg>
  <l>गात्रं ते मलिनं तथा श्रवणयोरुद्वेगकृत्क्रेङ्गकृतं</l>
  <l>भक्ष्यं सर्वमपि स्वभावचपलं दुश्चेष्टितं ते सदा ।</l>
  <l>एतैर्वायस संगतोस्यविनयैर्दोषैकमूलैः परं</l>
  <l>यत्सर्वत्र कुटुम्बवत्सलमतिस्तेनैव धन्यो भवान् ॥१॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
881</p>
<lg>
  <l>पथि निपतितां शून्ये दृष्ट्वा निरावरणाननां</l>
  <l>दधिभृतघटीं गर्वोन्नद्धः समुन्नतकंधरः ।</l>
  <l>निजसमुचितास्तास्ताश्चेष्टा विकारशताकुलो</l>
  <l>यदि न कुरुते काणः काकः कदा नु करिष्यति ॥ २ ॥</l>
</lg>
<p>भल्लटस्य ।</p>
<pb n="154" />
<p>882</p>
<lg>
  <l>आ मरणादपि विरुतं कुर्वाणा: स्पर्धया सह मयूरैः ।</l>
  <l>कि जानन्ति वराकाः काका: केकारवं कर्तुम् ॥ ३ ॥</l>
</lg>
<p>883</p>
<lg>
  <l>तुल्यवर्णच्छदः कृष्णः कोकिलै: सह संगतः ।</l>
  <l>केन विज्ञायते काकः स्वयं यदि न भाषते ॥ ४ ॥</l>
</lg>
<p>884</p>
<lg>
  <l>रूक्षस्यामधुरस्य चातिमलिनच्छायस्य धृष्टस्य च</l>
  <l>क्षुद्रस्य क्षतिकारिणोतिचपलस्याह्लादविच्छेदिनः ।</l>
  <l>येयं निम्बफलेषु काक भवतस्तिक्तेषु नैसर्गिकी</l>
  <l>प्रीतिस्तत्सदृशं विधेर्विलसितं निष्पन्नमेतच्चिरात् ॥ ५ ॥</l>
</lg>
<p>885</p>
<lg>
  <l>प्रत्यङ्गणं प्रतितरु प्रतिवारितीरं</l>
  <l>काकाश्चरन्ति चलचञ्चुपुटा रटन्तः ।</l>
  <l>ना यान्ति तृप्तिमथ मण्डितपुण्डरीक-</l>
  <l>खण्डे वसन्नहह तृप्यति राजहंसः ॥ ६ ॥</l>
</lg>
<p>886</p>
<lg>
  <l>कृष्णं वपुर्वहतु चुम्बतु सत्फलानि</l>
  <l>रम्येषु संचरतु चूतवनान्तरेषु ।</l>
  <l>पुंस्कोकिलस्य चरितानि करोतु कामं</l>
  <l>काकः कलध्वनिविधौ ननु काक एव॥ ७ ॥</l>
</lg>
<p>887</p>
<lg>
  <l>किं केकीव शिखण्डमण्डिततनुः सारीव किं सुस्वर:</l>
  <l>किं वा हंस इवाङ्गनागतिगुरुः किं कीरवत्पाठक:  ।</l>
  <l>किं वा हन्त शकुन्तपालिपिकवत्कर्णामृतस्यन्दनः</l>
  <l>काक: केन गुणेन काञ्चनमये व्यापारितः पञ्चरे ॥ ८ ॥</l>
</lg>
<p>888
अत्रस्थ: सखि लक्षयोजनगतस्यापि प्रियस्यागमं
वेत्त्याख्याति च धिक्छुकादय इमे सर्वे पठन्तः शठाः।</p>
<pb n="155" />
<p>मत्कान्तस्य वियोगतापदहनज्वालावलीचन्दनः</p>
<lg>
  <l>काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ ९ ॥</l>
  <l>केषामप्येते ।</l>
  <l>---------------</l>
  <l>अथ बकान्योक्तयः ॥ ५१ ॥</l>
</lg>
<p>889</p>
<lg>
  <l>नालेनेव स्थित्वा पादेनैकेन कुञ्चितग्रीवम् ।</l>
  <l>जनयति कुमुदभ्रान्तिं वृद्धबको वालमत्स्यानाम् ॥ १ ॥</l>
</lg>
<p>वृद्धेः ।
890</p>
<lg>
  <l>एव बकः सहसैव विपन्नः</l>
  <l>शाठ्यमहो क्व नु तद्गतमस्य ।</l>
  <l>साधु कृतान्त न कश्चिदपि त्वां</l>
  <l>वञ्चयितुं  सुशठोपि समर्थः ॥ २ ॥</l>
</lg>
<p>891</p>
<lg>
  <l>बकोट ब्रूमस्त्वां लघुनि सरसि क्वापि शफरै-</l>
  <l>स्तव न्याय्या वृत्तिर्न पुनरवगाढुं समुचितः ।</l>
  <l>इतश्चेतश्चाभ्रंलिहलहरिहेलातरलित-</l>
  <l>क्षितिघ्रग्रासैकग्रहिलतिमिपोतः पतिरपाम् ॥ ३ ॥</l>
</lg>
<p>892</p>
<lg>
  <l>न कोकिलानामिव मञ्जु गुञ्जितं</l>
  <l>न लब्धलास्यानि गतानि हंसवत् ।</l>
  <l>न बर्हिणानामिव चित्रपक्षता</l>
  <l>गुणस्तथाप्यास्त बके बकव्रतम् ॥ ४ ॥</l>
</lg>
<p>893</p>
<lg>
  <l>जातिस्तस्य न मानसे न शुचिभिर्वृत्तिर्मृणालाङ्कुरै-</l>
  <l>र्न ब्रह्मोद्वहनेन निर्मलयशःप्राप्तिर्न वाचः कला ।</l>
  <l>जीवन्सत्त्ववधेन बाह्यधवलो भ्राम्यन्सगर्वं पुन-</l>
  <l>र्मिथ्यैवोन्नतकंधरः शठवको हंसै: सह स्पर्धते ॥ ५ ॥</l>
</lg>
<pb n="156" />
<p>894</p>
<lg>
  <l>उभौ श्वेतौ पक्षौ   चरति गगनेवारितगतिः</l>
  <l>सदा मीनं  भुङ्क्ते वसति सकल: स्थाणुशिरसि ।</l>
  <l>बके चान्द्रः सर्वो गुणसमुदय: किंचिदधिको</l>
  <l>गुणा: स्थाने मान्या नरवर न तु स्थानरहिताः ॥ ६ ॥</l>
</lg>
<p>895</p>
<lg>
  <l>रे रे शिष्ट बकोट नाकतटिनीतीरे तपस्विव्रतं</l>
  <l>ध्यानेनानिमिषोपभोगमनसा युक्तं करोषीदृशम् ।</l>
  <l>एवं यत्किल मानसस्य पदवीं  काङ्क्षस्ययुक्तं हि त-</l>
  <l>न्नीरक्षीरविवेकनिर्मलधियो हंसस्य नान्यस्य सा ॥ ७ ॥</l>
</lg>
<lg>
  <l>केषामप्येते ।</l>
  <l>अथ खद्योतान्योक्तयः ॥ ५२ ॥</l>
</lg>
<p>896</p>
<lg>
  <l>जर्जरतृणाग्रमदहन्सर्षपकणमप्रकाशयन्नूनम् ।</l>
  <l>कीटत्वमात्मतत्त्वात्खद्योतः ख्यापयन्नवति ॥ १ ॥</l>
</lg>
<p>जयवर्धनस्य ।
897</p>
<lg>
  <l>इन्दुः प्रयास्यति विनंक्ष्यति तारकश्री:</l>
  <l>स्थास्यन्ति लीढतिमिरा  न भणिप्रदीपा: ।</l>
  <l>अन्धं समग्रमपि कीटमणे भविष्य-</l>
  <l>त्युन्मेष मेष्यति भवानपि दूरमेतत् ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
898</p>
<lg>
  <l>अदृष्टिव्यापारं गतवति दिनानामधिपतौ</l>
  <l>यशः शेषीभूते शशिनि गतधाम्नि ग्रहगणे ।</l>
  <l>तथान्धं संजातं जगदुपनते मेघसमये</l>
  <l>यथामी गण्यन्ते तमसि पटव: कीटमणयः ॥ ३ ॥</l>
</lg>
<p>आनन्दवर्धनस्य ।</p>
<pb n="157" />
<p>899</p>
<lg>
  <l>घनसंतमसमलीमसदशदेिशि निशि यद्विराजसि तदन्यत् ।</l>
</lg>
<lg>
  <l>कीटमणे दिनमधुना तरणिकरान्तरितसितकिरणम् ॥ ४ ॥</l>
  <l>भल्लटस्य ।</l>
  <l>----------------</l>
  <l>अथ सिंहान्योक्तयः ॥ ५३ ॥</l>
</lg>
<p>900</p>
<lg>
  <l>एकोहमसहायोहं कृशोहमपरिच्छदः ।</l>
  <l>स्वप्नेप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
901</p>
<lg>
  <l>मृगेन्द्रं वा मृगारिं वा इयं व्याहरतां जनः ।</l>
  <l>तस्य द्वयमपि व्रीडा क्रीडादलितदन्तिनः ॥ २ ॥</l>
</lg>
<p>902</p>
<lg>
  <l>मृगेभ्यो रक्ष्यते क्षेत्रं नरैस्तृणमयैरपि ।</l>
  <l>सिंहाक्रान्तं पुनर्मूढ़ न हयैर्न च दन्तिभिः ॥ ३ ॥</l>
</lg>
<p>903</p>
<lg>
  <l>मृगैर्नष्टं शशैर्लीनं वराहैर्वलितं रुषा ।</l>
  <l>हयानां हेषितं श्रुत्वा सिंहै: पूर्ववदासितम् ॥ ४ ॥</l>
</lg>
<p>904</p>
<lg>
  <l>हरिरलसविलोचन: सहेलं</l>
  <l>बलमवलोक्य पुनर्जगाम निद्राम् ।</l>
  <l>अधिगतपतिविक्रमास्तभीति-</l>
  <l>र्न तु वनितास्य विलोकयांत्रकार ॥ ५ ॥</l>
</lg>
<p>905</p>
<lg>
  <l>एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रज्ञे ।</l>
  <l>सत्त्वोत्कटे मृगपतौ राजेति गिरः परिणमन्ति ॥ ६ ॥</l>
</lg>
<p>केषामप्येते ।
906
नास्योच्छ्रायवती तनुर्न दशनौ नो दीर्घदीर्घः करः
सत्यं वारण नैष केसरिशिशुस्त्वाडम्बरैः स्पर्धेते ।</p>
<pb n="158" />
<p>तेजोबीजमजेयमस्य हृदये न्यस्तं पुनर्वेधसा
तादृक्त्तादृशमेव येन सुतरां भोज्यं पशुं मन्यते ॥ ७ ॥
आनन्दवर्धनस्य ।
907</p>
<lg>
  <l>क्षुत्क्षामोपि जरान्वितोपि शिथिलप्राणोपि कष्टां दशा-</l>
  <l>मापन्नोपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि ।</l>
  <l>मत्तेभेन्द्रविभिन्नकुम्भपिशितग्रासैकबद्धस्पृहः</l>
  <l>किं जीर्णं तृणमत्ति मानमहतामग्रेसर: केसरी ॥ ८ ॥</l>
</lg>
<p>भर्तृहरे: ।
908</p>
<lg>
  <l>येनानर्गलफालकेलिदलितप्रत्यग्रकादम्बिनी-</l>
  <l>धाराधोरणिधौतधातुषु पुरा शैलेषु लीलायितम् ।</l>
  <l>सोयं शृङ्गनिपातभग्नचरणः स्फारस्फुरत्फेरवी-</l>
  <l>फेत्कारैः कुपितोद्य खादति मुहुः पाणी मृगग्रामणीः ॥ ९ ॥</l>
</lg>
<p>भेरीभांकारस्य ।
909</p>
<lg>
  <l>अनिशं मतङ्गजानां बृंहितमाकर्ण्यते यथा विपिने ।</l>
  <l>मन्ये तथा न जीवति गजेन्द्रपलकवलनः सिंहः ॥ १० ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
910</p>
<lg>
  <l>जीर्णोपि क्रमहीनोपि कृशोपि यदि केसरी ।</l>
  <l>तथापि यूथनाथस्य शङ्कातङ्काय कल्पते ॥ ११ ॥</l>
</lg>
<p>पुष्पाकरस्य ।
911</p>
<lg>
  <l>खनन्नाखुबिलं सिंह: पाषाणशकलाकुलम् ।</l>
  <l>प्राप्नोति नखभङ्गं वा फलं वा मूषको भवेत् ॥ १२ ॥</l>
</lg>
<p>912
अस्मिन्नम्भोदवृन्दध्वनिजनितरुषि प्रेक्षमाणेन्तरिक्षं
मा काक व्याकुलोभूस्तरुशिखरशवक्रव्यलेशानशान ।
धत्ते मत्तेभकुम्भव्यतिकरकरजग्रामवज्राग्रजाग्र-
द्ग्रासव्यासक्तमुक्ताधवलितकवलो न स्पृहामत्र सिंहः ॥१३।
महीपतिमण्डलीकस्य ।</p>
<pb n="159" />
<p>913</p>
<lg>
  <l>ग्रामाणामुपशल्यसीमनि मदोद्रेकस्फुरत्सौष्ठवाः</l>
  <l>फेत्कारध्वनिमुद्गिरन्ति बहवः संभूय गोमायवः ।</l>
  <l>सोन्यः कोपि घनाघनध्वनिधनः पारीन्द्रगुञ्जारवः</l>
  <l>शुष्यद्गण्डमलोलशुण्डमचलत्कर्णं गजैर्यः श्रुतः ॥ १४ ॥</l>
</lg>
<p>रल्हणस्य ।
914</p>
<lg>
  <l>एण: क्रीडति सूकरश्च खनति द्वीपी च गर्वायते</l>
  <l>क्रोष्टा क्रन्दति वल्गते च शशको वेगाद्गुरुर्धावति ।</l>
  <l>निःशङ्कः करिपोतकस्तरुलतामुन्मोटते लीलया</l>
  <l>हंहो सिंह विना त्वयाद्य विपिने कीदृग्दशा वर्तते ॥ १५ ॥</l>
</lg>
<p>कस्यापि ।
915</p>
<lg>
  <l>रे मातङ्ग मदाम्बुडम्बरतया रोलम्बरोलं वह-</l>
  <l>न्वन्यानामवलम्बनं वनमिदं भन्क्तुं यदुत्कण्ठते ।</l>
  <l>दृष्टस्तत्किमहो महोन्नतधराधौरेयधात्रीधर-</l>
  <l>प्रस्थप्रस्थित मेघयूथमथनोत्कण्ठी न कण्डीरवः ॥ १६ ॥</l>
</lg>
<p>बिल्हणस्य ।
916</p>
<lg>
  <l>यस्यावन्ध्यरुषः प्रतापवसतेर्नादेन धैर्यद्रुहा</l>
  <l>शुष्यन्ति स्म महप्रवाहसरितः सद्योपि दिग्दन्तिनाम् ।</l>
  <l>दैवात्कष्टदशावशं गतवतः सिंहस्य तस्याधुना</l>
  <l>कर्षत्येव करेण केसरसटाभारं  जरत्कुञ्जरः ॥ १७ ॥</l>
</lg>
<p>कस्यापि ।
917</p>
<lg>
  <l>यः शौर्यावधिरेव यस्य सहसा दिग्दन्तिनोप्यन्तिकं</l>
  <l>नायाताः किल येन विन्ध्यवसुधा गम्या न कस्याप्यभूत् ।</l>
  <l>तस्मिन्कौतुकिना त्वया करिपतौ लुप्ने कपोलस्थली-</l>
  <l>भृङ्गः कैसरिवीर संप्रति पुनः कुत्रैष विश्राम्यतु ॥ १८ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="160" />
<p>अथ गजान्योक्तयः ॥ ५४ ॥
918</p>
<lg>
  <l>नीवारप्रसवाग्रमुष्टिकवलैर्यो वर्धितः शैशवे</l>
  <l>पीतं येन सरोजपत्रपुटके होमावशेषं पयः ।</l>
  <l>तं पश्चान्मदमन्थरालिवलयव्यालुप्तगण्डं गजं</l>
  <l>सानन्दं समयं च पश्यति मुहुर्दूरे स्थितस्तापसः ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
919</p>
<lg>
  <l>कर्णे चामर चारुकम्बुकलिकाः कण्ठे मणीनां गणः</l>
  <l>सिन्दूरप्रकरः शिरं: परिसरे पार्श्वान्तिके किङ्किणी ।</l>
  <l>लब्धश्चेन्नृपवाहनेन करिणा बद्धेन भृषाविधि-</l>
  <l>स्तत्किं भूधरधूलिधूसरतनुर्मान्यो न वन्यः करी ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
920</p>
<lg>
  <l>केलिं कुरुष्व परिभुङ्क्ष्व सरोरुहागि</l>
  <l>गाहस्व शैलतटनिर्झरिणीपयांसि ।</l>
  <l>भावानुरक्तकरिणीकरलालिताङ्ग</l>
  <l>मातङ्ग मुञ्च मृगराजरणाभिलाषम् ॥ ३ ॥</l>
</lg>
<p>आनन्दवर्धनस्य ।
921</p>
<lg>
  <l>पीतं यत्र हिमं पयः कवलिता यस्मिन्मृणालाङ्कुरा-</l>
  <l>स्तापार्तेन निमज्य यत्र सरसो मध्ये विमुक्तः श्रमः ।</l>
  <l>धिक्तस्यैव जलानि पङ्किलयतः पाथोजिनीं मथ्नतः</l>
  <l>कूलान्युत्खनतः करीन्द्र भवतो लज्जापि नो जायते ॥ ४ ॥</l>
</lg>
<p>922</p>
<lg>
  <l>रेवावारिणि वारणेन विपुले राजीवराजीरज:-</l>
  <l>पुजापिञ्जरितोर्मिणि प्रविगलद्दानाम्बुगन्धोत्कटे ।</l>
  <l>धौतं येन मृगारिरक्तमसकृद्दन्तान्तराले स्थितं</l>
  <l>कौपं सोपि पयः पपौ हतविधेः को गोचरे नागतः ॥ ५ ॥</l>
</lg>
<p>कयोरप्येतौ ।</p>
<pb n="161" />
<p>923</p>
<lg>
  <l>तापां नापगतस्तृषापि न कृशा धौता न धूली तनो-</l>
  <l>र्न स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा ।</l>
  <l>दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा न वा पद्मिनी</l>
  <l>प्रारब्धो मधुपैरकारणमयो झंकारकोलाहलः ॥ ६ ॥</l>
</lg>
<p>लक्ष्मणसेनस्य ।
924</p>
<lg>
  <l>नाभूवन्भुवि यस्य कुत्रचिदपि स्पर्धाकराः कुञ्जराः</l>
  <l>सिंहेनापि न लङ्घिता किमपरं यस्योद्धता पद्धतिः ।</l>
  <l>कष्टं सोपि कदर्थ्यते करिवरः स्फारारवैः फेरवै-</l>
  <l>रापातालगभीरपङ्कपटलीमग्रोद्य भग्नोद्यमः ॥ ७ ॥</l>
</lg>
<p>बिल्हणस्य ।
925
भो भोः करीन्द्र दिवसानि कियन्ति ताव-
दस्मिन्मरौ समतिवाहय कुत्रचित्त्वम् ।
रेवाजलैर्निजकरेणुकरप्रभुक्तै-
र्भूयः शमं गमयितासि निदाघदाहम् ॥ ८ ।
गोविन्दराजस्य ।
926</p>
<lg>
  <l>न गृह्णाति ग्रासं नवकमलकिंजल्किनि जले</l>
  <l>न पङ्के वाह्लादं व्रजति बिसभङ्गार्धशबले ।</l>
  <l>प्रगल्भप्रेमार्द्रामपि विषहते नान्यकरिणीं</l>
  <l>स्मरन्दावभ्रष्टां हृदयदयितां वारणपतिः ॥ ९ ॥</l>
</lg>
<p>927</p>
<lg>
  <l>पादाघातविघूर्णिता वसुमती त्रासाकुलाः पक्षिणः</l>
  <l>पंकांकानि सरांसि गण्डकषणक्षोदक्षताः शाखिनः ।</l>
  <l>प्राप्येदं करिपोतकैर्विधिवशाच्छार्दूलशून्यं वनं</l>
  <l>तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न यत्पार्यते ॥ १० ॥</l>
</lg>
<pb n="162" />
<p>928</p>
<lg>
  <l>घासग्रासं गृहाण त्यज करिकलभ प्रीतिबन्धं करिण्याः</l>
  <l>पाशग्रन्थिव्रणानामविरलमधुना देहि पंकानुलेपम् ।</l>
  <l>दूरीभूतास्तवैते शबरवरवधूविभ्रमोद्धान्तहृष्य -</l>
  <l>द्रेवातीरोपकण्ठच्युतकुसुमरजोधूसरा विन्ध्यपादाः ॥ ११ ॥</l>
</lg>
<p>केषामप्येते ।
929</p>
<lg>
  <l>दानार्थिनो मधुकरा यदि कर्णतालै-</l>
  <l>र्दूरीकृता: करिवरेण मदान्धबुद्ध्या ।</l>
  <l>तस्यैव गण्डयुगमण्डनहानिरेषा</l>
  <l>भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥ १२ ॥</l>
</lg>
<p>कस्यापि ।
930</p>
<lg>
  <l>आरामोयमनर्गलेन बलिना भग्नः समग्रो मये-</l>
  <l>त्यन्तः संभृतहर्षवर्धितमदोदग्रं किमुन्माद्यसि ।</l>
  <l>मातङ्ग प्रतिवर्षमेव भवतो भावी निदाघज्वर-</l>
  <l>स्तत्रापि प्रतिकारमर्हसि सखे सम्यक्समालोचितम् ॥ १३ ॥</l>
</lg>
<p>931</p>
<lg>
  <l>गले पाशस्तीव्रश्चरणयुगले गाढ़निगडो</l>
  <l>दृढः स्कन्धे बन्धः शिरसि सृणिपात: खरतरः ।</l>
  <l>नरः स्कन्धारूढा बत मरणयोग्येपि विषये</l>
  <l>न जानीमोत्यर्थं द्विरद वद कस्मात्तव मदः ॥ १४ ॥</l>
</lg>
<p>932</p>
<lg>
  <l>कौपे पयसि लघीयसि तापेन करः प्रसारित: करिणा ।</l>
  <l>सोपि न पयसा लिप्तो लाघवमात्मा परं नीतः ॥ १५ ॥</l>
</lg>
<p>933
कौपं वारि विलोक्य वारणपते किं विस्मितेनास्यते
प्रायो भाजनमस्य संप्रति भवांस्तत्पीयतामादरात् ।</p>
<pb n="163" />
<p>उन्मज्जच्छबरीपुलिन्दललनापीनस्तनास्फालन-
स्फारीभूतमहोर्मिनिर्मलजला दूरेधुना नर्मदा । १६ ॥
934</p>
<lg>
  <l>नो मन्ये दृढबन्धनात्क्षतमिदं नैवाङ्कुशोद्घातनं</l>
  <l>स्कन्धारोहणताडनात्परिभवं नैवान्यदेशागमम् ।</l>
  <l>चिन्तां मे जनयन्ति चेतसि यथा स्मृत्वा स्वयूथं वने</l>
  <l>सिंहत्रासितभीतभीरुकलभा यास्यन्ति कस्याश्रयम् ॥१७ ॥</l>
</lg>
<p>935</p>
<lg>
  <l>पत्युर्यत्पतितावशेषकवलग्रासेन वृत्तिः कृता</l>
  <l>पीतं यच्च करावगाहकलुषं तत्पीतशेषं पयः ।</l>
  <l>प्राणान्पूर्वतरं विहाय तदिदं प्राप्तं करिण्या फलं</l>
  <l>यद्बन्धव्रणकातरस्य करिण: क्लिष्टं न दृष्टं मुखम् ॥ १८ ॥</l>
</lg>
<p>केषामप्येते ।
936</p>
<lg>
  <l>यदि मत्तोसि मतङ्गज किममीभी रसालसरलतरुदलनैः ।</l>
</lg>
<lg>
  <l>हरिमनुसर खरनखरं व्यपनयति स करटकण्डुतिम् ॥ १९ ॥</l>
  <l>वल्लभदेवस्य ।</l>
  <l>--------------</l>
  <l>अथ हरिणान्योक्तयः ॥ ५५ ॥</l>
</lg>
<p>937</p>
<lg>
  <l>दूर्वाङ्कुरतृणाहारा धन्यास्ते वै वने मृगाः ।</l>
  <l>विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि यत् ॥ १ ॥</l>
</lg>
<p>938</p>
<lg>
  <l>कति कति न मदोद्धताश्चरन्ति</l>
  <l>प्रतिशिखरि प्रतिकाननं कुरङ्गाः ।</l>
  <l>क्वचिदपि पुनरुत्तमा मृगास्ते</l>
  <l>मदयति यन्मद एव मेदिनीशान् ॥ २ ॥</l>
</lg>
<pb n="164" />
<p>939</p>
<lg>
  <l>इह किं कुरङ्गशावक केदारे कमलमञ्जरीं त्यजसि ।</l>
  <l>तृणधन्वा तृणबाणस्तृणघटितः कपटपुरुषोयम् ॥ ३ ॥</l>
</lg>
<p>940</p>
<lg>
  <l>छित्वा पाशमपास्य कूटरचनां भङक्ता बलाद्वागुरां</l>
  <l>पर्यन्ताग्निशिखाकलापजटिलान्निःसृत्य दूरं वनात् ।</l>
  <l>व्याधानां शरगोचरादतिजवेनोत्पत्य गच्छन्मृगः</l>
  <l>कूपान्त: पतितः करोति विगुणे किं वा विधौ पौरुषम् ॥ ४ ॥</l>
</lg>
<p>941</p>
<lg>
  <l>द्रुततरमितो गच्छन्प्राणैः कुरङ्ग वियुज्यसे</l>
  <l>किमिति वलितग्रीवं स्थित्वा मुहुर्मुहुरीक्षसे ।</l>
  <l>विदधति हतव्याधानां ते मनागपि नार्द्रतां</l>
  <l>कठिनमनसामेषामेते विलोकितविभ्रमाः ॥ ५ ॥</l>
</lg>
<p>942</p>
<lg>
  <l>स्थलीनां दग्धानामुपरि मृगतृष्णामनुसरं-</l>
  <l>स्तृषार्त: सारङ्गो विरमति न खिन्नेपि मनसि ।</l>
  <l>अजानानस्तत्त्वं न स मृगयतेन्यत्र सरसी-</l>
  <l>मभूमौ प्रत्याशा न च फलति विघ्नं च कुरुते ॥ ६ ॥</l>
</lg>
<p>943</p>
<lg>
  <l>अल्पीयः स्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नति-</l>
  <l>र्द्वारे वेत्रलतावितानगहने कष्टः प्रवेशक्रमः ।</l>
  <l>हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना</l>
  <l>कि भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुराः शातिताः ॥ ७ ॥</l>
</lg>
<p>944</p>
<lg>
  <l>सारङ्गो न लतागृहेषु रमते नो पांसुले भूतले</l>
  <l>नो रम्यासु वनोपकण्ठहरितच्छायासु शीतास्वपि ।</l>
  <l>तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसीं</l>
  <l>शैलेन्द्रोदरकंदरासु गतधीः शृङ्गावशेषः स्थितः ॥ ८ ॥</l>
</lg>
<p>केषामप्येते ।</p>
<pb n="165" />
<p>945</p>
<lg>
  <l>वसन्त्यरण्येषु चरन्ति दूर्वां</l>
  <l>पिबन्ति तोयान्यपरिग्रहाणि ।</l>
  <l>तथापि वध्या हरिणा नराणां</l>
  <l>को लोकमाराधयितुं समर्थः ॥ ९ ॥</l>
</lg>
<p>मुक्तापीडस्य ।
946</p>
<lg>
  <l>आ: कष्टं वनवाससाम्यकृतया सिद्धाश्रमश्रद्धया</l>
  <l>पल्लीं बालकुरङ्ग संप्रति कुतः प्राप्नोसि मृत्योर्मुखम् ।</l>
  <l>यत्रानेककुरङ्गकोटिकदनक्रीडोल्लसल्लोहित-</l>
  <l>स्रोतोभिः परिपूरयन्ति परिखामुड्डामरा: पामराः ॥ १० ॥</l>
</lg>
<p>बिल्हणस्य ।
947</p>
<lg>
  <l>स्वच्छन्दं हरिणेन या विरहिता दैवात्समासादिता</l>
  <l>भङ्गप्रस्रुतदुग्धबिन्दुमधुरा शालेर्नवा मञ्जरी ।</l>
  <l>निःश्वासानलदग्धकोमलतृणप्रख्यापितान्तर्व्यथ-</l>
  <l>स्तामेव प्रतिवासरं सुनिरिव ध्यायन्वने शुष्यति ॥ ११ ॥</l>
</lg>
<p>धर्मकीर्तेः ।
948</p>
<lg>
  <l>सेयं स्थली नवतृणाङ्कुरजालमेत-</l>
  <l>स्मेयं मृगीति हृदि जातमदः कुरङ्गः ।</l>
  <l>नैवं तु वेत्ति यदिहान्तरितो लताभि-</l>
  <l>रायाति सज्जितकटोरशरः किरातः ॥ १२ ॥</l>
</lg>
<p>इन्द्रकवेः ।
949</p>
<lg>
  <l>रोमन्थमारचय मन्थरमेत्य निद्रां</l>
  <l>मुञ्च श्रमं तदनु संचर रे यथेच्छम् ।</l>
  <l>दूरे स पामरजनो मुनयः किलेते</l>
  <l>निष्कारणं हरिणपोत बिभेषि कस्मात् ॥ १३ ॥</l>
</lg>
<p>धर्मवर्धनस्य ।</p>
<pb n="166" />
<p>अथ करभान्योक्तयः ॥ ५६ ॥
950</p>
<lg>
  <l>वपुर्विषमसंस्थानं कर्णज्वरकरो रवः ।</l>
  <l>करभस्याशुगत्यैव छादिता दोषसंहतिः ॥ १ ॥</l>
</lg>
<p>भल्लटस्य ।
951</p>
<lg>
  <l>कुमुदशबलैः फुल्लाम्भोजैः सरोभिरलंकृतां</l>
  <l>मरकतमणिश्यामां राष्पैर्विहाय वनस्थलीम् ।</l>
  <l>स्मरति करभो यद्वृक्षाणां चरन्मरुजन्मनां</l>
  <l>परिचयरतिः सा दुर्वारा न सा गुणवैरिता ॥ २॥</l>
</lg>
<p>जीवनायकस्य ।
952</p>
<lg>
  <l>यस्मिन्नुच्चैर्विषमगहनान्तर्गता स्वादुवल्ली</l>
  <l>स्वेच्छं भुक्ता सरलितगले नात्मचेतोनुलग्ना ।</l>
  <l>तत्तारुण्यं करभ गलितं कुत्र ते प्राग्विलासा</l>
  <l>यत्स्वाधीनं यदपि सुलभं तेन तुष्टिं विधेहि ॥ ३ ॥</l>
</lg>
<p>953</p>
<lg>
  <l>करभदयिते योसौ पीलुस्त्वया मधुलुब्धया</l>
  <l>व्यपगतघनच्छायस्त्यक्तो न सादरमीक्षितः ।</l>
  <l>चलकिसलयैः सोपीदानीं प्ररूढनवाङ्कुरः</l>
  <l>करभदयितावृन्दैरन्यैः सुखं परिभुज्यते ॥ ४ ॥</l>
</lg>
<p>954</p>
<lg>
  <l>चिन्तां मुञ्च गृहाण पल्लवमिदं प्लक्षस्य शालस्य वा</l>
  <l>गाङ्गस्यास्य जलस्य चन्द्रवपुषो गण्डूषमेकं पिब ।</l>
  <l>जीवन्द्रक्ष्यसि ताः पुनः करभ हे दासेरकीया भुवो</l>
  <l>रम्या: पीलुशमीकरीरबदरीकूजत्कपोताकुलाः ॥ ५॥</l>
</lg>
<p>955
यस्यासीन्नवपीलुपत्त्रबदरग्रासोपि संतुष्टये
दीर्घाध्वन्यनुगम्यते न पदवी यस्य स्वयूथ्यैरपि ।</p>
<pb n="167" />
<p>सोयं संप्रति याति बालकरभः क्षीणोद्यमः क्षामतां
मन्ये नूनमनेन दैवहतकेनास्वादितं तन्मधु ॥ ६ ॥
956</p>
<lg>
  <l>पीलूनां फलवत्कषायमधुरं रोमन्थयित्वा मरौ</l>
  <l>शाखाग्रं यदखादि चारु करभीवक्त्रार्पितं प्रेमतः ।</l>
  <l>तत्स्मृत्वा करभेण खेदविधुरं दीर्घं तथा फूत्कृतं</l>
  <l>प्राणानामभवत्तदेव सहसा प्रस्थानतूर्यं  यथा ॥ ७ ॥</l>
</lg>
<p>957</p>
<lg>
  <l>दुष्प्रापमम्बु पवनः परुषोतितापी</l>
  <l>छायाभृतो न तरवः फलभारनत्राः ।</l>
  <l>इत्थं सखे करभ वच्मि भवन्तमुच्चैः</l>
  <l>का संगतिः खलु मरौ रमणीयतायाः ॥ ८ ॥</l>
</lg>
<p>958</p>
<lg>
  <l>अस्याननस्य भवतः खलु कोटिरेषा</l>
  <l>कण्टारिका यदि भवेदविशीर्णपर्णा ।</l>
  <l>योग्या कथं करभ कल्पतरोर्लताया-</l>
  <l>स्ते पल्लवा विमलविद्रुमभङ्गभाजः ॥ ९ ॥</l>
</lg>
<p>959</p>
<lg>
  <l>दासेरको रसत्येष युक्तं भारेधिरोहति ।</l>
  <l>उत्तार्यमाणेपि पुनर्यत्तत्र किमु कुर्महे ॥ १० ॥</l>
</lg>
<p>केषामप्येते ।
960</p>
<lg>
  <l>करभदयिते यत्तत्पीतं सुदुर्लभमेकदा</l>
  <l>मधु वनगतं तस्यालाभे विरौषि किमुत्सुका ।</l>
  <l>कुरु परिचितैः पीलो: पत्रैर्धृतिं मरुगोचरै-</l>
  <l>र्जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा ॥ ११ ॥</l>
</lg>
<p>भगवतो व्यासस्य ।</p>
<pb n="168" />
<p>अथ वृषभान्योक्तयः ॥ ५७ ॥
961</p>
<lg>
  <l>नास्य भारग्रहे शक्तिर्न च वाहगुणः कृतौ ।</l>
  <l>देवागारबलीवर्दस्तथाप्यश्नाति शोभनम् ॥ १ ॥</l>
</lg>
<p>962</p>
<lg>
  <l>अनसि सीदति सैकतवर्त्मनि</l>
  <l>प्रचुरभारभरक्षपितौक्षके ।</l>
  <l>गुरुभरोद्धरणोद्धुरकंधरं</l>
  <l>स्मरति सारथिरद्य धुरंधरम् ॥ २ ॥</l>
</lg>
<p>963</p>
<lg>
  <l>मार्गे कर्दमदुर्गमे जलभृते गर्ताशतैराकुले</l>
  <l>खिन्ने शाकटिके भरेतिविषमे दूरं गते रोधसि ।</l>
  <l>शब्देनैतदहं ब्रवीमि महता कृत्वोच्छ्रितां तर्जनी-</l>
  <l>मीदृक्षे विषमे विहाय धवलं वोढुं क्षमः को धुरम् ॥ ३ ॥</l>
</lg>
<p>964</p>
<lg>
  <l>दन्ताः सप्त चलं विषाणयुगलं पुच्छाञ्चलः कर्बुरः</l>
  <l>कुक्षिश्चन्द्रकिता वपुः कुसुमितं सव्यच्युतं चेष्टितम् ।</l>
  <l>अस्मिन्दुष्टवृषे वृषाग्रिमगुणग्रामानभिज्ञात्मनो</l>
  <l>ग्रामीणस्य तथापि चेतसि चिरं धुर्यभ्रमः स्फूर्जति ॥ ४ ॥</l>
</lg>
<p>965</p>
<lg>
  <l>कासांचिद्धवलश्चिरं निवसतां चित्तेपरासां पुन-</l>
  <l>र्नीलो वा कपिलोथवा वरवृषो रक्तोथवा मेचकः ।</l>
  <l>ग्रामीणैरवधीरितोपि शिथिलस्कन्धोप्यनूर्ध्वश्रवाः</l>
  <l>स्वान्ते मे परतन्त्रतुन्दिलतनुर्जागर्त्ययं कर्बुरः ॥ ५ ॥</l>
</lg>
<p>श्रीचन्द्रस्य ।
966
गुरुनोयं  भारः क्वचिदपि न पन्थाः स्थपुटितो
न ते कुण्ठा शक्तिर्वहनमपि तेङ्गे न विकलम् ।</p>
<pb n="169" />
<p>इह द्रङ्गे नान्यस्तव गुणसमानस्तदधुना
धुनानेन स्कन्धं धवल किमु मुक्तः पथि भरः ॥ ६ ॥
967</p>
<lg>
  <l>न ध्वानं कुरुषे न यासि विकटं नोच्चैर्वहस्याननं</l>
  <l>दर्पान्नो लिखसि क्षितिं खुरपुटैर्नावज्ञया वीक्षसे ।</l>
  <l>किं तु त्वं वसुधातलैकधवल स्कन्धाधिरूढे भरे</l>
  <l>तीराण्युच्चतटीविटङ्कविषमाण्युल्लङ्घयन्वीक्ष्यसे ॥ ७ ॥</l>
</lg>
<p>968</p>
<lg>
  <l>यस्यादौ व्रजमण्डनस्य बहतो गुर्वी धुरं धैर्यतो</l>
  <l>धौरेयै: प्रगुणीकृतो न युगपत्स्कन्धः समस्तैरपि ।</l>
  <l>तस्यैव श्लथकम्बलस्य धवलस्योत्थापने सांप्रतं</l>
  <l>द्रङ्गेत्रैव जरावसादिततनोर्गोः पुण्यमुद्घोष्यते ॥ ८ ॥</l>
</lg>
<p>969</p>
<lg>
  <l>एतानि बालधवल प्रविहाय कामं</l>
  <l>गोष्ठाङ्गणे तरलतर्णकचेष्टितानि ।</l>
  <l>स्कन्धं निधेहि धुरि पूर्वधुरीणमुक्तो</l>
  <l>नेतव्यतामुपगतोस्ति तवैष भारः ॥ ९ ॥</l>
</lg>
<p>370</p>
<lg>
  <l>न खनति खुरैः क्षोणीपृष्ठं न नर्दति सादरं</l>
  <l>प्रकृतिपरुषं प्रेक्ष्याप्यग्रे न कुप्यति गोचरम् ।</l>
  <l>वहति च धुरं धुर्यो धैर्यादनुद्धतकंधरो</l>
</lg>
<lg>
  <l>जगति गुणिनः कार्यौदार्यात्परानतिशेरते ॥१०॥</l>
  <l>केषामप्येते ।</l>
  <l>----------------</l>
  <l>अथ सामान्यवृक्षान्योक्तयः ॥ ५८ ॥</l>
</lg>
<p>971
किं जातोसि चतुष्पथे घनतरं छन्नोसि किं छायया
छन्नश्चेत्फलितोसि किं फलभरैराद्योसि किं संनतः ।</p>
<pb n="170" />
<p>हे सद्वृक्ष सहस्व संप्रति सखे शाखाशिखाकषण-
क्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्चेष्टितैः ॥ १ ॥
भवन्तज्ञानवर्मणः ।
972</p>
<lg>
  <l>छायासुप्तमृगः शकुन्तनिवहैर्विष्ठाविलिप्तच्छदः</l>
  <l>कीरैरावृतकोटर: कपिकुलैः स्कन्धे कृतप्रश्रयः ।</l>
  <l>विस्रब्धं मधुपैर्निपीतकुसुमः श्लाघ्य: स एकस्तरु-</l>
  <l>र्यत्राङ्गीकृतसत्त्वसंप्लवभरे भग्नापदोन्ये द्रुमाः ॥ २ ॥</l>
</lg>
<p>बीजकस्य ।
973</p>
<lg>
  <l>शाखा शतचितवियतः सन्ति कियन्तो न कानने तरवः ।</l>
  <l>परिमलभरमिलदलिकुलदलितदला: शाखिनो विरलाः ॥३॥</l>
</lg>
<p>श्रीवैद्यभानुपण्डितस्य ।
974</p>
<lg>
  <l>गतास्ते विस्तीर्णस्तबकभर सौरभ्यलहरी-</l>
  <l>परीतव्योमान: प्रकृतिगुरवः केपि तरवः ।</l>
  <l>इहोद्याने संप्रत्यहह परिशिष्टाः क्रमवशा-</l>
  <l>दमी वल्मीकास्ते भुजगकुललीलावसतयः ॥ ४ ॥</l>
</lg>
<p>975</p>
<lg>
  <l>तीव्रो निदाघसमयो बहुपथिकजनश्च मारवः पन्थाः ।</l>
  <l>मार्गस्थस्तरुरेक: कियतां संतापमपनयति ॥ ५ ॥</l>
</lg>
<lg>
  <l>प्रत्ययैः पत्रनिचयैस्तरुर्यैरेव शोभितः ।</l>
  <l>जहाति जीर्णांस्तानेव किं वा चित्रं कुजन्मनः ॥ ६ ॥</l>
</lg>
<p>976</p>
<lg>
  <l>रोलम्बैर्न विलम्बितं विघटितं धूमाकुलै: कोकिलै-</l>
  <l>र्मायूरैश्चलितं पुरैव रभसा कीरैरधीरैर्गतम् ।</l>
  <l>एकेनापि सपल्लवेन तरुणा दावानलोपप्लवः</l>
  <l>सोढः को न विपत्सु मुञ्चति जनो मूर्ध्नापि यो लालितः ॥७॥</l>
</lg>
<pb n="171" />
<p>977</p>
<lg>
  <l>पत्रपुष्पफलच्छायामूलवल्कलदारुभिः ।</l>
  <l>धन्या महीरुहो येभ्यो निराशा यान्ति नार्थिनः ॥ ८ ॥</l>
</lg>
<p>978</p>
<lg>
  <l>छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः ।</l>
  <l>मार्गद्रुमा महान्तश्च परेषामेव भूतये ॥ ९ ॥</l>
</lg>
<p>979</p>
<lg>
  <l>भुक्तं स्वादु फलं कृतं च शयनं शाखाग्रजै: पल्लवै-</l>
  <l>स्त्वच्छायापरिशीतलं सुसलिलं पीतं व्यपेतश्रमैः ।</l>
  <l>विश्रान्ताः सुचिरं परं सुमनसः प्रीतिः किमत्रोच्यते</l>
  <l>त्वं सन्मार्गतरुर्वयं च पथिका यामः पुनर्दर्शनम् ॥ १० ॥</l>
</lg>
<p>केषामप्येते ।
980</p>
<lg>
  <l>भुक्तानि यैस्तव फलानि पचेलिमानि</l>
  <l>क्रोडस्थितैरहह वीतभयैः प्रसुप्तम् ।</l>
  <l>ते पक्षिणो जलरयेण विकृष्यमाणं</l>
  <l>पश्यन्ति पादप भवन्तममी तटस्थाः ॥ ११ ॥</l>
</lg>
<p>श्रीमहादेवस्य ।
981</p>
<lg>
  <l>विपन्नं पद्मिन्या मृतमनिमिषैर्यातमलिभिः</l>
  <l>खगैरप्युड्डीनं रथचरणहंसप्रभृतिभिः ।</l>
  <l>दशां दीनां नीते सरसि विषमग्रीष्मदिवसः</l>
  <l>कुलीनत्वादास्ते तटरुहतरु: कोपि तदपि ॥ १२ ॥</l>
</lg>
<p>नागपैयस्य ।
982
शाखोटशाल्मलिपलाशकरीरकाद्याः
शृण्वन्तु पुण्यनिलयो यदसौ वसन्तः
युष्मभ्यमर्पयतु पल्लवपुष्पलक्ष्मीं
सौरभ्यसंभवविधिस्तु विधेरधीनः ॥ १३ ॥
गाङ्गदेवस्य ।</p>
<pb n="172" />
<p>983</p>
<lg>
  <l>पान्थाधार इति द्विजाश्रय इति श्लाघ्यस्तरूणामिति</l>
  <l>स्निग्धच्छाय इति प्रियो दृश इति स्थानं गुणानामिति ।</l>
  <l>पर्यालोच्य महातरो तव घनच्छायां वयं संश्रिता-</l>
  <l>स्तत्त्वत्कोटरवासिनो द्विरसना दूरीकरिष्यन्ति नः ॥ १४ ॥</l>
</lg>
<p>984</p>
<lg>
  <l>हिमसमयो वनवह्निर्जवनः पवनस्तडिल्लताविभवः ।</l>
  <l>हन्त सहन्ते यावत्तावद्द्रुम कुरु परोपकृतिम् ॥ १५ ॥</l>
</lg>
<p>985</p>
<lg>
  <l>ये पूर्वं परिपालिताः फलभरच्छायादिभिः प्राणिनो</l>
  <l>विश्रामद्रुम कथ्यतां तव विपत्काले क्व ते सांप्रतम् ।</l>
  <l>एता: संगतिमात्रकल्पितपुरस्कारास्तु धन्यास्त्वचो</l>
  <l>यासां छेदनमन्तरेण पतितो नायं कुठारस्त्वयि ॥ १६ ॥</l>
</lg>
<p>986</p>
<lg>
  <l>वृद्धिर्यस्य तरोर्मनोरथशतैराशावता प्रार्थिता</l>
  <l>जातोसौ सरसः प्रकामफलदः सर्वाश्रितोपाश्रयः ।</l>
  <l>नानादेशसमागतैरविदितैराक्रान्तमन्यैः खगे-</l>
</lg>
<lg>
  <l>स्तं लब्धावसरोपि वृद्धशकुनिर्दूरे स्थितो वीक्षते ॥ १७ ॥</l>
  <l>केषामप्येते ।</l>
  <l>----------------</l>
  <l>अथ वृक्षविशेषान्योक्तयः ॥ ५९ ॥</l>
</lg>
<p>तत्र पूर्वं  कल्पवृक्षः ।
987</p>
<lg>
  <l>कल्पद्रुमोपि कालेन भवेद्यदि फलप्रदः ।</l>
  <l>को विशेषस्तदा तस्य वन्यैरन्यैर्महीरुहैः ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
988
स्वर्णैः स्कन्धपरिग्रहो मरकतैरुल्लासिताः पल्लवा
मुक्ताभि: स्तबकश्रियो मधुलिहां वृन्दानि नीलोत्पलैः ।</p>
<pb n="173" />
<p>संकल्पानुविधायि यस्य फलितं कस्तस्य धत्ते तुलां
धिग्जातिं द्रुमसंकथासु यदयं कल्पद्रुमोपि द्रुमः ॥ २ ॥
रल्हणस्य ।
अथ पारिजातः ।
989</p>
<lg>
  <l>परिमलसुरभितनभसो बहवः कनकाद्रिपरिसरे तरवः ।</l>
  <l>तदपि मुराणां चेतसि निवसितमिव पारिजातेन ॥ ३ ॥</l>
</lg>
<p>श्रीवल्लभदेवस्य ।
अथ चन्दनम् ।
990</p>
<lg>
  <l>सन्त्येव गिलिताकाशा महीयांसो महीरुहाः ।</l>
  <l>तथापि जनताचित्तानन्दनश्चन्दनद्रुमः ॥ ४ ॥</l>
</lg>
<p>हरिगणस्य ।
991</p>
<lg>
  <l>कान्ताकेलिं कलयतु तरुः कोपि कश्रित्प्रभूणा-</l>
  <l>मत्यानन्दं जनयतु फलैः कोपि लोकान्धिनोतु ।</l>
  <l>धन्यं मन्ये मलयजमहो यः प्रभूतोपतापं</l>
  <l>संसारस्य द्रुतमपनयत्यात्मदेहव्ययेन ॥ ५ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
992</p>
<lg>
  <l>केचिल्लोचनहारिणः कतिपये सौरभ्यसंभारिणः</l>
  <l>केप्यन्ये फलधारिणः प्रतिदिशं ते सन्तु हन्त द्रुमाः ।</l>
  <l>धन्योयं हरिचन्दनः परिसरे यस्य स्थितैः शाखिभिः</l>
  <l>शाखोटादिभिरप्यहो मृगदृशामङ्गेषु लीलायितम् ॥६॥</l>
</lg>
<p>श्रीपुष्पाकरदेवस्य ।
993</p>
<lg>
  <l>भ्रातश्चन्दन किं ब्रवीमि विकटस्फूर्जत्फणाभीषणा</l>
  <l>गन्धस्यापि महाविषाः फणभृतो गुप्त्यै यदेते कृताः ।</l>
  <l>दैवात्पुष्पफलान्वितो यदि भवानत्राभविष्यत्तदा</l>
  <l>नो जाने किंमकल्पयिष्यदधिकं रक्षार्थमस्यात्मनः ॥ ७ ॥</l>
</lg>
<p>श्रीभोजदेवस्य ।</p>
<pb n="174" />
<p>994</p>
<lg>
  <l>एतैर्दक्षिणगन्धवाहवलनैः श्रीखण्ड किं सौरभं</l>
  <l>ब्रूमस्ते परितो मधुव्रतयुवा येनायमानीयते ।</l>
  <l>माकन्दादपहृत्य पङ्कजवनादुद्धूय कुन्दोदरा-</l>
  <l>दुद्भाम्यद्द्विपगण्डमण्डलतलादाकृष्य हृष्यन्मनाः ॥ ८ ॥</l>
</lg>
<p>995</p>
<lg>
  <l>यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः ।</l>
  <l>निजवपुषैव परेषां तथापि संतापमपनयति ॥ ९ ॥</l>
</lg>
<p>996</p>
<lg>
  <l>धिक्चेष्टितानि परशो परशोचनीय-</l>
  <l>बालप्रवालमलयाद्रिरुहद्रुहस्ते ।</l>
  <l>निर्भिद्यमानहृदयोपि महाप्रभावः</l>
  <l>स त्वन्मुखं पुनरभी: सुरभीकरोति ॥ १० ॥</l>
</lg>
<p>997</p>
<lg>
  <l>वासः शैलशिलान्तरेषु सहजः सङ्गो भुजंगैः सह</l>
  <l>प्रेङ्खत्क्षारपयोधिवीचिभिरभूदुद्भूतिसेकक्रिया ।</l>
  <l>जानीमो न वयं प्रसीदतु भवाञ्श्रीखण्ड तत्कथ्यतां</l>
  <l>कस्मात्ते परतापखण्डनमहापाण्डित्यमभ्यागतम् ॥ ११ ॥</l>
</lg>
<p>998</p>
<lg>
  <l>आमोदैस्तैर्दिशि दिशि गतैर्दूरमाकृष्यमाणा:</l>
  <l>साक्षाल्लक्ष्मीं तव मलयज द्रष्टुमभ्यागताः स्मः ।</l>
  <l>किं पश्यामः सुभग भवतः क्रीडति क्रोड एव</l>
  <l>व्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधु यामः ॥ १२ ॥</l>
</lg>
<p>999</p>
<lg>
  <l>मूलं भुजंगैः शिखरं विहंगैः</l>
  <l>शाखा: प्लवंगैः कुसुमानि भृङ्गैः ।</l>
  <l>नास्त्येव तच्चन्दनपादपस्य</l>
  <l>यन्नाश्रितं सत्त्वभरैः समन्तात् ॥ १३ ॥</l>
</lg>
<p>केषामप्येते ।</p>
<pb n="175" />
<p>अथागुरुः ।
1000</p>
<lg>
  <l>अगुरुरिति वदतु लोको गौरवमत्रैव पुनरहं मन्ये ।</l>
  <l>दर्शितगुणैव वृत्तिर्यस्य जने जनितदाहेपि ॥ १४ ॥</l>
</lg>
<p>वल्लभदेवस्य ।
1001</p>
<lg>
  <l>आरामाभरणस्य पल्लवचयैरापीततिग्मत्विषः</l>
  <l>पाथोद प्रशमं नयागुरुतरोरेतस्य दाहज्वरम् ।</l>
  <l>ब्रूमस्त्वामुपकारकातर गतप्रायाः पय: संपदो</l>
  <l>दग्धोप्येष तरुर्दिशः परिमलैरापूर्य निर्वास्यति ॥ १५ ॥</l>
</lg>
<p>अथ चम्पकः ।
1002</p>
<lg>
  <l>अन्तः प्रतप्तमरुसैकतदह्यमान-</l>
  <l>मूलस्य चम्पकतरोः क्व विकासचिन्ता ।</l>
  <l>प्रायो भवत्यनुचितस्थितिदेशभाजां</l>
  <l>श्रेयः स्वजीवपरिपालनमात्रमेव ॥ १६ ॥</l>
</lg>
<p>धर्मवर्धनस्य ।
1003</p>
<lg>
  <l>केनापि चम्पकतरो बत रोपितोसि</l>
  <l>कुग्रामपामरजनान्तिकवाटिकायाम् ।</l>
  <l>यत्र प्ररूढनवशाकविवृद्धलोभा-</l>
  <l>द्गोभग्नवाटघटनोचितपल्लवोसि ॥ १७ ॥</l>
</lg>
<p>विज्जाकायाः ।
अथाशोक ।
1004</p>
<lg>
  <l>किं ते नम्रतया किमुन्नततया किं वा घनच्छायया</l>
  <l>किं वा पल्लवलीलया किमनया चाशोक पुष्पश्रिया ।</l>
  <l>यत्त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन्नन्वहं</l>
  <l>न स्वादूनि मृदूनि खादति फलान्याकण्ठमुत्कण्ठितः ॥ १८ ॥</l>
</lg>
<p>श्रीभोजदेवस्य ।</p>
<pb n="176" />
<p>1005</p>
<lg>
  <l>मृदूनां स्वादूनां लघुरपि फलानां न विभव-</l>
  <l>स्तवाशोक स्तोकः स्तबकमहिमा सोप्यसुरभिः ।</l>
  <l>यदेतन्नो तन्वीकरचरणलावण्यसुभगं</l>
  <l>प्रवालं बालं स्यात्तरुषु सकलङ्कः किमपरः ॥ १९ ॥</l>
</lg>
<p>सरस्वतीकुटुम्बस्य ।
अथ मालती ।
1006
किं मालतीकुसुम ताम्यसि निष्ठुरेण
केनापि यत्किल विलूनमितो लताग्रात् ।
लोकोत्तरेण विलसद्गुणगौरवेण
को नामुना शिरसि नाम करिष्यति त्वाम् ॥ २० ।
नग्मैयस्य ।
1007</p>
<lg>
  <l>म्रदीयस्त्वाधिक्यान्न भवति विमर्दे क्षममिदं</l>
  <l>न चान्येभ्यो रूपे भवति कुसुमेभ्योधिकतरम् ।</l>
  <l>प्रसूनं मालत्यास्तदपि हृदयाह्लादकरण</l>
  <l>प्रवीणैरामोदैर्भवति जगतो मौलिनिलयम् ॥ २१ ॥</l>
</lg>
<p>कस्यापि ।
1008</p>
<lg>
  <l>भवति हृदयहारी कोपि कस्यापि हेतु</l>
  <l>र्न खलु गुणविशेष: प्रेमबन्धोपयोगी ।</l>
  <l>किसलयितवनान्ते कोकिलालापरम्ये</l>
  <l>विकसति न वसन्ते मालतीकोत्र हेतुः ॥ २२ ॥</l>
</lg>
<p>कस्यापि ।
1009</p>
<lg>
  <l>कुसुमस्तबकैर्नम्राः सन्त्येव परितो लताः ।</l>
  <l>तथापि भ्रमरभ्रान्तिं हरन्येकैव मालती ॥ २३ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="177" />
<p>अथ मल्लिका ।
1010</p>
<lg>
  <l>न च गन्धवहेन चुम्बिता</l>
  <l>न च पीता मधुपेन मल्लिका ।</l>
  <l>पिहितैव कठोरशाखया</l>
  <l>पारणामस्य जगाम गोचरम् ॥ २४ ॥</l>
</lg>
<p>अथ केतकी ।
1011</p>
<lg>
  <l>रोलम्बस्य चिराय केतकिपरिष्वङ्गेष्वभङ्गो रसः</l>
  <l>मुज्ञातं बत केतकस्य च मनो भृङ्गप्रसङ्गोत्सुकम् ।</l>
  <l>जानात्येव मिथोनुरागमनयोः सर्वोपि नैसर्गिकं</l>
  <l>प्रत्यूहाय दलेषु धिक्समभवन्मर्माविधः कण्टकाः ॥ २५॥</l>
</lg>
<p>कस्यापि ।
1012</p>
<lg>
  <l>पत्राणि कण्टकशतैः परिवेष्टितानि</l>
  <l>वार्तापि नास्ति मधुनो रजसान्धकारः ।</l>
  <l>आमोदमात्ररसिकेन मधुव्रतेन</l>
  <l>नालोकितानि तव केतकि दूषणानि ॥ २६ ॥</l>
</lg>
<p>कम्यापि ।
1013</p>
<lg>
  <l>एतासु केतकि लतासु विकासिनीषु</l>
  <l>सौभाग्यमद्भुततरं भवती बिभर्ति ।</l>
  <l>यत्कण्टकैर्व्यथितमात्मवपुर्न जानं-</l>
  <l>स्त्वामेव सेवितुमुपक्रमते द्विरेफः ॥ २७ ॥</l>
</lg>
<p>श्रीमहादेवस्य ।
अथ पाटला ।
1014</p>
<lg>
  <l>पाटलया वनमध्ये कुसुमितया मोहितस्तथा भ्रमरः ।</l>
  <l>सैवेयमिति यथाभूत्प्रतीतिरस्यान्यपुष्पेषु ॥ २८ ॥</l>
</lg>
<p>शार्ङ्गधरम्य ।</p>
<pb n="178" />
<p>अथ सहकारः ।
1015</p>
<lg>
  <l>गाता कोकिल एव ज्ञाता च रसाल एव नियतमिदम् ।</l>
  <l>यः पञ्चममुद्गायति यस्यास्थिषु पुलकमुकुलानि ॥ २९ ॥</l>
</lg>
<p>कस्यापि ।
1016</p>
<lg>
  <l>न तादृक्कर्पूरे न च मलयजे नो मृगमदे</l>
  <l>फले वा पुष्पे वा तव भवति यादृक्परिमलः ।</l>
  <l>परं त्वेको दोषस्त्वयि खलु रसालेधिकगुणे</l>
  <l>पिके वा काके वा गुरुलघुविशेषं न मनुषे ॥ ३० ॥</l>
</lg>
<p>कस्यापि ।
1017</p>
<lg>
  <l>उत्तंसकौतुकरसेन विलासिनीनां</l>
  <l>लूनानि यस्य न नखैरपि पल्लवानि ।</l>
  <l>उद्यानमण्डनतरो सहकार स त्व-</l>
  <l>मङ्गारकारकरगोचरतां गतोसि ॥ ३१ ॥</l>
</lg>
<p>उत्पलराजस्य ।
1018</p>
<lg>
  <l>कति पल्लविता न पुष्पिता वा</l>
  <l>तरवः सन्ति समन्ततो वसन्ते ।</l>
  <l>जगतीविजये तु पुष्पकेतो:</l>
  <l>सहकारी सहकार एक एव ॥ ३२ ॥</l>
</lg>
<p>कस्यापि ।
1019</p>
<lg>
  <l>यो दृष्टः स्फुटदस्थिसंपुटवशान्निर्यत्प्रवालाङ्कुरो</l>
  <l>दैवात्स द्विदलादिकक्रमवशादारूढशाखाशतः ।</l>
  <l>स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छदं पुष्पितः</l>
  <l>सोत्कर्षं फलितो भृशं च नमितः कोप्येषु चूतद्रुमः ॥ ३३॥</l>
</lg>
<p>हेतुकस्य ।</p>
<pb n="179" />
<p>1020</p>
<lg>
  <l>एतस्मिन्वनमार्गभूपरिसरे सौन्दर्यमुद्राङ्कितः</l>
  <l>प्रोद्यद्भिः फलपत्त्रपुष्पनिचयैश्चूत: स एकः परम् ।</l>
  <l>यं वीक्ष्य स्मितवक्त्रमुद्गतमहासंतोषमुल्लासित-</l>
  <l>स्फारोत्कण्ठमकुण्ठितक्रमममी धावन्ति पान्थव्रजाः ॥ ३४ ॥</l>
</lg>
<p>भट्टनायकस्य ।
1021</p>
<lg>
  <l>छाया फलानि मुकुलानि च यस्य विश्व-</l>
  <l>माह्लादयन्ति सहकारमहीरुहस्य ।</l>
  <l>आमृष्य तस्य शिखया नवपल्लवानि</l>
  <l>मथ्नासि रे दबहुताश हताश कष्टम् ॥ ३५ ॥</l>
</lg>
<p>कस्यापि ।
1022</p>
<lg>
  <l>कूष्माण्डीफलवत्फलं न यदपि न्यग्रोधवन्नोच्चता</l>
  <l>रम्भापत्रनिभं दलं न कुसुमं नो केतकीपुष्पवत् ।</l>
  <l>सौरभ्यं कुसुमे दले तदपि तत्किंचित्समुज्जृम्भते</l>
  <l>लोके येन रसाल साल नितरां व्यक्त्त्वा गुणांस्तौमि ते ॥ ३६ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
1023</p>
<lg>
  <l>यावत्फलोदयमुखः सहकार जात-</l>
  <l>स्तावच्च कण्टककुलैः परिवेष्टितोसि ।</l>
  <l>छायापि ते न सुलभा फलमस्तु दूरे</l>
  <l>त्वं निष्फलो वरमहो सुखसेवनीयः ॥ ३७ ॥</l>
</lg>
<p>कस्यापि ।
अथ पनसः ।
1024</p>
<lg>
  <l>गरीय: सौरभ्ये रसपरिचये नार्हति सुधा-</l>
  <l>सिना भृद्वीकापि प्रथिमनि निमग्नः फलभरः ।</l>
  <l>परार्थे कोशश्रीरिति फुलकित: कण्टकमिषा-</l>
  <l>रहो ते चारित्रं पनस मनसः कस्य न मुदे ॥ ३८ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="180" />
<p>अथ कदली ।
1025</p>
<lg>
  <l>तालीतरोरनुपकारि फलं फलित्वा</l>
  <l>लज्जावशादुचित एव विनाशयोगः ।</l>
  <l>एतत्तु चित्रमुपकृत्य फलैः परेभ्यः</l>
  <l>पाणान्निजाञ्झगिति यत्कदली जहाति ॥ ३९ ॥</l>
</lg>
<p>कस्यापि ।
अथ द्राक्षा ।
1026</p>
<lg>
  <l>पे न भवति हानिः परकीयां चरति रासभे द्राक्षाम् ।</l>
  <l>असमञ्जसं हि दृष्ट्वा तथापि परितप्यते चेतः ॥ ४० ॥</l>
</lg>
<p>कस्यापि ।
1027</p>
<lg>
  <l>दासेरकस्य दासीयं बदरी यदि रोचते ।</l>
  <l>एतावतैत्र किं द्राक्षा न साक्षादमृतप्रदा ॥ ४१ ॥</l>
</lg>
<p>कर्पूरकवेः ।
अथ दाडिमम् ।
1028</p>
<lg>
  <l>आ पुष्पप्रसरान्मनोहरतया विश्वास्य विश्वं जनं</l>
  <l>हंहो दाडिम तावदेव सहसे वृद्धिं स्वकीयामिह ।</l>
  <l>यावन्नैति परोपभोगसहतामेषा ततस्तां तथा</l>
  <l>ज्ञात्वा ते हृदयं द्विधा दलति यत्तेनातिवन्द्यो भवान् ॥ ४२ ॥</l>
</lg>
<p>श्री मोजदेवस्य ।
अथ नालिकेरः ।
1029</p>
<lg>
  <l>प्रथमवयसि पीतं तोयमल्पं स्मरन्तः</l>
  <l>शिरसि निहितभारा नालिकेरा नराणाम् ।</l>
  <l>ददति जलमनल्पास्वादमाजीवितान्तं</l>
  <l>नहि कृतमुपकारं साधवो विस्मरन्ति ॥४३ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="181" />
<p>अथ तालः ।
1030</p>
<lg>
  <l>अध्वन्यध्वनि भूरुहः फलभृतो नम्रानुपेक्ष्यादरा-</l>
  <l>द्दूरादुन्नतिसंश्रयव्यसनिनः पान्थस्य मुग्धात्मनः ।</l>
  <l>यन्मूलं समुपागतस्य मधुरच्छायाफलैः का कथा</l>
  <l>शीर्णेनापि हि नोपयोगमगमत्पर्णेन तालद्रुमः ॥ ४४ ॥</l>
</lg>
<p>कस्यापि ।
अथ भूर्जः ।
1031</p>
<lg>
  <l>दौर्जन्यमात्मनि परं प्रथितं विधात्रा</l>
  <l>भूर्जद्रुमस्य विफलत्वसमर्पणेन ।</l>
  <l>किं चर्मभिर्निशितशस्त्रशतावकृत्तै-</l>
  <l>राशां न पूरयति सोर्थिपरंपराणाम् ॥ ४५ ॥</l>
</lg>
<p>भट्टगोविन्दराजस्य ।
1032</p>
<lg>
  <l>कुर्वन्तु नाम जनतोपकृतिं प्रसून</l>
  <l>च्छायाफलैरविकलैः सुलभैर्द्रुमास्ते ।</l>
  <l>सोढास्तु कर्तनरुजः पररक्षणार्थ-</l>
  <l>मेकेन भूर्जतरुणा करुणापरेण ॥ ४६ ॥</l>
</lg>
<p>श्रीवैद्यभानुपण्डितस्य ।
अथाश्वत्थः ।
1033</p>
<lg>
  <l>वर्धितैः सेवितैः किं तैः सत्यश्वत्थेन्यपादपै : ।</l>
  <l>वर्धितो नरकाद्रक्षेत्स्पृष्टोरिष्टानि हन्ति यः ॥ ४७ ॥</l>
</lg>
<p>माधवमागधस्य ।
अथ न्यग्रोधः ।
1034
विस्तीर्णो दीर्घशाखाश्रितशकुनिशतः शाखिनामग्रणीस्त्वं
न्यग्रोध क्रोधमन्तः प्रकटयसि न चेद्वच्मि किंचित्तदल्पम् ।</p>
<pb n="182" />
<p>जल्पोप्येष त्रपाकृत्प्रलघुपरिकरा कापि कूष्माण्डवल्ली
पल्लीपृष्ठप्रतिष्ठा हसति निजफलैस्त्वत्फलर्द्धि किमन्यत् ॥४८॥
कस्यापि ।
1035</p>
<lg>
  <l>महातरुर्वा भवति समूलो वा विनश्यति ।</l>
  <l>नान्तरप्रत्ययानेति न्यग्रोधकणिकाङ्कुरः ॥ ४९ ॥</l>
</lg>
<p>कस्यापि ।
अथ मधूकः ।
1036</p>
<lg>
  <l>तत्तेजस्तरणेर्निदाघसमये तद्वारि मेघागमे</l>
  <l>तज्जाड्यं शिशिरे मदेकशरणैः सोढं पुरा यैर्दलैः ।</l>
  <l>आयातस्त्वधुना फलस्य समयः किं तेन मे तैर्विना</l>
  <l>स्मृत्वा तानि शुचेव रोदिति गलत्पुष्पैर्मधूकद्रुमः ॥ ५० ॥</l>
</lg>
<p>कस्यापि ।
1037</p>
<lg>
  <l>मूलादेव फलस्य विस्तृतिभरश्छायाप्यनन्यादृशी</l>
  <l>ते यस्य प्रसवाः सुमञ्जुलरसैरानन्दयन्ति प्रजाः ।</l>
  <l>स्नेहं च प्रकटीकरोति परमं भूयः फलानां गुणै-</l>
  <l>र्हित्वैकैकगुणांस्तरून्भज सखे तस्मान्मधूकद्रुमम् ॥ ५१ ॥</l>
</lg>
<p>कस्यापि ।
अथ शाल्मलिः ।
1038</p>
<lg>
  <l>हंसा: पद्मवनाशया मधुलिह: सौरभ्यगन्धाशया</l>
  <l>पान्था: स्वादुफलाशया बलिभुजो गृध्राश्च मांसाशया ।</l>
  <l>दूरादुन्नतपुष्परागनिकरैर्निःसारमिथ्योन्नतै</l>
  <l>रे रे शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥५२॥</l>
</lg>
<p>कस्यापि ।
1039
कायः कण्टकभूषितो न च घनच्छायाकृतः पल्लवाः
पुष्पाणि च्युतसौरभाणि न दलश्रेणी मनोहारिणी ।</p>
<pb n="183" />
<p>किं ब्रूमः फलभारमस्य यदुपन्यासेपि लज्जामहे
तद्भो: केन गुणेन शाल्मलितरो जातोसि सीमद्रुमः ॥ ५३॥
कस्यापि ।
अथ निम्बः ।
1040</p>
<lg>
  <l>निम्ब किं बहुनोक्तेन निष्फलानि फलानि ते ।</l>
  <l>यानि संजातपाकानि काका निःशेषयन्त्यमी ॥ ५४ ॥</l>
</lg>
<p>1041</p>
<lg>
  <l>यस्मादर्थिजनो मनोभिलषितं लब्ध्वा मुदा मेदुरः</l>
  <l>सार्धं बन्धुजनैश्चकार विविधान्भोगान्विलासोद्धुरः ।</l>
  <l>तं दैवेन विवेकशून्यमनसा निर्मूल्य चूतद्रुमं</l>
  <l>स्थाने तस्य तु काकलोकवसतिर्निम्बः समारोपितः ॥ ५५ ॥</l>
</lg>
<p>कयोरप्येतौ ।
अथ बुब्बूलः ।
1042</p>
<lg>
  <l>गात्रं कण्टकसंकटं प्रविरलच्छायाभृतः पल्लवा</l>
  <l>निर्गन्धः कुसुमोत्करस्तव फलं न क्षुद्विनाशक्षमम् ।</l>
  <l>बुब्बूलद्रुम मूलमेति न जनस्तत्तावदास्तामहे</l>
  <l>अन्येषामपि शांखिनां फलवतां गुप्त्ये वृतिर्जायसे ॥ ५६ ॥</l>
</lg>
<p>अथ खदिरः ।
1043</p>
<lg>
  <l>चन्दने विषधरान्सहामहे</l>
  <l>वस्तु सुन्दरमगुप्तिमत्कुतः ।</l>
  <l>रक्षितुं बद किमात्मसौष्ठवं</l>
  <l>वर्धिताः खदिर कण्टकास्त्वया ॥ ५७ ॥</l>
</lg>
<p>भल्लटस्य ।
1044
पदं तदिह नास्ति यन्न खदिरैः खरैरावृतं
तेपि खदिरा न ये कुटिलकण्टकैरावृताः ।</p>
<pb n="184" />
<p>न ते कुटिलकण्टकाः किमपि ये न मर्मच्छिद-
स्तदुज्झत वृथा स्थितिं बत सहध्वमध्वश्रमम् ॥ ५८ ॥
कस्यापि ।
अथ किंशुकः ।
1045</p>
<lg>
  <l>किंशुकाद्गच्छ मा तिष्ठ शुक भाविफलाशया ।</l>
  <l>बाह्यरङ्गप्रसङ्गेन के के नानेन वञ्चिताः ॥ ५९ ॥</l>
</lg>
<p>कस्यापि ।
अथ शाखोटः ।
1046</p>
<lg>
  <l>कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं</l>
  <l>वैराग्यादिव वृक्ष साधु विदितं कस्मादिदं भाषसे ।</l>
  <l>वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते</l>
  <l>न च्छायापि परोपकारकृतये मार्गस्थितस्यापि मे ॥ ६० ॥</l>
</lg>
<p>कस्यापि ।
अथ पीलुः ।
1047</p>
<lg>
  <l>धन्याः सूक्ष्मफला अपि प्रियतमास्ते पीलुवृक्षाः क्षितौ</l>
  <l>क्षुत्क्षीणेन जनेन हि प्रतिदिनं येषां फलं भुज्यते ।</l>
  <l>किं तैस्तत्र महाफलैरपि पुनः कल्पद्रुमाद्यैर्दुमै -</l>
  <l>र्येषां नाम मनागपि श्रमनुदे छायापि न प्राप्यते ॥ ६१ ॥</l>
</lg>
<p>शक्तिकुमारस्य ।
अथ करीरः
1048</p>
<lg>
  <l>फलं दूरतरेप्यास्तां पुष्णासि कुसुमैर्जनान् ।</l>
  <l>इतरे तरवो मन्ये करीर तव किंकराः ॥ ६२ ॥</l>
</lg>
<p>1049</p>
<lg>
  <l>किं पुष्पैः किं फलैस्तस्य करीरस्य दुरात्मनः ।</l>
  <l>येन वृद्धिं समासाद्य न कृतः पत्रसंग्रहः ॥ ६३ ॥</l>
</lg>
<pb n="185" />
<p>अथ बिल्वः ।
1050</p>
<lg>
  <l>आमोदीनि सुमेदुराणि च मृदुस्वादूनि च क्ष्मारुहा-</l>
  <l>मुद्यानेषु वनेषु लब्धजनुषां सन्तीतरेषामपि ।</l>
  <l>किंतु श्रीफलता तवैव जयिनी मालूर दिग्मण्डले</l>
  <l>यस्यैतानि फलानि यौवनवतीवक्षोजलक्ष्मीगृहाः ॥ ६४ ॥</l>
</lg>
<p>कस्यापि ।
अथ शालिः ।
1051</p>
<lg>
  <l>शाखासंततिसंनिरुद्धनभसो भूयांस एवावनौ</l>
  <l>विद्यन्ते तरवः फलैरविकलैरार्तिच्छिदः प्राणिनाम् ।</l>
  <l>किंतु द्वित्रिदलैरलंकृततनो: शाले: स्तुमस्तुङ्गतां</l>
  <l>दत्त्वा येन निजं शिरः सुकृतिना को नाम न प्रीणितः ॥ ६५ ॥</l>
</lg>
<p>नम्मैयस्य ।
अथेक्षुः ।
1052</p>
<lg>
  <l>परार्थे यः पीडामनुभवति भङ्गेपि मधुरो</l>
  <l>यदीयः सर्वेषामिह खलु विकारोप्यभिमतः ।</l>
  <l>न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः</l>
  <l>किमिक्षोर्दोषोसौ न पुनरगुणाया मरुभुव: ॥ ६६ ॥</l>
</lg>
<p>इन्दुराजस्य ।
1053</p>
<lg>
  <l>मुखे यद्वैरस्यं वपुरपि पुनर्ग्रन्थिनिचितं</l>
  <l>न संतप्तः कोपि क्षणमपि भजेन्मूलमभितः ।</l>
  <l>फलं चैवाप्राप्तं वितथसरलिम्नश्च भवत-</l>
  <l>स्तदिक्षो नो युक्तं विहितमितरैर्यन्त्रदलनम् ॥ ६७ ॥</l>
</lg>
<p>कस्यापि ।
अथ कर्पासः ।
1054</p>
<lg>
  <l>श्लाघ्यं कर्पासफलं यस्य गुणै रन्ध्रवन्ति पिहितानि ।</l>
  <l>मुक्ताफलानि तरुणीकुचकलशेषु सुष्ठु विलसन्ति ॥ ६८ ॥</l>
</lg>
<pb n="186" />
<p>1055</p>
<lg>
  <l>निष्पेषोत्थ महाव्यथा परतरं  प्राप्तं तुलारोहणं</l>
  <l>ग्राम्यस्त्रीनखलुञ्चनव्यतिकरस्तन्त्रीप्रहारव्यथा ।</l>
  <l>मातङ्गोज्झिततुण्डवारिकणिकापानं च कूर्चाहतिः</l>
  <l>कर्पासेन परार्थसाधनविधौ किं किं न चाङ्गीकृतम् ॥ ६९ ॥</l>
</lg>
<p>केषामप्येते ।
अथ शणः ।
1056</p>
<lg>
  <l>भूर्जः परोपकृतये निजकवचविकर्तनं सहते ।</l>
  <l>परबन्धनाय च शण: प्रेक्षध्वमिहान्तरं कीदृक् ॥ ७० ॥</l>
</lg>
<p>वल्लभवेवस्य ।
अथ कण्टकारिका ।
1057</p>
<lg>
  <l>उचितं नाम नारंग्यां  केतक्यामपि कण्टकाः ।</l>
  <l>रसगन्धोज्झिते किं ते कण्टकाः कण्टकारिके ॥ ७१ ॥</l>
</lg>
<p>कस्यापि ।
अथ धत्तूरः ।
1058</p>
<lg>
  <l>महेशस्त्वां धत्ते शिरसि रसराजस्य जयिनी</l>
  <l>विशुद्धिस्त्वत्सङ्गात्कनकमयमेतत्रिभुवनम् ।</l>
  <l>तनोति त्वत्सेवां ननु कनकवृक्ष त्वदपरः</l>
  <l>परस्तत्को नु स्याद्यदि न सुलभीभावमभजः ॥ ७२ ॥</l>
</lg>
<p>प्रह्लादनस्य ।
अथ तृणानि ।
1059</p>
<lg>
  <l>उत्तुङ्गैस्तरुभिः किमेभिरखिलैराकाशसंस्पर्धिभि</l>
  <l>र्धन्योसौ नितरामुलूपविटपी नद्यास्तटेवस्थितः ।</l>
  <l>एवं यः कृतबुरुद्धिद्धतजलव्यालोलवीचीवशा-</l>
  <l>न्मज्जन्तं जनमुद्धरामि सहसा तेनैव मज्जामि वा ॥ ७३ ॥</l>
</lg>
<p>राणकस्य ।</p>
<pb n="187" />
<p>1060</p>
<lg>
  <l>रूढस्य सिन्धुतटमनु तस्य तृणस्यापि जन्म कल्याणम् ।</l>
  <l>यत्सलिलमज्जदाकुलजनस्य हस्तावलम्बनं भवति ॥ ७४ ॥</l>
</lg>
<p>वल्लभदेवस्य ।
अथ ताम्बूलवल्ली ।
1061</p>
<lg>
  <l>वल्लीनां कति न स्फुरन्ति परितः पत्त्राणि किं तैरिह</l>
  <l>स्निग्धैरप्यतिकोमलैरपि निजामेवाश्रयद्भिः श्रियम् ।</l>
  <l>तानेव स्तुमहे महाजनमुखश्रीकारिजन्मव्रता-</l>
  <l>न्यान्सूते नवनागरीप्रियतमांस्तांम्बुलवल्ली छदान् ॥ ७५ ॥</l>
</lg>
<p>कस्यापि ।
1062</p>
<lg>
  <l>किं वीरुधो भुवि न सन्ति सहस्रसंख्या</l>
  <l>यासां दलानि न परोपकृतिं भजन्ति ।</l>
  <l>एकैव वल्लिषु विराजति नागवल्ली</l>
  <l>या नागरीवदनचन्द्रमलंकरोति ॥ ७६ ॥</l>
</lg>
<p>कस्यापि ।
अथ तुम्बी ।
1063</p>
<lg>
  <l>सर्वास्तुम्ब्यः समकटुरसास्तुम्बिवल्लीप्रसूता-</l>
  <l>स्तासां बद्धा अपि कतिपया दुस्तरं तारयन्ति ।</l>
  <l>शब्दायन्ते सरसमपरा: शुष्ककाष्टे  निषण्णा-</l>
</lg>
<lg>
  <l>स्तन्मध्येन्या ज्वलितहृदया: शोणितं संपिबन्ति ॥ ७७ ॥</l>
  <l>कस्यापि ।</l>
  <l>-------------</l>
  <l>अथ पर्वतान्योक्तयः ॥ ६० ॥</l>
</lg>
<p>1064
विन्ध्यमन्दरसुमेरुभूभृतां
यत्पतिस्तुहिनपर्वतोभवत् ।</p>
<pb n="188" />
<p>ईश्वरश्वशुरताप्रभावत-
स्तद्ध्रुवं जगति जृम्भते यशः ॥ १ ॥
शार्ङ्गधरस्य ।
1065</p>
<lg>
  <l>ये संतोषसुखप्रबुद्धमनसस्तेषामभिन्नो मृदो</l>
  <l>येप्यन्ये धनलोभसंकुलधियस्तेषां तु दूरे नृणाम् ।</l>
  <l>इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां</l>
  <l>स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ २ ॥</l>
</lg>
<p>विद्यापतेः ।
1066</p>
<lg>
  <l>आचक्ष्महे बत किमद्यतनीमवस्थां</l>
  <l>तस्याद्य विन्ध्यशिखरस्य महोन्नतस्य ।</l>
  <l>यत्रैव सप्त मुनयस्तपसा निषेदुः</l>
  <l>सोयं विलासवसतिः पिशिताशनानाम् ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
1067</p>
<lg>
  <l>मन्यामहे मलयमेव यदाश्रयेण</l>
  <l>शाखोटनिम्बकुटजा अपि चन्दनन्ति ।</l>
  <l>किं तेन हेमगिरिणा रजताद्रिणा वा</l>
  <l>यस्याश्रिताश्च तरवस्तरवस्त एव ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
1068</p>
<lg>
  <l>मुरारातिर्लक्ष्मीं त्रिपुरविजयी शीतकिरणं</l>
  <l>करीन्द्रं पौलोमीपतिरपि स लेभे जलनिधेः ।</l>
  <l>त्वया किं वा लब्धं कथय मथितो मन्दरगिरे</l>
  <l>शरण्यः शैलानां यदयमदयं रत्ननिलयः ॥ ५ ॥</l>
</lg>
<p>कस्यापि ।
1069
शक्रादरक्षि यदि पक्षयुगं तथापि
मैनाक सन्ति तव नेह गतागतानि ।</p>
<pb n="189" />
<p>निःसत्त्वता च निरपत्रपता च किंतु
पाथोनिधौ निपतता भवतार्जिता च ॥ ६ ॥
कस्यापि ।
1070</p>
<lg>
  <l>एकस्यायमुदेति मूर्धनि गिरेरन्यस्य चैव क्रमा-</l>
  <l>दस्तं याति कलानिधिस्तदुभयोरस्तः प्रशस्तोचल: ।</l>
  <l>को नामोदयिनं करोति न शिरोमाणिक्यमस्तं पुन-</l>
  <l>र्यातं यः कुरुते भवानिव स दुष्पापोस्ति पृथ्वीतले ॥ ७ ॥</l>
</lg>
<p>कस्यापि ।
1071</p>
<lg>
  <l>रोहणाचल शैलेषु कस्तुलां कलयेत्तव ।</l>
  <l>यस्य पाषाणखण्डानि मण्डनानि महीभृताम् ॥ ८ ॥</l>
</lg>
<p>प्रह्लादनस्य ।
1072</p>
<lg>
  <l>रत्नानां न किमालयो जलनिधिः किं न स्थिरा मेदिनी</l>
  <l>किं न व्योम महत्पदं सुकृतिनां किं नाम नैवोन्नतम् ।</l>
  <l>हंहो रोहण किंतु याचकचमूनिः शङ्कटङ्कक्षति-</l>
  <l>क्षान्तिस्वीकरणेन गोत्रतिलकस्त्रैलोक्यवन्द्यो भवान् ॥ ९ ॥</l>
</lg>
<p>कस्यापि ।
1073</p>
<lg>
  <l>नाधन्यानां निवासं विदधति गिरयः शेखरीभूतचन्द्राः</l>
  <l>शृङ्गैर्ज्योत्स्नाप्रवाहं द्रुतमिव तुहिनं दिङमुखेषु क्षिपन्तः ।</l>
  <l>येषामुच्चैस्तरूणामविहतगतिना वायुना कम्पिताना-</l>
</lg>
<lg>
  <l>माकाशे विप्रकीर्ण: कुसुमचय इवाभाति ताराग्रहौघः ॥१०॥</l>
  <l>कस्यापि ।</l>
  <l>------------------</l>
  <l>अथागस्त्यान्योक्तयः ॥ ६१ ॥</l>
</lg>
<p>1074
कम्पन्ते गिरयः पुरंदरभयान्मैनाकमुख्या पुनः
क्रन्दन्त्यम्बुधराः स्फुरन्ति वडवावक्रोद्गता वह्नयः ।</p>
<pb n="190" />
<p>भोः कुम्भोद्भव मुच्यतां जलनिधिः स्वस्त्यस्तु ते सांप्रतं -
निद्रालु: श्लथबाहुवल्लिकमलाश्लेषो हरिः सीदति ॥ १ ॥
कस्यापि ।
1075</p>
<lg>
  <l>अखर्वपर्वगर्तासु विच्छिन्नो यस्य वारिधिः ।</l>
  <l>स एव हि मुनेः पाणिरधस्ताद्विन्ध्यभूभूतः ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
1076</p>
<lg>
  <l>अल्पीयसैव पयसा यत्कुम्भः पूर्यते प्रसिद्धं तत् ।</l>
</lg>
<lg>
  <l>ब्राह्मं तेजः पश्यत कुम्भोद्भूतः पपौ वार्धिम् ॥ ३ ॥</l>
  <l>शार्ङ्गधरस्य ।</l>
  <l>---------------</l>
  <l>अथ समुद्रान्योक्तयः ॥ ६२ ॥</l>
</lg>
<p>1077</p>
<lg>
  <l>नावज्ञानादवैदग्ध्यादुदधेर्महिमैव सः ।</l>
  <l>यत्तीरपङ्कमग्रानि महारत्नानि शेरते ॥ १ ॥</l>
</lg>
<p>1078</p>
<lg>
  <l>यद्यपि बद्धः शैलैर्यद्यपि गिरिमथनमुषितसर्वस्वः ।</l>
  <l>तदपि पतनभीतभूधररक्षायां दीक्षितो जलधिः ॥ २ ॥</l>
</lg>
<p>1079</p>
<lg>
  <l>यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् ।</l>
  <l>तथापि जानुदघ्नोयमिति चेतसि मा कृथाः ॥ ३ ॥</l>
</lg>
<p>1080</p>
<lg>
  <l>रत्नैरापूरितस्यापि मदलेशोस्ति नाम्बुधे: ।</l>
  <l>मुक्ताः कतिपयाः प्राप्य मातङ्गा मदविह्वलाः ॥ ४ ॥</l>
</lg>
<p>1081</p>
<lg>
  <l>अधः करोषि यद्रत्नं मूर्ध्ना धारयसे तृणम् ।</l>
  <l>दोषस्तवैव जलधे रत्नं रत्नं तृणं तृणम् ॥ ५ ॥</l>
</lg>
<p>केषामप्येते ।</p>
<pb n="191" />
<p>1082</p>
<lg>
  <l>स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः</l>
  <l>कल्याणिनी भवतु मौक्तिकशुक्तिरेषा ।</l>
  <l>प्राप्तं मया सकलमेव फलं पयोधे-</l>
  <l>र्यद्दारुणैर्जलचरैर्न विदारितोस्मि ॥ ६ ॥</l>
</lg>
<p>इन्द्रकवे: ।
1083</p>
<lg>
  <l>आदाय वारि परितः सरितां मुखेभ्यः</l>
  <l>किं तावदर्जितमनेन दुरर्णवेन ।</l>
  <l>क्षारीकृतं च वडवावदने हुतं च</l>
  <l>पातालकुक्षिकुहरे विनिवेशितं च ॥ ७ ॥</l>
</lg>
<p>श्रीशुकस्य ।
1084</p>
<lg>
  <l>ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी</l>
  <l>मुक्तौघा: सिकता: प्रवाललतिका: शैवालमम्भः सुधा ।</l>
  <l>नीरे कल्पमहीरुहा: किमपरं नाम्नापि रत्नाकरो</l>
  <l>दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति ॥ ८ ॥</l>
</lg>
<p>कस्यापि ।
1085</p>
<lg>
  <l>एतस्मादमृतं सुरैः शतमखेनोच्चैःश्रवाः सद्गुणः</l>
  <l>कृष्णेनाद्भुतविक्रमैकवसतिर्लक्ष्मी: समासादिता ।</l>
  <l>इत्यादिप्रचुराः पुरातनकथा: सर्वेभ्य एव श्रुता</l>
  <l>अस्माभिस्तु न दृष्टमत्र जलधौ मिष्टं  पयोपि क्वचित् ॥ ९ ॥</l>
</lg>
<p>कस्यापि ।
1086</p>
<lg>
  <l>संख्येया न भवन्ति ते युगशतैर्गाम्भीर्यमुख्या गुणाः</l>
  <l>सत्यं वारिनिधे तथापि तदिदं चित्ते विधत्ते व्यथाम् ।</l>
  <l>स्वच्छन्देन तिमिंगिलान्निजकुलग्रासं मुहुः कुर्वतो</l>
  <l>यत्ते वारयितुं निजेपि विपये न स्वामिता विद्यते ॥ १० ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="192" />
<p>1087</p>
<lg>
  <l>हेलोल्लासितकल्लोल धिक्ते सागर गर्जितम् ।</l>
  <l>तव तीरे वृषाक्रान्तः पान्थः पृच्छति कूपिकाम् ॥ ११ ॥</l>
</lg>
<p>कस्यापि ।
1088</p>
<lg>
  <l>तृषं धरायाः शमयत्यशेषं</l>
  <l>यः सोम्बुदो गर्जति गर्जतूच्चैः ।</l>
  <l>यस्त्वेककस्यापि न हन्ति तृष्णां</l>
  <l>स किं वथा गर्जति निस्त्रपोब्धिः ॥ १२ ॥</l>
</lg>
<p>कस्यापि ।
1089</p>
<lg>
  <l>कल्लोलैः स्थगयन्मुखानि ककुभामभ्रेलिहैरम्भसा</l>
  <l>क्षारेणापि दिवानिशं जलनिधे गर्जन्न विश्राम्यसि ।</l>
  <l>एतत्ते यदि घोरनक्रनिलयं स्वादु व्यधास्यद्विधिः</l>
  <l>किं कर्तासि तदा न वेद्मि तरलैः स्वैरेव दुश्चेष्टितैः ॥ १३ ॥</l>
</lg>
<p>कस्यापि ।
1090</p>
<lg>
  <l>यद्वीचीभिः स्पृशसि गगनं यच्च पातालमूलं</l>
  <l>रत्नैरुद्दीपयसि पयसा यत्पिधत्स धरित्रीम् ।</l>
  <l>धिक्सर्वं तत्तव जलनिधे यद्विमुच्याश्रुधारा-</l>
  <l>स्तीरे नीरग्रहणरसिकैरध्वगैरुज्झितोसि ॥ १४ ॥</l>
</lg>
<p>गौडाभिनन्दस्य ।
1091</p>
<lg>
  <l>अयं वारामेको निलय इति रत्नाकर इति</l>
  <l>श्रितोस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।</l>
  <l>क एवं जानीते निजकरपुटीकोटरगतं</l>
  <l>क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥ १५ ॥</l>
</lg>
<p>मालवरुद्रस्य ।
1092
चपलतरतरंगैर्दूरमुत्सारितोपि
प्रथयति तव कीर्तिं दक्षिणावर्तशङ्ख  ।</p>
<pb n="193" />
<p>परिगणय पयोधे पद्मनाभार्धयोग्यं
तव निकटनिषण्णैः क्षुल्लकै: श्लाघ्यता का ॥ १६ ॥
कस्यापि ।
1093</p>
<lg>
  <l>इत: स्वपिति केशवः कुलमितस्तदीयद्विषा-</l>
  <l>मितच शरणार्थिनः शिखरिपत्त्रिण: शेरते ।</l>
  <l>इतोपि वडवानलः सह समस्तसंवर्तकै-</l>
  <l>रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ १७ ॥</l>
</lg>
<p>भर्तृहरेः ।
1094</p>
<lg>
  <l>द्यामारोहति वाञ्छति स्थगयितुं तेजोपि तेजस्त्रिना-</l>
  <l>मुच्चैर्गर्जति पूरयन्नपि महीमम्भोभिरम्भोधरः ।</l>
  <l>कांश्चिद्द्रागुपजीव्य तोयचुलकान्सिन्धोर्भवत्संनिधेः</l>
  <l>पानीयप्रचयेषु सत्स्वपि न ते जातो विकारः क्वचित् ॥ १८ ॥</l>
</lg>
<p>कस्यापि ।
1095</p>
<lg>
  <l>अये वारां राशे कुलिशकरकोपप्रतिभया-</l>
  <l>दयं पक्षप्रेम्णा गिरिपरिवढत्वामुपगतः ।</l>
  <l>त्वदन्तर्वास्तव्याद्यति पुनरयं वाडवशिखी</l>
  <l>प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोस्य शरणम् ॥ १९ ॥</l>
</lg>
<p>कस्यापि ।
1096</p>
<lg>
  <l>किं वाच्यो महिमा महाजलनिधेर्यस्येन्द्रवज्राहति-</l>
  <l>त्रस्तः क्ष्माभृदमज्जदम्बुनिचये कौलीरपोताकृतिः ।</l>
  <l>मैनाकोपि गभीरनीरविलसत्पाठीनपृष्ठोल्लस-</l>
  <l>च्छैवालाङ्कुरकोटिकोटरकुटीकुद्यान्तरे निर्वृतः ॥ २० ॥</l>
</lg>
<p>1097
तावत्सप्तसमुद्रमुद्रितमही भूभृद्भिरभ्रंकषै-
स्तावद्भिः परिवारिता पृथुतरैर्द्वीपैः समन्तादियम् ।</p>
<pb n="194" />
<p>यस्य स्फारफणामणौ निलयिनी तिर्यक्फणालंकृतिः</p>
<lg>
  <l>शेष: सोप्यगमद्यदङ्गदपदं रुद्राय तस्मै नमः ॥ २१ ॥</l>
  <l>एतौ बधिरकवेः ।</l>
  <l>--------------</l>
  <l>रत्नान्योक्तयः ॥ ६३ ॥</l>
</lg>
<p>1098</p>
<lg>
  <l>अनस्तमितसारस्य तेजसस्तद्विजृम्भितम् ।</l>
  <l>येन पाषाणखण्डस्य मौल्यमल्पं वसुंधरा ॥ १ ॥</l>
</lg>
<p>1099</p>
<lg>
  <l>यस्य वज्रमणेर्भेदे भिद्यन्ते लोहसूचयः ।</l>
  <l>करोति तत्र किं नाम नारीनखविलेखनम् ॥ २॥</l>
</lg>
<p>1100</p>
<lg>
  <l>सोमकान्तो मणिः स्वच्छ: सूर्यकान्तस्तथा न किम् ।</l>
  <l>उद्गारे तु विशेषोस्ति तयोरमृतवह्निजः ॥ ३ ॥</l>
</lg>
<p>1101</p>
<lg>
  <l>स्फटिकस्य गुणो योसौ स एवायाति दोषताम् ।</l>
  <l>धत्ते स्वच्छतया छायां यतो मलवतामपि ॥ ४ ॥</l>
</lg>
<p>1102
सुधाकरकरस्पर्शाद्बहिर्द्रवसि सर्वतः ।
चन्द्रकान्तमणे तेन्तर्मृदुत्वं लोकविश्रुतम् ॥ ५
1103</p>
<lg>
  <l>वपुःपरीणाहगुणेन तेभ्यो</l>
  <l>यशस्विनः किं मणयो भवन्ति ।</l>
  <l>तथापि चूडासु महीपतीनां</l>
  <l>त एव खेलन्ति न गण्डरौलाः ॥ ६ ॥</l>
</lg>
<p>1104</p>
<lg>
  <l>त्यज निजगुणाभिमानं मरकत पतितोसि पामरे वणिजि ।</l>
  <l>काचमणेरपि मौल्यं लभसे यत्नादपि ते श्रेयः ॥ ७ ॥</l>
</lg>
<pb n="195" />
<p>1105</p>
<lg>
  <l>भ्रष्टं नृपतिकिरीटाद्भूमौ पतितं तिरोहितं रजसा ।</l>
  <l>विधिविलसितेन रत्नं जनचरणविडम्बनां सहते ॥ ८ ॥</l>
</lg>
<p>1106</p>
<lg>
  <l>आघ्रातं परिलीढमुग्रनखरैः क्षुण्णं च यच्चर्वितं</l>
  <l>क्षिप्तं यद्धतनीरसत्वकुपितेनेति व्यथां मा कृथाः ।</l>
  <l>हे माणिक्य तवैतदेव कुशलं यद्वानरेणाग्रहा-</l>
  <l>दन्त:सत्वनिरूहणाय सहसा चूर्णीकृतं नाश्मना ॥ ९ ॥</l>
</lg>
<p>1107</p>
<lg>
  <l>उत्तंसेषु ननर्त न क्षितिभुजां न प्रेक्षकैर्लक्षितः</l>
  <l>साकांक्षं लुठितो न च स्तनतटे लीलावतीनां क्वचित् ।</l>
  <l>कष्टं भोश्चिरमन्तरेव जलधेर्दैवाद्विशीर्णोभव-</l>
  <l>त्खेलव्यालकुलाङ्गघर्षणपरिक्षीणप्रमाणो मणिः ॥ १० ॥</l>
</lg>
<p>केषामप्येते ।
1108</p>
<lg>
  <l>पौरस्त्यैर्दाक्षिणात्यैः स्फुरदुरुमतिभिर्मित्र पाश्चात्यसंघै-</l>
  <l>रौदीच्यैर्यत्परीक्ष्य क्षितिपतिमुकुटे न्यासि माणिक्यमेकम् ।</l>
  <l>यद्येतस्मिन्कथंचित्कथयति कृपणः कोपि मालिन्यमन्यः</l>
  <l>प्रेक्षावन्तस्तदा तं निरवधिजडतामन्दिरं  संगिरन्ते ॥ ११ ॥</l>
</lg>
<p>अच्युतस्य ।
1109</p>
<lg>
  <l>ये गृह्णन्ति हटात्तृणानि मणयो ये वाप्ययः खण्डकं</l>
  <l>ते दृष्टाः प्रतिधाम दग्धमनसा विच्छिन्नसख्याश्रिरम् ।</l>
  <l>नो जाने किमभावतः किमथवा दैवादहो श्रूयते</l>
  <l>नामाप्यत्र न तादृशस्य हि मणे रत्नानि गृह्णाति यः ॥ १२ ॥</l>
</lg>
<p>कस्यापि ।
1110
केनासीन: मुखमकरुणनाकरादुद्धृतस्त्वं
विक्रेतुं वा समभिलषित: केन वास्मिन्कुदेशे ।</p>
<pb n="196" />
<p>यस्मिन्वित्तव्ययभरसहो ग्राहकस्तावदास्तां
नास्ति भ्रातर्मरकतमणे त्वत्परीक्षाक्षमोपि ॥ १३ ॥
शर्ववर्मणः ।
1111</p>
<lg>
  <l>न श्वेतांशुवदन्धकारदलनादुद्द्योतिता रोदसी</l>
  <l>नाप्यैरावतवन्निरस्तदितिजत्रासः कृतो वासवः ।</l>
  <l>नो चिन्तामणिरत्नवत्रिभुवने छिन्ना विपच्चार्थिनां</l>
  <l>भूत्वा तस्य हरेरुरः प्रणयिना किं कौस्तुभेनार्जितम् ॥ १४ ॥</l>
</lg>
<p>कस्यापि ।
1112</p>
<lg>
  <l>यन्मुक्तामणयोम्बुधेरुदरतः क्षिप्ता महावीचिभिः</l>
  <l>पर्यन्तेषु लुठन्ति निर्मलरुचः स्पष्टाट्टहासा इव ।</l>
  <l>तत्तस्यैव परिक्षयो जलनिधेर्द्वीपान्तरालम्बिनो</l>
  <l>रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः ॥ १५॥</l>
</lg>
<p>कस्यापि ।
1113</p>
<lg>
  <l>सिन्धुस्तरंगैरुपलाल्य फेना-</l>
  <l>त्रत्नानि पंकैर्मलिनीकरोति ।</l>
  <l>तथापि तान्येव महीपतीनां</l>
</lg>
<lg>
  <l>किरीटकोटीषु पदं लभन्ते ॥ १६ ॥</l>
  <l>कस्यापि ।</l>
  <l>--------------</l>
  <l>अथ शङ्खान्योक्तयः ॥ ६४ ॥</l>
</lg>
<p>1114</p>
<lg>
  <l>उच्चैरुच्चर रुचिरं झिल्लि वर्त्मनि तरुं समारुह्य ।</l>
  <l>दिग्व्यापिनि शब्दगुणे शङ्ख:  संभावनाभूमिः ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
1115</p>
<lg>
  <l>कीटगृहं कुटिलोन्तः कठिन: क्षाराम्बुसंभवः शून्यः ।</l>
  <l>शङ्ख: श्रीपतिनिकटे केन गुणेन स्थितिं लेभे ॥ २ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।</p>
<pb n="197" />
<p>1116</p>
<lg>
  <l>अन्तः कुटिलतां विभ्रच्छङ्ख:  स खलु निष्ठुरः ।</l>
  <l>हुंकरोति यदाध्मातस्तदेव बहु गण्यताम् ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
1117</p>
<lg>
  <l>तात: क्षीरनिधिः स्वसा जलधिजा भ्राता सुरेशद्रुमः</l>
  <l>सौजन्यं सह कौस्तुभेन शुचिता यस्य द्विजेशादपि ।</l>
  <l>धिक्कर्माणि स एव कम्बुरधुना पाषण्डिकान्ताकरे</l>
  <l>विश्रान्तः प्रतिवासरं प्रतिगृहं मैक्षेण कुक्षिंभरिः ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
1118
सर्वाशापरिपूरि हुंकृतिमदो जन्मापि दुग्धोदधे-
र्गोविन्दाननचुम्बि सुन्दरतरं पूर्णेन्दुबिम्बाद्वपुः ॥
श्रीरेषा सहजा गुणाः किमपरं भण्यन्त एते हि य-
त्कौटिल्यं हृदि पाञ्चजन्य भवतस्तेनातिलज्जामहे ॥ ५ ॥
कस्यापि ।
1119</p>
<lg>
  <l>शङ्खा: सन्ति सहस्रशो जलनिधेर्वीचिच्छटाघट्टिता:</l>
  <l>पर्यन्तेषु लुठन्ति ये दलशतैः कल्माषितक्ष्मातलाः ।</l>
  <l>एक: कोपि स पाञ्चजन्य उदभूदाश्चर्यधामा सतां</l>
  <l>यः संवर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते ॥ ६ ॥</l>
</lg>
<p>कविरत्नस्य ।
1120</p>
<lg>
  <l>क्व चाम्भोधौ जन्म क्व च वपुरिदं कुन्दधवलं</l>
  <l>क्व चावासस्थानं कृतमहह विष्णोः करतले ।</l>
  <l>क्व नीचानामास्ये परिणतिरियं चुम्बनविधा-</l>
  <l>वितीवेदं शङ्ख: करुणकरुणं रोदिति मुहुः ॥ ७ ॥</l>
</lg>
<p>----------------
अथ नद्यन्योक्तयः ॥ ६५ ॥
1121</p>
<lg>
  <l>यद्यपि दिशि दिशि सरितः परितः परिपूरिताम्भसः सन्ति ।</l>
  <l>तदपि पुरंदरतरुणीसंगतिसुखदायिनी गङ्गा ॥ १ ॥</l>
</lg>
<pb n="198" />
<p>1122</p>
<lg>
  <l>आजन्मस्थितयो महीरुह इमे कामं समुन्मूलिताः</l>
  <l>कल्लोलाः क्षणभङ्गुराः पुनरमी नीता: परामुन्नतिम् ।</l>
  <l>अन्तर्ग्राहपरिग्रहो बहिरपि भ्राम्यन्ति गन्धद्विपा</l>
  <l>भ्रातः शोण न सोस्ति यो न हसति त्वत्संपदां विप्लवान् ॥ २॥</l>
</lg>
<p>1123</p>
<lg>
  <l>छायां प्रकुर्वन्ति नमन्ति पुष्पैः</l>
  <l>फलानि यच्छन्ति तटद्रुमा ये ।</l>
  <l>उन्मूल्य तानेव नदी प्रयाति</l>
  <l>तरंगिणां क्व प्रतिपन्नमस्ति ॥ ३ ॥</l>
</lg>
<p>1124</p>
<lg>
  <l>कतिपयदेिवसस्थायी पूरो दूरोन्नतोपि भविता ते ।</l>
  <l>तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि ॥ ४ ॥</l>
</lg>
<p>1125</p>
<lg>
  <l>कुरु गम्भीराशयतां कल्लोलैर्जनय लोकविश्रान्तिम् ।</l>
</lg>
<lg>
  <l>वीतपयोधरलक्ष्मीः कस्य न चरणैर्विलंघ्यासि ॥ ५ ॥</l>
  <l>केषामप्येते ।</l>
  <l>--------------</l>
  <l>अथ तटाकान्योक्तयः ॥ ६६ ॥</l>
</lg>
<p>1126</p>
<lg>
  <l>हंसैर्लब्धप्रशंसैस्तरलितकमलप्रत्तरङ्गैस्तरंगै-</l>
  <l>र्नीरैरन्तर्गभीरैश्चपलबककुलत्रासलीनैश्च मीनैः ।</l>
  <l>पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्च गीतै-</l>
  <l>र्भीति प्रक्रीडदातिस्तव सलिलवलच्चक्रवाकस्तटाकः ॥ १॥</l>
</lg>
<p>कस्यापि ।
1127
क्रौञ्चः क्रीडतु कूर्दतां च कुररः कङ्क: परिष्वज्यतां
मद्गुर्माद्यतु सारसश्च रसतु प्रोड्डीयतां टिट्ठिभः ।</p>
<pb n="199" />
<p>मेकाः सन्तु बका रसन्तु चरतु स्वच्छन्दमाटिस्तटे
हंहो पद्मसरः कुतः कतिपयैर्हंसैर्विना श्रीस्तव ॥ २ ॥
कस्यापि ।
1128
अयमत्रसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम्
इदमपि च सुलभमम्भो भवति पुनर्जलधराभ्युदये ॥ ३ ॥
श्रीवल्लभदेवस्य ।
1129</p>
<lg>
  <l>एतस्मिन्मरुमण्डले परिचलत्कल्लोलकोलाहल-</l>
  <l>क्रीडत्कङ्कमपङ्कमङ्कविलसन्निःशङ्कमत्स्यव्रजम् ।</l>
  <l>केनेदं विकसत्कुशेशयकुटीकोणक्वणत्षट्पद-</l>
  <l>श्रेणिप्रीणितपान्थमुज्ज्वलजलं चक्रे विशालं सरः ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
1130</p>
<lg>
  <l>स्तोकाम्भ: परिवर्तिताङ्गशफरग्रासार्थिनः सर्वतो</l>
  <l>लप्स्यन्ते वकटिट्टिभप्रभृतयः स्वल्पेषु साधुस्थितिम् ।</l>
  <l>सद्यः शोषमुपागतेद्य सरसि श्रीसद्मपद्माकरे</l>
  <l>तस्मिन्पङ्कजिनीविलासरुचयो हंसा क्व यास्यन्त्यमी ॥ ५ ॥</l>
</lg>
<p>इन्द्रकवेः ।
1131</p>
<lg>
  <l>माद्यद्दिग्गजदानलिप्तकरटप्रक्षालनक्षोभिता</l>
  <l>व्योम्नः सीम्नि विचेरुरप्रतिहता यस्योर्मयो निर्मलाः ।</l>
  <l>कष्टं भाग्यविपर्ययेण सरसः कल्पान्तरस्थायिन-</l>
  <l>स्तस्याप्येकबकप्रचारकलुषं कालेन जातं जलम् ॥ ६ ॥</l>
</lg>
<p>विज्जकायाः ।
1132
रे पद्माकर यावदस्ति भवतो मध्यं पयः पूरितं
तावच्चक्रचकोरकङ्ककुररश्रेणीं समुल्लासय ।
पश्चात्त्वं समटद्बकोटचटुलत्रोटीपुटव्याहति-
त्रुट्यत्कर्कटकर्परव्यतिकरैर्निन्दास्पदं यास्यसि ।॥ ७ ॥
कस्यापि ।</p>
<pb n="200" />
<p>अथ कमलान्योक्तयः ॥ ६७ ॥
1133</p>
<lg>
  <l>रे पद्मिनीदल तवात्र मया चरित्रं</l>
  <l>दृष्टं विचित्रमिव यद्विदितं ध्रुवं तत् ।</l>
  <l>यैरेव शुद्धसलिलैः परिपालितस्त्वं</l>
  <l>तेभ्यः पृथग्भवसि पङ्कभवोसि यस्मात् ॥ १ ॥</l>
</lg>
<p>शार्ङ्गधरस्य
1134</p>
<lg>
  <l>पङ्कज जलेषु वास: प्रीतिर्मधुपेषु कण्टकैः सङ्गः ।</l>
  <l>यद्यपि तदपि तवैतच्चित्रं मित्रोदये हर्षः ॥ २ ॥</l>
</lg>
<p>लक्ष्मीधरस्य ।
1135</p>
<lg>
  <l>कुसुमं कोशातक्या विकसति रात्रौ दिवा च कूष्माण्ड्याः ।</l>
  <l>अलिकुलनिलयं रुचिरं किंतु यशः कुमुदकमलयोरेव ॥३॥</l>
</lg>
<p>कृष्णस्य ।
1136</p>
<lg>
  <l>वरमश्रीकता लोके नासमानसमानता ।</l>
  <l>इतीव कुमुदोद्भेदे कमलैर्मुकुलायितम् ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
1137</p>
<lg>
  <l>नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचि-</l>
  <l>र्दण्डे कर्कशता मुखेतिमृदुता मित्रे महान्प्रश्रयः ।</l>
  <l>आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे</l>
  <l>यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥ ५ ॥</l>
</lg>
<p>कस्यापि ।
1138</p>
<lg>
  <l>प्रसारितकरे मित्रे जगदुद्द्योतकारिणि ।</l>
  <l>किं न कैरव लज्जा ते कुर्वतः कोशसंवृतिम् ॥ ६ ॥</l>
</lg>
<p>कस्यापि ।
1139</p>
<lg>
  <l>लक्ष्मीसंपर्कजातोयं दोषः पद्मस्य निश्चितम् ।</l>
  <l>यदेष गुणसंदोहधाम्नि चन्द्रे परान्ग्मुखः॥ ७॥</l>
</lg>
<pb n="201" />
<p>1140</p>
<lg>
  <l>रत्नाकरतनुजनुषि द्विजराजे राजनि श्रियो मित्रे ।</l>
  <l>अमृतकरे च कलावति पद्मिनि वामा कुतो भवती ॥ ८ ॥</l>
</lg>
<p>श्रीधनददेवानाम् ।
1141</p>
<lg>
  <l>उदितवति द्विजराजे कस्य न हृदये मुदः पदं दधति ।</l>
  <l>संकुचसि कमल यदयं हर हर वामो विधिर्भवतः ॥ ९ ॥</l>
</lg>
<p>कस्यापि ।
1142</p>
<lg>
  <l>अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः ।</l>
  <l>कथं कमलनालस्य मा भूवन्भंगुरा गुणाः ॥१० ॥</l>
</lg>
<p>कस्यापि ।
1143</p>
<lg>
  <l>एतेन गुणा: पङ्कज सन्तोपि न ते प्रकाशमायान्ति ।</l>
  <l>यल्लक्ष्मीवसतेस्तव मधुपैरुपजीव्यते कोशः ॥ ११ ॥</l>
</lg>
<p>कस्यापि ।
1144</p>
<lg>
  <l>कामं भवन्तु मधुलम्पट षट्पदौघ -</l>
  <l>संघट्टघुर्घुरघनध्वनयोब्जखण्डाः ।</l>
  <l>गायन्नतिश्रुतिमुखं विधिरेव यत्र</l>
</lg>
<lg>
  <l>भृङ्गः स कोपि धरणीधरनाभिपद्मः ॥ १२ ॥</l>
  <l>श्रुतधरस्य ।</l>
  <l>----------</l>
  <l>अथ कूपान्योक्तयः ॥ ६८ ॥</l>
</lg>
<p>1145</p>
<lg>
  <l>चित्रं न तद्यदयमम्बुधिरम्बुदौघ-</l>
  <l>सिन्धुप्रवाहपरिपूरतया महीयान् ।</l>
  <l>त्वं त्वर्थिनामुपकरोषि यदल्पकूप</l>
  <l>निष्पीद्य कुक्षियुगलं हि महत्त्वमेतत् ॥ १ ॥</l>
</lg>
<p>1146
दिनमवसितं विश्रान्ताः स्मस्त्वया मरुकूप हे
परमुपकृतं यत्ते वक्तुं पुनर्न वयं क्षमाः ।</p>
<pb n="202" />
<p>भवतु सुकृतैरध्वन्यानामशेषजलो भवा-
नियमपि घनच्छाया भूयात्तवोपतटं शमी ॥ २ ॥
कयोरप्येतौ ।
1147</p>
<lg>
  <l>भीमश्यामप्रतनुवदनक्रूरपातालकुक्षि-</l>
  <l>क्रोडप्रान्तोपहितविभवस्याथ किं ते ब्रवीमि ।</l>
  <l>येन त्वत्तः समभिलषतो वाञ्छितं क्षुद्रकूप</l>
  <l>क्लाम्यन्मूर्तेर्भवति सहसा कस्य नाधोमुखत्वम् ॥ ३ ॥</l>
</lg>
<p>श्रीभोजदेवस्य ।
1148</p>
<lg>
  <l>सगुणैः सेवितोपान्तो विनतैः प्राप्तदर्शनः ।</l>
  <l>नीचोपि कूपः सत्पात्रैर्जीवनार्थं समाश्रितः ॥ ४ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
1149</p>
<lg>
  <l>यद्यपि बहुगुणगम्यं जीवनमेतस्य कूपमुख्यस्य ।</l>
</lg>
<lg>
  <l>जयति तथापि विवेको दानं पात्रानुमानेन ॥ ५ ॥</l>
  <l>कस्यापि ।</l>
  <l>---------------</l>
  <l>अथ मरुस्थलान्योक्तयः ॥ ६९ ॥</l>
</lg>
<p>1150</p>
<lg>
  <l>मरौ नास्त्येव सलिलं कृच्छ्राद्यद्यपि लभ्यते ।</l>
  <l>तत्कटु स्तोकमुष्णं च न करोति वितृष्णताम् ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
1151</p>
<lg>
  <l>पायं पायं पिब पिब पयः सिञ्च सिञ्चाङ्गमङ्गं</l>
  <l>भूयो भूयः कुरु कुरु सखे मज्जनोन्मज्जनानि ।</l>
  <l>एषाशेषश्रमशमपटुर्दुःखिताध्वन्यबन्धुः</l>
  <l>सिन्धुर्दूरीभवति भवतो मारवः पान्थ पन्थाः ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
1152
भो भोः किं किमकाण्ड एव पतितस्त्वं पान्थ कान्या गति-
स्तत्तादृक्तृषितस्य ते खलमतिः सोयं जलं गूहते ।</p>
<pb n="203" />
<p>अस्थानोपगतामकालसुलभां तृष्णां प्रति क्रुध्य हे
त्रैलोक्यप्रथितप्रभावमहिमा मार्गोह्यसौ मारवः ॥ ३ ॥
अभिनवगुप्तस्य ।
1153</p>
<lg>
  <l>सत्पादपान्विपुलपल्लवपुष्पपुञ्ज -</l>
  <l>संपत्परीतवपुषः फलभारनम्रान् ।</l>
  <l>व्योमाग्रशिञ्जितशकुन्तसमाश्रितोरु-</l>
  <l>शाखान्भरौ मृगयते न ततोस्ति मुग्धः ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
1154</p>
<lg>
  <l>किमसि विमनाः किं चोन्मादी क्षणादपि लक्ष्यसे</l>
  <l>पुनरपि पुनः प्रेक्षापूर्वा न काश्चन ते क्रियाः ।</l>
  <l>स्वयमजलदां जानानोपि प्रविश्य मरुस्थलीं</l>
</lg>
<lg>
  <l>शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि ॥ ५ ॥</l>
  <l>नरसिंहस्य ।</l>
  <l>-----------------</l>
  <l>अथ दावानलान्योक्तयः ॥ ७० ॥</l>
</lg>
<p>1155</p>
<lg>
  <l>यस्या महत्त्वभाजो भवन्ति गुणिनोमिता धनुर्देण्डाः ।</l>
  <l>दहतस्तां वंशालीं  को वनवह्ने विवेकस्ते ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
1156</p>
<lg>
  <l>हे दावानल शैलाग्रवासिनः साधुशाखिनः ।</l>
  <l>मुग्ध व्यर्थं त्वया दग्धाः प्रेरितेन प्रभञ्जनैः ॥ २ ॥</l>
</lg>
<p>कस्यापि  ।
1157</p>
<lg>
  <l>दुदैवप्रभवप्रभञ्जनजवादुद्भूतभूमीरुहा-</l>
  <l>नेतान्सत्त्वगुणाश्रयानकरुण प्लुष्यन्किमुन्माद्यसि ।</l>
  <l>ब्रूमस्त्वां वनहव्यवाह यदमी दग्धार्धदग्धा अपि</l>
  <l>दृष्टव्यास्तव तु क्षणाद्विलयिनो नामापि न ज्ञायते ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="204" />
<p>1158</p>
<lg>
  <l>अभ्युन्नतेपि जलदे जगदेकसार-</l>
  <l>साधारणप्रणयहारिणि हा यदेते ।</l>
  <l>उल्लासलास्यललितं तरवो न यान्ति</l>
  <l>हे दावपावक स तावक एव दोषः ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
1159</p>
<lg>
  <l>विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता</l>
  <l>धूमैरन्तरिताः स्वभावमलिनैराशा मही तापिता ।</l>
  <l>भस्मीकृत्य सुपुष्पपल्लवफलैर्नम्रान्महापादपा-</l>
  <l>नुन्मत्तेन दवानलेन विपिनं वल्मीकशेषं कृतम् ॥ ५ ॥</l>
</lg>
<p>---------------
अथ संकीर्णान्योक्तयः ॥ ७१ ॥
1160</p>
<lg>
  <l>बिभ्राणे त्वयि भस्म कः समभवन्मन्दादरश्चन्दने</l>
  <l>कः क्षौमं कलयांचकार न कृती कृत्तिं वसाने त्वयि ।</l>
  <l>धत्तूरस्पृहयालुतां त्वयि गते तत्याज कः केतकीं</l>
  <l>स्वातन्त्र्याज्जहिहि त्वमीश्वर गुणांल्लोकोस्ति तद्ग्राहकः ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
1161</p>
<lg>
  <l>छिन्त्से ब्रह्मशिरो यदि प्रथयसि प्रेतेषु सख्यं यदि</l>
  <l>क्षीब: क्रीडसि मातृभिर्यदि रतिं धत्से श्मशाने यदि ।</l>
  <l>सृष्ट्वा संहरसि प्रजा यदि तथाप्याधाय भक्त्या मनः</l>
  <l>कं सेवे करवाणि किं त्रिजगती शून्या त्वमेवेश्वरः ॥ २ ॥</l>
</lg>
<p>धोईकवेः ।
1162</p>
<lg>
  <l>दामोदरमुदराहितभुवनं यो वहति लीलया गरुडः ।</l>
  <l>कस्य तरोरुपरिष्टात्खिन्नोसौ श्रान्तिमपनयतु ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="205" />
<p>1163</p>
<lg>
  <l>अहिरहिरिति संभ्रमपदमितरजने किमपि कातरे भवतु ।</l>
  <l>विहगपतेराहारः स तु सरलमृणालदलरुचिरः ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
1164</p>
<lg>
  <l>यः पीयूषसहोदरैः स्नपयति ज्योत्स्नाजलैः सर्वतो</l>
  <l>यश्च त्वामधिकाधिकं ज्वलयति प्रोद्दामतापैः करैः ।</l>
  <l>भ्रातर्व्योम तयोरपि स्थितिमिह व्यातन्वतो विक्रिया-</l>
  <l>निर्मुक्तस्य महत्त्वमेतदसमं दूरेधिरूढं तव ॥ ५ ॥</l>
</lg>
<p>श्रीभोजदेवस्य ।
1165</p>
<lg>
  <l>शैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता</l>
  <l>किं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे ।</l>
  <l>किंचात: परमुच्यते स्तुतिपदं यज्जीवनं देहिनां</l>
  <l>त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः ॥ ६ ॥</l>
</lg>
<p>1166</p>
<lg>
  <l>अब्जं त्वब्जमथाब्जभूस्तत इदं ब्रह्माण्डमण्डात्पुन-</l>
  <l>र्विश्वं स्थावरजङ्गमं तदितरं त्वन्मूलमित्थं पयः ।</l>
  <l>धिक्त्वां चौर इव प्रयासि निभृतं निर्गत्य जालान्तरै-</l>
  <l>र्वध्यन्ते विवशास्त्वदेकशरणास्त्वामाश्रिता जन्तवः ॥ ७ ॥</l>
</lg>
<p>कयोरप्येतौ ।
1167</p>
<lg>
  <l>समुद्रस्यापत्यं प्रथितमहिमामुद्रितभुवः</l>
  <l>स्वसा प्रालेयांशोस्त्रिनयनशिरोधामवसतेः ।</l>
  <l>मुरारातेर्योषित्सरसिरुहकिंजल्कनिलया</l>
  <l>तथापि श्री: स्त्रीत्वात्प्रकृतिचपलालिङ्गति खलान् ॥ ८ ॥</l>
</lg>
<p>1168
तापापहे सहृदये रुचिरे प्रबुद्धे
मित्रानुरागनिरते धृतसद्भुणौधे ।</p>
<pb n="206" />
<p>स्वाङ्गप्रदानपरिपूरितषट्पदौघे
युक्तं तवेह कमले कमले स्थितिर्यत् ॥ ९ ॥
कयोरप्येतौ ।
1169</p>
<lg>
  <l>जम्भारिरेव जानाति रम्भासंभोगविभ्रमम् ।</l>
  <l>घटचेटीविट: किंस्विज्जानात्यमरकामिनीम् ॥ १० ॥</l>
</lg>
<p>कस्यापि ।
1170</p>
<lg>
  <l>यदेतत्कामिन्या सुरतविरतौ पल्लवरुचा</l>
  <l>करेणानीतस्त्वं वससि सह हारेण गुणिना ।</l>
  <l>मुहुः कुर्वन्गीतं कुचकलशपीठोपरि लुठ-</l>
  <l>न्नये वीणादण्ड प्रकटय फलं कस्य तपसः ॥ ११ ॥</l>
</lg>
<p>कस्यापि ।
1171</p>
<lg>
  <l>यदेतन्नेत्राम्भः पतदपि समासाद्य तरुणी-</l>
  <l>कपोले व्यासङ्गं कुचकलशमस्याः कलयति ।</l>
  <l>ततः श्रोणीबिम्बं व्यवसितविलासं तदुचितं</l>
  <l>स्वभावस्वच्छानां विपदपि सुखं नान्तरयति ॥ १२ ॥</l>
</lg>
<p>कस्यापि ।
1172</p>
<lg>
  <l>यत्पूर्वं पवनाग्निशस्त्रसलिलैश्चीर्णं तपो दुष्करं</l>
  <l>तस्यैतत्फलमीदृशं परिणतं यज्जातरूपं वपुः ।</l>
  <l>मुग्धापाण्डुकपोलचुम्बनसुखं सङ्गश्च रत्नोत्तमैः</l>
  <l>प्राप्तुं कुण्डल वाञ्छसे किमपरं यन्मूढ दोलायसे ॥१३॥</l>
</lg>
<p>कस्यापि ।
1173</p>
<lg>
  <l>सद्वृत्तसद्गुणविचित्रमहार्हकान्त</l>
  <l>कान्ताघनस्तनतटाञ्चितचारुमूर्ते ।</l>
  <l>आ: पामरीकठिनकण्ठविलग्नभङ्ग</l>
  <l>हा दार हारितमहो भवता गुणित्वम् ॥ १४ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="207" />
<p>1174</p>
<lg>
  <l>मौलौ सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो</l>
  <l>निर्यत्नोपनतैश्च वृत्तिरनिलैरेकत्र चर्येदृशी ।</l>
  <l>अन्यत्रानृजुवर्त्म वाग्द्विरसना वक्रे विषं वीक्षणं</l>
  <l>सर्वामङ्गलसूचकं कथय भो भोगिन्सखे किं न्विदम् ॥ १५ ॥</l>
</lg>
<p>कस्यापि ।
1175</p>
<lg>
  <l>दुश्चरितैरेव निजैर्भवति दुरात्मा विशङ्कितो नित्यम् ।</l>
  <l>दर्शनपथमापन्नं  पन्नगकुलमाकुलीभवति ॥ १६ ॥</l>
</lg>
<p>कस्यापि ।
1176</p>
<lg>
  <l>यस्मै ददाति विवरं भूमिः फूत्कारमात्रभीतेव ।</l>
  <l>आशीविषः स दैवादद्य करण्डस्थितिं सहते ॥ १७ ॥</l>
</lg>
<p>कस्यापि ।
1177</p>
<lg>
  <l>भेकेन क्वणता सरोषपरुषं यत्कृष्णसर्पानने</l>
  <l>दातुं कर्णचपेटमुज्झितभिया हस्तः समुल्लासितः ।</l>
  <l>यच्चाधोमुखमक्षिणी पिदधता नागेन तूष्णीं स्थितं</l>
  <l>तत्सर्वं विषमन्त्रिणो भगवतः कस्यापि लीलायितम् ॥ १८ ॥</l>
</lg>
<p>कस्यापि ।
1178</p>
<lg>
  <l>श्रुत्वा कुम्भसमुद्भवेन मुनिना किंचिन्मदात्याहितं</l>
  <l>सिन्धावन्धकुटुम्बदर्दुरकुलं हर्षादिदं ध्यायति ।</l>
  <l>गाम्भीर्याद्यदि ते न बिभ्यति न वा त्रस्यन्ति भेकीशिशो-</l>
  <l>रत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पावयम् ॥ १९ ॥</l>
</lg>
<p>कस्यापि ।
1179</p>
<lg>
  <l>आपूर्येत पुनः स्फुरच्छफरिकाशारोर्मिभिर्वारिभि-</l>
  <l>र्भूयोपि प्रविजृम्भमाणनलिनं पश्येम तोयाशयम् ।</l>
  <l>इत्याशाशततन्तुबद्धहृदयो नक्तंदिनं दीनधीः</l>
  <l>शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः ॥ २० ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="208" />
<p>1180</p>
<lg>
  <l>अस्तं गतोयमरविन्दवनैकबन्धु-</l>
  <l>र्भस्वान्न लङ्घयति कोपि विधिप्रणीतम् ।</l>
  <l>हे चक्र धैर्यमवलम्ब्य विमुञ्च शोकं</l>
  <l>धीरास्तरन्ति विपदं न तु दीनाचेत्ताः ॥ २१ ॥</l>
</lg>
<p>कस्यापि ।
1181</p>
<lg>
  <l>रात्रिर्गमिष्यति भविष्यति सुप्रभातं</l>
  <l>भास्वानुदेष्यति हसिष्यति पङ्कजं च ।</l>
  <l>इत्यादि चिन्तयति कोशगते द्विरेफे</l>
  <l>हा हन्त हन्त नलिनीं गज उन्मुमूल ॥ २२ ॥</l>
</lg>
<p>कस्यापि ।
1182</p>
<lg>
  <l>हंसः प्रयाति शनकैर्यदि यातु तस्य</l>
  <l>नैसर्गिकी गतिरियं हि न तत्र चित्रम् ।</l>
  <l>गत्या तया जिगमिषुर्बक एष मूढ-</l>
  <l>श्चेतो दुनोति सकलस्य जनस्य नूनम् ॥ २३ ॥</l>
</lg>
<p>कस्यापि ।
1183</p>
<lg>
  <l>कल्याणं नः किमधिकमितो जीवनार्थं पथस्त्वं</l>
  <l>छित्त्वा वृक्षानहह दहसि भ्रातरङ्गारकार ।</l>
  <l>न त्वेतस्मिन्नशनिपिशुनैरातपैराकुलाना-</l>
  <l>मध्वन्यानामशरणमरुप्रान्तरे कोभ्युपायः ॥ २४ ॥</l>
</lg>
<p>कस्यापि ।
1184</p>
<lg>
  <l>भ्रातर्ग्राम्यकुविन्द कन्दलयता वस्त्राण्यमूनि त्वया</l>
  <l>गोणीविभ्रमभाजनानि सुबहून्यात्मा किमायास्यते ।</l>
  <l>किं त्वेकं रुचिरं चिरादभिनवं वासस्तथा तन्यतां</l>
  <l>यन्नोज्झन्ति कुचस्थलात्क्षणमपि क्षोणीभुजां वल्लभाः ॥ २५ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="209" />
<p>1185</p>
<lg>
  <l>रे लाङ्गलिक निषद्याक्रोडे लोहं पुरा यदद्राक्षीः ।</l>
  <l>स्पर्शस्पर्शविशेषात्तदखिलमजनिष्ट हेम नृपयोग्यम् ॥ २६ ॥</l>
</lg>
<p>अच्युतस्य ।
1186</p>
<lg>
  <l>दुर्गा नदी शिथिलबन्धावलम्बिनी नौ-</l>
  <l>रभ्युन्नता जलमुचो विषम: समीरः ।</l>
  <l>आरूढवान्निजकुटुम्बयुतोध्वनीन-</l>
  <l>स्तत्कर्णधार कुरु यत्सदृशं कुलस्य ॥ २७ ॥</l>
</lg>
<p>कस्यापि ।
1187</p>
<lg>
  <l>वंशः प्रांशुरसौ घुणव्रणमयो जीर्णा वरत्रा इमाः</l>
  <l>कीला: कुण्ठतया विशन्ति न महीमाहन्यमाना अपि ।</l>
  <l>आरोहव्यवसायसाहसमिदं शैलूष संत्यज्यतां</l>
  <l>दूरे श्रीर्निकटे कृतान्तमहिषग्रैवेयघण्टारवः ॥ २८ ॥</l>
</lg>
<p>कस्यापि ।
1188</p>
<lg>
  <l>मौलिः स्वर्णकिरीटकान्तिरुचिरः केयूरभव्यौ भुजौ</l>
  <l>त्वद्भृत्याः किल कञ्चुकिप्रभृतयो देवेति विज्ञाप्यसे ।</l>
  <l>इत्थं कल्पनया कुशीलवनृपाहंकारदार्ढ्यं वृथा</l>
  <l>नृत्यान्ते भवतो भविष्यति मषीमात्रावशेषं वपुः ॥ २९ ॥</l>
</lg>
<p>कस्यापि ।
1189</p>
<lg>
  <l>अमी तिलास्तैलिक नूनमेतां</l>
  <l>स्नेहादवस्थां भवतोपनीताः ।</l>
  <l>द्वेषोभविष्यद्यदमीषु नूनं</l>
  <l>तदा न जाने किमिवाकरिष्यः ॥ ३० ॥</l>
</lg>
<p>कस्यापि ।
1190
किं व्यक्तीकुरुषे सरोजमुकुलाकारामुरोजश्रियं
लीनेनाधरपल्लवे कुसुमतां किं वा स्मितेनामुना ।</p>
<pb n="210" />
<p>आकूतामृतशीतलाः श्रमयसे किं वा गिरो नागरी-
र्मुग्धे कामिनि किं मुधा घटयसि क्लीबे कटाक्षच्छटाः ॥ ३१ ॥
1191</p>
<lg>
  <l>वक्रा नैष तनूविवर्तनगतीर्गृह्णाति साचिस्मित-</l>
  <l>स्मेरैर्दृग्वलनैरमुष्य न मनाक्चेतः परावर्तते ।</l>
  <l>हस्ते त्वं मुनिदारकस्य पतिता कल्याणि तन्नीयतां</l>
  <l>वेदीमार्जनबर्हिरर्पणवषट्कर्तव्यपाकैर्वयः ॥ ३२ ॥</l>
</lg>
<p>1192</p>
<lg>
  <l>स्रग्दाम मूर्धनि निधेहि गवेधुकानां</l>
  <l>गुञ्जामयीमुरसि धारय हारयष्टिम् ।</l>
  <l>बाले कलावति चिरं पतितासि पल्लौ</l>
  <l>तल्लौहमन्यदपि भूषणमेषणीयम् ॥३३ ॥</l>
</lg>
<p>केषामप्येते ।
1193</p>
<lg>
  <l>भ्रातः काञ्चनलेपगोपितबहिस्ताम्राकृते सर्वतो</l>
  <l>मा भैषी: कलश स्थिरो भव चिरं देवालयस्योपरि ।</l>
  <l>ताम्रत्वं गतमेव काञ्चनमयी कीर्ति: स्थिरा तेधुना</l>
  <l>नान्तस्तत्त्वविचारणप्रणयिनो लोका बहिर्बुद्धयः ॥ ३४ ॥</l>
</lg>
<p>कस्यापि ।
1194</p>
<lg>
  <l>न यत्र गुणवत्पात्रमेकमप्यस्ति संनिधौ ।</l>
  <l>कस्तत्र भवतः पान्थ कूपेम्बुग्रहणादरः ॥ ३५ ॥</l>
</lg>
<p>1195</p>
<lg>
  <l>रक्ष पात्रगतं स्नेहं प्रदीपश्रीविवर्धनम् ।</l>
  <l>प्रयास्यन्ति विनानेन भस्मत्वं भवतो गुणाः ॥ ३६॥</l>
</lg>
<p>एतौ राजपितामहमहादेवस्य ।
1196</p>
<lg>
  <l>को हि तुलामधिरोहति शुचेिना दुग्धेन सहजमधुरेण ।</l>
  <l>तप्तं विकृतं मथितं केवलमुद्गिरति यत्स्नेहम् ॥ ३७ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="211" />
<p>1197</p>
<lg>
  <l>दृढतरगलकनिबन्ध: कूपनिपातोपि कलश ते धन्यः ।</l>
  <l>यज्जीवनदानैस्त्वं तर्षामर्षं नृणां हंसि ॥३८ ॥</l>
</lg>
<p>1198</p>
<lg>
  <l>यत्सद्गुणोपि सरलोपि तटस्थितोपि</l>
  <l>वंशोद्गतोपि विदधासि नृशंसकर्म ।</l>
  <l>वक्रात्मनो बडिशदण्ड तदेतदस्य</l>
  <l>जानामि संगतिफलं तव कण्टकस्य ॥ ३९ ॥</l>
</lg>
<p>1199</p>
<lg>
  <l>द्वात्रिंशद्दशनद्वेषिमध्ये भ्रमसि नित्यशः ।</l>
  <l>तदिदं शिक्षिता केन जिह्वे संचारकौशलम् ॥ ४० ॥</l>
</lg>
<p>1200</p>
<lg>
  <l>अनिल निखिलविश्वं प्राणिति त्वत्प्रयुक्तं</l>
  <l>सपदि च विनिमीलत्याकुलं त्वद्वियोगात् ।</l>
  <l>वपुरपि परमेशस्याचितं नोचितं ते</l>
  <l>सुरभिमसुरभिं वा यत्स्वमङ्गीकरोषि ॥ ४१ ॥</l>
</lg>
<p>1201</p>
<lg>
  <l>अपि त्यक्तामि कस्तूरि पामरैः पङ्कशङ्कया ।</l>
  <l>अलं खेदेन भूपालाः किं न सन्ति महीतले ॥ ४२ ॥</l>
</lg>
<p>केषामप्येते ।
1202</p>
<lg>
  <l>जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो</l>
  <l>दूरे पुंसां वपुषि रचना पङ्कशङ्कां करोति ।</l>
  <l>यद्यप्येवं सकलसुरभिद्रव्यगर्वापहारी</l>
  <l>को जानीते परिमलगुणं काक कस्तूरिकायाः ॥४३ ॥</l>
</lg>
<p>विद्यापतेः ।
1203</p>
<lg>
  <l>कौस्तुभमुरसि मुरारे: शिरसि शशी द्योतते पुरां जयिनः ।</l>
  <l>तनुजन्मानौ जलधेर्जग्मतुरियतीं गतिं पश्य ॥ ४४ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="212" />
<p>1204</p>
<lg>
  <l>तुल्यं भूभृति जन्म तुल्यमुभयोर्मूल्यं च तुल्यं वपु-</l>
  <l>स्तुल्यं दार्ढ्यमुदग्रटङ्कदलनं तुल्यं च पाषाणयोः ।</l>
  <l>एकस्याखिलवन्दनाय विधिना देवत्वमारोपितं</l>
  <l>तद्दूरे विहितापरस्य तु पदाघातास्पदं देहली ॥ ४५ ॥</l>
</lg>
<p>1205</p>
<lg>
  <l>तृषार्ते: सारङ्गैः प्रतिजलघरं भूरि विरुतं</l>
  <l>घनैर्मुक्ता धाराः सपदि पयसस्तान्प्रति मुहुः ।</l>
  <l>खगानां के मेघाः क इह विहगा वा जलमुचा-</l>
  <l>मयाच्यो नार्तानामनुपकरणीयो न महताम् ॥ ४६ ॥</l>
</lg>
<p>कस्यापि ।
1206</p>
<lg>
  <l>भ्रातः पञ्जरलावक मा कुरु संतोषमन्यनिधनेन ।</l>
  <l>प्रातस्तत्रैव धातुर्वामत्वं किं न जानासि ॥ ४७ ॥</l>
</lg>
<p>कस्यापि ।
1207</p>
<lg>
  <l>मलोत्सर्गं गजेन्द्रस्य मूर्ध्नि काकः करोति यत् ।</l>
  <l>कुलानुरूपं तत्तस्य यो गजो गज एव सः ॥ ४८ ॥</l>
</lg>
<p>1208</p>
<lg>
  <l>ग्रासाद्गलितसिक्थस्य करिणः किं गतं भवेत् ।</l>
  <l>पिपीलकस्तु तेनैव सकुटुम्बोपि जीवति ॥ ४९ ॥</l>
</lg>
<p>1209</p>
<lg>
  <l>बन्धनस्थोपि मातङ्गः सहस्रभरणक्षमः ।</l>
  <l>अपि स्वच्छन्दचारी श्वा स्वोदरेणापि दुःखितः ॥ ५० ॥</l>
</lg>
<p>1210</p>
<lg>
  <l>ऊर्णां नैष दधाति नैव विषयो वाहस्य दोहस्य वा</l>
  <l>तृप्तिर्नास्य महोदरस्य बहुभिर्घासैः पलालैरपि ।</l>
  <l>हा कष्टं कथमस्य पृष्ठशिखरे गोणी समारोप्यते</l>
  <l>को गृह्णाति कपर्दकैरलमिति ग्राम्यैर्गजो हस्यते ॥ ५१ ॥</l>
</lg>
<p>केषामप्येते ।</p>
<pb n="213" />
<p>1211</p>
<lg>
  <l>पिब पयः प्रसर क्षितिपान्तिकं</l>
  <l>कलय कांचन काञ्चनशृङ्खलाम् ।</l>
  <l>इदमवद्यतमं हि यदीहसे</l>
  <l>भषण संप्रति केसरिणस्तुलाम् ॥ ५२ ॥</l>
</lg>
<p>भीमसिंहपण्डितस्य ।
1212</p>
<lg>
  <l>उदस्योच्चैः पुच्छं शिरसि निहितं जीर्णकुटिलं</l>
  <l>यदृच्छाव्यापन्नद्विपपिशितलेशाः कवलिताः ।</l>
  <l>गुहागर्ते शून्ये सुचिरमुषितं जम्बुक सखे</l>
  <l>किमेतस्मिन्कुर्मो यदसि न गतः सिंहसमताम् ॥ ५३ ॥</l>
</lg>
<p>भट्टेन्दुराजस्य ।
1213</p>
<lg>
  <l>यस्यां स केसरियुवा पदमाबबन्ध</l>
  <l>गन्धद्विपेन्द्ररुधिरारुणिताङ्गणायाम् ।</l>
  <l>तामद्य पर्वतदरीं धुतधूम्रलोमा</l>
  <l>गोमायुरेष वपुषा मलिनीकरोति ॥ ५४ ॥</l>
</lg>
<p>कस्यापि ।
1214</p>
<lg>
  <l>निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां कसेरुस्थलीं</l>
  <l>जम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान् ।</l>
  <l>दंष्ट्रायां चतुरर्णवोर्मिपटलैराप्लावितायामियं</l>
  <l>यस्या एव शिशोः स्थिता वसुमती सा पोत्रिणी पुत्रिणी ॥५५॥</l>
</lg>
<p>कस्यापि ।
1215</p>
<lg>
  <l>शतपदी सति पादशंते क्षमा</l>
  <l>यदि न गोष्पदमप्यतिवर्तितुम् ।</l>
  <l>किमियता द्विपदस्य हनूमतो</l>
  <l>जलनिधेः क्रमणे विवदामहे ॥ ५६ ॥</l>
</lg>
<p>भल्लटस्य ।</p>
<pb n="214" />
<p>1216</p>
<lg>
  <l>वृक्षान्दोलनमद्य ते क्व नु गतं नर्म स्वयूथस्य वा</l>
  <l>यूकान्वेषणरोषसौख्यबहुलाश्चेष्टा मुखोत्थाः क्व ताः ।</l>
  <l>क्वारण्ये फलपूर्णगल्लकुहरस्यान्येषु ता भीषिका</l>
  <l>भीतः संप्रति कौशिकाद्गलवलद्व्यालः कपे नृत्यसि ॥ ५७ ॥</l>
</lg>
<p>श्रीदामोदरदेवानाम् ।
1217</p>
<lg>
  <l>आकर्ण्य गुञ्जितरवं घनगर्जितुल्यं</l>
  <l>सिंहस्य यान्ति वनमन्यदिभा भयार्ताः ।</l>
  <l>तत्रैव पौरुषनिधिः स्वकुलेन सार्धं</l>
</lg>
<lg>
  <l>दर्पोद्धुरो वसति वीतभयो वराहः ॥ ५८ ॥</l>
  <l>शार्ङ्गधरस्य ।</l>
  <l>----------------</l>
  <l>अथ सामान्यराजप्रशंसा ॥ ७२ ॥</l>
</lg>
<p>1218
सरस्वती स्थिता वक्रे लक्ष्मी: करसरोरुहे ।
कीर्ति: किं कुपिता देव येन देशान्तरं गता ।॥ १ ॥
सरस्वतीकुटुम्बस्य ।
1219</p>
<lg>
  <l>तुलामारुह्य रविणा वृश्चिके निहितं पदम् ।</l>
  <l>भवता शिरसि न्यस्यमयत्नेनैव भोगिनाम् ॥ २ ॥</l>
</lg>
<p>1220
किं कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः ।
कलौ चेद्भवतो जन्म कलिरस्तु कृतेन किम् ॥ ३ ।॥
1221</p>
<lg>
  <l>सर्वदा सर्वदोसीति मिथ्या संस्तूयसे बुधैः ।</l>
  <l>नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ ४ ॥</l>
</lg>
<p>1222</p>
<lg>
  <l>कोप्यन्य: कल्पवृक्षोयं चकास्ति क्षितिमण्डले ।</l>
  <l>यत्पाणिपल्लवोप्येकः कुरुतेधः सुरद्रुमम ॥ ५ ॥</l>
</lg>
<p>केषामप्येते ।</p>
<pb n="215" />
<p>1223</p>
<lg>
  <l>देव त्वं जय यस्य राजति महाराष्ट्रीकुचोच्चं  कुलं</l>
  <l>लाटीवाङ्मृदु नर्म चेदिवनितानाभीगभीरं मनः ।</l>
  <l>आभीरीकटिविस्तृता मतिरसिर्गौडीकचश्यामल:</l>
  <l>कर्णाटीरतिनिष्ठुरो रणरसः कीरीमुखाच्छं यशः ॥ ६ ॥</l>
</lg>
<p>1224</p>
<lg>
  <l>ते कौपीनधनास्त एव हि परं धात्रीफलं भुञ्जते</l>
  <l>तेषां द्वारि नदन्ति वाजिनिवहास्तैरेव लब्धा क्षितिः ।</l>
  <l>तैरेतत्समलंकृतं निजकुलं किं वा बहु ब्रूमहे</l>
  <l>ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टेन वा ॥ ७ ॥</l>
</lg>
<p>कयोरप्येतौ ।
1225</p>
<lg>
  <l>संग्रामाङ्गणमागतेन भवता चापे समारोपिते</l>
  <l>देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।</l>
  <l>कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं</l>
  <l>तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥ ८ ॥</l>
</lg>
<p>कस्यापि ।
1226</p>
<lg>
  <l>देव त्वद्यशसि प्रसर्पति जगल्लक्ष्मीसुधोच्चैःश्रव-</l>
  <l>श्चन्द्ररावणकौस्तुभाः स्थितिमिवामन्यन्त दुग्धाम्बुधौ ।</l>
  <l>किं त्वेकः पुनरस्ति दूषणकणो यन्नोपयाति भ्रमा-</l>
  <l>त्कृष्णं श्री: शितिकण्ठमद्रितनया नीलाम्बरं रोहिणी ॥ ९ ॥</l>
</lg>
<p>कस्यापि ।
1227</p>
<lg>
  <l>किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ-</l>
  <l>स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः ।</l>
  <l>गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ट्या-</l>
  <l>मुन्मत्तेव भ्रमति भवतो वल्लभा देव कीर्तिः ॥ १० ॥</l>
</lg>
<p>मातङ्गदिवाकरस्य ।</p>
<pb n="216" />
<p>1228</p>
<lg>
  <l>युधिष्ठिरोसि भीमोसि चरितैरर्जुनो भवान् ।</l>
  <l>प्रज्ञया सहदेवोसि वाच्यता न कुलस्य ते ॥ ११ ॥</l>
</lg>
<p>1229</p>
<lg>
  <l>बलिकर्णदधीचाद्याः पुरा पञ्चत्वमागताः ।</l>
  <l>पञ्चत्वं न गताश्चित्रं त्वयि जीवति पञ्चमे ॥ १२ ॥</l>
</lg>
<p>1230</p>
<lg>
  <l>त्वद्गुणैर्ग्रथितः शुद्धैरमितैर्ब्रह्मगोलकः ।</l>
  <l>विधत्ते कीर्तिकन्यायाः विधिराक्रीडकौतुकम् ॥ १३ ॥</l>
</lg>
<p>केषामप्येते ।
1231</p>
<lg>
  <l>यशोदयामण्डितकान्तदेहो</l>
  <l>बाल्येपि गोपालजनस्य नेता ।</l>
  <l>गोमण्डलं पासि बलेन युक्तः</l>
  <l>कथं न राजन्पुरुषोत्तमोसि ॥ १४ ॥</l>
</lg>
<p>कस्यापि
1232</p>
<lg>
  <l>साशङ्कस्य समाकुलीकृतमतेरत्यन्तनिस्तेजसः</l>
  <l>स्विन्नाङ्गस्य विकम्पमानहृदयस्यारूढमन्योर्भृशम् ।</l>
  <l>लज्जां संत्यजतः क्रमं विमृशतो विघ्नान्बहून्पश्यतः</l>
  <l>क्लेशो योर्थिजनस्य वक्तुमनसो मा भूत्स ते विद्विषाम् ॥ १५॥</l>
</lg>
<p>कस्यापि ।
1233
नो काम: प्रतिहन्यते प्रणयिषु स्वप्नेपि नाथ त्वया
नैवाध: कुरुषे वृषं द्विरसना व्याला न ते वल्लभाः ।
नो बह्व्यस्तव मूर्तयो न च तनुर्नित्यं जडानुग्रह-
व्यग्रा नो विषमा च दृक्त्वमथ च ख्यातः क्षितावीश्वरः ॥ १६ ।
कस्यापि ।
1234
सिक्तायां वीरकण्ठस्थलबहलगलद्रक्तधाराम्बुवर्षै-
र्माद्यन्मातङ्गकुम्भोद्दलनविलुलितैर्मौक्तिकैः पुष्पितायाम् ।</p>
<pb n="217" />
<p>संग्रामोद्यानभूमौ तुरगखुरमुखोत्खातकृष्टस्थलायां
जातं त्वत्खड्गवल्यां फलमतुलरसास्वादहृद्यं जयश्रीः ॥१७॥
कस्यापि ।
1235</p>
<lg>
  <l>उद्यद्बालाङ्कुरश्रीर्दिशि दिशि दशनैरेभिराशागजानां</l>
  <l>रोहन्मूला सुगौरैरुरगपतिफणैरत्र पातालकुक्षौ ।</l>
  <l>अस्मिन्नाकाशदेशे विकसितकुसुमा राशिभिस्तारकाणां</l>
  <l>नाथ त्वत्कीर्तिवल्ली फलति फलमिदं बिम्बमिन्दोः सुधार्द्रम् ॥ १८ ॥</l>
</lg>
<p>कस्यापि ।
1236</p>
<lg>
  <l>हारानाहर देव चन्द्रधवलान्नो चेत्पयोधेस्तटीं</l>
  <l>संप्राप्ते त्वयि सैन्यवारणगणैर्मज्जद्भिराक्षोभितम् ।</l>
  <l>सिन्दूरारुणमम्बु मेघपटलीपीतोज्झितं शुक्तिषु</l>
  <l>स्वल्पैरेव दिनैः करिष्यति महीमाताम्रमुक्ताफलाम् ॥ १९ ॥</l>
</lg>
<p>कस्यापि ।
1237</p>
<lg>
  <l>दर्पान्धगन्धगजकुम्भकपाटकूट-</l>
  <l>संक्रान्तिनिघ्नघनशोणितशोणशोचिः ।</l>
  <l>वीरैर्व्यलोकि युधि कोपकषायकान्तिः</l>
  <l>कालीकटाक्ष इव यस्य करे कृपाणः ॥ २० ॥</l>
</lg>
<p>कस्यापि ।
1238</p>
<lg>
  <l>इन्दुं निन्दति चन्दनं न सहते मल्लीस्रजं नेहते</l>
  <l>हारं द्वेष्टि सिताभ्रमुज्झति बिसस्तोमं निगृह्णाति च ।</l>
  <l>श्रीभूपाल महीधरेषु विपिनेष्वम्भोधितीरेषु च</l>
  <l>त्वत्कीर्तिस्त्वदरिप्रिया च विलसत्युच्चैः स्फुरत्पाण्डिमा ॥ २१ ॥</l>
</lg>
<p>कस्यापि ।
1239
कृष्णत्वं घनमण्डलस्य गलितं लग्नं मुखे त्वद्विषां
विद्युद्धाम जगाम तावकमसिं गर्जिर्भवद्दुन्दुभिम् ।</p>
<pb n="218" />
<p>बृष्टिस्त्वत्परिपन्थिपार्थिववधूनेत्रेषु चक्रे स्थितिं
चापं ते वसुधाधिनाथ बलभित्कोदण्डकान्तिः श्रिता ॥ २२ ॥
कस्यापि ।
1240</p>
<lg>
  <l>सिन्दूरं सीमन्तात्स्मितं मुखाद्वैरिराजवनितानाम् ।</l>
  <l>यस्य प्रतापयशसी हरतः स्म सदृग्गुणासहने ॥ २३ ॥</l>
</lg>
<p>श्रीधनददेवानाम् ।
1241</p>
<lg>
  <l>अभिमतफलदाता त्वं च कल्पद्रुमश्च</l>
  <l>प्रकटमिह विशेषं कंचनोदाहरामः ।</l>
  <l>कथमिव मधुरोक्तिप्रेमसंमानमिश्रं</l>
  <l>तुलयति सुरशाखी देव दानं त्वदीयम् ॥ २४ ॥</l>
</lg>
<p>कस्यापि ।
1242</p>
<lg>
  <l>कल्पद्रुमो न जानाति न ददाति बृहस्पतिः ।</l>
  <l>अयं तु जगतीजानिर्जानाति च ददाति च ॥ २५ ॥</l>
</lg>
<p>कस्यापि ।
1243</p>
<lg>
  <l>नालिङ्गन्ति कुचद्वयं भवदिभप्रोत्तुङ्गकुम्भद्वय-</l>
  <l>त्रासाद्वेणिलतासु नैव दधति प्रीतिं तवासिभ्रमात् ।</l>
  <l>भ्रूभङ्गान्भवदीयदुर्धरधनुर्भ्रान्त्या भजन्ते न ते</l>
  <l>वैरिक्षोणिभुजो निजाम्बुजदृशां भूमण्डलाखण्डल ॥ २६ ॥</l>
</lg>
<p>1244</p>
<lg>
  <l>भग्नासु रिपुसेनासु नेतरत्त्वं  महामहाः ।</l>
  <l>खड्गान्तर्निजमेवैकमद्राक्षीः संमुखं मुखम् ॥ २७ ॥</l>
</lg>
<p>1245</p>
<lg>
  <l>देव त्वद्विजयप्रयाणविलसत्सद्वाजिराजिव्रज-</l>
  <l>क्षुण्णक्ष्मातललीनपांसुपटलप्राप्तानिमेषेक्षणाः ।</l>
  <l>सुत्रामा बहु मन्यते फणिपतिं पातालमूलस्थितं</l>
  <l>सोप्युद्दामकरीन्द्रदुर्धरभरक्लान्तः सहस्रेक्षणम् ॥ २८ ॥</l>
</lg>
<pb n="219" />
<p>1246</p>
<lg>
  <l>अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेन्मन्यसे</l>
  <l>तद्ब्रूमोद्भुतकीर्तनेन रसना केषां न कण्डूयते ।</l>
  <l>देव त्वत्तरुणप्रतापतपनज्वालावलीशोषिताः</l>
</lg>
<lg>
  <l>सर्वे वारिधयस्तवारिवनितानेत्राम्बुभिः पूरिताः ॥ २९ ॥</l>
  <l>केषामप्येते ।</l>
  <l>----------------</l>
  <l>अथ विशिष्टराजवर्णनम् ॥ ७३ ॥</l>
</lg>
<p>1247</p>
<lg>
  <l>गायन्तु किंनरगणाः सह किंनरीभिः</l>
  <l>श्रीरामचन्द्र शिखरेषु हिमाचलस्य ।</l>
  <l>शंखेन्दुकुन्ददलबालमृणालनाल-</l>
  <l>नीहारहारहरहाससितं यशस्ते ॥ १ ॥</l>
</lg>
<p>श्रीवाल्मीकिकवेः ।
1248</p>
<lg>
  <l>कूर्मः पादोत्र यष्टिर्भुजगपतिरसौ भाजनं भूतधात्री</l>
  <l>तैलापूर: समुद्राः कनकागिरिरयं वृत्तवर्तिप्ररोहः ।</l>
  <l>अर्चिश्चडांशुरोचिर्गगनमलिनिमा कज्जलं दह्यमाना</l>
  <l>शत्रुश्रेणीपतंगा जयति रघुपते त्वत्प्रतापप्रदीपः ॥ २ ॥</l>
</lg>
<p>हनुमतः ।
1249</p>
<lg>
  <l>तत्कृतं यन्न केनापि तद्दत्तं यन्न केनचित् ।</l>
  <l>तत्साधितमसाध्यं यद्विक्रमार्केण भूभुजा ॥ ३ ॥</l>
</lg>
<p>1250</p>
<lg>
  <l>हस्ती वन्यः स्फटिकघटिते भित्तिभागे स्वबिम्बं</l>
  <l>दृष्ट्वा दृष्ट्वा प्रतिगज इति त्वद्द्विषां मन्दिरेषु ।</l>
  <l>दन्ताघाताद्गलितदशनस्तं पुनर्वीक्ष्य सद्यो</l>
  <l>मन्दं मन्दं स्पृशति करिणीशङ्कया विक्रमार्क ॥ ४ ॥</l>
</lg>
<p>कयोरप्येतौ ।</p>
<pb n="220" />
<p>1251</p>
<lg>
  <l>हृष्यत्कृष्टासिपिष्टोत्कटकरटिघटाकुम्भकूटावटान्त-</l>
  <l>र्निष्ठ्यूतासृक्तटिन्यास्तटनिकटनटत्कौणपाट्टाट्टहासा ।</l>
  <l>श्रीभोज त्वद्रणक्ष्मा क्षतभटविकटोरःस्थलत्रोटकुप्य-</l>
  <l>द्गृध्रौघत्रोटिकोटिप्रकटचटचटाशब्दरौद्राभवद्द्राक् ॥ ५ ॥</l>
</lg>
<p>1252</p>
<lg>
  <l>भो भोः श्रीभोजदेवं श्रयत विनयतः शत्रवः क्षत्रवगो:</l>
  <l>प्राणत्राणाय नो वा न भवति भवतां क्वाप्यरण्यं शरण्यम् ।</l>
  <l>मत्वा मातङ्गकुम्भद्वितयमिति पुरा क्रूरवृत्तिर्भिनत्ति</l>
  <l>क्रुद्धः शुद्धान्तकान्ताकुचकलशयुगं रंहसा सिंहशावः ॥ ६ ॥</l>
</lg>
<p>1253</p>
<lg>
  <l>श्रीभोज साम्यं तव कल्पवृक्षः</l>
  <l>सदा वदान्योपि कथं प्रयातु ।</l>
  <l>यतो भवद्दानसुपुष्टविप्र-</l>
  <l>हव्येन कुक्षिंभरिरस्य भर्ता ॥ ७ ॥</l>
</lg>
<p>एते देवेश्वरपण्डितस्य ।
1254</p>
<lg>
  <l>मन्दश्चन्द्रकिरीटपूजनरसे तृष्णा न कृष्णार्चने</l>
  <l>स्तम्भः शंभुनितम्बिनीप्रणतिषु व्यग्रो न धातुर्गृहे ।</l>
  <l>अस्माकं परमर्दनोस्ति वदने न्यस्तेन संरक्षितः</l>
  <l>पृथ्वीराजनरेश्वरादिति तृणं तत्पत्तने पूज्यते ॥ ८ ॥</l>
</lg>
<p>विनायकपण्डितस्य।
1255</p>
<lg>
  <l>आ विन्ध्यादा हिमाद्रेर्विरचितविजयस्तीर्थयात्राप्रसङ्गा-</l>
  <l>दद्ग्रीवेषु प्रहर्ता नृपतिषु विनमत्कंधरेषु प्रसन्नः ।</l>
  <l>आर्यावर्त यथार्थं पुनरपि कृतवान्म्लेच्छविच्छेदनाभि-</l>
  <l>र्देव: शाकंभरीन्द्रो जगति विजयते वीसलक्षोणिपालः ॥ ९ ॥</l>
</lg>
<p>1256
ब्रूते संप्रति चाहुवाणतिलकः शाकंभरीभूपतिः
श्रीमान्विग्रहराज एष विजयी संतानजानात्मनः ।</p>
<pb n="221" />
<p>अस्माभिः करदं व्यधायि हिमवद्विन्ध्यान्तरालं भुवः
शेषस्वीकरणाय मास्तु भवतामुद्योगशून्यं मनः ॥ १० ॥
एतौ नृगनृपतिपाषाणयज्ञयूपप्रशस्तेः ।
1257</p>
<lg>
  <l>मा चक्र चक्रिविरहज्वरकातरो भू:</l>
  <l>संकोचमम्बुज न याहि न यामिनीयम् ।</l>
  <l>हम्मीरभूपहयटापविदीर्णभूमि-</l>
  <l>रेणूत्करैरयमकारि दिवान्धकारः ॥ ११ ॥</l>
</lg>
<p>कस्यापि ।
1258</p>
<lg>
  <l>राजन्त्राजमृगाङ्क शंकरकवे किं पत्रिकायामिदं</l>
  <l>श्लोकः कस्य तवैष देव शृणुमः संपठ्यतां पठ्यते ।</l>
  <l>एतासामरविन्दसुन्दरदृशां द्राक्चामरान्दोलना-</l>
  <l>दुद्वेल्लद्भुजवल्लिकङ्कणरणत्कार: क्षणं वार्यताम् ॥ १२ ॥</l>
</lg>
<p>1259</p>
<lg>
  <l>अर्धं  दानववैरिणा गिरिजयाप्यर्धं  हरस्याहृतं</l>
  <l>देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति ।</l>
  <l>गङ्गा सागरमम्बरं शशिकला शेषश्च पृथ्वीतलं</l>
  <l>सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां मां च भिक्षा श्रिता ॥ १३ ॥</l>
</lg>
<p>एतौ शंकरकवेः ।
1260</p>
<lg>
  <l>पृथ्वी श्रीमदनङ्गभीम महती तद्वेष्टनं वारिधिः</l>
  <l>पीतोसौ कलशोद्भवेन मुनिना स व्योम्नि खद्योतवत् ।</l>
  <l>तद्विष्णोर्दनुजाधिनाथजयिनः पूर्णं पदं नाभव-</l>
  <l>द्देवश्चेतसि वर्तते तव सदा त्वत्तो महान्नापरः ॥ १४ ॥</l>
</lg>
<p>सार्वभौमस्य ।
1261
चक्रः पप्रच्छ पान्थं कथय मम सखे नास्ति स क्वापि देशो
वस्तुं नो यत्र रात्रिर्भवति भुवि खगायेति स प्रत्यवाच ।</p>
<pb n="222" />
<p>नीते मेरौ समाप्तिं कनकवितरणैः श्रीजगद्देवनाम्ना
सूर्येनन्तर्हितेस्मिन्कतिपयदिवसैर्वासराद्वैतसृष्टिः ॥ १५ ॥
कस्यापि ।
1262</p>
<lg>
  <l>मुखे हारावाप्तिर्नयनयुगले कङ्कणभरो</l>
  <l>नितम्बे पत्त्राली सतिलकमभूत्पाणियुगलम् ।</l>
  <l>अरण्ये श्रीकर्ण त्वदरियुवतीनां विधिवशा-</l>
  <l>दपूर्वोयं भूषाविधिरहह जातः किमधुना ॥ १६ ॥</l>
</lg>
<p>कस्यापि ।
1263</p>
<lg>
  <l>कीर्तिः कैतववीररुद्र भवतः स्वर्वाहिनीगाहिनी</l>
  <l>दिक्पालानखिलान्परीत्य दधती पाण्योः प्रतापानलम् ।</l>
  <l>सप्ताम्भोनिधिमण्डलान्यधिगता त्वय्येकपत्नीव्रत-</l>
  <l>ख्यात्यै विष्णुपदं स्पृशत्यनुदिनं शेषस्य शीर्षण्यपि ॥१७॥</l>
</lg>
<p>कस्यापि ।
1264</p>
<lg>
  <l>विन्ध्याद्रिः करिसाधने निरुपमो रत्नाकरः कोशभृ-</l>
  <l>त्सौगन्धी मलयाचल: परिचराः सर्वेपि विद्याधराः ।</l>
  <l>विश्वाशापरिपूरणं वितरणं देशोप्यहो दक्षिण:</l>
  <l>पाण्ड्याखण्डल वीरपाण्ड्य भवतः किं किं न लोकोत्तरम् ॥१८॥</l>
</lg>
<p>सुदर्शनकवेः ।
1265</p>
<lg>
  <l>तवाङ्गणे सुन्दर वीरपाण्ड्य</l>
  <l>मतङ्गजाः शृङ्खलिनो विभान्ति ।</l>
  <l>आवासदानादरिभूपतीना-</l>
  <l>माशान्तरौला इव सापराधाः ॥ १९ ॥</l>
</lg>
<p>कस्यापि ।
1266</p>
<lg>
  <l>मुञ्चति मुञ्चति कोशं त्यजति त्यजति क्षमामाशु ।</l>
  <l>अर्जुनदेवकृपाणे भजति च भजाते प्रकम्पमरिवर्गः ॥ २० ॥</l>
</lg>
<pb n="223" />
<p>अथारिपलायनम् ॥ ७४ ॥
1267</p>
<lg>
  <l>अधाक्षीन्नो लङ्कामयमयमुदन्वन्तमतर-</l>
  <l>द्विशल्यां सौमित्रेरयमुपनिनायौषधिवराम् ।</l>
  <l>इति स्मारं स्मारं त्वदरिनगरीभित्तिलिखितं</l>
  <l>हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
1268</p>
<lg>
  <l>राजन्त्राजसुता न पाठयति मां देव्योपि तूष्णीं स्थिताः</l>
  <l>कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते ।</l>
  <l>इत्थं राजशुकस्तवारिभवने मुक्तोध्वगैः पञ्जरा-</l>
  <l>च्चित्रस्थानवलोक्य शून्यवलभामेकैकमाभाषते ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
1269
कुरबक कराघातक्रीडासुखेन वियुज्यसे
बकुलविटपिन्स्मर्तव्यं ते रसासवसेचनम् ।
चरणघटनाबन्ध्यो यास्यस्यशोक सशोकता-
मिति जनपुरत्यागे यस्य द्विषां जगदुः स्त्रियः ॥ ३ ।
रत्नाकरस्य ।
1270</p>
<lg>
  <l>क्रामन्त्यः  क्षतकोमलाङ्गुलिगलद्रक्तैः सदर्भाः स्थली:</l>
  <l>पादैः पातितयावकैरिव गलद्बाष्पाम्बुधौताननाः ।</l>
  <l>भीता भर्तृकरावलम्बितकरास्त्वच्छत्रुनार्योधुना</l>
  <l>दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
1271</p>
<lg>
  <l>क्षणं कान्तारागप्रसरविलसन्मानसरति:</l>
  <l>क्षणं शालोत्सङ्गे द्विजकुलरवाकृष्टहृदयः ।</l>
  <l>क्षणं पत्रध्वानश्रुतिपुलकितो यद्भयभरा-</l>
  <l>द्वसन्प्राप्तोरण्ये रिपुरवनिपालस्थितिमिव ॥ ५॥</l>
</lg>
<p>वैद्यभानुपण्डितस्य ।</p>
<pb n="224" />
<p>अरिपलायनम्
1272</p>
<lg>
  <l>तन्त्रीमुज्झितभूषणां कलगिरं रोमोद्गमं बिभ्रतीं</l>
  <l>वेपन्तीं  व्रणिताधरां विवसनां सीत्कारमातन्वतीम् ।</l>
  <l>दोर्भ्यां चण्डतुषारपातसभयामालिङ्ग्य कण्ठे भृशं</l>
  <l>स्वां मूर्ति दयितामिवातिरसिकां त्वद्विद्विषः शेरते ॥ ६ ॥</l>
</lg>
<p>कस्यापि ।
1273</p>
<lg>
  <l>यातीतः पान्थ पन्था व्रजति ननु कथं स्थावरं वर्त्म मुग्धे</l>
  <l>मार्गं पृच्छामि पृच्छ स्थितमिदमिह ते विस्मितं वीक्ष्य नेत्रे ।</l>
  <l>अध्वानं ब्रूह्यपेतध्वनि भवति वचश्चित्रमुद्बाष्पनेत्रा</l>
  <l>हस्यन्ते दावमूढाः पथि पथिकवटैस्त्वद्द्विषां नाथ नार्यः ॥ ७॥</l>
</lg>
<p>कस्यापि ।
1274</p>
<lg>
  <l>भूसंपर्करजोनिपातमलिनाः स्वस्माद्गृहात्प्रच्युताः</l>
  <l>सामान्यैरपि जन्तुभिः करतले निःशङ्कमालिङ्गिताः ।</l>
  <l>संलग्नाः क्वचिदेकतामुपगताः क्वापि प्रबुद्धाः क्वचि-</l>
  <l>त्सुप्ता: क्वापि च सारिवत्प्रतिगृहं भ्रान्तास्तवारि  स्त्रियः ॥८॥</l>
</lg>
<p>1275</p>
<lg>
  <l>सालकाननयुक्तापि सालकाननवर्जिता ।</l>
  <l>हारावरुद्धकण्ठापि विहारारिवधूस्तव ॥ ९ ॥</l>
</lg>
<p>1276
आत्ते सीमन्तरत्ने मरकतनिचिते हेमताटङ्कपत्रे
लुप्तायां मेखलायां कनकमणितुलाकोटियुग्मे गृहीते ॥
शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये
राजन्गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति ॥ १० ॥
केषामप्येते ।
1277
कर्षद्भिः सिचयाञ्चलान्यतिरसात्कुर्वाद्भरालिङ्गनं
गृह्णानैः कचमालिखद्भिरधरं विभ्रामयद्भिः करौ ।</p>
<pb n="225" />
<p>प्रत्यक्षेपि भवद्विरोधिनृपतेरन्तःपुराणामहो
धिक्कष्टं विटपैर्विटैरिव वने किं नाम नो चेष्टितम् ॥ ११ ॥
श्रीधनददेवानाम् ।
1278</p>
<lg>
  <l>त्वद्वैरिणो वीर पलायितस्य</l>
  <l>प्रकाशयन्नक्तमरण्यमार्गम् ।</l>
  <l>कृशानुरासीदभिनन्दनीय-</l>
  <l>स्तुङ्गेषु लग्नो निजमन्दिरेषु ॥ १२ ॥</l>
</lg>
<p>1279</p>
<lg>
  <l>राजन्द्विषस्ते भयविद्रुतस्य</l>
  <l>भालत्वचं कण्टकिनो वनान्ताः ।</l>
  <l>अद्यापि किं वानुभविष्यतीति</l>
  <l>व्यपाटयन्द्रष्टुमिवाक्षराणि ॥ १३ ॥</l>
</lg>
<p>1280
स्नाताः प्रावृषि मेघवान्तसलिलैः संरूढदूर्वाङ्कुर-
व्याजेनात्तकुशाः प्रणालसलिलैर्दत्त्वा निवापाञ्जलीन्
प्रासादास्तव विद्विषां परिपतत्कुड्यस्थपिण्डच्छला-
त्कुर्वन्ति प्रतिवासरं निजपतिप्रेताय पिण्डक्रियाम् ॥ १४ ।
केषामप्येते ।
---------------
अथ राजनीतिः ॥ ७५ ॥
1281</p>
<lg>
  <l>राजास्य जगतो हेतुर्वृद्धेर्वृद्धाभिसंमतः ।</l>
  <l>नयनानन्दजननः शशाङ्क इव वारिधेः ॥ १ ॥</l>
</lg>
<p>1282</p>
<lg>
  <l>धार्मिकं पालनपरं सम्यक्परपुरंजयम् ।</l>
  <l>राजानमभिमन्यन्ते प्रजापतिमिव प्रजाः ॥ २ ॥</l>
</lg>
<pb n="226" />
<p>1283</p>
<lg>
  <l>पर्जन्य इव भूतानामाधारः पृथिवीपतिः ।</l>
  <l>विकलेपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ ३ ॥</l>
</lg>
<p>1284</p>
<lg>
  <l>प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम् ।</l>
  <l>वर्धनाद्रक्षणं श्रेयस्तन्नाशेन्यत्सदप्यसत् ॥ ४ ॥</l>
</lg>
<p>1285</p>
<lg>
  <l>आत्मानं प्रथमं राजा विनयेनोपपादयेत् ।</l>
  <l>ततोमात्यांस्ततो भृत्यांस्ततः पुत्रांस्ततः प्रजाः ॥ ५ ॥</l>
</lg>
<p>1286</p>
<lg>
  <l>राज्ञि धर्मिणि धर्मिष्ठाः पापे पापा: समे समाः ।</l>
  <l>लोकास्तमनुवर्तन्ते यथा राजा तथा प्रजाः ॥ ६ ॥</l>
</lg>
<p>1287</p>
<lg>
  <l>नृपाणां च नराणां च केवलं तुल्यमूर्तिता ।</l>
  <l>आधिक्यं तु क्षमा धैर्यमाज्ञा दानं पराक्रमः ॥ ७॥</l>
</lg>
<p>1288</p>
<lg>
  <l>सदानुरक्तप्रकृतिः प्रजापालनतत्परः ।</l>
  <l>विनीतात्मा हि नृपतिर्भूयसीं श्रियमश्नुते ॥ ८ ॥</l>
</lg>
<p>1289
प्रजा न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम् । । ९ ॥
1290</p>
<lg>
  <l>अजामिव प्रजां हन्याद्यो मोहात्पृथिवीपतिः ।</l>
  <l>तस्यैका जायते तृप्तिर्द्वितीया न कथंचन ॥ १० ॥</l>
</lg>
<p>1291</p>
<lg>
  <l>प्रजापीडनसंतापात्समुद्भूतो हुताशनः ।</l>
  <l>राज्ञः श्रियं कुलं प्राणान्नादग्ध्वा विनिवर्तते ॥ ११ ॥</l>
</lg>
<pb n="227" />
<p>1292</p>
<lg>
  <l>यथा बीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभिवर्धितः ।</l>
  <l>फलप्रदो भवेत्काले तद्वल्लोकः सुरक्षितः ॥ १२॥</l>
</lg>
<p>1293</p>
<lg>
  <l>हिरण्यधान्यरत्नानि गजेन्द्राश्चापि वाजिनः ।</l>
  <l>तथान्यदपि यत्किंचित्प्रजाभ्यः स्यान्महीपतेः ॥ १३ ॥</l>
</lg>
<p>1294</p>
<lg>
  <l>उत्खातान्प्रतिरोपयन्कुसुमितांश्चिन्वंल्लघून्वर्धय-</l>
  <l>न्नत्युच्चान्नमयन्पृथूंश्च लघयन्विश्लेषयन्संहतान् ।</l>
  <l>कुब्जान्कण्टकिनो बहिर्निरसयन्म्लानान्पुन: सेचय-</l>
  <l>न्मालाकार इव प्रयोगनिपुणो राजा चिरं नन्दति ॥१४॥</l>
</lg>
<p>1295</p>
<lg>
  <l>अकृत्वा निजदेरास्व रक्षां यो विजिगीषते ।</l>
  <l>स नृपः परिधानेन वृतमौलि: पुमानिव ॥ १५ ॥</l>
</lg>
<p>1296</p>
<lg>
  <l>विजिगीषुररिर्मित्रं पार्ष्णिग्राहोथ मध्यमः ।</l>
  <l>उदासीनोन्तरान्तर्धिरित्येषा नृपतेः स्थितिः ॥ १६ ॥</l>
</lg>
<p>1297</p>
<lg>
  <l>निर्विषोपि यथा सर्पः फटाटोपैर्भयंकरः ।</l>
  <l>तथाडम्बरवान्राजा न परैः परिभूयते ॥ १७ ॥</l>
</lg>
<p>1298</p>
<lg>
  <l>पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः ।</l>
  <l>रणे विजयसंदेहः प्रधानपुरुषक्षयः ॥ १८ ॥</l>
</lg>
<p>1299</p>
<lg>
  <l>भूमिर्मित्रं हिरण्यं वा विग्रहस्य फलत्रयम् ।</l>
  <l>नात्येकमपि यद्येषां न तत्कुर्यात्कथंचन ॥ १९ ॥</l>
</lg>
<pb n="228" />
<p>1300</p>
<lg>
  <l>सामैव हि प्रयोक्तव्यमादौ कार्यं  विजानतां ।</l>
  <l>सामसिद्धानि कार्याणि विक्रियां यान्ति न क्वचित् ॥ २० ॥</l>
</lg>
<p>1301</p>
<lg>
  <l>न विश्वसेदमित्रस्य मित्रस्यापि न विश्वसेत् ।</l>
  <l>विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ २१ ॥</l>
</lg>
<p>1302</p>
<lg>
  <l>शपथैः संधितस्यापि न विश्वासं व्रजेद्रिपोः ।</l>
  <l>राज्यलोभोद्यतो वृत्रः शक्रेण शपथैर्हतः ॥ २२ ॥</l>
</lg>
<p>1303</p>
<lg>
  <l>उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत् ।</l>
  <l>पादलग्नं करस्थेन कण्टकेनेव कण्टकम् ॥ २३ ॥</l>
</lg>
<p>1304</p>
<lg>
  <l>नोपेक्षितव्यो विद्वद्भिः शत्रुरल्पोप्यवज्ञया ।</l>
  <l>वह्निरल्पोपि संवृद्धः कुरुते भस्मसाद्वनम् ॥ २४ ॥</l>
</lg>
<p>1305</p>
<lg>
  <l>कौर्मं संकोचमास्थाय प्रहारानपि मर्षयेत् ।</l>
  <l>काले काले च मतिमानुत्तिष्ठेत्कृष्णसर्पवत् ॥ २५ ॥</l>
</lg>
<p>1306</p>
<lg>
  <l>तावद्भयस्य भेतव्यं यावद्भयमनागतम् ।</l>
  <l>आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥ २६ ॥</l>
</lg>
<p>1307</p>
<lg>
  <l>परोपि हितवान्बन्धुर्बन्धुरप्यहितः परः ।</l>
  <l>अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥ २७ ॥</l>
</lg>
<p>1308</p>
<lg>
  <l>यच्छक्यं ग्रसितुं ग्रासं ग्रस्तं परिणमेच्च यत् ।</l>
  <l>हितं च परिणामे स्यात्तदाद्यं भूतिमिच्छता ॥ २८ ॥</l>
</lg>
<pb n="229" />
<p>1309</p>
<lg>
  <l>मा तात साहसं कार्षीर्विभवैर्गर्वमागतः ।</l>
  <l>स्वगात्राण्यपि भाराय भवन्ति हि विपर्यये ॥ २९ ॥</l>
</lg>
<p>1310</p>
<lg>
  <l>मा त्वं तात बले स्थित्वा बाधिष्ठा दुर्बलं जनम् ।</l>
  <l>नहि दुर्बलदग्धानां कुले किंचित्प्ररोहति ॥ ३० ॥</l>
</lg>
<p>1311</p>
<lg>
  <l>यानि मिथ्याभिभूतानां पतन्त्यश्रूणि रोदता ।</l>
  <l>तानि संतापकान्घ्नन्ति सपुत्रपशुबान्धवान् ॥ ३१ ॥</l>
</lg>
<p>1312</p>
<lg>
  <l>ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिकुलेषु च ।</l>
  <l>वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ॥ ३२ ॥</l>
</lg>
<p>1313</p>
<lg>
  <l>देवब्रह्मस्वपुष्टानि सैन्यानि पृथिवीपतेः ।</l>
  <l>युद्धकाले विशीर्यन्ते सैकताः सेतवो यथा ॥ ३३ ॥</l>
</lg>
<p>1314</p>
<lg>
  <l>प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ।</l>
  <l>एवं विद्वानविद्वांश्च ब्राह्मणो दैवतं महत् ॥ ३४ ॥</l>
</lg>
<p>1315</p>
<lg>
  <l>अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् ।</l>
  <l>लोकपालान्सृजेयुश्च लोकानन्यांश्च कोपिताः ॥ ३५ ॥</l>
</lg>
<p>1316</p>
<lg>
  <l>युगे युगे च ये धर्मास्तेषु धर्मेषु ये द्विजाः ।</l>
  <l>तेषां निन्दा न कर्तव्या युगरूपा हि वै द्विजाः ॥ ३६ ॥</l>
</lg>
<p>1317</p>
<lg>
  <l>आक्रम्य यद्द्विजैर्भुक्तं परिक्षीणैश्च बान्धवैः ।</l>
  <l>गोभिश्च नृपशार्दूल राजसूयाद्विशिष्यते ॥ ३७ ॥</l>
</lg>
<pb n="230" />
<p>1318
गतश्रीर्गणकान्द्वेष्टि गतायुश्च चिकित्सकान् !
गतश्रीश्च गतायुश्च ब्राह्मणान्द्वेष्टि भारत ॥ ३८ ॥
1319</p>
<lg>
  <l>बुद्धौ कलुषभूतायां विनाशे समुपस्थिते ।</l>
  <l>अनयो नयसंकाशो हृदयान्नापसर्पति ॥ ३९ ॥</l>
</lg>
<p>1320</p>
<lg>
  <l>न कालः खड्गमुद्यम्य शिरः कृन्तति कस्यचित् ।</l>
  <l>कालस्य बल मेतावद्विपरीतार्थदर्शनम् ॥ ४० ॥</l>
</lg>
<p>1321
जानन्नपि नरो दैवात्प्रकरोति विगर्हितम् ।
न कर्म कस्यचिल्लोके गर्हितं रोचते कृतम् ॥ ४१ ॥ .
