p 114 श्राद्धरवेदान्तकोश: 2 कुलपतेः डॉ. मण्डनमिश्रस्य प्रस्तावनया समलङ्कृतः प्रणेता डॉ. मुरलीधरपाण्डेयः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः वाराणसी SARASVATĪBHAVANA-ADHYAYANAMĀLĀ [Vol. 48]. SANKARAVEDANTAKOSA FOREWORD BY DR. MANDAN MISHRA VICE-CHANCELLOR BY DR. MURALIDHARA PĀŅDEYA Director Acarya Śrī Pattabhirama Śāstrī Veda Mimāṁsā Anusandhāna Kendra Varanasi 0 VARANASI ik ben 1998 Research Publication Supervisor - SAMAR Director, Research Institute, Sampurnanand sanskrit University Varanasi. Published by Dr. Harish Chandra Mani Tripathi publication Officer, Sampurnanand Sanskrit University Varanasi-221 002 Available atSales Department, Sampurnanand Sanskrit University Varanasi-221 002. First Edition, 500 Copies Price: Rs. 400.00 Printed by Anand Printing Press C27/170-A. Jagatganj Varanasi-221 002. CAN सरस्वतीभवन - अध्ययनमाला [ ४८ ] शाङ्रवेदान्तकोशः कुलपतेः डॉ०मण्डनमिश्रस्य प्रस्तावनया समलङ्कृतः प्रणेता सम्पादकश्च डॉ० मुरलीधरपाण्डेयः निदेशकः, आचार्यश्रीपट्टाभिरामशास्त्रिवेदमीमांसानुसन्धानकेन्द्रस्य वाराणसी २०५५ तमे वैक्रमाब्दे गोपाय वाराणस्याम् १९२० तमे शकाब्दे १९९८ तमे खेस्ताब्दे अनुसन्धानप्रकाशनपर्यवेक्षकःनिदेशकः, अनुसन्धानसंस्थानस्य सम्पूर्णानन्द संस्कृत विश्वविद्यालये वाराणसी। क प्रकाशकः डॉ० हरिश्चन्द्रमणित्रिपाठी प्रकाशनाधिकारी, सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य वाराणसी - २२१:००२ प्राप्तिस्थानम् विक्रय-विभागः सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य वाराणसी - २२१.००२ प्रथमं संस्करणम्, ५०० प्रतिरूपाणि मूल्यम् - ४००.०० रूप्यकाणि मुद्रक : आनन्द प्रिंटिंग प्रेस सी २७/१७०-ए, जगतगंज वाराणसी-२२१००२ प्रस्तावना इदंप्रथमतया निष्पन्नमिमं शास्त्रीयकोशेषु शाङ्करवेदान्तकोशं श्रीमद्भगवत्पादशङ्कराचार्यचरणेषु समुपाहरन् विद्वत्सु च समुपायनीकुर्वन् महान्तमानन्दवृन्दमनुविन्दामि । उपनिषन्महावाक्यकोशो न्यायकोशः सांख्ययोगकोशः स्याच्चान्योऽप्येवंविधोऽदृष्टगोचरः कोशः, किन्तु शाङ्करवेदान्तस्य रिक्तकोशस्थानमयं निश्चयं प्रपूरयति । संस्कृतविश्वविद्यालयस्य च कर्त्तव्यतासु इदं कर्मायाति । अस्य निष्पादकाः सम्पादकाः सञ्चायकाश्चाद्वैतवेदान्तविद्वांसो मम सुहृद्वराः श्रीमुरलीधरपाण्डेयाः शास्त्रीयकोशकार्यदक्षास्तिरुपतिकेन्द्रीयसंस्कृतविद्यापीठे प्राचार्यपदमधितिष्ठन्तो मम निवेदनं स्वीकृत्य वैरवानसपाञ्चरात्रकोशयोः प्रारम्भिककार्यमनुष्ठाय पुनश्च दिल्लीस्थराष्ट्रिय संस्कृतसंस्थानस्य निदेशकपदमधितिष्ठन्तो ममानुरोधमङ्गीकृत्य जम्मूकेन्द्रीयसंस्कृतविद्यापीठेऽधितिष्ठन्तः कश्मीरशैवदर्शनकोशनिष्पादनकार्ये प्रदत्तभूरिसाहाय्याः पुनः काश्यामागत्य बह्वायासेन द्वादशवर्षपरिमितेन कालेनैकाक्येवेमं ग्रन्थं यथा साधु तथा निष्पादितवन्त इति धन्यवादाः । अत्र शाङ्करवेदान्तस्य चतुष्पञ्चाशन्मुख्यग्रन्थभाष्यटीकाव्याख्यानादीनामन्येषां च सम्बद्धशताधिकग्रन्थानां साहाय्येनायं ग्रन्थः प्रपूरितः । अत्र च शाङ्करवेदान्तदर्शनस्य पारिभाषिकशब्दानां गूढार्थशब्दानां सैद्धान्तिकशब्दानाञ्च प्रायः पञ्चविंशतिशतशब्दानां सङ्ग्रहः, तत्सम्बन्धे विचारः, मतभेदप्रदर्शनपूर्वकमर्थप्रकाशनम्, क्वचित् क्वचित् शास्त्रार्थविमर्शश्चापि कृतो वर्तते । नायं नवीन उपक्रमः पुराऽप्येवंविधकोशप्रणयनप्रथा प्रथिताऽऽसीत् । एवंविधा ग्रन्था उपलभ्यन्ते, यथा - आचार्यभाझर्वज्ञस्य न्यायभूषणसारः, श्रीमद्विद्यारण्यस्वामिनो बिवरणप्रमेयसङ्ग्रहः, श्रीमदप्ययदीक्षितस्य सिद्धान्तलेशसङ्ग्रहः, श्रीकौण्डभट्टस्य वैयाकरणभूषणसारः, श्रीमन्नागेशभट्टस्य वैयाकरणसिद्धान्तमञ्जूषाप्रभृतिग्रन्था कोशरूपा एव सन्ति; किन्तु एतेषु परिगणितान् सप्त अष्टौ वा विषयान्– ख्याति-विधि-ब्रह्म-जीव-अविद्या-धात्वर्थ- सुबर्थ-शक्ति-लक्षणा-बौद्धार्थप्रभृतीन् सङ्गृह्य मतमतान्तरप्रकाशनपुरस्सरं स्वशास्त्रीयसिद्धान्तप्रदर्शनसमर्थने कृते वर्तेते । [२] अत्र तु यथालभ्यशाङ्करवेदान्तग्रन्थान् तत्सम्बद्धग्रन्थांश्चान्यान् आधृत्य तेभ्यश्च गूढार्थशब्दान् कांश्चिप्रसिद्धार्थशब्दांश्चोद्धृत्य तान् वर्णक्रमेण संस्थाप्य, अर्थान् विशदीकृत्याकरग्रन्थवचनप्रमाणैः सम्पोष्य परिष्कृत्य च परिनिष्पादितोऽयं शाङ्कुरवेदान्तकोशग्रन्थः । काञ्चीपूज्यशङ्कराचार्यस्वामिभिः सम्पोषितो महामहिमराष्ट्रपतिभिश्च सम्मानितः शाङ्करवेदान्तस्याधिकारी विद्वान् श्रीमुरलीधरपाण्डेयः । तेनायं सङ्ग्रथितो ग्रन्थो दार्शनिकंविदुषां चेतांसि अवश्यमेवावर्जयिष्यतीति द्रढीयान् मे विश्वासः । अनेनैव विश्वासेन श्रद्धया च विदुषां कृते उपायनीकुर्वन्निमं ग्रन्थं भृशं सन्तोषमुपलभे । मत्कृतेऽयं सौभाग्यस्य विषयो वर्तते यत् प्रायो गतेभ्यस्त्रिदशकेभ्यो डॉ०मुरलीधरपाण्डेयैः सह विभिन्नेषु संस्थानेषु कार्यनिर्वहणसौभाग्यं मया सम्प्राप्तम् । विभिन्नेषु विद्यापीठेषु, अत्रापि च सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य कुलपतित्वेन मया तेषां सेवा, परामर्श:, निर्देशाश्च सम्प्राप्ताः । सर्वेऽप्येते प्रसङ्गा अपूर्वस्य गौरवस्य विषयाः । स्वकीयया विद्वत्तया, साधनया, गरिम्णा, विद्यामहिम्ना च सदा ते मम समस्तस्यापि परिवारस्य सर्वासां संस्थानां च कृते मार्गदर्शकत्वेन विराजन्ते । सेयं सौभाग्यपरम्परा प्रतिदिनं संवर्द्धमाना वर्तत इति भगवतः काशीविश्वनाथस्यानुपमोऽनुग्रहः । ते मम गुरूणां परमश्रद्धेयासम्प्रत्यपि स्नेह-विश्वासभाजनान्यासन् । नामाचार्य श्रीपट्टाभिरामंशास्त्रिणामपि निदेशकत्वेन गुरुस्मारकसंस्थाया आचार्यश्रीपट्टाभिरामशास्त्रिवेदमीमांसानुसन्धानकेन्द्रस्य संस्थायाः सञ्चालनं कुर्वन्तो गुरुचरणेभ्यः स्वकीयां क्रियात्मिकां श्रद्धां समर्पयन्तो वर्तन्त इति महनीयमुदाहरणं तेषां विनयस्य सौजन्यस्य च । अवसरेऽस्मिन्नहं तेषां सेवाकलापं स्मारं स्मारं तेभ्यः कृतज्ञतामभिव्यञ्जयामि । शाङ्करवेदान्तकोशस्य च लोकार्पणं तत्रभवद्भिराचार्यवर्यैः जगद्गुरुशङ्कराचार्यैः काञ्चीकामकोटिपीठाधीश्वरैः श्रीजयेन्द्रसरस्वतीस्वामिपादैः स्वीकृतम् । तेभ्योऽपि स्वकीयं विनयाञ्जलिं समर्पयामि । प्रसङ्गेऽस्मिन् ग्रन्थस्यास्य शीघ्रतया सुष्ठुरूपेण च प्रकाशनाय विश्वविद्यालयस्यास्य प्रकाशनाधिकारिणे डॉ० हरिश्चन्द्रमणित्रिपाठिने, आनन्द-मुद्रणालयस्य सञ्चालकाय श्रीदिवाकरत्रिपाठिने चं धन्यवादान् समर्पयन् ग्रन्थमिमं शाङ्करवेदान्तमनीषिभ्यः समुपहरामीति । वाराणस्याम् वैशाखपूर्णिमायाम्, वि० सं० २०५५ मण्डनमिश्रः कुलपतिः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य आत्मनिवेदनम् कतिपयवर्षेभ्यः पूर्वमुपनिषद्वाक्यकोशग्रन्थं न्यायकोशग्रन्थमेवंविधमपरं च कोशग्रन्थमवलोक्य मम मनसीदमागतं यदेवंविधोऽ द्वैतवेदान्तकोशग्रन्थोऽपि सम्मुखीभवतु । एतच्च संस्कृतवाङ्मयसंवर्द्धनसंरक्षणसमर्पितजीवनानां सुगृहीतनामधेयानां पुण्यश्लोकानां गुरुवराणां श्रीमतां गौरीनाथशास्त्रिमहोदयानाम् पुरस्ताद् व्यज्ञापयम् । तैश्च पवित्रोदारमहनीयकीर्तिभिः शुभाशीराशिभिः सम्बद्धपुस्तकादिप्रदानैः संलग्नः । यद्यपीदं प्रोत्साहितश्चाहमस्मिन् शुभशङ्कराद्वैतकोशरचनाकर्मणि बहुजनसापेक्षमेकाकिमद्विधजनसामर्थ्यशक्यं कर्म न तथापि मया अन्नपूर्णाविश्वनाथकृपया गुरुजनानुकम्पया च यथाकथञ्चित्पूरितमिदं कोशरचनाकर्म । नात्र मम सामर्थ्यं नात्र किञ्चिन्मम प्रावीण्यम्, तथापि कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं क्षमाः, वचोविन्यासवैचित्र्यमात्रमत्र विचार्यतामिति श्रीयुतजयन्तभट्टवाक्यं स्मरन् कथञ्चित् कथञ्चिद् विदुषां पुरस्तादिममुपस्थापयामि । एतदर्थं समये समये मां ये प्रोत्साहितवन्तः सर्वशास्त्रप्रवीणा धीधनाः श्रीबेङ्कटाचलम्महोदयास्तथा विश्रुताः श्रीविद्यानिवासमिश्रमहोदया यथाशीघ्रं पूरयतु यथाशीघ्रं प्रकाशयतु इत्येवंरूपं वारं वारं त्वरार्थं प्रेरितवन्तो येनाहं पूरितवान् । अप्रतिमप्रतिभावन्तः शास्त्रशासनपटवः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य कुलपतयः श्रीमण्डनमिश्रमहोदया विश्वविद्यालयद्वारा प्रकाशनार्थं सर्वविधं प्रबन्धं विधायानुगृहीतवन्तः । अत एतान् प्रति स्वीयां कृतज्ञतां प्रकाशयन्नात्मानं बहूपकृतं मन्ये । अस्मिन् कठिनकर्मणि ये मम कुटुम्बिजना इन्दुमती माया नन्दकिशोर-जगदानन्द-विनयविहारि-प्रभृतयः साहाय्यमाचरितवन्तस्तान् शुभाशीभिः संयोजयन् प्रमोदमनुभवामि । अन्ते च सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य सर्वतोभावेन विभागाभ्युदयकारिकुशलप्रकाशनाधिकारिभ्यः श्रीहरिश्चन्द्रमणित्रिपाठिमहाभागेभ्यः समयेन कर्म कर्तुं निष्ठावद्भ्य आनन्दमुद्रणालयाधिकारिभ्यश्च आत्मीयान् हार्दिकान् धन्यवादान् वितरन् परमं सन्तोषमनुभवामि । अन्ते च ययोर्जनकयोर्भवानीविश्वनाथयोः कृपया एतत्सर्वं जातं तदर्थं तच्चरणेषु कोशमिमं समर्पयन् पुनरपि तयोरनुग्रहं कामये । वाराणस्याम् २०५५ वि० सं० अक्षयतृतीयायाम् विदुषामाश्रवः मुरलीधरपाण्डेयः प्रास्ताविकम् प्रस्तुतोऽयं शाङ्करवेदान्तकोशो भगवत्पादश्रीशङ्कराचार्यसमादृतौपनिषद वेदान्तदर्शनस्य विशिष्टान् शब्दानधिकृत्य विशिष्टमर्थं विवृणोति । तत्रास्यायमुपक्रमो यत् शब्दं प्रथममुल्लिखति ततः परमर्थं ततः परमुक्तमर्थं प्रमाणयितुं श्रुतिस्मृतिपुराणवचनानि तत्तच्छास्त्रतत्तदाचार्यवचनानि ग्रन्थप्रकरणश्लोकादिसंख्यासहितानि चोदाहरति । यत्र चैकस्य शब्दस्यानेकेऽर्थाः सन्ति तत्र प्रथमद्वितीयतृतीयाद्यर्थबोधनार्थम् १, २, ३ एवम्प्रकारेण संख्यां बोधयितुमङ्कान् उल्लिखति । उद्धरणार्थं गृहीतानां ग्रन्थानां प्रतीकानि बोधयितुम् ( ) इत्येवं प्रकारकं कोष्ठकचिह्नं पुरस्करोति । क्वचित् क्वचिच्च विशिष्टोद्धरणज्ञापनार्थम् [ ] इत्येवं प्रकारकं कोष्ठकचिह्नं ददाति । यत्र च न्यायकोशतो वाचस्पत्यकोशतो वा अन्यस्मादपि वा गृहीतं तत्राविकलमंशं गृहीत्वा तन्नाम सङ्केतयति । यत्र च ग्रन्थांशस्य संक्षेपकरणमावश्यकं तत्र एवं रूपेण शून्यचिह्नेन मध्यगता ग्रन्थांशा न लिखिता इति सूचयति । व्याख्यायमानशब्दस्य सम्मुखे - इति चिह्नं निरूपयति । अर्थं प्रमाणयितुं यत्र ग्रन्थांशानुद्धरति तत्रादौ यथा इति पदमुल्लिखति । अद्वैतवेदान्तदर्शने प्रयुक्तान् शब्दाँस्तु गृह्णात्येव सहैव अद्वैतदर्शनोपयोगिदर्शनान्तरप्रयुक्तविशिष्टशब्दानपि गृह्णाति । तत्तदर्शनान्तरीयशब्दानां तत्तद्दर्शनान्तरसमर्थितमर्थं तत्र तत्र पुरस्करोति । तदर्थं च तत्रत्यानि प्रमाणान्यपि उपस्थापयति । क्वचित् क्वचिच्च सर्वदर्शनसंग्रह-वाचस्पत्य-न्यायकोशादीनां ग्रन्थानामुद्धरणावसरे तत्तद्ग्रन्थवाक्यमविकलमुद्धृत्य तत्तद्ग्रन्थनाम स्मरति । प्रायशः सार्द्धसहस्रमिताः शब्दा अत्र सगृहीताः । परन्तु तत्रापि नात्र विश्वासः सन्तोषो वा यद् विशिष्टाः सर्वे तथाविधाः शब्दाः समाविष्टा एव । अपारोऽयं शास्त्रशब्दरलाकरोऽपारश्चायमर्थरलसमुच्चयः क्व च लघुकृशकायोऽयं कोशः कियद्रलमाधातुं समर्थः । अतो यत्किञ्चिल्लवलेशं विदुषां पुरस्तादुपस्थापयति, स एवालं सन्तोषं वोपनयतु । अतो गुणान् गृह्णन्तु दोषान् मार्जयन्त्विति गुणग्राहिणः सुधीधनान् विनिवेदयति वाराणस्याम् २०५५ वि० सं० अक्षयतृतीयायाम् विदुषामाश्रवः मुरलीधरपाण्डेयः अ० अ० का० टी० अध्या० अनु० अभि० गुप्तः अ० सि० अ० सं० आ० गिo आ० गि० सं० भा० टी० आत्म त० शिरोम ० आ० प० आप० स्मृ० ई० उ० ई० उ० मं० ई० उ० शा० भा० ऋ० सं० ऐ० उ० क० उ० क० उ० गो० टी० सङ्केताक्षरानुक्रमणिका अध्यायः अमरकोशकाण्डटीका अध्यायः अनुवाकः अभिनवगुप्तः अद्वैतसिद्धिः अर्थसङ्ग्रहः आनन्दगिरिः आनन्दगिरिसम्बन्धभाष्यटीका आत्मतत्त्वशिरोमणिः आगमपरिच्छेदः आपस्तम्बस्मृतिः ईशावास्योपनिषद् ईशावास्योपनिषद्मन्त्रः ईशावास्योपनिषद्शाङ्करभाष्यम् ऋग्वेदसंहिता ऐतरेयोपनिषद् कठोपनिषद् कठोपनिषद्गोपालयतिटीका क० त० का० उ० का० उ० व० मं० का० उ० व० मं० शा० भा० का०उ०व०मं०शां०भा०गो०टी० का० का० काव्य प्र० का० शां० भा० आ० टी० कात्या० श्रौत० किरा० स० कि० व० कु० कुमार-स० कूर्म पु० कृष्णं० कौषीतकी● ग० अव० ग० अवयवहेतुः ग० व्यु० शाङ्कुरवेदान्तकोशः कल्पतरुः (वेदान्तकल्पतरुपरिमलः ब्रह्मसूत्रशाङ्करभाष्यभामतीव्याख्या) काठकोपनिषद् काठकोपनिषद् (वल्ली १ ) मन्त्रः काठकोपनिषवल्लीमन्त्रः शाङ्करभाष्यम् काठकोपनिषद् (वल्ली १ ) मन्त्रः शाङ्करभाष्य-गोपालयतिटीका काठकोपनिषद् कारिका काव्यप्रकाशः काठकोपनिषद्शाङ्करभाष्यम् आनन्दगिरिटीका कात्यायनश्रौतसूत्रम् किरातार्जुनीयम्, सर्गः किरणावली कुमारिलभट्टः कुमारसम्भवम् कूर्मपुराणम् गदाधरीव्याख्यानम्, कृष्णभट्टी कौषीतकीब्राह्मणम् गदाधरी (अवयवभागः) गदाधरी व्युत्पत्तिवादः ग० श० ग० सव्य० ग० हे० गी० गी० म० सू० गी० नी० क० गी० ६० गी० मं० श्लो० आ० टी० गी० श्रीधरी० गी० भाष्यो० गौ० वृ० गौत सङ्केताक्षरानुक्रमणिका छान्दो० जाबा० गदाधरी शक्तिवादः गदाधरी सव्यभिचारः गदाधरी हेत्वाभासः गीता गीतामधुसूदनीटीका गीतानीलकण्ठीटीका गीताहनुमद्विरचितं पिशाचभाष्यम् गीतामङ्गलश्लोकः आनन्दगिरिटीका गीताश्रीधरीटीका गीताभाष्योत्कर्षटीका गौतमसूत्रवृत्तिः गौतमसूत्रवृत्तिः गौतमसूत्रन्यायवार्तिकम् गौ० व० गौ० गौ० ब्र० गौ० का० चि० छा० छ० उo छां० उ० शां० भा० आ० टी० छान्दोग्योपनिषद्-शाङ्करभाष्यगौतमसूत्रम् गौडब्रह्मानन्दी गौडपादकारिका चित्सुखीतत्त्वप्रकाशिका छान्दोग्योपनिषद् छान्दोग्य-उपनिषद् . आनन्दगिरिटीका छान्दोग्योपनिषद् जाबालोपनिषद् जै० अ० जै० अ० पा० सू० जै० उ० जै० न्या० अ० पा० अधि० जै० न्या० मा० अधि० जै० न्या० त० त० कौ० त० कौ० प्र० त० दी० त० दी० त० प्र० तत्त्व प्र० त० भा० तर्क० तर्का० त० व० त० वा० त० वा० त० वै० त० सं० त० सा० तत्त्व सं० शाङ्कवेदान्तकोशः जैमिनीयन्यायमाला, अध्यायः पादः सूत्रम् }} जैमिनीयोपनिषद् जैमनीय न्यायमाला अध्यायः पादः, अधिकरणम् जैमनीय न्यायमाला, अधिकरणम् जैमिनीयन्यायमाला तत्रैव तर्ककौमुदी तर्ककौमुदी, प्रत्यक्षखण्डम् तर्कदीपिका तत्त्वदीपिका तर्कप्रकाशः तत्त्वप्रकाशिका तर्कभाषा तर्कप्रकाशः तर्कामृतम् तत्त्वावली तर्कसंग्रहः वाक्यार्थः तन्त्रवार्त्तिकम् तत्त्ववैशारदी तर्कसङ्ग्रहः तन्त्रसार: तत्त्वसंख्यानम् ता० र० तै० तै० उं० तै० उ० शां० भा० तैति० संहिता त्रि० अमर० दश० दि० दीधि० दीधि० हेतु० नकु० नकुली० नार० मोक्षधर्म नी० क० नी० क० टी० नील० न्या० लीला० नील० पृ० नै० सि० न्या० क० न्या० को० न्या० बि० सङ्केताक्षरानुक्रमणिका तार्किकर तैत्तिरीय-उपनिषद् तैत्तिरीय-उपनिषद् तैत्तिरीयोपनिषद्शाङ्करभाष्यम् तैत्तिरीयसंहिता त्रिकाण्डशेषः (अमरकोशे) दशश्लोकी दिनकरी दीधितिः दीधितिः हेतुप्रकरणम् नकुलीशदर्शनम् नकुलीशदर्शनम् मोक्षधर्मः नीलकण्ठी नीलकण्ठी टीका नीलकण्ठी न्यायलीलावती नीलकण्ठीपृष्ठम् नैष्कर्म्यसिद्धिः न्यायकन्दली न्यायकोशः न्यायबिन्दुः ८ न्या० म० न्या० सि० म० न्या० बो० न्या० सि० दि० न्या० वा० पक्ष० परि० प० च० प० त० ५० ६० प० मा० पा० पा० यो० पात पा० सू० पु०. चि० पृ० प्र० च० प्र० प० प्र० प० до чо प्र० то то शाङ्करवेदान्तकोशः न्यायमञ्जरी न्यायसिद्धान्तमञ्जरी (तर्कसङ्ग्रहस्य) न्यायबोधिनीटीका न्यायसिद्धान्तमुक्तावलीदिनकरी न्यायवार्तिकम् पक्षता ( गदाधरी) परिच्छेदः पदार्थचन्द्रिका पञ्चतन्त्रम् पञ्चदशी पदार्थमाला पाद: `पातञ्जलयोगसूत्रम् पाणिनीयसूत्रम् पुरुषार्थचिन्तामणिः पृष्ठम् प्रमाणचन्द्रिका प्रमाणपद्धतिः प्रमाणपञ्जिका प्रयोजनपरिच्छेदः प्रकरणम् ● प्रमाणादिपदार्थप्रकाशिका प्रशस्त प्रशस्त● वायु० नि० प्रयो० परि० बृ० आ० बृ० आ० उप० . बृ० आ० वा० बृ० आ० वा० सा० बृ० उ० बौ० ब्र० व० ब्रह्मवै० ब्र० सू० ब्र० सू० भाम० भा० भावा० भाग० भा० दे० भा० प० भा० प० गु०. भाम० भाष्यो० सङ्केताक्षरानुक्रमणिका प्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम्, वायुनिरूपणम् प्रयोजनपरिच्छेदः बृहदारण्यकोपनिषद् बृहदारण्यकोपनिषद् बृहदारण्यकभाष्यवार्तिकम् बृहदारण्यकभाष्यवार्तिकसारः बृहदारण्यकोपनिषद् बौद्धदर्शनम् ब्रह्मानन्दवल्ली ब्रह्मवैवर्तपुराणम् ब्रह्मसूत्रम् ब्रह्मसूत्रम्, भामती भाष्यम् भावानन्दी दीधितिटीका भागवतम् • भारतीयदर्शन (डॉ० बलदेव-उपाध्यायकृत) भाषापरिच्छेदः भाषापरिच्छेदगुणप्रकरणम् भामती भाष्योत्कर्षः (गीताव्याख्यानम्) १० मध्वभा० मत्स्यपु० मनु० म० प्र० म० भा० म० भा० म० भा० शान्ति० म० सू० म० सू० टी० मा०उ० शां०भा० गौ० का०प्र०का० माण्डूक्योपनिषद्माण्डूक्यकारिकामा०उ०प्र०मं०शां०भा०आ०टी० माघ० स० मि० मी० न्या० मी०प० मीमां० कौ० शावेदान्तकोशः ब्रह्मसूत्रस्य मध्वभाष्यम् मत्स्यपुराणम् मनुस्मृतिः मु० मुक्ता मुण्ड० मू० म० न्यायसिद्धान्तमञ्जरीप्रकाशः महाभारतम् महाभाष्यम् महाभारतम्, शान्तिपर्व मधुसूदनी-टीका (गीतायाः) मधुसूदनी-टीका (गीतायाः) शाङ्करभाष्यम् माण्डूक्योपनिषद्शाङ्करभाष्यम् आनन्दगिरिटीका माघकाव्यम् सर्गः (शिशुपालवधम्) मिताक्षरा (याज्ञवल्क्यस्मृतिव्याख्या) मीमांसान्यायमाला मीमांसापरिभाषा मीमांसार्थसङ्ग्रहकौमुदी न्यायसिद्धान्तमुक्तावली न्यायसिद्धान्तमुक्तावली मुण्डकोपनिषद् मूलमथुरानाथी (तत्त्वचिन्तामणिव्याख्या) मेदि० मेघ० याज्ञ० यो० वा० रघु० राम० ल० ल० म० ल० व० लीला लौ० भा० व० पु० वा० प० वाक्य वाच० वात्स्या० वा० व० वि० ध० पु० विवरणप्रमेय सं० वि० परि० वि० भि० वि०वि० सङ्केताक्षरानुक्रमणिका मेदिनीकोशः मेघदूतम् याज्ञवल्क्यस्मृतिः योगवार्तिकम् (योगसूत्रव्यासभाष्यटीका) रघुवंशम् रामरुद्री (न्यायसिद्धान्तावलीदिनकरीटीका) लघुमञ्जूषा (वैयाकरणसिद्धान्तलघुमञ्जूषा) लघुमञ्जूषा (वैयाकरणसिद्धान्तलघुमञ्जूषा) लक्षणावली लीलावती लौगाक्षिभास्करविरचितः अर्थसङ्ग्रहः वह्निपुराणम् वाक्यपदीयम् वाक्यवृत्तिः वाचस्पत्यम् वात्स्यायनकृतगौतमसूत्रभाष्यम् वादावलिः विष्णुधर्मोत्तरपुराणम् विवरणप्रमेयसङ्ग्रहः विषयपरिच्छेदः विज्ञानभिक्षुः विभ्रमविवेकः ११ शावेदान्तकोशः वीरमित्रो० वीरमित्रोदयः वे० क० वेदान्तकल्पतरुः वे०क०त० (ब्र०सू०अ०पा०सू०) वेदान्तकल्पतरुः (ब्रह्मसूत्रम् अध्यायः पाद: सूत्रम्) वेदान्तकल्पतरुपरिमलः १२ वे०क०त०प्र० वे० क० व० वेदा० प० वे० प० वे० परि० वे० सा० वे० सारः वे० सि० मु० वै० वै० उ० वै० सा० वै० सा० द० वै० सि० ल० म० वै० सू० व्या० भा० शतप० (ब्र० सू० शाङ्करभाष्यकल्पतरुव्याख्या) वेदान्तकल्पवल्ली वेदान्तपरिभाषा वेदान्तपरिभाषा वेदान्तपरिभाषा वेदान्तसारः वेदान्तसारः वेदान्तसिद्धान्तमुक्तावली वैशेषिकदर्शनम् वैशिषिक उपस्कारः वैयाकरणभूषणसारः वैयाकरणभूषणसारदर्पणः वैयाकरणसिद्धान्तलघुमञ्जूषा वैशेषिकसूत्रम् पातञ्जलयोगसूत्रस्य व्यासभाष्यम् शतपथब्राह्मणम् श० प्र० शाण्डि० सू० शा० भा० आ० टी० शा० भा० शारी० भा० शाब० भा० शै० श्रीधरी श्लो० श्वे० सर्व० सं० नकुली सर्व० सं० पाणि० सर्व० सं० रामानु० सर्व० सं० शां० सा० का० साख्य कौ० सा० ५० सांख्य० भा० सा० म० सा० सं० सांख्यसू० सा० सू० सङ्केताक्षरानुक्रमणिका शब्दशक्तिप्रकाशिका शाण्डिल्यसूत्रम् सम्बन्धभाष्यटीका (शाङ्करभाष्यम् आनन्दगिरिटीका सम्बन्धभाष्यम्) शारीरकभाष्यम् (ब्रह्मसूत्रशाङ्करभाष्यम्) शारीरकभाष्यम् (ब्रह्मसूत्रशाङ्करभाष्यम्) शाबरभाष्यम् शैवदर्शनम् गीताश्रीधरीटीका श्लोकवार्तिकम् श्वेताश्वतरोपनषिद् सर्वदर्शनसङ्ग्रहः, नाकुलीशदर्शनम् सर्वदर्शनसङ्ग्रहः, पाणिनीयदर्शनम् सर्वदर्शन, रामानुजदर्शनम् सर्वदर्शनसङ्ग्रहः शङ्करदर्शनम् साङख्यकारिका , साङ्ख्यतत्वकौमुदी साहित्यदर्पणः साङ्ख्यप्रवचनभाष्यम् सारमञ्जरी सारसङ्ग्रह: (ताकिर्करक्षाव्याख्या) साङ्ख्यसूत्रम् साङ्ख्यसूत्रम् १३ १४ सि० च० सि० ले० स० सि०बि० सू० सा० का० सं० शा० सं० शा० सु० सं० शा० सु० टी सं० शा० मं० श्लो० सं० शा० अ० का० अ० टी सं० शा० सा० सं० हेम च० शाङ्करवेदान्तकोशः सिद्धान्तचन्द्रोदयः सिद्धान्तलेशसङ्ग्रहः सिद्धान्तबिन्दुः दशश्लोकी सूत्रम् सांख्यकारिका संक्षेपशारीरकम् संक्षेपशारीरकस्य सुबोधिनी टीका संक्षेपशारीरकस्य सुबोधिनी टीका संक्षेपशारीरकस्य मङ्गलश्लोकः संक्षेपशारीरकम्, अध्यायः, कारिका, अन्वितार्थप्रकाशिका टीका संक्षेपशारीरकस्य सारसङ्ग्रहटीका । हेमचन्द्र: (कोश:) अः अकस्मात् अकारः अकारगुणोत्पन्नगुणत्वम् अकारणम् अकार्यम् अकृतम् अक्रतुः अक्रिया अक्षयः अक्षरम् अखण्डम् अखण्डार्थः अखण्डार्थप्रमाणम् अखण्डार्थभेदः अखण्डार्थलक्षणम् अखण्डोपाधिः अख्यातिः अग्निः शब्दानुक्रमणी १-५ ५ ५ ५ ५ ५ ५ ५ ६ ६-८ ८ ८-९ ९ ९-१० १० १० १०-११ ११ अङ्गुष्ठमात्रः पुरुषः अचल: अचला अचित् अच्युतम् अजः अजहल्लक्षणा अजा अजातवादः अजातिः अजातिवादः अजीवः अज्ञानम् अज्ञानशक्तिः अणुः अतद्गुणसंविज्ञान: अतद्व्यावृत्तिः अतिग्रहः अत्ता अत्यन्ताभावः ११ ११ १२ १२ १२ १२ १३ १३ १३-१४ १४ १४ १४ १५-१६ १६ १६-१८ १८ १८ १८ १८ १९ अथ अदः अदितिः अदृष्टम् अदोम्भः अद्वयम् अद्वितीयम् अद्वेष्टा अद्वैतम् अद्वैतीकरणम् अधर्मः अधिकरणम् अधिकवृत्तित्वम् अधिकारी अधिदैवम् अधिदैवतम् अधिप्रज्ञम् अधिभूतम् अधियज्ञः अधिष्ठाता अधिष्ठानम् अध्यक्षः अध्ययनम् अध्ययनविधिः ! शाङ्कुरवेदान्तकोशः १९ १९ २० २० २० अध्यवसायः अध्यवसेयः अध्यात्मम् अध्यारोपः अध्यासः अनन्तरम् अनन्यशेष: २०-२१ २१-२२ २२-२३ २३ २३ २३-२४ २४-२५ २५ २५-२६ २६ २७ २७ २७ २७ २८ अनुपपत्तिः २८ अनुपलब्धिः २८ अनुपलब्धिसमः अनपरम् अनपेक्षः अनभिष्वङ्गः अनादिता अनानात्वम् अनावृत्तिः अनित्यः अनित्यत्वम् अनिर्वचनीयम् अनिर्वाच्यम् अनिवर्तकम् अनिष्टप्रसङ्गः २८-२९ अनुपानीयम् २९-३० अनुपोष्यम् ३० ३०-३१ ३१ ३१ ३१-३३ ३३ ३३ ३३ ३३ ३४ ३४ ३४ ३४-३५ ३५ ३५ ३५-३७ ३७ ३७ ३७ ३७ ३७-३९ ३९-४० ४० ४० अनुबन्धः अनुबन्धचतुष्टयम् अनुभवः अनुभावः अनुभूतिः अनुमन्ता अनुमानम् अनुव्यवसाय: अनुशयः अनुशयी अनुषङ्गः अनुसन्धानम् अनुस्मृतिः अनृतम् अनेकजीववादः अनेकत्वम् अनेजत् अन्तः अन्तकालः अन्तत्रयम् अन्तवत् अन्तर् अन्तरिक्षम् शब्दानुक्रमणी ४० ४०-४१ ४१-४२ ४२ ४२-४३ ४३ ४३ ४३ ४३-४४ ४४ ४४-४५ ४५ ४५ ४५-४६ ४६-४७ ४७ ४७ ४७ ४७ ४७ ४७ ४८ ४८ अन्तरङ्गसाधनम् अन्तःकरणम् अन्तःकरणवृत्तिः अन्तःप्रज्ञः अन्तर्धानम् अन्तर्यामी अन्ध: अन्नम् अन्नमयः अन्नमयम् अन्नमयकोशः अन्यथाख्यातिः अन्योऽन्यम् अन्योऽन्याध्यासः अन्योऽन्याभावः अन्वयः अन्वयव्यतिरेकः अन्वयव्यतिरेकि अन्वयि अन्विताभिधानम् अपदः अपरम् १७ ४८ ४८-५१ ५१ ५२ ५२ ५२ ५२ ५२-५३ ५३ ५३ ५३ ५३-५५ ५५ ५५ ५५ ५५ ५६ ५६ ५६-५७ ५७. ५७-५८ १८ अपरा अपरा प्रकृतिः अपवर्गः अपवादः अपानः अपीतः अपूर्वम् अपूर्वता अपोढम् अप्रतिमः अप्रतिष्ठः अप्रतिसंख्यानिरोधः ५८ ५८ ५८-५९ ५९ ५९ ५९ ५९-६० ६० ६० ६० ६० ६०-६१ ६१ ६१ ६१ ६१-६२ ६२ ६३ अभिन्ननिमित्तोपादानकारणम् ६३-६४ ६४ ६४ ६४-६६ ६६ अप्रमा अप्राणः अबोधः अभाव: अभिनिवेशः अभिनिष्पन्नम् शावेदान्तकोशः अभिविमानः अभिव्यक्तिः अभिहितान्वयः अभूताभिनिवेशः अभ्रः अभ्यासः अमतिः अमनस्कः अमनस्कयोगः अमनाः अमनीभावः अमर्षः अमात्रः अमृतत्वम् अमृताक्षरम् अम्भः अयनम् अयशः अयुक्तः अयतिः अयथार्थः अयथार्थबुद्धिः अयथार्थानुभवः अर्थवादः अर्थवादशब्दार्थः अर्थान्तरम् अर्थापत्तिः ६६ ६६-६७ ६७ ६७ ६७ ६७ ६८ ६८ ६८ ६८ ६८-६९ ६९ ६९ ६९ ६९ ६९ ६९ ६९-७० ७० 990-199 ७१ ७१ ७१-७३ अरुन्मुखः अर्कः अर्चिः अर्चिफलम् अलातम् अलातचक्रम् अलातशान्तिः अलातस्पन्दितम् अल्पम् अवगमः अवच्छिन्नो ब्रह्मविकारः अवच्छेदः अवच्छेदवादः अवभासः अवमतः अवरम् अवसन्नः अवस्तु सोपलम्भम् अवस्त्वनुपलम्भनम् अवस्था अवान्तरप्रलयः अविक्रियः अविचलम् ७३ ७३ ७३-७४ ७४ ७४ ७४ ७५ ७५ ७५ ७५ ७५ ७५-७६ ७६-८० .