1322</p>
<lg>
  <l>मा तात संपदामग्रमारूढोस्मीति विश्वसीः ।</l>
  <l>दूरारूढपरिभ्रंशविनिपातो हि दारुणः ॥ ४२ ॥</l>
</lg>
<p>1323</p>
<lg>
  <l>कितवा यं प्रशंसन्ति यं प्रशंसन्ति चारणाः ।</l>
  <l>यं प्रशंसन्ति बन्धक्यः स पार्थ पुरुषाधमः ॥ ४३ ॥</l>
</lg>
<p>1324</p>
<lg>
  <l>राजानो यं प्रशंसन्ति यं प्रशंसन्ति च द्विजाः ।</l>
  <l>साधवो यं प्रशंसन्ति स पार्थ पुरुषोत्तमः ॥ ४४ ॥</l>
</lg>
<p>1325</p>
<lg>
  <l>प्रज्ञागुप्तशरीरस्य किं करिष्यन्ति संहताः ।</l>
  <l>गृहीतच्छत्रहस्तस्य वारिधारा इवारयः ॥ ४५ ॥</l>
</lg>
<p>1326</p>
<lg>
  <l>बहूनामप्यसाराणां समवायो हि दारुणः ।</l>
  <l>तृणैर्विधीयते रज्जुर्बध्यन्ते दन्तिनश्च तैः ॥ ४६ ॥</l>
</lg>
<pb n="231" />
<p>1327</p>
<lg>
  <l>ताडितोपि दुरुक्तोपि दण्डितोपि महीभुजा ।</l>
  <l>न चिन्तयति यः पापं स भृत्योर्हो महीभुजाम् ॥ ४७ ॥</l>
</lg>
<p>1328</p>
<lg>
  <l>योनाहूतः समभ्येति द्वारे तिष्ठति सर्वदा ।</l>
  <l>पृष्टः सत्यं मितं ब्रूते स भृत्योर्हो महीभुजाम् ॥ ४८ ॥</l>
</lg>
<p>1329</p>
<lg>
  <l>सालसं मुखरं क्रूरं स्तब्धं व्यसनिनं शठम् ।</l>
  <l>असंतुष्टमभक्तं च त्यजेद्भृत्यं नराधिपः ॥ ४९ ॥</l>
</lg>
<p>1330</p>
<lg>
  <l>रिक्ताः कर्मणि पटवस्तृप्तास्त्वलसा भवन्ति ये भृत्याः ।</l>
  <l>तेषां जलौकसामिव पूर्णानां रिक्तता कार्या ॥ ५० ॥</l>
</lg>
<p>1331</p>
<lg>
  <l>क्रूरं व्यसनिनं लुब्धमप्रगल्भमथाकुलम् ।</l>
  <l>मूर्खमन्यायकर्तारं नाधिपत्ये नियोजयेत् ॥ ५१ ॥</l>
</lg>
<p>1332</p>
<lg>
  <l>नियोगिभिर्विना राज्यं नास्ति भूपे हि केवलम् ।</l>
  <l>तस्मादमी विधातव्या रक्षितव्याः प्रयत्नतः ॥ ५२ ॥</l>
</lg>
<p>1333</p>
<lg>
  <l>वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः ।</l>
  <l>आशीर्वादपरो नित्यमेष राज्ञः पुरोहितः ॥ ५३ ॥</l>
</lg>
<p>1334</p>
<lg>
  <l>क्रमागतो हितमतिः सर्वभावपरीक्षकः ।</l>
  <l>धीरो यथोक्तवादी च दूत एवंविधो मतः ॥ ५४ ॥</l>
</lg>
<p>1335</p>
<lg>
  <l>प्रवीणो वाक्पटुर्धीमान्स्वामिभक्तश्च नित्यशः ।</l>
  <l>अलुब्धः सत्यवादी च भाण्डागारिक इष्यते ॥ ५५ ॥</l>
</lg>
<pb n="232" />
<p>1336</p>
<lg>
  <l>मेधावी वाक्पटुर्धीरो लघुहस्तो जितेन्द्रियः ।</l>
  <l>परशास्त्रपरिज्ञाता एष लेखक उच्यते ॥ ५६ ॥</l>
</lg>
<p>1337
इङ्गिताकारतत्त्वज्ञो बलवान्प्रियदर्शनः ।
समयज्ञः स्वामिभक्तः प्रतीहारः स उच्यते ॥ ५७
1338</p>
<lg>
  <l>शूरोर्थशास्त्रनिपुणः कृतशस्त्रकर्मा</l>
  <l>संग्रामकेलिचतुरश्चतुरङ्गयुक्तः ।</l>
  <l>भर्तुर्निदेशवशगोभिमतः स्वतन्त्रे</l>
  <l>सेनापतिर्नरपतेर्विजयागमाय ॥ ५८ ॥</l>
</lg>
<p>1339</p>
<lg>
  <l>काणाः कुब्जाश्च षण्ढाश्च तथा वृद्धाश्च पङ्गवः ।</l>
  <l>एते चान्तः पुरे नित्यं नियोक्तव्याः क्षमाभृता ॥ ५९ ॥</l>
</lg>
<p>1340</p>
<lg>
  <l>पक्वानमिव राजेन्द्र सर्वसाधारणाः स्त्रियः ।</l>
  <l>परोक्षे च समक्षे च न तासां विश्वसेत्सुधीः ॥ ६० ॥</l>
</lg>
<p>1341</p>
<lg>
  <l>सूक्ष्मेभ्योपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या हि सर्वदा ।</l>
  <l>द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः ॥ ६१ ॥</l>
</lg>
<p>1342</p>
<lg>
  <l>महिष्या हृष्टया भाव्यं गृहकार्येषु दक्षया ।</l>
  <l>सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ ६२ ॥</l>
</lg>
<p>1343</p>
<lg>
  <l>धर्मशास्त्रार्थकुशलाः कुलीना: सत्यवादिनः ।</l>
  <l>समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ॥ ६३ ॥</l>
</lg>
<p>1344
न सा सभा यत्र न सन्ति वृद्धा
वृद्धा न ते ये न वदन्ति धर्मम् ।</p>
<pb n="233" />
<p>नासौ धर्मो यत्र न चास्ति सत्यं
न तत्सत्यं यच्छलेनानुविद्धम् ॥ ६४ ॥
1345</p>
<lg>
  <l>सभा वा प्रवेष्टव्या वक्तव्यं वा समञ्जसम् ।</l>
  <l>अनुवन्विब्रुवन्वापि नरो भवति किल्बिषी ॥ ६५ ॥</l>
</lg>
<p>1346</p>
<lg>
  <l>तस्मात्सभ्यः सभां गत्वा रागद्वेषविवर्जितः ।</l>
  <l>वचस्तथाविधं ब्रूयाद्यथा न नरकं व्रजेत् ॥ ६६ ॥</l>
</lg>
<p>1347</p>
<lg>
  <l>माता पिता गुरुर्भ्राता भार्या पुत्रः पुरोहितः ।</l>
  <l>नादण्ड्यो नाम राज्ञोस्ति स्त्रधर्मे यो न तिष्ठति ॥ ६७ ॥</l>
</lg>
<p>1348</p>
<lg>
  <l>अवध्यो ब्राह्मणो बालः स्त्री तपस्वी च रोगवान् ।</l>
  <l>क्रियते व्यङ्गता ह्येषु ततो दोषैर्न लिप्यते ॥ ६८ ॥</l>
</lg>
<p>1349</p>
<lg>
  <l>न तु हन्यान्महीपालो दूतं कस्यचिदापदि ।</l>
  <l>दूतहन्ता तु नरकमाविशेत्सचित्रैः सह ॥ ६९ ॥</l>
</lg>
<p>1350</p>
<lg>
  <l>विशोधय महीपाल मन्त्रिशालामशेषतः ।</l>
  <l>अयुक्तो नार्हति स्थातुमस्यां मन्त्ररहस्यवित् ॥ ७० ॥</l>
</lg>
<p>1351</p>
<lg>
  <l>मन्त्रतन्त्रार्पितप्रीतिर्देशकालोचितस्थितिः ।</l>
  <l>यश्च राज्ञि भवेद्रक्तः सोमात्यः पृथिवीपतेः ॥ ७१ ॥</l>
</lg>
<p>1352</p>
<lg>
  <l>अन्तःसारैरकुटिलैः सुस्निग्धैः  सुपरीक्षितैः ।</l>
  <l>मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम् ॥ ७२ ॥</l>
</lg>
<p>1353
नरपतिहितकर्ता द्वेष्यतां याति लोके
जनपदहितकर्ता त्यज्यते पार्थिवेन्द्रैः ।</p>
<pb n="234" />
<p>इति महति विरोधे वर्तमाने समाने
नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥ ७३ ॥
1354</p>
<lg>
  <l>षट्कर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् ।</l>
  <l>द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्यन्तं न गच्छति ॥ ७४ ॥</l>
</lg>
<p>1355
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता । ।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्ति राष्ट्रं सराजकम् ॥ ७५ ॥
1356</p>
<lg>
  <l>न तच्छस्त्रैर्न नागेन्द्रैर्न हयैर्न च पत्तिभिः ।</l>
  <l>कार्यं संसिद्धिमभ्येति यथा बुद्ध्या प्रसाधितम् ॥ ७६ ॥</l>
</lg>
<p>1357</p>
<lg>
  <l>दुर्योधनः समर्थोपि दुर्मन्त्री प्रलयं गतः ।</l>
  <l>राज्यमेकश्चकारोच्चैः सुमन्त्री चन्द्रगुप्तकः ॥ ७७ ॥</l>
</lg>
<p>1358</p>
<lg>
  <l>अशृण्वन्नपि बोद्धव्यो मन्त्रिभिः पृथिवीपतिः ।</l>
  <l>यथा स्वदोषनाशाय विदुरेणाम्बिकासुतः ॥ ७८ ॥</l>
</lg>
<p>1359</p>
<lg>
  <l>पृष्टो ब्रूते न सत्यं तं परिणामे सुखावहम् ।</l>
  <l>मन्त्री चेत्प्रियवक्ता स्यात्केवलं स रिपुः स्मृतः ॥ ७९ ॥</l>
</lg>
<p>1360</p>
<lg>
  <l>सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।</l>
  <l>अप्रियस्य च पथ्यभ्य वक्ता श्रोता च दुर्लभः ॥ ८० ॥</l>
</lg>
<p>1361</p>
<lg>
  <l>दुर्गाणि राज्ञा कार्याणि सजलानि दृढानि च ।</l>
  <l>द्रव्यमन्नं च तेष्वेव स्थापनीयं प्रयत्नतः ॥ ८१ ॥</l>
</lg>
<pb n="235" />
<p>1382</p>
<lg>
  <l>दुर्गं बहुविधं  ज्ञेयं पर्वतस्य जलस्य च ।</l>
  <l>प्राकारस्य वनस्यापि भूमेरपि भवेत्क्वचित् ॥ ८२ ॥</l>
</lg>
<p>1363</p>
<lg>
  <l>न गजानां सहस्रेण न लक्षेण च वाजिनाम् ।</l>
  <l>तथा सिद्ध्यन्ति कार्याणि यथा दुर्गप्रभावतः ॥ ८३ ॥</l>
</lg>
<p>1364</p>
<lg>
  <l>विषहीनो यथा नागो मदहीनो यथा गजः ।</l>
  <l>सर्वेषां वश्यतां याति दुर्गहीनस्तथा नृपः ॥ ८४ ॥</l>
</lg>
<p>1365</p>
<lg>
  <l>शतमेकोपि संधत्ते प्राकारस्थो धनुर्धरः ।</l>
  <l>तस्माद्दुर्गं प्रशंसन्ति नीतिशास्त्रविदो जनाः ॥ ८५ ॥</l>
</lg>
<p>1366</p>
<lg>
  <l>त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः ।</l>
  <l>नियोजयेद्यथावत्तांस्त्रिविधेष्वपि कर्मसु ॥ ८६ ॥</l>
</lg>
<p>1367</p>
<lg>
  <l>तुल्यार्थं तुल्यसामर्थ्यं  मर्मज्ञं व्यवसायिनम् ।</l>
  <l>अर्धराज्यहरं भृत्यं यो न हन्यात्स हन्यते ॥ ८७ ॥</l>
</lg>
<p>1368</p>
<lg>
  <l>निर्विशेषं यदा राजा समं भृत्येषु तिष्ठति ।</l>
  <l>तत्रोद्यमसमर्थानामुत्साह: परिहीयते ॥८८ ॥</l>
</lg>
<p>1369</p>
<lg>
  <l>प्रसादो निष्फलो यस्य क्रोधो यस्य निरर्थकः ।</l>
  <l>न तं भर्तारमिच्छन्ति वृद्धं पतिमिवाङ्गनाः ॥ ८९ ॥</l>
</lg>
<p>1370</p>
<lg>
  <l>त्यजेत्स्वामिनमत्युग्रमत्युग्रात्कृपणं त्यजेत् ।</l>
  <l>कृपणादविशेषज्ञं तस्माच्च कृतनाशनम् ॥ ९० ॥</l>
</lg>
<pb n="236" />
<p>1371</p>
<lg>
  <l>अविवेकिनि भूपाले नश्यन्ति गुणिनां गुणाः ।</l>
  <l>प्रवासरसिके कान्ते यथा साध्व्याः स्तनोन्नतिः ॥ ९१ ॥</l>
</lg>
<p>1372</p>
<lg>
  <l>किंशुके किं शुकः कुर्यात्फलितेपि बुभुक्षितः ।</l>
  <l>अदातरि समृद्धेपि किं कुर्युरुपजीविनः ॥ ९२ ॥</l>
</lg>
<p>1373</p>
<lg>
  <l>सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम् ।</l>
  <l>स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् ॥ ९३ ॥</l>
</lg>
<p>1374</p>
<lg>
  <l>वरं वनं वरं भैक्ष्यं वरं भारोपजीवनम् ।</l>
  <l>पुंसां विवेकमुक्तानां सेवया न धनार्जनम् ॥ ९४ ॥</l>
</lg>
<p>1375</p>
<lg>
  <l>जीवन्तोपि मृताः पञ्च व्यासेन परिकीर्तिताः ।</l>
  <l>दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ॥ ९५ ॥</l>
</lg>
<p>1376</p>
<lg>
  <l>न कश्चिच्चण्डकोपानामात्मीयो नाम भूभुजाम् ।</l>
  <l>होतारमपि जुह्वन्तं दहत्येव हि पावकः ॥ ९६ ॥</l>
</lg>
<p>1377</p>
<lg>
  <l>गृध्राकारोपि सेव्यः स्याद्धंसाकारैः सभासदैः ।</l>
  <l>हंसाकारोपि संत्याज्यो गृध्राकारैः सभासदैः ॥ ९७ ॥</l>
</lg>
<p>1378</p>
<lg>
  <l>चक्रं सेव्यं नृपः सेव्यो मा नृपश्चक्रवर्जितः ।</l>
  <l>पश्य चक्रस्य माहात्म्यं मृत्पिण्डः पात्रतां गतः ॥ ९८ ॥</l>
</lg>
<p>1379
गन्तव्यं राजकुलं द्रष्टव्या राजपूजिता लोकाः [
यद्यपि न भवन्त्यर्थास्तथाप्यनर्था विलीयन्ते ॥ ९९ ॥</p>
<pb n="237" />
<p>1380</p>
<lg>
  <l>अत्यासन्ना विनाशाय दूरतश्चाफलप्रदाः ।</l>
  <l>मध्यभावेन सेव्यन्ते राजा वह्निर्गुरुस्त्रियः ॥ १०० ॥</l>
</lg>
<p>1381</p>
<lg>
  <l>आसन्नमेव नृपतिर्भजते मनुष्यं</l>
  <l>विद्याविहीनमकुलीनमसंगतं वा ।</l>
  <l>प्रायेण भूमिपतयः प्रमदा लताश्च</l>
  <l>यः पार्श्वतो भवति तं परिवेष्टयन्ति ॥ १०१ ॥</l>
</lg>
<p>1382</p>
<lg>
  <l>यस्मिन्नैवाधिकं चक्षुरारोपयति पार्थिवः ।</l>
  <l>कुलीनो वाकुलीनो वा स श्रियो भाजनं भवेत् ॥ १०२ ॥</l>
</lg>
<p>1383</p>
<lg>
  <l>धवलान्यातपत्राणि वाजिनश्च मनोरमाः ।</l>
  <l>सदा मत्ताश्च मातङ्गाः प्रसन्ने सति भूपतौ ॥ १०३ ॥</l>
</lg>
<p>1384</p>
<lg>
  <l>राजमातरि देव्यां च कुमारे मुख्यमन्त्रिणि ।</l>
  <l>पुरोहिते प्रतीहारे वर्तितव्यं नृपे यथा ॥ १०४ ॥</l>
</lg>
<p>1385</p>
<lg>
  <l>द्विजा अपि न गच्छन्ति तां गतिं नैव योगिनः ।</l>
  <l>स्वाम्यर्थे संत्यजन्प्राणान्यां गतिं याति सेवकः ॥ १०५ ॥</l>
</lg>
<p>1386</p>
<lg>
  <l>राजा तुष्टोपि भृत्यानां मानमात्रं प्रयच्छति ।</l>
  <l>ते तु संमानिता ह्येनं प्राणैरप्युपकुर्वते ॥ १०६ ॥</l>
</lg>
<p>1387</p>
<lg>
  <l>सारासारपरिच्छेत्ता स्वामी भृत्यस्य दुर्लभः ।</l>
  <l>अनुकूलः शुचिर्दक्षः प्रभोर्मृत्योपि दुर्लभः ॥ १०७ ॥</l>
</lg>
<pb n="238" />
<p>1388</p>
<lg>
  <l>अतितेजस्व्यपि राजा पानासक्तो न साधयत्यर्थान् ।</l>
  <l>तृणमपि दग्धुं शक्तो न वाडवाग्निः पिबन्ननिशम् ॥ १०८ ॥</l>
</lg>
<p>1389</p>
<lg>
  <l>पानमक्षास्तथा नार्यो मृगया गीतवादिते ।</l>
  <l>एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् ॥ १०९ ॥</l>
</lg>
<p>1390</p>
<lg>
  <l>नृपः कामासक्तो न गणयति कार्यं न च हितं</l>
  <l>यथेष्टं स्वच्छन्दं चरति किल मत्तो गज इव ।</l>
  <l>ततो मानाध्मातः पतति तु यदा शोकगहने</l>
  <l>तदामात्ये दोषान्क्षिपति न निजं वेत्त्यविनयम् ॥११०॥</l>
</lg>
<p>1391</p>
<lg>
  <l>गुणवदगुणवद्वा कुर्वता कार्यजातं</l>
  <l>परिणतिरवधार्या यत्नतः पण्डितेन ।</l>
  <l>अतिरभसकृतानां कर्मणामा विपत्ते-</l>
  <l>र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ १११ ॥</l>
</lg>
<p>1392</p>
<lg>
  <l>आयाच्चतुर्थभागेन व्ययकर्म प्रवर्तयेत् ।</l>
  <l>प्रभूततैलदीपो हि चिरं भद्राणि पश्यति ॥ ११२ ॥</l>
</lg>
<p>1393</p>
<lg>
  <l>अर्थानामर्जनं कार्यं  वर्धनं रक्षणं तथा ।</l>
  <l>भक्ष्यमाणो निरादायः सुमेरुरपि हीयते ॥११३ ॥</l>
</lg>
<p>1394</p>
<lg>
  <l>कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम् ।</l>
  <l>प्रसादयति लोकं यस्तं लोकोनुप्रसीदति ॥ ११४ ॥</l>
</lg>
<p>1395</p>
<lg>
  <l>संभोजनं संकथनं संप्रश्नोथ समागमः ।</l>
  <l>ज्ञातिभिः सह कार्याणि न विरोध: कदाचन ॥ ११५ ॥</l>
</lg>
<pb n="239" />
<p>1396</p>
<lg>
  <l>संगतिः श्रेयसी राजन्विगुणेष्वपि बन्धुषु ।</l>
  <l>तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥ ११६ ॥</l>
</lg>
<p>1397</p>
<lg>
  <l>मृदो: परिभवो नित्यं वैरं तीक्ष्णस्य नित्यशः ।</l>
  <l>उत्सृज्यैतद्द्वयं तस्मान्मध्यां वृत्तिं समाश्रयेत् ॥ ११७ ॥</l>
</lg>
<p>1398</p>
<lg>
  <l>अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम् ।</l>
  <l>नहि सर्वत्र पाण्डित्वं सुलभं पुरुषे क्वचित् ॥ ११८ ॥</l>
</lg>
<p>1399</p>
<lg>
  <l>तेजस्विनि क्षमोपेते नातिकार्कश्यमाचरेत् ।</l>
  <l>अतिनिर्मथनादग्निश्चन्दनादपि जायते ॥ ११९ ॥</l>
</lg>
<p>1400</p>
<lg>
  <l>किमप्यसाध्यं महतां सिद्धिमेति लघीयसाम् ।</l>
  <l>प्रदीपो भूमिगेहान्तर्ध्वान्तं हन्ति न भानुमान् ॥ १२० ॥</l>
</lg>
<p>1401</p>
<lg>
  <l>अरावप्युचितं कार्यमातिथ्यं गृहमागते ।</l>
  <l>छेत्तुः पार्श्वगतां छायां नोपसंहरते द्रुमः ॥ १२१ ॥</l>
</lg>
<p>1402</p>
<lg>
  <l>हन्तुं मेषोपसरति मृगेन्द्र: संकुचत्यपि ।</l>
  <l>बुद्धिमन्तः सहन्ते तन्निधाय हृदि किंचन ॥ १२२ ॥</l>
</lg>
<p>1403</p>
<lg>
  <l>व्रजन्ति ते मूढधियः पराभवं</l>
  <l>भवन्ति मायाविषु ये न मायिनः ।</l>
  <l>प्रविश्य हि घ्नन्ति शठास्तथाविधा-</l>
  <l>नसंवृताङ्गान्निशिता इवेषवः ॥ १२३ ॥</l>
</lg>
<p>1404
कोहं कौ देशकालौ समविषमगुणा: केरयः के सहायाः
का शक्तिः कोभ्युपायः फलमिह च कियत्कीदृशी दैवसंपत् ।</p>
<pb n="240" />
<p>संपत्तौ को निबन्धः प्रतिहतवचनस्योत्तरं किं नु मे स्या-
दित्येवं कार्यसिद्धाववहितमनसो नावहास्या भवन्ति ॥ १२४॥
1405</p>
<lg>
  <l>धर्मः प्रागेव चिन्त्यः सचिवगतिमती सर्वदालोकनीये</l>
  <l>प्रच्छाद्यौ  रागरोषौ मृदुकठिनतरौ योजनीयौ च काले ।</l>
  <l>ज्ञेयं लोकानुवृत्तं वरचरनयनैर्मण्डलं वीक्षणीय-</l>
  <l>मात्मा यत्नेन रक्ष्यो रणशिरसि पुनः सोपि नापेक्षणीयः ॥ १२५ ॥</l>
</lg>
<p>1406</p>
<lg>
  <l>यशस्करे कर्माणि मित्रसंग्रहे</l>
  <l>प्रियासु नारीष्वधनेषु बन्धुषु ।</l>
  <l>क्रतौ विवाहे व्यसने रिपुक्षये</l>
  <l>धनव्ययस्तेषु न गण्यते बुधैः ॥ १२६ ॥</l>
</lg>
<p>1407
स्वाम्यमात्यश्च राष्ट्रं च कोशो दुर्गं बलं सुहृत् ।
एतावदुच्यते राज्यं सत्त्वबुद्धिव्यपाश्रयम् ॥ १२७ ।
1408</p>
<lg>
  <l>संधिविग्रहयानानि संस्थितिः संश्रयस्तथा ।</l>
  <l>द्वैधीभावश्च भूपानां षड्गुणा: परिकीर्तिताः ॥ १२८ ॥</l>
</lg>
<p>1409</p>
<lg>
  <l>उत्साहस्य प्रभोमन्त्रस्यैवं शक्तित्रयं जगुः ।</l>
  <l>आत्मनः सुहृदश्चैव तन्मित्रस्योदयास्त्रयः ॥ १२९ ॥</l>
</lg>
<p>1410</p>
<lg>
  <l>सामदाने भेददण्डावित्युपायचतुष्टयम् ।</l>
  <l>हस्त्यश्वरथपादातं  सेनाङ्गं स्याच्चतुष्टयम् ॥ १३० ॥</l>
</lg>
<p>1411</p>
<lg>
  <l>दुष्टाविनीतशत्रूणां भयकृद्बन्धुसंनिभम् ।</l>
  <l>शस्त्र धारणमोजस्यं रक्षोविद्युद्ग्रहापहम् ॥ १३१ ॥</l>
</lg>
<pb n="241" />
<p>1412</p>
<lg>
  <l>वर्षानिलरजोधर्महिमादीनां निवारणम् ।</l>
  <l>राज्यलक्ष्म्या गृहं धन्यं चक्षुष्यं छत्रधारणम् ॥ १३२ ॥</l>
</lg>
<p>1413</p>
<lg>
  <l>चामरं श्रीकरं दिव्यं राजशोभाकरं  परम् ।</l>
  <l>सिंहासनं सुखैश्वर्यकरं लोकानुरञ्जनम् ॥ १३३ ॥</l>
</lg>
<p>1414</p>
<lg>
  <l>सुमनोवररत्नानां धारणं दिव्यरूपकृत् ।</l>
  <l>पापालक्ष्मीप्रशमनं चन्दनाद्यनुलेपनम् ॥ १३४ ॥</l>
</lg>
<p>1415</p>
<lg>
  <l>स्नानं नाम मनःप्रसादजननं दुःस्वप्नविध्वंसनं</l>
  <l>शौचस्यायतनं मलप्रकषणं संवर्धनं तेजसः ।</l>
  <l>रूपोद्द्योतकरं गदप्रशमनं कामस्य चाप्यायनं</l>
  <l>नारीणां च मनोहरं श्रमहरं स्नाने दशैते गुणाः ॥१३५ ॥</l>
</lg>
<p>1416</p>
<lg>
  <l>ताम्बूलं मुखरोगनाशनिपुणं संवर्धनं तेजसो</l>
  <l>नित्यं जाठरवह्निवृद्धिजननं दुर्गन्धदोषापहम् ।</l>
  <l>ववत्रालंकरणं प्रहर्षजननं विद्वन्नृपाग्रे रणे</l>
  <l>कामस्यायतनं समुद्भवकरं लक्ष्म्याः सुखस्यास्पदम् ॥१३६॥</l>
</lg>
<p>1417</p>
<lg>
  <l>देवतातिथिविप्राणां पूजनं पापनाशनम् ।</l>
  <l>लोकत्रयेपि शुभकृद्दानं धर्मयशस्करम् ॥ १३७ ॥</l>
</lg>
<p>1418</p>
<lg>
  <l>माणिक्यं तरणेस्तथातिविमलं मुक्ताफलं शीतगो-</l>
  <l>र्माहेयस्य च विद्रुमं मरकतं सौम्यस्य रागोत्तमम् ।</l>
  <l>देवेज्यस्य च पुष्परागमुदितं शुक्रस्य वज्रं शने-</l>
  <l>र्नीलं निर्मलमन्ययोश्च गढ़िते गोमेदवैदूर्यके ॥ १३८ ॥</l>
</lg>
<pb n="242" />
<p>1419</p>
<lg>
  <l>सुतभृत्यसुहृद्वैरिस्वामिसद्गुरुदैवते ।</l>
</lg>
<lg>
  <l>एकैकोत्तरतो वृद्ध्या श्रीकाराः पत्रमूर्धनि ॥ १३९ ॥</l>
  <l>एते राजनीतिभ्यः स्मृतिभ्यो भारताद्रामायणाच्च ।</l>
  <l>--------------</l>
  <l>अथ नीतिः ॥ ७६ ॥</l>
</lg>
<p>1420</p>
<lg>
  <l>अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते ।</l>
  <l>स्वल्पमप्यनुगन्तव्यं मार्गस्थो नावसीदति ॥ १ ॥</l>
</lg>
<p>1421</p>
<lg>
  <l>प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः ।</l>
  <l>किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति ॥ २ ॥</l>
</lg>
<p>1422</p>
<lg>
  <l>सद्भिरेव सहासीत सद्भिः कुर्वीत संगतिम् ।</l>
  <l>सद्भिर्विवादं मैत्रीं च नासद्भिः किंचिदाचरेत् ॥ ३ ॥</l>
</lg>
<p>1423</p>
<lg>
  <l>न द्विषन्ति न याचन्ते परनिन्दां न कुर्वते ।</l>
  <l>अनाहूता न चायान्ति तेनाश्मानोपि देवताः ॥ ४ ॥</l>
</lg>
<p>1424</p>
<lg>
  <l>पठतो नास्ति मूर्खत्वं जपतो नास्ति पातकम् ।</l>
  <l>मौनिनः कलहो नास्ति न भयं चास्ति जाग्रतः ॥ ५ ॥</l>
</lg>
<p>1425</p>
<lg>
  <l>गतेपि वयसि ग्राह्या विद्या सर्वात्मना बुधैः ।</l>
  <l>यद्यपि स्यान्न फलदा सुलभा सान्यजन्मनि ॥ ६ ॥</l>
</lg>
<p>1426</p>
<lg>
  <l>यदीच्छसि वशीकर्तुं जगदेकेन कर्मणा ।</l>
  <l>परापवादसस्येभ्यो गां चरन्तीं निवारय ॥ ७ ॥</l>
</lg>
<pb n="243" />
<p>1427</p>
<lg>
  <l>वाङ्माधुर्यान्नान्यदस्ति प्रियत्वं</l>
  <l>वाक्पारुष्याच्चोपकारोपि नेष्टः।</l>
  <l>किं तद्र्व्यं कोकिलेनोपनीतं</l>
  <l>को वा लोके गर्दभस्यापराधः ॥ ८ ॥</l>
</lg>
<p>1428</p>
<lg>
  <l>यस्य चाप्रियमन्विच्छेत्तस्य कुर्यात्सदा प्रियम् ।</l>
  <l>व्याधा मृगवधं कर्तुं गीतं गायन्ति सुस्वरम् ॥ ९ ॥</l>
</lg>
<p>429</p>
<lg>
  <l>प्रहरिष्यन्प्रियं ब्रूयात्प्रहृत्यापि प्रियोत्तरम् ।</l>
  <l>अपि चास्य शिरश्छित्त्वा रुद्याच्छोचेत्तथापि च ॥ १० ॥</l>
</lg>
<p>1430</p>
<lg>
  <l>अनागतविधातारमप्रमत्तमकोपनम् ।</l>
  <l>स्थिरारम्भमदीनं च नरं श्रीरुपतिष्ठते ॥ ११ ॥</l>
</lg>
<p>1431</p>
<lg>
  <l>सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते ।</l>
  <l>प्रारम्भे कृतबुद्धीनां सिद्धिरव्यभिचारिणी ॥ १२ ॥</l>
</lg>
<p>1432</p>
<lg>
  <l>नालसाः प्राप्नुवन्त्यर्थान्न शठा न च मायिनः ।</l>
  <l>न च लोकरवाद्भीता न च शश्वत्प्रतीक्षिणः ॥ १३ ॥</l>
</lg>
<p>1433</p>
<lg>
  <l>नोदन्वार्थितामेति स चाम्भोभिः प्रपूर्यते ।</l>
  <l>आत्मा तु पात्रतां नेयः पात्रमायान्ति संपदः ॥ १४ ॥</l>
</lg>
<p>1434</p>
<lg>
  <l>सर्वथा स्वहितमाचरणीयं</l>
  <l>किं करिष्यति जनो बहुजल्पः ।</l>
  <l>विद्यते नहि स कश्चिदुपायः</l>
  <l>सर्वलोकपरितोषकरो यः ॥ १५ ॥</l>
</lg>
<pb n="244" />
<p>1435</p>
<lg>
  <l>काकतालीययोगेन यदनात्मवति क्षणम् ।</l>
  <l>करोति प्रणयं लक्ष्मीस्तदस्याः स्त्रीत्वचापलम् ॥ १६ ॥</l>
</lg>
<p>1436</p>
<lg>
  <l>योयमर्थं प्रार्थयते तदर्थं घटते च यः ।</l>
  <l>अवश्यं तदवाप्नोति न चेच्छ्रान्तो निवर्तते ॥ १७ ॥</l>
</lg>
<p>1437</p>
<lg>
  <l>केचिदज्ञानतो नष्टाः केचिन्नष्टाः प्रमादतः ।</l>
  <l>केचिज्ज्ञानावलेपेन केचिन्नष्टैस्तु नाशिताः ॥ १८ ॥</l>
</lg>
<p>1438</p>
<lg>
  <l>मित्रस्वजनबन्धूनां बुद्धेर्धैर्यस्य चात्मनः ।</l>
  <l>आपन्निकषपाषाणे नरो जानाति सारताम् ॥ १९ ॥</l>
</lg>
<p>1439</p>
<lg>
  <l>दुष्टैरपि निजैरेव प्रावृतं सर्वमुत्तमम् ।</l>
  <l>वृतं जीर्णाम्बरेणापि हट्टकर्पटमर्घति ॥ २० ॥</l>
</lg>
<p>1440</p>
<lg>
  <l>चिन्तनीया हि विपदामादावेव प्रतिक्रिया ।</l>
  <l>न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ॥ २१ ॥</l>
</lg>
<p>1441</p>
<lg>
  <l>वरं दारिद्र्यमन्यायप्रभवाद्विभवादिह ।</l>
  <l>कृशताभिमता देहे पीनता न तु शोफतः ॥ २२ ॥</l>
</lg>
<p>1442
अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम् ।
पश्चाद्भवति संतापो ब्राह्मण्या नकुले यथा । २३ ॥
1443</p>
<lg>
  <l>दिवा निरीक्ष्य वक्तव्यं रात्रौ नैव च नैव च ।</l>
  <l>संचरन्ति महाधूर्ता वटे वररुचिर्यथा ॥ २४ ॥</l>
</lg>
<pb n="245" />
<p>1444</p>
<lg>
  <l>स्त्री विनश्यति रूपेण ब्राह्मणो राजसेवया ।</l>
  <l>गावो दूरप्रचारेण हिरण्यं लाभलिप्सया ॥ २५ ॥</l>
</lg>
<p>1445</p>
<lg>
  <l>अतिदानाद्बलिर्बद्धो नष्टो मानात्सुयोधनः ।</l>
  <l>विनष्टो रावणो लौल्यादति सर्वत्र वर्जयेत् ॥ २६ ॥</l>
</lg>
<p>1446</p>
<lg>
  <l>धनमस्तीति वाणिज्यं किंचिदस्तीति कर्षणम् ।</l>
  <l>सेवा न किंचिदस्तीति नाहमस्मीति साहसम् ॥ २७ ॥</l>
</lg>
<p>1447</p>
<lg>
  <l>स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजंगमः ।</l>
  <l>हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ॥ २८ ॥</l>
</lg>
<p>1448</p>
<lg>
  <l>जानन्ति पशवो गन्धाद्वेदाज्जानन्ति वाडवाः ।</l>
  <l>चराज्जानन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ २९ ॥</l>
</lg>
<p>1449
सपक्षो लभते काको वृक्षस्य विविधं फलम् ॥
पक्षहीनो मृगेन्द्रोपि भूमिसंस्थो निरीक्षते ॥ ३० ॥
1450</p>
<lg>
  <l>अलब्ध्वापि फलं राज्ञः संश्रिता यान्ति संपदाम् ।</l>
  <l>महाद्रुमसमीपस्थं पश्य नीलं वनस्पतिम् ॥ ३१ ॥</l>
</lg>
<p>1451</p>
<lg>
  <l>सर्वंसहा ये ॠजवः प्रतिज्ञातार्थपालकाः ।</l>
  <l>परोपकारिणः सेव्या निर्धना अपि ते नराः ॥ ३२ ॥</l>
</lg>
<p>1452</p>
<lg>
  <l>युक्तियुक्तं प्रगृह्णीयाद्वालादपि विचक्षणः ।</l>
  <l>रवेरविषये वस्तु किं न दीपः प्रकाशयेत् ॥ ३३ ॥</l>
</lg>
<pb n="246" />
<p>1453</p>
<lg>
  <l>कठिनं वा मधुरं वा प्रस्तुतवचनं मनोहारि ।</l>
  <l>वामे गर्दभनादश्चित्तप्रीत्यै प्रयाणेषु ॥ ३४ ॥</l>
</lg>
<p>1454</p>
<lg>
  <l>वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् ।</l>
  <l>वृथा दानं समर्थस्य वृथा शूरे विभूषणम् ॥ ३५ ॥</l>
</lg>
<p>1455</p>
<lg>
  <l>अजायुद्धमृषिश्राद्धं प्रत्यूषे मेघडम्बरः ।</l>
  <l>दंपत्योः कलहश्चैव परिणामे न किंचन ॥ ३६ ॥</l>
</lg>
<p>1456</p>
<lg>
  <l>सप्तैतानि न पूर्यन्ते पूर्यमाणान्यपि क्वचित् ।</l>
  <l>ब्राह्मणोग्निर्यमो राजा पयोधिरुदरं गृहम् ॥ ३७ ॥</l>
</lg>
<p>1457</p>
<lg>
  <l>वस्त्रं गां च बहुक्षीरां जलपात्रमुपानहौ ।</l>
  <l>औषधं बीजमाहारं संक्रीणीत यथाप्नुयात् ॥ ३८ ॥</l>
</lg>
<p>1458</p>
<lg>
  <l>अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।</l>
  <l>वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ ३९ ॥</l>
</lg>
<p>1459</p>
<lg>
  <l>अवृत्तिकं त्यजेद्देशं वृत्तिं सोपद्रवां त्यजेत् ।</l>
  <l>त्यजेन्मायाविनं भित्रं धनं प्राणहरं त्यजेत् ॥ ४० ॥</l>
</lg>
<p>1460</p>
<lg>
  <l>सौहृदेन परित्यक्तं निःस्नेहं खलवत्त्यजेत् ।</l>
  <l>सोदरं भ्रातरमपि किमुतान्यं पृथग्जनम् ॥ ४१ ॥</l>
</lg>
<p>1461</p>
<lg>
  <l>यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा ।</l>
  <l>आयासो वा यतोभूलस्तदेकाङ्गमपि त्यजेत् ॥ ४२ ॥</l>
</lg>
<pb n="247" />
<p>1462</p>
<lg>
  <l>त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।</l>
  <l>ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ ४३ ॥</l>
</lg>
<p>1463</p>
<lg>
  <l>चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः ।</l>
  <l>नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ ४४ ॥</l>
</lg>
<p>1464</p>
<lg>
  <l>न गणस्याग्रतो गच्छेत्सिद्धे कार्ये समं फलम् ।</l>
  <l>यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ॥ ४५ ॥</l>
</lg>
<p>1465</p>
<lg>
  <l>पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ।</l>
  <l>धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ॥ ४६ ॥</l>
</lg>
<p>1466</p>
<lg>
  <l>अनायके न वस्तव्यं न वसेद्बहुनायके ।</l>
  <l>स्त्रीनायके न वस्तव्यं न वसेद्बालनायके ॥ ४७ ॥</l>
</lg>
<p>1467</p>
<lg>
  <l>सर्वे यत्र विनेतारः सर्वे पण्डितमानिनः ।</l>
  <l>सर्वे महत्त्वमिच्छन्ति तद्वृन्दमवसीदति ॥ ४८ ॥</l>
</lg>
<p>1468</p>
<lg>
  <l>घटं भिन्द्यात्पटं छिन्द्यात्कुर्यात्किंचिदथाद्भुतम् ।</l>
  <l>येन केनाप्युपायेन नाविज्ञात: पुरे वसेत् ॥ ४९ ॥</l>
</lg>
<p>1469</p>
<lg>
  <l>विवादो धनसंबन्धो याचनं स्त्रीषु संगतिः ।</l>
  <l>आदानमग्रस्थायित्वं मैत्रीभङ्गस्य हेतवः ॥५० ॥</l>
</lg>
<p>1470</p>
<lg>
  <l>नहीदृशं संवननं त्रिषु लोकेषु विद्यते ।</l>
  <l>दया मैत्री च भूतेषु दानं च मधुरा च वाक् ॥ ५१ ॥</l>
</lg>
<pb n="248" />
<p>1471</p>
<lg>
  <l>दर्शितानि कलत्राणि गृहे भुक्तमशङ्कितम् ।</l>
  <l>कथितानि रहस्यानि सौहृदं किमतः परम् ॥ ५२॥</l>
</lg>
<p>1472</p>
<lg>
  <l>न मातरि न दारेषु न सोदर्येषु बन्धुषु ।</l>
  <l>विश्रम्भस्तादृशः पुंसां यादृग्मित्रे निरन्तरे ॥५३॥</l>
</lg>
<p>1473</p>
<lg>
  <l>शोकारातिभयत्राणं प्रीतिविश्रम्भमाजनम् ।</l>
  <l>केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ ५४ ॥</l>
</lg>
<p>1474</p>
<lg>
  <l>दुःखेन श्लिष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते ।</l>
  <l>भिन्नश्लिष्टा तु या प्रीतिः सा दुःखैकप्रदायिनी ॥ ५५ ॥</l>
</lg>
<p>1475</p>
<lg>
  <l>ययोरेव समं वित्तं ययोरेव समं कुलम् ।</l>
  <l>तयोर्मैत्री विवाहश्च न तु पुष्टविपुष्टयोः ॥ ५६ ॥</l>
</lg>
<p>1476</p>
<lg>
  <l>चिबुके यस्य लोमानि न वक्षसि न गल्लयोः ।</l>
  <l>तेन सख्यं न कुर्वीत यदि निर्मानुषं जगत् ॥ ५७ ॥</l>
</lg>
<p>1477</p>
<lg>
  <l>दाने तपसि शौर्ये च यस्य न प्रथितं यशः ।</l>
  <l>विद्यायामर्थलाभे वा तस्य जन्म निरर्थकम् ॥ ५८ ॥</l>
</lg>
<p>1478</p>
<lg>
  <l>परोपकारशून्यस्य धिंग्मनुष्यस्य जीवितम् ।</l>
  <l>जीवन्तु पशवो येषां चर्माप्युपकरिष्यति ॥ ५९ ॥</l>
</lg>
<p>1479</p>
<lg>
  <l>तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्ति च ।</l>
  <l>न खादन्ति न मेहन्ति किं ग्रामपशवोपरे ॥ ६० ॥</l>
</lg>
<pb n="249" />
<p>1480</p>
<lg>
  <l>पन्नगाः सन्ति बहुशो भेकभक्षणतत्पराः ।</l>
  <l>स एकः शेषनागो हि भूभारधरणक्षमः ॥ ६१॥</l>
</lg>
<p>1481</p>
<lg>
  <l>यज्जीव्यते क्षणमपि प्रथितैर्मनुष्यै-</l>
  <l>र्विज्ञानविक्रमयशोभिरभग्नमानम् ।</l>
  <l>तन्नाम जीवितफलं प्रवदन्ति सन्तः</l>
  <l>काकोपि जीवति चिरं च बलिं च भुङ्क्ते ॥ ६२॥</l>
</lg>
<p>1482</p>
<lg>
  <l>किं तेन जातु जातेन मातुर्यौवनहारिणा ।</l>
  <l>आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा ॥ ६३ ॥</l>
</lg>
<p>1483</p>
<lg>
  <l>अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् ।</l>
  <l>यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ६४ ॥</l>
</lg>
<p>1484</p>
<lg>
  <l>न पुत्रः पितरं द्वेष्टि स्वभावात्स्वस्य रेतसः ।</l>
  <l>यः पुत्रः पितरं द्वेष्टिं तं विद्यादन्यरेतसम् ॥ ६५ ॥</l>
</lg>
<p>1485</p>
<lg>
  <l>किं कुलेन विशालेन शीलमेवात्र कारणम् ।</l>
  <l>कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ॥ ६६ ॥</l>
</lg>
<p>1486</p>
<lg>
  <l>न पुत्रत्वेन पूज्यन्ते गुणैरासाद्यते पदम् ।</l>
  <l>रवेर्व्यापारमादत्ते प्रदीपो न पुनः शनिः ॥ ६७ ॥</l>
</lg>
<p>1487</p>
<lg>
  <l>उत्तमा आत्मना ख्याताः पितुः ख्याताश्च मध्यमाः ।</l>
  <l>अधमा मातुलैः ख्याताः श्वशुरैश्चाधमाधमाः ॥ ६८ ॥</l>
</lg>
<p>1488</p>
<lg>
  <l>ज्येष्ठो भ्राता पितृसमो मृते पितरि सर्वदा ।</l>
  <l>स ह्येषां वृत्तिदाता स्यात्स ह्येतान्परिपालयेत् ॥ ६९ ॥</l>
</lg>
<pb n="250" />
<p>1489</p>
<lg>
  <l>कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः ।</l>
  <l>तमेव चोपजीव्येरन्यथैव पितरं तथा ॥ ७० ॥</l>
</lg>
<p>1490</p>
<lg>
  <l>विभागेन समानास्ते पितुर्द्रव्यस्य केवलम् ।</l>
  <l>तयोः पूर्वतरो यस्तु गुरुः स हि निगद्यते ॥ ७१ ॥</l>
</lg>
<p>1491</p>
<lg>
  <l>ऋणशेषश्चाग्निशेष: शत्रुशेषस्तथैव च ।</l>
  <l>पुनः पुनः प्रवर्तन्ते तस्माच्छेषं न कारयेत् ॥ ७२॥</l>
</lg>
<p>1492</p>
<lg>
  <l>कुभोज्येन दिनं नष्टं कुकलत्रेण शर्वरी ।</l>
  <l>कुपुत्रेण कुलं नष्टं तन्नष्टं यन्न दीयते ॥ ७३ ॥</l>
</lg>
<p>1493</p>
<lg>
  <l>चतुरः सृजता पूर्वमुपायांस्तेन वेधसा ।</l>
  <l>न सृष्टः पञ्चमः कोपि गृह्यन्ते येन योषितः ॥ ७४ ॥</l>
</lg>
<p>1494
स्त्रियस्तु यः कामयते संनिकर्षं च गच्छति ॥
ईषत्प्रकुरुते सेवां तं तमिच्छन्ति योषितः ॥ ७५ ॥
1495</p>
<lg>
  <l>यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम् ।</l>
  <l>उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव ॥ ७६ ॥</l>
</lg>
<p>1496</p>
<lg>
  <l>बर्बरश्च तपस्वी स्याच्छूरश्चाप्यकृतव्रणः ।</l>
  <l>मद्यपा स्त्री सती राजन्निति न श्रद्दधाम्यहम् ॥ ७७ ॥</l>
</lg>
<p>1497</p>
<lg>
  <l>जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमम् ।</l>
  <l>हृद्गतं चिन्तयन्त्यन्यं न स्त्रीणामेकतो रतिः ॥ ७८ ॥</l>
</lg>
<pb n="251" />
<p>1498</p>
<lg>
  <l>नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।</l>
  <l>नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ ७९ ॥</l>
</lg>
<p>1499</p>
<lg>
  <l>रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः ।</l>
  <l>तेन नारद नारीणां सतीत्वमुपजायते ॥ ८० ॥</l>
</lg>
<p>1500</p>
<lg>
  <l>सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः ।</l>
  <l>तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥ ८१ ॥</l>
</lg>
<p>1501</p>
<lg>
  <l>लक्ष्म्या परिपूर्णोहं न भयं मेस्तीति मोहनिद्रैषा ।</l>
  <l>परिपूर्णस्यैवेन्दोर्भवति भयं सिंहिकासूनोः ॥ ८२ ॥</l>
</lg>
<p>1502</p>
<lg>
  <l>अतिपरिचयादवज्ञा संततगमनादनादरो भवति ।</l>
  <l>लोकः प्रयागवासी कूपस्नानं समाचरति ॥ ८३ ॥</l>
</lg>
<p>1503</p>
<lg>
  <l>व्रजत्यधोधो यात्युच्चैर्नरः स्वैरेव चेष्टितैः ।</l>
  <l>खनितेव हि कूपस्य प्रासादस्येव कारकः ॥ ८४ ॥</l>
</lg>
<p>एते नीतिशास्त्रेभ्यो भारताच्चाणाक्यात्पञ्चाख्यानाच्च ।
1504</p>
<lg>
  <l>ब्राह्मे मुहूर्ते पुरुषस्त्यजेन्निद्रामतन्द्रितः ।</l>
  <l>पद्मं प्रातः प्रबुद्धं हि श्रयति श्रीर्गुणाश्रयम् ॥ ८५ ॥</l>
</lg>
<p>1505</p>
<lg>
  <l>नोत्तरस्यां प्रतीच्यां च कुर्वीत शयने शिरः ।</l>
  <l>शय्याविपर्ययाद्गर्भो दितेः शक्रेण दारितः ॥ ८६ ॥</l>
</lg>
<p>1506
न कुर्यात्परदारेच्छां विश्वासं स्त्रीषु वर्जयेत् -
हतो दशास्यः सीतार्थी हतः पत्न्या विदूरथः ॥ ८७ ॥</p>
<pb n="252" />
<p>1507</p>
<lg>
  <l>न मद्यव्यसनैः क्षीबः कुर्याद्वेतालविप्लवम् ।</l>
  <l>वृष्णयो हि ययुः क्षीबास्तृणप्रहरणैः क्षयम् ॥ ८८ ॥</l>
</lg>
<p>1508</p>
<lg>
  <l>दानं सत्त्वाश्रितं  दद्यान्न पश्चात्तापवान्भवेत् ।</l>
  <l>बलिनात्मार्पितो बन्धे दानशेषस्य शुद्धये ॥ ८९ ॥</l>
</lg>
<p>1509</p>
<lg>
  <l>ब्राह्मणान्नावमन्येत ब्रह्मशापो हि दुःसहः ।</l>
  <l>तक्षकाग्नौ गतः कोपाद्ब्राह्मणस्य परीक्षितः ॥ ९० ॥</l>
</lg>
<p>1510</p>
<lg>
  <l>दम्भारम्भोद्धुरं कर्म न चरेदन्तनिष्फलम् ।</l>
  <l>ब्राह्मण्यदम्भलब्धास्त्रविद्या कर्णस्य निष्फला ॥ ९१ ॥</l>
</lg>
<p>1511</p>
<lg>
  <l>न स्त्रीजितः प्रमूढः स्याद्गाढरागवशीकृतः ।</l>
  <l>पुत्रशोकाद्दशरथो जीवं जायाजितोत्यजत् ॥ ९२ ॥</l>
</lg>
<p>1512</p>
<lg>
  <l>क्षिपेद्वाक्यशरान्घोरान्न पारुष्यविषप्लुतान् ।</l>
  <l>वाक्पारुष्यरुषां चक्रे भीमः कुरुकुलक्षयम् ॥ ९३ ॥</l>
</lg>
<p>1513</p>
<lg>
  <l>परेषां क्लेशदं कुर्यान्न पैशुन्यं प्रभोः प्रियम् ।</l>
  <l>पैशुन्येन गतौ राहोश्चन्द्रार्कौ भक्षणीयताम् ॥ ९४ ॥</l>
</lg>
<p>1514
कुर्यान्नीचजनाभ्यस्तां न याच्ञां  मानहारिणीम् ।
बलिप्रार्थनया प्राप लघुतां पुरुषोत्तमः । ९५ ॥
1515</p>
<lg>
  <l>वक्रैः क्रूरतरैर्लुब्धैर्न कुर्यात्प्रीतिसंगतिम् ।</l>
  <l>वसिष्ठस्याहरद्धेनुं विश्वामित्रो निमन्त्रितः ॥ ९६ ॥</l>
</lg>
<pb n="253" />
<p>1516</p>
<lg>
  <l>तीव्रे तपसि लीनानामिन्द्रियाणां न विश्वसेत् ।</l>
  <l>विश्वामित्रोपि सोत्कण्ठः कण्ठे जग्राह मेनकाम् ॥ ९७ ॥</l>
</lg>
<p>1517</p>
<lg>
  <l>भक्तं रक्तं सदासक्तं निर्दोषं न परित्यजेत् ।</l>
  <l>रामस्त्यत्यक्त्त्वा  सतीं सीतां शोकशल्याकुलोभवत् ॥ ९८ ॥</l>
</lg>
<p>1518</p>
<lg>
  <l>न क्रोधयातुधानस्य भीमामिच्छेद्विधेयताम् ।</l>
  <l>निपीतभ्रातृरुधिरः प्राप निन्दां वृकोदरः ॥ ९९ ॥</l>
</lg>
<p>1519</p>
<lg>
  <l>वर्जयेदिन्द्रियजये निर्जने जननीमपि ।</l>
  <l>पुत्रीकृतोपि प्रद्युम्नः कामित: शंबरस्त्रिया ॥ १०० ॥</l>
</lg>
<p>1520</p>
<lg>
  <l>प्रभुप्रसादे विश्वासं न कुर्यात्स्वप्नसंनिभे ।</l>
  <l>नन्देन मन्त्री निक्षिप्तः शकटालोपि बन्धने ॥ १०१ ॥</l>
</lg>
<p>1521</p>
<lg>
  <l>न लोकायतवादेन नास्तिकः स्याददैवतः ।</l>
  <l>हरिर्हिरण्यकशिपुं जघान स्तम्भनिर्गतः ॥ १०२ ॥</l>
</lg>
<p>1522</p>
<lg>
  <l>अत्युन्नतपदारूढः पूज्यान्नैवापमानयेत् ।</l>
  <l>नहुषः शक्रतां प्राप्य च्युतोगस्त्यावमाननात् ॥ १०३ ॥</l>
</lg>
<p>1523</p>
<lg>
  <l>हितोपदेशं शृणुयात्कुर्वीत च यथोदितम् ।</l>
  <l>विदुरोक्तमकृत्वाभूत्कौरवः शोकशल्यभाक् ॥ १०४ ॥</l>
</lg>
<p>1524</p>
<lg>
  <l>न पुत्रायत्तमैश्वर्यं कुर्यादार्यः कथंचन ।</l>
  <l>पुत्रार्पितप्रभुत्वोभूद्धृतराष्ट्रस्तृणोपमः ॥ १०५ ॥</l>
</lg>
<pb n="254" />
<p>1525</p>
<lg>
  <l>श्रुतिस्मृत्युक्तमाचारं न त्यजेत्साधुसेवितम् ।</l>
  <l>दैत्यानां श्रीवियोगोभूत्सत्यधर्मक्रियामुचाम् ॥ १०६ ॥</l>
</lg>
<p>1526</p>
<lg>
  <l>न कुर्यादभिचारोग्रवश्यादिकुहकक्रियाम् ।</l>
  <l>लक्ष्मणेनेन्द्रजित्कृत्याभिचारसमये हतः ॥ १०७ ॥</l>
</lg>
<p>1527</p>
<lg>
  <l>व्याकुलोपि विपत्पातैः स्मरेद्विष्णुं सदा हृदि ।</l>
  <l>शरतल्पगतो भीष्मः सस्मार गरुडध्वजम् ॥ १०८ ॥</l>
</lg>
<p>एते क्षेमेन्द्रस्य ।
1528</p>
<lg>
  <l>संदेहो वैष्णवे मार्गे न कार्योन्यैः कुदर्शनैः ।</l>
</lg>
<lg>
  <l>रामप्रभावमद्यापि यतोब्धौ  पश्य सेतुना ॥ १०९ ॥</l>
  <l>शार्ङ्गधरस्य ।</l>
  <l>----------------</l>
  <l>अथ मिश्रकनीतिः ॥ ७७ ॥</l>
</lg>
<p>1529</p>
<lg>
  <l>मणि: शाणोल्लीढ: समरविजयी हेतिनिहतो</l>
  <l>मदक्षीणो नागः शरदि सरिदाश्यानपुलिना ।</l>
  <l>कलाशेषश्चन्द्र: सुरतमृदिता बालवनिता</l>
  <l>तनिम्मा शोभन्ते गलितविभवाश्चार्थिषु जनाः ॥ १ ॥</l>
</lg>
<p>1530</p>
<lg>
  <l>शशी दिवसधूसरो गलितयौवना कामिनी</l>
  <l>सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।</l>
  <l>प्रभुर्धनपरायणः सततदुर्गतः सज्जनो</l>
  <l>नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥ २ ॥</l>
</lg>
<p>एतौ भर्तृहरेः ।
1531</p>
<lg>
  <l>अविधेयो भृत्यजनः शठानि मित्राण्यदायकः स्वामी ।</l>
  <l>अविनयवती च भार्या मस्तकशूलानि चत्वारि ॥ ३ ॥</l>
</lg>
<pb n="255" />
<p>1532</p>
<lg>
  <l>शक्तिरहितोपि कुप्यति सेवासक्तोपि मानमुद्वहति ।</l>
  <l>अधनोपि हि कामयते जानाति विधिर्विडम्बयितुम् ॥ ४ ॥</l>
</lg>
<p>1533</p>
<lg>
  <l>दुर्मन्त्रान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालना-</l>
  <l>द्विप्रोनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ।</l>
  <l>मैत्री चाप्रणयात्समृद्धिरनयात्स्नेहः प्रवासाश्रया-</l>
  <l>त्स्त्रीर्मद्यादनवेक्षणादपि कृषिस्त्यागात्प्रमादाद्धनम् ॥ ५ ॥</l>
</lg>
<p>1534</p>
<lg>
  <l>कोर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोस्तं गताः</l>
  <l>स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ।</l>
  <l>कः कालस्य न गोचरान्तरगतः कोर्थी गतो गौरवं</l>
  <l>को वा दुर्जनवागुरानिपतित: क्षेमेण यात: पुमान् ॥ ६ ॥</l>
</lg>
<p>1535</p>
<lg>
  <l>क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता</l>
  <l>सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः ।</l>
  <l>काके शौचं द्यूतकारे च सत्यं</l>
  <l>राजा मित्रं केन दृष्टं श्रुतं वा ॥ ७ ॥</l>
</lg>
<p>1536</p>
<lg>
  <l>मांसं मृगाणां दशनौ गजानां</l>
  <l>मृगद्विषां चर्म फलं द्रुमाणाम् ।</l>
  <l>स्त्रीणां च रूपं च नृणां हिरण्य-</l>
  <l>मेते गुणा वैरकरा भवन्ति ॥ ८ ॥</l>
</lg>
<p>1537
स्तब्धस्य नश्यति यशो विषमस्य मैत्री
नष्टक्रियस्य कुलमर्थपरस्य धर्मः ।
विद्याफलं व्यसनिन: कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य ।॥ ९ ॥</p>
<pb n="256" />
<p>1538</p>
<lg>
  <l>शाठ्येन मित्रं कपटेन धर्मं</l>
  <l>परोपतापेन समृद्धिभावम् ।</l>
  <l>सुखेन विद्यां परुषेण नारीं</l>
  <l>वाञ्छन्ति ये नूनमपण्डितास्ते ॥ १० ॥</l>
</lg>
<p>1539</p>
<lg>
  <l>धातुवादेषु वित्ताशा मोक्षाशा कौलिके मते ।</l>
  <l>जामातरि च पुत्राशा त्रयमेतन्निरर्थकम् ॥ ११ ॥</l>
</lg>
<p>1540
किंशुकादपि गन्धाशा मांसाशा मशकादपि !
कृपणादपि वित्ताशा वृथाशा तस्य दुर्मतेः ॥ १२ ॥
1541</p>
<lg>
  <l>राजा घृणी ब्राह्मणः सर्वभक्षः</l>
  <l>स्त्री चावशा दुष्टबुद्धिः सहायः ।</l>
  <l>प्रेष्यः प्रतीपोधिकृत: प्रमादी</l>
  <l>त्याज्या इमे यश्च कृतं न वेत्ति ॥ १३ ॥</l>
</lg>
<p>1542</p>
<lg>
  <l>वैद्यं पानरतं नटं कुपतिं स्वाध्यायहीनं द्विजं</l>
  <l>योधं कापुरुषं हयं गतरयं मूर्खं परिव्राजकम् ।</l>
  <l>राज्यं बालनृपं च मन्त्रिरहितं मित्रं छलान्वेषि य-</l>
  <l>द्भार्यां यौवनगर्वितां पररतां मुञ्चन्ति ते पण्डिताः ॥ १४ ॥</l>
</lg>
<p>1543</p>
<lg>
  <l>वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सर: सारसा</l>
  <l>निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः ।</l>
  <l>पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः</l>
  <l>सर्व: कार्यवशाज्जनोनुरमते तत्कस्य को वल्लभः ॥ १५ ॥</l>
</lg>
<p>1544
स्वफलनिचयः शाखाभङ्गं करोति वनस्पते-
र्गमनमलसं बर्हाटोप: करोति शिखण्डिनः ।</p>
<pb n="257" />
<p>चतुरगमनो जात्योप्यश्वः स गौरिव वाह्यते
गुणवति जने प्रायेणैते गुणाः खलु दूषणम् ॥ १६ ॥
1545</p>
<lg>
  <l>त्यजति भयमकृतपापं सुमित्रमयशः प्रमादिनं विद्या ।</l>
  <l>ह्रीः कामिनमलसं श्री: क्रूरं स्त्री दुर्जनं लोकः ॥ १७ ॥</l>
</lg>
<p>1546</p>
<lg>
  <l>द्वाविमौ पुरुषौ लोके परप्रत्ययकारकौ ।</l>
  <l>स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः ॥ १८ ॥</l>
</lg>
<p>1547</p>
<lg>
  <l>द्वाविमौ पुरुषौ लोके सुखिनौ न कदाचन ।</l>
  <l>यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ १९ ॥</l>
</lg>
<p>1548</p>
<lg>
  <l>द्वाविमौ पुरुषौ लोके स्वर्गस्योपरि तिष्ठतः ।</l>
  <l>प्रभुश्व क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥ २० ॥</l>
</lg>
<p>1549</p>
<lg>
  <l>द्वाविमौ पुरुषौ लोके शिरःशूलकरौ परौ ।</l>
  <l>गृहस्थो यो निरारम्भो यतिश्च सपरिग्रहः ॥ २१ ॥</l>
</lg>
<p>1550</p>
<lg>
  <l>द्वाविमौ पुरुष लोके न भूतौ न भविष्यतः ।</l>
  <l>प्रार्थितो यश्च कुरुते यश्च नार्थयते परम् ॥ २२ ॥</l>
</lg>
<p>1551</p>
<lg>
  <l>द्वाविमावम्भसि क्षेप्यौ गाढं बद्ध्वा गले शिलाम् ।</l>
  <l>धनिनं चाप्रदातारं दरिद्रं चातपस्विनम् ॥ २३ ॥</l>
</lg>
<p>1552</p>
<lg>
  <l>सन्तश्चेदमृतेन किं यदि खलस्तत्कालकूटेन किं</l>
  <l>दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैः ।</l>
  <l>किं कर्पूरशलाकया यदि दृशः पन्थानमेति प्रिया</l>
  <l>संसारेपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम् ॥ २४ ॥</l>
</lg>
<pb n="258" />
<p>1553</p>
<lg>
  <l>लोभंश्चदगुणेन किं पिशुनता यद्यस्ति किं पातकैः</l>
  <l>सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।</l>
  <l>सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः</l>
  <l>सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ २५ ॥</l>
</lg>
<p>1554</p>
<lg>
  <l>मित्रं स्वच्छतया रिपुं नयबलैर्लुब्धं धनैरीश्वरं</l>
  <l>कार्येण द्विजनादरेण युवतिं प्रेम्णातितीव्रं स्तवैः ।</l>
  <l>बन्धुं क्षान्ततया गुरुं प्रणतिभिर्मूर्खं कथाभिर्बुधं</l>
  <l>विद्याभी रसिकं रसेन सकलं शीलेन कुर्याद्वशम् ॥२६॥</l>
</lg>
<p>केषामप्येते ।
1555</p>
<lg>
  <l>वाजी चारुगतिः शशाङ्कधवलं छत्रं प्रिया पृष्ठतः</l>
  <l>प्रोत्तुङ्गस्तनमण्डला विजयिनो भृत्याः पुरः पञ्चषाः ।</l>
  <l>ताम्बूलं प्रचुरं सखा सुचतुर: संपद्यते चेत्पथि</l>
  <l>प्राहुस्तत्कटकप्रयाणमितरत्प्राणप्रयाणं बुधाः ॥ २७ ॥</l>
</lg>
<p>कस्यापि ।
1556
जवो हि सप्तेः परमं विभूषणं
त्रपाङ्गनायाः कृशता तपस्विन: ।
द्विजस्य विद्या नृपतेरपि क्षमा
पराक्रमः शस्त्रबलोपजीविनाम् । २८ ॥
पाण्डवनकुलस्य ।
1557</p>
<lg>
  <l>इन्दुं कैरविणीव कोकपटलीवाम्भोजिनीवल्लभं</l>
  <l>मेघं चातकमण्डलीव मधुपश्रेणीव पुष्पाकरम् ।</l>
  <l>माकन्दं पिकसुन्दरीव तरुणीवात्मेश्वरं प्रोषितं</l>
  <l>चेतोवृत्तिरियं मम प्रियसखे त्वां द्रष्टुमुत्कण्ठते ॥ २९ ॥</l>
</lg>
<p>1558
नित्यं ब्रह्म यथा स्मरन्ति मुनयो हंसा यथा मानसं
सानन्दाः स्फुटसल्लकीवनयुतां ध्यायन्ति रेवां गजाः ।</p>
<pb n="259" />
<p>युष्मद्दर्शनलालसाः प्रतिदिनं युष्मान्स्मरामो वयं
धन्यः कोपि स वासरोत्र भविता यत्रावयोः संगमः ॥ ३० ॥
एतौ राघवचैतन्यश्रीचरणानाम् ।
1559</p>
<lg>
  <l>वासः शुभ्रमृतुर्वसन्तसमयः पुष्पं शरन्मल्लिका</l>
  <l>धानुष्कः कुसुमायुधः परिमल: कस्तूरिकास्त्रं धनुः ।</l>
  <l>वाणी तर्करसोज्ज्वला प्रियतमा श्यामा वयो यौवनं</l>
</lg>
<lg>
  <l>मार्ग: शांभव एवं पञ्चमलया गीतिः कविर्बिल्हणः ॥ ३१ ॥</l>
  <l>बिल्हणस्य ।</l>
  <l>---------------</l>
  <l>अथ गजप्रशंसा ॥ ७८ ॥</l>
</lg>
<p>1560</p>
<lg>
  <l>यतो गजैर्विना राज्ञां राज्यशोभा न जायते ।</l>
  <l>जयप्रतापौ सैन्यस्य रक्षा तस्मादिहोच्यते ॥ १ ॥</l>
</lg>
<p>1561</p>
<lg>
  <l>पुरा स्वर्गे सुखेनासन्कामगाः खचरा गजाः ।</l>
  <l>मुनिशापाद्गता भूमौ ततो जाता वनेचराः ॥ २ ॥</l>
</lg>
<p>1562</p>
<lg>
  <l>भद्रो मन्दो मृगो मिश्रश्चतुर्धा जायते गजः ।</l>
  <l>त्रयो युगत्रयेभूवन्मिश्राः कलियुगे गजाः ॥ ३ ॥</l>
</lg>
<p>शार्ङ्गधरस्यैतौ ।
1563</p>
<lg>
  <l>यतः सत्यं ततो धर्मो यतो धर्मस्ततो धनम् ।</l>
  <l>यतो रूपं ततः शीलं यतो नागास्ततो जयः ॥ ४ ॥</l>
</lg>
<p>1564</p>
<lg>
  <l>यद्वद्वनमसिंहं तु यद्वद्राष्ट्रमपार्थिवम् ।</l>
  <l>यद्वच्छौर्यमशस्त्रं तु तद्वत्सैन्यमकुञ्ञरम् ॥ ५ ॥</l>
</lg>
<pb n="260" />
<p>1565</p>
<lg>
  <l>प्राकारगोपुराट्टालकपाटोद्घाटनादिषु ।</l>
  <l>भञ्जने मर्दने चैव नागा वज्रोपमाः स्मृताः ॥ ६ ॥</l>
</lg>
<p>1566</p>
<lg>
  <l>शरजालाञ्चितमुखः कोन्यः शक्तः परो गजात् ।</l>
  <l>हन्तुं प्राकारमुन्मथ्य रथाश्वनरकुञ्जरान् ॥ ७॥</l>
</lg>
<p>1567</p>
<lg>
  <l>एक शक्ति प्रहारेण म्रियतेश्वो नरोपि हि ।</l>
  <l>सहेन्महाप्रहाराणां शतं युद्धेषु वारणः ॥ ८॥</l>
</lg>
<p>1568
क्रीडासु च नरेन्द्राणां जले पुष्पितपङ्कजे ।
स्नपयन्ति गजा हस्तैर्लग्नपुष्करपुष्करैः ॥ ९ ।
1569</p>
<lg>
  <l>स्त्रियोवतारयन्त्येते मृण्मया इव निश्चलाः ।</l>
  <l>नास्ति हस्तिसमो बन्धुर्नास्ति हस्तिसमः सखा ॥ १० ॥</l>
</lg>
<p>पालकाप्यात् ।
1570</p>
<lg>
  <l>चीत्कारैः सर्वतोपि स्वपतिभटमनो मोदयन्तो मदाद्याः</l>
  <l>प्रौढाः संग्रामसीम्नि स्वबलबहुलतां बाढमाढौकमानाः ।</l>
  <l>शुण्डादण्डप्रपातैः परममपि बलं कम्पयन्तः परेषां</l>
  <l>येषां स्युर्वारणेन्द्रा भुवि विजयविधौ ते मता भूमिपालाः ॥ ११ ॥</l>
</lg>
<p>1571</p>
<lg>
  <l>चलन्ति येषां न मतङ्गजेन्द्राः</l>
  <l>पुरः प्रयाणे चलशैलतुल्या: ।</l>
  <l>वाञ्छन्ति ते वैरिजयं कथं ते</l>
  <l>राजेति शब्दं च कथं लभन्ते ॥ १२ ॥</l>
</lg>
<p>1572
सेतुं संभेदयन्तो बलविकटभटग्रोन्नतिं त्रोटयन्तः
प्राकारं दारयन्तः परमनसि परां भीतिमुत्पादयन्तः ।</p>
<pb n="261" />
<p>व्यूहं विद्रावयन्तः सुघनमपि वनं हेलयोत्पाटयन्तो
येषामाजौ गजेन्द्राः खलु धरणिभुजां तज्जयः सिद्ध एव ॥ १३ ॥
1573</p>
<lg>
  <l>रक्षन्ति पक्षं मुदिताः स्वकीयं</l>
  <l>मथ्नन्ति सैन्यं कुपिताः परेषाम् ।</l>
  <l>प्राणैरपीच्छन्ति हितं प्रभूणां</l>
  <l>गजैः समानं क्व बलं बलीयः ॥ १४ ॥</l>
</lg>
<p>1574</p>
<lg>
  <l>तावद्गर्जन्ति वीर्यात्परनिधनविधौ युद्धमध्येपि धीरा-</l>
  <l>स्तावद्धावन्ति वेगं परमपि दधतः संमुखीनास्तुरंगाः ।</l>
  <l>शूरारूढः सुसज्जो मदमुदितमना मानिमानं विधुन्व-</l>
  <l>न्यावन्नायाति कोपात्कृत विविधरवाटोप एकोपि नागः ॥ १५ ॥</l>
</lg>
<p>1575</p>
<lg>
  <l>सैन्योत्तारणतो धुनीषु सततं यो वारिबन्धायते</l>
  <l>यो मथ्नन्परितः परोद्धतबलं युद्धेषु योधायते ।</l>
  <l>यः स्वीयक्षितिनाथरक्षणविधौ प्रोच्चैकदुर्गायते</l>
  <l>स प्राज्यो विजिगीषुभिर्गजगणः कैः पार्थिवैर्नार्थ्यते ॥ १६ ॥</l>
</lg>
<p>1576</p>
<lg>
  <l>मातङ्गैरपि यैर्महीन्द्रभवनं पुण्याधिकं जन्यते</l>
  <l>यैः श्यामैरपि सर्वलोकमहिता कीर्तिः सिता तन्यते ।</l>
  <l>यैर्मत्तैरपि संगरे रिपुमदः शोषं समानीयते</l>
  <l>तेमी भाग्यवत: प्रयान्ति पुरतः स्तम्बेरमा भूपतेः ॥ १७ ॥</l>
</lg>
<p>एते गुणाकरस्य ।
अथ भद्रलक्षणानि ।
1577</p>
<lg>
  <l>प्रतिमानेषु विपुलश्चारुपृष्ठायताननः ।</l>
  <l>मुखे सुरभिनि:श्वासस्ताम्रजिह्वौष्ठतालुकः ॥ १८ ॥</l>
</lg>
<pb n="262" />
<p>1578</p>
<lg>
  <l>तथास्य तुल्यसंस्थानौ दन्तौ शुभ्रौ विशेषतः ।</l>
  <l>मधुपिङ्गलनेत्रश्च महाकायो महाबलः ॥ १९ ॥</l>
</lg>
<p>1579</p>
<lg>
  <l>पुरस्तादुच्छ्रितश्चापि पश्चादवनतोपि यः ।</l>
  <l>धनुर्विनतवंशश्च समपादतलः शुभः ॥ २० ॥</l>
</lg>
<p>1580
विंशत्या च नखैर्युक्तो योष्टादशभिरेव वा ।
विद्युद्द्वाग्निसिंहेभ्यो न बिभेत्यङ्कुशादपि ॥ २१ ।
1581</p>
<lg>
  <l>अन्वर्थवेदी शूरश्च क्षमावान्न च कर्कशः ।</l>
  <l>कल्याणमेधास्तेजस्वी स भद्रः परिकीर्तितः ॥ २२ ॥</l>
</lg>
<p>अथ मन्दलक्षणानि ।
1582</p>
<lg>
  <l>महाग्रीवो महावक्तो महाप्रोथो महोदरः ।</l>
  <l>पीनानुवंशः सान्द्रत्वक्सुविभक्तमहाशिराः ॥ २३ ॥</l>
</lg>
<p>1583</p>
<lg>
  <l>बहलैर्मृदुभिर्युक्तः स्निग्धैश्चैव तनूरुहैः ।</l>
  <l>स्थिरैः स्थिराकृतितलैः पादैश्च पृथुभिः समैः ॥ २४ ॥</l>
</lg>
<p>1584</p>
<lg>
  <l>स्थिरस्निग्धे विशाले च पीने चापि प्रकीर्तिते ।</l>
  <l>विषाणे तस्य विद्वद्भिरोष्ठो दीर्घश्च लोमशः ॥ २५ ॥</l>
</lg>
<p>1585</p>
<lg>
  <l>कूर्मसंस्थानगमनो मन्दो मन्दगतिक्रमः ।</l>
  <l>संमील्य लोचने नित्यं निद्रान्ध इव गच्छति ॥ २६ ॥</l>
</lg>
<p>1586</p>
<lg>
  <l>धीरोनुरक्तो हस्तिन्यां गतोद्वेगो जितश्रमः ।</l>
  <l>निर्भयो मन्दबुद्धिश्च धृतिमान्मन्द उच्यते ॥ २७ ॥</l>
</lg>
<pb n="263" />
<p>अथ मृगलक्षणानि ।
1587</p>
<lg>
  <l>तनुत्वक्कर्णपादो यस्तन्वास्यस्तनुमेहनः ।</l>
  <l>तनुवंशोदरश्चैव तनुव्यक्ततनूरुहः ॥ २८ ॥</l>
</lg>
<p>1588</p>
<lg>
  <l>दीर्घजिह्वाविषाणश्च दीर्घगात्रस्तथा च सः ।</l>
  <l>प्रध्वस्तरोमकर्णत्वक्पुरस्ताच्चापि संवृतः ॥ २९ ॥</l>
</lg>
<p>1589</p>
<lg>
  <l>निपाने गोचरस्थाने शय्यायां चाप्यनिर्वृतः ।</l>
  <l>तूर्याभिभवशङ्की च नित्यमेवानवस्थितः ॥ ३० ॥</l>
</lg>
<p>1590</p>
<lg>
  <l>ह्रस्वश्रवणलांगूलो दीर्घं  विक्रमते क्रमैः ।</l>
  <l>पुनः पुनश्च विनदन्दुर्मतिश्चाभिधावति ॥ ३१ ॥</l>
</lg>
<p>अथ मिश्रलक्षणम् ।
1591</p>
<lg>
  <l>बह्वाशी बह्वलीकश्च दण्डपातेषु चाक्षमः ।</l>
  <l>गच्छेत्प्रकृष्टवेगश्र भारं प्राप्यावसीदति ॥ ३२ ॥</l>
</lg>
<p>1592</p>
<lg>
  <l>कृच्छ्राच्चाप्यायते नागः क्षिप्रं च परिहीयते ।</l>
  <l>कट्वम्ललवणैश्चैव स्वक्षैश्चातुरतां व्रजेत् ॥ ३३ ॥</l>
</lg>
<p>1593</p>
<lg>
  <l>नित्यं च सान्त्वयेदेनं न चैनमभितापयेत् ।</l>
  <l>सर्वेषां लक्षणैः कैश्चिद्युक्तो मिश्रो भवेद्गजः ॥ ३४ ॥</l>
</lg>
<p>अथ गजप्रक्रिया ।
1594</p>
<lg>
  <l>एवं विधान्गजाञ्जात्यान्वनादानीय पार्थिवः ।</l>
  <l>विनये शिष्यवत्कुर्यात्पुत्रवत्परिपालयेत् ॥३५ ॥</l>
</lg>
<pb n="264" />
<p>1595</p>
<lg>
  <l>शूरमारोहकं कुर्याद्वशगं च विशेषतः ।</l>
  <l>शूरत्वं कातरत्वं च तदायत्तं गजे यतः ॥ ३६ ॥</l>
</lg>
<p>1596</p>
<lg>
  <l>सज्जितः कल्पितः शूरः शूरारूढ: प्रतापवान् ।</l>
  <l>जयत्येकोपि मातङ्गः षट्सहस्राणि वाजिनाम् ॥ ३७ ॥</l>
</lg>
<p>1597</p>
<lg>
  <l>शरतोमरचक्रैश्च गजस्कन्धे हता नराः ।</l>
</lg>
<lg>
  <l>क्षणात्स्वर्गे प्रयान्त्येव तस्मात्स्वर्गोपमा गजाः ॥ ३८ ॥</l>
  <l>एते पालकाप्यात् ।</l>
  <l>--------------</l>
  <l>अथ तुरगप्रशंसा ॥ ७९ ॥</l>
</lg>
<p>1598</p>
<lg>
  <l>पुरा सपक्षा हरयो विचेरु: खेचराः किल ।</l>
  <l>गन्धर्वेभ्यः समुत्पन्नाः सदा स्वच्छन्दचारिणः ॥ १ ॥</l>
</lg>
<p>1599</p>
<lg>
  <l>तेजोवाय्वम्बुदगणैर्लब्धैर्लक्षितलक्षणान् ।</l>
  <l>वीक्ष्य शक्रो जगादेदं शालिहोत्रं महामुनिम् ॥ २ ॥</l>
</lg>
<p>1600</p>
<lg>
  <l>छिन्धि पक्षानमीषां त्वं यथा स्युर्वाहनानि मे ।</l>
  <l>इषीकास्त्रेण सोप्येषां पक्षांस्तत्प्रीतयेच्छिनत् ॥ ३ ॥</l>
</lg>
<p>1601</p>
<lg>
  <l>ततः प्रसादितैस्तैस्तु प्रादाद्वरमिदं मुनिः ।</l>
  <l>युष्मत्पक्षोपमो वेगश्चरणानां भविष्यति ॥ ४ ॥</l>
</lg>
<p>1602</p>
<lg>
  <l>यूयं शक्रादिदेवानां वाहनत्वं गमिष्यथ ।</l>
  <l>तथा भूमिपतीनां च गौरवेण समन्विताः ॥ ५॥</l>
</lg>
<pb n="265" />
<p>1603</p>
<lg>
  <l>यो राजा भवतां पुष्टिं खानपानादिभिः सदा ।</l>
  <l>करिष्यति स सर्वत्र जयवादी भविष्यति ॥ ६ ॥</l>
</lg>
<p>1604</p>
<lg>
  <l>अथागत्य भुवं राज्ञां गता वाहनतां हयाः ।</l>
  <l>तेषां धर्मार्थकामांश्च साधयन्त्युपकारिणः ॥ ७ ॥</l>
</lg>
<p>1605</p>
<lg>
  <l>श्रीमूलमण्डनं यस्य गृहे सन्ति न वाजिनः ।</l>
  <l>गृहभित्तिषु तेनापि लेख्या दुरितशान्तये ॥ ८॥</l>
</lg>
<p>1606</p>
<lg>
  <l>अश्वा यस्य जयस्तस्य यस्याश्वस्तस्य मेदिनी ।</l>
  <l>अश्वा यस्य यशस्तस्य यस्याश्वास्तस्य काञ्चनम् ॥ ९ ॥</l>
</lg>
<p>1607</p>
<lg>
  <l>निपत्य युधि वेगेन मिषतां सर्वधन्विनाम् ।</l>
  <l>शत्रुं निहत्य यात्येकः शूरो वाजिप्रभावतः ॥ १० ॥</l>
</lg>
<p>1608</p>
<lg>
  <l>शस्त्रैर्निर्भिन्नदेहोपि श्रान्तोपि गुरुभारतः ।</l>
  <l>न मुञ्चति रणे नाथमत: कोन्यो हयात्सुहृत् ॥ ११ ॥</l>
</lg>
<p>1609</p>
<lg>
  <l>दूरस्थोपि बली शत्रुर्न शेते रजनीष्वपि ।</l>
  <l>तस्य भीत्या गृहे यस्य हरयो वेगवत्तराः ॥ १२ ॥</l>
</lg>
<p>1610</p>
<lg>
  <l>न गजैर्न नरैः कार्यं सिद्धिमभ्येति भूभृताम् ।</l>
  <l>तथा निमेषमात्रेण यथा वाहै: सुसाधितैः ॥ १३ ॥</l>
</lg>
<lg>
  <l>शार्ङ्गधरस्यैते ।</l>
  <l>अथाश्वानां सामान्यलक्षणानि ॥</l>
</lg>
<p>1611</p>
<lg>
  <l>ब्राह्मणक्षत्रियविशां शूद्राणां चैव लक्षणैः।</l>
  <l>ज्ञेया हयोत्तमास्तेषु पूर्व: पूर्व: शुभावहः ॥ १४ ॥</l>
</lg>
<pb n="266" />
<p>1612</p>
<lg>
  <l>प्रायेण ब्राह्मणः शुक्लः क्षत्रियो लोहितः स्मृतः ।</l>
  <l>वैश्यः पीताभवर्णः स्यात्कृष्णवर्णश्चतुर्थकः ॥ १५॥</l>
</lg>
<p>1613</p>
<lg>
  <l>पुष्पगन्धः सदा विप्रः क्षत्रियोगुरुगन्धकः ।</l>
  <l>घृतगन्धो भवेद्वैश्यो मीनामोदी चतुर्थकः ॥ १६ ॥</l>
</lg>
<p>1614</p>
<lg>
  <l>विवेकी सघृणो विप्रस्तेजस्वी क्षत्रियो बली ।</l>
  <l>दुष्टभावस्तथा वैश्यः शूद्रो निःसत्त्वकातरः ॥ १७ ॥</l>
</lg>
<p>1615</p>
<lg>
  <l>ब्राह्मणाः क्षेमकृत्येषु सिद्धिं गच्छन्ति वाजिनः ।</l>
  <l>क्षत्रिया युद्धकार्येषु वैश्या द्रव्यार्जने सदा ॥ १८ ॥</l>
</lg>
<p>1616</p>
<lg>
  <l>शूद्राश्चान्येषु कृत्येषु ज्ञात्वैवं वाजिनः सदा ।</l>
  <l>आरोहेद्युक्तकार्येषु यदीच्छेच्छाश्वतीं श्रियम् ॥ १९ ॥</l>
</lg>
<p>1617</p>
<lg>
  <l>सदा सुप्ता भवन्त्येते वाजिनो ये तु भूतले ।</l>
  <l>जाग्रत्यायोधने प्राप्ते कर्करस्य च भक्षणे ॥ २० ॥</l>
</lg>
<p>1618</p>
<lg>
  <l>सुलक्षणा महावेगा: सुसत्त्वाश्चातिघस्मराः ।</l>
  <l>जितश्रमा विनीता ये राजार्हास्ते हयाः स्मृताः ॥ २१ ॥</l>
</lg>
<p>अथ पृथगवयवलक्षणानि ।
1619</p>
<lg>
  <l>आताम्रौ पूजितावोष्ठौ लेलिहानौ मृदुत्वचौ ।</l>
  <l>जिह्वा रक्ता च तन्वी च तालु रक्तं प्रशस्यते ॥ २२ ॥</l>
</lg>
<p>1620</p>
<lg>
  <l>घनस्निग्धाः सुबद्धाश्च समा दन्ताः सुशोभनाः ।</l>
  <l>नातिदीर्घौ पृथू नैव हनू वाहस्य शोभनौ ॥ २३ ॥</l>
</lg>
<pb n="267" />
<p>1621</p>
<lg>
  <l>अत्यन्तनिर्गते चैव सुबद्धे नैव चाविले ।</l>
  <l>प्रशस्ते वाजिनां नेत्रे मध्वाभे कालतारके ॥ २४ ॥</l>
</lg>
<p>1622</p>
<lg>
  <l>स्वावर्तं च विशालं च ललाटं वाजिनां शुभम् ।</l>
  <l>शस्तं शिरः समं वृत्तमावर्तद्वयभूषितम् ॥ २५ ॥</l>
</lg>
<p>1623</p>
<lg>
  <l>ह्रस्वता कर्णयोः शस्ता तीक्ष्णता तनुता तथा ।</l>
  <l>सुदृढां कुञ्चितां दीर्घां धन्यां ग्रीवां विदुर्बुधाः ॥ २६ ॥</l>
</lg>
<p>1624</p>
<lg>
  <l>केसरं च जटाहीनं मृदु दीर्घं प्रशस्यते ।</l>
  <l>अनावर्तो दृढश्चैव स्कन्धो वाहस्य पूजितः ॥ २७ ॥</l>
</lg>
<p>1625</p>
<lg>
  <l>उरो विशालं शस्तं च कक्षे दीर्घोन्नते शुभे ।</l>
  <l>ऊरू वृत्तौ समौ बाहू गूढं जानु प्रशस्यते ॥ २८ ॥</l>
</lg>
<p>1626</p>
<lg>
  <l>अवक्रे मांसहीने च वाजिजङ्घे सुशोभने ।</l>
  <l>कूर्चं समं सुसंधि स्याद्रन्थिव्रणविवर्जितम् ॥ २९ ॥</l>
</lg>
<p>1627</p>
<lg>
  <l>दृढमण्डूकिका कृष्णा वर्तुलाः पृथुलाः खुराः ।</l>
  <l>पार्श्वावभ्युन्नतौ दीर्घौ सुदृढौ च समौ शुभौ ॥ ३० ॥</l>
</lg>
<p>1628</p>
<lg>
  <l>अवलम्बि सुवृत्तं च जठरं वाजिनां शुभम् ।</l>
  <l>नातिदीर्घं समं पृष्ठं किंचिच्च विनतं शुभम् ॥ ३१ ॥</l>
</lg>
<p>एते शालिहोत्रस्य ।
1629</p>
<lg>
  <l>पीना कटि: सुवृत्तश्च पश्चाद्भागः पृथुः शुभः ।</l>
  <l>मृदुस्त्रिग्धायतैर्युक्तं वालैः पुच्छं प्रशस्यते ॥ ३२ ॥</l>
</lg>
<pb n="268" />
<p>1630</p>
<lg>
  <l>वृषणौ च समौ वृत्तौ बिल्वमात्रौ विलोमशौ ।</l>
  <l>कृष्णवर्णविहीनं च ह्रस्वं मेहनमिष्यते ॥ ३३ ॥</l>
</lg>
<p>अथाश्वाङ्गमानलक्षणानि ।
1631</p>
<lg>
  <l>ऊर्ध्वं व्रीहित्रयं मानमङ्गुलस्य निगद्यते ।</l>
  <l>हस्तोपि हि समाख्यातश्चतुर्विंशद्भिरङ्गुलैः ॥ ३४ ॥</l>
</lg>
<p>1632</p>
<lg>
  <l>द्वाविंशदङ्गुलं वक्रमुत्तमाश्वस्य कीर्तितम् ।</l>
  <l>अङ्गुलद्वयहीनं तु मुखं स्यान्मध्यवाजिनः ॥ ३५ ॥</l>
</lg>
<p>1633</p>
<lg>
  <l>ततोपि द्व्यङ्गुलं न्यूनं कनिष्ठस्य मुखं स्मृतम् ।</l>
  <l>ग्रीवोत्तमस्य वाहस्य षट्पञ्चाशन्मिताङ्गुलैः ॥ ३६॥</l>
</lg>
<p>1634</p>
<lg>
  <l>चत्वारिंशत्षडधिका मध्यमाश्वस्य कीर्तिता ।</l>
  <l>षट्त्रिंदशङ्गुलैर्ग्रीवा हीनाश्वस्य प्रकीर्तिता ॥ ३७ ॥</l>
</lg>
<p>1635</p>
<lg>
  <l>उरः पृष्ठं कटिश्चैव मुखतुल्यं समादिशेत् ।</l>
  <l>कर्णौ सप्ताङ्गुलौ प्रोक्तौ तालुकं च षडङ्गुलम् ॥ ३८ ॥</l>
</lg>
<p>1636</p>
<lg>
  <l>सूक्ष्मो ऋजुः पुच्छदण्डः कथितो विंशदङ्गुलः ।</l>
  <l>द्वाविंशदङ्गुलोत्सेधे जङ्घे  चैवोत्तमे स्मृते ॥ ३९ ॥</l>
</lg>
<p>1637</p>
<lg>
  <l>अष्टादश तथा मध्ये हीने चैव चतुर्दश ।</l>
  <l>संप्ताङ्गुलः खुरः प्रोक्त उत्तमाश्वस्य पण्डितैः ॥ ४० ॥</l>
</lg>
<p>1638</p>
<lg>
  <l>षडङ्गुलो भवेन्मध्यः कनिष्ठः पञ्चसंमितः ।</l>
  <l>चतुर्हस्तेन विख्यात उत्सेधेन हयोत्तमः ॥ ४१ ॥</l>
</lg>
<pb n="269" />
<p>1639</p>
<lg>
  <l>अर्धहस्तेन हीनस्तु भवेन्मध्यस्तुरङ्गमः ।</l>
  <l>ततो हस्तेन हीनश्च हीन एव स्मृतो हयः ॥ ४२ ॥</l>
</lg>
<p>1640</p>
<lg>
  <l>पञ्चहस्तप्रमाणेन दैर्घ्यमुत्तमवाजिनः ।</l>
  <l>चतुर्भिर्मध्यमं प्रोक्तं त्रिभिः सार्धेस्तथाधमम् ॥ ४३ ॥</l>
</lg>
<p>1641</p>
<lg>
  <l>अपाङ्गात्पुच्छमूलं तु तिर्यगश्वं प्रमाणयेत् ।</l>
  <l>खुरान्तात्ककुदं यावदूर्ध्वमानेन बुद्धिमान् ॥ ४४ ॥</l>
</lg>
<p>अथ हयानां शुभलक्षणानि ।
1642</p>
<lg>
  <l>अथातः संप्रवक्ष्यामि लक्षणानि हि वाजिनाम् ।</l>
  <l>शुभानि वर्णैरावर्तैस्तानि विद्याद्विचारतः ॥ ४५ ॥</l>
</lg>
<p>1643</p>
<lg>
  <l>सर्वश्वेतो हयो यस्तु  श्यामैकश्रवणो भवेत् ।</l>
  <l>स वाजी वाजिमेधार्ह: श्यामकर्णः प्रकीर्तितः ॥ ४६ ॥</l>
</lg>
<p>1644</p>
<lg>
  <l>यस्य पादाः सिताः सर्वे तथा वक्रं च मध्यतः ।</l>
  <l>कल्याणपञ्चकः प्रोक्तः सदा कल्याणकृच्च सः ॥ ४७ ॥</l>
</lg>
<p>1645</p>
<lg>
  <l>यस्य पादाः सिताः सर्वे पुच्छं वक्षो मुखं तथा ।</l>
  <l>मूर्धजाश्च सिता यस्य तं विद्यादष्टमङ्गलम् ॥ ४८ ॥</l>
</lg>
<p>1646</p>
<lg>
  <l>मुखे चन्द्रकसंवीतो जम्बूफलसमाकृतिः ।</l>
  <l>श्वेतपादः स विज्ञेयो मल्लिकाक्षः सुपूजितः ॥ ४९ ॥</l>
</lg>
<p>1647</p>
<lg>
  <l>कृष्णो वाजी भवेद्यः स कृष्णतालुर्न दुष्यति ।</l>
  <l>कुत्सितावर्तकर्णोपि पञ्चकल्याणकः शुभः ॥ ५० ॥</l>
</lg>
<pb n="270" />
<p>अथ शुभावर्ताः ।
1648</p>
<lg>
  <l>एको ललाटे द्वौ मूर्ध्नि द्वौद्वौ पार्श्वोपपार्श्वयोः ।</l>
  <l>द्वौ च वक्षसि विज्ञेयौ प्रयाणे चैक एव तु ॥ ५१ ॥</l>
</lg>
<p>1649</p>
<lg>
  <l>ध्रुवावर्ता दश प्रोक्ता वाजिनः शुभकारकाः ।</l>
  <l>प्रयाणे मारुतो भाले वह्निर्वक्षसि चाश्विनौ ॥ ५२ ॥</l>
</lg>
<p>1650</p>
<lg>
  <l>सूर्याचन्द्रमसौ मूर्ध्नि रन्ध्रे स्कन्दगजाननौ ।</l>
  <l>उपरन्ध्रे हरीशौ च दशावर्ता अतः शुभाः ॥ ५३ ॥</l>
</lg>
<p>1651</p>
<lg>
  <l>त्रयो यस्य ललाटस्था आवर्ता अधरोत्तराः ।</l>
  <l>निश्रेणी सा परिज्ञेया वाजिवृद्धिकरी परा ॥ ५४ ॥</l>
</lg>
<p>1652</p>
<lg>
  <l>अनेनैव प्रकारेण त्रयो ग्रीवाश्रिताः शुभाः ।</l>
  <l>ललाटे युगलावर्तौ चन्द्रार्कौ शुभकारकौ ॥ ५५ ॥</l>
</lg>
<p>1653</p>
<lg>
  <l>कण्ठे चिन्तामणिर्जेयश्चिन्तितार्थप्रदः सदा ।</l>
  <l>आवर्तः पृष्ठवंशे यः स सूर्याख्यः शुभः स्मृतः ॥ ५६ ॥</l>
</lg>
<p>नकुलस्यैते ।
अथाशुभलक्षणानि ।
1654</p>
<lg>
  <l>चत्वारोप्यसिताः पादाः सर्वश्वेतस्य वाजिनः ।</l>
  <l>भवन्ति यस्य स त्याज्यो यमदूतः सुदूरतः ॥ ५७ ॥</l>
</lg>
<p>1655</p>
<lg>
  <l>अन्यवर्णं शिरो यस्य पुच्छं वा यस्य वाजिनः ।</l>
  <l>पुच्छेन शिरसा वापि नानावर्णः स निन्दितः ॥ ५८ ॥</l>
</lg>
<pb n="271" />
<p>1656</p>
<lg>
  <l>हीनदन्तोधिकश्चैव कराली कृष्णतालुकः ।</l>
  <l>कुद्दालो मुशली शृङ्गी षडेते स्वामिघातकाः ॥ ५९॥</l>
</lg>
<p>1657</p>
<lg>
  <l>व्याघ्राभश्च स्तनी चैव द्विखुरः ककुदी तथा ।</l>
  <l>एकाण्डश्चैव जाताण्डो वाहाः पापाः प्रकीर्तिताः ॥ ६० ॥</l>
</lg>
<p>1658</p>
<lg>
  <l>पञ्चभिः सप्तभिर्दन्तैर्वाहौ हीनाधिकौ स्मृतौ ।</l>
  <l>कराली चाधरैर्दन्तैश्छाद्यन्ते यस्य चोत्तराः ॥ ६१ ॥</l>
</lg>
<p>1659</p>
<lg>
  <l>कृष्णं तालु भवेद्यस्य स भवेत्कृष्णतालुकः ।</l>
  <l>कुद्दालश्रोत्तरैर्दन्तैश्छाद्यन्ते यस्य चाधराः ॥ ६२ ॥</l>
</lg>
<p>1660</p>
<lg>
  <l>सितैकचरणः पुष्पहीनस्तु मुशली स्मृतः ।</l>
  <l>कालाभावर्तकः कर्णदेशे यस्य स शृंगिकः ॥ ६३ ॥</l>
</lg>
<p>1661</p>
<lg>
  <l>व्याघ्राभो व्याघ्रवर्ण : स्यात्स्तनयुक्तः स्तनी स्मृतः ।</l>
  <l>द्विखुरं गोखुराकारैः खुरैर्विद्याद्विचक्षणः ॥ ६४ ॥</l>
</lg>
<p>1662</p>
<lg>
  <l>आवर्तः ककुदे यस्य ककुदी स उदाहृतः ।</l>
  <l>मुष्केणैकेन युक्तस्तु हयस्त्वेकाण्डसंज्ञितः ॥ ६५ ॥</l>
</lg>
<lg>
  <l>1663</l>
  <l>अण्डाभ्यां लोमशाभ्यां तु जाताण्डो न हितः स्मृतः ।</l>
  <l>भस्माभवक्त्रपुच्छं  च कृष्णनीलं परित्यजेत्</l>
  <l>निन्द्यः केवलकृष्णस्तु सर्वश्वेतस्तु पूजितः ॥ ६६ ॥</l>
</lg>
<p>अथ दुरावर्ताः ।
1664</p>
<lg>
  <l>पुच्छे जानुनि कक्षायां मेढ्रे गुह्ये हनौ हृदि ।</l>
  <l>भ्रूदेशे नेत्रपरितः कर्णग्रीवादयस्तथा ॥ ६७ ॥</l>
</lg>
<pb n="272" />
<p>1665</p>
<lg>
  <l>अधरोष्ठे च घोणायां गण्डयोश्चिबुके तथा ।</l>
  <l>मुष्के नाभौ त्रिके कुक्षावावर्तास्त्वतिनिन्दिताः ॥ ६८ ॥</l>
</lg>
<p>शार्ङ्गधरस्यैसौ ।
अथाश्वानां शुभाशुभचेष्टितम् ।
1666</p>
<lg>
  <l>यैर्बुधाः कथयन्त्याशु शुभं वा यदि वाशुभम् ।</l>
  <l>स्वामिनो वाजिनां चिह्नैस्तद्विज्ञेयं विचक्षणैः ॥ ६९ ॥</l>
</lg>
<p>1667</p>
<lg>
  <l>यः संबद्धो हयो रावमूर्ध्ववक्रः करोति च ।</l>
  <l>खुराग्रेणालिखन्भूमिं स शंसति रणे जयम् ॥ ७० ॥</l>
</lg>
<p>1668</p>
<lg>
  <l>यः करोत्यसकृन्मूत्रं पुरीषं वाश्रुमोचनम् ।</l>
  <l>स शंसति पराभूतिमत्यन्तं यश्च दुर्मनाः ॥ ७१ ॥</l>
</lg>
<p>1669</p>
<lg>
  <l>निष्कारणं निशान्ते यो हेषारावं करोत्यपि ।</l>
  <l>परचक्रागमाशंसी स विज्ञेयो विचक्षणैः ॥ ७२ ॥</l>
</lg>
<p>1670
पुलकाङ्कितपुच्छो यो जायते यस्य घोटकः ।
स शंसति स्थिरस्यापि द्रुतं तस्य प्रयाणकम् । ७३ ॥
1671</p>
<lg>
  <l>स्फुलिङ्गा यस्य दृश्यन्ते पुच्छतोश्वस्य वह्निजाः ।</l>
  <l>निर्गच्छन्तः प्रभोर्नाशं स शंसति निशागमे ॥ ७४ ॥</l>
</lg>
<p>1672</p>
<lg>
  <l>अश्वशालां समासाद्य यदान्तर्मधुमक्षिकाः ।</l>
  <l>मधुजालं प्रबध्नन्ति  म्रियन्तेश्वास्तदा ध्रुवम् ॥ ७५ ॥</l>
</lg>
<pb n="273" />
<p>1673</p>
<lg>
  <l>सरटं वारयेद्यत्रात्प्रविशन्तं हयालये ।</l>
  <l>मन्दुराग्रे तथा धार्यो रक्तवक्त्रो महाकपिः ॥ ७६ ॥</l>
</lg>
<p>नकुलस्यैते ।
अथाश्वानां जन्मदेशाः ।
1674</p>
<lg>
  <l>अथाश्वानां जन्मदेशान्प्रवक्ष्याम्यनुपूर्वशः ।</l>
  <l>उत्तमानां च मध्यानां हीनानां यत्र संभवः ॥ ७७ ॥</l>
</lg>
<p>1675</p>
<lg>
  <l>उत्तमास्ताजिकाः प्रोक्ता: पारसीका: समुद्रजाः ।</l>
  <l>कोक्काणाखतलाणाश्च तथा सौराष्ट्रजा हयाः ॥ ७८ ॥</l>
</lg>
<p>अथ मध्यमाः ।
1676</p>
<lg>
  <l>उरोजाताश्च कीराश्च तुरुष्कारट्टजाश्च ये ।</l>
  <l>टक्कजा: सैन्धवा मध्याः स्थलजातास्तथा हयाः ॥ ७९ ॥</l>
</lg>
<p>अथ हीनाः ।
1677</p>
<lg>
  <l>शाम्भलाश्चार्जुलाश्चैव तथा सारस्वता हयाः ।</l>
  <l>अधमाष्टाङ्कणाः सर्वे ये च प्राग्दक्षिणोद्भवाः ॥ ८० ॥</l>
</lg>
<p>अथाश्ववाहनविधिः ।
1678</p>
<lg>
  <l>अथातः संप्रवक्ष्यामि हयारोहणमुत्तमम् ।</l>
  <l>येन विज्ञातमात्रेण रेवन्तः प्रियतां व्रजेत् ॥ ८१ ॥</l>
</lg>
<p>1679</p>
<lg>
  <l>रूपावर्तगतिच्छायाः सत्वं वर्णो वयो बलम् ।</l>
  <l>वेगहीनस्य वाहस्य सर्वमेतन्निरर्थकम् ॥ ८२॥</l>
</lg>
<pb n="274" />
<p>1680</p>
<lg>
  <l>तस्माद्वेगयुतं वाहं तरुणं पुष्टविग्रहम् ।</l>
  <l>वाहयेद्वाहकः सज्जस्तुरंगं सान्त्वयन्मुहुः ॥ ८३ ॥</l>
</lg>
<p>1681</p>
<lg>
  <l>सान्द्रां सुकटिनां चैव पाषाणोदकसंयुताम् ।</l>
  <l>तृणकाष्ठयुतां चैव रङ्गभूमिं विवर्जयेत् ॥ ८४ ॥</l>
</lg>
<p>1682</p>
<lg>
  <l>समा च विपुला चैव किंचित्पांशुसमन्विता ।</l>
  <l>एकान्ते विजने चैव रङ्गभूमिः प्रशस्यते ॥ ८५ ॥</l>
</lg>
<p>1683</p>
<lg>
  <l>स्थूलश्च क्रोधनो मूर्खो भीतोत्सुकचलासनः ।</l>
  <l>अस्थानदण्डपाती यो बाजी तस्य न धावति ॥ ८६ ॥</l>
</lg>
<p>1684
दृढासनोश्वतत्त्वज्ञः प्राज्ञः सत्त्वबलोत्तरः ।
सुस्थानदण्डपाती च सोद्यमो वाहकः स्मृतः ॥ ८७ ॥ ।
1685
चलकिसलयपाद: कर्णमध्यैकदृष्टि-
र्न चलति कटिदेशे स्वासने संस्थितश्च ।
हयहृदयमतिज्ञः स्थानदण्डावपाती
स खलु तुरगयोक्ता पूज्यते पार्थिवेन्द्रैः । ८८ ॥
1686</p>
<lg>
  <l>ब्राह्मणं भक्तिदानेन सौम्येन क्षत्रियं तथा ।</l>
  <l>वैश्यं शब्देन दण्डेन शूद्रं दण्डेन वाहयेत् ॥ ८९ ॥</l>
</lg>
<p>1687</p>
<lg>
  <l>ह्रेषिते स्खलिते भीते तथा चोन्मार्गगामिनि ।</l>
  <l>कुपिते भ्रान्तचित्ते च षट्सु दण्डं निपातयेत् ॥ ९० ॥</l>
</lg>
<p>1688</p>
<lg>
  <l>ह्रेषिते स्कन्धमुद्दिष्टं स्खलिते जघनान्तरम् ।</l>
  <l>भीते वक्षःस्थलं हन्याद्वक्त्रं  चोन्मार्गगामिनि ॥९१॥</l>
</lg>
<pb n="275" />
<p>1689</p>
<lg>
  <l>कुपिते पुच्छसंस्थानं भ्रान्ते जानुद्वयं तथा ।</l>
  <l>सर्वस्य प्राप्तदण्डस्य दण्डमेकं निपातयेत् ॥ ९२ ॥</l>
</lg>
<p>1690</p>
<lg>
  <l>अस्थाने ताडितो वाजी बहून्दोषानवाप्नुयात् ।</l>
  <l>तावद्भवन्ति ते दोषा यावज्जीवत्यसो हयः ॥ ९३ ॥</l>
</lg>
<p>1691</p>
<lg>
  <l>अवाहिता विनश्यन्ति सर्वकर्मक्षमा अपि ।</l>
  <l>कृशा व्याधिपरीताङ्गा जायन्तेत्यन्तवाहनात् ॥ ९४ ॥</l>
</lg>
<p>1692</p>
<lg>
  <l>पञ्च धारा: प्रवक्ष्यामि ऋषिभिर्याः प्रकीर्तिताः ।</l>
  <l>प्रथमा विक्रमा धारा द्वितीया पुलका स्मृता ॥ ९५ ॥</l>
</lg>
<p>1693</p>
<lg>
  <l>तृतीया पूर्णकण्ठी च चतुर्थी त्वरिता स्मृता ।</l>
  <l>पञ्चमी ताडिता षष्ठी निरालम्बा प्रकीर्तिता ॥ ९६ ॥</l>
</lg>
<p>1694</p>
<lg>
  <l>विक्रमा गतिरित्युक्ता चतुष्पादा प्लुता स्मृता ।</l>
  <l>मुखपादसमायुक्ता पूर्णकण्ठी च सा भवेत् ॥ ९७ ॥</l>
</lg>
<p>1695
स्वेच्छया त्वरिता धार। ताडिता चैव पञ्चमी ।
षष्ठी चैव तु या धारा स्वर्गलोकेषु तिष्ठति ॥ ९८ ॥
1696</p>
<lg>
  <l>या संख्या रोमकूपाणां वाहकस्य हयस्य च ।</l>
  <l>तावद्वर्षान्वसेत्स्वर्गे हयपृष्ठे हतो नरः ॥ ९९ ॥</l>
</lg>
<p>1697</p>
<lg>
  <l>यं लोकं वाजिपृष्ठेषु हता गच्छन्ति मानवाः ।</l>
  <l>तं लोकं नाधिगच्छन्ति वडवासु हताश्च ये ॥ १०० ॥</l>
</lg>
<pb n="276" />
<p>अथ वाजिनां वयोज्ञानायुर्ज्ञाने ।
1698</p>
<lg>
  <l>दन्तोद्भेदं प्रवक्ष्यामि वाजिनां मुख्यलक्षणम् ।</l>
  <l>येन विज्ञातमात्रेण वयोज्ञानं प्रतीयते ॥ १०१ ॥</l>
</lg>
<p>1699</p>
<lg>
  <l>षड्भिर्दन्तै: सिताभैर्भवति हयशिशुस्तैः कषायैर्द्विरब्दः</l>
  <l>संदंशैर्मध्यमान्त्यैः पतितसमुदितैस्त्रिश्चतुःपञ्चवर्षः ।</l>
  <l>संदंशानुक्रमेण त्रिकसमगुणिता: कालिकापीतशुक्लाः</l>
  <l>काचं माक्षीकशङ्खावटुचलनमतश्चावपातं च विद्धि ॥ १०२ ॥</l>
</lg>
<p>1700</p>
<lg>
  <l>लघुत्वं मातृदोषेण पितृदोषेण मन्दता ।</l>
  <l>दौर्बल्यं स्वामिदोषेण स्वदोषो नास्ति वाजिनाम् ॥१०३॥</l>
</lg>
<p>1701</p>
<lg>
  <l>महाघोणा महाकाया महोरस्का महास्वनाः ।</l>
  <l>स्निग्धाङ्गाः सर्वदा ये च तेषामायुर्भवेद्बहु ॥ १०४ ॥</l>
</lg>
<p>1702</p>
<lg>
  <l>कर्णाग्रे पीडिते येषां सिन्दूराभस्य दर्शनम् ।</l>
  <l>शोणितस्य भवेत्क्षिप्रं ते वाहाश्चिरजीविनः ॥ १०५ ॥</l>
</lg>
<p>1703</p>
<lg>
  <l>स्निग्धा दीर्घाश्च बह्व्यश्च प्रोथस्था यस्य वाजिनः ।</l>
  <l>भवन्ति विपुला रेखास्तं विद्याच्चिरजीविनम् ॥ १०६ ॥</l>
</lg>
<p>1704</p>
<lg>
  <l>नभो जिघ्रन्ति ये वाहा भास्करार्पितदृष्टयः ।</l>
  <l>पृथुकुक्षिकटीकक्षा: सुनिद्राश्चिरजीविनः ॥ १०७ ॥</l>
</lg>
<p>1705</p>
<lg>
  <l>न विष्किरन्ति ये ग्रासं सुभक्षा ह्रस्वमेहनाः ।</l>
  <l>महाशिरोललाटाश्च ते वाहाश्विरजीविनः ॥ १०८ ॥</l>
</lg>
<pb n="277" />
<p>1706</p>
<lg>
  <l>अर्धप्रोथस्थिता रेखा दृश्यन्ते यस्य वाजिनः ।</l>
  <l>तस्य मृत्युः समुद्दिष्टो दशमं प्राप्य वत्सरम् ॥ १०९ ॥</l>
</lg>
<p>1707</p>
<lg>
  <l>त्र्यङ्गुलायां दशार्धेन वर्षाणां तस्य जीवितम् ।</l>
  <l>जीवेत्रयोदशाब्दानि यस्य स्याच्चतुरङ्गुला ॥ ११० ॥</l>
</lg>
<p>1708</p>
<lg>
  <l>विनतः पूर्वकायेन स्थूलजानुश्च यो हयः ।</l>
  <l>शूनाक्षिकूटः स्तब्धाक्षः स्वल्पायुः स प्रकीर्तितः ॥ १११ ॥</l>
</lg>
<p>जयदत्तस्यैते ।
1709</p>
<lg>
  <l>ममाषष्टिर्द्विघ्ना मनुजकरिणां पञ्च च निशा</l>
  <l>हयानां द्वात्रिंशत्खरकरभयोः पञ्चककृतिः ।</l>
  <l>विरूपं तच्चायुर्वृषमहिषयोर्द्वादश शुनः</l>
  <l>स्मृतं छागादीनां दशकसहिताः षट् च परमम् ॥ ११२ ॥</l>
</lg>
<p>कस्यापि ।
अथौषधानि वाजिनां कृते ।
1710</p>
<lg>
  <l>व्योषाजाजिवेिडङ्गहिङ्गुकुटजत्वक्केतकीसैन्धवं</l>
  <l>श्यामासर्पपदीप्यकाद्दशगुणं मांसं रसोनात्समम् ।</l>
  <l>संघायाम्लरसैर्लभेत सततं यो विद्युदाख्यामिमां</l>
  <l>सप्तिः सप्तगुणाधिको द्विदशन: स स्यादपास्यामयान् ॥ ११३ ॥</l>
</lg>
<p>विजुलीनकुलम्य ।
1711</p>
<lg>
  <l>दूर्वा घृतं यत्रानीरं शिशिरं सर्वदा शुभम् ।</l>
  <l>हरीतकी हिता नित्यं लवणं त्रिदिनान्तरे ॥ ११४ ॥</l>
</lg>
<p>अथ परीक्षाश्वानाम् ।
1712
असितखुरचतुष्क: श्यामलग्रन्थिपाद:
स्रवति करसमीपे मूत्रधारां सवेगाम् ।</p>
<pb n="278" />
<p>दशनचलखलीनः कुक्कुटस्कन्धबन्धः
किटिवरकठिनोरुर्दूरगः स्यात्तुरङ्गः ॥ ११५ ॥
1713</p>
<lg>
  <l>विकसदसितनेत्रः स्निग्धगम्भीरहेष-</l>
  <l>स्त्वरितचतुरगामी वायुवेगः सुसत्त्वः ।</l>
  <l>सघनविपुलकायो भर्तुरादेशवर्ती</l>
</lg>
<lg>
  <l>समरविजयसंपत्कारकः स्यात्तुरङ्गः ॥ ११६ ॥</l>
  <l>शार्ङ्गधरस्यैते ।</l>
  <l>--------------</l>
  <l>अथ धनुर्वेदः ॥ ८० ॥</l>
</lg>
<p>1714</p>
<lg>
  <l>ईश्वरोक्ताद्धनुर्वेदाद्व्यासस्यापि सुभाषितात् ।</l>
  <l>पदान्याकृष्य रचितो ग्रन्थः संक्षेपतो मया ॥ १ ॥</l>
</lg>
<p>1715</p>
<lg>
  <l>विना शार्ङ्गधरं नान्यो धनुर्वेदार्थतत्वचित् ।</l>
  <l>यतः स्वप्ने निशि प्राप्ता शिवात्तत्त्वविचारणा ॥ २ ॥</l>
</lg>
<p>1716</p>
<lg>
  <l>अतः संदेहदोलायां रोपणीयं  न मानसन् ।</l>
  <l>ग्रन्थेस्मिंश्चापचतुरैर्वीरचिन्तामणौ क्वचित् ॥ ३ ॥</l>
</lg>
<p>1717</p>
<lg>
  <l>यस्याभ्यासप्रसादेन  निष्पद्यन्ते धनुर्धराः ।</l>
  <l>जेतारः परसैन्यानां तस्याभ्यासो विधीयताम् ॥ ४ ॥</l>
</lg>
<p>1718</p>
<lg>
  <l>एकोपि यत्र नगरे प्रसिद्ध:  स्याद्धनुर्धरः ।</l>
  <l>ततो यान्त्यरयो दूरं मृगाः सिंहगृहादिव ॥ ५॥</l>
</lg>
<p>अथ धनुर्धारणविधिः ।
1719</p>
<lg>
  <l>आचार्येण धनुर्देयं ब्राह्मणे सुपरीक्षिते ।</l>
  <l>लुब्धे धूर्ते कृतघ्ने च मन्दबुद्धौ न दीयते ॥ ६ ॥</l>
</lg>
<pb n="279" />
<p>1720</p>
<lg>
  <l>ब्राह्मणाय धनुर्देयं खड्गं वै क्षत्रियाय च ।</l>
  <l>वैश्याय दापयेत्कुन्तं गदां शुद्रस्य दापयेत् ॥ ७ ॥</l>
</lg>
<p>1721</p>
<lg>
  <l>धनुश्चक्रं च कुन्तं च खड्गं च च्छुरिका गदा ।</l>
  <l>सप्तमं बाहुयुद्धं स्यादेवं युद्धानि सप्तधा ॥ ८ ॥</l>
</lg>
<p>1722</p>
<lg>
  <l>आचार्य: सप्तयुद्ध: स्याच्चतुर्युद्धस्तु भार्गवः ।</l>
  <l>द्वाभ्यां चैव भवेद्योध एकेन गणको भवेत् ॥ ९ ॥</l>
</lg>
<p>1723</p>
<lg>
  <l>हस्तः पुनर्वसुः पुष्यो रोहिणी चोत्तरात्रयम् ।</l>
  <l>अनुराधाश्विनी चैव रेवती दशमी तथा ॥ १० ॥</l>
</lg>
<p>1724</p>
<lg>
  <l>जन्मस्थे च तृतीये च षष्ठे वै सप्तमे तथा ।</l>
  <l>दशमैकादशे चन्द्रे सर्वकर्माणि कारयेत् ॥ ११ ॥</l>
</lg>
<p>1725</p>
<lg>
  <l>तृतीया  पञ्चमी चैव सप्तमी दशमी तथा ।</l>
  <l>त्रयोदशी द्वादशी च तिथयस्तु शुभा मताः ॥ १२ ॥</l>
</lg>
<p>1726</p>
<lg>
  <l>सूर्यवार: शुक्रवारो गुरुवारस्तथैव च ।</l>
  <l>एतद्वारत्रयं धन्यं प्रारम्भे शस्त्रकर्मणाम् ॥ १३ ॥</l>
</lg>
<p>1727</p>
<lg>
  <l>एभिर्दिनैस्तु शिष्याय गुरुः शस्त्राणि दापयेत् ।</l>
  <l>संतर्प्य दानहोमाभ्यां सुरान्वेदविधानतः ॥ १४ ॥</l>
</lg>
<p>1728</p>
<lg>
  <l>ब्राह्मणान्भोजयेत्तत्र कुमारीश्चाप्यनेकशः ।</l>
  <l>तापसानर्चयेद्भक्त्या ये चान्ये शिवयोगिनः ॥ १५ ॥</l>
</lg>
<pb n="280" />
<p>1729</p>
<lg>
  <l>अन्नपानादिभिश्चैव वस्त्रालंकारभूषणैः ।</l>
  <l>गन्धमाल्यैर्विचित्रैश्च गुरुं तत्र प्रपूजयेत् ॥ १६ ॥</l>
</lg>
<p>1730</p>
<lg>
  <l>कृतोपवासः शिष्यस्तु मृगाजिनपरिग्रहः ।</l>
  <l>बद्धाञ्जलिपुटस्तत्र याचयेद्गुरुतो धनुः ॥ १७ ॥</l>
</lg>
<p>1731</p>
<lg>
  <l>अङ्गन्यासस्ततः कार्यः शिवोक्तः सिद्धिमिच्छता ।</l>
  <l>आचार्येण च शिष्यस्य पापघ्नो विघ्ननाशनः ॥ १८ ॥</l>
</lg>
<p>1732</p>
<lg>
  <l>शिखास्थाने न्यसेदीशं बाहुयुग्मे च केशवम् ।</l>
  <l>ब्रह्माणं नाभिकूपे तु जङ्घयोश्च गणाधिपम् ॥ १९ ॥</l>
</lg>
<p>1733
ॐ ह्रौं शिखास्थाने शंकराय नमः ।
ॐ ह्रौं बाह्वोः केशवाय नमः ।
ॐ ह्रौं नाभिमध्ये ब्रह्मणे नमः ।
ॐ ह्रौं जङ्घयोर्गणपतये नमः ।
1734</p>
<lg>
  <l>ईदृशं कारयेन्यासं येन श्रेयो भविष्यति ।</l>
  <l>अन्येपि दुष्टमन्त्रेण न हिंसन्ति कदाचन ॥ २० ॥</l>
</lg>
<p>1735</p>
<lg>
  <l>शिष्याय मानुषं चापं धनुर्मन्त्राभिमन्त्रितम् ।</l>
  <l>काण्डात्काण्डाभिमन्त्रेण दद्याद्वेदविधानतः ॥ २१ ॥</l>
</lg>
<p>1736</p>
<lg>
  <l>प्रथमं पुष्पवेधं च फलहीनेन पत्त्रिणा ।</l>
  <l>ततः फलयुतेनैव मत्स्यवेधं च कारयेत् ॥ २२ ॥</l>
</lg>
<p>1737</p>
<lg>
  <l>मांसवेधं ततः कुर्यादेवं वेधो भवेत्रिधा ।</l>
  <l>एतैर्वेधैः कृतैः पुंसां शराः स्युः सर्वसाधकाः ॥ २३ ॥</l>
</lg>
<pb n="281" />
<p>1738</p>
<lg>
  <l>वेधने चैव मांसस्य शरपातो यदा भवेत् ।</l>
  <l>पूर्वदिग्भागमाश्रित्य तदा स्याद्विजयी सुखी ॥ २४ ॥</l>
</lg>
<p>1739</p>
<lg>
  <l>दक्षिणे कलहो घोरो विदेशगमनं पुनः ।</l>
  <l>पश्चिमे धनधान्यं च सर्वं चैवोत्तरे शुभम् ॥ २५ ॥</l>
</lg>
<p>1740</p>
<lg>
  <l>ऐशान्यां पतनं दुष्टं विदिशोन्याश्च  शोभनाः ।</l>
  <l>हर्षपुष्टिकराश्चैव सिद्धिदाः शस्त्रकर्मणि ॥ २६ ॥</l>
</lg>
<p>1741</p>
<lg>
  <l>एवं वेधत्रयं कुर्याच्छङ्खदुन्दुभिनिःस्वनैः ।</l>
  <l>ततः प्रणम्य गुरवे धनुर्बाणान्निवेदयेत् ॥ २७ ॥</l>
</lg>
<p>अथ चापप्रमाणम् ।
1742</p>
<lg>
  <l>प्रथमं यौगिकं चापं युद्धचापं द्वितीयकम् ।</l>
  <l>निजबाहुबलान्मानात्किंचिदूनं शुभं धनुः ॥ २८ ॥</l>
</lg>
<p>1743</p>
<lg>
  <l>वरं प्राणाधिको धन्वी न तु प्राणाधिकं धनुः ।</l>
  <l>धनुषा पीड्यमानस्तु धन्वी लक्ष्यं न पश्यति ॥ २९ ॥</l>
</lg>
<p>1744</p>
<lg>
  <l>अतो निजबलोन्मानं चापं स्याच्छुभकारकम् ।</l>
  <l>देवानामुत्तमं चापं ततो न्यूनं च मानवम् ॥ ३० ॥</l>
</lg>
<p>1745</p>
<lg>
  <l>अर्धपञ्चमहस्तं तु श्रेष्ठं चापं प्रकीर्तितम् ।</l>
  <l>तद्विज्ञेयं धनुर्दिव्यं शंकरेण धृतं पुरा ॥ ३१ ॥</l>
</lg>
<p>1746</p>
<lg>
  <l>तस्मात्परशुरामेण ततो द्रोणेन धारितम् ।</l>
  <l>द्रोणाद्गृहीतं पार्थेन ततः सात्यकिना धृतम् ॥ ३२ ॥</l>
</lg>
<pb n="282" />
<p>1747</p>
<lg>
  <l>कृते युगे महादेवस्त्रेतायां चापि राघवः ।</l>
  <l>द्वापरे द्रोणविप्रश्च दैवं चापमधारयत् ॥ ३३ ॥</l>
</lg>
<p>1748</p>
<lg>
  <l>चतुर्विशाङ्गुलो हस्तश्चतुर्हस्तं धनुः स्मृतम् ।</l>
  <l>तद्भवेन्मानवं चापं सर्वलक्षणसंयुतम् ॥ ३४ ॥</l>
</lg>
<p>1749</p>
<lg>
  <l>त्रिपर्व पञ्चपर्व च सप्तपर्व प्रकीर्तितम् ।</l>
  <l>नवपर्व च कोदण्डं चतुर्धा शुभकारकम् ॥ ३५ ॥</l>
</lg>
<p>1750</p>
<lg>
  <l>चतुःपर्व च षट्पर्व अष्टपर्व विवर्जयेत् ।</l>
  <l>केषांचिच्च भवेच्चापं वितस्तिनवसंमितम् ॥ ३६ ॥</l>
</lg>
<p>1751</p>
<lg>
  <l>अतिजीर्णमपक्वं च ज्ञातिधृष्टं तथैव च ।</l>
  <l>दग्धं छिद्रं न कर्तव्यं बाह्याभ्यन्तरहस्तकम् ॥ ३७ ॥</l>
</lg>
<p>1752</p>
<lg>
  <l>गुणहीनं गुणाक्रान्तं काण्डदोषसमन्वितम् ।</l>
  <l>गलग्रन्थि न कर्तव्यं तलमध्ये तथैव च ॥ ३८ ॥</l>
</lg>
<p>1753</p>
<lg>
  <l>अपक्वं भङ्गमायाति अतिजीर्णं तु कर्कशम् ।</l>
  <l>ज्ञातिघृष्टं तु सोद्वेगं कलहो बान्धवैः सह ॥ ३९ ॥</l>
</lg>
<p>1754</p>
<lg>
  <l>दग्धेन दह्यते वेश्म छिद्रं युद्धविनाशनम् ।</l>
  <l>बाह्ये लक्ष्यं न लभ्येत तथैवाभ्यन्तरेपि वा ॥ ४० ॥</l>
</lg>
<p>1755</p>
<lg>
  <l>हीने तु संघिते बाणे संग्रामे भङ्गकारकम् ।</l>
  <l>आक्रान्ते तु पुनः क्वापि न लक्ष्यं प्राप्यते दृढम् ॥ ४१ ॥</l>
</lg>
<pb n="283" />
<p>1756</p>
<lg>
  <l>गलग्रन्थि तलग्रन्थि धनहानिकरं धनुः ।</l>
  <l>एभिर्दोषैर्विनिर्मुक्तं सर्वकार्यकरं स्मृतम् ॥ ४२ ॥</l>
</lg>
<p>1757</p>
<lg>
  <l>शार्ङ्गं पुनर्धनुर्दिव्यं विष्णोः परममायुधम् ।</l>
  <l>वितस्तिसप्तसंमानं निर्मितं विश्वकर्मणा ॥ ४३ ॥</l>
</lg>
<p>1758</p>
<lg>
  <l>न च स्वर्गे न पाताले न भूमौ कस्यचित्करे ।</l>
  <l>तद्धनुर्वशमायाति मुक्त्तैकं पुरुषोत्तमम् ॥ ४४ ॥</l>
</lg>
<p>1759</p>
<lg>
  <l>पौरुषेयं तु यच्छार्ङ्गं बहुवत्सरशोषितम् ।</l>
  <l>वितस्तिभिः सार्धषट्भिर्मितं सर्वार्थसाधनम् ॥ ४५ ॥</l>
</lg>
<p>1760</p>
<lg>
  <l>प्रायो योग्यं धनुः शार्ङ्गं गजारोहाश्वसादिनाम् ।</l>
  <l>रथिनां च पदातीनां वांशं चापं प्रकीर्तितम् ॥ ४६ ॥</l>
</lg>
<p>अथ गुणलक्षणानि ।
1761</p>
<lg>
  <l>गुणानां लक्षणं वक्ष्ये यादृशं कारयेद्गुणम् ।</l>
  <l>पट्टसूत्रो गुणः कार्यः कनिष्ठामानसंमितः ॥ ४७ ॥</l>
</lg>
<p>1762</p>
<lg>
  <l>धनुःप्रमाणो निःसन्धिः शुद्धैत्रिगुणतन्तुभिः ।</l>
  <l>वर्तितः स्याद्गुण: श्लक्ष्णः सर्वकर्मसहो युधि ॥ ४८ ॥</l>
</lg>
<p>1763</p>
<lg>
  <l>अभावे पट्टसूत्रस्य हारिणी स्नायुरिष्यते ।</l>
  <l>गुणार्थमथवा ग्राह्याः स्नायवो महिषीगवाम् ॥ ४९ ॥</l>
</lg>
<p>1764</p>
<lg>
  <l>तत्कालहतगोकर्ण चर्मणा छागलेन वा ।</l>
  <l>निर्लोम्ना तन्तुरूपेण कुर्याद्वा गुणमुत्तमम् ॥ ५० ॥</l>
</lg>
<pb n="284" />
<p>1765</p>
<lg>
  <l>पक्ववंशत्वचा कार्यो गुणस्तु स्थावरो दृढः ।</l>
  <l>पट्टसूत्रेण संनद्धः सर्वकर्मसहो युधि ॥ ५१ ॥</l>
</lg>
<p>1766</p>
<lg>
  <l>प्राप्ते भाद्रपदे मासि त्वगर्कस्य प्रशस्यते ।</l>
  <l>तस्यास्तत्र गुण: कार्यः पवित्र स्थावरो दृढः ॥ ५२ ॥</l>
</lg>
<p>1767</p>
<lg>
  <l>वृत्तार्कसूत्रतन्तूनां हस्तास्त्वष्टादश स्मृताः ।</l>
  <l>सद्वृत्तं त्रिगुणं कार्यं  प्रमाणोयं गुणे स्मृतः ॥ ५३ ॥</l>
</lg>
<p>अथ शरलक्षणानि ।
1768
अतः परं प्रवक्ष्यामि शराणां लक्षणं शुभम् ।</p>
<lg>
  <l>स्थूलं न चातिसूक्ष्मं च न पक्वं न कुभूमिजम् ।</l>
  <l>हीनग्रन्थिविदीर्णं च वर्जयेदीदृशं शरम् ॥ ५४ ॥</l>
</lg>
<p>1769
पूर्णग्रन्थि सुपक्वं च पाण्डुरं समयाहृतम्
कठिनं वर्तुलं काण्डं गृह्णीयात्सुप्रदेशजम् । ५५ ॥
1770</p>
<lg>
  <l>द्वौ हस्तौ मुष्टिहीनौ तु दैर्घ्ये स्थौल्ये कनिष्ठिका ।</l>
  <l>विधेया शरमानेषु यन्त्रेष्वाकर्षयेत्ततः ॥ ५६ ॥</l>
</lg>
<p>1771</p>
<lg>
  <l>कङ्कहंसशशादानां मत्स्यादक्रौञ्चकेकिनाम् ।</l>
  <l>गृध्राणां कुक्कुटानां च पक्षा एतेषु शोभनाः ॥ ५७ ॥</l>
</lg>
<p>1772</p>
<lg>
  <l>एकैकस्य शरस्यैव चतुष्पक्षाणि योजयेत् ।</l>
  <l>षडङ्गुलप्रमाणेन पक्षच्छेदं च कारयेत् ॥ ५८ ॥</l>
</lg>
<p>1773</p>
<lg>
  <l>दशाङ्गुलमिता: पक्षा: शार्ङ्गचापस्य मार्गणे ।</l>
  <l>योज्या दृढाश्चतु:संख्याः संनद्धाः स्नायुतन्तुभिः ॥ ५९ ॥</l>
</lg>
<pb n="285" />
<p>1774</p>
<lg>
  <l>शराच त्रिविधा ज्ञेयाः स्त्री पुमांश्च  नपुंसकः ।</l>
  <l>अग्रे स्थूलो भवेन्नारी पश्चात्स्थूलो भवेत्पुमान् ॥ ६० ॥</l>
</lg>
<p>1775</p>
<lg>
  <l>समं नपुंसकं ज्ञेयं तल्लक्ष्यार्थं प्रशस्यते ।</l>
  <l>दूरापातं युवत्या च पुरुषो भेदयेद्दृढम् ॥ ६१ ॥</l>
</lg>
<p>अथ फललक्षणानि ।
1776</p>
<lg>
  <l>फलं तु शुद्धलोहस्य सुधारं तीक्ष्णमक्षतम् ।</l>
  <l>योजयेद्वज्रलेपेन शरे पक्षानुमानतः ॥ ६२ ॥</l>
</lg>
<p>1777</p>
<lg>
  <l>आरामुखं क्षुरग्रं च गोपुच्छं चार्धचन्द्रकम् ।</l>
  <l>सूचीमुखं च भल्लं च वत्सदन्तं द्विभल्लकम् ॥ ६३ ॥</l>
</lg>
<p>1778</p>
<lg>
  <l>कर्णिकं काकतुण्डं च तथान्यान्यप्यनेकशः ।</l>
  <l>फलानि देशदेशेषु भवन्ति बहुरूपतः ॥ ६४ ॥</l>
</lg>
<p>1779</p>
<lg>
  <l>आरामुखेन वै चर्म क्षुरग्रेण च कार्मुकम् ।</l>
  <l>सूचीमुखेन कवचमर्धचन्द्रेण मस्तकम् ॥ ६५॥</l>
</lg>
<p>1780</p>
<lg>
  <l>भल्लेन हृदयं वेध्यं द्विभल्लेन गुण: शरः ।</l>
  <l>लोहं च काकतुण्डेन लक्ष्यं गोपुच्छकेन च ॥ ६६ ॥</l>
</lg>
<p>1781</p>
<lg>
  <l>अन्यद्गोपुच्छकं ज्ञेयं शुद्धकाष्ठविनिर्मितम् ।</l>
  <l>मुखे च लोहकण्टेन वेध्यं त्र्यङ्गुलसंमितम् ॥ ६७ ॥</l>
</lg>
<p>अथ फलपायनम् ।
1782</p>
<lg>
  <l>फलस्य पायनं वक्ष्ये दिव्यौषधिविलेपनैः ।</l>
  <l>येन दुर्भेद्यवर्माणि भेदयेत्तरुपर्णवत् ॥ ६८ ॥</l>
</lg>
<pb n="286" />
<p>1783</p>
<lg>
  <l>पिप्पली सैन्धवं कुष्ठं  गोमूत्रेण तु पेषयेत् ।</l>
  <l>अनेन लेपयेच्छस्त्रं लिप्तं चाग्नौ प्रतापयेत् ॥ ६९ ॥</l>
</lg>
<p>1784</p>
<lg>
  <l>अविशीतमनाविद्धं पीतनष्टं तथौषधम् ।</l>
  <l>ततो निर्वापितं तैले लोहं तत्र विशिष्यते ॥ ७० ॥</l>
</lg>
<p>1785</p>
<lg>
  <l>पञ्चभिर्लवणैः पिष्टैर्मधुसिक्तैः ससर्षपैः ।</l>
  <l>एभिः प्रलेपयेच्छस्त्रं लिप्तं चाग्नौ प्रतापयेत् ॥ ७१ ॥</l>
</lg>
<p>1786</p>
<lg>
  <l>शिखिग्रीवानुवर्णाभं तप्तपीतं तथौषधम् ।</l>
  <l>ततस्तु विमलं तोयं पाययेच्छस्त्रमुत्तमम् ॥ ७२ ॥</l>
</lg>
<p>अथ नाराचनालीकौ ।
1787</p>
<lg>
  <l>सर्वलोहास्तु ये बाणा नाराचास्ते प्रकीर्तिताः ।</l>
  <l>पञ्चभिः पृथुलैः पक्षैर्युक्ताः सिद्ध्यन्ति कस्यचित् ॥ ७३ ॥</l>
</lg>
<p>1788</p>
<lg>
  <l>नालीका लघवो बाणा नलयन्त्रेण नोदिताः ।</l>
  <l>अत्युच्चदूर पातेषु दुर्गयुद्धेषु ते मताः ॥ ७४ ॥</l>
</lg>
<p>अथ स्थानमुष्ट्याकर्षणलक्षणानि ।
1789</p>
<lg>
  <l>स्थानान्यष्टौ विधेयानि योजने भिन्नकर्मणाम् ।</l>
  <l>मुष्ट्य: पञ्च समाख्याना व्यायाः पञ्च प्रकीर्तिताः ॥ ७५ ॥</l>
</lg>
<p>1790</p>
<lg>
  <l>अग्रतो वामपादं च दक्षिणं जानु कुञ्चितम् ।</l>
  <l>आलीढं तु प्रकर्तव्यं हस्तद्वयसविस्तरम् ॥ ७६ ॥</l>
</lg>
<pb n="287" />
<p>1791</p>
<lg>
  <l>प्रत्यालीढं तु कर्तव्यं सव्यं चैवानुकुञ्चितम् ।</l>
  <l>दक्षिणं च पुरस्तद्वद्दूरपाते विशिष्यते ॥ ७७ ॥</l>
</lg>
<p>1792</p>
<lg>
  <l>पादौ सुविस्तरौ कार्यौ समौ हस्तप्रमाणतः ।</l>
  <l>विशाखस्थानकं ज्ञेयं कूटलक्ष्यस्य वेधने ॥ ७८ ॥</l>
</lg>
<p>1793</p>
<lg>
  <l>समपादे समौ पादौ निष्कम्पौ च सुसंगतौ ।</l>
  <l>असमे च पुरो वामो हस्तमात्रे नतं वपुः ॥ ७९ ॥</l>
</lg>
<p>1794</p>
<lg>
  <l>आकुञ्चितोरू द्वौ यत्र जानुभ्यां धरणिं गतौ ।</l>
  <l>दर्दुरक्रममित्याहुः स्थानकं दृढभेदने ॥ ८० ॥</l>
</lg>
<p>1795</p>
<lg>
  <l>सव्यं जानु गतं भूमौ दक्षिणं च सकुञ्चितम् ।</l>
  <l>अग्रतो यत्र दातव्यं तं विद्याद्गरुडक्रमम् ॥ ८१ ॥</l>
</lg>
<p>1796</p>
<lg>
  <l>पद्मासनं प्रसिद्धं तु उपविश्य यथाक्रमम् ।</l>
  <l>धन्विनां तत्तु विज्ञेयं स्थानकं शुभलक्षणम् ॥ ८२ ॥</l>
</lg>
<p>अथ गुणमुष्टयः ।
1797</p>
<lg>
  <l>पताका वज्रमुष्टिश्च सिंहकर्णी तथैव च ।</l>
  <l>मत्सरी काकतुण्डी च योजनीया यथाक्रमम् ॥ ८३ ॥</l>
</lg>
<p>1798</p>
<lg>
  <l>दीर्घा तु तर्जनी यत्र आश्रिताङ्गुष्ठमूलकम् ।</l>
  <l>पताका सा च विज्ञेया नलिका दूरमोक्षणे ॥ ८४ ॥</l>
</lg>
<p>1799</p>
<lg>
  <l>तर्जनी मध्यमामध्यमङ्गुष्ठो विशते यदि ।</l>
  <l>वज्रमुष्टिस्तु सा ज्ञेया स्थूले नाराचमोक्षणे ॥ ८५ ॥</l>
</lg>
<pb n="288" />
<p>1800</p>
<lg>
  <l>अङ्गुष्ठनखमूले तु तर्जन्यग्रं सुसंस्थितम् ।</l>
  <l>मत्सरी सा च विज्ञेया चित्रलक्ष्यस्य वेधने ॥ ८६ ॥</l>
</lg>
<p>1801</p>
<lg>
  <l>अङ्गुष्ठाग्रे तु तर्जन्या मुखं यत्र निवेशितम् ।</l>
  <l>काकतुण्डी च विज्ञेया सूक्ष्मलक्ष्येषु योजिता ॥ ८७ ॥</l>
</lg>
<p>अथ धनुर्मुष्टिसंधानम् ।
1802</p>
<lg>
  <l>संधानं त्रिविधं प्रोक्तमध ऊर्ध्वं समं तथा ।</l>
  <l>योजयेत्रिप्रकारं हि कार्येष्वपि यथाक्रमम् ॥ ८८ ॥</l>
</lg>
<p>1803</p>
<lg>
  <l>अधश्च दूरपातित्वं समे लक्ष्यं सुनिश्चितम् ।</l>
  <l>दृढस्फोटं प्रकुर्वीत ऊर्ध्वसंस्थानयोगतः ॥ ८९ ॥</l>
</lg>
<p>अथ व्याया: ।
1804</p>
<lg>
  <l>कैशिकः केशमूले चेच्छरः शृङ्गे च सात्त्विकः ।</l>
  <l>श्रवणे वत्सकर्णश्च ग्रीवायां भरतो भवेत् ॥ ९० ॥</l>
</lg>
<p>1805</p>
<lg>
  <l>अंसके स्कन्धनामा च व्यायाः पञ्च प्रकीर्तिताः ।</l>
  <l>कैशिकश्चित्रयुद्धेषु अधोलक्ष्येषु सात्विकः ॥ ९१॥</l>
</lg>
<p>1806</p>
<lg>
  <l>वत्सकर्णः स विज्ञेयो भरतो दृढभेदने ।</l>
  <l>दृढभेदे च दूरे च स्कन्धनामानमुद्दिशेत् ॥ ९२ ॥</l>
</lg>
<p>अथ लक्ष्यम् ।
1807</p>
<lg>
  <l>लक्ष्यं चतुर्विधं ज्ञेयं स्थिरं चैव चलं तथा ।</l>
  <l>वेधयेत्त्रिप्रकारं तु स्थिरवेधी स उच्यते ॥ ९३ ॥</l>
</lg>
<pb n="289" />
<p>1808</p>
<lg>
  <l>आत्मानं सुस्थिरं कृत्वा लक्ष्यं चैव स्थिरं बुधः ।</l>
  <l>वेधयेत्त्रिप्रकारं तु स्थिरवेधी स उच्यते ॥ ९४ ॥</l>
</lg>
<p>1809</p>
<lg>
  <l>चलं तु वेधयेद्यस्तु आत्मना स्थिरसंस्थितः ।</l>
  <l>चललक्ष्यं तु तत्प्रोक्तमाचार्येण सुधीमता ॥ ९५ ॥</l>
</lg>
<p>1810</p>
<lg>
  <l>धन्वी तु चलते यत्र स्थिरलक्ष्ये समाहितः ।</l>
  <l>चलाचलं भवेत्तत्र अप्रमेयमनिन्दितम् ॥ ९६ ॥</l>
</lg>
<p>1811</p>
<lg>
  <l>उभावेव चलौ यत्र लक्ष्यं चापि धनुर्धरः ।</l>
  <l>तद्विज्ञेयं द्वयचलं श्रमेणैव हि साध्यते ॥ ९७ ॥</l>
</lg>
<p>1812</p>
<lg>
  <l>श्रमेणास्खलितं लक्ष्यं दूरं च बहुभेदनम् ।</l>
  <l>श्रमेण कठिना मुष्टिः शीघ्रसंधानमाप्यते ॥ ९८ ॥</l>
</lg>
<p>1813</p>
<lg>
  <l>श्रमेण चित्रयोधित्वं श्रमेण प्राप्यते जयः ।</l>
  <l>तस्माद्गुरुसमक्षं हि श्रमः कार्यो विजानता ॥ ९९ ॥</l>
</lg>
<p>1814</p>
<lg>
  <l>प्रथमं वामहस्तेन यः श्रमं कुरुते नरः ।</l>
  <l>तस्य चापक्रियासिद्धिरचिरादेव जायते ॥ १०० ॥</l>
</lg>
<p>1815</p>
<lg>
  <l>वामहस्ते तु संसिद्धे पश्चाद्दक्षिणमारभेत् ।</l>
  <l>उभाभ्यां च श्रमं कुर्यान्नाराचैश्च शरैस्तथा ॥ १०१ ॥</l>
</lg>
<p>1816</p>
<lg>
  <l>वामेनैव श्रमं कुर्यात्सुसिद्धे दक्षिणे करे ।</l>
  <l>विशाखेनासमेनैव तथा व्याये च कैशिके ॥ १०२ ॥</l>
</lg>
<pb n="290" />
<p>1817</p>
<lg>
  <l>उदिते भास्करे लक्ष्यं पश्चिमायां निवेशयेत् ।</l>
  <l>अपराह्णे च कर्तव्यं लक्ष्यं पूर्वदिगाश्रितम् ॥ १०३ ॥</l>
</lg>
<p>1818</p>
<lg>
  <l>उत्तरेण सदा कार्यं  प्राणस्य न विरोधकम् ।</l>
  <l>संग्रामेण विना कार्यं  न लक्ष्यं दक्षिणामुखम् ॥ १०४ ॥</l>
</lg>
<p>1819</p>
<lg>
  <l>षष्टिधन्वन्तरे लक्ष्यं ज्येष्ठलक्ष्यं प्रकीर्तितम् ।</l>
  <l>चत्वारिंशन्मध्यमं च विंशतिश्च कनिष्ठकम् ॥ १०५ ॥</l>
</lg>
<p>1820</p>
<lg>
  <l>शराणां कथितं ह्येतन्नाराचानामथोच्यते ।</l>
  <l>चत्वारिंशच्च त्रिंशच्च षोडशैव भवेत्ततः ॥ १०६ ॥</l>
</lg>
<p>1821</p>
<lg>
  <l>चतुःशतैश्च काण्डानां यो हि लक्ष्यं विसर्जयेत् ।</l>
  <l>सूर्योदये चास्तमये स ज्येष्ठो धन्विनां भवेत् ॥ १०७ ॥</l>
</lg>
<p>1822</p>
<lg>
  <l>त्रिशतैर्मध्यमश्चैव द्विशताभ्यां कनिष्ठकः ।</l>
  <l>लक्ष्यं च पुरुषोन्मानं कुर्याच्चन्द्रकसंयुतम् ॥ १०८ ॥</l>
</lg>
<p>1823</p>
<lg>
  <l>ऊर्ध्ववेधी भवेज्ज्येष्ठो नाभिवेधी च मध्यमः ।</l>
  <l>यः पादवेधी लक्ष्यस्य स कनिष्ठो मतो मया ॥ १०९ ॥</l>
</lg>
<p>अथानध्यायः ।
1824</p>
<lg>
  <l>अष्टमी च अमावास्या वर्जनीया चतुर्दशी ।</l>
  <l>पूर्णिमार्धदिनं यावनिषिद्धा सर्वकर्मसु ॥ ११० ॥</l>
</lg>
<p>1825</p>
<lg>
  <l>अकाले गर्जिने देवे दुर्दिनं वाथवा भवेत् ।</l>
  <l>पूर्वकाण्डहतं लक्ष्यमनध्यायं प्रचक्षते ॥ १११ ॥</l>
</lg>
<pb n="291" />
<p>1826</p>
<lg>
  <l>श्रमं च कुर्वतस्तत्र भुजंगो यदि दृश्यते ।</l>
  <l>अथवा भज्यते चापं यदैव श्रमकर्मणि ॥ ११२ ॥</l>
</lg>
<p>1827</p>
<lg>
  <l>त्रुट्यते वा गुणो यत्र प्रथमे बाणमोक्षणे ।</l>
  <l>श्रमं तत्र न कुर्वीत शस्त्रे मतिमतां वरः ॥ ११३ ॥</l>
</lg>
<p>अथ श्रमक्रिया ।
1828</p>
<lg>
  <l>क्रियाकलापान्वक्ष्यामि श्रमसाध्याञ्शुचिष्मताम् ।</l>
  <l>येषां विज्ञानमात्रेण सिद्धिर्भवति नान्यथा ॥ ११४ ॥</l>
</lg>
<p>1829</p>
<lg>
  <l>प्रथमं चापमारोप्य चूलिकां बन्धयेत्ततः ।</l>
  <l>स्थानकं तु ततः कृत्वा बाणोपरि करं न्यसेत् ॥ ११५ ॥</l>
</lg>
<p>1830</p>
<lg>
  <l>तुलनं धनुषश्चैव कर्तव्यं वामपाणिना ।</l>
  <l>आदानं च ततः कृत्वा संधानं च ततः परम् ॥ ११६ ॥</l>
</lg>
<p>1831</p>
<lg>
  <l>सकृदाकृष्टचापेन भूमिवेधं तु कारयेत् ।</l>
  <l>नमस्कुर्याच्छिवं विघ्नराजं गुरुधनुः शरान् ॥ ११७ ॥</l>
</lg>
<p>1832</p>
<lg>
  <l>याचितव्या गुरोराज्ञा बाणस्याकर्षणं प्रतेि ।</l>
  <l>प्राणवायुं प्रयत्नेन बाणेन सह पूरयेत् ॥ ११८ ॥</l>
</lg>
<p>1833</p>
<lg>
  <l>कुम्भकेन स्थिरं कृत्वा हुंकारेण विसर्जयेत् ।</l>
  <l>इत्यभ्यासक्रिया कार्या धन्विना सिद्धिमिच्छता ॥ ११९ ॥</l>
</lg>
<p>1834</p>
<lg>
  <l>षण्मासात्सिद्ध्यते मुष्टि: शराः संवत्सरेण तु ।</l>
  <l>नाराचास्तस्य सिद्ध्यन्ति यस्य तुष्टो महेश्वरः ॥ १२० ॥</l>
</lg>
<pb n="292" />
<p>1835</p>
<lg>
  <l>पुष्पवद्धारयेद्बाणं सर्पवत्पीडयेद्धनुः ।</l>
  <l>धनवच्चिन्तयेल्लक्ष्यं यदीच्छेत्सिद्धिमात्मनः ॥ १२१ ॥</l>
</lg>
<p>1836</p>
<lg>
  <l>क्रियामिच्छन्ति आचार्या दूरमिच्छन्ति भार्गवाः ।</l>
  <l>राजानो दृष्टिमिच्छन्ति लक्ष्यमिच्छन्ति चेतरे ॥ १२२ ॥</l>
</lg>
<p>1837</p>
<lg>
  <l>जनानां रञ्जनं येन लक्ष्यघातात्प्रजायते ।</l>
  <l>हीनेनापीषुणा तस्मात्प्रशस्तं लक्ष्यवेधनम् ॥ १२३ ॥</l>
</lg>
<p>अथ लक्ष्यास्खलनविधिः ।
1838</p>
<lg>
  <l>विशाखस्थानके स्थित्वा समसंधानमाचरेत् ।</l>
  <l>गोपुच्छमुखबाणेन सिंहकर्ण्या च मुष्टिना ॥ १२४ ॥</l>
</lg>
<p>1839</p>
<lg>
  <l>आकर्षेत्कैशिकव्याये न शिखां चालयेत्ततः ।</l>
  <l>पूर्वापरौ समौ कार्यौ समांसौ निश्चलौ करौ ॥ १२५ ॥</l>
</lg>
<p>1840</p>
<lg>
  <l>चक्षुषी स्पन्दयेन्नैव दृष्टिं लक्ष्ये नियोजयेत् ।</l>
  <l>मुष्टिनाच्छादितं लक्ष्यं शरस्याग्रे नियोजयेत् ॥ १२६ ॥</l>
</lg>
<p>1841</p>
<lg>
  <l>मनो दृष्टिगतं ज्ञात्वा ततः काण्डं विसर्जयेत् ।</l>
  <l>स्खलत्येवं कदाचिन्न लक्ष्ये योधो जितश्रमः ॥ १२७ ॥</l>
</lg>
<p>अथ शीघ्रसंधानम् ।
1842
आदानं चैव तूणीरात्संधानं कर्षणं तथा ।</p>
<lg>
  <l>क्षेपणं च त्वरायुक्तो बाणस्य कुरुते तु यः ।</l>
  <l>नित्याभ्यासवशात्तस्य शीघ्रसंधानता भवेत् ॥ १२८ ॥</l>
</lg>
<pb n="293" />
<p>अथ दूरपातित्वम् ।
1843</p>
<lg>
  <l>प्रत्यालीढे कृते स्थाने अध: संधानमाचरेत् ।</l>
  <l>मुष्ट्या पताकया बाणं स्त्रीचिह्नं दूरपातनम् ॥ १२९ ॥</l>
</lg>
<p>अथ दृढप्रहारिता ।
1844
दर्दुरक्रममास्थाय ऊर्ध्वसंधानमाचरेत् ।</p>
<lg>
  <l>स्कन्धव्यायेन वज्रस्य मुष्ट्या पुंमार्गणेन च ।</l>
  <l>अत्यन्तसौष्ठवाद्बाह्वोर्जायते दृढवेधिता ॥ १३० ॥</l>
</lg>
<p>अथ हीनगतयः ।
1845</p>
<lg>
  <l>सूचीमुखा मीनपुच्छा भ्रमरी च तृतीयका ।</l>
  <l>शराणां गतयस्तिस्रः प्रशस्ताः कथिता बुधैः ॥ १३१ ॥</l>
</lg>
<p>1846</p>
<lg>
  <l>सूचीमुखगतिस्तस्य सायकस्य प्रजायते ।</l>
  <l>पत्त्रं विलोमितं यस्य अथवा हीनपत्त्रकम् ॥ १३२ ॥</l>
</lg>
<p>1847</p>
<lg>
  <l>कर्कशेन तु चापेन यः कृष्टो हीनमुष्टिना ।</l>
  <l>मत्स्यपुच्छा गतिस्तस्य सायकस्य प्रकीर्तिता १३३ ॥</l>
</lg>
<p>1848</p>
<lg>
  <l>भ्रमरी कथिता ह्येषा विद्वद्भिः श्रमकर्मणि ।</l>
  <l>ऋजुत्वेन विना याति क्षेप्यमाणस्तु सायकः ॥ १३४ ॥</l>
</lg>
<p>अथ बाणानां लक्ष्यस्खलनगतयः ।
1849</p>
<lg>
  <l>बामगा दक्षगा चैव ऊर्ध्वगाधोगमा तथा ।</l>
  <l>चतस्रो गतयः प्रोक्ता बाणस्खलन हेतवः ॥ १३५ ॥</l>
</lg>
<pb n="294" />
<p>1850</p>
<lg>
  <l>कम्पने गुणमुष्टिस्तु मार्गणस्य हि पृष्ठतः ।</l>
  <l>संमुखी स्याद्धनुर्मुष्टिस्तदा वामे गतिर्भवेत् ॥ १३६॥</l>
</lg>
<p>1851</p>
<lg>
  <l>ग्रहणं शिथिलं यस्य ऋजुत्वेन विवर्जितम् ।</l>
  <l>पार्श्वं तु दक्षिणं याति सायकस्य न संशयः ॥ १३७ ॥</l>
</lg>
<p>1852</p>
<lg>
  <l>ऊर्ध्वं याति चापमुष्टिर्गुणमुष्टिरधो भवेत् ।</l>
  <l>स मुक्तो मार्गणो लक्ष्याद्दूरं याति न संशयः ॥ १३८ ॥</l>
</lg>
<p>1853</p>
<lg>
  <l>मोक्षणे चैव बाणस्य चापमुष्टिरधो भवेत् ।</l>
  <l>गुणमुष्टिर्भवेदूर्ध्वं तदाधोगामिनी गतिः ॥ १३९ ॥</l>
</lg>
<p>अथ शुद्धगतयः ।
1854</p>
<lg>
  <l>लक्ष्यबाणाग्रदृष्टीनां संगतिस्तु यदा भवेत् ।</l>
  <l>तदानीमुज्झितो बाणो लक्ष्यान्न स्खलति ध्रुवम् ॥ १४० ॥</l>
</lg>
<p>1855</p>
<lg>
  <l>निर्दोष: शब्दहीनश्च सममुष्टिद्वयोज्झितः ।</l>
  <l>भिनत्ति दृढवेध्यानि सायको नास्ति संशयः ॥ १४१॥</l>
</lg>
<p>1856
स्वाकृष्टस्तेजितो यश्च सुशुद्धो गाढमुक्तितः ।
नरनागाश्वकायेषु न स तिष्ठति मार्गणः ॥ १४२ ।
1857</p>
<lg>
  <l>यस्य तृणसमा बाणा यस्येन्धनसमं धनुः ।</l>
  <l>यस्य प्राणसमा मौर्वी स धन्वी धन्विनां वरः ॥ १४३ ॥</l>
</lg>
<p>अथ दृढचतुष्कम् ।
1858</p>
<lg>
  <l>अयश्चर्म घटश्चैव मृत्पिण्डं च चतुष्टयम् ।</l>
  <l>यो भिनत्ति हि तस्येषुर्वज्रेणापि न धार्यते ॥ १४४ ॥</l>
</lg>
<pb n="295" />
<p>1859</p>
<lg>
  <l>सार्धाङ्गुलप्रमाणेन लोहपात्राणि कारयेत् ।</l>
  <l>तानि भित्त्वैकबाणेन दृढघाती भवेन्नरः ॥ १४५॥</l>
</lg>
<p>1860</p>
<lg>
  <l>चतुर्विंशतिचर्माणि भिनत्त्येकेषुणा नरः ।</l>
  <l>तस्य बाणो गजेन्द्रस्य कायं निर्भिद्य गच्छति ॥ १४६ ॥</l>
</lg>
<p>1861</p>
<lg>
  <l>भ्राम्यञ्जले घटो वेद्ध्यश्चक्रे मृत्पिण्डकं तथा ।</l>
  <l>भ्रमन्तं वेधयेद्यस्तु दृढभेदी स उच्यते ॥ १४७ ॥</l>
</lg>
<p>1862</p>
<lg>
  <l>अयस्तु काकतुण्डेन चर्म आरामुखेन हि ।</l>
  <l>मृत्पिण्डं च घटं चैव विध्येत्सूचीमुखेन हि ॥ १४८ ॥</l>
</lg>
<p>अथ चित्रविधिः ।
1863</p>
<lg>
  <l>बाणभङ्गं करावर्तं काष्ठच्छेदनमेव च ।</l>
  <l>बिन्दुकं गोलकयुगं यो वेत्ति स जयी भवेत् ॥ १४९ ॥</l>
</lg>
<p>1864</p>
<lg>
  <l>लक्ष्यस्थाने धृतं काण्डं ससुखं छेदयेत्ततः ।</l>
  <l>किंचिन्मुष्टिं विधाय स्वां तिर्यग्द्विफलिकेषुणा ॥ १५० ॥</l>
</lg>
<p>1865</p>
<lg>
  <l>संमुखं वा समायान्तं तिर्यक्छायं तमम्बरे ।</l>
  <l>शरं शरेण यश्छिन्द्याद्बाणच्छेदी स जायते ॥ १५१ ॥</l>
</lg>
<p>अथ वराटिकावर्तः ।
1866</p>
<lg>
  <l>काष्ठेश्वकेशं संयम्य तत्र बद्ध्वा वराटिकाम् ।</l>
  <l>हस्तेन भ्राम्यमाणां च यो हन्ति स धनुर्धरः ॥ १५२ ॥</l>
</lg>
<pb n="296" />
<p>अथ काष्ठच्छेदनम् ।
1867</p>
<lg>
  <l>लक्ष्यस्थाने न्यसेत्काष्ठं सार्द्रं गोपुच्छसंनिभम् ।</l>
  <l>यश्छिन्द्यात्तं क्षुरप्रेण काष्ठच्छेत्ता स जायते ॥१५३॥</l>
</lg>
<p>अथ बिन्दुकम् ।
1868</p>
<lg>
  <l>लक्ष्ये बिन्दुं न्यसेच्छुभ्रं शुभ्रबन्धूकपुष्पवत् ।</l>
  <l>हन्ति तं बिन्दुकं यस्तु चित्रयोधी स जायते ॥ १५४ ॥</l>
</lg>
<p>अथ गोलकयुगचित्रविधिः ।
1869</p>
<lg>
  <l>काष्ठगोलयुगं क्षिप्तं दूरमूर्ध्वपुरः स्थितैः ।</l>
  <l>अप्राप्तधारं पृष्ठेन गच्छेत्पुच्छमुखेन हि ॥ १५५ ॥</l>
</lg>
<p>1870</p>
<lg>
  <l>यो हन्ति शरयुग्मेन शीघ्रसंधानयोगतः ।</l>
  <l>स स्याद्धनुर्भृतां श्रेष्ठः पूजितः सर्वपार्थिवैः ॥ १५६ ॥</l>
</lg>
<p>अथ धावल्लक्ष्यम् ।
1871</p>
<lg>
  <l>रथस्थेन गजस्थेन हयस्थेन च पत्तिना ।</l>
  <l>धावता वै श्रमः कार्यो लक्ष्यं हन्तुं सुनिश्चितम् ॥१५७॥</l>
</lg>
<p>अथ शब्दवेधित्वम् ।
1872</p>
<lg>
  <l>लक्ष्यस्थाने न्यसेत्कांस्यपात्रं हस्तद्वयान्तरे ।</l>
  <l>ताडयेच्छर्कराभिस्तच्छब्दः संजायते यथा ॥ १५८ ॥</l>
</lg>
<p>1873</p>
<lg>
  <l>यत्रैवोत्पद्यते शब्दस्तं सम्यक्तत्र चिन्तयेत् ।</l>
  <l>कर्णेन्द्रियमनोयोगाल्लक्ष्यंनिश्चयतां नयेत् ॥ १५९ ॥</l>
</lg>
<pb n="297" />
<p>1874</p>
<lg>
  <l>पुनः शर्करया तच्च ताडयेच्छब्दहेतवे ।</l>
  <l>पुनर्निश्चयतां नेयं शब्दस्थानानुसारतः ॥ १६० ॥</l>
</lg>
<p>1875</p>
<lg>
  <l>ततः किंचित्कृतं दूरे नित्यं नित्यं विधानतः ।</l>
  <l>लक्ष्यं समभ्यसेद्ध्वान्ते शब्दव्यधनहेतवे ॥ १६१ ॥</l>
</lg>
<p>1876</p>
<lg>
  <l>ततो बाणेन हन्यात्तदवधानेन तीक्ष्णधीः ।</l>
  <l>एतच्च दुष्करं कर्म भाग्यैः कस्यापि सिद्ध्यति ॥ १६२ ॥</l>
</lg>
<p>अशास्त्रविधिः ।
1877</p>
<lg>
  <l>एवं श्रमविधिं कुर्याद्यावत्सिद्धिः प्रजायते ।</l>
  <l>श्रमे सिद्धे च वर्षासु नैव ग्राह्यं धनुः करे ॥ १६३ ॥</l>
</lg>
<p>1878</p>
<lg>
  <l>पूर्वाभ्यासस्य शस्त्राणामविस्मरणहेतवे ।</l>
  <l>मासद्वयं श्रमं कुर्यात्प्रतिवर्षं शरदृतौ ॥ १६४ ॥</l>
</lg>
<p>1879</p>
<lg>
  <l>जाते वाश्वयुजे मासि नवमीदेवतादिने ।</l>
  <l>पूजयेदीश्वरं चण्डीं गुरुं शस्त्राणि वाजिनः ॥ १६५ ॥</l>
</lg>
<p>1880</p>
<lg>
  <l>विप्रेभ्यो दक्षिणां दत्वा कुमारीर्भोजयेत्ततः ।</l>
  <l>देव्यै पशुबलिं दत्त्वा हृष्टो वादित्रमङ्गलैः ॥ १६६ ॥</l>
</lg>
<p>1881</p>
<lg>
  <l>ततस्तु साधयेन्मन्त्रान्वेदोक्तांश्चागमोदितान् ।</l>
  <l>अस्त्राणां कर्मसिद्ध्यर्थं जपहोमविधानतः ॥ १६७ ॥</l>
</lg>
<p>1882</p>
<lg>
  <l>ब्राह्मं नारायणं शैवमैन्द्रं वायव्यवारुणे ।</l>
  <l>आग्नेयं चापरास्त्राणि गुरुदत्तानि साधयेत् ॥ १६८ ॥</l>
</lg>
<pb n="298" />
<p>1883</p>
<lg>
  <l>मनोवाक्कर्मभिर्भाव्यं लब्धास्त्रेण शुचिष्मता ।</l>
  <l>अपात्रमसमर्थं च घ्नन्त्यस्त्राणि कुपूरुषम् ॥ १६९ ॥</l>
</lg>
<p>1884</p>
<lg>
  <l>प्रयोगं चोपसंहारं यो वेत्ति स धनुर्धरः ।</l>
  <l>सामान्ये कर्मणि प्राज्ञो नैवास्त्राणि प्रयोजयेत् ॥ १७० ॥</l>
</lg>
<p>अथ शस्त्रवारणम् ।
1885</p>
<lg>
  <l>हस्तार्के लाङ्गलीकन्दं गृहीत्वा तस्य लेपतः ।</l>
  <l>शूरस्यापि रणे पुंसो दर्पं हरति सत्वरः ॥ १७१ ॥</l>
</lg>
<p>1886</p>
<lg>
  <l>गृहीतं योगनक्षत्रैरपामार्गस्य मूलकम् ।</l>
  <l>लेपमात्रेण वीराणां सर्वशस्त्रनिवारणम् ॥ १७२ ॥</l>
</lg>
<p>1887</p>
<lg>
  <l>अधःपुष्पी शङ्खपुष्पी लज्जालुर्गिरिकर्णिका ।</l>
  <l>नीलिनी सहदेवा च पुत्रमार्जारिका तथा ॥ १७३ ॥</l>
</lg>
<p>1888</p>
<lg>
  <l>विष्णुक्रान्ता च सर्वासां जटा ग्राह्या रवेर्दिने ।</l>
  <l>बद्धा भुजे विलेपाद्वा काये शस्त्रौघवारिका ॥ १७४ ॥</l>
</lg>
<p>1889</p>
<lg>
  <l>सर्पव्याघ्रादिसत्त्वानां भूतादीनां न जायते ।</l>
  <l>भीतिस्तस्य स्थिता यस्य मातरोष्टौ शरीरके ॥ १७५ ॥</l>
</lg>
<p>1890</p>
<lg>
  <l>गृहीतं हस्तनक्षत्रे चूर्णं  छुच्छुन्दरीभवम् ।</l>
  <l>तत्प्रभावाद्गजः पुंसः संमुखो नैति निश्चितम् ॥ १७६ ॥</l>
</lg>
<p>1891
छुच्छुन्दरीश्रीफलपुष्पचूर्णै-
रालिप्तगात्रस्य नरस्य दूरात् ।</p>
<pb n="299" />
<p>आघ्राय गन्धं द्विरदोतिमत्तो
मदं त्यजेत्केसरिणो यथोग्रम् ॥ १७७ ॥
1892</p>
<lg>
  <l>श्वेताद्रिकर्णिकामूलं पाणिस्थं वारयेद्गजम् ।</l>
  <l>श्वेतकण्टारिकामूलं व्याघ्रादीनां भयं हरेत् ॥ १७८ ॥</l>
</lg>
<p>1893</p>
<lg>
  <l>पुष्यार्कोत्पाटिते मूले पाठाया मुखसंस्थिते ।</l>
  <l>देहे स्फुटति नो तीक्ष्णं मण्डलाग्रं रणे नृणाम् ॥ १७९॥</l>
</lg>
<p>1894</p>
<lg>
  <l>गन्धार्या उत्तरं मूलं मुखस्थं संमुखागतम् ।</l>
  <l>शस्त्रौघं वारयत्येव पुष्यार्के विधिना धृतम् ॥ १८० ॥</l>
</lg>
<p>1895
शुभ्रायाः शरपुंखाया जटानीलोजटाथवा ।</p>
<lg>
  <l>भुजे शिरसि वक्त्रे वा स्थिता शस्त्रनिवारिका ।</l>
  <l>भूपाहिचौरभीतिघ्नी गृहीता पुष्यभास्करे ॥ १८१॥</l>
</lg>
<p>अथ संग्रामविधिः ।
1896</p>
<lg>
  <l>प्रथमं क्रियते स्नानं शुक्लवस्त्रावृतो भवेत् ।</l>
  <l>मङ्गल्यगीतसंयुक्तो देवविप्रांश्च पूजयेत् ॥ १८२ ॥</l>
</lg>
<p>1897</p>
<lg>
  <l>क्षेत्रपालस्य नाम्रा च बलिं दद्याद्दिशो दश ।</l>
  <l>शस्त्राणि चापि संपूज्य रक्षामन्त्रं स्मरेत्ततः ॥ १८३ ॥</l>
</lg>
<p>1898</p>
<lg>
  <l>ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।</l>
  <l>घण्टास्वनेन नः पाहि चापज्यानि:स्वनेन च ॥ १८४ ॥</l>
</lg>
<pb n="300" />
<p>1899</p>
<lg>
  <l>प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।</l>
  <l>भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥ १८५ ॥</l>
</lg>
<p>1900</p>
<lg>
  <l>सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।</l>
  <l>यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् ॥ १८६ ॥</l>
</lg>
<p>1901</p>
<lg>
  <l>खड्गशूलगदादीनि यानि चास्त्राणि तेम्बिके ।</l>
  <l>करपल्लवसङ्गीनि तैरस्मान्त्रक्ष सर्वतः ॥ १८७ ॥</l>
</lg>
<p>1902</p>
<lg>
  <l>दिव्यौषधीनां लेपं च रक्षाबन्धं च कारयेत् ।</l>
  <l>किंचिद्भुक्त्वा च पीत्वा च ततः संनाहमाचरेत् ॥ १८८ ॥</l>
</lg>
<p>1903</p>
<lg>
  <l>सेनापतिं गजारोहानन्यांश्च सुभटांस्तथा ।</l>
  <l>मुख्यानन्यानपि धनैर्वस्त्रैश्च परितोषयेत् ॥ १८९ ॥</l>
</lg>
<p>1904</p>
<lg>
  <l>पूर्वं सारथिमारोप्य रथे सज्जेत्ततः स्वयम् ।</l>
  <l>योजयेद्वाजिनः शुद्धान्सुसंतुष्टाञ्जितश्रमान् ॥ १९० ॥</l>
</lg>
<p>1905</p>
<lg>
  <l>रथे च धारयेद्भद्रं कार्मुकाणां चतुष्टयम् ।</l>
  <l>चतुःशतानि बाणानां तूणीरे च प्रयोजयेत् ॥ १९१ ॥</l>
</lg>
<p>1906</p>
<lg>
  <l>खङ्गं चर्म गदां शक्तिं परिघं मुद्गरं तथा ।</l>
  <l>नाराचं परशुं कुन्तं पट्टिशादींश्च धारयेत् ॥ १९२ ॥</l>
</lg>
<p>1907</p>
<lg>
  <l>न रथा न गजा यस्य सोश्वमेव समारुहेत् ।</l>
  <l>कटिबद्धैकतूणीर: खड्गशक्तिधनुर्युतः ॥ १९३ ॥</l>
</lg>
<pb n="301" />
<p>1908</p>
<lg>
  <l>ततोर्जुनस्य नामानि विष्णुस्मरणपूर्वकम् ।</l>
  <l>जपेत्तत: प्रतिष्ठेत चतुरङ्गबलैर्युतः ॥ १९४ ॥</l>
</lg>
<p>1909</p>
<lg>
  <l>लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।</l>
  <l>येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ १९५ ॥</l>
</lg>
<p>1910</p>
<lg>
  <l>अर्जुन: फाल्गुनः पार्थः किरीटी श्वेतवाहनः ।</l>
  <l>बीभत्सुर्विजयी कृष्णः सव्यसाची धनंजयः ॥ १९६ ॥</l>
</lg>
<p>अथाक्षौहिणीसंख्या ।
1911
खं तथा स्वरवस्विन्दुनेत्रैरक्षौहिणी मता ।</p>
<lg>
  <l>अक्षौहिण्यां संप्रदिष्टा रथानां वर्मधारिणाम् ।</l>
  <l>संख्या गणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥ १९७ ॥</l>
</lg>
<p>1912</p>
<lg>
  <l>उपर्यष्टौ शतान्याहुस्तथा भूयश्च सप्ततिः ।</l>
  <l>गजानां तु परीमाणमेतदेव विनिर्दिशेत् ॥ १९८ ॥</l>
</lg>
<p>1913</p>
<lg>
  <l>ज्ञेयं लक्षं पदातीनां सहस्राणि तथा नव ।</l>
  <l>शतानि त्रीणि पञ्चाशच्छूराणां शस्त्रधारिणाम् ॥ १९९ ॥</l>
</lg>
<p>1914</p>
<lg>
  <l>पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च ।</l>
  <l>दशोत्तराणि षट् प्राहुः संख्यातत्वविदो जनाः ॥ २०० ॥</l>
</lg>
<p>अथ महाक्षौहिणी ।
1915</p>
<lg>
  <l>खद्वयं निधिवेदाक्षिचन्द्राक्ष्यग्निहिमांशुभिः ।</l>
  <l>महाक्षौहिणिका प्रोक्ता संख्या गणितकोविदैः ॥२०१ ॥</l>
</lg>
<pb n="302" />
<p>1916</p>
<lg>
  <l>कोट्यस्त्रयोदश प्रोक्ता लक्षाणामेकविंशतिः ।</l>
  <l>चतुर्विंशत्सहस्राणि तथा नवशतानि च ॥ २०२॥</l>
</lg>
<p>1917
महाक्षौहिणिकां प्राहुरिमां तत्त्वविदो जनाः ।</p>
<lg>
  <l>महाक्षौहिणिकायां तु रथाः कोटिमिताः स्मृताः ।</l>
  <l>सप्तत्रिंशच्च  लक्षाणि गीयन्ते तत्त्ववेदिभिः ॥ २०३ ॥</l>
</lg>
<p>1918</p>
<lg>
  <l>द्वादशैव सहस्राणि चत्वार्येव शतानि च ।</l>
  <l>प्रोक्तानि नवतिस्तद्वदेवमेव मतंगजाः ॥ २०४ ॥</l>
</lg>
<p>1919</p>
<lg>
  <l>अश्वाश्चतुष्कोटिमिता लक्षाण्येकादशैव च ।</l>
  <l>सप्तत्रिंशत्सहस्राणि तथा शतचतुष्टयम् ॥ २०५ ॥</l>
</lg>
<p>1920</p>
<lg>
  <l>सप्ततिश्चैव संख्याताः प्रोच्यन्ते पत्तयस्ततः ।</l>
  <l>षट्कोट्योशीतिलक्षाणि पञ्चाधिकमितानि च ॥ २०६ ॥</l>
</lg>
<p>1921</p>
<lg>
  <l>द्विषष्टि च सहस्राणि तथा शतचतुष्टयम् ।</l>
  <l>पञ्चाशदिति संख्याता महाक्षौहिणिका बुधैः ॥ २०७ ॥</l>
</lg>
<p>अथ व्यूहावीधः ।
1922</p>
<lg>
  <l>मुखे रथा गजाः पृष्ठे तत्पृष्ठे च पदातयः ।</l>
  <l>पार्श्वयोश्च हयाः कार्या व्यूहस्यायं विधिः स्मृतः ॥ २०८॥</l>
</lg>
<p>1923</p>
<lg>
  <l>अर्धचन्द्रं  च चक्रं च शकटं मकरं तथा ।</l>
  <l>कमलं श्रेणिकां गुल्मं व्यूहानेवं प्रकल्पयेत् ॥ २०९ ॥</l>
</lg>
<pb n="303" />
<p>अथ युद्धविधिः ।
1924</p>
<lg>
  <l>ये राजपुत्रा: सामन्ता आप्ता:  सेवकजातयः ।</l>
  <l>तान्सर्वानात्मनः पार्श्वे रक्षायै स्थापयेन्नृपः ॥ २१० ॥</l>
</lg>
<p>1925</p>
<lg>
  <l>यस्मिन्कुले यः पुरुषः प्रधान:</l>
  <l>स सर्वयत्नेन हि रक्षणीयः ।</l>
  <l>तस्मिन्विनष्टे  किल सारभूते</l>
  <l>न नाभिभङ्गे  ह्यरका वहन्ति ॥ २११ ॥</l>
</lg>
<p>1926</p>
<lg>
  <l>क्षत्रसारभृतं शूरं शस्त्रज्ञमनुरागि चेत् ।</l>
  <l>अपि स्वल्पं श्रिये सैन्यं वृथेयं मुण्डमण्डली ॥ २१२ ॥</l>
</lg>
<p>1927</p>
<lg>
  <l>अपि पञ्चशतं शूरा मृद्गन्ति महतीं चमूम् ।</l>
  <l>अथवा पञ्च षट् सप्त विजयन्तेनिवर्तिनः ॥ ॥ २१३ ॥</l>
</lg>
<p>1928</p>
<lg>
  <l>धनुःसंगतिसंशुद्धा वाजिनो मुखदुर्बलाः ।</l>
  <l>आकर्णपलिता योधाः संग्रामे जयवादिनः ॥ २१४ ॥</l>
</lg>
<p>1929
परस्परानुरक्ता ये योधाः शार्ङ्गधनुर्धराः । ।
युद्धज्ञास्तुरगारूढास्ते जयन्ति रणे रिपून् ॥ २१५ ॥
1930</p>
<lg>
  <l>एक: कापुरुषो दीर्णो दारयेन्महतीं चमूम् ।</l>
  <l>तं दीर्णमनु दीर्यन्ते योधाः शूरतमा अपि ॥ २१६ ॥</l>
</lg>
<p>1931</p>
<lg>
  <l>दुर्निवारतरा चैव प्रभग्ना महती चमूः ।</l>
  <l>अपामिव महावेगस्त्रस्ता मृगगणा इव ॥ २१७॥</l>
</lg>
<pb n="304" />
<p>1932</p>
<lg>
  <l>यस्तु भग्नेषु सैन्येषु विद्रुतेषु निवर्तते ।</l>
  <l>पदे पदेश्वमेधस्य लभते फलमक्षयम् ॥ २१८ ॥</l>
</lg>
<p>1933</p>
<lg>
  <l>द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ।</l>
  <l>परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥ २१९ ॥</l>
</lg>
<p>1934</p>
<lg>
  <l>यत्र यत्र हृतः शूरः शत्रुभिः परिवेष्टितः ।</l>
  <l>अक्षयं लभते लोकं यदि क्लीबं न भाषते ॥ २२० ॥</l>
</lg>
<p>1935</p>
<lg>
  <l>मूर्छितं नैव विकलं नाशस्त्रं नान्ययोधिनम् ।</l>
  <l>पलायमानं शरणं गतं चैव न हिंसयेत् ॥ २२१ ॥</l>
</lg>
<p>1936</p>
<lg>
  <l>भीरु: पलायमानोपि नान्वेष्टव्यो बलीयसा ।</l>
  <l>कदाचिच्छूरतां याति मरणे कृतनिश्चयः ॥ २२२ ॥</l>
</lg>
<p>1937</p>
<lg>
  <l>संभृत्य महतीं सेनां चतुरङ्गां महीपतिः ।</l>
  <l>व्यूहयित्वाग्रतः शूरान्स्थापयेज्जयलिप्सया ॥ २२३ ॥</l>
</lg>
<p>1938</p>
<lg>
  <l>अल्पायां वा महत्यां वा सेनायामिति निश्चयः ।</l>
  <l>हर्षो योधगणस्यैको जयलक्षणमुच्यते ॥ २२४ ॥</l>
</lg>
<p>1939</p>
<lg>
  <l>अन्वेतं वायवो यान्ति पृष्ठे भानुर्वयांसि च ।</l>
  <l>अनुप्लवन्ते मेघाश्च यस्य तस्य रणे जयः ॥ २२५ ॥</l>
</lg>
<p>1940</p>
<lg>
  <l>अपूर्णे नैव मर्तव्यं संपूर्णे नैव जीवति ।</l>
  <l>तस्माद्धैर्यं विधातव्यं हन्तव्या परवाहिनी ॥ २२६ ॥</l>
</lg>
<pb n="305" />
<p>1941</p>
<lg>
  <l>जिते लक्ष्मीर्मृते स्वर्गः कीर्तिश्च धरणीतले ।</l>
  <l>तस्माद्धैर्यं विधातव्यं हन्तव्या परवाहिनी ॥ २२७ ॥</l>
</lg>
<p>एते शिवधनुर्वेदस्य भगवतो व्यासस्य च ।
अथ गान्धर्वशास्त्रम् ।॥ ८१ ॥
1942</p>
<lg>
  <l>प्रणम्य सर्वदेवेशं शिवं ब्रह्मादिकांस्तथा ।</l>
  <l>गान्धर्वशास्त्रसंक्षेपः सारतोयं मयोच्यते ॥ १ ॥</l>
</lg>
<p>1943</p>
<lg>
  <l>यदुक्तं ब्रह्मणः स्थानं ब्रह्मग्रन्थिश्च यो मतः ।</l>
  <l>तन्मध्ये संस्थितः प्राणः प्राणाद्वह्नि समुद्भवः ॥ २ ॥</l>
</lg>
<p>1944
वह्निमारुतसंयोगान्नाद: समुपजायते ।</p>
<lg>
  <l>न नादेन विना गीतं न नादेन विना स्वरः ।</l>
  <l>न] नादेन विना नृत्यं तस्मान्नादात्मकं जगत् ॥ ३ ॥</l>
</lg>
<p>1945</p>
<lg>
  <l>पवनाज्जायते नादो नादतः स्वरसंभवः ।</l>
  <l>स्वरात्संजायते रागः स रागो जनरञ्जकः ॥</l>
</lg>
<p>1946</p>
<lg>
  <l>पदस्थ: स्वरसंघातस्तालेन सुमितस्तथा ।</l>
  <l>प्रयुक्तश्चावधानेन गान्धर्वमभिधीयते ॥ ५ ॥</l>
</lg>
<p>1947</p>
<lg>
  <l>तदेतन्नारदादिभ्यो दत्तमादौ स्वयंभुवा ।</l>
  <l>नारदेनं ततो नादः पृथिव्यामवतारितः ॥ ६ ॥</l>
</lg>
<p>1948</p>
<lg>
  <l>मृगो वेत्ति शिशुर्वेत्ति वेत्ति गीतरसं फणी ।</l>
  <l>यतो गीते विलीनाः स्युः सर्वथा चित्तवृत्तिभिः ॥ ७ ॥</l>
</lg>
<pb n="306" />
<p>1949</p>
<lg>
  <l>अपि ब्रह्मपरानन्दादिदमप्यधिकं ध्रुवम् ।</l>
  <l>जहार नारदादीनां चित्तानि कथमन्यथा ॥ ८ ॥</l>
</lg>
<p>अथ सुगीतलक्षणानि ।
1950</p>
<lg>
  <l>सुस्वरं सरसं चैव सरागं मधुराक्षरम् ।</l>
  <l>सालंकारप्रमाणं च षड्विधं गीतलक्षणम् ॥ ९ ॥</l>
</lg>
<p>1951</p>
<lg>
  <l>स्वरेण पदसंयुक्तं छन्दसा च सुसंयुतम् ।</l>
  <l>सुमात्रं च सुतालं च सुगीतं तेन भण्यते ॥ १० ॥</l>
</lg>
<p>अथ वाग्गेयकारकलक्षणानि ।
1952</p>
<lg>
  <l>वाङ्मातुरुच्यते गेयं धातुरित्यभिधीयते ।</l>
  <l>वाचा गेयं च कुरुते यः स वाग्गेयकारकः ॥ ११ ॥</l>
</lg>
<p>1953</p>
<lg>
  <l>शब्दानुशासनज्ञानमभिधानप्रवीणता ।</l>
  <l>गणच्छन्दोनुवेदित्वमलंकारेषु कौशलम् ॥ १२ ॥</l>
</lg>
<p>1954</p>
<lg>
  <l>तौर्यत्रितयचातुर्यं हृद्यशारीरपालिता ।</l>
  <l>लयतालकलाज्ञानं विवेकोनेककाकुषु ॥ १३ ॥</l>
</lg>
<p>1955</p>
<lg>
  <l>देशीरागेषु विज्ञत्वं वाक्पटुत्वं सभाजयः ।</l>
  <l>इति वाग्गेयकारस्य गुणाः प्रतिनिरूपिताः ॥ १४ ॥</l>
</lg>
<p>1956</p>
<lg>
  <l>अधमो मातुकारश्च धातुकारश्च मध्यमः ।</l>
  <l>धातुमातुक्रियाकार उत्तमः परिकीर्तितः ॥ १५ ॥</l>
</lg>
<pb n="307" />
<p>1957</p>
<lg>
  <l>अधमो लक्षणज्ञः स्यान्मध्यमो लक्ष्यमाचरेत् ।</l>
  <l>लक्ष्यलक्षणसंयुक्त उत्तमः परिकीर्तितः ॥ १६ ॥</l>
</lg>
<p>अथ शिष्यकारः ।
1958</p>
<lg>
  <l>त्वरितः शिष्यको यस्तु सुकण्ठो मधुरस्वरः ।</l>
  <l>रागतालसमोपेतः शिष्यकारः स उच्यते ॥ १७ ॥</l>
</lg>
<p>अथ गायनलक्षणानि ।
1959
प्रबन्धगात्रनिष्णातो विविधालापकारकः ।</p>
<lg>
  <l>रागरागाङ्गभाषाङ्गक्रियाङ्गोपाङ्गकोविदः ।</l>
  <l>गायनो गीतशास्त्रज्ञैर्मण्यते सर्वसंमतः ॥ १८ ॥</l>
</lg>
<p>अथ गायनदोषाः ।
1960</p>
<lg>
  <l>कम्पितं भीतमुद्घृष्टमव्यक्तमनुनासिकम् ।</l>
  <l>काकस्वरं शिरःस्थं च तथा स्थानविवर्जितम् ॥ १९ ॥</l>
</lg>
<p>1961</p>
<lg>
  <l>विस्वरं विरसं चैव विश्लिष्टं विषमाहतम् ।</l>
  <l>व्याकुलं तालहीनं च गातुर्दोषाश्चतुर्दश ॥ २० ॥</l>
</lg>
<p>अथ सालगसूडः ।
1962</p>
<lg>
  <l>हिमवत्कन्यकाप्रीत्या देवदेवेन शंभुना ।</l>
  <l>शुद्धरागान्विनिष्पीड्य सरसं सालगं कृतम् ॥ २१ ॥</l>
</lg>
<p>1963</p>
<lg>
  <l>शुद्धरागसमुत्पन्नं छायालिङ्गमनोहरम् ।</l>
  <l>अबलाबालगोपालक्षितिपालैस्तु गीयते ॥ २२ ॥</l>
</lg>
<pb n="308" />
<p>1964</p>
<lg>
  <l>आद्यो ध्रुवस्ततो मण्ठः प्रतिमण्ठो निसारुक: ।</l>
  <l>अडतालस्ततो राग एकताली च संमता ॥ २३ ॥</l>
</lg>
<p>अथैतेषु पूर्वं ध्रुवकलक्षणानि ।
1965</p>
<lg>
  <l>न विवेकं विना ज्ञानं ध्यानं नात्मरसं विना ।</l>
  <l>श्रद्धया न विना दानं गीतं न ध्रुवकं विना ॥ २४ ॥</l>
</lg>
<p>1966</p>
<lg>
  <l>उत्तमः षट्पदः प्रोक्तो मध्यमः पञ्चभिस्तथा ।</l>
  <l>कनिष्ठस्तु चतुर्भिः स्यादेवं स्युध्रुवकास्त्रिधा ॥ २५ ॥</l>
</lg>
<p>1967</p>
<lg>
  <l>एकधातुर्द्विखण्डः स्याद्यत्रोद्ग्राहस्ततः परम् ।</l>
  <l>तृतीयं किंचिदुच्चं स्यात्खण्डं गमकशोभनम् ॥ २६ ॥</l>
</lg>
<p>1968</p>
<lg>
  <l>ततो द्विखण्ड आभोगस्तृतीयं तस्य खण्डकम् ।</l>
  <l>उच्चं गमकयुक्तं वा स्वनाम्ना चाङ्कितं तु तत् ॥ २७ ॥</l>
</lg>
<p>1969</p>
<lg>
  <l>उद्ग्राहस्याद्यखण्डे च न्यासः स ध्रुवको मतः ।</l>
  <l>एवं हि षट्पदः प्रोक्त उत्तमो ध्रुवको बुधैः ॥ २८ ॥</l>
</lg>
<p>1970</p>
<lg>
  <l>पञ्चपादस्य तूद्ग्राहे पादयुग्मं प्रशस्यते ।</l>
  <l>तृतीयं चोपखण्ड स्याद्विरभ्यस्तमिदं त्रयम् ॥ २९ ॥</l>
</lg>
<p>1971</p>
<lg>
  <l>आभोगश्चैकखण्डः स्याद्वितीयं चोच्चखण्डकम् ।</l>
  <l>तुल्यनामाङ्कितं चैतदिति मध्यमलक्षणम् ॥ ३० ॥</l>
</lg>
<p>1972</p>
<lg>
  <l>चतुष्पादस्य तूद्ग्राहे पदैकं स्यात्ततः पदम् ।</l>
  <l>किंचिदुच्चं द्वितीयं स्याद्विरभ्यस्तमिदं द्वयम् ॥ ३१ ॥</l>
</lg>
<pb n="309" />
<p>1973</p>
<lg>
  <l>आभोगे च पदैकं स्यात्किंचिदुच्चं द्वितीयकम् ।</l>
  <l>प्रभुनामाङ्कितं चैतत्कनिष्ठस्येति लक्षणम् ॥३२ ॥</l>
</lg>
<p>1974</p>
<lg>
  <l>षण्णां पदानां वा वर्णनियमो वा द्वयोर्भवेत् ।</l>
  <l>पदयोर्वर्णनियमो ध्रुवाणां हि द्विधा गतिः ॥ ३३ ॥</l>
</lg>
<p>1975</p>
<lg>
  <l>पदद्वये यदा वर्णनियमः क्रियते बुधैः ।</l>
  <l>तदा पदानि चान्यानि भवन्ति नियमं विना ॥ ३४ ॥</l>
</lg>
<p>1976</p>
<lg>
  <l>एकादशाक्षरात्पादादेकैकाक्षरवर्धितैः ।</l>
  <l>खण्डैर्ध्रुवाः षोडश स्युः  षड्विंशत्यक्षरावधि ॥ ३५ ॥</l>
</lg>
<p>1977</p>
<lg>
  <l>रसतालादिवर्णैश्च ध्रुवाणां लक्षणं शुभम् ।</l>
  <l>प्रोक्तं रागार्णवे सर्वं संक्षेपादिह कथ्यते ॥ ३६॥</l>
</lg>
<p>अथ षोडशध्रुवाणां नामानि ।
1978</p>
<lg>
  <l>जयन्तः शेखरोत्साहौ ततो मधुरनिर्मलौ ।</l>
  <l>कुन्तलः कमलश्चारो नन्दनश्चन्द्रशेखरः ॥ ३७॥</l>
</lg>
<p>1979</p>
<lg>
  <l>कामदो विजयाख्यश्च कंदर्पजयमङ्गलौ ।</l>
  <l>तिलको ललितश्चेति ध्रुवाः षोडश कीर्तिताः ॥ ३८ ॥</l>
</lg>
<p>1980
आदितालो जयन्तः स्याच्छृङ्गाररससंयुतः ।</p>
<lg>
  <l>रुद्रसंख्याक्षरपदैरायुर्वृद्धिकरः परः ।</l>
  <l>एक एवं लघुर्यस्मिन्नादितालः स कथ्यते ॥ ३९ ॥</l>
</lg>
<p>स यथा ।</p>
<pb n="310" />
<p>1981
द्वादशाक्षरपादोन्यो भोगैकफलकृत्प्रभोः ।</p>
<lg>
  <l>हंसके च रसे वीरे गीयते शेखराह्वयः ।</l>
  <l>लघुर्गुरुर्लघुर्यत्र स तालो हंसकः स्मृतः ॥४० ॥</l>
</lg>
<p>स यथा । ऽ ।
1982
उत्साहः स्याद्रसे हास्ये ताले कन्दुकसंज्ञके ।</p>
<lg>
  <l>वंशाभिवृद्धिकृत्पादस्त्रयोदशमिताक्षरः ।</l>
  <l>लघुद्वयं विरामान्तं ताले कन्दुकसंज्ञके ॥ ४१ ॥</l>
</lg>
<p>स यथा ॥। ऽ
1983
गार्ग्यतालेन गीयेत कारुण्ये मधुरो ध्रुवः ।</p>
<lg>
  <l>अन्घ्रिर्द्विसप्तभिर्वर्णैरानन्दफलदः सदा ।</l>
  <l>चतुर्द्रुतो विरामान्तस्तालोयं गार्ग्यसंज्ञकः ॥ ४२ ॥</l>
</lg>
<p>स यथा००००। ऽ
1984
क्रीडाताले ध्रुवः स स्यात्पक्षैर्वर्णान्घ्रिनिर्मलः ।</p>
<lg>
  <l>शृङ्गाररससंयुक्तः श्रोतुस्तेजोभिवर्धनः ।</l>
  <l>एक एव प्लुतो यस्मिन्क्रीडातालः स कथ्यते ॥ ४३ ॥</l>
</lg>
<p>स यथा । ऽ
1985
वर्णैः षोडशभिः पादः कुन्तलो लघुशेखरे ।</p>
<lg>
  <l>इष्टार्थदः शौर्यदः स्यादद्भुताख्यरसान्वितः ।</l>
  <l>लघुर्गुरुर्भवेद्यत्र स भवेल्लधुशेखरः ॥ ४४ ॥</l>
</lg>
<p>स यथा ।ऽ
1986
वर्णैश्च सप्तदशभिरङ्घ्रिः शृङ्गारके रसे ।</p>
<lg>
  <l>कमलो मलयाख्ये वै ह्यायुर्वृद्धिकरः परः ।</l>
  <l>मलयाख्ये भवेत्ताले गुरुर्लघुरतो गुरुः ॥ ४५ ॥</l>
</lg>
<p>स यथा ऽ/ऽ</p>
<pb n="311" />
<p>1987
चारोष्टादशवर्णाङ्घ्रिर्यशोहर्षप्रदो ध्रुवः ।</p>
<lg>
  <l>फणिभाषायुतो वीररसे कन्दुकतालके ।</l>
  <l>लघुद्वयं विरामान्तं ताले कन्दुकसंज्ञके ॥ ४६ ॥</l>
</lg>
<p>स यथा ॥।ऽ
1988
नन्दद्वयेन्दुवर्णाङ्घ्रिर्नन्दनः सर्वसिद्धिदः ।</p>
<lg>
  <l>पूर्ण: शृङ्गारवीराभ्यां कन्दुके च विधीयते ।</l>
  <l>लघुद्वयं विरामान्तं ताले कन्दुकसंज्ञके ॥ ४७ ॥</l>
</lg>
<p>1989
स यथा ॥। ऽ
कल्याणदो भवेद्वीरे ध्रुवकश्चन्द्रशेखरः ।</p>
<lg>
  <l>द्विदिग्वर्णपदं यत्र त्रिपुटे च विधीयते ।</l>
  <l>द्रुतद्वन्द्रं लघुद्वन्द्रं ताले त्रिपुटसंज्ञके ॥ ४८ ॥</l>
</lg>
<p>स यथा ॰॰॥
1990
एकविंशतिवर्णाङ्घ्रिर्भवेच्छृङ्गारके रसे ।
कामंदोभीष्टदः पुसां ताले तुरगलीलके ।
- - - - - - - - - - - - - - - - - - -
स यथा
1991
विजयाख्यो ध्रुवः स स्याद्वाविंशत्यक्षराङ्घ्रिकः ।</p>
<lg>
  <l>संनिपातेन संयुक्तः शृङ्गारेभीष्टदो रसे ।</l>
  <l>एक एव गुरुर्यत्र संनिपात: स कथ्यते ॥ ५० ॥</l>
</lg>
<p>स यथा ॥। ऽ
1992
त्रयोविंशतिवर्णाङ्घ्रिर्ध्रुव: कंदर्पसंज्ञितः ।</p>
<lg>
  <l>वीरे वा करुणे वा स्यात्खण्डताले विधीयते ।</l>
  <l>द्रुतमेकं भवेद्यत्र तालोयं खण्डसंज्ञितः ॥ ५१ ॥</l>
</lg>
<p>स यथा</p>
<pb n="312" />
<p>20
गान्धर्वशास्त्रम
1993
द्विघ्नद्वादशवर्णाङिस्ताले वै झम्पके भवेत् ।</p>
<lg>
  <l>वीरशृङ्गाररसयोर्जयकृज्जयमङ्गलः ।</l>
  <l>द्रुतयं विरामान्तं लघुनैकेन झम्पकः ॥ ५२ ॥</l>
</lg>
<p>स यथा ०० । 5 ।
स यथा
1994
पञ्चविंशाक्षरैः पादो यस्यासौ तिलकाह्वयः ।</p>
<lg>
  <l>ताले चाचपुढे ज्ञेयो वीरे वाप्यद्भुतेपि वा ।</l>
  <l>ताले चाचपुटे ज्ञेयं गुरुर्लघुयुगं गुरुः ॥ ५३ ॥</l>
</lg>
<p>ऽ ॥ ड
1995
यः षड्डूिंशतिवर्णाङ्घ्रिः स स्यात्सर्वार्थसिद्धिदः ।</p>
<lg>
  <l>ललितञ्चञ्चपुटाख्ये ताले शृङ्गारपोषकः ।</l>
  <l>ताले चञ्चपुटे ज्ञेयं गुरुइन्द्रं लघुप्लुते ॥ ५४ ॥</l>
</lg>
<p>स यथा ऽऽ ॥ s
अथ मण्ठकलक्षणानि ।
1996</p>
<lg>
  <l>उगाहो ध्रुपदश्च स्यादा भोगस्तदनन्तरम् ।</l>
  <l>नियमस्त्रिविधो ज्ञेयो मण्ठकस्य विचक्षणैः ॥ ५५ ॥</l>
</lg>
<p>1997</p>
<lg>
  <l>जयप्रियः कलापश्च कमलः सुन्दरस्तथा ।</l>
  <l>वल्लभो मङ्गलश्चेति षडेते मण्ठका मताः ॥ ५६ ॥</l>
</lg>
<p>1998</p>
<lg>
  <l>लघुर्गुरुर्लधुर्यत्र स तालो हंसकः स्मृतः ।</l>
  <l>तालचायं रसे वीरे कर्तव्यो जयमण्ठके ॥ ५७ ॥</l>
</lg>
<p>हंसकतालः । 5 ।</p>
<pb n="313" />
<p>शार्ङ्गधरपद्धतिः
1999</p>
<lg>
  <l>रङ्गताले व विज्ञेयो लघुबैको गुरुद्रयम् ।</l>
  <l>कलापो मण्डकस्तेन रसे रौद्राभिधानके ॥ ५८ ॥</l>
</lg>
<p>रङ्गतालः । 55
2000</p>
<lg>
  <l>लघुइयं गुरुश्चैकस्तालोयं दर्पणः स्मृतः ।</l>
  <l>अस्मिस्ताले रसः शान्तः कमलो मण्डको भवेत् ॥ ५९ ॥</l>
</lg>
<p>दर्पणतालः ॥ s</p>
<lg>
  <l>2001</l>
  <l>गुरुइन्द्रं लघुइन्द्रं ताले त्रिपुटसंज्ञके ।</l>
  <l>सुन्दरो गीयते तेन वीरे चाप्यद्भुते रसे ॥ ६० ॥</l>
  <l>त्रिपुटताल: ss ॥</l>
</lg>
<p>2002</p>
<lg>
  <l>मलयाख्ये भवेत्ताले गुरुर्लघुरतो गुरुः ।</l>
  <l>बल्लभो मष्टको ज्ञेयस्तालेस्मिन्करुणे रसे ॥ ६१ ॥</l>
</lg>
<p>मलयताल: S।s</p>
<lg>
  <l>2003</l>
  <l>गुरुर्लधुद्रयं यत्र भृङ्गतालः स कथ्यते ।</l>
  <l>मङ्गलो मण्टको ज्ञेयो रसे चाद्भुतसंज्ञके ॥ ६२ ॥</l>
  <l>भृङ्गतालः ऽ ॥</l>
</lg>
<p>अथ प्रतिमण्ठकलक्षणानि ।
2004</p>
<lg>
  <l>तारश्चाप्यमरचैव विचार: कुन्दसंज्ञकः ।</l>
  <l>चत्वारः कथिता घेते प्रतिष्ठास्तु शंभुना ॥ ६३ ॥</l>
</lg>
<p>2005</p>
<lg>
  <l>विरामान्तं द्रुतइन्द्रं गुरुश्चेकस्ततः परम् ।</l>
  <l>सुरङ्गताले गातव्यस्तारश्च प्रतिमण्ठक: ॥</l>
</lg>
<p>सुरङ्गतालः । s
5</p>
<pb n="314" />
<p>गार्ग्यवशास्त्रम्
2006</p>
<lg>
  <l>गुरुरेको भवेद्यत्र संनिपातः स कथ्यते ।</l>
  <l>अमरः प्रतिमण्ठोसौ विद्भिस्तेन गीयते ॥ ६५ ॥</l>
</lg>
<p>संनिपात: 5
2007
लघुवयं विरामान्तं ताले कन्दुकसंज्ञके ।
विचारो गीयते तेन विलम्बञ्च लयो भवेत् ॥ ६६ ।
कन्दुकः ॥ऽ
2008</p>
<lg>
  <l>द्रुतमेकं भवेद्यत्र स तालः खण्डसंज्ञितः ।</l>
  <l>द्रुतलयेन गातव्यः कुन्दश्च प्रतिमण्ठकः ॥ ६७ ॥</l>
</lg>
<p>खण्डताल:
अथ निःसारुकलक्षणानि ।
2009</p>
<lg>
  <l>कान्तारः समराख्यश्च वैकुण्ठो वाञ्छितस्तथा ।</l>
  <l>विशालश्च तथा नन्दः षोढा निःसारुको भवेत् ॥ ६८ ॥</l>
</lg>
<p>2010</p>
<lg>
  <l>लघुइयं विरामान्तं ताले कन्दुकनामनि ।</l>
  <l>द्रुतलयेन गातव्यः कान्तारो भवति स्फुटम् ॥ ६९ ॥</l>
</lg>
<p>कन्दुकः ॥ s
मुकुन्दः</p>
<lg>
  <l>2011</l>
  <l>लघुइयं विरामान्तं ताले कन्दुकनामानि ।</l>
  <l>समरो गीयते तेन मध्यमच लयो भवेत् ॥ ७० ॥</l>
  <l>कन्दुकः ॥</l>
</lg>
<p>2012</p>
<lg>
  <l>तद्वन्द्व गुरुद्वन्द्वं भवेत्ताले मुकुन्दके ।</l>
  <l>अनेन गेयो वैकुण्ठो हद्यो निःसारुको भवेत् ॥ ७१ ॥</l>
</lg>
<p>००55</p>
<pb n="315" />
<p>शार्ङ्गधरपद्धतिः
2013</p>
<lg>
  <l>लघुत्रयं द्रुतद्वन्द्वं ताले शरभलीलके ।</l>
  <l>अयं निःसारुको ज्ञेयो वाञ्छितो वाञ्छितप्रदः ॥ ७२ ॥</l>
</lg>
<p>शरभलीलः ॥। ००</p>
<lg>
  <l>लघुत्रयं विर(मान्तं ताले द्वितीयसंज्ञके ।</l>
  <l>अनेनैव हि तालेन विशालश्च निसारुकः ॥ ७३ ॥</l>
</lg>
<p>द्वितीयः ॥॥ s
:
2015</p>
<lg>
  <l>प्लुतमेकं भवेद्यत्र क्रीडातालः स कथ्यते ।</l>
  <l>अनेन गीयते नन्दो नित्यं निःसारुकोत्तमः ॥ ७४ ॥</l>
</lg>
<p>क्रीडातालः Is
2014
अथ अडताललक्षणानि ।
2016</p>
<lg>
  <l>शङ्कः कीलश्च विजयश्चारो निःशङ्क एव च ।</l>
  <l>मकरन्दः परो ज्ञेय अडताल पड्डिधः ॥ ७५ ॥</l>
</lg>
<p>2017</p>
<lg>
  <l>लघुर्गुरुश्च भवति लघुशेखरतालके ।</l>
  <l>शङ्को जमरतालच गीयते तेन कोविदैः ॥ ७६ ॥</l>
</lg>
<p>लघुशेखरः । 5
झम्पतालः
2018</p>
<lg>
  <l>द्रुतद्वयं विरामान्तं लघुनैकेन संयुतम् ।</l>
  <l>झम्पतालो भवेत्तेन गेयः शान्तो बुधोत्तमैः ॥ ७७ ॥</l>
</lg>
<p>151
2019</p>
<lg>
  <l>द्रुतद्रयं विरामान्तं ताले तुरगलीलके ।</l>
  <l>विजयो गीयते तेन गीतनृत्यविशारदैः ॥ ७८ ॥</l>
</lg>
<p>तुरगलील: ०० । s</p>
<pb n="316" />
<p>गान्धर्वशास्त्रम्
2020</p>
<lg>
  <l>उमा तिलकताले तु दुतो लघुगुरू स्मृतौ ।</l>
  <l>चाराख्यस्त्वडताल: स्याद्दिद्वद्भिस्तेन गीयते ॥ ७९ ॥</l>
</lg>
<p>उमातिलकः ०० । S
2021</p>
<lg>
  <l>द्रुतमेकं द्रुतौ द्वौ च वनमालिनि तालके ।</l>
  <l>निः शङ्कस्त्वडतालः स्याद्रुघैस्तेनैव गीयते ॥ ८० ॥</l>
</lg>
<p>वनमाली । ऽ ००
2022</p>
<lg>
  <l>राजतालांभिधाने तु लघुर्दुतौ लघुस्ततः ।</l>
  <l>अनेन तु समायुक्तो मकरन्दोडतालकः ॥ ८१ ॥</l>
</lg>
<p>राजतालः । ।
अथ रासकलक्षणानि ।
2023</p>
<lg>
  <l>चतुर्धा रासकः प्रोक्तो गीतवादित्रकोविदैः ।</l>
  <l>विनोदो वरदो नन्दः कम्बुजति कीर्तितः ॥ ८२ ॥</l>
</lg>
<p>2024</p>
<lg>
  <l>एक एव लघुर्यत्र आदिताल: स कथ्यते ।</l>
  <l>विनोदे रासकस्तेन श्रोतॄणां च सुखावहः ॥ ८३ ॥</l>
</lg>
<p>आदितालः ।
2025</p>
<lg>
  <l>लघुद्रुतौ गुरुर्यत्र तालोयं गजलीलकः ।</l>
  <l>वरदो रासकस्तेन श्रोतॄणां च सुखावहः ॥ ८४ ॥</l>
</lg>
<p>गजलीलकः । ००७
2026</p>
<lg>
  <l>द्भुत गुरुरेकत्र तालो विद्याधरः स्मृतः ।</l>
  <l>यत्रासौ रासको नन्दो गीयतेभ्युदयः शुभः ॥ ८५ ॥</l>
</lg>
<p>विद्याधरः Is s</p>
<pb n="317" />
<p>शार्ङ्गधरपद्धतिः
2027</p>
<lg>
  <l>राजविनोदताले स्याद्गुरुद्वन्द्वमथ प्लुतः ।</l>
  <l>रासकः कम्बुजस्तेन गीयते गीतकोविदैः ॥ ८६ ॥</l>
</lg>
<p>राजविनोदः 55 । 5</p>
<lg>
  <l>एकताली त्रिधा प्रोक्ता गीतवाद्यविशारदः ।</l>
  <l>रामा च चन्द्रिका तद्विपुलेत्यथ लक्षणम् ॥ ८७ ॥</l>
</lg>
<p>2029
अथ एकतालीलक्षणानि ।
2028</p>
<lg>
  <l>द्रुतमेकं भवेद्यत्र तालोयं खण्डसंज्ञितः ।</l>
  <l>रामा तेनैकताली तु गीयते गायनोत्तमैः ॥ ८८ ॥</l>
</lg>
<p>खण्डतालः
2030</p>
<lg>
  <l>गुरुद्वयं भवेद्यत्र तालो ललितसंज्ञकः ।</l>
  <l>चन्द्रिका चैकताली स्यात्तेन सौभाग्यदायिनी ॥ ८९ ॥</l>
</lg>
<p>ललितः 55
2031
कोकिलाप्रियताले वै द्रुतत्रयमुदाहृतम् ।
विपुला चैकताली स्यात्तेन गीतज्ञसंमता । ९० ॥
कोकिलाप्रियः ०००
2032
जयन्तश्च तथोत्साहो नन्दनश्चन्द्रशेखरः ।</p>
<lg>
  <l>कामदो विजयाख्यश्च कंदर्पजयमङ्गलौ ।</l>
  <l>अष्टौ ध्रुवाः समाख्याता राजयोग्याः सदा बुधैः ॥ ९१ ॥</l>
</lg>
<p>अथ शुद्धसूडगीतनामानि ।
2033</p>
<lg>
  <l>एलाकरणढेकी भिर्वर्तन्या डूमडेन च ।</l>
  <l>लम्भरासैकतालीभिः शुद्धसूडोष्टभिः स्मृतः ॥ ९२ ॥</l>
</lg>
<pb n="318" />
<p>गान्धर्वशास्त्रम्
2034</p>
<lg>
  <l>शुद्धस्डोन्यदेशेषु गीयते विरलैः क्वचित् ।</l>
  <l>अतो न विस्तरो लोके दक्षिणेषु च गीयते ॥ ९३ ॥</l>
</lg>
<p>अथ रूपकम् ।
2035
उद्राहश्चान्यधातुः स्याङ्वकश्चान्यधातुकः ।</p>
<lg>
  <l>मेलापको न्यधातुः स्यादाभोगश्चान्यधातुकः ।</l>
  <l>चतुर्धातुकमेतद्धि रूपकं कीर्त्यते बुधैः ॥ ९४ ॥</l>
</lg>
<p>अंथ गमकम् ।
2036</p>
<lg>
  <l>स्फुरितं कम्पितं लीनं स्तिमितान्दोलितावपि ।</l>
  <l>आहतं त्रिकभिन्नं च गमकं सप्तधा स्मृतम् ॥ ९५ ॥</l>
</lg>
<p>अथ प्रत्यन्तरम् ।
2037</p>
<lg>
  <l>उद्दिष्टं वस्तु रागादौ किंचिदाधिक्यचिन्तितम् ।</l>
  <l>तद्धातुमातुनिष्पन्नं प्रत्यन्तरमितीरितम् ॥ ९६ ॥</l>
</lg>
<p>2038</p>
<lg>
  <l>पूर्वरूपकसंसिद्धच्छायासंस्कृतरूपकम् ।</l>
  <l>तत्स्थानप्रोच्चनीचं च खल्लोत्तारं प्रकीर्तितम् ॥ ९७ ॥</l>
</lg>
<p>अथ स्वरादिकथनम् ।
2039
सामवेदात्स्वरा जाताः स्वरेभ्यो ग्रामसंभवः ।</p>
<lg>
  <l>ग्रामेभ्यो जातयो जाता जातिभ्यो रागसंभवः ।</l>
  <l>देशीरागास्त एवैते विख्याता देशरूढितः ॥ ९८ ॥</l>
</lg>
<p>2040</p>
<lg>
  <l>मामरागोद्भवा भाषा भाषाभ्यश्च विभाषिकाः ।</l>
  <l>विभाषाभ्योपि संजातास्तथैवान्तरभाषिकाः ॥ ९९ ॥</l>
</lg>
<pb n="319" />
<p>शार्ङ्गधरपद्धतिः
2041</p>
<lg>
  <l>सप्तस्वरायो ग्रामा मूर्च्छनास्त्वेकविंशतिः ।</l>
  <l>द्वाविंशतिश्च श्रुतय एतेभ्यो रागसंभवः ॥ १०० ॥</l>
</lg>
<p>2042</p>
<lg>
  <l>षडर्षभकगान्धारमध्यपञ्चमधैवताः ।</l>
  <l>निषादश्त्यमी सप्त तन्त्रीकण्डोत्थिताः स्वराः ॥ १०१ ॥</l>
</lg>
<p>2043
षड्जादयः स्वराः सप्त ग्रामौ च षडमध्यमौ ।
केचिद्गान्धारमप्याहुः स तु नेहास्ति भूतले ।॥ १०२ ॥
2044</p>
<lg>
  <l>चतुर्दशैव श्रुतयस्तावन्मात्राश्च मूर्छनाः ।</l>
  <l>गीयन्ते मानवैर्भूमावन्यास्तु त्रिदशालये ॥ १०३ ॥</l>
</lg>
<p>2045</p>
<lg>
  <l>स्वयं यो राजते नादः स स्वरः परिकीर्तितः ।</l>
  <l>स्त्ररैश्च निखिलं व्याप्तं तद्विज्ञेयं पृथक्पृथक् ॥ १०४॥</l>
</lg>
<p>2046</p>
<lg>
  <l>उच्चैर्निषादगान्धारौ नीचैर्ऋषभधैवतौ ।</l>
  <l>शेषास्तु स्वरिता ज्ञेयाः षड्डमध्यमपञ्चमाः ॥ १०५ ॥</l>
</lg>
<p>2047</p>
<lg>
  <l>षडुं वदेन्मयूरो हि ऋषभं चातको वदेत् ।</l>
  <l>अजा वदति गान्धारं कौत्रो वदति मध्यमम् ॥ १०६ ॥</l>
</lg>
<p>2048</p>
<lg>
  <l>पुष्पसाधारणे काले कोकिलः पञ्चमं वदेत् ।</l>
  <l>दर्दुरो धैवतं चैव निषादं च वदेद्गजः ॥ १०७ ॥</l>
</lg>
<p>2049</p>
<lg>
  <l>हास्यगृङ्गारयोः कार्यो स्वरौ पञ्चममध्यमौ ।</l>
  <l>षडुर्षभौ तथा ज्ञेयौ वीररौद्राद्भुते रसे ॥ १०८ ॥</l>
</lg>
<pb n="320" />
<p>गान्धर्वशास्त्रम्</p>
<lg>
  <l>2050</l>
  <l>गान्धारश्च निषादव कर्तव्यौ करुणारसे ।</l>
  <l>चैवतश्चैव कर्तव्यो नीभत्से सभयानके ॥ १०९ ॥</l>
  <l>०९ ॥</l>
</lg>
<p>2051</p>
<lg>
  <l>चतुःश्रुतिस्त्रिः श्रुतिश्च द्विः श्रुतिश्च चतुःश्रुतिः ।</l>
  <l>चतुःश्रुतित्विःश्रुतिश्च द्विःश्रुतिश्चेति ते स्वराः ॥ ११० ॥</l>
</lg>
<p>अथ षट्त्रिंशत्प्रवर्तकरागा उच्यन्ते ।
2052</p>
<lg>
  <l>भैरवः पञ्चमो नाटो मल्हारो गौडमालवः ।</l>
  <l>देशाखश्चेति षंडूागाः प्रोच्यन्ते लोकविश्रुताः ॥ १११ ॥</l>
</lg>
<p>2053</p>
<lg>
  <l>चङ्गपालो गुणकरी मध्यमादिर्वसन्तकः ।</l>
  <l>धनश्रीश्चेति पञ्चैते रागा भैरवसंश्रयाः ॥ ११२ ॥</l>
</lg>
<p>2054</p>
<lg>
  <l>ललित गुर्जरी देशी वराटी रामकृत्तथा ।</l>
  <l>मता रागार्ण रागाः पञ्चैते पञ्चमाश्रयाः ॥ ११३ ॥</l>
</lg>
<p>2055</p>
<lg>
  <l>नटनारायणः पूर्व गन्धारः सालगस्तथा ।</l>
  <l>ततः केदारकर्णाटो पञ्चैते नाटसंश्रयाः ॥ ११४ ॥</l>
</lg>
<p>2056</p>
<lg>
  <l>मेघो मल्लारिका मालकौशिकः प्रतिमञ्जरी ।</l>
  <l>आसावरी च पञ्चैते रागा मल्लारसंश्रयाः ॥ ११५ ॥</l>
</lg>
<p>2057</p>
<lg>
  <l>हिन्दोलस्त्रिगुणा धानी गौडी कोलाहलस्तथा ।</l>
  <l>गौडनामानं रागमाश्रित्य संश्रिताः ॥ ११६ ॥</l>
</lg>
<p>2058</p>
<lg>
  <l>भूपाली हरिपालय कामोदी धोरणिस्तथा ।</l>
  <l>विलावली च पञ्चैते रागा देशाखसंश्रयाः ॥ ११७ ॥</l>
</lg>
<pb n="321" />
<p>शार्ङ्गधरपद्धतिः
2059</p>
<lg>
  <l>अन्ये च बहवो रागा जाता देशविशेषतः ।</l>
  <l>मारूप्रभृतयो लोके ते व तद्देशिकाः स्मृताः ॥ ११८ ॥</l>
</lg>
<p>2060
रागांणां न तालानामन्तः</p>
<lg>
  <l>कुत्रापि विद्यते ।</l>
  <l>संतोषाय शिवस्यैते गेया बुधजनैः सदा ॥ ११९ ॥</l>
</lg>
<p>2061</p>
<lg>
  <l>यथा नयति कैलासं नगं गानसरस्वती ।</l>
  <l>तथा नयाते कैलासं न गङ्गा न सरस्वती ॥ १२० ॥</l>
</lg>
<p>अथ गणाः ।
2062</p>
<lg>
  <l>स्यरस्तजनगैर्लान्तैरेभिर्दशभिरक्षरैः ।</l>
  <l>समस्तं वाच्यं व्याप्तं त्रैलोक्यमित्र विष्णुना ॥ १२१ ॥</l>
</lg>
<p>2063</p>
<lg>
  <l>सानुस्वारो विसर्गान्तो दीर्घा युक्तपरच यः ।</l>
  <l>वा पादान्तस्त्वसौ ग्वको ज्ञेयोन्यो मातृको सृजुः ॥ १२२॥</l>
</lg>
<p>2064</p>
<lg>
  <l>मस्त्रिगुरुस्त्रिलघुच नकारो</l>
  <l>मादिगुरुस्तत आदिलघुर्यः ।</l>
  <l>जो गुरुमध्यगतो र लमध्यः</l>
  <l>सोन्तगुरु: कथितोन्तलघुस्तः ॥ १२३ ॥</l>
</lg>
<p>2065
मो भूमिः श्रियमातनोति य जलं वृद्धिं र वर्मृति
सो वायुः परदेशदूरगमनं त व्योम शून्यं फलम् ।
जः सूर्यो रुजमादधाति विपुलां मेन्दुर्यशो निर्मलं
नो नाकः मुखमच्युतं फलमिदं प्राहुर्गणानां पृथक्
॥१२४॥</p>
<pb n="322" />
<p>गान्धर्वशास्त्रम्
अथ वर्णमस्तारः ।
2066</p>
<lg>
  <l>पादे सर्वगुरावाद्याल्लघुं न्यस्य गुरोरधः ।</l>
  <l>यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥ १२५ ॥</l>
</lg>
<p>2067</p>
<lg>
  <l>ऊने दद्याद्गुरूनेव यावत्सर्वलघुर्भवेत् ।</l>
  <l>प्रस्तारोयं समाख्यात छन्दोविचितिवेदिभिः ॥ १२६ ॥</l>
</lg>
<p>अथ लघुगुरुपुतद्रुतलक्षणाने ।
2068</p>
<lg>
  <l>लघुः शुद्धो गुरुर्वक्र उभाभ्यां च प्लुतो भवेत् ।</l>
  <l>द्रुतस्तु बिन्दुरूपः स्यादिति सर्वत्र निश्चयः ॥ १२७ ॥</l>
</lg>
<p>2069</p>
<lg>
  <l>एकमात्रो लघुः प्रोक्तो द्विमात्रश्च गुरुः स्मृतः ।</l>
  <l>तस्त्रिमातृको ज्ञेयो द्रुतः स्यादर्घमातृकः ॥ १२८ ॥</l>
</lg>
<p>2070</p>
<lg>
  <l>लघोर्गुरोः प्लुतस्यापि भवेत्तालः पृथक्पृथक् ।</l>
  <l>मिलितानामपि भवेत्प्रस्तारस्तस्य कथ्यते ॥ १२९ ॥</l>
</lg>
<p>अथ तालप्रस्तारः ।
2071
ताले पादस्थिता मात्रा गणयेल्लघुरूपिकाः ।</p>
<lg>
  <l>।</l>
  <l>तावतीभिस्तु मात्राभिः प्रस्तारो निखिलो भवेत् ॥ १३ ॥</l>
</lg>
<p>2072</p>
<lg>
  <l>ताले पादस्थिते मूलादाद्याद्धीनमयो लिखेत् ।</l>
  <l>तच मध्याहूयं ज्ञेयं तत्पृष्ठे स्याद्यथोपरि ॥ १३१ ॥</l>
</lg>
<p>2073</p>
<lg>
  <l>मध्यं पृष्ठाश्रितैः सार्धं मात्राभिर्गणयेद्बुधः ।</l>
  <l>मध्यस्याये च विलिखेन्मात्राः पूरणहेतवे ॥ १३२ ॥</l>
</lg>
<pb n="323" />
<p>शार्ङ्गधरपद्धतिः
2074</p>
<lg>
  <l>पूरणाय विधिशेष पूर्व स्थूलास्ततः कृशाः ।</l>
  <l>बहुमत्रो भवेत्स्थूलस्ततो हीनः कृशो भवेत् ॥ १३३ ॥</l>
</lg>
<p>2075</p>
<lg>
  <l>द्रुतस्तु न भवेन्मूलमन्ये मूलाहूया मताः ।</l>
  <l>एवं पुनः पुनः कुर्याद्यावत्सर्वद्रुतो भवेत् ॥ १३४ ॥</l>
</lg>
<p>अथ संगीतलक्षणापहारः ।
2076</p>
<lg>
  <l>गीते वाद्ये च नृत्ये च शक्तिः साधारणो गुणः ।</l>
  <l>सा चेदस्ति किमन्येन दूषणेन गुणेन च ॥ १३५ ॥</l>
</lg>
<p>अथ गायनार्थमौषधानि कथ्यन्ते ।
2077</p>
<lg>
  <l>गुडूच्यपामार्गविडङ्गशङ्गिनी</l>
  <l>बचाभयाकुठशतावरीसमाः ।</l>
  <l>घृतेन लीढा: प्रकरोति मानवं</l>
  <l>त्रिभिर्दिनैर्गातसहस्रधारिणम् ॥ १३६ ॥</l>
</lg>
<p>2078</p>
<lg>
  <l>देवदालीदलोडूतरसो मधुघृतान्वितः ।</l>
  <l>गीतः पथ्याशिनः कुर्याद्गीने मुखरतां भृशम् ॥ १३७ ॥</l>
</lg>
<p>2079</p>
<lg>
  <l>बासा ब्राह्मी वचा कुष्ठं पिप्पली मधु सैन्धवम् ।</l>
  <l>सप्तरात्र प्रयोगेण किंनरैः सह गीयते ॥ १३८ ॥</l>
</lg>
<p>2080</p>
<lg>
  <l>वृद्धदारुकमूलं हि यो लिहेन्मधुसर्पिषा ।</l>
  <l>सप्ताहं क्षीरयूपाशी किंनरैः सह गीयते ॥ १३९ ॥</l>
</lg>
<lg>
  <l>2081</l>
  <l>बीजपूरदलं जातीपत्त्रं जम्बीरजं तथा ।</l>
  <l>एलाधान्याकलाजांच पिपल्या सह चूर्णयेत् ॥</l>
  <l>मधुना बावलीढं तु कण्ठं सुस्वरतां नयेत् ॥१४० ॥</l>
</lg>
<p>एते रागावाच्छन्दःशास्त्रेभ्य आयुर्वेदाच्च ।</p>
<pb n="324" />
<p>उपवनविनोद:
अथ वृक्षायुर्वेदः ॥ ८२ ॥
उपवनविनोदः ।
2082</p>
<lg>
  <l>पुंसां सर्वसुखैकसाधनफलाः सौन्दर्यगवदुर-</l>
  <l>क्रीडालोलविलासिनीजनमनः स्फीतप्रमोदावहाः ।</l>
  <l>गुञ्जद्भृङ्गविनिद्रपङ्कजभरस्फारोह सद्दीर्घिका-</l>
  <l>युक्ताः सन्ति गृहेषु यस्य विपुलारामाः स पृथ्वीपतिः ॥१॥</l>
</lg>
<p>2083</p>
<lg>
  <l>नवं वयो हारि वपुर्वराङ्गनाः</l>
  <l>सखा कलावित्कलवल्लकीस्वनः ।</l>
  <l>धनं हि सर्व विफलं सुखैषिणो</l>
  <l>विना विहारोपवनानि भूपतेः ॥ २ ॥</l>
</lg>
<p>2084</p>
<lg>
  <l>शास्त्राणि तावदवलोक्य मया मुनीना-</l>
  <l>मर्थः स एव गदितः परमार्थयुक्त्या ।</l>
  <l>एनं विलोक्य निखिलं च विचारयन्तः</l>
  <l>सन्तः स्वभावसरला मुदमाप्नुवन्तु ॥ ३ ॥</l>
</lg>
<p>अथ तरुमहिमा ।
2085</p>
<lg>
  <l>बहुभिर्बत किं जातैः पुत्रैर्धर्मार्थवर्जितैः ।</l>
  <l>वरमेकः पथि तरुर्यत्र विश्रमते जनः ॥ ४ ॥</l>
</lg>
<p>2086</p>
<lg>
  <l>दशकूपसमा वापी दशवापीसमो हृदः ।</l>
  <l>दशहदसमः पुत्रो दशपुत्रसमो द्रुमः ॥ ५ ॥</l>
</lg>
<p>2087</p>
<lg>
  <l>क्रीडारामं तु यः कुर्यादुद्दामफलसंयुतम् ।</l>
  <l>स गच्छेच्छंकरपुरं वसेत्तत्र युगत्रयम् ॥ ६ ॥</l>
</lg>
<pb n="325" />
<p>शार्ङ्गधरपद्धतिः
2088</p>
<lg>
  <l>एतत्सर्वं परिज्ञाय वृक्षारोप समारभेत् ।</l>
  <l>धर्मार्थकाममोक्षाणां दुमेभ्यः साधनं यतः ॥ ७ ॥</l>
</lg>
<p>2089</p>
<lg>
  <l>यावदिनानि तुलसी रोपिता यद्गृहे वसेत् ।</l>
  <l>तावद्वर्षसहस्राणि वैकुण्डे स महीयते ॥ ८ ॥</l>
</lg>
<p>2090</p>
<lg>
  <l>यस्तु संरोपयेद्विल्वं शंकरप्रीतिकारकम् ।</l>
  <l>तत्कुलेपि सदा लक्ष्मीः संतिठेत्पुत्रपौत्रिकी ॥ ९ ॥</l>
</lg>
<p>2091</p>
<lg>
  <l>एवमेव हि योश्वत्थं रोपयेद्विधिना नरः ।</l>
  <l>यत्र कुत्रापि वा स्थाने गच्छेत्स भवनं हरे: ॥ १० ॥</l>
</lg>
<p>2092</p>
<lg>
  <l>तेनेष्टा बहवो यज्ञास्तेन दत्ता वसुंधरा ।</l>
  <l>स सदा ब्रह्मचारी स्याद्येन धात्री प्ररोपिता ॥ ११ ॥</l>
</lg>
<p>2093</p>
<lg>
  <l>वटवृक्षद्वयं मर्त्यो रोपयेद्यो यथाविधि ।</l>
  <l>शिवलोके वसेत्सोपि सेवितस्त्वप्सरोगणैः ॥ १२ ॥</l>
</lg>
<p>2094</p>
<lg>
  <l>निम्बत्रयं समारोग्य नरो धर्मविचक्षणः ।</l>
  <l>सूर्यलोकं समासाद्य वसेददायुतत्रयम् ॥ १३ ॥</l>
</lg>
<p>2095</p>
<lg>
  <l>चतुर्णी लक्षवृक्षाणां रोपणान्नात्र संशयः ।</l>
  <l>राजस्यस्य यज्ञस्य फलं प्रामोति मानवः ॥ १४ ॥</l>
</lg>
<p>2096</p>
<lg>
  <l>पञ्चामान्रोयेस्तु मार्गेषूपवनेषु च ।</l>
  <l>भूतान्भविष्यान्पुरुषांस्तारयेत्स चतुर्दश ॥ १५ ॥</l>
</lg>
<pb n="326" />
<p>उपवनविनोद:
2097</p>
<lg>
  <l>शिरीषशाखिनां पण्णां यः कुर्यात्प्रतिरोपणम् ।</l>
  <l>गारुडं लोकमासाद्य मोदते देववत्सदा ॥ १६ ॥</l>
</lg>
<p>2098</p>
<lg>
  <l>पलाशशाखिनः सप्त रोपयेदेकमेव वा ।</l>
  <l>ब्रह्मलोकमवामोति पूज्यते चामरोत्तमः ॥ १७ ॥</l>
</lg>
<p>2099</p>
<lg>
  <l>उदुम्बरद्रुमानष्टौ रोपयेत्स्वयमेव यः ।</l>
  <l>प्रेरयेद्रोपणायापि चन्द्रलोके स मोदते ॥ १८ ॥</l>
</lg>
<p>2100</p>
<lg>
  <l>पार्वती तोपिता तेन स भवेच निरामयः ।</l>
  <l>पूजिता देवताः सर्वा मधूको येन रोपितः ॥ १९ ॥</l>
</lg>
<p>2101</p>
<lg>
  <l>क्षीरिकाकदलीद्राक्षाप्रियालपनसान्वितान् ।</l>
  <l>तरून्संरोप्य नो दुःखी जायते सप्तजन्मनु ॥ २० ॥</l>
</lg>
<p>2102</p>
<lg>
  <l>अज्ञानाज्ज्ञानतो वापि जम्बूर्येन प्ररोपिता ।</l>
  <l>गृहेपि स वसन्नित्यमतिधर्मेण युज्यते ॥ २१ ॥</l>
</lg>
<p>2103</p>
<lg>
  <l>अन्यानपि तरून्त्रोप्य फलपुष्पोपयोगिनः ।</l>
  <l>रधनुसहस्रस्य फलं प्रायोति मानवः ॥ २२ ॥</l>
</lg>
<p>2104</p>
<lg>
  <l>अश्वत्थमेकं पिचुमन्दमे कं</l>
  <l>न्ययोधमेकं दश चिञ्चिणीकाः ।</l>
  <l>कपित्थबिल्वामलकत्रयं च</l>
  <l>चावापी नरकं न पश्येत् ॥ २३ ॥</l>
</lg>
<pb n="327" />
<p>शार्ङ्गधरपद्धति:
अथ निवासासन्नतरुशुभाशुभलक्षणानि ।
2105
गृहस्य पूर्वदिग्भागे न्यग्रोधः सर्वकामिकः ।</p>
<lg>
  <l>उदुम्बरस्तथा याम्ये वारुण्यां पिप्पल: शुभः ।</l>
  <l>प्लक्षश्चोत्तरतो धन्यो विपरीतांस्तु वर्जयेत् ॥ २४ ॥</l>
</lg>
<p>2106</p>
<lg>
  <l>वर्जयेत्पूर्वतोश्वत्थं लक्षं दक्षिणतो गृहात् ।</l>
  <l>पश्चिमे चैव न्यग्रोधं तथोदुम्बरमुत्तरे ॥ २५ ॥</l>
</lg>
<p>2107</p>
<lg>
  <l>देवदानवगन्धवः किंनरोरगराक्षसाः ।</l>
  <l>पशुपक्षिमनुष्याश्च संश्रयन्ति सदा तरून् ॥ २६ ॥</l>
</lg>
<p>2108</p>
<lg>
  <l>सर्वेषां वृक्षजातीनां छाया वर्ज्या गृहे सदा ।</l>
  <l>अपि सौवर्णिकं वृक्षं गृहद्वारे न रोपयेत् ॥ २७ ॥</l>
</lg>
<p>2109</p>
<lg>
  <l>बदरी कदली चैव दाडिमी बीजपूरकम् ।</l>
  <l>प्ररोहति गृहे स्तन प्ररोहति ॥ २८ ॥</l>
</lg>
<p>2110</p>
<lg>
  <l>पलाशाः काञ्चनाराश्च तथा श्लेष्मातकार्जुनाः ।</l>
  <l>करायमी वृक्षा न रोप्या: सुखिना गृ॒हे ॥ २९ ॥</l>
</lg>
<p>2111</p>
<lg>
  <l>आसनाः कण्टकिनो रिपुभयदाः क्षोरिणोर्थनाशाय ।</l>
  <l>फलिन: प्रजाक्षयकरा दारुण्यपि वर्जयेत्तेषाम् ॥३० ॥</l>
</lg>
<p>2112
नीलीं हरिद्रां च नरः सदोत्वा
पुत्रैर्धनेच क्षयगस्युपेयात् ।</p>
<pb n="328" />
<p>उपवनविनोद'
एतास्तु सर्वाः स्वयमेव जोना-
श्छिन्द्यादृषीणां वचनाद्विधिज्ञः ॥ ३१ ॥
2113</p>
<lg>
  <l>न कुर्युर्याम्य नैर्ऋत्याने येष्वपि हि वाटिकाम् ।</l>
  <l>अन्यथा कलहोद्वेगौ कष्टं वा लभते भृशम् ॥ ३२॥</l>
</lg>
<p>2114</p>
<lg>
  <l>तस्माद्राज्ञां हि शुभदं पुत्रसंनिधिवर्धनम् ।</l>
  <l>पधिमोत्तर पूर्वेषु भवेदुपवनं कृतम् ॥ ३३ ॥</l>
</lg>
<p>अथ भूमिनिरूपणम् ।
2115</p>
<lg>
  <l>जाङ्गलांनूपंसामान्यस्वभावापि च मेदिनी ।</l>
  <l>भेदैः सा भिद्यते षड्भिर्वर्णतो रसतस्तथा ॥ ३४ ॥</l>
</lg>
<p>2116</p>
<lg>
  <l>असितविपाण्डुश्यामललोहित सितपीतरोचिषः क्रमशः ।</l>
  <l>मधुराम्ललवणतिक्त ककटुककषाया भुत्रो रसतः ॥ ३५ ॥</l>
</lg>
<p>2117</p>
<lg>
  <l>विषपाषाणवल्मी कबिलदुष्टा तथोषरा ।</l>
  <l>दूरोदका शर्करिला तरुभ्यो न हिता मही ॥ ३६॥</l>
</lg>
<p>2118</p>
<lg>
  <l>इन्द्रनील शुकपक्षकोमला</l>
  <l>शङ्खकुन्दकुमुदेन्दुसंनिभा ।</l>
  <l>ततकाञ्चन विकासिचम्पक-</l>
  <l>स्पर्धिनी वसुमती प्रास्यते ॥ ३७ ॥</l>
</lg>
<p>2119
समा समासन्नजला हरित तृणाङ्कुरा
1
तस्यां सर्वे यथास्थानं प्ररोहन्ति महीरुहाः ॥ ३८ ॥</p>
<pb n="329" />
<p>शार्ङ्गधरपद्धतिः
2120</p>
<lg>
  <l>न जाङ्गला न चानूपा भूमि: साधारणा शुभा ।</l>
  <l>तस्यां सर्वेपि तरवः परोहन्ति न संशयः ॥ ३९ ॥</l>
</lg>
<p>2121</p>
<lg>
  <l>पनसलकुचताली वंशजम्बीरजम्बू-</l>
  <l>तिलकवटकदम्बा म्रातखर्जूरपुगाः ।</l>
  <l>कदलितिनिशमृद्वीकेतकी नालिकेर-</l>
  <l>प्रभृतय इति चान्ये प्रायशोनूपजाः स्युः ॥ ४०॥</l>
</lg>
<p>2122</p>
<lg>
  <l>बीजपूरकपुंनागचम्पका श्रातिमुक्तकाः ।</l>
  <l>प्रियङ्गुदाडिमायाश्च साधारणसमुद्भवाः ॥ ४१ ॥</l>
</lg>
<p>2123</p>
<lg>
  <l>निधिदेवमहीपानां प्रभावाचातियत्नतः ।</l>
  <l>असात्म्यभूमिसंपन्ना अपि सिध्यन्ति पादपाः ॥ ४२ ॥</l>
</lg>
<p>अथ पादपविवक्षा ।
2124</p>
<lg>
  <l>वनस्पतिद्रुमलतागुल्मा: पादपजातयः ।</l>
  <l>बीजात्काण्डात्तथा कन्दात्तज्जन्म त्रिविधं विदुः ॥ ४३ ॥</l>
</lg>
<p>2125</p>
<lg>
  <l>ते वनस्पतयः प्रोक्ता विना पुष्पैः फलन्ति ये ।</l>
  <l>कुमाव ते निगदिताः सह पुष्पैः फलन्ति ये ॥ ४४ ॥</l>
</lg>
<p>2126</p>
<lg>
  <l>प्रसरन्ति प्रतानैर्यास्ता लताः परिकीर्तिताः ।</l>
  <l>बहुस्तम्बा विटपिनो ये ते गुल्माः प्रकीर्तिताः ॥ ४५ ॥</l>
</lg>
<p>2127
जम्बूचम्पक</p>
<lg>
  <l>पुंनागनागकेसरचिञ्चिणी ।</l>
  <l>कपित्थ बदरीविल्वकुम्भकारीप्रियङ्गवः ॥ ४६ ॥</l>
</lg>
<pb n="330" />
<p>उपवनविनोदः
2128</p>
<lg>
  <l>पनसाम्रमधूकाद्या करमर्दाश्च बीजजाः ।</l>
  <l>ताम्बूली सिन्दुवारश्च तगराव्याश्च काण्डजाः ॥ ४७ ॥</l>
</lg>
<p>2129</p>
<lg>
  <l>पाटलादाडिमीप्लक्षकरवीरवटादयः ।</l>
  <l>मलिकोदुम्बरः कुन्दो बीजकाण्डोद्भवा मताः ॥ ४८ ॥</l>
</lg>
<p>2130</p>
<lg>
  <l>कुङ्कुमार्द्ररसोनालुकन्दाः कन्दसमुद्भवाः ।</l>
  <l>एलापद्मोत्पलादीनि बीजकन्दोद्भवानि तु ॥ ४९ ॥</l>
</lg>
<p>अथ बीजोप्तिविधिः ।
2131</p>
<lg>
  <l>सम्यकृष्टे समे क्षेत्रे माषानुत्वा तिलांस्तथा ।</l>
  <l>सुनिष्पन्नानपनयेत्तत्र बीजोप्तिरिष्यते ॥ ५० ॥</l>
</lg>
<p>2132</p>
<lg>
  <l>अथर्तुपक्कात्फलतोवशोषिता-</l>
  <l>न्विकृष्य बीजं पयसा निषिच्य ।</l>
  <l>विशोषितं पञ्चदिनानि सर्पिषा</l>
  <l>विडङ्गमिश्रेण च धूपयेत्ततः ॥ ५१ ॥</l>
</lg>
<p>2133</p>
<lg>
  <l>क्षीरनिषिक्तं बीजं बृहतीतिलभस्मसर्पिषा लिप्तम् ।</l>
  <l>गोमयमृदितमथोप्तं सद्यो जायेत धूपितं वसया ॥ ५२ ॥</l>
</lg>
<p>2134</p>
<lg>
  <l>पयसि निषिक्तं बीजं गोमयपरिमर्दितं विशोष्य ततः ।</l>
  <l>माक्षिकविडङ्गचूर्णैर्बहुशो मृदितं प्रजायेत ॥ ५३ ॥</l>
</lg>
<p>2135</p>
<lg>
  <l>जम्बूपनसचूतानां सरलं लकुचस्य च ।</l>
  <l>क्षीरसिक्तं वपेद्वीजं घृतगोविभिडङ्गवत् ॥ ५४ ॥</l>
</lg>
<pb n="331" />
<p>शार्ङ्गधरपद्धतिः
2136</p>
<lg>
  <l>शुचि: स्नातो विभ्रइसनममलं पूजितमुरो</l>
  <l>गुरुं नत्वा दच्वा वमु वसुमतीं वा गुणवते ।</l>
  <l>स्वयं बीजान्यादौ वपति कतिचिवास्तुपुरुषं</l>
  <l>मनस्यन्तः कृत्वा तदनु परितोन्यः परिजनः ॥ ५५ ॥</l>
</lg>
<p>2137</p>
<lg>
  <l>बीजधानीं तृणास्तीर्णो कृत्वा सिञ्चेत्सयोम्बुना ।</l>
  <l>जाताङ्कुरां च सलिलैर्निस्तृणां शोषमानयेत् ॥ ५६ ॥</l>
</lg>
<p>अथ रोपणविधानम् ।
2138</p>
<lg>
  <l>अयथाविहितानां यन्मनोज्ञतासंपदौ न स्तः ।</l>
  <l>कथयाम्यतस्तरूणां रोपविधानं यथोद्दिष्टम् ॥ ५७ ॥</l>
</lg>
<p>2139</p>
<lg>
  <l>ध्रुवमृदुमूलविशाखा गुरुभं श्रवणस्तथाश्विनी हस्तः ।</l>
  <l>उक्तानि दिव्यदृग्भिः पादपसंरोपणे भानि ॥ ५८ ॥</l>
</lg>
<p>2140</p>
<lg>
  <l>हस्तप्रमाणान्पयसा मुसिक्का-</l>
  <l>न्संक्रामयेन्मूलवतः समृत्कान् ।</l>
  <l>सर्पिर्मधूशीरविडङ्गलिना-</l>
  <l>न्बिले निदध्याच्च करीषयुक्ते ॥ ५९ ॥</l>
</lg>
<p>2141
भवालुकाश्चक्ष्णमृदा पूरिते गर्तशोधनम् ।</p>
<lg>
  <l>कोदण्डार्धमिते खाते जलसिक्के वपेत्तरुम् ।</l>
  <l>कदलीक्षीरिणौ रोप्यौ मूले दत्वा तु गोमयम् ॥ ६० ॥</l>
</lg>
<p>2142
रम्भाया: सुपरिणतैः फलैर्विलिप्तां
संशुष्कां भुवि निहितां पलालरज्जुम् ।</p>
<pb n="332" />
<p>उपवनविनोद:
शुद्धायामुपरि तृणेन गाढगुप्ता-
मासिञ्चेदबहु जलैर्बहून्यहानि ॥ ६१ ॥
2143</p>
<lg>
  <l>सा रज्जुस्तदनु तमालनीलभासो</l>
  <l>बिभ्राणानरुणरुचोङ्कुरान्प्रतुते ।</l>
  <l>भूयस्तानुपचितपत्रकाण्डमूला-</l>
  <l>नारोप्य प्रथितविधानतो निषिञ्चेत् ॥ ६२ ॥</l>
</lg>
<p>2144</p>
<lg>
  <l>आषाढे आवणे मासि बीजावपनरोपणे ।</l>
  <l>ग्रीष्मादन्यत्र वल्लीनां केचिदिच्छन्ति रोपणम् ॥ ६३ ॥</l>
</lg>
<p>2145</p>
<lg>
  <l>मण्डपनन्यावर्त्तस्वस्तिकचतुरस्रसर्वतोभद्रैः ।</l>
  <l>वीथीनिकुञ्ज पुञ्जक विन्यासैः पादपा रोप्याः ॥ ६४ ॥</l>
</lg>
<p>2146
दशविंशतिषोडशभिस्तु करै-
रघरोत्तरमध्यकृतान्तरकान् ।
द्विचतुस्त्रिभिरन्तरितान्क्रमश-
स्तृणपादपगुल्मभृतश्च वपेत् ॥ ६५
2147</p>
<lg>
  <l>सान्द्ररोपणमवृद्धिकारणं</l>
  <l>वातभीतिरतिदूररोपणात् ।</l>
  <l>भिन्नवर्गरचनाल्पपीडना</l>
  <l>नैव युक्तिरियमेव शस्यते ॥ ६६ ॥</l>
</lg>
<p>2148
कुसुमं फलमप्युपभोगस हं
फलिनो हि न यस्य दलन्ति शिखाः ।</p>
<pb n="333" />
<p>शार्ङ्गधरपद्धति:
कुसुमेन विनैव फलन्ति च ये
न भवन्ति शुभास्त इहापनसाः ॥ ६७ ॥
2149</p>
<lg>
  <l>मातुलुङ्गरजनी सकण्टकः</l>
  <l>किंशुकश्च गिरिकर्णिका सिता ।</l>
  <l>तिन्तिडीकविफलाक्षनीलिका</l>
  <l>कोविदार इति भीतिदो गणः ॥ ६८ ॥</l>
</lg>
<p>2150</p>
<lg>
  <l>फलिन्य शो कपुंनाग शिरीषा निम्बचम्पका: ।</l>
  <l>मङ्गल्याः प्रथमं रोप्या भल्लातश्च गदापहः ॥ ६९ ॥</l>
</lg>
<p>2151</p>
<lg>
  <l>पूर्वस्यां करमदेवंशविटपाः पारावता दक्षिणे</l>
  <l>कौबेर्या बदरी कपित्थतरवो धात्री च पश्चाच्छिवा ।</l>
  <l>अन्ये चोत्तममध्यमाधमशिखा रोप्याः स्ववर्गैः समं</l>
  <l>कृत्वा चान्तरकं यथायथममी पचैरुपर्यस्पृशः ॥ ७० ॥</l>
</lg>
<p>अथ निषेचनविधिः ।
2152</p>
<lg>
  <l>सर्वस्यापि नवोप्तस्य सायंप्रातर्निषेचनम् ।</l>
  <l>शीतातपसमीरेभ्यो रक्षेच सुविधानतः ॥ ७१ ॥</l>
</lg>
<p>2153</p>
<lg>
  <l>हेमन्ते शिशिरे देयं जलं चैकान्तरे दिने ।</l>
  <l>वसन्ते प्रत्यहं ग्रीष्मे सायंप्रातर्निषेचनम् ॥ ७२ ॥</l>
</lg>
<p>2154</p>
<lg>
  <l>वर्षासु च शरत्काले यदा वृष्टिर्न दृश्यते ।</l>
  <l>तदा देयं जलं तज्ज्ञैरालवाले महीरुहाम् ॥ ७३ ॥</l>
</lg>
<pb n="334" />
<p>उपवनविनोदः
2155</p>
<lg>
  <l>वारिणा यावता यस्य मूले सौहित्यमिष्यते ।</l>
  <l>तावत्तस्य तरोदेयं किं घटार्थविवक्षया ॥ ७४ ॥</l>
</lg>
<p>2156</p>
<lg>
  <l>आलवांले स्थितं तोयं शोषं न भजते यदा ।</l>
  <l>अजीर्ण तद्विजानीयान्न देयं तादृशे जलम् ॥ ७५ ॥</l>
</lg>
<p>2157</p>
<lg>
  <l>समीपजातं यत्नेन तृणगुल्मलतादिकम् ।</l>
  <l>स्फोटनीयं विधिज्ञेन द्रुमाणां वृद्धिमिच्छता ॥ ७६ ॥</l>
</lg>
<p>अथ द्रुमरक्षा ।
2158</p>
<lg>
  <l>नीहाराच्चण्डवाताच धूमाद्वैश्वानरादपि ।</l>
  <l>जालकारात्प्रयत्नेन रक्षणीयाः क्षमारुहाः ॥ ७७ ॥</l>
</lg>
<p>2159</p>
<lg>
  <l>स</l>
  <l>पङ्क्तिमध्ये तु सुफला बाह्ये तत्परतोपरे ।</l>
  <l>वृक्षाः कार्या युता वृत्या सा चापि परिखायुता ॥ ७८ ॥</l>
  <l>॥</l>
</lg>
<p>2160
विद्युदाहतवृक्षस्य भूतिमादाय सर्वतः ।</p>
<lg>
  <l>रक्षार्थ विकिरेदेषां तया न हिमबाधनम् ।</l>
  <l>दीप्तोप्यग्निः शमं याति वचदग्धद्रुभस्मना ॥ ७९ ॥</l>
</lg>
<p>2161</p>
<lg>
  <l>सितशाल्योदनं दना सैन्धवेन युतं वने ।</l>
  <l>क्षेपणीयं च परितो गराणां वृष्टिवारणम् ॥८० ॥</l>
</lg>
<p>2162</p>
<lg>
  <l>शलभाखुपतङ्गानां पिपील्यादेर्भये सति ।</l>
  <l>अष्टोत्तरशतं जहवा मन्त्रं पत्रे ततो लिखेत् ॥ ८१ ॥</l>
</lg>
<pb n="335" />
<p>शार्ङ्गधरपद्धतिः
मन्लः । ॐ स्वस्ति किष्किन्धास्थितप्रकट पराक्रमान्तर्हितार्कमण्ड-
लोपजीवितस्य श्रीहनूमानाज्ञापयति मूषकपतङ्गापपीलिका-
शलभकर भान्बक कीटगन्धिकानिब हैर्न स्थातव्यम् । आज्ञाम-
तिक्रममाणस्य शरीरनिग्रहः समावर्तयति । तस्य वानरसिंहस्य
क्रममाणस्य सागरम् । कक्षान्तरगतो वायुर्जीमूत इव नर्दीत
॥ हुं फट् नमः ॥
2163</p>
<lg>
  <l>पत्रे मनुं समालिख्य जत्वा तं निखनेद्भुत्रि ।</l>
  <l>क्षेत्रे कीटपतङ्काखुपिपील्यादिविनश्यति ॥ ८२ ॥</l>
</lg>
<p>अयोपवनप्रक्रिया ।
2164</p>
<lg>
  <l>घनप्रवालस्थगितातपानि</l>
  <l>विकीर्णपुष्पाणि समीरणेन ।</l>
  <l>गृहाणि कुर्यादतिमुक्तकानां</l>
  <l>लताभिरालोलमधुव्रताभिः ॥ ८३ ॥</l>
</lg>
<p>2165</p>
<lg>
  <l>स्थानेष्वपरेषु तथा पादपयुगलेषु मिथुनसंवाह्याः ।</l>
  <l>शाखावलम्बिनीभिर्दोलाः कार्या लताभिश्च ॥ ८४ ॥</l>
</lg>
<p>2166</p>
<lg>
  <l>तरुविटपलता निकुञ्ज रम्या</l>
  <l>विरचितकंदर सानुगण्डशैला ।</l>
  <l>विविधमणिगुहा विचित्रधातुः</l>
  <l>क्वचिदपि पर्वतिका विहारहेतुः ॥ ८५ ॥</l>
</lg>
<p>2167</p>
<lg>
  <l>के कानिनादसुभगाः सदासंत्रासिताहयः ।</l>
  <l>ताण्डवेन तदुद्देशान्मण्डयन्ति शिखण्डिनः ॥ ८६ ॥</l>
</lg>
<pb n="336" />
<p>उपवनविनोद :
2168
मन्त्रः । विलम्बिनो यत्र तटद्रुमा वपु -
विलोकयन्ति प्रसवेक्षणैरिव ।
समं दिशन्तः कलहंसभूषणा
काचेद्भवेत्पुष्करिणी मनोरमा ॥ ८७ ॥
2169</p>
<lg>
  <l>निर्याद: सलिलां सुखावतरणां तीरेषु पुष्पद्रुमां</l>
  <l>कूजद्दक्षविहंगमां सतरणी मल्यायतां दीर्घिकाम् ।</l>
  <l>कुर्यात्तत्र समुल्लसत्कमलिनीपचाङ्कुरदयामलां</l>
  <l>श्यामालोचन मलिकांवित नीलोपलानि कचित् ॥८८॥</l>
</lg>
<p>2170</p>
<lg>
  <l>उपवनमिव वारिमध्यमग्नं</l>
  <l>विमलतया प्रतिबिम्बितं दधाना ।</l>
  <l>शशिकरनिकरेण पूरितेव</l>
  <l>क्वचिदुपनेयपयाः सुखाय वापी ॥ ८९ ॥</l>
</lg>
<p>2171</p>
<lg>
  <l>मध्ये तस्मिञ्शिशिरशिखरिस्पर्वि वेश्म प्रवातं</l>
  <l>गृढोपान्तं सुरभिकुसुमैः शाखिभिर्नस्रशाखैः ।</l>
  <l>स्थाने स्थाने स्फटिकधवलं मण्डपं मण्डनाई</l>
  <l>कुर्यात्कस्मिन्नपि च कदलीमन्दिर मन्दवायु ॥ ९० ॥</l>
</lg>
<p>2172</p>
<lg>
  <l>क्वचिदपि कृपं कुर्यादुपवनदेशे मुमृटसलिलभरम् ।</l>
  <l>संसिक्कसकलविटपं बद्धं पाषाणसंचयैः परितः ॥ ९१ ॥</l>
</lg>
<p>2173</p>
<lg>
  <l>अञ्जनमुस्तोशीरैः सनागकोशातकामलकचूर्णैः ।</l>
  <l>कनकफलसमायुक्त: कूपे योगः प्रदातव्यः ॥ ९२ ॥</l>
</lg>
<pb n="337" />
<p>शार्ङ्गधरपद्धतिः
2174</p>
<lg>
  <l>कलुषं कटुकं लवणं विरसं</l>
  <l>सलिलं यदि वाशुभगन्धि भवेत् ।</l>
  <l>तदनेन भवत्यमलं सुरसं</l>
  <l>ससुगन्धि गुणैरपरैश्च युतम् ॥ १३ ॥</l>
</lg>
<p>अथ कूपायें भूमिपरीक्षा ।
2175</p>
<lg>
  <l>पातालादूर्ध्वगमाः शिराः प्रसर्पन्ति सर्वतो दिक्षु ।</l>
  <l>नीरस्य भूमिमध्ये जात्वा ताः कल्पयेत्कूपम् ॥ ९४ ॥</l>
</lg>
<p>2176</p>
<lg>
  <l>यदि वेतसोम्बुरहिते देशे हस्तैस्त्रिभिस्ततः पश्चात् ।</l>
  <l>सार्वे पुरुषे तोयं वहति शिरा पश्चिमा तत्र ॥ ९५ ॥</l>
</lg>
<p>2177</p>
<lg>
  <l>चिह्नमपि वार्धपुरुषे मण्डूकः पाण्डुरो हि मृत्पीता ।</l>
  <l>पुटभेदकश्च तस्मिन्पाषाणे भवति बहुतोयः ॥ ९६ ॥</l>
</lg>
<p>2178</p>
<lg>
  <l>जम्बूवृक्षस्य प्राग्वल्मीको यदि भवेत्समीपस्थ: ।</l>
  <l>तस्मादक्षिणपसलिलं पुरुषद्वये साधु ॥ ९७ ॥</l>
</lg>
<p>2179</p>
<lg>
  <l>अर्धपुरुषे च मत्स्यः पारावतसंनिभश्च पाषाणः ।</l>
  <l>मृद्भवति तत्र नीला दीर्घ कालं च बहुतोयम् ॥ ९८ ॥</l>
</lg>
<p>2180</p>
<lg>
  <l>बल्मीकोपमिनायां निर्गुण्डयां दक्षिणे करत्रयोन्माने ।</l>
  <l>पुरुषद्वयेन पादे भवति जलं स्वादु चाशोष्यम् ॥ ९९ ॥</l>
</lg>
<lg>
  <l>2181</l>
  <l>रोहित मत्स्योर्धनरे मृत्कपिला पाण्डुरा ततः परतः ।</l>
  <l>सिकताश्च शर्कराच क्रमेण परतो भवत्यम्भः ॥ १०</l>
  <l>००॥</l>
</lg>
<pb n="338" />
<p>उपवनविनोद:
2182</p>
<lg>
  <l>पूर्वेण यादे बदर्या वल्मीको दृश्यते जलं पश्चात् ।</l>
  <l>पुरुषैस्त्रिभिरादेश्यं श्वेता गृहगोधिकार्धनरे ॥ १०१ ॥</l>
</lg>
<p>2183</p>
<lg>
  <l>सफला वा बदरी चेहिश्यपरस्यां जलं ततो भवति ।</l>
  <l>पुरुषत्रये सपादे भवति परं दुन्दुभेश्चिह्नम् ॥ १०२ ॥</l>
</lg>
<p>2184</p>
<lg>
  <l>का कोदुम्बारकायां वल्मीको दृश्यते शिरा तस्मिन् ।</l>
  <l>पुरुषत्रये सपादे पश्चिमदिक्स्था च सा वहति ॥ १०३ ॥</l>
</lg>
<p>2185</p>
<lg>
  <l>आपाण्डुरा च मृत्स्ना गोरसवर्णश्च भवति पाषाणः ।</l>
  <l>पुरुषार्धे कुमुदनिभो दृष्टिपथं मूषको याति ॥ १०४ ॥</l>
</lg>
<p>2186</p>
<lg>
  <l>आसन्नो वल्मीको दक्षिणपार्श्वे विभीतस्य ।</l>
  <l>अध्यर्षे भवति शिरा पुरुषे ज्ञेया दिशि प्राच्याम् ॥१०५ ॥</l>
</lg>
<p>2187</p>
<lg>
  <l>तस्यैव पश्चिमायां वल्मीको यदि भवेद्धस्ते ।</l>
  <l>तत्रोदग्भवति शिरा चतुर्भिरर्धाधिकैः पुरुषैः ॥ १०६ ॥</l>
</lg>
<p>2188</p>
<lg>
  <l>श्वेतो विश्वंभरकः प्रथमे पुरुषे तु कुङ्कुमाभोइमा ।</l>
  <l>अपरस्यां दिशि च शिरा नश्यति वर्षत्रयेतीते ॥ १०७ ॥</l>
</lg>
<p>2189</p>
<lg>
  <l>सकुश: सित एतस्यां वल्मीको यत्र कोविदारस्य ।</l>
  <l>मध्ये तयोर्नरैरर्धपञ्चमैस्तोयमक्षोभ्यम् ॥ १०८ ॥</l>
</lg>
<p>2190</p>
<lg>
  <l>प्रथमपुरुषे भुजंग: कमलोदरसंनिभा मही रक्ता ।</l>
  <l>कुरुविन्दक पाषाणा चिह्नान्येतानि वाच्यानि ॥ १०९ ॥</l>
</lg>
<pb n="339" />
<p>शार्ङ्गधरपद्धतिः
2191</p>
<lg>
  <l>सर्वेषां वृक्षाणामधःस्थितं दर्दुरं यदा पश्येत् ।</l>
  <l>तस्माद्धस्ते तोयं चतुर्भिरर्धाधिकैः पुरुषैः ॥ ११० ॥</l>
</lg>
<p>2192</p>
<lg>
  <l>उत्तरतथ मधूकादहिनिलयः पश्चिमोत्तरे तोयम् ।</l>
  <l>परिहत्य पञ्चहस्तानर्धाष्टमपौरुषं वाच्यम् ॥ १११ ॥</l>
</lg>
<p>2193</p>
<lg>
  <l>अहिराजः पुरुषेस्मिन्धूम्रा धात्री कुलत्थवर्णोदमा ।</l>
  <l>माहेन्द्री वहति शिरा भवति सफेनं सदा तोयम् ॥११२॥</l>
</lg>
<p>2194</p>
<lg>
  <l>सर्पावासः पश्चाद्यदा कदम्बस्य दक्षिणेन जलम् ।</l>
  <l>पुरतो हस्तत्रितयात्षभिः पुरुषैस्तुरीयोनैः ॥ ११३ ॥</l>
</lg>
<p>2195</p>
<lg>
  <l>वल्मीकसंवृतो यदि तालो वा भवति नालिकेरी वा ।</l>
  <l>पश्चात्षभिर्हस्तैर्नरैश्चतुर्भिः शिरा यस्य ॥ ११४ ॥</l>
</lg>
<p>2196</p>
<lg>
  <l>अमातकस्य वामे बदरी वा दृश्यतेहिनिलयो वा ।</l>
  <l>षड्भिरुदग्वास्य करैः सार्धे पुरुषत्रये तोयम् ॥ ११५ ॥</l>
</lg>
<p>2197</p>
<lg>
  <l>कूर्मः प्रथमे पुरुषे पाषाणो धूसर : ससिकता मृद् ।</l>
  <l>आदौ शिरा च याम्यां पूर्वोत्तर तो द्वितीया च ॥ ११६ ॥</l>
</lg>
<p>2198</p>
<lg>
  <l>जलरहिते यदि देशे चिह्नान्यनूपजानि दृश्यन्ते ।</l>
  <l>वीरणदूर्वा हरिता यत्र हि तस्मिञ्जलं पुरुषे ॥ ११७ ॥</l>
</lg>
<p>2199</p>
<lg>
  <l>तिलका श्रातक वरुणकमल्लातकबिल्वतिन्दुकाङ्कोला: ।</l>
  <l>पिण्डीरशिरीषाञ्जनपरूषका वञ्जुलातिबलाः ॥ ११८ ॥</l>
</lg>
<pb n="340" />
<p>उपवनविनोद:
2200</p>
<lg>
  <l>एतैर्यदि सुनिग्धैर्वल्मीकैः परिवृतास्ततस्तोयम् ।</l>
  <l>हस्तैस्त्रिभिरुत्तरतश्चतुर्भिरर्धेन च नरस्य ॥ ११९ ॥</l>
</lg>
<p>2201
:</p>
<lg>
  <l>अतृणे सतॄणा यस्मिन्सतृणे तृणवर्जिता मही यत्र ।</l>
  <l>तस्मिञ्शिरा प्रदिष्टा वक्तव्यं वा धनं तत्र ॥ १२० ॥</l>
</lg>
<p>2202</p>
<lg>
  <l>कण्टक्यकण्टकानां व्यत्यासेम्भस्त्रिभिः करै: पश्चात् ।</l>
  <l>खात्वा पुरुषत्रितयं त्रिभागयुक्तं धनं वा स्यात् ॥ १२१ ॥</l>
</lg>
<p>2203</p>
<lg>
  <l>वृक्षस्यैका शाखा यदि विनता भवति पाण्डुरा वा स्यात् ।</l>
  <l>विज्ञातव्यं शाखाग्रतले नीरं त्रिपुरुषं तु ॥ १२२ ॥</l>
</lg>
<p>2204
फलकुसुमविकारो यस्य तस्य पूर्वे शिरा त्रिभिर्हस्तैः ।
भवति पुरुषैश्चतुर्भिः पाषाणाधः क्षितिः पीता । १२३ ॥
2205</p>
<lg>
  <l>यदि कण्टकहीना स्यानिदिग्धिका शुभ्रपुष्पसंयुक्ता ।</l>
  <l>तस्यास्तलेम्बु वाच्यं त्रिभिर्नरैरर्धपुरुषे वा ॥ १२४ ॥</l>
</lg>
<p>2206</p>
<lg>
  <l>खर्जूरी द्विशिरस्का यत्र भवेज्जलविवर्जिते देशे ।</l>
  <l>तस्याः पश्चिमभागे निर्देइयं त्रिपूरुषैर्वारि ॥ १२५ ॥</l>
</lg>
<p>2207</p>
<lg>
  <l>यदि भवति कर्णिकार: सितकुसुम: स्यात्पलाशवृक्षो वा ।</l>
  <l>सव्येन तत्र हस्तइयेम्बु पुरुषत्रये भवति ॥ १२६ ॥</l>
</lg>
<p>2208</p>
<lg>
  <l>ऊष्मा यस्यां धात्र्यां धूमो वा तत्र वारि नरयुगले ।</l>
  <l>निर्देष्टव्या च शिरा महता वारिप्रवाहेण ॥ १२७ ॥</l>
</lg>
<pb n="341" />
<p>शार्ङ्गधरपद्धतिः
2209
यस्मिन्क्षेत्रोद्देशे जातं शस्यं विनाशमुपयाति ।
स्निग्धमतिपाण्डुरं वा महाशिरा नरयुगे तत्र ॥ १२८ ।'
2210</p>
<lg>
  <l>मरुदेशे भवति शिरा यथा तथातः परं प्रवक्ष्यामि ।</l>
  <l>ग्रीवा करभाणामिव भूतलसंस्था शिरा याति ॥ १२९ ॥</l>
</lg>
<p>2211</p>
<lg>
  <l>पूर्वोत्तरेण पीलोर्यदि वल्मीको जलं भवति पश्चात् ।</l>
  <l>उत्तरगमना च शिरा विज्ञेया पञ्चभिः पुरुषैः ॥ १३० ॥</l>
</lg>
<p>2212</p>
<lg>
  <l>चिह्नं दर्दुर आदौ मृत्कपिला तत्परं भवेद्धरिता ।</l>
  <l>भवति च पुरुषे वादमा तस्य तले वारि निर्देइयम् ॥१३१॥</l>
</lg>
<p>2213</p>
<lg>
  <l>बदरीरोहितवृक्षौ संपृक्तौ चेहिनापि वल्मीकात् ।</l>
  <l>हस्तत्रयेम्बु पश्चात्षोडशभिर्मानवैर्भवति ॥ १३२ ॥</l>
</lg>
<p>2214</p>
<lg>
  <l>सुरसं जलमादौ दक्षिणे शिरा वहति चोत्तरेणान्या ।</l>
  <l>पिष्टनिभः पाषाणो मृच्छ्रेता वृश्चिकोर्धनरे ॥ १३३ ॥</l>
</lg>
<p>2215</p>
<lg>
  <l>सकरीरा चेद्वदरी त्रिभिः करैः पश्चिमेन तत्राम्भः ।</l>
  <l>अष्टादशभिः पुरुषैरेशानी बहुजला च शिरा ॥ १३४ ॥</l>
</lg>
<p>2216</p>
<lg>
  <l>ककुम करीरावेकत्र संयुतौ ककुभबिल्वौ वा ।</l>
  <l>हस्तत्रयेम्बु पश्चानरैर्भवत्येकविंशत्या ॥ १३५ ॥</l>
</lg>
<p>2217</p>
<lg>
  <l>वल्मीकमूर्धनि यदा दूर्वा दर्भाच पाण्डुराः सन्ति ।</l>
  <l>कृपो मध्ये देयो जलमत्र नरैकविंशत्या ॥ १३६ ॥</l>
</lg>
<pb n="342" />
<p>उपवन विनोद:
2218</p>
<lg>
  <l>ग्रन्थिप्रचुरा यस्मिञ्शमी भवेदुत्तरेण वल्मीकः ।</l>
  <l>पश्चात्पञ्चकरान्ते शतार्धसंख्यैर्नरैः सलिलम् ॥ १३७ ॥</l>
</lg>
<p>2219</p>
<lg>
  <l>जम्बू त्रिवृता श्यामा शिशुमारी शारिवा शिवा दूर्वा ।</l>
  <l>वीरुधयो वाराही ज्योतिष्मती गरुडवेगा च ॥ १३८ ॥</l>
</lg>
<p>2220</p>
<lg>
  <l>सूकरिका माषलता व्याघ्रपदा चेति यद्यहेर्निलये ।</l>
  <l>वल्मीकादुत्तरतः करैस्त्रिपुरुषागतं तोयम् ॥ १३९ ॥</l>
</lg>
<p>2221</p>
<lg>
  <l>एतदनूपे वाच्यं जाङ्गलभूमौ च पञ्चभिः पुरुषैः ।</l>
  <l>एतैरेव निमित्तैर्मरुभूमावष्टभिः कथयेत् ॥ १४० ॥</l>
</lg>
<p>2222</p>
<lg>
  <l>एकनिभा यत्र मही तृणतरुवल्मीकगुल्मपरिहीना ।</l>
  <l>तस्यां यत्र विकारो भवति धरित्र्यां जलं तत्र ॥ १४१ ॥</l>
</lg>
<p>2223</p>
<lg>
  <l>हस्तो मघानुराधापुष्यधनिष्ठोत्तराच रोहिण्यः ।</l>
  <l>शतभिषगित्यारम्भे कूपानां शस्यते भगणः ॥ १४२ ॥</l>
</lg>
<p>2224</p>
<lg>
  <l>आये यदि कोणे ग्रामस्य पुरस्य वा भवति कूपः ।</l>
  <l>नित्यं स करोति भयं दाहं च समानुषं प्रायः ॥ १४३ ॥</l>
</lg>
<p>2225</p>
<lg>
  <l>नैर्कतकोणे बालक्षयं च वनिताक्षयं च वायव्ये ।</l>
  <l>दिश्यैशान्यां भीतिः शेषास्तु शुभावहा: कूपाः ॥ १४४ ॥</l>
</lg>
<p>2226
या मेदिनी काशकुशैव युक्ता
नीला च मृद्यत्र सशर्करा त्र ।</p>
<pb n="343" />
<p>शार्ङ्गधरपद्धतिः
तस्यां प्रणीतं सुरसं च तोयं
कृष्णाथवा यत्र च तिक्कमृत्स्ना ॥ १४५ ॥
2227</p>
<lg>
  <l>सशर्करामात मही कषायं</l>
  <l>क्षारं धरित्री कपिला करोति ।</l>
  <l>आपाण्डुरायां लवणं प्रदिष्ट-</l>
  <l>मिष्टं पयो नीलवसुंधरायाम् ॥१४६ ॥</l>
</lg>
<p>अथ पोषणविधिः ।
2228</p>
<lg>
  <l>फलकुसुमसंपदुचिता रोपणतो भवति केवलान्न यतः ।</l>
  <l>पोषणविधिमथ संमतमनोकहानामतो वक्ष्ये ॥ १४७ ॥</l>
</lg>
<p>2229</p>
<lg>
  <l>खर्जूरविल्वलकुचाः सितसर्षपेण</l>
  <l>पिण्याकतच तुषवारिवशेन चाम्राः ।</l>
  <l>ऐरावता निचुलपत्रजलोक्षणेन</l>
  <l>सत्रीहिमांससलिलेन च यान्ति वृद्धिम् ॥ १४८ ॥</l>
</lg>
<p>2230</p>
<lg>
  <l>प्राचीनामलकतरोः प्रिया हि माषा:</l>
  <l>क्षीराम्भो हितमिह बालतिन्दुकानाम् ।</l>
  <l>प्रीयन्ते यवरजसा च नालिकेराः</l>
  <l>सर्वेषां भवति रुचिर्हि निम्नभूमौ ॥ १४९ ॥</l>
</lg>
<p>2231
कुरङ्गकिटिसारङ्गशृगालाश्वादिमेदसा ।</p>
<lg>
  <l>कथितेन सदुग्धेन पञ्चपल्लववारिणा ।</l>
  <l>कृतसेको भवेदाशु सहकारोतिसौरभः ॥ १५० ॥</l>
</lg>
<p>2232
घृतकुणपवचावराहविष्ठा-
सालेलमतीव सुखाय दाडिमानाम् ।</p>
<pb n="344" />
<p>22
उपवनविनोदः
कथितमथ कुलत्थचूर्णकं वा
जलमपि वृद्धिकरं सदा शफर्याः ॥ १५१ ॥
2233</p>
<lg>
  <l>यस्त्रिफलाशफरी घृतलिप्मो</l>
  <l>धूपित आद्यफलत्रयधूपैः ।</l>
  <l>आमफलैरिह दाडिमशाखी</l>
  <l>तालफलानि विडम्बयतीव ॥ १५२ ॥</l>
</lg>
<p>2234</p>
<lg>
  <l>दधिमस्तुकाञ्जिकसुराबदरी-</l>
  <l>तिलमेथिकाकुणपसीधुपयः ।</l>
  <l>फलिनीकदम्बकरिकेसरका-</l>
  <l>कुरुते सुगन्धिबहुपुष्पयुतान् ॥ ६५३ ॥</l>
</lg>
<p>2235</p>
<lg>
  <l>प्रियङ्गगुञ्जाफलनिम्बपिप्पली-</l>
  <l>व चाहरिद्रातिल सर्षपैः समैः ।</l>
  <l>घृताश्वकर्णाम्बु विलोद्य पायये-</l>
  <l>त्सचम्पके नागतरौ सुवृद्धिदम् ॥ १५४ ॥</l>
</lg>
<p>2236</p>
<lg>
  <l>सिक्ताम्भोभिः पललतुषयोः कुक्कुटानां पुरीषं</l>
  <l>मूले दवा सकुसुमफला गोस्तनी वृद्धिमेति ।</l>
  <l>स्कन्धन्यस्तैः पनसतरवोप्याशु पालालभारै-</l>
  <l>र्मूलादयं दधति च वचावारिसिक्ताः फलानि ॥ १५५ ॥</l>
</lg>
<p>2237</p>
<lg>
  <l>सर्पिर्गुडक्षीरमधूपचारं</l>
  <l>दत्त्वा निषिक्तौ च कपित्थबिल्वौ ।</l>
  <l>पीयूषकल्पान्यतिमांसलानि</l>
  <l>फलान्यनस्थीनि सदा दधाते ॥ १५६ ॥</l>
</lg>
<pb n="345" />
<p>शार्ङ्गधरपद्धतिः
2238</p>
<lg>
  <l>कोशातकी दलाशेफाकथितामिषाम्भ:-</l>
  <l>संसेचनाच्च सुकणारजसा च युक्तः ।</l>
  <l>लब्धोपचारमथ धूपंजलाभिषिक्तः</l>
  <l>शोभां विभति नितरां कुसुमैर्मधूकः ॥ १५७ ॥</l>
</lg>
<p>2239</p>
<lg>
  <l>तिल यष्टिमधुक मधुभिमिश्रितजलसेकतर्पिता बदरी ।</l>
  <l>कुणपैरुपचितमूला फलति फलं शर्करामधुरम् ॥ १५८ ॥</l>
</lg>
<p>2240</p>
<lg>
  <l>अजैडकास्करत्रिविडङ्ग-</l>
  <l>किण्वोपचारेण च बीजपूरः ।</l>
  <l>भूयोश्वमूत्राविलवारिसिक्तः</l>
  <l>फलानि धत्ते सुबहूनि शश्वत् ॥ १५९ ॥</l>
</lg>
<p>2241</p>
<lg>
  <l>वृश्चिककण्टकविद्धाः सुरभीघृतधूपिता हि निखिललता: ।</l>
  <l>मूषकक्रोलवसाभिः संसिक्ताः म्यु: फलैर्नम्राः ॥ १६० ॥</l>
</lg>
<p>2242</p>
<lg>
  <l>सुरभिजलनिषेकतो निदाघे</l>
  <l>कुणपजलेन च केतकी निषिक्ता ।</l>
  <l>जलधर समये सुगन्ध सूची-</l>
  <l>चयनिचितानि बिभर्ति पद्धवानि ॥ १६१ ॥</l>
</lg>
<p>2243</p>
<lg>
  <l>यस्य कस्यापि पुष्पस्य सौरभेणाधिवासितान् ।</l>
  <l>मृत्तिकाशकलान्मूले वृक्षाणां बहलाक्षिपेत् ॥ १६२. ॥</l>
</lg>
<p>2244
कुष्ठपत्रसुरामुस्तात गरोशीर</p>
<lg>
  <l>चूर्णकैः ।</l>
  <l>मिश्रितेनाम्भसा सेकान्मासं सौरभसंभवः ॥ १६३ ॥</l>
</lg>
<pb n="346" />
<p>उपवनविनोदः
2245</p>
<lg>
  <l>कुलमाषदन्तिदन्तानां चूर्णयुक्पङ्कसंभवा ।</l>
  <l>प्रत्यहं पुष्पिताम्भोजमण्डिता पद्मिनी भवेत् ॥ १६४ ॥</l>
</lg>
<p>2246</p>
<lg>
  <l>सिद्धार्थ: कदलीदलानि शफरी विट्रोलमार्जारयो-</l>
  <l>रेतेषां समभागमाज्यसहितं चूर्ण तरुभ्यो हितम् ।</l>
  <l>दत्तं धूपविलेपनोपचरणैराप्यायनं रोगह-</l>
  <l>च्छाखा: पल्लवयत्यलं मधुकरव्यालोलपुष्पच्छदाः ॥ १६५ ॥</l>
</lg>
<p>2247</p>
<lg>
  <l>धूपो घृतस्य समृदो यववारिसेको</l>
  <l>नित्यं च दुग्धसलिलैः कुणपाम्बुभिर्वा ।</l>
  <l>लेपो विडङ्गतिलकल्ककृतः शिशूनां</l>
  <l>वृद्धिं करोति परमां खलु भूरुहाणाम् ॥ १६६ ॥</l>
</lg>
<p>2248</p>
<lg>
  <l>अङ्कोल्लकायतोयेन मिश्रितं घृतमाक्षिकम् ।</l>
  <l>वसा किटिकुरङ्गाणामेतैः सिक्का महीरुहाः ॥ १६७ ॥</l>
</lg>
<p>2249</p>
<lg>
  <l>सिद्धार्थकफलोपेताः सर्वदा फलशोभिताः ।</l>
  <l>जायन्ते पुष्पपत्राद्याः सच्छाया रोगवर्जिताः ॥ १६८ ॥</l>
</lg>
<p>2250</p>
<lg>
  <l>यष्टीमधूकपुष्पाणि सिता कुष्ठं समाक्षिकम् ।</l>
  <l>निक्षिप्य गुलिकाः कृत्वा मूले सर्वत्र निक्षिपेत् ॥ १६९ ॥</l>
</lg>
<p>2251</p>
<lg>
  <l>दुग्धसेकं च वृक्षस्य यस्य कुर्याद्विचक्षणः ।</l>
  <l>फलं सुनिश्चितं तस्य मधुरं जायते भृशम् ॥ ॥ १७० ॥</l>
</lg>
<p>अथ कुणपजलम् ।
2252</p>
<lg>
  <l>कुरङ्गकिटिमत्स्यानां मेषच्छागलखड़िनाम् ।</l>
  <l>मांसं ग्राह्यं यथालाभं मेदोमज्जावसास्तथा ॥ १७१ ॥</l>
</lg>
<pb n="347" />
<p>शार्ङ्गधरपद्धतिः
2253</p>
<lg>
  <l>तान्सर्वानेकतः कृत्वा वह्नौ नीरेण पाचयेत् ।</l>
  <l>संपकं हि क्षिपेद्भाण्डे तत्र दुग्धं च निक्षिपेत् ॥ १७२ ॥</l>
</lg>
<p>2254</p>
<lg>
  <l>चूर्णीकृत्य खलिर्देया तिलानां माक्षिकं तथा ।</l>
  <l>स्विन्नांश्च सरसान्माषांस्तत्र दद्याद्वृतं तथा ॥ १७३ ॥</l>
</lg>
<p>2255
उष्णं जलं क्षिपेत्तत्र मात्रा नास्तीह कस्यचित् ।</p>
<lg>
  <l>पक्षकं स्थापिते भाण्डे कोष्णस्थाने मनीषिणा ।</l>
  <l>कुणपस्तु भवेदेव तरूणां पुष्टिकारकः ॥ १७४ ॥</l>
</lg>
<p>अथ तरुचिकित्सा ।
2256</p>
<lg>
  <l>नराणामिव वृक्षाणां वातपित्तकफागदाः ।</l>
  <l>संभवन्ति निरूप्यातः कुर्यात्तदोषनाशनम् ॥ १७५ ॥</l>
</lg>
<p>2257</p>
<lg>
  <l>कीटजग्धेनिसंपुष्टे वातभने शनिक्षते ।</l>
  <l>वृक्ष छेदोपचारादिपीडिते च पृथक्रिया ॥ १७६ ॥</l>
</lg>
<p>2258</p>
<lg>
  <l>कृशो दीर्घौ लघु रूक्षो निद्राहीनोल्पचेतनः ।</l>
  <l>न धत्ते फलपुष्पाणि वातप्रकृतिकस्तरुः ॥ १७७ ॥</l>
</lg>
<p>2259</p>
<lg>
  <l>आतपासहनः पाण्डुः शाखाहीनो मुहुर्यदि ।</l>
  <l>अकालफलपाकी स्याच्छाखी पित्तात्मकः कृशः ॥ १७८ ॥</l>
</lg>
<p>2260</p>
<lg>
  <l>स्निग्धशाखादल: शाखी सम्यक्पुष्पफलोज्ज्वलः ।</l>
  <l>लतापरीतगात्रस्तु कफवान्परिमण्डलः ॥ १७९ ॥</l>
</lg>
<pb n="348" />
<p>उपवनविनोद:
2261</p>
<lg>
  <l>कटुतिक्तकषायर सैः पवनः पित्तं कटूष्णलवणाम्लैः ।</l>
  <l>स्निग्धमधुराम्ललवणैः श्लेष्मा कोपं प्रयाति तरोः ॥ १८० ॥</l>
</lg>
<p>2262
सुस्निग्धैः पिशितरसैः प्रयाति वातः</p>
<lg>
  <l>:</l>
  <l>मुस्निग्धैर्मधुरहिमैर्जलैश्च पित्तम् ।</l>
  <l>कटुम्लैरहिमजलैः कषाय रूक्षैः</l>
  <l>श्लेष्मापि क्रमविहितैः प्रयाति नाशम् ॥ १८१ ॥</l>
</lg>
<p>2263</p>
<lg>
  <l>रौक्ष्यं ग्रन्थिः कुटिलता वातावृक्षस्य जायते ।</l>
  <l>गोविड्लोधवसाकुणपजलैस्तज्जयो भवेत् ॥ १८२॥</l>
</lg>
<p>2264</p>
<lg>
  <l>दोषैर्यस्य विना प्रवालकुसुमम्लानिर्विरूढं वपु-</l>
  <l>र्मूले तस्य तरोर्भवन्ति कृमयो यत्नाच्च तानुद्धरेत् ।</l>
  <l>गोमूत्राज्यविडङ्गसर्षपतिलैर्लिप्त: प्रन टैस्ततः</l>
  <l>सिक्तः क्षीरजलैरुदेति सहसा धूपैश्च धूपायितः ॥ १८३ ॥</l>
</lg>
<p>2265</p>
<lg>
  <l>करारग्वधारिष्टसमपर्णत्व चांकृतः ।</l>
  <l>उपचार: क्रिमिहरो मूत्रमुस्तविडङ्गवान् ॥ १८४ ॥</l>
</lg>
<p>2266</p>
<lg>
  <l>कुणपजलपयोनिषिक्तमूलः</l>
  <l>सरसिजकन्दविलिप्तसर्वगात्रः ।</l>
  <l>तरुरनलहतो बिभर्ति भूयो</l>
  <l>मरकतरङ्गहरिन्ति पद्धवानि ॥ १८५ ॥</l>
</lg>
<p>2287
प्रक्षा दुम्बरत्वग्घृतमधुमधुरोच्छिष्टदुग्धैर्विलितः
स्तम्भैरुत्तम्भ्य रज्ज्वा परिकलितवपुः पूरितः लक्षमृद्भिः ।</p>
<pb n="349" />
<p>शार्ङ्गधरपद्धतिः
सिक्तः क्षीरेण भूयो जलभरिततलञ्चण्डवातादिभमः
स्वस्थो भूत्वाङ्गिपायी कुसुमफलभर इण्यातनोति प्रकामम् ॥१८६॥
2268</p>
<lg>
  <l>वृक्षस्या शनिदग्धस्य जीवनं श्रृणु भेषजम् ।</l>
  <l>घनोशीरमधूकैश्च मुद्रा माषा यवास्तिलाः ॥ १८७ ॥</l>
</lg>
<p>2269</p>
<lg>
  <l>पिष्टाः क्षीराम्बुसंयुक्तः सेचयेत्तमभीक्ष्णशः ।</l>
  <l>स सेकाप्यायितः शीघ्रं प्रकृतिस्थो भविष्यति ॥ १८८ ॥</l>
</lg>
<p>2270</p>
<lg>
  <l>जनयित्वा फलकुसुमं यः पुनरुपयाति वन्ध्यतां शाखी ।</l>
  <l>स क्षीरैः कुणपजलैर्भूयः सिक्तः फलव्येव ॥ १८९ ॥</l>
</lg>
<p>2271</p>
<lg>
  <l>असे कतो त्यन्त निषेकतश्च</l>
  <l>शाखाविशोषं फलिनो निरूप्य ।</l>
  <l>सप्ताहमात्रं गृतमेव सर्पि-</l>
  <l>विडङ्गदुग्धाम्बु निषेचनीयम् ॥ १९० ॥</l>
</lg>
<p>2272</p>
<lg>
  <l>उन्निद्रता मत्स्यसगन्धिता च</l>
  <l>प्रवालहानिः सपिपीलिकात्वम् ।</l>
  <l>त्वग्भ्रंशनाद्वारिकृतादजीर्णा-</l>
  <l>त्तरोर्भवेत्तत्र चिकित्सनीयम् ॥ १९१ ॥</l>
</lg>
<p>2273</p>
<lg>
  <l>तन्मूलशूलं परशुप्रहारै-</l>
  <l>विस्रावितं दोषरसं निहत्य ।</l>
  <l>क्षौद्राज्यजन्तुन्नतिलैः प्रलिप्नं</l>
  <l>मृत्पूरितं दुग्धजलैर्निषिश्चेत् ॥ १९२ ॥</l>
</lg>
<p>2274</p>
<lg>
  <l>शर्करातिलगोक्षीरवारिसेकात्तथा तरीः ।</l>
  <l>शोषः शाम्यति वृक्षस्य लेपधूपोपचारतः ॥ १९३ ॥</l>
</lg>
<pb n="350" />
<p>उपवन विनोदः
2275</p>
<lg>
  <l>प्रियङ्गुवरकर्कारीवेतसार्जुनवल्कलैः ।</l>
  <l>क्षीरसिद्धैर्विलिमानां स्रावः शाम्यति शाखिनाम् ॥ १९४ ॥</l>
</lg>
<p>अथ विचित्रकरणम् ।
2276</p>
<lg>
  <l>वृक्षायुर्वेदफलं मनोहरं शास्त्रतः सिद्धम् ।</l>
  <l>नानाविधानचित्रं चित्रीकरणं प्रवक्ष्यामि ॥ १९५ ॥</l>
</lg>
<p>2277</p>
<lg>
  <l>सुरभिसुमनोलब्धामोदां निधाय च मृत्तिकां</l>
  <l>धत्रखदिरयोः काथाम्भोभिः सुगन्धिभिरुक्षणात् ।</l>
  <l>मलयजरजोले पाडूपवतस्य च भूरुहां</l>
  <l>व्रजति कुसुमं निर्गन्धानामतीव सुगन्धताम् ॥ १९६ ॥</l>
</lg>
<p>2278</p>
<lg>
  <l>यत्रतिलनिशापलाशैरुपचितमूला तदम्बुसिक्ता च ।</l>
  <l>ज्वलदनलोपममसकृत्कर्पासी तूलकं सूते ॥ १९७ ॥</l>
</lg>
<p>2279</p>
<lg>
  <l>शाल्मलीत्वग्निशानीलीत्रिफलाकुष्ठसीधुभिः ।</l>
  <l>सकृल्ले पोपचारेण शुकपक्षनिभं भवेत् ॥ १९८ ॥</l>
</lg>
<p>2280</p>
<lg>
  <l>मञ्जिष्ठातिलयवपीतसारसारै-</l>
  <l>जीवन्तीदल सहितैर्मनः शिलाजैः ।</l>
  <l>गोजाविप्रचुरपयःशृतैर्विलिता</l>
  <l>कर्पासी प्रसवति तूलकं खनीलम् ॥ १९९ ॥</l>
</lg>
<p>2281</p>
<lg>
  <l>संपक्केक्षुर सविदारिकन्दक विलिप्तमूलभागस्य ।</l>
  <l>सिक्तम्येक्षुरसेन च तरोरकाले भवेत्कुसुमम् ॥ २०० ॥</l>
</lg>
<p>2282</p>
<lg>
  <l>तिलखलिविडङ्गगोमयविलोोडितेक्षुर ससेचितस्य तरोः ।</l>
  <l>फलकुसुममकालभवं मनोहरं फलति लोकस्य ॥ २०१ ॥</l>
</lg>
<pb n="351" />
<p>शार्ङ्गधरपद्धतिः
2283</p>
<lg>
  <l>मधुयष्टिसिताकुष्ठमधुपुष्पविनिर्मितेः ।</l>
  <l>मोदकैयादिते मूले निरस्थि स्यात्फलं तरोः ॥ २०२ ॥</l>
</lg>
<p>2284</p>
<lg>
  <l>मधुककुसुमगुजा शर्करोदुम्बराज्यं</l>
  <l>समधु निहितमन्तः काण्डमुत्कीर्य बड्डा ।</l>
  <l>उपरि च परिलिप्तं वत्सविद्भिस्तरूणां</l>
  <l>जनयति फलमेतत्स्वादु सेकादनस्थि ॥ २०३ ॥</l>
</lg>
<p>2285
तत्काल निहतस्योच्चैश्छागस्य स्कन्धचर्मणा ।
बद्धायां वृक्षशाखायां फलपाको न जायते । २०४ ॥
2286</p>
<lg>
  <l>करि वर मृदितवली मुखनल कैर्मूलेषु कीलितस्य तरोः ।</l>
  <l>संवत्सरं च यावत्फलितस्य फलानि जायन्ते ॥ २०५ ॥</l>
</lg>
<p>2287</p>
<lg>
  <l>बजा चर्मतृणाभ्यां विडङ्गमधुदुग्धलेपितोल्लिख्य ।</l>
  <l>शाखा पयोम्बुसेकाच्चिरमपि पकं फलं धत्ते ॥ २०६॥</l>
</lg>
<p>2288
मोन कोलवसामांसदुग्धसेकेन धूपतः ।
सर्वबीजानि सावर्यमुत्तिष्ठन्ति फलन्ति च । २०७ ॥
2289</p>
<lg>
  <l>अङ्कोल्लतैलस्कर शिशुमारवसासु भावित बीजम् ।</l>
  <l>सद्यो रोहति निहितं भूमौ करकाम्भसा सिक्तम् ॥२०८॥</l>
</lg>
<p>2290</p>
<lg>
  <l>बीजमानादिवृक्षाणां पकं मीनफलाम्बुनि ।</l>
  <l>अङ्कोल्लतैलदुग्धाज्ये निहितं बृहती भवेत् ॥ २०९ ॥</l>
</lg>
<p>2291</p>
<lg>
  <l>भस्मन्यामेलितं शुष्क मुप्तमुद्भिद्यते सह ।</l>
  <l>फलेनाशेषलोकस्य कृतकौतुकमञ्जसा ॥ २१० ॥</l>
</lg>
<pb n="352" />
<p>उपवनविनोदः
2292</p>
<lg>
  <l>एकविंशतिवारेण कुक्कुटस्यासृजोक्षितम् ।</l>
  <l>तत्क्षणाद्दाडिमीबीजं वर्धते फलति ध्रुवम् ॥ २११ ॥</l>
</lg>
<p>2293</p>
<lg>
  <l>मत्स्यकोलवसामांसचणकक्षारभावितम् ।</l>
  <l>यस्य कस्यापि वा बीजं ध्रुवं पुष्पफलं भवेत् ॥ २१२ ॥</l>
</lg>
<p>2294</p>
<lg>
  <l>स्कन्धतः समन्ततः सूकरास्थिभिर्दृढम् ।</l>
  <l>कीलितो न संशयं नाशमेत्यनोकहः ॥ २१३ ॥</l>
</lg>
<p>2295</p>
<lg>
  <l>कुलत्थक्काथतोयेन तरुः पुष्पफलं त्यजेत् ।</l>
  <l>किंशुकार्जुनतर्कारीलवणाम्बूक्षणेन च ॥ २१४ ॥</l>
</lg>
<p>2296</p>
<lg>
  <l>नानावर्णैर्घटितं कन्दं कुमुदस्य सूत्रसंघटितम् ।</l>
  <l>घृतमधुविलिप्तमुप्तं सूते कुसुमं तथावर्णम् ॥ २१५ ॥</l>
</lg>
<p>2297</p>
<lg>
  <l>माहिषकरीष मंत्रैर्मृदित विशुष्कं दिनानि यत्सप्त ।</l>
  <l>कुमुदफलबीजमुप्तं जनयति करवीरविटपं तत् ॥ २१६ ॥</l>
</lg>
<p>2298</p>
<lg>
  <l>कूष्माण्डवार्ताकपटोलकादि-</l>
  <l>बीजं वसाभावितमुप्तसिक्तम् ।</l>
  <l>विशोधितायां भुवि सर्वकाल</l>
  <l>फलान्यनस्थीनि महान्ति धत्ते ॥ २१७ ॥</l>
</lg>
<p>2299</p>
<lg>
  <l>वार्ताकबीजं घृतमाक्षिकार्क-</l>
  <l>विशोषितं गोमयलिप्तरन्ध्रे ।</l>
  <l>बालस्य कूष्माण्डफलस्य तमं</l>
  <l>पक्का गृहीतं फलितं महत्स्यात् ॥ २१८ ॥</l>
</lg>
<pb n="353" />
<p>शार्ङ्गधरपद्धतिः
2300</p>
<lg>
  <l>मन्दारकुमरन्ध्रे या कौष्माण्डी निर्गता लता ।</l>
  <l>मृद्रोमयवृते तस्मिन्सिक्ते फलति सा सदा ॥ २१९ ॥</l>
</lg>
<p>2301</p>
<lg>
  <l>सूकरासृग्वसासिक्क मङ्गोलतैलभावितम् ।</l>
  <l>एरण्डबीजं कारञ्जीफलं तेतिकौतुकम् ॥ २२० ॥</l>
</lg>
<p>2302</p>
<lg>
  <l>खरतुरगविग्निवेशिततापितया या शलाकया मूले ।</l>
  <l>तिर्यग्विद्धा कदली फलति फलं करिकराकारम् ॥२२१॥</l>
</lg>
<p>2303
कोलशोणित</p>
<lg>
  <l>मेदोभ्यामकोल्लकथितेन च ।</l>
  <l>सिञ्चिता कदली सूते दाडिमीफलमुत्तमम् ॥ २२२ ॥</l>
</lg>
<p>2304</p>
<lg>
  <l>नरमांसवसारक्तदन्तिदन्तविचूर्णितैः ।</l>
  <l>भिसा सिक्का रम्भा चूतफला भवेत् ॥ २२३ ॥</l>
</lg>
<p>2305</p>
<lg>
  <l>अङ्कोल्लक्कथितं स्विन्नं नृमांसं छागदुग्धयुक् ।</l>
  <l>पिण्याकसहितं मूले सहकारस्य निक्षिपेत् ॥ २२४ ॥</l>
</lg>
<p>2306</p>
<lg>
  <l>द्राक्षावल्लीसमाकारः सहकारः सदाफलः ।</l>
  <l>जायते निश्चितं धत्ते सर्वेषामद्भुतं यदि ॥ २२५ ॥</l>
</lg>
<p>2307</p>
<lg>
  <l>शशकूर्मासृग्मध्ये बहुभावितमाम्रजं बीजम् ।</l>
  <l>रूढं सिक्तं दुग्धैः फलति फलं सर्वकालेषु ॥ २२६ ॥</l>
</lg>
<p>2308
कृमिरिपुयवयष्टीमधुगुडदुग्धविलेपनेन निम्बतरुः
भवति जलदुग्धसिक्तः स्वभावतिक्तोपि मधुरफलः ॥२२७॥</p>
<pb n="354" />
<p>उपवनविनोद:
2309</p>
<lg>
  <l>बीजं नरपलाङ्कोल्लतैलस्विन्नं शुभं सदा ।</l>
  <l>उद्गच्छति मृदा पूर्णमम्भः सिक्तं करे क्षणात् ॥ २२८ ॥</l>
</lg>
<p>2310</p>
<lg>
  <l>अङ्कोलतैलभावितमुषितं गोशकृति कुमुदकन्दमलम् ।</l>
  <l>करकाम्बुकर्दमभूते कलशे कुसुमं समुद्रहति ॥ २२९ ॥</l>
</lg>
<p>2311</p>
<lg>
  <l>गोकोलास्थिकरीषैस्तु दग्धे गर्ते विशोधिते ।</l>
  <l>उप्तं च वालुकापूर्ण मूलकं गर्तवद्भवेत् ॥ २३० ॥</l>
</lg>
<p>2312</p>
<lg>
  <l>इष्टकचिते समन्तात्पुरुष निखातेवटे तरुर्जातः ।</l>
  <l>वामन एव हि धत्ते फलकुसुमं सर्वकालमिति ॥ २३१ ॥</l>
</lg>
<p>अथान्नादिनिष्पत्तिज्ञानम् ।
2313</p>
<lg>
  <l>फलकुसुमपत्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम् ।</l>
  <l>सुलभत्वं द्रव्याणां निष्पत्तिश्चापि सस्यानाम् ॥ २३२ ॥</l>
</lg>
<p>2314</p>
<lg>
  <l>न्ययोधेन तु यत्रकास्तिन्दुकवृद्धया च षष्टिको भवति ।</l>
  <l>अश्वत्थेन ज्ञेया निष्पत्ति: सर्वसस्यानाम् ॥ २३३ ॥</l>
</lg>
<p>2315</p>
<lg>
  <l>जम्बूभिः स्थलमाषा: शिरीषवृद्धया च मुद्द्रनिष्पत्तिः ।</l>
  <l>गोधूमाश्च मधूकैर्यववृद्धिः सप्तपर्णेन ॥ २३४ ॥</l>
</lg>
<p>2316</p>
<lg>
  <l>करिणश्च हस्तिकर्णैर्निर्देइया वाजिनोश्व कर्णेन ।</l>
  <l>गावश्च पाटलाभिः कदलीभिरजाविकं भवति ॥ २३५ ॥</l>
</lg>
<p>2317</p>
<lg>
  <l>आम्रैः क्षेमं भल्लातकैर्भयं पीलुभिस्तथारोग्यम् ।</l>
  <l>खदिर शमीभ्यां दुर्भिक्ष मर्जुनै: शोभना वृष्टिः ॥ २३६ ॥</l>
</lg>
<pb n="355" />
<p>शाधरपद्धतिः
2318</p>
<lg>
  <l>पिचुमन्दनागकुसुमैः सुभिक्षमथ मारुतः कपित्थेन ।</l>
  <l>निचुलेनावृष्टिभयं व्याधिभयं भवति कुटजेन ॥ २३७ ॥</l>
</lg>
<lg>
  <l>एते नानावृक्षायुर्वेदशास्त्रेभ्यः ।</l>
  <l>अथ शकुनज्ञानम् ॥ ८३ ॥</l>
</lg>
<p>2319</p>
<lg>
  <l>दृष्ट्वा शास्त्रसमूहाननुभवसिद्धिं च लोकतः कृत्वा ।</l>
  <l>आरभ्यते मयेदं शकुनज्ञानं सतामर्थे ॥ १ ॥</l>
</lg>
<p>2320</p>
<lg>
  <l>ये जन्मादिशुभाशुभं विवृणते कालावधि प्राणिनां</l>
  <l>यैर्याप्तं निखिलं जगत्रयमिदं येभ्यो विना किंचन ।</l>
  <l>ज्ञानं भूतभविष्यमा विविषयं विज्ञायते न स्फुटं</l>
  <l>विश्वोन्मेषकरा जयन्ति शकुना अभ्यासभास्वत्प्रभाः ॥ २ ॥</l>
</lg>
<p>2321</p>
<lg>
  <l>लाभं हानिं विदधति मुदं दुःखमेकान्तरौद्र-</l>
  <l>मायुर्घ मरणमथवा सर्वकामार्थसिद्धिम् ।</l>
  <l>ये संग्रामे विजयमतुलं भङ्गदा ये च वक्तुं</l>
  <l>तेषां भावं क इह शकुनानां प्रगल्भोस्ति मर्त्यः ॥ ३ ॥</l>
</lg>
<p>अथ शकुनविवृतिः ।
2322</p>
<lg>
  <l>त्रिविधमिह भवति शकुनं क्षैत्रिक मागन्तु जाकिं चान्यत् ।</l>
  <l>कृत्वाधिवासनाद्यं यदीक्ष्यते क्षैत्रिकं तत्स्यात् ॥ ४ ॥</l>
</lg>
<p>2323</p>
<lg>
  <l>स्थानस्थानां शकुनं यदि कस्माद्दिग्विभागतो भवति ।</l>
  <l>शान्तप्रदीप्रभेदा व्यक्तफलं प्रथितमागन्तु ॥५॥</l>
</lg>
<p>2324</p>
<lg>
  <l>सव्यापसव्यसंमुखपृष्ठेषु ग्राम्यवन्यसत्त्वानाम् ।</l>
  <l>शकुनं स्वरगतिचेष्टाभावैः पथिक नाम ॥ ६ ॥</l>
</lg>
<pb n="356" />
<p>शकुनज्ञानम्
2325</p>
<lg>
  <l>पोतकी पिङ्गला काको जम्बुकी भषणस्तथा ।</l>
  <l>पञ्चैतान्युत्तमान्याहुः शकुनानि मुनीश्वराः ॥ ७ ॥</l>
</lg>
<p>2326</p>
<lg>
  <l>चत्वारि प्राक्तनान्याहुर्दुर्विज्ञेयानि तत्त्वतः ।</l>
  <l>सुबोधो भषणस्तेषु तेन पूर्व स कथ्यते ॥ ८ ॥</l>
</lg>
<p>2327</p>
<lg>
  <l>पृच्छाशकुनं वच्मि श्वानं मुक्त्तात्र नान्यसवस्य ।</l>
  <l>प्रकटं सुलभं च यतो नैवंविधमस्ति किंचिदपि ॥ ९ ॥</l>
</lg>
<p>अथ क्षैत्रिकशकुनम् ।
2328</p>
<lg>
  <l>अथोच्यते श्वानरुतस्य सारं</l>
  <l>सारं समस्तेष्वपि शाकुनेषु ।</l>
  <l>विस्पष्टचेष्टं शुभलक्षणं च</l>
  <l>शुभाशुभं प्राक्तनकर्मपाकम् ॥ १० ॥</l>
</lg>
<p>2329</p>
<lg>
  <l>विमर्शक: शाकुनशास्त्रदक्षो</l>
  <l>विशुद्धबुद्धिः सतताभियुक्तः ।</l>
  <l>यथार्थवादी शुचिरिङ्गितज्ञो</l>
  <l>भवेदिहाचार्य पदाधिकारी ॥ ११ ॥</l>
</lg>
<p>2330</p>
<lg>
  <l>श्वश्वानमल्नुभषणाः कौलेयककपिलजागरूकाथ ।</l>
  <l>मण्डलकुकुरयक्षाः शुनक: सरमासुतस्याहाः ॥ १२ ॥</l>
</lg>
<p>2331</p>
<lg>
  <l>वेता द्विजाः क्षत्रियकाश्च रक्ताः</l>
  <l>पीताश्च वैश्या असिताश्च शूद्राः ।</l>
  <l>विमिश्रवर्णाः शुनकास्तथेह</l>
  <l>भवन्ति नानाविधकारुसंज्ञाः ॥ १३ ॥</l>
</lg>
<pb n="357" />
<p>शार्ङ्गधरपद्धतिः
2332</p>
<lg>
  <l>स्वस्वजातेस्तु पृच्छायां प्रष्टव्या इति केचन ।</l>
  <l>सत्यं ब्रूते यथा कृष्णस्तथान्ये न मुनेर्मतम् ॥ १४ ॥</l>
</lg>
<p>2333</p>
<lg>
  <l>आचार्यमानीय शुभेह्नि कार्य</l>
  <l>पैष्टं श्वयुग्मं शुचिरर्चयित्वा ।</l>
  <l>क्षीरेण भोज्यं भषणस्य तुष्ट्यै</l>
  <l>दद्यात्कुमारीशिशुबान्धवेभ्यः ॥ १५ ॥</l>
</lg>
<p>2334</p>
<lg>
  <l>सर्वाङ्गकृष्णः परिपूर्णकायः</l>
  <l>शान्तो विरोगस्तरुणो बलिष्ठः ।</l>
  <l>अवामभागानतपुच्छचेष्टो</l>
  <l>बिभर्ति शुद्रो नखविंशतिं यः ॥ १६ ॥</l>
</lg>
<p>2335</p>
<lg>
  <l>तं सारमेयं पुरुषोधिवास्य</l>
  <l>विश्वास्य धृत्वा नपयेद्दिनान्ते ।</l>
  <l>शुक्लाम्बरस्तां रजनीं व्रती स्या-</l>
  <l>द्यत्नेन कुर्यात्सकलं समन्त्रम् ॥ १७ ॥</l>
</lg>
<p>अधिवासनम् ।
2336
मन्त्रः । ॐ भुनकोत्तमास्मिन्कर्मणि मया
धिवासितोसि सत्यं ब्रूहि स्वाहा ।
इत्यात्महस्तं शुनकस्य शिरसि धृत्वाभिमन्त्रयेत् ।
2337</p>
<lg>
  <l>ततः प्रभाते नवगोमयेन</l>
  <l>त्रिहस्तमात्रं चतुरस्रकं च ।</l>
  <l>शुचौ मनोज्ञे विजने विदध्या-</l>
  <l>द्धरातले मण्डलकं विशुद्धे ॥ १८ ॥</l>
</lg>
<pb n="358" />
<p>शकुनज्ञानम्
2338</p>
<lg>
  <l>गौर इन्द्रोरुणो वहिर्यमः क्रव्याच्च मेचकौ ।</l>
  <l>शुभ्रः पाशी च हरितो वायुश्चित्रो धनेश्वरः ॥ १९ ॥</l>
</lg>
<p>2339</p>
<lg>
  <l>विशदः शम्भुरित्येते कार्या अष्टदलाम्बुजे ।</l>
  <l>पिष्टातकमयाः सर्वे निजकाष्ठां समाश्रिताः ॥ २० ॥</l>
</lg>
<p>2340</p>
<lg>
  <l>पृष्ट्वाचार्य तु तत्पूजां कुर्यात्पुष्पादिभिस्तथा ।</l>
  <l>प्रणवाद्यैर्न मोन्तैश्च मन्त्रैस्तन्नामनिर्मितैः ॥ २१ ॥</l>
</lg>
<p>2341</p>
<lg>
  <l>यक्षोर्चनीयो विधिनात्र मध्ये</l>
  <l>पैष्टं श्वयुग्मं च ततः कुमार्या ।</l>
  <l>पक्केन देयश्वरुणोपहारै-</l>
  <l>घृतप्नुतोभ्यर्चितदेवताभ्यः ॥ २२ ॥</l>
</lg>
<p>2342</p>
<lg>
  <l>हविः समुद्धृत्य चरोस्तथान्य-</l>
  <l>कुर्याच्च पिण्डं शुनकार्थमंत्र ।</l>
  <l>ततस्तु पूजां विदधीत मध्ये</l>
  <l>यक्षस्य मन्त्रैर्निखिलैरमीभिः ॥ २३ ॥</l>
</lg>
<p>2343
मन्त्राः । ॐ मण्डलाय स्वाहा । इति चन्दनम् ।
ॐ भल्नुकाय स्वाहा । इति पुष्पम् ।
ॐ कपिलाय स्वाहा । इत्यक्षतान् ।
ॐ यक्षाय स्वाहा । इति धूपम् ।
ॐ विनते स्वाहा । इति दीपम् ।
ॐ ऋतुकालाभिगामिने स्वाहा । इति फलम् ।</p>
<pb n="359" />
<p>शार्ङ्गधरपद्धतिः
ॐ बलिभोजनाय स्वाहा । इति नैवेद्यम् ।
ॐॐ स्वामिभक्ताय स्वाहा । इत्यर्ष्यम् ।
इति मध्ये मण्डलस्य यक्षपूजा ।
2344</p>
<lg>
  <l>तत आनीय शुनकं स्वच्छं कृत्वा निजं करम् ।</l>
  <l>निधाय मस्तके तस्य मन्त्रमेनं ततो जपेत् ॥ २४ ॥</l>
</lg>
<p>2345
मन्त्रः । ॐ कृतज्ञ प्रत्येहि ॐ रात्रिजागर एह्येहि
ॐॐ दिव्यज्ञानिन् एह्येहि ॐ प्रत्यक्षवचन एह्येहि
ॐ अहिजिह्वाय एह्येहि ॐ स्वल्पप्रिय एह्येहि इम-
मर्ध गृहाण सत्यं ब्रूहि ब्रूहि सत्यं स्वाहा ।
इति शुनकाभिमन्त्रणम् ।
2346</p>
<lg>
  <l>ततो नरो निजं कार्य निधाय हृदयेखिलम् ।</l>
  <l>हविः पिण्डं समादाय मन्त्रं जावनी न्यसेत् ॥ २५ ॥</l>
</lg>
<p>2347
मन्त्रः । ॐ नमो भगवते शुनकोत्तमाय महाशकुन-
गम्भीरशब्दाय प्रजापतये ऋतुकालाभिगा-
मिन् शीघ्रमेह्येहि बलिं गृहाण मम चिन्तितं
कार्य सत्यं ब्रूहि ब्रूहि ॐ हुं फट् स्वाहा ।
इति बलिनिवेदनम् ।
2348</p>
<lg>
  <l>अब्दायनर्तुष्वथ मासपक्ष-</l>
  <l>दिनानि कार्येप्यवधौ विदध्यात् ।</l>
  <l>हीनावधिर्येन भवत्यसत्यः</l>
  <l>सर्वोपि लोके शकुनो गृहीतः ॥ २६ ॥</l>
</lg>
<p>2349
एवंविधे भावि न वेति चित्ते
निवेश्य कार्य अषणं विमुञ्चेत् ।</p>
<pb n="360" />
<p>23
ज
संभक्ष्य पिण्डं स्थिरतां गतस्य
चेष्टादिकं तस्य निरूपणीयम् ॥ २७ ॥
अथ भूपतित्व प्रश्नचेष्टाः ।
2350</p>
<lg>
  <l>कण्डूयमानः खलु दक्षिणेन</l>
  <l>हस्तेन भालं भषणो ददाति ।</l>
  <l>प्रभाविनश्रीकृतराजचक्रं</l>
  <l>राज्याभिषेके वरपट्टबन्धम् ॥ २८ ॥</l>
</lg>
<p>2351</p>
<lg>
  <l>करेण कण्डूयति दक्षिणेन</l>
  <l>यक्षो यदा वामकरं तदानीम् ।</l>
  <l>प्रभूतमातङ्गघटासमृद्धं</l>
  <l>ब्रूते समन्तात्पृथिवीपतित्वम् ॥ २९ ॥</l>
</lg>
<p>2352</p>
<lg>
  <l>उद्घाटयेहक्षिणमक्षि यक्षो</l>
  <l>हस्तेन मुद्रात्यय दक्षिणेन ।</l>
  <l>यस्याभिषेके स भवेत्स्वशक्त्या</l>
  <l>क्षितीशलक्षेक्षितपादपद्मः ॥ ३० ॥</l>
</lg>
<p>2353</p>
<lg>
  <l>कौलेयको दक्षिणकर्णदेशं</l>
  <l>करेण कण्डूयति दक्षिणेन ।</l>
  <l>यदा तदा जल्पति गीतवाद्य-</l>
  <l>विनोदयुक्तं पृथिवीपतित्वम् ॥ ३१ ॥</l>
</lg>
<p>2354</p>
<lg>
  <l>कण्डूयते दक्षिणपाणिना चे-</l>
  <l>त्स सारमेयो वदनं तदानीम् ।</l>
  <l>भक्तैः प्रभूतैः सह भूमिपालै-</l>
  <l>भन्यानि भक्ष्याणि चिरं भवन्ति ॥ ३२॥</l>
</lg>
<pb n="361" />
<p>शार्ङ्गधरपद्धतिः
2355</p>
<lg>
  <l>वक्षोथ कण्डूयति दक्षिणेन</l>
  <l>श्वा पाणिपादेन भवेत्तदानीम् ।</l>
  <l>तुरंगमातङ्ग महिष्यजादि-</l>
  <l>वादित्रसंपत्सहितं नृपत्वम् ॥ ३३ ॥</l>
</lg>
<p>2356</p>
<lg>
  <l>यदा दक्षिणपादस्य नखैलिखति मण्डली ।</l>
  <l>जठरं स्वं तदा तस्य लाभं वक्ति महत्तरम् ॥ ३४ ॥</l>
</lg>
<p>2357</p>
<lg>
  <l>पश्याते जिघ्रति विलिखति कण्डूयति कृषति मार्टि परिलेढि ।</l>
  <l>दक्षिणतोथ वलित्वा दक्षिणमङ्गं शुभं ख्यातम् ॥ ३५ ॥</l>
</lg>
<p>2358</p>
<lg>
  <l>दक्षिणकटेन शेते दक्षिणचरणेन मूत्रयत्यथवा ।</l>
  <l>उपविशति दक्षिणेन च पार्श्वन श्वा शिवं शंसन् ॥ ३६ ॥</l>
</lg>
<p>2359</p>
<lg>
  <l>मेहति शुभप्रदेशे अयते शान्तां दिशं प्रदेशं च ।</l>
  <l>अधिरोहति शय्यासनवेदिप्रासादहर्म्याणि ॥ ३७ ॥</l>
</lg>
<p>2360</p>
<lg>
  <l>दक्षिणं चेष्टितं तस्य ज्ञेयं सर्व शुभावहम् ।</l>
  <l>वामा गतिर्वामचेष्टा सर्वानर्थाय केवलम् ॥ ३८ ॥</l>
</lg>
<p>2361</p>
<lg>
  <l>जृम्भणवमनपलायन चिन्ता निद्राङ्गभङ्गतनुकम्पौ ।</l>
  <l>मूर्धश्रवणविधूननतनुचर्वणकासहिक्काश्च ॥ ३९ ॥</l>
</lg>
<p>2362</p>
<lg>
  <l>भस्मोजूलनलोटन खनना क्रन्दनभक्ष्यपरिहाराः ।</l>
  <l>रोदननेत्र निमीलनदृषदामहभास्करालोकाः ॥ ४० ॥</l>
</lg>
<p>2363</p>
<lg>
  <l>दीतदिगाश्रयभीतिविश्रामोक्षादिकं च यहीतम् ।</l>
  <l>निन्व्यं शान्तप्रश्ने दीप्तम भयं हन्ति ॥ ४१ ॥</l>
</lg>
<pb n="362" />
<p>शकुनज्ञानम्
2364</p>
<lg>
  <l>दिक्चेष्टितस्थानगतिस्वरायाः</l>
  <l>पञ्चेह दीप्ताः खलु पञ्च शान्ताः ।</l>
  <l>अन्येष्वपीमे शकुनेषु भूना</l>
  <l>निमित्तविद्भिः परिभावनीयाः ॥ ४२ ॥</l>
</lg>
<p>2365</p>
<lg>
  <l>भवन्त्यवामा यदि वामतश्च</l>
  <l>चेष्टा: समस्ता न गुणो न दोषः ।</l>
  <l>कौलेयको यास्त्वधिकाः करोति</l>
  <l>फलं तदुत्थं प्रतिपादनीयम् ॥ ४३ ॥</l>
</lg>
<p>2366</p>
<lg>
  <l>महोदयं पञ्चविधेन पुंसां</l>
  <l>शान्तेन राज्यं वितरत्यवश्यम् ।</l>
  <l>पञ्चप्रकारेण पुनस्तदेव</l>
  <l>दीप्तेन यक्षो हरति प्रसह्य ॥ ४४ ॥</l>
</lg>
<p>अथ कन्यार्थ वरप्रश्नः ।
2367</p>
<lg>
  <l>वरस्य कन्यावरणोद्यतस्य</l>
  <l>कुमारिकायाः पतिमर्थयन्त्याः ।</l>
  <l>आख्यायतेन्योन्यपरीक्षणाय</l>
  <l>क्रमेण चेष्टा सरमासुतस्य ॥ ४५ ॥</l>
</lg>
<p>2368</p>
<lg>
  <l>कौलेयके दक्षिणचेष्टिते स्या-</l>
  <l>त्कन्या विवाह्या न तु वामचेष्टे ।</l>
  <l>शुन्या समं केलिरते सुखेन</l>
  <l>तयोढया सार्धमहानि यान्ति ॥ ४६॥</l>
</lg>
<pb n="363" />
<p>शार्ङ्गधरपद्धतिः
2369
श्वा चेवरस्याभिमुखं समेति
तदा न कन्या किल सा विवाद्या ।
यक्षः संमाजिप्रति यत्र शुन्या
योनिं स कन्यां क्षतयोनिमाह ।॥ ४७ ॥
अथ वरायें कन्याप्रश्नः ।
2370</p>
<lg>
  <l>प्र वरार्थ विहित कुमार्या</l>
  <l>स्याद्दामचेष्टो शुभदो न चान्यः ।</l>
  <l>मूत्रं च गुन्या उपारे प्रकुर्व-</l>
  <l>न्ब्रूते सपत्नीं भषणो भवित्रीम् ॥ ४८ ॥</l>
</lg>
<p>2371</p>
<lg>
  <l>मूत्रं निजं लेढि दिशं च वामां</l>
  <l>प्रयाति तस्यां दयितोनुरागी ।</l>
  <l>संमार्जयन्वामकरेण जिहां</l>
  <l>ब्रवीति भोगप्रियतां वरस्य ॥ ४९ ॥</l>
</lg>
<p>अथ वर्षामनः ।
2372</p>
<lg>
  <l>वर्षानिमित्तं शुनकोत्तमस्य</l>
  <l>चेष्टा विशिष्टा विधिनोपदिष्टाः ।</l>
  <l>याः शाकुनज्ञानविशारदैस्ताः</l>
  <l>शृण्वन्तु शिष्टाः परमार्थपुष्टाः ॥ ५० ॥</l>
</lg>
<p>2373</p>
<lg>
  <l>वर्षानिमित्तं शुनकोत्तमस्य</l>
  <l>चेष्टाः प्रशस्ताः खलु दक्षिणा याः ।</l>
  <l>शान्ताच या दीप्ततमा न शस्ता</l>
  <l>न वामचेष्टाः शुनकस्य नूनम् ॥ ५१ ॥</l>
</lg>
<pb n="364" />
<p>शकुनज्ञानम्
2374</p>
<lg>
  <l>उद्घाटय चेदक्षिणमक्षि लीढे</l>
  <l>नामि स्वकीयामथवाधिरूढः ।</l>
  <l>शेते गृहस्योपरि जागरूक</l>
  <l>स्तदाम्बुदोम्बु क्षिपति प्रभूतम् ॥ ५२ ॥</l>
</lg>
<p>2375</p>
<lg>
  <l>जृम्भां प्रकुर्वन्गगनं विलोक्य</l>
  <l>यो जागरूकः कुरुतेश्रुपातम् ।</l>
  <l>स जल्पति प्रावृषमम्बुपूर-</l>
  <l>प्लुताव सर्वसमृद्धिसस्याम् ॥ ५३॥</l>
</lg>
<p>2376</p>
<lg>
  <l>निर्गत्य तोयादधिरुह्य पालीं</l>
  <l>कौलेयकश्चेद्विधुनोति कायम् ।</l>
  <l>तन्निधितं प्रावृषमम्बुकाले</l>
  <l>कृषीवलप्रीतिकरी करोति ॥ ५४ ॥</l>
</lg>
<p>2377</p>
<lg>
  <l>उच्चं प्रदेशं भष्णोधिरुह्य</l>
  <l>अषत्यभीक्ष्णं विमीक्षमाणः ।</l>
  <l>यदा तदानीमचिरेण वृष्टि-</l>
  <l>रम्भोदमुक्ता भवति प्रभूता ॥ ५५ ॥</l>
</lg>
<p>अथ राज्ञोः शुनकयुगेन जयप्रश्नः ।
2378</p>
<lg>
  <l>युद्धोद्यतयो राज्ञोः शुनकाभ्यां जयपराजयप्रभः ।</l>
  <l>कर्तव्यो विद्वद्भिस्तज्जाश्चेष्टास्तु कथ्यन्ते ॥ ५६॥</l>
</lg>
<p>2379
युद्धार्थनोर्नाम युगेन राशोः
पृथक्पृथक्पक्षयुगं प्रकल्प्य ।</p>
<pb n="365" />
<p>शार्ङ्गधरपद्धतिः
मुञ्चेत्ततो यो बलिमत्ति जिला
मध्यात्तयोस्तस्य जयो नृपस्य ॥ ५७ ॥
2380</p>
<lg>
  <l>यद्याददाते च बलिं मिलित्वा</l>
  <l>नेहान्वितौ भक्षयतो यदोभौ ।</l>
  <l>जयार्थिनोः स्यान्नृपयोस्तदानी-</l>
  <l>मन्योन्यसंधानविधानबुद्धिः ॥ ५८ ॥</l>
</lg>
<p>2381</p>
<lg>
  <l>यन्नामकः श्वा प्रपलायनेच्छु-</l>
  <l>ज्ञेयः स सत्रास इतीङ्गितज्ञैः ।</l>
  <l>यन्नामधेयः पुनरस्तशङ्को</l>
  <l>न तस्य राज्ञो भयमस्ति चित्ते ॥ ५९॥</l>
</lg>
<p>2382</p>
<lg>
  <l>मुञ्चतो घुरघुरारवं यदा</l>
  <l>वाञ्छतो न खलु खादितुं बलिम् ।</l>
  <l>मण्डलीकृतनिजास्पदाश्रयौ</l>
  <l>वैरमेव न तदा भवेद्रणम् ॥ ६० ॥</l>
</lg>
<p>2383</p>
<lg>
  <l>श्वानावुभावप्यभिभूय साक्षा-</l>
  <l>व्यदा परोआाति बलाइलिं चेत् ।</l>
  <l>ध्रुवं तदान्यो नृपतिर्बलिष्ठ-</l>
  <l>स्तौ भूपती जेतुमुपैति तूर्णम् ॥ ६१ ॥</l>
</lg>
<p>2384</p>
<lg>
  <l>मध्याहूयोरेकतरेण येन</l>
  <l>शुना गृहीतो बलिरात्मशक्त्या ।</l>
  <l>आच्छिय भुङे भषणस्तृतीय-</l>
  <l>स्तस्यापरस्तत्र भवत्यरातिः ॥ ६२ ॥</l>
</lg>
<pb n="366" />
<p>शकुनज्ञानम्
2385</p>
<lg>
  <l>मध्यात्तयोर्मण्डलयोस्तु येन</l>
  <l>नैवेद्यमेकेन गृहीतमुक्तम् ।</l>
  <l>मुङ्गे तृतीयः प्रणयेन तस्य</l>
  <l>मिलत्यकस्मायुधि तत्र मित्रम् ॥ ६३ ॥</l>
</lg>
<p>2386</p>
<lg>
  <l>समनतोर्यद्यविकारभावा-</l>
  <l>त्समं तृतीयेन गुना तदन्नम् ।</l>
  <l>श्वानौ तदानीं समुपैत्यवश्यं</l>
  <l>राज्ञोस्तयोः संधिविधायि मित्रम् ॥ ६४ ॥</l>
</lg>
<p>अथैकेन गुनकेन राजोः संग्राममनः ।
2387</p>
<lg>
  <l>ध्रुवं जयोस्तीति यदा तु पृष्ठे</l>
  <l>राज्ञोईयोबुद्धिमता यथावत् ।</l>
  <l>श्वानस्तु चेष्टां प्रकरोति शान्तां</l>
  <l>युद्धं भवेत्तन्नृपयोरवश्यम् ॥ ६५ ॥</l>
</lg>
<p>2388</p>
<lg>
  <l>दिक्स्थानचेष्टानिनदै: प्रशान्तै-</l>
  <l>र्यथोत्तरं संगतवृद्धिकारी ।</l>
  <l>चतुर्भिरेतैर्यदि शान्तदीप्तै-</l>
  <l>स्तदा न संधिर्न च संपरायः ॥ ६६ ॥</l>
</lg>
<p>2389</p>
<lg>
  <l>प्रदक्षिणादुत्तर मप्रदक्षिणं</l>
  <l>यदा तदा संधिरनन्तरं रणात् ।</l>
  <l>करोति यक्षो यदि तुष्यति क्रमा-</l>
  <l>तदा तु संधिः प्रथमं रणं ततः ॥ ६७ ॥</l>
</lg>
<pb n="367" />
<p>शार्ङ्गधरपद्धतिः
2390</p>
<lg>
  <l>यक्षो भषनम्बरमीक्षमाणः</l>
  <l>कर्णी धुनोत्युत्पतति प्रधावन् ।</l>
  <l>यो वापसर्पत्यथ सव्यगत्या</l>
  <l>स सांपरायप्रशमाय राज्ञोः ॥ ६८ ॥</l>
</lg>
<p>अथासंग्रामप्रश्नः ।
2391</p>
<lg>
  <l>राज्ञो रणं नैव भविष्यतीति</l>
  <l>प्रने कृते यद्यशुभा भवन्ति ।</l>
  <l>चेष्टाः समस्ताः सरमासुतस्य</l>
  <l>भवेत्तदानीं समरोतिधोरः ॥ ६९ ॥</l>
</lg>
<p>2392</p>
<lg>
  <l>शुना निमित्तद्वितयं विरुद्धं</l>
  <l>शान्तं च दीप्तं च कृतं यदि स्यात् ।</l>
  <l>मध्यात्तयोर्निष्फलमादिभूतं</l>
  <l>फलान्वितं पश्चिममामनन्ति ॥ ७० ॥</l>
</lg>
<p>अथैकेन गुनकेनैव राज्ञो जयप्रश्नः ।
2393</p>
<lg>
  <l>जयाय यक्षः कृतशान्तचेष्ट:</l>
  <l>प्रदीप्तचेष्टस्तु पराजयाय ।</l>
  <l>लोकान्ध्रुवं लोभयते नरेशं</l>
  <l>सवाहनामात्यपदातिदेशम् ॥ ७१ ॥</l>
</lg>
<p>अथ संधिप्रश्नः ।
2394
प्रशस्तचित्ते शुनि शान्तचेष्टे
संधिर्भवेयुद्धसमुद्यतस्य ।</p>
<pb n="368" />
<p>शकुनज्ञानम्
परामुखे वाथ पलायमानं
भङ्गो भवेन्नैव भवेत्तु संधिः ॥ ७२ ॥
अथ युद्धप्रश्नः ।
2395
दिक्स्थानचेष्टानिनँदैः प्रदीप्तो
जयाय युद्धे नियमेन योद्धुः !
त एव शान्तः समरे करोति
वन्धं वधं तस्य पराजयं च ॥ ७३ ॥
अथ विविधप्रश्नः ।
2396</p>
<lg>
  <l>शुभंस्वरो यः शुभचेष्टितः श्वा</l>
  <l>कैरोति मूत्रं च शुभप्रदेशे ।</l>
  <l>दाव्यं साबुद्यमिन हृदिस्</l>
  <l>निःसंशयं धान्यधनादिलाभम् ॥ ७४ ॥</l>
</lg>
<p>2397</p>
<lg>
  <l>उपस्थित प्राकृतपुण्यपाका-</l>
  <l>पुरः स्थितो दक्षिणपाणिना स्वम् ।</l>
  <l>शिरः स्पृशेदक्षिणचेष्टितो वा</l>
  <l>यो मण्डलो मण्डललाभदोसौ ॥ ७५ ॥</l>
</lg>
<p>2398</p>
<lg>
  <l>उच्छ्रासहिक्काशयनाङ्गभङ्ग</l>
  <l>विष्ठावमिश्वासविजृम्भणानि ।</l>
  <l>वक्रं सुनोधन्मिपितां च दृष्टि</l>
  <l>द्यूते प्रशंसन्ति च वामंचेष्टम् ॥ ७६ ॥</l>
</lg>
<p>2399
संमूत्रयञ्च रमणीयदेशे
चेटामवामां ललितां प्रकुर्वन् ।</p>
<pb n="369" />
<p>शार्ङ्गधरपानेः
स्याद्गर्भवत्याः सुतजन्म हेतु-
श्रेष्टाश्च कन्याजननाय वामाः ॥ ७७ ।
2400</p>
<lg>
  <l>विवामिश्वासविजृम्भणानि</l>
  <l>स्वापका साङ्गबिमोटनानि ।</l>
  <l>यद्याचरत्याशु तदा करोति</l>
  <l>वा गर्भवत्याः खलु गर्भपातम् ॥ ७८ ॥</l>
</lg>
<p>2401</p>
<lg>
  <l>दिवस्थानचेष्टानिनदै: प्रशान्तैः</l>
  <l>मश्रेषु सौम्येषु शुभानुकारी ।</l>
  <l>नतुर्भिरेतैस्तु भवेत्प्रदीप्तैः</l>
  <l>प्रश्शेषु दींतेषु शुभाय यक्षः ॥ ७९ ॥</l>
</lg>
<p>अथ रोगिप्रश्नः ।
2402
पृढे निमित्त श्रवणे विधूय
संकोच्य गांत्राण्यांखलानि शेते ।
कौलेयकचेत्तदुपैति रोगी
परेतनाथावसथं क्षणेन ॥८० ।
2403
अवामभागेन यदा वलिवा
वा पृष्ठकण्डूतिमपाकरोति ।
तदा तत्रैव कृतान्त
गेहे
रोगाभिभूतो नियतं प्रयाति ॥ ८१ ॥
2404
पुनः पुनदक्षिणमुरुभाग
लिहन्दिनैः पञ्चमिराह मृत्युम् ।</p>
<pb n="370" />
<p>शकुनज्ञानम्
यमक्षये तत्क्षणमेव यक्षः
क्षिपत्यवश्य जठरावलेहान् ॥ ८२ ॥
2405
वामा वामचेष्टाश्र रोगप्रो शुभावहाः ।
उच्चस्थानाभयो हर्षो मूत्रस्राव: शुभः स्मृतः । ८३ ॥
अथागन्तुकशकुनम् ।
तत्र प्राक्छुनकस्य शुभचेष्टितानि ।
2406</p>
<lg>
  <l>स्थानस्थितस्य यस्य श्वा देहं जिनति लाभदः ।</l>
  <l>क्रयाण के मूत्रयति भषणो लाभदायकः ॥ ८४ ॥</l>
</lg>
<p>2407</p>
<lg>
  <l>दक्षिणेनाङ्गिणा कर्ण विलिखन्वृद्धिसूचकः ।</l>
  <l>भषणो विलिखंचक्षुः प्रतिभूः प्रियसंगमे ॥ ८५ ॥</l>
</lg>
<p>2408</p>
<lg>
  <l>उच्छीर्षे पदकं कृत्वा यदि शेते शुनस्तदा ।</l>
  <l>आगच्छद्रल्लभं वक्ति तद्वेश्मन्यचिरादपि ॥ ८६ ॥</l>
</lg>
<p>2409</p>
<lg>
  <l>द्वारप्रदेशे जघनं निघर्ष-</l>
  <l>न्पूजार्हपान्थागमनाय यक्षः ।</l>
  <l>करोति तत्रोपविशंश्च पुंसां</l>
  <l>सङ्गं जनेनाभिमतेन सार्धम् ॥ ८७ ॥</l>
</lg>
<p>2410</p>
<lg>
  <l>लिप्नपूरितचतुष्कविशेषे</l>
  <l>प्राङ्गणे च निवहेत्सरमाजः ।</l>
  <l>संपदं प्रवितरत्यतिब ह्वीं</l>
  <l>तस्खनन्पुनर नर्थ करोसौ ॥ ८८ ॥</l>
</lg>
<pb n="371" />
<p>शार्ङ्गधरपद्धति
2411</p>
<lg>
  <l>संमार्जनींचकर्पास सणकं सूर्पकङ्कतौ ।</l>
  <l>गृहीत्वा संमुखेभ्येति तद्गृहं पूर्यते धनैः ॥ ८९ ॥</l>
</lg>
<p>2412</p>
<lg>
  <l>वसुंधरायाः कमपि प्रदेश</l>
  <l>सूर्ध्ना स्पृशन्यद्यवलोकते श्वा ।</l>
  <l>ध्रुवं तदा तत्र महानिधान-</l>
  <l>मस्तीति सिद्धैः कथितं रहस्यम् ॥ ९० ॥</l>
</lg>
<p>2413</p>
<lg>
  <l>विवाहार्थे शुभ: शुन्या विधत्ते प्रस्रवं यदि ।</l>
  <l>तदा विवाद्या तु कन्या शुभा सौख्यार्थभारभवेत् ॥ ९९ ॥</l>
</lg>
<p>2414
दक्षिणाङ्गं यदा यक्षः स्पृशेदक्षिणपाणिना
तदा ऋद्धि विवाहार्थे विधत्ते चिन्तिताधिक्रम ॥ १२ ॥
2415</p>
<lg>
  <l>हृष्टास्यं भषणं प्रेक्ष्य क्रीडन्तं कान्तया सढ़ ।</l>
  <l>विवाह्यते कुमारी या सा सौख्यं लभते तराम् ॥ १३ ॥</l>
</lg>
<p>2416</p>
<lg>
  <l>चन्द्रार्की प्रेक्ष्य वर्षानु रौत्यूर्ध्ववदनो यदि ।</l>
  <l>सतरात्राद्वारिपूरं पतिष्यति वदत्यः ॥ ९४ ॥</l>
</lg>
<p>2417</p>
<lg>
  <l>नीरतीर्थे तटस्थश्चैदङ्गं कम्पयते शुनः ।</l>
  <l>तत्र देशे घनां मेघवृष्टिं वदति भाविनीम् ॥ ९५ ॥</l>
</lg>
<p>अथ शुनकस्याशुभचेष्टितानि ।
2418</p>
<lg>
  <l>च्छतां दक्षिणे यक्षो वामः प्रविशतां भवेत् ।</l>
  <l>कार्षुकाणां स आख्याति कृषिकर्म विधत्त मा ॥ ९६ ॥</l>
</lg>
<pb n="372" />
<p>शकुनज्ञानम्
2419</p>
<lg>
  <l>दिनकराभिमुखो दिवसात्यये</l>
  <l>कृतरवः खलु कर्पूकभीतये ।</l>
  <l>पवनदेिग्वदनस्तु निशाखे</l>
  <l>भवति चौरसमीरणभीतिदः ॥ ९७ ॥</l>
</lg>
<p>2420</p>
<lg>
  <l>उदमुखो वक्ति भषनिशीथे</l>
  <l>द्विजोपपीडां मरणं गवां च ।</l>
  <l>कुमारिकादूषणगर्भपात-</l>
  <l>वीन्निशान्ते शिवदिङख: स्यात् ॥ ९८ ॥</l>
</lg>
<p>मु
2421</p>
<lg>
  <l>प्रातर्दिनेशाभिमुखोग्निदिग्मुखो</l>
  <l>भषन्विधत्तेनलचोरभीतिम् ।</l>
  <l>दिनस्य मध्येनलमृत्युभीतिं</l>
  <l>सरक्तपातं कलहं दिनान्ते ॥ ९९ ॥</l>
</lg>
<p>2422</p>
<lg>
  <l>भवन्दिनेशाभिमुखः प्रभाते</l>
  <l>ग्रामस्य मध्ये नृपनाशनाय ।</l>
  <l>वर्चे विमुञ्चन्यदि दृश्यते श्वा</l>
  <l>सिद्धेपि कार्ये तदुपद्रवः स्यात् ॥ १०० ॥</l>
</lg>
<p>2423</p>
<lg>
  <l>ऊर्ध्वानना भास्कर संमुखीनाः</l>
  <l>श्वानो रुवन्तो महते भयाय ।</l>
  <l>एवं हि संध्यासमयेन्यदा तु</l>
  <l>निर्वासका: स्युर्नगरस्य तस्य ॥ १०१ ॥</l>
</lg>
<p>2424</p>
<lg>
  <l>मततः शरदृतौ श्वानो रुवन्ति किल तेनिशम् ।</l>
  <l>तदा न दूषणं तेषामन्यदा तु न शोभनाः ॥ १०२ ॥</l>
</lg>
<pb n="373" />
<p>शार्ङ्गधरपद्धतिः
2425</p>
<lg>
  <l>ग्रामं निशायां खरसारमेयाः</l>
  <l>शून्यं विधातुं सहिता रुवन्ति ।</l>
  <l>ग्रामे भाषेत्वा भषणा: इमशाने</l>
  <l>रुवन्ति नाशाय च मुख्यपुंसः ॥ १०३ ॥</l>
</lg>
<p>2426</p>
<lg>
  <l>निष्कारणं यः प्रपलायते श्वा</l>
  <l>विरोति वा वारिणि योवतीर्य ।</l>
  <l>मृताङ्गरक्तास्थिमुखो रुगार्त-</l>
  <l>गेहं विशेद्यः स च मृत्युमाह ॥ १०४ ॥</l>
</lg>
<p>2427</p>
<lg>
  <l>खनत्यगारं यदि सारमेयः</l>
  <l>कुये तदा स्यात्खलु संधिपात: ।</l>
  <l>गोष्टप्रदेशे यदि गोपहारो</l>
  <l>धान्यस्य भूमिं यदि धान्यलाभः ॥ १०५ ॥</l>
</lg>
<p>2428</p>
<lg>
  <l>यदि वा निजपुंचिह्नं पाणिग्रहणकर्मणि ।</l>
  <l>लेढि गौरीसमाध्यूढा कलङ्कयति सा कुलम् ॥ १०६ ॥</l>
</lg>
<p>2429</p>
<lg>
  <l>कृत्वा शिरो द्वारि बहिर्वपुचे-</l>
  <l>च्छा रौति दीर्घ गृहिणीं प्रपश्यन् ।</l>
  <l>तद्रोगदो वक्ति च बन्धकीं तां</l>
  <l>बहिर्मुखोभ्यन्तर कायभागः ॥ १०७ ॥</l>
</lg>
<p>2430</p>
<lg>
  <l>खनित्वोपरि गेहस्य पुरीषं कुरुते यदि ।</l>
  <l>जारस्यागमनं बक्ति पार्श्वाद्धनिकयोषितः ॥ १०८ ॥</l>
</lg>
<p>2431
1</p>
<lg>
  <l>गृहे प्रविश्य चेदनं विक्षिपेत्कथयत्यदः ।</l>
  <l>गृहिणी ते तदाप्यर्थे जारस्यैतद्विचारय ॥ १०९ ॥</l>
</lg>
<pb n="374" />
<p>शकुन ज्ञानम्
2432</p>
<lg>
  <l>तूलिकोच्छीर्षके नित्यं यदि सेवति मण्डल ।</l>
  <l>जार प्रवेशस्तद्वे हे जायते निशि सर्वदा ॥ ११० ॥</l>
</lg>
<p>2433</p>
<lg>
  <l>मुसलोलूखले सूर्ये सणं खट्टां च कुकुरः ।</l>
  <l>दवा शीर्षे स्वपति चेज्जारमाख्याति तद्गृ॒हे ॥ १११ ॥</l>
</lg>
<p>2434</p>
<lg>
  <l>जृम्भां कृत्वा नभः प्रेक्ष्य मुञ्चत्यभूणि रौति वा ।</l>
  <l>स्थाने तस्मिन्निदं ज्ञेयं विद्युत्पातो भविष्यति ॥ ११२ ॥</l>
</lg>
<p>2435
यदि श्वा पललं कृत्वा मुखे नीरं विगाहते ।
संग्रामो वह्निना सर्व दह्यते कथयत्यदः । ११३ ॥
2436</p>
<lg>
  <l>गृहीत्वा गोमयं गेहे विशन्गोहरणाय सः ।</l>
  <l>आत्मानं दशनैः खादन्स्थानं शून्यं करोति सः ॥ ११४ ॥</l>
</lg>
<p>2437</p>
<lg>
  <l>सूर्योदये गृहोर्ध्वं च वह्निमीत्यै रुवन्भवेत् ।</l>
  <l>सश्रा विवादाय भवेदासनादौ पुरीषकृत् ॥ ११५ ॥</l>
</lg>
<p>2438</p>
<lg>
  <l>भुजद्रयं जिव्रति सारमेयः</l>
  <l>पुंसो भवेत्तस्कर वैरियोगः ।</l>
  <l>मांसास्थिभक्ष्याणि च मम्ममध्ये</l>
  <l>स्याद्दोपयन्नग्निभयं प्रभूतम् ॥ ११६ ॥</l>
</lg>
<p>2439</p>
<lg>
  <l>भषन्नमीक्ष्णं भवनस्थिताना-</l>
  <l>मावेष्टनं चेत्कुरुते कदाचित् ।</l>
  <l>कौलेयकोवश्यमुपस्थितं न-</l>
  <l>ज्ज्ञेयं भयं वन्धनसंप्रवृत्तम् ॥ ११७ ॥</l>
</lg>
<pb n="375" />
<p>शार्ङ्गधरपद्धतिः
2440</p>
<lg>
  <l>यस्य प्रातः सुस्थितस्य श्वयं बहवोथवा ।</l>
  <l>कुर्वन्ति युद्धमीज्ञाने तस्य स्याद्वैरिभिः सह ॥ ११८ ॥</l>
</lg>
<p>2441</p>
<lg>
  <l>चतुष्पथे राजमार्गे गोवत्सां कामयेच्छुनिः ।</l>
  <l>तत्र भीति समाख्याति स मासेनैव वैरिणाम ॥ ११९ ॥</l>
</lg>
<p>2442</p>
<lg>
  <l>विशन स्थिमुखो गेहे स्वामिपुत्रादिमृत्यवे ।</l>
  <l>क्रीडते शयने सार्धं तस्य सौख्यं प्रयच्छति ॥ १२० ॥</l>
</lg>
<p>अथ शिवारुतम् ।
2443</p>
<lg>
  <l>अष्टदिशो रवियोगाज्ज्वलिता धूमान्विता छाया ।</l>
  <l>सजला कर्दमधात्र्यो भस्मितदग्धे परिज्ञेयाः ॥ १२१ ॥</l>
</lg>
<p>2444</p>
<lg>
  <l>प्रत्येकमेकं सततं सुमेरोः</l>
  <l>प्रदक्षिणाभ्यागमनक्रमेण ।</l>
  <l>दिवारजन्योः प्रहराट केन</l>
  <l>प्रतापयत्युष्णकरो दिशोटौ ॥ १२२ ॥</l>
</lg>
<p>2445</p>
<lg>
  <l>ने शिवाय शिवा रटति भास्वदग्धासु तिसृषु काष्ठासु ।</l>
  <l>पञ्चसु शान्तासु भवत्येवं शास्त्रादृतः पन्थाः ॥ १२३ ॥</l>
</lg>
<p>2446</p>
<lg>
  <l>दिशि ज्वलन्त्यां मरणं प्रदिष्टं</l>
  <l>संधुक्षितायां संकलार्थनाशः ।</l>
  <l>छायाजलाकर्दमितासु दिक्षु</l>
  <l>जयो धरित्र्यां कथितोर्थलाभः ॥ १२४ ॥</l>
</lg>
<pb n="376" />
<p>24
शकुनज्ञानय
2447
स्याद्भस्मितायां न भयं न हानि-
रङ्गारितायां स्वजनक्षय: स्यात् ।
रात्री शिवायाः स्वरजः प्रभावो
यथा भवेदयपि तद्विधः स्यात् ॥ १२५
2448</p>
<lg>
  <l>अतीव सौख्यशुभदा याम्या निशि भवेच्छिवा ।</l>
  <l>पूर्वस्यां तत्पुराध्यक्षमन्यं कुर्यादहर्मुखे ॥ १२६ ॥</l>
</lg>
<p>2419</p>
<lg>
  <l>अस्ते शिवा पश्चिमायां परचक्रमयाय सा ।</l>
  <l>शुभ कुबेर दिइयस्ते प्रामान्तः शून्यकारिणी ॥ १२७ ॥</l>
</lg>
<p>2450</p>
<lg>
  <l>अश्वमध्ये कृतरवा शिवा युद्धप्रपञ्चकृत् ।</l>
  <l>शिवासप्तस्वरा ग्राह्या बहुशब्दाश्च निष्फलाः ॥ १२८ ॥</l>
</lg>
<p>2451</p>
<lg>
  <l>धनं मित्रं प्रियं भोगं सुखं राज्यं जयं क्रमात् ।</l>
  <l>एकादी सप्तपर्यन्ते शब्दे शान्तदिशां फलम् ॥ १२९ ॥</l>
</lg>
<p>2452
रुजं शोकं भयं हानि चौर्य वह्नि मृति क्रमात् ।
कुर्वन्त्येकादिसप्तान्ता दीमादेक्षु शिवारवाः ॥ १३० ।
2453</p>
<lg>
  <l>दिनानि त्रीणि वा पञ्च सप्त वा कुरुते स्वनम् ।</l>
  <l>यद्रामनिकटे दीप्ता शिवा तन्नाशयत्यपि ॥ १३१ ॥</l>
</lg>
<p>2454</p>
<lg>
  <l>दिक्ष्वारटन्ती सकलासु रौद्</l>
  <l>श्राम्यत्यखिचा परितः पुरं चेत् ।</l>
  <l>शृगालजाया खलु वीि</l>
  <l>युद्धं महसन महाभिषातम् ॥ १३२ ॥</l>
</lg>
<pb n="377" />
<p>शार्ङ्गधरपद्धतिः
2455</p>
<lg>
  <l>फेफेहूहू भुभूश्चैव हाउहाउ हहस्तथा ।</l>
  <l>एतान्पञ्च स्वरान्ते सर्वदिक्संगता शिवा ॥ १३३ ॥</l>
</lg>
<p>2456</p>
<lg>
  <l>फेफे नगरनाशाय हूहू सर्वसुखप्रदा ।</l>
  <l>भुभृश्च विवरं ब्रूते हाउहाउ महाभयम् ॥ १३४ ॥</l>
</lg>
<p>2457</p>
<lg>
  <l>हहश्व नृपनाशाय मिश्रैर्मिफलं भवेत् ।</l>
  <l>पुरासन्ने फलं शीघ्र फलं दूरे विश च ॥ १३५ ॥</l>
</lg>
<p>अथ फेरुशब्दाः ।
2458</p>
<lg>
  <l>उज्जाडिने यदा यामे गच्छतां दक्षिणस्वराः ।</l>
  <l>श्रृगालास्तं पुन: स्थानं कथयन्ति करस्थितम् ॥ १३६ ॥</l>
</lg>
<p>2459</p>
<lg>
  <l>स्थानस्थानां चतुर्दिक्षु समकालविराविण: ।</l>
  <l>दुष्टमीति समाख्यन्ति सर्वथा चाशुभा दिने ॥ १३७ ॥</l>
</lg>
<p>2460</p>
<lg>
  <l>सर्वासु दिक्षु फेरूणां शिवारुतवदादिशेत् ।</l>
  <l>एको रवः सदा निन्द्यः सोपि भीतस्य शान्तिदः ॥ १३८ ॥</l>
</lg>
<p>2461</p>
<lg>
  <l>बन्धाय धावतां शब्दो युध्यतां कन्दलाय च ।</l>
  <l>शुभाय हृष्टफेरूणां दिक्षु शान्तासु वा रवः ॥ १३९ ॥</l>
</lg>
<p>अथ कौशिकः ।
2462</p>
<lg>
  <l>रात्रौ गृहस्योपरि भाषमाणो</l>
  <l>दुःखाय चूकः सुतमृत्यवे वा ।</l>
  <l>गृहस्थनाशाय च सप्तरात्रा-</l>
  <l>प्राशाय राज्ञो विगुणानुबन्धी ॥ १४० ॥</l>
</lg>
<pb n="378" />
<p>शकुनज्ञानम्
2463</p>
<lg>
  <l>त्र्यहं गृहद्वारि रुवत्युलू के</l>
  <l>हरन्ति चौरा द्रविणं प्रसह्य ।</l>
  <l>तस्मिन्प्रदेशे निशि मांसयुक्त-</l>
  <l>स्तदोषनाशाय बलि: प्रदेयः ॥ १४१ ॥</l>
</lg>
<p>2464</p>
<lg>
  <l>संध्याकाले रुवन्भूमौ प्रवेशे वेश्मनोथवा ।</l>
  <l>वृष्टो रोगप्रदो घूकः सोप्यार्तानां भयापहः ॥ १४२ ॥</l>
</lg>
<p>2465</p>
<lg>
  <l>घूघूशब्दः सदा शान्तो गुरुलुग्लुश्च तादृशः ।</l>
  <l>अन्ये शब्दास्तु घूकानां निन्दिताः सर्वदा स्मृताः ॥ १४३ ॥</l>
</lg>
<p>2466</p>
<lg>
  <l>शान्तायां दिशि वृक्षेषु मामदूरे च शब्दितः ।</l>
  <l>: स्यात्सर्वलोकानामृद्धिवृद्धिसुखार्थकृत् ॥ १४४ ॥</l>
</lg>
<p>घूकः
अथ पिङ्गला ।
2467</p>
<lg>
  <l>गृहोपरि गृहद्वारे पिङ्गला रौति यस्य च ।</l>
  <l>म्रियते तस्य गेहान्तर्न शुभा तेन सा स्मृता ॥ १४५ ॥</l>
</lg>
<p>2468</p>
<lg>
  <l>शान्तायां दिशि वृक्षेषु शुभेषु यदि पिङ्गला ।</l>
  <l>रौति भूम्यम्बुतत्त्वाभ्यां तदा तत्र शुभं भवेत् ॥ १४६ ॥</l>
</lg>
<p>2469</p>
<lg>
  <l>पृथिव्यां कीचिकीचीति चीलिचीली जलोद्भवा ।</l>
  <l>शब्दितं शुभकृज्ज्ञेयं पिङ्गलाया न चापरम् ॥ १४७ ॥</l>
</lg>
<p>अथ काकस्य शुभचेष्टितानि ।
2470
पृष्ठे पुरो वा नवगोमयस्थो
वटादिषु क्षीरतरुष्वपीह ।</p>
<pb n="379" />
<p>शार्ङ्गधरपद्धतिः
स्थितों रुवन्भोजनपानमिष्टं
विष्ठां च कुर्वन्वितरत्यवश्यम् ॥ १४८ ॥
2471</p>
<lg>
  <l>अन्नादिवर्ज फलपुष्पमांस-</l>
  <l>मत्स्यादिभिः पूर्णमुखः सदैव ।</l>
  <l>स्यादृष्ट मात्रो भिमतार्थसिद्धयै</l>
  <l>भृष्टाच मोज्याय मुदे च काकः ॥ १४९ ॥</l>
</lg>
<p>2472</p>
<lg>
  <l>गोपृष्ठदूर्वात रुगोमयेषु</l>
  <l>तुण्डं विघर्षन्नवलोकितोये ।</l>
  <l>आहार मन्यस्य मुखे ददाति</l>
  <l>ददाति भोज्यं बलिभुग्विचित्रम् ॥ १५० ॥</l>
</lg>
<p>2473</p>
<lg>
  <l>धान्यं पयो वा दधि वाप्यवाप्य</l>
  <l>वित पश्यन्निधिलाभकारी ।</l>
  <l>करोति लाभं पुरतः स दृष्टो</l>
  <l>यस्यास्ति वक्त्रे तृणम्प्यशुष्कम् ॥ १५१ ॥</l>
</lg>
<p>2474</p>
<lg>
  <l>शान्तामैन्द्रीं ककुभं प्राप्य रुवन्वायसः कुरुते ।</l>
  <l>हेम्नः सुहृदाप्ति शाल्यन्त्रपुडाशनाप्तिं च ॥ १५२ ॥</l>
</lg>
<p>2475</p>
<lg>
  <l>आग्नेय्यामनला जीविकयुवतिप्रवर धातुलाभश्व ।</l>
  <l>याम्ये माषकुलत्थं भोज्यं गान्धर्विकैर्योगः ॥ १५३ ॥</l>
</lg>
<p>2476</p>
<lg>
  <l>नैर्ऋत्यां दूताश्वोपकरणदधिपललतैलभोज्याप्तिः ।</l>
  <l>वारुण्यां वा मांससुरासवधान्य समुद्ररत्नाप्तिः ॥ १५४ ॥</l>
</lg>
<p>2477</p>
<lg>
  <l>मारुत्यां शस्त्रसरोजवखवल्लीफलाशना मिश्च ।</l>
  <l>कौबेर्या परमानाशनं तुरंगाम्बरमाप्तिः ॥ १५५ ॥</l>
</lg>
<pb n="380" />
<p>शकुनज्ञानम्
2478</p>
<lg>
  <l>ऐशान्यां संप्राप्तिर्घृतपूर्णानां भवेदनडुहश्च ।</l>
  <l>एवं फलं गृहपतेर्गृहपृष्ठ समाश्रिते भवति ॥ १५६ ॥</l>
</lg>
<p>2479</p>
<lg>
  <l>क्कांक्कामिति क्षेमविधौ विरावः</l>
  <l>की की मितीष्टाशनपानहेतुः ।</l>
  <l>करोति क्रूक्रूमिति चार्थलाभं</l>
  <l>क्कंक्कंध्वनिः काञ्चनलाभमाह ॥ १५७ ॥</l>
</lg>
<p>2480</p>
<lg>
  <l>यत्का इति त्रिस्तदनु द्विरेत-</l>
  <l>च्छब्दद्वयं स्यान्महते फलाय ।</l>
  <l>कामित्ययं वाहनमासनं च</l>
  <l>ददाति हर्ष कुरुकर्वितीदम् ॥ १५८ ॥</l>
</lg>
<p>अथाशुभचेष्टितानि ।
2481</p>
<lg>
  <l>ऐन्यां दिगवलोकितसूर्याभिमुखो गृहे गृहिणः ।</l>
  <l>राजभयं चौरभयं वधकलहः पशुभयं च स्यात् ॥ १५९॥</l>
</lg>
<p>2482</p>
<lg>
  <l>गोपुच्छवल्मीककृतास्पदश्च</l>
  <l>काको भवेत्सर्पभयस्य हेतुः ।</l>
  <l>स्यान्मृत्यवेङ्गारचितास्थिसंस्थः</l>
  <l>काकः प्रकुर्वन्कचचर्वणं च ॥ १६० ॥</l>
</lg>
<p>2483</p>
<lg>
  <l>वल्लीवरत्राकच शुष्ककाष्ठ-</l>
  <l>वर्मास्थिजीर्णाम्बर वल्कलानि ।</l>
  <l>अङ्गाररक्तोल्मुककर्पराणि</l>
  <l>दृष्ट्वा वदेत्काकमुखे भयाय ॥ १६१ ॥</l>
</lg>
<pb n="381" />
<p>शॉर्ङ्गधरपद्धतिः
2484</p>
<lg>
  <l>अत्रस्तो निजपक्षैस्तुण्ड विघातैर्जनान भिभवन्तः ।</l>
  <l>कुर्वन्ति शत्रुवृद्धिं निशि विरुतवन्तो जनविनाशम् ॥ १६२॥</l>
</lg>
<p>2485</p>
<lg>
  <l>शीर्षे नरस्योपविष्टः काको मृत्याद्यनर्थदः ।</l>
  <l>स्थितो जनापवाद वा शोकं वा कुरुते स्त्रियाः ॥ १६३ ॥</l>
</lg>
<p>2486</p>
<lg>
  <l>दीप्तोद्विग्नो विटपे विकुट्टयन्वाह्नतिपक्षः ।</l>
  <l>भञ्जन्नस्थि च चञ्च्वा यदि विरुवत्यस्थिभङ्गाय ॥ १६४॥</l>
</lg>
<p>2487</p>
<lg>
  <l>विगोमये न्यस्यति यस्य मूर्ध्नि</l>
  <l>तस्यानलत्रासरुजी भवेताम् ।</l>
  <l>यस्यास्थिखण्डं विसृजत्यसौ तु</l>
  <l>प्रयाति तूर्ण नगरी यमस्य ॥ १६५ ॥</l>
</lg>
<p>2488</p>
<lg>
  <l>मध्येदिनं वेश्मनि यस्य काको</l>
  <l>विरोति रौद्रं विधुनोति चाङ्गम् ।</l>
  <l>हरन्ति चौरा द्रविणानि तस्य</l>
  <l>ध्रुवं तथान्यो भवति प्रमादः ॥ १६६ ॥</l>
</lg>
<p>2489</p>
<lg>
  <l>छायास लाभं भुवि भूमिलाभं</l>
  <l>विघ्नं जले प्रावणि कार्यनाशम् ।</l>
  <l>करोति काको विरुवन्नरस्य</l>
  <l>प्रस्थापितः : स्थानगतस्य चापि ॥ १६७ ॥</l>
</lg>
<p>2490</p>
<lg>
  <l>क्रीं क्रीमितीष्टार्थविनाशनाय</l>
  <l>ज्वलज्वलेत्यग्निभयाय शब्दः ।</l>
  <l>किंकीति कोकाविति यः कथंचि-</l>
  <l>नमुहुर्महु: स्यात्समतो वधाय ॥ १६८ ॥</l>
</lg>
<pb n="382" />
<p>शकुनज्ञानम्
2491</p>
<lg>
  <l>आहारदोषाय च काकदीति</l>
  <l>स्यादाकुटानि ध्वनितं रणाय ।</l>
  <l>के के ध्वनिष्ठा कुवती किकी च</l>
  <l>त्रयं त्विदं स्यात्पुरदूषणाय ॥ १६९ ॥</l>
</lg>
<p>2492</p>
<lg>
  <l>स्यात्कलिः करकरध्वनौ नृणां</l>
  <l>जायते कणकणध्वनौ ज्वरः ।</l>
  <l>आव्रजेत्कुलुकुलुध्वनौ प्रियः</l>
  <l>सौदनं कटकटध्वनौ दधि ॥ १७० ॥</l>
</lg>
<p>2493</p>
<lg>
  <l>इदं त्विहोत्पातयुगं पृथिव्यां</l>
  <l>महाभयं शाकुनिका वदन्ति ।</l>
  <l>यद्वायसो मैथुनसंनिविष्टो</l>
  <l>दृश्येत यद्वा धवलः कदाचित् ॥ १७१ ॥</l>
</lg>
<p>2494</p>
<lg>
  <l>निष्कारणं संमिलिता रुवन्तो</l>
  <l>मामेन्ननाशाय भवन्ति काकाः ।</l>
  <l>रोधं च चक्राकृतयो वदन्ति</l>
  <l>सव्यापसव्यभ्रमणाद्भग्रं च ॥ १७२ ॥</l>
</lg>
<p>2495</p>
<lg>
  <l>यः स्नाति धूल्यांम्बु विलोक्य रौति</l>
  <l>वृष्टिं समाशंसति वायसोसौ ।</l>
  <l>जलस्थलस्थानविपर्ययेण</l>
  <l>वर्षासु वृष्टिं भयमन्यदा तु ॥ १७३ ॥</l>
</lg>
<p>2496</p>
<lg>
  <l>वैशाखे निरुपहते वृक्षे नीडः मुभिक्षफलदायी ।</l>
  <l>निन्दितकण्टक शुष्केष्व सुभिक्षभयानि तद्देशे ॥ १७४ ॥</l>
</lg>
<pb n="383" />
<p>शार्ङ्गधरपद्धतिः
2497</p>
<lg>
  <l>काकस्य वृष्टिहेतोर्नीडं दिक्षु प्रशस्यते तिसृषु ।</l>
  <l>दुर्भिक्षमरणहेतुर्भवति सयाम्येषु कोणेषु ॥ १७५ ॥</l>
</lg>
<p>2498</p>
<lg>
  <l>मूर्ध्नि तरोबहु वर्षति मध्ये मध्यं न वर्षति स्कन्धे ।</l>
  <l>जाते काककुलाये शुष्कतरौ वर्षति न जातु ॥ १७६ ॥</l>
</lg>
<p>2499</p>
<lg>
  <l>भूमौ लग्नमहीरुहवल्मीकश्वभ्रकोटरतटेषु ।</l>
  <l>काकोलस्य कुलायं जातं देशस्य नाशाय ॥ १७७ ॥</l>
</lg>
<p>2500</p>
<lg>
  <l>द्वित्रिचतुःशावत्वं सुभिक्षदं पञ्चभिर्नृपान्यत्वम् ।</l>
  <l>अण्डावकिरणमेकाण्डताप्रसूति न शिवाय ॥ १७८ ॥</l>
</lg>
<p>अथ पोतकी ।
2501</p>
<lg>
  <l>स्थानस्थितानां सूर्यास्ते प्राच्यां कुर्यादुमा ध्वनिम् ।</l>
  <l>नृपप्रसादं कुरुते शान्तेतिथ्यागमाय च ॥ १७९ ॥</l>
</lg>
<p>2502</p>
<lg>
  <l>दोप्ने तु ध्वनिता दुर्गा सा किंचिद्रक्तहानये ।</l>
  <l>उदयेस्ते दक्षिणस्यां ग्रामात्सा क्षेमलाभदा ॥ १८० ॥</l>
</lg>
<p>2503</p>
<lg>
  <l>शुभा सदैव कौर्यामध्रुवान्स्थापयत्यलम् ।</l>
  <l>सेवाग्नेय्यां सदा भीत्यै वायव्यां दुःखिनः शुभा ॥ १८१ ॥</l>
</lg>
<p>2504</p>
<lg>
  <l>सुखिनश्चाशुभा किंचित्पाण्डवी ध्वनिता सती ।</l>
  <l>ब्रह्मस्थानेच मध्याह्ने कलिघातग्रहादिकृत् ॥ १८२ ॥</l>
</lg>
<p>2505</p>
<lg>
  <l>गेहान्तर्ध्वनिता मीत्यै पदे तु स्वामिमृत्यवे ।</l>
  <l>शय्यायां महिलाकष्टं दुर्गायाः कुरुते रवः ॥ १८३ ॥</l>
</lg>
<pb n="384" />
<p>शकुनज्ञानम्
2506</p>
<lg>
  <l>पालने बालकष्टाय गृहमध्ये विजायते ।</l>
  <l>शून्यकृद्भवनहारे समक्षा ध्वनितान्नदा ॥ १८४ ॥</l>
</lg>
<p>2507
यत्र तत्र स्थिताप्यन्यत्रासाच्छब्दपरायणा ।
शुभाशुभा वा विफला फलदा सा स्वभावजा ॥ १८५१
2508</p>
<lg>
  <l>नियोगिनः क्षत्रियस्य दुर्गा चेन्मस्तके विशेत् ।</l>
  <l>पदप्रतिष्ठावश्यं स्याङ्क्रमिलाभ: कुटुम्बिन: ॥ १८६ ॥</l>
</lg>
<p>2509
करोति नीडं भुवि चेहराही
समान्यपत्यानि विजायते वा ।
समुद्भवद्भानु मयूख वह्नौ
जाज्वल्यते तज्जगती समस्ता ॥ १८७१।
2510</p>
<lg>
  <l>शरादिदेशेषु गृहेषु यस्य</l>
  <l>प्रत्यक्षरूपा कुरुते कुलायम् ।</l>
  <l>अम्भोधरो वर्षति चेत्तथापि</l>
  <l>तच्छून्यतां याति च भिद्यते न ॥ १८८ ॥</l>
</lg>
<p>2511</p>
<lg>
  <l>गरिद्रोधवा वराही</l>
  <l>शावानयुग्मानपि त्रेमसूते ।</l>
  <l>नाम्भोधरो मुततावदम्भो</l>
  <l>यावत्समुड्डीय न ते जन्ति ॥ १८९ ॥</l>
</lg>
<p>2512</p>
<lg>
  <l>आसाद शैलडुमकोटरेषु</l>
  <l>तुङ्गेषु चान्येषु विधार नीडम् ।</l>
  <l>प्रसूयते यद्यसमैर पत्यैः</l>
  <l>इयामा तदाम्भो भवति प्रभूतम् ॥ १९० ॥</l>
</lg>
<pb n="385" />
<p>शार्ङ्गधरपद्धतिः
अथ तित्तिरिखरशशसर्पाः ।
2513
ग्रामे पुरे वा दिशि दीपितायां
स्थानस्थिताना मरुणोदयें चेत् ।
उद्वेगदायी निशि सर्वदिक्षु
करोति शून्यं ध्वनिराशुगस्य ॥ १९९</p>
<lg>
  <l>2514</l>
  <l>वारुण्यां ध्वनितोस्ते त तित्तिरिश्चौरभीतिदः ।</l>
  <l>तु</l>
  <l>समये भीतिहन्ता च ध्रुवं मध्येदिनं ध्वनिः ॥ १९२ ॥</l>
</lg>
<p>2515</p>
<lg>
  <l>घाटीभयं स ऐशाने सर्वदिक्षु न शोभनः ।</l>
  <l>स्थानस्थितस्यैककालं सर्वदा सर्वथा त्यजेत् ॥ १९३ ॥</l>
</lg>
<p>2516</p>
<lg>
  <l>कृप्यारम्भदिने क्षेत्रं प्रविष्टस्याथ तित्तिरे: ।</l>
  <l>प्राच्यां रुतं सर्वभीत्यै प्रतीच्यां भीतिसंभवः ॥ १९४ ॥</l>
</lg>
<p>2517</p>
<lg>
  <l>उदीच्यां सस्यनिष्पत्तिर्याम्यां निष्पत्तिनाशनम् ।</l>
  <l>गृहान्निर्गच्छतां वामे शुभं क्षेत्रे च दक्षिणम् ॥ १९५ ॥</l>
</lg>
<p>2518
स्थानस्थस्य प्रयातुर्वा तित्तिरिर्ध्वनितस्तदा ।
खरस्य दटिते ग्राह्यं चेष्टा चास्य शुभा हिता । १९६ ॥
2519
केदार पाल्यां गेहे वा शशको दृश्यते यादे ।
महासुभिक्षं जानीया गीतानां चापि निर्भयम् । १९७ ॥
2520</p>
<lg>
  <l>आषाढे शशका दृष्टा स्थानस्थाने सुभिक्षदाः ।</l>
  <l>चतुष्पदादिनाशाय तब्यै शशदर्शनम् ॥ १९८ ॥</l>
</lg>
<p>2521</p>
<lg>
  <l>केदारगाहसमये कृष्णसर्पो विलोक्यते ।</l>
  <l>नेपलाशत्रुगारूढः सुभिक्षं त्र वदेत्तदा ॥ १९९ ॥</l>
</lg>
<pb n="386" />
<p>शकुनज्ञानम्
अथ लट्वा ।
2522</p>
<lg>
  <l>पूर्वस्मिन्दिवसे दृष्टा लट्ठा क्षेत्रे फलानना ।</l>
  <l>क्षेत्रं प्रविष्टा कुरुते फलदां प्रचुरां कृषिम् ॥ २०० ॥</l>
</lg>
<p>2523</p>
<lg>
  <l>सैव क्षेत्राद्विनिर्याता मूषिकोपद्रवाय सा ।</l>
  <l>दृष्टा मूषिकशङ्कायै ला कृषिप्रयोजने ॥ २०१ ॥</l>
</lg>
<p>अथ कीरायिका ।
2524</p>
<lg>
  <l>समर्पता विक्रयो वा प्रश्नो घुटुघुलारवात् ।</l>
  <l>नियोगिनां सदापि स्याल्लाभ: करकरारवः ॥ २०२ ॥</l>
</lg>
<p>2525</p>
<lg>
  <l>निर्वेदाय नृपवारं गन्तुर्धुलुघुलारवः ।</l>
  <l>काषुकाणां यवातस्य सिद्ध्यै करकरारवः ॥ २०३ ॥</l>
</lg>
<p>2526</p>
<lg>
  <l>निरुपद्रवनिष्पत्यै क्षेत्रमध्ये सदैव हि ।</l>
  <l>दुर्भिक्षाय च तत्रैव भवेद्घुलारवः ॥ २०४ ॥</l>
</lg>
<p>2527</p>
<lg>
  <l>धान्यस्य राशौ निष्पन्ने सा चेलुघुलायते ।</l>
  <l>तद्धान्यं धनिको नैव गृह्णाति परकीयवत् ॥ २०५॥</l>
</lg>
<p>2528</p>
<lg>
  <l>संग्रहे तृणकाष्ठानां सा चेदुलुघुलायते ।</l>
  <l>तन माझं गृह्यते चेत्प्रदीपनभयाय तत् ॥ २०६॥</l>
</lg>
<p>2529</p>
<lg>
  <l>भीतानां परचक्रेपि प्रसृते वा भवेद्यदि ।</l>
  <l>तस्या घुटुघुलारावस्तदा निस्तारयेवम् ॥ २०७ ॥</l>
</lg>
<pb n="387" />
<p>शार्ङ्गधरपद्धतिः
अथ पल्ली ।
2530</p>
<lg>
  <l>पली भुजेपसव्येथ मस्तके स्वामिमोदिनी ।</l>
  <l>पतन्ती कुरुते वामे लाभं हानिकरी करे ॥ २०८ ॥</l>
</lg>
<p>2531</p>
<lg>
  <l>करे च दक्षिणे व्याधिं हृदि राज्यादिलाभदा ।</l>
  <l>पृष्ठे चोपद्रव हन्त्युदरे मिष्टान्नभोजनम् ॥ २२९ ॥</l>
</lg>
<p>2532
अङ्गं दक्षिणमारुह्य वामेनोत्तरति स्फुटम् ।
तदा हानिकरी ज्ञेया व्यत्ययेन तु लाभदा ॥ २१० ।
2533</p>
<lg>
  <l>नाभी पुत्रफलं दत्ते कटौं गुह्ये च रोगकृत् ।</l>
  <l>जानुयुग्मे सुखं सृते पादयोश्च महाभयम् ॥ २११ ॥</l>
</lg>
<p>2534</p>
<lg>
  <l>चरणादूर्ध्वगीभूय यद्यारोहति मस्तकम् ।</l>
  <l>भाज्यं राज्यं तदा दत्ते पल्ली श्वेता विशेषतः ॥ २१२ ॥</l>
</lg>
<p>2535</p>
<lg>
  <l>चिन्तिताभ्यधिक लाभं स्थिता भोजनभाजने ।</l>
  <l>सर्वमेतत्फलं दत्ते वहन्तीनाडिकां श्रिता ॥ २१३ ॥</l>
</lg>
<p>2536</p>
<lg>
  <l>स्त्रीलाभं रतिलाभायुद्धं युद्धात्समागमं सङ्गात् ।</l>
  <l>भक्षालाभं इनेगदती पल्ली छत्रीस्वना नेष्टा ॥ २१४ ॥</l>
</lg>
<p>2537</p>
<lg>
  <l>पतिता मस्तके यस्य चिरं तिष्ठति पल्लिका ।</l>
  <l>मरणं तस्य झटिति तत्रोत्तीर्णेपि कष्टदा ॥ २१५ ॥</l>
</lg>
<p>2538</p>
<lg>
  <l>पलिकाया गृहद्वारे स्वरोतिथिसमागम् ।</l>
  <l>कुरुते स्वस्थचित्तस्य पृष्ठे चोरभयं स्वरः ॥ २१६ ॥</l>
</lg>
<pb n="388" />
<p>शकुनज्ञानम्
2539</p>
<lg>
  <l>दुग्धस्थाल्युपरिस्था गिरोलिका चतुष्पदस्य नाशाय ।</l>
  <l>सर्वासु दिक्षु शब्दस्तासां लोकस्य नाशाय ॥ २१७ ॥</l>
</lg>
<p>अथ वृश्चिकः ।
2540</p>
<lg>
  <l>दीपोत्सवे दैववशाद्यदि विद्धयति वृश्चिकः ।</l>
  <l>तवर्षं तस्य चोद्वेगधनमानादिहानिदम् ॥ २१८ ॥</l>
</lg>
<p>2541</p>
<lg>
  <l>वृश्चिको वस्तुमध्ये वा कुर्वतां वस्तुविक्रयम् ।</l>
  <l>महाघेतां सदा तस्य वस्तुनः कथयत्यदः ॥ २१९ ॥</l>
</lg>
<p>अथाङ्गस्फुरणम् ।
2542</p>
<lg>
  <l>दक्षिणमङ्गं पुंसः स्त्रियाश्च वामं शुभावहं स्फुरितम् ।</l>
  <l>नीचोच्चमध्यमात्रः फलति च गात्रोचितः स्पन्दः ॥ २२० ॥</l>
</lg>
<p>2543</p>
<lg>
  <l>धनवृद्धिरन्त्रकम्पे नाभिस्पन्दः स्वदेशनाशाय ।</l>
  <l>पृष्ठे पराजयाय स्फुरणं हृदयस्य विजयाय ॥ २२१ ॥</l>
</lg>
<p>2544</p>
<lg>
  <l>प्रियसंगमाय बाहोः कम्पो हत्कमलसंभवो भीत्यै ।</l>
  <l>मूर्ध्नि स्फुरिते राज्यं लभते सीमन्तिनीमक्ष्णोः ॥ २२२ ॥</l>
</lg>
<p>2545</p>
<lg>
  <l>वामस्याधः स्फुरणमसकृत्संगरे भङ्गहेतु-</l>
  <l>स्तस्यैवोर्ध्व हरति नितरां मानसं दुःखजालम् ।</l>
  <l>नेत्रोपान्ते हरति च धनं नेत्रकोणे च बन्धुं</l>
  <l>सव्ये चैतत्फलमविकलं व्यत्ययं चापसव्ये ॥ २२३ ॥</l>
</lg>
<pb n="389" />
<p>शार्ङ्गधरपद्धतिः
अथ संकीर्णशकुनानि ।
2546</p>
<lg>
  <l>नीचैरवरोहन्तस्तारा यान्तः प्रदक्षिणावर्त्ता: ।</l>
  <l>घ्नन्ति भयं भीतानां कृष्णाः सर्पाच माजीराः ॥ २२४ ॥</l>
</lg>
<p>2547</p>
<lg>
  <l>पूर्णाननाः समृद्ध्यै मार्जारभुजंगमादयोपि ये क्रूराः ।</l>
  <l>किं पुनर परे शकुनाः शस्तं चेष्टादिकं येषाम् ॥ २२५ ॥</l>
</lg>
<p>2548</p>
<lg>
  <l>गर्भगृहे शय्यादौ देहल्यामाज्यकुम्भमुख्येषु ।</l>
  <l>चुल्हीगृहमूर्धादिषु न शुभा निन्द्यप्रदेशे च ॥ २२६ ॥</l>
</lg>
<p>2549</p>
<lg>
  <l>नेष्टो गृहोपविष्ट छत्रासनवाहनादिसंस्थो वा ।</l>
  <l>नेष्टः शिरसि विमुञ्चन्वर्चः पाण्डुः कपोतस्तु ॥ २२७ ॥</l>
</lg>
<p>2550</p>
<lg>
  <l>पिङ्गलाफेरुजम्बुक्यो वृको घूकोह्नि शब्दितः ।</l>
  <l>निशि तित्तिरिशब्दाश्च जगदुद्दासहेतवः ॥ २२८ ॥</l>
</lg>
<p>2551</p>
<lg>
  <l>परस्य योनिं गच्छन्तो नृखरावपहाय देशभङ्गाय ।</l>
  <l>सर्वस्यापि हि जगतः प्रकृतिस्था विकृतिरुत्पातः ॥ २२९ ॥</l>
</lg>
<p>2552</p>
<lg>
  <l>उवासयितुं वेदमनि सरघाः कुर्वन्ति यन्मधुच्छत्रम् ।</l>
  <l>दुर्गा करोति नीडं कुर्युर्वल्मीकमुपदीकाः ॥ २३० ॥</l>
</lg>
<p>2553</p>
<lg>
  <l>ग्रामोद्वासन हैतोर्मामे नगरे तु तत्पतिवधाय ।</l>
  <l>प्रविशन्ति सिंहभसुकगोमायुतरक्षुमुख्यास्तु ॥ २३१ ॥</l>
</lg>
<p>2554
देशोदयाय प्रतिमप्रभावा
वनौषधीनामधिका फलर्धिः ।</p>
<pb n="390" />
<p>शकुनज्ञानम्
निकामवर्षित्वमथाम्बुदानां
धर्मप्रवृत्तिश्च सुराजता च ॥ २३२ ॥
अथ जाङ्घिकशकुनं प्रस्थितानाम् ।
2555</p>
<lg>
  <l>अश्विनीमैत्ररेवत्यो मृगो मूलं पुनर्वसुः ।</l>
  <l>पुष्यो ज्येष्ठा तथा हस्तः प्रस्थाने श्रेष्ठ उच्यते ॥ २३३ ॥</l>
</lg>
<p>2556</p>
<lg>
  <l>प्रीतोवदातवेषः कृतमङ्गल्यः प्रणम्य गुरुदेवान् ।</l>
  <l>अप्रतिरथं जपित्वा शुभ मुहूर्ते प्रतिष्ठेत ॥ २३४ ॥</l>
</lg>
<p>2557</p>
<lg>
  <l>अर्जुन: फाल्गुनः पार्थः किरीटी श्वेतवाहनः ।</l>
  <l>बीभत्सुर्विजयी कृष्णः सव्यसाची धनंजयः ॥ २३५ ॥</l>
</lg>
<p>2558</p>
<lg>
  <l>या वहति तत्र समये नाडी पादं तमग्रतः कृत्वा ।</l>
  <l>अन्तः प्राणे प्रविशति याया नायकवेषेण ॥ २३६ ॥</l>
</lg>
<p>2559</p>
<lg>
  <l>योजनशेषे नगराड्रामा क्रोशान्तरे पथि त्याज्यम् ।</l>
  <l>कल्याणं वाञ्छद्भिः पथितं च हास्यं च ॥ २३७ ॥</l>
</lg>
<p>2560</p>
<lg>
  <l>मुण्डनवपनविकर्तन तैलाभ्यङ्गाश्रुमोक्षमुख्यानि ।</l>
  <l>मैथुनमद्यदुरोदरकलहानपि वर्जयेत्तदहः ॥ २३८ ॥</l>
</lg>
<p>2561</p>
<lg>
  <l>संताय कमपि परुषं विप्रानवमान्य बालमाहत्य ।</l>
  <l>निर्भय योषितो वा प्रयाति नायाति पुनरत्र ॥ २३९ ॥</l>
</lg>
<p>2562</p>
<lg>
  <l>अतः सुस्थितचित्तेन प्रस्थातव्यं शुभे दिने ।</l>
  <l>स्मृत्वा क्षेमंकरों देवीं पश्यता शकुनाञ्शुभान् ॥ २४० ॥</l>
</lg>
<pb n="391" />
<p>शार्ङ्गधरपद्धतिः
2563</p>
<lg>
  <l>दधिदूर्वाक्षतपल्लवशङ्कभी खण्डरत्नकुसुमानि ।</l>
  <l>आदर्शामिष मृत्स्ना गो मथगोरोचनायुधमधूनि ॥ २४१ ॥</l>
</lg>
<p>2564</p>
<lg>
  <l>अम्भः कुम्भाम्भोरुह चामरभृङ्गारहेमरूप्याणि ।</l>
  <l>फलताम्बूलवराम्बर मदिरा मीनाज्यभो ज्यानि ॥ २४२ ॥</l>
</lg>
<p>2565</p>
<lg>
  <l>आशीर्वादमुखा स्त्री मन्त्रमुखो ब्राह्मणः प्रियवाक् ।</l>
  <l>कुशलं पृच्छन्नतिथिः प्रियसुहृदानन्दपरिपूर्णः ॥ २४३ ॥</l>
</lg>
<p>2566</p>
<lg>
  <l>शीत: सुरभिर्विरजाः प्रदक्षिणं मारुतः शनैः सर्पन् ।</l>
  <l>एते प्रयाणकाले चित्ताभीष्टं परं कुर्युः ॥ २४४ ॥</l>
</lg>
<p>(चतुर्भि: कलापकम् )</p>
<p>2567</p>
<lg>
  <l>सिद्ध्यै यातुरविघ्नं श्रुतिप्रथजाता: प्रयाणसमकालम् ।</l>
  <l>नान्दीमङ्गल तूर्यप्रास्थानिकशङ्कनिर्घोषः ॥ २४५ ॥</l>
</lg>
<p>2568</p>
<lg>
  <l>आरूढस्वामिकोश्व: स्याद्वित्तचिन्तितसिद्धये ।</l>
  <l>सर्वेषां सुरतक्रीडा दृष्टादौ भोगलब्धये ॥ २४६ ॥</l>
</lg>
<p>2569</p>
<lg>
  <l>सद्य: प्रसूता सुरभी सवत्सा: कामधेनवः ।</l>
  <l>रश्मिवद्ध वृषः श्रेष्ठो द्वौ चेदत्यन्ततः शुभौ ॥ २४७ ॥</l>
</lg>
<p>2570</p>
<lg>
  <l>दृष्टः श्रुतो वा भूपालबाव: केकी करी वृष: ।</l>
  <l>प्रस्थाने वा प्रवेश वा सर्वसिद्धिकराः स्मृताः ॥ २४८ ॥</l>
</lg>
<p>2571</p>
<lg>
  <l>चामं रोदनमाहुः शस्तं यदि रोदिता न दृश्यः स्यात् ।</l>
  <l>शंसन्ति द्वेष्याणां तोरणरुदितां न संसिद्धयै ॥ २४९ ॥</l>
</lg>
<pb n="392" />
<p>25
शकुनज्ञानम्
2572</p>
<lg>
  <l>सिद्ध्यै केनचिदुक्तं पृष्ठे गच्छेति पुरत एहति ।</l>
  <l>मागाः क्व यासि तिष्ठेत्येवं रूप निषेधाय ॥ २५० ॥</l>
</lg>
<p>2573</p>
<lg>
  <l>दृष्ट: शव: प्रवासे रोदनबन्धः प्रियाणि साधयति ।</l>
  <l>धत्ते स तु प्रवेशे दीर्घरुजं दीर्घनिद्रां वा ॥ २५१ ॥</l>
</lg>
<p>2574</p>
<lg>
  <l>दीनक्षपणोन्मत्तप्रव्राजक विकृतवेषहीनाङ्गाः ।</l>
  <l>न शुभा: शुभास्तु सर्वे यतयो भिक्षोल्लसत्पात्राः ॥ २५२॥</l>
</lg>
<p>2575</p>
<lg>
  <l>पिष्टान्नमशुभं सर्व भृष्टं धान्यं न सिद्धये ।</l>
  <l>सिद्धमन्नं सर्वसिद्धयै कथितं कष्टहेतवे ॥ २५३ ॥</l>
</lg>
<p>2576</p>
<lg>
  <l>आर्तद्रुतस्वरज्ञा विभिन्नदीनप्रभिन्नलघुरौद्राः ।</l>
  <l>निन्द्याः शुभास्तु शब्दाः प्रमुदितपरिपूर्णदृडशान्ताः ॥२६४॥</l>
</lg>
<p>2577</p>
<lg>
  <l>संहार बीजबहुल: केनचिदुक्का प्रशस्यते नाशीः ।</l>
  <l>गमने यइत्साक्षात्र्यक्षः क्षपयति विपक्षं ते ॥ २५६ ॥</l>
</lg>
<p>2578</p>
<lg>
  <l>उत्पाताय च काव्ये दुरुपश्रुतिरभिनये च नाट्यानाम् ।</l>
  <l>स्वस्थानामपि यदजस्ता धारा धरित्रीति ॥ २५६ ॥</l>
</lg>
<p>2579</p>
<lg>
  <l>सार्जार महिषयुद्धं स्वनितं गृहदाह बन्धुकलहाव्यम् ।</l>
  <l>विद्युत्या दुर्दिन मयात्रिकं सूतके हेच ॥ २५७ ॥</l>
</lg>
<p>2580</p>
<lg>
  <l>प्रतिसूर्यदर्शनो ल्काप्रपात के तुप्रबोधनिर्घाताः ।</l>
  <l>वृष्टिः करकापात: पुंसां प्रस्थानविघ्नाय ॥ २५८ ॥</l>
</lg>
<p>2581</p>
<lg>
  <l>क्षोभपलायनभङ्गस्खलन विपर्यासभङ्गवेगादि ।</l>
  <l>यन्मुख्यवाहनानां तदपि निषेधाय गमनस्य ॥ २५९ ॥</l>
</lg>
<pb n="393" />
<p>शार्ङ्गधरपद्धतिः
2582</p>
<lg>
  <l>निन्द्यानि लोहशृङ्गलभस्मेन्धनरज्जुरिक्तभाण्डानि ।</l>
  <l>कर्पास के शविष्ठास्थीनि गुडवर्मलवणानि ॥ २६० ॥</l>
</lg>
<p>2583</p>
<lg>
  <l>तक्रवसा तृणकर्परपिण्याकाङ्कारभुजगमार्जाराः ।</l>
  <l>निन्द्या मुण्डा मलिनास्तैलं रिपुमहिषगर्दभारूढाः ॥२६१॥</l>
</lg>
<p>अथ शकुनविचारः ।
2584</p>
<lg>
  <l>स्थानं गतिस्तथा चेष्टा स्वरो दिगिति पञ्चधा ।</l>
  <l>विचार्या: शकुनास्तत्र बलवन्तो यथोत्तरे ॥ २६२ ॥</l>
</lg>
<p>2585</p>
<lg>
  <l>क्रोशादन्तर्बली तस्मादूर्ध्वं मन्दफलस्ततः ।</l>
  <l>न जातः सर्वथा यस्य शकुन: स्यात्स मृत्यवे ॥ २६३ ॥</l>
</lg>
<p>2586</p>
<lg>
  <l>शकुन: शकुनं दवा दीप्तां यदि दिशं व्रजेत् ।</l>
  <l>तदा तस्यैव पञ्चत्वं तत्फलं पथिकस्य न ॥ २६४ ॥</l>
</lg>
<p>2587</p>
<lg>
  <l>आसन्ने फलमासन्नं दूरगे दूरगं फलम् ।</l>
  <l>मिश्रं तु मिश्रे शकुने फलमा हुर्मनीषिणः ॥ २६५ ॥</l>
</lg>
<p>2588</p>
<lg>
  <l>गृहभित्तिवप्रकूटाद्यन्तरे शकुनं भवेत् ।</l>
  <l>दृश्यते चेदर्घफलमदृष्टमफलं विदुः ॥ २६६ ॥</l>
</lg>
<p>2589</p>
<lg>
  <l>रोगातः क्षुधितो भीतो वननीडादिसङ्गवान् ।</l>
  <l>न ग्राह्यः शकुन: सीमा शैलाद्यन्तरितः शुभः ॥ २६७ ॥</l>
</lg>
<p>2590</p>
<lg>
  <l>प्राणायामाष्टकं कुर्यादाचे द्विगुणितं इये ।</l>
  <l>तृतीये शकुने दुष्टे तदिनं गमनं त्यजेत् ॥ २६८ ॥</l>
</lg>
<pb n="394" />
<p>शकुनज्ञानम्
2591</p>
<lg>
  <l>स्पष्टचेष्ट: शुभ: श्वानो निर्भीको निकटस्थितः ।</l>
  <l>सर्वथा सिद्धये ग्राह्यः शकुन: स्पष्टदर्शनः ॥ २६९ ॥</l>
</lg>
<p>2592</p>
<lg>
  <l>शुभः प्रागशुभः पश्चादशुभ: प्राक्छुभस्ततः ।</l>
  <l>पाश्चात्यः फलदोवश्यं शकुन: सर्वकर्मसु ॥ २७० ॥</l>
</lg>
<p>2593</p>
<lg>
  <l>समकालं सजातीया वामदक्षिणराविणः ।</l>
  <l>शकुनास्तोरणासंज्ञाः सिद्धिं कुर्युर्गमागमे ॥ २७१॥</l>
</lg>
<p>2594</p>
<lg>
  <l>नरस्यात्यन्तिके कार्ये जाते दुःशकुनं भवेत् ।</l>
  <l>यदा तदा जपेत्तत्र मन्त्रं सुशकुनातये ॥ २७२ ॥</l>
</lg>
<p>2595
मन्त्रः । ॐ भगवत्या भद्रकाल्या भट्टपुत्रस्तु कुर्कुटः ।</p>
<lg>
  <l>द्धप्रसादतः काइयां स मे स्याच्छकुनं नरः ।</l>
  <l>ॐ अस्तु अस्तु अस्तु ॥ २७३ ॥</l>
</lg>
<p>2596</p>
<lg>
  <l>मन्त्रमिति सप्त जात्रा स्थाने तस्मिन्विशेत्क्षणं यावत् ।</l>
  <l>मन्त्रप्रभावजातं सुशकुनमालोक्य गच्छेत ॥ २७४ ॥</l>
</lg>
<p>अथ जाङ्क्षिकशकुनेषु शुभचेष्टितानि ।
2597</p>
<lg>
  <l>वामां दिशं दक्षिणभूमिभागा-</l>
  <l>द्रच्छन्प्रयाणे भषण: प्रशस्तः ।</l>
  <l>वामप्रदेशात्स पुनः प्रवेशे</l>
  <l>प्रशस्यते दक्षिणभागगामी ॥ २७५ ॥</l>
</lg>
<p>2598
जाते प्रवेशे भवति प्रशस्ता
शुन्या गतिः श्वानविपर्येण ।</p>
<pb n="395" />
<p>शार्ङ्गधरपद्धतिः
न चेष्टितं प्रत्युभयोर्विशेष:
शुनीशुनोत्र च कश्चिदस्ति ॥ २७६ ॥
2599</p>
<lg>
  <l>मूत्रं विधायाभिमुखं प्रयाति</l>
  <l>यो जागरूकः शुभदः स पुंसाम् ।</l>
  <l>कार्येषु सर्वेष्वपि सर्वकालं</l>
  <l>न मूत्रयन्ती शुनकी प्रशस्ता ॥ २७७ ॥</l>
</lg>
<p>2600
इ</p>
<lg>
  <l>ज</l>
  <l>छत्रध्वजोलूखल मुद्रुमेषु ।</l>
  <l>कुम्भेष्टकासंचयमाचरेषु</l>
  <l>पर्याणमृत्पुष्पफलादिकेषु ॥ २७८ ॥</l>
</lg>
<p>2601</p>
<lg>
  <l>व्रजेत्पुरस्ताद्यदि मूत्रयित्वा</l>
  <l>सदैव तत्सिध्यति कार्यमिष्टम् ।</l>
  <l>मृष्टान्नभोज्यं नत्रगोमये स्या-</l>
  <l>न्मूत्रेण शुष्केपि च शुष्कभोज्यम् ॥ २७९ ॥</l>
</lg>
<p>(साभ्यां युग्मम् )</p>
<p>2602</p>
<lg>
  <l>आयाति हृष्टोभिमुखो यदि वा</l>
  <l>क्रीडां प्रकुर्वन्वितुठंस्तथा ।</l>
  <l>शीघ्रं तदानीं ध्रुवमध्वगानां</l>
  <l>भवेत्प्रभूतो धनधान्यलाभः ॥ २८० ॥</l>
</lg>
<p>2603</p>
<lg>
  <l>नृणां प्रयाणे भवनागमे वा</l>
  <l>नो रमन्ते यदि सप्रमोदाः ।</l>
  <l>नदिष्टकार्येपि भवेत्प्रमोदः</l>
  <l>समागमथ स्वजनैः समं स्थात् ॥ २८१ ॥</l>
</lg>
<pb n="396" />
<p>शतम्
2604</p>
<lg>
  <l>स्थित्वोसते वा यदि त प्रदेशे</l>
  <l>पादेन कण्डूयति दक्षिणेन ।</l>
  <l>शिर: प्रदेशं नियतं नरस्य</l>
  <l>तद्वित्तलाभं विदधाति सद्यः ॥ २८२ ॥</l>
</lg>
<p>2605</p>
<lg>
  <l>उच्चात्प्रदेशादवतीर्य निम्नं</l>
  <l>यो याति वामोथ सुखप्रदोसौ ।</l>
  <l>निम्म्रप्रदेशात्पुनरुच्चदेशं</l>
  <l>यक्षो व्रजन्दक्षिणगोपि शस्तः ॥ २८३ ॥</l>
</lg>
<p>2606
मानवावयवपूरिताननो
वीक्षितो भवति भूमिलाभकृत् ।
स्यात्पुनः
: स्वरसनाप्रचालना-
न्मण्डलो विपुलभूतिलाभदः ॥ २८४ ॥
2607</p>
<lg>
  <l>अन्नादिविष्ठानवगोमयानि</l>
  <l>न वा विधुन्वन्वदने सदैव ।</l>
  <l>वामोपसव्योप्यवलोक्यमानो</l>
  <l>मनोरथं पूरयते ध्रुवश्च ॥ २८५ ॥</l>
</lg>
<p>2608</p>
<lg>
  <l>गवा सह क्रीडति चेत्तदानीं</l>
  <l>प्रयोजनं सिध्यति यद्यदिष्टम् ।</l>
  <l>ग्रामप्रदेशे पुरतश्च मूत्रय-</l>
  <l>म्भवत्यभीष्टशनलब्धये वा ॥ २८६ ॥</l>
</lg>
<p>2609
यक्षः पुरस्तादवनिं विलिख्य
यातुर्मुखं पश्यति चेत्तदानीम् ।</p>
<pb n="397" />
<p>शार्ङ्गधरपद्धतिः
तत्रैव देशे द्रविणस्य लाभं
ब्रवीति कार्य हे संशयोत्र ॥ २८७ ॥
2610</p>
<lg>
  <l>वामेन गच्छन्पथिकेन सार्धं</l>
  <l>ददाति रम्यां रमणीं धनेन ।</l>
  <l>व्रजंस्तु मार्ग सह दक्षिणेन</l>
  <l>कौलेय कस्तस्करभीतिमाह ॥ २८८ ॥</l>
</lg>
<p>2611</p>
<lg>
  <l>आदाय पत्रं त्वरितं यदि श्वा</l>
  <l>दूर्वी नवां वा नवगोमयं वा ।</l>
  <l>प्रयाति यातुः पुरतस्तदानीं</l>
  <l>राजप्रसादं नियतं ब्रवीति ॥ २८९ ॥</l>
</lg>
<p>2612</p>
<lg>
  <l>यक्षो हरिद्रामिषगैरिकाद्यैः</l>
  <l>पूर्णाननो वक्ति सुवर्णलाभम् ।</l>
  <l>दृष्टिं पुनः पत्रफलाङ्करेषु</l>
  <l>चिरं ददानो निधिलाभकारी ॥२९० ॥</l>
</lg>
<p>2613</p>
<lg>
  <l>फलं गृहीत्वा सहसा निवासं</l>
  <l>यक्षो विशञ्जल्पति पुत्रलाभम् ।</l>
  <l>योभ्येति हृष्टोभिमुखः प्रयातुः</l>
  <l>शीघ्रं स कुर्याद्धनधान्यलाभम् ॥ २९९ ॥</l>
</lg>
<p>2614</p>
<lg>
  <l>यः पल्लवैः क्रीडति वृक्षमूलं</l>
  <l>तथेक्षते यः स ददाति सौख्यम् ।</l>
  <l>रक्ताक्षवक्रोभिमुखोभ्युपैति</l>
  <l>यो मण्डलः सोवनिलाभमाह ॥ २९२ ॥</l>
</lg>
<pb n="398" />
<p>शकुनज्ञानम्
2615</p>
<lg>
  <l>युद्धं विधातुं चलितस्य मध्या-</l>
  <l>त्सैन्यद्वयस्यानुपदस्य यत्र ।</l>
  <l>कौलेयको मूत्रयते ध्वजादा-</l>
  <l>वसंशयं तस्य भवेज्जयश्रीः ॥ २९३ ॥</l>
</lg>
<p>2616</p>
<lg>
  <l>योद्धव्यमद्यैव मयेति यातुः</l>
  <l>प्रावेशिकं स्याच्छुभदं निमित्तम् ।</l>
  <l>दिनान्तरे यस्तु नरो युयुत्सुः</l>
  <l>क्षेमंकर यात्रिकमेव तस्य ॥ २९४ ॥</l>
</lg>
<p>2617</p>
<lg>
  <l>रोगार्दिते भेषजसंप्रयोगे</l>
  <l>युद्धोद्यमे नष्टविलोकने च ।</l>
  <l>दुर्गप्रवेशे च शुनः प्रशस्ता</l>
  <l>तारागतिः संनिहिते भये वा ॥ २९५ ॥</l>
</lg>
<p>2618</p>
<lg>
  <l>तिष्ठतां प्रचलतां च नराणां</l>
  <l>मंदिरे प्रविशतां च समस्तम् ।</l>
  <l>दक्षिणं भषणचेष्टितमिष्टं</l>
  <l>चामकं पुनरुशन्ति विदुष्टम् ॥ २९६ ॥</l>
</lg>
<p>2619</p>
<lg>
  <l>खादति किंचन दृष्टिगतश्चे-</l>
  <l>द्यच्छति तद्विविधं बहुभोज्यम् ।</l>
  <l>धूतशिरा उत नामितपुच्छो</l>
  <l>यो भषणः स निषेधति भोज्यम् ॥ २९७ ॥</l>
</lg>
<p>अथाशुभचेष्टितानि ।
2620
बलेन वामो यदि नीयते श्वा
कष्टात्तदल्पं विदधाति लाभम् ।</p>
<pb n="399" />
<p>शार्ङ्गधरपद्धतिः
खनन्धरित्रीमसुखावहः स्या-
देवात्पुनः स्यादनिवृत्तिहेतुः ॥ २९८ ॥
2621</p>
<lg>
  <l>स्थानान्तरं विभ्रदुपानही चे-</l>
  <l>त्प्रयाति तद्रव्यहरस्तदा स्यात् ।</l>
  <l>आस्ते पुरस्तात्सह याति चेच्छा</l>
  <l>ददात्युपानद्वदनस्तथार्थम् ॥ २९९ ॥</l>
</lg>
<p>2622</p>
<lg>
  <l>आई की कसमुखः पुरतश्चे-</l>
  <l>हृदयते भवति तच्छुभदः श्वा ।</l>
  <l>चर्म शुष्कमथवास्थि विशुष्कं</l>
  <l>विभ्रदेष मरणं विदधाति ॥ ३०० ॥</l>
</lg>
<p>2623</p>
<lg>
  <l>के शाश्मभस्मोल्मुकजीर्णवस्त्रा-</l>
  <l>व्यङ्गाररज्ज्विन्धनकर्पराणि ।</l>
  <l>व समासाद्य च याति यातु-</l>
  <l>दृग्गोचरे भूरिभयावहः श्वा ॥ ३०१ ॥</l>
</lg>
<p>2624</p>
<lg>
  <l>दीर्घपाद: पथि स्थित्वा रोदिति श्वा प्रवासिनः ।</l>
  <l>तत्कुटुम्ब रोदयते मार्ग लिखति वित्तदः ॥ ३०२ ॥</l>
</lg>
<p>2625</p>
<lg>
  <l>निविशत्यर्धमार्गे चेत्तदा मामान्तरे स्थितिः ।</l>
  <l>भवति वा लुठति चेन्मार्गामेणेह कष्टदः ॥ ३०३ ॥</l>
</lg>
<p>2626</p>
<lg>
  <l>दक्षिणे निजपक्षनो वामे स्त्रीपक्षहानिकृत् ।</l>
  <l>पृष्ठे च गृहदुःखाय जायते लुटनं शुनः ॥ ३०४ ॥</l>
</lg>
<p>2627
अत्यन्तकण्डूतिपरो नराणां
विरोधकारी शुनकः सदैव ।</p>
<pb n="400" />
<p>शकुनज्ञानम्
स्थादूर्ध्वपादः शुनकः शयान:.