८० ८० ८० ८० ८० ८० शब्दानुक्रमणी ८०-८१ ८२ ८२ ८२ अविज्ञातम् अविद्या अविधिः अविनाभावः अविनाशी अविभक्तः अविभक्तम् अविभागः अविवेकः अविवेकी अवृत्तिकम् अव्यक्तः अव्यक्तम् अव्ययः अव्ययात्मा अव्यवसाय: अव्यवसायिनाम् अव्याकृतम् अव्रणम् अशब्दम् असक्तः ८२ ८३-९२ ९२ ९२ ९३ ९३ .९३ ९३-९५ ९५ ९५ ९५ ९५ ९५-९६ ९६-९७ ९७ ९७ ९७ ९७ ९७ ९७-९८ ९८ २० असत् असत्ख्यातिः असमवायिकारणम् असम्प्रज्ञातः असम्भवः असम्भूतिः असम्मोहः असंसर्गाग्रहः असाधारणधर्मः असुरः असूर्यः अस्तिकायः अस्तिता अस्ति ब्रह्म अस्नाविरम् अस्पर्शयोगः अस्मिता अस्पर्शविहारः अहम् अहङ्कारः अहं ब्रह्मास्मि अहिनिर्ल्डयिनी शाङ्करवेदान्तकोशः ९८-९९ ९९-१०० १०० १०० १०० १००-१०१ १०१ १०१ १०१ १०१ १०१ १०२ १०२ १०२ १०२-१०३. १०३ १०३ १०३ १०३ १०३-१०४ १०४ १०४ अहिंसा अंश: अंशांशिभावः अंशित्वम् आकाङ्क्षा आकाशम् आकारः आकाशः आगम: आघातः आचारः आचार्यः आजानदेवः आतिवाहिकी आत्मभावः आत्मभावस्थः आत्मभेदवादः आत्मयोगः आत्मसंस्थम् आत्महन् आत्मा आत्मीयः आदिः १०४ १०५ १०५ १०५ १०५-१०६ १०६ १०७ १.०७ १०७-१०८ १०८ १०८ १०९ १०९ १०९-११० ११० ११० ११०-१११ १११ १११-११२ ११२ ११२-११४ ११४ ११४ आदित्यः आदिदेवः आदिबुद्धाः आदेश: आधारता आधेयता आध्यानम् आनन्दः आन॑न्दमयः आनन्दभुक् आनुपूर्वी आनुमानिकम् आप: आपत्तिः आप्तः आप्तोपदेशः आप्यम् आभासः आभासवाद: आम्नायः आरण्यश्वा आरम्भवादः आरोपः शब्दानुक्रमणी ११४ ११४ ११४ ११४ १.१५ ११५ ११५ ११५-११६ ११६ ११६ ११६ ११६ ११६ ११६-११७ ११७ ११७ ११७ ११७११८ ११८-१२० आरोहणम् आलम्बनम् आलयविज्ञानम् आवरणम् आवरणशक्तिः आविर्भावः आविर्भूतस्वरूपः आवृत् आवृत्तिः आवृत्तिमन्ति आशयः आश्रमः आसक्तिः आसुरी आसुरीसम्पत् आस्तिकः आनवः आहार: आहार्यज्ञानम् इच्छा इति इतिहासः १२० १२० १२० १२० इदन्द्रः २१ १२० १२१ १२१ . १२१ १२१ १२२ १२२ १२२ १२२ १२२ १२३ १२३ १२३ १२३ १२४ १२४ १२४ १२४-१२५ १२५ १२५ १२५ १२६ १२६ २२ इन्द्रियम् इन्द्रियार्थसन्निकर्षः इन्द्रियदेवता ईक्षणम् ईशः ईश्वरः ईश्वरत्वम् ईश्वरप्रणिधानम् ईश्वरप्राज्ञौ ईश्वरसम्बन्धकाः ईश्वरसाक्षी ईश्वरस्य षडङ्गानि उक्थम् उत्क्रान्तिः उत्तरमीमांसा उत्तरायणम् उत्पत्तिः उत्पाद्यम् उदरम् उदासीनः उद्गाता उद्गीथः, उद्गीथम् उद्भिज्जम् शाङ्कुरवेदान्तकोशः १२६ १२७ १२७ १२७ १२७१२९ १२९ १२९ १२९ १३० १३० १३० १३१ १३१ १३१ १३१ १३१-१३२ १३२ १३२ १३२ १३२ १३२-१३३ १३३ १३३ उद्वेगः उन्मनीभावः उपचारः उपद्रष्टा उपधेयः उपनयः उपनीतम् उपनीतभानम् उपनिषद् उपन्यासः उपपत्तिः उपभोगः उपमर्दः उपमानम् उपमिति: उपरतिः उपलक्षणम् उपलम्भः उपशमः उपसंहारः उपहितम् उपादानम् उपादेयम् उपाधिः उपासनम् उरुगाय: ऋतम् १३३ १३३ १३४ १३४ १३५ १३५ १३५-१३६ १३६ १३६ १३७-१३८ १३८ १३८ १३८ १३८ १३८-१३९ १३९ १३९ १३९ १३९ १३९ १४० १४० १४० १४० १४०-१४१ १४१-१४२ १४२ १४३ एकजीववादः एकर्षिः एव एषणात्रयम् ऐश्वरम् ऐश्वर्यम् ओम् औपाधिकः औपनिषदः कम् कक्षम् कट: कथा कथाभासः कप्यासः करणम् करणाधिपः करुणः कर्त्ता कर्म कर्मकृत् कर्मक्षयः कर्मज्ञानसमुच्चयः कर्मदेवः कर्मभोगः कर्मयोगः शब्दानुक्रमणी १४३ १४३ १४३-१४४ १४४ १४४ १४४ १४४-१४५ १४५ १४५ १४६ १४.६ १४६ १४६-१४७ १४७ १४७ १४७-१४८ १४८ १४८ १४८ १४९-१५० १५० १५१-१५२ १५२-१५४ १५४ १५४ १५४ कर्मसमुच्चयः कर्मसमुच्चितज्ञानम् कर्माध्यक्षः कर्माशयः कला: कल्पना कल्पनावादः कल्पितसंवृत्तिः कल्मषम् कविः कामः कामकार: काम्यत्वम् कार: कारकः कारणम् कारणशरीरम् कार्यम् कार्यकारणभावः कार्यान्विते शक्तिः काल: कालात्ययापदिष्टः कालिकविशेषता १५४ १५५ १५५ १५५ १५५ १५५ १५५-१५६ १५६ १५६ १५६ १५६-१५७ १५७ १५७ १५७ १५७ १५८ १५८-१५९ १५९ १५९-१६० १६० १६०-१६१ १६१ १६१ २४ कालिकसम्बन्धः कालोपाधिः कुटः कूटम् कूटस्थ: कूटस्थनित्यम् कृतम् कृपणः कृपणधीः कृष्णः केवलः केवलव्यतिरेकि केवलान्वयि केशवः केशोड्रकः कैवल्यम् कोशः क्रतुः क्रममुक्तिः क्रिया क्लेश: क्षण: क्षणिकत्वम् शाङ्कुरवेदान्तकोशः क्षमा क्षरः क्षेत्रम् क्षेत्रज्ञः क्षेमः १६१-१६२ १६२ १६२ १६२ १६३ १६३ खम् १६४ १६४ १६४ १६५ १६५ १६५ १६५-१६६ १६६ १६६ १६६-१६७ १६७ १६७-१६८ १६८ १६८ १६८ १६९ ग्रहः १६९ घन: ख्याति: गतव्यथः गतिः गन्धर्वनगरम् गन्धर्वपुरी गुणः गुरुः गुहा गूढः. गूढचर्या गेष्ण्यौ गोचरः गौणः गौणसंन्यासी ग्रन्थि: १६९ १६९ १६९-१७० S १७० १७० १७०-१७१ १७१-१७२ १७३ १७३ १७४ १७४ १७४-१७५ १७५ १.७५ १७५ १७६ १७६ १७६ १७६ १७६-१७७ १७७ १७७ १७७-१७८ चतुष्पात् चरणम् चलाभासः चित् चिच्छक्तिः चित्तम् चित्तकाल: चित्तचैत्ताः चित्तदृश्यम् चित्तवृत्तिः चित्तवृत्तिनिरोधः चित्तस्पन्दितः चितिः चिदाभासनम् चिद्भेदः चिन्तनम् चेतना चेता चैतन्यम् चोदना जगतो जन्मनः कारणं क्रमश्च छुल्लक: शब्दानुक्रमणी १७८ १७८ १७८ जगत् १७९ जन्म १७९ जहल्लक्षणा १७९ १७९ १७९ १७९-१८० १८० १८० १८० १८० जीवः १८० १८० १८१ १८१ १८१ १८१-१८२ १८२ जडम् जडत्वम् १८२-१८३ १८३ जाग्रत् जातिः जातिखण्डनम् जात्याभासः • जामिता जिज्ञासा जितात्मा जीवघनः जीवजम् जीवधर्मः जीवन्मुक्तः जीवन्मुक्तिः जीवसाक्षी जीवाणुत्वम् जीवावस्था ज्ञप्तिः ज्ञप्तिप्रत्यक्षम् २५ १८३ १८३ १८३-१८४ १८४ १८४-१८६ १८६ १८६-१८७ १८७ १८८ १८८ १८८ १८८ १८८-१९४ १९४ १९४-१९५ १९५ १९५ १९५ १९५-१९६ १९७ १९७ १९८ १९८ ज्ञप्तिप्रत्यक्षलक्षणम् ज्ञातता, ज्ञातत्वम् ज्ञानम् ज्ञानकर्मसमुच्चयः ज्ञानतपः ज्ञानदीप: ज्ञानप्रक्रिया ज्ञानबलक्रिया ज्ञानयोगः ज्ञानलक्षणा प्रत्यासत्तिः ज्ञानसाधनम् ज्ञानाकारता ज्ञानाध्यांसः ज्ञानी: ज्ञानेन्द्रियम् ज्योतिः तज्जलान् तटस्थलक्षणम् तत् तत्परायणः तप्रख्यम् तत्त्वम् तत्त्वज्ञानम् शावेदान्तकोशः १९८ १९८ १९८-२०० २००-२०४ २०४ २०४ २०४-२०५ २०५ २०५ २०५-२०६ २०६-२०८ २०८ २०८-२०९ २०९ २०९ २०९-२१० २१० २१० २१०-२११ २११ २११-२१२ २१२ -- २१२ तत्त्वदर्शनम् तत्त्वमसि तद्बुद्धिः तदात्मानम् तन्त्रम् तन्निष्ठः तपः तप्यः तमः तात: तात्पर्यम् तात्पर्या वृत्तिः तादाम्यम् तापकः तितिक्षा तुच्छम् तुरीयचैतन्यम् तुरीयप्रलयः तुल्यवित्तिवेद्यत्वम् तूलाज्ञानम् .. तेजः त्यागः त्वम् त्रिंणाचिकेतः त्रिदण्डी २१३ २१३ २१३ २१३-२१४ २१४ २१४ २१४-२१५ २१५ २१५ २१५-२१६ २१६ २१६ २१७ २१७ २१७ २१८ - २१९ २१९: २१९ २१९. २१९-२२० २२०-२२१ २२१ २२१ २२१ त्रिपुटी त्रिवृत् त्रुटि: दक्षः दक्षिणा दक्षिणायनम् दमः दर्शनम् दशमस्त्वमसि दहर: दहरविद्या दिक् दिव्यः दुःखम् दुःखान्तः दुरोणसद् दुर्दर्शम् दूरम् दृक् : दृक्शक्तिः दृतिहरिः दृश्यत्वम् दृष्टिसृष्टिः दृष्टिसृष्टिवादः शब्दानुक्रमणी २२१ २२१-२२३ २२३ २२३-२२४ २२४ २२४ २२४ २२५ २२५-२२६ २२६ २२६-२२७ २२७ २२७ २२७-२२८ २२८ २२८ २२८ २२८ २२८ २२८ देवः देवगण: देवसंख्या देवता देवयानम् देहः देही २२९ २२९ दैवीसम्पत् दोषः धुभ्वाद्यायतनम् द्यौः द्वयम् द्वयकाल: द्वयाभासः द्वादशायतनम् द्वारम् द्विचन्द्रः द्विनामा द्वेषः द्वैतम् दंश: २२८-२२९ धनसनिः धर्मः धर्ममेघसमाधिः २२९-२३० धर्मस्कन्धाः २७ २३० २३१ २३१ २३१-२३२ २३२ २३२ २३२-२३३ २३३ २३३ २३३ २३३-२३४ २३४ २३४ २३४ २३४ २३४ २३५ २३५ २३५ २३५ २३५ २३५-२३६ २३६-२३७ २३७ २३८ २८ धातुः धातुस्वभावतः धाम धीरः धीर्गुणाः धूमः धृतिः ध्यानम् ध्रुवः नवद्वारम् नान्तरीयकत्वम् नाभिः नारायणः नास्तिकः निगमः नित्यम् नित्यतृप्तः निद्रा निदिध्यासनम् निधानम् निमित्तम् नियतत्वम् नियमः निरग्निः निरन्वयत्वम् शावेदान्तकोशः २३८ २३८ २३८-२३९ २३९ २३९ २३९ २३९ २३९-२४० २४० २४०-२४१ २४१ २४१ २४२-२४३ २४३ २४३-२४४ २४४-२४५ निरवयवम् निरहङ्कारः निरिन्द्रियाः निरुपाख्यम् निरुपाधिकम् निर्गुणः निर्जरः निर्णयः निर्ममः निर्वर्त्यम् निर्वाणम् निर्विकल्पः निर्विकल्पकम् निवृत्तिः निवृत्तिमार्गः निर्वेदः निष्ठा निःश्रेयः नैष्कर्म्यम् नैष्ठिकी २४५ २४५ २४५-२४६ २४६ २४६ न्यायः २४६ न्यासः २४७ २४७ २४७ पक्वधी: पञ्चकोशः पञ्चस्कन्धाः २४७ २४७२४८ २४८. २४८ २४८-२४९ २४९ २४९ २४९ २४९ २४९ २५० २५० २५०-२५१ २५१ २५१ २५१ २५१ २५२ २५२ २५३ २५३ २५३-२५४ २५४ २५४-२५५ २५५ पञ्चास्तिकायः पञ्चीकरणम् पतिः पदम् पथिद्वयम् परम् परतन्त्राभिसंवृत्तिः परदेवता परपुरुषः परमम् परममुक्तिः परमा परमात्मा परमाणुः परमार्थः परमार्थता परमार्थसत्यम् परमृत्युः परमेश्वरः परलोकपथ्यदनम् परागू परात्मा परार्द्धम् परायणम् परा वाक् शब्दानुक्रमणी परा विद्या परा सिद्धिः २५५-२५६ २५६ २५७ २५७ २५७ २५७-२५८ २५८ २५८ २५८-२५९ २५९ २५९ २५९ २५९-२६० २६० २६० २६० २६० २६० पाश: २६१ पितृयाणम् २६१ पितृयानम् २६१ पिप्पलम् २६१ पिबन्तौ २६१ २६१ २६२ परिच्छिन्नत्वम् परिणामः परिणामिनित्यम् परिदेवना परिनिष्ठितम् परिभाषा परिभूः परिमण्डलम् परिसंख्या परोवरीयः पवित्रम् पशुः पाङ्क्तः पाण्डित्यम् पारमार्थिकम् पुच्छम् पुण्यम् पुद्गलः २६२ २६२ २६३ २६३ २६३-२६४ २६४ २६४ २६४ २६४ २६४ २६४-२६५ २६५ २६५ २६५ २६५ २६६ २६६ २६६ २६६ २६६ २६६ २६६ २६६-२६७ २६७ २६७ " पुरम् पुराण: पुरितत् पुरुषः पुरुषकर्मोद्भूतानि पुरुषस्पन्दः पुरुषार्थः पूर्तम् पूषा प्रकरणम् प्रकाशः प्रकाशमानम् प्रकृतिः प्रकृतिस्थः प्रकृतेः नियामकाः प्रकृष्टप्रकाशश्चन्द्रः प्रजापतिः प्रज्ञा प्रज्ञानम् प्रज्ञानघनः प्रज्ञानं ब्रह्म प्रज्ञामात्राः प्रणय: प्रणवः प्रणश्यति शाङ्कुरवेदान्तकोशः प्रणिधानम् प्रतिबिम्ब: २६७-२६९ २६९ २६९ २६९ २६९ २७० २७० २७० २७० २७० २७० २७० २७०-२७३ २७३ २७३-२७४ २७४ २७४ प्रत्यग्गुणा २७४ प्रत्यनुमानम् २७४-२७५ प्रथमजम् २७५ प्रद्राणकः २७५ प्रध्वंसाभावः २७५ प्रपञ्चधर्माः २७५ २७६ २७६ प्रतिबिम्बनम् प्रतिबिम्बवादः प्रतिपत्तिः प्रतिप्रसवः प्रतिमा प्रतिसंख्या प्रतिसंचरः प्रतिष्ठा प्रतिहारः प्रतीतिः प्रत्यक् प्रत्यक्षम् प्रत्यक्षप्रमाणम् प्रत्यक्षभेदः प्रभवः प्रभातम् प्रमा २७६ २७६ २७७ २७७-२८० २८० २८० २८०-२८१ २८१ २८१ २८१ २८१-२८२ २८२ २८२ . २८२-२८४ २८४-२८५ २८५ २८५ २८५ २८५ २८६ २८६ २८६ २८६ २८६ २८६-२८७ प्रमाणम् प्रमाणान्तरम् प्रमाता प्रमातृ प्रमात्वम् प्रमायुकम् प्रमितत्वम् प्रमेयः प्रमेयचैतन्यम् प्रलयः प्रवर्तकम् प्रविविक्तभुक् प्रवृत्तिः प्रवृत्तिविज्ञानम् प्रसंख्यानम् प्रसादः प्रस्तावः प्राकृतप्रलयः प्रांगभावः प्राज्ञः प्राण: प्राणमयकोशः प्रातिभासिकम् प्राप्यप्रकाशकारित्वम् प्रामाण्य द्विविधम् शब्दानुक्रमणी २८७-२८९ २८९ २९० २९० २९०-२९३ २९३ २९३ २९३-२९४ २९४ २९४-२९५ २९५ २९६ २९६ २९६ २९६-२९७ २९७ २९८ २९८ २९८ २९८-२९९ २९९-३०१ प्रारब्धम् प्लव: प्रेत्यभावः प्रेयः फलव्याप्यत्वम् बद्धः बन्ध: बन्धनम् बन्धमोक्षौ बलम् बहिरङ्गसाधनम् बाध: बाल्यम् बिम्बम् बुद्धः बुद्धत्वम् बुद्धिः बुद्धियोगः बोधः बोधस्वरूपम् बौद्ध: ब्रह्म ब्रह्म च क्षत्रं च ब्रह्मजज्ञम् ब्रह्मजिज्ञासा ३०१ ३०११. ३०१-३०२ ब्रह्मनिर्वाणम् T ३०२ ब्रह्मपुरम् ब्रह्मतटस्थलक्षणम् ३०२ ३०२ ३०३ ३०३ ३०३-३०४ ३०४ ३०४ ३०५ ३०५ ३०५ ३०५ ३०५ ३०५ ३०५-३०६ ३०६ ३०६ ३०६-३०८ ३०८ ३०८ ३०८ ३०८-३०९ ३०९-३१४ ३१४ ३१४. ३१४ ३१४-३१५ ३१५ ३१५ ३२ ब्रह्मभूतः ब्रह्मभूयम् ब्रह्म महद्योनिः ब्रह्मयोगयुक्तात्मा ब्रह्मलक्षणम् ब्रह्मलोकः ब्रह्मविद् ब्रह्मविद्या ब्रह्मविहारः ब्रह्मविष्णुमहेश्वराः ब्रह्मसंस्थ: ब्रह्मसंस्पर्शः ब्रह्मसूत्रपदम् ब्रह्मस्वरूपम् ब्राह्मण: ब्राह्मी भक्तिः भगवान् भयम् भर्ता भव्यः भस्म भाक्तः भागलक्षणा भागवतः भानम् भामनी: भाव: शाङ्करवेदान्तकोशः ३१५-३१६ ३१६ ३१६ ३१६ ३१७ ३१७ ३१७ ३१७ ३१७-३१८ ३१८ ३१८ ३१८-३१९ ३१९ ३१९ ३१९-३२० ३२० ३२०-३२२ ३२२ ३२२-३२३ ३२३ ३२३ ३२३ ३२३-३२४ ३२४ ३२४ ३२४ ३२४-३२५ ३२५-३२६ भावपदार्थः भावविकासः भावना भावार्थ: भावाद्वैतम् भूतम् भूतग्रामः भूतयोनिः भूतसृष्टि: भूमभावः भूमा भोक्ता भोगः भोगायतनम् भोज्यम् भौतिकसृष्टिः भ्रमः भ्रमोपादानम् भ्रान्तिः भ्रान्तिदर्शनम् मटची मत्कर्म मद्योगः मदामदः मधुज्ञानम् मध्वदः मध्यमधीः मनः ३२६ ३२६ ३२६ ३२६-३२७ ३२७ ३२७ ३२७ ३२७-३२८ ३२८ ३२८ ३२८ ३२८-३२९ ३२९ ३२९-३३० ३३० ३३० ३३०-३३२ ३३२ ३३२ ३३२ ३३२ ३३२ ३३३ ३३३ ३३३ ३३३ ३३३ ३३३-३३६ मननम् मनोदृश्यम् मनोमयः मनोमयकोशः मनोमयशरीरम् मरः मरणम् मरीचिः मर्त्यः मर्यः मल: महः महागीः महात्मा महान् महाप्रलयः महावाक्यम् महावाक्यानि महेश्वरः मातरिश्वा मात्रास्पर्श: मानसी क्रिया मानिट् माया मायामयम् मायामात्रम् मायिकः मायी शब्दानुक्रमणी ३३६-३३७ ३३७ ३३७ ३३७३३८ ३३८ ३३८ ३३८-३३९ ३३९ ३३९ ३३९ ३३९ ३३९ ३३९-३४० ३४० ३४० ३४२ ३४३ ३४३ ३४३ ३४३ ३४४ ३४४-३४९ ३४९ ३५० ३५० ३५० मायोपहितं चैतन्यम् मार्गद्वयम् मार्तण्ड: माहेश्वराः मिथुनीकृत्य मिथ्यात्वम् मिथ्याचारः मिथ्याज्ञानम् मुक्तः मुक्तता मुक्तत्वम् मुक्तिः मुक्तितारतम्यम् मुक्तिभेदः मुक्तिसाधनम् मुख्यसंन्यासी ३४०-३४१ ३४१-३४२ मुग्धः मुनिः मुमुक्षुत्वम् मुरारिः मूर्च्छा मूलप्रकृतिः मूलाविद्या मृत्युः मेघ: मेयः मैत्र: मोक्षः ३५० ३५० ३५० ३५१ ३५१ ३५१-३५३ ३५३ ३५३ ३५३-३५४ ३५४ ३५५ ३५५-३५६ ३५६ ३५६-३५७ ३५७-३६० ३६०-३६१ ३६१ ३६१-३६२ ३६२ ३६२ ३६२ ३६३ ३६३ ३६३ ३६३ ३६३ ३६३-३६४ ३६४-३६६ ३४ मोक्षभेदः मोक्षसाधनम् मोहः मोहशक्तिः मौनम् यज्ञः यज्ञशिष्टाशी यथार्थबुद्धिः यथार्थवक्ता यमाः यशः याज्ञवल्क्यः युक्तः योगः योगक्षेमः योगमाया योगयुक्तात्मा योगाग्निः योगाचारः योगारूढः योगी योग्यता योनिः रतिः रम् रस: रंहतिः शावेदान्तकोशः ३६६-३६७ ३६७ ३६७ ३६८ ३६८ ३६८-३६९ ३६९ ३६९ ३६९ ३६९-३७० ३७० ३७० ३७० ३७०-३७३ ३७३ ३७३ ३७४ ३७४ वाक् ३७४ ३७५ ३७५ ३७६-३७७ ३७७ ३७७-३७८ ३७८ ३७८ ३७८ ३७८-३७९ रागः रायः रूपम् रुत् रुन्मुखाः रूपकम् रूपस्कन्धः लक्षणम् लक्षणा लक्ष्यत्रैविध्यम् लिङ्गम् लिङ्गशरीरम् लीला लोकः वशी वसुः वस्त्वाभासः वाक्यम् वाक्यप्रमाणम् वाक्यार्थः वामनीः वामनीत्वम् वायुः वाराणसी वासना वासुदेवः विकल्पना ३७९-३८० ३८० ३८० ३८० ३८० ३८१ ३८१ ३८१-३८३ ३८३-३८५ ३८५ ३८५-३८६ ३८६-३८७ ३८७ ३८७३८८ ३८८ ३८८ ३८८ ३८८-३८९ ३८९ ३९० ३९० ३९०-३९१ ३९१ ३९१-३९२ ३९२-३९३ ३९३ ३९३ ३९३ विकारः विकारभेदः विकार्यम् विक्षेपः विक्षेपशक्तिः विक्षेपाध्यासः विगीतम् विजिगुप्सा विज्ञानम् विज्ञानकल: विज्ञानमयः विज्ञानस्कन्धः विज्ञानस्पन्दितम् विज्ञानैकस्कन्धवादः वितण्डा वितर्कः विदृतिः विदेहकैवल्यम् विद्या विद्याभेदः विद्याशक्तिः विधारयिता विधिः विधिशेषः विधृतिः विपर्ययः •विपर्यासः विपाकः शब्दानुक्रमणी ३९३ ३९३ ३९४ ३९४ ३९४ ३९४ ३९४-३९५ ३९५ ३९५-३९६ ३९६ ३९६-३९७ ३९७-३९८ ३९८ ३९८ ३९८ ३९९ ३९९ ३९९ ३९९-४०१ ४०१ ४०१ ४०१ ४०१-४०३ ४०३ ४०३ ४०४ ४०४ ४०४-४०५ विभक्तम् विभुः विभूतिः विभ्रमः विभ्रमशक्तिः विमोक्षः विरजः विरजाः विलक्षणम् विवर्तः विवसनः विशरवः विशुद्धिः विशेषणम् विश्व: विश्वम् विषयः विष्णुः विष्णोः परमपदम् विसिकः विस्तारः वृक्षः वृत्तिः वृत्तिचातुर्विध्यम् वृत्तित्वम् वृत्तिव्याप्यत्वम् वेदः वेदनास्कन्धः ४०५ ४०५ ४०५ ४०५-४०६ ४०६ ४०६ ४०६ ४०६ ४०६ ४०७ ४०७-४०८ ४०८ ४०८ ४०८ ४०८ ४०८ ४०८-४०९ ४०९ ४०९ ४०९ ४०९-४१० ४१० ४१०-४११ ४११ ४११ ४१२ ४१२ ४१२-४१३ वेदवाक्यम् वेदविदः वेदादिगीः वेदान्तः वैनाशिकः वैराजम् वैशारद्यम् वैश्वानरः वैष्णवपदम् व्यष्टिः व्यानः व्याप्तिः व्यावर्तकम् व्यावहारिकम् व्यावृत्तिः व्यासज्यवृत्तित्वम् व्रतः शक्तिः शक्तिभेदः शतम् शब्द: शब्दब्रह्म शम: शमादिषट्कसम्पत्तिः शम् शरीरम् शाखारण्डत्वम् शान्तिः शाङ्कुरवेदान्तकोशः ४१३ शारीरः ४१३ शारीरम् ४१३ शारीरकः ४१३ शारीरकम् ४१३-४१४ शालावृकः ४१४ शाश्वतः ४१४ ४१४-४१५ ४१५ ४१५ ४१५ ४१५ ४१५-४१६ ४१६ ४१६ ४१६ ४१६ ४१६-४१८ ४१९ ४१९ शाश्वतम् शास्त्रम् शास्त्रयोनिः शिवः शिवा शिवम् शीक्षा शीलम् शुक्रम् शुङ्गम् शुचिः शुचिसद् शुद्धम् शुद्धत्वम् शुद्धो धर्मः ४१९-४२० ४२०-४२१ ४२१ ४२१-४२२ ४२२ शेषवत् ४२२-४२३ शोकः ४२३ शौव: ४२३-४२४ श्रद्धा शून्यम् शेवधिः ४२४ ४२४ ४२४ ४२४ ४२५ ४२५ ४२५ ४२५ ४२६ ४२६ ४२६ ४२६-४२७ ४२७ ४२७ ४२७ 0 ४२७ ४२७४२८ ४२८ ४२८ ४२८ ४२८ ४२८ ४२८-४२९ ४२९ ४२९ ४२९ .४२९ ४३० श्रवणम् श्रुतार्थापत्तिः श्रुतिः श्रेयः श्रोत्रम् श्लोकः श्वभ्रः षडायतनम् षोडशकलम् षोडश कला: सचिवम् सत् सत्कार्यम् सत्कार्यवादः सत्ख्यातिः सत्ता सत्ताद्वैतम् सत्यम् सत्त्वम् सनातनः सनातनम् सन् सप्तभङ्गीनयः सप्तभङ्गी न्यायः सप्तान्नानि समम् समता समदुःखसुखः शब्दानुक्रमणी ४३०-४३१ ४३१ ४३१-४३२ ४३२ ४३२-४३३ ४३३ ४३३ ४३३-४३४ ४३४-४३५ ४३५ ४३५ ४३६-४३७ ४३७ ४३७ ४३७ समन्वयः समप्राप्तम् समबुद्धिः समवर्तत समवायः समवायिकारणम् समष्टिः समाधानम् समाधिः समाधिविघ्नाः समाधेः अङ्गानि समापत्तिः समारम्भः समुच्चयः समुदायः ४३७-४३८ सम्पत् ४३८-४३९ सम्पत्तिः ४३९-४४० सम्पत्स्ये ४४०-४४१ सम्परिष्वक्तः ४४१ ४४१ ४४१ ४४२ ४४२ ४४२ ४४२ ४४३ ४४३ सम्परायः सम्प्रदायः सम्प्रज्ञातसमाधिः सम्प्रसादः सम्प्रसादस्थानम् सम्बन्धः सम्भूतिः सहोपलम्भः सम्यक्चारित्र्यम् ३७ ४४३ ४४३ ४४३ ४४३ ४४३-४४४ ४४४ ४४५ ४४५ ४४५-४४६ ४४६ ४४७ ४४७ ४४७ ४४७ ४४७ ४४७ ४४८ ४४८ ४४८ ४४८ ४४९ ४४९ ४४९ ४४९-४५० ४५० ४५० ४५०-४५१ ४५१ ३८ सम्यग्ज्ञानम् सम्यग्दर्शनम् सर्गशक्तिः सर्वकर्माणि सर्वज्ञः सर्वज्ञत्वम् सर्वभूताधिवासः सर्वमोक्षः सर्वविक्रियारहितम् सर्ववेदसम् सर्वव्यापि सर्वारम्भपरित्यागी सर्वास्तित्वादि सर्वेश्वरः सवस्तु सोपलम्भम् सवस्तूपलम्भः सविकल्पकः सविकल्पकम् सविज्ञान: सवितर्कः संक्षेपशारीरकम् संघात: सन्ध्यम् संन्यासः संन्यासी संयमः संयमनम् संयोगः शाङ्करवेदान्तकोशः संवरः संवर्ग: 3 संवित् संवृत्तिः संशय: संसार: संसारी संसिद्धिः संस्कारः संस्कार्यः संस्कारकन्धः संहारः साकारत्वम् साक्षात् साक्षात्कारः साक्षित्वम् साक्षी साटोपः सात्त्विकी सम्पत् साधनचतुष्टयम् ४५१ ४५१ ४५१ ४५१ ४५२ ४५२ ४५२ ४५२ ४५२ ४५२ ४५२-४५३ ४५३ ४५३ ४५३ ४५४ ४५४ ४५४ ४५४-४५५ ४५५ ४५५ ४५५-४५६ ४५६ ४५६ ४५६-४५७ ४५७४५८ ४५८ ४५८ ४५८-४५९ साधुः सानन्दः साभाव्यम् साम सामान्यम् सामान्यलक्षणा साम्परायः साम्प्रदायिकम् ४५९ ४५९-४६० ४६० ४६० ४६० ४६१ ४६१ ४६१-४६२ ४६२ ४६२-४६३ ४६३ ४६३ ४६३ ४६३-४६४ ४६४ ४६४ ४६४-४६५ ४६५ ४६५ ४६५ ४६५-४६६ ४६६ ४६६ ४६६-४६७ ४६७-४६८ ४६८ ४६८-४६९ ४६९ सायुज्यम् सालोक्यम् सांख्यः सांख्यम् सांख्ययोगः सांवृतम् सिद्धान्तः सिद्धार्थवाक्यप्रमाणम् सिद्धिः सिन्धुः सुखम् सुपथः सुपथा सुप्तः सुषुप्तः सुषुप्तस्थानः सुषुप्तिः सुषुप्तिस्थानम् सूक्ष्मम् सूक्ष्मशरीरम् सूक्ष्मशरीरोत्पत्तिः सूत्रात्मा सक्का सृष्टि: सृष्टिक्रमः सृष्टिदृष्टिवादः सोऽयं देवदत्तः सोऽहम् शब्दानुक्रमणी ४६९ ४६९ ४६९-४७१ ४७१ ४७२ ४७२ ४७२-४७३ ४७३ ४७३ ४७३ ४७३-४७५ ४७५ ४७५ ४७५ ४७५-४७७ ४७७ ४७७-४७८ ४६८-४७९ ४७९ ४७९ ४७९-४८० ४८० ४८० ४८०-४८२ ४८२ ४८२-४८३ ४८३-४८४ ४८४ सोपाधिकम् सौवः स्कन्धः स्तुतिः स्थाणुः स्थानम् स्थितधी: स्थितप्रज्ञः स्थिरः स्थूलप्रपञ्चोत्पत्तिः स्थूलभुक् स्थूलशरीरम् स्पर्श: स्फोटः स्मार्तः स्मृतिः स्वत आमाण्यम् स्वतेजः स्वधर्मः स्वपीत: स्वप्नः स्वप्नज्ञानम् स्वप्नस्थानः स्वप्नान्तिकम् स्वप्रकाशः स्वप्रकाशत्वम् स्वभावः स्वयंज्योतिः ३९ ४८४ ४८४ ४८४-४८५ ४८५ ४८६ ४८६ ४८६ ४८६-४८७ ४८७ ४८७-४८८ ४८८ ४८९ ४८९ ४८९-४९० ४९० ४९०-४९१ ४९१-४९३ ४९३ ४९३ ४९३ ४९३-४९४ ४९४ ४९५ ४९५ ४९५-४९६ ४९६ ४९६ ४९६ ४० स्वयम्भूः स्वरः स्वरूपम् स्वरूपलक्षणम् स्वर्गः स्वातन्त्र्यम् स्वाध्यायः स्वापः स्वाप्नपदार्थप्रातिभासिकसृष्टिः स्वाप्ययः स्वाभाविकम् शावेदान्तकोशः. ४९७ ४९७ ४९७ ४९७ ४९७४९८ ४९८ ४९९ ४९९ ४९९-५०१ ५०१ ५०१ स्वेदजम् हरिः हर्षः हंसः हार्दविद्या हिरण्यमयम् हिरण्यगर्भः हृदयम् हृषीकेशः हेतुः हेत्वाभास: ह्लाद: ५०१ ५०१ ५०२ ५०२ ५०२ ५०२ ५०२-५०३ ५०३ ५०३-५०४ ५०४ ५०४-५०५ ५०५-५०६ By शाङ्करवेदान्तकोशः ॥ श्रीहरिः ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णमादाय पूर्णात्पूर्णमुदच्यते । पूर्णमेवावशिष्यते ॥ १ ॥ पूर्णस्य अन्नपूर्णां सदापूर्णां विश्वेशं विश्वविग्रहम् । जननीं जनकं नौमि सच्चिदानन्दसंविदे ॥ २ ॥ विनायकं नमस्कृत्य विघ्नेशं सिन्धुराननम् । शङ्कराद्वैतवेदान्तशब्दकोशं तनोम्यहम् ॥ ३ ॥ अत्र बेदान्तशास्त्रेषु विशिष्टार्थस्य बोधकाः । शब्दाः प्रयुक्ताः सूरिभिस्तेषामर्थान् चिनोम्यहम् ॥ ४॥ आचार्यवचनान्यत्र तत्तदर्थस्य पुष्टये। उध्रियन्ते यथाशक्ति विदुषां मोदहेतवे ॥ ५॥ ॐ, ओम् - इदमाद्यमक्षरम्, वर्णसमाम्नायपठितेभ्योऽथवाक्षरमालापठितेभ्योऽतिरिक्तम् । अस्य रूपद्वयम् ॐ इति ओम् इति च । अत्र ॐ इति निरवयवम् ओम् इति च सावयवम् । उपनिषत्सु शास्त्रेषु चोभयरूपं प्राप्यते । वैयाकरणाः 'ओमाङोश्च' (६।१।९५) इति पाणिनिसूत्रस्योदाहरणे शिवाय ओं नमः - शिवायों नमः इत्यत्र सावयवयमेव ओमित्यङ्गीकुर्वन्ति । श्री नागेशभट्टेनापि एवमेवाङ्गीकृतम्-तस्य ह्यासंस्त्रयो वर्णा अकाराद्या भृगूद्वह। धार्यन्ते यैस्त्रयो भावा गुणानामर्थवृत्तयः । अकाराद्या अकारोकारमकाराः ।