सिद्धिप्रदः कार्यविधौ विदुष्टे ॥ ३०५ ।
2628</p>
<lg>
  <l>अस्थातुरमे यदि सारमेयः</l>
  <l>कायं सपुच्छं श्रवणं धुनोति ।</l>
  <l>ध्रुवं तदा तत्र दृढमहारा</l>
  <l>हरान्त चोरा द्रविणं क्षणेन ॥ ३०६ ॥</l>
</lg>
<p>2629
अङ्गारशूलाइमपलालकेश-
विस्तीर्णविट्चर्ममृतेषु दृष्टः 1
श्वा मूत्रयन्यच्छति कार्यनाशं
दारिद्र्यमृत्युप्रमुखाननर्थान् ॥ ३०७ ॥
2630</p>
<lg>
  <l>विषमांसभक्षादिकपूर्णव को</l>
  <l>भयार्दितः श्वा यदि कम्पमानः ।</l>
  <l>परामुखो याति तदाध्वगानां</l>
  <l>नश्यन्ति सिद्धान्यपि वाञ्छितानि ॥ ३०८ ॥</l>
</lg>
<p>2631
विजृम्भते लेढि च नालिका में
यः स्वाङ्गभङ्गं भषणः करोति ।
स लाभहानि प्रकरोति पुंसो
मृत्युप्रदः श्वान्तरलङ्कनेन । ३०९ ॥
2632</p>
<lg>
  <l>चामकेन यदि दक्षिण म</l>
  <l>दक्षिणेन भषों यदि वामम् ।</l>
  <l>स स्पृशत्यभिमतो न कदाचि-</l>
  <l>तत्प्रयोजनविधौ कचनापि ॥ २१० ॥</l>
</lg>
<pb n="401" />
<p>शार्ङ्गधरपद्धतिः
2633</p>
<lg>
  <l>विधूतकर्णे शुनि चेत्पुरस्ता-</l>
  <l>त्पान्थो विशेद्वेश्म तदा समस्तम् ।</l>
  <l>प्रत्यागतोर्थ समुपार्ज्य पापा-</l>
  <l>स्तं राजकीयाः पुरुषा हरन्ति ॥ ३११ ॥</l>
</lg>
<p>2634</p>
<lg>
  <l>दक्षिणगः प्रथमं तदनु स्या-</l>
  <l>द्वामगतिव्रजतामशितुं श्वा ।</l>
  <l>वेदमनि यत्र नरैस्तु तदनं</l>
  <l>दूरतरं विषवत्यजनीयम् ॥ ३१२ ॥</l>
</lg>
<p>अय शिवा ।
2635</p>
<lg>
  <l>प्रायः प्रमाणमेता वामरवा संपदे शिवा गन्तुः ।</l>
  <l>नेष्टा दक्षिणशब्दा तत्र विशेषस्तु दिग्जनितः ॥ ३१३ ॥</l>
</lg>
<p>2636</p>
<lg>
  <l>भानुयुक्ता दिशो निन्द्या स्तिस्रो दीप्ता शिवारुते ।</l>
  <l>दग्धाः प्रज्वलिता धूम्राः शेषाः पञ्च शुभा मताः ॥ ३१४ ॥</l>
</lg>
<p>2637</p>
<lg>
  <l>वधं बन्धं रुजं ब्रूते शिवा दीप्ते दिशात्रये ।</l>
  <l>लाभं क्षेमं जयं राज्यं सौख्यं दिक्पञ्चके शुभे ॥ ३१५ ॥</l>
</lg>
<p>2638</p>
<lg>
  <l>वापसव्ये पुरतोपि पृष्ठे</l>
  <l>पुंसः शिवा जल्पति यत्र यत्र ।</l>
  <l>आयान्ति चोराः प्रथमे विरावे</l>
  <l>द्वयोर्भवेत्तस्करदर्शनं च ॥ ३१६ ॥</l>
</lg>
<p>2639
नृपातिरोषागमनं तृतीये
तुर्ये क्षितिः पञ्चमकेर्थलाभः ।</p>
<pb n="402" />
<p>11
शकुन ज्ञानम्
वाणिज्य सेवादिफलाय षष्ठे
श्रीः सप्तमे स्याद्विफलोष्टमेषु ॥ ३१७ ॥
2640</p>
<lg>
  <l>यात्रास्वपि वामरवा शिवा शिवा शान्तदिक्षु नान्यास ।</l>
  <l>दक्षिणरवापि शान्ते शस्ता शास्त्राप्रमाणेन ॥ ३१८ ॥</l>
</lg>
<p>20
2641</p>
<lg>
  <l>वामा प्रदीप्ते ककुभः प्रदेशे</l>
  <l>लाभं तदा हीनमुपाददाति ।</l>
  <l>शिवा रटन्ती पथि दक्षिणे तु</l>
  <l>क्षिपत्यनर्थान्बहुसंकटेषु ॥ ३१९ ॥</l>
</lg>
<p>2642</p>
<lg>
  <l>अध्यास्य शान्तां ककुभं गृगाली</l>
  <l>नरस्य वामा यदि रारटीति ।</l>
  <l>तदर्थलाभं वितरत्यवश्य</l>
  <l>मर्थक्षयं दक्षिणतो रटन्ती ॥ ३२० ॥</l>
</lg>
<p>2643</p>
<lg>
  <l>दक्षिणतः प्रथमं यदि पश्चा-</l>
  <l>द्वामगता पथिकस्य शृगाली ।</l>
  <l>फेत्कुरुते कुरुते तदवश्यं</l>
  <l>क्षेमधनाप्तिगृहागमनानि ॥ ३२१ ॥</l>
</lg>
<p>2644</p>
<lg>
  <l>कार्यान्तरेष्वप्यनुगम्यमाना</l>
  <l>श्रेयः प्रदा शान्तादेशि प्रदिष्टा ।</l>
  <l>शिवा प्रदीप्ते तु दिशः प्रदेशे</l>
  <l>समारटन्ती महते भयाय ॥ ३२२ ॥</l>
</lg>
<p>2645</p>
<p>भयोद्यमे दीप्तादेशि प्रदीतै-
नदैर्नृणां हन्ति महान्ति देवी ।</p>
<pb n="403" />
<p>शार्ङ्गधरपद्धनिः
भयानि सर्वाण्यपि शान्तनादा
शान्तस्थिता सैव भयाय भूमे ॥ ३२३ ॥
2646</p>
<lg>
  <l>यदा च नद्युत्तरणे नराणां</l>
  <l>शब्द शृंगाली कुरुते कदाचित् ।</l>
  <l>तटद्वये तत्परिरक्षणीयं</l>
  <l>भयं महद्भावि जलेचरेभ्यः ॥ ३२४ ॥</l>
</lg>
<p>अथ फेरवः ।
2647</p>
<lg>
  <l>यात्रायां गच्छतां वामाः स्वनिताः फेरवः शुभाः ।</l>
  <l>निषेधयन्ति ते यात्रां शृगाला दक्षिणारवाः ॥ ३२५ ॥</l>
</lg>
<p>2648</p>
<lg>
  <l>शान्तासु दिक्षु फेरूणां हृष्ट: शब्द: प्रशस्यते ।</l>
  <l>एको रवः सदा निन्द्यः सोप्यातनां भयापहः ॥ ३२६ ॥</l>
</lg>
<p>2649</p>
<lg>
  <l>गतिर्वामा प्रयाणे तु प्रवेशे दक्षिणा शुभा ।</l>
  <l>नत्रस्थो न विलम्बेत शस्तः सर्वत्र जम्बुकः ॥ ३२७ ॥</l>
</lg>
<p>अथोलूकपिङ्गले ।
2650</p>
<lg>
  <l>अथ घूकस्वरो वामे यात्रायां गच्छतः शुभः ।</l>
  <l>दक्षिणे मृतये किंचिद्दुष्टं दर्शनमस्य हि ॥ ३२८ ॥</l>
</lg>
<p>2651</p>
<lg>
  <l>कौशिको दक्षिणो मूत्वा पश्चाद्दामस्वरो यदि ।</l>
  <l>कष्टं विधाय मृत्यन्तं निर्वाणे कार्यसाधकः ॥ ३२९ ॥</l>
</lg>
<p>2652
करोति हुं हुं भुगिति ध्वनिं यो
नेष्टो न दुष्टः स यतो रतार्थी ।</p>
<pb n="404" />
<p>शकुन ज्ञानम्
चलश्चलः स्यात्कलहाय शब्द:
किकीति दीप्तो गुरुरुग्लुशान्तः ॥ ३३० ॥
2653</p>
<lg>
  <l>पृष्ठे च वामे विदधाति शब्दः</l>
  <l>समीहित पान्थजनस्य रात्रौ ।</l>
  <l>विशेषतो वायसवैरिशब्दो</l>
  <l>दुष्टः प्रदिष्टोहान सर्वदिक्षु ॥ ३३१ ॥</l>
</lg>
<p>2654</p>
<lg>
  <l>पिङ्गला वामनिनदा प्रयाणे शान्तादेविस्थता ।</l>
  <l>प्रशस्ता विपरीता च कष्टोद्वेगी ददाति सा ॥ ३३२ ॥</l>
</lg>
<p>2655</p>
<lg>
  <l>पूर्व दक्षिणशब्दा स्यात्ततो वामस्वरा यदि ।</l>
  <l>अतीव कष्टं दवा निर्वाणे कार्यसाधिका ॥ ३३३ ॥</l>
</lg>
<p>अथ काकः ।
2656</p>
<lg>
  <l>आगन्तौ जातिके चैव सर्वे काकाः समाः स्मृताः ।</l>
  <l>क्षेत्रजे शकुने माह्यः काकोलस्तेषु सर्वदा ॥ ३३४ ॥</l>
</lg>
<p>2657</p>
<lg>
  <l>कार्याकार्येषु काकोल: प्रशस्तः स्याद्यथा किल ।</l>
  <l>न तथा वायसा ज्ञेया ग्राह्यास्तु तदभावतः ॥ ३३५ ॥</l>
</lg>
<p>2658</p>
<lg>
  <l>दक्षिणदेशे शब्दं कुर्वन्गच्छंश्च दक्षिणेनैव ।</l>
  <l>काकः शुभः प्रयाणे शुभः प्रवेशे तु विपरीतः ॥ ३३६ ॥</l>
</lg>
<p>2659</p>
<lg>
  <l>वामेन गत्वा विनिवृत्य मार्गे</l>
  <l>काको यदा दक्षिणभागग: स्यात् ।</l>
  <l>यातुः करोतीहितकार्यसिद्धिं</l>
  <l>क्षेमं च शीघ्रं पुनराममं च ॥ ३३७ ॥</l>
</lg>
<pb n="405" />
<p>शार्ङ्गधरपद्धतिः
2660</p>
<lg>
  <l>कृत्वा रवं यः पुरतः प्रयाति</l>
  <l>पुरः स्थितो यो मृदमादधाति ।</l>
  <l>कण्डूयते यश्च शिरोङ्गिणासौ</l>
  <l>पुंसां तदाभीष्टफलं ददाति ॥ ३३८ ॥</l>
</lg>
<p>2661</p>
<lg>
  <l>स्तम्भे गजानां नियतं गजाप्तिं</l>
  <l>गजाधिरूढः पृथिवीपतित्वम् ।</l>
  <l>तुरंगमे वाहनभूमिलाभं</l>
  <l>करोति काको विजयं ध्वजे च ॥ ३३९ ॥</l>
</lg>
<p>2662</p>
<lg>
  <l>प्रशान्तनादः शिखरे तरूणां</l>
  <l>स्त्रीसङ्गसौख्यं करटोभिधत्ते ।</l>
  <l>धान्यादिकूटेषु तथान्नलाभं</l>
  <l>गोपृष्ठगो गोवनिताधनाप्तिम् ॥ ३४० ॥</l>
</lg>
<p>2663</p>
<lg>
  <l>अन्नादिविष्ठापिशितादिभिर्यः</l>
  <l>पूर्णाननोभीष्टफलप्रदोसौ ।</l>
  <l>मन्त्रादिसिद्ध्य वणिगादिलाभे</l>
  <l>शस्तो विवाहादिविधौ च काकः ॥ ३४१ ॥</l>
</lg>
<p>2664</p>
<lg>
  <l>चिह्नध्वजच्छत्रकृताधिरोह:</l>
  <l>समुद्यतं शत्रुबलं प्रपश्यन् ।</l>
  <l>आजौ जयं जल्पति भूमिपानां</l>
  <l>कृतस्वनः क्षीरतरौ च काकः ॥ ३४२ ॥</l>
</lg>
<p>2665
कांक्कामिति क्रीमिति योषिदाध्यै
योगाय कोंको मिति शब्दितं स्यात् ।</p>
<pb n="406" />
<p>शकुनज्ञानम्
अपत्यलाभः कुकु इत्यनेन
गन्तुः फलं केंकक इत्यनेन ॥ ३४३ ॥
2666</p>
<lg>
  <l>क्रोक्रोमितीदं शुभलाभकारी</l>
  <l>क्रुक्रं निनादः प्रियसंगमाय ।</l>
  <l>मित्राप्तये स्यात्क इतीदृशं च</l>
  <l>करोति काको वदति स्वतुष्टया ॥ ३४४ ॥</l>
</lg>
<p>2667</p>
<lg>
  <l>क्षेमं विधत्ते करभस्य पृष्ठे</l>
  <l>खरस्य पृष्ठेरिभयं वधं च ।</l>
  <l>क्रोडस्य पृष्ठे धनमर्थलाभं</l>
  <l>तस्यैव पृष्ठे घनपङ्कलि ॥ ३४५ ॥</l>
</lg>
<p>2668</p>
<lg>
  <l>सद्यो ज्वरं सैरिक पृष्ठसंस्थो</l>
  <l>मृताङ्गसंस्थो मरणं करोति ।</l>
  <l>कार्यक्षतिं रिक्तघटाइमसंस्थ:</l>
  <l>काकः काले काष्ठनिविष्टदृष्टः ॥ ३४६ ॥</l>
</lg>
<p>2669</p>
<lg>
  <l>प्रयाति वामे यदि पृष्ठदेशे</l>
  <l>कृतार वस्तद्रुधिर श्रुति: स्यात् ।</l>
  <l>बल्लोवरत्रादिवसां गृहीत्वा</l>
  <l>प्रयाति वामे स हि सर्पभीत्यै ॥ ३४७ ॥</l>
</lg>
<p>2670</p>
<lg>
  <l>नदीतटे वाथ रटन्नटव्यां</l>
  <l>खरस्वरो व्याघ्रभयाय गन्तुः ।</l>
  <l>नैवातुर: कापि मतो हिताय</l>
  <l>न हृष्टपुष्टः कचिदेव दुष्टः ॥ ३४८ ॥</l>
</lg>
<pb n="407" />
<p>शार्ङ्गधरपद्धतिः
2671</p>
<lg>
  <l>•तुण्डेन पुच्छं विलिखनखरेण</l>
  <l>स्वरेण यो रौति निरीक्षतेर्कम् ।</l>
  <l>एकेन पाढेन तथोपविष्टो</l>
  <l>ब्रूते स बन्धं पुरतो जनस्य ॥ ३४९ ॥</l>
</lg>
<p>2672</p>
<lg>
  <l>यात्रोद्यमे सैन्यवधाय काको</l>
  <l>दृष्टो रथेभाश्वनृमस्तकेषु ।</l>
  <l>आयाति यस्याभिमुखो बलस्य</l>
  <l>युद्धोद्यमे तस्य पराजयः स्यात् ॥ ३५० ॥</l>
</lg>
<p>2673</p>
<lg>
  <l>क्राका इति क्रोरिति च द्विरुक्तं</l>
  <l>क्रूक्रूमिति को कुकुहूरितीदम् ।</l>
  <l>रुतं प्रदिष्टं मरणाय पुंसां</l>
  <l>गन्तुर्विनाशं कुरुते त्ववश्यम् ॥ ३५१ ॥</l>
</lg>
<p>2674</p>
<lg>
  <l>क्रीं क्रीमिति क्रोमिति च त्रयोमी</l>
  <l>क्रां क्रामिति द्वौ चरणौ रणाय ।</l>
  <l>का का इतीदं च विघातकारी</l>
  <l>स्यात्का इतीदं विफलं सदैव ॥ ३५२ ॥</l>
</lg>
<p>अथ पोतकी ।
2675
ग्रामा हिर्वजित्वा स्तोकान्तर दूर मार्गमध्यास्य ।
उच्चार्य स्वस्थ्ययनं विष्णुं तार्क्ष्यं च संस्मृत्य ।</p>
<lg>
  <l>तत्रावलोक्य दिनकर मुच्चार्य किरीटिनोभिधानानि ।</l>
  <l>नामानि कृष्णिकायाः प्रोक्का नत्वा च तां पश्येत् ॥३५३॥</l>
</lg>
<p>(युग्मम )</p>
<pb n="408" />
<p>26
शकुनज्ञानम्
अर्जुन: फाल्गुनः पार्थ इति पूर्वोक्तनामानि ।
2676</p>
<lg>
  <l>इयामा कृष्णा शकुनिः सितपक्षा पोतकी कुमारी त्वम् ।</l>
  <l>दुर्गा देवी चटका धनुर्धरी पाण्डवी च वराही त्वम् ॥३५४॥</l>
</lg>
<p>2677</p>
<lg>
  <l>पान्थजननी तथोमा ब्रह्मसुता शकुनदेवता त्वमसि ।</l>
  <l>प्रत्यक्षा भत्र भगवति नमोस्तु ते देहि मे सिद्धिम् ॥ ३५५ ॥</l>
</lg>
<p>अथ पोतकीशकुन विचारः ।
2678</p>
<lg>
  <l>दिक्कालस्वरचेष्टाभावगतिस्थानकार्यसंप्रश्नान् ।</l>
  <l>यो वेत्ति शान्तदीप्तांस्तत्रास्ते शाकुनं ज्ञानम् ॥ ३५६ ॥</l>
</lg>
<p>2679</p>
<lg>
  <l>भस्मितदग्धज्वलितालिङ्गितधूमान्विता विमुच्य पञ्चैताः ।</l>
  <l>शेषा दिशः प्रशान्ताः कालो विष्टयादिनिर्मुक्तः ॥ ३५७ ॥</l>
</lg>
<p>2680</p>
<lg>
  <l>शान्तो भौमेपि रवो दहनानिलगगनजाः स्वरा दीप्ताः ।</l>
  <l>चेष्टाः शुभाः प्रसन्ना भावः शोकादिनिर्मुक्तः ॥ ३५८ ॥</l>
</lg>
<p>2681</p>
<lg>
  <l>वक्रादिदोषरहिता ऋज्वी तारागतिः प्रशस्ता स्यात् ।</l>
  <l>तरुतोरणादि शान्तं स्थानं दीप्तं कपोतादि ॥ ३५९ ॥</l>
</lg>
<p>2682</p>
<lg>
  <l>कार्य च शान्तदीप्तं ज्ञात्वा विद्वान्विचारयेत्सर्वम् ।</l>
  <l>शान्ते शान्तं ग्राह्यं दीप्ते दीप्तं च गृह्णीयात् ॥ ३६० ॥</l>
</lg>
<p>2683</p>
<lg>
  <l>चिलि भूलि रवौ भौमे चि कुरुतिः कूचीति निस्वनावाप्यो ।</l>
  <l>कितुरिति तैजसः स्यात्स्खलिता नादाञ्च ये केचित् ॥ ३६१ ॥</l>
</lg>
<p>2684</p>
<lg>
  <l>चिवीति स्त्रो मारुतः स्याचुलिकुलिनादश्च तादृशः कथितः ।</l>
  <l>आम्बरमाहुश्चिरिरिति चिकुरिति पञ्च विद्वांसः ॥ ३६२ ॥</l>
</lg>
<pb n="409" />
<p>शार्ङ्गधरपद्धतिः
2685</p>
<lg>
  <l>लाभदश्चिलचिलीति निनादः</l>
  <l>शूलिशुलिनिनदोपि तथैव ।</l>
  <l>कूचिकूचेिइति वापि जलार्थे</l>
  <l>व्याहतौ चिकुरिति स्वर उक्तः ॥ ३६३ ॥</l>
</lg>
<p>2686</p>
<lg>
  <l>कीतुकीतुइति यो मधुरोसौ</l>
  <l>कामदस्तु निनदः स्खलिताख्यः ।</l>
  <l>स्याद्भयाय नियमेन चिचीति</l>
  <l>निःस्वनाश्चिलिकुनाद इहापि ॥ ३६४ ॥</l>
</lg>
<p>2687</p>
<lg>
  <l>कष्टदश्चिरिचिरीति विराव-</l>
  <l>श्रीकुचीकु इति दैन्यविधायि ।</l>
  <l>एवमीदृशफला दश नादा:</l>
  <l>प्रस्फुटा निगदिता भगवत्या ॥ ३६५ ॥</l>
</lg>
<p>2688</p>
<lg>
  <l>दर्शनचेष्टास्वरगतिभक्ष्यग्रहणेष्वधिकमधिकं स्यात् ।</l>
  <l>क्रमशो बलमेतेषां समुदाय: सकलफलहेतुः ॥ ३६६ ॥</l>
</lg>
<p>2689</p>
<lg>
  <l>वामाइक्षिणगमना या सा तारा निगद्यते पुरतः ।</l>
  <l>दक्षिणतो वामं या याता सा कीर्त्यते वामा ॥ ३६७ ॥</l>
</lg>
<p>2690</p>
<lg>
  <l>वामो विभागो निजपक्षनामा</l>
  <l>विपक्षनामाङ्कितदक्षिणः स्यात् ।</l>
  <l>वामे शुभं पूर्वमुदीक्षितायां</l>
  <l>यद्दक्षिणे हन्ति विलोकिता सा ॥ ३६८ ॥</l>
</lg>
<p>2691</p>
<lg>
  <l>वामविरावा वामे स्थिता प्रशस्ता गता तारा ।</l>
  <l>दक्षिणरवापि पक्षे स्थिता न शस्ता गता वामा ॥ ३६९ ॥</l>
</lg>
<pb n="410" />
<p>शकुनज्ञानम्
2692</p>
<lg>
  <l>सुखदुःखहर्षशोकप्रभृति यदामोति दैवतः शकुनिः ।</l>
  <l>सावस्था पक्षे स्वा ज्ञेया त्वन्यत्र शत्रूणाम् ॥ ३७० ॥</l>
</lg>
<p>2693</p>
<lg>
  <l>त्वरितं याती त्वरितं पूर्ण च समीहितं जनयेत् ।</l>
  <l>मध्यफला सविलम्बा हीनफला सुचिरगमनासु ॥ ३७१ ॥</l>
</lg>
<p>अथ पोतकीदर्शनम् ।
2694</p>
<lg>
  <l>अविकृतकृतभौमरवा सुस्थानस्था सुचेष्टिता वामे ।</l>
  <l>यात्रासु दृष्टमात्रा दुर्गा दुर्गाणि तारयति ॥ ३७२ ॥</l>
</lg>
<p>2695</p>
<lg>
  <l>दृष्टा प्रागुपविष्टा शान्तरवानन्तरं गता तारा ।</l>
  <l>सुचिरस्थानकृतस्थितिरभिमतफलदायिनी दुर्गा ॥ ३७३ ॥</l>
</lg>
<p>2696
उन्नतदक्षिणपक्षा भक्ष्यमुखी विहितपार्थिवनिनादा ।
तारा तरुमधिगच्छति तद्यच्छति वाञ्छितादधिकम् ॥३७४ ।॥
2697</p>
<lg>
  <l>अग्रेसरी कुमारी तत्पृष्ठे पुङ्गो यदा तारः ।</l>
  <l>सिद्धिस्तदोत्तमा स्यादृष्टाप्यादौ वरा दुर्गा ॥ ३७५ ॥</l>
</lg>
<p>2698</p>
<lg>
  <l>एकापि पञ्चशान्ता तारा वाञ्छाप्तये शुभासीना ।</l>
  <l>लाभ उभाभ्यामधिकस्तिस्रो राज्याय यात्रायाम् ॥ ३७६ ॥</l>
</lg>
<p>2699</p>
<lg>
  <l>क्षेत्रे ग्रामो ग्रामे नगरं नगरे तु मण्डलावाप्तिः ।</l>
  <l>तस्यामुर्वीत्येवं यो लाभो राज्यमा हुस्तम् ॥ ३७७ ॥</l>
</lg>
<p>ii
2700</p>
<lg>
  <l>नीचैर्यान्ती नीचं फलमधमाद्वा चिरेण वा दिशति ।</l>
  <l>मध्येन मध्यमात्रं तूर्ण पूर्ण शिरःसीमि ॥ ३७८ ॥</l>
</lg>
<pb n="411" />
<p>शार्ङ्गधरपद्धतिः
2701</p>
<lg>
  <l>आदो दर्शयति नतिं यान्ती यान्ती समुन्नतिं धत्ते ।</l>
  <l>अनुकूलापि वराही चिरेण तुच्छं फलं धत्ते ॥ ३७९ ॥</l>
</lg>
<p>2702</p>
<lg>
  <l>उच्चैरुड्डीयमाना नतिमन्ते वहति या तु गच्छन्ती ।</l>
  <l>यच्चिरलभ्यमथाल्पं तत्सा बहु यच्छति त्वरितम् ॥ ३८० ॥</l>
</lg>
<p>2703</p>
<lg>
  <l>वामे विधाय शब्द यात्यनुकूला करोति च विरावम् ।</l>
  <l>वामा ततोपि भूला रौति तदा बहुफला देवी ॥ ३८१ ॥</l>
</lg>
<p>2704</p>
<lg>
  <l>वामे विहितविचारा तारा भूत्वा करोति शब्दं या ।</l>
  <l>सा विनिहत्य गतेः फलमाद्यरवोत्थं फलं धत्ते ॥ ३८२ ॥</l>
</lg>
<p>2705</p>
<lg>
  <l>या याति मौनिनी वा प्रदक्षिणं हृद्यवामशब्दा वा ।</l>
  <l>ऋज्वी शुभाय गमने वामा ग्रामप्रेवेशे च ॥ ३८३ ॥</l>
</lg>
<p>2706</p>
<lg>
  <l>यचेका दक्षिणमा वामान्या तवयमुपेक्ष्याथ ।</l>
  <l>अन्या गवेषणीया मिश्रत्वे फलविमिश्रत्वम् ॥ ३८४ ॥</l>
</lg>
<p>2707</p>
<lg>
  <l>पृष्ठाभिमुखी पृष्ठे कार्ये नास्तीति संमुखी ब्रूते ।</l>
  <l>तारा लाभाय पुरः पृष्ठे नष्टार्थलाभाय ॥ ३८५ ॥</l>
</lg>
<p>J
2708</p>
<lg>
  <l>वामस्वरा समृद्धिं दक्षिणशब्दा निषेधमाचरति ।</l>
  <l>संमुखशब्दानर्थ पृष्ठरवा वदति पृष्ठवर्थम् ॥ ३८६ ॥</l>
</lg>
<p>2709</p>
<lg>
  <l>उड्डीयोर्ध्व गमने निपत्यवचना वधोन्मुखी शकुनिः ।</l>
  <l>वामे यातुर्निधनं दिशति विपक्षे विपक्षस्य ॥ ३८७ ॥</l>
</lg>
<p>2710</p>
<lg>
  <l>पक्षे भक्ष्यग्रहणं लाभाय विपक्षसंभव हान्यै ।</l>
  <l>पञ्चानामपि मुख्या भक्ष्याप्तिर्दर्शनादीनाम् ॥ ३८८ ॥</l>
</lg>
<pb n="412" />
<p>शकुन ज्ञानम्
2711</p>
<lg>
  <l>संमुखमायान्ती वा पृष्ठरवा वा तिरोभवन्ती वा ।</l>
  <l>अत्यन्तदुष्टचेष्टा या वा सा वारयेद्गमनम् ॥ ३८९ ॥</l>
</lg>
<p>2712</p>
<lg>
  <l>चापच्युतेव गुलिका वियति जवाद्याति दूरदेशं या ।</l>
  <l>तारा रणाय गन्तुमा इयामा तु मरणाय ॥ ३९० ॥</l>
</lg>
<p>2713</p>
<lg>
  <l>मृगयुमृगयां गच्छन्मार्गे मार्गे विमार्गयन्दुर्गाम् ।</l>
  <l>वामरवां तारां वा गृह्णीत मृगेषु दृष्टेषु ॥ ३९१ ॥</l>
</lg>
<p>2714</p>
<lg>
  <l>स्थानीकृतेषु यदि वा दृग्गोचरमागतेषु वध्येषु ।</l>
  <l>प्रावेशिकेन यायाव्याध: शकुनेन घाटिदस्तद्वत् ॥ ३९२ ॥</l>
</lg>
<p>अथ हंसचारः ।
2715</p>
<lg>
  <l>एकत्र साथै व्रजतां बहूनां</l>
  <l>तुल्येपि जाते शकुने फलानि ।</l>
  <l>नानाप्रकाराणि भवन्ति येन</l>
  <l>तं हंसचारं प्रविचारयामः ॥ ३९३ ॥</l>
</lg>
<p>2716</p>
<lg>
  <l>शशाङ्कनाड्यामथवार्कनाड्या-</l>
  <l>मन्तः शरीरे प्रविशन्त्युशन्ति ।</l>
  <l>यशः समृद्धिं कुशलं जयं च</l>
  <l>निर्गच्छतः स्यात्फलवैपरीत्यम् ॥ ३९४ ॥</l>
</lg>
<p>अथ शुभहंसचारः ।
2717</p>
<lg>
  <l>ऐन्दवी वहति नाडिका यदा</l>
  <l>स्वेच्छया प्रविशति प्रभञ्जनः ।</l>
  <l>पोतकी व्रजति दक्षिणा यदा</l>
  <l>स्यात्तदा सकलमीप्सितं फलम् ॥ ३९५ ॥</l>
</lg>
<pb n="413" />
<p>शार्ङ्गधरपद्धतिः
2718</p>
<lg>
  <l>स्याद्यदि वामा श्यामा वायुरिडां विशति चेत्तदा तत्र ।</l>
  <l>प्राक्तनशकुनात्किंचिन्यूनं भद्रं भवेन्नियतम् ॥ ३९६ ॥</l>
</lg>
<p>2719</p>
<lg>
  <l>मारुते विशति दक्षिणनाडीं</l>
  <l>दक्षिणा यदि गतिर्भगवत्याः ।</l>
  <l>ईप्सितं फलमुशन्ति तदार्थ</l>
  <l>निश्चयोत्र मुनिभिः कथितोयम् ॥ ३९७ ॥</l>
</lg>
<p>2720</p>
<lg>
  <l>निःसरत्युदरतो यदीडया</l>
  <l>मारुतो भगवती च दक्षिणा ।</l>
  <l>अल्पकं शुभफलं भवेत्तदा</l>
  <l>नात्र किंचिदविचारगोचरम् ॥ ३९८ ॥</l>
</lg>
<p>अथाशुभहंसचारः ।
2721</p>
<lg>
  <l>नाडिका वहति तापनी यदा</l>
  <l>निःसरत्युदरतः समीरणः ।</l>
  <l>अप्रदक्षिणगतिर्धनुर्धरी</l>
  <l>स्यादनिष्टफलमव्ययं तदा ॥ ३९९ ॥</l>
</lg>
<lg>
  <l>2722</l>
  <l>वायुर्दक्षिणनाच्या निःसरत्युदरतः समीरणः ।</l>
  <l>प्राक्तनशकुनाञ्यूनं किंचिदनिष्टं भवेत्तत्र ॥ ४०० ॥</l>
  <l>०॥</l>
</lg>
<p>2723</p>
<lg>
  <l>यदि वहति वामनाडीपवनो बहिरेति पोतकी वामा ।</l>
  <l>अर्धमनिष्टं भवात प्रस्थितकार्ये तदा नित्यम् ॥ ४०१ ॥</l>
</lg>
<p>2724</p>
<lg>
  <l>दक्षिणनाडी पूर्णा पवनेन गतिर्यदा च वामा स्यात् ।</l>
  <l>अल्पकमशुभं भवति ध्रुवमिह नैवास्ति संदेहः ॥ ४०२ ॥</l>
</lg>
<pb n="414" />
<p>शकुनज्ञानम्
2725</p>
<lg>
  <l>तारा यान्ती सोमनाड्यां वहन्त्यां</l>
  <l>शस्ता इयामा शोभने कार्यभागे ।</l>
  <l>संत्रासादौ शस्यते वैपरीत्या-</l>
  <l>त्संमिश्रत्वे स्यात्फलं मिश्रमेव ॥ ४०३ ॥</l>
</lg>
<p>2726</p>
<lg>
  <l>तेनैकस्मिन्नेव जाते निमित्ते</l>
  <l>यादृग्येषां प्राणचारोभ्युदेति ।</l>
  <l>तावृक्तेषां स्यात्फलं मानवानां</l>
  <l>नैकाकारो हंसचारः कचित्तु ॥ ४०४ ॥</l>
</lg>
<p>अथ तित्तिरिः ।
2727</p>
<lg>
  <l>यात्रायां तित्तिरिर्वामः स्वरः क्षेमाय शस्यते ।</l>
  <l>स एव कन्यकाकार्ये दक्षिणो वरलब्धये ॥ ४०५ ॥</l>
</lg>
<p>2728</p>
<lg>
  <l>वामः पूर्व दक्षिणः स्यात्ततो यः</l>
  <l>पश्चाद्दामश्चिन्तितार्थप्रदाता ।</l>
  <l>स्थैर्यारम्भे लाभकृत्ये प्रवेशे</l>
  <l>नष्टान्वेषे दक्षिणः श्रेष्ठकारी ॥ ४०६ ॥</l>
</lg>
<p>2729</p>
<lg>
  <l>कृष्णतित्तिरिरितीह पतत्री</l>
  <l>वृत्ततित्तिरिरिति प्रथितो यः ।</l>
  <l>चातकः स्वररवो दधिमल्लो</l>
  <l>गौरतित्तिरिसमाः शकुनेषु ॥ ४०७ ॥</l>
</lg>
<p>अथ लढा ।
2730</p>
<lg>
  <l>लढा दक्षिणगमना यात्रायां वामगा प्रवेशे च ।</l>
  <l>संमुखमायात्यग्रे न तस्य सौख्यादिदात्री सा ॥ ४०८ ॥</l>
</lg>
<pb n="415" />
<p>शार्ङ्गधरपद्धतिः
2731</p>
<lg>
  <l>पृष्ठादागच्छन्ती पृष्ठे सौख्यं करोत्युभयभागे ।</l>
  <l>यदि शुध्यति तयुग्मं विवाहयात्रे तदानिटे ॥ ४०९ ॥</l>
</lg>
<p>2732</p>
<lg>
  <l>त्रासिता पक्षिणान्येन त्रासमाख्याति यायिनः ।</l>
  <l>दृश्यते संमुखे तस्य वस्तु तद्वस्तुवृद्धिकृत् ॥ ४१० ॥</l>
</lg>
<p>अथ करायिका ।
2733</p>
<lg>
  <l>ग्रामादौ गच्छतां वाम: शुभ: करकरारवः ।</l>
  <l>दक्षिणः करायिकायाः श्रेष्ठो घुलुघुलारवः ॥ ४११ ॥</l>
</lg>
<p>2734</p>
<lg>
  <l>प्रवेशे स्याद्दक्षिणतः श्रिये करकरारवः ।</l>
  <l>वामे घुटुघुलारावो वैपरीत्येन शस्यते ॥ ४१२ ॥</l>
</lg>
<p>2735</p>
<lg>
  <l>प्रवेशे निर्गमे चैव दक्षिणे च गतिः शुभा ।</l>
  <l>उभयत्रापि वामा तु मूढा स्याद्धबन्धदा ॥ ४१३ ॥</l>
</lg>
<p>2736</p>
<lg>
  <l>शब्दं कृत्वोड्डीयते या गत्वा वा कुरुते ध्वनिम् ।</l>
  <l>शब्दायते तरौ वापि वामापि त्रजतां शुभा ॥ ४१४ ॥</l>
</lg>
<p>2737</p>
<lg>
  <l>प्रवेशेल्पफला सैव ग्रामे घुलुघुला शुभा ।</l>
  <l>बद्धस्य मुक्तये सद्यो मूढा घुलुघुलापि च ॥ ४१५ ॥</l>
</lg>
<p>2738</p>
<lg>
  <l>बद्धस्य द्रव्यनिर्गव्यै तस्याः करकरारवः ।</l>
  <l>वाणिज्यार्थ गच्छतां तु लाभदायी स एव हि ॥ ४१६ ॥</l>
</lg>
<p>अथ वृकः ।
2739</p>
<lg>
  <l>यात्रायामुच्चरन्वामश्चौरभीतिकरो वृकः ।</l>
  <l>दक्षिणे कष्टकृत्सार्थे स्त्री यदि स्यात्तदर्तये ॥ ४१७ ॥</l>
</lg>
<pb n="416" />
<p>शकुनज्ञानम्
2740</p>
<lg>
  <l>वरस्य परिणीतस्य सवधूकस्य गच्छतः ।</l>
  <l>यद्युत्तरन्ति च वृका निकटे पितृवेश्मनः ॥ ४१८ ॥</l>
</lg>
<p>2741</p>
<lg>
  <l>पितृमातृविनाशाय समीपे श्वशुरौकसः ।</l>
  <l>वधूश्वश्त्रोः पुत्रपित्रोरेकवासनिवारकः ॥ ४१९ ॥</l>
</lg>
<p>(युग्मम् )</p>
<p>2742
क्षेत्रे याताः कार्षुकस्य विना वृष्टिं तु ये वृकाः । ।
क्षेत्रमध्ये लुठन्तश्च दुर्भिक्षानर्थसूचकाः ॥ ४२० ॥
2743</p>
<lg>
  <l>पूर्व गृहीत्वा व्यापारं ग्रामं वा गच्छतो वृकः ।</l>
  <l>प्रयागपढ़वीं वामे प्रापयत्युत्तरं भृशम् ॥ ४२१ ॥</l>
</lg>
<p>2744</p>
<lg>
  <l>चौरस्यान्यस्य वा पुंसः परार्थग्रहणाय चेत् ।</l>
  <l>गच्छतो वा समुत्तीर्ण: फलदाता भवेकः ॥ ४२२ ॥</l>
</lg>
<p>2745</p>
<lg>
  <l>भवेकानां शकुनो दीप्ते कार्ये सुशोभन: ।</l>
  <l>सर्वकार्याणि मङस्य साधयत्येव सर्वतः ॥ ४२३ ॥</l>
</lg>
<p>अथ हरिणः ।
2746</p>
<lg>
  <l>विषमा हरिणा गौरा भाग्यायान्ति प्रदक्षिणम् ।</l>
  <l>प्रस्थाने न शुभा वामाः सकृष्णास्तेपि शोभनाः ॥ ४२४॥</l>
</lg>
<p>2747</p>
<lg>
  <l>उत्तीर्य दक्षिणे पूर्व पश्चाद्वामेतिनिन्दिताः ।</l>
  <l>कैश्चित्कृष्णो मृगश्चैकः कैश्चित्सर्वेपि नादृताः ॥ ४२५ ॥</l>
</lg>
<p>2748</p>
<lg>
  <l>नेत्ररोगाय ययेको वामगो मृगमध्यतः ।</l>
  <l>लाभदः स स्वपक्षे चेदुत्तीर्य प्रविशेत्यः ॥ ४२६ ॥</l>
</lg>
<pb n="417" />
<p>शार्ङ्गधरपद्धतिः
2749</p>
<lg>
  <l>खनव्युत्तीर्य भूमिं च निधानक्षितिलब्धये ।</l>
  <l>स्वपक्षे परपक्षे तु शस्त्रपातादिभीतये ॥ ४२७ ॥</l>
</lg>
<p>2750</p>
<lg>
  <l>उत्तीर्य पृष्ठतो याति वेष्टनं वा करोति चेत् ।</l>
  <l>स्त्रस्थस्य वेष्टनप्राप्तिः समयस्य भयं हरेत् ॥ ४२८ ॥</l>
</lg>
<p>2751</p>
<lg>
  <l>घ्नन्तः शृङ्गैर्विषाणाभ्यामुद्देगाय प्रवासिनः ।</l>
  <l>खेलन्तः सुरते वापि कुर्वन्तः कार्यसिद्धये ॥ ४२९ ॥</l>
</lg>
<p>2752</p>
<lg>
  <l>यद्युत्तरन्तस्त्रस्यन्ते तदा कार्यस्य नाशकाः ।</l>
  <l>एको दक्षिणगो गौरो मूत्रकृद्यः स लाभदः ॥ ४३० ॥</l>
</lg>
<p>2753</p>
<lg>
  <l>मृग्यो वां कृष्णसारो वा नोत्तरन्त्यः शुभावहाः ।</l>
  <l>शुभकार्येषु दीप्ते च कार्ये ते शोभनाः स्मृताः ॥ ४३१ ॥</l>
</lg>
<p>अथ नकुलः ।
2754</p>
<lg>
  <l>नकुलानामपि धन्यं विषमाणां दक्षिणं गतं यातुः ।</l>
  <l>लोमशिकापि श्रेष्ठा दर्शनतस्तारगश्चाषः ॥ ४३२ ॥</l>
</lg>
<p>अथ मिश्रशकुनानि ।
2755</p>
<lg>
  <l>सर्वत्र हंससारसत्रकोर हारीतचऋमिथुनानि ।</l>
  <l>धन्यानि दर्शनरुतैः खञ्जनदात्यूहमासाथ ॥ ४३३ ॥</l>
</lg>
<p>2756</p>
<lg>
  <l>शशशस्टकौल गोधाविषधरमार्जारकाँशिका न शुभाः ।</l>
  <l>मार्ग विलय यान्तो दीप्ते कार्ये च ते शुभदाः ॥ ४३४ ॥</l>
</lg>
<p>2757</p>
<lg>
  <l>व्याधिबधबन्धशुल्क ग्रहणेष्वन्वेषणे च नष्टस्य ।</l>
  <l>प्रस्थानाद्विपरीतः शकुन: शस्तः प्रवेशे च ॥ ४३५ ॥</l>
</lg>
<pb n="418" />
<p>शकुनज्ञानम् .
2758</p>
<lg>
  <l>अद्यतने योद्धव्ये शकुने विजयाय यात्रिकविरुद्धः ।</l>
  <l>दिवसान्तरिते युद्धे क्षेम: प्रास्थानिकः शकुनः ॥४३६ ॥</l>
</lg>
<p>अथ क्षुतम् ।
2759</p>
<lg>
  <l>लाभकारि भवेदैन्द्रद्र्यामानेय्यां हानिकृत्तथा ।</l>
  <l>यमालये मरणकन्नैर्ऋत्यां दुःखक़त्क्षुतम् ॥ ४३७ ॥</l>
</lg>
<p>2760
पश्चिमायां भवेल्लक्ष्मीः शुभवाती मरुद्दिशि ।</p>
<lg>
  <l>कौबेर्या ध्रुवलाभः स्यादेशान्यां विजयो भवेत् ।</l>
  <l>ब्रह्मस्थाने क्षुते जाते राज्यं निःसंशयं भवेत् ॥ ४३८ ॥</l>
</lg>
<p>2761</p>
<lg>
  <l>वामविभागे सफलं न दक्षिणे पृष्ठतः शुभं तच ।</l>
  <l>क्षुतमयेथे नियतं ददाति कष्टं तथा मरणम् ॥ ४३९ ॥</l>
</lg>
<p>2762</p>
<lg>
  <l>पौनः पुनिकं व्यर्थ हठहास्यभयादिभिर्विडालस्य ।</l>
  <l>श्वानस्य च मृत्युकरं पशुक्षुतं कष्टदं नियतम् ॥ ४४० ॥</l>
</lg>
<p>2763</p>
<lg>
  <l>वस्तुविक्रय कर्तव्ये क्षुतं विक्रयवारकम् ।</l>
  <l>लाभदं वस्तुनो आहे तच्चेत्स्याव्यवसायिनाम् ॥४४१ ॥</l>
</lg>
<p>2764</p>
<lg>
  <l>नष्टान्वेषे गच्छतां तु तच्च नष्टाप्तये भवेत् ।</l>
  <l>नव्ये परिधृते वस्त्रे क्षुतं चेदखलाभदम् ॥ ४४२ ॥</l>
</lg>
<p>2765
होमपूजाशनक्षेत्रधर्मान्ते चेद्भवेत्क्षुतम् ॥
सविशेष तदा कार्य पुनर्व्यावृय जायते ॥ ४४३ ॥
2766</p>
<lg>
  <l>क्षुतं प्रेतक्रियान्ते च पुनः प्रेतक्रियाकरम् ।</l>
  <l>बलिनं रिपुमाख्याति क्षुतं रिपुविनिमहे ॥ ४४४ ॥</l>
</lg>
<pb n="419" />
<p>शार्ङ्गधरपद्धतिः
2767</p>
<lg>
  <l>वैद्यस्य गच्छतो रोगं क्षुतं हन्ति क्षणादपि ।</l>
  <l>वैद्याह्वानाय दूतस्य गच्छतो रोगिमृत्युकृत् ॥ ४४५ ॥</l>
</lg>
<p>2768</p>
<lg>
  <l>कर्षणान्वेषणे यातुः क्षुतं जलदवृष्टये ।</l>
  <l>हेमादिभूषणे नव्ये विधृते भूषणाप्तये ॥ ४४६ ॥</l>
</lg>
<p>2769</p>
<lg>
  <l>शुभादनन्तरं श्रेष्ठमशुभानन्तरं क्षुतम् ।</l>
  <l>अशुभं सर्वकार्येषु तद्विचार्य विचक्षणैः ॥ ४४७ ॥</l>
</lg>
<p>अथ दिशां स्वभावकथनम् ।
2770</p>
<lg>
  <l>उदयास्तौ मूलाव्यौ उत्तरयाम्यो ध्रुवनिवासनामानौ ।</l>
  <l>नैर्ऋतवायव्यौ च प्रमाणचरकाढयौ तेषाम् ॥ ४४८ ॥</l>
</lg>
<p>2771</p>
<lg>
  <l>रूटे चैव भवेतामैशानानेय कोणयोरभिधे ।</l>
  <l>सहजं रविगतिजनितं चैषां द्वेधा प्रशान्तदीप्रत्वम् ॥४४९॥</l>
</lg>
<p>2772</p>
<lg>
  <l>प्राच्यं दीप्तं मूलं स्वभावतस्तुच्छकार्य च ।</l>
  <l>रवियोगात्मकृतेरपि दीप्ततरा स्याहिगेशानी ॥ ४५० ॥</l>
</lg>
<p>2773</p>
<lg>
  <l>एकान्तशान्तमेकं मन्यन्ते मानवा निवासाख्यम् ।</l>
  <l>उग्रस्य च शीतस्य च नाशकर कार्ययुग्मस्य ॥ ४५१ ॥</l>
</lg>
<p>2774</p>
<lg>
  <l>प्रमाणं निष्प्रमाणानां प्रमाणं कुरुतेतराम् ।</l>
  <l>पदस्थस्य पदावाप्तिर्नाशकृत्चरितं च तत् ॥ ४५२ ॥</l>
</lg>
<p>2775</p>
<lg>
  <l>प्राप्य प्रमाणकोणं यद्यन्यस्थस्य जायते शकुनः ।</l>
  <l>तस्याकस्मात्किचित्सत्वरमुत्पद्यते कार्यम् ॥ ४५३ ॥</l>
</lg>
<pb n="420" />
<p>शकुनज्ञानम्
2776</p>
<lg>
  <l>न प्रारब्धं सिध्यति न प्रस्थानं प्रमाणमायाति ।</l>
  <l>शकुने प्रमाणजाते विघटेत समागमे संधिः ॥ ४५४ ॥</l>
</lg>
<p>2777</p>
<lg>
  <l>विघटितमर्थ घटयति संशयितं वस्तु साधयत्यचिरात् ।</l>
  <l>प्रत्यानयति च नीतं प्रमाणकोणोदितः शकुनः ॥ ४५५ ॥</l>
</lg>
<p>2778</p>
<lg>
  <l>प्रत्यूहोपहतानां दिङ्ढानां मतिभ्रमार्तानाम् ।</l>
  <l>प्रायः प्रमाणशकुन: साधीयान् कान्दिशीकानाम् ॥४५६ ॥</l>
</lg>
<p>2779</p>
<lg>
  <l>पश्चिममूलं शान्तं स्वभावतस्त्वरितकार्यकृद्धीरम् ।</l>
  <l>सुस्थिर कर्मकरं च प्रोद्दीनं स्याद्रवेर्योगात् ॥ ४५७ ॥</l>
</lg>
<p>2780</p>
<lg>
  <l>रिक्तीकरोति पूर्ण रिक्तं पूर्ण करोति नियमेन ।</l>
  <l>प्रायः स्वरूपदीप्तः शकुनश्चरकप्रदेशोत्थः ॥ ४५८ ॥</l>
</lg>
<p>2781</p>
<lg>
  <l>उत्साहोज्झितमनसां राज्ञां परिमोषिणां जिगीषूणाम् ।</l>
  <l>निरुपायोद्विग्नानां साधुश्चरके सदा शकुनः ॥ ४५९॥</l>
</lg>
<p>2782</p>
<lg>
  <l>चौर्यावस्कन्दाहतपर संपत्संभृतप्रदेशानाम् ।</l>
  <l>सद्यो रिक्तीकरणं चरकं शकुनं समुद्भूतम् ॥ ४६० ॥</l>
</lg>
<p>2783</p>
<lg>
  <l>भूमिं गतोपि जीवति निगडैरपि संयतो विमुच्येत ।</l>
  <l>युध्यन्ते संनद्धाः क्रोधान्नोदायुधा योधाः ॥ ४६१ ॥</l>
</lg>
<p>2784</p>
<lg>
  <l>धरोद्भवं तु शकुनं शुभस्योर्ध्वं शुभाय तत् ।</l>
  <l>अशुभोर्ध्वं न भद्रं स्यात्सर्वत्रैषा विचारणा ॥ ४६२ ॥</l>
</lg>
<p>2785</p>
<lg>
  <l>शकटारोपितभाण्डोप्युच्चलति नैव यातुकामोपि ।</l>
  <l>ध्रुवदेशोत्थे शकुने किंत्वेकः प्रवसति स्वस्थः ॥ ४६३ ॥</l>
</lg>
<pb n="421" />
<p>शार्ङ्गधरपद्धतिः
2786</p>
<lg>
  <l>यस्योटजेपि वसतो ध्रुवं समासाद्य जायते शकुनः ।</l>
  <l>मासार्धमस्य न चिरात्पुंसः सौधानि साधयति ॥ ४६४ ॥</l>
</lg>
<p>2787</p>
<lg>
  <l>ग्रामारामामरगृहपरिखा वा यदि शाश्वतारम्भात् ।</l>
  <l>सिद्धिं ध्रुवोत्थशकुनो नयति सुखोद्वाहमुख्यांश्च ॥ ४६५ ॥</l>
</lg>
<p>2788</p>
<lg>
  <l>ईशानोत्थैः शकुनैचोरा ग्रामं प्रविश्य न लभन्ते ।</l>
  <l>न च रोगात जीवति स्वस्थोप्य स्वास्थ्यमामोति ॥ ४६६ ॥</l>
</lg>
<p>2789</p>
<lg>
  <l>ईशानोत्थैः शकुनैर्विशेषतः शूरमण्डलाक्रान्तैः ।</l>
  <l>रिपुवेष्टित इव दूरं त्यक्त्वा स्थानं पलायेत ॥ ४६७ ॥</l>
</lg>
<p>2790</p>
<lg>
  <l>पश्चिममूले शान्ते शकुना: शान्ताः शुभावहा: सद्यः ।</l>
  <l>प्राचीमूले च तथा शान्ताः परिणामसौख्यकराः ॥४६८ ॥</l>
</lg>
<p>2791</p>
<lg>
  <l>यस्मिन्देशे यथा येषां प्रसिद्धं शकुनं किल ।</l>
  <l>तस्मिन्देशे तथा तेषां फलदं नान्यतः कचित् ॥ ४६९ ॥</l>
</lg>
<p>अथ स्वरोदय: ।
2792</p>
<lg>
  <l>मयंप्राक्तनपुण्यस्य पापस्य च फलप्रदम् ।</l>
  <l>स्वरोदयं प्रवक्ष्यामि यं ज्ञात्वा नावसीदति ॥ ४७० ॥</l>
</lg>
<p>2793</p>
<lg>
  <l>स्वरोदये शुभे जाते शकुनैः किं प्रयोजनम् ।</l>
  <l>तस्मिंश्चाप्यशुभे जाते शकुनै: किं प्रयोजनम् ॥ ४७१ ॥</l>
</lg>
<p>2794</p>
<lg>
  <l>इडा सोमस्य नाडी स्यापिङ्गला सूर्यनाडिका ।</l>
  <l>इडा सौम्या भवेद्दामा पिङ्गलोया च दक्षिणा ॥ ४७२ ॥</l>
</lg>
<pb n="422" />
<p>शकुनज्ञानम्
2795</p>
<lg>
  <l>हंसाभिधानः पवनो नाभिमूलात्समुत्थितः ।</l>
  <l>नाडीमार्गेण जन्तूनां प्रकरोति गतागतम् ॥ ४७३ ॥</l>
</lg>
<p>2796</p>
<lg>
  <l>इडया संचरन्यायुः सौम्ये कार्ये शुभः स्मृतः ।</l>
  <l>पिङ्गलायां तथा दीप्ते द्वयोः कापि न शोभनः ॥ ४७४ ॥</l>
</lg>
<p>:
2797</p>
<lg>
  <l>अध्ययनमित्रसङ्गप्रवेशयात्राविवाहदानेषु ।</l>
  <l>शुभकार्येष्वखिलेष्वपि शस्तः सोमाध्वगः पवनः ॥ ४७५ ॥</l>
</lg>
<p>2798</p>
<lg>
  <l>युद्धवादरतवस्तुविक्रय-</l>
  <l>द्यूतभोजनभयोग्रकर्मसु ।</l>
  <l>सूर्यमार्गगमनः समीरण-</l>
  <l>स्तत्त्वदर्शिभिरतीव शस्यते ॥ ४७६ ॥</l>
</lg>
<p>2799</p>
<lg>
  <l>शुभ: स्यात्प्रविशन्नन्तर्मारुतो न तु निःसरन् ।</l>
  <l>सौम्ये वा दीप्तकार्ये वा सर्वत्रैषा विचारणा ॥ ४७७ ॥</l>
</lg>
<p>2800</p>
<lg>
  <l>यस्यां प्रवहति वायुर्नाडी सा जीवसंयुता गदेिता ।</l>
  <l>यस्यां नैष प्रवहति निर्जीवा सा समाख्याता ॥ ४७८ ॥</l>
</lg>
<p>2801</p>
<lg>
  <l>दीप्ते कार्ये नाडी परदिशि निर्जीवितां सदा कुर्यात् ।</l>
  <l>शान्ते च जीवसहितां ततस्तु सिध्यन्ति सर्वकार्याणि ॥ ४७९ ॥</l>
</lg>
<p>अथ पञ्चतत्वानि ।
2802</p>
<lg>
  <l>अम्भस्तत्वं भूमितत्त्वं च वायो-</l>
  <l>स्तत्त्वं तेजस्तत्वमाकाशतत्वम् ।</l>
  <l>पञ्चैतानि प्राणवायुं मिलित्वा</l>
  <l>नाडीयुग्मे प्राणिनां संचरन्ति ॥ ४८० ॥</l>
</lg>
<p>-</p>
<pb n="423" />
<p>शार्ङ्गधरपद्धतिः
2803</p>
<lg>
  <l>नाभि यावद्भवेन्मानो वारिणः षोडशाङ्गुलः ।</l>
  <l>धरायाश्च भवेत्तद्वत्प्रमाणो द्वादशाङ्गुलः ॥ ४८१ ॥</l>
</lg>
<p>2804</p>
<lg>
  <l>अष्टाङ्गुलस्य कथितो वायोर्मानो विचक्षणैः ।</l>
  <l>चतुरङ्गुलमानं च तेजस्तत्त्वं निगद्यते ॥ ४८२ ॥</l>
</lg>
<p>2805</p>
<lg>
  <l>व्यङ्गुलोन्मानमाकाशं कथितं तत्त्वदर्शिभिः ।</l>
  <l>एतानि पञ्च तत्रानि नाडीयुग्मे विचारयेत् ॥ ४८३ ॥</l>
</lg>
<p>2806</p>
<lg>
  <l>नीरस्याधो भूमेर्ऋज्वी वायोश्च तिर्यक्स्यात् ।</l>
  <l>ऊर्ध्वं तेजः प्रभवा शून्या गगनस्य गतिरुक्ता ॥ ४८४ ॥</l>
</lg>
<p>2807</p>
<lg>
  <l>नीरं वर्तुलमुर्वी चतुरस्रा वायुरर्धचन्द्रः स्यात् ।</l>
  <l>तेजस्त्रिकोणमम्बरमाकृत्या शून्यमुद्दिष्टम् ॥ ४८५ ॥</l>
</lg>
<p>2808</p>
<lg>
  <l>जलवसुधातत्त्वाभ्यामुदिताभ्यां सौम्यकार्यमतुलं स्यात् ।</l>
  <l>मारुततेजोभ्यां च प्रारब्धं दीप्तमेति संसिद्धिम् ॥ ४८६ ॥</l>
</lg>
<p>2809</p>
<lg>
  <l>शून्यं गमनं निष्फलमखिलेष्वापे शान्तदीप्तेषु ।</l>
  <l>कार्येषु निन्दितं तत्कथितमिदं पूर्वसूरिभिः सत्यम् ॥ ४८७॥</l>
</lg>
<p>2810</p>
<lg>
  <l>तत्रापि चिन्तनीयं सोमदिनाधीशनाडिकाचारात् ।</l>
  <l>फलमेतेषामखिलं मिश्रं संजायते यस्मात् ॥ ४८८ ॥</l>
</lg>
<p>2811</p>
<lg>
  <l>इडायां यदि भूम्यम्बुतत्रे प्रवहतस्तदा ।</l>
  <l>स्थिर सौम्यादि कार्याणामारम्भः सिद्धिद्भवेत् ॥ ४८९ ॥</l>
</lg>
<pb n="424" />
<p>27
पशुलक्षणानि
2812</p>
<lg>
  <l>पिङ्गलायां यदा तत्वं वायोर्वा तेजसो भवेत् ।</l>
  <l>उग्रकर्माणि सर्वाणि तदा सिध्यन्ति निश्चितम् ॥ ४९० ॥</l>
</lg>
<p>2813</p>
<lg>
  <l>यदेडायां मरुत्तत्त्वं तेजस्तत्वं भवेदुत ।</l>
  <l>कार्याणां सौम्यदीप्तानां सदा स्यान्मिश्रितं फलम् ॥ ४९९॥</l>
</lg>
<p>2814</p>
<lg>
  <l>पिङ्गलायां धरानीरतत्त्वे प्रवहतो यदि ।</l>
  <l>तदोमसौम्य कार्याणां भवेत्फलविमिश्रता ॥ ४९२ ॥</l>
</lg>
<p>2815</p>
<lg>
  <l>पिङ्गलायामिडायां वा व्योमतत्त्वं न शस्यते ।</l>
  <l>॥ कर्मणां शान्तदीप्तानामारम्भे नाशकं यतः ॥ ४९३ ॥</l>
</lg>
<p>2816</p>
<lg>
  <l>तत्वबलान्नाडीबलमधिकं प्रोक्तं महर्षिभिर्नियतम् ।</l>
  <l>ज्ञानं स्वरचारं नरो भवेत्कार्यनिपुणमतिः ॥ ४९४ ॥</l>
</lg>
<lg>
  <l>एते नानाशकुनशास्त्रेभ्यः केचिन्ममापि ।</l>
  <l>अथ पशूनां लक्षणानि चिकित्सा च ॥ ८४ ॥</l>
</lg>
<p>तेषु पूर्व
छागः ।
2817</p>
<lg>
  <l>भूपानां धनिनां वा गेहेषु वसन्ति संततं पशवः ।</l>
  <l>माह्या: सुलक्षणास्ते कुलक्षणा दूरतस्त्याज्याः ॥ १ ॥</l>
</lg>
<p>(2818</p>
<lg>
  <l>छागशुभाशुभलक्षणमभिधास्ये नवदशाष्टदन्तास्ते ।</l>
  <l>धन्याः स्थाप्या वेश्मनि संत्याज्याः सप्तदन्ता ये ॥ २ ॥</l>
</lg>
<p>HE THINGS
2819</p>
<lg>
  <l>स्तन इव च गले लम्बति यश्छागलानां मणिः स विज्ञेयः ।</l>
  <l>एकमणि: शुभफलकृद्धीनफला द्वित्रमणयो ये ॥ ३ ॥</l>
</lg>
<pb n="425" />
<p>शार्ङ्गधरपद्धतिः
2820</p>
<lg>
  <l>मुण्डाः सर्वे शुभदाः सर्वसिताः कृष्णदेहाश्च ।</l>
  <l>श्वेतार्धासितदेहा धन्याः कपिलार्धकृष्णाश्च ॥ ४ ॥</l>
</lg>
<p>2821</p>
<lg>
  <l>सपृषत्कण्ठाशरावानीलपृष्ठनिभश्च ताम्रवृक्शस्तः ।</l>
  <l>॥ कृष्णचरण: सितो वा कृष्णो वा श्वेतचरणो यः ॥ ५॥</l>
</lg>
<p>2822</p>
<lg>
  <l>यः कृष्णाण्डः श्वेतो मध्ये कृष्णेन भवति पट्टेन ।</l>
  <l>यो वा चरति सशब्दं मन्दं शस्तो न स छागः ॥ ६ ॥</l>
</lg>
<p>2823</p>
<lg>
  <l>कृष्णशिरोरुहपादो यो वा माक्पाण्डुरोपरे नीलः ।</l>
  <l>स भवति शुभकृच्छागः सोपि शुभो वामनो यश्च ॥ ७ ॥</l>
</lg>
<p>2824
अथाप्रशस्ता: खरतुल्यनादाः
॥१४। प्रदीप्तपुच्छा: कुनखा विवर्णाः ।
निकृत्तकर्णा द्विपमस्तकाश्च
भवन्ति ये वा सिततालुजिह्वाः ८ ॥
अथ शुनकः ।
2825</p>
<lg>
  <l>पादाः पञ्चनखात्रयस्तु चरणा: पडिर्नखैर्दक्षिणः</l>
  <l>ताम्रोष्ठानसो मृगेश्वरगतिर्जिघन्भुवं याति च ।</l>
  <l>लाङ्गूलं ससटं यदृक्षसदृशं कर्णौ च लम्बौ मृदू</l>
  <l>यस्य स्यात्स करोति पोष्टुरचिरात्पुष्टां श्रियं श्वा गृहे ॥ ९ ॥</l>
</lg>
<p>2826
पादे पादे पञ्च पञ्चाग्रपादे</p>
<lg>
  <l>HE</l>
  <l>वामे यस्याः षण्नखा मलिकाक्षी ।</l>
  <l>वक्रं पुच्छ पिङ्गला लम्बकर्णा</l>
  <l>या सा राष्ट्रं चुकुरी याति पुष्टा ॥ १० ॥</l>
</lg>
<pb n="426" />
<p>(1
पशुलक्षणानि
अथ गावः ।
2827</p>
<lg>
  <l>अस्ताविलरूक्षाक्ष्यो मूषकनयनाथ न शुभदा गावः ।</l>
  <l>प्रचलच्चिपिटविषाणा करटाः खरसदृशवर्णाच ॥ ११ ॥</l>
</lg>
<p>2828</p>
<lg>
  <l>दशसप्तचतुर्दत्यः प्रलम्बमुण्डानना विनतपृष्ठाः ।</l>
  <l>हूस्वस्थूलग्रीवा यवमध्या दारितखुराञ्च ॥ १२ ॥</l>
</lg>
<p>2829</p>
<lg>
  <l>श्यामातिदीर्घजिह्वा गुल्फैरतितनुभिरतिमहद्भिर्वा ।</l>
  <l>अतिककुदा कृशदेहा नेष्टा होनाधिकाङ्गाश्च ॥ १३ ॥</l>
</lg>
<p>2830</p>
<lg>
  <l>मार्जाराक्षः कपिलः करटाभो न शुभदो द्विजस्येष्टः ।</l>
  <l>कृष्णोष्ठतालुजिहस्त्रसनो यूथस्य नाशकरणाय ॥ १४ ॥</l>
</lg>
<p>2831</p>
<lg>
  <l>स्थूलशकृन्मणिशृङ्गः सितोदरः कृष्णसारवर्णश्च ।</l>
  <l>गृहजातोपि त्याज्यो यूथविनाशावहो वृषभः ॥ १५ ॥</l>
</lg>
<p>2832</p>
<lg>
  <l>इयामाकपुष्पचित्राङ्गो भस्मारुणसंनिभो बिडालाक्षः ।</l>
  <l>विप्राणामपि न शुभं करोति वृषभः परिगृहीतः ॥ १६ ॥</l>
</lg>
<p>2833</p>
<lg>
  <l>मृदुसंहतताम्रोष्ठास्तनुस्फिजस्ता म्रतालुजिह्वाञ्च ।</l>
  <l>तनुहस्वोच्चश्रवणाः सुकुक्षय: स्पष्टजङ्घाश्च ॥ १७ ॥</l>
</lg>
<p>2834</p>
<lg>
  <l>तनुभूस्पृग्वालधयो रक्तान्तविलोचना महोच्छ्रायाः ।</l>
  <l>सिंहस्कन्धास्तन्वल्पकम्बलाः पूजिताः सुगताः ॥ १८ ॥</l>
</lg>
<p>2835</p>
<lg>
  <l>वामावर्तेर्वा दक्षिणपार्श्वे च दक्षिणावर्तेः ।</l>
  <l>शुभदा भवन्त्यनडुहोजङ्घाभिचैडक निभाभिः ॥ १९ ॥</l>
</lg>
<pb n="427" />
<p>शार्ङ्गधरपद्धतिः
2836</p>
<lg>
  <l>लम्बैर्वृषणैर्मेषोदरैश्च संक्षिप्तवङ्कणः क्रोडः ।</l>
  <l>ज्ञेयो भाराध्वसहो जवेश्वतुल्यश्च शस्तफलः ॥ २० ॥</l>
</lg>
<p>2837</p>
<lg>
  <l>सितवर्णः पिङ्गाक्षस्ताम्रविषाणेक्षणो महावक्र: ।</l>
  <l>हंसो नाम शुभफलो यूथस्य विवर्धनः प्रोक्तः ॥ २१ ॥</l>
</lg>
<p>2838</p>
<lg>
  <l>भूस्पृग्वालधिराताम्रविषाणो द्धतककुझांश्च ।</l>
  <l>कल्माषश्च स्वामिनमाचेरात्कुरुते पतिं लक्ष्म्याः ॥ २२ ॥</l>
</lg>
<p>अथ गवादीनां चिकित्सा ।
2839</p>
<lg>
  <l>चूर्णीकृतेषुपुङ्खाया लवणान्वितपिण्डकान् ।</l>
  <l>वारिस्फोटा विनश्यन्ति द्रुतं वेसरवाजिनाम् ॥ २३ ॥</l>
</lg>
<p>2840
H</p>
<lg>
  <l>धाम्नः कुमारिकापत्रपिण्डो लवणसंयुतः ।</l>
  <l>हन्ति कण्डूं दशाहेन गजवेसरवाजिनाम् ॥ २४ ॥</l>
</lg>
<p>2841</p>
<lg>
  <l>कुष्ठसैन्धवसंयुक्तमधुलिप्ताङ्गवाल ।</l>
  <l>द्वेष्येपि कुरुते प्रीतिं वाजिनी प्रसवान्विता ॥ २५ ॥</l>
</lg>
<p>2842</p>
<lg>
  <l>तण्डूलीयकमूलानि तथा बिल्वकपित्थयोः ।</l>
  <l>गोघृतेन समालोय सपर्दष्टं तु पाययेत् ॥ २६ ॥</l>
</lg>
<p>2843</p>
<lg>
  <l>चन्दनागुरुकुष्ठैश्च लोध्रभार्गीफणिज्जकैः ।</l>
  <l>दंशलेपो विषं हन्ति जंगमं स्थावरं पुनः ॥ २७ ॥</l>
</lg>
<p>2844</p>
<lg>
  <l>मूलं हि शालपर्ण्याः शनिवारनिमन्त्रितं रवोर्देवसे ।</l>
  <l>नीतं विधिना बद्धं कण्ठे गण्डापचों हराने ॥ २८ ॥</l>
</lg>
<pb n="428" />
<p>पशुलक्षणानि
2845</p>
<lg>
  <l>घर्वित्वा लक्ष्मणामूलं प्रेरितं मुखवायुना ।</l>
  <l>योनिमध्यस्थितं गर्भ माहयेन्महिषीगवाम् ॥ २९ ॥</l>
</lg>
<p>2846</p>
<lg>
  <l>शाल्मलीतलनिर्यातदर्भखण्डस्य बन्धनात् ।</l>
  <l>शृङ्गनम्रा त्यजत्याशु जरामुद्देगकारिणीम् ॥ ३० ॥</l>
</lg>
<p>2847</p>
<lg>
  <l>मधुजीरकगोरम्भातक्रलेपप्रभावतः ।</l>
  <l>वत्सं स्निह्यात गौः क्षीरमतिमात्रं प्रयच्छति ॥ ३१ ॥</l>
</lg>
<p>2848</p>
<lg>
  <l>विलिप्तं मधुना चित्रं पाषाणं पुरतः स्थितम् ।</l>
  <l>लिहती मृतवत्सापि प्रस्नौति सुरभी द्रुतम् ॥ ३२॥</l>
</lg>
<p>2849</p>
<lg>
  <l>ब्रह्मदण्डीशिफार्के वा बद्धा चक्राङ्कमूलिका ।</l>
  <l>मन्थस्तम्भे सदा रक्षां क्षणस्य करोति सा ॥ ३३ ॥</l>
</lg>
<p>2850</p>
<lg>
  <l>अङ्गारैः शाकवृक्षस्य चूर्णितः सघृ॒तैरुयहम् ।</l>
  <l>दत्तैर्नइयत्यतीसारख्यहं पानीयवारणात् ॥ ३४ ॥</l>
</lg>
<p>2851</p>
<lg>
  <l>वरुणस्य फलाद्धस्तपीडिताद्गलितो रसः ।</l>
  <l>सत्रणे पूरितोशेषं कृमिजालं निपातयेत् ॥ ३५ ॥</l>
</lg>
<p>2852</p>
<lg>
  <l>अरलूवृक्षपत्राणां लेपो गोमुखरोगहत् ।</l>
  <l>गोनाससंभवः क्षारो हन्ति पुष्पं चिरोद्भवम् ॥ ३६॥</l>
</lg>
<p>2853</p>
<lg>
  <l>ज्वरदोषे समुत्पन्ने पशूनां त्रिकटाकृतिम् ।</l>
  <l>ललाटे लाञ्छनं कुर्यात्स्वल्पं लोहशलाकया ॥ ३७ ॥</l>
</lg>
<pb n="429" />
<p>૧૩
शार्ङ्गधरपद्धतिः
2854</p>
<lg>
  <l>लाजा: कुष्ठं नखं मांसी गोमयं तगरं घृतम् ।</l>
  <l>मयूरो गोमहिष्यादिगोठे धूप ज्वरापहः ॥ ३८ ॥</l>
</lg>
<p>2855</p>
<lg>
  <l>मलदोषे समुत्पन्ने गवां कण्ठे विबन्धयेत् ।</l>
  <l>घण्टां तत्र लिखेन्मन्त्रं यावकेनामयापहम् ॥ ३९ ॥</l>
</lg>
<p>2856
मन्त्रः । ॐ घण्टाकर्णो वटे रोते गणः प्रोक्तो महाबलः ।
मारीचिर्नाशनकरः स गाः पातु जगत्पतिः ॥ ४० ॥
अथ पशुवशीकरणम् ।
2857</p>
<lg>
  <l>अङ्गुष्टतर्जनीभ्यां गा घ्राणे संगृह्य नामयेत् ।</l>
  <l>मन्त्रेणानेन वश्याः स्युः पशवोश्वादयस्तथा ॥ ४१ ॥</l>
</lg>
<p>मन्लः । ॐ नमो भगवते विष्णवे पशूनां पतये नमः ठः ठः ॥
2858</p>
<lg>
  <l>चित्रोत्तरावैष्णवरोहिणीषु</l>
  <l>चतुर्दशीदर्शदिनाष्टमीषु ।</l>
  <l>स्थानं प्रवेशं गमनं पशूनां</l>
  <l>धीमान्विदध्यान कदाचिदेव ॥ ४२ ॥</l>
</lg>
<p>एते नानाशास्त्रेभ्यः ।
अथ विषापहरणम् । ८५ ॥
2859</p>
<lg>
  <l>स्थावरं जङ्गमं चेति द्विविधं विषमुच्यते ।</l>
  <l>स्थावर कालकूटादि जङ्गमं भौजगादिकम् ॥ १ ॥</l>
</lg>
<p>2860</p>
<lg>
  <l>चिकित्सा कथ्यते तेषां मन्त्रविद्याभिरौषधैः ।</l>
  <l>यां ज्ञात्वा सर्वजन्तूनां नरः स्यादुपकारकृत् ॥ २ ॥</l>
</lg>
<pb n="430" />
<p>विषापहरणम्</p>
<lg>
  <l>2861</l>
  <l>कालकूटादयो भेदा विषस्य नव सन्ति ये ।</l>
  <l>W</l>
  <l>चिकित्सा कथ्यते तेषां मन्त्रपूर्वमविस्तरात् ॥ ३ ॥</l>
</lg>
<p>2862</p>
<lg>
  <l>मारचं सैन्धवं सर्पिर्मधुनिम्बफलानि च ।</l>
  <l>समभागानि पिष्टानि पाययेद्विषमूर्च्छितम् ॥ ४ ॥</l>
</lg>
<p>2863</p>
<lg>
  <l>ततोस्य छर्दिरेको च भवतस्तत्क्षणादापे ।</l>
  <l>तस्मिन्निवृत्ते स्वस्थ: स्यात्कालकूटादिमोहितः ॥ ५ ॥</l>
</lg>
<p>2864</p>
<lg>
  <l>कर्कोटिकार्कयोर्मूलं चूर्णयित्वा च सर्षपान् ।</l>
  <l>सार्पेषा पाययेन्मन्त्री स्थावरक्ष्वेडशान्तये ॥ ६ ॥</l>
</lg>
<p>B
2865</p>
<lg>
  <l>वन्ध्याकटिकामूलं गोमूत्रेण घृतेन वा ।</l>
  <l>तण्डुलोदेन पीतं वा निहन्ति निखिलं विषम् ॥ ७ ॥</l>
</lg>
<p>2866</p>
<lg>
  <l>स्थावर जङ्गमं चैव नखदंष्ट्रादिकं च यत् ।</l>
  <l>श्रीफलस्य जटां सूक्ष्मां चूर्णीकृत्य निधापयेत् ॥ ८ ॥</l>
</lg>
<p>2867
शाणद्वयमितं चूर्ण काञ्जिन तु पाययेत् ।</p>
<lg>
  <l>स्थावरं जङ्गमं क्ष्वेडं तथा दूषीविषं च यत् ।</l>
  <l>तत्सर्व नाशयत्येव नात्र कार्या विचारणा ॥ ९ ॥</l>
</lg>
<p>2868</p>
<lg>
  <l>वामकरानामिकया जलपूर्ण सप्तवारमभिमन्य ।</l>
  <l>दक्षिणकरस्थपात्रं तस्मात्स तैव चुलुकानि ॥ १० ॥</l>
</lg>
<p>2869</p>
<lg>
  <l>पातुं यस्य च दद्यात्स निर्विषो भवति तत्क्षणादेव ।</l>
  <l>मन्त्रश्च शाबरोयं स उच्यते विषहरः परमः ॥ ११ ॥</l>
</lg>
<p>( युग्मम् )</p>
<pb n="431" />
<p>शार्ङ्गधरपद्धतिः</p>
<lg>
  <l>2870</l>
  <l>शिवः शबररूपेण यदा पार्थमयोधयत् ।</l>
  <l>शिवः श</l>
  <l>तदा प्रोवाच यान्मन्त्रांस्ते मन्त्रा शाबराः स्मृताः ॥१२॥</l>
</lg>
<p>मन्त्रः । ॐ गुरुके पाय शरणम् ।
ॐ चवि चवि चारि भार विसुमाटी ॥
अयोपविषाणि ।
2871</p>
<lg>
  <l>हरिद्रां दुग्धसहितामश्वमारविषार्दितः ।</l>
  <l>पिवेत्सशर्करां वापि ततः स्यानिर्विषो नरः ॥ १३ ॥</l>
</lg>
<p>2872</p>
<lg>
  <l>तण्डुलीयं गुडूचीं वा धत्तूरस्य विषे पिबेत् ।</l>
  <l>तथा कर्पासपञ्चाङ्गं तत्पञ्चाङ्ग विषापहम् ॥ १४ ॥</l>
</lg>
<p>32873
बल्बलान्तस्त्वचं पिष्टां जलेन कृतपिण्डिकाम् ।
यद्धा कर्णे विषस्थाने
at
विन्द्याद्विषविनाशिनीम् ॥ १५ ॥
TOODE
2874
1
छागदुग्धेन संपिष्य हरिद्रातिल दूर्विकाः
नाशयन्ति प्रलेपेन विषमर्कसमुद्भवम् ॥ १६ ॥
2875</p>
<lg>
  <l>प्रणश्यति गुडं पीत्वा कूष्माण्डरससंयुतम् ।</l>
  <l>सशर्कर वा गोदुग्धं कोद्रवस्वर्णयोर्मदः ॥ १७ ॥</l>
</lg>
<p>2876</p>
<lg>
  <l>॥ चुलुकैर्जलपानेन जिह्वाकर्षणतोपि वा ।</l>
  <l>पूगीफलमदो याति लवणस्याशनेन वा ॥ १८ ॥</l>
</lg>
<pb n="432" />
<p>11
विषापहरणम्
2877</p>
<lg>
  <l>घृतोद्वर्तनतो याति कण्डूतिः कपिकच्छुजा ।</l>
  <l>याति लूता शमं शीघ्रमिङ्गुदीत्वग्विलेपनात् ॥ १९ ॥</l>
</lg>
<p>2878</p>
<lg>
  <l>शतधौतं नवनीतं भल्लातकजं विषं हरेलेपात् ।</l>
  <l>ईदृग्विधं समस्तं शमयति नीली तथा लोध्रम् ॥ २० ॥</l>
</lg>
<p>2879</p>
<lg>
  <l>गुञ्जाफलानि विंशतिरभयात्रितयं गुडं च पलमात्रम् ।</l>
  <l>कृत्वैकत्र च गुटिकाः कुर्याच्छाणोन्मिताः सकलाः ॥ २१ ॥</l>
</lg>
<p>2880</p>
<lg>
  <l>गुटिकात्रितयं भुक्का पीत्वा चोष्णोदकं विरेकः स्यात् ।</l>
  <l>योगोयं दूषीविषहर्ता पथ्यं च तत्र दधिभक्तम् ॥ २२ ॥</l>
</lg>
<p>2881
कुठैले मलयजगैरिके सलोध्रे</p>
<lg>
  <l>12</l>
  <l>पिप्पल्यौ मधुकसुचर्चिकं च मांसी ।</l>
  <l>एषां यत्समधु नतोच्चटं च चूर्ण</l>
  <l>तद्दृषीविषमपहन्ति साधु लीढम् ॥ २३ ॥</l>
</lg>
<p>अथ जङ्गमविषाणि ।
तेषु पूर्व भुजंगः ।
Pleasama</p>
<p>2882</p>
<lg>
  <l>शेष वासु कितक्षाख्य कर्कोटाब्जमहाम्बुजाः ।</l>
  <l>शङ्खपालश्च जलिको नागा अष्टौ पुराभवन् ॥ २४ ॥</l>
</lg>
<p>2883</p>
<lg>
  <l>आद्यन्तौ च तदाद्यन्तौ तदाद्यन्तौ च मध्यमौ ।</l>
  <l>वह्नीन्दुवायुवरुणपुत्रौ पितृसमप्रभो ॥ २५ ॥</l>
</lg>
<p>2884</p>
<lg>
  <l>दशाष्टपञ्चत्रिगुणसप्तमूर्धान्वितौ क्रमात् ।</l>
  <l>विप्रौ नृपौ विशो शूद्री हो हो नागौ प्रकीर्तितो ॥ २६ ॥</l>
</lg>
<pb n="433" />
<p>शार्ङ्गधरपद्धतिः
2885</p>
<lg>
  <l>नागानां जज्ञिरे तेषां सुताः पञ्चशतं पृथक् ।</l>
  <l>॥ अजरामरणा घोरास्ते सर्वे कामरूपेिणः ॥ २७ ॥</l>
</lg>
<p>2886
૧૯</p>
<lg>
  <l>तदन्वयोद्भवाः सर्पा असंख्येयास्ततोभवन् ।</l>
  <l>॥ स्वर्गवारिधिपातालभूतलेषु वसन्ति ते ॥ २८ ॥</l>
</lg>
<p>2887
फणिमण्डलिराजीला वातपित्तकफात्मका: ।
क्रमाद्भौमाः स्मृताः
2888</p>
<lg>
  <l>दवकिरास्तु सफणा घोणसा मण्डलान्विताः ।</l>
  <l>राजीला राजिभिश्चित्रा व्यन्तरा मिश्रलक्षणाः ॥ ३० ॥</l>
</lg>
<p>2889
सर्पा व्यन्तरा दोषमिश्रिताः ॥ २९ ॥</p>
<lg>
  <l>दवकरस्य दंशः स्याद्रुक्षः शुष्क: सितेतरः ।</l>
  <l>उष्णः सशोफः पीतश्च दंशो मण्डलिनः पृथुः ॥ ३१ ॥</l>
</lg>
<p>2890</p>
<lg>
  <l>शोफवान्निग्धशीतश्च दंशो राजीलकः सितः ।</l>
  <l>व्यन्तरादिकृतो दंशो विज्ञेयो मिश्रलक्षणः ॥ ३२ ॥</l>
</lg>
<p>2891</p>
<lg>
  <l>दंशे स्थित्वा द्विपञ्चाशन्मात्रा संवर्धते विषम् ।</l>
  <l>मात्रा लध्वक्षरोन्माना निमेषोन्मानिकापि वा ॥ ३३ ॥</l>
</lg>
<p>2892</p>
<lg>
  <l>दंशाच्च याति गरलं भालं नेत्रं ततो मुखम् ।</l>
  <l>आस्याच्च धमनीस्ताभ्यो धातून्व्यामोत्यपि क्रमात् ॥ ३४ ॥</l>
</lg>
<p>2893</p>
<lg>
  <l>धातोर्धात्वन्तरप्राप्तौ विषवेगो भवेन्महान् ।</l>
  <l>ततो दष्टस्य जायन्ते चेष्टा वेगेषु सप्तमु ॥ ३५ ॥</l>
</lg>
<p>2894
वेगो रोमाञ्चमाद्यो रवयति विषजः स्वेदवकोपशोषौ
तस्योर्ध्व तत्परी हो वपुषि जनयतो वर्णभेदप्रवेपौ ।</p>
<pb n="434" />
<p>विषापहरणम्
यो वेगः पञ्चमोसौ नयनविवशतां कण्ठभड़ं च हिक्कां
षष्टो निःश्वासमोहौ वितरति च मूर्ति सप्तमो दष्टकस्य ॥ ३६ ॥
2895</p>
<lg>
  <l>यस्याङ्गानां जडत्वं श्वयथुरवयवोद्वेगदाहप्रवेपौ</l>
  <l>विडेदः केशलुञ्चः सुकरमरुणतापाङ्गयोर्भ्रान्तिरक्ष्णोः ।</l>
  <l>तृष्णा सक्कम्पशूलौ हृदि च विघटना दन्तदन्तच्छदानां</l>
  <l>इयावं च श्लेष्मपित्तोद्वमनमसृगरं रोमकूपादिषु स्यात् ॥ ३७ ॥</l>
</lg>
<p>2896</p>
<lg>
  <l>लालास्रुतिः सितनिभा परिवेषमास्ये</l>
  <l>नासायाणि वचनानि च सन्धिभेदः ।</l>
  <l>पूर्वाधिका विकृतयो विविधा भवेयु -</l>
  <l>र्यस्य प्रतिक्षणमसौ खलु कालदष्टः ॥ ३८ ॥</l>
</lg>
<p>2897</p>
<lg>
  <l>कृत्तिकाभरणीस्वातिमूलपूर्वात्रयाश्विनीः ।</l>
  <l>विशाखार्द्रामघाश्लेषाचित्राश्रवणरोहिणीः ॥ ३९ ॥</l>
</lg>
<p>2898
तारास्ताः सर्पदष्टस्य त्यजेन्मन्दकुजौ तथा ।</p>
<lg>
  <l>पञ्चमी चाष्टमी षष्ठी अमावस्या चतुर्दशी ।</l>
  <l>संध्याचतुष्टयं दुष्टं दुष्टयोगाश्च राशयः ॥ ४० ॥</l>
</lg>
<p>अथ दूतपरीक्षा ।
2899
भाकारणाय मान्त्रिक मागतदूतस्य वचनमादाय 1
कृत्वा प्रमाणमादावाभमन्त्र्य च तत्र मन्त्रेण ॥ ४१ ॥
22
2900</p>
<lg>
  <l>सप्तत्रिगुणितवारं ततः प्रमाणं पुनः कुर्यात् ।</l>
  <l>वृद्धौ समतायां वा जीवति दष्टो न मानहीनत्वे ॥४२॥</l>
</lg>
<p>( युग्मम् )</p>
<pb n="435" />
<p>शार्ङ्गधरपद्धतिः
2901
मन्त्रः । ॐ भट्टिणि रिणि जिणि ॥</p>
<lg>
  <l>दूतमुखोत्थितवर्णान्द्विगुणीकृत्य त्रिभिर्हरेद्भागम् ।</l>
  <l>अत्रशेषे शून्ये वा नो जीवतीति विज्ञेयम् ॥ ४३ ॥</l>
</lg>
<p>अथ समस्तसर्पाणां तत्क्षणदष्टचिकित्सा ।</p>
<p>2902</p>
<lg>
  <l>दंशकाहिं दशेत्सद्यो दष्टः काष्ठशिलादिना ।</l>
  <l>विषशान्त्यै दहेद्देशं ज्वलोल्काकनकादिना ॥ ४४ ॥</l>
</lg>
<p>2903</p>
<lg>
  <l>अवोमलेन बास्यार्लेिपे संशोषयेच तम् ।</l>
  <l>दष्टाङ्गं छेदयेद्दशोपरिष्टाद्वन्धयेद्दृढम् ॥ ४५ ॥</l>
</lg>
<p>2904</p>
<lg>
  <l>सर्पदष्टप्रवेशे तु स्वयमेव विचक्षणः ।</l>
  <l>मूत्रयेत्तत्क्षणादेव निर्विषत्वमवाप्नुयात् ॥ ४६ ॥</l>
</lg>
<p>2905</p>
<lg>
  <l>सद्यो भुजंगदंशे रविमलपूरिते कदाचिदपि ।</l>
  <l>व्रजति न धातुषु गरलं सत्यं पाषाणरेखेव ॥ ४७ ॥</l>
</lg>
<p>2906</p>
<lg>
  <l>सघृतं मरिचं पेयं जीवो वा जीवलक्षणः ।</l>
  <l>रामठेक्ष्वाकुपञ्चाङ्ग पूर्ण वा नस्यतो हितम् ॥ ४८ ॥</l>
</lg>
<p>अथ दवकर चिकित्सा ।
2907</p>
<lg>
  <l>शिरीषबीजपुष्पार्कक्षीरबीजकटुत्रयम् ।</l>
  <l>विषं विनाशयेत्पानलेपनस्याञ्जनादिना ॥ ४९ ॥</l>
</lg>
<p>2908
शिरीषपुष्पं स्वरसेन भावितं
त्रिः सप्तकृत्वो मरिचं सिताइयम् ।</p>
<pb n="436" />
<p>विषापहरणम्
प्रयोजयेदञ्जन पानभावने-
विमोहितानामपि सर्पदंशिनाम् ॥ ५० ॥
2909</p>
<lg>
  <l>नतोषणं निशादारु करंजोर्क: शिला मधु ।</l>
  <l>यष्टेिः शिरीषं कृष्णा च गणोयं विषसूदनः ॥ ५१ ॥</l>
</lg>
<p>:
2910</p>
<lg>
  <l>पञ्चाङ्गं कृष्णपञ्चम्यां शिरीषस्य रसादिना ।</l>
  <l>गृहीत्वा मूत्रपिटैस्तैर्विषद्भ्यो गुटिकाः कृताः ॥ ५२ ॥</l>
</lg>
<p>2911</p>
<lg>
  <l>छायाशुष्का रक्तिमात्रा: सर्वकर्मसु योजयेत् ।</l>
  <l>जातवत्सशकृइत्समूत्रवर्तिर्विषं हरेत् ॥ ५३ ॥</l>
</lg>
<lg>
  <l>2912</l>
  <l>हिङ्ग्ग्रलशुनत्र्योषाधान्याम्लगुलिका तथा ।</l>
  <l>मांसीचन्दनसिन्धूत्थकृष्णायष्ट्यूषणोत्पलैः</l>
  <l>समूत्रैरञ्जनं सद्यो विषप्तप्रबोधनम् ॥ ५४ ॥</l>
</lg>
<p>॥
2913</p>
<lg>
  <l>अर्ककर्पासयोर्मूलं जलपीतं जयेद्विषम् ।</l>
  <l>पटोलमूलनस्येन कालदष्टोपि जीवाते ॥ ५५ ॥</l>
</lg>
<p>2914</p>
<lg>
  <l>मूलं सुवर्णजात्या मूले सेफन्दकनकयोर्वापि ।</l>
  <l>दत्ते नस्ये पाने चैकैकं गरलनाशनं गदितम् ॥ ५६ ॥</l>
</lg>
<p>2915</p>
<lg>
  <l>वैरेचनफलमज्जानिम्बुकरसभावितस्तु बहुवारम् ।</l>
  <l>लालाघृष्टो निहितो नेत्रयुगे हरति कालविषम् ॥ ५७ ॥</l>
</lg>
<p>2916</p>
<lg>
  <l>पाठामूलं विनिष्पिष्य गोघृतेन पिबेत्तु यः ।</l>
  <l>स भवेद्वेिषनिर्मुक्तो नात्र कार्या विचारणा ॥ ५८ ॥</l>
</lg>
<p>2917</p>
<lg>
  <l>एकविंशतिसंजप्नं जलं मन्त्रेण पाययेत् ।</l>
  <l>यदा वान्तिस्तदा मृत्युर्न वान्तिर्जीवति ध्रुवम् ॥ ५९ ॥</l>
</lg>
<pb n="437" />
<p>शार्ङ्गधरपद्धतिः
मन्त्रः । ॐ नीलकण्ठः विमुक्षः क्षः क्षः ॥
अथ मण्डलिचिकित्सा ।
2918</p>
<lg>
  <l>त्रिवृन्निशायष्टिफलत्रयीस्नु -</l>
  <l>क्क्षीरान्विते गव्यचतुष्कयुक्ते ।</l>
  <l>ब्राह्मीरसे साधितमाज्यमुच्चै</l>
  <l>॥ विनाशयेन्मण्डलिनां विषार्तिम् ॥ ६० ॥</l>
</lg>
<p>Y
2919</p>
<lg>
  <l>अजामूत्रं च तद्विष्टा सूकरस्य तथैव विट् ।</l>
  <l>बुद्बुदं लेपतो हन्यान्मण्डलिक्ष्वेडसंभवम् ॥ ६१ ॥</l>
</lg>
<p>2920</p>
<lg>
  <l>चूर्ण तक्रभवं सुहीतरुशिफा पक्कं कदल्याः फलं</l>
  <l>तुम्बीहिजमुनेः शिफा शिवजलं नीली सगुम्फा शिफा ।</l>
  <l>चूर्ण नागलतादलं दधिनृपौ लोणस्य पिण्डत्रयं</l>
  <l>योगानामिदमाशु मण्डलिविषं लेपेन निर्मूलयेत् ॥ ६२॥</l>
</lg>
<p>2921</p>
<lg>
  <l>काकमाची तथा कुष्टं गोतक्रेण च पाचयेत् ।</l>
  <l>नाशयेन्मण्डलिक्ष्वेडमगदोयं सुनिश्चितम् ॥ ६३ ॥</l>
</lg>
<p>अथ राजील
चिकित्सा ।</p>
<lg>
  <l>अथ राजीलदष्टेन पेया कृष्णा ससैन्धवा ।</l>
  <l>सकृष्णा खण्डदुग्धाज्यं पातव्यं वापि माक्षिकम् ॥ ६४ ॥</l>
</lg>
<p>2922</p>
<lg>
  <l>सकुष्ठरेणुकव्योषच्छत्रातिविषमक्षिकाः ।</l>
  <l>कटुकागृहधूमाद्या नन्ति राजीलजं विषम् ॥ ६५ ॥</l>
</lg>
<p>2923</p>
<lg>
  <l>शिखेिपिच्छवचाहिङ्गुलशुनं नकुलास्थिभिः ।</l>
  <l>मरीचतुल्यैर्धूप: स्याद्दिषहा स्नुहिवह्निजः ॥ ६६ ॥</l>
</lg>
<pb n="438" />
<p>विषापहरणम्
2924</p>
<lg>
  <l>जिनेहा नासया दावरोचनासिन्धुजाङ्गुलीम् ।</l>
  <l>पिबेवा गुलिकानां तु व्योषं सबकुलास्थि वा ॥ ६७ ॥</l>
</lg>
<p>अथ व्यन्तरचिकित्सा ।
2925</p>
<lg>
  <l>अगदैः सर्वसामान्यैर्व्यन्तराणां विषं हरेत् ।</l>
  <l>धूपो देवीसहापिच्छखण्डनैस्तद्विषापहः ॥ ६८ ॥</l>
</lg>
<p>2926</p>
<lg>
  <l>व्योषपिच्छविडालास्थिनकुलाङ्गरुहैः समैः ।</l>
  <l>चूर्णितैर्मेषदुग्धाक्तैर्धूपः सर्वविषापहः ॥ ६९ ॥</l>
</lg>
<p>29276</p>
<lg>
  <l>मन्त्रेणानेन सलिलमभिमन्व्यैकविंशतिम् ।</l>
  <l>॥ पाययेत्सर्पदष्टस्य निर्विषो भवति क्षणात् ॥ ७० ॥</l>
</lg>
<p>2928
व्यन्तरगोनसलूतागर्दभविस्फोटकरभमागण्डाः</p>
<lg>
  <l>।</l>
  <l>मूषिककीटविषाणि स्थावरमपि नाशमायाति ॥ ७९ ॥</l>
</lg>
<p>2929</p>
<lg>
  <l>दष्टमौलौ सुधां ध्यात्वा वर्षन्तीं मेघमालिकाम् ।</l>
  <l>दर्भैर्मयूरपिच्छेर्वा मार्जयेन्मान्त्रिकस्ततः ॥ ७२ ॥</l>
</lg>
<p>2930</p>
<lg>
  <l>ध्यानेन जलपानेन मार्जनेनाखिलं विषम् ।</l>
  <l>प्राणिनां नश्यति क्षिप्रं मेघमालाप्रभावतः ॥ ७३ ॥</l>
</lg>
<p>मन्त्रः । ॐ साले माले हर विषवेगं हा हा हीही समरी अं
hitware
वेलं अंवेगहिॐ नागेन्द्रद्रुमं रुद्रं अटं मः बूं बूं लं
सः ठः ठः ॥</p>
<p>अथ सर्पसामान्यचिकित्सा ।
2931
दधि मधु नवनीतं पिप्पली शृङ्गवेर
मरिचमपि च कुष्ठं चाष्टमं सैन्धवं च ।</p>
<pb n="439" />
<p>॥
शार्ङ्गधरपद्धतिः
यदि दशति सरोषस्तक्षको नागराजः
अगदमपि च कुर्यानिर्विषं तत्क्षणेन ॥ ७४ ॥
2932</p>
<lg>
  <l>अलाबुबीजं त्रपुसस्य बीजं</l>
  <l>तस्यैव तोयेन च तम्निषिक्तम् ।</l>
  <l>आलेपनाद्यैर्विधिवत्प्रयुक्तं</l>
  <l>हन्याद्विषं तक्षक संभवं च ॥ ७५ ॥</l>
</lg>
<p>2933</p>
<lg>
  <l>श्वेतवचां घृतमरिचे गुञ्जां च पिबेद्भुजंगसंदष्टः ।</l>
  <l>छर्दिविरेकौ भवतस्ततः मुखी स्याद्विषैर्मुक्तः॥ ७६ ॥</l>
</lg>
<p>2934</p>
<lg>
  <l>आलिर्दिव्यौषधी प्रोक्ता सूक्ष्मकण्टकसंवृता ।</l>
  <l>विमुच्यते विषैः प्राणी पीत्वा तोयेन तज्जटाम् ॥ ७७ ॥</l>
</lg>
<p>अथ घोणसीविद्या ।
2935</p>
<lg>
  <l>सप्ताभिमन्त्रितं नीरं सर्पदष्टस्य पाययेत् ।</l>
  <l>दर्भेर्मयूरपिच्छैर्वा मार्जयेदेकविंशतिम् ॥ ७८ ॥</l>
</lg>
<p>2936</p>
<lg>
  <l>स्थावरजङ्गमगरलं भूतग्रहशाकिनीप्रभृतीन् ।</l>
  <l>गर्भोद्भवं च शूलं दृष्टिविषं स्फोटकं लूताः ॥ ७९ ॥</l>
</lg>
<p>2937</p>
<lg>
  <l>नाशयति घोणसीयं विद्यामन्त्रेण पूर्वसिद्धेन ।</l>
  <l>जापः सहस्रमानो मन्त्रस्य शतं च होमः स्यात् IT ८० ॥</l>
</lg>
<p>मन्त्रः । ॐ ह्रीं नमः श्रीघोणसेहरे २ वरे २ तरे २ वां २ चल
२ लां २ रां २ सर २क्षं २क्षां २क्षीं २हीं २ हूं २ न्हां
भगवति श्रीघोणसे घ ५ सः ५ हर ५ वः ५ ठः ५
मः ५ वरविहंगमानुजे क्ष्मांक्ष्मी क्ष्मूं मैं क्ष्मों क्ष्म रा
रो सय २ ठ २ श्रीघोणसे हो स्वाहा ॥</p>
<pb n="440" />
<lg>
  <l>विषापहरणम्</l>
  <l>अथ लहरीसमुत्थापनम् ।</l>
  <l>ह्रां ह्रीं आस्तीकाय क्रीं क्लीं विषविनाशनाय ॐ वः</l>
  <l>ॐ यः ॐ हर ४ कर्णे जपेद्दष्टः समुत्तिष्ठति ॥</l>
</lg>
<p>28
अथ सर्पोच्चाटनम् ।
2938
सप्ताभिमन्त्रितान्यत्र</p>
<lg>
  <l>कर्करानेकविंशतिम् ।</l>
  <l>क्षिपेत्ततः पलायन्ते सर्पास्त्रासपरायणाः ॥ ८१ ॥</l>
</lg>
<p>मन्त्रः । ॐ ह्रां २ ह्रीं २ हूं २ हों २ हौं २ हूं २ हः ॥
अथास्तीकमन्त्रः ।
2939</p>
<lg>
  <l>ॐ सर्पापसर्प भद्रं ते दूरं गच्छ महाविष ।</l>
  <l>जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर ॥ ८२ ॥</l>
</lg>
<p>2940</p>
<lg>
  <l>आस्तीकवचनं स्मृत्वा यः सर्पो न निवर्तते ।</l>
  <l>शतधा भिद्यते मूर्ध्नि शिंशवृक्षफलं यथा ॥ ८३ ॥</l>
</lg>
<p>अनेन त्रिवेलं पठितेन सर्पाः स्थानं त्यक्त्वा यान्ति
।
अयोषधम् ।
2941</p>
<lg>
  <l>रसोनर ससंलिप्तकर्पासास्थीनि विक्षिपेत् ।</l>
  <l>बिलद्वारे ततः सर्पाः प्रणश्यन्त्यतिवेगतः ॥ ८४ ॥</l>
</lg>
<p>अथ सर्परक्षा ।
2942</p>
<lg>
  <l>वस्त्रे ग्रन्थि ददन्मन्त्री सप्तवेलं जपेन्मनुम् ।</l>
  <l>देहे ग्रन्थियुतं वासो यावत्तावत्र सर्पभीः ॥ ८५ ॥</l>
</lg>
<pb n="441" />
<p>शार्ङ्गधरपद्धतिः
2943
मन्त्रः । ॐ दष्टकर अष्टकर कालिङ्गनाग हरिनाग
सर्प डुण्डी विसु दाढवन्धन शिवगुरुप्रसाद ॥</p>
<lg>
  <l>लज्जामूलमधः पुष्पीमूलं बद्धं यदा करे ।</l>
  <l>तदा तस्य न सर्पेभ्यो भयं कुत्रापि विद्यते ॥ ८६ ॥</l>
</lg>
<p>2944</p>
<p>सितवर्षाभूमूलं पुष्यर्क्षगृहीत</p>
<lg>
  <l>मतिशुचिविधानात् ।</l>
  <l>तण्डुलजलेन पिबतः सप्तदिनं सर्पभीर्नास्ति ॥ ८७ ॥</l>
</lg>
<p>2945</p>
<lg>
  <l>आषाढशुक्लपक्षे भानोदिवसे शिरीषवृक्षस्य ।</l>
  <l>मूलं जलेन पिट्ठा पिवेन भीस्तस्य सर्वोत्था ॥ ८८ ॥</l>
</lg>
<p>2946</p>
<lg>
  <l>आवत्सरमहिमीतिर्न स्यादस्य प्रभावेण ।</l>
  <l>शुकनासां च पिवेद्यो जलपिष्टां तस्य भीर्नास्ति ॥ ८९ ॥</l>
</lg>
<p>अथ वृश्चिक विषचिकित्सा ।
2947</p>
<lg>
  <l>पलाशबीजमर्कस्य दुग्धे पिष्टं हरेत्क्षणात् ।</l>
  <l>विषं वृश्चिकसंभूतं दंशस्थानविलेपनात् ॥ ९० ॥</l>
</lg>
<p>2948</p>
<lg>
  <l>वृद्धकर्पासमूलं च मेषशृङ्गी च वारुणी ।</l>
  <l>एकैकेन प्रयोगेण वृश्चिकोवतरत्यलम् ॥ ९९ ॥</l>
</lg>
<p>2949</p>
<lg>
  <l>घृताक्तदुग्धलेपेन मधूकस्वेदतोथवा ।</l>
  <l>सैन्धवोष्णाज्यपानेन वृश्चिकस्य विषं व्रजेत् ॥ १२ ॥</l>
</lg>
<p>2950</p>
<lg>
  <l>अथ मन्त्रमिमं कर्णे जपेद्देशं स्पृशेत्तथा ।</l>
  <l>एकविंशतिवारं च वृश्चिकक्ष्वेडशान्तये ॥ ९३ ॥</l>
</lg>
<pb n="442" />
<p>विषापहरणम्
2951
मन्त्रः । ॐ आदित्यरथवेगेन विष्णुबाहुबलेन च ।
गरुडपक्षपातेन भूम्यां गच्छ महाविष ॥
ॐ श्रीपक्षियोगिपादाज्ञा श्रीशिषोत्तमप्रभुपादाज्ञा ॥ १४ ॥
अथवा द्वितीयं मन्त्रं पूर्वोक्तविधानेन जपेत् ।
2952
मन्त्रः । हिमवदुत्तरे पार्श्वे कपिलो नाम वृश्चिकः ।</p>
<lg>
  <l>तेनाहं प्रेषितो दूतो गच्छ गच्छ महाविष ।</l>
  <l>किलिकिलि स्वाहा डाकिनी स्वाहा फट् रेपविष ॥ ९५ ॥</l>
</lg>
<p>अथापरविषाणि ।
2953</p>
<lg>
  <l>खर्जूरालीढमङ्गं यत्तस्मिन्नङ्गे विनिक्षिपेत् ।</l>
  <l>दीपतैलं ततस्तीत्रं विषं नश्यति देहिनाम् ॥ ९६ ॥</l>
</lg>
<p>2954</p>
<lg>
  <l>हरेच्छिरीषपञ्चाङ्गं व्योषं शतपदीविषम् ।</l>
  <l>सस्नुक्क्षीरं शिरीषास्थि हरेहदुरजं विषम् ॥ ९७ ॥</l>
</lg>
<p>2955</p>
<lg>
  <l>शिलातालककुष्ठानि भावयेत्तुलसीरसैः ।</l>
  <l>याति तत्पानतः शीघ्रं विषं मूषकसंभवम् ॥ ९८ ॥</l>
</lg>
<p>2956</p>
<lg>
  <l>आखुना भक्षितस्याथ नामोच्चार्य समुद्धरेत् ।</l>
  <l>मार्गधूलिं क्षिपेरं तस्य शीघ्रं सुखं भवेत् ॥ ९९ ॥</l>
</lg>
<p>2957</p>
<lg>
  <l>कुस्तुम्बरं निशायुग्मं शिरीषकुसुमैः समम् ।</l>
  <l>कान्तापुष्पं पिबेन्मूलं समस्ता खुविषापहम् ॥ १०० ॥</l>
</lg>
<p>2958</p>
<lg>
  <l>कार्णकार ससौवीरगुप्तां त्रिकटुमाधवीम् ।</l>
  <l>यष्टीधान्यगुडक्षीरं दष्टो मत्तगुना पिबेत् ॥ १०१ ॥</l>
</lg>
<pb n="443" />
<p>शार्ङ्गधरपद्धतिः
2959</p>
<lg>
  <l>अङ्कोलपत्रधूपेन यहा केशसमन्वितैः ।</l>
  <l>सक्तुभिः कटुतैलाक्तैर्यातिमत्स्यविषं क्षयम् ॥ १०२ ॥</l>
</lg>
<p>2960</p>
<lg>
  <l>शृद्धिमत्स्यविषे स्वेदो घृतकपसपिण्डिका ।</l>
  <l>केसरं तगरं शुण्ठी मारेचं हन्ति लेपतः ॥ १०३ ॥</l>
</lg>
<p>2961</p>
<lg>
  <l>मक्षिकाया विषं या घृतसैन्धवलेपतः ।</l>
  <l>तप्ताय: स्वेदतो भृङ्ख्या वराटयाश्च विघर्षणात् ॥ १०४ ॥</l>
</lg>
<p>2962</p>
<lg>
  <l>वृकव्याघ्रतरवृक्षशृगालद्वपवाजिनाम् ।</l>
  <l>रुधिरं स्रावयेदंशाहहेलोहशलाकया ॥ १०५ ॥</l>
</lg>
<p>2963</p>
<lg>
  <l>श्यामासुरभिजिह्वा च निःशेषप्राणिसंभवम् ।</l>
  <l>नखदन्तत्रिषं हन्ति मधुना सह लेपतः ॥ १०६ ॥</l>
</lg>
<p>2964</p>
<lg>
  <l>वटनिम्बशमीकल्ककषायो हन्ति लेपतः ।</l>
  <l>नि: शेषजीवजातीनां नखदन्तविषं द्रुतम् ॥ १०७ ॥</l>
</lg>
<p>2965</p>
<lg>
  <l>पाठामूलं लिप्तं दंशस्थाने जलेन संपिष्टम् ।</l>
  <l>सर्वेषां कीटानां विषमपहरति क्षणादेव ॥ १०८ ॥</l>
</lg>
<p>एते नानागारुडशास्त्रेभ्यः ।
अथ भूतविद्या । ८६ ॥
2966
तत्र देवासुर नागत्रिदोषादिसमुपसृष्टचित्तस्योन्मा-
दिनश्चिकित्सा कथ्यते ।</p>
<lg>
  <l>राजीकरञ्जव्याघाताशरीषार्कनिशायुगम् ।</l>
  <l>प्रियस्त्रिफलादारुहिङ्गुव्योषं कुचन्दनम् ॥ १ ॥</l>
</lg>
<pb n="444" />
<p>भूतविद्या
2967</p>
<lg>
  <l>मञ्जिष्ठोयासमूलं च तद्गुली महनाशनी ।</l>
  <l>पाननस्याञ्जनाले पस्नानोइर्तनधूपनात् ॥ २ ॥</l>
</lg>
<p>2968</p>
<lg>
  <l>कृष्णाक से रुखर्जूर्यो बदरी मधुकम्बरी ।</l>
  <l>शर्करा मधु सर्पिश्च सर्वोन्मादे पिबेदिदम् ॥ ३ ॥</l>
</lg>
<p>2969</p>
<lg>
  <l>निम्बपञ्चवचाराजीहिङ्गु गोमेषरोमभिः ।</l>
  <l>हिङ्ग्यावह्निलशुनैपौ स्यातां महापौ ॥ ४ ॥</l>
</lg>
<p>2970</p>
<lg>
  <l>पाठापथ्यावचाशियुसिन्धुव्योषैः पृथग्जलैः ।</l>
  <l>अजाक्षीराढके पक्कं सर्पिः सर्वग्रहान्हरेत् ॥ ५ ॥</l>
</lg>
<p>2971</p>
<lg>
  <l>विद्या चण्डासिधारेयं ग्रहनी कर्णजापतः ।</l>
  <l>एकविंशतिज तैश्च सर्षपैस्ताडयेन्मुखे ॥ ६ ॥</l>
</lg>
<p>मन्त्रः । ॐ नमो रत्नत्रयाय नमश्रण्डवज्रपाषाणाय महामव-
सेनापतये नमञ्चण्डवज्रशृङ्खलाय प्रदीताय प्रज्वलितह-
स्ताय प्रज्वलितार्चितदीप्तकेशाय नीलकण्ठाय विभ्रान्त-
रूपाय लम्बोदराय महाज्ञानवक्राय भ्रुकुटीमुखाय चतु-
र्दष्ट्राय करालाय महाविकृतरूपाय वचगर्भाय एह्येहि
कायमनुप्रविश्य शिरसि गृह्ण २ चक्षुषी वालय २ हेिरि २
भिरि २ किं चिरायसि २ देवदानवगन्धर्वयक्षराक्षस-
भूतप्रेतपिशाचनागांस्त्रासय २ कम्पय २ समयमनुस्मर
हन २ दह २ पच २ मथ २ विध्वंसय २ चण्डासि-
धाराभीतमतिराज्ञापयति हुं फट् ठः ठः स्वाहा ॥
2972</p>
<lg>
  <l>बलिर्मद्येन मांसेन मत्स्यैस्तैलेन सक्तुभिः ।</l>
  <l>माषापूपैः सकल्माषैरैशान्यां दिशि दीयते ॥ ७॥</l>
</lg>
<pb n="445" />
<p>शार्ङ्गधरपद्धतिः
अथ बलिनिवेदनम् ।
2973
मन्त्रः । भूतानि यानीह वसन्ति तानि
बलिं गृहीत्वा विधिवत्प्रयुक्तम् ।
अन्यत्र वासं परिकल्पयन्तु
रक्षन्तु तान्यच नमोस्तु तेभ्यः ॥ ८ ॥</p>
<lg>
  <l>एते नाना संहिताभ्यः ।</l>
  <l>अथ बालग्रहोपशमनम् ॥ ८७ ॥</l>
</lg>
<p>जन्मदिवसादारभ्याष्टादशवर्षपर्यन्तं देवीग्रहा
मनुष्यं गृह्णन्ति तासां च नामानि ।
पापिनीभीषणी घण्टालीका कोलीहंसाविकाकाकटी
मुक्तकेशीश्रीद-
ण्डीमहिषीरोदनी पूतना मुकुटीगोमुखीपिङ्गलालटनापङ्कजाशीतलायमु-
नाकुम्भकर्णिकातापसीराक्षसीचपलायातनारोदनी चटका चञ्चलाधावनी-
जवनाजातवेदाकालिनी कलहंसीदेवदूती बालिका वायवीमण्डकाबन्ध की
कुमारीप्रभृतयः ।
2974</p>
<lg>
  <l>नखदन्तविकारी स्यान्निद्राहीनोथवा भयोद्वेगी ।</l>
  <l>दुर्गन्धी बहुचेष्टी बालो बालग्रहाविष्टः ॥ १ ॥</l>
</lg>
<p>2975</p>
<lg>
  <l>दूर्वा सतिक्ता विषमच्छदत्व-</l>
  <l>क्प्रोवर्तनाद्धन्ति शिशुहार्तम् ।</l>
  <l>सप्तच्छदाश्वत्थमधूकशेलु-</l>
  <l>पत्रकथाम्भः स्लपनाच्च शीतात् ॥ २ ॥</l>
</lg>
<p>2976</p>
<lg>
  <l>वंशत्वग्जतुसंयुतं सलशुनं सारिष्टपत्रं घृतं</l>
  <l>निर्माल्यं नरकेशसर्पिरुरगत्वग्गौरराजीयुतम् ।</l>
  <l>सिद्धार्थ जतुनिम्बपत्रसहितं वंशत्वगाज्यान्वितं</l>
  <l>धूपानां त्रयमेतदाशु सकलान्बालग्रहाचा शयेत् ॥ ३ ॥</l>
</lg>
<pb n="446" />
<p>कौतुकान
2977</p>
<lg>
  <l>सर्वबालमहेषु स्यान्मन्त्रोयं सार्वकामिकः ।</l>
  <l>बालरक्षाविधाने च तथा दर्भादिमार्जने ॥ ४ ॥</l>
</lg>
<p>मन्त्रः । ॐ नमः सर्वमातॄणां हृदयं मोटय २ भञ्जय २ काटय २
स्फोटय २ स्फुट २ तुण्ड २ गृह २ आकट्ट २ विकट्ट २ त्रोट-
य २ एवं सिद्धमाज्ञापयति हर २ निर्दोषं कुरु २ बालिका
बालो वा स्त्रीपुरुषौ वा सर्वग्रहाणामुपक्रम्यतु ॐ चामुण्डे
नमो देव्यै २ हः ह्रीं २ ह्रीं अपसरन्तु दुष्टग्रहा हुं हुं तद्यथा
गच्छन्तु गुह्यका अन्यत्र स्थाने उ रुद्रो ज्ञापयति ठः ठः स्वाहा ॥</p>
<lg>
  <l>एते आगमशास्त्रेभ्यः ।</l>
  <l>अथ कौतुकाने ॥ ८८ ॥</l>
</lg>
<lg>
  <l>2978</l>
  <l>।</l>
  <l>भूपानां रसिकानां धनिनां वा कौतुकेषु सक्तानाम्</l>
  <l>ग्रन्थानालोक्य मया क्रियते किंचिद्विनोदार्थम् ॥ १ ॥</l>
</lg>
<p>2979</p>
<lg>
  <l>रथ्याकूपतरुच्छायाप्रेतभूदेवगेहजाः ।</l>
  <l>वल्मीकसंभवा वह्लिदग्धपानीयपीडिताः ॥ २॥</l>
</lg>
<p>2980</p>
<lg>
  <l>हिमाखुक्रिमिभिर्युक्ता मृदुकाकालसंभवाः ।</l>
  <l>ओषध्यो विधिनानीता न कार्य साधयन्ति ताः ॥ ३ ॥</l>
</lg>
<p>( युग्मम् )</p>
<p>2981</p>
<lg>
  <l>अतः प्रशस्ते नक्षत्रे शुभे वारे शुचिष्मता ।</l>
  <l>औषधं विधिवद्राह्यं स्मृत्वा देवीं च सुप्रभाम् ॥ ४ ॥</l>
</lg>
<p>मन्त्रः । ॐ सुप्रभायै नमः ।
2982</p>
<lg>
  <l>पुण्यार्के मूलार्के हस्तार्के चोत्तरार्कदिवसेषु ।</l>
  <l>ग्राह्यं प्रातद्रव्यं निमन्त्रितं मानुसुतदिवसे ॥ ५॥</l>
</lg>
<pb n="447" />
<p>शार्ङ्गधरपद्धतिः
2983
पुष्येपराजितामूलमुद्धृतं सर्पिषा युतम् ।</p>
<lg>
  <l>पीतं वा कंधराबद्धं गण्डमालाविनाशनम् ।</l>
  <l>चित्रोद्धृतं गले बद्धं कुन्दमूलं निहन्ति ताम् ॥ ६॥</l>
</lg>
<p>2984</p>
<lg>
  <l>कण्ठे रज्जुं बडा मृतस्य पुंसस्तु रज्जुमादाय ।</l>
  <l>तस्याः खण्डं कण्ठे बद्धं गण्डस्रजं हरति ॥ ७ ॥</l>
</lg>
<p>2985</p>
<lg>
  <l>बब्बूलबन्दकं बद्धं कट्यामर्शोविकारनुत् ।</l>
  <l>तथा शेफालिकायास्तु वायुपीडाहरं स्मृतम् ॥ ८ ॥</l>
</lg>
<p>2986</p>
<lg>
  <l>काकजङ्घाजटा निद्रां कुरुते मस्तके स्थिता ।</l>
  <l>पुष्योद्धृतं शुनःपित्तमपस्मारघ्नमञ्जनात् ॥ ९ ॥</l>
</lg>
<p>2987</p>
<lg>
  <l>निर्गुण्याः सहदेव्याश्च कटौ बद्धं जटाइयम् ।</l>
  <l>प्रातरादित्यवारे च सर्वज्वरविनाशकृत् ॥ १० ॥</l>
</lg>
<p>2988</p>
<lg>
  <l>कन्याकर्तितसूत्रेण बद्धापामार्गमूलिका ।</l>
  <l>ऐकाहिकज्वरं हन्ति शिखायामतिवेगतः ॥ ११ ॥</l>
</lg>
<p>2989</p>
<lg>
  <l>कर्णे बद्धा रवी श्वेततुरंगरिपुमूलिका ।</l>
  <l>सर्वज्वरहरा श्वेतमन्दारस्य च मूलिका ॥ १२ ॥</l>
</lg>
<p>2990</p>
<lg>
  <l>काकमाचीशिफा कर्णे बद्धा रात्रिज्वरापहा ।</l>
  <l>पाणिस्थं वृषवृन्दाकं द्यूते वितनुते जयम् ॥ १३ ॥</l>
</lg>
<p>2991</p>
<lg>
  <l>काकजङ्घारसः कर्णे क्षिप्तो बाधिर्यनाशनः ।</l>
  <l>हन्ति कर्णे जटा बद्धा तस्या नेत्रामयं ध्रुवम् ॥ १४ ॥</l>
</lg>
<pb n="448" />
<p>कौतुकान
2992</p>
<lg>
  <l>गृहीतं रेवतिऋक्षे पिप्पलस्य च वन्दकम् ।</l>
  <l>महिलानां करे बद्धं परमं गर्भधारणम् ॥ १५ ॥</l>
</lg>
<p>2993</p>
<lg>
  <l>धत्तूरमूलिका पुष्ये गृहीता कटिसंस्थिता ।</l>
  <l>गर्ने निवारयत्येव रण्डावेश्यादियोषिताम् ॥ १६ ॥</l>
</lg>
<p>2994</p>
<lg>
  <l>राजिकां तिलतैलं च पिट्टा नारी ऋतौ पिवेत् ।</l>
  <l>त्रिदिनं तेन गर्भस्य संभवो नैव जायते ॥ १७ ॥</l>
</lg>
<p>2995</p>
<lg>
  <l>पिवति प्रसूतिसमये काञ्जिकयुक्तं जपाभवं पुष्पम् ।</l>
  <l>न बिभर्ति सा प्रसूतिं धृतेपि तस्या न गर्भ: स्यात् ॥ १८ ॥</l>
</lg>
<p>2996</p>
<lg>
  <l>बब्बूलवृक्षपुष्पाणि गोदुग्धेन पिबेतौ ।</l>
  <l>या नारी गर्भसंभूतिः पुनस्तस्यां न जायते ॥ १९ ॥</l>
</lg>
<p>2997</p>
<lg>
  <l>ज्ञात्वा तु गर्ने गर्भिण्याः सार्धमासइयोन्मितम् ।</l>
  <l>तदैकवर्णगोक्षीरे पिबेदर्भस्य मञ्जरीम् ॥ २० ॥</l>
</lg>
<p>2998</p>
<lg>
  <l>पिष्टां गृहीतां च रवेर्दिने शुचिविधानतः ।</l>
  <l>भवन्ति पुत्रिका यस्याः सा पुत्रं जनयेब्रुवम् ॥ २१ ॥</l>
</lg>
<p>(युग्मम् । )</p>
<p>2999</p>
<lg>
  <l>ऋतुझाता पिबेन्नारी श्वेतकण्टारिकाजटाम् ।</l>
  <l>पयसा पुत्रसंभूतिस्तस्याः संजायते ध्रुवम् ॥ २२ ॥</l>
</lg>
<p>3000</p>
<lg>
  <l>भूनागलज्जालुकयोः कल्कसंलिप्तशेफसा ।</l>
  <l>या नारी रमते सा स्यादन्येषां पुंस्त्वनाशिनी ॥ २३ ॥</l>
</lg>
<pb n="449" />
<p>शार्ङ्गधरपद्धतिः
3001</p>
<lg>
  <l>द्विपदशन: पुटदग्धः साजक्षीरो रसाञ्जनोपेतः ।</l>
  <l>दिनसप्तक प्रलेपात्खलतेरपि रोमसंजनकः ॥ २४ ॥</l>
</lg>
<p>3002</p>
<lg>
  <l>कर्पूरभल्लातकशङ्कचूर्ण</l>
  <l>क्षारो यवानां समनः शिलश्च ।</l>
  <l>तैलं विपकं हरितालमिश्रं</l>
  <l>निर्मूललोमानि करोति सद्यः ॥ २५ ॥</l>
</lg>
<p>3003</p>
<lg>
  <l>अङ्कोल्लवीजमज्जानां सूक्ष्मचूर्ण विधीयते ।</l>
  <l>तिलतैलेन तच्चूर्ण सम्यकृत्वा च भावयेत् ॥ २६ ॥</l>
</lg>
<p>3004</p>
<lg>
  <l>मर्दयित्वोष्णतोयेन गृह्णीयात्तैलमुत्तमम् ।</l>
  <l>नानाकर्माणि सिध्यन्ति तैलेनानेन योगिनाम् ॥ २७ ॥</l>
</lg>
<p>(युग्मम् ।)</p>
<p>3005</p>
<lg>
  <l>अपक्कमपि चूतस्य फलं द्रवति वेगतः ।</l>
  <l>गुडशुण्ठीपलेपेन विवृतं शश्वदातपे ॥ २८ ॥</l>
</lg>
<p>3006</p>
<lg>
  <l>निच्छल्लिदारितं राजीचूर्ण गुग्गुलमर्दितम् ।</l>
  <l>अपक्कमपि चूतस्य फलं सुस्वादु जायते ॥ २९ ॥</l>
</lg>
<p>3007</p>
<lg>
  <l>केतकी पत्रकुटैलादलकेसर चूर्णतः ।</l>
  <l>दिव्यगन्धं भवेद्वारि मोहितालिकदम्बकम् ॥ ३० ॥</l>
</lg>
<p>3008</p>
<lg>
  <l>चन्दनैलादलोशीरतगरैर्वासिते जले ।</l>
  <l>पीते संजायते नित्यं गन्धो वपुषि भोगिनाम् ॥ ३१ ॥</l>
</lg>
<p>3009</p>
<lg>
  <l>पादांशपत्रकोन्मिश्रजलचन्दनशियुभिः ।</l>
  <l>केतकीपुष्पसंवादी गन्धो भवति निश्चितम् ॥ ३२ ॥</l>
</lg>
<pb n="450" />
<p>कौतुकानि
3010</p>
<lg>
  <l>शिग्रुजटारसभावितचूर्णः</l>
  <l>सर्षपखलिरिह रात्रावुषितः ।</l>
  <l>चम्पकगन्धसमं शुचिगन्धं</l>
  <l>कुरुते स्नानविधौ विनियुक्तः ॥ ३३ ॥</l>
</lg>
<p>3011
अतिपक्ककपित्थेन लिप्तपात्रे सुयामितम् ।
दुग्धमस्तुविहीनं स्याच्चन्द्रबिम्बोपमं दधि ।॥ ३४ ॥
3012</p>
<lg>
  <l>धात्रीफलर सैलिप्तेपक्कपात्रे सुयामितम् ।</l>
  <l>गतमृत्कं जलाधौतं पात्ररूपं भवेदधि ॥ ३५ ॥</l>
</lg>
<p>3013
शालिमण्डेन संलिप्तशुष्कशुद्धेन वाससा ।
छादिते वेणुपात्रे स्यात्सुदुग्धं यामितं दधि । ३६ ॥
3014</p>
<lg>
  <l>फलान्यनेकवृक्षाणां मधुना मदनेन च ।</l>
  <l>लिप्तवृन्तानि तिष्ठन्ति क्षतहीनानि वै चिरम् ॥ ३७ ॥</l>
</lg>
<p>3015</p>
<lg>
  <l>ककुभस्य फलं पुष्पं लाक्षा श्रीवासगुग्गुलू ।</l>
  <l>श्वेतापराजितामूलं विडङ्गान्वितसर्षपाः ॥ ३८ ॥</l>
</lg>
<p>3016</p>
<lg>
  <l>धूप: सर्जरसोपेतः प्रसरन्गृहमध्यतः ।</l>
  <l>सर्पाखु मत्कुणान्यूकान्नाशयत्येव गन्धतः ॥ ३९ ॥</l>
</lg>
<p>अथ क्षेत्ररक्षा ।
3017</p>
<lg>
  <l>कुम्भे विद्यां समभ्यर्च्य मन्त्रिता बलविद्यया ।</l>
  <l>वालुका: श्वेतसिद्धार्थान्क्षेत्रमध्ये विनिक्षिपेत् ॥ ४० ॥</l>
</lg>
<pb n="451" />
<p>शार्ङ्गधरपद्धतिः
3018</p>
<lg>
  <l>शलभाः सारसाः कीरा वराहमृगमूषकाः ।</l>
  <l>शशकाञ्च ततो यान्ति बलविद्याप्रभावतः ॥ ४१ ॥</l>
</lg>
<p>मन्त्रः । ॐ नमः सुरेभ्यो बल २ ज २ चिरि २ मिलि २ स्वाहा ॥
अथ सिंहरक्षा ।
3019</p>
<lg>
  <l>रेखया कुण्डलं कुर्यान्निजसार्थसमन्ततः ।</l>
  <l>मान्त्रिको धनुषः कोट्या जपेन्मन्त्रं तु शाबरम् ॥ ४२ ॥</l>
</lg>
<p>मन्त्रः । नन्दायणु पुत्त सायरिउपहारु मोरी रक्षा कुकुर जिम पुंछी
दुल्लावइ उरहइ पुंछी परहई मुहि जाह रे जाह । आठ
संकला करि उर बन्ध उं वाघ वाघिणि कउ मुह बन्धर
कलियाखिणीकी दुहाई महादेवकी पूजा पाई टालाहे जई
आगली विष देहि ॥
3020</p>
<lg>
  <l>बोलला इति शब्देन प्रोच्चैरुक्तेन मन्त्रिणा ।</l>
  <l>यावहूरं श्रुतः शब्दस्ततः सिंह: पलायते ॥ ४३ ॥</l>
</lg>
<p>3021</p>
<lg>
  <l>पिशुनात्तस्करात्सिंहादपमृत्योस्तथा शरात् ।</l>
  <l>रक्षां करोति मन्त्रोयं पठितः शबरस्त्रिया ॥ ४४ ॥</l>
</lg>
<p>3022</p>
<lg>
  <l>रक्षां कुर्वीत तर्जन्या दिक्ष्वष्टस्वपि बुद्धिमान् ।</l>
  <l>अथवा निक्षिपेद्दिक्षु कर्करानभिमन्त्रितान् ॥ ४५ ॥</l>
</lg>
<p>मन्त्रः । ॐ आडू चूडू वाढी कोडी चोरु
चाटु कालु कांडु वाघु स्वाहा ॥
अथ विद्युद्वारणम् ॥
3023</p>
<lg>
  <l>जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च ।</l>
  <l>पुलस्त्यः पुलहो विष्णुः षडेते वज्रवारणाः ॥ ४६ ॥</l>
</lg>
<pb n="452" />
<p>कल्पस्थानम्
3024</p>
<lg>
  <l>मुनेः कल्याणमन्त्रस्य जैमिनेश्चापि कीर्तनात् ।</l>
  <l>विद्युदग्निभयं नास्ति लिखिते तु गृहोदरे ॥ ४७ ॥</l>
</lg>
<p>3025</p>
<lg>
  <l>कदम्बवृक्षसारस्तु विद्युत्पातनिवारणः ।</l>
  <l>विद्युत्पातस्य नो भीतिर्देवराजेति कीर्तनात् ॥ ४८ ॥</l>
</lg>
<p>3026</p>
<lg>
  <l>रामरक्षां पठेद्यस्तु रात्रौ वा यदि वा दिवा ।</l>
  <l>न तस्य दुष्टचित्तेभ्यो भयं कुत्रापि विद्यते ॥ ४९ ॥</l>
</lg>
<lg>
  <l>एते नानासंहिताभ्यः ।</l>
  <l>अथ कल्पस्थानम् ॥ ८९ ॥</l>
</lg>
<p>3027</p>
<lg>
  <l>षशिर्षदेशीयः पुमान्कुर्याद्रसायनम् ।</l>
  <l>पञ्चाशद्वार्षिको वापि कृत्वा तन्नावसीदति ॥ १ ॥</l>
</lg>
<p>3028</p>
<lg>
  <l>रुदन्तीनामविख्याता जराव्याधिविनाशिनी ।</l>
  <l>चणपत्रोपमैः पचैर्युक्ताम्भोबिन्दुवर्षिणी ॥ २ ॥</l>
</lg>
<p>3029</p>
<lg>
  <l>चतुर्विधा तु सा ज्ञेया रक्ता पीता सितासिता ।</l>
  <l>तामोषधीं समादाय शुक्लपक्षे शुभे दिने ॥ ३ ॥</l>
</lg>
<p>3030</p>
<lg>
  <l>पत्रमूलान्त्रितां प्राज्ञछायाशुष्कां च कारयेत् ।</l>
  <l>विरेकं वमनं कृत्वा बिडालपदमात्रया ॥ ४ ॥</l>
</lg>
<p>3031</p>
<lg>
  <l>भक्षयेन्मधुसर्पिय मासमेकं महौषधीम् ।</l>
  <l>जीर्णायां भोजनं कुर्याद्दुग्धभक्तं नरो जयी ॥५॥</l>
</lg>
<p>3032</p>
<lg>
  <l>दृढकायोतितेजस्त्री सर्वरोगैः प्रमुच्यते ।</l>
  <l>वलीपलितनिर्मुक्तः परमायुस्ततो भवेत् ॥ ६ ॥</l>
</lg>
<pb n="453" />
<p>शार्ङ्गधरपद्धतिः
अथ त्रिफला ।
3033</p>
<lg>
  <l>हरीतक्यास्त्रयो भागाः शिवा द्वादशभागिका ।</l>
  <l>षड्भागाश्च विभीतस्य त्रिफलेयं प्रकीर्तिता ॥ ७ ॥</l>
</lg>
<p>3034</p>
<lg>
  <l>खादेरस्याम्भसा सप्तरात्रं भृङ्गरसेन च ।</l>
  <l>विडङ्गपयसा सप्त सप्त ब्रह्मरसेन च ॥ ८ ॥</l>
</lg>
<p>3035</p>
<lg>
  <l>त्रिफलां भावयित्वेत्थं भक्षयेद्गुडसर्पिषा ।</l>
  <l>पलितं हन्ति वर्षेण सर्वरोगे: प्रमुच्यते ॥ ९ ॥</l>
</lg>
<p>अथ भृङ्गराजः ।
3036
समूलपत्रमुत्पाट्य भृङ्गराजं शुभे दिने ।
शुष्कं च चूर्णितं पुष्ये विडालपदमात्रया ।॥ १० ॥
3037
काचिकेन समालोय भक्षयेत्प्रातरन्वहम् ।</p>
<lg>
  <l>षण्मासयोगतो हन्ति पलितं वलिभिः सह ।</l>
  <l>दुग्धान्नभोजनासक्तचिरंजीवी भवेन्नरः ॥ ११ ॥</l>
</lg>
<p>अथ विडङ्गादि ।
3038</p>
<lg>
  <l>विडङ्ग समधात्रीणां चूर्ण लोहरजोयुतम् ।</l>
  <l>तैलान्वितं नरो लोढा जरसा नाभिभूयते ॥ १२ ॥</l>
</lg>
<p>अथ हस्तिकर्णः ।
3039</p>
<lg>
  <l>अभिमन्त्र्य शुचिविधानादाज्याचं हस्तिकर्णजं चूर्णम् ।</l>
  <l>योआति स हि नरः स्याद्यथेष्टचेष्टोपि दीर्घायुः ॥ १३ ॥</l>
</lg>
<p>मन्त्रः । ॐ नमो विनायकाय स्वाहा अमृतं रक्ष २
मम सिद्धिं देहि रुद्रस्य वचने स्वहा ॥</p>
<pb n="454" />
<p>कल्पस्थानम्
अथ भल्लातकः ।
3040
भल्लातकं समादाय क्षीरेण सह पाचयेत् ।</p>
<lg>
  <l>तत्क्षीरं मधुसर्पियि पिबेन्मासत्रयावधि ।</l>
  <l>वलीपलितनिर्मुक्तो जीवेद्वर्षशतं सुखी ॥ १४ ॥</l>
</lg>
<p>अथ गन्धकः ।
3041</p>
<lg>
  <l>चूर्णीकृत्य पलानि पञ्च नितरां गन्धाश्मनो यत्नत-</l>
  <l>स्तच्चूर्ण त्रिगुणे च मार्कवरसे छायाविशुष्कीकृतम् ।</l>
  <l>पथ्याचूर्णमथो तथा मधु घृतं प्रत्येकमेषां पलं</l>
  <l>वृद्धो यौवनमेति मासयुगलं खादन्नरः प्रत्यहम् ॥ १५ ॥</l>
</lg>
<p>अथाश्वगन्धा ।
3042
अश्वगन्धापलं त्रिंशचूर्णयित्वा विचक्षणः ।
वृद्धदारुकचूर्णेन समभागं च कारयेत् ॥ १६ ।
3043</p>
<lg>
  <l>स्थापयित्वा घंटे दिव्ये सर्पिषा परिभाविते ।</l>
  <l>कर्षमेकं समझीयाच्चूर्ण च पयसा सह ॥ १७ ॥</l>
</lg>
<p>3044</p>
<lg>
  <l>न चात्र परिहारोस्ति शुक्रवृद्धिः प्रजायते ।</l>
  <l>भवत्येव चतुर्मासाइलीपालेतवर्जितः ॥ १८ ॥</l>
</lg>
<p>अथ पुनर्नवा ।
3045</p>
<lg>
  <l>पुनर्नवाजटाचूर्ण पलार्ध पयसा सह ।</l>
  <l>मासैकं क्षीरभोजी यः स वृद्धस्तरुणायते ॥ १९ ॥</l>
</lg>
<pb n="455" />
<p>शार्ङ्गधरपद्धतिः
अथ पानीयम् ।
3046</p>
<lg>
  <l>न संपत्तिक्रिया यस्य भेषजं न च विद्यते ।</l>
  <l>सर्वरोगविनाशाय निशान्ते स पयः पिवेत् ॥ २० ॥</l>
</lg>
<p>3047</p>
<lg>
  <l>अम्भसः प्रसृतीरष्टौ रवावनुदिते पिबेत् ।</l>
  <l>वातपित्तकफान्हत्वा जीवेइर्षशतं सुखी ॥ २१ ॥</l>
</lg>
<p>3048</p>
<lg>
  <l>प्रसृतियुगलमात्रं प्रातरुत्थाय नित्यं</l>
  <l>पिबति खलु नरो यो नासरन्ध्रेण वारि ।</l>
  <l>स भवति मतिपूर्णश्चक्षुषा तार्क्ष्यतुल्यो</l>
  <l>वलिपलितविहीनः सर्वरोगमुक्तः ॥ २२ ॥</l>
</lg>
<p>अथ धातुमारणम् ।
3049</p>
<lg>
  <l>नागेन रुक्मं शिलया च नागं</l>
  <l>तालेन वङ्गं दरदेन तीक्ष्णम् ।</l>
  <l>गन्धाइमना चैव निहन्ति शुल्बं</l>
  <l>तारं च माझीकवरेण हन्यात् ॥ २३ ॥</l>
</lg>
<p>3050</p>
<lg>
  <l>शुद्धं हेम लक्ष्णपत्रीकृतं स</l>
  <l>वारंवारं सूतगन्धानुलिप्तम् ।</l>
  <l>ती वही काञ्चनारे हलिन्या</l>
  <l>ज्वालामुख्या संपुटैर्भस्म कुर्यात् ॥ २४ ॥</l>
</lg>
<p>अथ भस्मसूतकः ।
3051</p>
<lg>
  <l>तारिकां सैन्धवं चैव पारदं समभागतः ।</l>
  <l>निम्बुकद्रवसंघृष्टान्नष्टपिष्टांस्तु कारयेत् ॥ २५ ॥</l>
</lg>
<pb n="456" />
<p>29
केशरञ्जनम्
3052</p>
<lg>
  <l>ततस्तान्पिटरीमध्ये धृत्वा मुद्रां च दापयेत् ।</l>
  <l>अधः प्रज्वालयेइह्निं पिटर्यास्तु शनैः शनैः ॥ २६ ॥</l>
</lg>
<p>3053</p>
<lg>
  <l>आसामुपरि दद्याच पानीयस्य विचक्षणः ।</l>
  <l>एवं यामइयं कुर्यात्ततस्त्वासां न दापयेत् ॥ २७ ॥</l>
</lg>
<lg>
  <l>3054</l>
  <l>बर्ट्सि खरतरं कुर्याद्याममेकं निरन्तरम् ।</l>
  <l>गत्वोपरि रसस्तत्र म्रियते स्फटिकप्रभः ॥</l>
  <l>भस्मसूतक एवं स्यात्ततः कार्येषु योजयेत् ॥ २८ ॥</l>
</lg>
<p>अथ केशरञ्जनम् ॥ ९० ॥
3055</p>
<lg>
  <l>त्रिफलायास्तु षडागा जटादाडिमजा द्वयम् ।</l>
  <l>भागत्रयं निशानां स्यात्सर्वमेकत्र चूर्णयेत् ॥ १ ॥</l>
</lg>
<p>3056</p>
<lg>
  <l>भागं षष्टिकमण्डस्य कुर्यादेकं च बुद्धिमान् ।</l>
  <l>भृङ्गराजरसं तत्र भागान्दद्याच्च विंशतिम् ॥ २ ॥</l>
</lg>
<p>3057</p>
<lg>
  <l>सर्वमेकत्र कृत्वा तु लोहमाण्डे विनिक्षिपेत् ।</l>
  <l>तस्योपरि ततो दद्याल्लोहस्यैव पिधानिकाम् ॥ ३ ॥</l>
</lg>
<p>3058</p>
<lg>
  <l>भूमौ चाश्वशकृन्मध्ये मासमात्रं निधापयेत् ।</l>
  <l>तस्य लेपं ततो मौलौ कूर्चे दुग्धेन दापयेत् ॥ ४ ॥</l>
</lg>
<p>3059</p>
<lg>
  <l>रात्रावेरण्डपत्रैश्च वेष्टयित्वा स्वपेत्ततः ।</l>
  <l>प्रातः स्नानं ततः कुर्यात्केशाः स्युभ्रमरप्रभाः ॥ ५ ॥</l>
</lg>
<pb n="457" />
<p>शार्ङ्गधरपद्धतिः
3060</p>
<lg>
  <l>एवं लेपत्रयं कुर्यात्सप्तमे सप्तमेहाने ।</l>
  <l>ततो जन्मावधि कचाः कृष्णाः स्युर्भ्रमरप्रभाः ॥ ६ ॥</l>
</lg>
<p>3061
तिलान्वितमहाकालबीज तैलस्य नस्यतः ।
दुग्धाहारस्य पुंसस्तु पलितं नश्यति ध्रुवम् ।</p>
<lg>
  <l>विभीतनिम्बकुम्भारी शिवा शेलुश्च काकिनी ।</l>
  <l>एकैकतैललेपेन पलितं नश्यति ध्रुवम् ॥ ७॥</l>
</lg>
<p>3062</p>
<lg>
  <l>श्यामातगर कर्जूरनिशागन्धकलेपतः ।</l>
  <l>वेगतः पाण्डुरा: केशाः कृष्णाः स्युर्गुडधूपिताः ॥ ८ ॥</l>
</lg>
<p>3063</p>
<lg>
  <l>काकिन्या: पत्रमूलं सहचरसहितं केतकीनां च कन्दं</l>
  <l>छायाशुष्कं च भृङ्गं त्रिफलरसयुतं तैलमध्ये निधाय ।</l>
  <l>लौहे पात्रे प्रणीतं धरणितलगतं मासमात्रस्थितं त-</l>
  <l>त्केशा: काशप्रकाशा अलिकुलसदृशाः संभवन्त्यस्य लेपात् ॥ ९ ॥</l>
</lg>
<p>3064</p>
<lg>
  <l>नागपञ्चाणि चणकक्षारलिप्तेन वेष्टयेत् ।</l>
  <l>वत्रेण भाजने लौहे स्थापयेन्मुद्रिते सुधीः ॥ १० ॥</l>
</lg>
<p>3065</p>
<lg>
  <l>करीषमध्ये निहितं तत्सर्वं पञ्चमासकम् ।</l>
  <l>द्रवीभूतं ततः सर्वमुद्धरेत्तेन लेपयेत् ॥ ११ ॥</l>
</lg>
<p>3066</p>
<lg>
  <l>शिरः कूर्चे च वक्रान्तस्तण्डुलाने विनिक्षिपेत् ।</l>
  <l>यदा कृष्णानि तानि स्युस्तदा स्नानं विधीयते ॥ १२ ॥</l>
</lg>
<p>3067</p>
<lg>
  <l>• केशा: कालालिसंकाशा जायन्ते दशवत्सरम् ।</l>
  <l>घृष्टं तु राजतं चूर्ण ताम्रं नागं विचूर्णितम् ॥ १३ ॥</l>
</lg>
<pb n="458" />
<p>सामान्य शृङ्गाररस
3068</p>
<lg>
  <l>त्रिफला नागवल्ली च कासीसं गन्धकस्तथा ।</l>
  <l>भृङ्गराजरसं नीली लोध्रं पलमितं पृथक् ॥ १४ ॥</l>
</lg>
<p>3069</p>
<lg>
  <l>एतच्चतुर्गुणं तैलं तस्माच्चापि चतुर्गुणम् ।</l>
  <l>काञ्जिकं प्रक्षिपेद्धीमांस्ततस्तैलं विपाचयेत् ॥ १५ ॥</l>
</lg>
<p>3070</p>
<lg>
  <l>क्षिा शिरसि तत्तैलं पत्रैरेरण्डसंभवैः ।</l>
  <l>वेष्टयित्वा स्वपेद्रात्रौ प्रातः स्नानं विधीयते ॥ १६ ॥</l>
</lg>
<p>200
3071</p>
<lg>
  <l>भवेयुः श्यामला: केशा: पक्षं यावच्च नान्यथा ।</l>
  <l>यन्त्राकृष्टं कलञ्जीनां तैलं स्थाप्यं सुरक्षितम् ॥ १७ ॥</l>
</lg>
<p>3072
उन्मूल्य सितकेशांस्तु मूले मूले च तत्क्षिपेत् ।</p>
<lg>
  <l>॥ ततः केशा: प्रजायन्ते कृष्णाः कौतुककारिणः ।</l>
  <l>युक्त्या पूर्वोक्तया युञ्ज्यान्मेष शृङ्गीपयः सुधीः ॥ १८ ॥</l>
</lg>
<lg>
  <l>एते नानासंहिताभ्यः ।</l>
  <l>अथ सामान्यशृङ्काररसनिर्देशः ॥ ९१ ॥</l>
</lg>
<p>3073</p>
<lg>
  <l>शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।</l>
  <l>बीभत्सरौद्रशान्ताश्च नवेधा कीर्तिता रसाः ॥ १ ॥</l>
</lg>
<p>3074</p>
<lg>
  <l>यतोयं सर्वजन्तूनां प्रियः शृङ्गारको रसः ।</l>
  <l>अतो रसानां सर्वेषां मया पूर्वमिहोच्यते ॥ २ ॥</l>
</lg>
<p>3075</p>
<lg>
  <l>चतुर्विधः स चाप्युक्तः सामान्यो विप्रलम्भकः ।</l>
  <l>संयोगो मिश्रकश्चेति रसिकानां सुखाप्तये ॥ ३ ॥</l>
</lg>
<pb n="459" />
<p>शार्ङ्गधरपद्धतिः
अथ मनसिजप्रशंसा ।
3076</p>
<lg>
  <l>अनङ्गेनाबलासङ्गाज्जिता येन जगत्रयी ।</l>
  <l>स चित्रचरितः कामः सर्वकामप्रदोस्तु वः ॥ ४ ॥</l>
</lg>
<p>क्षेमेन्द्रस्य ।
3077</p>
<lg>
  <l>कुलगुरुरवलानां केलिदीक्षाप्रबन्धे</l>
  <l>परमसुहृदनङ्गो रोहिणीवलभस्य ।</l>
  <l>अपि कुसुमपृषत्कैर्देवदेवस्य जेता</l>
  <l>जयति सुरतलीलानाटिकासूत्रधारः ॥ ५ ॥</l>
</lg>
<p>कस्यापि ।
अथ स्त्रीप्रशंसा ।
3078</p>
<lg>
  <l>दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।</l>
  <l>विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥ ६ ॥</l>
</lg>
<p>क्षेमेन्द्रस्य ।
3079</p>
<lg>
  <l>यासां सत्यपि सद्गुणानुसरणे दोषानुरागो भृशं</l>
  <l>याः प्राणान्परमर्पयन्ति न पुनः संपूर्णदृष्टिं प्रिये ।</l>
  <l>अत्यन्ताभिमतेपि वस्तुनि विधिर्यासां निषेधात्मक-</l>
  <l>स्तत्तत्केलिषु दक्षिणा अपि सदा वामा जयन्त्येव ताः ॥ ७ ॥</l>
</lg>
<p>कस्यापि ।
-
3080</p>
<lg>
  <l>न हया न च मातङ्गा न रथा न च पत्तयः ।</l>
  <l>स्त्रीणामपाङ्गदृष्टचैव जीयते जगतां त्रयम् ॥ ८ ॥</l>
</lg>
<p>दण्डिनः ।
3081</p>
<lg>
  <l>प्रभवति मनसि विवेको विदुषामपि शास्त्रसंभवस्तावत् ।</l>
  <l>निपतन्ति दृष्टिविशेिखा यावन्नेन्दीवराक्षीणाम् ॥ ९ ॥</l>
</lg>
<p>कृष्ण मिश्रस्य ।</p>
<pb n="460" />
<p>सामान्य श्रृङ्गाररसः
3082</p>
<lg>
  <l>स्त्रीमुद्रां कुसुमायुधस्य परमां सर्वार्थसंपत्करीं</l>
  <l>ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ।</l>
  <l>ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः</l>
  <l>केचिद्रक्तपटीकृताश्च जटिलाः कापालिकाश्चापरे ॥ १० ॥</l>
</lg>
<p>भर्तृहरेः ।</p>
<p>3083</p>
<lg>
  <l>सोमः शौचं ददौ तासां गन्धर्वाश्च शुभां गिरम् ।</l>
  <l>अभिः सर्वाङ्गकान्तत्वं तस्मादिष्टतमाः स्त्रियः ॥ ११ ॥</l>
</lg>
<p>3084</p>
<lg>
  <l>स्त्रियः पवित्रं परमं नेता दुष्यन्ति कर्हिचित् ।</l>
  <l>मासि मासि रजो ह्यासां दुष्कृतान्यपि कृन्तति ॥ १२ ॥</l>
</lg>
<p>एतौ मनोः ।
3085</p>
<lg>
  <l>जये धरित्र्याः पुरमेव सारं</l>
  <l>पुरे गृहं सद्मनि चैकदेशः ।</l>
  <l>तत्रापि शय्या शयने वरा स्त्री</l>
  <l>रत्नोज्ज्वला राज्यसुखस्य सारः ॥ १३ ॥</l>
</lg>
<p>3086</p>
<lg>
  <l>रत्नानि विभूषयन्ति योषा</l>
  <l>भूष्यन्ते वनिता न रत्नकान्त्या ।</l>
  <l>चेतो वानेता हरन्त्यरत्ना</l>
  <l>नो रत्नानि विनाङ्गनासङ्गात् ॥ १४ ॥</l>
</lg>
<p>3087</p>
<lg>
  <l>श्रुतं दृष्टं स्पृष्टं स्मृतमपि नृणां ह्लादजननं</l>
  <l>न रत्नं स्त्रीभ्योन्यत्कचिदपि कृतं लोकपतिना ।</l>
  <l>तदर्थ धर्मार्थी विभववरसौख्यानि च ततो</l>
  <l>गृहे लक्ष्म्यो मान्याः सततमबला मानविभवैः ॥ १५ ॥</l>
</lg>
<p>केषामप्येते ।</p>
<pb n="461" />
<p>शार्ङ्गधरपद्धतिः
3088</p>
<lg>
  <l>अमृतस्येव कुण्डानि रत्नानामिव राशयः ।</l>
  <l>रतेरिव निधानानि निर्मिताः केन योषितः ॥ १६ ॥</l>
</lg>
<p>3089</p>
<lg>
  <l>प्राणानां च प्रियायाश्च मूढाः सादृश्यकारिणः ।</l>
  <l>प्रिया कण्ठगता रत्यै प्राणा मरणहेतवः ॥ १७ ॥</l>
</lg>
<p>3090</p>
<lg>
  <l>अकृत्रिमप्रेमरसा विलासालसगामिनी ।</l>
  <l>असारे दग्धसंसारे सारं सारङ्गलोचना ॥ १८ ॥</l>
</lg>
<lg>
  <l>केषामप्येते ।</l>
  <l>अथ स्त्रीपुरुपजातिभेदः ॥ ९२ ॥</l>
</lg>
<p>3091</p>
<lg>
  <l>देवीमप्सरसो यक्षकान्तां राक्षसकामिनीम् ।</l>
  <l>कृत्यामिति जगुर्नारी युतां तैरेव लक्षणैः ॥ १ ॥</l>
</lg>
<p>3092</p>
<lg>
  <l>चन्द्रमुखी मृगनयना मदनधनुर्भूः शशाङ्कशिशिरा या ।</l>
  <l>समशिखर सदृशदशना मुखपरिमललीनमधुपालिः ॥ २ ॥</l>
</lg>
<p>3093</p>
<lg>
  <l>पुंस्कोकिलमधुरोतिर्बिम्बोष्टी कम्बुकण्ठकृतशोभा ।</l>
  <l>कोमलमृणालबाहू रक्तोत्पलसदृशकरचरणा ॥ ३ ॥</l>
</lg>
<p>3094</p>
<lg>
  <l>श्रीफलसमवक्षोजा मध्ये क्षीणा गभीरनाभिश्च ।</l>
  <l>त्रिभुवनजयरेखा इव यस्यास्त्रिवलीलता भाति ॥ ४ ॥</l>
</lg>
<p>3095</p>
<lg>
  <l>पृथुतरनितम्बबिम्बा हरिणीसमस्मरमन्दिरोद्देशा ।</l>
  <l>कामतरोरङ्कुर इव यस्या रोमावली विभात्युदरे ॥ ५ ॥</l>
</lg>
<p>3096</p>
<lg>
  <l>रम्भोरुहंसगतिः कनकरुचिर्नोलिनीरजाभासा ।</l>
  <l>मुरभक्ता पतिभक्ता लज्जालुः सुरभिरतनीरा ॥ ६ ॥</l>
</lg>
<pb n="462" />
<p>स्त्रीपुरुषजातिभेदः
3097</p>
<lg>
  <l>सितवसनकुसुमनिरता लघ्वाहारा च कृष्णघनकबरी ।</l>
  <l>चिरकालितपतिरमणा देवी सा पद्मिनी वा स्यात् ॥ ७ ॥</l>
</lg>
<p>3098</p>
<lg>
  <l>गीतनृत्यप्रिया केकिवाणी चित्राम्बरैषिणी ।</l>
  <l>सुगन्धिवक्रेभगतिः सुन्दरी मधुरप्रिया ॥ ८ ॥</l>
</lg>
<p>3099</p>
<lg>
  <l>मधुगन्धिरतद्रावा कोष्णाङ्गी कठिनस्तनी ।</l>
  <l>गौरी श्यामशरीरा वा सुविशालकटीतटा ॥ ९ ॥</l>
</lg>
<p>3100</p>
<lg>
  <l>अजालघुस्मरावासा बाह्यसंभोगरागिणी ।</l>
  <l>नारी या चित्रिणीचिह्ना साप्सरोजातिरुच्यते ॥ १० ॥</l>
</lg>
<p>3101</p>
<lg>
  <l>स्थूला वा तन्वी वा गौरी श्यामापि दीर्घकरचरणा ।</l>
  <l>वडवापृथुमदनगृहा रक्ताम्बररागिणी कुटिला ॥ ११ ॥</l>
</lg>
<p>3102</p>
<lg>
  <l>विपुलकुचा पृथुजघना सोष्णाङ्गी क्षारगन्धिरतसलिला ।</l>
  <l>या शनीसमाना हंसरवा यक्षिणी सा स्यात् ॥ १२ ॥</l>
</lg>
<p>3103</p>
<lg>
  <l>दीर्घस्यदन्तनासा स्थूलोष्ठी स्थूलहस्तचरणा च ।</l>
  <l>कपिलकचा गतलज्जा वारणकुम्भाभवक्षोजा ॥ १३ ॥</l>
</lg>
<p>3104</p>
<lg>
  <l>करिमदगन्धिरतजला रोमशजङ्घा कषायकटुरसना ।</l>
  <l>स्थूलपृथुस्मरगेहा शीतोष्णाङ्गी च खरवचना ॥ १४ ॥</l>
</lg>
<p>3105</p>
<lg>
  <l>अरुणाङ्गी श्यामा वा पतिवर्गद्वेषिणी कुटिलचित्ता ।</l>
  <l>या हस्तिनीसमाना सा ज्ञेया राक्षसी नारी ॥ १५ ॥</l>
</lg>
<p>3106</p>
<lg>
  <l>कलहप्रियातिदीर्घा खर्वा वा दयामपीतहरिता वा ।</l>
  <l>लम्बोष्ठी लघुनासा लघुशिथिलस्तनविभागा च ॥ १६ ॥</l>
</lg>
<pb n="463" />
<p>शार्ङ्गधरपद्धतिः
3107</p>
<lg>
  <l>शुष्ककटि: पृथुजठरा विगन्धिका या च करभिकायोनिः ।</l>
  <l>या घस्मरा शिवोक्तिः सा ज्ञेया कर्मणा कृत्या ॥ १७ ॥</l>
</lg>
<p>3108</p>
<lg>
  <l>अन्योन्यलक्षणैर्युक्तां नारीं संकीर्णकां विदुः ।</l>
  <l>या निजैरेव संयुक्ता चिह्नस्तां केवलां जगुः ॥ १८ ॥</l>
</lg>
<p>अथ पुरुषलक्षणानि ।
3109</p>
<lg>
  <l>देवगन्धर्वयक्षाणां ये राक्षसपिशाचयोः ।</l>
  <l>लक्षणैः संयुतास्ते स्युर्नरास्तैरेव नामभिः ॥ १९ ॥</l>
</lg>
<p>3110</p>
<lg>
  <l>दाता सत्यवचाः शूरो ज्ञानी सत्वरतः शुचिः ।</l>
  <l>सुवर्णकान्तिः श्यामो वा महाकायो घनध्वनिः ॥ २० ॥</l>
</lg>
<p>3111</p>
<lg>
  <l>आजानुलम्बिबाहुः कम्बुग्रीवो बली चतुर्दष्ट: ।</l>
  <l>भाग्यनिधिः पृथुवक्षा लघुमधुराशी च पद्माक्षः ॥ २१ ॥</l>
</lg>
<p>3112</p>
<lg>
  <l>मलयजगन्धशरीरः कामं क्रोधं निषेवते स्थाने ।</l>
  <l>मृगलिङ्गः सुरपुरुषो भक्तो विप्रेषु विज्ञेयः ॥ २२ ॥</l>
</lg>
<p>3113</p>
<lg>
  <l>सत्वरजोभ्यां युक्तः श्यामो वा चम्पकाभकान्तिर्वा ।</l>
  <l>तेजस्वी शुचिवेषो मधुराम्लरुचिर्वदान्यथ ॥ २३ ॥</l>
</lg>
<p>3114</p>
<lg>
  <l>संगीतरक्तः प्रमदासु सक्तो</l>
  <l>दुःखासहो दुन्दुभिधीरघोषः ।</l>
  <l>मध्यप्रमाणोम्बुजगन्धिकायो</l>
  <l>गन्धर्वजातिः कथितोजलिङ्गः ॥ २४ ॥</l>
</lg>
<pb n="464" />
<p>स्त्रीपुरुषजातिभेदः ।
3115</p>
<lg>
  <l>पृथु जठरललाट: पीनकण्ठो बलीया-</l>
  <l>न्विपुलनिबिडकायो रोमशः पदमलाक्षः ।</l>
  <l>अचलमतिरमर्षी सिंहघोषो धनाद्यो</l>
  <l>नवघृतसमगन्धः कान्तरक्तान्तनेत्रः ॥ २५ ॥</l>
</lg>
<p>3116</p>
<lg>
  <l>दीनेषु दाताम्लर सान्नभोजी</l>
  <l>रजस्तमोभ्यां जनितानुषङ्गः ।</l>
  <l>यः किंचिदाश्यामतनु: प्रदिष्टः</l>
  <l>स यक्षजातिर्वृषलिङ्ग लिङ्गः ॥ २६ ॥</l>
</lg>
<p>3117</p>
<lg>
  <l>कृष्णोरुणो वा विकृतास्यदंष्ट्रः</l>
  <l>प्रचण्डकायो बलवान्पलाशी ।</l>
  <l>उष्टूस्वरः कोपनिधिः सुराप</l>
  <l>स्तमोमयो वारणदानगन्धिः ॥ २७ ॥</l>
</lg>
<p>3118</p>
<lg>
  <l>विडालाक्षः सुरान्द्वेष्टि नित्यमूर्ध्वशिरोरुहः ।</l>
  <l>रक्षोजातिर्नरो ज्ञेयो हथलिङ्गाममेहनः ॥ २८ ॥</l>
</lg>
<p>3119
आसवर</p>
<lg>
  <l>तिरति बहुभुकम्लाशी च कर्मठः पिशुनः ।</l>
  <l>स्थूल: कृशोतिदीर्घः खर्वो वा कृष्णपीतो वा ॥ २९ ॥</l>
</lg>
<p>3120</p>
<lg>
  <l>अतितामसोजगन्धिः काकरवो ह्रस्वकूर्चकः पापः ।</l>
  <l>भीरुः कुधीः पिशाचो रासमलिङ्गस्तु विज्ञेयः ॥ ३० ॥</l>
</lg>
<p>3121</p>
<lg>
  <l>परस्परगुणान्कांश्चिद्यो बिभर्ति स मिश्रकः ।</l>
  <l>यः स्वैरेव गुणैर्युक्तो स स्वरूपो निगद्यते ॥ ३१ ॥</l>
</lg>
<p>श्रीधरस्यैते ।</p>
<pb n="465" />
<p>शार्ङ्गधरपद्धतिः
अथ स्त्रीपुरुषसंयोगविवृतिः ॥ ९३ ॥
3122</p>
<lg>
  <l>हरिणी छागी वडवा कारेणी करभी च पञ्चधा नार्यः ।</l>
  <l>मृगवर्कर वृषतुरगरा सभसंज्ञा नराः पञ्च ॥ १ ॥</l>
</lg>
<p>3123
ऋतुलोकपालपङ्किद्वादशभुवनाङ्गुलोन्मितैर्गुणैः
अनुपूर्वतस्तु युक्ता हरिणीहरिणादयो ज्ञेयाः ॥२॥
।
3124</p>
<lg>
  <l>हरिणीमृगयोर जाजयोर्यस्तुरगीवृषयोरिभाश्वयोश्च ।</l>
  <l>करभीखरयोर्भवेत्तु योगः सममेव रतं बुधास्तदाहुः ॥३॥</l>
</lg>
<p>3125</p>
<lg>
  <l>हरिणीछागयोञ्छागीवृषयोर्वडवाश्वयोः ।</l>
  <l>करिणीखरयोरुच्चं रतमाहुर्मनीषिणः ॥ ४ ॥</l>
</lg>
<p>3126</p>
<lg>
  <l>छागीहरिणं वडवाछागं करिणीवृषभं करभीतुरगम् ।</l>
  <l>यदि लभते रतसमये नीचरतं किल तदिदं प्राहुः ॥५॥</l>
</lg>
<p>3127</p>
<lg>
  <l>मृगी वृषमजा वाहं वडवा रासभं यदेि ।</l>
  <l>लभते सुरतस्थाने तदात्युच्चरतं विदुः ॥ ६ ॥</l>
</lg>
<p>3128</p>
<lg>
  <l>हयी मृगमिभी छागं करभी वृषभं यदि ।</l>
  <l>लभते सुरते प्राहुरतिनीचरतं तदा ॥ ७ ॥</l>
</lg>
<p>3129</p>
<lg>
  <l>हरिणीहययो छागीखरयोरप्युच्चतरं रतमिह गदितम् ।</l>
  <l>हरिणो हरिणीं छगलः करभीमतिनीचरतं यदि संयुक्तः ॥ ८ ॥</l>
</lg>
<p>3130</p>
<lg>
  <l>मृगी खरं यदा याति करभीच मृगं यदि ।</l>
  <l>तदा युक्तं रतं प्राहुरसमं च बुधा जगुः ॥ ९ ॥</l>
</lg>
<pb n="466" />
<p>स्त्रीसेवाप्रकार:
3131</p>
<lg>
  <l>पञ्चविंशातेभेदेन प्रोक्तमेवं रतं बुधैः ।</l>
  <l>तत्रोच्चे च समे प्रीतिर्योषितां नान्यतः सुखम् ॥ १० ॥</l>
</lg>
<p>क
3132</p>
<lg>
  <l>देवीं चतुर्थयामे दिनराज्योरप्सरोगणं प्रथमे ।</l>
  <l>यक्षीं तृतीययामे द्वितीयके राक्षसीं रमयेत् ॥ ११ ॥</l>
</lg>
<p>3133</p>
<lg>
  <l>निखिलेष्वपि या कृत्या नो वा कृत्या सदा भवेद्रम्या ।</l>
  <l>करभीचिह्ना कृत्या खरः पिशाचस्तयोर्युक्तः ॥ १२ ॥</l>
</lg>
<lg>
  <l>एते शार्ङ्गधरस्य ।</l>
  <l>अथ स्त्रीसेवाप्रकारः ॥ ९४ ॥</l>
</lg>
<p>3134</p>
<lg>
  <l>सेवनं योषितां कुर्याद्बुधो बुद्ध्वा यथाक्रमम् ।</l>
  <l>बाला योग्याधिरूढानामृतुयोगविभावनात् ॥ १ ॥</l>
</lg>
<p>012
3135</p>
<lg>
  <l>बालेति गीयते नारी यावद्वर्षाणि षोडश ।</l>
  <l>तस्मात्परं च तरुणी यावता त्रिंशता भवेत् ॥ २ ॥</l>
</lg>
<p>3136</p>
<lg>
  <l>तदूर्ध्वमधिरूढा स्याद्यावत्पञ्चाशता भवेत् ।</l>
  <l>वृद्धा तत्परतो ज्ञेया सुरतोत्सववञ्चिता ॥ ३ ॥</l>
</lg>
<p>3137</p>
<lg>
  <l>निदाघशरदोर्बाला पथ्या विषयिणो भवेत् ।</l>
  <l>हेमन्ते शिशिरे योग्या प्रौढा वर्षावसन्तयोः ॥ ४ ॥</l>
</lg>
<p>B</p>
<p>3138</p>
<lg>
  <l>नित्यं वा सेव्यमानापि वाला वर्धयते बलम् ।</l>
  <l>क्षयं नयति योग्या स्त्री प्रौढा जनयते जराम् ॥ ५ ॥</l>
</lg>
<pb n="467" />
<p>शार्ङ्गधरपद्धतिः
महेश्वरस्तु विशेषमाह ।
3139</p>
<lg>
  <l>अलोमशाः सतिलका नित्यं सेव्या हि योनयः ।</l>
  <l>अलोमशत्वं कक्षायां मुखे संजायते तिल: ॥ ६ ॥</l>
</lg>
<p>3140</p>
<lg>
  <l>आसीने लालयेहालां तरुणीं शयने तथा ।</l>
  <l>उत्थितप्यधिरूढां च लालनं त्रिविधं विदुः ॥ ७ ॥</l>
</lg>
<p>3141</p>
<lg>
  <l>नो रमेत रतं तावद्यावन्नोत्कण्ठिता प्रिया ।</l>
  <l>अन्यथा न सुखोत्पत्तिरिति कामानुशासनम् ॥ ८ ॥</l>
</lg>
<p>एते पद्मश्रियाः ।
3142</p>
<lg>
  <l>पङ्कजासनलयेन पद्मिनीं</l>
  <l>नागरेण रमयेत चित्रिणीम् ।</l>
  <l>वेणुदारितपदेन शङ्खिनीं</l>
  <l>स्कन्धजङ्कयुगलेन हस्तिनीम् ॥ ९ ॥</l>
</lg>
<p>3143</p>
<lg>
  <l>व्रजति रतिमुखार्थ चित्रिणीमग्रयामे</l>
  <l>भजात दिनरजन्यो हस्तिनीं च द्वितीये ।</l>
  <l>गमयाते च तृतीये शनिीमाईभावं</l>
  <l>रमयति रमणीयां पद्मिनीं तुर्ययामे ॥ १० ॥</l>
</lg>
<lg>
  <l>एतौ कोकात् ।</l>
  <l>अथ संकेताख्यानभावहावविवृतिः ॥ ९५ ॥</l>
</lg>
<p>तेषु पूर्व संकेतः ।
3144</p>
<lg>
  <l>आद्ये यामे तु शङ्खः स्यान्महाशङ्को द्वितीयके ।</l>
  <l>पद्मस्तृतीयके यामे महापद्मश्चतुर्थके ॥ १ ॥</l>
</lg>
<pb n="468" />
<p>संकेताद्याख्यानम्
3145</p>
<lg>
  <l>रामस्तु पञ्चमे ख्यातो विरामः षष्टकः स्मृतः ।</l>
  <l>प्रवरः सप्तमे ज्ञेयः प्रत्यूषश्चाष्टमे स्मृतः ॥ २ ॥</l>
</lg>
<p>3146</p>
<lg>
  <l>दाडिमं तु द्विजे ज्ञेयं पनसं क्षत्रिये स्मृतम् ।</l>
  <l>कदलीफलकं वैश्ये तथानं शूद्रके मतम् ॥ ३ ॥</l>
</lg>
<p>3147</p>
<lg>
  <l>राजपुत्रे द्वितीयेन्दुः संपूर्णेन्दुश्च भूपतौ ।</l>
  <l>मध्याह्न यून्यपक्कं तु बाले पक्कं च वृद्धके ॥ ४॥</l>
</lg>
<p>3148</p>
<lg>
  <l>ब्राह्मण्यां कुन्दपुष्पं स्याद्राजपुत्र्यां च मालती ।</l>
  <l>मल्लिका वैदयपुत्र्यां तु शूद्रपुत्र्यां च कैरवम् ॥ ५ ॥</l>
</lg>
<p>3149</p>
<lg>
  <l>कामुके भ्रमरः प्रोक्तः कामिन्यां चूतमञ्जरी ।</l>
  <l>तथा ह्वानेङ्कुशधापि प्राकारो वारणे स्मृतः ॥ ६ ॥</l>
</lg>
<p>3150</p>
<lg>
  <l>देहार्पणे रक्तसूत्रं जीवो जीवसमर्पणे ।</l>
  <l>भल्लातकफलं भीतौ भयाभावे हरीतकी ॥ ७ ॥</l>
</lg>
<p>3151</p>
<lg>
  <l>छिन्नवस्त्रं तु विच्छेदे सदशग्रन्थि संगमे ।</l>
  <l>एकत्रेहे तथा चैकं इयोः स्नेहे तु तद्द्वयम् ॥ ८ ॥</l>
</lg>
<p>एते पद्मश्रियः ।
अथ भावः ।
3152</p>
<lg>
  <l>शुद्धोशुद्धश्च संकीर्णस्त्रिधा भावः प्रकीर्तितः ।</l>
  <l>शुद्धोपि त्रिविधो मन्दस्तीक्ष्णस्तीक्ष्णतरस्तथा ॥ ९ ॥</l>
</lg>
<p>3153</p>
<lg>
  <l>ईषत्प्रकटितो मन्दस्तीक्ष्णस्तु पुलकादिभिः ।</l>
  <l>स तु तीक्ष्णतरः श्वासशोषितावयवोत्र यः ॥ १० ॥</l>
</lg>
<pb n="469" />
<p>शार्ङ्गधरपद्धति:
3154</p>
<lg>
  <l>अथाशुद्धोद्भवो ग्राम्यनर्तकस्येव यो भवेत् ।</l>
  <l>कैतवस्त्रेहमापन्नो भावः संकीर्ण उच्यते ॥ ११ ॥</l>
</lg>
<p>हेलाविच्छित्तिविश्वोककिलिकिञ्चितविभ्रमाः</p>
<lg>
  <l>।</l>
  <l>लीला विलासो हावश्च विक्षेपो विहतं मदः ॥ १२ ॥</l>
</lg>
<p>3156
अथ हावाः ।
3155</p>
<lg>
  <l>मोड्डायितं कुड्डमितं मौग्ध्यं च तपनं तथा ।</l>
  <l>ललितं चेत्यमी हावाश्चेष्टाः शृङ्गारभावजाः ॥ १३ ॥</l>
</lg>
<p>यथा
3157</p>
<lg>
  <l>प्रौढे वयसि रूढानां नारीणां सुरतोत्सवे ।</l>
  <l>शृङ्गारशास्त्रतत्वज्ञैः सा हेला परिकीर्तिता ॥ १४ ॥</l>
</lg>
<p>:
3158</p>
<lg>
  <l>आसज्य स्वयमेव चुम्बनविधि याचा विनालिङ्गनं</l>
  <l>तल्पान्ते जघनेन वेपथुमता पर्यर्पितं जानुनोः ।</l>
  <l>क्रोधोत्कम्पममर्षयत्यनुनयत्यस्याः स्मरक्रीडया</l>
  <l>प्रौढैकाभिरतिः प्रेियस्य हृदयं हेलाबलात्कर्षति ॥ १५ ॥</l>
</lg>
<p>3159</p>
<lg>
  <l>प्रसाधनानां दयितापराधा-</l>
  <l>द्यदीर्थयानादरतः सखीनाम् ।</l>
  <l>प्रयत्नतो धारणमङ्गनाया</l>
  <l>विच्छित्तिरेषा कथिता बहुज्ञैः ॥ १६ ॥</l>
</lg>
<p>3160
यथा
सखि प्रेयानत्वा स्खलितमकरोत्क्षन्तुमुचितं
विधत्स्वालंकारं नहि नहि बलादर्पयसि किम् ।
.</p>
<pb n="470" />
<p>संकेताद्याख्यानम्
अयि श्रेयश्चिन्त्यं सततमबलाभिः प्रणयिना-
ममासीस्तन्वि त्वं प्रतनुमपि विच्छित्तिविषयम् ॥ १७ ॥
3161</p>
<lg>
  <l>अभिमतवस्तूपहतावपि गुरुगर्वादनादर स्तन्व्याः ।</l>
  <l>स्खलितेपि प्रियस्य संयमताडनामेत्येव विब्बोकः ॥ १८ ॥</l>
</lg>
<p>3162
यथा</p>
<lg>
  <l>अनास्था वस्तूनामभिमतगुणानामुपहतौ</l>
  <l>घनो गर्वस्तन्व्या रुषि च विहिताडम्बरविधिः ।</l>
  <l>प्रहार: पादाभ्यां यमनमपि काञ्च्या चरणयोः</l>
  <l>प्रियाया विब्बोकं तदिदमिति धन्योनुभवति ॥ १९ ॥</l>
</lg>
<p>3163</p>
<lg>
  <l>सौख्येषु हसितरुदितत्रासक्रोध श्रमाभिलाषाणाम् ।</l>
  <l>संघर्षः प्रियदर्शनहर्षात्किलकिञ्चितं ज्ञेयम् ॥ २० ॥</l>
</lg>
<p>3164
यथा</p>
<lg>
  <l>क्रन्दत्यबाष्पमभये भयमातनोति</l>
  <l>क्रोधो मनाग्भवति तत्क्षणमेव हास्यम् ।</l>
  <l>आलम्ब्य हर्षमबला किलकिञ्चिताख्यं</l>
  <l>हावं विभावयति पुण्यवतोन्तिकस्था ॥ २१ ॥</l>
</lg>
<p>3165</p>
<lg>
  <l>क्रोधः स्मितं च कुसुमाभरणादियाच्चां</l>
  <l>तद्वर्जनं च सहसैव विमण्डनं च ।</l>
  <l>आक्षिप्य कान्तवचनं लपनं सखीभि-</l>
  <l>निष्कारणं स्थितगतेन स विभ्रमः स्यात् ॥ २२॥</l>
</lg>
<p>3166
यथा
आस्तां माद्य भवे शुभे सखि लता न्यस्ता त्वया माधवी
कान्ते तन्मम संप्रयच्छ कुसुमं किं वामुना मे फलम् ।</p>
<pb n="471" />
<p>.४५६
यथा
शार्ङ्गधरपद्धतिः
नाल्पं निर्मलयामि मौक्तिकमिदं न्यस्तं त्वया दह्यता-
मित्थं विभ्रमसंभ्रमो मदयाते प्रेयांसमेणीदृशः ॥ २३ ॥
3167
अप्राप्तवल्लभसमागमनाधिकायाः</p>
<lg>
  <l>यथा</l>
  <l>सख्याः पुरोत्र निंजचित्तविनोदबुद्धया ।</l>
  <l>आलापवेषगतिहास्यविकत्थनाद्यैः</l>
  <l>प्राणेश्वरानुकृतिमाकलयन्ति लीलाम् ॥ २४ ॥</l>
</lg>
<p>3168</p>
<lg>
  <l>वेणीबन्धकपर्दिनी सिततनुः श्रीखण्डपांसूत्करैः</l>
  <l>केतक्येकदलेन्दुमृद्धिसलता व्यालोपवीतिन्यपि ।</l>
  <l>प्राक्पाणिग्रहणाद्विनोदरभसा सख्याः पुरो लीलया</l>
  <l>कुर्वाणानुकृतिं हरस्य दिशतु श्रेयांसि वः पार्वती ॥ २५ ॥</l>
</lg>
<p>3169</p>
<lg>
  <l>यो वलभासन्नगतो विकारो</l>
  <l>गत्यासनस्थानविलोकनेषु ।</l>
  <l>वृथास्मितक्रोधचमत्कृतिश्च</l>
  <l>विकूणनं चास्य कृतं विलासः ॥ २६ ॥</l>
</lg>
<p>3170</p>
<lg>
  <l>स्खलितबहलः पादन्यासो विलोकितमन्यतो</l>
  <l>रुचिरविषये वक्राम्भोजं प्रयाति विकूणनम् ।</l>
  <l>स्मितमपि मुहुर्व्यर्थः क्रोधो वृथैव चमत्कृति-</l>
  <l>दयितमभिगच्छन्त्या स्तन्व्या विलासरसोदयः ॥ २७ ॥</l>
</lg>
<p>3171</p>
<lg>
  <l>सबाष्पगद्गदालाप: सस्मितापाङ्गवीक्षितम् ।</l>
  <l>प्रेमदाक्षिण्यवृत्तिश्च तरुण्या हाव उच्यते ॥ २८ ॥</l>
</lg>
<pb n="472" />
<p>30
यथा
यथा
संकेतादिविवृतिः
3172</p>
<lg>
  <l>प्राप्तेषु शृङ्गारसाश्रयेषु</l>
  <l>हावेषु कामाङ्कुरचिह्नभूतः ।</l>
  <l>उत्पद्यते यः स्मितवीक्षितोक्त-</l>
  <l>मुन्मीलितं बालतया स हावः ॥ २९ ॥</l>
</lg>
<p>3173</p>
<lg>
  <l>विसंस्थूलावेशमयो विकारो विविधः स्त्रियः ।</l>
  <l>तमामनन्ति विक्षेपं मुनयः कपिलादयः ॥ ३० ॥</l>
</lg>
<p>3174
यथा</p>
<lg>
  <l>धम्मिलं बद्धमुक्तं तिलकमसकलं न्यस्तवृत्तं च धत्ते</l>
  <l>दृष्टावेकत्र कालाञ्जनमुरसि रणत्किंकिणीं रत्नकाञ्चीम् ।</l>
  <l>अंसोत्क्षिप्ताहारक्रमुकफलरसा रञ्जितकाधरान्ता</l>
  <l>कान्ता विक्षेपभावाद पहरति मनः स्रस्तरुद्धो रुवासाः ॥३१॥</l>
</lg>
<p>3175</p>
<lg>
  <l>वाच्यानां च पदार्थानां ज्ञानेपि यदभाषणम् ।</l>
  <l>नायकेषु मृगाक्षीणां विहतं तत्प्रकीर्तितम् ॥३२॥</l>
</lg>
<p>3176</p>
<lg>
  <l>कण्डे क एष तव वल्लभ नूपुरोय</l>
  <l>तत्पादभूषणमयं वलयस्तदानीम् ।</l>
  <l>इत्यादिवाच्यमविभाव्य वचो मृगाक्ष्या</l>
  <l>ज्ञानेपि तहितमुत्सुकतां तनोति ॥ ३३ ॥</l>
</lg>
<p>3177</p>
<lg>
  <l>मधुपानमदे प्रायस्तारुण्यातिशयोद्भवः ।</l>
  <l>विकारो यो वरस्त्रीणां तं वदन्ति मदं बुधाः ॥ ३४ ॥</l>
</lg>
<pb n="473" />
<p>यथा
यथा
शार्ङ्गधरपद्धतिः
3178
3179</p>
<lg>
  <l>दायतस्य कथारम्भे साङ्गभङ्गविजृम्भणम् ।</l>
  <l>कर्णकण्डूयनं स्त्रीणां मोडायितमुदाहृतम् ॥ ३६ ॥</l>
</lg>
<lg>
  <l>आलाप: स्मितकौमुदीसहचरो दृष्टिः प्रहर्षोज्ज्वला</l>
  <l>भ्रूर्नृत्याध्वरदीक्षिता चरणयोर्न्यासः समे भङ्गुरः ।</l>
  <l>वेशेषु क्षणिकस्पृहा मदविधेर्बन्धो न वादाश्रय-</l>
  <l>स्तन्व्या नैकविकारभूर्मधुमदप्रायो मदः स्फूर्जति ॥३५॥</l>
</lg>
<p>यथा
3180</p>
<lg>
  <l>तस्याङ्घ्रिद्रितयं नमन्ति विबुधाः स त्वेककः सर्ववि-</l>
  <l>तं मृत्युंजयमामनन्ति मुनयः सोद्यापि पाति व्रतम् ।</l>
  <l>इत्याकर्ण्य कथां हरस्य विजयापार्श्वे विवाहात्पुरा</l>
  <l>भङ्क्त्वाङ्गानि विजृम्भितं गिरिभुवो मोट्टायितं पातु वः ॥३७॥</l>
</lg>
<p>3181</p>
<lg>
  <l>केशस्तनादिग्रहणे हर्षादिभ्रमिते मुखे ।</l>
  <l>दुःखाविष्करणं तन्व्या यनत्कुट्टमितं मतम् ॥ ३८ ॥</l>
</lg>
<p>3182</p>
<lg>
  <l>किं कान्त निर्दयतर भुजकंदलीभ्यां</l>
  <l>गाढं निपीडयसि मां न सहिष्णुरस्मि ।</l>
  <l>वामभ्रुवामिति सुखेष्वपि दुःखभाजां</l>
  <l>धन्यः शृणोति यदि कुट्टमिताक्षराणि ॥३९॥</l>
</lg>
<p>3183</p>
<lg>
  <l>मुक्ताफलं तरोः कस्येत्यादि यत्कृत्रिमं वचः ।</l>
  <l>वल्लभानां पुरः प्रोकं मौग्ध्यं तत्सुधियो विदुः ॥ ४० ॥</l>
</lg>
<pb n="474" />
<p>यथा</p>
<lg>
  <l>के द्रुमास्ते व चारामे सन्ति केन प्ररोपिताः ।</l>
  <l>नाथ मद्भूषणे न्यस्तं येषां मुक्ताफल फलम् ॥ ४१ ॥</l>
</lg>
<p>3185
यथा
संकेतादिविवृतिः
3184
नागच्छति प्रियतमे प्रहरार्धमात्र-
मुद्रेगजं विधिविचेष्टितमङ्गनायाः ।
सख्याः पुरः श्वसनरोदनमात्मभाग्य-
निन्दादिकं कविवरास्तपनं वदन्ति ।॥ ४२ ॥
3186
यथा</p>
<lg>
  <l>नायाते प्रहरार्धमेव दयिते भक्त्वा नितम्बे मिथः</l>
  <l>संसक्ताङ्गुलिजालमध्यमधुना सख्यः कृतार्था इति ।</l>
  <l>व्याहारं श्वसनं मुहुः पुनरिदं गौर्याद्यनभ्यर्चनं</l>
  <l>तन्वङ्ग चास्तपनं तनोति कृतिनः प्रेमाणमुच्चैस्तराम् ॥४३॥</l>
</lg>
<p>3187</p>
<lg>
  <l>भ्रूनेत्रादिक्रियाशाली सुकुमार विधानतः ।</l>
  <l>हस्तपादाङ्गविन्यासस्तन्वङ्गया ललितं विदुः ॥ ४४ ॥</l>
</lg>
<p>3188</p>
<lg>
  <l>स्कन्धार्पित कमणिकुण्डल मुन्नतैक-</l>
  <l>भ्रूत्रल्लिसाचिविनिवेशितदृष्टिपातम् ।</l>
  <l>चेतो न कस्य ललितं हरति प्रियाया</l>
  <l>हासोद्धतांशुकनिरुद्ध मुखेन्दुकान्तम् ॥ ४५ ॥</l>
</lg>
<p>अथ स्त्रीपुरुषवशीकरणम् ।
3189</p>
<lg>
  <l>नाभिहत्कण्ठदेशेषु ददच्छासं शनैः शनैः ।</l>
  <l>कामं संसाधयेत्कामी गायत्रों सप्तधा पठेत् ॥ ४६ ॥</l>
</lg>
<pb n="475" />
<p>शार्ङ्गधरपद्धतिः
अथ कामगायत्री ।
3190</p>
<lg>
  <l>ॐ नमो भगवासाय विद्महे पुष्पबाणाय धीमहि ।</l>
  <l>तन्नः कामः प्रचोदयात् ॥</l>
</lg>
<lg>
  <l>व्याजेन चुम्बनादीनामुच्छ्रासं पाययेत्प्रियाम् ।</l>
  <l>तेन सा वशमायाति न तु तस्याः स्वयं पिवेत् ॥ ४७॥</l>
</lg>
<p>3191</p>
<lg>
  <l>अङ्गुष्ठे पदगुल्फजानुजघने नाभौ च वक्षःस्तने</l>
  <l>कक्षाकण्ठकपोलदन्तवसने नेत्रालिके मूर्धनि ।</l>
  <l>शुक्लाशुक्लविभागतो मृगदृशामङ्गेष्वनङ्गस्थिती-</l>
  <l>रूर्ध्वाधोगमनेन वामपद्गाः पक्षद्वये लक्षयेत् ॥ ४८ ॥</l>
</lg>
<p>3192</p>
<lg>
  <l>के गृह्णन्ति कचाँल्ललाटनयने चुम्बन्ति दन्तच्छदं</l>
  <l>दन्तौधेन निपीडयन्ति तरसा चुम्बन्ति गण्डस्थलीम् ।</l>
  <l>कक्षाकण्डतट लिखन्ति नखरैगृहन्ति गाढं स्तनो</l>
  <l>मुष्टया वक्षसि ताडयन्ति ददते नाभौ चपेटां शनैः ॥ ४९ ॥</l>
</lg>
<p>3193</p>
<lg>
  <l>कुर्वन्ति स्मरमन्दिरे करिकरक्रीडां स्त्रियो जानुनी</l>
  <l>गुल्फाङ्गुष्ठपदानि च प्रतिमुहुर्निम्नन्ति तैरात्मनः ।</l>
  <l>इत्येवं कलयन्ति ये शशिकलामालिङ्गच मज्जन्ति ते</l>
  <l>शीतांशूपलपुत्तिकां शशिकरस्पृष्टामिव प्रेयसीम् ॥ ५० ॥</l>
</lg>
<p>3194</p>
<lg>
  <l>ज्ञात्वानङ्ग स्थिति कामी तत्स्थानं संस्पृशेद्रते ।</l>
  <l>तेन कान्ता वशं याति द्रुतं द्रवति निश्चितम् ॥ ५१ ॥</l>
</lg>
<p>3195
एकारौकारयुक्ता हरिहरिजहराः पञ्च बाणा: स्मरस्य
ख्याता लक्ष्याण्यमीषां हृदयकुचदृशो मूर्ध्नि गुह्ये क्रमेण ।</p>
<pb n="476" />
<p>संकेतादिविवृतिः
स्थानेष्वेतेषु भूयो निजनयनधनुः प्रेरितस्तैः पतद्भिः
स्यन्दन्ते सुन्दरीणां ज्वलदनलनिभर्बिन्दवः कामवाराम् ॥ ५२॥
3196</p>
<lg>
  <l>सरसिजमरुणं हृदये कुचयोचूतं दृशोरशोकं च ।</l>
  <l>शिरसि शिरीषं योनावुत्पलमेतानि पञ्च बाणाः स्युः॥५३॥</l>
</lg>
<p>3197</p>
<lg>
  <l>रोचनामीनपित्ताभ्यां सव्यहस्तकनिष्ठया ।</l>
  <l>कृतो विशेषको युक्त्या त्रैलोक्यस्यापि मोहनः ॥ ५४ ॥</l>
</lg>
<p>3198</p>
<lg>
  <l>कनकस्य तु पञ्चाङ्गं कर्पूर केतकीरजः ।</l>
  <l>आत्मशुक्रेण संयुक्तं वश्यकृद्भक्षितं स्त्रियाः ॥ ५५ ॥</l>
</lg>
<p>3199</p>
<lg>
  <l>शिलागोरोचनापत्रकुङ्कुमस्य विशेषकात् ।</l>
  <l>अङ्गलेपनतो नारी नरेन्द्रस्य प्रिया भवेत् ॥ ५६ ॥</l>
</lg>
<p>3200</p>
<lg>
  <l>चूर्णे दत्तं वशकृचूर्ण कीटस्य काकजङ्कायाः ।</l>
  <l>मुनिदलरससिक्तो वा टङ्कणकः स्वाङ्गमलमिलितः ॥५७॥</l>
</lg>
<p>3201
क्षौमी लेखावर्ति गददलताली सतगर कैस्तैलम् ।</p>
<lg>
  <l>सिद्धार्थस्य गृहीत्वा नृकपाले चाञ्जनं विहितम् ।</l>
  <l>नयनगतं युवतीनामपि मुनिचेतांसि मोहयति ॥ ५८ ॥</l>
</lg>
<p>3202
यदि सहदेवीमूलं ग्रहणे संगृह्य रोचनापिष्टम् ॥ ५९ ॥
तत्कृततिलका नारी गुरुकुलमपि वश्यतां नयति ।
3203</p>
<lg>
  <l>सितदूर्वा सितबृहती सितगिरिकर्णी समूलपुष्पा च ।</l>
  <l>ताम्बूलेन वितीर्णी स्त्रीपुरुषी वश्यतां नयति ॥ ६० ॥</l>
</lg>
<pb n="477" />
<p>शार्ङ्गधरपद्धतिः
3204</p>
<lg>
  <l>निजबीजेन रतान्ते वामदृशो झटिति वामपादं यः ।</l>
  <l>अथवा लिम्पति हृदयं स एव तस्याः परो दयितः ॥६१॥</l>
</lg>
<p>3205</p>
<lg>
  <l>वचा सौवर्चलं कुष्ठं रजन्यौ मरिचानि च ।</l>
  <l>एषां लेपप्रभावेण वशीकरणमुत्तमम् ॥ ६२ ॥</l>
</lg>
<p>3206</p>
<lg>
  <l>कर्पूरं चन्दन कुष्टं तुलसी सर्जसंभवम् ।</l>
  <l>मुस्तं शिलारसं चैव धत्तूरमगुरुस्तथा ॥ ६३ ॥</l>
</lg>
<p>3207</p>
<lg>
  <l>शेफाली शतपुष्पा च सर्षपास्तगरं गुडः ।</l>
  <l>तथा रुद्रजटा सर्वमैतदेकत्र कारयेत् ॥ ६४ ॥</l>
</lg>
<p>3208</p>
<lg>
  <l>अनेन योगराजेन धूपिताम्बरभूषणः ।</l>
  <l>धूपिताङ्गस्त्रिभुवनं मनुजः कुरुते वशम् ॥ ६५ ॥</l>
</lg>
<p>अथ द्रावणम् ।
3209</p>
<lg>
  <l>यदि वा मधु उचिञ्जासहितं कठिनाङ्गनावराङ्गेषु ।</l>
  <l>क्षेपात्त डूजलेपाद्रेतःस्रोतः प्रवर्तयाते ॥ ६६ ॥</l>
</lg>
<p>3210
कर्पूरामश्रेण च कण्टकारी-
बीजोद्भवेनैव रसेन लिप्तम् ।
-
लिङ्गं रते द्रावकरं वधूनां
संजायतेत्यन्तसुखावहं च ॥ ६७ ॥
3211</p>
<lg>
  <l>चूर्णितैष्टङ्कणोपेतैर्महाराष्ट्रीफलच्छदैः ।</l>
  <l>मधुना लिङ्गलेपेन द्रावो भवति योषिताम् ॥ ६८ ॥</l>
</lg>
<pb n="478" />
<p>संकेतादिविवृतिः
3212</p>
<lg>
  <l>रक्तकपिलिङ्गमुडुपतिकाञ्चनमधुसूतसहितं वा ।</l>
  <l>हयलालामञ्जिष्ठा सितसर्वपजातिकुसुमं वा ॥ ६९ ॥</l>
</lg>
<p>3213</p>
<lg>
  <l>मधुसैन्धवकलरवमलमिलितं वाजिलिङ्गलेपेन ।</l>
  <l>द्रावयति कामिनीनां रतिसमये काममन्दिरं नियतम् ॥७०॥</l>
</lg>
<p>अथ वाजीकरणम् ।
3214</p>
<lg>
  <l>गोक्षुरकेक्षुरकं शतमूली-</l>
  <l>वानार नागबलातिबलानाम् ।</l>
  <l>चूर्णमिदं पयसा निशि सेव्यं</l>
  <l>यस्य गृहे प्रमदाशतमस्ति ॥ ७१ ॥</l>
</lg>
<lg>
  <l>3215</l>
  <l>गोक्षुरविदारिकाभवचूर्ण वा शर्करासहितम् ।</l>
  <l>स्वरसेन भावितं वा धात्रीचूर्ण सिताज्यमधुलीढम् ॥</l>
  <l>लीडनुपीय दुग्धं न तृप्यति स्त्रीशतस्यापि ॥ ७२ ॥</l>
</lg>
<p>3216</p>
<lg>
  <l>पिप्पलीमाषशालीनां यवगोधूमयोस्तथा ।</l>
  <l>चूर्णभागान्समीकृत्य घृते पूपलिकां पचेत् ॥ ७३ ॥</l>
</lg>
<p>3217</p>
<lg>
  <l>तां भक्षयित्वा पीत्वा च शर्करामधुरं पयः ।</l>
  <l>नरञ्चटकवद्गच्छेन्मैथुने तरुणीदेश ॥ ७४ ॥</l>
</lg>
<p>3218</p>
<lg>
  <l>घृतमधुसहदेवान्वितसरोजकिंजल्कलिप्मनाभेर्वा ।</l>
  <l>रममाणस्य न तृप्यति मनः शतस्यापि रमणीनाम् ॥ ७५ ॥</l>
</lg>
<p>एते योगरत्नावल्याः ।</p>
<pb n="479" />
<p>शार्ङ्गधरपद्धतिः
अथ बीजस्तम्भः ।
3219</p>
<lg>
  <l>भृङ्गरजः कन्यायां विष्णुक्रान्तासजीरके मलिते ।</l>
  <l>मुखगतगुटिकाविधिना बीजस्तम्भं रते कुरुते ॥ ७६ ॥</l>
</lg>
<p>3220</p>
<lg>
  <l>वानरं चपलं ध्यायेहृक्षशाखावलम्बिनम् ।</l>
  <l>सुरते तेन बीजस्य स्तम्भो भवति निश्चितम् ॥ ७७ ॥</l>
</lg>
<lg>
  <l>3221</l>
  <l>कपिकच्छृमूलेन च निजचरणविलेपनाद्भवति ।</l>
  <l>बीजस्तम्भः पुंसो बहुशो दृष्टः प्रयोगोयम् ॥ ७८ ॥</l>
  <l>॥</l>
</lg>
<p>3222</p>
<lg>
  <l>सितशरपुडामूलं पारदरससहित मानने निहितम् ।</l>
  <l>एक करञ्जकबीजान्तरगं बीजं विधारयति ॥ ७९ ॥</l>
</lg>
<p>3223</p>
<lg>
  <l>स्नुह्याजदुग्धपिष्टं लज्जालोर्मूलमालेपनतः ।</l>
  <l>ध्वजलेपादजमूत्रात्पिष्टं वा वारुणीमूलम् ॥ ८० ॥</l>
</lg>
<p>3224
माहिषघृतसहदेवीतिलमधुसितकमल</p>
<lg>
  <l>के सरेस्तुल्यैः ।</l>
  <l>गृहचटकेन च लेपितनाभिस्तब्धेन्द्रियो रमते ॥ ८१ ॥</l>
</lg>
<p>3225</p>
<lg>
  <l>कपिकच्छूमूलेन च मदावेहलछागमूत्रपिटेन ।</l>
  <l>मिलनं स्तब्धीकरणं मूलेन दुरालभायाश्च ॥ ८२ ॥</l>
</lg>
<p>अथ लिङ्गवृद्धिः
3226</p>
<lg>
  <l>मधुतगर गौर सर्षपबृहतीखरमञ्जरीकणा: सतिलाः ।</l>
  <l>यत्रकुष्ठमरिचसैन्धवह यगन्धामाषसंयुक्ताः ॥८३ ॥</l>
</lg>
<p>3227</p>
<lg>
  <l>स्तन युगलकर्णपालीवेजभुजशिखरोपवयमेताः ।</l>
  <l>ध्रुवमुइर्तनविधिना सतताभ्यासेन कुर्वन्ति ॥ ८४ ॥</l>
</lg>
<pb n="480" />
<p>संकेतादिविवृतिः
3228
भल्लातकबृहतीफलदाडिमफलकल्कसाधितं कुरुते ।
लिङ्ग मर्दनविधिना कटुतैलं वाजिलिङ्गाभम् । ८५ ॥
3229</p>
<lg>
  <l>पुटदग्धपद्मिनीदलभल्लातककृष्णलवणानाम् ।</l>
  <l>भूयः परिणतवृहतीफलरससंपिष्टया मुदितम् ॥ ८६ ॥</l>
</lg>
<p>3230</p>
<lg>
  <l>महिषीमलमिलितमये लिङ्गं पश्चाच्च तैर्भवति ।</l>
  <l>मुसलमिव मदनविह्वलयुवतीजनदर्पनिर्दलनम् ॥ ८७ ॥</l>
</lg>
<p>( युग्मम् )
(युग्मम्)</p>
<p>3231</p>
<lg>
  <l>कनकरसमसृणवार्तित हयगन्धा मूल मिश्रपर्युषितम् ।</l>
  <l>माहिषमिह नवनीतं गतबीजे कनकफलमध्ये ॥ ८८॥</l>
</lg>
<p>3232</p>
<lg>
  <l>गोमयगा डोहार्तितपूर्व पश्चादनेकशो लिप्तम् ।</l>
  <l>भवति हयलिङ्गसदृशं लिङ्गं कठिनाङ्गनादयितम् ॥८९॥</l>
</lg>
<p>3233</p>
<lg>
  <l>करिकृष्णाश्वगन्धा व नवनीतं च माहिषम् ।</l>
  <l>एतेषां मर्दनाल्लिङ्गवृद्धिः संजायते परा ॥ ९० ॥</l>
</lg>
<p>3234</p>
<lg>
  <l>कर्पूरमण्डदुग्धलेपेन जायते ।</l>
  <l>शेफसो महती वृद्धिः कटिनस्त्रीमुखावहा ॥ ९१ ॥</l>
</lg>
<p>3235</p>
<lg>
  <l>शर्करासैन्धवं सर्पेिक्षीरविपाचितम् ।</l>
  <l>युक्त्या तु मर्दयेल्लिङ्गं भवेत्कारिकरोपमम् ॥ १२ ॥</l>
</lg>
<p>एते कोकस्य ।
अथ कुसुमजननम् ।
3236</p>
<lg>
  <l>पीते च तिलकषाये त्रिकटुद्दिजयष्टिमूलसंयुक्त ।</l>
  <l>अपहरति रक्तगुल्मं कुसुमनिरोधं च तरुणीनाम् ॥ ९३ ॥</l>
</lg>
<pb n="481" />
<p>शार्ङ्गधरपद्धतिः
3237</p>
<lg>
  <l>कर्पासबीजमज्जानां चूर्ण तैलेन पाचयेत् ।</l>
  <l>तेन संजायते पुष्पं युवतीनां चिराद्गतम् ॥ १४ ॥</l>
</lg>
<p>3238
तुम्बीवीजयवक्षारौ दन्तिविल्वं कणा गुडः ।</p>
<lg>
  <l>पञ्चबाणवलं वर्तिर्वचीक्षीरेण निर्मिता ।</l>
  <l>योनिमध्यस्थिता पुष्पं जनयत्येव योषिताम् ॥ ९५ ॥</l>
</lg>
<p>अथ गर्भजननम् ।
3239</p>
<lg>
  <l>नागकेसरपुष्पाणां चूर्णे गोसर्पिषा सह ।</l>
  <l>पीते खी लभते गर्भमृतौ दुग्धान्नभोजिनी ॥ ९६ ॥</l>
</lg>
<p>3240</p>
<lg>
  <l>लक्ष्मणा शिखिमूला वा दुग्धपीता दिनत्रयम् ।</l>
  <l>ऋतौ जाते स्त्रियो गर्भ ग्राहयेन्नरसंगमे ॥ ९७ ॥</l>
</lg>
<p>अथ गर्भपातरक्षा ।
3241</p>
<lg>
  <l>लज्जालुर्धातकीपुष्पमुत्पलं मधु लोभ्रकम् ।</l>
  <l>जलस्थया स्त्रिया पीतं गर्भपातं निवारयेत् ॥ ९८ ॥</l>
</lg>
<p>3242</p>
<lg>
  <l>गर्भिणीगर्भतो रक्तं स्तम्भयेन्निपतहुतम् ।</l>
  <l>पारावतमलं पीतं त्र्यहं तन्दुलवारिणा ॥ ९९ ॥</l>
</lg>
<p>अथ सुखप्रसूतिः ।
3243</p>
<lg>
  <l>कृत्वा च सप्तखण्डं गुञ्जामूलं निबध्य कटिदेशे ।</l>
  <l>सूत्रैः सप्तभिरचिरात्मुख भामिनी भजते ॥ १०० ॥</l>
</lg>
<p>3244</p>
<lg>
  <l>हिङ्गु सैन्धवसंयुक्ततप्तकाञ्चिकपानतः ।</l>
  <l>प्रसृते स्त्री कटौ बद्धे मूले वा मातुलुङ्गजे ॥ १०१ ॥</l>
</lg>
<pb n="482" />
<p>संकेतादिविवृतिः
3245</p>
<lg>
  <l>जरायुजं मृतं गर्भमपतन्तीं जरामपि ।</l>
  <l>योषितां पातयत्येव पादस्थोत्तरणीशिफा ॥ १०२ ॥</l>
</lg>
<p>अथ बालरक्षा ।
3246</p>
<lg>
  <l>मयूरचूलिकामूलं ग्रहणादौ समुद्धृतम् ।</l>
  <l>वालकस्य गले बद्धं सर्वदोषनिवारणम् ॥ १०३ ॥</l>
</lg>
<p>3247</p>
<lg>
  <l>एका वा दुग्धिका तुम्बी शङ्खपुष्पी जटा धृता ।</l>
  <l>कण्ठदन्तोद्भवा भूतवेदनाहरणक्षमा ॥ १०४ ॥</l>
</lg>
<p>अथ यौवनरक्षा ।
3248</p>
<lg>
  <l>मुण्डीचूर्णकषायेण युतं तैलं विपाचितम् ।</l>
  <l>पतितं यौवनं न स्यात्पानादुत्तिष्ठति ध्रुवम् ॥ १०५॥</l>
</lg>
<p>3249</p>
<lg>
  <l>माकन्दमूल संयुक्त मधुकर्पूरपूरिता ।</l>
  <l>गतेपि यौवने स्त्रीणां योनिर्गाढातिजायते ॥ १०६ ॥</l>
</lg>
<p>एते योगरत्वावल्याः ।</p>
<p>अथ मुखवासजलवासौ ।
3250</p>
<lg>
  <l>जातीफलं च कस्तूरी कर्पूरं चूतवारिसंपृक्तम् ।</l>
  <l>धूपितमगुरुकसिल्हं मधुगुडधूपैच मुखवासः ॥ १०७ ॥</l>
</lg>
<p>3251</p>
<lg>
  <l>सूक्ष्मैलाकस्तूरीकुष्ठत्वक्पत्रचन्दनैः सुतनु ।</l>
  <l>मलयजसहितं नूनं रचय महीपाल जलवासम् ॥ १०८ ॥</l>
</lg>
<p>3252</p>
<lg>
  <l>त्वक्पत्राभ्यां जातीपत्रैलाभ्यां च चम्पको भवति ।</l>
  <l>खरिचाभ्यां वीनः कुष्ठतिलाभ्यां च पाटलावासः ॥१०९ ॥</l>
</lg>
<pb n="483" />
<p>शार्ङ्गधरपद्धतिः
अथाङ्गवासः ।
3253</p>
<lg>
  <l>चूर्ण कुष्ठमुरानागकेसराणां घृतान्वितम् ।</l>
  <l>मधु पीतं करोत्यङ्गसौरभं सततं नृणाम् ॥ ११० ॥</l>
</lg>
<p>3254</p>
<lg>
  <l>प्रातः कुष्ठरजचूर्ण लिहन्मधुघृतान्वितम् ।</l>
  <l>काठिन्यं सौरभं तस्य देहे स्याच्चिरजीवितम् ॥ १११ ॥</l>
</lg>
<p>श्रीकण्ठशंभोः ।
अथ धूपाः ।
3255</p>
<lg>
  <l>दलं मलयजं मांसी सितागुरु जलं मधु ।</l>
  <l>समांशैर्मेलितैर्धूपो धत्ते कुङ्कुमसौरभम् ॥ ११२ ॥</l>
</lg>
<p>3256</p>
<lg>
  <l>चन्दनागरुकुष्ठानि शिवासर्जर सौ सिता ।</l>
  <l>मलयानिलनामायं धूपोमीभिः सुरप्रियः ॥ ११३ ॥</l>
</lg>
<p>योगरत्नावल्या एतौ ।
3257</p>
<lg>
  <l>सूरणद्विपदानाभ्यां शिलया गौरसर्षपैः ।</l>
  <l>कुङ्कुमागुरुरम्भाभिश्चन्द्रचन्दनकौशिकैः ॥ ११४ ॥</l>
</lg>
<p>3258</p>
<lg>
  <l>दशाङ्गोयं महाधूपो नाम्ना संमोहनाभिधः ।</l>
  <l>त्रैलोक्यं मोहयत्येव कामबाणसमः स्मृतः ॥ ११५ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
3259</p>
<lg>
  <l>शशिनखगिरि मदमांसीजतुभागो मलयलोहयोर्भागौ ।</l>
  <l>मिलितैर्गुडपरिमृदितैर्वस्त्रगृहादीनि धूपयेच्चतुरः ॥ ११६ ॥</l>
</lg>
<p>गन्धदीपिकायाः ।</p>
<pb n="484" />
<p>बालावर्णनम्
अथधूपवर्तिः ।
3260</p>
<lg>
  <l>नखगुरुसिल्हकवालककुन्दुरुशैलेयचन्दनं श्यामा ।</l>
  <l>क्रमवृद्धभागरचिता वार्तैः क्षितिनाथकान्तेयम् ॥ ११७ ॥</l>
</lg>
<p>पद्मश्रियः ।
3261</p>
<lg>
  <l>मार्जारी हिमवालुका पिशुनकं गोशीर्षकं शिल्हनं</l>
  <l>वह्नः प्रीतिकरं तथाम्नुपिशिता स्यात्कौशिकं यौगिकम् ।</l>
  <l>कल्कं भागविवर्धकं गुडसितासमूच्छितं सर्पिषा</l>
  <l>युक्तं मन्मथवर्तिरित्यभिहिता स्याद्भोगिनां सर्वदा ॥११८ ॥</l>
</lg>
<p>श्रीगोविन्दराजदेवानाम् ।
अथ दीपवर्तिः ।
3262</p>
<lg>
  <l>सुरदारुमलय मुस्तकलाक्षागुरुशीलचूर्णकर्पूरम् ।</l>
  <l>नृपवासगेहयोग्या मनोहरा दीपवर्तिरियम् ॥ ११९ ॥</l>
</lg>
<p>3263</p>
<lg>
  <l>गन्धरसागिरिकण्डुरुगुग्गुलुसर्जर सपूतिकर्पूरम् ।</l>
  <l>श्रीवाससिल्हचन्दन मित्यपरा दीपवर्तिरियम् ॥ १२० ॥</l>
</lg>
<lg>
  <l>एतौ पद्मश्रियः ।</l>
  <l>अथ बालावर्णनम् ॥ ९६ ॥</l>
</lg>
<p>3264</p>
<lg>
  <l>अभ्यासः कर्मणां सम्यगुत्पादयति कौशलम् ।</l>
  <l>विधिना तावदभ्यस्तं यावत्सृष्टा मृगेक्षणा ॥ १ ॥</l>
</lg>
<p>3265</p>
<lg>
  <l>दग्धो विधिविधत्ते न सर्वगुणसुन्दरं जनं कमपि ।</l>
  <l>इत्यपवादभयादिव मुग्धाक्षी निर्मिता विधिना ॥ २ ॥</l>
</lg>
<pb n="485" />
<p>शार्ङ्गधरपद्धतिः
3266</p>
<lg>
  <l>लावण्यामृतदीर्घिका कुलगृहं सौन्दर्य सौभाग्ययो-</l>
  <l>त्रैलोक्याकररत्नकन्दलिरियं जीव्यात्सहस्रं समाः ।</l>
  <l>रूपालोकन कौतुक्रेन बहुना शिल्पश्रमेणादरा-</l>
  <l>न्मन्ये यां विधिना विधाय विहितं सृटेर्ध्वजारोपणम् ॥ ३ ॥</l>
</lg>
<p>326%</p>
<lg>
  <l>एकान्तसुन्दरविधानजडः क वेधाः</l>
  <l>सर्वाङ्गकान्तिचतुरं क च रूपमस्याः ।</l>
  <l>मन्ये महेश्वरभयान्मकरध्वजेन</l>
  <l>प्राणार्थिना युवतिरूपमिदं गृहीतम् ॥ ४ ॥</l>
</lg>
<p>केषामध्येते ।
3268</p>
<lg>
  <l>अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः</l>
  <l>शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।</l>
  <l>वेदाभ्यासजडः कथं नु विषयव्यावृत्त कौतूहलो</l>
  <l>निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ ५॥</l>
</lg>
<p>कालिदासस्य ।
3269</p>
<lg>
  <l>किं कौमुदी: शशिकला: सकला विचूर्ण्य</l>
  <l>संयोज्य वामृतरसेन पुनः प्रयत्नात् ।</l>
  <l>कामस्य घोरहर हुंकृतिदग्धमूर्ते:</l>
  <l>संजीवनौषधिरियं विहिता विधात्रा ॥ ६॥</l>
</lg>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ वय: संधिवर्णनम् ॥ ९७ ॥</l>
</lg>
<p>3270</p>
<lg>
  <l>यथा यथा विशत्यस्या हृदये हृदयेश्वरः ।</l>
  <l>तथा तथा बहिर्यातौ मन्ये संकोचतः कुची ॥ १ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="486" />
<p>वयःसंधिवर्णनम्
3271</p>
<lg>
  <l>अनाघ्रातं पुष्पं किसलयमलूनं कररुहै-</l>
  <l>रनाविद्धं रत्नं मधु नवमनास्वादितरसम् ।</l>
  <l>अखण्डं पुण्यानां फलमपि च तद्रूपमनघं</l>
  <l>न जाने भोक्तारं कामह समुपस्थास्यति विधिः ॥ २ ॥</l>
</lg>
<p>कालिदासस्य ।
3272</p>
<lg>
  <l>अयमङ्कुरभाव एव ताव-</l>
  <l>त्कुत्रयोः कर्षति लोकलोचनानि ।</l>
  <l>इतरेतरपीडनामवस्थां</l>
  <l>गतयोः श्रीरनयोः कथं भवित्री ॥ ३ ॥</l>
</lg>
<p>3273</p>
<lg>
  <l>दृश्यं दृशां सहस्रैर्मनसामयुतैर्विभावनीयं च ।</l>
  <l>सुकृतशतकोटिभोग्यं किमपि वयः सुभ्रुवः स्वदते ॥४॥</l>
</lg>
<p>3274</p>
<lg>
  <l>भ्रुवोः काचिल्लीलापरिणतिरपूर्वा नयनयो:</l>
  <l>स्तनाभोगो व्यक्तस्तरुणिमसमारम्भसमये ।</l>
  <l>इदानीं बालायाः किममृतमयः किं विषमयः</l>
  <l>किमानन्दः साक्षाद्धूनितमधुरः पञ्चमरवः ॥ ५॥</l>
</lg>
<p>केषामध्येते ।
3275</p>
<lg>
  <l>परिहरति वयो यथा यथास्याः</l>
  <l>स्फुरदुरुकन्दलशालि बालभावम् ।</l>
  <l>द्रढयति धनुषस्तथा तथा ज्यां</l>
  <l>स्पृशति शरानपि सज्जयन्मनोभूः ॥ ६ ॥</l>
</lg>
<p>3276
समं विलासिकरितः स्तनाभ्यां
त्रपा विलासेन सहावतीर्णा ।</p>
<pb n="487" />
<p>शार्ङ्गधरपद्धतिः
अवर्ततान्यस्त्रपथैव साकं
कान्तः प्रकारो वचसां कृशाङ्गयाः ॥ ७॥
एतौ जयतुङ्गोदयात् ।
3277</p>
<lg>
  <l>मुखं विकसितस्मितं वाशतवक्रिम प्रेक्षितं</l>
  <l>समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः ।</l>
  <l>उरो मुकुलितस्तनं जघनमंसबन्धोद्धुरं</l>
  <l>बतेन्दुवदनातनौ तरुणिमोमो मोदते ॥ ८ ॥</l>
</lg>
<p>कस्यापि ।
3278</p>
<lg>
  <l>दोलायां जघनस्थलेन चलता लोलेक्षणा लज्जते</l>
  <l>साशङ्कं तनुकण्टकक्षताभया क्रीडावने क्रीडति ।</l>
  <l>धत्ते दिक्षु निरीक्षण स्मितमुखी पारावतानां रुतैः</l>
  <l>सज्जं मौग्ध्यविसर्जनाय सुतनोः शृङ्गारमित्रं वयः ॥ ९ ॥</l>
</lg>
<p>बिल्हणस्य ।
3279</p>
<lg>
  <l>अनाकूतैरेव प्रियसहचरीणां शिशुतया</l>
  <l>वचोभिः पाञ्चालीमिथुनमधुना संगमयितुम् ।</l>
  <l>उपादत्ते नो वा विरमति न वा केवल मियं</l>
  <l>कपोलौ कल्याणी पुलकमुकुलैदन्तुरयति ॥ १० ॥</l>
</lg>
<p>मुरारेः ।
3280</p>
<lg>
  <l>वक्षस्यावरणादरः स्तनमुखोद्भेदं विनाप्य ङ्गुली-</l>
  <l>मुद्रासू चेतहास्यमास्यमधिकं नो पुत्रिकादौ रसः ।</l>
  <l>तिर्यग्लोचनत्रीक्षितानि वचसां छेकोक्तिसंक्रान्तय-</l>
  <l>स्तस्याः सीदति शैशवे समभवत्कोप्येष नव्यक्रमः ॥११॥</l>
</lg>
<p>3281
प्रगल्भानामन्तर्निविशति शृणोति प्रियकथां
स्वयं तत्तच्चेष्टाशतमभिनयैर्व्यञ्जयति च ।</p>
<pb n="488" />
<p>31
तरुणीवर्णनम्
स्पृहामन्तः कान्ते वहति न समभ्येति निकटं
यथैवेयं बाला हरति हि तथा चित्तमधिकम् ॥ १२ ॥
3282</p>
<lg>
  <l>पद्भ्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्यां</l>
  <l>श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यदेशः ।</l>
  <l>धत्ते वक्षः कुचसचिवतामद्वितीयत्वमास्यं</l>
  <l>तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ १३ ॥</l>
</lg>
<p>3283</p>
<lg>
  <l>क्षोभं धत्ते यदपि बहल: स्निग्धलावण्यपूरः</l>
  <l>प्रत्यङ्गं यत्तटमनुसरन्त्यूर्मयो विभ्रमाणाम् ।</l>
  <l>उन्मनं यत्स्फुरति च मनाक्कुम्भयोर्द्वन्द्वमेत-</l>
  <l>तन्मन्येस्या: स्मरगजयुवा गाहते हृत्तडागम् ॥ १४ ॥</l>
</lg>
<p>3284</p>
<lg>
  <l>लावण्यामृतनिर्झरेण सुदृशः सिक्ताखिलाङ्गस्थली</l>
  <l>जातस्तत्र नवीनयौवनकलालीलालतामण्डपः ।</l>
  <l>तस्मिन्नेष विशेषशीतलतरुच्छायासु लुप्तोत्थितः</l>
  <l>कंदर्पस्त्रिजगज्जयोद्यमपरोप्यद्यापि निद्रालसः ॥ १५ ॥</l>
</lg>
<p>3285</p>
<lg>
  <l>यथा यथास्याः कुचयोः समुन्नति-</l>
  <l>स्तथा तथा लोचनमेति वक्रताम् ।</l>
  <l>अहो सहन्ते बत नो परोक्षति</l>
  <l>निसर्गतोन्तर्मलिना ह्यसाधवः ॥ १६ ॥</l>
</lg>
<lg>
  <l>केषामप्येते ।</l>
  <l>अथ तरुणीपृथगवयववर्णनम् ॥ ९८ ॥</l>
</lg>
<p>तत्र प्रथमं केशपाशः ।
3286</p>
<lg>
  <l>अस्या मनोहराकारकबरीभारनिर्जिताः ।</l>
  <l>लज्जयेव वने वासं चक्रुश्चमरबार्हणः ॥ १॥</l>
</lg>
<p>वररुचेः ।</p>
<pb n="489" />
<p>शार्ङ्गधरपद्धतिः
3287</p>
<lg>
  <l>भाति विन्यस्तकङ्कारः सुकेदया: केशसंचयः ।</l>
  <l>शोणिता : शरैः पूर्ण तूणीरमिव मान्मथम् ॥ २॥</l>
</lg>
<p>कस्यापि ।
3288</p>
<lg>
  <l>विकचकचकलापः किंचिदाकुञ्चितोयं</l>
  <l>कुचकलशनिवेशी शोभते श्यामलाक्ष्याः ।</l>
  <l>मधुरसपरितोषात्किंचिदुत्फुल्लकोषे</l>
  <l>कमल इव निलीन: पेटकः षदानाम् ॥ ३ ॥</l>
</lg>
<p>पुण्यस्य ।
3289</p>
<lg>
  <l>खानाद्रमुक्तेष्वनुधूपवासं</l>
  <l>विन्यस्तसायंतनमलिकेषु ।</l>
  <l>कामो वसन्तात्ययमन्दवीर्यः</l>
  <l>केशेषु लेभे बलमङ्गनानाम् ॥ ४ ॥</l>
</lg>
<p>3290
कालिदासस्य ।</p>
<lg>
  <l>चलत्कामिमनोमीनमादातुं चित्तजन्मनः ।</l>
  <l>जालयष्टिरिवाभाति बालावेणी गुणोज्ज्वला ॥ ५ ॥</l>
</lg>
<p>कस्यापि ।
3291</p>
<lg>
  <l>आभुमाङ्गुलिपलवौ कचभरे व्यापारयन्ती करौ</l>
  <l>बन्धोत्कर्षनिबद्ध मानसतया शून्यां दधाना दृशम् ।</l>
  <l>बाहूत्क्षेपसमुन्नते कुचतटे पर्यस्तचीनांशुका</l>
  <l>ही संकोचितबाहुमूलसुभग बध्नाति जूटीं वधूः ॥ ६ ॥</l>
</lg>
<p>सिङ्गापिदेः ।
अथ ललाटम् ।
3292
अस्या ललाटे रचिता सखीभि-
विभाव्यते चन्दनपत्रलेखा ।</p>
<pb n="490" />
<p>तरुणीवर्णनम्
आपाण्डुरक्षामकपोलभित्ता-
वनङ्ग बाणत्रणपट्टिकेव ॥ ७ ॥
3293</p>
<lg>
  <l>बाले लालमलेखेयं भाले भल्लीव राजते ।</l>
  <l>भ्रूलताचापमाकृष्य न विद्मः कं हनिष्यति ॥ ८ ॥</l>
</lg>
<p>गड़ता
भासस्य ।
3294</p>
<lg>
  <l>कस्तूरीतिलकं बाले भाले मा कुरु मा कुरु ।</l>
  <l>अद्य साम्यं भजामीति जृम्भते शशलाञ्छनः ॥ ९ ॥</l>
</lg>
<p>कस्यापि ।
3295</p>
<lg>
  <l>विराजतेस्यास्तिलको यमञ्चितो</l>
  <l>विकुञ्चितभ्रूलतिकाद्वयान्तरे ।</l>
  <l>विजित्य लोकद्वितयं दिवं प्रति</l>
  <l>स्मरेण बाणो धनुषीव योजितः ॥ १० ॥</l>
</lg>
<p>कस्यापि ।
अथ ध्रुवौ ।
3296</p>
<lg>
  <l>तस्याः शलाकाञ्जननिर्मितेव</l>
  <l>कान्तिर्भुवोरायतलेखयोर्या ।</l>
  <l>तां वीक्ष्य लीलाचतुरामनङ्गः</l>
  <l>स्वचा पसौन्दर्यमदं मुमोच ॥ ११ ॥</l>
</lg>
<p>कालिदासस्य ।
3297
भ्रूरेखायुगलं भाति तस्याश्चटुलचक्षुषः ।
पत्रद्वयीव हरिता नासावंशविनिर्गता ।॥ १२ ॥
बिल्हणस्य ।</p>
<pb n="491" />
<p>शार्ङ्गधरपद्धतिः
अथ नेत्रे ।
3298</p>
<lg>
  <l>नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ।</l>
  <l>यतस्तन्नेत्रसंचारसूचितेषु प्रवर्तते ॥ १३ ॥</l>
</lg>
<p>कस्यापि ।
3299</p>
<lg>
  <l>यासां कटाक्षविशिखैः स्मरचौरेण ताडिताः ।</l>
  <l>हृतचैतन्यसर्वस्वा मोयन्ते मुग्धकामुकाः ॥ १४ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
3300</p>
<lg>
  <l>सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां</l>
  <l>लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव ।</l>
  <l>भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते</l>
  <l>यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति॥१५॥</l>
</lg>
<p>बाणभहस्य ।
3301</p>
<lg>
  <l>नलिनं मलिनं विवृण्वती</l>
  <l>पृषतीमस्पृशती तदीक्षणे ।</l>
  <l>अपि खञ्जनमञ्जनाञ्चिते</l>
  <l>विदधाते रुचिगर्वदुर्विधम् ॥ १६ ॥</l>
</lg>
<p>श्रीहर्षस्य ।
3302</p>
<lg>
  <l>श्रमयति शरीरमधिकं भ्रमयति चेतः करोति संतापम् ।</l>
  <l>मोहं मुहुश्च कुरुते विषमिव विषमं तु वीक्षणं तस्याः ॥ १७ ॥</l>
</lg>
<p>3303</p>
<lg>
  <l>शिलासम्यग्धौतोज्ज्वल धवलधारापरिसरा-</l>
  <l>निमानन्तः इयामानिव विषमबाणस्य विशिखान् ।</l>
  <l>दृढप्रज्ञावर्माण्यपि हृदयमर्माणि रुजतः</l>
  <l>कटाक्षानेतस्या मुनिरपि न सोढुं प्रभवति ॥ १८ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="492" />
<p>र
तरुणीवर्णनम्
अथ नासा ।
3304</p>
<lg>
  <l>पुराणबाणत्यागाय नूतनाखकुतूहलात् ।</l>
  <l>तन्नासा भाति कामेन तूणीवाधोमुखीकृता ॥ १९ ॥</l>
</lg>
<p>बिल्हणस्य ।
.