तस्येत्यवयवावयविभावे षष्ठी । यैः अकाराद्यैः त्रयः त्रिसंख्यायुक्ताः । भावाः धर्माः । धार्यन्ते तत्कारणत्वात् । गुणाः सत्त्वरजस्तमांसि । नामानि ऋग्यजुःसामलक्षणानि । अर्थः भूर्भुवः स्वर्लोकाः । वृत्तयः जाग्रत्स्वप्नसुषुप्तयः । अनेन प्रकारेण सर्वप्रपञ्चकारणतोक्ता (वै०सि०ल०म०स्फोटनि०) । स्फोट एव आन्तरप्रणवः (तत्रैव) । १. परममाङ्गलिकः शब्दोऽयम् । यथा - ॐकारश्चाथ शब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्यातौ तेन माङ्गलिकावुभौ । २. प्रणवः,प्रणव - प्रकर्षेण नौति प्रह्लीकरोति । ३. ब्रह्म । यथा - 'सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीमि त्येतत् (का०३० १/२/१५) । यथा च - एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते । (तत्रैव १७) सत्यकाम परं चापरं च ब्रह्म यदोंकारः (प्र० उ० ५२) । ओमिति ब्रह्म (तै० उ० १।८) । ॐकार एवेदं सर्वम् (छा० उ० २ । २३।३) । ॐ इत्येदक्षरमुद्गीथमुपासीत (तत्रैव १ ।९।१०) । ॐ खं ब्रह्म ( बृ० उ० ५/२/१ ) । ओमित्येव ध्यायथ आत्मानम् (मु० उ० २ ।२।६) । ॐकार एवेदं सर्वमोकार एवेदं सर्वम् (छा० उ० ७ १२ (२) । अत्र शाङ्करभाष्ये प्रणवं च तत् सत्यं परं ब्रह्म तप्रतीकत्वात् । यथा च - ॐ तत्सदिति एष निर्देशो निर्दिश्यतेऽनेनेति निर्देशस्त्रिविधो नाम निर्देशो ब्रह्मणः । (गी० ७।२३ शा० भा०) तस्माद् ओमित्युदाहृत्योच्चार्य यज्ञदानतपः - क्रिया: यज्ञादिरूपाः क्रियाः प्रवर्तन्ते । (गी० १७/२८ शा० भा०) ओमिति ब्रह्म इत्यादिश्रुतेः ओमिति तावद् ब्रह्मणो नामनिर्देशः । तत्त्वमसि इति श्रुतेः तदित्यपि ब्रह्मणो नामनिर्देशः । सदेव सोम्येदमिति श्रुतेः सदित्यपि तस्य नामेति मत्वाह - ओमिति (तत्रैव आ० गि०) । ओमिति तदिति सदिति च त्रिविधस्त्रिप्रकारकोऽयं ब्रह्मणो निर्देशो नाम्नां पाठः (तत्रैव नी क०) । ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् । (गी० ८।१३) ॐ तत्सदिति भगवन्नामोच्चारणरूपम् । ॐ तत्सदिति एवंरूपो ब्रह्मणः परमात्मनो निर्देशः (तत्रैव म० सू०) । ॐ प्रणवः उद्गीथरूपः । यथा - ब्रह्मणः सम्बन्धि.... उत्कृष्टतया गीयते विमृश्यते इत्युद्गीथः प्रथमोन्मेषात्मकशब्दब्रह्मरूपः प्रणवो ध्वनिः (साम्बपञ्चाशिकाया: १ श्लो० क्षेमराजटी०) । ब्रह्म तत्त्वमसि सदैव सोम्येत्यादि वेदान्तेषु ब्रह्मविद्भिः स्मृतश्चिन्तितः (तत्रैव भाष्यो०) ॐ तत्सदिति इत्येभिस्त्रिभिः शब्दैः ब्रह्मणो निर्देशः संमुखीकरणम् । (तत्रैव अभि० गुप्तः) यथा च त्रिमात्रेणोंकारेणालम्बनेन परमात्मनमभिध्यायतः फलं ब्रह्मलोकप्राप्तिः । क्रमेण च सम्यग् दर्शनोत्पत्तिरिति क्रममुक्त्यभिप्रायमेतद् भविष्यतीत्यदोषः (ब्र०सू० १ । ३ । १३ शा०भा०) । ४- भूतं भवद् भविष्यत् सर्वम् ॐ । यथा च - ओमित्येतदक्षरमिद ॐ सर्वं तस्योपाख्यानं भूतं भवद् भविष्यद् इति सर्वमोंकार एव । यच्चान्यत् त्रिकालातीतं तदप्योंकार एव (मा० उ० १) । सर्वं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् (तत्रैव - २) । नान्तः प्रज्ञं न बहिष्मज्ञं नोभयतः प्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् । अदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः (तत्रैव ७) । अतः परं तत्रैव अकारोकारमकाराणामर्था एवं निर्दिष्टाः - सोऽयमात्माऽध्यक्षरमोंकारोऽ घिमात्रं पादा मात्रा । मात्राश्च पादा अकार उकारो मकार इति (तत्रैव ८) । जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद्वाप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ( तत्रैव ९) । स्वप्रस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति - नास्याब्रह्मवित् कुले भवति य एवं वेद् । (तत्रैव १०)। सुषुप्तस्थानो मकारस्तृतीया मात्रा मितेरमितेर्वा मिनोति ह वा इदÛ सर्वमपीतिश्च भवति य एवं वेद (तत्रैव ११) । परमाचार्यैः श्रीगौडपादस्वामिभिरेतदुपनिषदर्थः स्वीयकारिकास्वेवं निबद्धः - अत्र प्रणवमात्रा कारिकाः । अत्रैते श्लोकाः भवन्ति– विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् । मात्रासम्प्रतिपत्तौ स्यादाप्तिसामान्यमेव च ( मा० का० १९) । तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् । मात्रासम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम् (तत्रैव २०) । मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् । मात्रासम्प्रतिपत्तौ तु लयसामान्यमेव च (तत्रैव २१) । त्रिषु धामसु यस्तुल्यं सामान्यं वेत्ति निश्चितः । सं पूज्यः सर्वभूतानां वन्द्यश्चैव महामुनिः (तत्रैव २२) । अकारो नयते विश्वमुकारश्चापि तैजसम् । मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः (तत्रैव २३) । अत्र सावयवस्य समात्रस्य सपादस्य वा ओंकारस्यार्थः प्रदर्शितः । अतः परं निरवयवस्य अमात्रस्य अपादस्य ॐ इत्यस्यार्थ एवं निर्दिष्टः- अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोंकार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद (मा० उ० १२) । अत्रैव कारिकाः - अथ प्रणवकारिकाः अत्रैते श्लोकाः भवन्ति - ओंकारं पादशो विद्यात् पादा मात्रा न संशयः । ओंकारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत् (गौ०पा०का० २४) । युञ्जीत प्रणवं चेतः प्रणवो ब्रह्म निर्भयम् । प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् । (२५) प्रणवो ह्यपरं ब्रह्म प्रणवश्च परः स्मृतः । अपूर्वोऽन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः (२६) । सर्वस्य प्रणवो ह्यादेर्मध्यमान्तस्तथैव च । एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् (२७) । प्रणवं हीश्वरं विद्यात् सर्वस्य हृदये स्थितम् । सर्वव्यापिनमोंकारं मत्वा धीरो न शोचति (२८) । अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः । ओंकारो विदितो येन स मुनिर्नेतरो जनः (२९) । ६. स्फोटः आन्तरप्रणवरूपः। यथा - स चायं स्फोट आन्तर प्रणवरूप एव । ओंकार एव सर्वा वाक् सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति इति श्रुतेः । बह्वी वाक्यपदादिरूपा घटपदादिरूपा च । अकार इति श्रुत्यन्तरे पाठः । तत्राप्यवयवद्वारा प्रणवो लक्षणम् (वै०सि०ल०म० स्फोट नि०) । यथा च - समाहितात्मनो ब्रह्मन् ब्रह्मणः परमेष्ठिनः । हृदयाकाशादभून्नादो वृत्तिरोधाद् विभाव्यते (भाग० १२/६।३७) । ततोऽभूत् त्रिवृदोंकारो यो व्यक्तप्रभवः स्वराट् । यत् तल्लिङ्गं भगवतो ब्रह्मणः परमात्मनः (तत्रैव ३९) 1 स्वधाम्नः ब्रह्मणः साक्षाद् वाचकः परमात्मनः । स सर्वमन्त्रोपनिषद् वेदवीजं सनातनम् (तत्रैव ४१) । तस्य ह्यासंस्त्रयो वर्णा अकाराद्या भृगूह । धार्यन्ते यैस्त्रयो भावा गुणानामर्थवृत्तयः (तत्रैव ४२) । (भावा धर्माः गुणाः सत्त्वरजस्तमांसि नामानि ऋग्यजुःसामलक्षणानि, अर्थाः भूर्भुवः स्वर्लोकाः वृत्तयः जागरितस्वप्नसुषुप्तयः इत्यर्थः) तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः । सव्याहृतिकान् सोङ्कारान् चातुर्होत्रविवक्षया (तत्रैव ४३) । ५ ब्रह्मविष्णुरूद्ररूपदेवत्रयात्मकः|, ब्रह्मविष्णुरूद्ररूदेवत्रयात्मक। यथा - अकारो विष्णुरुद्दिष्टः उकारस्तु महेश्वरः । मकारः प्रजापतिरुक्तस्त्रिवर्णः प्रणवः स्मृतः । धर्माधर्मौ तद्विपाकास्त्रयोऽपि क्लेशाः पञ्च प्राणिनामायतन्ते । यस्मिन्नेतैर्नो परामृष्ट ईशो यस्तं वन्दे विष्णुमोंकारवाच्यम् । (या०स्मृ०मि० मङ्गलश्लोके) कैश्चिदेवमप्युच्यते यन्निरवयः ॐ इति वैदिक ओम् इति वर्णत्रयात्मकस्तान्त्रिक इति । किन्त्वेतन्न सर्वमान्यम् - श्रुतिस्मृतिषु समानरूपेणोभयप्राप्तेः । यथा – माण्डूक्योपनिषदि मात्रात्रयात्मकः ॐकारस्तथा अमात्रकश्चोंकारो वर्णितः सोऽयमात्माऽध्यक्षरमोंकारोऽधिमात्रं पादा मात्रा । मात्राश्च पादा अकार उकारो मकार इति । अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोंकार आत्मैव संविशत्यात्मनात्मानं य एवं वेद (१२) । एवम् अमात्रः ॐ अव्याकृतं ब्रह्म तथा त्रिमात्र ओंकारो व्याकृतं ब्रह्मेति निर्दिष्टमूंं । ध्रुवमेकाक्षरं ब्रह्म ओमित्येव व्यवस्थितम् । बृहत्वाद् बृंहणत्वाच्च ब्रह्मेत्यभिधीयते (विष्णुपु० ३।३।२२) । वायुपुराणे शिवपुराणे च लिखितं यद् उमादेव्या द्वारि द्वारपालरूपेण स्थितस्य श्रीगणेशस्य शिरसि छिन्ने ब्रह्मविष्णुमहेशा श्रीगणेशमचिन्तयन् तथा श्रीगणेशः ॐ रूपेण आविरभवत् । प्रश्नोपनिषदि ॐ महत्त्वं वर्णितम् । श्रीगणेशस्य रेखाप्रतीकम् 57 अस्ति । एवं मन्यते यदुपरि शुण्डमुद्रा ततो दक्षिणवामहस्तयोर्वरदशान्तिमुद्रे तथाधः पादमुद्रा । इदं प्रतीकं शान्तिवरदगणेशस्य । विनायकस्य एतद्विपरीतं प्रतीकं भवति । तत्रेत्थम् - मुखं वामदिशि एवं वामहस्तमुद्रा उर्ध्वाकारा भवति । एवंविधं प्रतीकं दुष्टादिशमनार्थं प्रयुज्यते । गणेशाथर्वशीर्षस्य स्वीये भाष्ये श्रीसायणाचार्येण लिखितं यद् गणेशस्य प्रतीकं ॐ इति । ब्रह्मणः स्वरूपम् ॐ इति परमहंसपरिव्राजकोपनिषदि चास्य परं महत्त्वं द्रष्टव्यम् । ६. ओम् इति स्वीकृत्यर्थे । ७. वेदाध्ययने ॐकारं प्रथममुच्चरेत् तथा भाष्याध्ययने प्रथमम् अथ इत्युच्चरेत् । यथा - ॐकारं वेदेषु अथकारं भाष्येषु (शु० य० प्रा० १/१८/९) । लिङ्गपुराणे पूर्वार्द्ध १८ अध्याये ॐ इत्येव सर्वमिति विशदं वर्णितम् । ॐ प्रणवः स च उद्गीथः । यथा – य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथः (छा०उ० १/५/१) । यथा च - उद्गीथः प्रणवो वा उप्राणेन हीदं सर्वमुत्तब्धं वागेव गीथोच्च गीथा चेति स उद्गीथः (बृ० उ० १ । ३ । २२) । यथा च - ॐकारकं परमात्मप्रतीकम् (छा०३०१ ।१ ।१ शा०भा० ) । ॐ इतिविषये अथ० वे० गोपथ - ब्रा० १ प्रपा० अत्र को धातुः किं प्रातिपदिकमितिरूपेण षट्त्रिंशत्प्रश्नाः कृताः सन्ति । अः, अ १. विष्णुः (एकाक्षरकोश:) २. एकः स्वरवर्णः । ३. वर्णसमाम्नायस्य प्रथमो वर्णः । अकस्मात् हेतुशून्यम् । अकार:,अकार १. वर्णविशेषः अः इति । २. शून्यवचनः । ३. विष्णुः । ४. वर्णसमाम्नायस्यादिवर्णः अइउण् इत्यादि व्याकरणचतुर्दशसूत्रेषु । अकारणम्,अकारण कारणरहितम् ब्रह्म । यथा - अनपरम् अकारणमिति यावत् ( ब्र० सू० १/१/४ वे० क० त० ) । अकारणगुणोत्पन्नगुणत्वम्,अकारणगुणोत्पन्नगुणत्व कारणगुणोत्पन्नावृत्तिर्गुणत्वसाक्षाद्व्याप्या च जातिस्तादृशजातिमत्त्वम् । तादृशजातिस्तु बुद्धित्वसुखत्वशब्दत्वादि तद्भिन्नत्वम् । अकार्यम्,अकार्य ब्रह्म यथा - तदेतदेव यद् ब्रह्म तद् वा किं लक्षणमित्यत आह अपूर्वमिति नास्य पूर्वं कारणं विद्यते इत्यपूर्वम् । अकार्यमित्यर्थः (द्र० सू० १।१।४। वे० क० त० ) । अकृतम् ,अकृत कारणम् । यथा - कृतात् कार्यप्रपञ्चात् अंकृतात् कारणात् (ब्र० सू० १/१/४ वे० क० त० ) । अक्रतुः, अक्रतु – १ . निर्विषया बुद्धिः । यथा- निर्विषयः अक्रतुरकामो दृष्टादृष्टबाह्यविषयोपरतबुद्धिरित्यर्थः (का० उप० २ । २० शा० भा०) । २. यज्ञाभावः यज्ञरहितश्च । अक्रिया, अक्रिया - कर्माकरणम् । सा त्रिविधा कर्मसंन्यासः, कर्मफलत्यागः अयथाकरणं च । यथा - कर्मणो ह्यपि बोधव्यं बोधव्यं च विकर्मणः । अकर्मणश्च बोधव्यं गहना कर्मणो गति: (गी० ४ । १९) । कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु संयुक्तः कृत्स्नकर्मकृत् (तत्रैव १८) । त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः (तत्रैव २०) । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् (तत्रैव १२।