3305</p>
<lg>
  <l>सुधामयोपि क्षयरोगशान्त्यै</l>
  <l>• नासाग्र मुक्ताफलकच्छलेन ।</l>
  <l>अनङ्गसंजीवनदृष्टिशक्ति-</l>
  <l>मुखामृतं ते पिबतीत्र चन्द्रः ॥ २० ॥</l>
</lg>
<p>वैद्यनाथस्य ।
-
अथ कर्णपाशी ।
3306</p>
<lg>
  <l>सौन्दर्यपात्रे वक्रेन्दी कुरङ्गासङ्गभीतया ।</l>
  <l>सूचितौ श्रोत्रपाशाभ्यां पाशाविव मृगीदृशः ॥ २१ ॥</l>
</lg>
<p>3307</p>
<lg>
  <l>तालीदलं काञ्चनकर्णपाशे</l>
  <l>प्रसारयन्ती सुतनुः कराभ्याम् ।</l>
  <l>रराज कर्णान्तनिषण्णदृष्टिः</l>
  <l>शाणे दधानेव कटाक्षबाणान् ॥ २२ ॥</l>
</lg>
<p>बिल्हणस्यैतौ ।
3308</p>
<lg>
  <l>ताटङ्कमस्यास्तरलेक्षणाया</l>
  <l>मुक्ताफलैचारु रुवं विधत्ते ।</l>
  <l>मुखश्रिया चन्द्रमिवाभिभूय</l>
  <l>बन्दीकृतं तारकचक्रवालम् ॥ २३ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="493" />
<p>शार्ङ्गधरपद्धतिः
अथ कपोलौ ।
3309</p>
<lg>
  <l>आबध्नत्परिवेषमण्डलमलं वक्रेन्दुबिम्बाद्वहि:</l>
  <l>कुर्वच्चम्पकजृम्भमाणकलिकाकर्णावतंसक्रियाम् ।</l>
  <l>तन्वङ्कयाः परिनृत्यतीव हसतीवोत्सर्पतीवोल्बणं</l>
  <l>लावण्यं ललतीव काञ्चनशिलाकान्ते कपोलस्थले ॥ २४ ॥</l>
</lg>
<p>त्रिविक्रमभहस्य ।
अथाधरः ।
3310</p>
<lg>
  <l>तवैष विद्रुमच्छायो मरुमार्ग इवाधरः ।</l>
  <l>करोति कस्य नो मुग्धे पिपासाकुलितं मनः ॥ २५ ॥</l>
</lg>
<p>कस्यापि ।
3311</p>
<lg>
  <l>अल्पेनापि सुरक्तेन साधनेन प्रयोजनम् ।</l>
  <l>ओष्ठद्वयमहायेन कान्तास्येन जगज्जितम् ॥</l>
</lg>
<p>3312
रसवदमृतं कः संदेहो मधून्यपि नान्यथा</p>
<lg>
  <l>मधुरमधिकं द्राक्षायाश्च प्रसन्नतरं फलम् ।</l>
</lg>
<lg>
  <l>२६ ॥</l>
  <l>कस्यापि ।</l>
  <l>सकृदपि पुनर्मध्यस्थ: सन्त्रसान्तरविज्जनो</l>
  <l>वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ॥ २७ ॥</l>
</lg>
<p>कस्यापि ।
3313</p>
<lg>
  <l>अयि मृगाक्षि तवाधरपल वे</l>
  <l>दयितदन्तपदं न भवत्यदः ।</l>
  <l>भुवनमोहनमन्त्र पदाङ्कितं</l>
  <l>किमुत यन्त्रमिदं स्मरयन्त्रिणः ॥ २८ ॥</l>
</lg>
<pb n="494" />
<p>तरुणीवर्णनम्
3314</p>
<lg>
  <l>सर्वस्यैव हि रत्नस्य व्रणेर्घः परिहीयते ।</l>
  <l>दयिताधररत्नं तु त्रणितं यात्यनर्घताम् ॥ २९ ॥</l>
</lg>
<p>कयोरप्येतौ ।
अथ दन्ताः ।
3315</p>
<lg>
  <l>द्विधा विधाय शीतांशुं कपोलौ कृतवान्विधिः ।</l>
  <l>तन्व्यास्तद्रसनि:स्यन्दाबन्दवो रदनावली ॥ ३० ॥</l>
</lg>
<p>कपोलकवेः ।
नान
3316</p>
<lg>
  <l>यावद्यावस्कुवलयदृशा मृज्यते दन्तपालि-</l>
  <l>स्तावत्तावद्विगुणमधरच्छायया शोणशोचिः ।</l>
  <l>काचित्तस्याः परिमलकलाहूतमात्रालिकान्त्या</l>
  <l>वक्रश्वासे प्रसरति मुहुः श्यामिकाप्याविरासीत् ॥ ३१ ॥</l>
</lg>
<p>कस्यापि ।
अथ स्मितम्
3317
Ko</p>
<lg>
  <l>स्मयमानमायताक्ष्याः किंचिदभिव्यक्तदशनशोभि मुखम् ।</l>
  <l>असमग्रलक्ष्यकेसर मुच्छ्रसदिव पङ्कजं दृष्टम् ॥ ३२ ॥</l>
</lg>
<p>3318</p>
<lg>
  <l>पुष्पं प्रवालोपहितं यदि स्या-</l>
  <l>न्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।</l>
  <l>ततोनुकुर्याद्विशदस्य तस्य</l>
  <l>ताम्रौष्ठ पर्यस्तरुचः स्मितस्य ॥ ३३ ॥</l>
</lg>
<p>एतौ कालिदासस्य ।</p>
<pb n="495" />
<p>शार्ङ्गधरपद्धतिः
अथ मुखम् ।
3319</p>
<lg>
  <l>यदमरशतैः सिन्धोरन्तः कथंचिदुपार्जितं</l>
  <l>सकलमपि तद्धात्रा कान्तामुखे विनिवेशितम् ।</l>
  <l>सुरसुमनसः श्वासामोदे शशीव कपोलयो-</l>
  <l>रमृतमधरे तिर्यग्भूते विषं च विलोचने ॥ ३४ ॥</l>
</lg>
<p>3320</p>
<lg>
  <l>तस्या मुखस्यातिमनोहरस्य</l>
  <l>कर्तुं न शक्तः सदृशं प्रियायाः ।</l>
  <l>अद्यापि शीतद्युतिरात्मबिम्बं</l>
  <l>निर्माय निर्माय पुनर्भिनत्ति ॥ ३५ ॥</l>
</lg>
<p>3321</p>
<lg>
  <l>अनेन रम्भोरु तवाननेन</l>
  <l>पीयूषभानोस्तुलया धृतस्य ।</l>
  <l>ऊनस्य नूनं परिपूरणाय</l>
  <l>तारा: स्फुरन्ति प्रतिमानखण्डाः ॥ ३६ ॥</l>
</lg>
<p>कयोरप्येतौ ।
3322</p>
<lg>
  <l>कोश: स्फीततरः स्थितानि परितः पत्राणि दुर्गे जलं</l>
  <l>मित्रैर्मण्डलमुज्ज्वलं चिरमधो नीतास्तथा कण्टकाः ।</l>
  <l>इत्याकृष्ट शिलीमुखेन रचनां कृत्वा तदत्यद्भुतं</l>
  <l>यत्पद्मेन जिगीषुणापि न जितं मुग्धे त्वदीयं मुखम् ॥३७ ॥</l>
</lg>
<p>विज्जकायाः ।
3323</p>
<lg>
  <l>धिक्तस्य मन्दमनसः कुकवेः कवित्वं</l>
  <l>यः स्त्रीमुखं तुहिन बिम्बसमं करोति ।</l>
  <l>भ्रूभङ्ग विभ्रम कटाक्षनिरीक्षितानि</l>
  <l>कोपप्रसादहसितानि कुतः शशाङ्के ॥ ३८ ॥</l>
</lg>
<p>श्रीधनवदेवानाम् ।</p>
<pb n="496" />
<p>तरुणवर्णनम्
3324</p>
<lg>
  <l>अनाकाशे चन्द्रः सरसिजदलद्वन्द्व सहितो</l>
  <l>गृहीतः पश्चार्धे कुटिलकुटिलैः सोपि तिमिरैः ।</l>
  <l>सुषां मुञ्चत्युच्चैरनिशमथ संमोहजननीं</l>
  <l>किमुत्पातालीयं वदत जगतः कर्तुमुदिता ॥ ३९ ॥</l>
</lg>
<p>कस्यापि ।
3325</p>
<lg>
  <l>आरब्धे दयितामुखप्रतिसमे निर्मातुमस्मिन्नपि</l>
  <l>व्यक्तं जन्म समानमेव मिलितामंभुच्छटां वर्षति ।</l>
  <l>आत्मद्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः</l>
  <l>संकोचादथ दुस्थितस्य न विधेस्ताच्छिल्पमुन्मीलितम् ॥४०॥</l>
</lg>
<p>मुरारेः ।
3326</p>
<lg>
  <l>जितेन्दुपझलावण्यं कः कान्तावदनं जयेत् ।</l>
  <l>मुक्त्वा तदेव सुरतश्रमजितिलोचनम् ॥ ४१ ॥</l>
</lg>
<p>कस्यापि ।
अथ कण्ठः ।
3327</p>
<lg>
  <l>कण्ठस्य विदधे कान्ति मुक्ताभरणता यथा ।</l>
  <l>नास्याः स्वभावरम्यस्य मुक्ताभरणता तथा ॥ ४२ ॥</l>
</lg>
<p>शकवृद्धेः ।
3328</p>
<lg>
  <l>मातङ्गकुम्भसंसर्गजातपातकशङ्कया ।</l>
  <l>स्नातीव मुक्ताहारोस्याः स्फुरत्कान्तिजले गले ॥ ४३ ॥</l>
</lg>
<p>श्रीवैद्यमानुपण्डितस्य ।
3329
कण्ठस्य तस्याः स्तनबन्धुरस्य
मुक्ताकलापस्य च निस्तलस्य ।</p>
<pb n="497" />
<p>शार्ङ्गधरपद्धतिः
अन्योन्य शोभाजननाद्वभूव
साधारणो भूषणभूण्यभावः ॥ ४४ ॥
अथ बाहू ।
3330
कालिदासस्य ।</p>
<lg>
  <l>दयिताबाहुपाशस्य कुतोयमपरो विधिः ।</l>
  <l>जीवयत्यर्पितः कण्ठे मारयत्यपवर्जितः ॥ ४५ ॥</l>
</lg>
<p>भासस्य ।
3331</p>
<lg>
  <l>शब्दवद्भिरलंकारैरुपेतमतिकोमलम् ।</l>
  <l>सुवृत्तं काव्यवद्रेजे तद्बाहुलतिकाद्वयम् ॥ ४६ ॥</l>
</lg>
<p>शकवृद्धेः ।
अथ करौ ।
3332</p>
<lg>
  <l>मुग्धे प्रसारयसि किं कुसुमानि हतु-</l>
  <l>मेतान्यशोकविटपस्य कुतूहलेन ।</l>
  <l>अस्यैव तन्वि नवपल्लवडम्बरेषु</l>
  <l>त्वं हारयिष्यसि ननु स्वयमेव पाणी ॥ ४७ ॥</l>
</lg>
<p>कस्यापि ।
3333</p>
<lg>
  <l>न्यस्तानि दन्तवलयानि करे कयाचि-</l>
  <l>तानी दुखण्डघटितानि ममैष तर्कः ।</l>
  <l>अस्या निसर्गमृदुपाणिसरोजमेषा-</l>
  <l>मामोचने झागति यन्मुकुलीबभूव ॥ ४८ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="498" />
<p>तरुणीवर्णनम्
अथाङ्गुल्यः ।
3334</p>
<lg>
  <l>अङ्गुलीषु कुरङ्गाक्ष्याः शोभते मुद्रिकावलिः ।</l>
  <l>प्रोतेव बाणैः पुष्पेषोः सूक्ष्मलक्ष्यपरंपरा ॥ ४९ ॥</l>
</lg>
<p>बिल्हणस्य ।
3335</p>
<lg>
  <l>सुदीर्घा रागशालिन्यो बहुपर्वमनोहराः ।</l>
  <l>तस्या विरेजुरङ्गुल्यः कामिनां संकथा इव ॥ ५० ॥</l>
</lg>
<p>शकवृद्धेः ।
अथ स्तनौ ।
3336</p>
<lg>
  <l>नयननीरज किं भवता कृतं</l>
  <l>मुखशशी यदयं रिपुराश्रितः ।</l>
  <l>इति वचो वितरीतुमिवोन्मुखं</l>
  <l>वरतनोः स्तनवक्रयुगं बभौ ॥ ५१ ॥</l>
</lg>
<p>कस्यापि ।
3337</p>
<lg>
  <l>पुष्पेषोरभिषेकहेमकलशौ हारप्रभावाहिनी-</l>
  <l>चक्राह्नौ मदनोन्मदद्विपपतेः कुम्भौ रतेः कन्दुकौ ।</l>
  <l>कन्दौ बाहुमृणालिकायुगलयोर्लीलालतासल्फले</l>
  <l>नव्यौ रत्नसमुद्रको वहति सा लावण्यपूर्णी स्तनौ ॥ ५२ ॥</l>
</lg>
<p>3338</p>
<lg>
  <l>शुकीचञ्चूखातच्छवि फलयुगं यौवनतरो-</l>
  <l>रयः शङ्कक्षुण्णं मदनकरिणः कुम्भयुगलम् ।</l>
  <l>समुद्रं भोगायामृतकलशयुग्मं सुकृतिनः</l>
  <l>कुचइन्छं तन्व्या नवनखपदाङ्कं विजयते ॥ ५३ ॥</l>
</lg>
<p>कयोरप्येतौ ।</p>
<pb n="499" />
<p>º
शार्ङ्गधरपद्धतिः
3339</p>
<lg>
  <l>मुद्दङ्गि काठेनौ तन्वि पीनौ सुमुखि दुर्मुखौ ।</l>
  <l>अत एव बहिर्यातौ हृदयात्ते पयोधरौ ॥ ५४ ॥</l>
</lg>
<p>3340</p>
<lg>
  <l>तन्वङ्गयाः स्तनयुग्मेन मुखं न प्रकटीकृतम् ।</l>
  <l>हाराय गुणिने स्थानं न दत्तमिति लज्जया ॥ ५५ ॥</l>
</lg>
<p>3341</p>
<lg>
  <l>काठिन्यमङ्गैरखिलैर्निरस्तं</l>
  <l>कुचौ युवत्याः शरणं जगाम ।</l>
  <l>अध: पतिष्याव इतीव भीत्या</l>
  <l>न शक्नुवस्तावपि हातुमेतत् ॥ ५६ ॥</l>
</lg>
<p>3342</p>
<lg>
  <l>यन्त्र माति तदङ्गेषु लावण्यमतिसंभृतम् ।</l>
  <l>पिण्डीकृतमुरोदेशे तत्पयोधरतां गतम् ॥ ५७ ॥</l>
</lg>
<p>3343</p>
<lg>
  <l>एकावलीकलितमौक्तिककैतवेन</l>
  <l>तन्व्याः समुन्नतपयोधरयुग्म सेवाम् ।</l>
  <l>चक्रुर्मनांसि यमिनामतिनिर्मलानि</l>
  <l>कंदर्पमुक्तशरपातकृतान्तराणि ॥ ५८ ॥</l>
</lg>
<p>केषामध्येते ।
अथ मध्यः ।
3344</p>
<lg>
  <l>वयः प्रकर्षादुपचीयमान -</l>
  <l>स्तनद्रयस्योद्दहनश्रमेण ।</l>
  <l>अत्यन्तकार्य वनजायताक्ष्या</l>
  <l>मध्यो जगामेति ममैष तर्कः ॥ ५९ ॥</l>
</lg>
<p>कुमारशसस्य ।</p>
<pb n="500" />
<p>तरुणीवर्णनम्
3345</p>
<lg>
  <l>काञ्चीगुणैर्विरचिता जघनेषु लक्ष्मी-</l>
  <l>र्लब्धा स्थितिः स्तनतटेषु च रत्नहारैः ।</l>
  <l>नो भूषिता वयमितीव नितम्विनीनां</l>
  <l>काइये निरर्गलमधार्यत मध्यभागैः ॥ ६० ॥</l>
</lg>
<p>रत्नाकरस्य ।
अथ बलित्रयम् ।
3346</p>
<lg>
  <l>मध्यत्रिबलीत्रिपये पीवरकुचचत्वरे च चपलदृशाम् ।</l>
  <l>छलयाते मदनपिशाचः पुरुषं हि मनागपि स्खलितम् ॥६१॥</l>
</lg>
<p>3347</p>
<lg>
  <l>एकमेव बलिं बध्वा जगाम हरिरुन्नतिम् ।</l>
  <l>तन्व्यास्त्रिबलिबन्धेपि सैव मध्यस्य नम्रता ॥ ६२ ॥</l>
</lg>
<p>कयोरप्येती ।
अथ रोमावली ।
3348</p>
<lg>
  <l>गभीरनाभीहूदसंनिधाने</l>
  <l>रराज तन्वी नवरोमराजिः ।</l>
  <l>मुखेन्दुभीत स्तनचक्रवाक-</l>
  <l>इन्होज्झिता शैवलमञ्जरीव ॥ ६३ ॥</l>
</lg>
<p>लक्ष्मीधरस्य ।
3349</p>
<lg>
  <l>अमुष्मिँल्लावण्यामृतसरसि नूनं मृगवृशः</l>
  <l>स्मरः शर्वप्रुष्टः पृथुजघनभागे निपतितः ।</l>
  <l>यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे</l>
  <l>शिखा धूमस्येयं परिणमति रोमावलिमिषात् ॥ ६४ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="501" />
<p>शार्ङ्गधरपद्धतिः
अथ नाभिः ।
3350</p>
<lg>
  <l>मन्ये समाप्तलावण्ये सारसर्गे मृगीदृशः ।</l>
  <l>अपूरयित्वेव गतो नाभिरन्ध्रं चतुर्मुखः ॥ ६५ ॥</l>
</lg>
<p>3351</p>
<lg>
  <l>कुचकुम्भौ समालम्ब्य तरीतुं कान्तिनिम्म्रगाम् ।</l>
  <l>प्रमादतस्ततो भ्रष्टा दृष्टिर्नाभौ निमज्जति ॥ ६६ ॥</l>
</lg>
<p>कोरप्येती ।
अथ नितम्बः ।
3352</p>
<lg>
  <l>तन्त्रितम्बस्य निन्दन्ति वृद्धिं परिजनाङ्गनाः ।</l>
  <l>काञ्चीनवनवग्रन्थिग्रथनेन कदार्थताः ॥ ६७ ॥</l>
</lg>
<p>बिल्हणस्य ।
3353</p>
<lg>
  <l>स कथं न स्पृहणीयो विषयरतैस्तन्नितम्बविन्यासः ।</l>
  <l>शान्तात्मनापि विहितं विश्वसृजा गौरवं यत्र ॥ ६८ ॥</l>
</lg>
<p>कस्यापि ।
अथ जघनम् ।
3354</p>
<lg>
  <l>वपुरनुपमं नाभेरूर्ध्वं विधाय मृगीदृशो</l>
  <l>ललितललितैरङ्गन्यासैः पुरा रभसादिव ।</l>
  <l>तदनु सहसा खिन्नेनेव प्रजापतिना भृशं</l>
  <l>पृथुलपृथुला स्थूलस्थूला कृता जघनस्थली ॥६९॥</l>
</lg>
<p>जघनस्थलीघटकस्य ।
3355</p>
<lg>
  <l>तस्याः पद्मपलाशाक्ष्यास्तन्व्यास्तज्जघनं घनम् ।</l>
  <l>दृष्टं सखीभिर्याभिस्ताः पुंभावं मनसा ययुः ॥ ७० ॥</l>
</lg>
<p>वाल्मीकेः ।</p>
<pb n="502" />
<p>तरुणीवर्णनम्
अथोरू ।
22
3356</p>
<lg>
  <l>पश्यन्हतो मन्मथबाणपातैः</l>
  <l>शक्तो विधातुं न निमील्य चक्षुः ।</l>
  <l>ऊरू विधात्रा हि कथं कृतौ ता-</l>
  <l>वित्यास तस्यां सुमतोतर्कः ॥ ७९ ॥</l>
</lg>
<p>कुमारवासस्य ।
3357</p>
<lg>
  <l>मन्ये तदूरू संभाव्य हस्तसर्वस्वहारिणी ।</l>
  <l>वहन्त्यस्पर्शताहेतोर्मतङ्गत्वं मतङ्गजाः ॥ ७२ ॥</l>
</lg>
<p>बिल्हणस्य ।
अथ ज ।
3358</p>
<lg>
  <l>जते तदीये संतापं यज्जनस्यानुरागिणः ।</l>
  <l>जनयांचक्रतुस्तीत्रं तत्र हेतुर्विलोमता ॥ ७३ ॥</l>
</lg>
<p>शकवृद्धेः ।
3359</p>
<lg>
  <l>हेममञ्जीरमालाभ्यां भाति जङ्घालताद्वयम् ।</l>
  <l>लावण्याय कृतास्थानं कुङ्कुमेनेव सुभ्रुवः ॥ ७४ ॥</l>
</lg>
<p>बिल्हणस्य ।
अथ चरणयुगलम् ।
3360
अमूल्यस्य मम स्वर्णतुला कोटिइयं कियत् ।
इति कोपादिवाताम्रं पादयुग्मं मृगीदृशः ॥ ७५ ।
3361</p>
<lg>
  <l>जाग्रतः कमलाल्लक्ष्मी यज्जमाह तदद्भुतम् ।</l>
  <l>पादद्वयस्य मत्तेभगतिस्तेये तु का स्तुतिः ॥ ७६ ॥</l>
</lg>
<p>बिल्हणस्यैतौ ।</p>
<pb n="503" />
<p>शार्ङ्गधरपद्धतिः
अथ नखश्रेणिः ।
3362</p>
<lg>
  <l>तस्याः पादनखश्रेणी शोभते किल सुभ्रुवः ।</l>
  <l>रत्नावलीव लावण्यरत्नाकरसमुद्गता ॥ ७७ ॥</l>
</lg>
<p>बिल्हणस्य ।
3363
त्वद्रकं नेत्रपद्मप्रकटितमसकृत्स्पर्धितं</p>
<lg>
  <l>यन्मयैत-</l>
  <l>ज्जातं तस्मात्कृशत्वं ग्रहणमपि ततो जाद्यमन्तःकलङ्कः ।</l>
  <l>तत्सर्वं क्षम्यतां मे पुनरपि न करोम्येवमुक्त्वा तु तस्या</l>
  <l>गाढं लग्न: शशाङ्कश्चरणनखमणिच्छद्मना पादयुग्मम् ॥७८॥</l>
</lg>
<p>कस्यापि ।
अथ गमनम् ।
3364</p>
<lg>
  <l>सलीलमियमायान्ती कामिनी गजगामिनी ।</l>
  <l>उन्नताङ्किनखज्योतिः पुष्पैर्भुवमिवार्चति ॥ ७९ ॥</l>
</lg>
<p>3365</p>
<lg>
  <l>मारयन्त्या जर्न सर्व निरागसमवज्ञया ।</l>
  <l>मातङ्गानां गतिर्यादृक्तादृगासीदसंशयम् ॥ ८० ॥</l>
</lg>
<p>कस्याप्येतौ ।
अथ कान्तिः ।
3366</p>
<lg>
  <l>सुन्दरी सा भवत्येष विवेकः केन जायते ।</l>
  <l>प्रभामात्रं हि तरलं दृश्यते तत्र नाश्रयः ॥ ८१ ॥</l>
</lg>
<p>वण्डिनः ।
3367
अवयवेषु परस्परबिम्बिते-
स्वतुलकान्तिषु राजति यत्तनोः ।</p>
<pb n="504" />
<p>32
समग्र स्त्रीस्वरूपवर्णनम्
अयमयं प्रविभाग इति स्फुटं
जगति निश्चिनुते चतुरोपि कः ॥ ८२ ॥</p>
<lg>
  <l>भीमसिंह पण्डितस्य ।</l>
  <l>अथ समग्रस्त्रीस्वरूपवर्णनम् ॥ ९९ ॥</l>
</lg>
<p>3368</p>
<lg>
  <l>सा दृष्टा यैर्न वा दृष्टा मुषिताः सममेव ते ।</l>
  <l>हृदयं हृतमेकेषामन्येषां चक्षुषोः फलम् ॥ १ ॥</l>
</lg>
<p>प्रभाकरदेवस्य ।
3369</p>
<lg>
  <l>अवलोकनमपि सुखयति कुवलयदलचारुचपलनयनायाः ।</l>
  <l>किं पुनरमृतसमानं सरभसमालिङ्गनं तस्याः ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
3370</p>
<lg>
  <l>स्तन युगमतीव तुङ्गं निम्नो मध्यः समुन्नतं जघनम् ।</l>
  <l>इति विषमे हरिणाक्ष्या वपुषि नवे क इह न स्खलति ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
3371</p>
<lg>
  <l>मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ।</l>
  <l>पादाभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ ४ ॥</l>
</lg>
<p>कस्थापि ।
3372</p>
<lg>
  <l>संन्यस्तभूषापि नवैव नित्यं</l>
  <l>विनापि हार हसतीव कान्त्या ।</l>
  <l>मदं विनापि स्खलतीव भावै-</l>
  <l>र्वाचं विना व्याहरतीव दृष्टया ॥ ५ ॥</l>
</lg>
<p>व्यासस्य ।
3373
तइक्रं यदि मुद्रिता शशिकथा तच्चेत्स्मितं का सुधा
तच्चक्षुर्यदि हारितं कुवलयैस्ताश्चेगिरो धिङ्धु ।</p>
<pb n="505" />
<p>शार्ङ्गधरपद्धतिः
धिक्कंदर्पधनुर्भुवौ यदि च ते किं वा बहु ब्रूमहे
यत्सत्यं 'पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः ॥ ६ ॥
3374</p>
<lg>
  <l>सौरभ्यं मृगलाञ्छने यदि भवेदिन्दीवरे वक्रता</l>
  <l>माधुर्यं यदि विद्रुमे तरलता कंदर्पचापे यदि ।</l>
  <l>रम्भायां यादे विप्रतीपगमनं प्राप्तोपमानं तदा</l>
  <l>तद्वक्त्रं च तदीक्षणं तदधरस्तस्तद्रूयुगम् ॥ ७ ॥</l>
</lg>
<p>3375</p>
<lg>
  <l>यतो यतोङ्गादपयाति कञ्चुक-</l>
  <l>स्ततस्ततः स्वर्णमरीचिवीचयः ।</l>
  <l>यतो यतोस्या निपतन्ति दृष्टय-</l>
  <l>स्ततस्तत: श्यामसरोजवृष्टयः ॥ ८ ॥</l>
</lg>
<p>केषामध्येते ।
3376</p>
<lg>
  <l>अकृशं नितम्बभागे क्षामं मध्ये समुन्नतं कुचयोः ।</l>
  <l>अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ ९ ॥</l>
</lg>
<p>3377</p>
<lg>
  <l>अव्याजसुन्दरीं तां विज्ञानेनाद्भुतेन योजयता ।</l>
  <l>उपकल्पिता विधात्रा वाणा: कामस्य विषदिग्धाः ॥ १० ॥</l>
</lg>
<p>3378</p>
<lg>
  <l>वेणी विडम्वयात मत्तमधुत्रताली-</l>
  <l>मङ्गीकरोति गुणमैन्दवमास्यमस्याः ।</l>
  <l>बाहू मृणाललतिकाश्रियमाश्रयेते</l>
  <l>पुानुपुङ्यति कामशरान्कटाक्षः ॥ ११ ॥</l>
</lg>
<p>कालिदासस्यै ।
3379
तदा तदस्य बिभर्ति विभ्रमं
विलेपनामोदरुचः स्फुरद्रुचः ।</p>
<pb n="506" />
<p>प्रियप्रस्थानवर्णनम्
दरस्फुरत्काञ्चनकेतकीदला-
त्सुवर्णमभ्यस्यति सौरभं यदि ॥ १२ ॥
कस्यापि ।
3380</p>
<lg>
  <l>भ्रूपद्धवं धनुरपाङ्गतरंगितानि</l>
  <l>बाणा गुणः श्रवणपालिरिति स्मरेण ।</l>
  <l>तस्यामनङ्गजयजङ्गमदेवताया-</l>
</lg>
<lg>
  <l>मस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ १३ ॥</l>
  <l>जयदेवस्य ।</l>
  <l>अथ विप्रलम्भशृङ्गारे प्रियप्रस्थान -</l>
  <l>वर्णनम् ॥ १०० ॥</l>
</lg>
<p>3381</p>
<lg>
  <l>मनसि निविंशते स कोपि तापः</l>
  <l>प्रणयिनि बाहुलतान्तरस्थितेपि ।</l>
  <l>सरसिजमकरन्दगन्धबन्धु-</l>
  <l>वहति यदेष शनैः शनैः समीरः ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
3382
आयाते श्रुतिगोचरं प्रियतमप्रस्थानकाले बला-
तल्पान्तः स्थितया तदाननमलं दृष्ट्वा चिरं मुग्धया ।
सोच्छ्रासं दृढमन्युनिर्भरगलद्वाष्पाम्बुधौतं तथा</p>
<p>स्वं वक्रं विनिवेश्य भर्तृहृदये निःशब्दकं रुद्यते ॥ २ ॥
कस्यापि ।
3383</p>
<lg>
  <l>गन्तुर्विवस्वदुदये हृदयेश्वरस्य</l>
  <l>प्रत्यूषपक्षिनिनदश्रवजातकम्पा ।</l>
  <l>निद्रां जलैरशिशिरैर्नयनान्तजातैः</l>
  <l>कान्ता तदंसशिखरे पतितैर्जहार ॥ ३ ॥</l>
</lg>
<p>सूक्तिसहस्रात् ।</p>
<pb n="507" />
<p>शार्ङ्गधरपद्धतिः
3384
कान्ते कथंचिह्नतिप्रयाणे
क्षणं विनम्रा विरहार्दिताड़ी ।
ततः समालोक्य कड़ा गतोसी-
"
च्यालिङ्गय मुग्धा मुदमाससाद ॥ ४ ॥
कस्यापि ।
3385</p>
<lg>
  <l>लज्जां विहाय रुदितं विधृतः पटान्ते</l>
  <l>मागास्त्वमित्युदित्तमङ्गुलयो मुखेस्ताः ।</l>
  <l>स्थित्वा पुरः पतितमेव निवर्तनाय</l>
  <l>प्राणेश्वरे व्रजति किं न कृतं कृशाङ्गया ॥ ५ ॥</l>
</lg>
<p>कस्यामि ।
3386</p>
<lg>
  <l>दृष्टः कातरनेत्रया चिरतरं बद्धाञ्जलिं याचितः</l>
  <l>पश्चादंशुकपल्लवेन विवृतो निर्व्याजमालिङ्गितः ।</l>
  <l>इत्याक्षिप्य समस्तमर्थमघृणो गन्तुं प्रवृत्तः शठः</l>
  <l>पूर्व प्राणपरिग्रहो दयितया मुक्तस्ततो वलभः ॥ ६ ॥</l>
</lg>
<p>अमरुकस्य 8
3387</p>
<lg>
  <l>यामीति प्रियपृष्टायाः प्रियायाः कण्ठवर्तिनोः ।</l>
  <l>बचोजीवितयोरासीत्पुरो निःसरणे रणः ॥ ७ ॥</l>
</lg>
<p>कस्यापि ।
3388</p>
<lg>
  <l>लमा नांशुकपल्लवे भुजलता न द्वारदेशेर्पिता</l>
  <l>नो वा पादयुगे तथा निपतितं तिष्टेति नोक्तं वचः ।</l>
  <l>काले केवलमम्बुदालिमलिने गन्तुं प्रवृत्तः शठ-</l>
  <l>स्तन्वङ्गया नयनाम्बुकल्पितनदीपूरेण रुद्धः प्रियः ॥ ८ ॥</l>
</lg>
<p>अमरुकस्य ।
3389
महरविरती मध्ये वाह्नस्ततोप्यपरेण वा
किमुत सकले यातेप्यह्नि प्रिय त्वमिहैष्यसि ।</p>
<pb n="508" />
<p>नायिकोक्तिः
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो
हरति गमनं बालालापैः सवाष्पगलज्जलैः ॥ ९ ॥
गलज्जलवसुदेवस्य ।</p>
<p>3390</p>
<lg>
  <l>दूरं सुन्दर निर्गतासि नगरादेष द्रुमः क्षीरवा-</l>
  <l>नस्मादेव निवर्त्यतामिति शनैरुक्त्वाध्वगेन प्रियाम् ।</l>
  <l>गाढालिङ्ग नवक्रितस्तन तटाभोगस्फुटत्कनुकं</l>
  <l>वीक्ष्योरःस्थलमञ्जुपूरितदृशः प्रस्थानभङ्गः कृतः ॥ १० ॥</l>
</lg>
<p>कस्यापि ।
अथ नायिकां प्रति नायकवचनादिकथनम् ।
3391</p>
<lg>
  <l>स्मर्तव्योहं त्वया कान्ते न स्मरिष्याम्यहं तव ।</l>
  <l>स्मरणं चेतसो धर्मस्तचेतो भवता हृतम् ॥ ११ ॥</l>
</lg>
<p>कस्यापि ।
3392</p>
<lg>
  <l>स्मर्तव्या वयमिन्दुसुन्दर मुखि प्रस्तावतोपि त्वया</l>
  <l>सत्यं नाथ यदि प्रदास्यति विधिजतिस्मरत्वं मम ।</l>
  <l>एकस्मिन्नपि जन्मनि प्रियतमे जातिस्मरत्वं कथं</l>
  <l>प्राणाः पान्थ समं त्वयैव चलिताः काद्यापि जन्मैकता ॥१२॥</l>
</lg>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ नायकं प्रति नायिकोक्तिः ॥ १०१ ॥</l>
</lg>
<p>3393</p>
<lg>
  <l>गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः ।</l>
  <l>ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ १॥</l>
</lg>
<p>3394</p>
<lg>
  <l>सहिष्ये विरहं नाथ देवदृश्याञ्जनं मम ।</l>
  <l>यदत्तनेत्रां कंदर्पः महतु मां न शक्ष्यति ॥ २ ॥</l>
</lg>
<p>एतौ इण्डिनः ।</p>
<pb n="509" />
<p>शार्ङ्गधरपद्धतिः
3395</p>
<lg>
  <l>लोलैर्लोचनवारिभिः सशपथैः पादप्रणामैः परै-</l>
  <l>रन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् ।</l>
  <l>पुण्याहं व्रज मङ्गलं सुदिवस: प्रातः प्रयातस्य ते</l>
  <l>यत्स्नेहोचितमीहितं प्रिय मया तन्निर्गतः श्रोष्यसि ॥ ३ ॥</l>
</lg>
<p>अमरुकस्य ।
अथ नायकं प्रति सखीवाक्यम् ।
3396</p>
<lg>
  <l>या बिम्बौष्ठरुचिः क्व विद्रुममणिः स्वमेपि तां लब्धवा-</l>
  <l>न्हास श्रीसदृशैस्तपोभिरपि किं मुक्ताफलैर्भूयते ।</l>
  <l>तत्कान्तिः शतशोपि वह्निनः कुतः सेत्स्यति</l>
  <l>त्यक्त्वा रत्नमयों प्रयासि दयितां कस्मै धनायाध्वग ॥ ४ ॥</l>
</lg>
<p>शिवस्वामिनः ।
3397</p>
<lg>
  <l>उद्यद्वर्हिषि दर्दुरारवपुषि प्रक्षीणपान्थायुषि</l>
  <l>यो तद्विप्रुषि चन्द्ररुषि सखे हंसद्विपि प्रावृषि ।</l>
  <l>मा मुञ्चोच्चकुचाग्रसंततपतद्वाप्पाकुलां बालिकां</l>
  <l>काले कालकरालनीलजलदव्यालुप्तभास्वविषि ॥ ५ ॥</l>
</lg>
<lg>
  <l>बाणभहस्य ।</l>
  <l>अथ विरहिण्यवस्थावर्णनम् ॥ १०२ ॥</l>
</lg>
<p>3398</p>
<lg>
  <l>शशभृक्षवपलवे शशाङ्के</l>
  <l>मकरन्दस्रुति वारुणीसरोजे ।</l>
  <l>अपि चास्यमरुद्गणान्प्रसूते</l>
  <l>तिलकुसुमं स्फुटचम्पकौवदानि ॥ १ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="510" />
<p>विरहिण्यवस्थावर्णनम्
3399</p>
<lg>
  <l>विश्रम्य विश्रम्य वनद्रुमाणां</l>
  <l>छायासु तन्वी विचचार काचित् ।</l>
  <l>तनूत्तरीयेण करोद्धृतेन</l>
  <l>निवारयन्ती शशिनो मयूखान् ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
3400</p>
<lg>
  <l>अस्तमितविषयसङ्गा मुकुलितनयनोत्पला मुहुः श्वसिता ।</l>
  <l>ध्यायति किमप्यलक्ष्यं बाला योगाभियुक्तेव ॥ ३ ॥</l>
</lg>
<p>गोवर्धनस्य ।
3401
परिम्लानं पीनस्तनजघनसङ्गादुभयत-
स्तनोर्मध्यस्यान्तः परिमलनमप्राप्य हरितम् ।
इदं व्यस्तन्यासं लथभुजलताक्षेपवलनैः</p>
<p>कृशाङ्गयाः संतापं वदति बिसिनीपत्रशयनम् ॥ ४ ॥
श्रीहर्षस्य ।
3402</p>
<lg>
  <l>दह्यमानेपि हृदये मृगाक्ष्या मन्मथानिना ।</l>
  <l>स्नेहस्तथैव यत्तस्थौ तदाश्चर्यमिवाभवत् ॥ ५॥</l>
</lg>
<p>शकवृद्धेः ।
3403</p>
<lg>
  <l>लिखति न गणयति रेखा निर्भरबाष्पाम्बुधौतगण्डतला ।</l>
  <l>अवधिदिवसावसानं मा भूदिति शङ्किता बाला ॥ ६ ॥</l>
</lg>
<p>मोरिकायाः ।
3404</p>
<lg>
  <l>प्रयातेस्तं भानौ श्रितशकुनिनीडेषु तरुषु</l>
  <l>स्फुरत्संध्यारागे शशिनि शनकैरुल्लसति च ।</l>
  <l>प्रियप्रत्याख्यानाद्वगुणविरहोत्कण्ठितदृशा</l>
  <l>तदारब्धं तन्व्या भरणमपि यत्रोत्सवपदम् ॥ ७ ॥</l>
</lg>
<p>भल्लदस्य ।</p>
<pb n="511" />
<p>शार्ङ्गधरपद्धांतः
3405</p>
<lg>
  <l>सा तोरणान्तिकमुपेत्य दिशोवलोक्य</l>
  <l>निःश्वस्य दीर्घमुपधाय करं कपोले ।</l>
  <l>मत्वा च तं पुरत एव ससंभ्रमत्वा-</l>
  <l>ज्ज्ञात्वा समोहलिखितेव न किं किमासीत् ॥ ८ ॥</l>
</lg>
<p>पृथ्वीधरस्य ।
3406</p>
<lg>
  <l>भ्रातः पान्थ पाथ त्वया न पथिकः कश्चित्समासादितो</l>
  <l>बाले नैकशतानि कीदृश इति प्रख्यायतां वल्लभः ।</l>
  <l>दृष्ट्वा प्रमदाजनस्य भवतः स्फारे मुदा लोचने</l>
  <l>स ज्ञेयो दयितो ममेति पथिकायावेद्य मोहं गता ॥ ९॥</l>
</lg>
<p>यं
कस्यापि ।
3407</p>
<lg>
  <l>रथ्यार जोरुणितधूसरिताङ्गयष्टे</l>
  <l>कश्चित्पितुः स्मरसि पुत्रक निर्घुणस्य ।</l>
  <l>उक्त्वैवमङ्कगतमात्मजमायताक्ष्या</l>
  <l>पान्थस्त्रिया प्ररुदितं करुणं दिनान्ते ॥ १० ॥</l>
</lg>
<p>कस्यापि ।
3408</p>
<lg>
  <l>तन्वङ्गया गुरुसंनिधौ नयनजं यहारि संस्तम्भितं</l>
  <l>तेनान्तर्गलितेन मन्मथशिखी सिक्तो वियोगोद्भवः ।</l>
  <l>मन्ये तस्य निरस्यमान किरणस्यैषा मुखेनोद्गता</l>
  <l>श्वासायाससमागतालिसरणित्र्याजेन धूमावली ॥ ११ ॥</l>
</lg>
<p>कस्यापि ।
3409</p>
<lg>
  <l>मुग्धा स्वमसमागते प्रियतमे तत्पाणिसंस्पर्शनं</l>
  <l>रोमाञ्चाञ्चितया शरीरलतया संभाव्य कोपात्किल ।</l>
  <l>मा मा वल्लभ संस्पृशेति सहसा शून्यं वदन्ती मुहुः</l>
  <l>सख्या नो हसिता सचिन्तमसकृत्संशोचिता प्रत्युत ॥ १२ ॥</l>
</lg>
<p>रुद्रस्य ।</p>
<pb n="512" />
<p>नायिकां प्रति सखीवचनम्
3410</p>
<lg>
  <l>एतानि निःसहतनोरसमञ्जसानि</l>
  <l>शून्यं मनः पिशुनयन्ति गतागतानि ।</l>
  <l>एते च तीरतरवः प्रथयन्ति ताप-</l>
  <l>मालम्बितोज्झिततरुग्लपितैः प्रवालैः ॥ १३ ॥</l>
</lg>
<p>कालिदासस्य ।
3411</p>
<lg>
  <l>शीघ्रं भूमिगृहे गृहाण वसतिं प्राणैः किमु क्रीडसि</l>
  <l>प्राप्तां पश्यसि किं न दैवहतिके ज्योत्नां गवाक्षोदरैः ।</l>
  <l>इत्थं मन्मथतीत्रसंज्वरजुषां गेहेषु वामभ्रुवा-</l>
  <l>मुद्रच्छन्ति कुरङ्गलाञ्छनाहीनाः सखीनां गिरः ॥ १४ ॥</l>
</lg>
<p>बिल्हणस्ये ।
3412</p>
<lg>
  <l>शय्या पुष्पमयी परागमयता मङ्गार्पणादश्रुते</l>
  <l>ताम्यन्त्यन्तिकतालवृन्तनलिनी पत्राणि दाहोष्मणा ।</l>
  <l>न्यस्तं च स्तनमण्डले मलयजं शीणीन्तरं दृश्यते</l>
  <l>क्काथादाशु भवन्ति फेनिलमुखा भूषामुणालाङ्कुराः ॥ १५ ॥</l>
</lg>
<p>3413</p>
<lg>
  <l>भदनदहनशुष्यत्कान्तकान्ताकु चान्त-</l>
  <l>नैवमलयजपङ्के गाढबद्धाखिलाङ्गिः ।</l>
  <l>उपरि विततपक्षो लक्ष्यतेलिर्निमग्नः</l>
  <l>शर इव कुलुमेपोरेष पुडावशेषः ॥ १६ ॥</l>
</lg>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ नायिकां प्रति सखीवचनम् ॥ १०३ ॥</l>
</lg>
<p>3414
पक्ष्माग्रग्रथिताश्रुबिन्दुनिकरैर्मुक्ताफलस्पर्धिभिः
कुर्वत्या हरहासहारि हृदये हारावलीभूषणम् ।</p>
<pb n="513" />
<p>शार्ङ्गधरपद्धतिः
बाले बालमृणालनालवलयालंकारकान्ते करे
विन्यस्याननमायताक्षि सुकृती कोयं त्वया स्मयते ॥ १ ॥
कस्यापि ।
3415</p>
<lg>
  <l>आसन्नामवलम्ब्य केसरलतामेकेन पुष्पोज्ज्वलां</l>
  <l>सख्यं निःसहया नितम्बफलके कृत्वा कराम्भोरुहम् ।</l>
  <l>आमीलन्नयनान्तवान्तसलिलं लाव्यस्य निन्द्यस्य वा</l>
  <l>कस्येदं दृढसौहृदं प्रतिदिनं दीनं त्वया स्मयते ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
3416</p>
<lg>
  <l>अलसवलितैः प्रेमार्द्रादैर्मुहुर्मुकुली कृतैः</l>
  <l>क्षणमभिमुखैर्लज्जालोलैर्निमेपपराङ्कुखैः ।</l>
  <l>हृदयनिहितं भावाकृतं वद्भिरिवेक्षणैः</l>
  <l>कथय सुकृती कोयं मुग्धे त्वयाद्य विलोक्यते ॥ ३ ॥</l>
</lg>
<p>अमरुकस्य ।
3417
उज्जृम्भानन मुल सत्कुचत लोलड्रमलतं</p>
<lg>
  <l>स्वेदाम्भ: स्नपिताङ्गयाटे विगलट्री</l>
  <l>सरोमाञ्चया ।</l>
  <l>धन्यः कोपि युवा स यस्य वढ्ने व्यापारिता: सांप्रत</l>
  <l>मुग्धे मुग्धमहाब्धिफेनपटलमख्या: कटाक्षच्छटाः ॥ ४ ॥</l>
</lg>
<p>धनिकस्य ।
3418</p>
<lg>
  <l>भगिने मदनः श्रीमानेष या यादे लिख्यते</l>
  <l>किमपि सुमुखि व्यग्रासीति बजामि निजालयम् ।</l>
  <l>यदपि मकरोधस्तारपोप्पं करे च शरासनं</l>
  <l>तदपि परितो दृष्टिर्देया जनः सखि नागरः ॥ ५॥</l>
</lg>
<p>हनुमतः ।
3419
मुग्धे दोलतिकां निधाय न कृतो द्वारोपरोधस्त्वया
लग्ना नो रुदती गतासि रभसात्तस्योत्तरीयांशुके ।</p>
<pb n="514" />
<p>वियोगिनीप्रलापाः
कालेस्मिन्कुसुमाकरे द्विगुणितप्रेमोत्सवे रागिणां
गच्छन्नमत एव मूढहृदये मुक्तस्त्वया वल्लभः ॥ ६ ॥
दोर्लतिकाभीमस्य ।
3420</p>
<lg>
  <l>विश्रान्तो दिवसस्तटीमय मटत्यस्ताचलस्यांशुमा-</l>
  <l>संप्रत्यङ्करितान्धकारपटलैर्लम्बालका चौरभूत् ।</l>
  <l>एह्यन्तर्विश वेदमनः शशिमुखि द्वारस्थलीतोरण-</l>
  <l>स्तम्भालम्बितबाहुबलि रुदती किं त्वं पथः पश्यसि ॥७॥</l>
</lg>
<p>रुतीपण्डितस्य ।
3421</p>
<lg>
  <l>गोपायन्ती विरहजनितं दुःखमये गुरूणां</l>
  <l>किं त्वं मुग्धे नयनविसृतं बाष्पपूरं रुणत्ति ।</l>
  <l>नक्तं नक्तं नयनतलिलैरेष आर्द्रकृितस्ते</l>
  <l>शव्योपान्तः कथयति दशामातपे शोष्यमाणः ॥ ८ ॥</l>
</lg>
<p>कस्यापि ।
3422</p>
<lg>
  <l>मुखं पाण्डुलायं नयनयुगलं बाप्पतरलं</l>
  <l>: क्षामक्षामा गतमविशदं धैर्यविगमः ।</l>
  <l>द्रियं मुक्त्वा मूढे कथयसि न मे सारवचना-</l>
  <l>न्यवस्था येनेयं तव तखि मुहूर्तेन पतिता ॥ ९ ॥</l>
</lg>
<p>कस्यापि ।
3423
आहारे विरतिः समयविषयग्रामे निवृत्तिः परा
नासाग्रे नथनं यदेतदपरं यच्चैकनिष्ठं मनः ।
मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते
तङ्क्रया:</p>
<p>साख योगिनी किमसि भोः किं वा बियोगिन्यसि ॥१०॥</p>
<lg>
  <l>राजशेखरस्य ।</l>
  <l>अथ वियोगिनीप्रलापाः ॥ १०४ ॥</l>
</lg>
<p>3424
प्रस्थानं वलयैः कृतं प्रियसखैर स्रैरजस्रं गतं
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः ।</p>
<pb n="515" />
<p>शार्ङ्गधरपद्धतिः
यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता
गन्तव्ये सति जीवितप्रियसुहृत्सार्थः किमुत्सृज्यते ॥ १ ॥
अमरुकस्य ।
3425</p>
<lg>
  <l>स्वयमप्राप्त दुःखो यः स दुनोति न विस्मयः ।</l>
  <l>त्वं स्मरप्राप्तदाहोपि दहसीति किमुच्यते ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
3426</p>
<lg>
  <l>वरमसौ दिवसो न पुनर्निशा</l>
  <l>ननु निशैव बरं न पुनर्दिनम् ।</l>
  <l>उभयमेतदुपैत्वथवा क्षयं</l>
  <l>प्रियतमेन न यत्र समागमः ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
3427</p>
<lg>
  <l>अरतिरियमुपैति मां न निद्रा</l>
  <l>गणयति तस्य गुणान्मनो न दोषान् ।</l>
  <l>विगलति रजनी न सङ्गमाशा</l>
  <l>व्रजति तनुस्तनुतां न चानुरागः ॥ ४ ॥</l>
</lg>
<p>बिल्हणस्य ।
3428</p>
<lg>
  <l>पञ्चत्वं तनुरेतु भूतनिवहः स्वं स्वं विशत्वीप्सितं</l>
  <l>याचे त्वां द्रुहिण प्रणम्य शिरसा भूयोपि भूयान्मम ।</l>
  <l>तापीषु पयस्तदीयमुकुरे ज्योतिस्तदीयालय-</l>
  <l>व्योम्नि व्योम तदीयवर्त्मनि धरा तत्तालवृन्तेनिलः ॥ ५ ॥</l>
</lg>
<p>आकाशपोलेः ।
3429</p>
<lg>
  <l>हारो नारोपितः कण्ठे मया विश्लेषभीरुणा ।</l>
  <l>इदानीमन्तरे जाताः पर्वताः सरितो द्रुमाः ॥ ६ ॥</l>
</lg>
<p>वाल्मीकिमुनेः</p>
<pb n="516" />
<p>वियोगिनीप्रलापाः
3430</p>
<lg>
  <l>मुग्धस्य ते वद विधुंद किं वदामि</l>
  <l>किं मुक्तवानसि मुखे पतितं शशाङ्कम् ।</l>
  <l>अस्याईबिम्बगलितेन सुधारसेन</l>
  <l>संधानमेति तव किं न जरत्कबन्धः ॥ ७॥</l>
</lg>
<p>बिल्हणस्य ।
3431</p>
<lg>
  <l>रिपुरिव सखीसंवासोयं शिखीव हिमानिलो</l>
  <l>विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते ।</l>
  <l>हृदयमदये तस्मिन्नेवं पुनर्वलते बला-</l>
  <l>कुवलयदृशां वामः कामो निकामनिरङ्कः ॥ ८ ॥</l>
</lg>
<p>जयदेवस्य ।
3432</p>
<p>विरमत विरमत सख्यो नलिनीदलतालवृन्तपवनेन ।
हृदयगतोयं वह्निर्झटिति कदाचिज्ज्वलत्येव ॥ ९ ।
कस्यापि ।
3433</p>
<lg>
  <l>विभूमि साख संवीक्ष्य भ्रमरीभूतकीटकम् ।</l>
  <l>तयानादागते पुंस्त्वे तेन सार्धं रतिः कथम् ॥ १० ॥</l>
</lg>
<p>कस्यापि ।
3434</p>
<lg>
  <l>याः पश्यन्ति प्रियं स्वमे धन्यास्ताः सखि योषितः ।</l>
  <l>अस्माकं तु गते कान्ते गता निद्रापि वैरिणी ॥ ११ ॥</l>
</lg>
<p>कस्यापि ।
3435</p>
<lg>
  <l>यास्यामीति समुद्यतस्य वचनं विस्रग्धमाकर्णितं</l>
  <l>गच्छन्दूरमुपेक्षितो मुहुरसौ व्यावृत्य तिष्ठन्नपि ।</l>
  <l>तच्छून्ये पुनरागतास्मि भवने प्राणास्त एते दृढाः</l>
  <l>संख्यस्तिष्ठत जीवितव्यसनिनी दंभादहं रोदिमि ॥ १२ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="517" />
<p>शार्ङ्गधरपद्धतिः
3436</p>
<lg>
  <l>इदानीं तीत्राभिर्दहन इव भाभिः परिवृतो</l>
  <l>ममाचर्य सूर्यः किमु सखि रजन्यामुदयति ।</l>
  <l>अयं मुग्धे चन्द्रः किमिति माये तापं प्रकटय-</l>
  <l>त्यनाथानां वाले किमिह विपरीतं न भवति ॥ १३ ॥</l>
</lg>
<p>पुष्टिकस्य
3437</p>
<lg>
  <l>यात्रामङ्गलसंविधानरचनाव्यये सखीनां गणे</l>
  <l>बाप्पाम्भः पिहितेक्षणे गुरुजने तहत्सुहन्मण्डले ।</l>
  <l>प्राणेशस्य मदीक्षणार्पितदृशः कृच्छ्रादतिक्रामतः</l>
  <l>किं न्रीडाहतया मया भुजलतापाशो न कण्टेर्पितः ॥१४॥</l>
</lg>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ नायकं प्रति दूतीप्रेषणम् ॥ १०५ ॥</l>
</lg>
<p>3438</p>
<lg>
  <l>अपूजितैवास्तु गिरीन्द्रकन्या</l>
  <l>किं पक्षपातेन मनोभवस्य ।</l>
  <l>यद्यस्ति दूती सरसोक्तिदक्षा</l>
  <l>दासः पतिः पादतले बधूनाम् ॥ १ ॥</l>
</lg>
<p>बिल्हणस्य ।
3439</p>
<lg>
  <l>दूति त्वं तरुणी युवा स चपल: इयामास्तमोभिर्देिशः</l>
  <l>संदेश: सरहस्य एव विपिने संकेतकावासकः ।</l>
  <l>भूयो भूय इमे वसन्तमरुतश्चेतो नयन्त्यन्यथा</l>
  <l>गच्छ क्षेमसमागमाय निपुर्ण रक्षन्तु ते देवताः ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
3440
ननु संदिशेति सुदृशोदितया
त्रपया न किंचन किलाभिदधे ।</p>
<pb n="518" />
<p>वियोग्यवस्थाप्रलापवर्णनम्
निजमैक्षि मन्दमनिशं निशितैः
कृशितं शरीरमशरीरशरैः ॥ ३ ॥
माघकवेः ।
3441</p>
<lg>
  <l>प्राणेश विज्ञप्तिरियं मदीया</l>
  <l>तत्रैव नेया दिवसाः कियन्तः ।</l>
  <l>संपत्ययोग्यस्थितिरेष देश:</l>
  <l>करा हिमांशोरपि तापयन्ति ॥ ४ ॥</l>
</lg>
<p>वल्लभस्य ।
3442</p>
<lg>
  <l>जीवामीति वियोगिनी यदखिले लोके प्रवृत्ता: कथा</l>
  <l>अद्य श्वोथ मरिष्यतीति मरणे कालात्ययः किं कृतः ।</l>
  <l>आगन्तव्यमिति संप्रति सखे संभावना निष्फला</l>
  <l>भ्रातः संप्रति याहि नास्ति लिखितं तद्ब्रूहि यत्ते क्षमम् ॥ ५ ॥</l>
</lg>
<p>लोणितकस्य ।
3443</p>
<lg>
  <l>अनलस्तम्भनावेद्यां सुभग भवानियतमेव जानाति ।</l>
  <l>मन्मथशराभितप्ते हृदि मे कथमन्यथा वससि ॥ ६ ॥</l>
</lg>
<p>कस्यापि ।
3444</p>
<lg>
  <l>उलङ्ख्यापि सखीवचः समुचितामुल्लङ्घय लज्जामलं</l>
  <l>भिवा भीतिभर निरस्य च निजं सौभाग्यगर्व मनाक् ।</l>
  <l>आज्ञां केवलमेव मन्मथगुरोरादाय नूनं मया</l>
  <l>त्वं निःशेषविलासिवर्गगणनाचूडामणिः संभृतः ॥ ७ ॥</l>
</lg>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ वियोग्यवस्थाप्रलापवर्णनम् ॥ १०६ ॥</l>
</lg>
<p>3445
देशैरन्तरिता शतैञ्च सरितामुर्वीभृतां कानने-
र्यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि ।</p>
<pb n="519" />
<p>शार्ङ्गधरपद्धतिः
उद्रीवश्चरणावरुद्धवसुध:
प्रोन्मूज्य सांसे दृशौ
तामाशां पथिकस्तथापि किमपि ध्यायन्मुहुर्वीते ॥ १ ॥
कस्यापि ।
3446</p>
<lg>
  <l>सा तन्वीति घनस्तनीति विकसन्नीलाब्जनेत्रेति च</l>
  <l>स्वैर संचरतीति वक्ति मधुरां वाचं विचित्रामपि ।</l>
  <l>इत्थं विद्रुमपाटलाधरपुटां सीमन्तिनीं ध्यायतो</l>
  <l>रोमाञ्चो रुदितं स्मितं प्रलपितं पान्थस्य संजायते ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
3447</p>
<lg>
  <l>प्रियाविरहितस्यास्य हृदि चिन्ता समागता ।</l>
  <l>इति मत्वा गता निद्रा के कृतन्नमुपासते ॥ ३ ॥</l>
</lg>
<p>शीलाभहारिकायाः ।
3448</p>
<lg>
  <l>कर्पूराम्बुनिषेकमाजि सरसैरम्भोजिनीनां दलै-</l>
  <l>रास्तीर्णेपि विवर्तमानवपुषः स्रस्तस्रजि स्रस्तरे ।</l>
  <l>मन्दोन्मेषदृशः किमन्यदभवत्सा काव्यवस्था तदा</l>
  <l>पस्याश्चन्दनचन्द्रचम्पकदल श्रेण्यादि वह्नीयते ॥ ४ ॥</l>
</lg>
<p>त्रिविक्रमस्य ।
अय वियोगिमलापाः ।
3449</p>
<lg>
  <l>यदि प्रियावियोगेपि रुद्यते दीनदीनकम् ।</l>
  <l>संदिदं दग्धमरणमुपयोगं क यास्यति ॥ ५॥</l>
</lg>
<p>दग्धमरणस्य ।
3450</p>
<lg>
  <l>दिव्यचक्षुरहं जातः सरागेणापि चक्षुषा ।</l>
  <l>बृहस्थो येन पश्यामि देशान्तरगतां प्रियाम् ॥ ६ ॥</l>
</lg>
<p>धैर्यमित्रस्य ।</p>
<pb n="520" />
<p>33
वियोगिप्रलापाः
3451</p>
<lg>
  <l>नपुंसकमिति ज्ञात्वा प्रियायां प्रहितं मनः ।</l>
  <l>तत्तु तत्रैव रमते हताः पाणिनिना वयम् ॥ ७ ॥</l>
</lg>
<p>कस्यापि ।
3452</p>
<lg>
  <l>नूनमयं मे पापः कान्ताविरहे रसायनीभूतः ।</l>
  <l>वर्षसहस्राभ्यधिकान्नयामि कथमन्यथा दिवसान् ॥ ८ ॥</l>
</lg>
<p>कस्यापि ।
3453</p>
<lg>
  <l>भ्रमय जलदानम्भोगर्भान्प्रमोदय चातका-</l>
  <l>न्कलय शिखिनः के कोत्कण्ठान्कठोरय केतकान् ।</l>
  <l>विरहिण जने मूर्छा लब्ध्वा विनोदयति व्यथा-</l>
  <l>मकरुण पुनः संज्ञाव्याधि विधाय किमीहसे ॥ ९ ॥</l>
</lg>
<p>भवभूतेः ।</p>
<p>3454</p>
<lg>
  <l>जाने कोपपराङ्मुखी प्रियतमा स्वमेद्य दृष्टा मया</l>
  <l>मा मां संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः ।</l>
  <l>नो यावत्परिरभ्य चाटुक शतैराश्वासयामि क्षणं</l>
  <l>भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रः कृतः ॥ १० ॥</l>
</lg>
<p>निद्रादरिद्रस्य ।
3455</p>
<lg>
  <l>तप्ते महाविरहवह्निशिखावलीभि-</l>
  <l>रापाण्डुरस्तनतटे हृदये प्रियायाः ।</l>
  <l>मन्मार्गवीक्षणानेवेशितदीनदृष्टे-</l>
  <l>नूनं छमच्छमिति बाष्पकणाः पतन्ति ॥ ११ ॥</l>
</lg>
<p>छमच्छमित्कारत्नस्य ।
3456</p>
<lg>
  <l>न मे दुःखं प्रिया दूरे न मे दुःखं हतेति सा ।</l>
  <l>एतदेवानुशोचामि वयस्तस्या निवर्तते ॥ १२ ॥</l>
</lg>
<p>वाल्मीकिमुनेः ।</p>
<pb n="521" />
<p>शार्ङ्गधरपद्धतिः
3457</p>
<lg>
  <l>इतो विद्युत्पुञ्जस्फुरितमसकृद्भापयतु मा-</l>
  <l>मित: केकानेका हरतु हृहयं निर्दयमिदम् ।</l>
  <l>इत: कामो वामः प्रहरतु मुहुः पुङ्क्तिशरो</l>
  <l>गतासि त्वं दूरे चपलनयने प्रेयासे यतः ॥ १३ ॥</l>
</lg>
<p>श्रीगोविन्दराजदेवानाम् ।
3458</p>
<lg>
  <l>के शैः केसरमालिकामपि चिरं या बिभ्रती विद्यते</l>
  <l>या गात्रेषु घनं विलेपनमपि न्यस्तं न सोढुं क्षमा ।</l>
  <l>दीपस्यापि शिखां न वासभवने शक्नोति या वीक्षितुं</l>
  <l>तापं सा विरहानलस्य महतः सोढुं कथं शक्ष्यति ॥ १४ ॥</l>
</lg>
<p>कस्यापि ।
3459</p>
<lg>
  <l>अपसरति न चक्षुषो मृगाक्षी</l>
  <l>रजनिरियं च न याति नैति निद्रा ।</l>
  <l>प्रहरति मदनोपि दुःखितानां</l>
  <l>वत बहुशोभिमुखीभवन्त्यपायाः ॥ १५ ॥</l>
</lg>
<p>त्रिविक्रमस्य ।
3460</p>
<lg>
  <l>हृदि बिसलता हारो नायं भुजंगमनायकः</l>
  <l>कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।</l>
  <l>मलयजरजो नेदं भस्म प्रियारहिते मयि</l>
  <l>प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥ १६ ॥</l>
</lg>
<p>3461</p>
<lg>
  <l>पाणौ मा कुरु चूतसायकममुं मा चापमारोपय</l>
  <l>क्रीडानिर्जितविश्व मूर्छितजनाघातेन किं पौरुषम् ।</l>
  <l>तस्या एव मृगीदृशो मनसिज प्रेङ्खत्कटाक्षाशुग-</l>
  <l>श्रेणीजर्जरितं मनागपि मनो नाद्यापि संधुक्षते ॥ १७ ॥</l>
</lg>
<p>जयदेवस्यैतौ ।</p>
<pb n="522" />
<p>वियोगिप्रलापाः
3462</p>
<lg>
  <l>यदि स्मरामि तां तन्वीं जीविताशा कुतो मम ।</l>
  <l>अथ विस्मृत्य जीवामि जीवितव्यसनेन किम ॥ १८ ॥</l>
</lg>
<p>कस्यापि ।
3463</p>
<lg>
  <l>पादाङ्गुष्टेन भूमिं किसलयरुचिना सापदेशं लिखन्ती</l>
  <l>भूयो भूयः क्षिपन्ती माय सितशबले लोचने लोलतारे ।</l>
  <l>वक्त्रं हीनम्रमीषत्स्फुरदधरपुटं वाक्यगर्भे दधाना</l>
  <l>यन्मां नोवाच किंचित्स्थितमपि पुरतो मानसं तहुनोति॥१९॥</l>
</lg>
<p>कस्यापि ।
3464</p>
<lg>
  <l>व्रीडायोगान्नतवदनया संनिधाने गुरुणां</l>
  <l>बद्धोत्कम्पं स्तनकलशयोर्मन्युमन्तर्निगृह्य ।</l>
  <l>तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं</l>
  <l>मय्यासक्तचकितहरिणीहारिनेत्रत्रिभागः ॥ २० ॥</l>
</lg>
<p>नेत्रत्रिभागन्ब्रह्मयशस्विनः ।</p>
<p>3465</p>
<lg>
  <l>याताः किं न मिलन्ति सुंदरि पुनश्चिन्ता त्वया मत्कृते</l>
  <l>नो कार्या नितरां कृशासि कथयत्येवं सबाप्पे मयि ।</l>
  <l>लज्जानन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा</l>
  <l>दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः ॥२१॥</l>
</lg>
<p>अमरुकस्य ।
3466</p>
<lg>
  <l>कान्तामुखं सुरतकेलिविमर्दखेद-</l>
  <l>संजातघर्मकण विच्छुरितं रतान्ते ।</l>
  <l>॥ आपाण्डुरं विलसदर्धनिमीलिताक्षं</l>
  <l>संस्मृत्य हे हृदय किं शतधा न यासि ॥२२॥</l>
</lg>
<p>3467
अद्यापि तत्प्रचलकुण्डलधृष्टगण्डं
वक्रं स्मरामि विपरीतरताभियोगे ।</p>
<pb n="523" />
<p>शार्ङ्गधरपद्धतिः
आन्दोलन श्रमजलस्फुटसान्द्रबिन्दु-
मुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥ २३ ॥
अमरुकस्यैते ।
3468</p>
<lg>
  <l>निद्रार्धमीलितदृशो मदमन्थराणि</l>
  <l>नाप्यर्थवन्ति न च नाम निरर्थकानि ।</l>
  <l>अद्यापि मे मृगदृशो मधुराणि तस्या-</l>
  <l>स्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥ २४ ॥</l>
</lg>
<p>3469</p>
<lg>
  <l>अद्यापि तां कनकचम्पकदा मगौरीं</l>
  <l>फुलारविन्दनयनां तनुरोमराजीम् ।</l>
  <l>सुप्नोत्थितां मदनविहललालसाङ्गीं</l>
  <l>विद्यां प्रमादगलितामिव चिन्तयामि ॥ २५ ॥</l>
</lg>
<p>38470</p>
<lg>
  <l>अद्यापि सा मनसि संपरिवर्तते मे</l>
  <l>रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या ।</l>
  <l>जीवेति मङ्गलवचः परिहत्य कोपा-</l>
  <l>कर्णे कृतं कमलपत्रमनालपन्त्या ॥ २६ ॥</l>
</lg>
<p>बिल्हणस्यैते ।
3471</p>
<lg>
  <l>आसन्नमार्गमतिलङ्कच नतेन मूर्ध्ना</l>
  <l>पश्चात्प्रसङ्गवलितेन मुखेन यान्त्या ।</l>
  <l>आरोपिताः कतिपये मयि पङ्कजाक्ष्या</l>
  <l>साकूतहास मनतिप्रकटा कटाक्षाः ॥ २७ ॥</l>
</lg>
<p>कस्यापि ।
3472</p>
<lg>
  <l>मुखं तस्याः स्मितस्मेरं किंचिदञ्चलसंवृतम् ।</l>
  <l>मदालोकनलोलाक्षं स्मृत्वा मन्ये सुधां मुधा ॥ २८ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="524" />
<p>नायकस्या दूत्युक्तिः
अथ नायकस्याग्रे दूत्युक्तिः ॥ १०७ ॥
3473</p>
<lg>
  <l>सा सुन्दर तव विरहे सुतनुरियन्मात्रलोचना सपदि ।</l>
  <l>एतावतीमवस्थां याता दिवसैरियन्मात्रैः ॥ १ ॥</l>
</lg>
<p>रुद्रस्य ।
3474</p>
<lg>
  <l>अङ्गेनङ्गज्वरहुतवहश्चक्षुषि ध्यानमुद्रा</l>
  <l>कण्ठे जीवः करकिसलये दीर्घशायी कपोलः ।</l>
  <l>अंसे वेणी कुचपरिसरे चन्दनं वाचि मौनं</l>
  <l>तस्याः सर्वे स्थितमपि न तु त्वां विना कापि चेतः ॥ २ ॥</l>
</lg>
<p>क्षेमेन्द्रस्य ।
3475</p>
<lg>
  <l>गृहीतं ताम्बूलं परिजनवचोभिः कथमपि</l>
  <l>स्मरत्यन्तः शून्या सुभग विरतायामपि निशि ।</l>
  <l>तथैवास्ते हस्तः कलितफणिवल्ली किसलय</l>
  <l>स्तथैवास्यं तस्याः क्रमुकफलफालीपरिचितम् ॥ ३ ॥</l>
</lg>
<p>बिल्हणस्य ।
3476</p>
<lg>
  <l>कुसुमशयनेप्यङ्गं ताम्यत्यनङ्गविवर्तन</l>
  <l>वदनपवनैः श्यामच्छायो बभूव सखीजनः ।</l>
  <l>हृदयनिहितः शीतो लेपछमीति रवं करो-</l>
  <l>त्यहह कठिनावस्था तस्यास्त्वयैवमुपेक्ष्यते ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।</p>
<p>3477</p>
<lg>
  <l>गलत्येका मूर्छा भवति पुनरन्या यदनयोः</l>
  <l>किमप्यासीन्मध्ये सुभग सकलायामपि निशि ।</l>
  <l>लिखन्त्यास्तत्तस्याः कुसुमशरलेखं तव कृते</l>
  <l>समाप्ति स्वस्तीति प्रथमपदभागोपि न गतः ॥ ५ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="525" />
<p>शार्ङ्गधरपद्धतिः
3478
गेहादङ्गणमङ्ग</p>
<lg>
  <l>गादपि वहिवयाच्च पृथ्वीतलं</l>
  <l>तामार्ति यदि सैव वेत्ति मुमुखी किंचान्यदाचक्ष्महे ।</l>
  <l>पर्यङ्कोपि तवाङ्गसङ्गसुभगः स्वेदाम्भसां निर्झरै-</l>
  <l>धारामण्डपतामनीयत तथा तस्मिन्रुदत्या मुहुः ॥ ६ ॥</l>
</lg>
<p>कस्यापि ।
3479</p>
<lg>
  <l>तस्या महाविरहवह्निशिखाकलाप-</l>
  <l>तप्ते स्थितोसि हृदये सततं प्रियायाः ।</l>
  <l>प्रालेयसीकरसमे हृदि सा कृपालो</l>
  <l>बाला क्षणं वसति नैव खलु त्वदीये ॥ ७॥</l>
</lg>
<p>कस्यापि ।
3480</p>
<lg>
  <l>दृष्टे चन्द्रमसि प्रलूनतमसि व्योमाङ्गणस्थेयसि</l>
  <l>स्फूर्जन्निर्मलतेजसि त्वाय गते दूरं निजप्रेयसि ।</l>
  <l>श्वास: कैरवकोरकीयांत मुखं तस्याः सरोजी यति</l>
  <l>क्षीरोदीयति मन्मथो मृगदृशो दृक्चन्द्रकान्तीयति ॥ ८ ॥</l>
</lg>
<p>भल्लदस्य ।
3481</p>
<lg>
  <l>आवासो विपिनायते प्रियसखीमालापि जालायते</l>
  <l>तापोपि श्वसितेन दावदहनज्वालाकलापायते ।</l>
  <l>सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं</l>
  <l>कंदर्पेपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ ९ ॥</l>
</lg>
<p>3482</p>
<lg>
  <l>क्षणमपि विरहः पुरा न सेहे</l>
  <l>नयननिमीलनखिन्नया यया ते ।</l>
  <l>श्वसिति कथमसौ रसालशाखां</l>
  <l>चिरविरहेण विलोक्य पुष्पितामाम् ॥ १० ॥</l>
</lg>
<p>जयदेवस्यैतौ ।</p>
<pb n="526" />
<p>नायकस्याये दूत्युक्तिः</p>
<p>3483
25</p>
<lg>
  <l>अङ्गानि मे दहतु कान्तवियोगवह्निः</l>
  <l>संरक्ष्यतां प्रियतमो हृदि वर्तते यः ।</l>
  <l>इत्याशया शशिमुखी गलदश्रुवारि-</l>
  <l>धाराभिरुष्णमभिषिञ्चति हत्प्रदेशम् ॥ ११ ॥</l>
</lg>
<p>कस्यापि ।
3484</p>
<lg>
  <l>अविरलपरिवाहैरश्रुणः सारणीनां</l>
  <l>स्मरदहन शिखोष्णश्वासपूरैश्च तस्याः ।</l>
  <l>सुभग बत कृशाङ्गयाः स्पर्धयान्योन्यमेभिः</l>
  <l>क्रियत इव पुरो भूः पङ्किला पांखुंला च ॥ १२ ॥</l>
</lg>
<p>कस्यापि ।
3485</p>
<lg>
  <l>सखीभिक्षां याचे बत नतशिरास्त्वामिदमहं</l>
  <l>चेदस्ति प्रीतिः कुरु तदपि कारुण्यकणिकाम् ।</l>
  <l>अवस्था सा तस्याः सुकृतमथ यस्यां किमपरं</l>
  <l>प्रमोहो विश्रामस्त्वमथ मरणं वा प्रतिकृतिः ॥ १३ ॥</l>
</lg>
<p>गौडाभिनन्दस्य ।
3486
अच्छिन्नं नयनाम्बु बन्धुषु कृतं तापः सखीष्वाहितो
दैन्यं न्यस्तमशेषतः परिजने चिन्ता गुरुभ्योर्पिता ।
अद्य श्वः किल निर्वृतिं व्रजति सा श्वासैः परं खिद्यते
www.y
विश्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥ १४ ॥
अमरुकस्य ।
3487
त्वां चिन्तापरिकल्पितं सुभग सा संभाव्य रोमाञ्चिता</p>
<lg>
  <l>क</l>
  <l>शून्यालिङ्गनसंचलहुजयुगेनात्मानमालिङ्गति ।</l>
  <l>किं चान्यहिरहव्यथाप्रशमनीं संप्राप्य मूर्छा चिरा-</l>
  <l>त्प्रत्युज्जीवति कर्णमूल पठितैस्त्वन्नाममन्त्राक्षरैः ॥ १५ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="527" />
<p>शार्ङ्गधरपद्धतिः
3488</p>
<lg>
  <l>नीरागा मृगलाञ्छने मुखमपि स्वं नेक्षते दर्पणे</l>
  <l>त्रस्ता कोकिलकूजितादपि गिरं नोन्मुद्रयत्यात्मनः ।</l>
  <l>चित्रं दुःसहदाहदायिनि घृतद्वेषापि पुष्पायुधे</l>
  <l>सा बाला सुभगं प्रति प्रतिपदं प्रेमाधिकं पुष्यति ॥ १६ ॥</l>
</lg>
<p>कस्यापि ।
3489</p>
<lg>
  <l>उन्मीलन्ति नखैर्लुनीहि वहति क्षौमाञ्चलेनावृणु</l>
  <l>क्रीडाकाननमाश्रयन्ति वलयकाणैः समुत्रासय ।</l>
  <l>इत्थं वञ्जुलदक्षिणानिलकुहूकण्ठीषु सांकेतिक-</l>
  <l>व्यापाराः सुभग त्वदीयविरहे तस्याः सखीनां मिथः ॥१७॥</l>
</lg>
<p>सत्कविमिश्रस्य ।
3490</p>
<lg>
  <l>वर्षन्ति स्तनयित्नवो न सरले धारागृहे वर्तसे</l>
  <l>गर्जन्ति प्रतिकूलवादिनि न ते द्वारि स्थिता दन्तिनः ।</l>
  <l>इत्येवं गमितो घनव्यतिकरः सा राजपुत्री पुन -</l>
  <l>वते वाति कदम्बपुष्पसुरभौ केन प्रतारिष्यते ॥ १८ ॥</l>
</lg>
<p>उमापतिधरस्य ।
3491</p>
<lg>
  <l>संप्राप्तेवधिवासरे क्षणमसौ त्वद्वर्त्मवातायनं</l>
  <l>वारंवार मुपेत्य निष्कृपतया निश्चित्य किंचिच्चिरम् ।</l>
  <l>संप्रत्येव निवेद्य केलिकुररी: सास्रं सखीभिः शिशो-</l>
  <l>माधव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः ॥ १९ ॥</l>
</lg>
<p>कस्यापि ।
3492</p>
<lg>
  <l>विमुञ्चन्त्या प्राणांश्चिरविहरदुःखासहतया</l>
  <l>तया संदिष्टं ते कठिनहृदयापश्चिममिदम् ।</l>
  <l>अपत्यं बालैका मम विधिहतायाः सलिलदा</l>
  <l>यथा नेयं सेवाव्यसनरुचये दीयत इति ॥ २० ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="528" />
<p>नायिकां प्रति नायकावस्थावर्णनम्
3493</p>
<lg>
  <l>किं पृष्टेन द्रुततरमितो गम्यतां सा प्रिया ते</l>
  <l>दृष्टा मार्गे दिवसमखिलं सास्रमेका मयैवम् ।</l>
  <l>दृष्टे दृष्टे त्वमिति रभसोद्रीवमालोकयन्ती</l>
  <l>पृष्टे पृष्ठे न भवति भवानित्युदभुर्वलन्ती ॥ २१ ॥</l>
</lg>
<p>कस्यापि ।
3494
चित्रोत्कीर्णादपि विषधराङ्गीतिभाजो निशायां
किं तमस्त्वदभिसरणे साहसं नाथ तस्याः ।
ध्वान्ते यान्त्या यदतिनिभृतं बालयात्मप्रकाश-
4</p>
<p>त्रासात्पाणिः पथि फणिफणारत्नरोधी व्यधायि ॥ २२ ॥
हारहरस्य ।
3495</p>
<lg>
  <l>संकेतकुञ्जभुवि सा शयनोपधानं</l>
  <l>व्यालं कृतं सुभग कुण्डलितं न वेद ।</l>
  <l>तत्कण्ठलग्नघन चन्दनगन्धलुब्ध-</l>
  <l>स्तत्रैव निश्चलमुवास चिराय सोपि ॥ २३ ॥</l>
</lg>
<p>3496
कस्यापि !</p>
<lg>
  <l>मा गच्छ प्रमदाप्रिय प्रियशतैरभ्यर्थितस्त्वं मया</l>
  <l>बाला प्राङ्गणमागतेन भवता प्रामोत्यवस्थां पराम् ।</l>
  <l>कि चास्याः कुचभारनिःसहतरैरङ्गैरनङ्गाकुलै-</l>
  <l>खुटचत्कचुकजालकैरनुदिनं निःसूत्रमस्महम् ॥ २४ ॥</l>
</lg>
<lg>
  <l>मोरिकायाः ।</l>
  <l>अथ नायिकां प्रति नायकावस्थावर्णनम् ॥१०८॥</l>
</lg>
<p>3497</p>
<lg>
  <l>पदशब्दलीनहृदयो रूपालंकारभावनानिपुणः ।</l>
  <l>कविरिव वञ्चितनिद्रस्तरुणि तत्रार्थे परं स युवा ॥ १ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="529" />
<p>शार्ङ्गधरपद्धति:
3498</p>
<lg>
  <l>विकिरति मुहुः श्वासानाशां पुरो मुद्दुरीक्षते</l>
  <l>प्रविशति मुहुः कुञ्जात्कुचं मुहुर्बहु ताम्यति ।</l>
  <l>रत्रयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते</l>
  <l>मदनकदनक्लान्त: कान्ते प्रियस्तव वर्तते ॥ २ ॥</l>
</lg>
<p>3499
:</p>
<lg>
  <l>सा मां द्रक्ष्यति वक्ष्यति प्रियकथां प्रत्यङ्गमा लिङ्ग नैः</l>
  <l>प्रीतिं यास्यति रंस्यते सखि समागत्येति चिन्ताकुलः ।</l>
  <l>मार्ग पश्यति वेपते पुलकयत्यानन्दति स्विद्यति</l>
  <l>प्रत्युद्गच्छति मूर्छति प्रियतमः कुञ्जे निकुञ्जप्रियः ॥ ३ ॥</l>
</lg>
<p>3500</p>
<lg>
  <l>पूर्व यत्र समं त्वया रतिपतेरासादिताः सिद्धय-</l>
  <l>स्तस्मिन्नेव निकुञ्जमन्मथ महातीर्थे पुनर्माधवः ।</l>
  <l>ध्यायंस्त्वामनिशं जपत्रपि तवैवालापमन्त्रावलीं</l>
  <l>भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ ४ ॥</l>
</lg>
<p>जयदेवस्यैते
अथ नायिकां प्रति नायकसंदेशः ।
3501</p>
<lg>
  <l>त्वद्रूपामृतपान दुर्ललितया दृष्ट्या व विश्रम्यतां</l>
  <l>वाक्यश्रवणाभियोगपरयोः श्रव्यं कुतः श्रोत्रयोः ।</l>
  <l>एभिस्त्वत्परिरम्भनिर्भररसैरः कथं स्थयितां</l>
  <l>कष्टं त्वहिरहेण संप्रति वयं कष्टामवस्थां गताः ॥ ५ ॥</l>
</lg>
<p>कस्यापि ।
LE 3502
भ्रूचापेनिहित</p>
<lg>
  <l>कटाक्षवेशिखा निर्मातु मर्मव्यथां</l>
  <l>श्यामात्मा कुटिल: करोतु कबरीभारोपि मारोद्यमम् ।</l>
  <l>मोहं तावदयं च तन्वि तनुतां बिम्बाधरो रागवा-</l>
  <l>न्सद्वृत्त: स्तनमण्डलस्तव कथं प्रागैर्मम क्रीडते ॥ ६ ॥</l>
</lg>
<p>जयदेवस्य ।</p>
<pb n="530" />
<p>दूत्यु पहासप्रश्रौ
3503
TUTSIDE</p>
<lg>
  <l>त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-</l>
  <l>मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।</l>
  <l>अस्त्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे</l>
  <l>क्रूरस्तस्मिन्नपि न सहते संगम नौ कृतान्तः ॥ ७ ॥</l>
</lg>
<p>कालिदासस्य ।
3504
स्थानान्निर्गत्य दूरं व्रजति मयि चिरं मुक्तकण्ठं रुदित्वा</p>
<lg>
  <l>Pa</l>
  <l>पश्चादुन्मृज्य नेत्रे प्रणतिमुपगता वेपमानाङ्ग-यष्टिः ।</l>
  <l>कान्ते यन्मामवोचः प्रलयघनघटाटोपबद्धान्धकारे</l>
  <l>काले कापालिकोपि प्रवसति न गृहात्तन्मनो मे दुनोति ॥८॥</l>
</lg>
<p>Wate</p>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ दूत्युपहासप्रश्रौ ॥ १०९ ॥</l>
</lg>
<p>3505</p>
<lg>
  <l>पार्श्वभ्यां समहाराभ्यामधरे व्रणखण्डिते ।</l>
  <l>दूति सङ्ग्रामयोग्यासि न योग्या दूतकर्मणि ॥ १ ॥</l>
</lg>
<p>कस्यापि ।</p>
<lg>
  <l>3506</l>
  <l>बहुनात्र किमुक्तेन दूति मत्कार्यसिद्धये ।</l>
  <l>५१५</l>
  <l>स्त्रमांसान्यपि दत्तानि वक्तव्येषु तु का कथा ॥ २ ॥</l>
</lg>
<p>sua triun
वररुचेः ।
3507</p>
<lg>
  <l>श्वासः किं त्वरिता गता पुलकिता कस्मात्प्रसादः कृतः</l>
  <l>स्रस्ता वेण्यपि पादयोर्निपतनान्नीवी च गत्वागमात् ।</l>
  <l>स्त्रेदाई मुखमातपेन गलितं क्षामा किमित्युक्तिभि-</l>
  <l>दूति म्लानसरोरुहाकृतिधरस्यौष्ठस्य किं वक्ष्यसि ॥ ३ ॥</l>
</lg>
<p>शीलाभहारिकायाः ।
3508
PRIST
निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।</p>
<pb n="531" />
<p>शार्ङ्गधरपद्धतिः
मिथ्यावादिनि दूति
बान्धवजनस्याज्ञातपीडागमा
वापीं लातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ ४ ॥
कस्यापि ।
3509</p>
<lg>
  <l>॥ रजन्यामन्यस्यां सुरतपरिवृत्तावनुचितं</l>
  <l>मदीयं यद्वासः कथमपि हृतं तेन सुहृदा ।</l>
  <l>त्वया प्रत्यानीतं निजवसनदानात्पुनरिदं</l>
  <l>कुतस्त्वाद्रदूति स्खलितशमनोपायनिपुणा ॥ ५ ॥</l>
</lg>
<p>बीजाकरस्य ।
3510</p>
<lg>
  <l>किं त्वं निगूहसे दूति स्तनौ वक्रं च पाणिना ।</l>
  <l>खण्डिता एवं शोभन्ते शूराधरपयोधराः ॥ ६ ॥</l>
</lg>
<p>कस्यापि ।
3511</p>
<lg>
  <l>उल्लापयन्त्या दयितस्य दूतीं</l>
  <l>वध्वा विभूषां च निवेशयन्त्या ।</l>
  <l>प्रसन्नता कापि मुखस्य जज्ञे</l>
  <l>वेषश्रिया नु प्रियवार्तया नु ॥ ७ ॥</l>
</lg>
<p>शिवस्वामिनः ।
3512</p>
<lg>
  <l>कथय निपुणे कस्मिन्दृष्टः कथं नु कियच्चिरं</l>
  <l>किमभिलिखितं किं तेनोक्तं कदा स इहैष्यति ।</l>
  <l>इति बहुविधप्रेमालापप्रपञ्चितविस्तराः</l>
  <l>प्रियतमकथा: स्वल्पेप्यर्थे प्रयान्ति न नष्टताम् ॥ ८ ॥</l>
</lg>
<p>कस्यापि ।
3513</p>
<lg>
  <l>अलमलमघृणस्य तस्य नाम्ना</l>
  <l>पुनरपि सैव कथा गतः स कालः ।</l>
  <l>कथय कथय वा तथापि दूति</l>
  <l>प्रतिवचनं द्विषतोपि माननीयम् ॥ ९॥</l>
</lg>
<p>वासुदेवस्य ।</p>
<pb n="532" />
<p>संभोगे परस्परावलोकनम्</p>
<p>अथ संभोगशृङ्गारे परस्परावलोकनम् ॥ ११० ॥
3514</p>
<lg>
  <l>प्रियादर्शन मेवास्तु किमन्यैर्दर्शनान्तरैः ।</l>
  <l>प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
3515
क्षीरसागर</p>
<lg>
  <l>कल्लोललोललोचनयानया ।</l>
  <l>असारोपि हि संसार: सारवानिव लक्ष्यते ॥ २ ॥</l>
</lg>
<p>आकाश पोलेः ।
3516</p>
<lg>
  <l>उपप्राकारामं पहिणु नयने तर्कय मना-</l>
  <l>गनाकाशे कोयं गलितहरिणः शीतकिरणः ।</l>
  <l>सुधाबद्धया सैरुपवनचकोरैरनुसृतां</l>
  <l>किरञ्ज्योत्स्नामच्छां लवलिफलपाकप्रणयिनीम् ॥३॥</l>
</lg>
<p>कस्यापि ।
3517</p>
<lg>
  <l>पुरः स्थित्वा किंचिद्दलितमुखमालोकय सखे</l>
  <l>सखेदाः स्थास्यन्ति ध्रुवमिदमदृष्ट्वा तव दृशः ।</l>
  <l>इतश्चञ्चत्काञ्चीरणित मुखरात्सौधशिखरा-</l>
  <l>दशकायां केयं कवलयति चान्द्रेण महसा ॥ ४ ॥</l>
</lg>
<p>1
कस्यापि ।
3518
अये केयं लीलाधवलगृहवातायनतले
अ
तुला कोटिक्काणैः कुसुमधनुषं जागरयति ।
अहो नेत्रइन्द्रं विलसति विलय श्रुतिमहो
Sama
कथं न त्रैलोक्यं जयति मदनः स्मेरवदनः ॥ ५ ॥
कस्यापि ।
3519
अमृतममृतं चन्द्रश्चन्द्र स्तथाम्बुजमम्बुजं
रतिरपि रतिः कामः कामो मधूनि मधून्यपि ।
15</p>
<pb n="533" />
<p>शार्ङ्गधरपद्धतिः
इते न भजते वस्तु प्रायः परस्परसंकर
तदियमबला धत्ते लक्ष्मीं कुतः सकलात्मिकाम् ॥ ६ ॥
कस्यापि ।
3520</p>
<lg>
  <l>विनैवाम्भोवाह बहलरुचिलिप्ताम्बरतला-</l>
  <l>तडिल्लेखा हेमद्युतिविततिरम्या विलसति ।</l>
  <l>विनैव स्वर्गङ्गां नमसि रभसा व्ययशफरी-</l>
  <l>परीवर्ते: साथै स्फुरति विकचेन्दीवरवनम् ॥ ७ ॥</l>
</lg>
<p>जयदेवस्य ।
3521</p>
<lg>
  <l>तम: स्तोमः पूर्वं तदनु सकल : शीतकिरण-</l>
  <l>स्तत: कोकइन्हं तदनु न च किंचित्पुनरभूत् ।</l>
  <l>अनम्भस्यावर्तस्तदनु कदलीकाण्डयुगलं</l>
  <l>ततोवाञ्चौ पद्मौ किमिदमिति चित्रैव रचना ॥ ८ ॥</l>
</lg>
<p>देवबोधे ।
3522</p>
<lg>
  <l>न जाने संमुखायाते प्रियाणि वदति प्रिये ।</l>
  <l>सर्वाग्यज्ञानि किं यान्ति नेत्रतामुत कर्णताम् ॥ ९ ॥</l>
</lg>
<p>कस्यापि ।
3523</p>
<lg>
  <l>काचिन्निवारितबहिर्गमना जनन्या</l>
  <l>द्रष्टुं प्रियं भवनजालकमाससाद ।</l>
  <l>तस्था विलोचनमदृश्यत दाशदत्त-</l>
  <l>यन्त्रोपरुद्धशफरोपमितं क्षणेन ॥ १० ॥</l>
</lg>
<p>3524</p>
<lg>
  <l>कृच्छ्रेण कापि गुरुणैव जनेन रोध-</l>
  <l>मुलङ्घ्य नायकसमीपभुवं प्रतस्थे ।</l>
  <l>हा हन्त शीघ्रगमन प्रतिरोधहेतु-</l>
  <l>स्तस्याः पुनः स्तनभरोपि गुरुर्बभूव ॥ ११ ॥</l>
</lg>
<p>उत्प्रेक्षावल्लभस्यैतौ ।</p>
<pb n="534" />
<p>प्रियातिथ्यादिकम्
3525</p>
<lg>
  <l>यां यां प्रियः प्रैक्षत कातराक्षीं</l>
  <l>सा सा हिया नम्रमुखी बभूव ।</l>
  <l>निःशङ्कमन्याः सममाहितेर्ष्या-</l>
  <l>स्तत्रान्तरे जघ्नुर कटाक्षैः ॥ १२ ॥</l>
</lg>
<lg>
  <l>माघकवेः ।</l>
  <l>अथ प्रियातिथ्यादिकम् ॥ १११ ॥</l>
</lg>
<p>3526</p>
<lg>
  <l>सज्जितसकलशरीरा क्षणे क्षणे मनसि किमपि गणयन्ती ।</l>
  <l>उत्सवमिह तं दिवसं मनुते मुग्धा प्रियागमने ॥ १ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
3527</p>
<lg>
  <l>आगच्छन्सूचितो येन येनानीतो गृहं प्रति ।</l>
  <l>प्रथमं सखि कः पूज्यः किं काकः किं क्रमेलकः ॥ २ ॥</l>
</lg>
<p>सोमकवेः ।
3528</p>
<lg>
  <l>आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लज्यतां</l>
  <l>गेहिन्या परितोषबाष्पकलिलामासज्य दष्टिं मुखे ।</l>
  <l>दवा पीलुशमीकरीरकवलं लोलाञ्चलेनादरा-</l>
  <l>दुन्मृष्टं करभस्य केसरसटाभारायलमं रजः ॥ ३ ॥</l>
</lg>
<p>अद्भुतपुण्यस्य ।
3529</p>
<lg>
  <l>बाला चन्दनमालिका किसलयग्रन्थीनधः कुर्वतः</l>
  <l>श्रुत्वा वल्लभवाहनस्य रटितं दासेरकस्याङ्गणे ।</l>
  <l>आक्रन्दात्सुहृदो वनाद्गुरुजनं नासाग्रसङ्गादसू-</l>
  <l>न्कान्तं स्त्रीवधपातकात्स्मरमसत्कीर्तेः परावर्तयत् ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
3530
किंचित्कम्पितपाणिकङ्कणरवैः पृष्टं ननु स्वागतं
न्रीडानम्रमुखाब्जया चरणयोर्न्यस्ते च नेत्रोत्पले ।</p>
<pb n="535" />
<p>शार्ङ्गधरपद्धते
द्वारस्थस्तनयुग्ममङ्गलघंटे दत्तः प्रवेशो हृदि
स्वामिन्किं न तवातिथेः समुचितं सख्यानयानुष्ठितम् ॥५॥
त्रिविक्रमभहस्य ।
3531</p>
<lg>
  <l>कृशा केनासि त्वं प्रकृतिरियमस्य ननु म</l>
  <l>मलाधूम्रा कस्माद्गुरुजनगृहे पाचकतया ।</l>
  <l>स्मरस्यस्मान्कच्चिन्नहि नहि नहीत्येवमगद-</l>
  <l>तस्मरोत्कम्पं वाला मम हृदि निपत्य प्ररुदिता ॥ ६ ॥</l>
</lg>
<p>कस्यापि ।
3532</p>
<lg>
  <l>कशासीत्यालीना मलिनवसनासीत्यवनता</l>
  <l>चिटासीति स्तनकलशकम्प प्ररुदिता ।</l>
  <l>परिष्वक्ता यावत्प्रणयपदवीं कामपि गता</l>
  <l>ततः सारङ्गाक्ष्या हृदयसदने लीनमभवत् ॥ ७ ॥</l>
</lg>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ मानिनीमानाख्यानम् ॥ ११२ ॥</l>
</lg>
<p>3533</p>
<lg>
  <l>स्फुरसि बाहुलते किमनर्थकं</l>
  <l>त्वमपि लोचन वाम भव स्थिरम् ।</l>
  <l>तमहमागतमप्यपराधिनं</l>
  <l>न परिरब्धुमलं न च वीक्षितुम् ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
3534</p>
<lg>
  <l>एकत्रासनसंस्थितिः परिहता प्रत्युद्गमाहूरत-</l>
  <l>स्ताम्बूलाहरणच्छलेन रभसालेपोपि सविनितः ।</l>
  <l>आलापोपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके</l>
  <l>कान्तं प्रत्युपचारतचतुरया कोप: कृतार्थीकृतः ॥ २ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="536" />
<p>34
मानिनीमानाख्यान म्
3535</p>
<lg>
  <l>तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता पादयो-</l>
  <l>स्तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया ।</l>
  <l>पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः</l>
  <l>सख्यः किं करवाणि यान्ति शतधा यत्कञ्चुके संधयः॥३॥</l>
</lg>
<p>अमरुकस्य ।
3536</p>
<lg>
  <l>तत्तद्वदत्यपि यथावसरं हसत्य-</l>
  <l>प्यालिङ्गनेपि न निषेधति चुम्बनेपि ।</l>
  <l>किं तु प्रसादनभयादपि निहुतेन</l>
  <l>कोपेन कोपि विहितोद्य रसावतारः ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।</p>
<p>3537</p>
<lg>
  <l>आशङ्कय प्रणात पटान्तपिहितौ पादौ करोत्यादरा-</l>
  <l>याजेनागतमावृणोति हसितं चास्पष्टमुद्रीक्षते ।</l>
  <l>मय्यालापवति प्रतीपवचनं संख्या सहाभाषते</l>
  <l>तस्यास्तिष्ठतु निर्भरप्रणयिता मानोपि रम्योदयः ॥ ५ ॥</l>
</lg>
<p>भीमस्य ।
3538</p>
<lg>
  <l>तदेवाजिमाक्षं मुखमविशदास्ता गिर इमाः</l>
  <l>स एवाङ्गलेषो माये सरसमाश्लिष्यति तनुम् ।</l>
  <l>यदुक्तं प्रत्युक्तं यदपटु शिरः कम्पन परं</l>
  <l>प्रियामानेनाहो पुनरपि कृता मे नववधूः ॥ ६ ॥</l>
</lg>
<p>.
संकुलस्य ।
3539</p>
<lg>
  <l>वेगात्सुकमागते विचलितं संभाषिणि स्फारित</l>
  <l>संशिष्यन्यरुणं गृहीतवसने कोपाञ्चितभूलतम् ।</l>
  <l>मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं</l>
  <l>चक्षुर्जतमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ ७ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="537" />
<p>शार्ङ्गधरपद्धतिः
3540</p>
<lg>
  <l>भ्रूभङ्गे रचितेषि दृष्टिरधिकं सोत्कण्ठमुद्रीक्षते</l>
  <l>रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते ।</l>
  <l>कार्कश्यं गमितेपि चेतसि तनू रोमाञ्चमालम्बते</l>
  <l>दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥ ८ ॥</l>
</lg>
<lg>
  <l>भवन्तवर्मणः ।</l>
  <l>अथ कलहान्तरिताप्रलापादिकम् ॥ ११३ ॥</l>
</lg>
<p>3541</p>
<lg>
  <l>अद्यारभ्य यदि प्रिये पुनरहं मानस्य चान्यस्य वा</l>
  <l>गृढीयां विषरूपिणः शमतेर्नामापि संक्षोभिणः ।</l>
  <l>तत्तेनैव विना शशाङ्ककिरणस्पष्टाहासा निशा</l>
  <l>एको वा दिवसः पयोदमलिनो भूयान्मम प्रावृषि ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
3542</p>
<lg>
  <l>मानव्याधिनिपीडिताहमधुना शक्नोमि तस्थान्तिकं</l>
  <l>नो गन्तुं न सखीजनोपि चतुरो यो मां बलान्नेष्यति ।</l>
  <l>मानी सोपि जनो न लाघवभयादभ्येति मातः स्वयं</l>
  <l>कालो याति चलं च जीवितमिदं क्षुण्णं मनश्चिन्तया ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
3543</p>
<lg>
  <l>निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मूल्यते</l>
  <l>निद्रा नैति न दृश्यते प्रियमुखं नक्तं दिनं रुद्यते ।</l>
  <l>अङ्गं शोषमुपैति पादपतितः प्रेयांस्तदोपेक्षितः</l>
  <l>सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
3544
इदं कृष्णं कृष्णं प्रियतममनु श्वेतमथ किं
गमित्र्यामो यामो भवतु गमनेनाथ भवतु ।</p>
<pb n="538" />
<p>कलहान्तरिताप्रलापादिकम्
पुरा येनैवं मे चिरमनुसृता चित्तपदवी
स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ॥ ४ ॥
3545</p>
<lg>
  <l>गते प्रेमाबन्धे प्रणयबहुमाने विगलिते</l>
  <l>निवृत्ते सद्भावे जन इव जने गच्छति पुरः ।</l>
  <l>तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांच दिवसा-</l>
  <l>न जाने को हेतुर्दलति शतधा यन्त्र हृदयम् ॥ ५ ॥</l>
</lg>
<p>3546</p>
<lg>
  <l>कथमपि सखि क्रीडाकोपाइजेति मयोदिते</l>
  <l>कठिनहृदयस्त्यक्त्वा शय्यां बलाद्गत एव सः ।</l>
  <l>इति सरभसध्वस्तप्रेम्णि व्यपेतघृणे स्पृहां</l>
  <l>पुनरपि हतव्रीडं चेतः करोति करोमि किम् ॥ ६ ॥</l>
</lg>
<p>अमरुकस्यैते ।
3547</p>
<lg>
  <l>मानोन्नतेत्यसहनेत्यतिपण्डितेति</l>
  <l>मय्येव धिकृतिरनेकमुखी सखीनाम् ।</l>
  <l>दाक्षिण्यमात्रमसूणेन विचेष्टिनेन</l>
  <l>धूर्तस्य तस्य हि गुणानुपवर्णयन्ति ॥ ७ ॥</l>
</lg>
<p>सख्यनुनयः ।
3548</p>
<lg>
  <l>स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि</l>
  <l>द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये ।</l>
  <l>तन्मुग्धे विपरीतकारिणि तव श्रीखण्डचर्चा विषं</l>
  <l>शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ ८ ॥</l>
</lg>
<p>3549
"</p>
<lg>
  <l>समयचकितं विन्यस्यन्तीं दृशं तिमिरे पथि</l>
  <l>प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् ।</l>
  <l>कथमपि रहः प्राप्तामङ्गैरनङ्गतरंगिभिः</l>
  <l>. सुमुखि सुभगः स त्वां पश्यन्नुपतु कृतार्थताम् ॥ ९ ॥</l>
</lg>
<pb n="539" />
<p>शार्ङ्गधरपद्धतिः
3550</p>
<lg>
  <l>त्वां चित्तेन सदा वहन्नयमतिश्रान्तो भृशं तापितः</l>
  <l>कंदर्पेण तु पातुमिच्छति सुधासंवादि बिम्बाधरम् ।</l>
  <l>अस्याङ्गं तदलंकुरु क्षणमिह वृक्षेपलक्ष्मीलव-</l>
  <l>क्रीते दासजनेपि सेवितपदाम्भोजे कुतः संभ्रमः ॥१०॥</l>
</lg>
<p>जयदेवस्यैते ।
3551</p>
<lg>
  <l>लिखचास्ते भूमि बहिरवनतः प्राणदयितो</l>
  <l>निराहाराः सख्यः सततरुदितोच्छूननयनाः ।</l>
  <l>परित्यक्तं सर्वे हसितपतिं पञ्जरशुकै-</l>
  <l>स्तवावस्था चेयं विसृज काटने मानमधुना ॥ ११ ॥</l>
</lg>
<p>अमरुकस्य ।
3552</p>
<lg>
  <l>असद्वृत्तो नायं न च खलु गुणैरेष रहित:</l>
  <l>प्रियो मुक्ताहारस्तव चरणमले निपतितः ।</l>
  <l>गृहाणैनं मुग्धे व्रजतु तव कण्ठप्रणयिता-</l>
  <l>मुपायो नास्त्यन्यस्तव हृदयदाहोपशमने ॥ १२ ॥</l>
</lg>
<p>कस्यापि ।
3553</p>
<lg>
  <l>मुग्धे किं नखरैः क्षिपस्यविरतं नेत्राम्बु मानोन्नते</l>
  <l>पश्यैनं चरणाग्रनम्रशिरसं स्वं कान्तमात्ताञ्जलिम् ।</l>
  <l>अप्रह्वे तव चेतसि प्रणयिनि प्राप्ततिनिर्विष्णता-</l>
  <l>मन्यासक्त मनस्युपेक्षितगता फूत्कृत्य रोदिष्यति ॥ १३ ॥</l>
</lg>
<lg>
  <l>शार्ङ्गधरस्य ।</l>
  <l>अथ नायकयोरुक्तिप्रत्युक्ती ॥ ११४ ॥</l>
</lg>
<p>3554
बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं
खेदोस्मासु न मेपराध्यति भवान्सर्वेपराधा मयि ।</p>
<pb n="540" />
<p>नायकयोरुक्तिप्रत्युक्ती
तल्कि रोदिषेि गद्देन वचसा कस्यायतो रुद्यते
नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥१॥
कुमारदासस्य ।</p>
<p>3555</p>
<lg>
  <l>नयननिपातेङ्करितः पल्लवितो वचसि पुष्पितो हसिते ।</l>
  <l>फलतु कृशाङ्गि तवाङ्ग स्पर्शेन मनोरथोस्माकम् ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
3556</p>
<lg>
  <l>सुश्रु त्वं कुपितेत्यपास्तमशनं त्यक्ताः कथा योषितां</l>
  <l>दूरादेव मयोज्झिताः सुरभयः स्रग्गन्धधूपादयः ।</l>
  <l>रागं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना</l>
  <l>सद्यस्त्वद्विरहे भवन्ति सुभगे सर्वा ममान्धा दिशः ॥ ३ ॥</l>
</lg>
<p>विद्यापतेः ।
3557</p>
<lg>
  <l>उत्तरंगय कुरङ्गलोचने</l>
  <l>लोचने कमलगर्वमोचने ।</l>
  <l>अस्तु सुन्दरि कलिन्दनन्दिनी-</l>
  <l>वीचिडम्बर गंभीरमम्बरम् ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
3558
पुराभूदस्माकं प्रथममविभक्ता तनुरियं
ततो न त्वं प्रेयानहमपि हताशा प्रियतमा
इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं
मयात प्राणानां कुलिशकठिनानां फलमिदम् ॥ ५ ॥
अमरुकस्य ।
3559</p>
<lg>
  <l>व्यावृत्तं खलु सर्वतो विषयतस्त्वय्येव लीनं मनो</l>
  <l>नित्यं च त्वदधीनमेव नियतं मज्जीवितं मानिनि ।</l>
  <l>मत्वैवं मयि नूनमन्यविषयाशङ्का त्वया त्यज्यतां</l>
  <l>किं वान्यत्र निशाकरोभिरमते मुक्त्वा क्षणं कौमुदीम् ॥६॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="541" />
<p>शार्ङ्गधरपद्धतिः
3560
कृतककृत कै मयाशायैस्त्वयाप्यतिवर्तित
निभृतनिभृतैः कार्याला पैर्मयाप्युपलक्षितम् ।
भवतु विदितं नेष्टा तेहं वृथा परिखिद्यसे
:
अहमसहना त्वं निःस्नेहः समेन सभं गतम् ॥ ७ ॥
कस्यापि ।
3561
यद्गम्यं गुरु गौरवस्य सुहदो यस्मिल्लभन्तेन्तर्ंं
यद्दाक्षिण्यवशात्प्रसह्य सहते नर्मोपचारानपि ।
यल्लज्जा निरुणद्धि यत्र शपथैरुत्पाद्यते प्रत्यय-
स्तत्किं प्रेम स उच्यते परिचयस्तत्रापि कोपेन किम् । ८ ॥
कस्यापि ।
3562</p>
<lg>
  <l>कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं</l>
  <l>यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः ।</l>
  <l>तस्य प्रेरणस्तदिदमधुना वैशसं पश्य जातं</l>
  <l>त्वं पादान्ते लुउसि न च मे मानमोक्षः खलायाः ॥ ९ ॥</l>
</lg>
<p>वामनस्य ।
3563</p>
<lg>
  <l>सा मनोरथ शतैस्तव धूर्त कान्ता</l>
  <l>सैव स्थिता मनसि कृत्रिमभावरम्या ।</l>
  <l>अस्माकमस्ति न कथंचिदिहावकाश-</l>
  <l>स्तस्मात्कृतं चरणपातविडम्बनाभिः ॥ १० ॥</l>
</lg>
<p>कस्यापि ।
3564</p>
<lg>
  <l>यदा त्वं चन्द्रोभूः शिशिरकरसंपर्करुचिर-</l>
  <l>स्वदाहं जाता द्राक्छशधरमणीनां प्रतिकृतिः ।</l>
  <l>इदानीमर्कस्त्वं खररुचिसमुत्सारितरस:</l>
  <l>किरन्ती कोपामीनहमपि रविग्रावघटिता ॥ ११ ॥</l>
</lg>
<p>अचलस्य ।</p>
<pb n="542" />
<p>नायक शिक्षानायकानुनयौ
3565</p>
<lg>
  <l>प्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषं</l>
  <l>प्रिये शुष्यन्त्यङ्गान्यमृतमित्र ते सिञ्चतु वचः ।</l>
  <l>निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं</l>
  <l>न मुग्धे प्रत्येतुं प्रभवति गतः काल हरिणः ॥ १२ ॥</l>
</lg>
<lg>
  <l>चन्द्रकस्य ।</l>
  <l>अथ नायक शिक्षानाय कानुनयौ ॥ ११५ ॥</l>
</lg>
<p>3566</p>
<lg>
  <l>अङ्गुलीकिसलयामतर्जनं</l>
  <l>भ्रूविभङ्गकुटिलं च वीक्षितम् ।</l>
  <l>मेखलाभिरसकृच्च बन्धनं</l>
  <l>वञ्चयन्प्रणयिनीरवाप सः ॥ १ ॥</l>
</lg>
<p>कालिदासस्य ।
3567</p>
<lg>
  <l>कोपात्किचिदुपानतोपि रसभादाकृष्य केशेष्वलं</l>
  <l>नीत्वा मोहनमन्दिर दयिनया हारेण बना दृढम् ।</l>
  <l>भूयो यास्यसि तगृहानिति मुहुः कण्ठार्वरुद्धाक्षरं</l>
  <l>जल्पन्त्या श्रवणोत्पलेन सुकृती कश्चिद्रहस्तायते ॥ २ ॥</l>
</lg>
<p>3568</p>
<lg>
  <l>सा बादं भवतेक्षितेति निबिडं संयम्य बाह्वोः स्रजा</l>
  <l>भूयो द्रक्ष्यसि तां शठेति नितरां संभ संतर्ज्य च ।</l>
  <l>आलीनां पुर एव निहुतिपर: कोपाद्रणन्नूपुर</l>
  <l>मानिन्या चरणप्रहारविधिना प्रेयानशोकीकृतः ॥ ३ ॥</l>
</lg>
<p>रुद्रस्यैतौ ।
3569</p>
<p>पादे मूर्धाने ताम्रतामुपगते कर्णोत्पले चूर्णिते
छिन्ने हारलतागुणे करतले संपातजातव्रणे ।</p>
<pb n="543" />
<p>शार्ङ्गधरपद्धतिः
अप्राप्तप्रियताडनव्यतिकरा हन्तुं पुनः कोपिता
वाञ्छन्ती मुहुरेणशावनयना पर्याकुला रोदिति ॥ ४ ॥
कस्यापि ।
3570</p>
<lg>
  <l>आधेरजनि जगाम घाम तस्याः</l>
  <l>प्रियतमयेति रुषा स्रजावनद्धः ।</l>
  <l>पदमपि चलितुं युवा न सेहे</l>
  <l>किमिव न शक्तिहरं ससाध्वसानाम् ॥ ५॥</l>
</lg>
<p>माघकवे: ।
अथ नायकानुनयः ।
3571</p>
<lg>
  <l>त्वं तावद्वहुवल्लभो नवयुवा कान्तः सुखी निर्घृणो</l>
  <l>नो जानासि परव्यथां शटमते नैवासि दुःखी यतः ।</l>
  <l>किं त्वन्या: परिपृच्छ मन्मथशरैः पीडामसह्यामिमां</l>
  <l>त्राता नो भव येन सज्जनजनैः कापालिको नोच्यसे ॥ ६ ॥</l>
</lg>
<p>कस्यापि ।
3572</p>
<lg>
  <l>विरहविषमः कामो वामः करोति तनुं तनुं</l>
  <l>दिवसगणनादक्षश्चायं व्यपेतघृणो यमः ।</l>
  <l>त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे</l>
  <l>किसलयमृदुर्जीवेदेवं कथं प्रमदाजनः ॥ ७ ॥</l>
</lg>
<p>शीलाभहारिकायाः ।
3573</p>
<lg>
  <l>घनघनमपि दृष्टं व्योम रम्यं मरुत्वा-</l>
  <l>च्छिखिकुलकलवाचां श्रोत्रमासीन्निवास: ।</l>
  <l>अनुसमन मृताहं यहियोगेपि जाते</l>
  <l>तव घनपरिरम्भप्रार्थनाशावशेन ॥ ८ ॥</l>
</lg>
<p>हरिगणस्य ।
3574
मुक्तो मानपरिग्रहः सह सखीसार्थेन तन्मन्त्रिणा
शक्ता त्वचरणप्रसादरहिता नाहं क्षणं प्राणितुम् ।</p>
<pb n="544" />
<p>परस्परप्रसादः
पश्य त्वं कृशकं शरीरकमिदं यां यामवस्थां गतं
सैषाहं तव पादयोर्निपतिता नाथ प्रसीदाधुना ॥ ९ ॥</p>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ परस्परप्रसादः ॥ ११६ ॥</l>
</lg>
<p>3575</p>
<lg>
  <l>दृष्ट्कासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा-</l>
  <l>देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।</l>
  <l>तिर्यग्वक्रितकंधरः सपुलकप्रेमोल्लसन्मानसा-</l>
  <l>मन्तर्हासलसत्क पोलफलकां धूर्तोपरां चुम्बति ॥ १ ॥</l>
</lg>
<p>अमरुकस्य ।
3576</p>
<lg>
  <l>आगत्य प्रणिपातसान्त्वित सखीदत्तान्तरे सागसि</l>
  <l>स्वैरं कुति तल्पपार्श्वनिभृते धूर्तेङ्गसंवाहनम् ।</l>
  <l>ज्ञात्वा स्पर्शवशात्प्रियं किल सखीभ्रान्त्या स्वमन्वं शनैः</l>
  <l>खिन्नासीत्यभिधाय मीलितदृशा सानन्दमारोपितः ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
3577</p>
<lg>
  <l>सुतनु जहिहि मानं पदय पादानतं मां</l>
  <l>तब न खलु कदाचित्कोप एवंविधोभूत् ।</l>
  <l>इति निगदति नाथे तिर्यगामीलिताक्ष्या</l>
  <l>नयनजलमनल्पं मुक्तमुक्तं न किंचित् ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
3578</p>
<lg>
  <l>सत्यं वल्लभ एष दुर्लभतमो रागो ममास्मिन्पुनः</l>
  <l>कोपोस्थातिगुरुर्न चातिनिपुणाः सख्योपि संबोधने ।</l>
  <l>संचिन्त्येति मृगीदृशा प्रियतमे दृष्टे लथां मेखलां</l>
  <l>बधन्त्या न गतं स्थितं न च लसदासोथवा संवृतम् ॥ ४ ॥</l>
</lg>
<p>॥ ॥</p>
<pb n="545" />
<p>शार्ङ्गधरपद्धतिः
3579</p>
<lg>
  <l>वाचो वाग्मिनि किं तवाद्य परुषाः सुभ्रु भ्रुवो विभ्रमो-</l>
  <l>प्युद्धान्तः कृत एष लोलनयने किं लोहिते लोचने ।</l>
  <l>नास्त्यागो मयि किं मुधैव कुपितेत्युक्ते पुरः प्रेयसा</l>
  <l>मानिन्या जलबिन्दुदन्तुरपुटा दृष्टिः सखीष्वाहिता ॥ ५ ॥</l>
</lg>
<p>रुद्रस्यैतौ ।
3580</p>
<lg>
  <l>सा यावन्ति पदान्यलीकवचनैरालीजनैः पाठिता</l>
  <l>तावन्त्येव कृताग सोद्भुततरं संलप्य पत्युः पुरः ।</l>
  <l>प्रारे परतो यथा मनसिजस्येच्छा तथा वार्तेतुं</l>
  <l>प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोप्येष कान्तक्रमः ॥ ६ ॥</l>
</lg>
<p>महेन्दुराजस्य ।
3581</p>
<lg>
  <l>दृष्टे लोचनवन्मनाङ्गुकुलितं पार्श्वस्थिते वक्रव-</l>
  <l>न्यग्भूतं बहिरासितं पुलकवत्स्पर्श समातन्वति ।</l>
  <l>नीवीबन्धवदागतं शिथिलतां संभाषमाणे क्षणं</l>
  <l>मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥ ७ ॥</l>
</lg>
<p>कस्यापि ।
3582</p>
<lg>
  <l>इह स्फुटं तिष्ठति नाथ कण्टकः</l>
  <l>शनैः शनैः कर्ष नखाग्रलीलया ।</l>
  <l>इति च्छलात्काचिदलग्नकण्टकं</l>
  <l>पदं तदुत्सङ्गतले न्यवेशयत् ॥ ८ ॥</l>
</lg>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ सूर्यास्तवर्णन चक्रवाकावस्थाख्याने ॥११७॥</l>
</lg>
<p>3583
पृथुगगनकबन्धस्कन्धचक्रं किमेत-
स्किमु रुधिरकपालं कालकापालिकस्य ।</p>
<pb n="546" />
<p>सूर्यास्त वर्णनचक्रवाकावस्थाख्याने
कललभरितमन्तः किं नु तार्क्ष्याण्डखण्ड
प्रजनयति वितर्क सांध्यमर्कस्य बिम्बम् ॥ १ ॥
कस्यापि ।
3584</p>
<lg>
  <l>अस्तावलम्बिरविबिम्बतयोदयाद्रि-</l>
  <l>चूडोन्मिषत्सकलचन्द्रतया च सायम् ।</l>
  <l>संध्याप्रनृत्तहरहस्त गृहीतकांस्य-</l>
  <l>तालद्वयेव समलक्ष्यत नाकलक्ष्मीः ॥ २ ॥</l>
</lg>
<p>रत्नाकरस्य ।
3585</p>
<lg>
  <l>अनुरागवन्तमपि लोचनयो-</l>
  <l>र्दवतं वपुः सुखमतापकरम् ।</l>
  <l>निरकासयद्रविमपेतवसुं</l>
  <l>वियदालयादपर दिग्गणिका ॥ ३ ॥</l>
</lg>
<p>सांध्यरागरुधिरारुणमारा-
निष्पपात रविमण्डलमब्धौ ।
माघकवेः ।
3586
विलोक्य संगमे रांग पश्चिमाया विवस्वतः !
कृतं कृष्णं मुखं प्राच्या नहि नार्यो विनेर्ष्यया ॥ ४ ॥
कस्यापि ।
3587
क्रूरकालकरवालविलूनं
वासरस्य सहसैव शिरो नु ॥ ५ ॥
महोपमन्योः ।
3588
परिपतति पयोनिधौ पतङ्गः
सरसिरुहामुदरेषु मत्तभृङ्गः ।
उपवनतरुकोटरे विहंगो</p>
<p>युवतिजनेषु शनैः शनैरनङ्गः ॥ ६ ॥
कस्यापि ।</p>
<pb n="547" />
<p>शार्ङ्गधरपद्धतिः
3589</p>
<lg>
  <l>कृतोपकारं प्रियबन्धु मर्के</l>
  <l>मा द्राक्ष्म हीनांशुमध: पतन्तम् ।</l>
  <l>इतीव मत्वा नलिनी वधूभि-</l>
  <l>र्निमीलितान्यम्बुरुहेक्षणानि ॥ ७ ॥</l>
</lg>
<p>3590</p>
<lg>
  <l>नो रविर्न च तमो न तमीशो</l>
  <l>न द्युतिर्ग्रहगणो न च संध्या ।</l>
  <l>यादृशं प्रथमतः किल सृष्टे-</l>
  <l>स्तादृगेव भुवनं श्रियमूहे ॥ ८ ॥</l>
</lg>
<p>3591
भोजनेरन्द्रस्य ।
3592
कस्यापि ।</p>
<lg>
  <l>सैरन्ध्रीकरकृष्टपट्टकसरत्तारध्वनिः संचर-</l>
  <l>हूतीसृत्रितसंधिविमहविधेिः सोल्लासलीलाविधिः ।</l>
  <l>वार स्त्रीजन सज्जमानशयनः संनद्धपुष्पायुधः</l>
  <l>श्रीखण्डद्रवधीतसौधाशखरो रम्यः क्षणो वर्तते ॥ ९ ॥</l>
</lg>
<p>कस्यापि ।</p>
<lg>
  <l>विश्लेषाकुलचक्रवाकमिथुनैरुत्पक्षमाक्रन्दितं</l>
  <l>कारुण्यादिव मीलितासु नलिनीष्वस्तं च मित्रे गते ।</l>
  <l>शोकेनेव दिगङ्गनाभिरभितः दयामायमानैर्मुखै -</l>
  <l>निःश्वासानिलधूमवर्त्तय इवोद्गीर्णास्त मोराजयः ॥ १० ॥</l>
</lg>
<p>कस्यापि ।
3593</p>
<lg>
  <l>शुचिरिति परितः प्रसिद्धभाजि</l>
  <l>प्रकटिततेजसि दुर्जये कृशानौ ।</l>
  <l>निजवसुनिकुरम्बमस्तवेला-</l>
  <l>व्यतिकरवान्निदधे सरोजबन्धुः ॥ ११ ॥</l>
</lg>
<p>बिल्हणस्य ।</p>
<pb n="548" />
<p>सूर्यास्तचक्रवाकावस्थाख्याने
3594</p>
<lg>
  <l>महद्भिरोषैस्तमसामभिद्रुते</l>
  <l>भयेप्यसंमूढमतिर्भ्रमन्क्षितौ ।</l>
  <l>प्रदीपवेषेण गृहे गृहे स्थितो</l>
  <l>विखण्य देहं बहुधेव भास्करः ॥ १२ ॥</l>
</lg>
<p>मेण्ठस्य ।</p>
<p>अथ चक्रबाकावस्याख्यानम् ।
3595</p>
<lg>
  <l>चक्राहो विरही हतोपि हृदये बाणेन न व्यक्तवा-</l>
  <l>न्प्राणान्प्राण समासमागमसुखध्यानै कतानश्चिरम् ।</l>
  <l>स्वां छायामवलोक्य वारिणि गलद्रक्तामवेत्य प्रियां</l>
  <l>भ्रान्तस्तद्रूणवेदनापरिगतः कष्टं मृतः सांप्रतम् ॥ १३ ॥</l>
</lg>
<p>कस्यापि ।
3596</p>
<lg>
  <l>एकेनाक्ष्णा प्रविततरुषा वीक्षते लम्बमानं</l>
  <l>भानोबिम्ब जलविलुलितेनापरेण स्वकान्तम् ।</l>
  <l>अदयितविरहाशङ्किनी चक्रवाकी</l>
  <l>संकीरचयति रसौ नर्तकीव प्रगल्भा ॥ १४ ॥</l>
</lg>
<p>चन्द्रकस्य ।
3597</p>
<lg>
  <l>तीरात्तीरमुपैति रौति करुणं चिन्तां समालम्बते</l>
  <l>किंचिद्धचायति निश्चलेन मनसा योगीव युक्तेक्षणः ।</l>
  <l>स्वां छायामवलोक्य कूजति पुनः कान्तेति मुग्धः खगो</l>
  <l>धन्यास्ते भुवि ये निवृत्तमदना धिग्दुःखितान्कामिनः ॥१५॥</l>
</lg>
<p>3598
A</p>
<lg>
  <l>भङ्गा भोक्तुं न भुते, कुटिलबिसलतां कोटिमिन्दोर्वितर्का-</l>
  <l>ताराकारास्तृषार्त्तः पिबति न पयसां विप्रुषः पत्र संस्थाः ।</l>
  <l>छायामम्भोरुहाणामलिकुलशवलां वेत्ति संध्यामसंध्यां</l>
  <l>कान्ता विशेष भीरुर्दिनमपि रजनीं मन्यते चक्रवाकः ॥ १६ ॥</l>
</lg>
<pb n="549" />
<p>शार्ङ्गधरपद्धतिः
3599</p>
<lg>
  <l>मित्रे कापि गते सरोरुहवने बद्धानने लाम्यति</l>
  <l>क्रन्दनु भ्रमरेषु वीक्ष्य दयिताश्लिष्टं पुरः सारसम् ।</l>
  <l>चक्राङ्गेण वियोगिना बिसलता नास्वादिता नोज्झिता</l>
  <l>वक्त्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥ १७ ॥</l>
</lg>
<p>3600
वापीतोयं तटरुहवनं पद्मिनीपत्र</p>
<lg>
  <l>शय्या</l>
  <l>चन्द्रालोको विकचकुसुमामोदहृद्यः समीरः ।</l>
  <l>यत्रैतेपि प्रियविरहिणो दाहिनश्चक्रनाम्च-</l>
  <l>स्तत्रोपायः क इव भवतु प्राणसंधारणाय ॥ १८ ॥</l>
</lg>
<lg>
  <l>केषामप्येते ।</l>
  <l>अथ तमोवर्णनम् ॥ ११८ ॥</l>
</lg>
<p>3601</p>
<lg>
  <l>पिदधति तिमिरे समस्तलोकं</l>
  <l>प्रलयमहाब्धिनिभे भृतोच्चनिम्ने ।</l>
  <l>व्यरुचदुडुगणो वलक्षरोचि-</l>
  <l>र्बहुविधफेनसमूहतुल्यरूपः ॥ १ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
3602</p>
<lg>
  <l>काकोलः कलकण्टिका कुवलयं कादम्बिनी कर्दमः</l>
  <l>कंसारिः कबरी कृपाणलतिका कस्तूरिका कज्जलम् ।</l>
  <l>कालिन्दी कषपट्टिका करिघटा कामारिकण्ठस्थली</l>
  <l>यस्यैते करदीभवन्ति सखि तद्वन्दे विनिद्रं तमः ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
3603</p>
<lg>
  <l>लिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभः ।</l>
  <l>असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥ ३ ॥</l>
</lg>
<p>विक्रमादित्य मेण्डयो: ।</p>
<pb n="550" />
<p>तमोवर्णनम्
3604</p>
<lg>
  <l>अविज्ञातविशेषस्य सर्वतेजोपहारिणः ।</l>
  <l>स्वामिनो निर्विवेकस्य तमसश्च किमन्तरम् ॥ ४ ॥</l>
</lg>
<p>अवन्तिवर्मणः ।
3605</p>
<lg>
  <l>इदं नमसि भीषणभ्रमदुलूककोलाहलै-</l>
  <l>निशाचरविलासिनीनिवहदत्तनेत्रोत्सवम् ।</l>
  <l>परिस्फुरति निर्भरप्रचुरपङ्कमग्नोल्लस-</l>
  <l>द्वराहकुलमांसलप्रबलबद्धमन्धं तमः ॥५॥</l>
</lg>
<p>सर्वज्ञवासुदेवस्य ।
3606</p>
<lg>
  <l>किं भूमौ परितः स्फुरन्ति करिण: कस्तूरिकाया रसैः</l>
  <l>सिक्ताः किं निखिला दिशः किमखिलं लिप्तं मषीभिर्नभः ।</l>
  <l>किं व्याप्तं भुवनं समस्तमपि च श्रीकण्ठकण्ठत्विषा</l>
  <l>कालिन्दीजलकान्तिभाजि निबिडे जातेन्धकारेधुना ॥ ६ ॥</l>
</lg>
<p>tea
कस्यापि ।
3607</p>
<lg>
  <l>सद्यः सान्द्रमषीविलुप्तककुभः स्निग्धेन्द्रनीलद्रव-</l>
  <l>व्यामीलन्नभसो निरन्तरमिलन्नीलीरसज्योतिनः ।</l>
  <l>एते कोकिलकायकालिमहतो लुम्पन्ति वृत्तिं दृशो</l>
  <l>रुन्निद्राञ्जनपुञ्जमेचकरुचो भीमास्तमः प्रक्रमाः ॥ ७ ॥</l>
</lg>
<p>कस्यापि !
3608</p>
<lg>
  <l>चिन्चौर चिकीर्षितानि घटयद्वेतालगोष्ठीसुखं</l>
  <l>तन्वानं शवसाधनोत्सवरसं निर्व्याजवीरात्मनाम् ।</l>
  <l>कुर्वत्कामकृशानुतप्तमनसां गुप्ताङ्गनासंगमं</l>
  <l>दृप्यत्कोकिलकालकण्ठमलिनं ध्वान्तं समुज्जृम्भते ॥ ८ ॥</l>
</lg>
<p>कस्यापि ।
3609
कादमीर गौरवपुषामभिसारिकाणा-
माबद्धरेखमभितो रुचिमञ्जरीभिः ।</p>
<pb n="551" />
<p>शार्ङ्गधरपद्धतिः
एतत्तमालदलनीलतमं तमिस्रं
तत्प्रेम हे मनिकषोपलतां तनोति ॥ ९॥</p>
<lg>
  <l>जयदेवस्य ।</l>
  <l>अथाभिसारिकासंचारः ॥ ११९ ॥</l>
</lg>
<p>3610</p>
<lg>
  <l>क प्रस्थितासि करभोरु घने निशीथे</l>
  <l>प्राणाधिपो वसति यत्र मनःप्रियो मे ।</l>
  <l>एकाकिनी वद कथं न बिभेषि बाले</l>
  <l>नन्वस्ति पुड़ितारो मदनः सहायः ॥ १ ॥</l>
</lg>
<p>गोविन्दस्वामिनो विकटनितम्बायाश्च ।
3611</p>
<lg>
  <l>वातोद्भूतमुखी प्रनष्टतिलका तोयार्द्रलीनांशुका</l>
  <l>मेघानां निनदेन भीतहृदया गत्वा प्रियस्यालयम् ।</l>
  <l>द्वारं नेच्छति लज्जया मलपितुं देहीति वर्षाहता</l>
  <l>पादौ नूपुरकर्दमप्रतिहतौ संशब्दयन्ती स्थिता ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
3612</p>
<lg>
  <l>प्राणेशमभिसरन्ती पाये स्खलन्ती सुपिच्छिले मुग्धा ।</l>
  <l>अवलम्बनाय वारां धारालु करं प्रसारयति ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
3613</p>
<lg>
  <l>उरसि निहितस्तारो हारः कृता जघने घने</l>
  <l>कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ ।</l>
  <l>प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा</l>
  <l>यदि किमपरं त्रासोत्कम्पं दिशः समुदीक्षसे ॥ ४ ॥</l>
</lg>
<p>अर्गदस्य ।
3614
मार्गे पडूचिते घनान्धतमसे निःशब्दसंचारया
गन्तव्याच मया पियस्य वसतिर्मुग्धेति कृत्वा मतिम् ।</p>
<pb n="552" />
<p>35
अभिसारिकासचारः
आजानूद्धृतनपुरा करतलेनाछाद्य नेत्रे भृशं
कृच्छ्रेणाप्तपदस्थितिः स्वभवने पन्थानमभ्यस्यति ॥ ५ ॥
कस्यापि ।
3615</p>
<lg>
  <l>अम्भोजाक्ष्याः पुरवनलताधामि संकेतभाज-</l>
  <l>चेतोनाथे चिरयति भृशं मोहनिद्रां गतायाः ।</l>
  <l>स्वच्छं नाभीह्वलयितं कान्तरत्नांशुजालं</l>
  <l>तोयभ्रान्त्या पिबति हरिणी विस्मयं च प्रयाति ॥ ६ ॥</l>
</lg>
<p>कस्यापि ।
3616</p>
<lg>
  <l>ज्ञातं ज्ञातिजनैः प्रघुष्टमयशो दूरं गता धीरता</l>
  <l>व्यक्ता ही प्रतिपादितोप्यावेनयः साध्वीपदं प्रोज्झितम् ।</l>
  <l>लुमा चोभयलोकसाधुपदवी दत्तः कलङ्क: कुले</l>
  <l>भूयो दूति किमन्यदस्ति यदसावद्यापि नागच्छति ॥ ७ ॥</l>
</lg>
<p>कस्यापि ।
3617</p>
<lg>
  <l>नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे</l>
  <l>स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् ।</l>
  <l>पश्याद्य प्रियसंगमाय दयितस्याकृष्यमाणं गुणे-</l>
  <l>रुत्कण्ठार्तिभरादेिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ८ ॥</l>
</lg>
<p>जयदेवस्य ।
3618</p>
<lg>
  <l>जनो दुर्वर्ज्योयं कुलममलिनं वर्त्म विषमं</l>
  <l>पातेश्छिद्रान्वेषी प्रणयिवचनं दुष्परिहरम् ।</l>
  <l>अतः काचित्तन्वी रतिविहितसंकेतगतये</l>
  <l>गृहाद्वारं वारं निरगमदथ प्राविशदथ ॥ ९ ॥</l>
</lg>
<p>3619
छिद्रान्वेषणतत्परः प्रियसखि प्रायेण लोकोधुना
रात्रिश्चापि घनान्धकारबहला गन्तुं न ते युज्यते ।</p>
<pb n="553" />
<p>शार्ङ्गधरपद्धतिः
मा मैवं सखि वल्लभः प्रियतमस्तस्योत्सुका दर्शने
युक्तायुक्त विचारणा यदि भवेत्स्नेहाय दत्तं जलम् ॥ १० ॥
3620</p>
<lg>
  <l>मन्दं निधेहि चरणौ परिधेहि वासो</l>
  <l>नीलं पिधेहि वलयाषलिमञ्चलेन ।</l>
  <l>मा जल्प साहसिनि शारदचन्द्रकान्त-</l>
  <l>दन्तांशवस्तव तमांसि समापयन्ति ॥ ११ ॥</l>
</lg>
<lg>
  <l>केषामध्येते ।</l>
  <l>अथ चन्द्रोदयवर्णनम् ॥ १२० ॥</l>
</lg>
<p>-
3621
।</p>
<lg>
  <l>उदयतटान्तरितमियं प्राची सूचयति दिङिशानाथम् ।</l>
  <l>परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥ १ ॥</l>
</lg>
<p>श्रीहर्षस्य ।
3622</p>
<lg>
  <l>अथ मन्मथवाहिनी परागः</l>
  <l>किमपि ज्योतिरुदस्फुरत्पुरस्तात् ।</l>
  <l>तिमिरस्य जरा चकोरकूरं</l>
  <l>कुलटा केलिवनीदवानलार्चिः ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
3623</p>
<lg>
  <l>अथ पथिकवधूदहन: शन कैरुदभून्निशाकरालोकः ।</l>
  <l>कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणाम् ॥ ३ ॥</l>
</lg>
<p>क्षेमेन्द्रस्य ।
3625
हंसो यथा राजति पङ्कजस्थः
सिंहो यथा मन्दरकंदरस्थ: ।
3624</p>
<lg>
  <l>ततः कुमुदनाथेन कामिनीगण्डपाण्डुना ।</l>
  <l>नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ॥ ४ ॥</l>
</lg>
<p>व्यासस्य ।</p>
<pb n="554" />
<p>चन्द्रोदयवर्णनम्
वीरो यथा दार्पितकुञ्जरस्थ -
चन्द्रोपि बभ्राज तथाम्बरस्थः ॥ ५ ॥
3626
पश्योदेति वियोगिनां दिनमणिः शृङ्गाररक्षामणि-
वाल्मीकिकवेः ।
।
स्तारामौक्तिकहारनायकमणिश्चण्डीशचूडामणिः
प्रौढान भुजंगमस्तक मणि: कंदर्पसीमन्तिनी-
काञ्चीमध्यमणिश्च कोरपरिषच्चिन्तामणिश्चन्द्रमाः ॥ ६ ॥
करयापि ।
3627</p>
<lg>
  <l>मृगाङ्कोयं धत्ते गगनजलधे: फेनतुलनां</l>
  <l>सितच्छत्राकारं मदननृपतेर्विश्वजयिनः ।</l>
  <l>त्रियामारामाया मलयजविशेष प्रतिकृतिं</l>
  <l>जगद्धात्रीदेव्या मणिमुकुरलक्ष्मीं च विमलाम् ॥७॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
3628</p>
<lg>
  <l>आकाशवापीसितपुण्डरीकं</l>
  <l>शाणोपलं मन्मथसायकानाम् ।</l>
  <l>पश्योदित शारदमुत्पलाक्षि</l>
  <l>संध्याङ्गनाकन्दुकमिन्दुबिम्बम् ॥ ८ ॥</l>
</lg>
<p>कस्यापि ।
3629</p>
<lg>
  <l>ॐ कारो मदनद्विजस्य गगनक्रोडैकदंष्ट्राङ्कर-</l>
  <l>स्तारामौक्तिक शुक्तिरन्धतमसस्तम्बेरमस्याङ्कुशः ।</l>
  <l>शृङ्गारार्गलकुञ्चिका विरहिणीमर्मच्छिदा कर्तरी</l>
  <l>संध्यावारवधून खक्षतिरियं चान्द्री कला जृम्भते ॥ ९ ॥</l>
</lg>
<p>कस्यापि ।
3630</p>
<p>त्रिनयनजटावल्लीपुष्पं निशावदनस्मितं
ग्रहकिसलयं संध्यानारीनितम्बनखक्षतम् ।</p>
<pb n="555" />
<p>शार्ङ्गधरपद्धतिः
तिमिरभिदुरं व्योम्नः श्रृद्धं मनोभवकार्मुकं
प्रतिपदि नवस्येन्दोर्विस्त्रं सुखोदयमस्तु नः ॥ १० ॥
फल्गुहस्तिन्याः ।
3631
स्वैरं कैरवकोरकान्विदलयन्यूनां मनो दोलय-
न्नम्भोजानेि निमीलयन्मृगदृशां मानं समुन्मूलयन् 1
ज्योत्स्नां कन्दलयन्दिशो धवलयन्नम्भोधिमुद्देल्लय-
न्कोकानाकुलयंस्तमः कवलयन्निन्दुः समुज्जृम्भते ॥११॥
कस्यापि ।
3632</p>
<lg>
  <l>एष स्वर्गतरंगिणीजलमिलद्दिग्दन्तिदन्तद्युति-</l>
  <l>भ्रंश्यद्राजतकुम्भविभ्रमधरः शीतांशुरभ्युद्यतः ।</l>
  <l>हंसीयत्यमलाम्बुजीयति लसड्डिण्डीरपिण्डीयात</l>
  <l>स्फारस्फाटिककुण्डलीयति दिशामानन्दकन्दीयति ॥१२॥</l>
</lg>
<p>शङ्खधरस्य ।
3633</p>
<lg>
  <l>पुरंदरहरिहरीकुहरगर्भसुप्तोत्थित-</l>
  <l>स्तुषारकरकेसरी गगनकाननं गाहते ।</l>
  <l>मयूखनखर त्रुट त्तिमिरकुम्भिकुम्भस्थलो-</l>
  <l>च्छलत्तरलतार काकपटकीर्णमुक्तागण: ॥ १३ ॥</l>
</lg>
<p>कस्यापि ।
3634</p>
<lg>
  <l>उपोढरागेण विलोलतारकं</l>
  <l>तथा गृहीतं शशिना निशामुखम् ।</l>
  <l>यथा समस्तं तिमिरांशुकं तया</l>
  <l>पुरोपि रागाद्गलितं न लक्षितम् ॥ १४ ॥</l>
</lg>
<p>पाणिनेः ।
3635
अन्धकारगरलं यतो जग-
VAL
न्मोहकारि भृशमत्ति नित्यशः ।</p>
<pb n="556" />
<p>चन्द्रोदयवर्णनम्
उज्ज्वलं जठरमोषधीपते-
रञ्जनाभमभवत्ततः प्रिये ॥ १५ ॥
कस्यापि ।
3636</p>
<lg>
  <l>अद्यापि स्तनशैलदुर्गविषमे किं मानिनीनां हृदि</l>
  <l>स्थातुं वाञ्छति मान एष झगिति क्रोधादिवालोहितः ।</l>
  <l>उद्यन्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा-</l>
  <l>त्फुल्लत्कैरव कोष निःसरदालश्रेणीकृपाणं शशी ॥ १६ ॥</l>
</lg>
<p>कस्यापि ।
3637</p>
<lg>
  <l>इन्दोरेककलाया रुद्रेणोद्धृत्य मूर्धनि विधृतायाः ।</l>
  <l>स्थानमिव तुच्छमेतत्कलङ्करूपेण परिणमति ॥ १७ ॥</l>
</lg>
<p>3638</p>
<lg>
  <l>सद्यः पाटित केतकोदरदलश्रेणीश्रियं बिभ्रती</l>
  <l>येयं मौक्तिकदामगुम्फनविधौ योग्यच्छविः प्रागभूत् ।</l>
  <l>उन्मेया कलशीभिरञ्जलिपुटैर्माह्या मृणालाङ्कुरैः</l>
  <l>पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥१८॥</l>
</lg>
<p>कस्यापि ।
3639</p>
<lg>
  <l>एतत्तर्कय कैरवक्रमहरे शृङ्गारदीक्षागुरौ</l>
  <l>दिक्कान्तामुकुरे चकोर सुहृदि प्रौढे तुषारत्विषि ।</l>
  <l>कर्पूरैः किमपूरि किं मलयजैरालेपि किं पाग्दै -</l>
  <l>रक्षालि स्फटिकोपलैः किमघाट द्यावापृथिव्योर्वपुः ॥१९॥</l>
</lg>
<p>कस्यापि ।
3640</p>
<lg>
  <l>कपोले मार्जारी पय इति कराँल्लेटि शशिन-</l>
  <l>स्तरुच्छिद्र प्रोतान्बिसमिति करी संकलयति ।</l>
  <l>रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति</l>
  <l>प्रभामत्तश्चन्द्रो जगदिदमहो विप्लवयति ॥ २० ॥</l>
</lg>
<p>भासस्य ।</p>
<pb n="557" />
<p>शार्ङ्गधरपद्धतिः
3641</p>
<lg>
  <l>कैलासायितमद्रिभिर्विटपिभिः श्वेतातपत्रायितं</l>
  <l>मृत्पन्न दधीयितं जलनिधौ दुग्धायितं वारिभिः ।</l>
  <l>मुक्ताहारलतायितं व्रततिभिः शङ्कायितं श्रीफलैः</l>
  <l>श्वेतद्वीपजनायितं जनपदैजीते शशाङ्कोदये ॥ २१ ॥</l>
</lg>
<p>त्रिविक्रमभहस्य ।
3642</p>
<lg>
  <l>मल्लिकामालभारिण्यः सर्वाङ्गीणाईचन्दनाः ।</l>
  <l>क्षौमवत्यो न लक्ष्यन्ते ज्योत्क्षायामभिसारिकाः ॥ २२ ॥</l>
</lg>
<p>इण्डिकवेः ।
3643</p>
<lg>
  <l>कुमुदेष्वधिकं भान्ति पतिताश्चन्द्ररश्मयः ।</l>
  <l>अतिप्रकृष्टशीलेषु कुलेष्विव समृद्धयः ॥ २२ ॥</l>
</lg>
<p>3644</p>
<lg>
  <l>लक्ष्मी क्रीडातडागो रतिधवलगृहं दर्पणो दिग्वधूनां</l>
  <l>पुष्पं श्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम् ।</l>
  <l>पिण्डीभूतं हरस्य स्मितममर सरित्पुण्डरीकं मृगाङ्को</l>
  <l>ज्योत्स्नापीयूषवापी जयति सितवृषस्तारकागोकुलस्य ॥२४॥</l>
</lg>
<p>कालिदासस्य ।
3645
मानिनीजनविलोचनपाता-
कस्यापि ।
नुष्णबाष्पकलुषान्प्रतिगृह्णन् ।
मन्दमन्दमुदितः प्रययौ खं
भीतभीत इव शीतमयूखः ॥ २५ ॥
भारवेः ।
3646</p>
<lg>
  <l>ख्याता वयं समधुपा मधुकोषवत्य-</l>
  <l>श्चन्द्रः प्रसारितकरो द्विजराज एषः ।</l>
  <l>अस्मत्समागमकृतोस्य पुनद्वितीयो</l>
  <l>मा भूत्कलङ्क इति संकुचिता नलिन्यः ॥ २६ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="558" />
<p>पानगोष्ठीवर्णनम्
अथ पानगोष्ठीवर्णनम् ॥ १२२ ॥
3647</p>
<lg>
  <l>दृश्यते पानगोष्ठीषु कान्तावक्रगतं मधु ।</l>
  <l>स्मरं सहायमासाद्य प्रस्तो राहुरिवेन्दुना ॥ १ ॥</l>
</lg>
<p>क्षेमन्द्रस्य ।
3648
पीतस्तुषार</p>
<lg>
  <l>किरणो मधुनैव सार्थ-</l>
  <l>मन्तः प्रविश्य चषकप्रतिबिम्बवर्ती ।</l>
  <l>मानान्धकारमपि मानवतीजनस्य</l>
  <l>नूनं बिभेद यदसौ प्रससाद सद्यः ॥ २ ॥</l>
</lg>
<p>रत्नाकरस्य ।
3649</p>
<lg>
  <l>प्राप्यते गुणवतापि गुणानां</l>
  <l>व्यक्तमाश्रयवशेन विशेषः ।</l>
  <l>तत्तथा हि दयिताननदत्तं</l>
  <l>व्यानशे मधु रसातिशयेन ॥ ३ ॥</l>
</lg>
<p>भारवे: ।
3650</p>
<lg>
  <l>सागसि प्रियतमे कृतकोपा</l>
  <l>याङ्गियुग्मपतितेपि न तुष्टा ।</l>
  <l>सैव मद्यपरिलुप्तविवेका</l>
  <l>तं तथैव परितोषयति स्म ॥ ४ ॥</l>
</lg>
<p>नग्नजितः ।
3651</p>
<lg>
  <l>पिपि प्रिय सस स्वयं मुमु मुखासवं देहि मे</l>
  <l>तत त्यज दुदु द्रुतं भभभ भाजनं काञ्चनम् ।</l>
  <l>इति स्खलितजल्पितं मदवशात्कुरङ्गीवृशः</l>
  <l>प्रगे हसित हेतवे सहचरीमिरध्येयत ॥ ५॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="559" />
<p>शार्ङ्गधरपद्धति:
3652</p>
<lg>
  <l>हावहारि हसितं वचनानां</l>
  <l>कौशलं दृशि विकारविशेषः ।</l>
  <l>चक्रिरे भृशमजोरपि वध्वाः</l>
  <l>कामिनेव तरुणेन मदेन ॥ ६ ॥</l>
</lg>
<p>माघकवेः ।
3653</p>
<lg>
  <l>मूर्तिमन्तमपि रागरसौघं</l>
  <l>ते परस्परसमर्पितवक्त्राः ।</l>
  <l>अङ्गनासवमिषेण तदानी-</l>
  <l>मक्षिपन्त हृदयेषु युवानः ॥ ७ ॥</l>
</lg>
<lg>
  <l>जयमाधवस्य ।</l>
  <l>अथ चाटुद्यूतक्रीडासुरतप्रशंसाः ॥ १२२ ॥</l>
</lg>
<p>3654</p>
<lg>
  <l>मुग्धे धानुष्कता केयमपूर्वा तव दृश्यते ।</l>
  <l>यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
3655</p>
<lg>
  <l>कृष्णार्जुनानुरक्तापि दृष्टि: कर्णावलम्बिनी ।</l>
  <l>याति विश्वसनीयत्वं कस्य ते कलभाषिणि ॥ २ ॥</l>
</lg>
<p>दण्डिकवेः ।
3656</p>
<lg>
  <l>स्मितपुष्पोद्गमोयं ते दृश्यतेधरपलवे ।</l>
  <l>फलं तु जातं मुग्धाक्षि चक्षुषोर्मम पश्यतः ॥ ३ ॥</l>
</lg>
<p>श्रीहर्षस्य ।
3657</p>
<lg>
  <l>दासे कृतागसि भवेदुचितः प्रभूणां</l>
  <l>पादप्रहार इति मानिनि नास्मि दूये ।</l>
  <l>उद्यत्कठोरपुलकाङ्कित कण्टका ग्रै-</l>
  <l>र्यद्भिद्यते तव पदं ननु सा व्यथा मे ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="560" />
<p>चाटुद्यूतक्रीडासुरतप्रशंसाः
3658</p>
<lg>
  <l>बन्धूकद्युतिबान्धवोयमधरः स्निग्धा मधूकच्छवि-</l>
  <l>र्गण्डे चण्डि चकास्ति नीलनलिन श्रीमोचनं लोचनम् ।</l>
  <l>नासान्वेति तिलप्रसूनपदवीं कुन्दाभदन्ति प्रिये</l>
  <l>प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ ५ ॥</l>
</lg>
<p>जयदेवस्य ।
3659</p>
<lg>
  <l>तरंगय दृशोङ्गने रचय वन्ध्यामेन्दीवरं</l>
  <l>क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिमा ।</l>
  <l>स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतता -</l>
  <l>मुदञ्चय मुखं मनाग्भवतु लज्जितश्चन्द्रमाः ॥ ६ ॥</l>
</lg>
<p>राजशेखरस्य ।
3660</p>
<lg>
  <l>यत्पद्ममादित्सु तवाननीयां</l>
  <l>कुरङ्गलक्ष्मा च मृगाक्षि लक्ष्मीम् ।</l>
  <l>एकार्थलिप्साकृत एव मन्ये</l>
  <l>शशाङ्कपङ्केरुहयोर्विरोधः ॥ ७ ॥</l>
</lg>
<p>श्रीहर्षस्य ।
अथ द्यूतक्रीडा ।
3661</p>
<lg>
  <l>आश्लेष चुम्बनरतोत्सवभूषणादि-</l>
  <l>क्रीडा दुरोदरपण: प्रतिभूरनङ्गः ।</l>
  <l>भोगः स यद्यपि जये च पराजये च</l>
  <l>यूनोर्मनस्तदपि वाञ्छति जेतुमेव ॥ ८ ॥</l>
</lg>
<p>मुरारेः ।
3662</p>
<lg>
  <l>अद्य द्यूतजिताघरग्रहविधावीशोसि तत्खण्डना-</l>
  <l>दाधिक्ये वद को भवानिति मृषाकोपाञ्चितभ्रूलता ।</l>
  <l>सद्यःस्विन्नकरायकुन्तलपरायत्तीकृतास्यस्य मे</l>
  <l>मुग्धाक्षी प्रतिकृत्य तत्कृतवती द्यूतेपि यन्नार्जितम् ॥ ९ ॥</l>
</lg>
<p>गोपावित्यस्य ।</p>
<pb n="561" />
<p>शार्ङ्गधरपद्धतिः
3663</p>
<lg>
  <l>गाढालिङ्गनपूर्वमेकमनया द्यूते जिते चुम्बनं</l>
  <l>तत्किंचित्परिरभ्य दत्तममुना प्रत्यर्पितं चानया ।</l>
  <l>नैतत्तादृगिदं न तादृशमिति प्रत्यर्पणपक्रमै-</l>
  <l>यूनोभुवनमेकमेव बहुधा रात्रिर्गता तन्वतोः ॥ १० ॥</l>
</lg>
<p>उड्डीयकवेः ।
.
3664</p>
<lg>
  <l>आश्लेषे प्रथम क्रमेण विजिते हृद्येधरस्यार्पणे</l>
  <l>नर्मद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति ।</l>
  <l>अन्तर्हासनिरोधसंभृतरसोद्भेदस्फुरद्गण्डया</l>
  <l>स्त्रैरं सारिविसारणाय निहितः स्वेदाम्बुगर्भः करः ॥११॥</l>
</lg>
<p>अथ सुरतप्रशंसा ।
3665</p>
<lg>
  <l>मुरते च समाधौ च मनो यत्र न लीयते ।</l>
  <l>ध्यानेनापि हि किं तेन किं तेन सुरतेन वा ॥ १२ ॥</l>
</lg>
<p>कस्यापि ।
3666</p>
<lg>
  <l>यत्र न मदनविकारः सद्भावसमर्पणं च गात्राणाम् ।</l>
  <l>तस्मिन्नुद्धतभावे पशुकर्मणि पशव एव रज्यन्ते ॥ १३ ॥</l>
</lg>
<p>3667</p>
<lg>
  <l>प्रतिक्षणसमुह सनवकलाकलापान्वितं</l>
  <l>क्षपाकरविलोकने यदि तवास्ति कौतूहलम् ।</l>
  <l>विलोकय तदा सखे सुरतसंगरासूत्रण-</l>
  <l>प्रहृष्टदयितामुखं निबिडकञ्चुकोत्तारणे ॥ १४ ॥</l>
</lg>
<p>भट्टसोमेश्वरस्य ।
3668
संदष्टेधरपल्लवे सचकितं हस्ताग्रमाधुन्वती
मा मा मुच राति कोपवचनैरानतितकूलता ।</p>
<pb n="562" />
<p>नववधूसंगमः
सीत्काराञ्चितलोचना सरभसं यैथुम्बिता मानिनी
प्राप्तं तैरमृतं श्रमाय मथितो मूँढैः सुरैः सागरः ॥ १५ ॥
अमरुकस्यैतौ
ॐ अथ नववधूसंगमः ॥ १२३ ॥
3669</p>
<lg>
  <l>रक्षामालिकया बाले बद्धया किं प्रयोजनम् ।</l>
  <l>अवश्यंभाविनावेतौ कुचमहकमही ॥ १ ॥</l>
</lg>
<p>कस्यापि ।</p>
<p>3670</p>
<lg>
  <l>नीरन्ध्रं परिरभ्यते प्रियतमो भूयस्तरां चुम्ब्यते</l>
  <l>तद्वढं क्रियते यदस्य रुदितं चाटूत्करैः स्तूयते ।</l>
  <l>संख्या मुग्धवधूरसौ रतविधौ यत्नेन सा शिक्षिता</l>
  <l>निर्भ्रान्तं गुरुणा पुनः शतगुणं पञ्चेषुणा कारिता ॥ २ ॥</l>
</lg>
<p>रुद्रस्य ।
3671</p>
<lg>
  <l>बाला तन्वी मृदुतनुरिति त्यज्यतामत्र शङ्का</l>
  <l>दृष्टा काचिड्रमरभरतो मञ्जरी मज्यमाना ।</l>
  <l>तस्मादेषा रहसि भवता निर्दयं पीडनीया</l>
  <l>मन्दाक्रान्ता विसृजति रसं नेक्षुयष्टिः समग्रम् ॥ ३ ॥</l>
</lg>
<p>विकटनितम्बायाः ।
अथ नववधूसुरतारम्भ क्रीडा ।
3672</p>
<lg>
  <l>दृष्टा दृष्टिमधो ददाति कुरुते नालापमाभाषिता</l>
  <l>शय्यायां परिवृत्य तिष्ठति बलादालिङ्गिता वेपते ।</l>
  <l>निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते</l>
  <l>बाला वागतया प्रियस्य नितरां प्रीत्यै नवोढाभवत् ॥ ४ ॥</l>
</lg>
<p>श्रीहर्षस्य ।</p>
<pb n="563" />
<p>शार्ङ्गधरपद्धतिः
3673
-
पटालने पत्यौ नमयति मुखं जातविनया
हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम्
न शक्नोव्याख्यातुं स्मितमुखसखीदत्तनयना
हिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥ ५॥
अमरुकस्य ।
3674</p>
<lg>
  <l>अंसाकृष्टदुकूलया सरभसं गूढी भुजाभ्यां स्तना-</l>
  <l>वाकृष्टे जघनांशुके कृतमध: संसक्तमूरुद्वयम् ।</l>
  <l>नामी मूल निबद्धचक्षुषि तथा न्रीडानताया प्रिये</l>
  <l>दीपः फूत्कृतिवातवे पितारीखः कर्णोत्पलेनाहतः ॥ ६ ॥</l>
</lg>
<p>कर्णोत्पलस्य ।
3675</p>
<lg>
  <l>विरम नाथ विमुञ्च ममाञ्चलं</l>
  <l>शमय दीपमिमं समया सखीम् ।</l>
  <l>इति नवोढवधूवचनैर्युवा</l>
  <l>मुदमगादधिकं सुरतादपि ॥ ७ ॥</l>
</lg>
<p>रुद्रस्य ।
3676</p>
<lg>
  <l>चम्बनेषु परिवर्तिताधरं</l>
  <l>हस्तरोधि रसनाविघट्टने ।</l>
  <l>विनितेच्छमपि तस्य सर्वतो</l>
  <l>मन्मथेन्धनमभूइधूरतम् ॥ ८ ॥</l>
</lg>
<p>॥८॥
कालिदासस्य ।
3677</p>
<lg>
  <l>समाकृष्टं वासः कथमपि हठात्पश्यति तदा</l>
  <l>क्रमादूरुइन्ई जरठशरगौरं मृगदृशः ।</l>
  <l>तया दृष्टिं दत्वा महति मणिदीपे निपुणया</l>
  <l>निरुद्धं हस्ताभ्यां झगिति निजनेत्रोत्पलयुगम् ॥ ९ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="564" />
<p>सुरतकेलिकथनम्
3678</p>
<lg>
  <l>बलान्नीता पार्श्व मुखमभिमुखं नैव कुरुते</l>
  <l>धुनाना मूर्धानं हरति बहुशत्रुम्बनविधिम् ।</l>
  <l>हृदि न्यस्तं हस्तं क्षिपति गमनारोपितमना</l>
  <l>नवोढा वोढारं सुखयति च संतापयति च ॥ १० ॥</l>
</lg>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ सुरतकेलिकथनम् ॥ १२४ ॥</l>
</lg>
<p>3679</p>
<lg>
  <l>आस्तां दूरेण विश्लेषः प्रियामालिङ्गतो मम ।</l>
  <l>स्वेदः किं नु सरिन्नाथो रोमाञ्चः किं नु पर्वतः ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
3680</p>
<lg>
  <l>आयाते दयिते मनोरथशतैनाते कथंचिद्दिने</l>
  <l>वैदग्ध्यापगमाज्जडे परिजने दीर्घं कथां कुर्वति ।</l>
  <l>दष्टास्मीत्यभिधाय सत्वरतरं व्याधूय चीनांशुकं</l>
  <l>तन्वा रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥ २ ॥</l>
</lg>
<p>अद्भुतपुण्यस्य ।</p>
<p>3681</p>
<lg>
  <l>भजन्त्या स्तल्पान्तं कृतकपटकण्डूति पिहित-</l>
  <l>स्मिते जाते गेहाद्वहिरवहिताली परिजने ।</l>
  <l>प्रियास्यं पश्यन्त्याः स्मरशरसमाकूतसुभगं</l>
  <l>सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः ॥ ३ ॥</l>
</lg>
<p>जयदेवस्य ।
3682</p>
<p>चिरविरहिणोरत्युत्कण्ठालथी कृतगात्रयो-
र्नवंभिव जगज्जातं भूयश्चिरादभिनन्दतोः ।
कथमपि दिने दीर्घे याते निशामधिरूढयोः
**
प्रसरति कथा बही यूनोर्यथा न तथा रतिः ॥ ४ ॥</p>
<pb n="565" />
<p>शार्ङ्गधरपद्धतिः
3683</p>
<lg>
  <l>गाढालिङ्गनवामनी कृतकुचप्रोद्भूतरोमोगमा</l>
  <l>सान्द्रस्नेहरसातिरेकविगलच्छ्रीमनितम्बाम्बरा ।</l>
  <l>मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी</l>
  <l>सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥ ५॥</l>
</lg>
<p>अमरुकस्यैतौ ।
3684</p>
<lg>
  <l>दृशा सपदि मीलितं दशनरोचिषा निर्गतं</l>
  <l>करेण परिवेपितं वलयकैरथाक्रन्दितम् ।</l>
  <l>प्रियैः समयोषितां तनुविखण्यमानेधरे</l>
  <l>परव्यसनकातराः किमिव कुर्वतां साधवः ॥ ६ ॥</l>
</lg>
<p>कस्यापि ।
3685</p>
<lg>
  <l>धमिलो भङ्गमेतु प्रविशंतु तिलक: केशपाशान्धकारं</l>
  <l>पत्राली गण्डपालीं त्यजतु च विवरं कर्णयोर्गन्तुकामा ।</l>
  <l>वामायाः कान्तदन्तक्षतततिसहने त्वेक. एवाधरोसौ</l>
  <l>वीरः कामाहवेस्मिन्निति वदति मुहुर्नपुरः काणभङ्गया ॥७॥</l>
</lg>
<p>भानुपण्डितस्य ।
3686</p>
<lg>
  <l>दोय संयमितः पयोधरभरेणापीडितः पाणिजै-</l>
  <l>राविद्धो दशनैः क्षताधरपुटः श्रोणीतले नाहतः ।</l>
  <l>हस्तेनानमितः करेधरसुधास्यन्देन संमोहितः</l>
  <l>कान्तः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः ॥८॥</l>
</lg>
<p>3687
ईषन्मीलितदृष्टिमुग्धहसितं सीत्कारधारावशा-</p>
<lg>
  <l>दव्यक्ताकुल</l>
  <l>केलिका कुविकसहन्तांशुधौताधरम् ।</l>
  <l>श्वासोत्कम्पिपयोधरोपरिपरिष्वक्तं कुरङ्गीदृशी</l>
  <l>हर्षोत्कर्षविमुक्त निःसहतनोर्धन्यो धयत्याननम् ॥ ९ ॥</l>
</lg>
<p>जयदेवस्यैती ।</p>
<pb n="566" />
<p>सुरतकलिकथनम्
3688</p>
<lg>
  <l>रतिरभसनितान्तश्रान्तकान्ताकुचान्त-</l>
  <l>श्वलदमलकराम्रा नाभिदेशेष्वधो वा ।</l>
  <l>स्मितमधुरमुखीनां होणनेत्रोत्पलाना-</l>
  <l>मधरमधु वधूनां भाग्यवन्तः पिबन्ति ॥ १० ॥</l>
</lg>
<p>3689</p>
<lg>
  <l>चारुनूपुररणत्कृतं रते</l>
  <l>कामिनां हरति मानसं यथा ।</l>
  <l>नो तथा मधुर गीतवादितं</l>
  <l>केकिचात कपिकस्वना अपि ॥ ११ ॥</l>
</lg>
<p>शार्ङ्गधरस्यैतौ ।
3690</p>
<lg>
  <l>नैषा वेगं मृदुतरतनुस्ता वकीनं विसोढुं</l>
  <l>शस्ता नैनां चपल नितरां खेदयेन्दीवराक्षीम् ।</l>
  <l>रत्यध्यासं विदधत इति प्राणनाथस्य गत्वा</l>
  <l>कर्णोपान्ते निभृतनिभृतं नूपुरं शंसतीव ॥ १२ ॥</l>
</lg>
<p>मूर्तस्य ।
3691</p>
<lg>
  <l>स्वामिन्प्रभो प्रिय गृहाण परिष्वजस्व</l>
  <l>किं किं शठोस्यकरुणोसि सुखोज्झितोसि ।</l>
  <l>हा दुःखयस्यलमलं विरमेति वाचः</l>
  <l>स्त्रीणां भवन्ति सुरते प्रणयानुकूलाः ॥ १३ ॥</l>
</lg>
<p>कुमारंभहस्य ।
3692
स्विनं मण्डलमैन्दवं विगलितं सग्भारद्धं तमः
प्रागेव प्रथमानकेतकशिखावीरायित्तं च स्थितम् ॥
शान्तं कुण्डलताण्डवं कुवलयद्वन्द्वं तिरो मीलितं
वीतं विद्रुमसीत्कृतं नहि ततो जाने किमासीदिति ॥ १४ ॥
कस्यापि ।</p>
<pb n="567" />
<p>शार्ङ्गधरपद्धतिः
3693</p>
<lg>
  <l>मत्तेभकुम्भपरिणाहिनि कुङ्कुमा</l>
  <l>कान्तापयोधरयुगे रतखेदखिनः ।</l>
  <l>वक्षो निधाय भुजपञ्जरमध्यवर्ती</l>
  <l>धन्यः क्षपाँ क्षपयति क्षणलब्धनिद्रः ॥ १५ ॥</l>
</lg>
<lg>
  <l>भर्तृहरेः ।</l>
  <l>अथ विपरीतरतम् ॥ १२५ ॥</l>
</lg>
<p>3694</p>
<lg>
  <l>तन्नास्ति कारयति यन मनोभवस्य</l>
  <l>सा शक्तिरप्रतिहता भुवने तथाहि ।</l>
  <l>उद्घाटच पीवर पयोधरमण्डलायं</l>
  <l>वल्गन्ति पत्युरुपरि प्रमदा अपीह ॥ १ ॥</l>
</lg>
<p>शशिवर्धनस्य ।
3695</p>
<lg>
  <l>पततु तवोरसि सततं दयिताधम्मिल्लमल्लिकानिकरः ।</l>
  <l>रतरसरभ सक त्रग्रहलुलितालकवल्लरीगलितः ॥ २ ॥</l>
</lg>
<p>बाणभवृस्य ।
3696</p>
<lg>
  <l>प्रशान्ते नूपुरारावे श्रूयते मेखलाध्वनिः ।</l>
  <l>कान्ते नूनं रतभान्ते कामिनी पुरुषायते ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
3697</p>
<lg>
  <l>प्रारब्धे रतिकेलिसंकुलरणारम्भे तथा साहस-</l>
  <l>प्रायं कान्तजयाय किंचिदुपरि प्रारम्भि तत्संभ्रमात् ।</l>
  <l>खिन्ना येन कटीतटी शिथिंलिता दोर्वल्लिरुत्कम्पितं</l>
  <l>वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥४॥</l>
</lg>
<p>जयदेवस्य ।
3698
वल्गत्कुचं व्याकुलकेशपाशं
स्विद्यन्मुखं स्वीकृत
मन्दहासम् ।</p>
<pb n="568" />
<p>36
सुरतनिवृत्तिः
पुण्यातिरेकात्पुरुषा लभन्ते
पुंभावमम्भोरुहलोचनानाम् ॥ ५ ॥
कस्यापि ।
3699</p>
<lg>
  <l>मुग्धे तवास्मि दयिता पुरुषो भव त्व-</l>
  <l>मित्युक्तया नहि नहीति शिरो विधूय ।</l>
  <l>स्वस्मात्करात्प्रियकरे वलयं क्षिपन्त्या</l>
  <l>वाचं विनाभ्युपगमः कथितो मृगाक्ष्या ॥ ६ ॥</l>
</lg>
<p>कस्यापि ।
3700</p>
<lg>
  <l>कचित्ताम्बूलाक्तः कचिदगरुपङ्काङ्कमलिनः</l>
  <l>कचिच्चूर्णोद्दारी कचिदपि च सालक्तकपदः ।</l>
  <l>वलीभङ्गा भोगैरलकपतितैः कीर्णकुसुमैः</l>
  <l>स्त्रिया : सर्वावस्थं कथयति रतं प्रच्छदपटः ॥ ७ ॥</l>
</lg>
<p>कस्यापि ।
3701</p>
<lg>
  <l>ईषत्कम्पपयोधरं गुरुकटीप्रौढप्रहाराद्भुतं</l>
  <l>स्त्रिद्यद्भालमनेकहास्यसरसं संकथ्यपादव्यथम् ।</l>
  <l>वारंवारमुरः प्रपातसुभगं संदश्यमानाधरं</l>
  <l>किंचिद्दत्तनितम्बदेशनखरं धन्यो रतं सेवते ॥ ८ ॥</l>
</lg>
<p>श्रीशिवदासदेवानाम् ।</p>
<p>3702</p>
<lg>
  <l>आलोलामलकावलीं सकुसुमां बिभ्रञ्चलत्कुण्डलं</l>
  <l>किंचिन्मृष्टविशेषकं तनुतरैः स्वेदाम्भसः सीकरैः ।</l>
  <l>तन्व्या यत्रतान्ततान्तनयनं वक्त्रं रतव्यत्यये</l>
  <l>तत्त्वां पातु चिराय किं हरिहरह्मादिभिदैवतैः ॥ ९ ॥</l>
</lg>
<lg>
  <l>अमरुकस्य ।</l>
  <l>अथ सुरतनिवृत्तिः ॥ १२६ ॥</l>
</lg>
<p>3703
शान्ते मन्मथसंगरे रणभूतां सत्कारमातन्वती
वासोदाज्जघनस्य पीनकुत्रयोहरं श्रुतेः कुण्डलम् ।</p>
<pb n="569" />
<p>शार्ङ्गधरपद्धतिः
बिम्बोष्टस्य च वीटिकां मुनयना पाण्यो रणत्कङ्कणं
पश्चाल्लम्बिाने केशपाशनिचये मुक्तो हि बन्धक्रमः ॥ १ ॥
कस्यापि ।
3704</p>
<lg>
  <l>व्यालोलः केशपाशस्तर लितमलकैः स्वेदलोलौ कपोलो</l>
  <l>क्लिटा बिम्बावरश्रीः कुचकलशरुचा हारिता हारयष्टिः ।</l>
  <l>काञ्ची कांचिद्द्वताशां स्तनजनपदं पाणिनाच्छाद</l>
  <l>भूषाहीनापि काचित्मियहृदयमहो प्रीणयत्येव मुग्धा ॥ २ ॥</l>
</lg>
<p>जयदेवस्य ।
3705</p>
<lg>
  <l>नेपथ्यादपि राजते हि नितरां व्यालुप्तभूषा तनुः</l>
  <l>संभोगश्रममीलितं विजयते चक्षुः कटाक्षादपि ।</l>
  <l>गाढालिङ्गनकौतुकादपि नवं दोर्त्रल्लिविस्रंसनं</l>
  <l>प्रीव्यालापरसादपि प्रियतमं मौनं कुरङ्गीदृशः ॥ ३ ॥</l>
</lg>
<p>हरिठरस्य ।
3706</p>
<lg>
  <l>करकिसलयं धृत्वा धृत्वा विमार्गति वाससी</l>
  <l>क्षिपति सुमनोमालाशेष प्रदीपशिखां प्रति ।</l>
  <l>स्थगयात मुहुः पत्युनेत्रे विहस्य समाकुला</l>
  <l>सुरतविरती रम्या तन्वी पुनः पतिमाश्रिता ॥ ४ ॥</l>
</lg>
<p>3707</p>
<lg>
  <l>सुरतविरतौ व्रीडावेशश्रमलथहस्तया</l>
  <l>रहसि गलितं तन्व्या प्राप्तुं न पारितमंशुकम् ।</l>
  <l>रतिरसजडैरङ्गैरङ्गं पिधातुम शक्तया</l>
  <l>•प्रियतमतनी सर्वाङ्गीणं प्रविष्टमवृष्टया ॥ ५॥</l>
</lg>
<p>अमरुकस्यैतौ ।
3708
प्रियशतपटस्तेयत्रीडाविडम्बनविद्द्लां
किमपि कृपणालापां वालां विलोक्य ससंभ्रमः ।</p>
<pb n="570" />
<p>निशीथ क्रीडनादिकम्
अपि विचलितस्कन्धावारे गते सुरताहवे
त्रिभुवनमहाधन्वी स्थाने न्यवर्तत मन्मथः ॥ ६॥
कस्यापि ।
3709</p>
<lg>
  <l>निर्वृत्ते सुरतोत्सत्रे बहुविधे जातेधिकङ्ग कमे</l>
  <l>तल्पे स्वेदनलार्द्र चन्दनमये किंचिद्रहीताम्बरे ।</l>
  <l>सान्द्रस्नेहवशाद्विशेषविषयव्यासङ्गा जेह्मात्मनो-</l>
  <l>दैपत्योः स्मरघस्मरातुरतया भूयोपि जाता स्पृहा ॥ ७ ॥</l>
</lg>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ निशीथक्रीडनादिकम् ॥ १२७ ॥</l>
</lg>
<p>3710</p>
<lg>
  <l>शमितानिखिलदीपे सुप्तनिद्रालुलोके</l>
  <l>रतपरवशचित्ता मध्यरात्रे विबुद्धाः ।</l>
  <l>प्रथमसुरतविनां मुग्धिकां बोधयन्तो</l>
  <l>बहुदृढपरिरम्भैः कामुकाः खेदयन्ति ॥ १ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
3711</p>
<lg>
  <l>वदनशशिनः स्पर्शे शीतादिवागतवेपथुः</l>
  <l>स्तनयुगलके भ्रान्त्वा तुङ्गे निविष्ट इव श्रमात् ।</l>
  <l>ज्वलितमदनाङ्गारे तन्व्यास्ततो जघनस्थले</l>
  <l>सपुलकजलः पत्युः पाणिर्विलीन इवाभवत् ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
3712</p>
<lg>
  <l>रतिकृति गते मायानिद्रां प्रवर्तितचुम्बना</l>
  <l>पुलकपयसा तत्त्वं मत्वा मुखादहतानना ।</l>
  <l>कृतकशयनो निग्राह्योसीत्युदीर्य कलं वधू-</l>
  <l>घेणितमधरं कृत्वा दन्तैरपूरयत स्पृहाम् ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="571" />
<p>शार्ङ्गधरपद्धतिः
अथ प्रणयकलहे नायिकानुनयः ।
3713</p>
<lg>
  <l>गतप्राया रात्रि: शशिमुखि शशी शीर्यत इव</l>
  <l>प्रदीपोयं निद्रावशमुपगतो घूर्णत इव ।</l>
  <l>प्रणामान्तो मानस्तदपि न जहासि क्रुधमहो</l>
  <l>कुचप्रत्यासच्या हृदयमपि ते चण्डि कठिनम् ॥ ४ ॥</l>
</lg>
<p>3714</p>
<lg>
  <l>क्षीणांशुः शशलाञ्छनः शशिमुखि क्षीणो न मानस्तव</l>
  <l>स्मेरं पद्मवनं मनागपि न ते स्मेरं मुखाम्भोरुहम् ।</l>
  <l>पीतं श्रोत्रपुटेन पदरुतं पीतं न ते जल्पितं</l>
  <l>रक्ता शऋदिगङ्गना रविकरैर्नाद्यापि रक्तासि किम् ॥ ५ ॥</l>
</lg>
<p>कयोरप्येतौ ।
3715</p>
<lg>
  <l>एकस्मिञ्छने परामुखतया वीतोत्तरं ताम्यतो-</l>
  <l>रन्योन्यं हृदयस्थितेप्यनुनये संरक्षतोर्गौरवम् ।</l>
  <l>दंपत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषो</l>
  <l>•र्भनो मानकलिः सहासरभसं कण्ठहोनुष्ठितः ॥ ६ ॥</l>
</lg>
<p>अमरुकस्य ।
3716
कृत्वा विग्रहमश्रुपातकलुषं शय्यासनादुत्थि
क्रोधाच्चापि विहाय गर्भभवनद्वारं रुषा प्रस्थिता ।
दृष्ट्वा चन्द्रमसं प्रभाविरहितं प्रत्यूषवाताहता
हा रात्रिस्त्वरिता गतेति पतिता कान्ता प्रियस्योरसि ॥ ७ //</p>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ प्रभातवर्णनम् ॥ १२८ ॥</l>
</lg>
<p>3717
अभूत्याची पिड़ा रसपतिरिव प्राश्य कनकं
गतच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि ।</p>
<pb n="572" />
<p>प्रभातवर्णनम्
क्षण क्षीणास्तारा नृपतय इवानुद्यमपरा
न दीपा राजन्ते द्रविणरहिताना मित्र गुणाः ॥ १ ॥
3718
विरलविरलीभूतास्ताराः कलौ सुजना इव
व्यपसरति च ध्वान्तं चित्तात्सतामिव दुर्जनः ।
मन इत्र मुनेः सर्वत्रापि प्रसन्नमभून्नभो
विगलति निशा क्षिप्रं लक्ष्मीरनुद्यमिनामित्र ।॥ २ ॥
एतौ भोजराजकविवर्गस्य ।
3719
व्रजत्यपरवारिधि रजतपिण्डपाण्डुः शशी
नमन्ति जलबुद्बुदद्युतिसपङ्गयस्तारकाः ]
कुरण्टकविपाण्डुरं दधति धाम दीपाङ्कुरा-
चकोरनयनारुणा भवति दिक्च सौत्रामणी ॥ ३ ॥
कस्यापि ।
3720</p>
<lg>
  <l>दिशि दिशि मृगयन्ते वल्हवा वत्समेते</l>
  <l>मुदुरपगतनिद्राः सप्तयो द्वेषितेन ।</l>
  <l>अयमपि च सरोषैः कामिभिः श्रयमाणो</l>
  <l>नदति मधुरतारं ताम्रचूडो विहंगः ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
3721</p>
<lg>
  <l>यः सैन्ये स्मरपार्थिवस्य विरहिप्रत्यर्थिनामग्रणी-</l>
  <l>ज्योत्स्ना निर्झर मुज्झति स्म जगतां यस्तापनिर्वापणम् ।</l>
  <l>सोयं तारकनायकः किमपरं शृङ्गारसंजीवनं</l>
  <l>जातः पृष्ठपरागपाण्डुरजरत्कूष्माण्डपिण्डाकृतिः ॥ ५॥</l>
</lg>
<p>3722
भिन्दानो मानिनीनां पतिषु रुपमयं हर्म्यपारावतेभ्यो
वाचालत्वं ददानः कवितृषु कविताप्रातिभं संदधानः ।</p>
<pb n="573" />
<p>शार्ङ्गधरपद्धतिः
प्रातस्त्यस्तूर्यनादः स्थगयति गगनं मांसल पांमुतल्पा-
दस्त्रल्पादुत्थितानां नरवरकरिणां शृङ्खलाशिञ्जितेन ॥६
कस्यापि ।
3723</p>
<lg>
  <l>अविरतमविरामा रागिणां सर्वरात्रं</l>
  <l>नवनिधुवनलीला: कौतुकेनाभिवीक्ष्य ।</l>
  <l>इदमुदवसितानामस्फुटालोकसंप-</l>
  <l>नयनमिव सनिद्रं घूर्णते दैपमार्चः ॥ ७ ॥</l>
</lg>
<p>3724</p>
<lg>
  <l>कुमुदवनमपनि श्रीमदम्भोजखण्डं</l>
  <l>त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः ।</l>
  <l>उदयमहिमरोर्चिर्याति शीतांशुरस्तं</l>
  <l>हतविधिललितानां ही विचित्रो विपाकः ॥ ८ ॥</l>
</lg>
<p>3725</p>
<lg>
  <l>लुलितनयनताराः क्षामवक्त्रेन्दुविम्बा</l>
  <l>रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः ।</l>
  <l>तिमिरमिव दधानाः स्रंसिनः केशपाशा-</l>
  <l>नवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ॥ ९ ॥</l>
</lg>
<p>माघकवेः ।
3726</p>
<lg>
  <l>ये कुण्ठीकृतवल्लभप्रणतयः शस्त्रैरनङ्गस्य ये</l>
  <l>न प्राप्ताञ्च निशीथिनीपतिकरैः शैथिल्यवीथीमपि ।</l>
  <l>ते निःशङ्कविटङ्कतालुतुमुलप्रोतप्लुतप्लावितै-</l>
  <l>विन्नाः कुक्कुटकूजितैमृगदृशां मानग्रहग्रन्थयः ॥ १० ॥</l>
</lg>
<p>बिल्हणस्य ।
3727
आये जग्मुषि ताम्रचूडरटिते श्रोत्रं प्रबुद्धा जवा-
त्किंचिह्नासवदिद्भुखं प्रविकसदृष्ट्वा गवाक्षाध्वना ।</p>
<pb n="574" />
<p>प्रभातवायुसूर्योदयवर्णनम्
संत्रासेन समीरिता प्रियतमप्रेरणावरुद्धा शनै-
रुत्थानोपनिवेशनानि कुरुते तल्पे मुहुः पांसुला ॥ ११ ॥
कस्यापि ।
3728
नियन्त्या रतिवेश्मनः परिणतप्रायां विलोक्य क्षपां</p>
<lg>
  <l>५५९</l>
  <l>गाढालिङ्गनचुम्बनानि बहुशः कृत्वाप्यसंतुष्टया ।</l>
  <l>एकं भूमितले निधाय चरणं तल्पे प्रकल्प्या परं</l>
  <l>तन्व्यङ्गया परिवर्तिताङ्गलतया प्रेयांश्चिरं चुम्बितः ॥ १२॥</l>
</lg>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ प्रभातवायुसूर्योदयवर्णनम् ॥ १२९ ॥</l>
</lg>
<p>3729</p>
<lg>
  <l>विकचकमलगन्धैरन्धयन्भूङ्गमालाः</l>
  <l>सुरभितमकरन्दं मन्दमावाति वायुः ।</l>
  <l>समदमदनमाद्यद्यौवनोद्दामरामा-</l>
  <l>रमण रभस खेदस्वेदविच्छेददक्षः ॥ १ ॥</l>
</lg>
<p>माघकवेः ।
3730</p>
<lg>
  <l>स्तनपरिसरभागे दूरमावर्तमाना:</l>
  <l>स्फुटतनमान मध्ये किंचिदेव स्खलन्तः ।</l>
  <l>वरलघुनितम्वाभोगरुद्धा वधूनां</l>
  <l>निधुवनर सखेदच्छेदिन: शीतवाताः ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
3731</p>
<lg>
  <l>प्रातः सीमन्तिनीनां निधुवनलुलितान्स्रंसयन्केशपाशा-</l>
  <l>नुन्मीलपङ्कजान्तः परिमलसुरभिः स्फारयन्कामलीलाः ।</l>
  <l>स्वच्छावश्यायविन्द्वन्दिशि दिशि विकिरन्स्थूलमुक्ताफलाभा-</l>
  <l>न्धूलीभिः केतकीनां धवलितभुवनो वाति मन्दं नभस्वान् ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="575" />
<p>शार्ङ्गधरपद्धतिः
3732</p>
<lg>
  <l>रामाणां रमणीयवक्रशशिनः स्वेदोपविन्दुप्लुतो</l>
  <l>व्यालोलालकमञ्जरीः प्रचलयन्धुन्वन्नितम्बांशुकम् ।</l>
  <l>प्रातर्वाति न चातिकृष्ट विकसद्राजीवराजीरज:-</l>
  <l>पुञ्जामोदमनोहरो रतिरसग्लानि हरन्मारुतः ॥ ४ ॥</l>
</lg>
<p>0
कस्यापि ।
अथ सूर्योदयवर्णनम् ।
3733</p>
<lg>
  <l>ततः कोकवधूवन्धुर्वन्धूककुसुमप्रभः ।</l>
  <l>उदयाद्रिशिरोरत्नमुद्ययौ तेजसां निधिः ॥ ५ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
3734</p>
<lg>
  <l>निजांशुकावृतां प्राचीं चुम्बत्यर्केतिरागिण ।</l>
  <l>लज्जयेव ययौ क्वापि श्यामा मीलितलोचना ॥ ६ ॥</l>
</lg>
<p>रघोः कविदर्पणस्य ।
3735</p>
<lg>
  <l>आगत्य संप्रति वियोगविसंस्थलाङ्गी-</l>
  <l>मम्भोजिनों कचिदपि क्षपितत्रियामः ।</l>
  <l>एतां प्रसादयति पश्य शनैः प्रभाते</l>
  <l>तन्वाङ्गे पादपतनेन सहस्ररश्मिः ॥ ७ ॥</l>
</lg>
<p>•
कस्यापि ।
3736</p>
<lg>
  <l>उन्निद्रकोकनदरेणुपिशङ्गिताङ्गा</l>
  <l>गायन्ति मत्तमधुपा गृहदीर्घिकास ।</l>
  <l>एतच्चकास्ति च रवेर्नवबन्धुजीव-</l>
  <l>पुष्पच्छदाभमुदयाचलचुम्बि विम्बम् ॥ ८ ॥</l>
</lg>
<p>3737
उदयति विततोवरविमरज्जा-
वहिमरुची हिमधानि याति चास्तम् ।</p>
<pb n="576" />
<p>संभोगाविष्करणम्
वहति गिरिरयं विलम्बिघण्टा-
द्वय परिवारितवारणेन्द्रलीलाम् ॥ ९ ॥
माघकवेः ।
3738
अयमुदयति मुद्राभञ्जनः पद्मिनीना.
मुदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुर
को कद्वन्द्वबन्धुर्विभिन्द-
न्कुपितकपिकपोलक्रोडतास्तमांसि ।॥ १० ॥</p>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ संभोगाविष्करणम् ॥ १३० ॥</l>
</lg>
<p>3739</p>
<lg>
  <l>चन्दनं स्तनतटेवरबिम्बे</l>
  <l>यावकं घनतरं च सपत्याः ।</l>
  <l>प्रातरीक्ष्य कुपितापि मृगाक्षी</l>
  <l>सागसि प्रियतमे परितुष्टा ॥ १ ॥</l>
</lg>
<p>3740
कस्यापि ।</p>
<lg>
  <l>लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले</l>
  <l>वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागः परः ।</l>
  <l>दृष्ट्वा कोपविधायि मण्डनमिदं प्रातविरं प्रेयसो</l>
  <l>लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥ २ ॥</l>
</lg>
<p>3741</p>
<lg>
  <l>यद्रात्रौ रहसि व्यपेतविनयं वृत्तं रसात्कामिनी-</l>
  <l>रन्योन्यं शयनीयमीहितरसावाप्तिप्रवृत्तस्पृहम् ।</l>
  <l>तत्सानन्दमिलद्दृशोः कथमपि स्मृत्वा गुरूणां पुरो</l>
  <l>हासोद्भेदनिरोधमन्थर मिलत्तारं कथंचित्स्थितम् ॥ ३ ॥</l>
</lg>
<p>अमरुकस्यैतौ !</p>
<pb n="577" />
<p>शार्ङ्गधरपद्धतिः
3742</p>
<lg>
  <l>बहु जगद पुरस्तात्तस्य मत्ता किलाह</l>
  <l>चकर च किल चाटु प्रौढयोषिइदस्य ।</l>
  <l>विदितमिति सखीभ्यो रात्रिवृत्तं विचिन्त्य</l>
  <l>व्यपगतमदयाह्नि त्रीडितं मुग्धवध्वा ॥ ४ ॥</l>
</lg>
<p>माघकवेः ।
3743</p>
<lg>
  <l>दंपत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वच-</l>
  <l>स्तत्प्रातगुरुसंनिधौ निगदतस्तस्यातिमात्रं वधूः ।</l>
  <l>कर्णालम्बितपद्मरागशकलं विन्यस्य चञ्चवाः पुढे</l>
  <l>व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ॥ ५॥</l>
</lg>
<p>कस्यापि ।
3744</p>
<lg>
  <l>दर्पणेषु परिभोगदर्शिनी</l>
  <l>पृष्ठतः प्रणयिनो निषेदुषः ।</l>
  <l>प्रेक्ष्य विम्बमनुबिम्बमात्मनः</l>
  <l>कानि कानि न चकार लज्जया ॥ ६ ॥</l>
</lg>
<p>3745</p>
<lg>
  <l>रतखिन्नतनुं प्रातर्लज्जानम्रमुखीं वधूम् ।</l>
  <l>स्मरन्तीं रात्रिचरितं दृष्ट्वानोति न को मुदम् ॥ ७ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
कालिदासस्य ।
3746</p>
<lg>
  <l>धन्यासि या कथयसि प्रियसंगमेपि</l>
  <l>नर्मोक्तिचाटुकशतानि रतान्तरेषु ।</l>
  <l>नीवीं प्रति प्रणिहिते तु करे प्रियेण</l>
  <l>सख्यः शपामि यदि किंचिदपि स्मरामि ॥ ८ ॥</l>
</lg>
<p>विज्ञकायाः ।
3747
कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धना-
हासो विश्लथमेखलागुणधृतं किंविनितम्बे स्थितम् ।</p>
<pb n="578" />
<p>सतीवर्णन
कुलवधूवृत्ते
एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः
कोयं का वयमत्र किं नु सुरतं स्वल्पापि मे न स्मृतिः॥१॥
अमरुकस्य ।
3748</p>
<lg>
  <l>धन्यास्ताः सखि योषितः प्रियतमे सर्वाङ्गलनेपि याः</l>
  <l>प्रागल्भ्यं रचयन्ति मन्मथविधावालम्ब्य धैर्य महत् ।</l>
  <l>अस्माकं तु तदीयपाणिमुकुलेनोन्मोचयन्त्यं शुकं</l>
  <l>कोयं का वयमत्र किं च सुरतं नैषा स्मृतिर्जायते ॥१०॥</l>
</lg>
<p>3749</p>
<lg>
  <l>किमपि कान्तभुजान्तरवर्तिनी</l>
  <l>कृतवती यदियं कलभाषिणी ।</l>
  <l>तदनुकृत्य गिरा गुरुसंनिधौ</l>
</lg>
<lg>
  <l>हियमनीयत सारिकया वधूः ॥ ११ ॥</l>
  <l>कस्यापि ।</l>
  <l>५६३</l>
  <l>अथ सतीवर्णनकुलवधूवृत्ते ॥ १३१ ॥</l>
</lg>
<p>3750</p>
<lg>
  <l>निर्व्याजा दयिते ननान्दृषु नता श्वश्रूषु भक्ता भव</l>
  <l>स्निग्धा बन्धुषु वत्सला परिजने स्मेरा सपत्नीष्वपि ।</l>
  <l>भर्तुमित्रजने सनर्मवचना खिन्ना च तरिषु</l>
  <l>प्रायः संवननं नतभ्रु तदिदं वीतौषधं भर्तृषु ॥ १ ॥</l>
</lg>
<p>राजशेखरस्य ।
3751</p>
<lg>
  <l>लानाम्भो बहु साविता रसवती देवाग्निकार्योचितः</l>
  <l>संभारो रचितो विशुद्धवसने कालोचिते योजिते ।</l>
  <l>स्नानं नाथ विधीयतामतिथयः सीदन्ति नान्या त्वरा</l>
  <l>धन्यं बोधयते शनैरिति पतिं मध्याह्नतं सती ॥ २ ॥</l>
</lg>
<p>पिकस्य ।</p>
<pb n="579" />
<p>शार्ङ्गधरपद्धतिः
3752</p>
<lg>
  <l>नातः परं कुलमतः परतो न शीलं</l>
  <l>नातः परं च करुणासदनं मृगाक्ष्याः ।</l>
  <l>यद्वाप्पविन्दुरपराधवतोपि पत्यु-</l>
  <l>रुत्सङ्गितेन चरणेन तयापनिन्ये ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
3753</p>
<lg>
  <l>दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोप्युत्सुकं</l>
  <l>गाढं प्रेम नवं वयोतिकटिना: प्राणाः कुलं निर्मलम् ।</l>
  <l>स्त्रीत्वं धैर्यविरोधि मन्मथमुहत्कालः कृतान्तोक्षमी</l>
  <l>सोढव्याः सखि सांप्रतं कथममी सर्वेनयो दुःसहाः ॥ ४ ॥</l>
</lg>
<p>मयूरसूनोः शङ्ककस्य ।
3754</p>
<lg>
  <l>अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं</l>
  <l>नो वक्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः ।</l>
  <l>किं त्वन्येपि जना वदन्ति सुभगो ह्यस्याः पतिर्नान्यतो</l>
  <l>दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥ ५ ॥</l>
</lg>
<p>रुद्रस्य ।
अथ कुलवधूवृत्तम् ।
3755</p>
<lg>
  <l>जीवति जीवति नाथे म्रियते च मृते मुदा युता मुदिते ।</l>
  <l>सहजस्नेहरसाला कुलवनिता केन तुल्या स्यात् ॥ ६ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
3756</p>
<lg>
  <l>भक्तिः प्रेयसि संश्रितेषु करुणा श्वश्रूषु नम्रं शिरः</l>
  <l>प्रीतिर्ज्ञातिषु गौरवं गुरुजने क्षान्तिः कृतागस्यपि ।</l>
  <l>अम्लाना कुलयोषितां व्रतविधिः सोयं विधेयः पुन-</l>
  <l>मद्भनुदयिता इति प्रियसखी बुद्धिः सपत्नीप्वपि ॥ ७ ॥</l>
</lg>
<p>बिल्हणस्य ।</p>
<pb n="580" />
<p>असतीचरितम्
3757</p>
<lg>
  <l>अभ्युत्थानमुपागते गृहपती तद्भाषणे नम्रता</l>
  <l>तत्पादार्पितदृष्टिरासनविधिस्तस्योपचर्या स्वयम् ।</l>
  <l>सुने तत्र शयीत तत्प्रथमतो जह्याच्च शय्यामिति</l>
  <l>प्राच्यैः पुत्रि निवेदितः कुलवधूसिद्धान्तधर्मागमः ॥ ८ ॥</l>
</lg>
<p>राजशेखरस्य ।
3758</p>
<lg>
  <l>चतुर्थेह्नि स्नातां त्रिदिनविरहात्पाण्डुवदनां</l>
  <l>रजोमुक्तां तन्वीं चपलनयनां कामकलिताम् ।</l>
  <l>हिमत्त्रार्जारीमलयभवगन्धप्रणयिनी-</l>
  <l>मधन्यः को सुते च्युतकुसुमशेषामित्र लताम् ॥ ९ ॥</l>
</lg>
<p>कस्यापि ।
3759</p>
<lg>
  <l>लज्जावशावनतमन्थरदृष्टिपातं</l>
  <l>यैश्चुम्बितं कुलवधूवदनारविन्दम् ।</l>
  <l>तेषामनेकपुरुषत्रणिताधरेषु</l>
  <l>तृप्तिः कथं भवति वेशवधूमुखेषु ॥ १० ॥</l>
</lg>
<p>कस्यापि ।</p>
<p>3760</p>
<lg>
  <l>प्रतिरजनि प्रतिदिवसं विहर बहिश्चण्डि डिण्डिमं दत्त्वा ।</l>
  <l>कोणवधूग्वलितैर्विश्वं पुनराकुलीभवति ॥ ११ ॥</l>
</lg>
<lg>
  <l>हरिहरस्य ।</l>
  <l>अथासतीचरितम् ॥ १३२ ॥</l>
</lg>
<p>3761</p>
<lg>
  <l>वयं बाल्ये बालांस्तरुणिमनि यूनः परिणता-</l>
  <l>वपीच्छामो वृद्धान्परिणयविधिस्तु स्थितिरिति ।</l>
  <l>त्वयारब्धं जन्म क्षपयितुमनेनैकपतिना</l>
  <l>न मे गोत्रे पुत्रि कचिदपि सतीलाञ्छनमभूत् ॥ १ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="581" />
<p>शार्ङ्गधरपद्धतिः
3762</p>
<lg>
  <l>मया कुमार्यापि न सुप्तमेकया</l>
  <l>न जारमुत्सृज्य पुमान्विलोकितः ।</l>
  <l>अनेन गोत्रस्थितिपालनेन</l>
  <l>प्रसन्नतामेतु भवोपकारिणी ॥ २ ॥</l>
</lg>
<p>बिल्हणस्य ।
3763</p>
<lg>
  <l>भ्रूभेदैः कतिचिद्गिरा कुटिलया काश्चित्कियत्यः स्मितैः</l>
  <l>स्वैरिण्यः कथयन्ति मन्मथरसव्यापारवश्यं मनः ।</l>
  <l>कासांचित्पुनरङ्गकेषु मसृणच्छायेषु मध्यस्थितो</l>
  <l>भाव: काचपुढेषु पुष्कर मित्र प्रव्यक्तमालोक्यते ॥ ३ ॥</l>
</lg>
<p>अभिनन्दस्य ।
3764</p>
<lg>
  <l>दृशा किंचित्किचिल्ललितभुजलीलाविलसनैः</l>
  <l>कराघातैः किंचिन्नखविलिखनैः किंचिदधिकम् ।</l>
  <l>स्पृशन्त्यः संवाधे गुरुभिरनभिप्रेक्षितपथे</l>
  <l>यथेष्टं चेष्टन्ते स्फुटकुचतटाः पश्य कुलटाः ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
3765</p>
<lg>
  <l>नयनविकारैरन्यं वचनैरन्यं विचेष्टितैरन्यम् ।</l>
  <l>रमयति सुरतेनान्यं स्त्री बहुरूपा निजा कस्य ॥ ५ ॥</l>
</lg>
<p>क्षेमेन्द्रस्य ।
3766</p>
<lg>
  <l>पर्यङ्कः स्वास्तरण: पतिरनुकूलो मनोहरं सदनम् ।</l>
  <l>तुणमित्र लघु मन्यन्ते कामिन्यधौर्यरतिलुब्धाः ॥ ६ ॥</l>
</lg>
<p>3767</p>
<lg>
  <l>दुर्दिवसे घनतिमिरे दुःसंचारासु नगरवीथीषु ।</l>
  <l>पत्युर्विदेशगमने परमसुखं जघनचपलायाः ॥ ७ ॥</l>
</lg>
<pb n="582" />
<p>असतीचरितम्
3768</p>
<lg>
  <l>यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षणा-</l>
  <l>स्ते चोन्मीलितमालती सुरभयः प्रौढाः कदम्बानिलाः ।</l>
  <l>सा चैवास्मि तथापि चौर्यसुरतव्यापारलीलाविधौ</l>
  <l>रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥ ८ ॥</l>
</lg>
<p>शीलाभहारिकायाः ।
3769</p>
<lg>
  <l>दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि</l>
  <l>मायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।</l>
  <l>एकाकिन्यपि यामि सत्त्ररमित: स्रोतस्तमालाकुलं</l>
  <l>नीरन्ध्रास्तनुमालिखन्तु जरउच्छेदा नलग्रन्थय: ॥ ९ ॥</l>
</lg>
<p>विज्जकायाः ।
3770</p>
<lg>
  <l>शुश्रूषस्व गुरून्निवर्तय सखीर्वन्दस्व बन्धुस्त्रियः</l>
  <l>कावेरीतटसंनिविष्टनयने मुग्धे किमुत्ताम्यसि ।</l>
  <l>आस्ते पुत्रि समीप एव भवनादेलालतालिङ्गन-</l>
  <l>न्यञ्चद्वालतमालदन्तुरदरी तत्रापि गोदावरी ॥ १० ॥</l>
</lg>
<p>कस्यापि ।
3771</p>
<lg>
  <l>भद्रं तस्य तरोः स्वयंकृतचिरप्रस्थान किं कथ्यतां</l>
  <l>दुर्वारस्त मरण्यवाहरदहद्धिग्दारुणं दुर्वचः ।</l>
  <l>मा खिद्यस्व ततः प्रभूत्यनुदिनं तस्याः पतद्भिर्दृशो-</l>
  <l>रम्भोभिः परिणद्धपवनच्छायस्तरुवर्धते ॥ ११ ॥</l>
</lg>
<p>कस्यापि ।</p>
<p>3772</p>
<lg>
  <l>इह वटवृक्षे यक्षः प्रतिवसति दिवापि यत्र भयशङ्का ।</l>
  <l>तस्मिन्कति नहि वध्वा नीता वीतोदयाः क्षणदाः ॥ १२ ॥</l>
</lg>
<p>कस्यापि ।
3773
एकाकिनी यदबला तरुणी तथाह-
मस्महे गृहपतिश्च गतो विदेशम् ।</p>
<pb n="583" />
<p>शार्ङ्गधरपद्धतिः
किं याचसे तदिह वासमियं वराकी
श्वभूर्ममान्धवधिरा ननु मूढ पान्थ ॥ १३ ॥
रुद्रस्य ।
3774</p>
<lg>
  <l>शून्यं वेश्म चिरागतो गृहपतिर्जाताधुना शर्वरी</l>
  <l>स्थातुं नोचितमत्र गच्छ निपुणं लोकैरनालोकितः ।</l>
  <l>इत्थं लोलदृशा ह्यसावभिहितो दासी मुखेनाध्यगः</l>
  <l>• स्थित्वा किंचिदिव क यामि रजनी प्राप्तेत्युदीर्य स्थितः ॥ १४॥</l>
</lg>
<p>कस्यापि ।
3775
एकान्ते बत नो गृहं शशिमुखोप्यन्यादृशो दृश्यते
क्षिमं साधय याहि पुत्रि मुदिने भुक्त्वान्यमावासकम्
श्वश्र्वा संभ्रमिता किलेति बहुशः संप्रेरयन्त्या वधूः
पान्थं वीक्ष्य बभञ्ज सस्मितमुखी सैत्रार्धसिद्ध्दनम् ॥ १५ ॥
कस्यापि ।
3776</p>
<lg>
  <l>स्वामी नि:श्वसितेप्यसूयति मनोजित्रः सपत्नीजन:</l>
  <l>श्वभूरिङ्गितदैवतं नयनयोरीहालिहो यातरः ।</l>
  <l>तद्दृरादयमञ्जलिः किममुना दृग्भाङ्गिभावेन ते</l>
  <l>वैदग्धीमदन प्रपञ्चचतुर व्यर्थोयमत्र श्रमः ॥ १६ ॥</l>
</lg>
<p>3777</p>
<lg>
  <l>दृग्भङ्गभङ्गिमशतैरसतीरहस्य-</l>
  <l>मन्वेषयन्कपटभिक्षुक लक्षितोसि ।</l>
  <l>स्वस्य प्रभुर्न च भवामि ततः क्षमस्व</l>
  <l>मैक्षोपढौकनमिषादयमञ्ञ्जलिस्ते ॥ १७ ॥</l>
</lg>
<p>3778
अनार्य प्रज्ञानामिह जनवधूनां हि मनसो
महाशल्यं कर्णे तव कनकजम्बूकिसलयः
।
।</p>
<pb n="584" />
<p>37
वसन्तस्वभावाख्यानम्
भ्रमन्भिक्षाहेतोरधिनगरि बुद्धोसि न मया
स्वयैतावद्वेषः पथिकं न विधेयः पुनरपि ॥ १८ ॥
भिक्षाटनस्यैते ।</p>
<p>3779</p>
<lg>
  <l>आयातासि विमुञ्च वेपथुभरं दृष्टासि केनापि नो</l>
  <l>नीलं चोलममुं विमुञ्च हरतु स्त्रेदं निशीथानिलः ।</l>
  <l>इत्यन्तर्भयसन्नकण्ठम सकृद्यामीति तल्पं गता</l>
  <l>वस्ती परिरभ्यते सुकृतिभिः स्त्रैरं नवस्वैरिणी ॥ १९ ॥</l>
</lg>
<p>कस्यापि ।
3780</p>
<lg>
  <l>सत्री डार्धनिरीक्षणं यदुभयोर्यहूतिसंप्रेषण -</l>
  <l>मद्य वो भविता समागम इति प्रीतिप्रसाद यः ।</l>
  <l>प्राप्ते कालसमागमे सरभसं यचुम्बनालिङ्गनं</l>
  <l>तत्कामस्य फलं तदेव सुरतं शेषा पशूनां स्थितिः ॥२०॥</l>
</lg>
<p>3781</p>
<lg>
  <l>सुखशय्या ताम्बूलं त्रिस्रग्धाश्लेषत्रुम्बनादीनि ।</l>
  <l>तुलयन्ति न लक्षांशं त्वरितक्ष चौर्यरतस्य ॥ २१ ॥</l>
</lg>
<p>कस्यापि ।
3782</p>
<lg>
  <l>इन्दुर्यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते</l>
  <l>नोच्यासा हृदयं दहन्त्यशिशिरा नोपैति कार्य वपुः ।</l>
  <l>स्वाधीनामनुकूलिकां स्वगृहणीमालिङ्गय यत्सुप्यते</l>
  <l>तल्कि प्रेम गृहाश्रमत्रतमिदं कष्टं समाचर्यते ॥ २२ ॥</l>
</lg>
<p>अय ऋतुवर्णने वसन्तस्वभावाख्यानम् ॥ १३३
11
3783
असौ मरुचुम्बितचारुकेसरः
प्रसन्नताराधिपमण्डलामणीः ।</p>
<pb n="585" />
<p>शार्ङ्गधरपद्धतिः
वियुक्तरामातुर वृष्टिवीक्षितो
वसन्तकालो हनुमानिवागतः ॥ १ ॥
भहवीजकस्य ।
3784</p>
<lg>
  <l>कोकिलधूतशिखरे मञ्जरीरेणुपिञ्जरः ।</l>
  <l>गदितैर्व्यक्ततामेति कुलीनचेष्टितैरिव ॥ २ ॥</l>
</lg>
<p>कस्यापि !
3785</p>
<lg>
  <l>परिचुम्बाते संश्लिष्य भ्रमरतमञ्जरीम् ।</l>
  <l>नवसंगमसंहृष्टः कामी प्रणयिनीमिव ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
3786
महिकामुकुले भाति मञ्जु गुञ्जन्मधुत्रतः
: 1
प्रयाणे पञ्चवाणस्य शङ्खमापूरयन्निव ॥ ४ ॥
3787</p>
<lg>
  <l>सहकार कुसुम के सरनिकरभरामोद मूर्च्छितदिगंन्ते ।</l>
  <l>मधुर मधुविधुर मधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥ ५ ॥</l>
</lg>
<p>कपिलरुद्रस्य ।
3788</p>
<lg>
  <l>मलयानिलमिलनोल्बण मदकल कलकण्ठकलकलालापः ।</l>
  <l>• मधुरमधुविधुरमधुपो मधुरयमधुना धिनोति धराम् ॥ ६ ॥</l>
</lg>
<p>भट्टरुद्रस्य ।
3789</p>
<lg>
  <l>मन्दोयं मलयानिलः किसलयं चूतद्रुमाणां नवं</l>
  <l>माद्यत्कोकिलकूजितं विचकिलामोदः पुराणं मधु ।</l>
  <l>बाणानित्युपदीकरोति सुरभिः पञ्चैव पञ्चेषवे</l>
  <l>यूनामिन्द्रिय पञ्चकस्य युगपत्संमोहसंपादिनः ॥ ७ ॥</l>
</lg>
<p>श्रीपालकविराजस्य ।
3790
उच्च विद्रुमकान्तिभिः किसलयैस्ताम्रां त्विषं बिभ्रतो
भृङ्गालीविरुतैः कलैरविशदव्याहारलीलामृतः ।</p>
<pb n="586" />
<p>वसन्तस्वभावाख्यानम्
घूर्णन्तो मलयानिलाहतिचलैः शाखासमूहैर्मुहु-
श्रति प्राप्य मधुप्रसङ्गजनितां मत्ता इवामी ब्रुमाः ॥ ८ ॥
श्रीहर्षस्य
3791</p>
<lg>
  <l>प्रसून शृङ्गै·र्मकरन्दतोयं</l>
  <l>सलीलमादाय वसन्तकामी ।</l>
  <l>वनस्थलीवामदृशां मुखानि</l>
  <l>सिञ्चत्यसौ मन्दमरुत्करेण ॥ ९ ॥</l>
</lg>
<p>3792
कस्यापि ।</p>
<lg>
  <l>स्थाने स्थाने मलयमरुतः पूरयन्त्यङ्कपालीं</l>
  <l>पुष्पालीषु स्मरगजरजःस्नानयोग्यः परागः ।</l>
  <l>जातं चूते मधु मधुकरप्रेयसीजानुदघ्नं</l>
  <l>निर्विघ्नत्वं सपदि भजते राजराज्याभिषेकः ॥ १० ॥</l>
</lg>
<p>बिल्हणस्य ।
3793</p>
<lg>
  <l>कमलिनीमलिनी दयितं विना</l>
  <l>न सहते सह तेन निषेवितुम् ।</l>
  <l>तमधुना मधुना निहितं हृदि</l>
  <l>स्मरति सा रतिसारमहर्निशम् ॥ ११ ॥</l>
</lg>
<p>3795
त्यजत मानमलं बत विग्रहै-
र्न पुनरेति गतं चतुरं वयः ।
परभृताभिरितीव निवेदिते</p>
<p>3794</p>
<lg>
  <l>किंशुक कलिकान्त र्गत मिन्दुकलास्पर्धि केसर भाति ।</l>
  <l>रक्तनिचोलकपिहितं धनुरिव जतुमुद्रितं वितनोः ॥ १२ ॥</l>
</lg>
<lg>
  <l>विज्जकायाः ।</l>
  <l>स्मरमते रमते स्म वधूजनः ॥ १३ ॥</l>
</lg>
<p>कालिदासस्य ।</p>
<pb n="587" />
<p>शार्ङ्गधरपद्धतिः
3796</p>
<lg>
  <l>प्रियसखीसदृशं प्रतिबोधिताः</l>
  <l>किमपि काम्यगिरा परपुष्टया ।</l>
  <l>प्रियतमाय वपुर्गुरुमत्सर-</l>
  <l>च्छिदुरयादुरयाचितमङ्गनाः ॥ १४ ॥</l>
</lg>
<p>माघकवेः ।
अथ मदनपूजा ।</p>
<lg>
  <l>3797</l>
  <l>।</l>
  <l>कुसुमसुकुमार मूर्तिर्दधती नियमेन तनुतरं मध्यम्</l>
  <l>आभाति मकरकेतोः पार्श्वस्था चापयष्टेिरिव ॥ १५ ॥</l>
</lg>
<p>3798</p>
<lg>
  <l>अनङ्गोयमनङ्गत्वमद्य निन्दिप्यति ध्रुवम् ।</l>
  <l>यदनेन न संप्राप्तः पाणिस्पर्शोत्सवस्तव ॥ १६ ॥</l>
</lg>
<p>अथ कुसुमावचयः ।
3799
श्रीहर्षस्यैतौ ।</p>
<lg>
  <l>असंख्य पुष्पोपि मनोभवस्य</l>
  <l>पञ्चैव बाणार्थमयं ददाति ।</l>
  <l>एवं कदर्यत्वमिवावधार्य</l>
  <l>सर्वस्वमग्राहि मधोर्वधूभिः ॥ १७॥</l>
</lg>
<p>3800</p>
<lg>
  <l>अताडयत्पलत्रपाणिनैकां</l>
  <l>पुष्पोचये राजवधूमशोकः ।</l>
  <l>तच्छेदहेतोरलिपङ्किभङ्गा</l>
  <l>निकृन्ततीवासिलता स्मरेण ॥ १८ ॥</l>
</lg>
<p>बिल्हणस्यैतौ ।</p>
<pb n="588" />
<p>वसन्तस्वभावाख्यानम्
3801</p>
<lg>
  <l>उच्चित्य प्रथममधःस्थितं मृगाक्षी</l>
  <l>पुष्पी तिवटपं ग्रहीतुकामा ।</l>
  <l>आरोढुं चरणमदादशोकपृष्ठे</l>
  <l>मूलाग्रात्पुनरपि तेन पुष्पितोसौ ॥ १९ ॥</l>
</lg>
<p>जयमाधवस्य ।
3802</p>
<lg>
  <l>पूर्व द्विरेफपरिभूतिभयाद्भवत्या</l>
  <l>यत्केशपुष्पभरणं हरिणाक्षि मुक्तम् ।</l>
  <l>व्यर्थ तदद्य पुनरप्यलकेषु भृङ्गाः</l>
  <l>पुञ्जीभवन्निजकुलभ्रमतः पतन्ति ॥ २० ॥</l>
</lg>
<p>कस्यापि ।
3803</p>
<lg>
  <l>पाणी पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयो-</l>
  <l>नीलेन्दीवरशङ्कया नयन योर्बन्धूकबुद्धयारे ।</l>
  <l>लीयन्ते कबरीभरे निजकुलव्यामोहजातस्पृहा</l>
  <l>दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रक्षिष्यसि ॥ २१ ॥</l>
</lg>
<p>अचलस्य ।
3804
सन्तु द्रुमाः किसलयोत्तरपुष्पभाराः
प्राप्ते वसन्तसमये कथमित्थमेव ।</p>
<p>न्यासैर्नवद्युतिमतोः पदयोस्तवेयं
भू: पुष्पिता सुतनु पल्लविता च भाति ॥ २२ ॥
सूक्तिसहस्रात् ।
3805</p>
<lg>
  <l>इदमिदमिति भूरुहां प्रसूनै-</l>
  <l>मुहुरभिलोभयता पुरः पुरोन्या ।</l>
  <l>अनुरहसमनाथि नायकेन</l>
  <l>त्वरयति रन्तुमहो जनं मनोभूः ॥ २३ ॥</l>
</lg>
<p>माघकवेः ।</p>
<pb n="589" />
<p>शार्ङ्गधरपद्धतिः
3806</p>
<lg>
  <l>निपीयमानस्तबका शिलीमुखै-</l>
  <l>रशोकयष्टिश्चलबालपल्लवा ।</l>
  <l>विडम्बयन्ती ददृशे वधूजनै-</l>
  <l>रमन्ददष्टौष्ठकरावधूननम् ॥ २४ ॥</l>
</lg>
<p>भारवेः ।
अथ वसन्तवायवः ।
3807
पानीयं नालिकेरीफलकुहरकुहूत्कारि कल्लोलयन्तः
कावेरीतीरतालद्रुमभरितसुराभाण्डमांकारचण्डाः ।
एते तन्वन्ति वेलावनललितलताताण्डवं द्राविड
स्त्री-
कर्पूरापाण्डुगण्डस्थललुठितरया वायवो दाक्षिणात्याः ॥२५॥
बिल्हणस्य ।
3808
सललितमलकानां वल्लरीर्नर्तयन्तो
मधुसुरभिमुखाब्जोच्छा सगन्धानुबन्धाः
उपरतरतभाजां योषितां स्वेदबिन्दू-
न्सतृष इव पिबन्तो वान्ति मन्दं समीराः ॥ २६ ॥
कस्यापि ।
3809
।</p>
<lg>
  <l>कावेरीवारिवेल्लल्लहरिपरिकरक्रीडनक्रीत शीत-</l>
  <l>स्फीतश्रीखण्डखण्डभ्रमणभरभवद्भूरिसौरभ्यगर्भाः ।</l>
  <l>चोललीचीनचेलाञ्चलकलन कलाक्रान्त कान्तस्तनान्ता</l>
  <l>वान्ति प्रेयोवियोगातुरतरतरुणीवैरिणोमी समीराः ॥ २७ ॥</l>
</lg>
<p>कृष्णपिल्लस्य ।
3810
उदञ्चत्कावेरीलहरिषु परिष्वङ्गरङ्गे नटन्तः
कुहू कण्ठीकण्ठीरवरवलवत्रासितप्रोषितेभाः ।</p>
<pb n="590" />
<p>वसन्तस्वभावाख्यानम्
अमी चैत्रे मैत्रावरुणितरुणी केलि कडेल्लिमल्ली-
चलवल्लीहल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः ॥ २८ ॥
-
3811
कावेरीतीरभूमी रुहभुजगवधूभुक्तमुक्तावशिष्टः
कार्णाटीचीनपीन स्तनवसनद शान्दोलनस्पन्द
मन्दः ।
लोलल्लाटीललाटालकललितलतालास्यलीलाविलोलो
हा कष्टं दाक्षिणात्यः प्रसरति पवनः पान्थकान्ताकृतान्तः । २९ ॥
राक्षसपण्डितयोरेती ।
3813
3812</p>
<lg>
  <l>चञ्चत्कर्पूरचौरा मलयगिरिगुरुमावदावादवाप्ता</l>
  <l>मन्दानन्दैर्मिलिन्दैरहमहमिकयानुद्रुता दूरपान्थाः ।</l>
  <l>कावेरीवारिसेकाविरलतरतरनीरवानीरसिक्ता</l>
  <l>मुक्तार्द्राः खेदनिद्रालव इव पवनास्तालवन्यां विशन्ति ॥ ३० ॥</l>
</lg>
<p>कस्यापि ।</p>
<lg>
  <l>चूतश्रेणी परिमलमुषश्चञ्चरीकानुयाता</l>
  <l>भूयो भूयः कुबलयकुटीकोटरे लीयमानाः ।</l>
  <l>मन्द मन्द सुरतविरतौ वान्ति सीमन्तिनीनां</l>
  <l>गण्डाभोगश्रमजललवग्राहिणो गन्धवाहाः ॥ ३१ ॥</l>
</lg>
<p>कस्यापि ।
3814</p>
<lg>
  <l>भिन्दन्तचन्दनालीं बकुलमुकुलजां धूलिमुडूलयन्त-</l>
  <l>थुम्बन्तभूतवाटी परिमललहरीं चम्पकान्कम्पयन्तः ।</l>
  <l>आरादारामसीमातटघटित घटी यन्त्र निर्धातवारां</l>
  <l>धारामाराधयन्तः श्रमजलभिदुरा वान्त्यमी गन्धवाहाः ॥ ३२ ॥</l>
</lg>
<p>कस्यापि ।
3815
लीलादोलातिखेलार सरभसलसच्ची न चेलाञ्चलानां
● चोलीनामापिबन्तो मृगमदसुरभिस्वेदबिन्दून मन्दान् ।</p>
<pb n="591" />
<p>शार्ङ्गधरपद्धतिः
लोलन्तः केरलीनां कुचकलशल सत्कुङ्कुमालेपनेषु
लिष्यन्तो मालवीनां मलयजमृदुला: कञ्चुलीर्वान्ति वाताः ॥ ३३ ॥
श्रीधनददेवानाम् ।
3816</p>
<lg>
  <l>ये दोलाकेलिकाराः किमपि मृगदृशां मानतन्तुच्छिदो ये</l>
  <l>सव्यः शृङ्गारदीक्षाव्यतिकरगुरवी ये च लोकत्रयेपि ।</l>
  <l>ते कण्ठे लोलयन्तः परभृतवयसां पञ्चमं रागराजं</l>
  <l>वान्ति स्वैरं समीराः स्मरविजयमहासाक्षिणो दाक्षिणात्याः ॥३४॥</l>
</lg>
<p>कस्यापि ।
अथ वसन्तपथिकः ।
3817</p>
<lg>
  <l>हे पान्थाः स्त्रगृहाणि गच्छत सुखं सेवाक्षणो मुच्यतां</l>
  <l>मानं मानिनि मुञ्च वल्लभजने कोपानुबन्धेन किम् ।</l>
  <l>आयातः कुसुमाकरः क्षपयति प्राणान्वियोगातुरे-</l>
  <l>वित्येवं परपुष्टनादपटहो वक्तीव कामाज्ञया ॥ ३५ ॥</l>
</lg>
<p>3818</p>
<lg>
  <l>वक्रेण शिरसि निहितो नित्यं रुधिरारुणेन दुर्वारः ।</l>
  <l>मत्तद्विप इव पथिकः किंशुककुसुमाङ्कुशेन धृतः ॥ ३६ ॥</l>
</lg>
<p>3819</p>
<lg>
  <l>एतस्मिन्दाक्षिणात्यानिल चलितलतालीनमत्तालिमाला-</l>
  <l>पक्षक्षोभावधूतच्युतवहलरजोहादिह वसन्ते ।</l>
  <l>प्रेमस्वेदार्द्रबाहुलथवलयलस प्रौढसी मन्तिनीनां</l>
  <l>मन्दः कण्ठग्रहोपि ग्लपयति हृदयं किं पुनर्विप्रयोगः ॥ ३७॥</l>
</lg>
<p>केषामध्येते ।
3820
उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कर-
क्रीडत्कोकिलकाकली कलकलैरुद्गीर्णकर्णज्वराः ।</p>
<pb n="592" />
<p>ग्रीष्मस्वभावाख्यानम्.
नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण-
प्राप्तप्राणसमासमागमरसोल्लासैरमी
3821</p>
<lg>
  <l>अध्वन्यैर्मकरन्दसीकर सुरामत्तक्कणत्कोकिले</l>
  <l>मार्गे मार्गनिरोधिनी परिहता शङ्के शुभाशङ्कया ।</l>
  <l>पान्थस्त्रीवधपातकादुपनतं चण्डालचिह्नं मधो-</l>
  <l>वासराः ॥ ३८ ॥</l>
</lg>
<lg>
  <l>जयदेवस्य ।</l>
  <l>रेषा किङ्किणिकेव षट्टदमयी झांकारिणी संहतिः ॥ ३९ ॥</l>
</lg>
<p>कस्यापि ।
3823
3822</p>
<lg>
  <l>सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लालास्रुतिः</l>
  <l>किंचिन्नैतदिहास्ति तत्कथमसौ पान्थस्तपस्वी मृतः ।</l>
  <l>आ ज्ञातं मधुलम्पटैर्मधुकरैरारब्धकोलाहले</l>
  <l>नूनं साहसिकेन चूतमुकुले दृष्टिः समारोपिता ॥ ४० ॥</l>
</lg>
<p>रामिलसोमिलयोः ।</p>
<lg>
  <l>अध्वन्यस्य वधूर्वियोगविधुरा भर्तुः स्मरन्ती यदि</l>
  <l>प्राणानुज्झति कस्य तत्खलु महत्संजायते पातकम् ।</l>
  <l>यावन्नो कृतमध्वगेन हृदये तावत्तरोर्मूर्धनि</l>
  <l>प्रोद्धुष्टं परपुष्टया तव तवेत्युच्चैर्वचोनेकशः ॥ ४१ ॥</l>
</lg>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ ग्रीष्मस्वभावाख्यानम् ॥ १३४ ॥</l>
</lg>
<p>3824</p>
<lg>
  <l>तप्ता मही विरहिणामिव चित्तवृत्ति-</l>
  <l>स्तृष्णाध्वगेषु कृपणेष्विव वृद्धिमेति ।</l>
  <l>सूर्यः करैर्दहति दुर्वचनैः खलो नु</l>
  <l>छाया सतीव न च मुञ्चति पादमूलम् ॥ १ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="593" />
<p>शार्ङ्गधरपद्धतिः
3825</p>
<lg>
  <l>प्रतिगतमर्थिजनानां विच्छिन्नाशं समूहमवलोक्य ।</l>
  <l>स्फुटितमपयशस्तापादिव हृदयतलं तडागस्य ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
3826</p>
<lg>
  <l>मुखकृत बिसखण्डचण्डमार्तण्डतापा-</l>
  <l>त्सितजलजतलस्थो राजते राजहंसः ।</l>
  <l>रजतघट इवायं विद्रुमावद्धधारा-</l>
  <l>विवरविगलदम्बु: कम्बुकण्ट प्रतीहि ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
3827
:</p>
<lg>
  <l>अङ्कारः खचितेव भूवियदपि ज्वालाकरालं करै-</l>
  <l>स्तिग्मांशो: किरतीव तीव्रमभितो वायुः कुकूलानलम् ।</l>
  <l>अप्यम्भांसि नखंपचानि सरितामाशा ज्वलन्तीव च</l>
  <l>ग्रीष्मेस्मिन्नववह्निदीपितमिवाशेषं जगइर्तते ॥ ४ ॥</l>
</lg>
<p>श्रीभोजदेवस्य ।
3828</p>
<lg>
  <l>काने स्थानानि दग्धान्यतिशयगहनाः सन्ति के वा प्रदेशा:</l>
  <l>किं वा शेषं वनस्य स्थितमिति पवनासङ्गविस्पष्टतेजाः ।</l>
  <l>चण्डज्वालावलीढस्फुटिततरुलता ग्रन्थिमुक्ताट्टहासो</l>
  <l>दावाग्भिः शुष्कवृक्षे शिखरिण गहनेधिष्ठितः पश्यतीव ॥ ५ ॥</l>
</lg>
<p>भीमस्य ।
3829
बाले मालेय मुच्चैर्न भवति गगनव्यापिनी नीरदानां
किं त्वं पक्ष्मान्तवातैर्मलिनयसि मुधा वक्त्रमप्रवाहैः !
एषा प्रोत्तमत्तद्विपकटकषणक्षुण्णविन्ध्योपलानां
दावाने: संप्रवृद्धा मलिनयति दिशां मण्डलं धूमलेखा ॥ ६ ॥
धाराकदम्बस्य ।
3830
स्फीतं शीतं गतं क क शिशिरकिरण: क्वास्ति हेमन्तवासः
कैते पानीयपूर्णा मलिनजलधराः क्काय विद्युत्प्रमोदः ।</p>
<pb n="594" />
<p>ग्रीष्मस्वभावाख्यानम्
इत्युचेर्जल्पमानैरिव मुखरमुखैझिल्लिदूतैरुपेतो-
वात्यौघैश्चागतोसौ प्रकटितविजयस्तम्भचिनिदाघः ॥ ७ ॥
3831</p>
<lg>
  <l>पाश्चात्यैर्मरुमारुतस्त्रिजगतामुन्मूलयन्नाद्रतां</l>
  <l>दावाग्निज्वलितैरपारगहनान्यप्यानयन्भस्मताम् ।</l>
  <l>वात्याभिस्तृणपत्रधूलिनिकरान्धुन्वन्विहायःस्थले</l>
  <l>ग्रीष्मः शुष्यदतुच्छपल्वललुठन्मत्स्यः समभ्यागतः ॥ ८ ॥</l>
</lg>
<p>एतौ शार्ङ्गधरस्य ।
3832
निजां कायच्छायां श्रयति महिषः कर्दममिव
च्युतं गुञ्जापुजं रुधिरमिव काकः कलयति ।
समुत्सर्पन्सर्पः सुषिरविवरं तापविवशः
सचीत्काराधूतं प्रविशति करं कुञ्जरपतेः ॥ ९ ।
क्षेमेन्द्रस्य ।</p>
<p>3833</p>
<lg>
  <l>अत्यच्छं सितमंशुकं शुचि मधु स्वामोदमच्छं रजः</l>
  <l>कार्पूरं विधूताईचन्दनकुचद्वन्द्वा: कुरङ्गीदृशः ।</l>
  <l>धारावेदम सपाटलं विचकिलस्रग्दाम चन्द्र त्विषो</l>
  <l>धातः सृष्टिरियं वृथैव तव न ग्रीष्मोभविष्यद्यदि ॥ १० ॥</l>
</lg>
<p>श्रीभोजदेवस्य ।
3834</p>
<lg>
  <l>तदात्वस्त्रातानां दरदलितमलीमुकुलिताः</l>
  <l>स्रजो बिभ्राणानां मलयजरसार्द्राद्रवपुषाम् ।</l>
  <l>निदाघाग्निप्लोषग्लपितमभिसायं मृगदृशां</l>
  <l>परिष्वङ्गोनङ्गं पुनरपि शनैरङ्कुरयति ॥ ११ ॥</l>
</lg>
<p>कस्यापि ।
अथ मध्याह्नः ।
3835</p>
<lg>
  <l>दुःसहतापभयादिव संप्रति मध्यस्थिते दिवसनाथे ।</l>
  <l>छायामिव वाञ्छन्ती छायापि गता तरुतलानि ॥ १२ ॥</l>
</lg>
<p>श्रीमदवन्ति वर्मणः ।</p>
<pb n="595" />
<p>शार्ङ्गधरपद्धतिः
3836</p>
<lg>
  <l>एष सूर्याशुसंतप्तो मृगः कुतरुमाश्रितः ।</l>
  <l>साधुर्भाग्यपरिक्षीणो नीचं प्राप्येव सीदति ॥ १३ ॥</l>
</lg>
<p>कस्यापि ।
3837
धत्ते पङ्कजिनीतले गुरुभयं स्वं कर्णतालं द्विपः
सस्यस्तम्बरसान्नियच्छति शिखी मध्येशिखण्डं शिरः ।
। मिथ्या लेढि मृणालकोटिकुटिलं दंष्ट्राङ्कुरं सूकरो
मध्याह्ने महिषश्च वाञ्छति निजच्छायाँमहाकर्दमम् ॥१४॥
राजशेखरस्य ।
3838</p>
<lg>
  <l>रवेर्मयूखैरभितापितो भृशं</l>
  <l>विदह्यमानः पथि तप्तपांसुभिः ।</l>
  <l>अवाक्फणो जिह्मगतिः श्वसन्मुद्दुः</l>
  <l>फणी मयूरस्य तले निषीदते ॥ १५ ॥</l>
</lg>
<p>कस्यापि ।
3839</p>
<lg>
  <l>तरुणतरणितेजः पुञ्ज संतप्तदेहः</l>
  <l>पतति जरठखड़: पलवले पङ्कगेहः ।</l>
  <l>हरिरपि सलिलार्थी शङ्कया तस्य नीरं</l>
  <l>न पिबति न च याति किश्यति प्राप्य तीरम् ॥१६॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
3840</p>
<lg>
  <l>सर्पत्सारणिवारिशीतलतले विन्यस्तपुष्पोत्करे</l>
  <l>नीरन्ध्रे कदलीवने गुरुदलच्छायाहतार्कविषि ।</l>
  <l>कर्पूरागुरुपङ्कपिच्छिलघनोत्तुङस्तनालिङ्गिभिः</l>
  <l>कान्ताकेलिस्तै रहः सुकृतिभिर्मध्यंदिनं नीयते ॥ १७ ॥</l>
</lg>
<p>कस्यापि ।
अथ जलकेलिः ।
3841
करौ
धुनाना नवपल्लवाकृती
पयस्यगाधे किल जातसंभ्रमा ।</p>
<pb n="596" />
<p>ग्रीष्मस्वभावाख्यानम्
सखीषु निर्वाच्यमधाष्टर्यदूषितं
प्रियाङ्गसंश्लेषमवाप मानिनी ॥ १८ ॥
3842</p>
<lg>
  <l>तथा न पूर्व कृतभूषणोद्धुरः</l>
  <l>प्रियेण रागेण विलासिनीजनः ।</l>
  <l>यथा जलार्द्रा नखमण्डनश्रिया</l>
  <l>ददाह दृष्टीः प्रतिपक्षयोषिताम् ॥ १९ ॥</l>
</lg>
<p>3843</p>
<lg>
  <l>तिरोहितान्तानि नितान्तमाकुलै-</l>
  <l>रपां विगाहादलकैः प्रसारिभिः ।</l>
  <l>दधुर्वधूनां वदनानि तुल्यतां</l>
  <l>द्विरेफवृन्दान्तरितैः सरोरुहैः ॥ २० ॥</l>
</lg>
<p>एते भारवेः ।
3844</p>
<lg>
  <l>संक्षोभं पयसि मुहुर्मंहेभकुम्भ-</l>
  <l>श्रीभाजा कुचयुगलेन नीयमाने ।</l>
  <l>विश्लेषं युगमगमद्रथाङ्गनाम्म्रो-</l>
  <l>रुह्त्तः क इव सुखावहः परेषाम् ॥ २१ ॥</l>
</lg>
<p>माघकवेः ।
3845</p>
<lg>
  <l>आत्तमात्तमधिकान्तमुक्षितुं</l>
  <l>कातरा शफरशङ्किनी जहाँ ।</l>
  <l>अञ्जलौ जलमधीरलोचना</l>
  <l>लोचनप्रतिशरीरलाञ्छितम् ॥ २२ ॥</l>
</lg>
<p>कलशस्य ।
3846
अविरतमिदमम्भः स्वेच्छयो च्छालयन्त्या
विकचकमलकान्तोत्तानहस्तइयेन ।</p>
<pb n="597" />
<p>शार्ङ्गधरपद्धतिः
परिकलित इवार्ध: कामबाणातिथिभ्यः
सलिलमित्र वितीर्ण बाल्यलीलासुखाय ॥ २३ ॥
कस्यापि ।
3847</p>
<lg>
  <l>ललितमुरसा तरन्ती तरलतरंगौघचालितनितम्बा ।</l>
  <l>विपरीतरतासक्तेव दृश्यते सरसि सा सख्या ॥ २४ ॥</l>
</lg>
<p>अमरुकस्य ।
3848</p>
<lg>
  <l>उन्मृष्टपत्रा: कलितालकान्ताः</l>
  <l>कण्ठेषु लमा जघनं स्पृशन्तः ।</l>
  <l>स्तनस्थलेष्वाहतिमादधाना</l>
  <l>गता वधूनां प्रियतां जलौघाः ॥ २५ ॥</l>
</lg>
<p>3849</p>
<lg>
  <l>हतोङ्गरागस्तिलकं विमृष्टं</l>
  <l>लब्धान्तरैरेभिरितीव मत्वा ।</l>
  <l>मुसंहतेनेति तदा जलाना-</l>
  <l>मादायि मध्यं न कुचद्वयेन ॥ २६ ॥</l>
</lg>
<p>जयमाधवस्यैतौ ।
3850</p>
<lg>
  <l>जलनिबिडितवस्त्रव्यक्तनिम्नोन्नताभिः</l>
  <l>समकलि तटभूमिः स्नानमात्रोत्थिताभिः ।</l>
  <l>रुचिर कन ककुम्भश्रीमदाभोगतुङ्ग-</l>
  <l>स्तनविनिहितहस्तस्वस्तिकाभिर्वधूभिः ॥ २७ ॥</l>
</lg>
<p>भवभूतेः
अथ ग्रीष्मवायवः ।
3851
कारजी: कुञ्जयन्तो निजजटररवव्यञ्जितावीर कोशा-
नुत्पाकान्कृष्णलानां पृथुसुषिरगताञ्शिम्बिकान्पाटयन्तः ।
1</p>
<pb n="598" />
<p>ग्रीष्मस्वभावाख्यानम्
झिल्लीकाझल्लरीणां बधिरितककुभं झंकृतं खे क्षिपन्तः
शिञ्जानाश्वत्थपञ्चप्रकरझणझणाराविणो वान्ति वाताः ॥ २८ ॥
बाणभट्टस्य ।
3852</p>
<lg>
  <l>व्योमव्यालोलमुक्ताफलधवलगलद्विन्दु संदोहगर्भा-</l>
  <l>नम्भोदान्भर्त्सयित्वा दिशि दिशि भुवने भीतिमुद्भावयन्तः ।</l>
  <l>एते रक्षोमृगाक्षीगतलुलितमरुत्क्षोभ संरम्भरूक्षा</l>
  <l>वाताः पातालकुक्षिस्थितमपि सलिलं तत्क्षणाद्भक्षयन्ति ॥ २९ ॥</l>
</lg>
<p>श्रीदेवदासदेवानाम् ।
3853</p>
<lg>
  <l>आध्मातोद्धतदाववह्निसुहृदः कीर्णोष्णरेणूत्कराः</l>
  <l>संतप्ताध्वगमुक्त खेदविषमश्वासोष्मसंवादिनः ।</l>
  <l>तृष्णार्ता जगरायतास्य कुहर क्षिप्रप्रवेशोत्कटा</l>
  <l>भ्रूमङ्गैरिव तर्जयन्ति पवना दग्धस्थलीकज्जलैः ॥ ३० ॥</l>
</lg>
<p>क्षेमेन्द्रस्य ।</p>
<p>अध ग्रीष्मपथिकः ।
3854</p>
<lg>
  <l>सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुषि</l>
  <l>क्षामक्ष्मारुहि मन्दमुन्मधुलिहि स्वच्छन्दकुन्दद्रुहि ।</l>
  <l>शुष्यत्स्रोतसि तमभूरिरजसि ज्वालायमानार्णसि</l>
  <l>ज्येष्ठे मासि खरार्कतेजसि कथं पान्थ व्रजञ्जीवसि ॥३१॥</l>
</lg>
<p>3855</p>
<lg>
  <l>ग्रीष्मोष्मलोष शुष्यत्पयसि बकभयोद्धान्तपाठीनभाजि</l>
  <l>प्रायः पकमात्रं गतवति सरसि स्वल्पतोये लुठित्वा ।</l>
  <l>कृत्वा कृत्वा जलाकृतमुरसि जरत्कर्पटा प्रपायां</l>
  <l>तोयं जग्ध्वापि पान्थः पथि वहति हहा हेति कुर्वन्पिपासुः॥३२॥</l>
</lg>
<p>3856
वाता
कीर्णविशीर्णवीरणतृणश्रेणीझणत्कारिणि
ग्रीष्मे सोमणि चण्डसूर्यकिरणप्रक्काथ्यमानाम्भसि ।</p>
<pb n="599" />
<p>शार्ङ्गधरपद्धतिः
चित्तारोपितकामिनीमुखशाशज्योत्स्नाहतक्लान्तयो
मध्याह्नेपि सुखं प्रयान्ति पथिकाः स्वं देशमुत्कण्ठिताः ॥ ३३ ॥
3857</p>
<lg>
  <l>भ्राम्यच्चीत्कारचक्रभ्रमभरितघटीयन्त्रचक्रप्रमुक्त-</l>
  <l>स्रोतःपूर्णप्रणालीपथसरणिशिरासारिसीत्कारि वारि ।</l>
  <l>कापं पान्थाः प्रकामं सितमणिमुसलाकारविस्फारधारं</l>
  <l>विक्षिप्तक्षुण्णमुक्ताकणनिक रनिभासारपातं पिबन्ति ॥ ३४ ॥</l>
</lg>
<p>बाणभट्टस्यैते ।
अथ प्रपापालिका ।
3858</p>
<lg>
  <l>अङ्गुल्यमनिरोधतस्तनुतरां धारामियं कुर्वती</l>
  <l>कर्कर्या न परं पयो निपुणिका दातुं प्रपापालिका ।</l>
  <l>विश्लिष्टाङ्गुलिना करेण दशनापीडं शनैः पान्थ हे</l>
  <l>निष्पन्दोवविलोचनस्त्वमपि हा जानासि पातुं पयः ॥ ३५॥</l>
</lg>
<p>कस्यापि ।
3859
दूरादेव कृतोञ्जलिर्न तु पुनः पानीयपानोचितो
रूपालोकन कौतुकात्प्रचलितो मूर्धा न शान्त्या तृषः
रोमाञ्चोपि निरन्तरं प्रकटितः प्रीत्या म शैत्यादपा-
मक्षुण्णो विधिरध्वगेन विहितो वीक्ष्य प्रपापालिकाम् ॥३६॥
1
बाणभट्टस्य ।
3860</p>
<lg>
  <l>गन्तुं सत्वरमीहसे यदि पुनर्व्यालोलवेणीलतां</l>
  <l>द्रष्टुं वा स्वकुटुम्बिनीमनुदिनं कान्तां समुत्कण्ठसे ।</l>
  <l>तत्तृप्यन्नपि मुग्धमन्थरचलन्नेत्रान्तरुद्धाध्वगा-</l>
  <l>मेतां दूरत एव हे परिहर भ्रातः पंपापालिकाम् ॥ ३७ ॥</l>
</lg>
<p>कस्यापि ।
3861
मध्याह्नेतिखरे निदाघसमये तापो घनो वर्तते
शीते कुञ्जवटे विचित्रविटपे भोः पान्थ विश्रभ्यताम् ।</p>
<pb n="600" />
<p>38
वर्षास्वभावाख्यानम्
एकाकी च भवानहं च तरुणी शून्या प्रपा वर्तते
लज्जामि ब्रुवती स्वयं तु चतुरो जानासि कालोचितम् ॥ ३८ ॥</p>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ वर्षास्वभावाख्यानम् ॥ १३५ ॥</l>
</lg>
<p>3862</p>
<lg>
  <l>शीतलादिव संत्रस्तं प्रावृषेण्यान्नभस्वतः ।</l>
  <l>नमो बभार नीरन्ध्रं जीमूतकुलकम्बलम् ॥ १ ॥</l>
</lg>
<p>सर्वदासस्य ।
3863</p>
<lg>
  <l>अस्थिर मनेकरागं गुणरहितं नित्यदुष्प्रापम् ।</l>
  <l>प्रावृषि सुरेन्द्र चापं विभाव्यते युवतिचित्तमिव ॥ २ ॥</l>
</lg>
<p>शक वृद्धे ।
3864</p>
<lg>
  <l>स्फुरन्तः पिङ्गलाभासो धरण्यामिन्द्रगोपकाः ।</l>
  <l>सरक्ताः पान्थपत्नीनां जीवा इव चकासिरे ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
3865</p>
<lg>
  <l>आकर्ण्य स्मरयौवराज्यपटहं जीमूतधीरध्वनिं</l>
  <l>नृत्यत्केकिकुटुम्बकस्य दधतं मन्द्रां मृदङ्गक्रियाम् ।</l>
  <l>उन्मीलन्नवनीलकन्दलदलव्याजेन रोमाञ्चिता</l>
  <l>हर्षेणेव समुच्छ्रितान्वसुमती दधे शिलीन्ध्रध्वजान् ॥ ४ ॥</l>
</lg>
<p>त्रिविक्रमभदृस्य ।
3866</p>
<lg>
  <l>नन्दयति कस्य न मनश्चपलैर्वनधूलिधूसरच्छायैः ।</l>
  <l>आक्रम्य पुत्रकैरिव मलिनीकृतमम्बरं जलदैः ॥ ५॥</l>
</lg>
<p>3867
मलिन हुतभुग्धूमझ्या मैर्दिशो मलिना घनै-
रविरलतृणै: इयामा भूमिर्नवोद्गतकन्दलैः ।</p>
<pb n="601" />
<p>शार्ङ्गधरपद्धतिः
सुरतसुभगो नूनं कालः स एव समागतो
मरणशरणा यस्मिन्नेते भवन्ति त्रियोगिनः ॥ ६ ॥
विज्जकायाः ।
3868</p>
<lg>
  <l>वज्रेण त्रिजगत्पतेर्बलरिपोरच्छिन्नपक्षाः पुरा</l>
  <l>ये भीता निममज्जुरब्धिजठरे ते लूनपक्षान्गिरीन् ।</l>
  <l>आश्वास्य त्रणदुःखजां शमयितुं तेषामुदग्रव्यथा-</l>
  <l>मुत्तस्थुर्जलदच्छलेन जलधेरूदाम्भसः पर्वताः ॥ ७ ॥</l>
</lg>
<p>सूक्तिसहस्रात् ।
3869</p>
<lg>
  <l>क्षपाः क्षामीकृत्य प्रसभमपहत्याम्बु सरितां</l>
  <l>प्रताप्योर्वी कृत्वां तरुगहनमुच्छोप्य सकलम् ।</l>
  <l>क संप्रत्युष्णांगुर्गत इति तदन्वेषणपरा-</l>
  <l>स्तडिद्दीपालोका दिशि दिशि चरन्तीह जलदाः ॥ ८ ॥</l>
</lg>
<p>पाणिनेः ।
3870</p>
<lg>
  <l>दिशां हाराकाराः शमितशमभारा अपि मुनेः</l>
  <l>ससूचीसंचाराः कृतमदविकाराच शिखिनाम् ।</l>
  <l>हता ध्वव्यापारास्तुहिन कणसारा विरहिणी-</l>
  <l>मनः कीर्णाङ्काराः किरति जलधारा जलधरः ॥ ९ ॥</l>
</lg>
<p>कस्यापि ।
3871
मन्दं मुद्रितपांसवः परिपतज्झांकारिझञ्झामरु-
द्वेगध्वस्तकुटीर काग्रनिपतच्छिद्रेषु लब्धान्तराः ।
कर्मव्यय कुटुम्बिनी
कुचभर प्रस्त्रेदभेदाच्छेदः
प्रारम्भे मदयन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥ १० ॥
कस्यापि ।
3872
किंचिन्मुद्रितपांसवः शिखिकुलै रुत्कण्ठमालो किता
जीर्णावासरुदद्दरिद्रगृहिणीश्वासानिलैर्जर्जराः ।</p>
<pb n="602" />
<p>वर्षास्वभावाख्यानम्
एते ते निपतन्ति नूतनघनात्प्रावृडुरारम्भिणो
विच्छायीकृत विप्रयुक्तवनितावन्दवो बिन्दवः ।॥ ११ ॥
3873</p>
<lg>
  <l>मेघाटोपैः स्तनितसुभगं वीक्ष्य खं हस्तिदन्तैः</l>
  <l>कृत्वा भित्तीरुपरि सदनं चामरैश्छादयित्वा ।</l>
  <l>कर्पूरैस्तां मृगमदर सैर्भूमिमालिप्य शेते</l>
  <l>हे चर्मण्युरसि दयिताबाहुरूढः पुलिन्दः ॥ १२ ॥</l>
</lg>
<p>3874</p>
<lg>
  <l>रटतु जलधरः पतन्तु धाराः</l>
  <l>स्फुरतु तडिन्मरुतोपि वान्तु काले ।</l>
  <l>इयमुरसि महौषधीव कान्ता</l>
  <l>निखिलभयप्रतिघातिनी स्थिता मे ॥ १३ ॥</l>
</lg>
<p>केषामप्यते ।
3875</p>
<lg>
  <l>उन्निद्र कन्दलदलान्तरलीयमान-</l>
  <l>गुञ्जन्मदान्धमधुपे नवमेघकाले ।</l>
  <l>स्वमेपि यः प्रवसति प्रविहाय कान्तां</l>
  <l>तस्मै विषाणरहिताय नमो वृषाय ॥ १४ ॥</l>
</lg>
<p>राहुलकस्य
3876</p>
<lg>
  <l>काले नीलबलाहके सताडति प्रीतिप्रदे बर्हिणा -</l>
  <l>माश्रर्य कथयामि वः शृणुत भो यद्वृत्तमस्मगृहे ।</l>
  <l>सौभाग्यव्ययशङ्कयैकशयने कान्ताप्रियाभ्यामहो</l>
  <l>मानिभ्यां बत रात्रिमेव सकलां चीर्ण प्रवासिव्रतम् ॥ १५ ॥</l>
</lg>
<p>कस्यापि ।
अथ दोलाकेलिः ।
3877</p>
<p>सौन्दर्यमिन्दीवरलोचनानां
दोलासु दोलासु यदुल्ललास ।</p>
<pb n="603" />
<p>शार्ङ्गधरपद्धतिः
यदि प्रसादाल्लभते कवित्वं
जानाति तद्वर्णयितुं मनोभूः ॥ १६ ॥
3878</p>
<lg>
  <l>प्रसार्य पादौ विहितस्थितीनां</l>
  <l>दोलासु लोलांशुकपलवानाम् ।</l>
  <l>मनोरथानामपि यन्त्र गम्यं</l>
  <l>तहूटुमापुः सुदृशां युवानः ॥ १७ ॥</l>
</lg>
<p>3879
उन्नमय दूरं मुहुरानमन्त्यः
कान्ताः श्लथीभूतनितम्बबिम्बाः ।
दोलाविलासेन जितश्रमत्वा-
त्प्रकर्षमापुः पुरुषायितेषु ।॥ १८ ॥
3880
बिल्हणस्यैतौ ।</p>
<lg>
  <l>प्रत्यासन्नसखीकराम्बुजयुगप्रेडोलितां प्रेमिका-</l>
  <l>मारुह्येय मुदस्तहारलतिका व्यावृत्ततुङ्गस्तनी ।</l>
  <l>दृष्टादृष्टमुखी गतागतवशादालोलमानांशुका</l>
  <l>तन्वङ्गी गगने करोति पुरतः शातहूदं विभ्रमम् ॥ १९ ॥</l>
</lg>
<p>नायकुमारस्य ।
अथ वर्षावायत्रः ।
3881</p>
<lg>
  <l>धाराधीतं धुनानाः शशधरधवलं केसर केतकीनां</l>
  <l>कैलासे किंनरीणां चलदलकलतालास्यलीलां दधानाः ।</l>
  <l>आमूलं मानिनीनां मनसि च विहितं मानमुन्मूलयन्तो</l>
  <l>वान्त्येते वारिवाह व्यतिकरशिशिराः प्रावृषेण्याः समीराः ॥२०॥</l>
</lg>
<p>कस्यापि ।
3882
ते ते दुरतिक्रमक्रममिलद्धर्मोर्भिमर्मच्छिदः
कादम्बेन रजोभरेण ककुभो रुन्धन्ति झञ्झानिलाः /</p>
<pb n="604" />
<p>वर्षास्वभावाख्यानम्
गाढारम्भनिगूढनीरद घटा संघट्टनीलीभव-
व्योमक्रोडकटाहपातुकपयोवेणीकणमाहिणः ॥ २१ ॥
कृष्णपिऴस्य ।
-
अथ वर्षापथिकः ।
3883</p>
<lg>
  <l>गर्ज वा वर्ष वा मेघ मुञ्च वाशनितोमरान् ।</l>
  <l>गणयन्ति न शीतोष्णं वल्लभाभिमुखा जनाः ॥ २२ ॥</l>
</lg>
<p>कस्यापि ।
3884</p>
<lg>
  <l>उपरि पयोधरमाला दूरे बाला किमेतदापतितम् ।</l>
  <l>हिमवति दिव्यौषधयः कोपाविष्ट: फणी शिरसि ॥ २३ ॥</l>
</lg>
<p>श्रीभोज देवस्य ।
3885</p>
<lg>
  <l>किं गतेन यदि सा न जीवति</l>
  <l>प्राणिति प्रियतमा तथापि किम् ।</l>
  <l>इत्युदीक्ष्य नवमेघमालिकां</l>
  <l>न प्रयाति पथिकः स्वमन्दिरम् ॥ २४ ॥</l>
</lg>
<p>भर्तृहरे ।</p>
<p>3886</p>
<lg>
  <l>उपरि घनं घनपटलं तिर्यग्गिरयोपि नर्तितमयूराः ।</l>
  <l>क्षितिरपि कन्दलघवला दृष्टिं पथिकः क पातयतु ॥ २५ ॥</l>
</lg>
<p>कस्यापि ।
3887</p>
<lg>
  <l>बह रौति बका रटन्ति तडितो भ्राम्यन्त्यतिव्याकुला</l>
  <l>विक्रोशन्ति घनाघनाश्च विलपत्युच्चैर्बलाकावलिः ।</l>
  <l>आत्मानं मरुतः क्षिपन्ति सलिलासारः पतत्यग्रतो</l>
  <l>मुक्त्वा प्रावृषि साहसैकरसिके याति प्रियामध्वगे ॥ २६ ॥</l>
</lg>
<p>कस्यापि ।
3888
नृत्यचन्द्रकिणि कणन्मधुलिहि श्यामायमानक्षितौ
धीरध्वानपयोमुचि प्रविलसत्सौदामिनीदांमत्रि ।</p>
<pb n="605" />
<p>शार्ङ्गधरपद्धतिः
धाराम्भ: कणवाहिशीतमरुति प्राणान्पयो दागमे
हा हा हास्यति मुग्धिका नववधूरित्यध्वगः क्रन्दति ॥ २७ ॥
कस्यापि ।
3889</p>
<lg>
  <l>श्रुत्वा बालमृगीविलोलनयना शब्दं घनानां पुरा</l>
  <l>भीत्या वक्षसि संसृतापि निविडं भूयः समालिङ्गति ।</l>
  <l>या वॠादपहृत्य गोपितवती कण्ठे ममैवाननं</l>
  <l>सा द्रक्ष्यत्यधुना कथं नु विरहे बाला पयोदावलीम् ॥२८॥</l>
</lg>
<p>दुर्गसेनस्य ।
3890</p>
<lg>
  <l>रसति तरुणीकेशश्यामे पयोभृति निर्भरं</l>
  <l>स्फुरति चपले वारं वारं क्षणद्युतितेजसि ।</l>
  <l>उपगुरुजनं मन्ये दैन्यात्पराङ्मुख सुतया</l>
  <l>निभृतनिभृतं मन्दोच्छ्वासं तया बत रुद्यते ॥ २९ ॥</l>
</lg>
<p>जीवनागस्य ।
3891</p>
<lg>
  <l>रात्रौ वारिभरालसाम्बुदरवोद्विग्नेन जाताश्रुणा</l>
  <l>पान्थेनात्मवियोगदुःखपिशुनं गीतं तथोत्कण्ठया ।</l>
  <l>आस्तां जीवितहारिणः प्रवसनालापस्य संकीर्तनं</l>
  <l>मानस्यापि जलाञ्जलिः सरभसं लोकेन दत्तो यथा ॥ ३० ॥</l>
</lg>
<p>कस्यापि ।
3892</p>
<lg>
  <l>निशीथे लीनानां झागति तडितां वीक्ष्य विषयं</l>
  <l>घनानामाभोगं रसिकपथिके नोन्मुखदृशा ।</l>
  <l>न गीतं सोत्कण्ठं न च रुदितमुत्कण्ठतरलं</l>
  <l>न मुक्ता निःश्वासाः स्फुटदनुमतं किं नु हृदयम् ॥ ३१ ॥</l>
</lg>
<p>कस्यापि ।
3893
ग्रामेस्मिन्पथिकाय पान्थ वसतिर्देवाधुना दीयते
रात्रावत्र विवाहमण्डपतले पान्धः प्रसुप्तो युवा ।</p>
<pb n="606" />
<p>वर्षास्वभावाख्यानम्
तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रियां तत्कृतं
येनाद्यापि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति ॥ ३२ ॥
कस्यापि ।
3894</p>
<lg>
  <l>भ्रातः पान्थ प्रसीद प्रतिविरम समुत्सृज्य बालामकाण्डे</l>
  <l>गन्तुं बाष्पाम्बुपूरप्लुतनयनमुखीं प्रेयसीं ते न युक्तम् ।</l>
  <l>वृत्तं ग्रामेतिकष्टं यदिह गृहपतेः प्रोषितस्य प्रियाया</l>
  <l>मुक्ताक्रन्दांस्त्वमेतान्सलिलवितरणे निर्गतान्पश्य बन्धून् ॥ ३३ ॥</l>
</lg>
<p>3895
शङ्ककस्य ।
भद्रात्र ग्रामके त्वं वससि परिचयस्तोस्त जानासि वार्त्ता-
मस्मिन्नध्वन्यजाया जलधररसितोत्का न काचिद्विपन्ना ।
इत्थं पान्थः प्रवासावधिदिनविगमापायशङ्की प्रियायाः
पृच्छन्वृत्तान्तमारात्स्थितनिजभवनोप्याकुलो न प्रयाति ॥ ३४ ।
भीमस्य ।
अथ पथिक कामिनी ।
3896</p>
<lg>
  <l>अदृष्टपूर्वमस्माभिर्यदेवं दृश्यतेधुना ।</l>
  <l>विषं विषधरैः पीतं मूर्छिताः पथिकाङ्गनाः ॥३५ ॥</l>
</lg>
<p>कस्यापि ।
3897</p>
<lg>
  <l>शिशिरसीकर वाहिनि मारुते</l>
  <l>चरति शीतभयादिव सत्वरः ।</l>
  <l>मनसिजः प्रविवेश वियोगिनी -</l>
  <l>हृदयमाहितशोकहुताशनम् ॥ ३६ ॥</l>
</lg>
<p>कुमारदासस्य ।
3898
विरमत घनाः किं मो वृष्टया मुधैव विसृष्टया
व्रजत ककुभं कामप्यन्यां मनोरुचिरामितः ।</p>
<pb n="607" />
<p>शार्ङ्गधरपद्धतिः
न तदिह वनं नासौ मार्गो न तच्च धरातलं
विरहगलितैस्तन्व्या नो यत्प्लुतं नयनाम्बुभिः ॥ ३७ ॥
कस्यापि ।
3899
प्रसरदलकाकीर्णे कर्णे न केकिरुतं श्रुतं
श्वसितविजितो वातो प्रातो न वा कुंटजोत्कटः ।
न च परिचिता सा वा संपत्स्नुताश्रुणि लोचने
तदपि किमपि प्रावृश्यामा दुनोति वियोगिनीम् ।॥ ३८ ॥
कस्यापि ।
3900</p>
<lg>
  <l>मेघैर्व्योम नवाम्बुभिर्वसुमती विद्युल्लताभिर्दिशो</l>
  <l>धाराभिर्गगनं वनानि कुटजैः पूरैर्वृता निम्नगाः ।</l>
  <l>एकां घातयितुं वियोगविधुरां दीनां वराकीं स्त्रियं</l>
  <l>प्रावृट्काल हताश वर्णय कृतं मिथ्या किमाडम्बरम् ॥३९॥</l>
</lg>
<p>विज्जकायाः ।
3901</p>
<lg>
  <l>वाता वान्तु कदम्बरेणुशवला नृत्यन्तु सर्पद्विषः</l>
  <l>सोत्साहा नववारिभारगुरत्रो मुञ्चन्तु नादं घनाः ।</l>
  <l>मनां कान्तवियोगशोकजलधौ मां वीक्ष्य दीनाननां</l>
  <l>विद्युत्किं स्फुरसि त्वमप्यकरुणे स्त्रीत्वे समाने सति ॥ ४० ॥</l>
</lg>
<lg>
  <l>विद्यापतेः ।</l>
  <l>अथ शरत्स्वभावाख्यानम् ॥ १३६ ॥</l>
</lg>
<p>3902</p>
<lg>
  <l>अथ प्रसन्नेन्दुमुखी सिताम्बरा</l>
  <l>समाययावत्पलपत्रलोचना ।</l>
  <l>सपङ्कजा श्रीरिव गां निषेवितुं</l>
  <l>सहंसवालव्यजना शरद्वधूः ॥ १ ॥</l>
</lg>
<p>महामनुष्यस्य ।</p>
<pb n="608" />
<p>शरत्स्वभावाख्यानम्
3903</p>
<lg>
  <l>दर्शयन्ति शरनद्यः पुलिनानि शनैः शनैः ।</l>
  <l>नवसंगमसव्रीडजघनानीव योषितः ॥ २ ॥</l>
</lg>
<p>3904</p>
<lg>
  <l>न तज्जलं यन्न सुचारुपङ्कजं</l>
  <l>न पङ्कजं तब्द्यदलीनषदम् ।</l>
  <l>न षटूदोसौ न जुगुञ्ज यः कलं</l>
  <l>न गुञ्जितं तन्त्र जहार यन्मनः ॥ ३ ॥</l>
</lg>
<p>भर्तृस्वामिनः ।
3905
भगवतो व्यासस्य ।</p>
<lg>
  <l>एकेन चुलुकेनाब्धिार्नैपीतः कुम्भयोनिना ।</l>
  <l>तस्योदयेतः कालुष्यं त्यजन्त्यापो भयादिव ॥ ४ ॥</l>
</lg>
<p>कस्यापि
3906
काशा: क्षीरनिकाशा दधिवरवर्णानि सप्तपर्णानि
नवनीतनिभश्चन्द्रः शरदि च तक्रप्रभा ज्योत्स्ना ॥ ५ ॥
गण्डगोपालस्य ।
3907</p>
<lg>
  <l>तीक्ष्णं विस्तपति नीच इवाचिराद्यः</l>
  <l>शृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः ।</l>
  <l>तोयं प्रसीदति मुनेरिव धर्मचिन्ता</l>
  <l>कामी दरिद्र इव शोषमुपैति पङ्कः ॥ ६ ॥</l>
</lg>
<p>:
भासस्य ।
3908</p>
<lg>
  <l>अर्ध सुवा निशाया: सरभससुरतायाससन्नश्लथाङ्गः</l>
  <l>प्रोडूतासह्यतृष्णो मधुमदविरतौ हर्म्यपृष्ठे विबुद्धः ।</l>
  <l>संभोगक्लान्तकान्ताशिथिलभुजलतावर्जितं गर्गरीतो</l>
  <l>ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं मन्दभाग्यः ॥ ७ ॥</l>
</lg>
<p>भर्तृहरेः ।</p>
<pb n="609" />
<p>शार्ङ्गधरपद्धतिः
3909</p>
<lg>
  <l>इयमिदमत्यन्तसमं नीचे प्रभविष्णुता शरच्चेयम् ।</l>
  <l>क्षेत्रेभ्यः प्राप्य फलं खलेषु निक्षिप्यते यस्याम् ॥ ८ ॥</l>
</lg>
<p>जयगुप्तस्य ।
3910</p>
<lg>
  <l>चेतः कर्षन्ति सप्तच्छदकुसुमरसासारसौरभ्यलुभ्य-</l>
  <l>श्रृङ्गीसंगीतभङ्गिश्रुतिसुभगदिशो वासराः शारदीनाः ।</l>
  <l>किं च व्याकोशपेरुहमधुरमुखीं संचरच्चञ्चरीक-</l>
  <l>श्रेणीवेणीसनाथां रमयात तरुणः पद्मिनीमंशुमाली ॥ ९ ॥</l>
</lg>
<p>श्रुतधरस्य ।
3911</p>
<lg>
  <l>अथोपगूढे शरदा शशाङ्के</l>
  <l>शरद्ययौ शान्ततडित्कटाक्षा ।</l>
  <l>कासां न सौभाग्यगुणोङ्ग नानां</l>
  <l>नष्टः परिभ्रष्टपयोधराणाम् ॥ १० ॥</l>
</lg>
<p>कस्यापि ।
अथ भ्रमरीक्रीडा ।
3912</p>
<lg>
  <l>चेलाञ्चलेन चलहारलताप्रकाण्डै-</l>
  <l>र्वेणीगुणेन च बलाइलयीकृतेन ।</l>
  <l>हेलाहितभ्रमरकभ्रममण्डलीभिः</l>
  <l>पत्रत्रयं रचयतीव चिरं नतभ्रूः ॥ ११ ॥</l>
</lg>
<p>कस्यापि ।
3913</p>
<lg>
  <l>भ्रमात्मकीर्णे भ्रमरीषु किंचि-</l>
  <l>चेलाञ्चले चञ्चललोचनानाम् ।</l>
  <l>कुचौ कदाचिज्जघनं युवानो</l>
  <l>विलोक्य साफल्यमवापुरक्ष्णाम् ॥ १२ ॥</l>
</lg>
<p>C</p>
<pb n="610" />
<p>शरत्स्वभावाख्यानम्
3914</p>
<lg>
  <l>परिभ्रमन्त्या भ्रमरीविनोदे</l>
  <l>नितम्बाबेम्बाद्विगलहुकूलम् ।</l>
  <l>विलोक्य कस्याश्चन कोमलाङ्गयाः</l>
  <l>पुंभावमन्याः सुदृशो ववाञ्छुः ॥ १३ ॥</l>
</lg>
<p>गुणाकरस्यैतौ ।
अथ शरद्वायवः ।
3915</p>
<lg>
  <l>वान्ति रात्रौ रतिकान्तकामिनीसुहृदोनिलाः ।</l>
  <l>ललनालोलधमिल्लमल्लिकामोदवासिताः ॥ १४ ॥</l>
</lg>
<p>कस्यापि ।
3916
वान्ति</p>
<lg>
  <l>कह्लारसुभगाः सप्तच्छदसुगन्धयः ।</l>
  <l>वाता नवरतग्लानवधूगमनमन्थराः ॥ १५ ॥</l>
</lg>
<p>वाल्मीकिमुनेः ।
अथ शरत्पथिकः ।
3917</p>
<lg>
  <l>पङ्कानुषङ्गं पथि विस्मरन्तः</l>
  <l>कथावशेषे च पयोदवृन्दे ।</l>
  <l>मार्गेषु चन्द्रातपपिच्छिलेषु</l>
  <l>पदे पदे चस्खलुरध्वनीनाः ॥ १६ ॥</l>
</lg>
<p>अभिनन्दस्य ।
3918</p>
<lg>
  <l>इह निचुलनिकुञ्जे वंशसंभारभाजि</l>
  <l>स्वपिषि यदि मुहूर्त पश्यसि क्षेत्रमेतत् ।</l>
  <l>इति पथिकमकस्मान्मार्ग एवोपविष्टं</l>
  <l>वदति तरुणकान्तं गोपिका साङ्गभङ्गम् ॥</l>
</lg>
<p>१७ ॥
कस्यापि ।</p>
<pb n="611" />
<p>शार्ङ्गधरपद्धतिः
अथ हेमन्तस्वभावाख्यानम् ॥ १३७ ॥
॥
3919</p>
<lg>
  <l>हिमधवलदन्तकेशा मन्दद्युतितारका बृहत्तिमिरा ।</l>
  <l>द्विगुणीभूता रजनी वृद्धेव शनैः शनैर्याति ॥ १ ॥</l>
</lg>
<p>बीजकस्य ।
3920</p>
<lg>
  <l>शुकहरितयवानां सीसि नीहारभासः</l>
  <l>सपदि विगतनिद्राः क्रौञ्चकान्ताः क्षपान्ते ।</l>
  <l>विदधति कमनीयं काणमुद्यत्ककारं</l>
  <l>सरलितगलनालं जर्जराः स्फाररेफम् ॥ २ ॥</l>
</lg>
<p>3921</p>
<lg>
  <l>वेपन्ते कपयो भृशं कृतजडं गोजाविकं ग़्लायति</l>
  <l>श्वा चुल्लीकुहरोदरं क्षणमपि प्राप्तं च नैवोज्झति ।</l>
  <l>शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मव-</l>
  <l>त्स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति ॥३॥</l>
</lg>
<p>लक्ष्मीधरस्य ।
3922
कस्यापि ।</p>
<lg>
  <l>लघुनि तृणकुटीरे क्षेत्रकोणे यवानां</l>
  <l>नवकलमपलाल स्रस्तरे सोपधाने ।</l>
  <l>परिहरति सुषुप्तं हालिकद्वन्द्वमारा-</l>
  <l>त्कुचकलशमहोष्माबद्धरेखस्तुषारः ॥ ४ ॥</l>
</lg>
<p>कमलायुधस्य
3923</p>
<lg>
  <l>हे हेमन्त स्मरिष्यामि त्वय्यतीते गुणद्वयम् ।</l>
  <l>अयत्नशीतलं वारि निशा च सुरतक्षमा ॥ ५ ॥</l>
</lg>
<p>कस्यापि ।
3924
प्रोद्यत्प्रौढारविन्दयुतिभूति विदलत्कुन्दमाद्यविरेफे
काले प्रालेयवातप्रचल विकसितो हाममन्दारदामि ।</p>
<pb n="612" />
<p>हेमन्तस्वभावाख्यानम्
येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी
तेषामायामियामा यमसदनसमा यामिनी याति यूनाम् ॥ ६ ॥
कस्यापि ।
3925
।
प्रालेयशैलशिशिरानिलसंप्रयोगः
प्रोत्फुल्लकुन्दमकरन्दहृतालिवृन्दः
कालोयमापतति कुङ्कुमपङ्कपिङ्ग-
प्रोत्तुङ्गरम्यरमणीकुचसङ्गयोग्यः ॥ ७ ॥
भोहरस्य ।
अथ कन्दुकक्रीडा ।
3926</p>
<lg>
  <l>चञ्चल्लोलाञ्चलानि प्रतिसरणि चलव्यस्तवेणीनि बाहो-</l>
  <l>विक्षेपाद्दक्षिणस्य प्रचलितवलयस्फारकोलाहलानि ।</l>
  <l>श्वासत्रुट्यद्वचांसि द्रुतमितर करोत्क्षेपलोलालकानि</l>
  <l>स्रस्तस्रञ्जि प्रमोदं दधति मृगदृशां कन्दुकक्रीडितानि ॥ ८ ॥</l>
</lg>
<p>राजशेखरस्य ।
3927
पयोधराकार धरो हि कन्दुकः
करेण रोषादिव ताद्यते मुहुः ।</p>
<p>इतीव नेत्राकृतिभीतमुत्पलं
तस्याः प्रसादाय पपात पादयोः ॥ ९ ॥
कालिदासस्य ।
3928</p>
<lg>
  <l>वक्र श्रीजितलज्जितेन्दुमलिनं कृत्वा करे कन्दु कं</l>
  <l>क्रीडाकौतुकमिश्रभावमनया तिर्यग्वहन्त्याननम् ।</l>
  <l>भृङ्गार ग्रह कृष्णकेतकदलस्पर्धावतीनां दृशां</l>
  <l>दीर्घापाङ्गतरंगणैकसुहृदां कोप्येष पात्रीकृतः ॥ १० ॥</l>
</lg>
<p>राजशेखरस्य ।</p>
<pb n="613" />
<p>शार्ङ्गधरपद्धतिः
3929</p>
<lg>
  <l>अमन्दमगिनूपुरक्कगनचारुचारक्रमं</l>
  <l>झणज्झणित मेखला स्खलिततारहारच्छटम् ।</l>
  <l>इदं तरलकङ्कणावलिविशेषवाचालितं</l>
  <l>मनो हरति सुभ्रुवः किमपि कन्दुकक्रीडितम् ॥ ११ ॥</l>
</lg>
<p>कस्यापि ।
अथ हेमन्तवायवः ।
3930</p>
<lg>
  <l>हूणीसीमन्तमुद्रां सपदि तरलयन्कीरकान्ताकुचान्त:-</l>
  <l>स्वच्छन्द स्रस्तवस्त्राञ्चलचपलतया लोलयन्हारवल्लीम् ।</l>
  <l>प्रालेयावासपृथ्वीधरशिखर चल चारुवारिप्रवाह-</l>
  <l>प्रक्षोभप्रातिभश्रीः प्रसरति परितो हैमनो गन्धवाहः ॥ १२ ॥</l>
</lg>
<p>कस्यापि ।
अथ हेमन्तपथिकः ।
3931
हे पान्थ प्रियविप्रयोगहुतभुग्ज्वालानभिज्ञोसि किं
किं वा नास्ति तव प्रिया गतघृणः किं वा विहीनो धिया ।
येनास्मिन्नवकुङ्कुमारुणरुचिव्यासङ्गधर्मोचिते
-
कुन्दानन्दितमत्तषट्दकुले काले गृहान्निर्गतः ॥ १३ ॥
कस्यापि ।
3932
आहूतोपि सहायैरे मीत्युक्त्वा विमुक्तनिद्रोपि ।
गन्तुमना अपि पथिकः संकोचं नैव शिथिलयति
3933
॥१४॥
भर्वोः ।</p>
<lg>
  <l>शीतार्तिप्रसरलथाकुलपदन्यासैः समुत्कम्पिभिः</l>
  <l>पान्थैर्निर्दयतुच्छगो धननदढण्टारवैः सूचिताः ।</l>
  <l>प्राप्यन्ते हिमपीडितानि निभृतप्रोद्गाढधूमा घन-</l>
  <l>स्तोका लक्ष्यकुटीरकाः कथमपि प्राप्ता गिरिग्रामकाः ॥१५॥</l>
</lg>
<p>श्रीभोजदेवस्य ।</p>
<pb n="614" />
<p>शिशिरस्वभावाख्यानम्
3934</p>
<lg>
  <l>अन्योन्याहतिदन्तनाद मुखरं प्रहं मुखं कुर्वता</l>
  <l>नेत्रे साश्रुकणे निमील्य पुलकव्यासङ्गि कण्डूयता ।</l>
  <l>हा हा होत सुनिष्ठुरं विवदता बाहू प्रसार्य क्षणं</l>
</lg>
<lg>
  <l>पुण्याग्निः पथिकेन पीयत इव ज्वालाहत मश्रुणा ॥ १६ ॥</l>
  <l>बाणभहस्य ।</l>
  <l>अथ शिशिरस्वभावाख्यानम् ॥</l>
  <l>१३८ ॥</l>
</lg>
<p>3935</p>
<lg>
  <l>अंशुकमिव शीतभयात्संस्त्यानत्वच्छलेन हिमवलयम् ।</l>
  <l>अम्भोभिरपि गृहीतं पश्यत शिशिरस्य माहात्म्यम् ॥ १ ॥</l>
</lg>
<p>अमृतवर्धनस्य ।
3936</p>
<lg>
  <l>वह्नेः शक्तिर्जलमिव गता दर्शनाद्दाहवृत्ते-</l>
  <l>नित्योद्गन्धे नवमरुबके वर्तते पुष्पकार्यम् ।</l>
  <l>शीतत्रासं दधदिव रविर्याति सिन्धोः कृशानुं</l>
  <l>शीतैर्भीता इव च दिवसाः सांप्रतं संकुचन्ति ॥ २ ॥</l>
</lg>
<p>राजशेखरस्य ।
3937</p>
<lg>
  <l>प्रावरणैरङ्गारैर्गर्भगृहैः स्तनतटैश्च दयितानाम् ।</l>
  <l>संतर्जितमाद्यानां निपतति शीतं दरिद्वेषु ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
3938</p>
<lg>
  <l>कारणोत्पन्नकोपोपि सांप्रतं प्रमदाजनः ।</l>
  <l>निशि शीतापदेशेन गाढमालिङ्गति प्रियम् ॥ ४॥</l>
</lg>
<p>महामनुष्यस्य ।
3939</p>
<lg>
  <l>पीनोत्तुङ्गपयोधराः परिलसत्संपूर्णचन्द्रानना:</l>
  <l>कान्ता नैव गृहे गृहं न च दृढं जात्यं न काश्मीरजम् ।</l>
  <l>ताम्बूलं नवतूलिका नवपटी तैलं न गन्धाविलं</l>
  <l>सद्यः पाचितसाईका न वटकाः शीतं कथं गम्यते ॥ ५ ॥</l>
</lg>
<p>श्वेताम्बरश्रीचन्द्रस्य ।</p>
<pb n="615" />
<p>शार्ङ्गधरपद्धतिः
3940</p>
<lg>
  <l>द्वारं गृहस्य पिहितं शयनस्य पार्श्वे</l>
  <l>वह्निर्ज्वलत्युपरि तूलपटो गरीयान् ।</l>
  <l>अङ्गानुकूलमनुरागवशं कलत्र-</l>
  <l>मित्थं करोति किमसौ स्वपतस्तुषारः ॥ ६ ॥</l>
</lg>
<p>कस्यापि ।
3941</p>
<lg>
  <l>चुल्हीसीमाने गोरसाईमशनं भुक्त्वा परीत्याभकै-</l>
  <l>रभ्याशे सुकृषीक्षुयन्त्रनिनदं हर्षात्समाकर्णयन् ।</l>
  <l>शेते संहतगोगणोष्मणि गृहे स्रस्ताम्बरां गेहिनी -</l>
  <l>मालिङ्गयागणयन्निशामु तुहिनं प्रोड्डामरः पामरः ॥ ७ ॥</l>
</lg>
<p>कस्यापि ।
अथ दृङ्गीलनक्रीडा ।
3942</p>
<lg>
  <l>नैतस्याः प्रसूतिइयेन सरले शक्ये पिधातुं दृशौ</l>
  <l>सर्वत्रैव विलोक्यते मुखशारीज्योत्स्नावितानैरियम् ।</l>
  <l>इत्थं बालतया सखीभिरसकृड्डङ्गीलनाकेलिषु</l>
  <l>व्याषिद्धा रजनीमुखं च नयने स्वे गर्हते कन्यका ॥ ८ ॥</l>
</lg>
<p>कस्यापि ।
3943</p>
<lg>
  <l>न पाणिप्रच्छाद्यं नयनयुगमत्यायतमिदं</l>
  <l>नितम्बस्यौदार्यात्वरितगतियोगोप्यसुलभः ।</l>
  <l>अतिस्वल्पी पाणी स्तनभनिरोधान मिलितौ</l>
  <l>निमीलक्रीडायां कलुषयसि मुग्धे किमिति नः ॥ ९ ॥</l>
</lg>
<p>कस्यापि ।
अथ शिशिरवायवः ।
3944
-
केशानाकुलयन्दृशी मुकुलयन्वासो बलादाक्षिप-
नातन्वन्पुलकोद्गमं प्रकटयन्नावेगकम्पं गतेः ।</p>
<pb n="616" />
<p>शिशिरस्वभावाख्यानम्
वारं वारमुदार सीत्कृतरवैर्दन्तच्छदं पीडय-
न्प्राय: शैशिर एष संप्रति मरुत्कान्तासु कान्तायते ॥१०॥
कस्यापि ।
39
3945</p>
<lg>
  <l>चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादाना</l>
  <l>वक्षःसूत्कञ्चुकेषु स्तनभरपुलकोद्भेदमापादयन्तः ।</l>
  <l>ऊरूनाकम्पयन्तः पृथुजघनतटात्स्रंसयन्तोंशुकानि</l>
  <l>व्यक्तं कान्ताजनानां विटचरितभृतः शैशिरा वान्ति वाताः ॥ ११ ॥</l>
</lg>
<p>कस्यापि ।</p>
<p>अथ शिशिरपथिकः ।
3916</p>
<lg>
  <l>पुण्यामा पूर्णवाञ्छ: प्रथममगणितप्लोषदोषः प्रदोषे</l>
  <l>पान्थः सुत्वा यथेच्छं तदनु तनुतणे घामाने ग्रामदेव्याः ।</l>
  <l>उत्कम्पी कर्पटार्धे जरति परिजडे छिद्रिणि च्छिन्ननिद्रे</l>
  <l>वाते वाति प्रकामं हिमकणिनि कणत्कोणतः कोणमेति ॥१२॥</l>
</lg>
<p>बाणभहस्य ।
3947</p>
<lg>
  <l>संविष्टो ग्रामदेव्याः कुटघटित कुटीकुद्य कोणैक दे शे</l>
  <l>शीते संवाति वायौ हिमकणिनि रणद्दन्तपद्रियामः ।</l>
  <l>पान्थः कन्थां निशीथे परिकुथितजरत्तन्तुसंतानगुर्वी</l>
  <l>ग्रीवापादाग्रजानुग्रहणचटचटत्कर्पटं प्रावृणोति ॥ १३ ॥</l>
</lg>
<p>मयूरस्य ।
3948</p>
<lg>
  <l>आरात्कारीषवद्वेर्विरचितसुतृण त्रस्तरान्तर्निषण्णै:</l>
  <l>संशीर्ण ग्रन्थि कन्थाविवरवशविशच्छीत वाताभिभूतैः ।</l>
  <l>नीता: कृच्छ्रेण पान्थैः श्वभरिव निबिडं जानुसंकोचकुज्जै-</l>
  <l>रन्तदुर्वार दु: खडिगुणतरकृतायामयामास्त्रियामाः ॥ १४ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="617" />
<p>शार्ङ्गधरपद्धतिः
अथ संमिश्राख्यानम् ॥ १३९ ॥
3949</p>
<lg>
  <l>यो न दीर्घसितापाङ्गविलासललितभ्रुवः ।</l>
  <l>प्रियामुखस्य वशगस्तस्मै नृपशवे नमः ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
3950</p>
<lg>
  <l>कुचावालोक्य तन्वचाः शिरः कम्पयते युवा ।</l>
  <l>तयोरन्तर निर्मनां दृष्टिमुत्पाटयन्निव ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
3951</p>
<lg>
  <l>मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्ट्रे</l>
  <l>कान्ता पयोधर युगे रतिखेदखिन्नः ।</l>
  <l>वक्षो निधाय भुजपञ्जरमध्यवर्ती</l>
  <l>धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
3952</p>
<lg>
  <l>कर्णे तालदलं तनौ मलयजं कर्पूरवासोंशुके</l>
  <l>चूले गुम्फितकेतकीदलभरः कण्ठे नवैकावली ।</l>
  <l>वास: श्रीवनवाससीमान वचश्रीः सत्कवेरुक्तयो</l>
  <l>व नागर खण्डमस्तु पुरतः प्रेमाकुलाः कुन्तलाः ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
3953</p>
<lg>
  <l>मधु च विकसितोपलावतंसं</l>
  <l>शशिकरपल्लवितं च हर्म्यपृष्ठम् ।</l>
  <l>मदनजनितविभ्रमा च कान्ता</l>
  <l>फलमिदमर्थवतां विभूतयोन्याः ॥ ५ ॥</l>
</lg>
<p>भर्टमेण्ठस्य ।</p>
<pb n="618" />
<p>संमिश्राख्यानम्
3954</p>
<lg>
  <l>भ्रूचातुर्यात्कुञ्चितान्ताः कटाक्षाः</l>
  <l>स्निग्धा हावा लज्जितान्ताश्च हासाः ।</l>
  <l>लीलामन्दं प्रस्थितं च स्थितं च</l>
  <l>स्त्रीणामेतद्भूषणं चायुधं च ॥ ६ ॥</l>
</lg>
<p>भर्तृहरेः ।
3955</p>
<lg>
  <l>अधीतविद्यैर्विगते शिशुवे</l>
  <l>धनोजिते हारिणि यौवने च ।</l>
  <l>सेव्या नितम्बास्तु विलासिनीनां</l>
  <l>ततस्तदर्थ धरणीधराणाम् ॥ ७ ॥</l>
</lg>
<p>कस्यापि ।
3956</p>
<lg>
  <l>यत्रोदारा दारास्तत्र न कान्तः स्वतः कान्तः ।</l>
  <l>यत्र तु कान्तः कान्तस्तत्र न दारा गुणोदाराः ॥ ८ ॥</l>
</lg>
<p>श्रीदिनकरदेवानाम् ।
3957</p>
<lg>
  <l>अवचनं वचनं गुरुसंनिधा-</l>
  <l>वनवलोकनमेव विलोकनम् ।</l>
  <l>अवयवावरणं हि यदंशुक-</l>
  <l>व्यतिकरेण तदङ्ग समर्पणम् ॥ ९ ॥</l>
</lg>
<p>वामनस्वामिनः ।
3958</p>
<lg>
  <l>अनुदिनमभ्यासदृढैः सोढुं दीर्घोपि शक्यते विरहः ।</l>
  <l>प्रत्यासन्न समागम मुहूर्ता विघ्नस्तु दुविरहः ॥ १० ॥</l>
</lg>
<p>कस्यापि ।
3959
ग्रामोपशल्यतटिनीतटमण्डपेस्मि-
न्मा पान्थ मन्थरगते रजनी नयस्व ।</p>
<pb n="619" />
<p>शार्ङ्गधरपद्धतिः
अस्मिन्निशीथविरहज्वरजागरूक-
कोकाङ्गनाकरुणकूजितकष्टमस्ति ॥ ११ ॥
कस्यापि
3960
अयं स्निग्धश्यामो य इह विहरत्यम्बुजवने
विनिद्रे व्यागुञ्जन्मधुप इति तं जल्पतु जनः ।
अहं शङ्के पङ्केरुहकुहरवासव्यसानेनीं
श्रियं भृङ्गच्छद्म। मुररिपुरुपेतो रमयितुम् ॥ १२ ॥
अथ वीररसनिर्देशः ॥ १४० ॥
3961</p>
<lg>
  <l>भर्तृपिण्डानृणकरो यशः क्रय महापणः ।</l>
  <l>सुराङ्गनास्वयंग्राहो रम्यः कालोयमागतः ॥ १ ॥</l>
</lg>
<p>शाण्डिल्यस्य ।
3962</p>
<lg>
  <l>प्रायेण सुकरं दानं प्रायेण सुकरं तपः ।</l>
  <l>प्राणानपेक्षी व्यापारः पुनर्वीरस्य दुष्करः ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
3963</p>
<lg>
  <l>क्षत्रियस्योरसि क्षत्रं पृष्ठे ब्रह्म व्यवस्थितम् ।</l>
  <l>तेन पृष्ठं न दातव्यं पृष्ठदो ब्रह्मा भवेत् ॥ ३ ॥</l>
</lg>
<p>3964
भगवतो व्यासस्य ।</p>
<lg>
  <l>मा भैष्ट नैते नित्रिंशा नीलोत्पलदलत्विषः ।</l>
  <l>एते वीरावलोकिन्या लक्ष्म्या नयनविभ्रमाः ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
3965</p>
<lg>
  <l>धृतधनुषि शौर्यशालिनि शैला न नमन्ति यत्तदाश्चर्यम् ।</l>
  <l>रिपुसंज्ञकेषु गणना कैव वराकेषु काकेषु ॥ ५ ॥</l>
</lg>
<p>बाणभट्टस्य ।</p>
<pb n="620" />
<p>वीररस निर्देश:
3966</p>
<lg>
  <l>खड्गास्तिष्ठन्तु मत्तेभकुम्भकूटाट्टहासिनः ।</l>
  <l>एकदोर्दण्डशेषोपि कः सहेत पराभवम् ॥ ६ ॥</l>
</lg>
<p>कस्यापि ।
3967</p>
<lg>
  <l>जीवन्नेत्र मृतोसौ यस्य जनो वीक्ष्य वदनमन्योन्यम् ।</l>
  <l>कृतमुखभङ्गो दूरात्करोति निर्देशमङ्गुल्या ॥ ७ ॥</l>
</lg>
<p>दामोदरगुप्तस्य ।
3968</p>
<lg>
  <l>रविमणिरपि निश्चेष्टः पादस्तिग्मंद्युतेर्मनाक्स्पृष्टः ।</l>
  <l>ज्वलतितरामिति को वा मन्युं सोढुं क्षमो मानी ॥ ८ ॥</l>
</lg>
<p>इन्द्रसिंहस्य ।
3969</p>
<lg>
  <l>लोक: शुभस्तिष्ठतु तावदन्यः</l>
  <l>परामुखाणां समरेषु पुंसाम् ।</l>
  <l>पत्नयोपि तेषां न हिया मुखानि</l>
  <l>पुर: सखीनामिह दर्शयन्ति ॥ ९ ॥</l>
</lg>
<p>3970</p>
<lg>
  <l>हा तात तातेति स वेदनार्तः</l>
  <l>कणन्हदन्मूत्रकफानुलिप्तः ।</l>
  <l>वर मृतः किं भवने किमाजौ</l>
  <l>संदष्टदन्तच्छदमीमवक्त्रः ॥ १० ॥</l>
</lg>
<p>3971
संमूर्च्छितं संयुगसंप्रहारैः
पश्यन्ति सुप्तप्रतिबुद्धतुल्यम्
1.</p>
<p>आत्मानमङ्गेषु सुराङ्गनानां
मन्दाकिनी मारुतवीजिताङ्गाः ॥ ११ ॥
एते वराहमिहिरस्य ।</p>
<pb n="621" />
<p>शार्ङ्गधरपद्धतिः
3972</p>
<lg>
  <l>यदि समरमपास्य नास्ति मृत्यो-</l>
  <l>र्भयमिति युक्तमितोन्यतः प्रयातुम् ।</l>
  <l>अथ मरणमवश्यमेव जन्तोः</l>
  <l>किमिति मुधा मलिनं यशः क्रियेत ॥ १२ ॥</l>
</lg>
<p>नारायणभदृस्य ।
3973</p>
<lg>
  <l>अन्त्रैः स्त्रैरपि संयताग्रचरणो मूविरामक्षणे</l>
  <l>स्वाधीनव्रणिताङ्गशस्त्रनिचितो रोमोद्गमं वर्मयन् ।</l>
  <l>भग्नानुवलयञ्जितान्परभटानाधर्षयन्निष्ठुरं</l>
  <l>धन्यो धाम जयश्रियः पृथुरणस्तम्भे पताकायते ॥ १३ ॥</l>
</lg>
<p>धनिकस्य ।
3974</p>
<lg>
  <l>वयस्याः क्रोष्टारः प्रतिशृणुत बद्धोञ्जलिरयं</l>
  <l>किमप्याकाङ्कामः क्षरति न यथा वीरचरितम् ।</l>
  <l>मृतानामस्माकं भवति परवश्यं वपुरिदं</l>
  <l>भवद्भिः कर्तव्यं नहि नहि पराचीनचरणम् ॥ १४ ॥</l>
</lg>
<p>हम्मीरनरेन्द्रस्य ।
3975</p>
<lg>
  <l>रक्तं नक्तंचरौघः पिवति वमति च ग्रस्तकुन्तः शकुन्तः</l>
  <l>क्रव्यं नव्यं गृहीत्वा प्रणदति मुदितो मत्तवेतालवालः ।</l>
  <l>क्रीडत्यन्रीडमस्मित्रुधिर मधुवशात्पूतना नूतनाङ्गी</l>
  <l>• योगिन्यो मांसद: प्रमुदितमनसः भूरशक्ति स्तुवन्ति ॥ १५ ॥</l>
</lg>
<p>कवीश्वरस्य ।
3976</p>
<lg>
  <l>कोप्येष खण्डितशिरा विकसन्मुखश्रीः</l>
  <l>प्रारब्धताण्डवविधेिः सुरकामिनीभिः ।</l>
  <l>आलोक्यते निजकराभिनयानुरूप</l>
  <l>व्यापारितेक्षणनिवेदितसत्त्वसारः ॥ १६ ॥</l>
</lg>
<p>घावीश्वरकाञ्चनस्य ।</p>
<pb n="622" />
<p>वीररसनिर्देश:
3977</p>
<lg>
  <l>परस्परेण क्षतयोः प्रहन-</l>
  <l>रुक्रान्तवाय्वोः समकालमेव ।</l>
  <l>अमर्त्यभावेपि कयोश्चिदासी-</l>
  <l>देकाप्सर : प्रार्थितयोर्विवादः ॥ १७ ॥</l>
</lg>
<p>3978</p>
<lg>
  <l>कश्चिद्विषत्खड्ग हतोत्तमाङ्गः</l>
  <l>सद्यो विमानप्रभुतामुपेत्य ।</l>
  <l>वामाङ्गसंसक्तमुराङ्गन: स्वं</l>
  <l>नृत्यत्कबन्धं समरे ददर्श ॥ १८ ॥</l>
</lg>
<p>कालिदासस्यैतौ ।
3979</p>
<lg>
  <l>ते क्षत्रियाः कुण्डलिनो युवानः</l>
  <l>परस्परं सायकविक्षताङ्गाः ।</l>
  <l>कुम्भेषु लग्नाः सुषुपुर्गजानां</l>
  <l>कुचेषु लना इव कामिनीनाम् ॥ १९ ॥</l>
</lg>
<p>S
3980</p>
<lg>
  <l>भूरेणुदिग्धा नवपारिजात-</l>
  <l>स्रजो रजोवासित बाहुमध्याः ।</l>
  <l>गाढं शिवाभिः परिरभ्यमाणाः</l>
  <l>सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ २० ॥</l>
</lg>
<p>भगवतो व्यासस्यैतौ ।</p>
<p>3981
मां</p>
<lg>
  <l>जन्मेन्दोरमले कुले व्यपदिशस्यद्यपि धत्से गदां</l>
  <l>दुःशासन कोष्णशोणितसुराक्षीवं रिपुं भाषसे ।</l>
  <l>दर्पान्धो मधुकैटभद्दिषि हरावप्युद्धतं चेष्टसे</l>
  <l>मत्रासान्नृपशो विहाय समरं पङ्केधुना लीयसे ॥ २१ ॥</l>
</lg>
<p>नारायणभदृस्य ।</p>
<pb n="623" />
<p>शाधरपद्धतिः
3982</p>
<lg>
  <l>हतेभिमन्यौ क्रुद्धेन तत्र पार्थेन संयुगे ।</l>
  <l>अक्षौहिणी: सप्त हत्वा हतो राजा जयद्रथः ॥ २२ ॥</l>
</lg>
<p>3983</p>
<lg>
  <l>लोहितायति चादित्ये त्वरमाणो धनंजयः ।</l>
  <l>पञ्चविंशतिसाहस्रान्निजधान महारथान् ॥ २३ ॥</l>
</lg>
<p>3984</p>
<lg>
  <l>रथेभ्यो गजवाजिभ्य: संग्रामे वीरसंकराः ।</l>
  <l>पातिताः पात्यमानाश्च दृश्यन्तेर्जुनताडिताः ॥ २४ ॥</l>
</lg>
<p>3985</p>
<lg>
  <l>पूर्णे शतसहस्रे हे पदातीनां नरोत्तमः ।</l>
  <l>प्रजज्वाल रणे भीष्मो विधूम इव पावकः ॥ २५ ॥</l>
</lg>
<p>3986</p>
<lg>
  <l>आकर्णपलितः दयामो वयसाशीतिपञ्चकः ।</l>
  <l>रणे पर्यचरद्रोणो वृद्धः षोडशवर्षवत् ॥ २६ ॥</l>
</lg>
<p>भगवतो व्यासस्यैते ।
3987</p>
<lg>
  <l>लक्ष्मणो लघुसंधानी दूरपाती च राघवः ।</l>
  <l>कर्णो दृढप्रहारी च पार्थस्यैते त्रयो गुणाः ॥ २७ ॥</l>
</lg>
<p>क्षेमेन्द्रस्य ।
3988</p>
<lg>
  <l>न कालस्य न शक्रस्य न विष्णोर्वित्तदस्य च ।</l>
  <l>भ्रूयन्ते तानि कर्माणि यानि युद्धे हनूमतः ॥ २८ ॥</l>
</lg>
<p>वाल्मीकिकवेः ।
3989</p>
<lg>
  <l>छिन्नेपि शस्त्रभिन्नेप्यापत्पतितेपि निर्विशेषेपि ।</l>
  <l>हनुमति कृतप्रतिज्ञे दैवमदैवं यमोप्ययमः ॥ २९ ॥</l>
</lg>
<p>3990
कपोले जानक्या: करिकलभदन्तद्युतिमुषि
स्मरस्मेरं गण्डोड्डमरपुलकं वक्रकमलम् ।</p>
<pb n="624" />
<p>वीररसनिर्देश:
मुहुः पश्यञ्शृण्वत्रजनिचर सेनाकलकले
जटाजूटग्रन्थि द्रढयति रघूणां परिवृढः ॥ ३० ॥
:
महानादकस्यैतौ ।
3991</p>
<lg>
  <l>वीरोसौ किमु वर्ण्यते दशमुखश्छिन्नैः शिरोभिः स्वयं</l>
  <l>यः पूजास्रजमुत्सुको घटयितुं देवस्य खड्ढाङ्गिनः ।</l>
  <l>सूत्रार्थी हरकण्ठसूत्रभुजगव्याकर्षणा योद्यतः</l>
  <l>साटोपं प्रमथैः कृतभ्रुकुटिभिः स्थित्वान्तरे वारितः ॥ ३१ ॥</l>
</lg>
<p>बिल्हणस्य ।</p>
<p>3992</p>
<lg>
  <l>संतुष्टे तिसृणां पुरामपि रिपौ कण्डूलदोर्मण्डल-</l>
  <l>क्रीडा कृत्तपुनः प्ररूढशिरसो वीरस्य लिप्सोर्वरम् ।</l>
  <l>याजादैन्यपराञ्चि यस्य कलहायन्ते मिथस्त्वं वृणु</l>
  <l>त्वं वृण्वित्यभितो मुखानि स दशमीवः कथं वर्ण्यते ॥ ३२ ॥</l>
</lg>
<p>मुरारेः ।
3993</p>
<lg>
  <l>सलीलया तानि न भर्तुरभ्रमो-</l>
  <l>र्न चित्रमुचैःश्रवसः पदक्रमम् ।</l>
  <l>अभिद्रुतः संयति येन केवलं</l>
  <l>बलस्य शत्रु: प्रशशंस शीघ्रताम् ॥ ३३ ॥</l>
</lg>
<p>माघकवेः ।
3994</p>
<lg>
  <l>आजन्मब्रह्मचारी पृथुलभुजशिलास्तम्भविभ्राजमान-</l>
  <l>ज्याघात श्रेणिसंज्ञान्तरितवसुमती चक्र जैत्रप्रशस्तिः ।</l>
  <l>वक्ष:पीठे घनास्त्रत्रणकिणकठिने संक्ष्णुवानः पृषत्का-</l>
  <l>न्प्राप्तो राजन्यगोष्ठीवनगजमृगया कौतुकी जामदश्यः ॥३४॥</l>
</lg>
<p>मुरारे: ।
3995
क्षुद्रा: संत्रासमेते विजहत हरयः क्षुण्णशक्रेभकुम्भा
युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः ।</p>
<pb n="625" />
<p>शार्ङ्गधरपद्धतिः
सौमित्रे तिष्ठ पात्रं त्वमसि नाहे रुषां नन्वहं मेघनादः
किंचिद्धूभङ्गलीलानियमितजलाधं राममन्वेषयामि ॥ ३५ ॥
महानाटकस्य ।</p>
<lg>
  <l>3996</l>
  <l>सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् ।</l>
  <l>पश्चिमेनाह्नि शेषेण मेघनादेन सायकैः ॥ ३६॥</l>
  <l>अथ करुणरसानेर्देशः ॥ १४१ ॥</l>
</lg>
<p>वाल्मीकिमुनेः ।
3997</p>
<lg>
  <l>यस्याः कुसुमशय्यापि कोमलाङ्गया रुजाकरी ।</l>
  <l>साधिशेते कथं देवी ज्वलन्तीमधुना चिताम् ॥ १ ॥</l>
</lg>
<p>दण्डिनः ।
3998</p>
<lg>
  <l>गृहिणी सचिव : सखी मिथः</l>
  <l>प्रियशिष्या ललिते कलाविधौ ।</l>
  <l>करुणाविमुखेन मृत्युना</l>
  <l>हरता त्वां बत किं न मे हृतम् ॥ २ ॥</l>
</lg>
<p>कालिदासस्य ।
3999</p>
<lg>
  <l>ध्वस्तः काव्योरुमेरु: कविविपणिमहारत्नराशिर्विशीर्ण:</l>
  <l>शुष्कः शब्दौवसिन्धुः प्रलयमुपगतो वाक्यमाणिक्यकोशः ।</l>
  <l>दिव्योक्तीनां निधानं निधनमुपगतं हा हता दिव्यवाणी</l>
  <l>बाणे गीर्वाणवाणीप्रणयिनि विधिना शायिते दीर्घनिद्राम् ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
4000</p>
<lg>
  <l>सृजति तावदशेषगुणाकरं</l>
  <l>पुरुषरत्नमलंकरणं भुवः ।</l>
  <l>तदनु तत्क्षणभङ्ग करोति चे-</l>
  <l>दहह कष्टमपण्डितता विधेः ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
13</p>
<pb n="626" />
<p>करुणरसनिर्देश:
4001</p>
<lg>
  <l>सा रसवत्ता विगता नवका विलसन्ति चरति नो कं कः ।</l>
  <l>सरसीव कीर्तिशेष गतवति भुवि विक्रमादित्ये ॥ ५ ॥</l>
</lg>
<p>सुबन्धोः ।
4002</p>
<lg>
  <l>मांधाता स महीपतिः कृतयुगेलंकारभूतो गतः</l>
  <l>सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः ।</l>
  <l>अन्ये चापि युधिष्ठिरप्रभृतयो यावन्त एवाभव-</l>
  <l>म्नैकेनापि समं गता वसुमती मन्ये त्वया यास्यति ॥ ६ ॥</l>
</lg>
<p>मुझं प्रति भोजराजस्य लेखः ।
4003</p>
<lg>
  <l>भगीरथाद्याः सगरः ककुत्स्थो</l>
  <l>दशाननो राघवलक्ष्मणौ च ।</l>
  <l>युधिष्ठिराद्याश्च बभूवुरेते</l>
  <l>सत्यं क याता बत ते नरेन्द्राः ॥ ७॥</l>
</lg>
<p>भगवतो व्यासस्य ।
4004
उत्खात</p>
<lg>
  <l>देव तमिवायतनं पुरारे-</l>
  <l>रस्ता चलान्तरितचन्द्रमिवान्तरिक्षम् ।</l>
  <l>हम्मीरभूभुजि गते सुरवेशम विश्वं</l>
  <l>पश्यामि हारमिव नायकरत्नशून्यम् ॥ ८ ॥</l>
</lg>
<p>देवेश्वरस्य ।
4005</p>
<lg>
  <l>इह खलु विषमः पुरा कृतानां</l>
  <l>विलसति जन्तुषु कर्मणां विपाकः ।</l>
  <l>हरशिरसि शिरांसि यानि रेजुः</l>
  <l>शिव शिव तानि लुटन्ति गृध्रपाः ॥ ९ ॥</l>
</lg>
<p>कस्यापि ।
4006</p>
<lg>
  <l>मातुलो यस्य गोविन्दः पिता यस्य धनंजयः ।</l>
  <l>सोपि मृत्युवशं यातः कालो हि दुरतिक्रमः ॥ १० ॥</l>
</lg>
<pb n="627" />
<p>शार्ङ्गधरपद्धतिः
4007</p>
<lg>
  <l>साक्षान्मघवतः पौत्रः पुत्रो गाण्डीवधन्वनः ।</l>
  <l>स्वस्रीयो वामुदेवस्य तं गृध्राः पर्युपासते ॥ ११ ॥</l>
</lg>
<p>4008</p>
<lg>
  <l>असहाय: सहायार्थी मामनुध्यातवान्ध्रुवम् ।</l>
  <l>पीद्यमानः शरैस्तीक्ष्णैणद्रौणिकृपादिभिः ॥ १२ ॥</l>
</lg>
<p>भगवतो व्यासस्यैते ।
4009</p>
<lg>
  <l>अक्षुद्रारिकृताभिमन्युनिधनप्रोद्भुततीत्रभ्रुत्रः</l>
  <l>पार्थस्याकृतशात्रत्रप्रतिकृतेरन्तः शुचा मुह्यतः ।</l>
  <l>कीर्णा बाष्पकणैः पतन्ति धनुषि न्रीडाजडा दृष्टयो</l>
  <l>हा वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति वक्राद्वहिः॥ १३ ॥</l>
</lg>
<p>निशानारायणस्य ।
4010</p>
<lg>
  <l>कोहं ब्रूहि सखे स एव भगवानार्यः सखे राघवः</l>
  <l>के यूयं बत नाथ नाथ किमिदं दासोस्मि ते लक्ष्मणः ।</l>
  <l>कान्तारे किमिहास्महे बत सखे देव्या गतिर्मृग्यते</l>
  <l>का देवी जनकाधिराजतनया हा जानकि कासि हा ॥ १४ ॥</l>
</lg>
<p>महानाटकस्य ।
4011</p>
<lg>
  <l>मितं ददाति हि पिता मितं भ्राता मितं सुतः ।</l>
  <l>अमितस्य प्रदातारं भर्तारं का न शोचति ॥ १५ ॥</l>
</lg>
<p>वाल्मीकिमुनेः ।
4012</p>
<lg>
  <l>मदेकपुत्रा जननी जरातुरा</l>
  <l>नवप्रसुतिर्नरटा तपस्विनी ।</l>
  <l>गतिस्तयोरेष जनस्तमर्दय-</l>
  <l>नहो विधे त्वां करुणा रुणद्धि न ॥ १६ ॥</l>
</lg>
<p>-
4013
मदर्थसंदष्ट मृणालमन्थरः
प्रियः कियहूर इति त्वयोदिते ।</p>
<pb n="628" />
<p>अद्भुतरसनिर्देश:
विलोकयन्त्या रुदतोथ पक्षिण:
प्रिये स कीदृग्भविता तव क्षणः ॥ १७ ॥
एतौ श्रीहर्षस्य ।
4014</p>
<lg>
  <l>मध्याह्न दववह्निनोष्णसमये दन्दह्यमानागिरेः</l>
  <l>कृच्छ्रान्निर्गतमुत्तृषं जलमथो वीक्ष्यैकरक्षाक्षमम् ।</l>
  <l>प्रेम्णा जीवयितुं मिथः पिब पिबेत्युच्चार्य मिथ्या पिब-</l>
  <l>निर्मास्यमपीतवारि हरिणद्वन्द्वं विपन्न वने ॥ १८ ॥</l>
</lg>
<p>कस्यापि ।
4015</p>
<lg>
  <l>आदाय मांसमखिलं स्तनवर्जमङ्गा-</l>
  <l>न्मां मुञ्च वागुरिक यामि कुरु प्रसादम् ।</l>
  <l>सीदन्ति शष्पकवल ग्रहणानभिज्ञा</l>
  <l>मन्मार्गवीक्षणपराः शिशवो मदीयाः ॥ १९ ॥</l>
</lg>
<lg>
  <l>कस्यापि ।</l>
  <l>अथाद्भुतरसनिर्देशः ॥ १४२ ॥</l>
</lg>
<p>4</p>
<p>4016</p>
<lg>
  <l>कृष्णेनाम्ब गतेन रन्तुमसकृन्मृद्भक्षिता स्वेच्छया</l>
  <l>सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पदयाननम् ।</l>
  <l>व्यादेहीति विदारिते च वदने दृष्ट्वा समयं जग-</l>
  <l>न्माता यस्य जगाम विस्मयपदं पायात्स वः केशवः ॥ १॥</l>
</lg>
<p>कस्यापि ।
4017</p>
<lg>
  <l>पातुं त्रीणि जगन्ति संततमकूपारात्समभ्युद्धर-</l>
  <l>न्धात्रीं कोलकलेवरः स भगवान्यस्यैकदंष्ट्राङ्कुरे ।</l>
  <l>कूर्मः कन्दति नालति द्विरसन: पत्रन्ति दिग्दन्तिनो</l>
  <l>मेरु: कोशति मेदिनी जलजति व्योमापि रोलम्बति ॥२॥</l>
</lg>
<p>कस्यापि !</p>
<pb n="629" />
<p>शार्ङ्गधरपद्धतिः
4018</p>
<lg>
  <l>काकुत्स्थेन शिरांसि यानि शतशश्छिन्नानि मायानिधेः</l>
  <l>पौलस्त्यस्य विमानसीमनि तथा भ्रान्तानि नाकौकसाम् ।</l>
  <l>तान्येवास्य धनुः श्रमप्रशमनं कुर्वन्ति सीतापते:</l>
  <l>क्रीडाचामर डम्बरानुकृतिभिर्दोलायमानैः कचैः ॥ ३ ॥</l>
</lg>
<p>बिल्हणस्य ।</p>
<p>4019</p>
<lg>
  <l>तस्मिन्युद्धे क्षणेनैव त्वरितो वानरध्वजः ।</l>
  <l>सरथं सध्वजं साश्वं भीष्ममन्तर्दधे शरैः ॥ ४ ॥</l>
</lg>
<p>4020
किं क्रमिष्यति किलेब वामनो
भगवतो व्यासस्य ।
यावदित्यमहसन्त दानवाः ।
तावदस्य न ममौ नभस्तले
लङ्कितर्कशशिमण्डलः क्रमः ॥ ५ ॥
4021</p>
<lg>
  <l>युगान्तकालप्रतिसंहतात्मनो</l>
  <l>जगन्ति यस्यां सविकासमासत ।</l>
  <l>तनौ ममुस्तत्र न कैटभविष-</l>
  <l>स्तपोधनाभ्यागमसंभवा मुदः ॥ ६ ॥</l>
</lg>
<p>4022</p>
<lg>
  <l>पाश्चात्यभागमिह सानुषु संनिषण्णाः</l>
  <l>पश्यन्ति शान्तमलसान्द्रतरांशुजालम् ।</l>
  <l>संपूर्णलब्धललनालपनोपमान-</l>
  <l>मुत्सङ्ग सङ्गि हरिणस्य मृगाङ्कमूर्तेः ॥ ७ ॥</l>
</lg>
<p>एते माघकवेः ।
4023</p>
<lg>
  <l>रत्नभित्तिषु संक्रान्तैः प्रतिबिम्ब शतैर्वृतः ।</l>
  <l>ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥ ८ ॥</l>
</lg>
<p>दण्डिकवेः ।</p>
<pb n="630" />
<p>हास्यरसनि देश:
4024</p>
<lg>
  <l>चतुर्ष्वपि समुद्रेषु संध्या मन्वास्य तत्क्षणात् ।</l>
  <l>कक्षाक्षिप्तं निशान्ते स्त्रे वाल: पौलस्त्यमत्यजत् ॥ ९ ॥</l>
</lg>
<p>वाल्मीकिमुनेः ।
4025</p>
<lg>
  <l>किंमो हरिमस्य विश्वमुदरे किं वा फणान्भोगिनः</l>
  <l>शेते यत्र हरिः स्वयं जलनिधेः सोप्येकदेशे स्थितः ।</l>
  <l>आश्चर्य कलशोद्भवो मुनिर सौ यस्यैकहस्तेम्बुधि-</l>
  <l>र्गण्डूषीयति पङ्कजीयति फणी भृङ्गीयात श्रीपतिः ॥ १० ॥</l>
</lg>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ हास्यरसनिर्देशः ॥ १४३ ॥</l>
</lg>
<p>4026</p>
<lg>
  <l>पाणौ ताम्रघटी कुशाः करतले धौते सिते वाससी</l>
  <l>भाले मृत्तिलकः सचन्दनरसन्यस्तैकपुष्पं शिरः ।</l>
  <l>दूरात्क्षिप्रपदा गतिर्दृढतरव्याश्लिष्टदन्ता गिरः</l>
  <l>सोयं वञ्चयितुं जगद्भगवतो दम्भस्य देहक्रमः ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
4027</p>
<lg>
  <l>वैराग्यभङ्गिरचनावचनैः प्रतार्य</l>
  <l>रण्डाश्चिराय विकटस्तनसंनताङ्गीः ।</l>
  <l>ब्रह्मोपदेशमिषसंगतगण्डभित्ति-</l>
  <l>निः शङ्कचुम्बनरसैः कृतिनो द्रवन्ति ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
4028</p>
<lg>
  <l>पीटीप्रक्षालनेन क्षितिपतिकथया सज्जनानां प्रयादैः</l>
  <l>प्रातनत्वार्धयाम कुशकुसुम समारम्भणव्यग्रहस्ताः ।</l>
  <l>पश्चादेते निमज्जत्पुरयुवतिकुचाभोगदत्तेक्षणार्धाः</l>
  <l>प्राणायामापदेशादिह सरिति सदा वासराणि क्षिपन्ति ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="631" />
<p>शार्ङ्गधरपद्धतिः
4029</p>
<lg>
  <l>अङ्गुलिभङ्गविकल्पनविविधविवादप्रवृत्तपाण्डित्यः ।</l>
  <l>जपत्रपलौष्ठः सजने ध्यानपरो नगररथ्यासु ॥ ४ ॥</l>
</lg>
<p>4030</p>
<lg>
  <l>मुण्डो जटिलो नमश्छत्री दण्डी कपायचीरी वा ।</l>
  <l>भस्मस्मेरशरीरो दिशि दिशि भोगी विजृम्भते दम्भः ॥५॥</l>
</lg>
<p>एतौ क्षेमेन्द्रस्य ।
4031</p>
<lg>
  <l>जिह्वायाश्छेदनं नास्ति न तालुपतनाद्भयम् ।</l>
  <l>निर्विशङ्केन वक्तव्यं निर्लज्जः को न पण्डितः ॥ ६ ॥</l>
</lg>
<p>कस्यापि ।
4032</p>
<lg>
  <l>भुकुटीकुटिलललाट: कण्टकिताङ्गः कटाक्षविकटाक्षः ।</l>
  <l>कवलयति पृथुलकवलैस्तण्डुलमत्रलं द्विजः क्रुद्धः ॥ ७ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
4033</p>
<lg>
  <l>धान्याकनागरनिशाईकदाडिमत्व-</l>
  <l>कुस्तुम्बरीलवणतैलसुसंस्कृतान्यः ।</l>
  <l>मत्स्यान्सु शीतसितभक्ततले ददाति</l>
  <l>स ब्रह्मलोकमधिरोहति पुण्यकर्मा ॥ ८ ॥</l>
</lg>
<p>कस्यापि ।
4034</p>
<lg>
  <l>भोजनं प्राप्य दुर्बुद्धे मा प्राणेषु दयां कुरु ।</l>
  <l>दुर्लभानि परान्नानि प्राणा जन्मनि जन्मनि ॥ ९ ॥</l>
</lg>
<p>कस्यापि
4035</p>
<lg>
  <l>क्रय विक्रयकूटतुला लाघवनिक्षेपभक्षणव्याजैः ।</l>
  <l>एते हि दिवसचौरा मुष्णन्ति महाजनं वाणेजः ॥ १० ॥</l>
</lg>
<p>1
4036
आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं
दष्ट इत्र कृष्णस: पलायते दानधर्मेभ्यः ॥ ११ ॥
श्रोतुम्</p>
<pb n="632" />
<p>40
हास्यरसनिर्देश:
4037</p>
<lg>
  <l>दत्वा दिशि दिशि दृष्टिं यात्रकचकितोवगुण्ठनां कृत्वा ।</l>
  <l>चौर इत्र कुटिलचारी पलायते कुटिलरथ्याभिः ॥ १२ ॥</l>
</lg>
<p>एते क्षेमेन्द्रस्य ।
4038</p>
<lg>
  <l>वैद्यनाथ नमस्तुभ्यं क्षपिता शेषमानत्र ।</l>
  <l>त्वयि विन्यस्तभारोयं कृतान्तः सुखमेधते ॥ १३ ॥</l>
</lg>
<p>कस्यापि ।
4039
सत्कोणं लोलनेत्रं कुलयुवतिमुखं दृश्यते सानुकम्पै
स्पृश्यते पीनमङ्गम् ।
रण्डानामर्धलज्जाञ्चितमधिपुलकं
क्लीवानां खाद्यतेन्तश्चिरनिहितधनं काठमूलाग्नितोयैः
पूर्वा सिद्धा कलानां सकल सुखनिधिर्वैद्यविद्याभिवन्द्या ॥ १४ ॥
दीपकस्य ।
4040</p>
<lg>
  <l>गणयति गणने गणकश्चन्द्रेण समागमं विशाखायाः ।</l>
  <l>विविधभुजंगक्रीडासक्तां गृहिणीं न जानाति ॥ १५ ॥</l>
</lg>
<p>कस्यापि ।</p>
<lg>
  <l>4041</l>
  <l>।</l>
  <l>कलमामनिर्गतमषीबिन्दुव्याजेन साञ्जनाश्रुकणा</l>
  <l>कायस्थलुण्ठयमाना रोदिति खिन्नेव राजश्रीः ॥ १६ ॥</l>
</lg>
<p>क्षेमेन्द्रस्य ।
4042</p>
<lg>
  <l>वाचयति नान्यलिखितं लिखितमनेनापि वाचयति नान्यः ।</l>
  <l>अयमपरोस्य विशेषः स्वयमपि लिखितं न वाचयति ॥१७॥</l>
</lg>
<p>4043</p>
<lg>
  <l>कायस्थेनोदरस्थेन मातुरामिषशङ्कया ।</l>
  <l>अन्त्राणि यच भुक्तानि तत्र हेतुरन्तता ॥ १८ ॥</l>
</lg>
<p>4044</p>
<lg>
  <l>काकाल्लोल्यं यमाक्रौर्य स्थपतेदृढघातिताम् ।</l>
  <l>आद्यक्षराणि संगृह्य कायस्थ: केन निर्मितः ॥ १९ ॥</l>
</lg>
<pb n="633" />
<p>शार्ङ्गधर पद्धतिः
4045</p>
<lg>
  <l>विना मद्यं विना मांस परस्त्रहरणं विना ।</l>
  <l>विना परापवादेन दिविरो दिवि रोदिति ॥ २० ॥</l>
</lg>
<p>केषामध्येते ।
4046</p>
<lg>
  <l>अर्थो नाम जनानां जीवितमखिलं क्रियाकलापश्च ।</l>
  <l>तं च हरन्त्यतिधूर्ताभ्यगलगला गायना लोके ॥ २१ ॥</l>
</lg>
<p>4047</p>
<lg>
  <l>तमसि बराकचौरो हाहाकारेण याति संत्रस्तः ।</l>
  <l>गायनचौरः कपटी हाहा कृत्वा न याति वैलक्ष्यम् ॥२२॥</l>
</lg>
<p>4048</p>
<lg>
  <l>आमन्त्रणजयशब्दैः प्रतिपदहुंकारघर्घरारावैः ।</l>
  <l>स्वयमुक्तसाधुवादैरन्तरयति गायनो गीतम् ॥ २३ ॥</l>
</lg>
<p>एते क्षेमेन्द्रस्य ।
4049</p>
<lg>
  <l>मेरुः स्थितोतिदूरे मनुष्यभूमिं परित्यज्य ।</l>
  <l>भीतो भयेन चौर्याचौराणां हेमकाराणाम् ॥ २४ ॥</l>
</lg>
<p>4050</p>
<lg>
  <l>तस्मान्महीपतीनामसंभवे चौरदस्यूनाम् ।</l>
  <l>एंक: सुवर्णकारो निग्राह्यः सर्वथा नित्यम् ॥ २५ ॥</l>
</lg>
<p>एतौ क्षेमेन्द्रस्य ।
4051</p>
<lg>
  <l>उपयुक्त खादेर बीटकजनिताधररागभङ्गभयात् ।</l>
  <l>पितरि मृतेपि हि वेश्या रोदिति हा तात तातेति ॥ २६ ॥</l>
</lg>
<p>4052</p>
<lg>
  <l>पूर्व चेटी ततो बेटी पश्चाद्भवति कुड्डनी ।</l>
  <l>सर्वोपायपरिक्षीणा वृद्धा वेश्या तपस्विनी ॥ २७ ॥</l>
</lg>
<p>4053
वर्णनदयितः कश्चिद्धनदयितो दासकर्मदयितोन्यः</p>
<lg>
  <l>।</l>
  <l>रक्षादयितश्चान्यो वेश्यानां नर्मदायतोन्यः ॥ २८ ॥</l>
</lg>
<p>एते क्षेमेन्द्रस्य ।</p>
<pb n="634" />
<p>हास्यरसनिर्देश:
4054</p>
<lg>
  <l>गत्वा द्वारवतीं नयामि दिवसानाराधयन्ती हर</l>
  <l>वृष्टा वानशनेन जीवितमिदं मुञ्चामि भागीरथीम् ।</l>
  <l>प्रातः प्रातरिति प्रवर्तितकथा निर्वेदमा तन्वती</l>
  <l>रण्डा नक्तमनन्तजारसुरप्रीता सुखायास्तु वः ॥ २९ ॥</l>
</lg>
<p>4055</p>
<lg>
  <l>कटी मुष्टियाह्या द्विपुरुषभुजयायमुदरं</l>
  <l>स्तनौ घण्टालोली जघनमधिगन्तुं व्यवसितौ ।</l>
  <l>स्मितं मेरीनादो मुखमपि च यत्तद्भयकरं</l>
  <l>तथाप्येषा रण्डा परिभवति संतापयति च ॥ ३० ॥</l>
</lg>
<p>कयोरप्येतौ ।
4056
यत्नोत्थापनमात्रनिःसहजरच्चर्मावशेषश्लथ-
भ्ररयच्छेफसि दुर्बलावल नव्यर्थोद्यमालिङ्गने ।
लज्जाधायिनि खिद्यमानयुवतौ वृद्धस्य कृच्छ्रे रते
यत्स्यात्तत्प्रतिभाव्य किं नु हसितुं युक्तं किमारोदितुम् ।॥ ३१ ॥
वृद्धेः ।
4057
खट्टा नितान्तलघुका शिथिलप्रताना
द्वेष्यः पतिः स च निरन्तर चाटुकारी ।
तत्रापि दैवहतिकाः खलु माघराज्यो</p>
<p>हा सह्यतां कथमयं व्यसनप्रपञ्चः ॥ ३२ ॥
कस्यापि ।
4058
शृणु सखि कौतुकमेकं ग्राम्येण तु कामिना यदद्य कृतम् ।
सुरतसुखमीलिताक्षी मृतेति भीतेन मुक्तास्मि ।॥ ३३ ॥
कस्यापि ।
4059</p>
<lg>
  <l>यदक्षिभ्रूलतापाङ्गैः स्त्रियः कुर्वन्ति कामिनाम् ।</l>
  <l>जघनेष्वेव तत्सर्वे पतत्यनपराधिषु ॥ ३४ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="635" />
<p>शार्ङ्गधरपद्धतिः
4060</p>
<lg>
  <l>केशोल्लुच्चनसाम्येपि हन्त पश्यैतदन्तरम् ।</l>
  <l>उपस्था: कीटमअन्ति घृतमत्तं दिगम्बराः ॥ ३५ ॥</l>
</lg>
<p>4061</p>
<lg>
  <l>भिक्षो मांसनिषेवणं प्रकुरुषे किं तेन मद्यं विना</l>
  <l>मद्यं चापि तव प्रियं प्रियमहो वेश्याङ्गनाभिः सह ।</l>
  <l>वेश्या द्रव्यरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा</l>
  <l>चौर्य द्यूतपरिग्रहोपि भवतो नटस्य कान्या गतिः ॥ ३६ ॥</l>
</lg>
<p>कस्यापि ।
4062</p>
<lg>
  <l>सामगायनपूतं मे नोच्छिटमधरं कुरु ।</l>
  <l>उत्कण्डितासि चेद्भद्रे वामकर्ण दशस्व मे ॥ ३७ ॥</l>
</lg>
<p>कस्यापि ।
4063</p>
<lg>
  <l>भस्माङ्गुलिर्बकोड्डायी बालशौची तथा हिहिः ।</l>
  <l>धारावर्ती चक्रवर्ती षडेते पुरुषाधमाः ॥ ३८ ॥</l>
</lg>
<lg>
  <l>4064</l>
  <l>प्रेषक; प्रैष्यकः काण्डः किमेक: स्तम्भलीनकः ।</l>
  <l>योगी तत्कालरोगी च षडेते सेवकाधमाः ॥ ३९ ॥</l>
  <l>अथ भयानकरसनिर्देशः ॥ १४४ ॥</l>
</lg>
<p>4065</p>
<lg>
  <l>दीप्रक्षुद्वेग योगाइदनलहलहल्लम्बजिह्वामलीढ-</l>
  <l>ब्रह्माण्डक्षौद्रबिन्दुप्रबलतरभवज्जाठरामिस्फुलिङ्गाम् ।</l>
  <l>कालीं कङ्कालशेषामतुलगलचलन्मुण्डमालाकराली-</l>
  <l>गुञ्जासंवादिनेत्रामजिननिवसनां नौमि पाशासिहस्ताम् ॥ १ ॥</l>
</lg>
<p>शार्ङ्गधरस्य ।
4066
दंष्ट्रासकटवक्त्रकन्दलललज्जिहस्य हव्याशन-
ज्वालाभासुरभूरिकेसरसटाभारस्य दैत्यः ।</p>
<pb n="636" />
<p>भयानकरस निर्देश:
व्यावल्गद्वलवद्धिरण्यकशिपुक्रोडस्थलास्फालन-
स्पष्टप्रस्फुटद (स्थपञ्जररवक्रूरा नखा: पान्तु वः ॥ २ ॥
हनूमतः ।
4067</p>
<lg>
  <l>अद्याप्युन्मदयातुधानतरुणीचश्चत्करास्फालन-</l>
  <l>व्यावल्गन्नू कपालतालरणितैर्नृत्यत्पिशाचाङ्गनाः ।</l>
  <l>उद्गायन्ति यशांसि यस्य विततैनः प्रचण्डानिल-</l>
  <l>प्रक्षुभ्यत्करिकुम्भकूटकुहरव्यक्त रणक्षोणयः ॥ ३ ॥</l>
</lg>
<p>कृष्णमिश्रस्य ।
4068</p>
<lg>
  <l>इदं मघोनः कुलिशं धारासंनिहितानलम् ।</l>
  <l>स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते ॥ ४ ॥</l>
</lg>
<p>दण्डिनः ।
4069</p>
<lg>
  <l>तपः परामर्शविवृद्धमन्यो-</l>
  <l>भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य ।</l>
  <l>स्फुरन्नुदर्भिः सहसा तृतीया-</l>
  <l>दक्ष्णः कृशानुः किल निष्पपात ॥ ५ ॥</l>
</lg>
<p>कालिदासस्य ।
4070
किंचित्कोपकलाकलापकलनाहंकार बिभ्रद्भुवो-
विक्षेपादकरोदसौ रघुपतिर्लङ्करपतेः पत्तनम् ।</p>
<p>क्रन्दत्फेरु रटत्करेटु विचटदारु स्फुटद्गुग्गुलु
प्रक्रीडत्कपि निःश्वसत्कणि रणज्झिल्लि भ्रमपि च ॥ ६॥
मुरारेः ।
4071</p>
<lg>
  <l>प्रौढच्छेदानुरूपोंच्छलनरयवशात्सहि के थोपमेय-</l>
  <l>त्रासाष्टाश्वतिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम् ।</l>
  <l>कुर्वत्काकुत्स्थ वीर्यस्तुतिमिव मरुतां कंधरारन्ध्रभाजां</l>
  <l>भांकार ममेतन्त्रिपतति वियतः कुम्भकर्णोत्तमाङ्गम् ॥ ७ ॥</l>
</lg>
<p>यशोवर्मणः ।</p>
<pb n="637" />
<p>शार्ङ्गधरपद्धतिः
4072
माद्यन्मातङ्ककुम्भस्थलबहलवसावासनावित्रगन्ध-
।
व्यास क्तव्यक्तमुक्ताफलशकललसत्केसरालीकरालः
एणीवैधव्यवेधाः स्वभुजबलमदग्रस्ततेजस्त्रिधामा
गुञ्जन्कुञ्जे गिरीणां हरिरिह शत्ररीगर्भपातं विधत्ते ॥ ८ ॥
भद्दयशसः ।
4073</p>
<lg>
  <l>महाप्रलयमारुतक्षुभितपुष्करावर्तक-</l>
  <l>प्रचण्डवनगजतप्रतिरवानुकारी मुहुः ।</l>
  <l>रवः श्रवणभैरवः स्थगितरोदसीकंदर:</l>
  <l>कुतोद्य समरोदधेरयमभूतपूर्वः पुरः ॥ ९ ॥</l>
</lg>
<p>4074</p>
<lg>
  <l>मन्थायस्तार्णवाम्भः प्रतिकुहरबलन्मन्दरध्वानधीरः</l>
  <l>कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डः ।</l>
  <l>कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः</l>
  <l>केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोयम् ॥१०॥</l>
</lg>
<lg>
  <l>एतौ नारायणस्य ।</l>
  <l>अथ बीभत्सरसनिर्देशः ॥ १४५ ॥</l>
</lg>
<p>4075</p>
<lg>
  <l>उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयांसि मांसा-</l>
  <l>न्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युमपूंतीनि जग्ध्वा ।</l>
  <l>आत्तस्नाय्वन्त्रनेत्रः प्रकटितदशन: प्रेतरङ्कः करङ्का-</l>
  <l>दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्ययमत्ति ॥ १ ॥</l>
</lg>
<p>भवभूतेः ।
4076
अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल-
व्यक्तोत्तंसभृतः पिनह्य शिरसा हत्पुण्डरीकस्रजः ।</p>
<pb n="638" />
<p>रौद्ररस निर्देश:
एता: शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिब-
न्त्यस्थिस्नेहसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ २ ॥
कस्यापि ।
4077</p>
<lg>
  <l>उत्कृत्य ज्वलितां शबात्कथमपि प्रेताशनः पौशेतीं</l>
  <l>पेशीमग्निमयीं निगीर्य सहसा दन्दह्यमानोदरः ।</l>
  <l>धावत्युत्प्लवते मुहुर्निपतति प्रोत्तिष्ठति प्रेक्षते</l>
  <l>विष्वक्रोशति संपिनष्टि जठरं मुष्टया चलन्मस्तकः ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।
4078</p>
<lg>
  <l>विकीर्णहरिचन्दनद्रविणि यत्र लीलारसा-</l>
  <l>निपेतुरलिचञ्चलाश्चतुर कामिनीदृष्टयः ।</l>
  <l>तदेतदुपरिभ्रमन्निविडगृध्रजालं जनै-</l>
  <l>लुटत्कृमि कलेवरं पिहितनासिकैर्वीक्ष्यते ॥ ४ ॥</l>
</lg>
<p>इन्द्रकवेः ।</p>
<p>4079</p>
<lg>
  <l>प्रस्वेदमल दिग्धेन वहता मूत्रशोणितम् ।</l>
  <l>व्रणेन विकृतेनेदं सर्वमन्धीकृतं जगत् ॥ ५ ॥</l>
</lg>
<lg>
  <l>कस्यापि ।</l>
  <l>अथ रौद्ररस निर्देशः ॥ १४६ ॥</l>
</lg>
<p>4080</p>
<lg>
  <l>पातालत: किमु सुधारसमानयामि</l>
  <l>निष्पीड्य चन्द्रममृतं किमुताहरामि ।</l>
  <l>उद्यन्तमद्य तपनं किमु वारयामि</l>
  <l>की नाशमाशु कणशः किमु चूर्णयामि ॥ १ ॥</l>
</lg>
<p>महानादकान् ।
4081
यत्सत्यवतभङ्गभीतमनसा यत्नेन मन्दीकृतं
यविस्मर्तुमपीहितं शमत्रता शान्ति कुलस्येच्छता ।</p>
<pb n="639" />
<p>शार्ङ्गधरपद्धतिः
तद्द्यूतारणिसंभृतं नृपसुता के शाम्बराकर्षणैः
● क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते ॥ २ ॥
नारायणमहस्य ।
4082</p>
<lg>
  <l>सरोषदष्टाधरलोहिताक्ष-</l>
  <l>र्व्यक्तोर्ध्वरेखा भ्रुकुटीर्वहद्भिः ।</l>
  <l>तस्तार गां भल्लनिकृत्त कण्डै-</l>
  <l>हुँकारगर्मैईिषतां शिरोभिः ॥ ३ ॥</l>
</lg>
<p>4083
-</p>
<lg>
  <l>येन स्त्रां विनिहत्य मातरमपि क्षत्रास्त्रपूरासव-</l>
  <l>स्वादोन्मत्तपरश्वधेन विदधे निःक्षत्रिया मेदिनी ।</l>
  <l>यद्वाणवणवर्त्मनः शिखरिणः क्रौञ्चस्य हंसच्छला-</l>
  <l>दद्याप्यस्थिकणाः पतन्ति स पुनः क्रुद्धो मुनिर्भार्गवः ॥ ४ ॥</l>
</lg>
<p>4085
कालिशरास्य ।
4084</p>
<lg>
  <l>त्रैलोक्यत्राणशौण्डः सरसिजवसतेः संप्रसृतो भुजाभ्यां</l>
  <l>सुक्षत्रं नाम वर्णैः कुलिशकठिन योर्यस्य दोष्णोर्विलीनम् ।</l>
  <l>ज्वालाजिह्वालकालानलकवलभयभ्रान्तदेवासुराणि</l>
  <l>व्यातन्वानो जगन्ति ज्वलति मुनिरयं पार्वतीधर्मपुत्रः ॥ ५ ॥</l>
</lg>
<p>एतौ मुरारे:
4086</p>
<lg>
  <l>चञ्चद्भुजभ्रमितचण्डगढ़ा भिघात-</l>
  <l>संचूर्णितोरुयुगलस्य सुयोधनस्य ।</l>
  <l>स्त्यानावनद्धघनशोणित शोणपाणि-</l>
  <l>रुत्तंसयिष्यति कत्रांस्तव देवि भीमः ॥ ६ ॥</l>
</lg>
<p>अन्योन्यास्फालभिन्नपिरुधिरवसासान्द्र मस्तिष्क प
मनानां स्यन्दनानामुपरि कृतपदन्यासविक्रान्तपत्तौ ।</p>
<pb n="640" />
<p>शान्तरसनिर्देश:
स्फीता सपान गोष्ठीर
सदाशिवशिवातूर्यनृत्यत्कबन्धे
संग्रामैकार्णवान्तः प्रविचरितुमलं पण्डिताः पाण्डुपुत्राः ॥७॥
एतौ नारायणभट्टस्य ।
4087
रे धृष्टा धार्तराष्ट्रा: प्रबलभुजबृहत्ताण्डवाः पाण्डवा रे
रे वार्ष्णेयाः सकृष्णाः शृणुत मम वचो यद्भवीम्यूर्ध्वबाहुः ।
एतस्योत्खात
बाहोर्दु पदनुपसुतातापिन: पापिनो हं
पाता हृच्छोणितानां प्रभवति यदि वस्तत्किमेतं न पाथ ॥ ८ ॥
कस्यापि ।
4088</p>
<lg>
  <l>नाहं रक्षो न भूतो रिपुरुधिरजलाह्लादिताङ्गः प्रकाशं</l>
  <l>निस्तीर्णोरुप्रतिज्ञा जलनिधिगहनः क्रोधनः क्षत्रियोस्मि ।</l>
  <l>भो भो राजन्यवीराः समरशिखिशिखामुक्त शेषाः कृतं व</l>
  <l>॥</l>
</lg>
<p>खासेनानेन लीनैर्हतकरितुरगान्तर्हितैरास्यते यत् ॥ ९ ॥</p>
<lg>
  <l>नारायणभहस्य ।</l>
  <l>अथ शान्तरसनिर्देशः ॥ १४७ ॥</l>
</lg>
<p>तत्र पूर्व वैराग्यम् ।
4089</p>
<lg>
  <l>पुत्रमित्रकलत्रेषु सक्ताः सीदन्ति जन्तवः ।</l>
  <l>सरः पङ्कान्तरे मना जीर्णा वनगजा इव ॥ १ ॥</l>
</lg>
<p>मार्कण्डेयमुनेः ।</p>
<p>4090</p>
<lg>
  <l>मन्ये मायेयमज्ञानं यत्सुखं स्वजनादपि ।</l>
  <l>निदाघवारणायालं निजच्छाया न कस्यचित् ॥ २ ॥</l>
</lg>
<p>4091</p>
<lg>
  <l>विपत्प्रशान्त्यै सेव्यन्ते यदि कष्टेन भूभृतः ।</l>
  <l>तत्करिष्यति कष्टापि विपत्किमधिकं ततः ॥ ३ ॥</l>
</lg>
<pb n="641" />
<p>शार्ङ्गधरपद्धतिः
4092</p>
<lg>
  <l>मितमायुर्वयो नित्यं नैति यातं कदाचन ।</l>
  <l>परामृशन्ति तदापे न भवं भोगलोलुपाः ॥ ४ ॥</l>
</lg>
<p>केषामध्येते ।
4093</p>
<lg>
  <l>व्यात्रीव तिष्ठति जरा परितर्जयन्ती</l>
  <l>रोगाश्च शत्रव इव प्रहरन्ति देहम् ।</l>
  <l>आयुः परिस्रवति भिन्नघटादिवाम्भो</l>
  <l>लोकस्तथाप्यहितमाचरतीति चित्रम् ॥ ५॥</l>
</lg>
<p>4094</p>
<lg>
  <l>क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः</l>
  <l>क्षणं वित्तैर्हीनः क्षणमपि च संपूर्णविभवः ।</l>
  <l>जराजीरनेट इव वलीमण्डिततनु-</l>
  <l>र्नरः संसाराङ्के विशति यमधानीजवनिकाम् ॥ ६ ॥</l>
</lg>
<p>4095</p>
<lg>
  <l>मातर्मेदिनि तात मारुत सखे तेजः सुबन्धो जल</l>
  <l>भ्रातर्व्योम निबद्ध एष भवतामन्त्यः प्रणामाञ्जलिः ।</l>
  <l>युष्मत्सङ्गवशोपजातसुकृतोद्रे कस्फुरन्निर्मल-</l>
  <l>ज्ञानापास्त समस्त मोहमहिमा लीये परे ब्रह्मणि ॥ ७ ॥</l>
</lg>
<p>4096</p>
<lg>
  <l>किं कंदर्प करं कदर्थयसि रे कोदण्डटंकारितै</l>
  <l>रे रे कोकिल कोमलैः कलरवैः किं त्वं वृथा वल्गसि ।</l>
  <l>मुग्धे स्निग्धविदग्धमुग्धमथुरैर्लोलैः कटाक्षैरलं</l>
  <l>चेतचुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥ ८ ॥</l>
</lg>
<p>एते भर्तृहरेः ।
4097
भू: पर्यङ्को निजभुजलता कन्दुकं खं वितानं
दीपश्चन्द्रो विरतिवनितालब्धसङ्गप्रमोदः ।</p>
<pb n="642" />
<p>शान्तरस निर्देश:
दिकन्यानां व्यजनपवनैर्वीज्यमानोनुकूलै-
मिक्षु: शेते नृप इव सदा वीतरागो जितात्मा ॥ ९ ॥
कस्यापि ।
4098</p>
<lg>
  <l>क्वचित्कन्थाधारी कचिदपि च दिव्याम्बरधरः</l>
  <l>क्वचिद्भूमौ शय्या क्वचिदपि च पर्यङ्कशयनः ।</l>
  <l>क्वचिद्भिक्षावृत्तिः क्वचिदपि च मृष्टाशनरुचि-</l>
  <l>महात्मा योगज्ञो न गणयति दुःखं न च सुखम् ॥ १० ॥</l>
</lg>
<p>भर्तृहरेः ।
4099</p>
<lg>
  <l>पाषाणखण्डेष्वपि रत्नबुद्धिः</l>
  <l>कान्तेति धीः शोणितमांसपिण्डे ।</l>
  <l>पञ्चात्मके वर्ष्माणि चात्मभावो</l>
  <l>जयत्यसौ मोहनमोहलीला ॥ ११ ॥</l>
</lg>
<p>श्रीगोपालदेवानाम् ।
4100</p>
<lg>
  <l>नि: नेहो याति निर्वाणं स्नेहोनर्थस्य कारणम् ।</l>
  <l>नि:स्नेहेन प्रदीपेन यदेतत्प्रकटीकृतम् ॥ १२ ॥</l>
</lg>
<p>श्रीदामोदरदेवानाम् ।
4101</p>
<lg>
  <l>वपुषः सुकृतातिवर्तिनो</l>
  <l>विभवस्यापि दुरर्जितस्य नः ।</l>
  <l>सुचिरं न विचारगोचरः</l>
  <l>परिणामो भविता हि कीदृशः ॥ १३ ॥</l>
</lg>
<p>श्रीदेवदासदेवानाम् ।</p>
<p>4102
अहो वा हारे वा बलवति रिपौ वा सुहृदि वा
मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः
क्वचित्पुण्येरण्ये शिव शिव शिवेति प्रलपतः । १४ ॥</p>
<pb n="643" />
<p>शार्ङ्गधरपद्धतिः
4103</p>
<lg>
  <l>आशा नाम नदी मनोरथजला तृष्णातरंगाकुला</l>
  <l>रागमाहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।</l>
  <l>मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्ग चिन्तातटी</l>
  <l>तस्याः पारगता विशुद्ध मनसो नन्दन्ति योगीश्वराः ॥ १५ ॥</l>
</lg>
<p>4104</p>
<lg>
  <l>अदनीमहि वयं भिक्षामाशावासो वसीमहि ।</l>
  <l>शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ १६ ॥</l>
</lg>
<p>4105</p>
<lg>
  <l>आसंसारं त्रिभुवनमिदं चिन्वतां तात ताव-</l>
  <l>नैवास्माकं नयनपदवीं श्रोत्रवर्त्मागतो वा ।</l>
  <l>योयं धत्ते विषयकरिणीगाढगूढाभिमान-</l>
  <l>क्षीवस्यान्तःकरणकरिण: संयमालानलीलाम् ॥ १७ ॥</l>
</lg>
<p>एते भर्तृहरे: ।
4106</p>
<lg>
  <l>येषां वल्लभया समं क्षणमिव क्षिप्रं क्षपा क्षीयते</l>
  <l>तेषां शीतकरः शशी विरहिणामुल्केव संतापकृत् ।</l>
  <l>अस्माकं न च वल्लभा न विरहस्तेनोभयभ्रंशिना-</l>
  <l>मिन्दू राजति दर्पणाकृतिरयं नोष्णो न वा शीतलः ॥ १८ ॥</l>
</lg>
<p>भोजराजचोरकविकृतं पद्यम् ।
4107</p>
<lg>
  <l>दैन्यं क्वचित्क्कचन मन्मथजा विकाराः</l>
  <l>कुत्राप्यनेकविध बन्धुजनप्रपञ्चः ।</l>
  <l>कापि प्रभूतधनकल्पितमीश्वरत्व-</l>
  <l>मित्येकवैकृतमिदं जगदाविभाति ॥ १९ ॥</l>
</lg>
<p>श्रीवत्सराजदेवानाम् ।
4108
गतास्तात भ्रातृप्रमुखसुखपीयूषमधुराः
पुरा लक्ष्मीक्षैव्यव्यसनसरसास्तेपि दिवसाः ।</p>
<pb n="644" />
<p>अनित्यतानिरूपणम्
अदः शान्तं स्वान्तं सपदि यदि निर्वेदपदवीं
भजत्यभ्यासोयं जनयति सुखं भावविमुखम् ॥ २० ॥
श्रीराघवदेवानाम् ।
4109</p>
<lg>
  <l>धावन्तः प्रतिवासरं दिशि दिशि प्रत्याशया संपदां</l>
  <l>दृष्ट्वा कालवशेन हन्त फलितं कस्यापि दैवद्रुमम् ।</l>
  <l>आवं श्रावमवज्ञयोपहसितं सर्वत्र भनोद्यमा</l>
  <l>जीवामः परमार्थभून्यहृदयास्तृप्ता मनोमोदकैः ॥ २१ ॥</l>
</lg>
<p>श्री दामोदरदेवानाम् ।
4110</p>
<lg>
  <l>सन्त्येके धनलाभमात्रगहनव्यामोहसंमूर्छिताः</l>
  <l>कोचदैवतसुन्दरीस्तन परीरम्भभ्रमव्याकुलाः ।</l>
  <l>अन्तर्भूत समस्ततत्वविहं चिन्मात्रशेषं शिवं</l>
  <l>दृष्ट्वा हृष्टतनूरुहाङ्कुरभराः कष्टं न शिष्टाः क्वचित् ॥ २२ ॥</l>
</lg>
<lg>
  <l>श्रीदेवदास देवानाम् ।</l>
  <l>अथानित्यतानिरूपणम् ॥ १४८ ॥</l>
</lg>
<p>4111</p>
<lg>
  <l>येषां निमेषोन्मेषाभ्यां जगतां प्रलयोदयौ ।</l>
  <l>तादृशाः पुरुषा याता मादृशां गणनैव का ॥ १ ॥</l>
</lg>
<p>वासिष्ठरामायणात् ।
4112</p>
<lg>
  <l>प्राप्ताः श्रियः सकलकामदुधास्ततः किं</l>
  <l>न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।</l>
  <l>संमानिताः प्रणयिनो विभवैस्ततः किं</l>
  <l>कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥ २ ॥</l>
</lg>
<p>4113</p>
<p>वयं येभ्यो जाताश्विरतरगता एवं खलु ते
समं यैः संवृद्धाः स्मरणपदवीं तेपि गमिताः ।</p>
<pb n="645" />
<p>शार्ङ्गधरपद्धतिः
इदानीमैते स्मः प्रतिदिवसमासन्न पतना
गतास्तुल्यावस्थां सिकतिलनदीतीर तरुभिः ॥ ३ ॥
4114</p>
<lg>
  <l>रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादि किं</l>
  <l>किं वा प्राणसमासमागमसुखं नैवाधिकं प्रीतये ।</l>
  <l>किं तूझान्त पतत्पतङ्ग पवनव्यालोलदीपाङ्कुर-</l>
  <l>च्छायाचञ्चलमाकलय्य सकलं सन्तो बनान्तं गताः ॥ ४ ॥</l>
</lg>
<p>एते भर्तृहरेः ।
4115</p>
<lg>
  <l>न्यस्तं यथा मूर्ध्नि मुदात्ति मेषो</l>
  <l>दूर्वाक्षताद्यं बलिकल्पितः सन् ।</l>
  <l>मृत्युं समीपस्थितमप्यजान-</l>
  <l>न्भुनक्ति मर्त्यो विषयांस्तथैव ॥ ५ ॥</l>
</lg>
<p>कस्यापि ।
4116</p>
<lg>
  <l>अहमिह कृतविद्यो वेदिता सत्कलानां</l>
  <l>धनपतिरहमेको रूपलावण्ययुक्तः ।</l>
  <l>इति कृतगुणगर्व: खिद्यते किं जनोयं</l>
  <l>कतिपयदिनमध्ये सर्वमेतन्न किंचित् ॥ ६ ॥</l>
</lg>
<p>श्रीदामोदरदेवानाम् ।
4117</p>
<lg>
  <l>गलितानीन्द्रलक्षाणि बुद्बुदानीव वारिणि ।</l>
  <l>मां जीवितनिबद्धाशं विहसिष्यन्ति साधवः ॥ ७ ॥</l>
</lg>
<p>4118</p>
<lg>
  <l>संसाररात्रिदु:स्त्रमे शून्ये देहमयभ्रमे ।</l>
  <l>आस्थां चेदनुबध्नामि तन्मूख नास्ति मत्परः ॥ ८ ॥</l>
</lg>
<p>4119</p>
<lg>
  <l>एता याः प्रेक्षसे लक्ष्मीश्छत्रचामरचञ्चलाः ।</l>
  <l>स्वम एष महाबुद्धे दिनानि त्रीणि पञ्च च ॥ ९ ॥</l>
</lg>
<pb n="646" />
<p>अनित्यतानिरूपणम्
4120</p>
<lg>
  <l>येषु येषु दृढा भावा भावना दृष्टवस्तुषु ।</l>
  <l>तानि तानि विनष्टानि दृष्टानि किमिहोत्तमम् ॥ १० ॥</l>
</lg>
<p>4121</p>
<lg>
  <l>यन्मध्ये यच्च पर्यन्ते यदापाते मनोरमम् ।</l>
  <l>सर्वमेवापवित्रं तद्विनाशामेध्यदूषितम् ॥ ११ ॥</l>
</lg>
<p>4122</p>
<lg>
  <l>नीलोत्पलाभनयनाः परमप्रेमभूषणम् ।</l>
  <l>हासायैव विलासिन्यः क्षणभङ्गितया स्थिताः ॥ १२ ॥</l>
</lg>
<p>एते वासिष्ठात् ।
1000
4123</p>
<lg>
  <l>गन्धर्वनगराकारः संसारः क्षणभङ्गुरः ।</l>
  <l>मनसो वासनैवेयमुभयोर्भेदसाधनम् ॥ १३ ॥</l>
</lg>
<p>4124</p>
<lg>
  <l>नन्दन्ति मन्दाः श्रियमाप्य नित्यं</l>
  <l>परं विषीदन्ति विपद्गृहीताः ।</l>
  <l>विवेकदृष्ट्या चरतां नराणां</l>
  <l>श्रियो न किंचिद्विपदो न किंचित् ॥ १४ ॥</l>
</lg>
<p>4125</p>
<lg>
  <l>मित्रं कलत्रममितः परिवारलोको</l>
  <l>भोगैकसाधनमिमाः किल संपदो नः ।</l>
  <l>एक: क्षणः स तु भविष्यति यत्र भूयो</l>
  <l>नायं न यूयमितरे न वयं न चैते ॥ १५ ॥</l>
</lg>
<p>4126</p>
<lg>
  <l>गतेनापि न संबन्धो न सुखेन भविष्यता ।</l>
  <l>वर्तमानं क्षणातीतं संगतिः केन कस्य वा ॥ १६ ॥</l>
</lg>
<p>एते श्रीदेवगणदेवानाम् ।</p>
<pb n="647" />
<p>शार्ङ्गधरपद्धतिः
4127</p>
<lg>
  <l>इतो न किंचित्परतो न किंचि-</l>
  <l>यतो यतो यामि ततो न किंचित् ।</l>
  <l>स्वात्मावबोधादपरं न किंचि-</l>
  <l>द्विचार्यमाणेपि जगन्न किंचित् ॥ १७ ॥</l>
</lg>
<p>कस्यापि ।
4128</p>
<lg>
  <l>यदस्माभिर्दृष्टं क्षणिकमभवत्स्वम इव त-</l>
  <l>त्कियन्तो भावास्तु स्मरणविषयादव्यपगताः ।</l>
  <l>अहो पश्यत्पश्यत्स्वजनमखिलं यान्तमनिशं</l>
  <l>हतन्रीडं चेतस्तदपि न भवेत्सङ्गरहितम् ॥ १८ ॥</l>
</lg>
<p>श्रीशिवदासदेवानाम् ।
4129
साक्षात्प्रेमावतारः कमलदलदृशो दिक्षु लक्ष्मीरनन्ता
।
सत्पुत्रा: संततित्रा: समविपदावेपत्संविभागी कुटुम्ब:
एतत्सर्वे हि तावत्कृतविलसितं दृश्यमानं मनोज्ञं
यावन्नैतत्यणाशप्रणाय बत मनाङ्लायते ते न चेतः ॥१९।
हरिगणस्य ।
4130</p>
<lg>
  <l>चेतोहरा युवतयः सुहृदोनुकूला:</l>
  <l>सद्वान्धवाः प्रणयगर्भगिरथ भृत्याः ।</l>
  <l>वल्गन्ति दन्तिनिवहास्तरलास्तुरंगा:</l>
  <l>संमीलने नयनयोर्नहि किंचिदस्ति ॥ २० ॥</l>
</lg>
<p>कस्यापि ।
4131</p>
<lg>
  <l>पृथिवी दह्यते यत्र मेरुश्चापि विशीर्यते ।</l>
  <l>सुशोषं सागरजलं शरीरे तत्र का कथा ॥ २१ ॥</l>
</lg>
<p>4132</p>
<lg>
  <l>इदं युगसहस्रस्य भविष्यदभवद्दिनम् ।</l>
  <l>सदस्यघत्वमापद्मं का कथा मरणावधेः ॥ २२ ॥</l>
</lg>
<pb n="648" />
<p>41
विषयोपहासः
4133</p>
<lg>
  <l>लब्धास्त्यक्ताश्च संसारे यावन्तो बान्धवास्त्वया ।</l>
  <l>न सन्ति खलु तावत्यो गङ्गायामपि वालुकाः ॥ २३ ॥</l>
</lg>
<p>4134</p>
<lg>
  <l>आसन्नतामेति मृत्युरायुर्याति दिने दिने ।</l>
  <l>आघातं नीयमानस्य वध्यस्येव पदे पदे ॥ २४ ॥</l>
</lg>
<p>केषामध्येते ।
4135</p>
<lg>
  <l>अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।</l>
  <l>अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २५ ॥</l>
</lg>
<p>4136</p>
<lg>
  <l>एकसार्थप्रवृत्तानां सर्वेषां तत्र गामिनाम् ।</l>
  <l>यद्येकस्त्वरितो याति का तत्र परिदेवना ॥ २६ ॥</l>
</lg>
<p>एतौ भगवतो व्यासस्य ।
4137</p>
<lg>
  <l>एकेद्य प्रातरपरे पश्चादन्ये पुनः परे ।</l>
  <l>सर्वे निःसीम्नि संसारे यान्ति कः केन शोच्यते ॥ २७ ॥</l>
</lg>
<lg>
  <l>क्षेमेन्द्रस्य ।</l>
  <l>अथ विषयोपहासः ॥ १४९ ॥</l>
</lg>
<p>4138</p>
<lg>
  <l>नित्यमाचरतः शौचं कुर्वतः पितृतर्पणम् ।</l>
  <l>यस्य नोद्दिजते चेतः शास्त्रं तस्य करोति किम् ॥ १ ॥</l>
</lg>
<p>कस्यापि ।
4139</p>
<lg>
  <l>यायतः कुरुते जन्तुः स्त्रसुखार्थं परिग्रहान् ।</l>
  <l>तावन्तोस्य निखन्यन्ते हृदये शोकशङ्कवः ॥ २ ॥</l>
</lg>
<p>4140</p>
<lg>
  <l>दारा: परिभवकारा बन्धुजनो बन्धनं विषं विषयाः ।</l>
  <l>कोयं जनस्य मोहो ये रिपवस्तेषु सुहृदाशा ॥ ३ ॥</l>
</lg>
<p>कस्यापि ।</p>
<pb n="649" />
<p>शार्ङ्गधरपद्धतिः
4141</p>
<lg>
  <l>कृमयो भस्म विष्ठा वा निष्टा यस्येयमीदृशी ।</l>
  <l>स कायः परतापाय युज्यतामिति को नयः ॥ ४ ॥</l>
</lg>
<p>कस्यापि ।
4142</p>
<lg>
  <l>रक्तमांसमयः कायः स्त्रीणां स्पर्शसुखायनः ।</l>
  <l>तमेवानन्ति सिंहाद्या रम्यं नास्तीह वस्तुतः ॥ ५ ॥</l>
</lg>
<lg>
  <l>4143</l>
  <l>अङ्गमङ्गेन संपीड्य मांसं मांसेन तु स्त्रियाः ।</l>
  <l>तु</l>
  <l>पुराहमभवं प्रीतो यत्तन्मोहविजृम्भितम् ॥ ६ ॥</l>
</lg>
<p>4144
एतौ वासिष्ठात् ।</p>
<lg>
  <l>उत्तानोच्छूनमण्डूकपाटितोदरसंनिभे ।</l>
  <l>क्लेदिनि स्त्रीत्रणे सक्तिरकृमेः कस्य जायते ॥ ७॥</l>
</lg>
<p>कस्यापि ।
4145</p>
<lg>
  <l>दृष्ट्वैव विकृतं कायं वायुस्पन्दविवर्जितम् ।</l>
  <l>•येषु निर्व्याजमासक्तास्तेभ्योपि विभिमो वयम् ॥ ८ ॥</l>
</lg>
<p>श्रीदेवगणदेवानाम् ।
4146
श्वेतं पदं समभिवीक्ष्य शिरोरुहाणां</p>
<lg>
  <l>स्थानं परं परिभवस्य तदेव पुंसाम्</l>
  <l>।</l>
  <l>आरोपितास्थिशकलं परिहत्य यान्ति</l>
  <l>चण्डालकूपमिव दूरवरं तरुण्यः ॥ ९ ॥</l>
</lg>
<p>4147</p>
<lg>
  <l>स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ</l>
  <l>मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ।</l>
  <l>स्रवन्मूत्रकिन्नं करिवरकरस्पर्धि जघनं</l>
  <l>मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम् ॥ १० ॥</l>
</lg>
<p>एतौ
भर्तृहरे: ।</p>
<pb n="650" />
<p>पश्चात्तापः
4148</p>
<lg>
  <l>तृषा श्रुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि</l>
  <l>क्षुधार्त: सञ्शालीन्कवलयति मांसाज्यकलितान् ।</l>
  <l>प्रदीप्ते कामामी सुदृढतरमाश्लिष्यति वधूं</l>
  <l>प्रतीकार व्याधेः सुखमिति विपर्यस्यति जनः ॥ ११ ॥</l>
</lg>
<p>कस्यापि ।</p>
<lg>
  <l>4149</l>
  <l>जन्मैव व्यर्थतां नीतं भवभोगप्रलोभिना ।</l>
  <l>काचमूल्येन विक्रीतो हन्त चिन्तामणिर्मया ॥ १२ ॥</l>
  <l>अथ पश्चात्तापः ॥ १५० ॥</l>
</lg>
<p>4150</p>
<lg>
  <l>भोगा न भुक्ता वयमेव भुक्ता-</l>
  <l>स्तपो न तप्तं वयमेव तप्ताः ।</l>
  <l>कालो न यातो वयमेव याता-</l>
  <l>स्तृष्णा न जीर्णा वयमेव जीर्णाः ॥ १ ॥</l>
</lg>
<p>4151</p>
<lg>
  <l>नाभ्यस्ता भुवि वादिवृन्ददमनी विद्या विनीतोचिता</l>
  <l>खड्गाभैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः ।</l>
  <l>कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये</l>
  <l>तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥ २ ॥</l>
</lg>
<p>4152</p>
<lg>
  <l>न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये</l>
  <l>स्वर्गद्वारकपाटपाटनपटुर्धर्मोपि नोपार्जितः ।</l>
  <l>नारीपीनपयोधरोरुयुगलं स्वमेपि नालिङ्गित</l>
  <l>मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ ३ ॥</l>
</lg>
<p>4153
क्षान्तं न क्षमया गृहोचितमुखं त्यक्तं न संतोषतः
सोढा दु:सहशीतवाततपनक्लेशा न तप्तं तपः ।</p>
<pb n="651" />
<p>शार्ङ्गधरपद्धतिः
ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शंभोः पदं
तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ॥ ४ ॥
4154</p>
<lg>
  <l>जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं</l>
  <l>लाध्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्विचक्रम् ।</l>
  <l>संजातव्यर्थपक्षाः परराहेतकरणे नोपरिष्टाच चाधो</l>
  <l>ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः ॥ ५ ॥</l>
</lg>
<p>4155</p>
<lg>
  <l>धन्यानां गिरिकंदरे निवसतां ज्योतिः परं ध्यायता-</l>
  <l>मानन्दाश्रुजलं पिवन्ति शकुना निःशङ्कमङ्गेशयाः ।</l>
  <l>अस्माकं तु मनोरथोपर चितप्रासादवापीतट-</l>
  <l>क्रीडाकाननकेलिकौतुकजुषामायुः परं क्षीयते ॥ ६ ॥</l>
</lg>
<p>4156</p>
<lg>
  <l>अजानन्माहात्म्यं पतति शलभस्तीब्रदहने</l>
  <l>न मीनोपि ज्ञात्वा बाडेशयुतमश्वाति पिशितम् ।</l>
  <l>विजानन्तोप्येते वयामेह विपज्जालजटिला-</l>
  <l>न्न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ ७ ॥</l>
</lg>
<p>एते भर्तृहरेः ।
4157</p>
<lg>
  <l>चलत्तरलतूष्णेन किमिवास्मिन्धरातले ।</l>
  <l>मया तत्कृतमज्ञेन पश्चात्तापाभिवृद्धये ॥ ८ ॥</l>
</lg>
<p>वासिष्ठात् ।
4158</p>
<lg>
  <l>मन्त्रोद्भावितदैवतैर्न विधिवदासीकृताः सिद्धयो</l>
  <l>योगाभ्याससमाहितैरनुदिनं तीर्णो न मोहार्णवः ।</l>
  <l>क्षुभ्यत्क्षुद्रनरेन्द्रदत्तवेिगलत्संपल्लवोल्लासितै-</l>
  <l>र्धिङ्गूढैरिव पण्डितैरपि बलात्कालः कथं नीयते ॥ ९ ॥</l>
</lg>
<pb n="652" />
<p>कालचरितम्
4159</p>
<lg>
  <l>धावित्वा सुसमाहितेन मनसा दूरे शिरो नामितं</l>
  <l>भूपानां प्रतिशब्दकैरिव चिरं प्रोद्धुष्टमिष्टं वचः ।</l>
  <l>द्वाराध्यक्षनियन्त्रणापरिभवप्रम्लानवक्त्रैः स्थितं</l>
  <l>भ्रातः किं करवाम मुञ्चति मनो नाद्याप्यविद्यामहम्॥१०॥</l>
</lg>
<p>एतौ श्रीदेवगणदेवानाम् ।
4160</p>
<lg>
  <l>यातं यौवनमधुना वनमधुना शरण मेकमस्माकम् ।</l>
  <l>स्फुरदुरुहारमणीनां हा रमणीनां गतः कालः ॥ ११ ॥</l>
</lg>
<p>4161</p>
<lg>
  <l>गात्रं संकुचितं गतिर्विगलिता दन्ताश्च नाशं गता</l>
  <l>दृष्टिर्नश्यति रूपमेव इसते वक्रं च लालायते ।</l>
  <l>वाक्यं नैव करोति बान्धवजनः पत्नी न भुश्रूषते</l>
  <l>हा कष्टं जरयाभिभूतपुरुषं पुत्रोप्यवज्ञायते ॥ १२ ॥</l>
</lg>
<p>4162</p>
<lg>
  <l>नो धर्माय यतो न तत्र निरता नार्थाय येनेदृशाः</l>
  <l>कामोप्यर्थवतां तदर्थमपि नो मोक्षः क्वचित्कस्यचित् ।</l>
  <l>तत्के नाम वयं वृथैव घटिता ज्ञातं पुनः कारणं</l>
  <l>जीवन्तोपि मृता इति प्रवदतां शब्दार्थसंसिद्धये ॥ १३ ॥</l>
</lg>
<lg>
  <l>केषामप्येते ।</l>
  <l>अथ कालचरितम् ॥ १५१ ॥</l>
</lg>
<p>4163</p>
<lg>
  <l>पुरंदरसहस्राणि चक्रवर्तिशतानि च ।</l>
  <l>निर्वापितानि कालेन प्रदीपा इव वायुना ॥ १ ॥</l>
</lg>
<p>4164
भ्रातः कष्टमहो महान्स नृपतिः सामन्तचक्रं च त
सा तस्य च सा विदग्धपरिषत्ताचन्द्रबिम्बाननाः ।</p>
<pb n="653" />
<p>शार्ङ्गधरपद्धतिः
उद्रिक्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाः
सर्वे यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ २ ॥
4165</p>
<lg>
  <l>प्राप्ता जरा यौवनमप्यतीतं</l>
  <l>बुधा यतध्वं परमार्थसिद्धयै ।</l>
  <l>आयुर्गतप्रायमिदं यतोतो</l>
  <l>विश्रम्य विश्रम्य न याति कालः ॥ ३ ॥</l>
</lg>
<p>एतौ भर्तृहरेः ॥
4166</p>
<lg>
  <l>कांश्चित्कल्पशतं कृतस्थितिचयान्कांश्चिद्युगानां शतं</l>
  <l>कांश्चिइर्षशतं तथा कतिपयाञ्जन्तून्दिनानां शतम् ।</l>
  <l>तांस्तान्कर्मभिरात्मनः प्रतिदिनं संक्षीयमाणायुषः</l>
  <l>कालोयं कवलीकरोति सकलान्भ्रातः कुतः कौशलम् ॥ ४ ॥</l>
</lg>
<p>4167</p>
<lg>
  <l>कालेन क्षितिवारिवह्निपवनव्योमादियुक्तं जग-</l>
  <l>द्ब्रह्माद्याश्च सुराः प्रयान्ति विलयं विनो विचारादिति ।</l>
  <l>पश्यामोपि विनश्यतोनवरतं लोकाननेकान्मुधा</l>
  <l>मायामोहमयीं भवप्रणयिनीं नास्थां जहीमो वयम् ॥ ५ ॥</l>
</lg>
<p>एतौ शार्ङ्गधरस्य ।
4168</p>
<lg>
  <l>अद्यैव हसितं गीतं पठितं यैः शरीरिभिः ।</l>
  <l>अद्यैव ते न दृश्यन्ते कष्टं कालस्य चेष्टितम् ॥ ६ ॥</l>
</lg>
<p>कस्यापि
4169</p>
<lg>
  <l>श्रियमाणं मृतं बन्धुं शोचन्ति परिदेवनैः ।</l>
  <l>आत्मानं नानुशोचन्ति कालेन कवलीकृतम् ॥ ७॥</l>
</lg>
<p>श्री देवगणदेवानाम् ।
4170
आराध्य भूपतिमवाप्य ततो धना
भुजामहे वयमिह प्रसभं सुखानि ।</p>
<pb n="654" />
<p>विवेकः
इत्याशया बत विमोहितमानसानां
कालो जगाम मरणावधिरेव पुंसाम् ॥ ८॥
अथ विवेकः ॥ १५२ ॥
4171</p>
<lg>
  <l>यस्मिन्वस्तुनि ममता मम तापस्तत्र तत्रैव ।</l>
  <l>यत्रैवाहमुदासे तत्र मुदासे स्वभावसंतुष्टः ॥ १॥</l>
</lg>
<p>कस्यापि ।
4172</p>
<lg>
  <l>मृत्योविभषि किं मूढ भीतं मुञ्चति नो यमः ।</l>
  <l>अजातं नैव गृह्णाति कुरु यत्नमजन्मनि ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
4173</p>
<lg>
  <l>मुण्डी जटी वल्कलवांस्त्रिदण्डी</l>
  <l>कषायवासा व्रतकर्शिताङ्गः ।</l>
  <l>व्यक्तहिको वा यदि नाप्ततत्व-</l>
  <l>स्तदा तु तस्योभयमेव नटम् ॥ ३ ॥</l>
</lg>
<p>4175
जडास्तपोभिः शमयन्ति देहं
4174</p>
<lg>
  <l>अधीत्य चतुरो वेदान्व्याकृत्याष्टादश स्मृतीः ।</l>
  <l>अहो श्रमस्य वैफल्यमात्मापि कलितो न चेत् ॥ ४ ॥</l>
</lg>
<p>RUDO
एतौ हरिगणस्य ।
बुधा मनश्चापि विकारहेतुम् ।
श्वा मुक्तमस्त्रं दशतीति कोपा-
त्क्षेपारमुद्दिश्य हिनस्ति सिंहः ॥ ५ ॥
कस्यापि ।
4176
अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः
पृष्ठे लीलावलयरणितं चामरग्राहिणीनाम् ।</p>
<pb n="655" />
<p>शार्ङ्गधरपद्धतिः
यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं
नो चेचेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ ६ ॥
4177
यदा किंचिज्जोहं द्विप इव मदान्धः समभवं
तदा सर्वज्ञोस्मीत्यभवदवलितं मम मनः ।
यदा किंचित्किाचे दुधजनसकाशादवगतं
तदा मूर्खोस्मीति ज्वर इव मदो मे व्यपगतः ।॥ ७ ॥
4178</p>
<lg>
  <l>माने म्लायिनि खण्डिते च वसुनि व्यर्थ प्रयातेथिनि</l>
  <l>क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने ।</l>
  <l>युक्तं केवलमेतदेव सुधियां यज्जह्रुकन्यापयः-</l>
  <l>पूतग्रावगिरीन्द्रकंदरदरीकुञ्चे निवासः क्वचित् ॥ ८ ॥</l>
</lg>
<lg>
  <l>एते भर्तृहरेः ।</l>
  <l>अथोपदेशः ॥ १५३ ॥</l>
</lg>
<p>4179</p>
<lg>
  <l>द्रविणस्पृहया दुरीश्वराणां</l>
  <l>भरवित्तर्द्धिविशेषणं भजन्तः ।</l>
  <l>अपुनर्भवसाधनं शरीरं</l>
  <l>क्षपयामो वयमों नमः शिवाय ॥ १ ॥</l>
</lg>
<p>4180</p>
<lg>
  <l>स वेदो निर्वेदः स्मृतिरपि च सा विस्मृतिरहो</l>
  <l>स शास्त्रार्थी व्यर्थस्तदपि यजनं मोहजननम् ।</l>
  <l>स ऊहः प्रत्यूहो हरिहरकथा सा च वितथा</l>
  <l>न यत्र स्यादात्मा स्फुरदनुभवप्रत्ययमयः ॥ २ ॥</l>
</lg>
<p>कस्यापि ।
4181</p>
<lg>
  <l>कुले महाते जातेन आत्मनः श्रेय इच्छता ।</l>
  <l>आत्मज्ञाने श्रमः कार्यो यज्ज्ञात्वामृतमश्नुते ॥ ३ ॥</l>
</lg>
<pb n="656" />
<p>अथोपदेशः
4182</p>
<lg>
  <l>पुंप्रकृत्योः कथामेव शिवशक्तयोस्तथैव च ।</l>
  <l>यः शृणोति नरो भत्त्या निष्पापः सोपि जायते ॥ ४ ॥</l>
</lg>
<lg>
  <l>4183</l>
  <l>स गुणी स च धर्मिष्ठः स विवेकी स बुद्धिमान् ।</l>
  <l>स</l>
  <l>ब्रह्मज्ञाने मतिर्यस्य शेषाः पशुसमा नराः ॥ ५ ॥</l>
</lg>
<p>4184</p>
<lg>
  <l>ग्रामे गोश्वखरोष्ट्राद्या अरण्ये हरिणादयः ।</l>
  <l>यथैते पशवो मूढास्तथात्मानं न वोत्ति यः ॥ ६॥</l>
</lg>
<p>4185</p>
<lg>
  <l>सर्वेषांत पदार्थानामभ्यासः कारणं परम् ।</l>
  <l>अनभ्यासेन मर्त्यस्य प्राप्तो योगोपि नश्याते ॥ ७ ॥</l>
</lg>
<p>4186</p>
<lg>
  <l>अभ्यासेन स्थिरं चित्तमभ्यासेनानिलच्युतिः ।</l>
  <l>अभ्यासेन परानन्दो ह्यभ्यासेनात्मदर्शनम् ॥ ८ ॥</l>
</lg>
<p>4187</p>
<lg>
  <l>अभ्यासेनान्यसंचारो ह्यभ्यासेनान्यरूपता ।</l>
  <l>अभ्यासेन समुत्क्रान्तिरभ्यासेनाणिमादयः ॥ ९॥</l>
</lg>
<p>4188</p>
<lg>
  <l>श्रुत्वापि यदनभ्यासो लौल्यं निद्रा जने रतिः ।</l>
  <l>विरुद्ध शास्त्रश्रवणमेतद्योगविनाशनम् ॥ १० ॥</l>
</lg>
<p>4189</p>
<lg>
  <l>असत्सागुणज्ञोपि विषयासक्तमानसः ।</l>
  <l>अकस्मात्मलयं याति गीतरक्तो यथा मृगः ॥ ११ ॥</l>
</lg>
<p>4190</p>
<lg>
  <l>विषयेष्वपि कष्टोयं विषयः स्त्रीति नामतः ।</l>
  <l>जीवत्यन्यैः किलाकृष्टः खियाकृष्टो न जीवति ॥१२॥</l>
</lg>
<pb n="657" />
<p>शार्ङ्गधरपद्धतिः
4191</p>
<lg>
  <l>स्त्रीरत्नध्यानमात्रं तु ब्रह्मणोपि मनो हरेत् ।</l>
  <l>किं पुनश्चेतरेषां तु विषयेच्छानुवर्तिनाम् ॥ १३ ॥</l>
</lg>
<p>4192</p>
<lg>
  <l>स्त्रीरत्नं मोहनं सृष्टं दृष्टमाशीविषोपमम् ।</l>
  <l>यदीच्छेदात्मनः श्रेयो मनसापि न चिन्तयेत् ॥ १४ ॥</l>
</lg>
<p>एते योगरसायनात् ।
4193</p>
<lg>
  <l>संसार तव दुष्पारपदवी न दवीयसी ।</l>
  <l>अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥ १५ ॥</l>
</lg>
<p>कस्यापि !