११) । काम्यानां कर्मणां त्यागः संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः (तत्रैव १८।२) । अक्षयः,अक्षय क्षयरहितो नाशरहितो वा परमेश्वरः । यथा - अक्षय प्रवाहरूपः कालोऽहमेव कालः कलयतामित्यत्रायुर्गणनात्मकः संवत्सरशताद्यायुः स्वरूपकाल उक्तः, स च तस्मिन्नायुषि क्षीणे सति क्षीयते । अत्र तु प्रवाहात्मकोऽक्षयः काल उच्यत इति विशेषः (गीता १० । ३३ श्रीधरी) । क्षयकालाभिमानी अक्षयः परमेश्वराख्यः कालज्ञः - कालकालो गुणी सर्वविद्यः इत्यादिश्रुतिप्रसिद्धोऽहमेव ( गी० १० । ३३ म० सू०) अक्षयः क्षयवर्जितः । कालोऽहमेव । यद्वा कालस्य कालः परमेश्वरोऽहमेव (गी० १०/३३ भाष्यो०) । अक्षरम्,अक्षर १. क्षरतीति क्षयो नाशस्तद्रहितम् अक्षरम् = अविनाशि तच्च ब्रह्म इति शाङ्करवेदान्तिनः । यथा - अत एतद्धि एवाक्षरं ब्रह्म अपरमेतद्धि एवाक्षरं परं च (का० उप० २।१६ शा० भा०) । सहोवाच एतद् वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽ तेजस्कमप्राणममुखममात्रमनन्तरमबाह्यं न तदश्नाति किञ्चन न तदश्नाति कश्चन ( बृ० आ० उप० ३१८१८) । अत्र एतद्ध्यक्षरं सर्वव्यवस्थासेतुः सर्वमर्यादाविधारणम् (शा० भा० ) । एतस्मिन् नु खल्वक्षरे गार्ग्याकाश ओतः प्रोतश्चेति (बृ० आ० उप० ३।८।११ ) । यथा - उच्यतेपर एवात्मा अक्षरपदवाच्यः । कस्मात् अम्बरान्तधृतेः- पृथिव्यादेराकाशान्तस्य विकारजातस्य धारणात् । .... तस्मान्न क्षरत्यश्नते चेति नित्यत्वव्यापित्वाभ्यामक्षरं परमेव ब्रह्म (ब्र० सू० १ ।३।३० शा० भा०) । यथा - अक्षरं परमात्मैव न तु वर्णाः । कुतः अम्बरान्तर्धृतेः । न खल्वम्बरान्तानि पृथिव्यादीनि वर्णा धारयितुमर्हन्ति । किन्तु परमात्मैव तेषां परमात्मविकारत्वात् (ब्र० सू० १।३।१० शा० भा०) । यथा च अक्षरमव्याकृतं नामरूपबीजशक्तिरूपं भूतसूक्ष्ममीश्वराश्रयं तस्यैवोपाधिभूतं सर्वस्मात् विकारात् परो योऽविकारस्तस्मात् परतः पर इति भेदेन व्यपदेशात् परमात्मानमिह विवक्षितं दर्शयति (ब्र० सू० १ । २ । २२ शा० भा०) । तस्मादेतद् ब्रह्म नामरूपमन्नं च जायत इति । तस्मान्निर्देश्यसाम्येन प्रत्यभिज्ञायमानत्वात् प्रकृतस्यैवाक्षरस्य भूतयोनेः सर्वज्ञत्वं सर्ववित्त्वं च धर्म इत्युच्यते (ब्र०सू० १ । २।२१ शा० भा०) । यथा च अथ परा यया तदक्षरम् अधिगम्यत इत्यादि । तत्र परस्या विद्याया विषयत्वेनाक्षरं श्रुतम् (ब्र०सू० १ । २ । २१ शा० भा०) । यद् यस्मादर्थे न च अक्षरशब्दप्रत्यभिज्ञानाद् भूतयोनिरेवाक्षरादिति निर्दिष्टेति वाच्यम् । प्रथमश्रुतेः यः सर्वज्ञ इति वाक्ये सर्वज्ञस्य जगदुपादानत्वप्रत्यभिज्ञयाऽस्य बाध्यत्वात् । येनाक्षरं पुरुषं सत्यम् इति पुरुषस्याक्षरशब्देन निर्देक्ष्यमाणत्वाच्च (तत्रैव वे० क० त०) । अक्षरात् परत इत्यत्र प्रत्यभिज्ञानं श्रुतिप्रत्यभिज्ञानत्वात् तथाक्षरात् सम्भवतीह विश्वं तथाक्षराद् द्विविधाः सोम्य भावा इत्यतः प्रत्ययकृतस्यापि विशेषस्याभावेन.... बलवदित्याशयः (तत्रैव वे०क० त०प० ) । यथा च - क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते (गी० १५/१६) । क्षरश्च क्षरतीति क्षरो विनाश्येको राशिरपरः पुरुषोऽक्षरस्तद्विपरीतो भगवतो मायाशक्तिः क्षराख्यस्य पुरुषस्योत्पत्तिबीजमनेकसंसारिजन्तुकामकर्मादिसंस्काराश्रयोऽक्षरः पुरुष उच्यते (गीता १५/१६ शा० भा०) । कूटस्थो निर्विकारो मायोपाधिरक्षरः । तदुपाधेरकर्मकत्वेन नाशासम्भवात् । उपाधिदोषेणावशीकृतत्वाच्चासौ न क्षरति रूपान्न च्यवत इत्यक्षरः (तत्रैव १६ नी० क०) । तेनावरणविक्षेपशक्तिद्वयरूपेण स्थितः कूटस्थः भगवान् मायाशक्तिरूपकारणोपाधिः संसारबीजोपाधित्वेनानन्त्यादक्षर उच्यते (गीता १५/१६ म० सू०) संसारबीजानन्त्यान्न क्षरतीत्यक्षरो भगवतो मायाशक्तिः क्षराख्यस्योत्पत्तिबीजमनेकसंसारिजन्तुकामकर्मादिसंस्काराश्रयोऽक्षर उच्यते (तत्रैव १५/१६ भाष्यो०)। यथा च कूटः शिलाराशिः पर्वत इव देहेषु नश्यत्स्यपि निर्विकारतया तिष्ठतीति कूटस्थश्चेतनो भोक्ता । स तु अक्षरः पुरुष इत्युच्यते विवेकिभिः (तत्रैव श्रीधरी ) । यथा च ब्रह्माक्षरं निरस्तसर्वोपाधित्वादव्यक्तमकरणगोचरम् । यद्धि लोके करणगोचरं तद् व्यक्तमुच्यते । अज्ज्धातोस्तत्कर्मत्वादिदं त्वक्षरम् (गीता १२/१ शा० भा० ) । यथा च - ये चाप्येवं सततयुक्ता अक्षरमव्यक्तं पर्युपासते तेषामुभयेषां के योगवित्तमाः (गीता १२।१ भाष्यो०) । यथा च न क्षरति अश्नते वेत्यक्षरम् (गीता० १२ । १ आ० गि०) । यथा च अक्षरं न क्षरतीति पर आत्मा ।"एतस्य वाक्षरस्य प्रशासने गार्गि इति श्रुतेः । ओंकारस्य चोमित्येकाक्षरं ब्रह्मेति परेण विशेषणात् तद् ग्रहणम् । परमिति च निरतिशये ब्रह्मणि अक्षरम् उपपन्नतरं विशेषणम् (गीता ८।३ शा० भा०) । यथा च - तत्र किं तद् ब्रह्मेत्येतस्योत्तरमक्षरं परमं ब्रह्म । मत्परमक्षरं तद् ब्रह्मेति योजना (गीता० ८।३ नी० क०) । अक्षरं न क्षरतीत्यविनाशि अश्नते वा सर्वमिति सर्वव्यापकमक्षरत्वात् 'एतद् वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु इत्याद्युपक्रम्य "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" "नान्यदतोऽस्ति द्रष्टृ इत्यादिमध्ये परामृश्य "एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतप्रोतश्चेति" इत्युपसंहृतं श्रुत्या सर्वोपाधिशून्यं सर्वत्र प्रशास्तृ अव्याकृताकाशान्तस्य कृत्स्नस्य प्रपञ्चस्य धारयितृ अस्मिंश्च शरीरेन्द्रियसंघाते विज्ञातृ निरुपाधिकं चैतन्यं तदिह ब्रह्मेति विवक्षितम् (गीता ८।३ म० सू० ) । यथा च "त्वमक्षरं न क्षरतीति परमं ब्रह्म वेदितव्यं ज्ञातव्यं मुमुक्षुभिः (गीता० ११/१८ शा० भा०) । परममक्षरमस्थूलादिलक्षणम् । अक्षरं ब्रह्म परमम् इत्यत्र प्रागुक्तं निष्कलं ब्रह्म तदेव त्वमसि (गीता ११/१८ नी० क०) । त्वमेवाक्षरं परमं ब्रह्म (गीता ११/८ श्रीधरी) । २. मोक्षः, ३. लक्ष्मीपतिरिति मध्वादिवैष्णवाः । ४. भगवद्धामविशेष इति वैष्णवाः । ५. शब्दब्रह्म इति वैयाकरणाः । यथा - अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । वितर्ततेऽर्थभावेन प्रक्रिया जगतो यतः (वा० प० १।१ ) । ६. वर्णः अकारदिः वैयाकरणकाव्यज्ञप्रभृतयः । यथा- यदक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः । अखण्डम्, अखण्ड खण्डरहितम्, एकम्, अद्वितीयम्, भेदरहितम्, अपर्यायानेकशब्द – प्रकाशितम् । यथा- अविशिष्टमपर्यायानेकशब्दप्रकाशितम् । एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे (ब्र० सू० १ । १ ।२ वे० क० त० ) । यथा च - एवमपर्यायानेकशब्दप्रकाशितमविशिष्टमित्यखण्डलक्षणोक्त्या………..। (तत्रैव कल्पतरुपरिमले) । एवं च अखण्डं ब्रह्म । अखण्डार्थः, अखण्डार्थ तत्त्वमसि इत्यादिवाक्योत्थो बोधोऽखण्डार्थः स च ब्रह्म । इदं च ज्ञानं निर्विकल्पकम् । अत्रोच्यते सोऽयं देवदत्त इत्यादौ यथा विशिष्टवैशिष्ट्यावगाहि ज्ञानं सविकल्पकं तथैव तत्त्वमसि सत्यं ज्ञानमित्यावपि । अतः कथं तत्त्वमसि इत्यादौ निर्विकल्पकम् अखण्डार्थश्च । अतः कथ्यते - संसर्गागोचरापर्यायानेकशब्दप्रतिपादितोऽर्थः अखण्डार्थः । यथा - एवमपर्यायानेकशब्दप्रकाशितमविशिष्टमसमभिव्याहृतपदार्थान्तरार्थसंसर्गागोचरप्रमितिजनकं वाक्यमखण्डार्थमित्यखण्डार्थलक्षणं सूचितं भवतीति द्रष्टव्यम् (ब्र० सू० १ । १ । २ वे० क० त० प०) । यथा च यत्र पदार्थः प्रमितः । तत्र स एवेतरपदार्थविशिष्टः खण्डमित्यखण्डलक्षणोक्त्या प्रतिपाद्यः । यस्त्वज्ञातः सन् नान्यैः शक्यो विशिष्टुमिति स एव वाक्येन प्रमेयः । प्रमिते चैतस्मिन् वाक्यस्य समाप्तेर्न विशिष्टपरत्वम् । यथा - प्रकृष्टप्रकाशश्चन्द्र इति प्रकर्षप्रकाशद्वारा चन्द्रलक्षणात् न तद्वैशिष्ट्यं मानान्तरादेव तत्सिद्धेः । उपायस्तु वैशिष्ट्यम् अखण्डचन्द्रसिद्धौ । तच्चाविरोधात् चन्द्रेऽनुज्ञायते । सत्यादिवाक्ये त्वनन्तादिपदैर्बाध्यते वैशिष्ट्यम् । एवं च अविशिष्टमपर्यायानेकशब्दप्रकाशितम् । एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे (तत्रैव वे० क० त० ) । तथा च इदमेव तत्त्वमस्यादिवाक्यानामखण्डार्थत्वम् - यत् संसर्गानवगाहियथार्थज्ञानजनकत्वमिति । तदुक्तम् – संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् । उक्ताखण्डार्थता यद्वा तत्प्रातिपदिकार्थता (१) । प्रातिपदिकार्थमात्रपरत्वं वाखण्डार्थत्वमिति चतुर्थपादार्थः (वे० प० १ प्र०) । यथा च - अपर्यायशब्दानां संसर्गागोचरप्रभितिजनकत्वमखण्डार्थता । नापि प्रमाणासम्भवः । तथाहि - सत्यज्ञानादिगीरेतत् संसर्गव्यतिरेकिणि । अर्थे प्रमाणं मानत्वान्नयनादिप्रमाणवत् (त०प्र० १।२०) । यथा च - अत्राहुः किमखण्डार्थत्वम् । न तावद् निर्भेदार्थत्वम् । यतो निर्भेदार्थत्वस्य शाब्दबोध्यत्वे विशेषणतायामुपलक्षणतायां च निर्घटं भूतलमितिवत् सखण्डार्थत्वापत्तिः । शब्दाबोध्यत्वे तु वस्तुगत्या यन्निर्भेदं ब्रह्म तद्बोधकं सगुणवाक्यानामपि अखण्डार्थत्वापत्तिः ।.... यत्तु अपर्यायशब्दानां संसर्गागोचरप्रमितिजनकत्वं वा तेषामेकप्रातिपदिकार्थमात्रपर्यवसायिस्वं वा अखण्डार्थत्वम् । अत्रोच्यतेपदवृत्तिस्मारितातिरिक्तमत्र संसर्गपदेन विवक्षितम् । तथा च अपर्यायशब्दानां पदवृत्तिस्मारितातिरिक्तागोचरप्रमाजनकत्वमाद्यलक्षणं पर्यवसितम् ।.. ननु प्रवृत्तिनिमित्तभेदे अपर्यायत्वम् । स चानन्तादिपदेषु न सम्भवति शुद्धब्रह्ममात्रपरत्वात् । अतो वेदान्तेषु लक्षणाऽव्याप्तिरिति चेत्, न । प्रवृत्तिनिमित्तभेदं स्वीकृत्यैव लक्षणया अनन्तादिपदानां शुद्धब्रह्मपरत्वस्य वक्ष्यमाणत्वात् । न च शुद्धे सम्बन्धाभावान्न लक्षणापीति वाच्यम् । अतात्त्विकसम्बन्धेनैव लक्षणोपत्तेः (अ० सि० अख०) अखण्डार्थप्रमाणम्, अखण्डार्थप्रमाण एवं लक्षणसम्भवे प्रमाणसम्भवोऽपि । तथा हि सत्यादिवाक्यम् अखण्डार्थनिष्ठं ब्रह्मप्रातिपदिकार्थनिष्ठं वा लक्षणवाक्यत्वात् तन्मात्रप्रश्नोत्तरत्वाद्वा प्रकृष्टप्रकाशश्चन्द्र इत्यादिवाक्यवदितिं पदार्थविषयाखण्डार्थत्वानुमानम् । तत्त्वमस्यादिवाक्यमखण्डार्थनिष्ठमात्मस्वरूपमात्रनिष्ठं वा अकार्यकारणद्रव्यमात्रनिष्ठत्वे सति समानाधिकरणत्वात् तन्मात्रप्रश्नोत्तरत्वाद् वा सोऽयमित्यादिवाक्यवदिति वाक्यार्थविषयाखण्डार्थत्वानुमानम् (अ०सि० २ प०अ०) । अखण्डार्थभेदः, अखण्डार्थभेदः यथा - तच्चाखण्डार्थं द्विविधम् - एकं पदार्थनिष्ठम्, अपरं वाक्यार्थनिष्ठम् । एकैकं व पुनः वैदिकलौकिकभेदेन द्विविधम् । पदार्थनिष्ठं वैदिकमपि द्विविधम् - तत्पदार्थनिष्ठं त्वंपदार्थनिष्ठं च तत्र-सत्यं ज्ञानमनन्तमित्यादि तत्पदार्थनिष्ठम् । सोऽयंविज्ञानमयः ...... इत्यादि त्वंपदार्थनिष्ठम् । प्रकृष्टप्रकाश इत्यादि तु लौकिकं पदार्थनिष्ठम् । वाक्यार्थनिष्ठमपि वैदिकं तत्त्वमस्यादि वाक्यम् । सोऽयं देवदत्त इत्यादि तु लौकिकम् (अ० सि० २ परि० अ० ल० ) । अखण्डार्थलक्षणम्, अखण्डार्थलक्षण १. अपर्यायशब्दानाम्पदवृत्तिस्मारितातिरिक्तागोचरप्रमाजनकत्वम् । (अ० सि० २ परि० अ० ल०) ।