4194</p>
<lg>
  <l>सङ्गः सर्वात्मना त्याज्यः स चेच्यक्तुं न शक्यते ।</l>
  <l>स सद्भिः सह कर्तव्यः सन्तः सङ्गस्य भेषजम् ॥ १६ ॥</l>
</lg>
<p>4195</p>
<lg>
  <l>काम: सर्वात्मना हेयः स चेयक्तुं न शक्यते ।</l>
  <l>मुमुक्षां प्रति कर्तव्यः सा च तस्यापि भेषजम् ॥ १७ ॥</l>
</lg>
<p>एतौ मार्कण्डेयपुराणात् ।
4196</p>
<lg>
  <l>मोक्षद्वारप्रतीहाराश्रत्वारः परिकीर्तिताः ।</l>
  <l>शमों विवेकः संतोषश्चतुर्थः साधुसंगमः ॥ १८ ॥</l>
</lg>
<p>4197</p>
<lg>
  <l>वासना द्विविधा प्रोक्ता शुद्धातिमलिना तथा ।</l>
  <l>शुद्धा जन्मक्षये हेतुर्मलिना जन्मकारणम् ॥ १९ ॥</l>
</lg>
<p>4198</p>
<lg>
  <l>शुभाशुमाभ्यां मार्गाभ्यां वहन्ती वासनासरित् ।</l>
  <l>पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥ २० ॥</l>
</lg>
<p>4199</p>
<lg>
  <l>न तदस्ति जगरकोशे शुभकर्मानुपातिना ।</l>
  <l>यत्पौरुषेण शुद्धेन न समासाद्यते जनैः ॥ २१ ॥</l>
</lg>
<pb n="658" />
<p>अथोपदेशः
4200</p>
<lg>
  <l>शुभवासनया चेतो महत्या जायते महत् ।</l>
  <l>आत्मानं चिन्तयन्द्रं नन्दी रुद्रत्वमागतः ॥ २२ ॥</l>
</lg>
<p>4201</p>
<lg>
  <l>क्षुद्रवासनया चेतः क्षुद्रतामेति नित्यशः ।</l>
  <l>पिशाचविभ्रमात्सुप्तः पिशाचान्निशि पश्यति ॥ २३ ॥</l>
</lg>
<p>4202</p>
<lg>
  <l>सदातिशययुक्तेन विश्वामित्रेण विप्रता ।</l>
  <l>भूयो भूयः प्रयुक्तेन दुष्प्रापा तपसार्जिता ॥ २४ ॥</l>
</lg>
<p>4203</p>
<lg>
  <l>प्रणयेन यमं जित्वा कृत्वा वचनसंगरम् ।</l>
  <l>परलोका दुपानीतः सावित्र्या सत्यवान्पतिः ॥ २५ ॥</l>
</lg>
<p>4204</p>
<lg>
  <l>न सोस्त्यतिशयो लोके यस्यास्ति न फलोदयः ।</l>
  <l>अतः कार्य: प्रयत्नस्तु सद्भिः शिवफलातये ॥ २६ ॥</l>
</lg>
<p>4205</p>
<lg>
  <l>युक्त्या संतरतो ज्ञस्य संसारो गोष्पदाकृतिः ।</l>
  <l>दूरसंव्यक्तयुक्तेस्तु महागाधार्णवोपमः ॥ २७ ॥</l>
</lg>
<p>4206</p>
<lg>
  <l>सुसंनद्धसमस्ताङ्गं प्रशमामृतवर्मणा ।</l>
  <l>वेषयन्ति न दुःखानि शरा वज्रशिलामिन ॥ २८ ॥</l>
</lg>
<p>4207</p>
<lg>
  <l>पुंसो निजमनोमोहकल्पितानल्पदुःखदः ।</l>
  <l>संसारविषवेतालो विचारेणैव लीयते ॥ २९ ॥</l>
</lg>
<p>4208
विचारदर्पणे लमां धियं धैर्यधुरं गताम् ।
आधयो न विलुम्पन्ति वाताश्चित्रानलं यथा । ३० ॥</p>
<pb n="659" />
<p>शार्ङ्गधरपद्धतिः
4209</p>
<lg>
  <l>यथोदिते दिनकरे कापि याति तमस्विनी ।</l>
  <l>तथा विवेकेभ्युदिते काप्यविद्या विलीयते ॥ ३१ ॥</l>
</lg>
<p>4210</p>
<lg>
  <l>नाहं मांस न चास्थीनि देहादन्यः परोप्यहम् ।</l>
  <l>इति निश्चयवानन्तः क्षीणाविद्य इहोच्यते ॥ ३२ ॥</l>
</lg>
<p>4211</p>
<lg>
  <l>सर्वा दृष्टी परित्यज्य नियम्य मनसा मनः ।</l>
  <l>सबाह्याभ्यन्तरार्थस्य संकल्पस्य क्षयं कुरु ॥ ३३ ॥</l>
</lg>
<p>4212</p>
<lg>
  <l>यदि वर्षसहस्राणि तपश्चरसि दारुणम् ।</l>
  <l>तथापि ते न सिद्धिः स्यात्संकल्पोपशमादृते ॥ ३४ ॥</l>
</lg>
<p>4213</p>
<lg>
  <l>हरो यद्युपदेष्टा स्याद्धरिः कमलजोपि वा ।</l>
  <l>तथापि ते न सिद्धि: स्यात्संकल्पोपशमादृते ॥ ३५ ॥</l>
</lg>
<p>4214</p>
<lg>
  <l>संकल्पतन्तावखिला भावाः प्रोताः शुभाशुभाः ।</l>
  <l>छिन्ने तन्तौ न जायन्ते कल्पान्तेपि शरीरिणः ॥ ३६ ॥</l>
</lg>
<p>4215</p>
<lg>
  <l>शान्तसंदेहदौरात्म्यं गतकौतुकविभ्रमम् ।</l>
  <l>परिपूर्णान्तर चेतः पूर्णेन्दुरिव राजते ॥ ३७ ॥</l>
</lg>
<p>4216</p>
<lg>
  <l>चेतश्चञ्चलया वृत्त्या चिन्तानिचयपञ्ञ्जरे ।</l>
  <l>वृत्तिं बधाति नैकत्र पञ्चरे केसरी यथा ॥ ३८ ॥</l>
</lg>
<p>4217</p>
<lg>
  <l>दृष्टमात्रेषु भावेषु यथा बत न रुच्यते ।</l>
  <l>तथैव तदनायत्तं चिरं चित्ते न रुध्यते ॥ ३९ ॥</l>
</lg>
<pb n="660" />
<p>अथोपदेशः
4218</p>
<lg>
  <l>घटात्पटमुपायाति पटाइटमनुत्कटम् ।</l>
  <l>चित्तमर्थेषु चरति पादपेष्विव मर्कटः ॥ ४० ॥</l>
</lg>
<p>4219</p>
<lg>
  <l>सफलो मांसदेहस्य न कश्चित्पौरुषक्रमः ।</l>
  <l>मनोदेहस्य सफलं सर्वमेव स्वचेष्टितम् ॥ ४१ ॥</l>
</lg>
<p>4220</p>
<lg>
  <l>मनोनिर्वाणमात्रेण जगन्नाम्ना महाधिना ।</l>
  <l>त्यक्तेनार्थेन चान्तः स्याहुःखदारो महात्मनः ॥ ४२ ॥</l>
</lg>
<p>4221</p>
<lg>
  <l>मनोमात्रं जगत्सर्व मनः पर्वतमण्डलम् ।</l>
  <l>मनो भूमिर्मनो जीवो मनो वायुर्मनो जलम् ॥ ४३ ॥</l>
</lg>
<p>4222</p>
<lg>
  <l>कुसुमोल्लासिधम्मिल्ला हेलावलितलोचना ।</l>
  <l>काष्ठकुद्योपमाङ्गेषु लग्नाप्यमनसोङ्गना ॥ ४४ ॥</l>
</lg>
<p>4223</p>
<lg>
  <l>कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः ।</l>
  <l>तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ॥ ४५ ॥</l>
</lg>
<p>4224</p>
<lg>
  <l>शास्त्रसत्सङ्ग धीरेण चिन्तातप्तमतापिना ।</l>
  <l>छिन्धि त्वमयसेवायो मनसैव मनोधुना ॥ ४६ ॥</l>
</lg>
<p>4225</p>
<lg>
  <l>वासनावागुराकृष्टो मनोहरिणको नृणाम् ।</l>
  <l>परां विवशतामेति संसारवनगुल्मके ॥ ४७ ॥</l>
</lg>
<p>4226</p>
<lg>
  <l>सततोदारवृत्तासु कथासु परिशीलितम् ।</l>
  <l>संपन्ननिर्मलं चेती मोहपर्न लिप्यते ॥ ४८ ॥</l>
</lg>
<pb n="661" />
<p>शार्ङ्गधरपद्धतिः
4227</p>
<lg>
  <l>तस्मात्प्रजागरः कार्यः प्रबुद्धेन दिवानिशम् ।</l>
  <l>न मुष्णन्ति च्छलाद्यस्मात्कामक्रोधादयोरयः ॥ ४९ ॥</l>
</lg>
<p>पते वासिष्ठात ।
4228</p>
<lg>
  <l>पुरमेकं जगत्यस्मिन्नसृङ्कांसास्थिनिर्मितम् ।</l>
  <l>वर्मभित्ति महायामं सर्वतः स्नायुवेष्टितम् ॥ ५० ॥</l>
</lg>
<p>4229</p>
<lg>
  <l>नवद्वारं महाभूतैः पञ्चभिः सर्वतो वृतम् ।</l>
  <l>नृपश्च पुरुषस्तत्र चेतनावानवस्थितः ॥ ५१ ॥</l>
</lg>
<p>4230</p>
<lg>
  <l>मन्त्रिणौ तस्य बुद्धिश्च मनश्चैव विरोधिनौ ।</l>
  <l>यतेते तस्य नाशाय तावुभावितरेतरम् ॥ ५२॥</l>
</lg>
<p>4231</p>
<lg>
  <l>नृपस्य तस्य चत्वारो नाशमिच्छन्ति विद्विषः ।</l>
  <l>काम: क्रोधस्तथा लोभो मोहचान्यो महारिपुः ॥ ५३ ॥</l>
</lg>
<p>4232</p>
<lg>
  <l>यदा तु स नृपस्तानि द्वाराण्यावृत्य तिष्ठति ।</l>
  <l>तदा स्वस्थबलश्चैव निरातङ्कश्च जायते ॥ ५४ ॥</l>
</lg>
<p>4233
एते मार्कण्डेयपुराणात् ।
जयत्यावरतारम्भा नियतिः</p>
<lg>
  <l>परमात्मनः ।</l>
  <l>यद्रशादिदमाभोगि जगचक्रं प्रवर्तते ॥ ५५ ॥</l>
</lg>
<p>4234</p>
<lg>
  <l>यश्च सर्वात्मको देवः परं ब्रह्म महेश्वरः ।</l>
  <l>स्वच्छ : स्वानुभवानन्दरूपाकारादिवर्जितः ॥ ५६ ॥</l>
</lg>
<p>4235</p>
<lg>
  <l>एतस्मात्परमानन्दाच्छुद्धचिन्मात्ररूपिणः ।</l>
  <l>जीव: संजायते पूर्व तस्माचित्तं ततो जगत् ॥ ५७ ॥</l>
</lg>
<pb n="662" />
<p>अयोपदेशः
4236</p>
<lg>
  <l>शान्तस्यापगतेच्छस्य मनाक्संवेदनात्मकम् ।</l>
  <l>स्वाभाविकं यत्स्फुरणं चियोम्नः सोङ्ग जीवकः ॥ ५८ ॥</l>
</lg>
<p>4237</p>
<lg>
  <l>यथा वातस्य चलनं कृशानोरुष्णता यथा ।</l>
  <l>शीतता वा तुषारस्य तथा जीवत्वमात्मनः ॥ ५९ ॥</l>
</lg>
<p>4238
जीवत्वाच्चित्तसांगत्यं</p>
<lg>
  <l>चित्तत्वादिन्द्रियादिता ।</l>
  <l>19 इन्द्रियादेः शरीरत्वं शरीरात्कर्मसंचयः ॥ ६० ॥</l>
</lg>
<p>4239</p>
<lg>
  <l>कर्मणः संचयात्स्वर्गनरको मोक्षबन्धने ।</l>
  <l>कर्मणो जायते जन्तुर्बीजादिव नवाङ्कुरः ॥ ६१ ॥</l>
</lg>
<p>4240
जन्तोः प्रवर्तते कर्म पुनर्बीजमिवाङ्गरात् ।</p>
<lg>
  <l>आदिसहि नियतिर्भाववैचित्र्यमक्षयम् ।</l>
  <l>अनेनेत्थं सदा भाव्यमिति संपद्यते परम् ॥ ६२ ॥</l>
</lg>
<p>ANDARD
4241</p>
<lg>
  <l>अनुत्कीर्णा यथा पङ्के पुत्रिका वाथ दारुणि ।</l>
  <l>वर्णा यथा मषीकल्के तथा सर्गे स्थिताः परे ॥ ६३ ॥</l>
</lg>
<p>4242</p>
<lg>
  <l>कटकत्वं पृथग्धेम्नस्तरंगत्वं पृथग्जलात् ।</l>
  <l>यथा न संभवत्येवं न जगत्पृथगीश्वरात् ॥ ६४ ॥</l>
</lg>
<p>4243</p>
<lg>
  <l>ताप एव यथा वारि मृगाणां भ्रमकारणम् ।</l>
  <l>असत्यमेव सत्याभं तथा मूढमतेर्जगत् ॥ ६५ ॥</l>
</lg>
<p>4244</p>
<lg>
  <l>न किंचित्केनचिद्याप्तं न च किंचित्कचित्स्थितम् ।</l>
  <l>विदाकाशगजं शान्तं सर्वमेतदभित्तिमत् ॥ ६६ ॥</l>
</lg>
<pb n="663" />
<p>शार्ङ्गधरपद्धतिः
4245</p>
<lg>
  <l>मुधैवैते वयमहो ससुरासुरमानवाः ।</l>
  <l>असत्या एव वल्गामो याम आयाम एव च ॥ ६७ ॥</l>
</lg>
<p>4246</p>
<lg>
  <l>अलीक एव त्वद्भावो मद्भावोलीक एव च ।</l>
  <l>अनुभूतोप्यसद्रूपः स्वप्ने स्वमरणं यथा ॥ ६८ ॥</l>
</lg>
<p>4247</p>
<lg>
  <l>शरीरातीतवृत्तिस्त्वं शरीरस्थो भवाभवः ।</l>
  <l>मा गाः शोकं च हर्षं च त्वमात्मा विगतज्वरः ॥ ६९ ॥</l>
</lg>
<p>4248</p>
<lg>
  <l>यथा रजोभिर्गगनं यथा कमलमम्बुभिः ।</l>
  <l>न लिप्यतेतिसंश्लिष्टैर्देहैरात्मा तथैव च ॥ ७० ॥</l>
</lg>
<p>4249</p>
<lg>
  <l>बहि: कृत्रिमसंरम्भो हृदि संरम्भवर्जितः ।</l>
  <l>कर्ता बहिरकर्तान्तर्लोके विहर राघव ॥ ७१ ॥</l>
</lg>
<p>4250</p>
<lg>
  <l>देशाद्देशं गते चित्ते मध्ये यच्चेतसो वपुः ।</l>
  <l>अजाड्यसंचिन्मननं तन्मयो भव राघव ॥ ७२ ॥</l>
</lg>
<p>4251</p>
<lg>
  <l>विविक्तः शान्तसंकल्पो धीरधीरूजिताशयः ।</l>
  <l>यथाप्राप्तानुवर्ती च लोके विहर राघव ॥ ७३ ॥</l>
</lg>
<p>4252</p>
<lg>
  <l>भूयतां ज्ञानसर्वस्वं श्रुत्वा चैवावधार्यताम् ।</l>
  <l>भागेच्छामात्रको बन्धस्तत्यागो मोक्ष उच्यते ॥ ७४ ॥</l>
</lg>
<p>4253</p>
<lg>
  <l>प्राप्य ज्ञानदशामेतां पशुम्लेच्छादयोपिये ।</l>
  <l>सदेहा वाप्यदेहा वा ते मुक्ता नात्र संशयः ॥ ७५ ॥</l>
</lg>
<pb n="664" />
<p>42
कालसंख्यानम्
4254</p>
<lg>
  <l>यच्चास्ति मितगम्भीर न तेजो न तमिस्रकम् ।</l>
  <l>अनाख्यमनभिव्यक्तं तद्रूपं पारमात्मिकम् ॥ ७६ ॥</l>
</lg>
<p>4255</p>
<lg>
  <l>नेन्द्रियाणि न वा रूपं न मनः परिकल्पना ।</l>
  <l>यत्सर्वं न च यत्सर्वं तद्रूपं पारमात्मिकम् ॥ ७७ ॥</l>
</lg>
<p>4256</p>
<lg>
  <l>परमाणोरपि परं तदणीयो ह्यणीयसः ।</l>
  <l>शुद्धं सूक्ष्मं परं शान्तं तदाकाशोदरादपि ॥ ७८ ॥</l>
</lg>
<p>4257</p>
<lg>
  <l>एतद्रहस्यं परममेतच्च परमं पदम् ।</l>
  <l>एषा गतिर्विरक्तानामेषोसौ परमः शिवः ॥ ७९ ॥</l>
</lg>
<lg>
  <l>एते वासिष्ठात् ।</l>
  <l>अथ कालसंख्यानम् ॥ १५४ ॥</l>
</lg>
<p>4258</p>
<lg>
  <l>षड: प्राणै: पलं प्रोक्तं षष्टिभिर्घटिका च तैः ।</l>
  <l>षष्टिभिर्घटिकाभिः स्यादहोरात्रं तु मानवम् ॥ १ ॥</l>
</lg>
<p>4259</p>
<lg>
  <l>दिनैः पञ्चदशैः पक्षः शुक्लः कृष्णश्च गीयते ।</l>
  <l>पक्षहयेन मास: स्यात्पितॄणां तदहर्निशम् ॥ २ ॥</l>
</lg>
<p>4260</p>
<lg>
  <l>ऋतुर्मासइयेनैव षण्मासैरयनं स्मृतम् ।</l>
  <l>अयनद्वितयं वर्षो देवानां वासरो निशा ॥ ३ ॥</l>
</lg>
<p>4261</p>
<lg>
  <l>तात्रिंशत्सहस्रैस्तु चतुर्लक्षैः कलिः स्मृतः ।</l>
  <l>शेषं युगत्रयं ज्ञेयं कलेर्द्वित्रिचतुर्गुणम् ॥ ४ ॥</l>
</lg>
<pb n="665" />
<p>शार्ङ्गधरपद्धतिः
4262</p>
<lg>
  <l>खचतुष्कं रदा वेदाधतुर्युगमुदाहृतम् ।</l>
  <l>चातुर्युगेकसप्रत्या मन्वन्तर मुदाहृतम् ॥ ५ ॥</l>
</lg>
<p>4263</p>
<lg>
  <l>चतुर्भिरर्बुदै: कल्पं द्वात्रिंशद्भिश्च कोटिभिः ।</l>
  <l>चतुर्दश सुरेन्द्राथ पतन्ति ब्रह्मणोहनि ॥ ६ ॥</l>
</lg>
<p>4264
चतुर्युगसहस्रेण कल्पाख्यं ब्रह्मणो दिनम् ।
तत्प्रमाणा तथा रात्रि: सृष्टिसंहारकारिणी ।॥ ७॥
4265</p>
<lg>
  <l>अथ कालाग्निरुद्रस्य तृतीयनयनोत्थिता ।</l>
  <l>ज्वाला दहति तत्सर्व निर्वाणं ब्रह्मणो यतः ॥ ८ ॥</l>
</lg>
<p>4266</p>
<lg>
  <l>स्वपतो ब्रह्मणः स्वेदाङ्क्रमिरेकार्णवा भवेत् ।</l>
  <l>निःश्वासैः भुष्यते सापि सृजेत्सुप्नोत्थितः पुनः ॥ ९ ॥</l>
</lg>
<p>4267</p>
<lg>
  <l>स्वकालपरिमाणेन पूर्ण वर्षशते किल ।</l>
  <l>ब्रह्मादीनां तथा शक्तः क्षयो जन्म पुनः पुनः ॥ १० ॥</l>
</lg>
<p>4268</p>
<lg>
  <l>ब्रह्मा हरौ हरी रुद्रे रुद्रो लीयत ईश्वरे ।</l>
  <l>ईश: सदाशिवे सोपि शक्तौ शक्तिः परे शिवे ॥ ११ ॥</l>
</lg>
<p>4269</p>
<lg>
  <l>पुनः सृष्टिः पुनर्नाशः पुनः कल्पपरम्परा ।</l>
  <l>पुनः पुनरिदं सर्व चक्रवत्परिवर्तते ॥ १२ ॥</l>
</lg>
<p>4270
ये तत्र लीना: परमे पदे शिवे
मुक्किं गता देवि त एव नापरे ।</p>
<pb n="666" />
<p>शक्तिप्रणाशे प्रलये महत्वहो
तेषां कदाचित्पतनं न विद्यते ॥ १३ ॥</p>
<lg>
  <l>एते शिवभाषितायोगरसायनात् ।</l>
  <l>अथ शारीरम् ॥ १५५ ॥</l>
</lg>
<p>4271</p>
<lg>
  <l>अस्ति कारणमव्यक्तं सर्वव्यापि परापरम् ।</l>
  <l>सांनिध्यादपि दुर्ग्राह्यं विश्वमूर्त्योपलक्षितम् ॥ १ ॥</l>
</lg>
<p>4272</p>
<lg>
  <l>नाकारं न निराकारं न च स्त्रीपुंनपुंसकम् ।</l>
  <l>नापस्तेजो मरुब्योम भूमिर्दूरे न चान्तिके ॥ २ ॥</l>
</lg>
<p>4273</p>
<lg>
  <l>ततोनिच्छस्य देहस्य शक्तिरिच्छेत्यजायत ।</l>
  <l>चिद्रूपिण्या तया क्रीडां कर्तुमैच्छत्स लीलया ॥ ३ ॥</l>
</lg>
<lg>
  <l>4274</l>
  <l>क्रियारूपा गुणमयी तस्या बुद्धिरजायत ।</l>
  <l>ज्ञानशक्तिरिति ख्याता क्रियाशक्तिव सा स्मृता ॥ ४ ॥</l>
  <l>॥४॥</l>
</lg>
<p>4275</p>
<lg>
  <l>बुद्धेरहं ततचित्तं शक्तिस्तस्याः सदाशिवः ।</l>
  <l>नभोरूपी ततो वायुरीश्वरः समजायत ॥ ५ ॥</l>
</lg>
<p>4276</p>
<lg>
  <l>ईश्वरात्समभूब्रुद्रो ज्योतिर्मय उमापतिः ।</l>
  <l>रुद्राद्विष्णुरभूदायस्त्रैलोक्यपरिपालकः ॥ ६ ॥</l>
</lg>
<p>4277</p>
<lg>
  <l>विष्णुनाप्यक्षयो जातो ब्रह्मायं पृथिवीमयः ।</l>
  <l>तदर्थमभवत्पूर्व ब्रह्माण्ड कनकप्रभम् ॥ ७ ॥</l>
</lg>
<pb n="667" />
<p>शार्ङ्गधरपद्धतिः
4278</p>
<lg>
  <l>तेन सृष्टं स्वशक्त्येदं त्रैलोक्यं सचराचरम्, ।</l>
  <l>पञ्चभिः सह संभूय पञ्चभूतमयात्मकैः ॥ ८ ॥</l>
</lg>
<p>4279</p>
<lg>
  <l>ततो ब्रह्मा द्विधा भूतः शिवशक्तिविभागतः ।</l>
  <l>स्त्रीपुंरूपेण सौख्यार्थं सुरतेनासृजत्प्रजाः ॥ ९ ॥</l>
</lg>
<p>4280</p>
<lg>
  <l>ततश्चतुर्मुखस्यामन्दश पुत्रा मनोभवाः ।</l>
  <l>तेषां दश ददौ कन्या मनोजाताः प्रजापतिः ॥ १० ॥</l>
</lg>
<p>4281</p>
<lg>
  <l>ते सर्वे ज्ञाननिरताः सुसंतुष्टास्तपोधनाः ।</l>
  <l>तेषां पुत्रैश्च पौत्रैश्च व्याप्तं सर्वमिदं जगत् ॥ ११ ॥</l>
</lg>
<p>4282</p>
<lg>
  <l>तत आत्मभुवः पुत्रो मरीचिरिति योभवत् ।</l>
  <l>दशपुत्रेषु विख्यातस्तस्माज्जातश्च कश्यपः ॥ १२ ॥</l>
</lg>
<p>4283</p>
<lg>
  <l>सोपि दक्षस्य कन्यासु कश्यपः समजीजनत् ।</l>
  <l>उत्पत्तिहेतुर्विश्वस्य भूतग्रामांचतुर्दश ॥ १३ ॥</l>
</lg>
<p>4284</p>
<lg>
  <l>अष्टधा देवतायोनिस्तिर्यग्योनिश्च पञ्चधा ।</l>
  <l>एकधा मानुषी योनिरिमे भूताश्चतुर्दश ॥ १४ ॥</l>
</lg>
<p>4285</p>
<lg>
  <l>तैजसा देवकार्येषु बभूवुः सप्त धातवः ।</l>
  <l>अन्येषामपि कार्येषु पार्थिवाः सप्त धातवः ॥ १५ ॥</l>
</lg>
<p>4286</p>
<lg>
  <l>सर्वे मिथुनरूपेण प्रजा उत्पादयन्ति ते ।</l>
  <l>मैथुनानन्दनिरता विषयासक्तचेतसः ॥ १६ ॥</l>
</lg>
<pb n="668" />
<p>शारीरम्
4287</p>
<lg>
  <l>भगस्तु वैष्णवी शक्तिर्लिङ्गरूपी सदाशिवः ।</l>
  <l>उभयोयोगतो बीजं ब्रह्मरूपं प्रवर्तते ॥ १७ ॥</l>
</lg>
<p>4288</p>
<lg>
  <l>गर्भाशयो धरापीठं रजो रक्तं च भास्करः ।</l>
  <l>सौम्यं रेतो ब्रह्मरूपं तस्मिंस्तत्र विलम्बते ॥ १८ ॥</l>
</lg>
<p>4289</p>
<lg>
  <l>सूर्याचन्द्रमसोर्योगममावास्यां विदुर्बुधाः ।</l>
  <l>तस्यां प्रजाः प्रजायन्ते यदीच्छा पारमेश्वरी ॥ १९ ॥</l>
</lg>
<p>4290</p>
<lg>
  <l>शुक्रशोणितसंयोगो यदैत्र किल जायते ।</l>
  <l>तदा संजायते जीवो वह्निः सूर्यमणेरिव ॥ २० ॥</l>
</lg>
<p>4291</p>
<lg>
  <l>युक्रेधिके भवेत्पुत्रो कन्या रक्तेधिके भवेत् ।</l>
  <l>नपुसकं समत्वेन कर्मणो नियतिर्यथा ॥ २१ ॥</l>
</lg>
<p>4292</p>
<lg>
  <l>अङ्गप्रत्यङ्गभागेन ततः पिण्डः प्रजायते ।</l>
  <l>चर्मणाच्छादितः सप्त धातवः स्युरनुक्रमात् ॥ २२ ॥</l>
</lg>
<p>4293</p>
<lg>
  <l>पिण्डं मज्जासुपूर्णानामस्न्यां षष्टिशतैस्त्रिभिः ।</l>
  <l>वासप्ततिसहस्राभिर्नाडीभिः पञ्ञ्जरं कृतम् ॥ २३ ॥</l>
</lg>
<p>4294</p>
<lg>
  <l>क्रियाशक्त्या विना क्वापि ज्ञानशक्तिर्न दृश्यते ।</l>
  <l>तेनेदं ज्ञानशचयर्थ कृतं वेश्म क्रियामयम् ॥ २४ ॥</l>
</lg>
<p>4295</p>
<lg>
  <l>चतुर्विंशतिभिस्तत्त्वैः क्रियाशक्तिरचेतना ।</l>
  <l>ज्ञानशक्त्या युता वापि लक्ष्यते चेतनावती ॥ २५ ॥</l>
</lg>
<p>।</p>
<pb n="669" />
<p>शार्ङ्गधरपद्धतिः
4296</p>
<lg>
  <l>सर्वज्ञोपि शिवस्तत्र शक्तिसङ्गेन मोहितः ।</l>
  <l>नात्मानं न परं वेत्ति विचेष्टति तदिच्छया ॥ २६ ॥</l>
</lg>
<p>4297</p>
<lg>
  <l>प्राणापानमयी शक्तिः षट्चक्राधारसंयुतम् ।</l>
  <l>शान्तं शिवं वशीकृत्य वर्तते कामकारतः ॥ २७ ॥</l>
</lg>
<lg>
  <l>4298</l>
  <l>।</l>
  <l>आधारः कन्दमित्युक्तं स्वाधिष्टानं च जन्मभूः</l>
  <l>नाभिस्तु मणिपूराख्यं हृदयं विद्ध्यनाहतम् ॥ २८ ॥</l>
</lg>
<p>4299</p>
<lg>
  <l>विभुद्धिः कण्ठ इत्युक्तमाज्ञाचक्रं भ्रुवोन्तरे ।</l>
  <l>आधारो हि चतुर्भिन्नः स्वाधिष्ठानं च षडुलैः ॥ २९ ॥</l>
</lg>
<p>4300</p>
<lg>
  <l>दशभिर्मणिपूराख्यं द्वादशैस्तु अनाहतम् ।</l>
  <l>विभुद्धिः षोडशैर्भिन्नमाज्ञाचक्रं इयेन तु ॥ ३० ॥</l>
</lg>
<p>4301</p>
<lg>
  <l>कालाग्निरुद्र आधारे शक्तिः कुण्डलिनी तथा ।</l>
  <l>आनन्दाख्या स्वधिष्ठाने शक्त्या कामाख्यया सह ॥ ३१ ॥</l>
</lg>
<p>4302</p>
<lg>
  <l>नाभौ ब्रह्मा हृदि श्रीशः कण्डे रुद्रो व्यवस्थितः ।</l>
  <l>ईश्वरो लम्बिकायां च तद्ध्वें च सदाशिवः ॥ ३२ ॥</l>
</lg>
<p>4303</p>
<lg>
  <l>ज्योतिःस्थानानि चैतानि षटुचक्राणि जगुर्बुधाः ।</l>
  <l>• नासामूलं विदुः स्थानं नादस्योत्पत्तिकारणम् ॥ ३३ ॥</l>
</lg>
<p>4304</p>
<lg>
  <l>तस्योर्ध्वं योगिनीचक्रं तदूर्ध्वे शक्तिरास्थिता ।</l>
  <l>शत्यू तु शिखा प्रोक्ता शिखान्ते धूमवत्तमः ॥ ३४ ॥</l>
</lg>
<pb n="670" />
<p>श
4305</p>
<lg>
  <l>तमसोन्ते परं ज्योतिरलक्ष्यः परमेश्वरः ।</l>
  <l>यं दृष्ट्वैव विलीयन्ते योगिनः स्थिरचेतसः ॥ ३५ ॥</l>
</lg>
<p>4306</p>
<lg>
  <l>चराचरेषु पिण्डस्थं पदस्थं खानिलादिषु ।</l>
  <l>भास्करादिषु रूपस्थं रूपातीतं परं विदुः ॥ ३६ ॥</l>
</lg>
<p>4307</p>
<lg>
  <l>वासप्ततिसहस्राणि कन्दान्नायो विनिर्गताः ।</l>
  <l>प्रविश्य नाभिदेशेषु सर्वाङ्गेषु ततो गताः ॥ ३७ ॥</l>
</lg>
<p>4308</p>
<lg>
  <l>इडा च पिङ्गला चैव सुषुम्णा च सरस्वती ।</l>
  <l>गान्धारी हस्तिजिह्वा च पूषा चैव निगद्यते ॥ ३८ ॥</l>
</lg>
<p>4309</p>
<lg>
  <l>अलम्बुषा कुधैव शनिी दशमी मता ।</l>
  <l>एता: प्राणवहा ज्ञेयाः प्रधाना दश नाडिकाः ॥ ३९ ॥</l>
</lg>
<p>4310</p>
<lg>
  <l>इडा नासापुढे वामे पिङ्गला दक्षिणे भवेत् ।</l>
  <l>सुषुम्णा तालु भित्त्वैव ब्रह्मद्वारं प्रवर्तिता ॥ ४० ॥</l>
</lg>
<p>4311</p>
<lg>
  <l>सरस्वती च जिह्वायां गान्धारी वामकर्णके ।</l>
  <l>दक्षिणे हस्तिजिह्वाख्या पूषा वामे च लोचने ॥ ४१ ॥</l>
</lg>
<p>4312
अलम्बुषा दक्षिणे स्याद्भुजारे कुहूर्भवेत् ।</p>
<lg>
  <l>आ ब्रह्मरन्ध्रान्मार्गेण ब्रह्मदण्डस्य शदिनी ।</l>
  <l>सदा बिन्दुवहा ज्ञेया लिङ्गद्वारे च शनी ॥ ४२ ॥</l>
</lg>
<p>4313</p>
<lg>
  <l>प्राणोपानः समानश्च उदानो व्यान एव च ।</l>
  <l>नागः कूर्मश्च कृकरो देवदत्तो धनंजयः ॥ ४३ ॥</l>
</lg>
<pb n="671" />
<p>शार्ङ्गधरपद्धतिः
4314</p>
<lg>
  <l>प्राणो हि दशधा ह्येष दशानामथवा प्रभुः ।</l>
  <l>वासप्ततिसहस्रासु नाडीषु विचरत्यलम् ॥ ४४ ॥</l>
</lg>
<p>4315</p>
<lg>
  <l>हृदि प्राणो गुदेपानः समानो नाभिसंस्थितः ।</l>
  <l>उदानः कण्ठदेशे च व्यानं: सर्वशरीरगः ॥ ४५ ॥</l>
</lg>
<p>4316
सर्वाङ्गमोटको नागः कूर्म उन्मेषकारकः ।</p>
<lg>
  <l>कृकः क्षुतोद्वारकरी देवदत्तस्तु जृम्भकः ।</l>
  <l>धनंजयो नादकरः स्यादेवं दशधा मरुत् ॥ ४६ ॥</l>
</lg>
<p>4317</p>
<lg>
  <l>येन जीवति जीवोयं निर्जीवो यं विना भवेत् ।</l>
  <l>स प्राण इति विख्यातो वायुः क्षेत्रचरः परः ॥ ४७ ॥</l>
</lg>
<p>4318</p>
<lg>
  <l>कन्दाग्रात्प्रोत्थितः प्राणः सदा वहति देहिनाम् ।</l>
  <l>हद्गतं जीवमाश्वास्य बहिर्गत्वा निवर्तते ॥ ४८ ॥</l>
</lg>
<p>4319</p>
<lg>
  <l>पिङ्गलेडापथं गत्वा पीत्वा च गगनामृतम् ।</l>
  <l>निवृत्य जीवं संतर्प्य पुनः कन्दे प्रवर्तते ॥ ४९ ॥</l>
</lg>
<p>4320</p>
<lg>
  <l>अपानेन पुनः कश्चित्प्रेरितः कालरूपिणा ।</l>
  <l>निःश्वासोच्छवासकृद्वाति जपन्हंसे त्यहर्निशम् ॥ ५० ॥</l>
</lg>
<p>4321</p>
<lg>
  <l>हंस द्वादशदले जीवात्मा हृदयाम्बुजे ।</l>
  <l>तिष्ठन्करोति चैतन्यथोतं दीपो घंटे यथा ॥ ५१ ॥</l>
</lg>
<p>4322</p>
<lg>
  <l>बद्धः कर्मगुणैबुद्धिसंयुतः त्रिगुणात्मकः ।</l>
  <l>याही पञ्चेन्द्रियार्थानां मनोदूतेन सर्वदा ॥ ५२ ॥</l>
</lg>
<pb n="672" />
<p>शारीरम्
4323</p>
<lg>
  <l>चेतयांन्नखिलं देहं जीवात्मा सुखदुःखभुक् ।</l>
  <l>आत्मानं नैव जानाति कामक्रोधादिभिर्हतम् ॥ ५३ ॥</l>
</lg>
<p>4324</p>
<lg>
  <l>स एव जीवः स प्राणी स शरीरी निगद्यते ।</l>
  <l>स एव गर्भदुःखस्य सोढा स्वेनैव कर्मणा ॥ ५४ ॥</l>
</lg>
<p>4325</p>
<lg>
  <l>इत्यङ्गैः संयुतः सर्वैर्देहिनो बालकाकृतिः ।</l>
  <l>मातुराहाररसतो देहे गर्भोभिवर्धते ॥ ५५ ॥</l>
</lg>
<p>4326</p>
<lg>
  <l>ततो गर्भस्थितः प्राणी चिन्तयेत्किं कृतं मया ।</l>
  <l>दुष्कृतं येन निरये गर्भाख्ये पतितोस्म्यहम् ॥ ५६ ॥</l>
</lg>
<p>4327</p>
<lg>
  <l>निःसृतोहं करिष्यामि सुकृतानीति चिन्तयन् ।</l>
  <l>उल्बणात्करपादाभ्यां कृत्वा द्वारं विनिर्गतः ॥ ५७ ॥</l>
</lg>
<lg>
  <l>4328</l>
  <l>योनिद्वारविनिष्क्रान्तो विसंज्ञः पतितः क्षितौ ।</l>
  <l>॥</l>
  <l>न स पूर्व स्मरेत्किचिन्मायया बाध्यते पुनः ॥ ५८ ॥</l>
</lg>
<p>4329</p>
<lg>
  <l>अज्ञानकहतो बाल्ये यौवने गृहतत्परः ।</l>
  <l>वार्धकेपत्यचिन्तार्तः कर्मभिर्बध्यते पुनः ॥ ५९ ॥</l>
</lg>
<p>4330</p>
<lg>
  <l>तत आयुः क्षये कन्दादपानः कालरूपवान् ।</l>
  <l>प्राणं बहिः करोत्येव शरीरात्कुपितः किल ॥ ६० ॥</l>
</lg>
<p>4331</p>
<lg>
  <l>ऊर्ध्वं श्वसंस्ततः प्राणो यात्यलब्धस्थितिस्तनोः ।</l>
  <l>तं यान्तमनुयात्येव जीवः कालप्रणोदितः ॥ ६१ ॥</l>
</lg>
<pb n="673" />
<p>शार्ङ्गधरपद्धतिः
4332</p>
<lg>
  <l>निर्गच्छन्नेव वपुषो गृह्यते यमकिंकरैः ।</l>
  <l>ते तं नयन्ति बहुधा भीषयन्तो यमान्तिकम् ॥ ६२ ॥</l>
</lg>
<p>4333</p>
<lg>
  <l>पञ्चेन्द्रियमनोबुद्धितन्मात्रैर्भूतपञ्चकैः ।</l>
  <l>पुनः कर्मशरीरेण प्रयाति यमसंनिधिम् ॥ ६३ ॥</l>
</lg>
<p>4334
ततो यमाज्ञया स्वर्ग नरकं वा प्रपद्यते ।</p>
<lg>
  <l>अवशिष्टेन पुण्येन पापेन च समन्वितः ।</l>
  <l>तेभ्यो निर्गत्य भूतेषु जायते कर्मतः पुनः ॥ ६४ ॥</l>
</lg>
<p>4335
एवं कदाचिन्नरकं स्वर्ग योन्यन्तराण्यपि ।
प्रयान्ति जीवा मोहेन मोहिता भवसंकटे । ६५ ॥
ते योगरसायनात
4336</p>
<lg>
  <l>एते हि जीवाश्चिद्भावा भने भावनया हिताः ।</l>
  <l>ब्रह्मणः कलिताकाराः सहस्रायुतकोटिशः ॥ ६६ ॥</l>
</lg>
<p>4337</p>
<lg>
  <l>संख्यातीताः पुरा जाता जायन्तेद्यापि चाभितः ।</l>
  <l>उत्पत्स्यन्तेपि चैवान्ये कणौधा इत्र निर्झरात् ॥ ६७ ॥</l>
</lg>
<p>4338</p>
<lg>
  <l>स्ववासनावशावेशादाशाविवशतां गताः ।</l>
  <l>दशास्वतिविचित्रासु स्वयं निगडिताशयाः ॥ ६८ ॥</l>
</lg>
<p>4339</p>
<lg>
  <l>अनारतं प्रतिदिशं प्रतिदेशं जले स्थले ।</l>
  <l>जायन्ते च म्रियन्ते च बुहुदा इत्र वारिणि ॥ ६९ ॥</l>
</lg>
<p>4340</p>
<lg>
  <l>केचित्प्रथम जन्मानः केचिज्जन्मशताधिकाः ।</l>
  <l>केचिचासंख्य जन्मानः केचित्रिभवा नराः ॥ ७० ॥</l>
</lg>
<pb n="674" />
<p>योगः
4341</p>
<lg>
  <l>विहरन्ति जगत्येके निपतन्त्युत्पतन्ति च ।</l>
  <l>कन्दुका इव हस्तेन मृत्युनाविरतं हताः ॥ ७१ ॥</l>
</lg>
<p>(युग्मम)</p>
<p>4342</p>
<lg>
  <l>आशापाशशतैर्बद्धा वासनाभरवाहिनः ।</l>
  <l>कायात्कायमुपायान्ति वृक्षाहृक्षमिवाण्डजाः ॥ ७२ ॥</l>
</lg>
<p>4343</p>
<lg>
  <l>दिवि देवा भुवि नराः पाताले भोगिनोसुराः ।</l>
  <l>ब्रह्माण्डोदुम्बरफले स्फुरन्मशकवत्स्थिताः ॥ ७३ ॥</l>
</lg>
<p>4344</p>
<lg>
  <l>तावद्भमन्ति संसारे प्राणिनो मनसो भ्रमात् ।</l>
  <l>यावन्मूढा न पश्यन्ति स्त्रं चिदात्मानमात्मना ॥ ७४ ॥</l>
</lg>
<p>4345</p>
<lg>
  <l>चिदानन्दमये देवे क्रियतां चित्तसंगतिः ।</l>
  <l>दीर्घमोहमयी निद्रा त्यज्यतां संप्रबुध्यताम् ॥ ७५ ॥</l>
</lg>
<p>4346</p>
<lg>
  <l>तत्कर्म यन्त्र बन्धाय सा विद्या या विमुक्तये ।</l>
  <l>आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥ ७६ ॥</l>
</lg>
<lg>
  <l>एते वासिष्ठात् ।</l>
  <l>अथ योगः ॥ १५६ ॥</l>
</lg>
<p>तत्र मन्त्रयोगः ।
4347
मन्त्रयोगों लयश्चैत्र राजयोगो हउस्तथा ।
योगश्चतुर्विधः प्रोक्तो योगिभिस्तत्त्वढारीभिः ।॥ १ ॥</p>
<p>4348</p>
<lg>
  <l>आसनं प्राणसंरोधो ध्यानं चैव समाधिकः ।</l>
  <l>एतच्चतुष्टयं विद्धि सर्वयोगेषु संमतम् ॥ २ ॥</l>
</lg>
<pb n="675" />
<p>शार्ङ्गधरपद्धतिः
4349</p>
<lg>
  <l>ब्रह्मविष्णुशिवादीनां मन्त्रजाप्यविशारदैः ।</l>
  <l>साध्यते मन्त्रयोगस्तु वत्सराजादिभिर्यथा ॥ ३ ॥</l>
</lg>
<p>अथ लययोगः ।
4350</p>
<lg>
  <l>कृष्णद्वैपायनाद्यैस्तु साधितो लयसंज्ञितः ।</l>
  <l>नवस्वेव हि चक्रेषु लयं कृत्वा महात्मभिः ॥ ४ ॥</l>
</lg>
<p>4351</p>
<lg>
  <l>प्रथमं ब्रह्मचक्रं स्यात्रिरावर्त भगाकृति ।</l>
  <l>अपाने मूलकन्दाख्ये कामरूपं च तज्जगुः ॥ ५ ॥</l>
</lg>
<p>4352</p>
<lg>
  <l>तदेव वह्निकुण्डं स्याच्छक्ति: कुण्डलिनी तथा ।</l>
  <l>तां जीवरूपिणीं ध्यायेज्ज्योतिष्कां मुक्तिहेतवे ॥ ६ ॥</l>
</lg>
<p>4353
स्वाधिष्ठानं द्वितीयं स्याचक्रं तन्मध्यगं विदुः ।</p>
<lg>
  <l>पश्चिमाभिमुखं लिङ्गं प्रवालाङ्करसंनिभम् ।</l>
  <l>तत्रोडीयाणपीठे तु तद्ध्यात्वा कर्षयेज्जगत् ॥ ७ ॥</l>
</lg>
<p>4354
तृतीयं नाभिचक्रं स्यात्तन्मध्ये भुजगी स्थिता ।</p>
<lg>
  <l>पञ्चावर्ता मध्यशक्तिचिद्रूपा विद्युदाकृतिः ।</l>
  <l>तां ध्यात्वा सर्वसिद्धीनां भाजनं जायते बुधः ॥ ८ ॥</l>
</lg>
<p>4355
चतुर्थं हृदये चक्रं विज्ञेयं तदधोमुखम् ।
ज्योतीरूपं च तन्मध्ये हंसं ध्यायेत्प्रयत्नतः ।
तं ध्यायतो जगत्सवै वश्यं स्यान्नात्र संशयः ॥ ९ ।
4356
पञ्चमं कण्डचक्रं स्यात्तत्र वामे इडा भवेत् ।</p>
<lg>
  <l>दक्षिणे पिङ्गला ज्ञेया सुषुम्णा मध्यतः स्थिता ।</l>
  <l>तत्र ध्यात्वा शुचिर्ज्योतिः सिद्धीनां भाजनं भवेत् ॥ १०॥</l>
</lg>
<pb n="676" />
<p>योगः</p>
<p>4357
षष्टं तु तालुकाचक्रं घण्टिकास्थानमुच्यते ।</p>
<lg>
  <l>दशमद्वारमार्ग तु राजदन्तं च तज्जगुः ।</l>
  <l>तत्र शून्ये लयं कृत्वा मुक्तो भवति निश्चितम् ॥ ११ ॥</l>
</lg>
<p>4358</p>
<lg>
  <l>भ्रूचक्रं सप्तमं विद्याद्विन्दुस्थानं च तद्विदुः ।</l>
  <l>भ्रुवोर्मध्ये वर्तुलं च ध्यात्वा ज्योतिः प्रमुच्यते ॥ १२ ॥</l>
</lg>
<p>4359
अष्टमं ब्रह्मरन्ध्रं स्यात्परं निर्वाणसूचकम् ।</p>
<lg>
  <l>तद्ध्यात्वा सूचिकाग्राभं धूमाकारं विमुच्यते ।</l>
  <l>तच जालंधरं ज्ञेयं मोक्षदं लीनचेतसाम् ॥ १३ ॥</l>
</lg>
<p>4360
:
नवमं ब्रह्मचक्रं स्याइलैः षोडशभिर्युतम् ।</p>
<lg>
  <l>संविद्रूपा च तन्मध्ये शक्तिरूव स्थिता परा ।</l>
  <l>तत्र पूर्णगिरी पीठे शक्ति ध्यात्वा विमुच्यते ॥ १४ ॥</l>
</lg>
<p>4361</p>
<lg>
  <l>एतेषां नवचक्राणामेकैकं ध्यायतो मुनेः ।</l>
  <l>सिद्धयो मुक्तिसहिताः करस्थाः स्युर्दिने दिने ॥ १५ ॥</l>
</lg>
<p>4362</p>
<lg>
  <l>कोदण्डद्वयमध्यस्थं पश्यन्ति ज्ञानचक्षुषा ।</l>
  <l>कदम्बगोलकाकारं ब्रह्मलोकं व्रजन्ति ते ॥ १६ ॥</l>
</lg>
<p>4363</p>
<lg>
  <l>ऊर्ध्वशक्तिनिपातेन अधः शक्तनिकुञ्चनात् ।</l>
  <l>मध्यशक्तिप्रबोधेन जायते परमं सुखम् ॥ १७ ॥</l>
</lg>
<p>अथ राजयोगः ।
4364</p>
<lg>
  <l>दत्तात्रेयादिभिः पूर्वं साधितोयं महात्मभिः ।</l>
  <l>राजयोगो मनोवायू स्थिरौ कृत्वा प्रयत्नतः ॥ १८ ॥</l>
</lg>
<pb n="677" />
<p>शार्ङ्गधरषद्धतिः
4365</p>
<lg>
  <l>पूर्वाभ्यस्तौ मनोवातौ मूलाधारानेकुञ्चनात् ।</l>
  <l>पश्चिमे दण्डमार्गे तु शङ्न्यिन्तः प्रवेशयेत् ॥ १९ ॥</l>
</lg>
<p>4366</p>
<lg>
  <l>ग्रन्थित्रयं भेदयित्वा नीत्वा भ्रमरकंदरम् ।</l>
  <l>ततस्तु नादजो बिन्दुस्ततः शून्ये लयं व्रजेत् ॥ २० ॥</l>
</lg>
<p>4367</p>
<lg>
  <l>अभ्यासात्तु स्थिरस्वान्त ऊर्ध्वरेताश्च जायते ।</l>
  <l>परानन्दमयो योगी जरामरणवर्जितः ॥ २१ ॥</l>
</lg>
<p>4368</p>
<lg>
  <l>अथवा मूलसंस्थानामुदतैस्तु प्रबोधयेत् ।</l>
  <l>सुप्तां कुण्डलिनीं शक्तिं बिसतन्तुनिभाकृतिम् ॥ २२ ॥</l>
</lg>
<p>4369</p>
<lg>
  <l>सुषुम्णान्तः प्रवेश्यैव पञ्च चक्राणि भेदयेत् ।</l>
  <l>तत: शिवे शशाङ्काभे स्फुरनिर्मलतेजसि ॥ २३ ॥</l>
</lg>
<p>4370</p>
<lg>
  <l>सहस्रदलपद्मान्त:स्थिते शक्ति नियोजयेत् ।</l>
  <l>अथ तत्सुधया सर्वो सबाह्याभ्यन्तरां तनुम् ॥ २४ ॥</l>
</lg>
<p>4371
प्रावयित्वा ततो योगी न किंचिदपि चिन्नयेत् ।</p>
<lg>
  <l>तत उत्पद्यते तस्य समाधिर्निस्तरंगितः ।</l>
  <l>एवं निरन्तराभ्यासाद्योगी सिद्धः स जायते ॥ २५ ॥</l>
</lg>
<lg>
  <l>एवं शार्ङ्गधरस्य ।</l>
  <l>अथ हठयोगः ॥ १५७॥</l>
</lg>
<p>4372</p>
<lg>
  <l>द्विधा हट: स्यादेकस्तु गोरक्षादिसुसाधितः ।</l>
  <l>अन्यो मृकण्डपुत्राद्यैः साधितोनिशमुद्यैनैः ॥ १ ॥</l>
</lg>
<pb n="678" />
<p>हठयोगः
4373</p>
<lg>
  <l>तत्र गोरक्षसदृशैः साधितो यः स कथ्यते ।</l>
  <l>धीरैरपि हि दुःसाध्यः किं पुनः प्राकृतैर्जनैः ॥ २ ॥</l>
</lg>
<p>4374</p>
<lg>
  <l>आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ।</l>
  <l>ध्यानं समाधिरेतानि योगाङ्गानि स्मृतानि षट् ॥ ३ ॥</l>
</lg>
<p>अथासनम् ।
4375</p>
<lg>
  <l>एकान्ते विजने देशे पवित्रे निरुपद्रवे ।</l>
  <l>कम्बलाजिनवस्त्राणामुपर्यासनमभ्यसेत् ॥ ४ ॥</l>
</lg>
<p>4376</p>
<lg>
  <l>उत्तानो चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः ।</l>
  <l>ऊरुमध्ये तथोत्तानो पाणी पद्मासनं त्विदम ॥ ५ ॥</l>
</lg>
<p>अथ प्राणायामः ।
4377</p>
<lg>
  <l>तत्र पद्मासनं बजा ततः संकोचयेत्त्वधः ।</l>
  <l>समदण्डं शिरः कृत्वा नासिकान्तर्दृशं नयेत ॥ ६ ॥</l>
</lg>
<p>4378</p>
<lg>
  <l>यथैत्रोत्पलनालेन आकर्षति नरो जलम् ।</l>
  <l>योगी योगसमाविष्टस्तथा कर्षति मारुतम् ॥ ७ ॥</l>
</lg>
<p>4379</p>
<lg>
  <l>काकचचुपुटीकृत्य ओष्ठौ प्रोक्ता निलं पिवेत् ।</l>
  <l>ओंकार ध्वनिनाकृष्य पूरयेद्यावदन्तरम् ॥ ८ ॥</l>
</lg>
<p>4380</p>
<lg>
  <l>पूरणात्पूरकं प्रोक्तं कुम्भकस्तु निकुम्भनात् ।</l>
  <l>रेचकं रंचनासूक्ष्मं ततोन्तः शोध्यते त्रिभिः ॥ ९ ॥</l>
</lg>
<pb n="679" />
<p>शार्ङ्गधरपद्धतिः
4381
प्राणायामानरः षष्टिं कुर्यादेवमहर्मुखे ।</p>
<lg>
  <l>चत्वारिंशच्च मध्याते संध्यायां विंशतिर्भवेत् ।</l>
  <l>अर्धरात्रे विंशतिः स्यादेवं प्राणविनिग्रहः ॥ १० ॥</l>
</lg>
<p>1382</p>
<lg>
  <l>शरीरलघुता दीप्तिर्जठराग्निविवर्धनम् ।</l>
  <l>कृशत्वं च शरीरस्य जायते वै ध्रुवं तदा ॥ ११ ॥</l>
</lg>
<p>4383</p>
<lg>
  <l>लवणं सरसं साम्लमुष्णं रूक्षं च तीक्ष्णकम् ।</l>
  <l>स्त्रीसेवामग्निसेवां च बह्वाशित्वं च वर्जयेत् ॥ १२ ॥</l>
</lg>
<p>4384</p>
<lg>
  <l>क्षीरं घृतं च मृष्टान्नं मिताहारश्च शस्यते ।</l>
  <l>मितोक्तिः : पवनाभ्यासो निद्रायाश्च जयस्तथा ॥ १३ ॥</l>
</lg>
<p>4385</p>
<lg>
  <l>केवले कुम्भके सिद्धे रेचपूरकवर्जिते ।</l>
  <l>न तस्य दुर्लभं किंचित्रिषु लोकेषु विद्यते ॥ १४ ॥</l>
</lg>
<p>4386
ततोधिकतराभ्यासाद्भवतः स्वेदकम्पने ।
ततोधिकतराभ्यासाद्द।दुरी जायते ध्रुवम् ॥ १५ ॥
4387</p>
<lg>
  <l>यथैव दर्दुरो गच्छेदप्लुत्योरप्लुत्य भूतले ।</l>
  <l>पद्मासनस्थितो योगी तथा गच्छति भूतले ॥ १६ ॥</l>
</lg>
<p>4388
ततोधिकतराभ्यासाद्भूमित्यागश्च जायते ।
स्वल्पं वा बहु वा भुक्त्वा योगी न व्यथते तदा ॥ १७
4389</p>
<lg>
  <l>अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते ।</l>
  <l>कोटिलो दृषिका लाला स्वेदो दुर्गन्धिता तनो: ॥ १८ ॥</l>
</lg>
<pb n="680" />
<p>43
हठयोगः
4390
एतानि सर्वदा तस्य न जायन्ते ततः परम् ।</p>
<lg>
  <l>स्त्रीसङ्गं वर्जयेद्यत्नाद्विन्दुं रक्षेत्प्रयत्नतः ।</l>
  <l>आयुःक्षयो बिन्दुनाशादसामर्थ्य च जायते ॥ १९ ॥</l>
</lg>
<p>अथ प्रत्याहारः ।
4391</p>
<lg>
  <l>विषयद्वारनिष्क्रान्तं यावत्स्वविषयान्प्रति ।</l>
  <l>चित्तं निवार्यते यत्र प्रत्याहारः स उच्यते ॥ २० ॥</l>
</lg>
<p>अथ पञ्च धारणाः ।
4392</p>
<lg>
  <l>गुरूपदेश तश्चित्तमेकस्मिन्स्थानके यदि ।</l>
  <l>वायुश्च रुध्यते यत्र धारणा सा विधीयते ॥ २१ ॥</l>
</lg>
<p>अथ पृथ्वीधारणा ।
4393
200
नाभेरघो गुदस्योर्ध्वं घटिकाः पञ्च धारयेत् ।</p>
<lg>
  <l>वायुं ततो लभेत्पृथ्वीधारणां तद्भयापहाम् ।</l>
  <l>पृथिवीसंभवो मृत्युर्न भवेदस्य योगिनः ॥ २२॥</l>
</lg>
<p>अथ जलधारणा ।
4394</p>
<lg>
  <l>नाभिस्थाने ततो वायुं धारयेत्पञ्च नाडिकाः ।</l>
  <l>ततो जलाइयं नास्ति जलमृत्युर्न योगिनः ॥ २३ ॥</l>
</lg>
<p>अथ तेजोधारणा ।
4395</p>
<lg>
  <l>नाभ्यूर्ध्वमण्डले वायुं धारयेत्पन्च नाडिकाः ।</l>
  <l>आमेयी धारणा सेयं मृत्युस्तस्य न वह्निना ॥ २४ ॥</l>
</lg>
<pb n="681" />
<p>शार्ङ्गधरपद्धतिः
अथ वायुधारणा ।
4396</p>
<lg>
  <l>नासाभ्रूमध्यदेशे तु वायुं तथैव धारयेत् ।</l>
  <l>वायवी धारणा सेयं मृत्युस्तस्य न वायुना ॥ २५ ॥</l>
</lg>
<p>अथाकाशधारणा ।
4397</p>
<lg>
  <l>भ्रूमध्यस्योपरिष्टाच्च धारयेत्पञ्च नाडिकाः ।</l>
  <l>वायुं योगी प्रयत्नेन सेयमाकाशधारणा ॥ २६ ॥</l>
</lg>
<p>4398</p>
<lg>
  <l>आकाशधारणां कुर्वन्मृत्युं जयति निश्चितम् ।</l>
  <l>यत्र तत्र स्थितो वापि सुखमत्यन्तमञ्जुते ॥ २७ ॥</l>
</lg>
<p>अथ ध्यानम् ।
4499</p>
<lg>
  <l>वायुः परिचितो यत्नादमिना सह कुण्डलीम् ।</l>
  <l>बोधयित्वा सुषुम्णायां प्रविशेदग्निरोधतः ॥ २८ ॥</l>
</lg>
<p>4400</p>
<lg>
  <l>महापथं प्रविश्यैवं शून्यस्थाने लयं व्रजेत् ।</l>
  <l>यदा तदा भवेद्योगी त्रिकालामलदर्शनः ॥ २९ ॥</l>
</lg>
<p>अथ समाधिः ।
4401</p>
<lg>
  <l>यदेतद्ध्यानमाख्यातं तच्चेत्परिणमव्यपि ।</l>
  <l>चैतन्यानन्दरूपेण स समाधिरुदीरितः ॥ ३० ॥</l>
</lg>
<p>।
अथ जाग्रत्स्वमसुषुप्तितुरीयावस्थाः
4402</p>
<lg>
  <l>बुद्धिपूर्व तु यज्ज्ञानं बाहेर्विषयसेवितम् ।</l>
  <l>प्रत्यक्षमनिरुद्धं च तज्जागरितमुच्यते ॥ ३१ ॥</l>
</lg>
<pb n="682" />
<p>हठयोगः</p>
<lg>
  <l>4403</l>
  <l>अर्थाभावे त यज्ज्ञानं प्रत्यक्षमिव दृश्यते ।</l>
  <l>तु</l>
  <l>गन्धर्वनगराकारं स्वमं तदुपलक्षयेत् ॥ ३२ ॥</l>
</lg>
<p>4404</p>
<lg>
  <l>जाग्रत्स्वमावुभावेतौ नित्यं यंत्र प्रतिष्ठितौ ।</l>
  <l>उत्पत्तिः प्रलयश्चैत्र सौषुप्तमवधारयेत् ॥ ३३ ॥</l>
</lg>
<p>4405</p>
<lg>
  <l>जीवाभावो विनिद्रा च द्वयं यत्र न विद्यते ।</l>
  <l>तत्तुरीयामेति प्रोक्तमुत्पत्तिलयवर्जितम् ॥ ३४ ॥</l>
</lg>
<p>4406</p>
<lg>
  <l>अथ देहं स्थिरीकर्तुं योगिनां सिद्धिमिच्छताम् ।</l>
  <l>कथ्यन्ते शुद्धकर्माणि यैः सिद्धिं प्रापुरुत्तमाः ॥ ३५ ॥</l>
</lg>
<p>4407</p>
<lg>
  <l>महामुद्रां नभोमुद्रामुड्डीयाणं जालंधरम् ।</l>
  <l>मूलबन्धं स्थिरं दण्डं यः करोति स सिध्यति ॥ ३६ ॥</l>
</lg>
<p>अथ महामुद्रा ।
4408</p>
<lg>
  <l>पाणि तु वामपादस्य योनिस्थाने नियोजयेत् ।</l>
  <l>प्रसार्य दक्षिणं पादं हस्ताभ्यां धारयेद्दृढम् ॥ ३७ ॥</l>
</lg>
<p>4409
चिबुकं हृदि विन्यस्य पूरयेद्वायुना पुनः ।</p>
<lg>
  <l>कुम्भकेन यथाशक्त्या धारयित्वा तु रेचयेत् ।</l>
  <l>वामाङ्गेन समभ्यस्य दक्षिणाङ्गेन चाभ्यसेत् ॥ ३८ ॥</l>
</lg>
<p>अथ नभोमुद्रा ।
4410</p>
<lg>
  <l>अन्तः कपालविवरे जिह्वामाकुञ्च्य चार्पयेत् ।</l>
  <l>भ्रूमध्यवृष्टिरमृतं पिबेत्खेचर मुद्रया ॥ ३९ ॥</l>
</lg>
<pb n="683" />
<p>शार्ङ्गधरपद्धतिः
अथ जालंधरम् ।
4411</p>
<lg>
  <l>कण्ठ माकुञ्च्य हृदये स्थापयेद्दृढमिच्छया ।</l>
  <l>जालंधरो बन्ध एष सुधाव्ययनिवारणः ॥ ४० ॥</l>
</lg>
<p>4412</p>
<lg>
  <l>नाभिस्थोग्निः कपालस्थसहस्रकमलाच्युतम् ।</l>
  <l>अमृतं सर्वदा सर्वे पिवञ्ज्वलति देहिनाम् ॥ ४१ ॥</l>
</lg>
<p>4413
:
यथा सोग्निस्तदमृतं न पिबेत्तद्विधिस्त्रयम् ।</p>
<lg>
  <l>याति पश्चिममार्गेण एवमभ्यसतः सदा ।</l>
  <l>अमृतीकुरुते देहं जालंधरमिति स्मृतम् ॥ ४२॥</l>
</lg>
<p>अथोड्डीयाणम् ।
4414</p>
<lg>
  <l>उड्डीयाणं तु सहजं कथितं गुरुणा सदा ।</l>
  <l>अभ्यसेदस्ततन्द्रस्तु वृद्धोपि तरुणो भवेत् ॥ ४३ ॥</l>
</lg>
<p>4415</p>
<lg>
  <l>नाभेरूर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः ।</l>
  <l>पण्मासाभ्यासतो मृत्युं जयत्येव न संशयः ॥ ४४ ॥</l>
</lg>
<p>अथ मूलबन्धः ।
4416
मूलवन्धं च यो नित्यमभ्यसेत्स हि योगवित् ।
गुदं पार्ष्या तु संपीय</p>
<lg>
  <l>वायुमा कुञ्चयेद्वलात् ।</l>
  <l>वारं वारं यथा चोर्ध्व समायाति समीरणः ॥ ४५ ॥</l>
</lg>
<p>4417</p>
<lg>
  <l>प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् ।</l>
  <l>गत्वा योगस्य संसिद्धिं गच्छतो नात्र संशयः ॥ ४६ ॥</l>
</lg>
<pb n="684" />
<p>द्वितीयो हठयोग,
4418</p>
<lg>
  <l>अपानप्राणयोरैक्यं क्षयो मूत्रपुरीषयोः ।</l>
  <l>युवा भवति वृद्धोपि सततं मूलबन्धनात् ॥ ४७ ॥</l>
</lg>
<p>अथ दण्डधारणम्
4419
।</p>
<lg>
  <l>पृष्ठबन्धं स्थिरं कुर्यादनत्रं स्थिरसंचयम् ।</l>
  <l>दण्डधारणमेतद्धि योगिनां परमं स्मृतम् ॥ ४८ ॥</l>
</lg>
<lg>
  <l>एते योगशास्त्रेभ्यः ।</l>
  <l>अथ मार्कण्डेयादि साधितो द्वितीयों हठयोगः ॥ १५८ ॥</l>
</lg>
<p>4420</p>
<lg>
  <l>श्लोकार्पेन प्रवक्ष्यामि यच्चोक्तं व्यासकोटिभिः ।</l>
  <l>ममेति मूलं दुःखस्य न ममेति च निर्वृतिः ॥ १ ॥</l>
</lg>
<p>4421</p>
<lg>
  <l>निर्ममत्वं विरागाय वैराग्याद्योगसंगतिः ।</l>
  <l>योगाच्च जायते ज्ञानं ज्ञानान्मुक्तिः प्रजायते ॥ २ ॥</l>
</lg>
<p>4422</p>
<lg>
  <l>उपभोगेन पुण्यानां प्राक्तनानां तथांहसाम् ।</l>
  <l>कर्तव्यमिति नित्यानामकामकरणात्तथा ॥ ३ ॥</l>
</lg>
<p>4423</p>
<lg>
  <l>असंचयादपूर्वस्य क्षयात्पूर्वार्जितस्य च ।</l>
  <l>कर्मणो बन्धमानोति शारीरं न पुनः पुनः ॥ ४ ॥</l>
</lg>
<p>4424</p>
<lg>
  <l>अथेह कथ्यतेस्माभिः कर्मणा येन बन्धनम् ।</l>
  <l>छिद्यते सदुपायेन श्रुत्वा तत्र प्रवर्त्यताम् ॥ ५ ॥</l>
</lg>
<p>4425</p>
<lg>
  <l>अष्टावङ्गानि योगस्य यमो नियम आसनम् ।</l>
  <l>प्राणायामः प्रत्याहारो धारणा ध्यानतन्मयः ॥ ६ ॥</l>
</lg>
<pb n="685" />
<p>शार्ङ्गधरपद्धतिः
अथ यमः ।
4426</p>
<lg>
  <l>अहिंसा सत्यमस्तेयं ब्रह्मचर्यपरिग्रहः ।</l>
  <l>इष्टानिष्टपरा चिन्ता यम एष प्रकीर्तितः ॥ ७ ॥</l>
</lg>
<p>अथ नियमः ।
4427</p>
<lg>
  <l>स्वाध्यायशौचसंतोषा देवताराधनं तपः ।</l>
  <l>वैराग्यं च जनासङ्गो नियमोप्येष उच्यते ॥ ८ ॥</l>
</lg>
<p>अवासनम् ।
4428</p>
<lg>
  <l>नाध्यातः क्षुधितः श्रान्तो न च व्याकुलचेतनः ।</l>
  <l>युञ्जीत योगं योगज्ञो नित्यं सिद्धयर्थमादृतः ॥ ९ ॥</l>
</lg>
<p>4429</p>
<lg>
  <l>न शीते नाति चैवोष्णे न दुर्गे नाम्बुनस्तटे ।</l>
  <l>न सोपद्रवदेशेषु योगं संसाधयेत्कचित् ॥ १० ॥</l>
</lg>
<p>4430</p>
<lg>
  <l>एकान्ते विजने रम्ये पवित्रे निरुपद्रवे ।</l>
  <l>सुखासने समाधिः स्याद्वखाजिनकुशोत्तरे ॥ ११ ॥</l>
</lg>
<p>4431
पद्ममर्धासनं चापि तथा सिद्धासनादिकम् ।
आस्थाय योगं युञ्जीत कृत्वा च प्रणवं हृदि ॥ १२ ।
4432</p>
<lg>
  <l>समः समासनो भूत्वा संहत्य चरणावुभौ ।</l>
  <l>संवृतास्यस्तथा चोरः सम्यग्विष्टभ्य चामतः ॥ १३ ॥</l>
</lg>
<p>4433</p>
<lg>
  <l>पाणिभ्यां लिङ्गवृषणावस्पृशन्मयतः स्थितः ।</l>
  <l>किंचिदुचामितशिरा दन्तैर्दन्तान संस्पृशेत् ॥ १४ ॥</l>
</lg>
<pb n="686" />
<p>द्वितीयो हठयोग
4434</p>
<lg>
  <l>संपश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् ।</l>
  <l>कुर्याहृढं पृष्ठवंशमुडीयाणं तथोदरे ॥ १५ ॥</l>
</lg>
<p>विशेषकम् ।
4435</p>
<lg>
  <l>उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः ।</l>
  <l>ऊरुमध्ये तथोत्तानौ पाणी पद्मासनं त्विदम् ॥ १६ ॥</l>
</lg>
<p>4436</p>
<lg>
  <l>दक्षिणोरुतले वामं पादं न्यस्य तु दक्षिणम् ।</l>
  <l>वामोरोरुपरि स्थाप्यमेतदर्धासनं मतम् ॥ १७ ॥</l>
</lg>
<p>4437</p>
<lg>
  <l>तु वामपादस्य योनिस्थाने नियोजयेत् ।</l>
  <l>वामोरोरुपरि स्थाप्यो दक्षिणः सैद्धमासनम् ॥ १८ ॥</l>
</lg>
<p>अथ प्राणायामः ।
4438
प्राणाया मैर्दहेहोषान्प्रत्याहारेण पातकम् ।
।
धारणाभिश्च दुःखानि ध्यानेनानीश्वरान्गुणान् ॥ १९ ।
4439</p>
<lg>
  <l>यथा पर्वतधातूनां ध्मातानां दह्यते मलम् ।</l>
  <l>तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिमहात् ॥ २० ॥</l>
</lg>
<p>4440</p>
<lg>
  <l>वश्यं कर्तुं यथेच्छातो नागं नयति हस्तिपः ।</l>
  <l>तथैव योगी छन्द्रेन प्राणान्नयति साधितुम् ॥ २१ ॥</l>
</lg>
<p>4441</p>
<lg>
  <l>यथा हि साधितः सिंहो मृगान्हन्ति न मानवान् ।</l>
  <l>तथा हि साधिताः प्राणाः किल्बिषं न नृणां तनुम् ॥२२॥</l>
</lg>
<pb n="687" />
<p>शार्ङ्गधरपद्धतिः
4442</p>
<lg>
  <l>प्राणायामं विना योगं साधयेद्यस्तु मन्दधीः ।</l>
  <l>न स सिद्धगतिं याति पङ्गुजिगतिं यथा ॥ २३ ॥</l>
</lg>
<p>4443</p>
<lg>
  <l>तस्मात्तु साधनं कुर्यात्प्राणायामस्य योगवित् ।</l>
  <l>प्राणापाननिरोधश्च प्राणायामः प्रकीर्तितः ॥ २४ ॥</l>
</lg>
<p>4444</p>
<lg>
  <l>सव्याहत सप्रणवां गायत्रीं शिरसा सह ।</l>
  <l>त्रि: पठेदायतप्राणः प्राणायामः स उच्यते ॥ २५ ॥</l>
</lg>
<p>4445</p>
<lg>
  <l>चक्षुःस्पन्दनमात्रस्य यावद्वादशसंज्ञिकाः ।</l>
  <l>तावन्निरुध्यते प्राणः प्राणायामः स उच्यते ॥ २६ ॥</l>
</lg>
<p>4446</p>
<lg>
  <l>स्वजानुत: करावर्त याववादश छोटिकाः ।</l>
  <l>यावन्निरुध्यते प्राणः प्राणायामः स कीर्तितः ॥ २७ ॥</l>
</lg>
<p>4447</p>
<lg>
  <l>प्राणायामो लघुस्त्वेको द्विगुणो मध्यमः स्मृतः ।</l>
  <l>उत्तमस्त्रिगुणो ज्ञेय इत्येषा वैदिकी स्थितिः ॥ २८ ॥</l>
</lg>
<p>4448</p>
<lg>
  <l>प्रथमेन जयेत्स्वेदं द्वितीयेन च वेपथुम् ।</l>
  <l>विषादं च तृतीयेन जयेदोषाननुक्रमात् ॥ २९ ॥</l>
</lg>
<p>4449</p>
<lg>
  <l>द्विगुणोत्तरया वृद्धया प्रत्याहारस्तु धारणा ।</l>
  <l>ध्यानं समाधिरित्येवं प्राणायामादनुक्रमात् ॥ ३० ॥</l>
</lg>
<p>4450</p>
<lg>
  <l>तस्मायुक्तः सदा योगी प्राणायामपरो भवेत् ।</l>
  <l>श्रूयतां मुक्तिफलदं तस्यावस्थाचतुष्टयम् ॥ ३१ ॥</l>
</lg>
<pb n="688" />
<p>द्वितीयो हठयोग:
4451</p>
<lg>
  <l>ध्वस्तिः प्राप्तिस्तथा संवित्प्रसादश्व महामते ।</l>
  <l>स्वरूपं चैतेषां कथ्यमानमनुक्रमात् ॥ ३२ ॥</l>
</lg>
<p>4452</p>
<lg>
  <l>कर्म गामिष्टदुष्टानां जायते फलसंक्षयः ।</l>
  <l>चेतसोर्थक पायत्वाद्यत्र सा ध्वस्तिरुच्यते ॥ ३३ ॥</l>
</lg>
<p>4453</p>
<lg>
  <l>ऐहिका मुष्मिकान्का मांल्लोभमोहात्मकांश्च यान् ।</l>
  <l>निरुध्यास्ते सदा योगी प्राप्तिः स्यात्सार्वकामिकी ॥ ३४ ॥</l>
</lg>
<p>4454</p>
<lg>
  <l>अतीतानागतानथन्विप्रकृष्टतिरोहितान् ।</l>
  <l>विजानाति यदा योगी तदा संविदिति स्मृता ॥ ३५ ॥</l>
</lg>
<p>4455</p>
<lg>
  <l>यान्ति प्रसादं येनास्य मनः पञ्च च वायवः ।</l>
  <l>इन्द्रियाणीन्द्रियार्थाश्च स प्रसाद इति स्मृतः ॥ ३६ ॥</l>
</lg>
<p>4456</p>
<lg>
  <l>प्राणायामस्य युक्तिस्तु पूर्वाभ्यासस्य कथ्यते ।</l>
  <l>यां चक्रुर्मुनयः सर्वे नाडीतंशुद्धिहेतवे ॥ ३७ ॥</l>
</lg>
<p>4457</p>
<lg>
  <l>पूर्व दक्षिणहस्तस्य स्वानै पिङ्गलाम् ।</l>
  <l>निरुध्य पूरयेद्वायुमिडया तु शनैः सुधीः ॥ ३८ ॥</l>
</lg>
<p>4458</p>
<lg>
  <l>यथाशक्ति निरोधेन ततः कुर्याच्च कुम्भकम् ।</l>
  <l>पुनस्त्यजेपिङ्गलया शनै रेचनकं मतम् ॥ ३९ ॥</l>
</lg>
<p>4459</p>
<lg>
  <l>पुनः पिङ्गलया पूर्वे पूरयेदुदरं शनैः ।</l>
  <l>धारयित्वा यथाशक्त्या रेचयेदिडया शनैः ॥ ४० ॥</l>
</lg>
<pb n="689" />
<p>शार्ङ्गधरपद्धतिः
4460</p>
<lg>
  <l>यथा त्यजेत्तथा पूर्व धारयेदनिरोधतः ।</l>
  <l>नाडीविशुद्धौ जातायां ततः कुर्याद्यथेच्छया ॥ ४१ ॥</l>
</lg>
<p>अथ प्रत्याहारः ।</p>
<lg>
  <l>4461</l>
  <l>शब्दादिभ्यः प्रवृत्तानि यदक्षाणि यतात्मभिः ।</l>
  <l>:</l>
  <l>प्रत्याट्रियन्ते योगेन प्रत्याहारस्वतः स्मृतः ॥ ४२ ॥</l>
</lg>
<p>4462</p>
<lg>
  <l>सबाह्याभ्यन्तरं शौचं निष्पाद्याकण्ठनाभितः ।</l>
  <l>पूरयित्वा बुधः प्राणौ प्रत्याहारमुपक्रमेत् ॥ ४३ ॥</l>
</lg>
<p>4463
रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा !
संछाद्य निर्मले सत्त्वे स्थितो युञ्जीत योगवित् ॥ ४४ ॥
4464</p>
<lg>
  <l>इन्द्रियाणीन्द्रियार्थेभ्य: प्राणादीन्मन एव च ।</l>
  <l>निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ॥ ४५ ॥</l>
</lg>
<p>4465</p>
<lg>
  <l>यस्तु प्रत्याहरेत्कामान्सर्वाङ्गाणीव कच्छपः ।</l>
  <l>स त्वात्मरतिरकस्थः पश्यत्यात्मानमात्मना ॥ ४६ ॥</l>
</lg>
<p>अथ धारणा ।
4466</p>
<lg>
  <l>प्राणायामा दश हौ च धारणा साभिधीयते ।</l>
  <l>हे धारणे स्मृतो योगो मुनिभिस्तत्त्वदर्शिभिः ॥ ४७ ॥</l>
</lg>
<p>4467</p>
<lg>
  <l>आधारजन्मभूतानि हत्कण्ठस्तालुनासिके ।</l>
  <l>भ्रूमध्ये मस्तकद्वारं दशस्थानेषु धारणा ॥ ४८ ॥</l>
</lg>
<pb n="690" />
<p>द्वितीयो हठयोगः
4468</p>
<lg>
  <l>गुरूपदेशमासाद्य एकस्मिन्स्थानके यदि ।</l>
  <l>रुध्येते यन्मनोवातौ धारणा साभिधीयते ॥ ४९ ॥</l>
</lg>
<p>4469</p>
<lg>
  <l>जितां जितां शनैर्भूमिमारोहेत यथाक्रमम् ।</l>
  <l>दोषान्व्याधींस्तथा मोहमादत्ते भूरनिर्जिता ॥ ५० ॥</l>
</lg>
<p>अथ ध्यानम् ।
4470</p>
<lg>
  <l>शून्येषु चावकाशेषु गुहासु च वनेषु च ।</l>
  <l>नित्ययुक्तः सदा योगी ध्यानं सम्यगुपक्रमेत् ॥ ५१ ॥</l>
</lg>
<p>4471</p>
<lg>
  <l>व्यक्तसङ्गो जितमना लघ्वाहारो जितेन्द्रियः ।</l>
  <l>पिधाय बुद्धया द्वाराणि मनो ध्याने नियोजयेत् ॥५२॥</l>
</lg>
<p>4472</p>
<lg>
  <l>आत्मानं च जगत्सर्व दृशा नित्याविभिन्नया ।</l>
  <l>चिदाकाशमयं ध्यायन्योगी याति परां गतिम् ॥ ५३ ॥</l>
</lg>
<p>4473</p>
<lg>
  <l>अथवा प्रोच्यते ध्यान मन्यदेवात्र योगिनाम् ।</l>
  <l>रहस्यं परमं मुक्तेः कारणं प्रथमं च यत् ॥ ५४ ॥</l>
</lg>
<p>4474</p>
<lg>
  <l>वायुवच्चञ्चलं चित्तं स्थिरीकर्ते न शक्यते ।</l>
  <l>तदर्थ सकले योज्यं तस्माद्भवति निष्कलम् ॥ ५५ ॥</l>
</lg>
<p>4475</p>
<lg>
  <l>मूलाधारस्थितं जीवं प्रदीपकलिकाकृतिम् ।</l>
  <l>प्रणवेन समाकृष्य दशमान्ते निवेशयेत् ॥ ५६ ॥</l>
</lg>
<p>4476</p>
<lg>
  <l>ततो जपेच्च प्रणवं मूलाधारात्समुत्थितम् ।</l>
  <l>नियति दशमद्वारे मनसादानरूपिणम् ॥ ५७ ॥</l>
</lg>
<pb n="691" />
<p>शार्ङ्गधरपद्धतिः
4477</p>
<lg>
  <l>यथा प्रयुक्त ओंकारः प्रतिनिर्याति मूर्धनि ।</l>
  <l>तथोंकारमयो योगी अक्षरे त्वक्षरो भवेत् ॥ ५८ ॥</l>
</lg>
<p>4478</p>
<lg>
  <l>कुर्वन्नेवं यदा पश्येन्मनोनेत्रेण योगवित् ।</l>
  <l>हंसं बिन्दुं शिखां ज्योतिस्ततो लयमवाप्नुयात् ॥ ५९ ॥</l>
</lg>
<p>4479</p>
<lg>
  <l>ब्रह्मरमुखे सूक्ष्मं निर्विकल्पं परावरम् ।</l>
  <l>परमं ज्योतिरासाद्य योगी तन्मयतां व्रजेत् ॥ ६० ॥</l>
</lg>
<p>4480</p>
<lg>
  <l>निर्विकल्पे पढ़े प्राप्ते जीवे तहयतां गते ।</l>
  <l>नदयन्ति सर्वकर्माणि तस्मिन्दृष्टे परावरे ॥ ६१ ॥</l>
</lg>
<p>4481</p>
<lg>
  <l>वृक्षमूर्ध्नि यथा पक्षी अकस्मादेव दृश्यते ।</l>
  <l>बुद्धिस्यो दृश्यतामेति झगित्येव तथा विभुः ॥ ६२ ॥</l>
</lg>
<p>4482</p>
<lg>
  <l>अग्रतः पृष्ठतो मध्ये पार्श्वतोथ समन्ततः ।</l>
  <l>विद्युच्चकितवद्वाति सूर्यकोटिसमप्रभः ॥ ६३ ॥</l>
</lg>
<p>4483</p>
<lg>
  <l>रतान्ते स्त्री यथात्मानं क्षणं काहं न बुध्यते ।</l>
  <l>रमणोपि न जानाति कोहं योगे तथा पुमान् ॥ ६४ ॥</l>
</lg>
<p>4484</p>
<lg>
  <l>शृणोत्याश्चर्यवत्कोपि कोप्याश्चर्यवदीक्षते ।</l>
  <l>श्रुत्वा दृष्ट्वा तथाप्येनं न सम्यग्वेद कञ्चन ॥ ६५ ॥</l>
</lg>
<p>4485</p>
<lg>
  <l>गुरुप्रसादतो लक्ष्यं लब्ध्वा यत्नात्समभ्यसेत् ।</l>
  <l>अभ्यासादृश्यते देवो ज्ञानदृष्टया महेश्वरः ॥ ६६ ॥</l>
</lg>
<pb n="692" />
<p>यथा वेदे ।
द्वितीयो हठयोगः
4486</p>
<lg>
  <l>तेजः परं द्युतिमतां तमसः परस्ता-</l>
  <l>दादित्यवर्णममलं कनकस्वरूपम् ।</l>
  <l>आत्मानमात्मनि गतं प्रकृतविभिन्न-</l>
  <l>मानन्दमात्रमिति पश्यति यः स मुक्तः ॥ ६७॥</l>
</lg>
<p>4487</p>
<lg>
  <l>वेदाहमेतं पुरुषं महान्त-</l>
  <l>मादित्यवर्ण तमसः परस्तात् ।</l>
  <l>तमेव विदित्वाति मृत्युमेति</l>
  <l>नान्यः पन्था विद्यतेयनाय ॥ ६८ ॥</l>
</lg>
<p>अथ समाधिः ।
4488</p>
<lg>
  <l>समाधिः समतावस्था जीवात्मपरमात्मनोः ।</l>
  <l>निस्तरंगपदप्राप्तिः परमानन्दरूपिणी ॥ ६९ ॥</l>
</lg>
<p>4489</p>
<lg>
  <l>निःश्वासोच्छ्रासयुक्तो वा निस्पन्दोचललोचनः ।</l>
  <l>शिवध्यायीं सुलीनच स समाधिस्थ उच्यते ॥ ७० ॥</l>
</lg>
<p>4490</p>
<lg>
  <l>न शृणोति यदा किंचिन पश्यति न जिप्रति ।</l>
  <l>न च स्पर्श विजानाति स समाधिस्थ उच्यते ॥ ७९ ॥</l>
</lg>
<p>अथ तुर्यातीतम् ।
4491</p>
<lg>
  <l>अत्यन्तशुद्धचिन्मात्रे परिणामश्विराय यः ।</l>
  <l>तुर्यातीतं पदं तत्स्यात्तत्स्थो भूयो न शोचति ॥ ७२ ॥</l>
</lg>
<p>4492</p>
<lg>
  <l>निद्रादी जागरस्यान्ते यो भाव उपपद्यते ।</l>
  <l>तद्भावभावतो योगी मुक्तो भवति नान्यथा ॥ ७३ ॥</l>
</lg>
<pb n="693" />
<p>शार्ङ्गधरपद्धतिः
4493</p>
<lg>
  <l>यथाकाशवदेकात्मा सर्वभावगतोपि सन् ।</l>
  <l>न भावरञ्जनामेति स महात्मा महेश्वरः ॥ ७४ ॥</l>
</lg>
<p>4494</p>
<lg>
  <l>यथा जलं जलेनैक्यानिक्षिप्तमुपगम्यते ।</l>
  <l>तथात्मा सत्यतामेति योगिनः परमात्मना ॥ ७५ ॥</l>
</lg>
<p>4495</p>
<lg>
  <l>ततो न जायते नैव वर्धते न विनश्यति ।</l>
  <l>नापि क्षयमवाप्नोति परिणामं न गच्छति ॥ ७६ ॥</l>
</lg>
<p>4496
छेदं केदं तथा दाहं शोषं भूरादितो न च ।
भूतचक्रादवामोति शब्दाद्यैर्दृयते न च ॥ ७७ ।</p>
<lg>
  <l>एते पुराणेभ्यो योगशास्त्रेभ्यश्च ।</l>
  <l>अथ मनःस्थिरीकरणप्रभावः ॥ १५९ ॥</l>
</lg>
<p>4497</p>
<lg>
  <l>यदान्यत्र मनो याति ध्यायते योगिनस्तदा ।</l>
  <l>तत्रैव हि लयं कुर्याच्छिवः सर्वगतो यतः ॥ १ ॥</l>
</lg>
<p>4498</p>
<lg>
  <l>युक्त्यानया भवेचेतश्छिन्नपक्षमचञ्चलम् ।</l>
  <l>सर्वत्रेकं शिवं ज्ञात्वा निर्विकल्पं विधीयते ॥ २ ॥</l>
</lg>
<p>4199
कामक्रोधादयः सर्वे मतिरक्षाण्यहंकृतिः ।
गुणा विविधकर्माणि विलीयन्ते मनःक्षयात् ।॥ ३ ॥
9
4500</p>
<lg>
  <l>अमनस्कं गते चित्ते जायते कर्मणां क्षयः ।</l>
  <l>यथा चित्रपटे दग्धे दह्यते चित्रसंचयः ॥ ४ ॥</l>
</lg>
<pb n="694" />
<p>योगिमहिमा
4501</p>
<lg>
  <l>तक्रयोगाव्यथा क्षीरं काटिन्यमुपगच्छति ।</l>
  <l>तथा जीवो मनःस्थैर्यात्परं ब्रह्माधिगच्छति ॥ ५ ॥</l>
</lg>
<p>4502</p>
<lg>
  <l>यथा हिमप्रभावेण जलं स्त्यानत्वमाप्नुयात् ।</l>
  <l>तथा मनःस्थिरत्वेन जीवः शिवमयो भवेत् ॥ ६ ॥</l>
</lg>
<p>4503</p>
<lg>
  <l>शिवस्य शक्तिर्जीवोस्ति जीवशक्तिर्मनः स्मृतम् ।</l>
  <l>जीवं शिवं प्रापयितुं मन एव हि कारणम् ॥ ७ ॥</l>
</lg>
<p>4504</p>
<lg>
  <l>जीवः शिवः शिवो जीवो न भेदोस्त्यनयोः क्वचित् ।</l>
  <l>मनोलिप्तो भवेज्जीवो मनोयुक्तः सदाशिवः ॥ ८ ॥</l>
</lg>
<lg>
  <l>एते शार्ङ्गधरस्य ।</l>
  <l>अथ योगिमहिमा ॥ १६० ॥</l>
</lg>
<p>4505
अलौल्यमारोग्यमनिष्ठुरत्वं
गन्धः शुभो मूत्रपुरीषमल्पम् । ।
कान्ति: प्रसादः स्वरसौम्यता च
यागप्रवृत्तेः प्रथमं हि चिह्नम् ॥ १ ॥</p>
<p>4506</p>
<lg>
  <l>अनुरागं जनो याति परोक्षे गुणकीर्तनम् ।</l>
  <l>न बिभ्यति च सवानि सिद्धेर्लक्षणमुत्तमम् ॥ २ ॥</l>
</lg>
<p>4507</p>
<lg>
  <l>शीतोष्णादिभिरत्युमैर्यस्य बाधा न जायते ।</l>
  <l>न भीतिमेति चान्येभ्यस्तस्य सिद्धिरुपस्थिता ॥ ३ ॥</l>
</lg>
<pb n="695" />
<p>शार्ङ्गधरपद्धतिः
अथ दोषोपसर्गचिकित्सा ।
4508</p>
<lg>
  <l>प्रमादाद्योगिनो दोषा यद्येते स्युचिकित्सितम् ।</l>
  <l>तेषां नाशाय कर्तव्यं योगनीति निबोध मे ॥ ४ ॥</l>
</lg>
<p>4509</p>
<lg>
  <l>बाधिर्य जडता लोप: स्मृतेर्मुकत्वमन्धता ।</l>
  <l>ज्वरच जायते सद्यस्तद्रदज्ञानयोगिनः ॥ ५॥</l>
</lg>
<p>4510</p>
<lg>
  <l>स्निग्धां यवागूं नात्युष्णां चित्ते तत्रैव धारयेत् ।</l>
  <l>ताबद्गुल्मप्रशान्त्यर्थे गुदावर्ते यथाविधि ॥ ६ ॥</l>
</lg>
<p>4511</p>
<lg>
  <l>यवागूं चापि पवने वायुग्रन्थ्युपरि क्षिपेत् ।</l>
  <l>तत्कम्पे महाशैलं स्थिरं मनसि धारयेत् ॥ ७ ॥</l>
</lg>
<p>4512</p>
<lg>
  <l>विधाते वचसो वाचं वाधिये श्रवणेन्द्रियम् ।</l>
  <l>तथैत्राम्लं फलं ध्यायेत्तृषार्तो रसनेन्द्रिये ॥ ८ ॥</l>
</lg>
<p>4513</p>
<lg>
  <l>यस्मिन्यस्मिन्यदा देशे तस्मिंस्तदुपकारिणम् ।</l>
  <l>धारयेद्वारणामुष्णे शीतां शीते विदाहिनीम् ॥ ९ ॥</l>
</lg>
<p>4514</p>
<lg>
  <l>काष्ठं शिरसि संस्थाप्य तथा काठेन ताडयेत ।</l>
  <l>प्रस्मृते: स्मृतिः सद्यो योगिनस्तेन जायते ॥ १० ॥</l>
</lg>
<p>4515</p>
<lg>
  <l>अमानुषं सत्रमन्तयोगिनं प्रविशेद्यदि ।</l>
  <l>वाय्वधिारणा चैनं देहसंस्थं विनिर्देहेत् ॥ ११ ॥</l>
</lg>
<p>4516</p>
<lg>
  <l>एवं सर्वात्मना कार्या रक्षा योगविदानिशम् ।</l>
  <l>धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ॥ १२ ॥</l>
</lg>
<pb n="696" />
<p>44
योगिमहिमा
4517</p>
<lg>
  <l>प्रवृत्तिलक्षणाख्याना द्योगिनो विस्मयात्तथा ।</l>
  <l>विज्ञानं विलयं याति तस्माद्धेयाः प्रवृत्तयः ॥ १३ ॥</l>
</lg>
<p>4518</p>
<lg>
  <l>उपसर्गाः प्रवर्तन्ते दृष्टेप्यात्मनि योगिनः ।</l>
  <l>ये तांस्ते संप्रवक्ष्यामि समासेन निबोध मे ॥ १४ ॥</l>
</lg>
<p>4519</p>
<lg>
  <l>काम्या: क्रियास्तथा कामान्मानुषानभिवाञ्छति ।</l>
  <l>स्त्रियो दानफलं विद्यामायुर्वैर्ध्य धनं दिवम् ॥ १५ ॥</l>
</lg>
<p>4520</p>
<lg>
  <l>देवत्वममरेशत्वं रसायनवयः क्रियाः ।</l>
  <l>मरुत्प्रपत्तनं यज्ञं जलाग्न्यावेशनं तथा ॥ १६ ॥</l>
</lg>
<p>4521</p>
<lg>
  <l>चित्तमित्थं प्रवृत्तं हि लयाद्योगी निवर्तयेत् ।</l>
  <l>ब्रह्मासङ्गेि मनः कुर्वन्नुपसर्गात्प्रमुच्यते ॥ १७ ॥</l>
</lg>
<p>4522</p>
<lg>
  <l>उपसर्गेजितै रेभिरुपसर्गास्ततः पुनः ।</l>
  <l>योगिनः संप्रवर्तन्ते सावराजसतामसाः ॥ १८ ॥</l>
</lg>
<p>4523</p>
<lg>
  <l>प्रातिभः श्रवणो देवो भ्रमावर्ती तथापरौ ।</l>
  <l>पञ्चैते योगिनो योगविघ्नाय कटुकोदयाः ॥ १९ ॥</l>
</lg>
<p>4524</p>
<lg>
  <l>वेदार्थशास्त्र काव्यार्थी विद्या शिल्पान्यशेषतः ।</l>
  <l>प्रभवन्ति यदस्येति प्रातिभः स त योगिनः ॥ २८ ॥</l>
</lg>
<p>A
4525</p>
<lg>
  <l>शब्दार्थाना खिलान्वेत्ति शब्दं गृह्णाति चैव यत् ।</l>
  <l>योजनानां सहस्रेभ्यः श्रावणः सोभिधीयते ॥ २१ ॥</l>
</lg>
<p>2574</p>
<pb n="697" />
<p>शार्ङ्गधरपद्धतिः
4526</p>
<lg>
  <l>अष्टौ यदा तु दृश्यन्ते समन्ताद्देवयोनयः ।</l>
  <l>उपसर्गे तमित्या हुर्दैवमुन्मत्तवदुधाः ॥ २२ ॥</l>
</lg>
<p>4527</p>
<lg>
  <l>भ्राम्यते यन्निरालम्बं मनो दोषेण योगिनः ।</l>
  <l>समस्ताधारविभ्रंशामः स परिकीर्तितः ॥ २३ ॥</l>
</lg>
<p>4528</p>
<lg>
  <l>आवर्त इव तोयस्य ज्ञानावर्ती यदाकुलः ।</l>
  <l>चित्तमास कृतावर्तमुपसर्गः स उच्यते ॥ २४ ॥</l>
</lg>
<p>4529</p>
<lg>
  <l>एभिर्नाशितयोगास्तु सकला देवयोनयः ।</l>
  <l>उपसर्गैर्महाघोरैरावर्तन्ते पुनः पुनः ॥ २५ ॥</l>
</lg>
<p>4530</p>
<lg>
  <l>प्रावृत्य केवलं युक्तं योगी तस्मान्मनोमयम् ।</l>
  <l>चिन्तयेत्परमं ब्रह्म कृत्वा तत्प्रवणं मनः ॥ २६ ॥</l>
</lg>
<p>अथ सप्तधारणाः ।
4531</p>
<lg>
  <l>योगयुक्तः सदा योगी लध्वाहारो जितेन्द्रियः ।</l>
  <l>सूक्ष्मास्तु धारणाः सप्त भूराद्या मूर्ध्नि धारयेत् ॥ २७ ॥</l>
</lg>
<p>4532</p>
<lg>
  <l>रित्र धारयेद्योगी ततः सौक्ष्म्यं प्रवर्तते ।</l>
  <l>आत्मानं मन्यते चोर्वी तद्गन्धं च जहाति सः ॥ २८ ॥</l>
</lg>
<p>4533</p>
<lg>
  <l>तथैवाप्सु रसं सूक्ष्मं तद्वद्रूपं च तेजसि ।</l>
  <l>स्पर्श वायौ तथा तद्विभ्रतस्तस्य धारणाः ॥ २९ ॥</l>
</lg>
<p>4534
व्योति सूक्ष्मप्रवृत्तेच शब्द तवज्जहाति सः</p>
<lg>
  <l>मनसा सर्वभूतानां मनश्चाविशते यदा ।</l>
  <l>मानसीं धारणां बिभ्रन्मनः सौक्ष्म्यं च जायते ॥ ३० ॥</l>
</lg>
<pb n="698" />
<p>योगिमहिमा
4535</p>
<lg>
  <l>तद्द्बुद्धिमशेषाणां सत्त्वामातन्य योगवित् ।</l>
  <l>परित्यजति संप्राप्य बुद्धिसौक्ष्म्यमनुत्तमम् ॥ ३१ ॥</l>
</lg>
<p>4536</p>
<lg>
  <l>यस्मिन्यस्मिंस्तु कुरुते भूते रागं महामते ।</l>
  <l>तस्मिस्तस्मिन्समासक्ति संप्राप्य स विनश्यति ॥ ३२ ॥</l>
</lg>
<p>4537</p>
<lg>
  <l>तस्माद्विदित्वा सूक्ष्माणि संसक्तानि परस्परम् ।</l>
  <l>परित्यजाते यो योगी स परं प्रामुयात्पदम् ॥ ३३ ॥</l>
</lg>
<p>4538</p>
<lg>
  <l>एतान्येव तु बन्धाय सप्त सूक्ष्माणि सर्वदा ।</l>
  <l>भूरादीनां विरागोत्र संभवेद्यस्तु मुक्तये ॥ ३४ ॥</l>
</lg>
<p>4539</p>
<lg>
  <l>गन्धादिषु समासक्तमित्येतदखिलं जगत् ।</l>
  <l>पुनरावर्तने मौर्यात्सब्रह्मामरमानुषम् ॥ ३५ ॥</l>
</lg>
<p>4540</p>
<lg>
  <l>सप्तैता धारणा योगी समतीत्य यदीच्छति ।</l>
  <l>तस्मिंस्तस्मिस्तदा भूते लयं याति विधानतः ॥ ३६ ॥</l>
</lg>
<p>4541
देवानामसुराणां च गन्धर्वोरगरक्षसाम ।
1
देहेषु लयमायाति सङ्गमा मोति न क्वचित् । ३७ ॥
अथाष्टमहासिद्धिप्राप्तिः ।</p>
<p>4542</p>
<lg>
  <l>अणिमा लघिमा चैव महिमा प्राप्तिरेव च ।</l>
  <l>प्राकाम्यं च तथेशित्वं वशित्वं च तथापरम् ॥ ३८ ॥</l>
</lg>
<p>4543</p>
<lg>
  <l>यत्र कामावसायित्वं गुणानेतांस्तथेतरान् ।</l>
  <l>प्रामोत्यष्टावना यासात्परं निर्वाणसूचकान् ॥ ३९ ॥</l>
</lg>
<pb n="699" />
<p>शार्ङ्गधरपद्धतिः
4544
सूक्ष्मात्सूक्ष्मतरोणीयाञ्छीत्वालघिमा
महिमाशेषपूज्यत्वात्प्राप्तिर्नाप्राप्यमस्य</p>
<lg>
  <l>गुण: ।</l>
  <l>यत् ॥ ४९ ॥</l>
</lg>
<p>4545</p>
<lg>
  <l>प्राकाम्यमस्य व्यापित्वादीशित्वं चेश्वरो यतः ।</l>
  <l>वशित्वाद्दाशता नाम योगिनः सप्तमो गुण: ॥ ४१ ॥</l>
</lg>
<p>4546</p>
<lg>
  <l>यत्रास्य स्थानमःयुक्तं यत्र कामावसायिता ।</l>
  <l>ऐश्वर्यकारणैरेभिर्योगिनः प्रोक्तमष्टधा ॥ ४२ ॥</l>
</lg>
<p>एते मार्कण्डेयपुराणात
अथ योगचर्या ॥ १६१ ॥
4547</p>
<lg>
  <l>वाग्दण्डः कर्मदण्डल मनोदण्डश्च ते त्रयः ।</l>
  <l>यस्यैते नियता दण्डाः स त्रिदण्डी निगद्यते ॥ १ ॥</l>
</lg>
<p>4548</p>
<lg>
  <l>या निशा सर्वजन्तूनां तस्यां जागर्ति संयमी ।</l>
  <l>यस्यां जाग्रति भूतानि सा निशा पदयतो मुनेः ॥ २ ॥</l>
</lg>
<p>4549</p>
<lg>
  <l>येन केनचिदाच्छन्नो येन केनचिदाशितः ।</l>
  <l>यत्र सायंगृहो यश्च तं देवा योगिनं विदुः ॥ ३ ॥</l>
</lg>
<p>4550</p>
<lg>
  <l>मानापमानौ यावेती प्रीत्युद्वेगकरौ नृणाम् ।</l>
  <l>तावेव विपरीतार्थी योगिनः सिद्धिकारकौ ॥ ४ ॥</l>
</lg>
<p>4551</p>
<lg>
  <l>चक्षुःपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ।</l>
  <l>सत्यपूतां वदेहाणीं बुद्धिपूतं विचिन्तयेत् ॥ ५ ॥</l>
</lg>
<pb n="700" />
<p>योगिचर्या
4552</p>
<lg>
  <l>सर्वसङ्गविहीनच सर्वपापविवर्जितः ।</l>
  <l>जडवन्मूकवद्योगी विचरेत महीतलम् ॥ ६ ॥</l>
</lg>
<p>4553</p>
<lg>
  <l>असिधारां विषं वह्निं समत्वे यः प्रपश्यति ।</l>
  <l>मालासुधातुषाराणां स योगी कथ्यते बुधैः ॥ ७ ॥</l>
</lg>
<p>4554</p>
<lg>
  <l>यस्मिन्स्थाने क्षणं तिष्ठेदीदृग्योगी कथंचन ।</l>
  <l>आयोजनं चतुर्दिक्षु पवित्रं तत्प्रचक्षते ॥ ८ ॥</l>
</lg>
<p>4555</p>
<lg>
  <l>चतु:सागरपर्यन्तां पृथिवीं यो ददाति च ।</l>
  <l>तत्त्वज्ञस्य च यो भिक्षां समां वा नाथवा समाम् ॥ ९ ॥</l>
</lg>
<p>4556</p>
<lg>
  <l>आतिथ्ये श्राद्धयज्ञेषु देवयात्रोत्सवेषु च ।</l>
  <l>महाजने च सिद्धार्थो न गच्छेद्योगवित्कचित् ॥ १० ॥</l>
</lg>
<p>4557</p>
<lg>
  <l>जाते विधूमे चाङ्गारे सर्वस्मिन्भुक्तवज्जने ।</l>
  <l>अटेत योगविद्भैक्षं न तु तेष्वेव नित्यशः ॥ ११ ॥</l>
</lg>
<p>4558</p>
<lg>
  <l>यथैन मवमन्यन्ते जनाः परिभवन्ति च ।</l>
  <l>तथा युक्तश्चरेद्योगी सतां धर्ममदूषयन् ॥ १२ ॥</l>
</lg>
<p>4559</p>
<lg>
  <l>मैक्षं गृह्णन्गृहस्थेषु श्रोत्रियेषु चरेद्यतिः ।</l>
  <l>फलमूलं यवाग्वन्नं पयस्तक्रं च सक्तवः ॥ १३ ॥</l>
</lg>
<p>4560</p>
<lg>
  <l>ब्रह्मचर्यमलोभश्च दया क्रोध: सुचित्तता ।</l>
  <l>आहारलाघवं शौचं योगिनां नियमाः स्मृताः ॥ १४ ॥</l>
</lg>
<pb n="701" />
<p>शार्ङ्गधरपद्धतिः
4561</p>
<lg>
  <l>सारभृतमुपासीत ज्ञानं तत्कार्यसाधनम् ।</l>
  <l>ज्ञानानां बहुता येयं योगविघ्नकरी हि सा ॥ १५ ॥</l>
</lg>
<p>4562</p>
<lg>
  <l>इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत् ।</l>
  <l>अपि कल्पसहस्रेषु नैव ज्ञेयमवाप्नुयात् ॥ १६ ॥</l>
</lg>
<p>4563</p>
<lg>
  <l>समाहितो ब्रह्मपरोप्रमादी</l>
  <l>बुधस्तथै कान्तरतिर्जितेन्द्रियः ।</l>
  <l>विशुद्धबुद्धिः समलोष्टकाञ्चनः</l>
  <l>प्रामोति योगी परमव्ययं पदम् ॥ १७ ॥</l>
</lg>
<lg>
  <l>एते मार्कण्डेयपुराणात् ।</l>
  <l>अधारिष्टज्ञानम् ॥ १६२ ॥</l>
</lg>
<p>4564</p>
<lg>
  <l>अक्षीणकर्मबन्धस्तु ज्ञात्वा मृत्युमुपस्थितम् ।</l>
  <l>उक्रान्तिकाले संस्मृत्य पुनर्यो गित्वमृच्छति ॥ १ ॥</l>
</lg>
<p>4565</p>
<lg>
  <l>तस्मादसिद्धयोगेन सिद्धयोगेन वा पुनः ।</l>
  <l>ज्ञेयान्यरिष्टानि सदा येनोत्क्रान्तौ न सीदति ॥ २ ॥</l>
</lg>
<p>4566</p>
<lg>
  <l>अरिष्टानि विशिष्टानि शृणु वक्ष्यामि तानि ते ।</l>
  <l>येषामालोकनान्मृत्युं निजं जानाति योगवित् ॥ ३ ॥</l>
</lg>
<p>4567</p>
<lg>
  <l>देवमार्ग ध्रुवं शुक्रं सोमच्छायामरुन्धतीम् ।</l>
  <l>यो न पश्येन्न जीवेत्स नरः संवत्सरात्परम् ॥ ४ ॥</l>
</lg>
<p>4568</p>
<lg>
  <l>अरदिम बिम्बं सूर्यस्य वह्नि चैषांशुमालिनम् ।</l>
  <l>दृष्ट्वैकादश मासांश्च नरो नोर्ध्व स जीवति ॥ ५॥</l>
</lg>
<pb n="702" />
<p>अथारिष्टज्ञानम्
4569</p>
<lg>
  <l>वान्त्या मूत्रपुरीषं यः सुवर्णरजतं वमेत् ।</l>
  <l>प्रत्यक्षमथवा स्वमे जीवितं दशमासिकम् ॥ ६ ॥</l>
</lg>
<p>4570</p>
<lg>
  <l>दृष्ट्वा प्रेतपिशाचादीन्गन्धर्वनगराणि च ।</l>
  <l>सुवर्णवर्णवृक्षांश्च नव मासान्स जीवति ॥ ७ ॥</l>
</lg>
<p>4571</p>
<lg>
  <l>स्थूलः कृशः कृशः स्थूलो योकस्मादेव जायते ।</l>
  <l>प्रकृतेश्च निवर्तेत तस्यायुञ्चाष्टमासिकम् ॥ ८ ॥</l>
</lg>
<p>4572</p>
<lg>
  <l>खण्डं यस्य पदं पाण्यः पादस्याग्रेथवा भवेत् ।</l>
  <l>पांसुकर्दममध्ये वा सप्त मासान्स जीवति ॥ ९ ॥</l>
</lg>
<p>4573</p>
<lg>
  <l>कपोतगृध्रकाकोला वायसो वापि मूर्धनि ।</l>
  <l>क्रव्यादो वापरो लीनः षण्मासायुः प्रदर्शकः ॥ १० ॥</l>
</lg>
<p>4574</p>
<lg>
  <l>हन्यते काकपङ्किभिः पांसुवर्षेण वा नरः ।</l>
  <l>स्वच्छायां चान्यथा दृष्ट्वा चतुर्मासान्स जीवति ॥ ११ ॥</l>
</lg>
<p>4575</p>
<lg>
  <l>अनभ्रे विद्युतं दृष्ट्वा दक्षिणां दिशमाश्रिताम् ।</l>
  <l>पयसीन्द्रधनुर्वापि जीवितं त्रिद्विमासिकम् ॥ १२ ॥</l>
</lg>
<p>4576</p>
<lg>
  <l>घृते तैले तथादर्शे तोये वाप्यात्मनस्तनुम् ।</l>
  <l>यः पश्येदशिरः स्कन्धां मासादूर्ध्व न जीवति ॥ १३ ॥</l>
</lg>
<p>4577</p>
<lg>
  <l>यस्य बस्तसमो गन्धो गात्रे शवसमोपि वा ।</l>
  <l>तस्य मासार्धकं ज्ञेयं योगिनः किल जीवितम् ॥ १४ ॥</l>
</lg>
<pb n="703" />
<p>शार्ङ्गधरपद्धतिः
4578</p>
<lg>
  <l>यस्य वै स्नातमात्रस्य हत्तोयमवशुष्यति ।</l>
  <l>पिवतश्च जलं शोषो दशाहं सोपि जीवति ॥ १५ ॥</l>
</lg>
<p>4579</p>
<lg>
  <l>यस्यापि हन्यते दृष्टैर्भूतै रात्रावथो दिवा ।</l>
  <l>स मृत्युं सप्तरात्रान्ते पुमान्प्रामोत्यसंशयम् ॥ १६ ॥</l>
</lg>
<p>4580</p>
<lg>
  <l>पिधाय कर्णी च निजौ न शृणोत्यात्मसंभवम् ।</l>
  <l>नश्यते चक्षुषोज्योतिर्यस्य सोपि न जीवति ॥ १७ ॥</l>
</lg>
<p>4581</p>
<lg>
  <l>रक्तकृष्णाम्बरधरा गीतहास्यपरा च यम् ।</l>
  <l>दक्षिणाशां नयेन्नारी स्वप्ने सोपि न जीवति ॥ १८ ॥</l>
</lg>
<p>4582</p>
<lg>
  <l>नयं क्षपणकं स्वप्ने हसन्तं नृत्यतत्परम् ।</l>
  <l>एकं विलक्षं विभ्रान्तं विद्यान्मृत्युमुपस्थितम् ॥ १९ ॥</l>
</lg>
<p>4583</p>
<lg>
  <l>पततो यस्य त्रै गर्ने स्वमेद्वारं पिधीयते ।</l>
  <l>न चोत्तिष्ठति यः वभ्रात्तदन्तं तस्य जीवितम् ॥२०॥</l>
</lg>
<p>4584</p>
<lg>
  <l>स्त्र प्रविशेद्यस्तु न च निष्क्रमते पुनः ।</l>
  <l>जलप्रवेशादपि वा तदन्तं तस्य जीवितम् ॥ २१ ॥</l>
</lg>
<lg>
  <l>4585</l>
  <l>करालैः पुरुषैः कृष्णैर्विकटँरुद्यतायुधैः ।</l>
  <l>पाषाणैस्ताडितः स्वप्ने सद्योमृत्युर्भवेन्नरः ॥ २२ ॥</l>
  <l>॥</l>
</lg>
<p>4586</p>
<lg>
  <l>दीपादिगन्धं नो वेत्ति पश्यत्यानं तथा निशि ।</l>
  <l>नात्मानं परनेत्रस्थं वीक्षते यः स मृत्युमान् ॥ २३ ॥</l>
</lg>
<pb n="704" />
<p>विदेहमुक्ति कथनम्
4587</p>
<lg>
  <l>स्वभाववैपरीत्येन शरीरस्य विपर्यये ।</l>
  <l>कथयन्ति मनुष्याणां समासन्नौ यमान्तकौ ॥ २४ ॥</l>
</lg>
<p>4588</p>
<lg>
  <l>आरक्ततामेति मुखं जिह्वा वाप्यासेता भवेत् ।</l>
  <l>तदा प्राज्ञो विजानीयान्मृत्युमासन्नमागतम् ॥ २५ ॥</l>
</lg>
<p>4589
नासिका वक्रतामेति कर्णयोर्न मनोन्नती
नेत्रं च वामं स्रवति यस्य तस्यायुरुद्गतम् ॥ २६ ॥
4590</p>
<lg>
  <l>योगिनां ज्ञानविदुषामन्येषां वा महात्मनाम् ।</l>
  <l>प्राप्ते च काले पुरुषैस्तद्विचार्य विचक्षणैः ॥ २७ ॥</l>
</lg>
<lg>
  <l>एते मार्कण्डेयपुराणात् ।</l>
  <l>अथ विदेहमुक्तिकथनम् ॥ १६३ ॥</l>
</lg>
<p>4591</p>
<lg>
  <l>पूर्वा वा परा वा मध्याह्न वा परे कचित् ।</l>
  <l>यत्र वा रजनीभागे तदरिष्टं निरीक्षितम् ॥ १ ॥</l>
</lg>
<p>4592</p>
<lg>
  <l>तस्य भागे तथैवाह्नो योगं सुजीत योगवित् ।</l>
  <l>विदेहमुक्तये ज्ञानी त्यक्त्वा मरणजं भयम् ॥ २॥</l>
</lg>
<p>(युग्मम्)</p>
<p>4593</p>
<lg>
  <l>बद्धपद्मासनो धीमान्समसंस्थानकंधरः ।</l>
  <l>निरुद्धप्राणपवनो दन्तैर्दन्तान संस्पृशेत् ॥ ३ ॥</l>
</lg>
<p>4594</p>
<lg>
  <l>बुद्धचा निरुध्य द्वाराणि नव मीलितलोचनः ।</l>
  <l>ओंकारं तु धनुः कृत्वा गुणं सत्त्वं नियोज्य ञ ॥ ४ ॥</l>
</lg>
<pb n="705" />
<p>शार्ङ्गधरपद्धतिः
4595</p>
<lg>
  <l>तत्रात्मानं शरं सोपि वृतो भूतेन्द्रियादिभिः ।</l>
  <l>प्राणवायुमनःक्षेपैः क्षिप्तो हत्कमलस्थितः ॥ ५ ॥</l>
</lg>
<p>4596</p>
<lg>
  <l>दशमद्वारमार्गेण लक्ष्यं प्राप्य ततः परम् ।</l>
  <l>षट्त्रिंशचत्त्वसंयुक्तः परमात्माने लीयते ॥ ६ ॥</l>
</lg>
<p>(कलापकम् )</p>
<p>4597</p>
<lg>
  <l>ततः परममाकाशमतीन्द्रियमगोचरम् ।</l>
  <l>यमुद्ध्या नैव चाख्यातुं शक्यतेनन्तमञ्जुते ॥ ७ ॥</l>
</lg>
<p>अथ कालवञ्चना ।
4598</p>
<lg>
  <l>जीवन्मुक्तः सदेहोहं विचरामि जगत्रयम् ।</l>
  <l>इति चेज्जायते वाञ्छा योगिनस्तन्निबोध मे ॥ ८ ॥</l>
</lg>
<p>4599</p>
<lg>
  <l>शरीरं न नयत्येव कालः कस्यापि कुत्रचित् ।</l>
  <l>अतः शरीररक्षार्थं यत्नः कार्यस्तु योगिना ॥ ९ ॥</l>
</lg>
<p>46 00</p>
<lg>
  <l>योगिना सततं यत्नादरिष्टानां विचारणा ।</l>
  <l>कर्तव्या येन कालोसौ ज्ञातो हन्ति च्छलान्न तम् ॥ १० ॥</l>
</lg>
<p>4601</p>
<lg>
  <l>ज्ञात्वा कालं च तं सभ्यग्लयस्थानं समाश्रितः ।</l>
  <l>युजीत योगं कालोस्य यथासौ जायतेफलः ॥ ११ ॥</l>
</lg>
<p>4602</p>
<lg>
  <l>बद्धसिद्धासनो देहं पूरयेप्राणवायुना ।</l>
  <l>कृत्वा दण्डं स्थिरं बुद्ध्या दश द्वाराणि रुन्धयेत् ॥ १२ ॥</l>
</lg>
<p>4603</p>
<lg>
  <l>बन्धयेल्वेचरीं मुद्रां ग्रीवायां च जलंधरम् ।</l>
  <l>अपाने मूलबन्धं च उड्डीयाणं तथोदरे ॥ १३ ॥</l>
</lg>
<pb n="706" />
<p>विदेहमुक्तिकथनम्
4604</p>
<lg>
  <l>उत्थाप्य भुजगीं शक्ति मूलवातैरधःस्थिताम् ।</l>
  <l>सुषुम्णान्तर्गतां पञ्चचक्राणां मेदिनीं शिवाम् ॥ १४ ॥</l>
</lg>
<p>4605</p>
<lg>
  <l>जीवं हृदाश्रयं नीत्वा यान्तीं बुद्धिं मनोयुताम् ।</l>
  <l>सहस्रदलपद्मस्थशिवे लीनां सुधामये ॥ १५ ॥</l>
</lg>
<p>4606</p>
<lg>
  <l>पीत्वा सुधाकरोद्भूतममृतं तेन मूलतः ।</l>
  <l>सिञ्चन्तीं सकलं देहं प्लावयन्तीं विचिन्तयेत् ॥ १६ ॥</l>
</lg>
<p>4607</p>
<lg>
  <l>तया सार्धं ततो योगी शिवेनैकात्मतां व्रजेत् ।</l>
  <l>परानन्दमयो भूत्वा चिद्वृत्तिमपि संत्यजेत् ॥ १७ ॥</l>
</lg>
<p>4608</p>
<lg>
  <l>ततो लक्ष्यमनाभास महंभावविवर्जितम् ।</l>
  <l>सर्वाङ्गकल्पनाहीनं कथं कालो निहन्ति तम् ॥ १८ ॥</l>
</lg>
<p>4609</p>
<lg>
  <l>स एव कालः स शिवः स सर्व नापि किंचन ।</l>
  <l>कः केन हन्यते तत्र म्रियते नापि कञ्चन ॥ १९ ॥</l>
</lg>
<p>4610</p>
<lg>
  <l>ततो व्यतीते समये कालस्य भ्रान्तिरूपिणः ।</l>
  <l>योगी सुप्तोत्थित इव प्रबोधं याति बोधितः ॥ २० ॥</l>
</lg>
<p>4611</p>
<lg>
  <l>एवं सिद्धो भवेद्योगी वञ्चयित्वा विधानतः ।</l>
  <l>कालं कलितसंसार पौरुषेणाद्भुतेन हि ॥ २१ ॥</l>
</lg>
<p>4612</p>
<lg>
  <l>ततस्त्रिभुवने योगी विचरत्येक एव सः ।</l>
  <l>पश्यन्संसारवैचित्र्यं स्वेच्छया निरहंकृतिः ॥ २२ ॥</l>
</lg>
<pb n="707" />
<p>शार्ङ्गधरपद्धतिः
4613</p>
<lg>
  <l>यथार्करश्मिसंयोगादर्ककान्तो हुताशनम् ।</l>
  <l>आविष्करोति नैकः सन्दृष्टान्तः स तु योगिनः ॥ २३ ॥</l>
</lg>
<p>4614</p>
<lg>
  <l>मृद्देहिकाल्पदेहापि मुखाग्रेणात्यणीयसा ।</l>
  <l>करोति मृगारचयमुपदेशः स योगिनः ॥ २४ ॥</l>
</lg>
<p>4615</p>
<lg>
  <l>पिङ्गला कुररः सर्पः सारङ्गान्वेषको वने ।</l>
  <l>इषुकारः कुमारी च षडेते गुरवो मताः ॥ २५ ॥</l>
</lg>
<p>4616</p>
<lg>
  <l>रुरुशावविषाणाप्रमालोक्य तिलकाकृति ।</l>
  <l>सह तेन विवर्धन्ते योगी सिद्धिमुपाभुते ॥ २६ ॥</l>
</lg>
<pb n="708" />
<p>pr
अथ ग्रन्थप्रशंसा ।
4617</p>
<lg>
  <l>इति विरचितबन्धा पद्धतिर्या मयेयं</l>
  <l>सकलगुणिगणानां प्रीतये सास्तु नित्यम् ।</l>
  <l>विपुलविमलदीव्यत्सत्कलानां निधानं</l>
  <l>तरुणतरणिरुद्धा विद्विषत्कौशिकानाम् ॥ १॥</l>
</lg>
<p>4618</p>
<lg>
  <l>क्षीराब्धेः कमलेव केशवपदाद्गङ्गेव साधोर्मुखा-</l>
  <l>त्सडाणीव सुधाकरादिव सुधा भानोरिवोदयोतिता ।</l>
  <l>माकन्दादिव मञ्जरी जलधराइव या निर्गता</l>
  <l>सेयं शार्ङ्गधरात्तनोतु जगतश्चेतोमुदं पद्धतिः ॥ २॥</l>
</lg>
<p>4619</p>
<lg>
  <l>अस्याभ्यासाद्रन्थषर्यस्य शिष्यः</l>
  <l>सर्वज्ञः स्याद्विस्फुरच्चारुबुद्धिः ।</l>
  <l>अर्थ कामं वेत्ति धर्म च मोक्षं</l>
  <l>निःसंदेहं शीलितुं पण्डितोपि ॥ ३ ॥</l>
</lg>
<p>4620
शास्त्राब्धि सकलं विलोध नितरां ग्रन्थः कृतोयं मया</p>
<lg>
  <l>लोकानन्दकरः समस्त सुकलासंतान</l>
  <l>जैवातकः ।</l>
  <l>अस्यास्वाद्य सुभाषितामृतरसानानन्दपूर्णान्तरा:</l>
  <l>सन्तः संप्रति नाकवासनिरतान्देवान्हसन्तु ध्रुवम् ॥ ४ ॥</l>
</lg>
<p>इति शार्ङ्गधरपद्धतिः समाप्ता</p>
<pb n="709" />
<pb n="710" />
<p>अथ खड्गपरीक्षा ।
4621</p>
<lg>
  <l>खालक्ष्मीस्तथा राज्यं यशः खड़ादवाप्यते ।</l>
  <l>खड़ा हैरिविनाशश्च यत्नात्तमभिदध्महे ॥ १ ॥</l>
</lg>
<p>aay
नकुलस्य ।
अथ लक्षणानि ।
4622</p>
<lg>
  <l>लोहानां लक्षणं वक्ष्ये यथोक्तं मुनिपुंगवैः ।</l>
  <l>निरङ्गसाङ्गभेदेन ते लोहा विविधा मताः ॥ २ ॥</l>
</lg>
<p>4623</p>
<lg>
  <l>निरङ्गाः काञ्चिपाण्ड्यादिभेदाद्बहुविधा मताः ।</l>
  <l>रसकर्मसु ते शस्ता नानाव्याधिविनाशनाः ॥ ३ ॥</l>
</lg>
<p>4624</p>
<lg>
  <l>वक्ष्यन्ते प्रायशो यस्मात्साङ्गाः खड्डादिकर्मसु ।</l>
  <l>नामभेदेन चिह्नानि लोहानामभिदध्महे ॥ ४ ॥</l>
</lg>
<p>4625
क्षुद्राङ्गं सुदृढं यस्य नीलमीषत्प्रतीयते
रोहिणीं तां विजानीयात्तक्षणे बहु वेदनाम् ॥ ५ ॥
4626
नीलपिण्डसमाङ्गं च नीलपिण्डं विदुर्बुधाः ।</p>
<lg>
  <l>मयूरकण्ठसंस्थानमङ्गं यस्य प्रतीयते ।</l>
  <l>मयूरग्रीवकं लोहं तं विदुर्मुनिपुंगवाः ॥ ६ ॥</l>
</lg>
<p>4627</p>
<lg>
  <l>नागकेसरपुष्पाभमङ्गं यस्य प्रतीयते ।</l>
  <l>मयूरवज्रकं प्राहुर्लोहशास्त्रविदो जनाः ॥ ७ ॥</l>
</lg>
<pb n="711" />
<p>शार्ङ्गधरपद्धतिः
4628</p>
<lg>
  <l>यस्मिस्तित्तिरपक्षाभमङ्गं लोहे प्रतीयते ।</l>
  <l>दुर्लभं तन्महामूल्यं तित्तिराङ्गं सुपाकजम् ॥ ८ ॥</l>
</lg>
<p>4629</p>
<lg>
  <l>सुवर्णसदृशाकारा त्वङ्गभूमेः प्रतीयते ।</l>
  <l>सुवर्णवज्रकं विद्याद्बहुमूल्यं महागुणम् ॥ ९ ॥</l>
</lg>
<p>4630</p>
<lg>
  <l>अविच्छिन्नं सुसूक्ष्माङ्गं दूर्वाभागं सुपाकजम् ।</l>
  <l>यस्मिञ्शैवालमालानमाहुस्तं मुनिपुंगवाः ॥ ०॥</l>
</lg>
<p>4631</p>
<lg>
  <l>शुक्लं पार्श्वइयं यस्य मध्ये स्वर्णसमाङ्गकम् ।</l>
  <l>धूमवत्सीमसंस्थानं मौसलं वज्रकं विदुः ॥ ११ ॥</l>
</lg>
<p>4632</p>
<lg>
  <l>मृणालनालप्रतिमं विवरैरग्रसंस्थितैः ।</l>
  <l>कङ्कोलचत्रकं प्राहुः स्वर्णकं वज्रचिन्तकाः ॥ १२ ॥</l>
</lg>
<p>4633</p>
<lg>
  <l>अङ्गं प्रतीयते यत्र बहुप्रन्थिसमन्वितम् ।</l>
  <l>दुर्लभं तन्महामूल्यं ग्रन्थिवज्रकमुच्यते ॥ १३ ॥</l>
</lg>
<p>लोहार्णवस्यैते ।
4634</p>
<lg>
  <l>रूप्यपत्रसमा भूमिरङ्गं तं प्रतीयते ।</l>
  <l>तं धवलगिरिं पाण्डि पाण्डिज्ञाः प्रवदन्ति हि ॥ १४ ॥</l>
</lg>
<p>4635</p>
<lg>
  <l>तन्वी पत्रावली काला सौवर्णाङ्गासिपत्रिका ।</l>
  <l>प्राहु कालगिरिं पाण्डि लोहशास्त्रविशारदाः ॥ १५ ॥</l>
</lg>
<p>4636</p>
<lg>
  <l>धारा शुभ्रा भवेद्यस्य मध्यं कज्जलसंनिभम् ।</l>
  <l>कृष्णैरङ्गैश्रितं गात्रं विद्यात्कज्जलवजकम् ॥ १६ ॥</l>
</lg>
<pb n="712" />
<p>45
खङ्ग परीक्षा
4637</p>
<lg>
  <l>सूक्ष्मं रजतपत्राभमङ्गं कृष्णासि पत्रिका ।</l>
  <l>कुटीरकः समाख्यातस्तत्क्षते श्वयथुर्भवेत् ॥ १७ ॥</l>
</lg>
<p>4638</p>
<lg>
  <l>केतकीपत्रसदृशमङ्गं यस्य प्रतीयते ।</l>
  <l>विद्यात्केतकिवज्रं तु तीक्ष्णधारं महागुणम् ॥ १८ ॥</l>
</lg>
<p>4639</p>
<lg>
  <l>निरङ्गं रौप्यपत्राभमीषनीलनिभं च यत् ।</l>
  <l>दुर्लभं तन्महामौल्यं कान्तिलोहं प्रचक्षते ॥ १९ ॥</l>
</lg>
<p>4640</p>
<lg>
  <l>अङ्गं दमनपत्रामम यस्मिन्प्रतीयते ।</l>
  <l>विद्यामनवज्रं तु तीक्ष्णधारं महागुणम् ॥ २० ॥</l>
</lg>
<p>4641</p>
<lg>
  <l>कृष्णभूमिसुवर्णाभ मीषचाङ्ग संगतम् ।</l>
  <l>डाहुनीवचकं विद्यात्कालसंज्ञमथापरे ॥ २१ ॥</l>
</lg>
<p>4642</p>
<lg>
  <l>ऊर्ध्वगं कपिलाभासमङ्गं यस्मिन्प्रतीयते ।</l>
  <l>नकुलाङ्गं तु तं विद्यात्स्पर्शस्तस्याहिनाशनः ॥ २२ ॥</l>
</lg>
<p>4643</p>
<lg>
  <l>आसीमा कालिका यस्य क्षुद्राङ्गं कुण्डलीकृतम् ।</l>
  <l>क्षुद्रवञ्चकनामानं प्राह नागार्जुनो मुनिः ॥ २३ ॥</l>
</lg>
<p>खड्गकोशस्य ।
4644</p>
<lg>
  <l>अन्तर्गादं चिह्नहीनं विशालं</l>
  <l>मध्ये स्थूलं स्थूलधारातितीक्ष्णम् ।</l>
  <l>रक्षोवक्षश्छेदनार्थं महान्तं</l>
  <l>कृत्वा खडुं देवराजोतिहृष्टः ॥ २४ ॥</l>
</lg>
<pb n="713" />
<p>शार्ङ्गधरपद्धतिः
4645</p>
<lg>
  <l>वामनाख्यं महान्तं तु येन तन्तुन जायते ।</l>
  <l>छेदे गाढं चिह्नहोनं प्राहुः खङ्गं विचक्षणाः ॥ २५ ॥</l>
</lg>
<p>4646</p>
<lg>
  <l>घृष्टे यस्मिन्भवेत्खड़े शरीरं प्रतिबिम्बितम् ।</l>
  <l>अङ्गपत्राभिधं खङ्गं प्राहु: खड़विचक्षणाः ॥ २६ ॥</l>
</lg>
<p>4647
एरण्डवीजप्रतिममङ्गं यस्मिन्प्रतीयते ।
महिषाख्यः स वै खड़ो नीलमेवसमच्छविः ।॥ २७ ॥
4648</p>
<lg>
  <l>यस्याङ्गे स्थूलरेखा घनमसृणरुचिः सर्वतो व्याप्य निटे..</l>
  <l>द्वारा तीक्ष्णातिसूक्ष्मा प्रविशति रुधिरस्पर्शमात्रेण खड्गः ।</l>
  <l>यस्याम्भः पीयमानं शमयति निखिलं व्याधिमाधिं समग्र</l>
  <l>वैरिश्रेणीं विशन्तीं प्रवदति गिरिशो वज्रमेतद्गजादि ॥ २८ ॥</l>
</lg>
<p>4649</p>
<lg>
  <l>यं प्राप्य क्षितिपः समग्रधरणि शास्ति प्रशान्तद्विष-</l>
  <l>त्सार्थ: सार्थ: कृतार्थंकृतनिखिलकुल: संपदा वर्धमानः ।</l>
  <l>यस्मिँल्लक्ष्मीः स्थिरात्मा वसति रतिपतिं सर्वलोकाधिनाथं</l>
  <l>हत्वा तस्मात्प्रयत्नादयमतुलगुण: पूजनीयो नरेन्द्रैः ॥ २९ ॥</l>
</lg>
<p>लोहरत्नाकररयैते !
4650</p>
<lg>
  <l>गुणदोषाश्च खड़ानां वक्ष्यन्ते क्रमशो मया ।</l>
  <l>यान्विज्ञाय बुधः कुर्यात्खड़जालविवेचनम् ॥३० ॥</l>
</lg>
<p>4651
भविज्ञातो घृतः खड़: शुभसंपत्तिनाशकः ।</p>
<lg>
  <l>विज्ञातः सकलैश्वर्यदायको भवति प्रभोः ।</l>
  <l>तस्मात्तेषां गुणान्वक्ष्ये यथोक्तं मुनिपुंगवैः ॥ ३१ ॥</l>
</lg>
<p>ममेतौ ।</p>
<pb n="714" />
<p>खङ्गपरीक्षा
अथ गुणाः ।
4652</p>
<lg>
  <l>यस्य यस्य तु यचिह्नं तच्चेत्सर्वाङ्गसुन्दरम् ।</l>
  <l>तं खड़मुत्तमं प्राहुः सर्वसंपत्तिकारकम् ॥ ३२ ॥</l>
</lg>
<p>4653</p>
<lg>
  <l>अर्धचन्द्राकृतिर्यस्मिन्खड़े स्वाभाविकी भवेत् ।</l>
  <l>अपि द्रोषसहस्राणि हन्ति चन्द्रस्तमो यथा ॥ ३३ ॥</l>
</lg>
<p>4654</p>
<lg>
  <l>गदा चक्रं तथा शूलं डमरुर्मण्डलं तथा ।</l>
  <l>यत्र स्वाभाविकं खड़े स खड्ड़ो नृपदुर्लभः ॥ ३४ ॥</l>
</lg>
<p>4655</p>
<lg>
  <l>एकवर्णो भवेद्यस्तु लक्षणैकेन संयुतः ।</l>
  <l>स खड्डुराजो नृपतेर्विज्ञेयः शुभकारकः ॥ ३५ ॥</l>
</lg>
<p>4656</p>
<lg>
  <l>पीतं नीलं तथा कृष्णं सचुबीजाकृति तथा ।</l>
  <l>यच्च दाडिमबीजाभं तद्वजं प्रवरं विदुः ॥ ३६ ॥</l>
</lg>
<p>4657</p>
<lg>
  <l>निम्बकल्को भवेद्यत्र दिवारात्रं विलेपितः ।</l>
  <l>मधुरो मधुवर्णाभः स खड़ो देवदुर्लभः ॥ ३७ ॥</l>
</lg>
<p>4658</p>
<lg>
  <l>आहते यत्र मधुरो ध्वनिः समुपजाते ।</l>
  <l>पूज्य: स खड्डो नृपतेः शत्रुसंचयनाशनः ॥ ३८ ॥</l>
</lg>
<p>4659</p>
<lg>
  <l>कांस्यस्वन इवाभाति यस्मिन्खड़े हते ध्वनिः ।</l>
  <l>खड्डोत्तमं तं वदति गिरिशः शुभवर्धनम् ॥ ३९ ॥</l>
</lg>
<p>4660
यस्मिन्खड़े शरीरं प्रतिफलति यथा खड़राजोभिवन्धो
बन्धोयं देववृन्दैरपि यदि स भवेदर्धचन्द्रोपपत्रः ।</p>
<pb n="715" />
<p>शार्ङ्गधरपद्धतिः
नानावर्णेर्युतश्चेत्स भवति नृपतेः शत्रुनाशैकहेतुः
सेतुर्लक्ष्मीप्रवाहे निखिलरिपुकुलध्वंसने धूमकेतुः ॥ ४० ॥
लोहरत्नाकरस्यैते ।
अथ दोषाः ।
4661</p>
<lg>
  <l>खड्ङ्गेषु लक्षणं यद्यद्येषु येषु प्रकाशितम् ।</l>
  <l>तच्छुद्धं प्रभुसंपत्यै मिश्रितं शत्रुसंपदे ॥ ४१ ॥</l>
</lg>
<p>4662</p>
<lg>
  <l>यस्याधो दृश्यते चिह्नं मध्ये येन प्रकाश्यते ।</l>
  <l>स्वहितार्य न गृह्णन्ति तं खडूं नरपुंगवाः ॥ ४२ ॥</l>
</lg>
<p>तं
4663</p>
<lg>
  <l>यस्याये दृश्यते चिह्नं मध्ये नाधोपि दृश्यते ।</l>
  <l>खड्डूं मध्यगुणं प्रादुः खड्डूशास्त्रविशारदाः ॥ ४३ ॥</l>
</lg>
<p>4664</p>
<lg>
  <l>अधोर्धे लक्षणं यस्य परार्धे नैव दृश्यते ।</l>
  <l>अधमः स भवेत्खडः क्षितीशानां भयावहः ॥ ४४ ॥</l>
</lg>
<lg>
  <l>4665</l>
  <l>ऊर्ध्वार्धे लक्षणं यस्य नाघोर्धे लक्षणं भवेत् ।</l>
  <l>तं खङ्गं मध्यमं प्राहुः प्रवीणमतयो बुधाः ॥ ४५ ॥</l>
  <l>॥</l>
</lg>
<p>4666</p>
<lg>
  <l>तिर्यग्यस्य भवेच्चिह्नमपि सर्वाङ्गगोचरम् ।</l>
  <l>खड्डाधमं तं नृपतिर्दृरादेव विवर्जयेत् ॥ ४६ ॥</l>
</lg>
<p>4667</p>
<lg>
  <l>तिर्यविचमधो स्यादुपयर्धे न वा भवेत् ।</l>
  <l>नापकृष्टं न प्रकृष्टं तं प्राहु: खड़कोविदाः ॥ ४७ ॥</l>
</lg>
<p>4668</p>
<lg>
  <l>अधोर्धे वर्ण एकः स्यादूर्वार्धे भिन्नवर्णकः ।</l>
  <l>वर्णसंकरवान्खड़ो नृपाणां भयवर्धनः ॥ ४८ ॥</l>
</lg>
<pb n="716" />
<p>खङ्ग परीक्षा
4669</p>
<lg>
  <l>आहते यत्र खड्ढे स्याङ्गुनिः काकस्वरोपमः ।</l>
  <l>अं आकारध्वनिर्वा स्यात्स वर्ज्यो नरपुंगवैः ॥ ४९ ॥</l>
</lg>
<p>4670</p>
<lg>
  <l>इति निखिलमुदार मर्थ सार्थ-</l>
  <l>प्रणिहितमेक मिहेव खड़शास्त्रे ।</l>
  <l>गिरिशमतमिदं निषेव्य चक्रे</l>
  <l>क्षितिपतिमन्त्रिसमूहचक्रवर्ती ॥ ५० ॥</l>
</lg>
<p>4671</p>
<lg>
  <l>अतः परं प्रवक्ष्यामि खड्डलक्षणमुत्तमम् ।</l>
  <l>प्रधानदेहसंभूतैर्दैत्यास्थिभिररिंदम ॥ ५१ ॥</l>
</lg>
<p>4672</p>
<lg>
  <l>लोहं प्रधानं खड्डायै प्रशस्तं तद्विशेषतः ।</l>
  <l>खटखट्टर ऋषिक वंश शूर्पारकेषु च ॥ ५२ ॥</l>
</lg>
<p>4673</p>
<lg>
  <l>विदेहेषु तथाङ्गेषु मध्यमग्रामचेदिषु ।</l>
  <l>सहग्रामेषु चोनेषु तथा कालञ्जरेषु च ॥ ५३ ॥</l>
</lg>
<p>4674</p>
<lg>
  <l>लोहप्रधानं तज्ज्ञानं खड़ानां शृणु लक्षणम् ।</l>
  <l>खटीखट्टरजाता ये दर्शनीयास्तु ते मताः ॥ ५४ ॥</l>
</lg>
<p>4675</p>
<lg>
  <l>कायच्छिदस्त्वार्षिका ये मर्मन्ना गुरवस्तथा ।</l>
  <l>तीक्ष्णाश्छेदसहा वंशा दृढाः शूर्पारकोद्भवाः ॥ ५५ ॥</l>
</lg>
<p>4676</p>
<lg>
  <l>असहाचैव विज्ञेयाः प्रभावन्तो विदेहजाः ।</l>
  <l>अङ्गदेशोद्भवास्तीक्ष्णा: सुहस्ताः सुदृढास्तथा ॥ ५६ ॥</l>
</lg>
<p>4677</p>
<lg>
  <l>लघत्रश्च तथा तीक्ष्णा मध्यमग्रामसंभवाः ।</l>
  <l>असारा लघवस्तीक्ष्णाचेदिदेशसमुद्भवाः ॥ ५७ ॥</l>
</lg>
<pb n="717" />
<p>शार्ङ्गधरपद्धतिः
4678</p>
<lg>
  <l>सहग्रामोद्भवाः खड्डाः सुतीक्ष्णा लववस्तथा ।</l>
  <l>निर्त्रणा निर्मलास्तीक्ष्णाचेदिदेशसमुद्भवाः ॥ ५८ ॥</l>
</lg>
<p>4679</p>
<lg>
  <l>कालञ्जराः कालसहास्तेषां वक्ष्यामि लक्षणम् ।</l>
  <l>शतार्धमङ्गलानां तु श्रेष्ठं खद्धं प्रकीर्तितम् ॥ ५९ ॥</l>
</lg>
<p>4680</p>
<lg>
  <l>तदर्धे मध्यमं ज्ञेयं ततो हीनं न कारयेत् ।</l>
  <l>प्रमाणाभ्यधिकं चैव च्छन्नवंशं तथैव च ॥ ६० ॥</l>
</lg>
<p>4681</p>
<lg>
  <l>दीर्घः सुमधुरः शब्दो यस्य खडस्य भार्गव ।</l>
  <l>किङ्किणीसदृशस्तस्य धारणं श्रेष्ठमुच्यते ॥ ६१ ॥</l>
</lg>
<p>4682</p>
<lg>
  <l>खड़: पद्मपलाशाभो मण्डलायच शस्यते ।</l>
  <l>करवीरपलाशायसदृशश्च विशेषतः ॥ ६२ ॥</l>
</lg>
<p>4683</p>
<lg>
  <l>महीघृतमुगन्धाश्च पद्मोत्पलसुगन्धिनः ।</l>
  <l>वर्णतश्चोत्पलाकाराः सवर्णा गगनस्य च ॥ ६३ ॥</l>
</lg>
<p>4684</p>
<lg>
  <l>समाङ्गुलस्था: शस्यन्ते त्रणाः खड़ेषु भार्गव ।</l>
  <l>श्रीवृक्षपर्वताकारा लिङ्गपद्मनिभाये ॥ ६४ ॥</l>
</lg>
<p>4685
मङ्गल्यानां तथान्येषां सदृशा ये च भार्गव ।</p>
<lg>
  <l>काकोलूकसवर्णाभा विषमाङ्गुलिसंस्थिताः ।</l>
  <l>वंशानुगा: प्रशस्ताच न शस्तास्ते कदाचन ॥ ६५ ॥</l>
</lg>
<p>4686</p>
<lg>
  <l>खड्डे न पश्येद्रदनं वृथा विवृणुयान च ।</l>
  <l>न चास्य कथयेन्मूल्यं जातिं देशं कथंचन ॥ ६६ ॥</l>
</lg>
<pb n="718" />
<p>खड परीक्षा
4687</p>
<lg>
  <l>उच्छिष्टो न स्पृशेत्खडुं निशि कुर्यान्न शीर्षके ।</l>
  <l>दिवा च पूजयेदेनं गन्धमाल्यादिसंपदा ॥ ६७ ॥</l>
</lg>
<p>4688</p>
<lg>
  <l>खड्डुं प्रशस्तं मणिहेमयुक्तं</l>
  <l>कोशे सदा चन्दनचूर्णयुक्तम् ।</l>
  <l>संस्थापयेद्भूमिपतिः प्रयत्ना-</l>
  <l>द्रक्षेत्तथैनं स्वशरीरवच ॥ ६८ ॥</l>
</lg>
<p>4689</p>
<lg>
  <l>श्रीविष्णुधर्मोत्तरभाषितानि</l>
  <l>चिह्नानि खड्डस्य शुभाशुभानि ।</l>
  <l>विज्ञाय भूमीपतयः सदैव</l>
  <l>संधारयेयुः सुमुदे कृपाणम् ॥ ६९ ॥</l>
</lg>
<pb n="719" />
<pb n="720" />
<p>अ</p>
<p>अंशुकमिव शीत •
अंसके स्कन्धनामा
अंसाकृष्टदुकूलया..
अकाले गर्जिते
अकूर्चारम्भोवि
अकृतज्ञमकार्य ०
अकृत्रिमप्रेमरसा
अकृत्वा निज०
अकृत्वा पर०.
अकृशं नितम्बभागे
अक्षीणकर्म ●
अक्षुद्रारि कृता •
अखर्वपर्व ●
अगदैः सर्व०
अगुरुरिति
अग्रतः पृष्ठतो मध्ये
अग्रतो वामपाद
अग्रे गीतं सरस०
अग्रेसरी कुमारी
अङ्कोलकथितं
अङ्गोल्लकाय ●
अङ्गोलतैलभावित •
अङ्कोलतैलसूकर •
अङ्कोलपत्रधूपेन
अङ्कोल्लवीज मज्जानां.
अङ्गं दक्षिणमारुह्य
अङ्गं दमनपच०.
अङ्गं प्रतीयते
अङ्गणं तदिद
अङ्गणवेदी वसुवा.
अङ्गन्यासस्ततः
अङ्गप्रत्यङ्ग भागेन.
अङ्गमङ्गेन सं०
अङ्गानि मे दहतु..
अङ्गारश्रूलाइम ०
अङ्गारैः खचितेव
अङ्गारैः शाकवृक्षस्य
अङ्गुष्ठनख
श्लोकानुक्रमणिका
1805
अङ्गुष्ठतर्जनीभ्यां॑
अङ्गुष्ठाग्रे तु तर्जन्या
3935 अङ्गुष्टे पदगुल्फ०..
अङ्गुलिभङ्गविकल्पन●
अङ्गुली किसलया०
अङ्गुलीषु कुरूङ्गाक्ष्याः
अङ्गुल्यग्रनिरोधत
अङ्गेनङ्गज्वर ० .:.
अचिन्तितानि..
अचिन्त्याः पन्थान:</p>
<p>अच्छिन्नं नयना०
3674
1825
577
703
3090
1295
307
3376
4564
4009
1075
अजामिव ग्रजां
1000
2925 अजामूत्रं च
अजा युद्धमृपि ०
अजालघुस्मरा०
4482
1790
4176
2697
अजरामरवत्.
अजात मृत मुर्खेभ्यो
अजानन्माहात्म्यं
1731
4292
2305
2248 अज्ञानैकहतो
2310 ।अञ्जनमुस्तोशीरैः
2289
2959
4143
3483
अजावं मुखतो
अजै कास्कर ०.
2629
3827
2850
1800
अज्ञः सुख ०
अज्ञानाब्ज्ञानतो
3003
अणिमा लघिमा
2532 ।अण्डाभ्य लोमशाभ्यां
4640 अतः परं ० खड्ग ०
4633
अतः परंशराणां
567
अतः प्रशस्ते .
230
अतः संदेहदोलायां
अतः सुस्थितचित्तेन.
अतसीपुष्प
अताडयत्पल्लव ०
अतिकुपिता अपि.
अतिजीर्णमपक
अतितामसो०.
अतितेजस्वयपि राजा..
अनिदानावलि ●
अञ्जनस्य क्षयं
।अञ्जलिस्थानि
2857
1801
3191
4029
3566
3334
3858
3474
313
222
3486
669
1483
4156
1290
2919
1455
3100
605
2240
208
2102
4329
2173
G50
199
4542
1663
4671
1768
2981
1716
2562
512
3800
238
1751
3120
1388
1445</p>
<pb n="721" />
<p>अतिपक्ककपित्थेन.
अतिपरिचयात्
अतिमलिने
अतिविपुलं कुच०
अतिसाहस०
अतीतानागत•
अतीव सौख्यशुभदा
अतृणे सतृणा
अतो निजवली •
अत्यच्छं सितमंशुकं
अत्यन्तकण्डुति०
अत्यन्तनिर्गते चैव
अत्यन्तश्रुद्ध०.
अन्यासन्ना विनाशाय
अयुक्ती यदि न
अत्युन्नपदारूढः
अत्रस्तो निजपक्षैः
अत्रस्थः सखि..
अथ कालाग्नि०
अथ धूकस्वरो
अथ देहं स्थिरीकर्तु
अथ पथिकवधू
अथ प्रसन्नेन्दु०
अथ मन्त्रमिमं
अथ मन्मथ
अथर्तुपक्कात्
अथवा प्रोच्यते
अथवा मूलसं०
अथ सामान्यश्रृङ्गारे
अथागत्य भुवं..
अथातः० लक्षणानि
अथातः ० हया •
अथाप्रशस्ताः खर ........
अथाशुद्धोद्भवः
अयाश्वानां जन्म०
अथेह कथ्यते .
अयोच्यते श्वानरूतस्य
अथोदार प्रशंसा
अथोपगूढे शरदा
अदानापुरुषः
अदुष्टापतिनां
अष्टपूर्वमस्माभि०
अदृष्ट मुख
सदृष्टिव्यापार
शार्ङ्गधरपद्धतिः
3011
1502
350
76
429
4454
2448
2201
1744
3833
2627
1621
449]
1380
1246
1522
2484
888
4265
2650
4406
3623
3902
2950
3622
2132
अदेवं देवतं
अद्यतने योद्धव्ये.
अद्य तजिताघर
अद्यापि तत्प्रचल०
253
898
अद्यापि तां कनक •
अद्यापि नो०
अद्यापि सा मनसि
अद्यापि स्तनशैल०
अद्याप्युन्मदयातु०
अद्यारभ्य यदि
अद्यैव हसितं
अधः करोषि यद्रवं
अवः पुष्प शङ्ख
अश्रमो मातुकार ●
अवरोष्टे च घोणायां.
अधमो लक्षणज्ञः
अधश्च दूरपातित्वं.
अवाक्षीनो लङ्का०
अधिगतपर ●
अधिरजनि जगाम
अधीतविद्यैर्विगते
अधीन्य चतुरो
अधोर्धे लक्षणं..
अभोर्वे वर्ष ०
अध्ययन मिचसङ्ग०
अध्यास्य शान्तो
अध्वन्यध्वनि भूरुहः
4473
4368
35
1604
1642 । अनमिध्यां पर
1678
2824
3154
1674
4424
2328
17
3911
468
706
3896
अध्वन्यस्य वधू०
अनङ्गेनावला●
अनङ्गोयमन इत्व ०
अनभने विद्युतं ..
अनलस्तम्भनविद्यां
अनवसरे गुण ०
अनसि सीदति
अनस्तमितसारस्य
अनाकाशे चन्द्रः.
अनाकूतैरेव प्रिय ०
अनागतविधानार ०
अनाघातं पुष्पं
अनाथके न वक्तव्यं
अनारतं प्रति ०
अनार्यप्रज्ञानामिह
अनास्था वस्तूनां
1315
2758
3662
3467
3469
246
3470
3636
4067
3541
4168
1081
1887
1956
1665
1957
1803
1267
197
3570
3955
4174
4664
4663
2797
2642
1030
3823
3076
3798
634
4575
3443
306
962
1098
3324
3279
1430
3271
1466
4339
3778
3162</p>
<pb n="722" />
<p>अनित्यतासमाख्यानं
अनिल निखिल ०..
अनिशं मतङ्गजानो
अनुकुरुतः खल •
अनुगन्तं सतां
अनुत्कीर्णा यथा
अनुदिनमभ्यास ०.
अनुरागं जनो
अनुरागवन्त •
अनुसरति करि०
अनेन मर्त्यदेहेन
अनेन योगराजेन
अनेन रम्भोरु तव
अनेनैव प्रकारेण
अन्तः कटुरपि
अन्तः कपालवि०.
अन्तः कुटिलतां
अन्तः प्रतप्तमरु०.
अन्तःसारै ●
अन्तर्गाढं चिह्न..
अन्तछिद्राणि
अन्तैः कल्पितमङ्गल ०
अन्त्रैः स्वैरपि..
अन्धकारगरलं
अन्नपानादि०
अन्नवस्त्रसुवर्णानि..
अन्नादिवर्ज फल०
भन्नादिविष्ठानव O
अन्नामिविष्ठापिशित •
अन्यद्गोपुच्छकं
अन्यमुखे दुर्वादो...
अन्यवर्ण शिरो यस्य.
अन्यवर्णपरा०
अन्यानपि तरू०
अन्या सा सरसी.
अन्यासु ताव०
अन्ये च बहवो रागा
अन्ये ते जलदायिनो
अन्येपि सन्ति.
अन्योन्यलक्षणः
अन्योन्यास्फाल •
अन्योन्याहति •
अन्योपि चन्दन ०
अन्वर्धवेदी पुरश्च
श्लोकानुक्रमणिका
51
1200
909
239
1420
4241
3958
4506
3585
अन्वेतं वायवो..
अपकुर्वन्न
अपकं भङ्ग०
अपक्कमपि.
अपदो दूरगामी
अपरीक्ष्य न कर्तव्यं
अपसरणमेव
अपसरति न
अपसर मधुकर
अपाङ्गालुच्छमूलं.