२. अपर्यायशब्दानामेव प्रातिपदिकार्थप्रमापकत्वम् । (तत्रैव गौं० ब्र०) विशदज्ञानार्थम् अ० सि० द्रष्टव्या । अखण्डोपाधिः, अखण्डोपाधि (उपाधिः) अनिर्वचनीयो धर्मः स च क्लृप्तपदार्थातिरिक्त एव । यथा - अनुयोगितात्वप्रतियोगितात्वविषयतात्वादिः (अ० सि० ) । अख्यातिः, अख्याति भ्रमविषये चतुर्दशख्यातयः । तत्र पञ्च प्रसिद्धाः- आत्मख्यातिः असत्ख्यातिः अख्यातिः अन्यथाख्यातिः अनिर्वचनीयख्यातिः । तत्र अख्यातिः पूर्वमीमांसकश्रीप्रभाकरगुरोः । अस्मिन् मते विभ्रमज्ञानं नाङ्गीक्रियते । अतः अख्यातिवाद उच्यते । ज्ञानेन अर्थानां सिद्धिर्भवति । यदि ज्ञानमर्थव्यभिचारि स्यात् तदा सर्वत्र ज्ञाने ज्ञानसामान्यात् व्यभिचारित्वसंशयेन कुत्रापि निष्कम्पप्रवृत्तिर्न स्यात् । ते कथयन्ति - अहो वत महानेष प्रमादो धीमतामपि । ज्ञानस्य व्यभिचारित्वे विश्वास किंनिबन्धनः । शुक्तिविशेष्यकं रजतत्वप्रकारकं ज्ञानं भ्रमज्ञानमिष्यते । एतच्च न सम्भवति । यतो हि रजताकारज्ञाने शुक्तिकाया भासमानत्वाभावेन आलम्बनत्वाभावात् । भासमानताया एवालम्बनपदार्थत्वात् । पुरोवर्तिनि शुक्तिकाशकले इन्द्रियसंन्निकर्षात् चक्षुषा जायमाने प्रत्यक्षे रजतं कथं भासेत । प्रत्यक्षहेतोः रजतेन्द्रियसंयोगस्य व्यवहिते आपणस्थरते अभावात् । अपरञ्च इन्द्रियाणां समीचीनज्ञानजनन एव सामर्थ्यं दृष्टमिति हेतोः असमीचीनज्ञानजनने तेषां न सामर्थ्यम् । दोषसाचिव्येन इन्द्रियाणां भ्रमजनकत्वं सम्भवतीत्यपि न वाच्यम् । यतो हि दोषाणां कार्यप्रतिबन्धे सामर्थ्यं न तु अपूर्वकार्यजनने । अन्यथा दोषयुक्तात् कुटजवीजात् वटाङ्करोत्पत्तिः स्यात् । अतस्तैरुच्यतेपुरोवर्त्तिशुक्तिशकलेन्द्रियसन्निकर्षेण इदमिति ग्रहणं जायते । ततः तद्गतचाकचिक्योद्बोधितरजतसंस्कारात् आपणस्थरजतस्य स्मरणं रजतमित्याकारकं जायते । अत्र दोषवशात् तत्तांशस्य प्रमोषात् तत्तामविषयीकुर्वाणा रजतमिति स्मृतिर्जायते । रजतार्थी स्वेष्टरजत - भेदस्याग्रहणादिदं रजतमिति व्यवहरति तदादातुं च प्रवर्तते । अस्मिन् मते इष्टभेदाग्रह एव भ्रमपदव्यपदेश्यः । स्वरूपतो विषयतश्चागृहीतभेदग्रहणस्मरणात्मकं ज्ञानद्वयमेव भ्रमपदार्थः । अत्रेत्थं चिन्त्यते चेतनप्रवृत्तिर्ज्ञानपूर्विकैव भवति नाग्रहणमात्राद् भवितुमर्हति तथा सुषुप्तेऽपि भेदाग्रहसत्वात् प्रवृत्त्यापत्तिः स्यात्तथा एककाले ज्ञानद्वयानापत्तिश्च स्यात् । (अधिकं ख्यातिशब्दे विभ्रमशब्दे च द्रष्टव्यम्) यथा च ख्यातिः ज्ञानम् । सुषुप्तौ...। अख्यातिः अज्ञानम् (वि०प्र०सं०आदौ) अग्निः,अग्नि १. परमात्मा । यथा अग्निशब्दोऽप्यग्रणीत्वादियोगाश्रयेण परमात्मविषय एव भविष्यति । गार्हपत्यादिकल्पनं प्राणाहुत्यधिकरणं च परमात्मनोऽपि सर्वात्मत्वादुपपद्यते ( ब्र० सू० १।२।२८ शा० भा० ) । २. हुताशनः । यथा अग्निमीडे पुरोहितम् ... (ऋ० वे० १ ।१।१) अग्रे नयतीति अग्निः (निरुक्ते) । अङ्गुष्ठमात्रः पुरुषः, अङ्गुष्ठमात्र पुरुष १. जीवात्मा । यथा - तत्र परिमाणोपदेशात् तावंद् विज्ञानात्मेति प्राप्तम् । नानन्तायामविस्तारस्य परमात्मनोऽङ्गष्ठपरिमाणमुपपद्यते । विज्ञानात्मनस्तूपाधिमत्त्वात् सम्भवति कयाचित् कल्पनयाङ्गुष्ठमात्रत्वम् । स्मृतेश्च अथ सत्यवतः कायात् पाशबद्धं वशं गतम् । अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् (महाभार० ३।२९७।१७) । इति । स्पष्टस्तु परिमाणनिर्देशः । परिमाणभेदश्च परस्मिन्न सम्भवतीति जीवात्मैवाङ्गुष्ठमात्रः । स खल्वन्तः करणाधुपाधिकल्पितो भागः परमात्मनः। अन्तःकरणं च प्रायेण हृत्कमलकोशस्थानं हृत्कमलकोशश्च मनुष्याणाम्ङ्गुष्ठमात्र इति तदवच्छित्रो जीवात्माप्यङ्गुष्ठमात्रः नभ इव बंशपर्वावच्छिन्नमरलिमात्रम् (ब्र० सू० १ । ३ । २४ शा० मा०) । २. ब्रह्म - यथा अङ्गुष्ठमात्रोऽङ्गुष्ठपरिमाणः । अङ्गुष्ठपरिमाणं हृदयपुण्डरीकं तच्छिद्रवर्त्त्यन्तः करणोपाधिरङ्गुष्ठमात्रोऽङ्गुष्ठमात्रबंशपर्वमध्यवर्त्त्यम्बरवत् । पुरुषः पूर्णमनेन सर्वमिति । (का० उप० १ ।१२ शा० भा०) अष्ठपरिमाणं जीवमनूध ब्रह्मभावविधानाद् विधीयमानविरोधाद् अङ्गुष्ठमात्रस्याविवक्षितत्त्वाद् ब्रह्मपरमेव वाक्यमित्याह । (तत्रैव आ० गि०) यथा च - अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा लिङ्गस्य योगेन स याति नित्यम् । तमीशमीड्यमनुकल्पमाद्यं पश्यन्ति मूढा न विराजमानम् (महाभार उ० प० अ० ४६ । १०) । अचल:, अचल चलः गतिशीलः, न चलः अचलः = स्थिरः । अचलत्वम् चित्तधर्मः। वृत्तिनिरोधसहितं चित्तम् = अचलमिदमेव च योग इत्युच्यते, यथाह पतञ्जलिः - योगश्चित्तवृत्तिनिरोधः (पा० यो० सू० १(२) (२. विकल्पशून्यत्वम्यथाह आनन्दगिरिः - अचलत्वं विकल्पशून्यत्वम् (गी० २।५३) । अचला, अचला "लयविक्षेपशून्या" (गी० २/५३ नील०) "सुषुप्तिमूर्च्छास्तब्धीभावादिरूपलयलक्षणचलनरहिता सती स्थास्यति" (गी० २।५३ मधु०) । यथा च - श्रुतिविप्रतिपन्नानेकसाध्यसाधनसम्बन्धप्रकाशनश्रुतिभिः श्रवणैर्विप्रतिपन्ना विक्षिप्ता सती ते तव बुद्धिर्यदा यस्मिन् काले स्थास्यति स्थिरीभूता भविष्यति निश्चलविक्षेपचलनवर्जिता सती समाधौ समाधीयते चित्तमस्मिन् नात्मनीत्येतदचला तवापि विकल्पवर्जितेत्येतद् बुद्धिरन्तःकरणं तदा तस्मिन्नचले योगमवाप्स्यसि (गी० २/५३ शा० भा० ) । अचित्, अचित् १. चैतन्यभिन्नम् । २. जडम् । ३. दृश्यम् । ४. ब्रह्मातिरिक्तं सर्वम् । ५. अज्ञातृत्वम् । ६. अज्ञानत्वम् । ७. अनात्मत्वम् । ८. अस्वप्रकाशत्वम् (अ० सि० ज० हे०) । अच्युतम्, अच्युत १. ब्रह्म । यथा स्वरूपादप्रच्युतं तत्पदलक्ष्यं ब्रह्मचैतन्यम् । (सं० शा० मङ्गलश्लोके सु० टी०) २. विष्णुः । अजः, अज १ . आत्मा । यथा स वा एष महानज आत्मा (बृ० उ० ४।४५) । यथा च अजः कल्पित संवृत्त्या परमार्थेन नाप्यजः (मा० उ० का० ४।७४) । यथा च - यस्मादयमात्मा भूत्वा भवनक्रियामनुभूय पश्चादभविता अभावं गन्ता न भूयः पुनस्तस्मान्न म्रियते । यो हि न भूत्वा न भविता स म्रियत इत्युच्यते लोके, वा शब्दान्न शब्दाच्चायमात्मा अभूत्वा भविता वा देहवन्न भूयः पुनस्तस्मान्न जायते । यो ह्यभूत्वा भविता स जायत इत्युच्यते । नैवमात्मा अतो न जायते । यस्मादेवं तस्मादजो यस्मान्न म्रियते तस्मान्नित्यश्च (गी० २।२० शा० भा०) यथा च - अजो नित्य इति तदुपसंहार इति विभागः । तत्रैव (म० सू०) यथा च न चायं भूत्वा उत्पाद्य भविता भवति अस्तित्वं भजते । किन्तु प्रागेव स्वतः सद्रूप इति जन्मान्तरास्तित्वलक्षणद्वितीयविकारप्रतिषेधः । तत्र हेतुः यस्मादजः । यो हि जायते स जन्मान्तरमस्तित्वं भजते न तु यः स्वयमेवास्ति स भूयोऽप्यन्यदस्तित्वं भजत इत्यर्थः (तत्रैव श्रीधरी) । २. जन्मशून्यम् यथा सर्वकारणत्वान्न विद्यते आदिः कारणं यस्य तमनादिम् अनादित्वाद् अजं जन्मशून्यम् । (गी० १०/३ म० सू०) । ३. महेश्वरः अजत्वेन सर्वभूतमहेश्वरत्वेन च । (तत्रैव भाष्यो०) ४. नित्यम् । यथा - जन्मवान् हि अनित्यः । अयं त्वजत्वान्नित्य इत्यर्थः। अत एवाजं जन्मरहितं नित्यम् (गी० २।२१ भाष्यो०)। अजहल्लक्षणा, अजहल्लक्षणा लक्षणावृत्तेर्भेदः । न जहाति स्वार्थं या सा अजहल्लक्षणा । लक्ष्यतावच्छेदरूपेण लक्ष्यशक्योभयबोधिका । यथा - काकेभ्यो दधि रक्ष्यतामित्यत्र काकपदस्य दध्युपघातके लक्षणा । यथा - यत्र शक्यार्थमन्तर्भाव्यैवार्थान्तरप्रतीतिस्तत्राजह ल्लक्षणा । यथा - शुक्लो घटः । अत्र हि शुक्लशब्दः स्वार्थं शुक्लगुणमन्तर्भाव्यैव तद्वति द्रव्ये लक्षणया वर्तते (वे० प० ४ प०) । अजा, अजा १. तेजोऽबन्नरूपा भूतग्रामोत्पादिका पारमेश्वरी शक्तिः प्रकृतिः । यथा – परमेश्वरादुत्पन्ना ज्योतिः प्रमुखा तेजोऽबन्नलक्षणा चतुर्विधप्रकृतिभूतेयमजा प्रतिपत्तव्या । .... भूतमय लक्षणैवेयमजा विज्ञेया न गुणत्रयलक्षणा । (व्र० सू० १।४।९। शा० भा०) नायमजाकृतिनिमित्तोऽजाशब्दः । नापि लौकिकः । किं तर्हि कल्पनोपदेशोऽयम् ।अजारूपकक्लृप्तिस्तेजोऽबन्नलक्षणायाश्चराचरयोनेरुपदिश्यते।..... यथा आदित्यस्यामधुनो मधुत्वम् (छा० उप० ३।१।१ ) । वाचश्चाधेनोर्धेनुत्वम् । (बृ० उप० ६।८।१) धुलोकादीनां चानग्नीनामग्नित्वम् (बृ० उप० ८।२।९) एवम् इत्येवं जातीयकं कल्प्यते, एवमिदमनजाया अजत्वं कल्प्यत इत्यर्थः । तस्मादविरोधस्तेजोबन्नेष्वजाशब्दप्रयोगस्य (ब्र० सू० १।४।१० शा० भा० ) । यथा च - तेजोऽबन्नलक्षणा जरायुजाण्डजस्वेदजोद्भिन्नचतुर्विधभूतग्रामप्रकृतिभूतेयमजा प्रतिपत्तव्या । रोहितशुक्लकृष्णामिति रोहितादिरूपतया तस्या एव प्रत्यभिज्ञानात् । न तु सांख्यपरिकल्पिता प्रकृतिः (ब्र० सू० १।४।९ भा०) । २. त्रिगुणात्मिका प्रकृतिः । यथा - अजामेकां लोहित० इत्यादि । (श्वे० उप० ४।५) इति सांख्याः । ३. छागा । यथा - अजाशब्दो यद्यपि छागायां रूढः (ब्र० सू० १/४/८ भाम० ) । अजातवादः, अजातवादः सृष्टिविषये अनेके वादाः सन्ति । तत्रैकोऽजातवादः । अस्मिन् वादे सृष्टि: कदापि न भवति । जगदादिकमजातमेव जातवप्रतीयते । यथा अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो भावो मर्त्यतां कथमेष्यति (मा० उप० का० ३।३०) । यथा च - अजायमानो बहुधा विजायते । (तै० आ० ३।१३) सृष्टिविषयकाः इमे वादाः - प्राणवादः, भूतवादः गुणवादः, तत्त्ववादः, पादवादः, विषयवादः, लोकवादः, देववादः, वेदवादः, यज्ञवादः, भोक्तृवादः भोज्यवादः, सूक्ष्मवादः, स्थूलवादः मूर्तवादः, अमूर्तवादः, कालवादः, दिग्वादः, वादवादः, भुवनवादः, मनोवादः, बुद्धिवादः, चित्तवादः, धर्माधर्मवादः, पञ्चविंशकवादः, षड्विंशकवादः, एकत्रिंशकवादः अनन्तवादः । (मा० उप० कारिकायाम् २।२० इत्यतः २६ पर्यन्तम्) अतः परं लोकाँल्लोकविदः प्राहुराश्रया इति तदूविदः स्त्रीपुंन्नपुंसकं लैङ्गाः परापरमथापरे (तत्रैव २७) । पुनश्च सृष्टिरितिसृष्टिविदो लय इति च तद्विदः । स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा (तत्रैव २८ का०) । अतः परं पुनः प्रकारान्तरेण अजातवादो वर्णितः । यथा - यं भावं दर्शयेद् यस्य तं भावं स तु पश्यति । तं चावति च भूत्वाऽसौ तद्ग्रहः समुपैति तम् (तत्रैव २९) । एतैरेषोऽपृथग्भावैः पृथगेवेति लक्षितः । एवं यो वेद तत्त्वेन कल्पयेत् सोऽविशङ्कितः (तत्रैव ३०) । स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा । तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः (तत्रैव ३१) । न निरोधो न चोत्पत्ति र्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता (तत्रैव ३२) । अजातिः, अजाति १ . जन्मरहितः अनुत्पत्तिर्वा । यथा- एवं हेतुफलयोः कार्यकारणभावानुपपत्तेः अजातिः सर्वस्यानुत्पत्तिः परिदीपिता प्रकाशिता (मा०उप०का०४/१९ शा०भा० ) । २. अविद्यमानम् । यथा- भूतं विद्यमानं वस्तु न जायते किञ्चिदविद्यमानत्वादेवात्मवदित्येवं वदन् सत्यवादी सांख्यपक्षं प्रतिषेधति सज्जन्म । तथा अभूतम् अविद्यमानम् अविद्यमानत्वान्नैव जायते शशविषाणवदित्येवं वदन् सांख्योऽपि असत्यक्षमं सज्जन्म प्रतिषेधति ( मा० उप० का० ४।४ शा० भा० ) । यथा च अशक्तिरपरिज्ञानं क्रमकोपोऽथवा पुनः । एवं हि सर्वथा बुद्धैरजातिः परिदीपिता । ( मा० उप० का० ४।१९) यथा च - भूतं न जायते किञ्चिदभूतं नैव जायते । विवदन्तो द्वया ह्येवमजातिं ख्यापयन्ति ते (मा० उप० का० ४।४) । अजातिवादः, अजातिवादः सत्कार्यवादी सांख्यः सद्भिन्नख्यातिवादिनं न्यायवैशेषिकमाक्षिपति । सद्भिन्नख्यातिवादी न्यायवैशेषिकश्च सत्कार्यवादिनं सांख्यमाक्षिपति । तत्र वेदान्तिनां किञ्चिदपि न जायते । किन्तु मायया अविद्यया वा जगतो जन्म इव प्रतीयत इति अजातिवादः । यथा - अजातस्य धर्मस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो धर्मो मर्त्यतो कथमेष्यति । न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा । प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति (मा० उप० का० ४।