अपानप्राणयोः
*****
828
648
3208
3321
1652
478
4410
1116
1002 अपूजितैवास्तु गिरीन्द्र०
1352 ।अपूर्णे नैव मर्तव्यं
अपूर्वः कोपि
अपेक्षन्ते न च
4644
1142
अप्रगल्भाः पद
अप्राप्तवल्लभ
। अप्वात्मानं न
अबुद्धिमाश्रितानां
अब्जं त्वब्जमथाब्ज०
अब्दायनर्तुष्व
अभावे पट्टसूत्रस्य..
अपानेन पुनः
अपि व्यक्तासि.
अपि पञ्चशतं
अपि ब्रह्मपरानन्दा ०
अपि मुदमुपयान्तो
अपि मेरूपमं..
4076
3973
3635
1729
536
2471
2607
2663 अभिनवनलिनी ०.
1781
4.66
अभिमतफल •
अभिमतवस्तूप •
अभिमन्त्र्य शुचि ०
अभूत्माची पिडा..
अभ्यासः कर्मणां
1655
196
2103
806
अभ्यासात स्थिर ०
823 अभ्यासेन स्थिरं.
2059
अभ्यासेनान्य •
। अभ्युत्थानमुपागते
862
861
अभ्युन्नतोप
3108
अमनस्कं गते.
4086 अमन्दमणिनूपुर •
3934
774
1581
अमानुषं सत्त्व ०
अमी तिलास्तैलिक ०.
अमुं कालक्षेपं..</p>
<p>1939
219
1753
3005
514
1442
798
3459
831
1641
4418
4320
1201
1927
1949
164
427
3438
1940
359
235
191
3167
618
1398
1166
2348
1763
819
1241
3161
3039
3717
3264
4367
4186
4187
3757
1158
4500
3929
4515
1189
784</p>
<pb n="723" />
<p>अमुष्मन्नुद्याने
अमुष्मिल्लावण्य
अमूल्यस्य मम
अमृतममृतं
अमृतस्यैव कुण्डानि
अमृतोत्प्रेक्षणे
अम्वरमम्बुनि
अम्बा तुष्यति
अग्भःकुम्भाग्भो०</p>
<p>अम्भसः प्रसृती ०
अम्भस्तत्वं भूमि०
अग्भोजाक्ष्याः पुर
अम्भोजिनीवन •
अम्भोधिः स्थलतां.
अग्भोमुचां सलिल ०
अयं निजः
अयं वारामेको,
अयं स्निग्धश्यामो
अयःपिण्ड ०
अयथाविहितानां
अयमङ्करभाव ०
अयमवसरः सरस्ते
अयमुदयात मुद्रा०
अयश्चर्म घट
अयस्तु काक०
आये जलद यदि
अयि मृगाक्षि तव
अये केयं लीला
अये नीलग्रीव..
अये वारां राशे
अये हेलावेला ०
अरक्षितं तिष्ठति
अरतिरियमुपैति
अरलूवृक्षपत्राणां.
अरश्मिविग्वं
अरावप्युचितं कार्य
आरिष्टानि वि०
अरुणाङ्गी झ्यामा.
अर्ककर्पासयो●
अर्चिष्मन्ति विदार्य
अर्जुनः फाल्गुनः पार्थः
अर्जुनः फाल्गुनः पार्थः...
अर्थः सुखं .
अर्थनाशं मन ०
शार्ङ्गधरपद्धतिः
879
अर्था न सन्ति
3360
3349 अर्थानामर्जन कार्य
अर्थान्केचिदु०
अर्थाभावे तु यज्ज्ञानं.
अर्थार्थी जीव●
अधिनां कृपणा
अर्थी करोति
3519
3088
170
528
411
2564
3047
2802
3615
797
445
593
273
1091
3960
366
2138
3272
1128
3738
1858
1862
अर्थो नाम जनानां
अर्ध दानववैरिणा..
अर्ध सुला निशायाः
अर्धचन्द्रं च चक्रं
105
1910
2557
229
1458
अर्धचन्द्राकृति
अर्वपञ्चमहस्तं
अर्धरुषे च मत्स्यः
अर्धप्रोयस्थिता
अर्धहस्तेन हीनस्तु
अर्धोन्मीलित
अलब्ध्वापि फलं
अलमनिचपल
अलमलमघृणस्य
अलम्बुषा कुहू
2
अलम्बुषा दक्षिण ..
अलसवलितैः प्रेमा०
अलावूं वर्तलाकार
अलावुवीजं.
अलिपटलैरनु०
अलीक एवं त्वद्
अलोमशा: स०
779
3313
3518
870
1095
775
446
3427
2852
4568
1401
4566
3105 अवयवेषु परस्पर
2913
अवलम्बि सुवृत्तं
अवलोकनमपि
अवलोक्य स्तनौ
अवामभागेन यदा
अवालुकाश्लक्ष्ण
अवाहिता विनश्यन्ति
अलौल्यमारोग्य
अल्पसूत्रपुरीप०
अल्पायां वा महत्यां
अल्पीय: स्खलनेन
अल्पी यसैव
अल्पेनापि सुरतेन
अवक्रे मांसहीने
अवचनं वचनं..
अवध्यो ब्राह्मणो
407
1393
168
4403
336
275
319
4046
1259
3908
1923
4653
1745
2179
1706
1639
115
1450
566
3513
4309
4312
3416
652
2932
791
4246
3139
4505
4389
1938
943
1076
3311
1626
3957
1348
3367
1628
3369
521
2403
2141
1691</p>
<pb n="724" />
<p>अविकृत कृत ०
भविच्छिन्नं सु०
अविज्ञातविशेषस्य.
अविज्ञाती धृतः
अविदितगुणापि
अविधेयां भृत्य ०
अविरतमविरामा.
अविरतमिदमग्भः
अविरलपरि०
अविवेकिनि भूपाले
अविशीतम ० •
अवृत्तिकं त्यजेद्देशं
अवृत्तिव्यावि०
अव्यक्तादीनि
अव्याजसुन्दरीं तो
अशठमलोल●
अशस्त्रं पुरुषं
अशुचीक्षणेश्रु०
अशृण्वन्नपि बोद्धव्यो
अश्रीमहि वयं...
अश्मातकस्य वामे
अश्वः शस्त्रं
अश्वगन्धापलं
अश्वत्थमेकं
अश्वप्रशंसा विख्याता
अश्वमध्ये कृतरवा
अश्वशालां समासाद्य.
अश्वा यस्य जयस्तस्य..
O
अश्वाश्चतुष्कोटि ०
अश्विनीमैत्ररेवत्यो
अष्टदिशो वि
अष्टधा देवता..
अष्टमं ब्रह्मरन्ध्र.
अष्टमीच अमा०
अष्टावङ्गानि योगस्य.
अष्टाङ्गुलस्य कथितो.
अष्टादश तथा मध्ये
अष्टो यदा तु
अष्टौ हाटक ०.
असंख्य
असंचयादपूर्व०
असंपादयतः
असतीचरितं
असत्प्रतिग्रह ०
श्लोकानुक्रमणिका
2694
4630 ।असत्सङ्गाद्गुण
असद्वृत्तो नायं
असमाने समानत्वं
3604
4651
145
1531
3723
3846
3484
1371
1784
1459
645
4135
3377
470
727
602
1358
4104
2196
331
3042
2104
32
2450
1672
1606
1919
असत्प्रलापं पारुष्यं..
47
710
असहाय: सहायार्थी
असहाश्चैव विज्ञेयाः
असाधुः साधु०
असितखुर •
असितविपाण्डु ●
असिधारी विषं
असेकतोत्यन्त
असौ मरुचुम्बित
अस्तं गतोयमरविन्द ०
अस्तमितविषय ०.
अस्तावलम्विरवि०
अस्ताविलरूक्षाक्ष्यो
अस्ति कारणम०.
अस्ति यद्यपि..
। अस्ते शिवा पश्चिमायां
अस्थाने ताडितो..
अस्थिर मनेकरागं
अरमाकं जल०
अस्माकं सखि
अस्मिन्कुज्जे विनापि.
अस्मिन्नम्मोद०
अस्यां सखे
अस्याः सर्गविधौ.
अस्याननस्य
अस्या ललाटे रचितो
2555
अस्याभ्यासाद्ग्रन्थ
अस्या मनोहराकार ●
2443
4284
अहमिह कृत ०.
4359 अहिंसा सत्यमस्तेयं
1824
अहिंसा सत्यवचनं.
4425
अहिरहिरिति
2804 अहिराज पुरुष
1637
4526
565
3799
4423
462
अहो किमपि
अहो नक्षत्रराजस्य
अहो प्रभावी वा ०.
। अहो वत महत्०
अहो वैचित्र्य
अहो वा हारे वा</p>
<p>636
4189
3552
496
4008
4676
329
1712
2116
4553
2271
3783
1180
3400
3584
2827
4271
812
2449
1690
3863
506
3754
116
912
840
3268
958
3292
4619
3286
4116
4426
637
1163
2193
212
750
189
467
305
4102</p>
<pb n="725" />
<p>आः कष्टं वन०
आकर्णपलितः
आ
आकर्ण्य गुञ्जितरवं
आकर्ण्य स्मरयौव
आकर्षन्निव
आकेशिक ०
आकार: कमनीय
आकारणाय
आकारमात्र०
आकाशवारणां
आकाशवापीसित●
आकुञ्चितोरू०
आक्रम्य यहिजे.
आखुना भक्षिता ०.
आख्यायिकानुरागी
आगच्छन्सूचितो.</p>
<p>आगताः पाण्डवाः
आगत्य प्रणिपात
आगत्य संप्रति.
आगन्तौ जाङ्क्षि के.
आगमिष्यन्ति.
आगारदाही
आग्नेये यदि
आग्नेय्यामनला ●
भनातं परिलीट●
आजानुलम्बि०
आतपासहनः
आघायात्राय
आचमहे वत.
आचार्य: सप्त०
आचार्येण धनु०
आचार्यमानीय
भाजन्मब्रह्मचारी,
आजन्मस्थितयो
भाताम्रौ पूजितावोष्ठौ .
आतिथ्ये श्राद्ध०
आत्तमात्तमधि●
आत्ते सीमन्त०
आत्माधीन ०
आत्मानं च जगत्०
आत्मानं प्रथमं
आत्मानं सुस्थिरं
शार्ङ्गधरपद्धतिः
946
3986
1217
3865
583
1839
813
2899
268
4398
3628
1794
1317
2956
4036 आमानो दूताव
3527
आनन्दमादधत
534
आनन्दाय सत
3576 आनृशंस्यं क्षमा
आपत्स्व हि
3735
2656
311
711
2224
2475
1106
585
1066
1722
1719
2333
3994
1122
3111
2259
1619
आत्मार्थ यः प
आदानं चैव तूणीरा०.
आदाय पचं त्वरितं
आदाय मांसम०
आदाय वारि परितः.
आदितालो जयन्त
आदित्यरथवेगेन
आदिमध्य
आदौ दर्शयति नतिं
आद्यन्ती च
आद्ये जरमुषि ताम्र०.
आदो यामे तु
आद्यैर्मद्रिहितैः
4556
3845
1276
315
4472
1285
1808
आद्यो ध्रुवस्ततो
आधारः कन्द०
आवारजन्मभूतानि
आपाण्डुरा च मृत्स्ना
आ पुष्पप्रसरात्
। आर्येत पुनः
आवश्नत्परिवेष ०
आभूनाङ्गुलि
आभोगचैकखण्डः
आभोगे च पक
आमन्त्रणजय ०
आ मरणादपि.
आमोदीनि सु०
आमोदेस्तै ●
आम्नाया ना०
आम्रैः क्षेमं भातकै ●
आयाच्चतर्थ भागन
। आयातासि विमुञ्च
आयाति हृष्टो ....
आयाते दयिते मनो ०</p>
<p>आयाते दयिते मरु ०
आयाते श्रुतिगोचरं
आयातो भवतः
आरक्ततामेति मुखं
आरब्धे दयिता •
आरात्कारीष०
633
1842
2611
4015
1083
1980
2951
247
2701
2883
3727
3144
12
1964
4298
4467
3853
70
11
674
214
2185
1028
1179
3309
3291
1971
1973
4048
882
1050
998
548
2317
1392
3779
2602
3680
3528
3382
576
4588
3325
3948</p>
<pb n="726" />
<p>•
आराध्य भूपति ०
आरामाभरणस्य
आरामुखं क्षुमं
आरामुखेन वे.
आरामोय ०
आरूढस्वामिको
भारोग्यं विद्वत्ता
आद्रुतस्वरज्ञा
आर्द्रकी कसमुखः
आलवाले स्थितं
आलाप: स्मित
आलिङ्गिताः परे
आलिदिव्यौषधी .
आलोकत्रस्त नारी ०
आन्टोकवन्तः सन्त्येव.
O
आलोलामलकावली
आवासर महि०
आवर्त्त इव तोयस्य
आवर्तः ककुदे यस्य
आवासो विपिनायते
आ विन्ध्यादा हिमाद्रे •
आशङ्क्य प्रणति
आशा नाम नदी
आशापाशशतैः
आशीर्वादमुखा
आ इमशानात्
आश्रयवशेन
आलेप चुम्बनरत
आश्लेषे प्रथमं .
आश्वास्य पर्वतकुलं
आषाढशुक ●
आषाढ़े शशका
आषाढे श्रावणे
आसज्य स्वयमेव
आसनं प्राणसंरोधः प्र०.
आसनं प्राणसंरोधो ध्या
आसंसारं त्रिभुवन •
आसन्नतामेति..
आसन्नमार्ग •
आसन्नमेव नृपति
आसन्नाः कण्टकिनो
आसन्नामवलम्ब्य
आसन्ने फलमासन्नं
आसन्नी वल्मीको
श्लोकानुक्रमणिका
4170
1001
1777
1779
930
2568
317
2576
2622
2156
3178
342
2934
आसवरातरात ●
आसामुपरि
आसीन पूणि
आसीने लालये..
आसीमाकालिका
आरतां दूरेण विश्लेषः
आस्तां मोद्य भवे
3415
2587
2186
आस्तामन्यत्
आरतीकवचनं.
आहते यत्र खड़े
आइते यत्र मधुरो
आहत्याहत्य
आहारदोषाय.
DO..
574
आहारे विरतिः
748 आहूतीपि सहायै ०
3702
इ
2946
4528
1662
3481
1255
3537
4103
4342
इङ्गिताकार ●
इज्याध्ययनदानादि
इडया संचरन्वायु:
इडा च पिङ्गला
इडा नासापुटे.
इडायां यदि भू०..
इडा सोमस्य नाडी
2565
677
327
3661
3664
778
2945
2520
2144
3158 इदं नभसि भीषण ०
इदं मघोनः कुलिश
4378
4348 इदं युगसहस्रस्य..
4105 इदमनुचितम ०
4134
3471
इदमपटु कपाटं
इदमिदमिति भू०..
इदानीं तीव्राभिर्दहन ●
3381
2111
इन्दुः प्रयास्यति ।
इन्दुं कैरविणीव
। इन्दुं निन्दति चन्दनं
इन्दुप्रभा ०
इतः स्वपिति केशवः.
इति निखिलमुदार ०.
इति विरचित ●
इतो न किंचित्र •
इतो विद्युतुज०
इत्यङ्गैः संयुतः
इदं कृष्णं कृष्णं
इदं ज्ञेयमिदं
इदं विहोत्पात</p>
<p>3119
3053
93
3140
4643
3679
3166
243
2940
4669
4658
597
2491
3423
3932
1337
673
2796
4308
4310
2811
2794
1093
4670
4617
4127
3457
4325
3544
4562
2493
3605
4068
4132
564
878
3805
3436
897
1557
1238
181</p>
<pb n="727" />
<p>इन्दुर्यत्र न निन्द्यते
इन्दोरेककलाया
इन्द्रनीलशुक●
इन्द्रियाणीन्द्रिय
इयमुन्नत ०
इष्टकचिते समन्तात्.
इह किं कुरङ्गशावक
इह खन्दु विषमः
इह तुरंग
इह निचुलनिकुञ्जे
इह लोकेपि
इह घटवृक्षे यक्ष:
इह सरसि सहर्ष
इह स्फुटं तिष्ठति.
र्ड
ईदृशं कारये ०.
ईशानो त्यैः शकुनैथोरा.
ईशानोत्यैः शकुनर्विशेषतः
ईवरात्समभूत्
ईश्वरोक्काद्धनु०
ईपत्कम्पपयोधरं
ईषत्काटतो
ईपन्मीलितदृष्टि ०
उचितं नाम नारङ्गयां
उच्वं प्रदेश भषण ●
उच्चा प्रदेशाव
उच्चित्य प्रथममधः
उच्चैः स्थानकृतो ०
उच्चैरुच्चर रुचिरं
उड्डीयमाना
उच्चैरुत्तालखेलड्०
उच्चनिषाद
उच्चै ब्रह्माण्डखण्ड •
अच्छष्टं शिव०
उच्छिष्टो न स्पृशेत्
उच्छीर्षे पदकं कृत्वा
उच्छासहिक्काशय ०
उज्जाडितो यदा
उज्जृम्भाननमुल्लसत् ०
उड्डीना गुणप●
उड्डीयाणं तु सह●
शार्ङ्गधरपद्धतिः
3637
2118
3782 उड्डीयो गमने
उत्कृत्य ज्वलितां
उत्कृत्योत्कृत्य कृति
उत्खातदैवत ०.
उत्खातान्प्रति०
4464
210
2312
उत्तंसकौतुकरसेन
उत्तसेषु ननते.
उत्तमः षदः.
उत्तमा आत्मना
939
4005
198
3918
403
3772
836
3582
1734
2788
2789
4276
1714
3701
3153
3687
उत्तमास्ताजिकाः
उत्तरंगय कुरङ्ग०
उत्तरतश्च मधूका०
उत्तरण सदा कार्य</p>
<p>उत्तानोच्छून ●
उत्तानो चरणो
उत्तानी चरणौ
66
2046
उत्तिष्ठन्त्या रतान्ते
उत्तीर्य दक्षिणे पूर्व
उत्तीर्य पृष्ठतो याति
उत्तुङ्गैस्तरुभिः
उत्थाप्य भुजग
उत्थाय हृदि
उत्थायोत्थाय बोद्धव्यं.
उत्पाताय च काव्ये
। उत्फुल्लगलैरालापाः
उत्सर ङ्गक ०
उत्साहः स्याद्रसे
उत्साहस्य प्रभो ०.
उत्साहोज्झितमनसां
1057
2377
2605
3801
उदक्यापतित ●
764 उदमखो वक्ति..
1114
उदञ्चकावेरी
2702 उदयतटान्तरित
उदयति विततोर्ध्व०
उदयास्ती मूलाख्यो
58
517
4687
2408
2398
उदिने भास्करे
2458
उद्दिष्टं वस्तु
3417 उदीच्यां सस्यानि०
395
उदीरितोर्थः
4414
उदुम्बरद्रुमा०
उदरद्र्यभरण०
उदस्योच्चैः पृच्छं
उदार चरित०
उदितवति द्विज
2709
4077
4075
4004
1017
1107
1294
1966
1487
1675
3557
2192
1818
4144
4376
4135
135
2747
2750
1059
4604
401
668
2578
162
549
1982
1409
2781
601
2420
3810
3621
3737
2770
64
1212
389
1141
1817
2037
2517
200
2099</p>
<pb n="728" />
<p>46
उदाहश्चान्यधातुः
उदाहस्याद्य●
उद्धाहो ध्रुपदथ
उद्घाटयेदक्षिण●
उद्घाटय चेदक्षिगं
उद्यत्करकरवाल:
•
उद्यदर्हिषि दर्दुरा०
उद्यवालाङ्कर श्री०
उद्यद्विद्रुमंकान्तिभिः.
उद्यन्त्वमूनि
उद्यमाख्यानमपरं
उद्यमेन हि सिद्ध्यन्ति
उद्योगिनं पुरुष ०
उद्वासयितुं वेश्मनि
उन्नतदक्षिणपक्षा
उन्नमय्य सकच०
उन्नग्य दूरं
उन्निद्र कन्दलदला ●
उन्निद्रको कनद्र०
उन्निद्रता मत्स्य ०
उन्मीलन्ति नखै●
उन्मीलन्मधुगन्ध
उन्मूल्य सित●
उन्मृष्टपचाः कलिता •
उपकर्त प्रियं
उपकारः परो..
उपकारगृहीतेन
उपकारिषु यः..
उपकृतमनेन
उपचरितत्र्याः
उपदेशो हि
उपप्राकाराग्रं.
उपभोगेन पुण्यानो
O
उपयुक्त खदिर •
उपरि पयोधर
उपर्यष्टी शता
उपवनमिवं..
उपसर्गाः प्रवर्तन्ते
उपसर्गैजित •
उपस्थितः प्राकृत ०
उपहरणं विभवानी
उपहासादिकं
उपोढरागेण विलोल० .....
उपोकादशी
श्लोकानुक्रमणिका
। उभावेव चली
उभी
पक्षो
उमा तिलकनाले तु
उरः पृष्ठं काटश्चैव
उरसि निहितस्तारो
2035
1969
1996
2352
2374
132 उरोजाताच
3397
1235
3790
741
20
457
4:55
2552
2696
509
3879
3875
3736
4051
3884
1912
2170
4518
4522
2397
उरो विशालं शस्तं
उल्लध्यापि सखी ●
उल्लापयन्त्या
92
40.
उष्णं जलं क्षिपे ..
उष्णकाले जलं
2272
3189
3820
3072
3818
231
649
1303
352
236
233 ऋतुर्मास येनैव
ऋतुलोकपाल ●
ऋतुस्नात तु
418
ऋतुस्नाता
पिबे०
3516
4422
ऊ
ऊर्णा
ऊने याद्गुरूनेव..
नैष दधाति.
ऊर्ध्वं याति चाप
ऊर्ध्वं श्रीहित्रयं
ऊर्ध्व वसंस्ततः
ऊर्ध्वगं कापेल ●
ऊर्ध्ववाहविरौग्येष
ऊर्ध्ववेधी भवे ०
ऊर्ध्वशक्तिनिपातेन
ऊर्ध्वानना भास्कर
ऊर्ध्वावें लक्षणं.
ऊष्मा यस्यां वाओं
ऋ
ऋणशेषश्वाग्निशेषः
एकं हन्यान्न वा
एकः कानुरुषो दीर्णो
एकः स एव जीवति
एकः स एव तेजस्वी.
एक एव खगो
एक एव लघु०
एकच्छागं द्विरावयं
एकताली विधा
एकत्र साथै व्रजतो
एकत्रासनसंस्थितिः
3634
एकदन्तद्युति
694 एकधानुद्वि खण्डः</p>
<p>1811
894
2020
1635
3613
1676
1625
3444
3511
2255
644
2067
1210
1852
1631
4331
4642
665
1823
4363
2423
4665
2208
1491
4260
3123
705
2999
1355
1930
258
285
852
2024
658
2028
2715
3534
88
1967</p>
<pb n="729" />
<p>एकनिभा यत्र.
एकमात्री लघुः
एकमेव वलिं वचा
एकवर्णो भवेद्यस्तु.
एकविंशतिवर्णा :
एकसार्थप्रवृत्तानां
एकविंशतिवारेण.
एकविंशतिसंजतं
एकशक्तिप्रहारेण.
एकस्मिञ्छयने
एकस्य तस्य मन्ये
एकस्यायमुदोत
एकाकिनी वन ०
एकाकिनी यदवला
एकादशाक्षरान्
एकान्तशान्तमेकं
एकान्तसुन्दर विधान
एकान्ते वत नो गृहं.
एकान्ते विजने देशे.
एकान्ते विजने रम्ये.
एकापि पञ्चशान्ता
एकारौकारयुक्ता.
एकावलीकलिन ०
एका वा दुग्धिका
एकेन चुटुकेनाब्धि०
एकेन निष्ठता
एकेनाणा प्रवितत
एके सतुरुषाः
एकेद्य प्रातरपरे
एकेकस्य शरस्यैव
एकोपि यत्र
एको ललाटे मूर्ति
एकोहमसहायो
एण: क्रीडति
एतच्चतुर्गुणं
एतत्तय करव०
एतत्सर्वे परिज्ञाय..
एतदनूपे वाच्यं
एतदत्र.
एतद्धिमशेषाणां
एतद्रहस्यं
....
एतस्मात्परमानन्दात्
एतस्मादमृतं सुरैः
एतस्मिन्दाक्षिणात्या
शार्ङ्गधरपद्धतिः
2222
2069
3347
4655
1990
4136
2292
2917
567
3715
765
1070
905
3773
1976
2773
3267
3775
4375
4430
2698
3195
3343
3247
3905
एतस्मिन्मरु मण्डले
एतस्मिन्मलया०
एतस्मिन्वनमार्ग •
। एतानि निःसहतनो ०,
एतानि बालधवल ०
एतानि सर्वदा..
एतान्येव तु बन्धाय
एता याः प्रेक्षसे
एतासु केतकि..
एते ते दुरतिक्रम
एतेन गुणाः पङ्कज
एतेषां नव चक्राणां
एते हि जीवा:..
एतदक्षिण ●
एतैयदि सुस्निग्वै०
एभिर्दिनैस्तु
एभिर्नाशितयो●
एरण्डवीजप्रति •
एलाकरणढेकीभि०
एवं कदाचिन्नरकं
एवं लेपत्र्यं
एवं विधान्गजा जात्या
एवंवित्रे भावि न
......
एवं वेधत्रयं
एवं श्रमविधि
एवं सर्वात्मना.
एवं सिद्धो भवेत् .
एवमेव हि यो ०
271
3596
465
4137
1772
1718
1648
900
914
3069
3639 ऐन्दवी वहति
2088
2221
783
4535
4257
4235
1085
3819 औं हैं। शिखा०
एष बकः
एष सूर्याशुसंतप्रो..
एष स्वर्गतरांगणी.
एषा धर्मपताकिनी
एहे हे रमणि...
ऐ
ऐन्द्रयां दिगवलोकि०
पेशान्यां पतनं
ऐशान्यां संप्राप्ति ०
ऐहिका मुष्मिकान्..
100.J
ओ
ओंकारो मदनद्विजस्य
......
….....
1129
867
1020
3410
969
4390
4538
4119
1013
3882
1143
4361
4336
994
2200
1727
4529
4647
2033
4335
3060
1594
2349
1741
1877
4516
4611
2091
890
3836
3632
107
537
2717
2481
1740
2478
4453
3629
1733</p>
<pb n="730" />
<p>ओ
और्वाइवातिलुब्बा
क
कंसारिचरणो०
कः प्रार्थ्यते मदन
ककुभकरीरावेकत्र
ककुभस्य फलं
कङ्कहंसशशादानी
कटकवं पृथग्
कटी मुष्टिग्राद्या
कटुतितकषाय०
कठिनं वा मधुरं
कण्टक्यकण्टकानां
कण्ठमाकुच्य हृदये.
कति पल्लविता..
कथमपि सखि
कण्ठस्य तस्याः स्तन ०
कण्ठस्य विद
कण्ठे क एष तव
कण्ठे चिन्तामणिज्ञेय
कण्ठे रज्जु वढा..
कण्डूयते दक्षिण •
कण्डूयमानः खलु
कनि कति न...
कतिपयदिन०
कतिपयदिवस●
कतिपयनिमेष●
कथं ते व्यक्त ०
कथय निपुणे
कथमिह मनुष्य •
कदम्बवृक्ष०
कदर्थितस्या ●
कनकरसममृण..
कनकस्य तु पञ्चाङ्गं..
कनिष्ठास्तं नमस्येरन्
कन्दाग्रात्प्रोत्थितः
कन्याकर्तित ......
कपिकच्छू च निज●
कपिकच्छू० मद०
कोतगृध्रकाकोल०
कपोले जानक्या:.
कपोले मार्जारीपय ०..</p>
<p>श्लोकानुक्रमणिका
431
796
555
2216
3015
1771
4242
4055
2261
1453
2202
4411
3329
3327
3176
1653
2984
2354
2350
कमलिनी मलिनी
कम्पितं भीत०
कम्पते गुण ०
कम्पन्ते गिरयः
कर किसलयं भूत्वा
करझारग्वधा
करभदयिते यत्तत्पीतं.
करभदयिते यो सौ....
करबदरसदृश०
करान्प्रसार्य रावणा
करालैः पुरुषः
करिकृष्णा श्वगन्धा
करिणश्च हस्तिकर्णै ०.
करिमदगन्धि०
करिवर मदित ●
करीषमध्ये
करे च दक्षिणे
करेण कण्डूयति
करोति निर्मला ०.
करोति नीडं भुविं
करोति हुं हुं शुगिति
करी धुनाना नव०
कर्कशेन त चापेन
कर्कोटिकार्कयो ●
938
697
कर्णस्त्वचं
1124 कर्णामृतं सूक्ति ०
कर्णाग्रे पीडिते
155
1018
कर्णिकं काक●
3546
कर्णिकारस०
696
कर्णे चामर०
3512
कर्णे तालदलं.
140
कर्णे वृद्धा रवी
3025
कर्पासबी जमज्जानां
3231
227 कर्पूरं चन्दनं कुष्ठं
कर्पूर भल्लातक
3198 कर्पूर मिश्र से हुण्ड ०
कर्पूरमिश्रेण च
1489
2988
4318 कर्पूराम्बुनिषेक ०
कर्मण: संचयात् .
कर्मणा मनसा वाचा..
3221
3225
कर्मणामिष्टदुष्टानां
कर्षणान्वेषणे यातुः
4573
3990
3640
कर्षद्भिः सिचया...
कलकणित गर्भेण
..........</p>
<p>3793
1960
1850
1074
3706
2265
960
953
59
742
4535
3233
2316
3104
2286
3065
2531
2351
477
2509
2652
3841
1847
2864
279
144
1702
1778
2958
919
3952
2989
3237
3206
3002
3234
3210
3448
4239
1394
4452
2763
1277
570</p>
<pb n="731" />
<p>कलमाग्रनिर्गत ०.
कलहप्रियाति ● 0
कलुषं कटुकं
कल्पद्रुम न जानाति
कल्पद्रुमोपि कालेन
कल्याणं नः किमधिक ०
कल्याणदो भवेत्
कल्पान्तपवना ०
कल्पान्ते कोधनस्य
कल्यान्ते शमित ०
कलोलैः स्थगयन्
कवयः कालिदासाद्याः
कवयः परितुष्यन्ति
कविभिनृपसेवा ०
कविरमरः
कविवाक्या ०
कवी नीमि.
कञ्चिह्निपत्खड्ग
कष्टदश्चिरिचिरीति
कस्तूरीतिलकं वाले
कस्त्वं भोः कथयामि .
कस्त्वं शूली मृगय
कस्मिन्स्वपित
कस्य मरौ.
कस्यिस्वन इव
काकचचटी
काकजङ्घाजटा
काकजङ्कारसः
काकतालीय योगेन
काकमाची तथा
काक्रमाची शिफा०
0
काकस्य दृष्टिहेतो
काकाकल्यं यमा०
काकिन्याः पच०
काकुत्स्थेन शिरांसि
काकः सह ..
काकोदुग्वरिकाय..
काकोल: कलकण्टिका
काचिन्निवारित०
काचिन्मृगाक्षी
काञ्चीगुणैर्विरचिता
काञ्जिन समा
काठिन्यमङ्गै· रखिले:
काणा: कुब्जाश्च
शार्ङ्गधरपद्धति:
4041
3106
2174
1242
987
1183
1989
4223
97
98
1089
175
158
195
176
169
172
3978
2687
3294
1046
कानि स्थानानि दरबा
। कान्ताकलि कलयतु
कन्तामुखं सुरत
कान्तारः समरा०
कान्ते कथंचिदित
कान्ते तल्पमुवा.
कान्च्छामः सुराः
काम्याः क्रियास्तथा
कामं कामदुधे
कामं [प्रया
कामं भवन्तु मधु ०
कामं वनेषु
कामः सवात्मना
कामक्रोधादयः
कामदो विजया
कामपि श्रियमासाय
कामुके भ्रमरः
कायः कण्टक ०
कायच्छिदत्वार्षिका
कायस्थेनीदर •
कारणोत्पन्न ०.
कारञ्जीः कुञ्जयन्तो
कार्य च शान्त ०
कार्याकार्येषु काकोल •
कार्यान्तरेष्वप्यनु०
कालकूटादयो..
95
560
556
4659
4379
2986
2991
1435
2921
2990
2497
4044
3063
4018
838
2184
3602 कासांचिद्धवल ०
3523
काष्ठं शिरसि सं०
519
3345
3037
3341
1339
कालज्ञ्जराः काल ०
कालाग्निरुद्र
कालानिक्रमणं
कालेन क्षितिवारि ०
काले नीलवलाहके
कावेरीतीरभूमीरुह०
कावेरीवारिवेल ●
काव्यमय्यो
काशाः क्षीरनिकाशाः
कांश्चित्कल्पशतं
काश्मीरगौरवपुषा०.
काष्ठगोलयुगं
काष्ठेश्व केशं
किंशुक कलिका० ...
किंशुकादपि गन्धाशा
किशुकाद्गच्छ मा
3828
991
3466
2009
3384
3747
147
4519
495
252
1144
261
4195
4499
1979
460
3149
1039
4675
4043
3938
3851
2682
2657
2644
2861
4679
4301
786
4167
3876
3811
3809
171
3906
4166
3609
965
4514
1869
1866
3794
1540
1045</p>
<pb n="732" />
<p>किंशुके किं शुक्रः
कि कंदर्प करें
कि करोति नरः..
कि कवेस्तस्य..
कि कान्त निर्दयतरं.
किं कुलेन विशालेन.
कि कृतेन न यत्र..
कि केकीव
कि कौमुदी: शशि०.
कि क्रमिष्यतेि..
कि क्रूरं स्त्री०
कि क्वापि प्रलया०
किंचित्कम्पित
किंचित्कोपकला०
किंचिदाश्रय.....
किंचिन्मुद्रितपसवः
किं जातोसि
कि तथा क्रियते
कितवा यं प्रशंसन्ति
कि तेन किल....
कि तेन जातु जातेन
कि ते नम्रतया
कि त्वं न वोत्स
किं त्वं निगूह से
कि दूरेण पयोधरा
कि दोर्भ्या किमु
किं फलैः</p>
<p>किं
कि पृष्टेन द्रुततर
किं ब्रूमो हरि०
कि भूमी परितः
कि मालति
कि मालती कुसुम ●
किंवाच्यो महिमा
किंवा परेण
कि वीरुपी भुवि.
कि वृत्तान्तैः पर०
कि व्यक्तीकुरुषे
किमपि कान्त०
किमप्यसाध्यं महती
किमसि विमनाः
कि माद्यन्वगुरु ०
कियन्मात्रं जलं
कीटगृहं कुटिलो
कीटजग्धमि ●
...........
श्लोकानुक्रमणिका
1372
कीतुकीत इति यो...
कीर्तिः कैतववीर ●
4096
452
159
3182
कुङ्कमाई र सो ०
कुचकुम्भी समालम्ब्य
कुचावालोक्य.
कुचेलिनं दन्त ०
कुणपजलपयो ●
1485
1220
3269
887 कुपिते पुच्छसंस्थानं
कुभो ज्येन दिनं
कुमुदवनमपत्रि
4020
508 कुमुद्रशबले:
827
कुमुदेष्वधिकं भान्ति..
कुम्भकेन स्थिरं
कुम्भे विद्य
3580
4070
326
3872
971
277
कुरङ्गकाटे सारङ्ग ०
कुरु गम्भीराशयतां.
कुर्यादाचमनाभावे
कुर्यान्नीचजनाभ्यस्तां
14.82 कुर्वन्ति स्मरमन्दिरे.
1323
151
1004
कुर्वन्तु नाम जन
440 कुर्वन्नेवं यदा
3510 कुलगुरुरबलानो.
872 कुलत्थक्वायतो
128 कुले महति जातेन
1049
कुरबक कराघात ●
कुरङ्गकिटिमत्स्यानां.
कुल्माषदन्ति ●
3493 कुशं स्वर्ण सदा
4025
कुष्टपत्रसुरा०
3606
कुष्ट सैन्धवसं ०</p>
<p>1006
821 कुप्रैले मलयज ●
कुसुमं कोशात क्याः
1096 कुसुमं फलमप्युप
213 कुसुमशयनेप्यङ्ग्
1062 कुसुमसुकुमार •
1227
कुसुमस्तबक ०
कुसुमस्तबकैर्न स्राः
कुसुमोल्लासिधम्मिल्ला,
1190
3749
1400
कुस्तुम्बरं निशा
1154 कूटसाक्षी मृषा ०
479
561
कूपे पानमधी●
कूर्मः प्रथमे पुरुषे
1115
कूर्मसंस्थानगमनो
2257 कूर्मः पादोत्र यष्टि ०</p>
<p>2686
1263
2130
3351
3950
657
2266
1689
1492
3734
951
3643
1833
3017
1269
2252
2231
1125
603
1514
3193
1032
4478
3077
2295
4181
2245
626
2244
2841
2881
1135
2148
3476
3797
264
1009
4222
2957
707
859
2197
1585
1248</p>
<pb n="733" />
<p>कूर्मो मूलवदालवाल •
कूष्माण्डवार्ताक●
कूष्माण्डीफलवन्●
कृच्छ्र।च्चाप्यायते
कृच्छेण कापि.
कृतक कृतकै ●
कृतज्ञ एह्येहि
कृते पापेनु०
कृते युगे महा....
कृतोपकारं प्रिय०
कृतोपवास:
कृत्तिकाभर ०.
कृत्वापि कोशपानं..
.........
कृत्वा च सप्तखण्डं
कृत्वापि पातकं
कृत्वा रवं यः पुरतः
कृत्वा विग्रह....
कृत्वा शिरो द्वारि
कृपणसमृ०
कृपणेन मृतेना०
कृपणेन समो
कृमयो भस्म विष्ठा
कृमिरियवयष्टी
कृशा केनासि त्वं..
कृशास त्यालीना
कृशो दीघों लघु०
कृष्णं तालु भवेद्यस्य
कृष्णं वाहतु.
कृष्ण तित्तिरिरितीह
कृष्ण त्वं घन०
कृष्ण त्वं नवयौवनोसि
कृष्णद्वैपायना दी●
कृष्णभूमिसु०
कृष्णशिरोरुह ०
कृष्णा कसेरु •
कृष्णार्जुनानुरक्तापि
कृष्णेनाम् गतेन
कृष्णोरुणो वा..
कृष्णो वाजी भवेयः
कृष्यारम्भादेने
केका कर्णामृतं
केकानिनाद ०.
के गृह्णन्ति कत्रों •
केनित्प्रथमजन्मानः
शार्ङ्गधरपद्धतिः
2298
129 । केचिदज्ञान नो...
केतकीकुसुमं
केतकीपचकुष्ठैला ●
1022
1592
केतकीपचसदृशं
3524
केदारगाहसमये
3560
2345
714
1747
3589
1730
2897
835
3243
676
2660
3716
2429
383
338 के शोल्लुच्चन ०
386
4141
2308
3531
35 32
2258
1659
886
2729
1239
130
4350
4641
2823
2968
3655
4016
3117
1647
2516
केदारपाल्यां गेहे.
के मास्ते क
केनापि चम्पकतरो
केनासीनः सुख●
केपि स्वभाव
के भूषयन्ति
केलि कुरुष्व्
केवले कुम्भके
केशवं पनितं दृष्ट्वा
के शस्त नादि०
केशा: कालालि ●
के शानाकुलयन्
केश इमभस्मोल्मुक०
केशे: केसर मालिका ०
868
2167
3192
4340
केसरं च जटाहीनं ...
कैलासायित मद्रिभि०
कैशिक: केशमूले
कोकिल कल०
कोकिलश्चत शिखरे
कोकिला प्रिय
को व्यस्त्रयोदश
कोदण्डद्वयमध्य ०.
कोपार्टिकचिदु
कोपो यत्र कुटि०
कोप्यन्यः कल्पवृक्षोयं
कोप्येष खण्डित ०.
कोयं द्वारि हरिः
कोयं भ्रान्ति प्रकार०.....
कोर्यान्प्राप्य न
कोलशोणित मे दो ०
कोशः स्फीततरः.
कोशातकीदल ●
कोहं को देशकाली
कोहं ब्रूहि स
को हि तुलामधि •
कौपं वारि.
कोपे पयसि
कीमें संकोच ●
1437
822
3007
4638
2521
2519
3184
1003
1110
430
553
920
4385
527
3181
3067
3944
2623
3458
4060
1624
3641
1804
841
3784
2031
1916
4362
3567
3562
1222
3976
122
794
1534
2303
3322
2238
1404
4010
1196
933
932
1305</p>
<pb n="734" />
<p>कौलेयके दक्षिण
कौलेयको दक्षिण ●
कौशिको दक्षिण
की शेयं कृमिजं
कौस्तुभमुरसि..
कन्दत्यवाष्प
क्रमागतो हित०
क्रयविक्रयकूट ●
क्राका इति क्रोशित
क्रामन्त्यः क्षतकोमल०
क्रियतेनुक्रमः राष्टः
क्रियाकलापान्वक्ष्यामि
क्रियागुप्तादिकं
क्रियामिच्छन्ति
क्रियारूपा गुण ०.
क्रियाशक्त्या विना
क्रीं क्रीमिति क्रोमिति
क्रीं क्रीमितीष्टार्थ ●
क्रीडानाले ध्रुवः
क्रीडारामं तु यः
क्रीडासु च नरेन्द्राग
क्रूरं व्यसनिनं
क्रों क्रोमितीदं.
क्रोधः स्मितं च
क्रोशादन्तवेली •
क्रोवः क्रीडनु
व चाम्भोधी जन्म
क्वचिडिझल्ली •
कचित्कन्थावारी
कचित्ताम्बूलाक्तः
क्वचिदपि कूपं
व प्रस्थितासि.
क्क यासि खलु..
कौकामिति क्षेम
क्वांक्कामिनि क्रीमिति
कीवे धैर्य मद्य०
क्षणं कान्ताराग०.
क्षणं बालो भूला
क्षण दृष्ट नष्ट●
क्षणमापे विरहः
क्षत्रसारभृतं
क्षात्रेयस्योरसि
क्षपाः क्षामीकृत्य
क्षान्तं न क्षमया
श्लोकानुक्रमणिका
क्षिपेद्वाक्यशरान्..
क्षिप्त्वा शिरसि .
क्षीणः क्षीणः समीप
2368
2353
2651
301
क्षीणांशुः शश०
1203 क्षीरं घृतं च
3164
क्षीरनिषिक्तं बीजं
1334
क्षीरसागर •
4035
क्षीराब्धेः कमलेव
2673
क्षीरिका कदली ०.
1270
क्षुतं प्रेतक्रियान्ते
13 क्षुत्क्षामोपि...
क्षुद्र वासनया
क्षुद्राः सन्ति
क्षुद्राः संत्रासमेते
1828
21
1836
4274 क्षुद्राङ्गं सुदृढे
429!
2674
क्षेत्रपालस्य
क्षेत्रे ग्रामो ग्रामे
2490
क्षेत्रे याताः कार्यक
1984
क्षमं विधत्ते कर०
2087
क्षोभं धत्ते यदापे.
क्षोभपलायनभङ्ग ०
क्षोमीं लेखावर्ति
1568
1331
2666
3165
2585
खं तथा स्वर •
1127
खचतुष्कं रदा
खट्टा नितान्त ०
1120
4098
845 खड्डूं चर्म गदां
खड्डूं प्रशस्तं
3700
2172
3610
74
2479 खड्गास्तिष्ठन्तु मत्ते ०
2665
1535
खड्ग न पश्येत्●
खड्ङ्गेषु लक्षणं य०.
1271
खण्डं यस्य पर्द
4091
खदिरस्याग्भसा
767
3482
1926
3963
3869
4153 खर्जूरचिल्वलकुचा०
खड्डः पद्मपलाश०
खड़गूलगदा ●
खड्डहस्तोरि ०
खड्डालक्ष्मीम्ना
खद्योतो द्योतते
खद्वयं निवि०
खनत्युत्तीर्य भूमि.
खनन्ना खु●
खरतुरगविग्निवेशित ०</p>
<p>1512
3070
757
-3714
4384
2133
3515
4618
2101
2766
907
4201
773
3995
4625
1897
2699
2742
2667
3283
2581
3201
1911
4262
4057
1906
4688
4682
1901
578
4621
3966
4686
4661
4572
3034
738
1915
2749
911
2302
2229</p>
<pb n="735" />
<p>खर्जूरालीढ०
खर्जूरी द्विशिरस्का
खलः सन्क्रिय •
खलः सर्वप०
खलानो कण्ट०
खल्वाटो दिवसे ०.
खादति किंचन
खिन्नोसि मुञ्च
ख्याता वयं समा..
ख्यातिं गमयति
.....……..
गोदे कुरु •
गच्छ गच्छसि चेरकान्त
गच्छतो दक्षिणे
गच्छन्ति काजि०
गच्छाम्यच्युत ०
गच्छेदेको न पन्थानं
गजभुजंग
गजा वशध्यासन
गणयति गणने गणक ०
गणयन्ति नाम •
गण्डस्थलीगल●
गतं तद्गाम्भीर्य
गतः स कालो
गतप्राया रात्रिः
गतश्रीर्गणकान्
गनास्तानन्त्रातृ ०
गतास्ते विस्तीर्ण०
गतिमा प्रयाणे.
गते तस्मिन्मानी.
गतेनापि न संवन्धो.
गते प्रेमावन्धे...
गतेपि वयसि ग्राह्या
गत्वा गत्ला नि०
गत्वा द्वारवर्ती
गदा चक्रं तथा
गन्तव्यं राजकुलं.
गन्तुं सत्वरमी हसे
गन्तर्विववदुदये
गन्वरसागिरि ०
गन्धर्वनगराकारः
गन्वादिषु समा......
शार्ङ्गधरपद्धतिः
2953 । गन्धाय उत्तरं०
2206
गभीर नाभी हदस०
गरीयः सौरभ्ये
गर्जन्हरिः..
गर्ज वा वर्ष वा
गर्जितबधिरी ०
गजित्वा मेघवीरं
376
345
357
437
2619
78
गर्ने सरिद्रोवसि
3646
गईभो जायते.
148 । गर्भगृहे शय्यादौ
गर्भाशयो धरा०
682
3393
2418
51
118
613
443
2600
4040
192
89
810
489
3713
गर्भिणीगर्भतो..
गलत्येका मूर्छा
गलग्रन्थि तल०.
।गलितानीन्द्र०
गले पाशस्तीत्र ०.
गवादीना
गवा सह क्रीडति..
गो पङ्काद्ब्राह्मण
गाढतरनिवद्ध०
गाढीलिङ्गन पूर्व ०
गढालिङ्गनवामनीकृत ०.
●
गाता कोकिल एव
गात्रं कण्टकसंकटं
गात्रं संकुचितं
गात्रं ते मलिने
गान्वारश्च निषाद●
गायाने हसनि..
गायन्ति देवाः.
1318
4108
974
2649
746
4126
35 15
1425
692
4054
गुटिकात्रितयं
4654 गुडूच्यपामार्ग •
O
गायन्त निर
गार्ग्यतालेन ध्रुवः
गीननृत्यप्रिया..
गीतशास्त्र •
गीने वाये च
गीत्वा किमपि व्यावः
गुञ्जाफलानि विंशति ०
1379
गुणदाषाश्च खड्गानो
3860 गुणयुक्तोप्यधो..
3383
गुणवज्जन ●
3263
4123
गुणवदगुणवग
गुणवन्तः किश्यन्ते
4539 गुणहीनं गुणा ०
...
1894
3348
1024
591
3883
860
596
2511
719
2548
4288
3242
3477
1756
4117
931
217
2608
646
382
3663
3683
1015
1042
4161
880
2050
579
688
1247
1983
3098
202
2076
522
2879
2880
2077
4650
344
291
1391
303
1753</p>
<pb n="736" />
<p>गुणाः कुर्वन्ति
मुणाः सर्वत्र
गुणा गुणज्ञेषु
गुणानी लक्षणं.
गुणिनं जन ०
गुणिनि गुण •
गुणेषु क्रियतां
गुणैः सर्वज्ञ
गुणैरुत्तुगत
गुणगौरव
गुणो दूषणतो.
गुरुतामुप०
गुरुद्वयं भवे०.
गुरुद्वन्द्वं लघु०
गुरुप्रसादतो
गुरुरेको भवे ०
गुरुर्नायें भारः
गुरुर्लघुद्द्रयं
गुरूपदेशतः
गुरूपदेशमा ०
गृध्राकारोपि सेव्यः
गृहभित्तिवप्र०
गृहस्य पूर्व दि
गृहिणी सचिवः
गृहीतं ताम्बूलं
गृहीतं योगनक्षत्रे •
गृहीतं रेवति ●
गृहीतं हस्त नक्षत्रे.
गृहीत्वा गोमयं गेहे
गृहेपि निवसन्
गृहे प्रविश्य चे०
गृहोपरि गृह ०
गेहादङ्गणम ०.
गेहान्नर्ध्वनिता
गोकोलास्थिकरीषैः
गोक्षुर केक्षुर
कं
गोक्षुरविदारिकाभव ०
गोत्रस्थिति न
गोपायन्ती विरहज●
गोपालदामोदर ०.
गोपालो न च
गोपुच्छवल्मीक●
गोपृष्ठदुर्वातरु ●
गोमयगाढो●
श्लोकानुक्रमणिका
290
292
295
1761
296
293
298
297
302
299
304
398
2030
2001
4485
2006
966
2003
4392
4468
1377
2588
2105
3998
3475
1886
2992
1890
2436
632
2431
2467
3478
2505
2311
3214
3215
241
3421
4
516
2482
2472
3232
। गौर इन्द्रोरु॑णो वहि
गौरी चम्पक ०
गौरीनखर
ग्रन्थित्रयं भेद •
ग्रन्थिप्रचुरा
ग्रहणं शिथिलं
ग्रामं निशायां खर
ग्रामरागोद्भवा
ग्रामाणा मुपशल्य ०
ग्रामादी गच्छतां वामः
ग्रामा हिर्ब्रजित्वा
ग्रामारामामर ०
ग्रामे गोश्वखरोष्ट्राद्या
ग्रामे पुरे वा दिशि
ग्रामेस्मिन्पथिकाय
ग्रामोपशल्यतटिनी ०
ग्रामोद्वासन हेतो.
ग्रावाणो मणयो
ग्रासादर्वमपि.
ग्रासाद्गलित ●
ग्रीवास्तम्भभूतः
ग्रीष्मादित्य •
ग्रीष्मीष्मप्लोष ०
M
घटं भिन्द्यात्पटं
घटात्पटमुपायाति.
घटो जन्मस्थानं
घण्टाकर्णेवटे शेते
घनघनमपि
घनप्रवाल ●
घनसंतमस०
घनतिग्धाः सुबद्धाश्च
घासग्रासं गृहाण
घूघूशब्दः सदा..
घृतकुणपवचा
घृतमधुसह●
घृताक्तदुग्ध●
घृते तैले तथादर्श
घृतोद्वर्तनतो याति
घृष्टे यस्मिन्भवेत् .
घ्नन्तः शृङ्गैर्विषाणाभ्यां
घ्रात्वा श्रोणी..</p>
<p>2338
816
535
4366
2218
1851
2425
2040
913
2733
2675
2787
4184
2513
3893
3959
2553
1084
643
1208
207
588
3855
1468
4218
505
2856
3573
2164
899
1620
928
2465
2232
3218
2949
4576
2877
4646
2751
586</p>
<pb n="737" />
<p>च
चक्रं सैव्यं नृपः सेव्यो
चक्र: पप्रच्छ पान्थं
चक्राको विरही
चक्षुः पूतं न्यसेत् ०
चक्षुः स्पन्दनमात्रस्य
चक्षुर्दद्यान्मनो
चक्षुषी स्पन्दये ०.
चङ्गपालो गुण ०
चञ्चचन्चलचञ्चु०
चञ्चलोलाञ्चलानि
चञ्चत्कर्पूरचौरा
चञ्चद्भजभ्रमित●
चञ्चहदिश
चटञ्चटिति चर्मणि
चण्डालश्च
चतुः पर्व च
चतुः शतैश्च
चतुः श्रुतिस्त्रिः
चतु: सागरपर्यन्तां
चतुरः सृजता
चतुर्णी लक्षवृक्षाणां
चतुर्थ हृदये
चतुर्थेति स्नातां
चतुर्दशव श्रुतय०
चतुव रासकः
चतुर्भिर बुँदैः
चतुर्युगसहस्रेण
चर्विंशति चर्माणि
चतुर्विंशतिभिः
चतुर्विंशाङ्गुलो
चनर्विधः स चा०
चतविधा नसा
चतुर्ष्वपि समुद्रेषु
चतुष्प राज०
चतुष्पादस्य तुवाहे
चत्वारिंशत्पअधिका
चत्वारिं प्राक्तनानि
चत्वारोप्यसिताः
चन्दनं स्तननटे०
नन्दनागरुकुष्टानि
चन्द्रनागुरुकुटेश्च
चन्ने विषवरान
शार्ङ्गधरपद्धतिः
1378
1261
3595
4551
4445
641
1840
2053
572
3926
3812
4085
532
126
412
चन्द्रनैलादलो०
चन्द्रमुखी मृग
चन्द्रस्यान्योक्तयो
चन्द्राक प्रेक्ष्य
चपलतरतरंगे •
चरणादूर्ध्वगीभूय..
चराचरंपु पिण्ड०
चविला लक्ष्मणा
चलकिसलयपाद:
चलं तू वेधये ०
चलत्कर्णानिलोद्भूत
चलत्कामिमनोमीन ०
चलत्तरलतृष्णेन
चलत्येकेन पादेन
चलन्ति येषां न
चानकः स्वानुमानेन
चानक धूम ०.
चातकस्य खलु
चापच्युतेव गुलिका
चामरे श्रीकरं दिव्यं
1750
1821
2051
4555 चारुनूपुररणस्कृतं
चारोष्टादशवर्णा ●
चिकित्सा कथ्यते तेषां
1493
2095
4355
चित्तमित्यं प्र०
3758
2044
2023
4263
4264
1860
4295
1748
3075
3029
4024
2441
1972
1634
चिह्नं दर्दुर आदी.
2326
1654
चिह्नध्वजच्छत्र...
चिपचारुपे
चीत्कारैः सर्वतोपि
3739
3256
चुग्वनेषु परि
Q
2843
चुम्वन्नी गण्डभिनी०
1013 तुलकर्जलपानेन
चित्रं न तद्यदय ०.
चित्रोत्कीर्णादपि
चित्रोत्तर विष्णव
चिदानन्दमये..
चिन्तनीया हि
चिन्तां मुञ्च
चिन्तिताभ्यधिकं.
चिन्वंथौरचिकीर्पिता •
चिबुकं हृदि वि०..
चिबुके यस्य लोमानि
चिरविरहिणो रत्यु०.
चिलि शूलि रवैौ.
चित्रीति रवो मारुतः
3008
3092
28
2416
1092
2534
4306
2845
1685
1809
57.
3290
4157
1463
1571
770
857
854
2712
1413
3689
1987
2860
4521
1145
3494
2858
4345
1440
954
2535
3608
4409
1476
3682
2683
2684
2212
2664
2177
1570
3676
3945
2876</p>
<pb n="738" />
<p>बुल्लीसीमांन गोरसां.
चूतश्रेणी परिमल
चूर्ण कुष्ठमुरा०
चूर्ण तक्रभवं
चूर्णकृत्य पलानि
चूणीकृत्य खलि०
चूर्णांकृतेषुङ्गाया.
चूर्ण दत्तं वृशकृत्
चूर्णिनेष्ट ड्रो०
चेतः कर्षन्ति सप्त०
चेतयन्निखिलं
चेतश्चञ्चलया..
चेतोहरा युवतयः.
चेलाञ्चलेन चल०
चौरस्यान्यस्य वा पुंसः
चौर्यावस्कन्दाहृत०
च्युता दन्नाः
च्युतामिन्दोर्लेखां
छागशुभाशुभ ०
छागदुग्न संविष्य
छागी हरि
छायां प्रकुर्वन्ति
छाया फलानि
छायावन्तो गत ०
छायाशुष्का रक्ति ०
छायासुप्तमृगः
छायासु लाभं भुवि
छित्त्वा पाश०.
छिद्रान्वेषणतत्वरः
छिन्धि पक्षानमीमां
छिन्नवस्त्रं तु
छिन्नेपि शस्त्र
छिन्त्से ब्रह्मशिरो०
छुच्छुन्दरीश्री ०
छेदं केदं तथा...
ज
जङ्गे तदीये संतापं
जडास्तपोभिः राम ०
जनयिदा फल०
जनानां रञ्जनं
जनो दुर्वज्योंग
लोकानुक्रमणिका
3941
3813
3253
2920
2818
2874
3126
3041
2254
2839
3200
3211 जम्बूभिः स्थलभाषा:
3910
जम्बूवृक्षस्य प्रा०
4323
4216
4130
3912
2744
2782
423
96
1123
1021
978
2911
जन्तोः प्रवर्तते
जन्मस्थानं न खलु
जन्मस्थे च तृतीये
जन्मेन्दोरमले
जन्मैव व्यर्थतां
जम्बूचम्पक ●
3358
4175
2270
1837
3618
जम्बू त्रिवृता
जम्बूपनसचूतानां
जम्भारातीभकुम्भी •
जम्मारिरेव जानाति
जयति शार्ङ्गधर •
जयत्यविरता..
जयन्तः शेखरो
जयन्तश्च तथो •
जयन्ति ते..
जयप्रियः कलापश्च
जयाय यक्षः कृत ०
जये धरित्र्याः
जरायुजं मृतं
जर्जर नृणा
5
जलधर जलभर ०
जलनिबिडितवस्त्र ०
जलं पिबन्नाञ्जलिना
जलरहिते यदि
जलवसुवातत्त्व०
जल्पन्ति सार्वमन्येन
972
2489 जवो हि सप्तेः
9-40
3619
1600 जातिर्यातु
3151
जानिस्तस्य न..
3989 जातीफलं च कस्तूरी
जाङ्गलानूप ●
जातः कूर्मः स..
1161 जाते प्रवेशे भवति
1891
जाने वाश्वयुजे
4496
जाने विभूमे
जानन्ति पशवो
जानन्नपि नरो
जाने कोपपरा०
जाग्रतः कमलालक्ष्मी
जाग्रत्स्वभावुभावती
जिनेद्रा नासया
जितरोप०.</p>
<p>4240
1202
1724
3981
4149
2127
2219
2135
2315
2178
137
1169
17
4233
1978
2032
166
1997
2393
3085
3245
896
769
3850
622
2198
2808
1497
1556
2115
4154
352
893
3250
2598
1879
4557
1448
1321
3454
3361
4404
2924
216</p>
<pb n="739" />
<p>जित जितां शनै०
जितेन्दुपद्मलावण्यं
जिते लक्ष्मीर्मृते
जिहागाछेदनं
जीयासुः शकुलाकृते •
जीर्णोपि कम०
जावं हृदाश्रयं
जीव: शिवः शिवो
जीवाने जीवति नाथे
जीवत्वाञ्चित्त ०.
जीवन्नेव मृतो ०
जीवन्तोपि मृताः पञ्च
जीवन्मुक्त: सदेहोहं
जीवाभावो विनि०.
जीवामीति वियोगिनी
जृम्भणवमन
जृम्भ कृत्वा नभः
जृम्भां प्रकुर्वेन्
जै मनिश्च सुमन्तु ०
ज्ञातं ज्ञातिजनैः...
ज्ञात्वा कालं च
ज्ञात्वा तु गर्भ
ज्ञावानङ्गस्थिति
ज्ञेयं लक्षं पदातीनां
ज्येष्ठं पितृसृ०
ज्येष्ठ: शार्ङ्गधर ०
ज्येष्ठो भ्राता पितृ
ज्योतिः स्थानानि च
ज्वरदोषे समुत्पन्ने
त
तं सारमेयं पुरुषो
तक योगाद्यथा
तक्रवसा तृण●
तटस्थमुद्धृतं
तटाकान्योक्तय●
तण्डुली गडूची
तण्डूलीयकमूलानि
तत आत्मभुवः.
तत आनीय शुनके
तत आयुःक्षये
ततः किंचित्कृतं
ततः कुमुदनाथेन
शार्ङ्गधरपद्धतिः
4469
3326
1941
4031
81
910
4605
4504
3755
4238
3967
1375
4598
4405
3442
2361
2431
1488
4303
2853
2335
4501
2583
783
29
तत: कोकवधू०
तत: परममाकाशं
नतः प्रभाते नव०.
ततः प्रसादितैस्तैस्तु
2872
2842
4282
2344
4330
1875
3624
ततश्चतुर्मुखस्य
ततश्चनर्विधे
ततस्तापिटरी०
ततस्तु साधये ●
।तत्स्त्रिभुवने योगी
। ततो गर्भस्थितः
ततो जपेच प्रणवं
तो दावानलान्योक्ति:
ततो द्विखण्ड●
2375
3023
ततोपि ह्यङ्गुलं
3616 ततोप्यनुक्रमो ज्ञेयो
ततो वाणेन
4601
2997
ततो ब्रह्मा द्विवा
3194
ततो यमाज्ञया
1913
725
G
नतोधिकतराभ्यासाद्भवतः
ततोधिकतराभ्यासाद्धूमि०
ततो न जायते
ततो नरो निजं
ततोनिच्छस्य..
ततोर्जुनस्य नामानि
ततो लक्ष्यमना ०...
ततो विवेककथन ०
ततो वीररसोक्तिः
ततो व्यतीते
ततोस्य छढ़िरेकी.
तत्कर्म यन्न बन्याय ०
तत्कालनिहतस्यो ०
तत्कालहतगो०
तत्कृतं यन्त्र केनापि
तत्तद्रदन्यपि
तत्तेजरतर नि०
तत्र गोरक्षस०
तत्र पद्मासनं
तत्रात्मानं शरं
तत्रापि निन्तनीयं
तत्त्ववलान्नाडी०
तथा न पूर्व कृत ०
तथा सामान्यवृक्षोक्ति ०
तथास्य तुल्यसंस्थानी
तथैवाप्सु रसं
3733
4597
2337
1601
4280
53
3052
1881
4612
4326
4476
30
1968
4386
4388
4195
2346
4273
1633
14
1876
4279
4334
1908
4608
52
49
4610
2863
4346
2285
1764
1249
3536
1036
4373
4377
4595
2810
2816
3842
27
1578
4533</p>
<pb n="740" />
<p>तथैव शकुन ०
तदन्वयोद्भवाः.
तदपकृतं
तदर्ष मध्यमं
तदा तदङ्गस्य विभर्ति
तदात्वस्नातानां
तदूर्ध्वमधिरूढा
तदेतन्नारदादिभ्यो
तदेव वह्निकुण्डं
तदेवाजिद्माक्षं..
त यदि मुद्रिता
तद्वाभिमुखं मुखं
तद्वात्रिंशत्सहस्रैस्तु
तनुत्वकर्णपादो
तनुभूस्मृग्वालधयो.
तन्नास्ति कारयनि
तन्नितम्वस्य निन्दति .
तन्मूलं गुरु ०
तन्मूलशूलं
तन्वयाः स्तनयुग्मेन
तन्वङ्ग या गुरुसं०
तन्वी पचावली
तन्वी मुज्झितभूषण
तपः परामर्श
तप्ता मही विरहिणा
तप्ते महाविरह०
तमः स्तोमः पूर्वे
तमसि वराक०
तमसोन्ते परं
तया सार्धं ततो
तरंगय दृशोङ्गने.
तरवः किं न जीवन्ति
तरुणतरणितेज:0
तरुणीवर्णनं
तरुण्यालिङ्गितः
तरु मूलादिषु
तरु विटपलता ●
तरी तीरोद्भते..
तर्जनी मध्येमा
तं वंदे पद्म०
तवाङ्गणे सुन्दर
तवैतद्वाचि....
तवैष विद्रुमच्छायो
तस्मात्तु साधनं
श्लोकानुक्रमणिका
33
2886
250
4680
3379
3834
3136
1947
4352
3538
3373
2273
3340
3408
4635
1272
तस्मात्परशुरामेण
तस्मात्मजागरः
तस्मादसिद्ध●
तस्मात्सभ्यः
तस्मिन्युद्धे क्षणेनैव
तस्य भागे तथैव..
3535 तस्याः शलाकाञ्जन ०
4261 तस्याङ्गिद्वितयं...
तस्याभवत्सभ्य०
1587
2834
3694
3352
320
37
520
221
2166
803
1799
85
तस्मायुक्तः सदा
तस्माद्राज्ञां हि
1265
842
3310
4443
तस्माद्विदित्वा
तस्माद्वेगयुतं
तस्मान्महीपती ना०
तस्या महाविरह०
तस्याः पद्मपलाशाक्ष्या ०.
तस्याः पादनख ०
तस्या मुखस्याति ०
तस्यैव पश्चिमायां
तस्यैवाभ्युदयो...
4069
3824 तान्सर्वानेकतः
3455
3521
4047
4305
4607
3659
1479
3839
तस्योर्ध्वं योगि०
ताटङ्कमस्यास्तरले ०
ताडितोपि..
तातः क्षीर निधिः
ताप एवं यथा..
तापापहे सहृदये
तापो नापगतः
तो भक्षयित्वा
। ताम्बूलं मुखरोग•
तारतारतरै ●
तार श्चाप्यमर ०
तारा यान्ती सोमनाड्यां.
तारास्ताः सर्प •
तारिकां सैन्धवं
तालीतरोरनुपकारि
तालीदलं काञ्चन०
ताले पादस्थिता
ताले पादस्थिते
तावत्कवि०
तावत्सप्तसमुद्र ०
तावद्गर्जन्ति वीर्यात् ०
तावद्भयस्य
तावद्भमन्ति सं०.</p>
<p>1746
4227
4565
4450
2114
4537
1680
4050
1346
4019
4592
3:96
3180
3479
3355
3362
3320
2187
739
4304
3308
1327
1117
2253
4243
1168
923
3217
1416
544
2004
2725
2898
3051
1025
3307
2071
2072
187
1097
1574
1306
4344</p>
<pb n="741" />
<p>तिरोहितान्तानि नितान्त
तिर्यविचङ्कमधो०
तिर्यग्यस्य भवेत्
तिलकास्त्रातक०
तिलखलिविडङ्ग ०
0
तिलयष्टिमधुक
तिलान्वितमहा •
तिष्ठतां प्रचलतां
तिस्रः कोठ्योर्ध●
तीक्ष्णं रविस्तपति.
तीरातीर मुपैति
तीव्रे तपास लीना
तीव्रो निदाघ ०
तुण्डेन पुच्छं वि०
तुम्बीवीजयव..
तुलनं धनु०
तुलामारुह्य रविणा
तुल्यं भूभृति
तुल्यवर्णच्छद:
तुल्यार्थ तुल्यसामर्थ्य.
तुल्येपराधे
तूलिको च्छीर्षके
तृणादपि लघु०
तृणानि भूमिरुदकं
तृतीयं नाभिचक्रं..
तृतीया पञ्चमी
तृतीया पूर्णकण्ठी..
तृषं वरायाः शमय ०
तृषार्तै: सारङ्गैः
तृषाक्षुष्यत्यास्ये
तृष्णे त्वमपि
तृष्णे देवि नमस्तुभ्यं धैर्य
तृष्णे देवि नमस्तुभ्यं या
ते कौपीनधनाः
ते क्षत्रियाः कुण्डलिनो
तेजस्विनि क्षमासारे
तेजस्विनि क्षमोपेते
तेजः परं तिमतां
तेजांसि यस्य
तेजोवाय्वम्बुदगणे •
तेजोहीने मही。
ते वन्यास्ते
तेन सृष्टं स्व०
तेनेश बहतो.
शार्ङ्गधरपद्धतिः
3843 । नेनैकस्मिन्नेव
तेभ्यश्च प्रच्युतं
4667
4666
ते वनस्पतयः
2199
तेषां मध्ये यस्तु
2282 ते सब्जनाः सुकवि ०
2239
ते सर्वे ज्ञाननिरताः
तेजसादेव
तौर्यत्रिनयचातुर्य
व्यक्तसङ्गो जित ०.
त्यजत मानमलं
त्यजति भयमकृत ०
त्यज दुर्जन
त्यज निजगुणाभि
। त्यजेत्स्वामिनमत्युग्रं
त्यजेदेकं कुलस्य
3061
2618
608
3907
3597
1516
975
2671
3238
1830
1219
1204
883
1367
287
2432
400
642
4354
1725
1693
1088
1205
4148
त्यागभोगवि०
त्रयोग्नयस्त्र ०
284
1599
289
165
4278
2092
त्रयो यस्य ललाटस्था
त्रयोविंशतिवर्णा
त्रासिता पक्षिणान्येन
2
त्रिनयनचूडा
त्रिनयनजटावल्ली
त्रिपर्व पञ्चपर्व
त्रिफला नाग०
त्रिफलां भावयित्वे •
त्रिफलायास्तु
त्रिभिवषैः
त्रिविधमिह भवति.
त्रिविधाः पुरुषा राजन्
त्रिवृन्निशा०
त्रिशतैर्मध्यम ०
424
420
त्रुठयते वा गुणो
4:26 त्रैलोक्यत्राणशीण्ड:
1224
3979
288
1399
4486
त्वक्सचाभ्यां जाती ०.
लग्रंथितः श्रद्धैः.
त्वं तावद्वहुवल्लभो
त्वद्रूपामृतपान
त्वद्रक्लं नेत्रपद्म०
रणवीर
त्वमेव चातका ०
त्वयि वर्षति
त्वं राजा वग०
त्वरितं यानि त्वरितं
वरितः शिष्यको.
2726
687
2125
9
4281
4235
1954
4471
3795
1545
734
1104
1370
1462
385
174
1651
1992
2732
3630
1749
3068
3035
3055
700
2322
1366
2918
1822
1827
4084
3252
1230
3571
3501
3363
1278
782
781
204
2693
1958</p>
<pb n="742" />
<p>वो चित्तेन सदा
O
त्वां चिन्तापरि
त्वामालिख्य प्रणय
व्यङ्गुलायां दशा ०
त्र्यहं गृहद्वारि
द
देशकाहि दशे०
दंशाच याति
दंशे स्थित्वा द्वि०
दंष्ट संकटवक्ल ●
दक्षिणं चेष्टितं..
दक्षिणगः प्रथमं
दक्षिणतः प्रथमं
दक्षिणदेशे शब्द
दक्षिण नाडी पूर्ण
दक्षिणकटेन
दक्षिणमङ्गं पुंसः
दक्षिणाशा प्रवृत्त०
दक्षिणाङ्गं यदा..
दक्षिणे कलहः
दक्षिणेनाङ्क्षिणा कर्णे
दक्षिणे निजपक्षन्नो
दक्षिणोरूतले
दग्धा सा बकुला.
दग्वेन दह्यते
दग्वो विधिविधत्ते.
दत्तात्रेयादिभिः
दवा दिशि दिशि
ददतो युध्यमानस्य
दधिदूर्वाक्षत●
दधि मधु नव०
दधिमस्तु काचिक
दन्ताः सप्त चलं
दन्ताग्रनिर्भिन्न •
दन्तोद्भेदं प्रवक्ष्यामि
दंपत्योर्निशि
दग्भारम्भोद्धुरं
दयितावाहुपाशस्य
दयितस्य कथा ०
दरिद्रनिन्दा विज्ञेया ०
दरिद्रस्य परा०
दर्दुरक्रममास्थाय
दर्पणार्पित मालोक्य
लोकानुक्रमणिका
3550
दर्पणेषु परिभोग०
दर्पान्धगन्धगज •
3487
3503
दवींकरस्य दंशः
1707 दवकरास्तु
2463 दर्शनचेष्टावर •
2902
2892
2891
4066
2360
2634
2643
2658
2724
2358
2542
397
2414
1739
2407
2626
4436
832
1754
3265
4364
4037
474
2563
2931
2234
964
87
1698
3743
1510
3330
3179
19
309
1844
117
दर्शितानि कलत्राणि
दलं मलयजं मांसी
दशकूपसमा वापी
दशभिर्मणि
दशमद्वारमार्गेण
•
दशविंशनि ०
दशसप्तचतईत्यः
दशाङ्गुलमिताः
दशाङ्गोयं महाधूपो
दशाएपञ्च
दष्टकर अष्टकर
दह्यमानाः सुती ०
दयमानेपि हृदये
दाडिमं तु द्विजे
दातव्यं भोक्तव्यं
दाता नीचोपि..
दाता बलि: प्रार्थयिता
दाता सत्यवचाः
दात्यूहाः सरसं
दानं सवाश्रितं दद्याच
दानं भोगो
दानाय लक्ष्मी:
दानार्थिनो...
दाने तपास शौर्ये.
दामोदरकराघात
दामोदरमुदर ०
दाराः परिभव
दारिद्र्यानल ●
दासे कृतागसि..
दासेरकस्य
दासेरको रसत्येष.</p>
<p>3744
1237
2889
2888
2688
1471
3255
2086
4300
-1596
2146
2828
1773
3258
2884
2943
375
3402
3146
469
281
448
3110
850
1508
390
463
929
1477
498
1162
4140
406
3657
1027
959
2678
2364
2454
दिक्कालस्वरचेष्टा
दिवचेष्टितस्थान ●
दिक्ष्वारटन्ती...
2395
दिक्स्थानचेष्टा०प्रदीप्तो
दिक्स्थानचेष्टा प्रशान्तैः प्रश्नेषु.
2401
दिवस्थानचेष्टा० प्रशान्तैर्यथोत्तरं. 2388
दिनकराभिमुखो.
दिनमवसितं
2416
1146</p>
<pb n="743" />
<p>दिनानि त्रीणि वा.
दिनैः पञ्चदशे:
दिवा निरीक्ष्य कर्तव्यं
दिवि देवा भुवि
दिव्यचक्षुरहं जातः
दिव्योषधीनां लेपं.
दिशां हाराकाराः
दिशि ज्वलन्त्यां
दिशि दिशि मृगयन्ते
दिश्याद्वः शकुलाकृतिः
दीनक्षपणोन्मत्त..
दीनेषु दाता ●
दोनोन्नतचल●
दीपादिगन्धं नो
दीपोत्सर्व देव०
दीपोपशमनं पुंसां
दीप्तदिगाश्रय
दीप्ते कार्ये नाडी
दीप्ते तु ध्वनिता
दीप्तोद्विग्रो विटपे
दीप्तक्षुद्वेगयोगा ●
दीर्घः सुमधुरः
दीर्घजिहाविषाणश्च
दीर्घपादः पथि
दीर्घा तु तर्जनी
दीर्घास्यदन्त
दुःखेन श्लिष्यते
दुःसहतापभयादिव
दुग्धसेकं च
दुग्धस्थाल्युपरि
दुर्गे बहुविधं ज्ञेयं
दुर्गाणि राज्ञा कार्याणि
दुर्गा नदी शिथिल
दुर्जनः परि०.
दुर्तनहुताश०.
दुर्जनदूषित ●
दुर्दिवसे घनतिमिरे
दुर्दैवप्रभवप्र०
दुर्निवारतरा चैव.
दुर्मन्त्रानृपति ०
दुर्योधनः समर्थोपि
दुर्वाराः स्मरमार्गणाः
दुश्चरितैरेव
दुष्टाविनीतशत्रूणां
शार्ङ्गधरपद्धतिः
2453 । दुष्टैरपि निजैरेव
4259
1443
4343
3450
1902
3870
2446
दूरं सुन्दारे निर्गतासि
3720 दूरस्थोपि वली शत्रु०
123 दूरादुज्झति चम्पकं
2574 दूरादेव कृती जलि०
दृक्पात: कमलासने०
3116
853
4586
2540
दुष्प्रापमम्वु
दूतिकाप्रेषणं
दूति त्वं तरुणी युवा
दूर्वा घृतं यवा ०
दूवी ङ्कर नृणा
दूर्वी सतिक्ता
651
दृग्भङ्गभङ्गिमशते •
दृढकायो ●
दृढतरगलक •
दृढमण्डुकिका कृष्णा..
वृंदासनीश्वतत्त्वज्ञः
दृष्य दैत्य कुटुम्विनी•
दृशा किंचित्किचि०.
2363
2801
2502
2486
दृशा दग्धं मनसिजं
4065
दृशा सपदि मीलितं.
4681
1588
2624
दृश्यं दृशां सहस्रे •
दृश्यते पानगोष्ठीषु
दृष्टः कातरनेत्रया
दृष्टः शव: प्रवासे..
1798
3103
1474
2251
दृष्टः श्रुतो वा भू०
दृष्टमात्रेषु भावेषु
3835 दृष्ट मौलो सुत्र०
दृष्टादृष्टिमो ददाति
दृष्टि में प्रतिवेशिनि
दृष्टे चन्द्रमसि
दृष्टे लोचनवन्मना ०.
2539
1362
1361
1186 दृष्ट्वामेतपिशाच ०
354
153
476
3767
1157
1931
1533
1357
3753
1175
1411
दृष्टवा शास्त्रसमूहान्
दृष्टुंकासनसंस्थिते
दृष्टव विकृतं
देवगन्धर्वयक्षाणां
देवतातिथिविप्राणां पूजनं
देवतातिथिविप्राणामदत्त्वा
देव त्वं जय यस्य..
देव त्वद्यशसि..
देवत्वममरेश ०
देवे त्वद्विजयप्रयाण ०
देवदानवगन्धर्वाः
....
1439
957
39
3439
1711
937
2975
3390
1609
833
3859
75
3777
3032
1197
1627
1684
125
3764
3078
3684
3273
3647
3386
2573
2570
4217
2929
3672
3769
3480
3581
4570
2319
3575
4145
3109
1417
724
1223
1226
4520
1245
2107</p>
<pb n="744" />
<p>47
देवदालीदलो●
देवब्रह्मस्व •
देवमार्गे ध्रुवं
देवा दिक्पतयः
देवाधिकारिणो
देवानामसुराणां
देवान्वितन्मनुष्याच
देवालयं चत्वरं
देवीं चतुर्थयामे
देवी मप्सरसो
देवो हरिर्व०
देशाद्देशं गते.
देशी रागेषु
देशैरन्तरिता शतेश्च.
देशोदयाय प्रतिम०
देहार्पणे रक्त०
देहि देहीति
देहीति वक्त
दैत्या नामधिपे
देन्यं क्वचित्कचन
'देवं पुरुषकारेण
'देवाद्यद्यपि तुल्यो..
दोभ्य संयमितः
दोलायां जघन
दोषैर्यस्य विना
दौर्जन्यमात्मनि
द्यामारोहति वाञ्छति
द्रवत्वात्सर्व०
द्रविणस्पृहा
द्राक्षावल्लीसमाकारः
द्राधीयसा
द्रुततर मितो●
द्रुतद्वन्द्वं गुरु ०
द्रुतद्वयं० ताले.
द्रुतद्वयं• लघुनै •
द्रुतमेकं भवे० तालोयं
द्रुतमेकं भवे ० स ताल:
द्रुतस्तु न भवेन्मूल ●
द्वयमिदमत्यन्त •
द्वात्रिंशद्दशन ०
द्वादशाक्षरपादो..
द्वादशैव सहस्राणि
द्वारं गृहस्य
द्वार प्रदेश जघनं
श्लोकानुक्रमणिका
2078 द्वारा देशेषु
द्वाविंशदङ्गुले
द्वाविमावम्भसि०
1313
4567
108
604
4541
638
621
3132
3091
740
4250
1955
3445
2554
3150
269
392
84
द्वाविमौ पुरुषी लोके न भूतो
द्वाविमौ पुरुषी लोके पर ०
द्वातिमी पुरुष लोके शिरः०,
द्वाविमा पुरुष लोके
द्वाविमो पुरुषी लोके सूर्य
द्वाविमी पुरुषी लोके वर्ग ०
द्वासप्ततिसह ●
द्वि: शरं नामि०
द्विगुणोत्तरा
द्विघ्नद्वादशवर्णा
द्विजा अपि न...
।द्वितीयो हठयोगश्च.
द्वित्रिचतुःशावत्वं
द्विधा विधाय शीतांशुं
द्विधा हठ: स्यात् .
।द्विपदशन: ०
द्विषष्टि च सहस्राणि
द्वीपादन्यस्मादपि.
4107
459
74.9
द्वी हस्तौ मुष्टि •
3686 द्वचङ्गुलोन्मानमाकाशं
3278
2264
1031
1094
धत्तरमूलिका.
धत्ते पडूजिनीतले
धनप्रशंसा विज्ञेया
322
4179
धनं मित्रं प्रियं
2306
धममस्तीस्ति वाणिज्यं
193
धर्मवृद्धिरम्ल ●
941
धनुः संगति
2012
2019
2018
धनुः प्रमाणो निःसंधिः
धनुश्चक्रं च कुन्तं ...
धनेषु जीवित●
धन्याः सूक्ष्मफल
धन्यानां गिरिकन्दरे
2029
2008
2075 धन्यासि या कथयसि
3909
1199
1981
1918
3940
भरित्री धारयेत्
2409 धरोड़वं तु शकुनं
ध
धन्यास्ताः सखि
धन्वी तु चलते
धम्मिलं बद्ध०
धमिलो भङ्गमेतु</p>
<p>2510
1632
1551
1550
1546
1549
सुखिनौ... 1547
1933
1548
4307
280
4449
1993
1385
54
2500
3315
4372
3001
1921
441
1770
2805
2993
3837
18
2451
1446
2543
1928
1762
1721
425
1047
4155
3746
3748
1810
3174
3685
4532
2784</p>
<pb n="745" />
<p>धर्मः प्रागेव चिन्त्यः.
धर्मशास्त्रार्थ ०
धर्मस्य विवृति०
धर्माज्जन्म कुले
धर्मे मतिर्भवतु वः
बवलान्यातपत्राणि
वाटीभयं स ऐशाने
धातुवादेषु वित्ताशा
धातोर्धात्वन्तर •
धात्रीफलरसे०
धान्ये पयो वा
धान्यस्य राशी
धान्याकनागर ०
धाम्नः कुमारिका.
धारा वातं धुनानाः,
धारा शुभ्रा भवेत्
धार्मिक पालन
धावन्तः प्रतिवासरं
धाविला सुसमाहितेन
धिक्चेष्टितानि</p>
<p>धिक्तस्य मन्दमनसः
धिक्लां से कलि०
विग्वारिदं..
धीरोनुरक्तो हस्तिन्यां
धूप: सर्जर सो०
धूपो घृतस्य
धूलीभूसर ०
धृतधनुषि शौर्य ०
ध्यानव्याजमुपेत्य
ध्यानेन जल •
ध्रुवं जयोस्तीति
ध्रुवमृदु मूल ●
ध्रुवावर्ता दश प्रोक्ता.
ध्वस्तः काव्योरु मेरुः
ध्वस्तिः प्राप्तिस्तथा
न कश्चिञ्चण्डकोपानां
• न कश्चिदपि जानाति
न कालः खड्ग ०
न कालस्य न शकस्य
न किंचित्केनचित्
न कुर्यात्परदारेच्छा.
न कुर्यादाभिचारो</p>
<p>शार्ङ्गधरपद्धतिः
1405
1343
22
680
678
1383
2515
1539
2893
3012
2473
2527
4033
2840
3881
4636
1282
4109
4159
996
3323
194
865
1586
3016
2247
575
3965
131
2930
2387
2139
1649
3999
4451
1376
647
1320
3988
4241
1506
1526
न कुर्युयोग्य
न कुलानामपि
न केवलं मनुष्येषु
न कोकिलाना ०
न क्रोधयातुधानस्य .
नखगुरु सिल्हक●
नखदन्तविकारी
न खनति खुरैः
न गजानां सहस्रेण
न गजैर्न नरैः
न गणराग्रतो
न गृह्णाति
नम्नं क्षपणकं
न च गन्धवहेन
न च स्वर्गे न
न चात्र परिहारो०
न जाङ्गला न
न जाने संमुखा •
नटनारायणः
न ताक
न तच्छस्लेर्न..</p>
<p>न तज्जलं यन्त्र
न तदस्ति जगत् ०
न तद्भुक्तं न
न तु हन्यान्मही ०
नतोषणं निशा
नद्रीज लङ्कश०
नदीतटे वाथ रटन्
न दैवमिति संचिन्त्य
नद्या यद्यपरिभ्रष्टुं
नद्यो नीचरता
न द्विषन्ति न.
नध्यातं पदं
न ध्वानं कुरुषे
ननु संदिरोति
नन्दद्वयेन्दुवर्णा
नन्दनरेन्द्र
•
नन्दन्ति मन्दाः श्रिय०
नन्दयति कस्य
न परालेपं
न पाणिग्रच्छाद्यं
नपुंसकमिति
न पुत्रः पितरं.
न पुत्रत्वेन पूज्यन्ते
2113
2754
444
892
1518
3260
2974
970
1363
1610
1464
926
4582
1010
1758
3044
2120
3522
2055
1016
1356
3904
4199
475
1349
2909
531
2670
454
615
814
1423
4152
967
3140
1988
381
4124
3866
83
3943
3451
1484
1486</p>
<pb n="746" />
<p>2
न पुत्रायत्तमैश्वर्य
न प्रारब्धं सिध्यति
नभो जिघ्रन्ति ये...
न महाव्यसनैः क्षीवः.
न मया गोरस०
नमस्तुङ्गशिर झुम्बि
नमस्यामो देवा..
न मातार न दारेषु
नमामि माम०
न मुग्धदयिता०
न मे दुःखं
नमो भगवते
नमो भगवासाय
न यत्र गुणवत्.
नयननिपाते ●
नयननीरज किं
नयनपथनिरो०
नयनमसि जना०
नयनविकरिरन्यं.
नरकेभ्यः समु०
न रथा न गजा
नरपतिहित ●
नरमांसवसारक्त ०
नरस्यात्यन्तिके कार्ये.
न रागाणां
नराणामिव वृक्षाणां
नलिनं मलिनं वि०
नलिनीदल ●
न लोकायतवादेन.
नवं वयो हारि
नवद्वारं महा०
नवनीलमेघ ०
नवमं ब्रह्मचक्रं
न वित्तं दर्शयन्
न विना परवा
न विवेकं विना
न विश्वसेदमित्रस्य
न विषममृतं
न विष्किन्ति ये.
नवोक्तिजाति ●
न शार्ङ्गवरपद्धतिः
न शिवाय शिवा
न शीते नाति ०
न शृणोति यदा
श्लोकानुक्रमणिका
1524
2776
1704
1507
540
60
436
1472
543
183
न श्वेतांशुवदन्ध
न संपत्तिक्रिया •
न सा विद्या
1194
3555
3336
न सा सभा
न सोस्त्यतिशयो
O...
न सौख्यसौ ०.
न स्त्रीजितः प्रमूढः
न स्थातव्यं
न स्नानमाचरेद्भुक्त्वा
नष्टान्वेषे गच्छत
न हया न च..
3456
2347 नहीदृशं संवननं
3190
नाकारं न निरा०
नागकेसरपुष्प ०
नागकेसरपुष्पा
नागच्छति प्रिय
नागपचाणि
नागविशेषे
594
755
3765
715
1907
1353
2304
2594
2060 नात्यर्थमर्था ०
2256
3301
557
1521 नाभि यावद्भवे०
।नाभिस्थाने ततो
नाभिस्थोग्निः कपाल०
2083
4229
नाभिहत्कण्ठ ०
नागानां जज्ञिरे
नागेन रुक्मं
नाग्निं मुखेनोपधमेल् .
नाग्निस्तृप्यति काष्ठानां
नाडिका वहति तापनी
नातः परं कुल ०</p>
<p>नावन्यानां निवासं
नाध्यातः क्षुधितः
नानावर्णैर्घटतं
73
4360 नाभूवन्भुवि
339
नाभैरवो गुद
नाभेरूर्ध्वमध०
346
1965
नाभौ पुत्रफलं दत्ते
1301 । नाभी ब्रह्मा हृदि
377
1705
152
10
नाभ्यस्ता भुवि..
नाभ्यूर्ध्वमण्डले
नायातः सखि निर्दयो
नायाते प्रहरार्ध ०.
नायिकावचनं
नालसाः प्राप्नुवन्त्य
2445
4429
4490 नालस्यप्रसरो.</p>
<p>1111
3046
337
1344
4204
300
1511
324
614
2764
3080
1470
4272
4627
3239
3185
3064
545
2885
3049
620
1498
2721
3752
433
1073
4428
2296
2803
4394
4412
3189
924
4393
4415
2533
4302
4151
4395
3617
3186
38
1432
1137</p>
<pb n="747" />
<p>नालिङ्गन्ति कुत्र०
नालीका लघवो
नालेनेव स्थित्वा
नापीयसि
नावज्ञानादवैदग्ध्या ०
नाशयति घोणसीय ●
नासाभ्रूमध्यदेशे
नासिका वक्रत
नारित यज्ञः स्त्रियाः
नास्य भार ग्रहे.
नाम्योच्छ्रायवती
नास्त्यन्या तृष्णया.
नाहं मांस न चा०
नाहं रक्षोन भूतो.
नि:शेषच्युत-
नि:श्वासा वदनं
नि:श्वासोच्छ्रासयुक्तो
नि:सरत्युदरतो
निःसारस्य पदार्थस्य
नि:सृतोहं करिष्यामि
नि:स्नेहो याति
निखिलेष्वपि या
निच्छल्लिदारितं
निज करनिकर •
निजबीजेन रतान्ते
निजा॑ांशुकावृतां
निज कायच्छायां
नित्यं च सान्त्वयेदेनं...
नित्यं ब्रह्म यथा
नित्यं वा सेव्यमाना ●
नित्य मामलके
नित्यमाचरतः
नित्यमास्यं शुचि..
निदाघशरदो●
निद्रादौ जागर •
निद्रार्धमीलित●
निभिदेवमहीपानां
निन्दन्तु नीति ०.
निन्द्यानि लोहगृङ्खल०
निपय युधि
निपाने गोचरस्थाने
निपीयमानस्तवका
निम्बकल्को भवेत्
निम्ब कि बहुनो●
....
.....
शार्ङ्गधरपद्धतिः
1243 । निम्वत्रयं समा०
निम्बपचवचा
1788
839
।निमित्तमु०
211
निमीलनाय पद्माना०
1077 नियोगिनः क्षत्रिय ०
2937 नियोगिभिविना
4396 निरङ्गं रौप्यपच०
4589
606
961
906
422
निरङ्गाः काञ्चिपाण्ठ्या
निरर्थकं जन्म
निरर्थकं जन्म
निरवद्यानि पद्यानि
निरुपद्रवनिष्पत्यै
निर्गच्छन्नेव
4210
4088 निर्गत्य तोयादधि ०
3508 निर्गुणेष्वपि
3543
4489
2720
481
4327
4100
3133
3006
752
3204
3734
3832
1593
1558
3138
627
4138
612
3137
4492
3468
2123
225
2582
1607
1589
3806
4657
1040
निर्गुण्ड्याः सह●
निर्दोष: शब्द०
निर्ममत्वं विरागाय
निर्याद: सलिला
निर्यान्त्या रतिवेश्मनः
निर्विकल्पे पदे....
निर्विशेषं यदा राजा
निर्विषोपि यथा
निर्वृत्ते सुरतोत्सव •
निर्वेदाय नृप ०
निर्व्याजा दयिते
निविशत्यर्धमार्गे
निवृत्ति: सुरत ०
निशधे लीनानां..
निष्कन्दामरविन्दिनीं
निष्कलङ्ककलये
निष्कारणं निशान्ते.
निष्कारणं यः प्र०
निष्कारणं संमिलिता
निष्पेषोत्यमहा०
निष्प्रत्यूहम नल्प ०.
नीचः समाश्रि०
नीचेषु यावनी......
नीचैरवरोहन्त •
नीचैर्यान्ती नीचं.
नीरं वर्तुलमुर्वी
नीरतार्थ तटस्थ •
नीरन्ध्रं परिरभ्यते
नीरसान्यपि
.....
2094
2969
360
743
2508
1332
4639
4623
568
762
146
2526
4332
2376
232
2987
1855
4421
2169
372
4480
1368
1297
3709
2525
3750
2625
45
3892
1214
464
1669
2426
2494
1055
124
356
559
2546
2700
2807
2417
3670
294</p>
<pb n="748" />
<p>●
नीरस्याषी भूमे
नीरागा मृगलाञ्छने.
नीलपिण्डसमाङ्गं
नीलीं हरिद्रां
नीलोत्पलदल ●
नीलोत्पलाभ०.
नीवारप्रसवा •
नीहाराकरसार ०.
नीहाराच्चण्ड●
नूनं दुग्धाब्धि
नूनं बादल छाइ
नूनमयं मे पापः
नूनमाज्ञाकर स्तस्याः
नृणां प्रयाणे भव
नृत्यच्चन्द्र किणि
नृपः कामासक्तो
नृपस्य तस्य
नृपाणां च नराणां
नृपातिरोषागमनं
नेत्ररोगाय यद्येको
नेन्द्रियाणि न
नेपथ्यादपि राजते
नेष्टो गृहोपविष्ट
नैतस्याः प्रसृति ०
नैताः स्वयमुप ०
नैर्ऋतकोणे
नैर्ऋत्यां दूता
नैवात्मनो विनाशं
नैषा वेगं मृदु
नो कामः प्रति ०.
नोत्तरस्यौ प्रतीच्यां
नोत्सङ्गे भक्षयेत्
नोदन्वानर्यितामेति
नो धर्माय यतो
नोपभोक्तुमपि .
नोपेक्षितव्यो
नो मन्ये दृढबन्धनात्
नो मल्लीमय ०
नो रमेत रतं
नो रविर्न च तमो
नोर्ध्वजानुश्चिरं
नौश्च दुर्जन
न्यमोधेन तु यवका०
न्यस्तं यथा मूर्ध्नि
श्लोकानुक्रमणिका
2806
3488
4626
2112
180
4122
918
772
2158
251
550
न्यस्तानि दन्तवलयानि
न्यासापहर्ता
2225
2476
374
3690
1233
1505
629
1433
4162
391
1304
934
820
3141
3590
624
362
2314
4115
प
पक्कवंशत्वचा
पक्कान्नमिव राजेन्द्र
पक्षावृत्क्षिप्य
पक्षे भक्ष्यग्रहणं
पक्ष्मालीपिङ्ग०
पङ्कज जलेषु .
पङ्जासनलयेन
3452
पङ्कानुषङ्गं पथि
2603
3298 पामध्ये तु
पञ्चत्वं तनुरेतु
पञ्च धाराः प्रवक्ष्यामि
3888
....
1390
4231
1287
2639 पञ्चमं कण्ठचक्रं.
2748
4255
3705 पञ्चविंशति
2549 पञ्चविंशाक्षरै ●
3942 पञ्चषष्टिसहस्राणि
788
पञ्चपादस्य तूद्राहे
पञ्चभिः सप्तभिर्दन्तै •
पञ्चभिलवणै ●</p>
<p>पञ्चमेहनि..
पञ्च यत्र न
...
पञ्चहस्त प्रमाणेन.
पञ्चाङ्गं कृष्णा
पञ्चाम्रा वीपये ०.
पञ्चेन्द्रियमनो
पटालने पत्यी नम०.
पठतो नास्ति मूर्खत्वं.
। पण्डिते हि गुणा:.
पततु तवोरसि.
पततो यस्य वै
0
पतन्ति खड्ग०
पताका वज्जमुष्टि..
पतितान्प्रति ०
पतिता मस्तके.
पतितोपि करा०
पतितोपि राहु
पत्युर्यत्पतिता ●
पचपुष्पफल ०.
पचमूलान्वितां
पचे मनुं. समालिख्य..
पचाणि कण्टकशतः.
....</p>
<p>3333
721
1765
1340
573
2710
99
1134
3142
3917
2159
3428
1692
1970
1658
1785
4356
314
1465
3131
1994
1914
1640
2910
2096
4333
3673
1424
201
3695
4583
343
1797
718
2537
486
480
935
977
3030
2163
1012</p>
<pb n="749" />
<p>पथि निपनितां..
पढं तदिह नास्ति.
पदद्वये यदा वर्ण०
पदशब्दलीन ●
पदस्थ: स्वरसंघात.
पदस्थितस्य
पच मुक्तास्तरल ०.
पद्ममसन
पद्मासनं प्रसिद्धं
पनसलकुच 9
पनसाम्रमभूका ०
पन्नगाः सन्ति बहुशो
पयास निषिक्तं
पयोधराकारभरो
परदारपरद्रव्य०...
परदारा न गन्तव्याः
परदाराभि●
परमाणोरापे
परमिममुप
परमो मरुत्स०
परलोकहितं
परस्पर गुणा १.
परस्परानु
परस्परेण क्षतयो:..
परस्य योनिँ गच्छन्तो
.....
परात्परतरं
परायें य: पीडा ०.
परिचुम्बति संश्लिष्य
परितोषयिता
परिपतति पयो •
परिभ्रमन्त्या भ्रमरी ०
परिमलसुरभि०
परिस्लानं पीन
परिशुद्धामपि
परिहरति वयो
परीक्ष्य सत्कुलं
परेषां केशदं
परोपकारशून्यस्य
पर्जन्य इव भूतानां
पर्यङ्क: स्वास्तरण:
पलायनमरीणां
पलाशबीज ●
पलाशशाखिनः
पलाशाः काञ्चनारा०
शार्ङ्गधरपद्धतिः
881
1044
1975
3497 पश्चिममूलं शान्तं.
1946
पश्चिममूले शान्ते.
487
। पश्चिमायां भवेत्
पश्यति जिघ्रति
3282
4431
1796
2121
2128
1480
2134
3927
667
653
723
4256
72
793
671
3121
1929
3977
2551
690
1052
3785
पादांशपच०
347 पादाङ्गुष्ठेन भूमि
3588
3914
990
3401
पछिकाया गृह०
पल्लीभुजेपसत्र्ये...
पवनाज्जायते
355
3275
405
1513
1478
1283
3766
31
2947
2098
2110
पश्यन्हतो मन्मथ ०.
पईयोदेति वियोगिनां.
पाटलया वनमध्ये..
पाटलादाडिमी 9
पाठापथ्यावचा०
पाठामूलं लिप्तं
पाठा मूलं वि०
पाठीन: कमठः कटि ०
पाणी ताम्रघटी
पाणी मा कुरु
पाणी पद्मविया
पातः पूष्णो भवति
घात
तालतः किमु
पातालादूर्ध्वगमः
पातालान्न वि०
पातुं त्रीणि जगन्ति
पातुं यस्य च दद्यात्..
पात्रमपात्री 9
पादन्यासं क्षिति ०
पादा : पञ्चन खा ●
पादाहृतं यदु १
पादाहतोपि
पाढे पादे पञ्च
पादे मूर्धनि
पादे सर्वगुरा०
पादी सुविस्तरौ
पानमक्षास्तथा
पानीयं नालिकेरी ०
। पानीयं पातुमिच्छामि
पान्तु वो जलद...
पान्थजननी तथोमा
....
पान्थावार इति
पापिष्ठं दुर्भगा०
पायं पायं पिब.....
2538
2530
1945
2779
2790
2760
2357
3356
3626
1014
2129
2970
2965
2916
133
4026
3461
3803
745
927
4080
2175
257
4017
2869
370
760
3009
3463
2825
265
361
2826
3569
2066
1792
1389
3807
530
113
2677
983
599
1151</p>
<pb n="750" />
<p>पायात्पयोधि०
पार्वती तोषिता
पार्श्वस्फलिा...
पार्श्वभ्यां स०.
पाणि तु वाम०
तु
पाणि तु वाम
पाणिभ्यां लिङ्ग ०
पालने वालकष्टाय
पाश्चात्यभाग ०....
पाश्चात्यैर्मरु मारुतै ●
पाषाणखण्डेष्वपि
ङ्गला कुररः सर्पः
पिङ्गलाफेरुजम्बुक्यो
पिङ्गलाय धरानीर०
पिङ्गलायां यदा
पिङ्गलायामिडाय..
पिङ्गला वामनिनदा
पिङ्गलेडापर्यं
पिचुमन्दनागकुसुमै •
पिण्डं मज्जासु
पितृमातृ विनाशाय
विदधति तिमिरे
विधाय कर्णौ च
पिनाकफणिबालेन्दु ०.
पिपि प्रिय सस०
पिप्पलीमाष●●
पिप्पली सैन्धवं
पिबतस्ते शरा
पिबति प्रसूति ०
पिब पयः प्रसर
पिशुनात्तस्करा०
पिष्ट गृहीत च
पिष्टाः क्षीराबु..
पिष्टान्नमशुभं सर्व
पीठीप्रक्षालनेन
पीतं नीलं तथा
पीतं यत्र हिमं..
पीततुषारकिरणो
पीते च तिलकषाये
पीत्वा सुधाकर
पीना कटि: सुवृत्त ०
पीनोपयोधराः
पीयूषं वपुषोस्य
पीलूनां फलव ०
....
श्लोकानुक्रमणिका
2100
587
3505
4408
4487
134 पुंप्रकृत्योः कथ
पुंसः संबोधनं
पुंसी सुखैक ०.
पुंसो निजमनो●
पुस्कोकिलमधुरो०
पुजीभूतं प्रेम..
पुच्छे जानुनि कक्षाय
पुटदग्धपद्मिनी●
4433
2506
4022 पुण्यानी पूर्ण..
पुण्ये ग्रामे.
पुत्र मिचकलत्रेषु
3831
4099
4615
2550
पुनः कृत्वाद्भुतं..
पुनः पिङ्गलया
पुनःपुनर्दक्षिण ०
2814
2812
पुनः शर्करया.
2815
पुनः सृष्टि: पु०
2654 पुनर्नवाजा ०.
4319
पुरंदरहरिहरी०
पुरंदरसहस्राणि
2318
4293
पुरः स्थित्वा
2741 पुरमेकं जगति
पुरस्तादुच्छ्रतश्चापि
3601
4580
63
3651
पुराणबाणत्यागाय.
पुराभूदस्माकं.
पुरा शाकंभरी ०.
पुरा सपक्षा हरयो
पुरा स्वर्गे सुखे.
3216
1783
2995
538 पुरो नुन्नः
पुलकाङ्कित
पुष्पं प्रवालोपहितं..
1211
3021
पुष्पगन्धः सदा
2998
पुष्पवद्धार ये ०.
2269
पुष्पसाधारणे
पुष्पेषोर भिषेक ●
4028 पुषैरपि न योद्धव्यं
2575
4656
पुष्यार्के मूला
921 पुष्यास्पोटिते
3648 पुष्येपराजिता ●
3236
पूरणात्पूर कं
4606
पूरणय विभि०
1629 पूर्णग्रन्थि सुपक्कं
3939 पूर्णानना समृद्ध्यै
पूर्णे शतसहस्त्रे.
761
956 पूर्व गृहीत्वा व्यापारं</p>
<p>4182
552
2082
4207
3093
71
1664
3229
3946
254
4089
689
4459
2404
1874
4269
3045
3633
4163
3517
4228
1579
3304
3558
2
1598
1561
588
1670
3318
1613
1835
2048
3337.
1298
2982
1893
2983
4380
2074
1769
2547
3985
2743</p>
<pb n="751" />
<p>पूर्व चेटी ततो.
पूर्व दक्षिण
पूर्व दक्षिणशब्दा
पूर्व द्विरेफपरि०
पूर्व यत्र समं
पूर्व सारथिमारोप्य
पूर्वजन्मजनितं
पूर्वरूपकसंसिद्ध ०
पूर्वस्मिन्दिवसे_दृष्टा
पूर्वस्या करमर्द०
पूर्वाभ्यस्तो मनो
पूर्वाभ्यासस्य
पूर्वा वा परां
पूर्वेण यदि बद
पूर्वोत्तरेण पोलो..
पृच्छाशकुनं वच्मि
पृथक्चित समारुह्य
पृथिवी दह्यते
पृथुगगन कवन्ध ०.
पृथुजठर ललाट:
पृथुतरनितम्व
पृथिव्यां की चिकीची ति
पृथ्वी श्री मदनङ्ग ०
पृष्ठवन्धं स्थिरं
पृष्ठादागच्छन्ती
पृष्ठाभिमुखपृष्ठे
पृष्ठे च वामे...
पृष्ठे निमित्ते श्रवणे
पृष्ठेरो वां नव
पृष्टो ब्रूते न सम्पं.
पृष्ट्वाचार्य तु तलूजां
पोतकी पिङ्गला काको
पौनधुनिकं
पौरस्यैर्दाक्षिणान्यैः
पौरुषेयं तु यच्छाई
•प्रकीर्णकेशामनवेक्ष्य
प्रगल्भानामन्त०
प्रजो संरक्षति नृपः
प्रजा न रञ्जये ०
प्रजापीडन संतापा●
प्रज्ञागुप्तशरीरस्य.
प्रणम्य सर्वदेवेशं
प्रणयेन यमं
प्रणश्यति गुडं.
....
***
शार्ङ्गधरपद्धतिः
प्रणीतक्षाप्रणीत
प्रतिकूलतामुप
प्रतिक्षण समुद्र सत् ०
प्रतिगत मार्थ ०.
प्रतिमानेषु विपुल ०
प्रतिरजनि प्रति ०.
प्रतिसूर्यदर्शनोल्का
4052
4457
2655
3802
3500
1904
458
2038
2522
2151
4365
1878
4591 प्रत्यासन्नसखी •
2182
2211
प्रत्युपकुर्वन्
प्रत्यूहोपहनानां.
प्रत्येकमेकं सततं
2327
610
4131
3583
3115
3095
2469
1260
4419
2731
2707
2653
2402
2470
1359
2340
2325
2762
1108
1759
655
3281
1284
1289
1291
1325
1942
4203
! 2875
प्रत्यङ्गणं प्रतितरू.
प्रत्यहं प्रत्यवेक्षेत
प्रत्यालीटं तु.
मत्यालीढे कृते.
प्रत्यासन्नविवाह ०
प्रथमं क्रियते
प्रथमं चापमारोप्य
प्रथमं पवेर्ध
प्रथमं ब्रह्मचक्रं
प्रथमं यौगिकं..
प्रथमं वामहस्तेन.
प्रथमवयसि पीतं.
प्रथमपुरुषे भुजंगः
प्रथमेन जयेत्
प्रदक्षिणावुत्तर ०
प्रवन्धगात्रनिष्णातः
प्रभवति मनसि
प्रभुप्रसादे विश्वासं
प्रमाणं निष्प्रमाणानां
प्रमादाद्योगिनो
प्रयाति वामे यदि
प्रयातस्तं भानो श्रित
प्रयोगं चोपसंहारं,
प्रलयसहाय●
प्रवहद्ब्राह्मणं
प्रवीणो वाक्पटु
प्रवृत्तिलक्षणा ●
प्रवेशे निर्गमे चैव
प्रवेशेल्पफला सेव
प्रवेशे स्याद्दक्षिणः
प्रशंसा महतो..
प्रशस्तचित्त शुनि
प्रशान्तनादः शिखरे
1314
450
3667
3825
1577
3760
2580
885
1421
1791
1843
102
3880
260
2778
2444
1896
1829
1736
4351
1742
1814
1029
2190
4448
2389
1959
3081
1520
2774
4508
2669
3404
1884
510
617
1335
4517
2735
2737
2734
16
2394
2662</p>
<pb n="752" />
<p>प्रशान्ते पुरावे
प्रश्ने वरार्थ विहिते
प्रसन्नाः कान्ति ०.
प्रसरदलकाकीर्णे.
प्रसरन्ति प्रताने ●
प्रसह्य मणि ०
प्रसादे वर्तस्व
प्रसादो निष्फलो यस्य
प्रसाधनानां दयिता ०.
प्रसारितकरे
प्रसार्य पादी विहित
प्रसूनशृङ्गैर्मकरन्द०.
प्रमृतियुगल ०.
प्रस्थातुरस्रे यदि
प्रस्थानं वलयैः कृतं
प्रस्वेदमलदिग्धेनं
प्रहरति न पञ्च०
प्रहरविरती मध्य ०
प्रहरिष्यन्प्रियं.
प्राकाम्यमस्य व्यापि ०
प्राकार गोपुर ०
प्राचीनामलक●
प्राच्यं दीप्तं मूलं
प्राच्या रक्ष
प्राणातिपातं स्तैन्यं
प्राणानां च प्रियाया
प्राणापानमयी .
प्राणापानौ नाद •
प्राणायामं विना
प्राणायामस्य युक्तिस्तु
प्राणायामा दश
प्राणायामान्नरः
प्राणायामाष्टकं..
प्राणायामै दहेद्दोषान्
प्राणायामो लघुरत्वेको.
प्राणेशमभिसरन्ती
प्राणेश विज्ञप्तिरियं
प्राणोपानः समान ●
प्राणो हि दशधा
प्रातःकुष्ठरजचूर्ण
प्रातः सीमन्तिनीनां
प्रातदिनेशाभिमुखो
प्रातिभः श्रावणो
प्राप्ताः श्रियः सकल
श्लोकानुक्रमणिका
3696
2370
142
3899
2126
416
3565
1369
3159
1138
3878
3791
3048
2628
3424 प्रावरणैरङ्गार ०
4079
प्रावृत्य केवलं
526 प्रावृषेण्यस्य मालिन्यं..
प्रासादशैलद्रुम ●
3389
1429
4545
● प्राप्ता जरा यौवन ●
प्राप्तानपि न
प्राप्ते भाद्रपदे
प्राप्तेषु शृङ्गार ०
प्राप्य ज्ञानद
3089
4297
4417
प्राप्यते गुणवतापि.
प्राप्य प्रमाणकोणं
प्रायः प्रमाणमेता ......
प्रायेण धनिना०
प्रायेण ब्राह्मणः
प्रायेण सुकरं
प्रायो योग्यं धनु॰
प्रारब्धे रतिकेलि●
प्रालेयशैल ●
प्रियङ्ग गुञ्जा ०
प्रियवरक र्कारी
प्रियशतपटस्तेय..
प्रियसंगमाय बाही:
1565
2230
2772
प्रियसखि विपद् ०
1899 प्रियसखी सदृशं
635
प्रियस्य शिक्षा०
प्रियातिथ्यादिकं
प्रियादर्शनमेवा •
प्रियाविरहित ●
प्रीतोवदातवेषः
4442
4456 प्रेतधूमे विरे के
4466
प्रेरयति पर०.
4381
प्रेषक: प्रेष्यकः
2590
प्रोद्यत्प्रौढारविन्द ०
4438 प्रौढच्छेदानुरूपो</p>
<p>4447
3612
प्रोढे वयसि
लक्षार्केदुम्बर ०
प्लावयित्वा ततो
●
3441
4313 प्लुतमेकं द्रुतौ
4314 प्लुतमेकं भवे०
लुतश्च गुरुरेकत्र
3254
3731
2421
4523
4112
फलं गृहीत्वा सहसा
फलं तु शुद्ध ०</p>
<p>4165
384
1766
3172
4253
3649
2775
2635
434
1612
3962
1760
3697
3925
3937
4530
768
2512
2235
2275
3708
2544
451
3796
42
41
3514
3447
2556
600
364
4064
3924
4071
3157
2267
4371
2021
2015
2026
2613
1776</p>
<pb n="753" />
<p>फलं दूरतरे ०.
फलकुसुमपत्र०
फलकुसुमविकारो
फलकुसुमसंपदु
फलस्य पायनं.
फलान्यनेक●
फलिन्यशोक●
0
0
फणिमण्डलि०.
फुलेषु यः
फेफे नगरनाशाय
फेफे हूहू भुभू.
वकोट ब्रूमः
बदरी कदली.
बदरी रोहित●
बद्धः कर्मगुणैः.
बद्धपद्मासनो
बद्धसिद्धासनो
वद्धस्य द्रव्यनि०
वडा चर्मतृणाभ्यां
वन्धनस्थोपि मातङ्ग ०
वन्धयेरखेचरीं
वन्वाय धावतां
बन्धूकातिवान्धवो ०
बब्बूलवन्दकं
बब्बूलवृक्ष
वरच तपस्वी.
वहीं रोति वका
बलान्नीता पार्श्व
बलिकर्णदतीचाद्याः
वलिभिर्मुख●
वलिदान
वलेन वामो याद
बल्बलान्तस्त्वचं पिष्टां
बहलैर्मृदुभिर्युक्तः
बहिः शत्रम
बहु जगद पुरस्ता ०
बहुनात्र किमुक्तेन
बहुभिर्वत किं
बहूनामध्यसाराणां
वडाशी बहुलीकच
बागभङ्गं करा०
वाभिर्य जडता
शार्ङ्गधरपद्धतिः
1048
2313
2204
2228
1782
3014
2150
वाले नाथ विमुञ्च
2887 । वाले माले यमुच्चेर्न
825
वाले ललामलेखेयं
वालग्रहोपशमनं
वाला तन्वी मृदु ०
वालस्यापि रवेः
2456
2455
वाला चन्दनमालिका०
वालार्क प्रतभूमं
वालेति गीयते
विडालाक्ष: सुरा०
विभेमि सखि सं०
वित्राणे लयि.
वीजं नरपलाङ्कनेल
वीजधानी हृणा ०.
891
2109
2213
4322
4593
4602
2738 बुद्धेरहं ततः
2287
1209
4603
2461
3658
2985
2996
1496
3887
3678
1229
4.19
2072
2620
2878
1583
1249
3742
3506
2086
1326
1591
1863
1500
वीजपूरक ०
वीजरलं
वीज़मात्रादिवृक्षाणां
वी और ङ्कुरितं
बुद्धिपूर्वै तु यज्ज्ञानं
बुद्धौ कलुष ०
बुद्ध्या निरुक्ष्य
बोधयन्ति न
बोलला इति
ब्रह्मनेच सुरा०
ब्रह्मचर्यमलोभन
ब्रह्मदण्डीशिफार्के.
ब्रह्मद्वार मुखे
ब्रह्मविष्णुशिव०
यह्महत्या सु०.
ब्रह्माण्डं कि०.
ब्रह्माण्डच्छत्रदण्ड:
ब्रह्माण्डमण्डली..
ब्रह्मा येन कु०
ब्रह्मा हरौं हरी
वाहां नारायणं
वाहाणं भक्तिदानेन
क्षत्रां
चाहाणा: क्षेमकृत्येषु
ब्राह्मणानावमन्येत
वादाणा - भोजये ०.
वादाणाय धनु०
झणेषु नये.
ब्राह्मणो ब्रह्मतीर्थेन
34
3671
282
3529
628
3135
3554
3829
3293
3118
3433
1160
2309
2137
2122
2081
2290
856
4402
4275
1319
4594
274
3020
704
4560
2849
4479
4349
702
256
127
263
435
4268
1882
1686
1611
1615
1509
1728
1720
1312
630</p>
<pb n="754" />
<p>ब्राह्मण्यजागो●
ब्राह्मण्यां कुन्द ०
ब्राह्म मुहूर्त पुरुष
ब्रूत नूतन
नूतन्यस्या ०
ब्रूते संप्रति चाहुवाण ०
भ
भक्तं रक्तं सदा
भक्तिः प्रेयसि संश्रितेषु
भक्ति प्रहाय दातुं
भक्त द्वेषो जडे
भक्षयेन्मधु
भगवत्या भद्रकाल्या
भगवन्तौ जगन्नेत्रे..
भगस्तु वैष्णवी
भागेनि मदनः श्री०
भगीरथाद्याः
भग्नासु रिपुसेनासु
भङ्क्त्वा भोक्तुं न...
भजन्त्यास्तल्पान्तं.
भट्टिाणि रिणि,
भद्रं तस्य तरोः
भद्रं ते सदृशं
भद्रात्र ग्रामके त्वं.
भद्रो मन्दो मृगो
भयानकश्च वीभत्स०
भयोद्यमे दीप्तदिशि
भर्तृपिण्डे
भर्तृपिण्डानृण●
भल्लातकं समादाय.
भल्लातकवृहती ●
भल्लेन हृदयं
भवति हृदयहारी
भवन्त्यवामा
भवभूति
भवेद्भृकान शकुनो
भवेयु: श्यामलाः
भषन्दिनेशाभिमुखः
भषन्नभीक्ष्णं
भस्मन्यामेलितं
भस्माङ्गुलि ०
भस्मितदग्धज्वलित
भस्मोद्धूलन ●
श्लोकानुक्रमणिका
616
3148
1504
।भागं षष्टिक
भाग्यवन्तं प्रसूयेथाः
भाति विन्यस्तकहार:
262
1256
भानुयुक्ता दिशो
242 भावशुद्धिर्मनुष्यैः
भासो रामिल●
भिक्षो मांसनिषेवणं
भिन्दन्तश्चन्दनालीं
भिन्दानो मानिनीनां.
भीतानां परचक्रे
1517
3756
341
3031
2595
138 भीमश्यामप्रतनु०.
भीरु: पलायमानो ०
भीष्मग्रीष्मर्तु ०
भुक्तं स्वादु फलं
भुक्तानि यै ०
भुजद्वयं जिघ्रति
449
4287
3418
भू: पर्यो निज
1244
4003 भूतानि यानीह
भूनागलज्जा •
3598 भूनारी काञ्चन
3681 भूपानां धनिनां
भपानी रसिकानां..
2901
भूपाली हरिपाल ०
भूमिं गतोपि जीवाते
2679
2362
3771
581
3895 भूमिमित्रं
1562 भूमौ चाश्वसकृ०
50
2645
भूमौ लग्नमही ०
भूयो गर्जित ०.
720 भूरिभारभरा०
3961 भूरेणुदिग्धा नव०
3040 भूर्जः परोपकृतये
3228 भूसंपर्करजो०
1780 भूसृग्वालधिराताम्र०
1008
2365
178
2745
3071
2422
2439
2291
4063
भृङ्गरजः कन्याय
भृङ्गाङ्ग नाजन ●
भैकेन कणता
भेकै: कोटरशायिभिः
मैक्ष गृह्णन्गृहू°
भैरवः पञ्चमो
भोगा न भुक्ता
भोजनं प्राप्य
भोज्यं भोजन ●
भो भो: करीन्द्र
भो भोः कि किम०</p>
<p>3056
442
3287
2636
675
188
4061
3814
3722
2529
1147
1936
500
979
980
2438
4097
2973
3000
730
2817
2978
2058
2783
1299
3058
2499
787
562
3980
1056
1274
2838
3219
799
1177
777
4559
2052
4150
4034
490
925
1152</p>
<pb n="755" />
<p>भो भोः श्रीभोजदेव
भो हंसास्ता ०
भ्रमन्वनान्ते
भ्रमय जलदा०
भ्रमर भ्रमता..
भ्रमरान्योक्तय०
भ्रमरी कथिता
भ्रमात्प्रकीर्ण
भ्रष्टं नृपतिकिरीटा०
भ्रातः कष्टमहो
भ्रातः काञ्चनलेप●
भ्रातः कीर
भ्रातः कोकिल
भ्रातः पञ्जर लावक ०.
भ्रातः पान्थ पथि
भ्रातः पान्थ प्रसीद
0
त्रातर्वात
भ्रातग्रम्यकुविन्द ०
भ्रातश्चन्दन
भ्रान्तं याचन०
भ्राम्यच्चीत्कार चक्र ०
भ्राभ्यञ्जले घटो
भ्राम्यते यन्निरा०.
भ्राम्यन्मन्दर
भ्रुकुटीकुटिलललाट ०
भ्रुवोः काचिल्लीला ●
खूचक्रं सप्तमं
भ्रूचातुर्यात्कुञ्चिता०
भ्रूचाप निहित:
भ्रूनेत्रादिक्रिया
पल्लवं धनु०.
भ्रूभङ्गे रचितेपि
भ्रूभुँदैः कतिचि०
भ्रूमध्यस्योपरि ०
भ्रूरेखायुगलं भाति
मकरीविरचन०
मक्षिकाया विष
मङ्गल्यानां तथा
मज्जत्वम्भसि
मञ्जिष्ठातिल ●
मञ्जिष्ठोग्रासमूल
मणि: शाणोल्लीट:
शार्ङ्गधरपद्धतिः
1252 । मण्डपनन्द्यावर्त •
807 मण्डलीकृत्य
817
3453 ।मत्ताः शरतौ श्वानः
818 मत्तेभकुम्भपरि०
24. मत्तेभकुम्भपरि०
मत्स्यकोलवसामांस०
1848
3913
1206
3406
1105
4164
1198 मदेकपुत्रा जननी.
876
मधुकरगणश्चतं
851
मधुकर तव
मधुककुसुमगुञ्जा ०
3894
मधुगन्धिरत •
मधु च विकसिते.
मधुजीरकुगोरम्भा ०.
1184 मधुतगरगौर ०
993 मधुपानमदे
394
421
3857
मनुयष्टिसिता०
मधुर्या मधु
1861 मधुसैन्धवकल०
4527
114
4032
3274
4358
3954
3502
3187
3380
मण्डाय स्वाहा इति चन्दनम्
77
2961
4685
4.38
मदनदहनशुष्यतू०
मदनमवलोक्य
मदर्थसंदष्टमृणाल ●
2280
2967
1529
0
....
मधुहा ग्राम०
मध्यं पृष्ठाश्रितः
मध्यत्रिवलीत्रिपथे.
मध्यात्तयोर्मण्डलयो ०
। मध्येोदिनं वेश्मनि .
3540
। मनसि निविशते
3763 मनो दृष्टिगतं ज्ञात्वा
4397 मनोनिर्वाण ०
3297
मध्यादुयोरेक●
मध्याङ्केतिखरे.
मध्याह्ने दव
मध्ये तस्मिञ्शिशिर ०
मनोमात्रं जगत्सर्व.
मनोवाक्कर्मभि०
मन्थायस्तार्णवा०
। मन्दं निधेहि चरणो
। मन्दं मुद्रितपांसवः
मन्दश्चन्द्रकिरीट ०
मन्दारद्रुमरन्ध्र
मन्दारमाला ०
मन्दोयं मलयानिल:
मन्त्रतन्त्रार्पित ●
2145
569
2343
2424
3693
3951
2293
3413
824
4013
4012
829
815
2284
3099
3953
2847
3226
3177
2283
547
3213
712
2073
3346
2385
2384
3861
4014
2171
2488
3381
1841
4220
4221
1883
4074
3620
3871
1254
2300
67
3789
1351</p>
<pb n="756" />
<p>मन्त्रमिति सप्त
मन्त्रयोगो लय०
मन्त्रेणानेन सलिल ०.
मन्त्रोद्भावित ०
मन्त्रिणा तस्य.
मन्या महे मलय ०.
मन्ये तदूरू संभाव्य
मन्ये मायेय...
मन्ये समाप्तलावण्ये
मम करग्रहणाय
मया कुमार्यापि
मयूरचूलिका
मयूरो वर्णकान्
मरिचं सैन्धवं सर्पि
मरुदेशे भवति
मरी नास्त्येव
मर्त्यप्राक्तनपुण्यस्य
मर्दयित्वोष्ण
मलदोषे समुत्पन्ने .
मलयजगन्ध ०
मलयाख्ये भवे ०
मलयानिलमिलनो०
मलिन हुतभु●
मलोत्सर्ग गजेन्द्रस्य
मल्लिका मुकुले
मल्लिकामालभारिण्यः.
O
मस्त्रिगुरुस्लिलघु ०
महतां प्रार्थनेनैव
महद्भिरे घैस्तमसा ०
महाक्षौहिणिका
महाग्रीवो महावको
महाघोणा महा
महातरुव भव
महात्मानोनु०.
महानुभाव
महापथं प्रवि..
महाप्रलयमारुत०
महामुद्रां नभो०
महिषीमलमिलित०
महिष्या हृष्टया
महीघृतसुगन्धाश्च
महीपतेः सन्ति
महेशस्त्वां धत्ते
महादेयं पञ्च ०
श्लोकानुक्रमणिका
2596
4347
2927 माघेन वि०
4158
4230
1067
3357
4090
3350
513 मातर्धर्मपरे
3762
3246
729
2862
2210
1150
2792
3004
2855
3112
2002
3788
3867
1207
माकन्दपूल ०
मा गच्छ प्रमदा
मा चक्र चक्रि०
मा जीवन्यः
माणिक्यं तरणे.
माणिक्यद्रव
मातङ्गकुम्भसं०
मातङ्गैरपि यै。
। मातर्मेदिनि तात
मा तात संपदा०
मा तात साहसं
माता पिता गुरु ०.
मातुलुङ्ग रजनी
मातुलो यस्य
मात्रा स्वस्रा दुहित्रा
मात्वं तात...
माद्यद्दिग्गजदान ●
माद्यन्मातङ्गकुम्भ०
मांधाता स मही..
मानवावयव ०
मानव्याधिनिपीडिता
मानापमानौ यावेती
मानिनीजनविलोचन ●
3786
3642 मानुष्यं प्राप्य
माने ग्लायिनि
मानोन्नतेत्यसहने ●
2064
220
3594
1917
1582
1701
1035
223
मार्ग देहि पदं
321
मार्गे कर्दम०
4400
मार्गे पडूचिते.
4073 मार्गो भूरिमरु ०
4407 मार्जारमहिषयुद्धं
मार्जाराक्षः कपिलः
मार्जारी हिमवालुका.
3230
1342
4683
167
।मांसं मृगाणी
मांसवेधं ततः
मासि मासि समा.
1058
2366 माहिषकरीषमंत्रे ०.
मा भैष्ट नैते ०.
मारयन्त्या जन
मारुते विशति दक्षिण •
मारुयां शस्त्रसरो०
मारोदीश्चिर मेहि</p>
<p>3249
3496
185
1257
266
1418
877
3328
1576
580
4095
1322
1309
1347
2149
4006
654
1310
1131
4072
4002
2606
3542
4550
3645
716
4178
3547
3964
3365
2719
2477
408
589
963
3614
776
2579
2830
3261
1536
1737
483
2297</p>
<pb n="757" />
<p>माहिषघृतसह ०
मितं ददाति हि
मितमायुर्वयो
मित्रं कलत्र०
मित्रं स्वच्छतया
मित्रद्रुहः कृत ०
मित्र स्वजनवन्धूनां
मित्रे कापि गते
मीनकोलवसा०
मुकुन्द दामोदर
मुक्ताफलं तरी:
मुक्ताभा नृकपाल ०
मुक्तो मनपरि०
मुखं तस्याः स्मित
मुखं पाण्डुच्छार्य
मुखं विकसित
मुखकृतविस०..
मुखमात्रेण
मुखे चन्द्रकसंवीतो
मुखेम चन्द्रकान्तेन
मुखन नोद्भिरत्यूर्ध्वं
मुखे यद्वैर स्यं.
मुखे रथा गजा ०.
मुखे हारावाप्ति०
मुग्धस्य ते वद
मुग्धा स्वप्नसमागते
मुग्धे किं नखरैः
मुग्धे तवास्मि दयिता
मुग्धे दोर्लतिकां निधाय
मुग्धे धानुकता
मुग्धे प्रसारयसि
मुञ्चति मुञ्चति कोशं
मुञ्चतो घुरघुरा०
मुण्डनवपन ०
मुण्डा: सर्वे शुभदा:
मुण्डी चूर्णकषायेण..
मुण्डी जटी वल्कल●
मुण्डो जटिलो नग्न०
मुधवैते वय ०
मुनेः कल्याण
मुरारातिर्लक्ष्मी
मुसलोखले
मूकीभूय तमेव
मूत्रं निजं लेढि
शार्ङ्गधरपद्धतिः
3224
4011
4092
4125
1554
701
1438
3599
2288
सलबन्धं च यो
732
मलादेव फलस्य
।मलाधारस्थितं
3183
106
मृगच्छागादि०
3574 मृगयुमृगयां गच्छन्
3472
मृगाङ्कीयं धत्ते..
मृगी खरं यदा
मृगी वृषमजा
मंगेन्द्र वा
मुंगेभ्यो रक्ष्यते
160
1646
मृगर्नष्टं
मृगो वेत्ति शिशु०
3371
1053
249 मृग्यो वा कृष्ण ०
मृणालनाल
मृते भर्तरि या..
मृत्युः शरीर ०
1922
1262
3430
मृत्योविभषि किं
मृदुसंहतताम्रोष्टा
3409
3553
3699
3419
3654
3332
1266 मेघै मेंदुरमम्बरं
मेघो मल्लारिका
2382
2560
2820
3248
4173
4030
मोक्षणे चैव
4245
मोक्षद्द्वार प्र०
3024 मोट्टायितं कुट्टमिनं.
3422
3277
3826
मत्रं विधायाभिमुखं
मूखों हि जल्पां
मूर्छितं नैव विकलं
मूर्तिमन्तमपि
843
2371
मूर्ध्नि तरोह
मूलं भुजगे०
मूलं सुवर्ण०
मूलं हि शालपर्ण्याः
मृदूनां स्वादूनां
मृदो: परिभवो नित्यं..
मुद्देहिकाल्पदेहापि
मृद्रङ्गि कटिनो
मैघाटोप: स्तनित ०
मेधावी वाप
मेहाते शुभप्रदेशे..
। मेघैव्योम नवा ०
मेरु : स्थितोति ०
1068 मो भूमिः श्रिय ०
2433
मोहादवाचि
मौनादस्तमितैव
मौनी पादप्र०
2599
417
1935
3653
2498
999
2914
2844
4416
1037
4475
713
2713
3627
3130
3127
901
902
903
1948
2753
4632
607
380
4172
2833
1005
1397
4614
3339
3873
69
2056
1336
2359
3900
4049
1853
4196
3156
2065
695
61
286</p>
<pb n="758" />
<p>सोलि: स्वर्णकिरीट०
मौली सन्मणयो
ग्यर रतजन ०
स्त्रदीयस्त्वाधिक्यान्न
त्रियमाणं मृतं
य
यः करोत्यसकृन्मूत्रं
यः कृष्णं कुरुते
यः कृष्णाण्डः श्वेतो
यः कौमारहरः स एवं
यक्षः पुरस्तावनि०
यक्षो भपन्नम्बर
यक्षोर्चनीयो विधिना..
यक्षो हरिद्रामिष ०
यच्चास्ति मित
यच्छक्यं ग्रसितुं
यज्जातोसि पयो०
यज्जीव्यते क्षणमपि
यज्ञदानतपस्तीर्थ ●
यतः सत्यं ततो..
यतो गजैविना.
यतोयं सर्वजन्तूनां.
यतो यतोङ्गादप
यत्कण्ठे गरलं.
यत्करोत्यरर्ति
यत्नादपि कः
यत्नोत्थापनमात्र ०
यत्पद्ममादित्सु तव०
यत्पादाः शिरसा
यत्पूर्व पवनाग्नि०
यत्र कामावसायित्वं
यत्र तत्र स्थिता •
यत्र न मदनविकारः
यत्र यत्र हतः
यत्रास्य स्थानं
यत्रैवोत्पद्यते
यत्रोदारा दारा
यत्सत्यव्रतभङ्ग ०
यत्सद्गुणोपि सरलो०
यत्का इति त्रि०
यथाकाशवदेकात्मा
यथा जयं जलेन
यथा यजेत्तथा
श्लोकानुक्रमणिका
1188
। यथा नयाते कैलासं
1174
2062
यथा निशा सर्व०..
यथा पर्वतधातूनां
यथा प्रयुक्तः
1007
4169 । यथावीजाङ्करः
यथामिषं जले..
यथा यथा विशय ०
1668
864
2822
3768
2609
2390
2341
2612
4254
1308
यथा यथास्याः कुचयोः.
यथा यथैव..
यथा रजोभिः.
यथार्करश्मिसं०
यथा वातस्य
1172
4543
2507
3666
1934
4546
1873
3956
4081
1198
2480
4493
यथाशक्ति नि०
यथा सोग्निस्तदमृतं
यथा हिमप्रभा..
4494
4460
यथा हि साधितः
यथेयं वाग्देवी.
758
1481
685
1563
1560 यदशकान्तः
3074 यदक्षिभूलता
3375
यथैव दर्दुरो
यथैवमवमन्यन्ते
यथैवोत्पलनालेन
यथोदिते दिनकरे.
यदमी दशन्ति
यदमरशतैः सिन्धोः
502
379
यदम्बुकणमादाय
873
यदर्ज्यते परि०
4056 यदस्माभिर्दृष्टं
3660
747
यदा किंचिज्ज्ञोहं
यदा च नद्युत्तरणे
यदा तु स नृप०
यदा त्वं चन्द्रोभूः
यदा दक्षिणपादस्थ
यदान्यत्र मनो
यदि कण्टकही ना.
यदि नाम दैव
यदि प्रियावियोगे •
यदि भवति कर्णिकारः
यदि मत्तोसि
यदि वर्ष सहस्राणि
यदि वहति वामनाडी ०
यदि वा मधु०.
यदि वेतसो ●
। यदि वा निजपुंश्चि</p>
<p>2061
4548
4439
4477
1292
338
3270
3285
372
4248
4613
4237
4458
4413
4502
4441
182
4387
4558
4378
4209
595
4059
244
3319
789
378
4128
4177
2646
4232
3564
2356
4497
2205
811
3449
2207
936
4212
2723
3209
2176
2428</p>
<pb n="759" />
<p>यदि श्वा पललं कृत्वा..
यदि समरमपास्य
यदि सहदेवी •
यदि स्मरामि तां
यदीच्छसि वशीकर्ते
यदुक्तं ब्रह्मणः
यद्गम्यं गुरु
यद्ददासि विशि०
यदेडायां मरुत्तत्वं.
यदेतच्चन्द्रान्त
यदेतत्कामिन्या
यदेतद्ध्यानमाख्यातं
यदेतन्नेत्राम्भ :.
यदैव भर्ता जानीयात् .
यद्यपि गुणोघ●
यद्यपि चन्दन
यद्यपि दिशि दिशि
यद्यपि न भवति
यद्यपि बद्धः शैले:
यद्यपि बहुगुण
यद्यपि शिरोधिरोहति
यद्यपि स्वच्छभावेन
यद्याददाते च वलिं
यद्युत्तरन्तस्त्रस्यन्ते
यहाँका दक्षिणगा
यद्वै रूप्यमनाथ •
यद्वद्वनमसिंहं
यद्वीचीभिः सृशसि
यद्रात्री रहसि ..
यन्त्र माति तदङ्गेषु
यन्नागा मदभिन्न ०
यन्नामकः श्वा प्र०
यन्निमित्तं भवेत्
यन्मनोरथशतैः
यन्मध्ये यच्च
यन्मुक्तामणयो●
यन्त्राकृष्टसुवर्ण ●
यः पल्लवैः क्रीडति
यः पीयूषसहो
यं प्राप्य क्षितिपः
यं लोकं वाजि ०
ययोरेव समं
यवतिलनिशा०
यवागू चापि पवने
..
शार्ङ्गधरपद्धतिः
2435
3972
3202
3462
1426
1943
3561
276
2813
1563
4170
1401
1171
495
1995
1121
1026
1078
149
1756
2079
380
2752
2706
681
2381
1461
453
4121
1112
यः शौर्यावधि ०
यः पड़िशतिवर्णा
यः संतापमपा •
154
2614
1164
4649
1697
1475
2278
4511
यः संबद्धो यो
यः सैन्ये रमर ०
यशोदया मण्डित
यश्च सर्वात्मको.
यष्टीमचूकपुष्पाणि.
यशस्करे कर्मणि.
यस्तु प्रत्थाहरेत्
यस्तु भन्नेषु सैन्येषु
यस्तु संरोप ये ०
यः स्नाति धूल्यां
यस्मादथिंजनो
यस्मिस्तित्तिरपक्ष ०
यस्मिन्कुले यः
यस्मिन्क्षेत्रे..
यस्मिन्खड्ने शरीरं
यस्मिन्देश यथा
यस्मिन्नुच्चै ०
। यस्मिन्नवाधिकं
यस्मिन्बुद्रुद
यस्मिन्यास्मस्तु कु०
यस्मिन्यस्मिन्यदा.
698
1564 यस्मिन्स्थाने क्षणं
1090
3741
3342
यस्मिन्वंश
यस्मिन्वस्तनि ममता.
यस्मै ददाति विवरं
यस्य कस्यापि पुष्पस्य..
यस्य चाप्रिय ०.
यस्य तृणसमा.
यस्य धर्मावहीनस्य
यस्य नास्ति स्वयं.
यस्य पाढा: सिताः सर्वे तथा..
यस्य पादाः सिताः सर्वे पुच्छं
यस्य प्रातः सुस्थितस्य
यस्य बस्तसमो
यस्य यस्य त
यस्य वज्जमणेर्भेदे
यस्य वें स्नात
यस्यां स केसरि०
यस्याः कुसुमशय्यापि
यस्याः संगम०
यस्याकर्ण्य वचः
917
1995
809
1667
3721
1231
4234
2250
1406
4465
1932
2090
2495
1041
4628
1925
2209
4660
2791
952
1382
1
4536
4513
363
4171
4554
1176
2243
1428
1857
666
413
1644
1645
2440
4577
4652
1099
4578
1213
3997
830
846</p>
<pb n="760" />
<p>48
यस्याङ्गानां.
यस्याङ्गे स्थूलरेखा
यस्याग्रे दृश्यते
यस्थादी व्रज
यस्याभ्यासप्रसादेन
यस्याधी दृश्यते
यस्य प्रवहति
यस्यापि हन्यते.
यस्या महत्त्वभाजो.
यस्यावन्ध्य
यस्यासीन्नव०
यस्यास्ति वित्तं
यस्योटजेपि वसतो.
यास्त्रिफलाशफरी
याः पश्यन्ति प्रियं..
यचिनव्या गुरो०
यातं यौवनमधुना..
याता: किं न मिलन्ति
याता यान्ति च
यातीतः पान्थ पन्थाः
यात्रामङ्गलसंविधान ०
यात्रायां गच्छत
यात्रायां तित्तिरि ०.
यात्राया मुच्चरन्वाम०
यात्रास्वपि वाम०
यात्रोद्यमें सैन्य
यानि मिथ्या
यान्ति प्रसाद
या बिम्बोष्टरूचिः क
यामीति प्रियपृष्टायाः
या मेदिनी काश०
यां यां प्रियः
या याति मौनिनी
यावतः कुरुते
यावत्फलोदय ०.
यावत्स्वस्थमिदं.
यावदिनानि
यावद्यावत्कुवलय ०.
या वहति तत्र
या संख्या रोमकूपाणां
यासां कटाक्षविशिखैः
यासां सत्यपि
यास्यामीति समुद्यतस्य
या स्वसद्मनि
श्लोकानुक्रमणिका
2895 । युक्तियुक्तं प्रगृह्णीयात्
4648
युत्तयानया भवत्
4663
युक्त्या संतरतो
968
1717 युगे युगे च
4662
2800
4579
1155
916
955
333
2786
युगान्तकाल ०.
युधिष्ठिरोसि भी मोसि.
युद्धं विधातुं चलित०
युद्धवादरत •
यु.द्वार्थि नोर्नाम०
युद्धोद्यतयो राज्ञोः
युद्धचने पक्षि०
यूये शकारिदेवानां
ये कुण्ठी कृतवल्लभ
ये गृह्णन्ति हठा०.
3434 ये जन्मादिशुभाशुभे
ये जाते व्यसने
2233
1832
4160
3465
150
1273
3437
2647
2727
2739
2640
2672
1311
4455
2089
3316
2558
1696
3299
ये जात्या लघव:
ये तत्र लीना:.
ये दीनेषु दया०
दोलाकैलिकाराः
ये
येन केनचिदा०
येन जीवति जीवो
येन स्वां विनिहत्य
येनाहूतः समभ्येति
येनानन्दमये
येनानर्गल ●
येनामोदिनि
येनोन्मथ्य तमांसि
ये पूर्व परिपालिताः
ये राजपुत्राः
ये वर्धिताः.
3396
3387
2226
3525
2705
4139
1023 ये संतोषसुख●
येषु येषु दृढा
679
ये संसत्सु .
येषां निमेषो ०
येषां वल्लभया समं.
ये सूक्तीन्दुकला
यैर्बुधाः कथयन्त्याशु
योगयुक्तः सदा
योगिचर्या ततः
योगिनां ज्ञान ०
3079
योगिना सततं
3435 योजनशेषे नगर
171
यो दिव्याम्बु....</p>
<p>1452
4498
4205
4021
1316
1228
2615
2798
2379
2378
270
1602
3726
1109
2320
248
792
4270
228
3816
4549
4317
4083
1328
844
908
837
744
985
1924
834
4111
4106
4120
1065
206
143
1666
4531
55
4590
4600
2559
805</p>
<pb n="761" />
<p>यो
। दृष्टः स्फुटदास्थ ०.
योद्धव्यमढीव ०.
यो न कामान्
यो न ददाति
यो न दीर्घ ०
योनिद्वारविनिष्कान्तो
यो मे गर्भगतस्या०
योयमर्थ प्रार्थयते
यो राजा भवतां
यो वल्लभासन्न ●
यो हन्ति शर
तो शङ्ककपाल
रक्तकपिलिङ्ग०
रक्तकृष्णावर
रक्तं नक्तंचरोघः
रक्तमांसमय:
रक्ताव्जपुञ्ज
रक्ष पात्रगतं स्नेहं
रक्षन्ति कृपणाः
रक्षन्ति पक्षं मुद्रिताः
रक्षां कुत
रक्षामालिकया वाले
रङ्गताले च विज्ञेयो
रजन्यामन्यस्यां
रजसा तमसो
रटनु जलधरः
रतखिन्नतनुं
स्नान्ने स्त्री यथात्मानं
रातकृति गते
रतिरभसनितान्त ०
रत्नभित्तिषु
रत्नाकर्तनु०
रत्नानां न किमालयो
रत्नानि विभूषयन्ति
रत्नैरापूरितस्यापि
रथस्थेन गजस्थेन
रथस्यैकं चक्रं
र च धार ०
येभ्यो गज ०.
याकूपत
स्थ्य जोति
रम्भाया: सुपरिणतैः
शार्ङ्गधरपद्धतिः
1019
2616
684
रविमणिरपि
3949
887 रविर्नृपविलोकने
रवेः कवेः.
रवेरेवोदय ०
4328
312 ।रवेर्मयूखैरभि॰
रसतालादिवर्ण०
1436
रम्भोरुहस०
रग्ये हस्येतलं.
1603
रसति तरुणी०
3169 रसवदतं कः सं०
1870
111
3212
4581
3975
4142
838
1195
472
1573
3022
3669
1999
3509
4463
3874
3745
4483
3712
3688
4023
1140
1072
3086
1080
रसालशिखरा०
रसोनरस०
रहो नास्ति क्षणो.
राजतालाभिधाने
राजन्द्रिपरते
राजवाज मृगाङ्क
राजनाजसुना न.
राजपुत्रे द्वितीयेन्दुः
राजमातरि देव्यां
राजविनोदताले
राजा घृणी ब्राह्मणः
राजा तुष्टोषि भृत्यानां
राजानों में प्रशंसन्ति
राजास्य जगतो..
राजिकां तिल ०
राजीकरज०.
राज्ञां दत्वा तु पङ्खागं
राज्ञि धर्मिणि...
राजो रणनव
रात्रावेरण्डपत्रे..
रात्रिर्गमिष्यात
। रात्रिसंभोगचेष्टायाः
रात्रौ गृहस्योपरि
रात्रौ वारिभरा०
रामं दूर्वा ०
रामरक्षां पले०
रामस्त पञ्चमे
।रामाणां रमणीय ०
1871
503 रामाभिषेके मद
1905
रामो नाम बभूव
3984
रिक्ताः कर्मण
:
2979
रिक्तीकरोति पूर्ण
3407 रिपुरित्र सखीसं०
2142
रुचिरस्वरवर्ण ०
3096
4114
3968
664
737
3838
1977
3890
3312
848
2941
1499
2022
1279
1258
1268
3147
1384
2027
1541
1386
1324
1231
2994
2966
640
1286
2391
3059
1181
4.6
2462
3891
736
3026
3145
3732
508
120
1330
2780
3431
528</p>
<pb n="762" />
<p>रुजं शोकं भयं
रुदन्ती नाम०
रुरुशावविषाण ०.
रूक्षस्यामतुरस्य
रूदस्य सिन्धु
रूढे चैव भवेत
रूपावर्तगतिच्छाया:
रूप्यपत्रसमा.
रे कीर कैनव
रेखया कुण्डलं
रे भृष्टा धार्तराष्ट्राः
पद्माकर याव०
रे पद्मिनीदल..
रे वालकोकिल
रे मातङ्ग मदा०.
रे राजहंस किमिति
रे रे शिष्ट बकोट
रे लाङ्गलिक.
रेवावारिणे
रोगार्तः क्षधितो
रोगार्दिते भेषज●
रोगी चिरप्रवासी..
रोचनामीन ●
रोमन्थमारचय
रोलम्बस्य चिराय
रोलम्बेर्न
रोहणाचलशैलेषु
रोहिणीपु कर०
रोहिणीसहित ०
रोहितमत्स्योर्ध०
शैक्ष्यं ग्रन्थिः कुटिलता.
शेरवं कूट०
लङ्कापतेः
लक्ष्मणा शिखि ०.
लक्ष्मणो लघु०
लक्ष्मी क्रीडानडागो
लक्ष्मीपयोधरो०
लक्ष्मीर्यादो निधेः
लक्ष्मी संपर्कजातो
लक्ष्यं चतुर्विधं.
लक्ष्यबाणाग्र ०
लक्ष्यस्थाने धृतं
लक्ष्यस्थाने न्यसेत्कांस्यं
श्लोकानुक्रमणिका
लक्ष्यस्थाने न्यसेत्काष्टं
लक्ष्ये बिन्दुं न्यसे०
लक्ष्म्या परिपूर्णोहं.
लदग्या परिपूर्णोहं
लग्ना नांशुकपल्लवे
2452
3028
4616
88-1
1060
2771
1679
4634 लघुत्र्यं द्रुत०.
849
लघवश्च तथा
लघुः शुद्धो गुरु ०
लघुत्रयं विरामान्तं
लघुत्वं मातृदोषेण..
लघुद्रयं गुरुयैक ०
लघुद्वयं दिरामान्तं
लघुद्रयं० द्रुतलयेन
लघुद्रयं ० समरो०
लघुनि नृणकुटीरें.
3019
4087
1132
1133
847
915
895
1185
801 लघुर्गुरुर्लघु०.
लघुर्गुरुश्च भवति.
लघुर्द्रतौ गुरु ०
लघोर्गुरो: प्लुतस्या ०.
लज्जादुर्भातकी ०
लज्जां विहाय रुदितं
922
2589
2617
लज्जावशावनत
लड़ा दक्षिणगमना
लब्धं जन्म सह
लब्वास्थ्यक्ताश्च
लब्धोच्छ्रायो
404
3197
949
1011
976
1071
लभेत सिकतासु
663 लम्बैर्वृषणैमेपोदरैश्च
ललितमुरसा तरन्ती.
ललित गुर्जरी
662
2181
2263
लवणं सरसं
708
लाक्षालक्ष्म ललाट ०
161
लाजाः कुठं नखं...
। लाभ हानिं विदधति.
लाभकारि भवेदैन्द्र्द्यां
3987 लाभदश्चिलचिलीति
3644 लाभस्तेषां जय०.
3240
278
लालास्रुतिः सित ०
529 लावण्या मृतदीर्घिका
1139 लावण्यामृतनिर्झरेण
1807 लिखति न
1854 लिखन्नास्ते भूमिं .
गणयति.
1864 लिप्तपूरितचतुष्क●
1867 लिम्पतीव तमोङ्गानि .
O</p>
<p>1872
1868
340
1501
3388
4677
2068
2013
2014
1700
2000
2007
2010
2011
3922
1998
2017
2025
2070
3241
3385
3759
2730
759
4133
351
415
2836
3817
2054
4383
3740
2854
2321
2759
2685
1909
2896
3266
3284
3403
3551
2410
3603</p>
<pb n="763" />
<p>लीटव्यस्त ०
लीलादोलातिखेला ०
लीलास्मितेन ....
लुलितनयनताराः
लोकः शुभस्तिष्ठतु
लोभः सदा
लोभश्चेदगुणेन
लोलैलोंचनवारिभि०
लोहं प्रधानं
लोहप्रधानं तत्
लोहानां लक्षणं
लोहितायति चादिये
वंशः प्रांशुरसौ
वंशत्वग्जतु ●
वक्रतां विभ्वतः
वक्रादिदोषरहिता ०
वक्रा नैष तनू ..
वक्रेण शिरसि
वर्कैः कुरतरै०
वक्त्रं शीतकरो०.
वक्लश्रीजित..
वक्ष:पीठे निरीक्ष्य
वक्षस्यावरणादर:
दक्षो कण्डूयति
वक्ष्यन्ते प्रायशो
वचा सौवर्चलं
वज्ञादपि
वज्रेण त्रिजगत्पते
हा०
वट निवशमीक●
वटवृक्षद्वयं ...
वटवृक्षा
वत्सकर्णः स
वदनशनिनः स्पर्शे
नधं बन्धं रुजं ब्रूते
वनस्पतिद्रुम
वनानि दहतो.
वने जाता वनं
वन्ध्याक कोर्टिका
वपुः परीणाहगुणेन
वपुरनुपमं नाम•
वपुर्विषम० ...
वरुषः सुकृता०
शार्ङ्गधरपद्धतिः
592
वयं वाल्ये वाली
वयं येभ्यो जाता०
3815
3725
546 वयः प्रकर्षादुप
वयमिह परि
वयस्याः क्रोष्टारः
3969
428
वयोवृद्धाः
1553
3395
4672
*4674
4622
3983
1187
2976
3928
103
3280
2355
4624
3205
215
3868
2964
2093
539
1806
3711
2637
2124
368
2681
1191
3818
1515 वर्जयेत्पूर्वती •
94
488
515
2865
1103
3354
वरं दारिद्र्यमन्याय ०
वरं प्राणाधिको
वरं वनं वरं मैदयं
वरं हालाहलं.
950
4101
वरतरूविघट०
वरमश्रीकना
वरमसौ दिवसो
वरमहिमुख
वर मुन्नतलाङ्गुलात्
वरस्य कन्यावर ०
वरस्य परिणीतस्य
वरुणस्य फलात्
वरोपि हित ०
वर्जनीयो मति ०
वर्जेयेदिन्द्रियजये
वर्णनदयितः
वर्णैः षोडशभिः
वर्णैश्च सप्त ०
वर्धितैः सेवितैः किं
वर्षात मेघे नितरां
वर्षन्ति स्तनायित्नवो
वर्षानिमित्तं० चेष्टाः प्रशस्ताः
वर्षानिमित्तं०
चेष्टाविशिष्टा०
वर्षानिलरजी ●</p>
<p>वर्षासु च शर०
वलगत्कुचं व्याकुल. ०
वल्मीकसूर्धनि
वल्मीकसंवृतो
वल्मीकोपमितायां
वल्लीन कति न
वीवरत्राकच●
वश्यं कर्तुं यथेच्छातो
वसन्ति सुरलोके
वसन्त्यरण्येषु..
वसुंधरायाः कमपि
वस्तु विक्रयकर्तव्ये
वस्त्रं गां च बहु</p>
<p>3761
4113
3344
308
3974
334
1441
1743
1374
259
790
1136
3426
255
493
2367
2740
2851
1307
367
2106
1519
4053
1985
1986
1033
525
.3490
2373
2372
1412
2154
3698
2217
2195
2180
1061
2483
4440
686
945
2412
2763
5417</p>
<pb n="764" />
<p>वस्त्रे ग्रन्थि
खरतरं
मारुत
वहे: शक्तिर्जल●
वाग्दण्डः कर्मदण्डश्च..
[च्यते
वाडा तुरु
वाङ्ार्यान्नान्य ०.
वाचयति नान्य
वाचो वाग्मिनि किं
वाच्यानां च
वाजी चारुगतिः
वाताकीर्णविशीर्ण●
वातान्दोलित●
वाता वान्तु कदम्ब०
वातोद्तमुखी प्रनष्ट●
वानरं चपलं
वान्ति कङ्कारसुभगाः
वान्ति रात्री रति०
वान्या मूत्र
दापीतोयं तद०
वामं रोदनमाहुः
वामः पूर्व दक्षिण ०
वामकर/नामिकया
वामकेन यदि..
वामगा दक्षगा
वामनाख्यं महा०
वामविभागे सफलं
वामविरावा वामे
वाभस्कन्ध०
दामस्थावः म्फुरण०
वामस्वरा समृद्धि
वामहस्ते त सं०
वामां दिशं दक्षिण ०
वामाङ्गीकृतवामाङ्गि
वामाङ्गे वामचेष्टाश्च
दामादक्षिणगमना
वामा प्रदीने ककुभः
वामावर्तवम
वामेन गच्छन्पायेकः
वामेन गत्वा विनि०
वामेनैव श्रमं
वापसव्ये पुरनो •
वामे विधाय शब्द
वामे विहिनविचारा
श्लोकानुक्रमणिका
2942
वामो विभागो निज०.
3054
वायुः परिचितो
1944 वायुक्षिणनाड्या.
3936
वायुवच्चञ्चलं
4547
1952
1427
4042
3579
3175
वारिणा यावता
वारुण्यां ध्वनित •
वार्ताकबीजं घृत ०.
वासः खण्ड •
वासः शुभ्रमृतु०
वास: शैलशिला ●
वासना द्विविधा
1555
3856 वासनावागुरा०
802
वासा ब्राह्मी बचा
3901 वासुदेवे मनो
3611
3220
3916
3915
4569
3600
2571 विकृति नैव
2728
2868 विघटितमर्थ घट०
विंशत्या च नखै●
विकचकचकलापः
विकचकमलगन्धै०
विकसति नय०
विकिरति मुहुः
विकीर्णहार चन्दन
विक्रमा गति०
2632
विघाते वचसो.
1849 विघ्नेशो वः स
4645 विचारदर्पण
2761
2691
590
2545 विजृम्भते लेढि च
2708 विजेतव्या लङ्का
1815
विडङ्गसम०
विजयाख्यो ध्रुव::
विजिगीषुररि०
विजितात्मभव ०
2597 विनोमये न्यस्यति
62
विण्मांसभक्षादिक●
2405
वितरति गुरुः
2689 विदेहेषु तथाङ्गेषु
2641 विद्या चण्डासि●
2833 विद्युदाहत वृक्षस्य
विद्यायां दुर्मदो
विद्यावतः कुलीन ●
2610
2659
1816
विद्राणे रुद्र वृन्दे
2638 विधूतकर्णे शुनि
2703 विधे पिधेहि
2704
विश्वस्ता मृग०</p>
<p>2690
4399
2722
4474
2155
2514
2299
409
1559
997
4197
4225
2079
691
1580
3288
3729
533
3498
4078
323
1694
2777
4512
90
4208
1991
1296
518
2631
504
3038
2487
2630
414
4673
2971
2160
497
396
112
2633
499
1159</p>
<pb n="765" />
<p>दिनतः पूर्वकाग्रेन
विना मह्यं विना
विना शार्ङ्गधरं
विनैवाम्भोवाहं.
विन्ध्यमन्दर ०
विन्ध्याद्रिः करिसाधने
विपत्यशान्ये
विपदि वैर्य ०
विपन्नं पद्मिन्या
विधुलकुचा वृथु०
विपुलहदया०.
विप्रेभ्यो दक्षिणां
विभागेन समाना०
विमर्शक: शाकुन ०
विमुञ्चन्त्या प्राणा
वियत्पुच्छाच्छोटो०
विरमत घनाः किं
विरमत विरमत मुख्यो
विरम तिमिर
विरम नाथ विमुञ्च.
विरलविरलीभूना•
विरहविषमः कामी
विराजतेस्यास्तिलको
विरामान्तं हु.
विलपति तथा.
विलम्बिनो यत्र
विलासमसृणो
विलिप्तं मधुना चित्रं
विलोक्य संगमे
विकसदसित ०
विवादो धनसं०
विवाहार्ये शुभः
विविक्तः शान्त ०.
विवेकी सघृणो विप्र०
विशदः शम्भुत्येिते.
विशन्नस्थिमुखो
विशाखस्थानके
विशिष्ट कविशंसा
विशुद्धिः कण्टं
विशोधय मही●
विश्रम्य विश्रम्य वन ०
विश्रान्तो दिवस
विश्लेषाकुल:
विश्वस्य हेतु०.
शार्ङ्गधरपद्धतिः
1708 विश्वासहन्ना
4045
1715
3520
1064
1264
1091
209
981
3102
149
1880
1490
2329
3492
82
3898
3432
763
3675
3718
3572
3295
2005
780
2168
15
4299
1350
विश्वोपजीव्येषि
विषधरती०
विषपाषाण●
3399
3420
3592
5.12
विषमा मलि०
विषमा हरिणा गौरा
विषयद्वानि०
विषयेष्वपि कष्टो
विषहीनो यथा नागो.
विष्टावमिश्वास
विष्णुकान्ता च
विष्णुनाणक्षयो
विसंस्थुलावेश ०
विस्तीर्णो दीर्घ
विस्वरं विरसं
विहरन्ति जगत्ये के
विहाय पौरुषं..
वीणावंशा०
वीरोसी किमु०
वृकव्याघ्रतरतॄ०.
वृक्षं क्षीणफलं
वृक्षस्याशनि ०.
वृक्षमूर्ध्नि यथा..
वृक्षांछित्त्वा महाँ.
वृक्षान्दोलनमद्य
582
28-18
3586
वृत्तार्क सूत्र०
वृथा वृष्टिः समुद्रेषु
1713
1469
वृद्धकर्पास०
वृद्धदारुकमूलं
वृद्धिर्यस्य
।वृद्धोन्वः पति ०
2413
4251
1614
वृश्चिककण्टक</p>
<p>2339 वृश्चिको वस्तुमध्ये.
2442
1838
वृक्षायुर्वेद फलं
वृक्षस्यका शाखा
वृषणौ च समौ वृत्ती.
वेगज्वलाद्वटप
वेगादुत्सुक्रमांगते..
वेगो रोमाञ्च०
देणीवन्धकपर्दिनी..
वेणी विडम्बयति
वेदवेदाङ्ग ०
वेदानुद्धरते
वेदार्थशास्त्रकाव्यार्था
722
800
349
2117
353
2746
4391
4190
1364
2400
1888
4277
3173
1034
1961
4341
456
325
3991
2962
1543
2268
4481
639
1216
2276
2203
1767
1454
2948
2080
986
-110
2241
2541
1630
869
3539
2894
3168
3378
1333
80
4524</p>
<pb n="766" />
<p>वेदाहमेतं पुरुष
वेदने चैव मासस्य
वेपथुर्मलिनं
वेपन्ते कपयो
संद्यं पानरतं नटं.</p>
<note>०.</note>
<p>वैद्यनाथ नम०
वैद्यस्य गच्छतो
"वराग्यभङ्गि
*वरेचनफल ●
वैशाखे निरूपहते
व्यज्यमान कलङ्कस्य
व्यथयतितररा
व्यन्तरगोनस •
व्याकुलोपि विपत्
व्याघ्राभश्च स्तनी
व्याघ्राभो व्याघवर्णः
व्याघ्रीव तिष्ठति
व्याधिवित्तविनाश ०
व्याधिवश्ववन्ध
व्यालग्राही यथा
व्यालोलः केशपाशः
व्यावृत्तं खलु
व्यासादीन् .
व्योमव्यालोलमुक्ता०
व्योनि सूक्ष्मप्र ०
व्योषपिच्छ ●
व्योषाजाजि ●
व्रजति ति०
व्रजत्योधो यात्युच्चै
व्रजत्यपरवारिधि.
व्रजन्ति ते मूढ०
व्रजेत्पुरस्ताद्यदि
व्रीडायोगान्त्रत●
श
Q
शकटारोपिनभाण्ड
शकुनः शकुनं दत्त्वा
शक्तिरहितोपि
शकादरक्षि यादे
शङ्कः कीलश्च
शङ्काः सन्ति सहस्रशो
शनीनं नवनीतं
शतपदीसाने...
श्लोकानुक्रमणिका
4487
1738
393
3921
1542
4038
2767
4027
2015
2496
754
491
2928
1527
1657
1661
4093
699
2737
609
3704
3559
205
3852
4534
2926
1710
3143
1503
3719
1403
2601
3164
शतमेकोपि संधत्ते
शपथैः संवितस्या०
शब्दं कृत्वोडीयते
शब्दवद्भिरलंकारैः
शब्दादिभ्यः प्र०
शब्दानुशासन •
शब्दार्थयोः
शब्दार्थानखिलान्
शमितनिखिल ●
शय्यादीपाश्रम
शय्या पुष्पमयी
शरजालाञ्चित०.
शरणागतरक्षा ०
शरतोमर चक्रैश्च
शरत्स्वभावव्याख्यानं
शरदिन
शरदि समग्रनिशाकर०
शराणां कथितं
शराच विविधाः
शरीरं न नयत्येव
शरीरलघुता दीप्ति
शरीरातीनवृत्तिः
शर्करसिन्धवं.
शर्करानिलगो०
शलभाः मारसाः
शलभाखुपनङ्गानां
शशकूर्मासमध्ये
शशभृन्नवपल्लवे
शशशटकोल
शशाङ्कनाड्यामध
शशिनखगिरि ०
शी दिवसधूसरो
शस्त्रनिभिन्न प
शाशतचित
शाखा संततिसं०
शाखोट शाल्मलि०.
शाश्येन मित्रं कपटेन
2785
2586 शाणद्वयमितं चूर्ण
1532
1069
2016
1119
2878
1215
शान्तसंदेह
शान्तस्यापगते...
शान्ता मैन्द्री ककुभं
शान्तायां दिशि वृक्षेषु ग्राम०
शान्तायां दिशि वृक्षेषु शुभेषु
शान्तासु दिक्षु</p>
<p>1365
1302
2736
3331
4461
1953
179
4525
3710
623
3412
1566
683
1597
48
245
492
1820
1774
4599
4382
4247
3235
2274
3018
2162
2307
$398
2756
2716
3259
1530
1608
973
1051
982
1538
2867
4215
4236
2474
2466
2468
2648</p>
<pb n="767" />
<note>७५२.</note>
<p>शान्ते मन्मथसंगरे.
शान्तो मेि
शाम्भलाश्चार्जुला०
शारीरैः कर्म ०
शार्ङ्ग पुनर्धनु०
शालिमण्डेन
शालेयेषु शिलातलेषु
शाल्मलीनलनि०.
शाल्मलीत्राङ्किशा०
शास्त्र सत्सङ्ग ०
शास्त्राणि तावद ०
शास्त्राधि सकलं
शिखास्थाने न्यसे ०.
शिखिग्रीवा तु०
शिखिपिच्छवचा०
शिग्रुजटारस●
शिरः कूर्च च
शिरः सुबीनं ...
शिर छायां कृष्णः
शिरसा धार्यमाणो
शिरसि निहितो •
शिरीषदुष्यं
शिरीषवीज ●
शिरीषशाखिना
शिलागोरोचना ०
. शिलानालक ०
शिला सम्यग्वीत.
शिवः शवररूपेण
शिवस्य शक्तिजीवोस्ति
शिशिरसीकर ●
शिष्याय मानुषं
शीकारातिभय
शीघ्रं भूमिगृहे
शीतः सुभिर्विरजाः
शीतलादित्र
शीनार्निप्रसर •
शीतास्वप्सु निषिच्य०
शीतोष्णादिभि०
शीर्ष नरस्योपविष्ट ●
शीलाविज्जामा रुला
शुक यतव
शुक्रतुण्डच्छवि०
शुक्रहरि नयवानां
शुकान्योक्तिस्ततो.
शार्ङ्गधरपद्धतिः
3703
2680
1677
717
1757
3013
771
2846
2279
4224
2084
4-620
1732
1786
2923
3010
3066
659
79
753
369
2908
2907
2097
3199
2955
3303
2870
4503
3897
1735
1473
3411
2566
3862
3933
619
4507
2485
163
86
874
3920
शुकीचञ्चूवात●
शुकशोणित ०
शुक्रेधिके भवेत्
शुचिः स्नातो विभत्र०
शुचि भूमिगतं
शुनिरिति परितः
शुद्धं हेम लक्ष्ण
शुद्धदागसमुत्पन्नं.
शुद्ध मूडोन०
शुद्धाशुद्धश्च
शुनकोत्तमास्मिन्..
शुना निमित्ताद्व०
•
शुभः प्राग शुभः
शुभः स्यात्प्रविशन्
शुभवासनया चेतो
शुभस्वरो यः शुभ०
शुभादनन्तरं
शुभाशुभाभ्यां मार्गाभ्यां
शुभा सदैव कौवेर्या
शुभ्रायाः शर०
शुक्रं पार्श्वद्वयं.
शुश्रूषस्त्र गुरू०
शुष्ककटि:
शूरमारोहकं कुर्यात्
शूद्रश्च ब्राह्मण
शूद्राश्चान्येषु कृत्येषु
शून्यं गमनं नि०
शून्यं वेश्म चिरा०
शून्येषु चावकाशेषु
●
शूलेन पाहि
शृङ्गारवीरकरुणा ०
गृङ्गिमत्स्य ०
शृणु सखि कौतक मे कं
शृणोत्याश्चर्यवन्कोपि
शेफाली शत
शेषवासुकि ०
शैत्यं नाम गुण ०
शोफवास्निग्ध०.
शोषं गते सरसि
श्यामाकपुष्पचित्राङ्गो
यामा कृष्णा शकुनि ०
इमानगर ०
25 इयामानिदीर्घ जिद्दा
3338
4290
4291
2136
611
3593
3050
1963
2034
3152
2336
2392
2592
2799
4200
2396
2769
4198
2503
1895
4631
3770
3107
1595
726
1616
2809
3774
4470
1338
1898
3073
2960
4058
4484
3207
2882
1165
2800
785
2832
2676
3062
2829</p>
<pb n="768" />
<p>श्ममासुरभि०
श्रमं च कुर्तत
श्रमयति शरीरं
श्रमेण चित्रयोधित्वं
श्रमेणास्खलितं
श्रवणाञ्जलि
श्रवोमलेन..
श्रीफलसमवक्षोजा
श्रीभोज साम्यं तव
श्रीमूलमण्डनं यस्य
श्रीविष्णुधर्मो०
श्रुनं दृष्टं स्पृष्टं..
श्रुतिस्मृत्युक्तमाचारं
श्रुत्वा कुम्भसमुद्भवेन
वापि यदनभ्यासो
श्रुत्वा बालमृगी..
श्रूयतो ज्ञान ०.
श्रूयतां वर्मसर्वस्वं.
श्रेयो घनार्थिनां
श्रोत्रियं सुभगा
लाध्यं कर्पास
श्लाघ्या महता ०
श्लेषे केचन
श्लोकार्तेन प्रवक्ष्यामि
श्रवानभल्लभषणाः.
श्वा चेद्द्वरस्यामि०
श्रा नावुभावप्यभि०
श्वासः किं त्वरिता
श्वेनं पढ़ समभि०
श्वेतवच घृत
श्वेताद्रिकणिका ०.
श्वेता द्विजाः क्षत्रियकाश्च..
ती विश्वंभरकः.
O
O
ष
बटुकर्णो भिद्यते मन्त्रः
बटविशद्वर्ष ०.
षडक्षरेण
षडङ्गुलो भवेन्मध्यः
षड़जं वदेन्मयूरो.
षड्जर्षभ
षड्जादयः स्वराः
पडि: प्राणैः पलं
श्लोकानुक्रमणिका
2963
1826
3302
1813
1812
173
2903
3094
1253
1605
4639
3087
1525
1178
4188
3889
4252
670
672
59
1054
226
177
पभिर्दन्तैः सिताभ ●
पण्णी पदानां वा...
षण्मासात्सिध्यने
षष्टिवन्वन्तरे.
षष्ठं तु तालु
षष्ठीषु तेलं
स
संकल्पतन्तावखिला
संकेत कुञ्जभुवि
संक्षोभ पयसि..
संख्यातीनाः पुरा..
संख्येया न भवन्ति
संगतिः श्रेयसी राजन्
संगीतरक्तः
संग्रहे तृणकाष्ठानों
संग्रामाङ्गणमा ०
संतप्तायसि...
संताड्य कमपि
संतुष्टे निसृण पुरा०
संतोषामृत ०
संदष्टेधरपल्लवे
संदेहो वैष्णवे
संधानं त्रिविधं
संधिविग्रहयानानि
4420
2330
2369
2383
संध्याकाले रुवन्..
3507 संध्याताण्डव० देवस्य..
4146 संध्यानाण्डव० भर्गस्य
संध्यानती नर०
संन्यस्तभूपापि
2933
1892
2331
संपकेक्षुर स०
2188 संपदा सुस्थित
संपदो महनामेव
संपश्यन्नामिकाग्रं
संप्रति न कल्प०
1351 संप्राप्तेवभिवामरे
3027
संभृत्य महती सेना
693 संभोजनं संकथनं
1638 संमार्जनी व कपमं
2047 संमुखं वा समा...
2042 संमुखमयानी
2043
संवा रमणीय
संगांत साग</p>
<p>1699
1974
1834
1819
4357
660
4214
3495
3844
4387
1080
1396
3114
2528
1225
330
2561
3992
310
3668
528
1802
1408
2464
100
109
65
3372
2281
461
118
4434
766
349]
1937
1395
2411
1803
2711
2399
3971</p>
<pb n="769" />
<p>संविष्टो ग्राम"
संसदि तदेव
संसर्गाद्भवति
संसार तव दुपार
संसाररात्रि०.
संहारवीजबहुल:
स एव काल:
स एव जीव:
स एवं धन्यो
स कथं न स्पृहणीयो.
सकरीरा चेद्रदरी
सकलभुवन ●
सकुशः सितः,
सकुष्ठरेणुक ०.
सकृढाकृष्टचापेन
सखि प्रयान्नत्वा
सखीभिक्षा याचे
सखीवाक्यं नव०
सगुणी सच
सगुणैः सेवितो०
संघतं मरिचं
स: सर्वात्मना
संचारश्चाभिसारीणां
सच्छिद्रो मध्य
सज्जितः कल्पितः
सज्जितसकल ●
सततोदार दुत्तासु
सत्कोणं लोलनेत्रं
सत्पादपान्विपुल
सत्यं सत्यं मुने
सत्यप्रशम०
सत्यं वल्लभ एष
सत्सांगत्यमवाध्य
मवरजोभ्यां
सदातिशययुक्तेन..
सदानुरक्त प्रकृति :
सदा सुप्ता भवन्त्येते
सद्भिरेव सहासीन
सद्यः पार्टितकेतको०
सद्यः प्रसूता सुरभी
सद्यः सान्द्रमपी०
सद्यो ज्वरं सैरिक'
सद्यो भुजंग
सद्विद्या यदि का
शार्ङ्गधरपद्धतिः
3947
139
।सद्वृत्तसगुण
सधूर्जटिजटा०
328 सन्तश्चेदमृतेन
सन्ति श्वान इवा० ...
4193
4118
सन्तु द्रुमाः किसलयो ०.
2577
सन्तोषि सन्तः
4609
सन्मार्गे तावदास्ते
4324
सन्त्येके धनलाभ०
482
सन्त्येव गिलिता०
3353
सपक्षो लभते
2215
सप्ततिश्चैव
121
2189
सप्तत्रिगुण ●
सप्तष्टिताः
2922
1831
3160
3485
44
4183
1148
2906
4194
43
447
1596
3526
4226
4039
1153
855
432
3578
875
3113
4202
1288
1617
1422
3638
2569
3607
2668
2905
473
सप्तस्वरास्त्रयो०
सप्ताभिमन्त्रितं
• सप्ताभिमन्त्रिता ०.
सबैता धारणा
सप्तैतानि न पूर्यन्ते
सपृषत्कण्ठ ०
सफला वा बदरी.
सफलो मांस०
सवागदालापः
सवाह्याभ्यन्तरं
सभयचकितं
सभा वा न
समं नपुंसकं
समं विलासेङ्कुरितः
समः समासनो
समकालं सजातीया
सभपादे समी..
समर्थता विक्रयो
समश्नतोर्यद्य०
समाकृष्टं वासः
समागमिष्यतो०
समाङ्गुलस्थाः
समाच विला
समाधिः समता०
समा पष्टिना
समा समासन्न
समाहितो ब्रह्म०
समीपजानं यत्नेन
समुद्भिरसि
समुद्रस्यापत्यं.
समुद्रान्योक्तय०
1173
101
1552
157
3804
240
3300
4110
990
1449
1920
2900
3996
2041
2935
2938
4540
1456
2821
2183
4219
3171
4462
3549
1345
1775
3276
4432
2593
1793
2524
2386
3677
863
4684
1682
4488
1709
2119
4563
2157
839
1167
28</p>
<pb n="770" />
<p>O..
समूलघान
समूलपत्रमु
सम्यकृष्टे समे.....
सरटं वारये ●
सरसिजमरूपं
सरसि बहुश०
सरस्वती च
सरस्वती पवित्राणां.
सरस्वतीव....
सरस्वती स्थिता
सरोषदष्टावर •
सन्सार णिवारि०
सर्पदष्टप्रवेशे
सर्पव्याघ्रादि ०
सर्पाः पिबन्ति.
सर्वापसर्प
सर्वावासः पश्चा०
सर्पगुडक्षीर
सर्वसहा ये
सर्वज्ञोपि शिवः
सर्वत्र संपद०
सर्वत्र हंससारस●
सर्वथा संत्यजेत्
सर्वथा स्वहित०
सर्वदा सर्वदशेसीति
सर्वपातकसंघात ●
सर्वबालग्रहेषु
सर्वमेकत्र
सर्वलोहास्तु ये
सर्वश्वेतो हयो
सर्वसङ्गविहीन ●
सर्वस्यापि नवो०
सर्वस्यैव हि रत्नस्य
0
सर्वाङ्गकृष्णः परि ०
सर्वाङ्ग मोटको..
सर्वा दृष्टीः परि
सर्वाशोपरिपूरि
सर्वाशरूम
सर्वासु दिक्षु फेरूणां
सर्वास्तुम्ब्यः सम
सर्वे मिथुन :
सर्वे यत्र विनेतारः
सर्वेषांत पदार्थानां
सर्वेषां वृक्षजानीना
श्लोकानुक्रमणिका
- 267
3036
2131
1673
3196
801
2929
2194
2237
1451
4296
316
2755
625
1434
1221
731
2977
3057
1787
1643
4552
4311
190
184
1218
4082 सशर्करामा
38-10 सहकार कुसुम ०.
2904 सहग्रामोद्भवाः
1889
सहजान्व०
318
सह परि०
सहस्रदलपद्म०
।सहस्रशीष पुरुषः
सहिष्ये विरहं नाथ
2152
3314
2334
4316
4211
1118
3854
2460
1063
4286
1467
। सर्वेषां वृक्षाणाममः
सलालनमलकानां
सलीलमियमायान्नी.
4185
2108
सलीलगातानि न
स वेदो निर्वेदः
सव्यं जानुगतं..
सव्यावेः कृशता..
सव्यापसव्यसंमुख •
सव्याहत सप्रणव
सव्रीडार्वनिरीक्षणं
सांध्यरागरूधिरा०
साक्षात्प्रेमावभारः
साक्षान्मघवतः
सागसि प्रियतमे
सा तन्वीति घन०
सा तोरणान्तिक ०
येर्न वा
सा दृष्टा
साधुरवा ०
। सानन्दं नन्दि०
। सानुस्वारो विसर्गान्तो
सान्द्ररोपण ●
सान्द्रां सुकठिनां.
सा बाढं भवले -
साभार्या या प्रियं
सामदाने भेद
सामगायनवूनं
सामवेदात्स्वररा
सा मां द्रश्यति
सामैव हि प्रयोक्तव्यं.
सा यावन्ति पदा०
सारङ्गो न लना ०
सा रज्जुस्तदनु
सारभूतमुपा
सा रसवत्ता
सारासार परि०
सार्धं मनोर</p>
<p>2191
3808
3364
3993
4180
1795
3.22
2324
4444
3780
2227
3787
4678
348
224
1370
494
3394
3587
4129
4007
3650
3446
3405
3368
399
91
2063
2147
1681
3568
1500
1410
4062
2039
3499
1300
3580
944
2143
4561
4001
1387
3603</p>
<pb n="771" />
<p>सार्धाङ्गुलप्रमाणेन
सालकाननयुक्ता०
सालमं मुखरं
साशङ्कस्य समा०
सा सुन्दर तव
सिंह: शिशु०.
सिंहान्योक्तिर्गजान्योक्ति ०
सिक्तायां वीरकण्ठ ०
सिक्ताम्भोभिः
सितदूवाँ सित
सितवर्ण: पिङ्गाक्ष०
सितवर्षाभू
सितवसन •
सितशरपुडा
सितशाल्यांदनं
सिकचरणः पुष्प०.
सिद्धार्थ: कढली०
सिद्धार्थकफलो●
सिद्ध्यै केनचिदुक्तं
सिद्धये यातुरविघ्नं
सिन्दूरं सीमन्तात्
सिन्दूर सह्या
सिन्धुस्तरंगरुप
सीत्कार संजनयति
सुखदुःखहर्ष ०
सुखशय्या ताम्बूलं
O</p>
<p>सुखिनश्चाशुभा.
सुजनो न याति
सुतनु जहिहि.
सुतभृत्य सुहन्
सुदीर्घा रागशालिन्यो
सुधाकरकर स्पर्श ०
सुधामयोपि क्षय०
सुन्दरी सा भवत्येष
सुभाषितमयेद्रव्ये ०
सुभाषितरसा०
सुभाषिनवर्
सुश्रुत्वं कुपिते
सुमन्त्रिने .
सुमनोवररत्नानां
सुमुखोप सुवृषि
सुरतविरती वीडा:
सुरताय नमग्नामें
सुरतेच समा..
शार्ङ्गधरपद्धतिः
1859
1275
1329
1232
3473
283
26
136
1113
524
1234
सुलक्षणा महावेगा:
सुलभाः पुरुषा राजन्
सुवर्णसदृशा० ..
।सुपुग्णान्तः प्रवेश्यैव.
सुसंनद्ध समस्त •
3203 सुस्निग्धैः पिशित
सुस्वरं सरसं
सूकरसृग्वसासिक्त ०.
सूकरिका माप०
2236
2837
2944
3097
3222
। सूक्ष्मं रजत ...
2161
1660
सूक्ष्म ऋजु: पुच्छ ०.
। सूक्ष्मात्सूक्ष्मतर
2246 सूक्ष्मेभ्योपि
सूक्ष्मैलाकस्तूरी०
सूचीमुखगति ०
सूची मुखा मीन ०.
2249
2572
2567
1240
सूरणद्विपदानाभ्यां
2692
3781
2504
सुरदारूमलय
सुरभिजल
सुरभिसुमनो
सुरसं जलमादी
237
3577
1419
.....
सूर्यवार: शुक्र ०
सूर्याचन्द्रमसोः
। सूर्याचन्द्रमसी मूर्ध्नि
। मूर्योदये गृहोव
सृजति तावदशेष ०
सेतुं संभेदयन्तो
सेनापति गजा०
सेवया धनमिच्छद्भिः
सेवनं योषितां..
3335
सेयं स्थली नव
1102 सैन्योत्तारणतो
3305
3360
सैरन्ध्रीकर कृष्ट
सेव क्षेत्राद्विनि -
141
सैव परं न
156
56
3556 ।सोमकान्तो मणिः
सौख्येषु हसित ●
सौन्दर्यपात्रे वकेन्दौ
सौन्दर्यमिन्दीवर ०
सोपि दक्षस्य
सोमः शौचं ददी
1431
1414
358
3707 सौम्यानि यानि
511
सौभाग्यं विरलक्ष्य
3605 । सौरग्वं मृगलाच्छने
3262
2242
2277
2214
1618
1360
4629
-1369
4306
2262
1950
2301
2220
4637
1636
4544
1341
3251
1846
1845
3257
1726
4289
1650
2437
4000
1572
1903
1373
3134
948
1575
3591
2523
272
4283
3083
1100
3163
3306
3877
1900
4.8.4
3374</p>
<pb n="772" />
<p>सौहदेन परित्यक्तं
स्कन्धतः समन्ततः
रकन्धापितक०
स्खलितबहल:
स्तन इव च गले
स्तनपरिसर भागे..
स्तनयुगलकर्ण●
स्तनयुगमतीव
स्तनी मांसग्रन्थी
स्तब्धस्य नश्यति
स्तम्भे गजाना नियतं
स्तोकाम्भः परिवर्तित
स्तो के नोन्नति०
स्त्रियस्तु यः कामयते
स्त्रियः पवित्रं
स्त्रियोवतारयन्त्येते
स्त्रीबालस्वामि०
स्त्रीमुद्र कुसुमा
स्त्रीरत्नं मोहनं
स्वीर लध्यानमात्रं.
स्त्रीलाभं रवि०
स्त्री विनश्यति रूपेण
स्त्रीसेवाकथनं
स्थलीनां दग्धानां
स्थानं गतिस्तथा..
स्थानस्थस्य प्रयातु
स्थानस्थानो चतु०
स्थानस्थानां शकुनं
स्थानस्थितस्य यस्य
स्थानस्थितानां सूर्य ०
स्थानान्यष्टौ
स्थानान्तरं विभ्रत्
स्थानान्निर्गत्य दूरं
स्थानी कृतेषु यदि.
स्थानेश्वर
स्थाने स्थाने मलय
स्थापयित्वा घटे
स्थावरं जङ्गमं चेति
स्थावरं जङ्गमं चैव
स्थावरजङ्गम०
स्थित्वा क्षणं
स्थित्वा स्थैर्या०
स्थित्वोन्नते वा यदि.
स्थिरस्निग्वे विशाले
श्लोकानुक्रमणिका
1460
2294
3188
3170
2819
3730 स्नातुर्जनस्य दशमी
3227
स्नानं नाम मनः०
स्नानाम्भो बहु..
स्नानाद्रमुक्तेष्वनु
स्निग्धशाखादल:
3370
4147
1537
2661
1130
373
1494
3084
1569
709
3082
4192
4191
2536
1444
36
स्थूलः कृशः कृशः
स्थूलश कृन्मणि ०..
स्थूलश्च क्रोवनो●
स्थूला वा तन्वी वा
स्नाताः प्रावृषि मेघ ०
स्निग्धा दीर्घाश्च
स्निग्ध यवागूं...
स्निग्वे यत्परुषासि
स्नुह्याजदुग्ध
स्नेहेन भूति ०
स्पष्टचेष्टः शुभः
O
।स्पृशन्नपि गजो
स्फटिकमरकत ०
स्फटिकस्य गुणो
स्फीतं शीतं...
स्फुरन्तः पिङ्गला०
स्फुरिते जठरे
स्फुरसि बाहु
942 स्फुरितं कम्पितं
2584 स्फुलिङ्गा यस्य ...
2518 स्मयमानमायतायाः
2459
2323
2406
2501
1789
2621
3504
2714
2165
स्वच्छन्दं हरिणेन
3792
स्वजानुतः करावर्त
3043 स्वनत्यगारं यदि
2859
स्वनित्वोपरि गेहस्य.
2866
स्वपतो ब्रह्मणः
2936
स्वपुषमभि०
स्वप्नेग्नि प्रविशेत्.
स्मर्तव्या वयमिन्दु
स्मर्तव्योहं त्वया
स्मितपुष्पोद्द्र मो•
स्यात्कलिः करकर०
स्याद्भस्मितायां न..
स्यायदि वामा श्यामा
स्रग्दाम मूर्धनि
स्वकालपरिमाणेन
800
571
स्वफलनिचयः
2604 स्वभावकठिन ●
1584 स्वभाववैपरीत्येन
......</p>
<p>4571
2831
1683
3101
1280
661
1415
3751
3289
2260
1703
4510
3548
3223
371
2591
1447
110
1101
3830
3864
507
3533
2036
1671
3317
3392
3391
3656
2492
2447
2718
1192
4267
947
4446
2427
2430
4266
735
4584
1544
365
4587</p>
<pb n="773" />
<p>स्वयं यो राजते
स्वयम प्राप्तदुःखो यः..
स्वरेण पदसंयुक्तं.
स्वरोदये शुभे.
स्वर्णै: स्कन्ध०
स्ववशः करोति
स्ववासनावश
स्वस्ति क्षत्रिय०
स्वस्तपस्तु विम०..
स्वस्त्रजातैस्तु पृच्छायां
खाकृष्टस्तेजितो
स्वाधिष्ठानं द्वितीयं
स्वाध्यायशौच०
स्वामिन्प्रभो प्रिय
स्वामी निःश्वसिते ●
स्वामोदवासित
स्वाग्यमात्यश्च
स्वावर्ते च विशालं
स्विन्नं मण्डल मैन्दवं
स्वेच्छया त्वरिता..
O
स्वेदस्ते कथमीदृशः
स्वरं कैरवकोरका०
ह
हंसः प्रयाति शनकै
हंस द्वादश
हंसा: पद्मवन ●
हंसाभिधानः पवनो
हंसेलब्ध प्रशंस●
हंसो यथा राजति
हेहो दग्धसमीर
हतेभिमन्यौ कुद्धेन</p>
<p>हदि प्राणो गुदे
हन्तुं मेषोपसरति
हन्यन्ते काकप ङ्कीभिः
हथी मृगमिभी०
हर कण्ठग्रहानन्द
हरमुकुटे सुर०
हरिद्रां दुग्धसहित
हरिणीछागयो●
हरिणी छागी.
हरिणी मृगयो०
हरिणीहग्रयो •
हारेरलस०
शार्ङ्गधरपद्धतिः
2045
3425
1951
2793 हर्तुर्यानि न
988
439
4338
501
1082
हस्तादपि न
2332 हस्तार्के लाइली ०
1856
4353
44.27
3691
3776
826
1407
1622
3692
हास्यूशृङ्गारयोः
हिङ्गुसन्धवसंयुक्तं
1695
3631
101 हिङ्ग्ग्रलशुन ०
हितोपदेशं शृणुयान्..
हिन्दौला स्वगुणा
हिमभवलदन्त
हिमवत्कन्यका०
4574
3128
68
751
2871
3125
।हरीतवयास्त्रयो
हच्छिरीप०.
हरो यद्युपदेष्टा
हविः समुद्धृत्य नरो०
हस्तःपुनर्वसु:
हस्तद्वयस्थितैः.
हस्त प्रमाणा
1182
4321 हिमवदुत्तरे
1038 हिमसमयो
2795 हिमाखुक्रिमि०
1126
3625
795
3982
4315
1402
3122
3124
हस्ती वन्यः स्फटिक ०
हस्ती मा
हहश्च नृपनाशाय.
हा तात तातोते
हारानाहर देव०.
हारीता: सरसं
हारो नारोपितः
हावहारि हसितं
हिरण्यवान्य
हीनदन्तोधिकचैव
हीने तु संधि
हूणी सीमन्तमुद्रा
हते करिये तु..
हताधिकारां मलिनां
हतोङ्गरागस्तिलकं
हृदयं कौतुभोद्भासि
हृदयानि सना
हृदि लग्नेन
हृदि विसलता.
हृष्टास्यं भषणं
हण्यत्कृष्टासिपिष्टो ०
हेतु प्रमाण ०
हे दारिद्रय
3129
904 हे दावानल शैल०
3033
2954
4213
203
2342
1723
631
2140
485
1885
1250
2223
2457
3970
1236
871
3429
3652
2049
3244
2912
1523
2057
3919
1962
2952
984
2980
1293
1656
1755
3930
728
656
3849
119
234
186
3460
2415
1251
335
402
1156</p>
<pb n="774" />
<p>हे पक्षिनाग०.
हे पान्थ प्रिय
हे पान्था: स्वगृहाणि
हमन्ते शिशिरे
हेममञ्जरिमालाभ्यां
हेलाविच्छित्ति ०
हेलोल्लासितकलील ●
अध्वन्यैर्मकरन्द्र ०
उपरि घनं घनपटलं
एकाकरणढेकी ०.
किं गतेन यदि
श्लोकानुक्रमणिका
808 । हे हेमन्न स्मरिष्यामि
3931
होमपूजाशन ●
हस्वताव यो
●
8817
2153
3359
3155
1087
इस्वश्रवणला ङ्गुल
हेषिते स्कन्धमुद्दिष्टं
होते रखलिते
परिशिष्टम्
3821 । तद्वद्बुद्धिमशेषाणां..
3886 दृष्टा प्रागुपविष्टा
2033 पक्षमाग्रग्रथिताश्रु०
3885</p>
<p>3923
2765
1623
1590
1688
1687
4535
2695
3414</p>
<pb n="775" />
<pb n="776" />
<pb n="777" />
</body>
</text>
</TEI>