६, ७) यथा च हेतोरादिः फलं येषामादिर्हेतुः फलस्य च । हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते । हेतोरादिः फले येषामादिर्हेतुः फलस्य च । तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा (तत्रैव १४, १५) यथा च एवं हि सर्वथा बुद्धैरजातिः परिदीपिता (तत्रैव १९) । अजीवः, अजीव - १. बोधरहितः । यथा - अवोधात्मकं सर्वं वस्तु ( स० द० सं० आर्हते) । २. जडम् । ज्ञानरहितम् । अज्ञानम्, अज्ञानम् १. ज्ञानाच्छादकं ज्ञानावरणं वा भावरूपम् । अथवा प्रकृतिः । यथा अजडस्य बोधात्मनः स्वप्रकाशस्य तिरस्क्रिया आवरणं तदात्मिका जगद् विक्षेपोपादानं प्रकृतिः (सं०शा० १ । ३१६ सु०टी०) । यथा च ज्ञानविरोध्यज्ञानमिति । अजडबोधतिरस्क्रियात्मा प्रकृतिरज्ञानमिति प्रसिद्धेत्यन्वयः । स्वयंप्रकाशत्वं बोधस्याजडत्वं स्वतः सिद्धप्रकाशाच्छादनस्वभावेत्यर्थः (तत्रैव अ० टी०) । २. ज्ञाननिर्वर्त्यम् । यथा "नाहं प्रकाशः सर्वस्य योगमायासमावृतः (गी० ७२५) इत्यनेन मायावरणमिति । अज्ञानेनावृत्तं ज्ञानं तेन मुह्यन्ति जन्तवः (गी० ५/१५) इत्यनेन अज्ञानमावरकमभाणि । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते (गी० ७।१४) ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः (गी० ५/१६) इत्यादिना ज्ञाननिर्वर्त्यत्वमभाणि इत्यर्थः ।" (सं० शा० ३/११० सुं० टी० ) । यथा च - अनादि भावरूपं यद् विज्ञानेन विलीयते । तदज्ञानमिति प्राज्ञा लक्षणं सम्प्रचक्षते ( स० द० सं० ) । ३. मिथ्याप्रत्ययलक्षणम् । यथा – अज्ञानजम् अविवेकतो जातं मिथ्याप्रत्ययलक्षणं मोहान्धकारं तमो नाशयामि (गी० १०/११ शा० भा०) यथा च बुद्धियोगप्रदानेनाज्ञानजमविवेकादुत्थितं मिथ्याप्रत्ययलक्षणं मोहान्धकारं तमो नाशयामि । (तत्रैव नी० क०) यथा च अज्ञानजम् अज्ञानोपादानकं तमो मिथ्याप्रत्ययलक्षणं स्वविषयावरणमन्धकारं तदुपादानाज्ञाननाशेन नाशयामि (तत्रैव म० सू०) । ४. तिमिरम् । यथा चिद्रूपस्य विषयस्य चित्येवाश्रये तिमिरादिपदवाच्यम् अज्ञानमित्यर्थः । तिमिरतमिस्रतामिस्रान्धतमसान्ध्यशब्दा आवरणावस्थाभेदनिमित्ता श्रुतिस्मृतिप्रसिद्धा: (सं० शा० १ । ३१८ सु० टी०) । ५. ज्ञानाभावान्यत्वम् अज्ञानस्य । यथा - नाभावस्य आवरकत्वम् इत्युक्तत्वाद् भावरूपमेव बुध्यस्वेत्यर्थः । नापि ज्ञाननिवर्त्यत्वमप्यभावस्येत्याह - न ज्ञानादिति । तत्क्षय इति । षष्ठयर्थे सप्तमी। तत्प्रसूतेरिति भावप्रधानं तत्क्षयस्य तत्रसूतित्वादित्यर्थः । स्वप्रागभावनिवृत्तिरूपमेव ज्ञानमिति भावः (सं० शा० ३।११ सु० टी०) । यथा च अयमर्थः – अभावप्रतियोगिनः सम्भवः । न चानुत्पन्नोऽलब्धात्मकश्च प्रतियोगी स्वप्रागभावं निवर्तयेत् । (अनयोस्तु पक्षयोर्न ज्ञाननिवर्त्यत्वं विरोधाभावात् ।) अतो निवृत्तेः प्रागभावे तत्प्रतियोगिनः प्रसूतिर्वक्तव्या । प्रागभावप्रतियोग्युत्पत्योर्यौगपद्यं वा तयोरेकत्वं वा वक्तव्यं सर्वथापि न ज्ञाननिर्वर्त्यं तत्प्रागभावः इति ज्ञानप्रागभावादन्यदेवाज्ञानपदवाच्यं लब्धात्मकेन ज्ञानेन निर्वत्यत इति युक्तमभावान्यत्वम् अज्ञानस्येति (तत्रैव अ० टी०) । ६. अज्ञानं प्रमाणबुद्धेरुपाधिः । यथा - अज्ञानं हि प्रमाणबुद्धेर्न विशेषणमुपलक्षणं वा किन्तूपाधिरिष्यतेऽज्ञानविषयस्य प्रमाणबुद्धिविषयत्वमित्यर्थः (सं० शा० १/११५ सु० टी० ) । यथा च नाज्ञानमात्मनः उपलक्षणमपि किन्तु तटस्थं सत् प्रमाणबुद्धेरुपाधिमात्रमिष्यते (तत्रैव अ० टी०) । ७. निग्रहस्थानम् । यथा अविज्ञानं चाज्ञानम् (गौ०५/२/१८ ) । विज्ञातार्थस्य परिषदा प्रतिपक्षेण त्रिभिरभिहितस्य यदविज्ञानं तदज्ञानं निग्रहस्थानमिति । अयं खलु विज्ञाय कस्य प्रतिषेधं ब्रूयादिति (त० वात्स्या० ) । यथा च परिषदा विज्ञातस्य त्रिभिरभिहितस्याप्यज्ञानम् । इदं च किं वदसि - बुद्ध्यत एव नेत्याद्याविष्करणेन ज्ञातुं शक्यत इति (गौ० वृ० ५।६०) । अत्राविज्ञातस्यार्थस्तु वाक्यार्थस्याबोध इति (नील०) । विशदज्ञानार्थमविद्याशब्दो द्रष्टव्यः । अज्ञानशक्तिः, अज्ञानशक्ति अज्ञानस्य शक्तिद्वयम् - १. आवरणशक्तिः २. विक्षेपशक्तिश्च । आवरणशक्त्या अपरिच्छिन्नं ब्रह्म परिच्छिन्नं भूत्वा जीवरूपेण भासते, तथा ब्रह्माभिन्नमपि जगद् ब्रह्मभिन्नत्वेन भासते । विक्षेपशक्त्या च रज्जौ सर्पप्रतीतिः शुक्तौ च रजतप्रतीतिर्भवति । यथा - अस्याज्ञानस्यावरणविक्षेपनामकमस्ति शक्तिद्वयम् । आवरणशक्तिस्तावदल्पोऽपि मेघोऽनेकयोजनायतमादित्यमण्डलमवलोकयितृनयनपथपिधायकतया यथाच्छादयतीव तथाज्ञानं परिच्छिन्नमप्यात्मानमपरिच्छिन्नमसंसारिणमवलोकयितृबुद्धिपिधायकतयाच्छादयतीव तादृशं सामर्थ्यम् (वे० सा० १ प्र०) । एवमेव अज्ञानस्य मूलाज्ञानं तूलाज्ञानं च भेदद्वयम् । अतो मूलाज्ञानेन ब्रह्मणि जगदाभासस्तूलाज्ञानेन च रज्ज्वादौ सर्पादिभासः । यथा च - घनच्छन्नदृष्टिर्घनच्छन्नमर्कं यथा मन्यते निष्प्रभं चातिमूढः । तथा बद्धवद् भाति यो मूढदृष्टेः स नित्योपलब्धिस्वरूपोहमात्मा (हस्तामलके १०) । यथा च विक्षेपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं जगत् सृजेत् (वे० सा० ) । अणुः, अणु परमाणुः, जालान्तरगते भानौ रश्मिषु रजःकण इव दृश्यते तस्य षष्ठितमो भागः सूक्ष्मतमः । यथा भोक्तुमशक्या अणवः ( स० द० आर्हत प्र०) । अपकृष्टतमपरिमाणः । स च शाङ्करवेदान्तनये अनित्यः । सर्वेषां भूतानां जन्यत्वात् । यतो वा इमानि भूतानि जायन्ते इति श्रुतेः । न्यायवैशेषिकादिनये नित्यः अनवयवारब्धत्वात् । पृथिव्यादिमहाभूतपरमाणूनां नित्यत्वाङ्गीकारात् । यथा - न चाकारणेन कार्येण भवितव्यमित्यतः परमाणवो जगतः कारणमिति कणभुगभिप्रायः । तानीमानि चत्वारि भूतानिं भूम्युदकतेजःपवनाख्यानि सावयवान्युपलभ्य चतुर्विधाः परमाणवः परिकल्प्यन्ते । तेषां चापकर्षपर्यन्तगतत्वेन परतो विभागासम्भवाद् विनश्यतां पृथिव्यादीनां परमाणुपर्यन्तो विभागो भवति, स प्रलयकालः । ततः सर्गकाले च वायवीयेष्वणुषु अदृष्टापेक्षं कर्मोत्पद्यते । तत्कर्म स्वाश्रयमणुमण्वन्तरेण संयुनक्ति। ततो द्व्यणुकादिक्रमेण वायुरुत्पद्यते । .... कणादा मन्यन्ते ।.... तस्मादनुपपन्नोऽयं परमाणुकारणवादः । (वृ० सू० २/२/१२ शा० भा०) तत्र शाङ्करसिद्धान्तो यथा - सावयवानां द्रव्याणामवयवशो विभज्यमानानां यतः परो विभागो न सम्भवति ते चतुर्विधा रूपादिमन्तः परमाणवश्चतुर्विधस्य रूपादिमतो भूतभौतिकस्यारम्भका नित्याश्चेति यद् वैशेषिका अभ्युपगच्छन्ति स तेषामभ्युपगमो निरालम्ब एव । ..... यच्च नित्यत्वे कारणं तैरुक्तम्- सदकरणवन्नित्यम् (वै० सू० ४।१।१)इति । तदप्येवं सत्यणुषु न सम्भवति । उक्तेन प्रकारेणाणूनामपि कारणत्वोपपत्तेः। यदपि नित्यत्वे द्वितीयं कारणमुक्तम्-अनित्यमिति च विशेषतः प्रतिषेधाभावः ४।१।४ इति । तदपि नावश्यं परिमाणूनां नित्यत्वं साधयति । असति यस्मिन् कस्मिंश्चिन्नित्ये वस्तुनि नित्यशब्देन नञः समासो नोपपद्यते, न पुनः परमाणुनित्यत्वमेवापेक्ष्यते । तच्च नास्त्येव नित्यं परमकारणं ब्रह्म । न च शब्दार्थव्यवहारमात्रेण कस्यचिदर्थस्य प्रसिद्धिर्भवति प्रमाणान्तरसिद्धयोः शब्दार्थयोर्व्यवहारावतारात् । यदपि नित्यत्वे कारणमुक्तमविद्या च - वै० ४।१।५ इति । तद् यद्येवं विव्रीयेत सतां परिदृश्यमानकार्याणां प्रत्यक्षेणाग्रहणमविद्येति । ततो द्व्यणुकस्य नित्यताप्यापद्येत ।.........नावश्यं विनश्यद् वस्तु द्वाभ्यामेव हेतुभ्यां विनष्टुमर्हतीति नियमोऽस्ति । संयोगसचिवे ह्यनेकस्मिंश्च द्रव्ये द्रव्यस्यारम्भकेऽभ्युपगम्यमान एतदेवं स्यात्। .... तस्मादप्यनुपपन्नः परमाणुकारणवादः (ब्र० सू०-२/२/१५ शा० मा०) । एवमेव यथा- उभयथा च दोषात् (ब्र० सू०२/२/१६) । इत्यत्र शाङ्करभाष्ये गन्धरसरूपस्पर्शगुणा स्थूला पृथिवी रूपरसस्पर्शगुणाः सूक्ष्मा आपः रूपस्पर्शगुणं सूक्ष्मतरं तेज: स्पर्शगुणः सूक्ष्मतमो वायुरित्येवमेतानि चत्वारि : भूतान्युपचितापचितगुणानि स्थूलसूक्ष्मसूक्ष्मतरसूक्ष्मतमतारतम्योपेतानि च लोके लक्ष्यन्ते । तद्वत् परमाणवोऽप्युपचितापचितगुणाः कल्प्येरन् न वा । उभयथापि च दोषानुषङ्गोऽपरिहार्य एव स्यात् । कल्प्यमाने तावदुपचितापचितगुणत्व उपचितगुणानां मूर्त्यपचयादपरमाणुप्रसङ्गः । न चान्तरेणापि मूर्युपचयो गुणोपचयो भवतीत्युच्यते, कार्येषु भूतेषु गुणोपचये मूर्लुपचयदर्शनात् । अकल्प्यमाने तूपचितापचितगुणत्वे परमाणुत्वसाम्यप्रसिद्धये यदि तावत् सर्वमेकैकगुणा एव कल्प्येरँस्ततस्तेजसि स्पर्शस्योपलब्धिर्न स्यात्, अप्सु रूपस्पर्शयोः पृथिव्यां च रसरूपस्पर्शानाम् । कारणगुणपूर्वकत्वात् कार्यगुणनाम् । अथ सर्वे चतुर्गुणा एव कल्प्येरन् । ततोऽप्स्वपि गन्धस्योपलब्धिः स्यात्, तेजसि गन्धरसयोः, वायौ गन्धरूपरसानाम्, न चैवं दृश्यते । तस्मादप्यनुपपन्नः परमाणुकारणवादः । अतद्गुणसंविज्ञानः, अतद्गुणसंविज्ञान बहुव्रीहिसमासस्य भेदद्वयम् = अतद्गुणसंविज्ञानो बहुव्रीहिः, तद्गुणसंविज्ञानबहुब्रीहिश्च । न तद्गुणाः संविज्ञायन्ते यत्र स अतद्गुणसंविज्ञानः । यथा दृष्टसागरं पुरुषमानय चित्रगुं पुरुषमानयेत्यादौ च । तद्गुणाः संविज्ञायन्ते यत्र स तद्गुणसंविज्ञानः । यथा पीताम्बरं पुरुषमानय लम्बोदरं पुरुषमानयेत्यादौ च । यथा - जन्मोत्पत्तिरादिरस्येति तद्गुणसंविज्ञानो बहुव्रीहिः । जन्मस्थितिभङ्गं समासार्थ: (ब्र० सू० १ । १ । २ शा० भा० ) । अतव्यावृत्तिः, अतव्यावृत्ति १ . तद्भिन्ननिवर्तनम् । योगाचारबौद्धमते नीलत्वादिरूपो धर्मः अनीलव्यावृत्तिरूपः । २. तद्भिन्नभिन्नत्वम् । यथा गोभिन्नं जगत् तद्भिन्नो गौरित्यादि । ३. अयमेव अपोह इत्यप्युच्यते ।. अतिग्रहः, अतिग्रह इन्द्रियविषयः । यथा - ग्रहाः इन्द्रियाणि । अतिग्रहाः तद्विषयाः । (ब्र० सू० ४।२।६ शा० भा० ) । यथा च - तत्र कर्मप्रयुक्तस्य ग्रहातिग्रहसंज्ञकस्येन्द्रियविषयात्मकस्य बन्धनस्य प्रवृतिरिति कर्माश्रयतोक्ता (तत्रैव शा० भा० ) । अत्ता, अत्ता परमात्मा । यथा - "अग्निरत्तेति । कुतः अग्निरन्नादः ( बृ० आ० उप० १।४।६) इति श्रुतिप्रसिद्धिभ्याम् । जीवो वा अत्ता स्यात् । तयोरन्यः पिप्पलं स्वावत्ति इति दर्शनात् । न परमात्मा । अनश्नन्नन्योऽभिचाकशीति (मु० उप० ३।१।१ ) इति दर्शनादित्येवं प्राप्ते ब्रूमः । अत्तात्र परमात्मा भवितुमर्हति । कुतः चराचरग्रहणात् (ब्र० सू० १ ।२।९ शा० भा०) । यथा च - अत्तात्र परमात्मा । कुतः चराचरग्रहणात् । उभे यस्यौदनः इति । मृत्युः यस्योपसेचनं च । इति च श्रूयते (तत्रैव भा० टी०) । यथा च - "यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः (क० उप० १ । २ । २४) । इत्यत्र कश्चिदोदनोपसेचनसूचितोऽत्ता प्रतीयते । तत्र किमग्निरत्ता स्यात् उत जीवः, अथवा परमात्मेति संशयः । एवं प्राप्ते ब्रूमः - अत्ता अत्र परमात्मा भवितुमर्हति । कुतः चराचरग्रहणात् । चराचरं हि स्थावरजङ्गमं मृत्यूपसेचनमिहाद्यत्वेन प्रतीयते । तादृशस्य चाद्यस्य न परमात्मनोऽन्यः कार्येनात्ता सम्भवति । परमात्मा तु विकारजातं संहरन् सर्वमत्तीत्युपपद्यते (ब्र० सू० १ ।२।९ शा० भा०) । यथा च 'अत्तात्र परमात्मा । कुतः चराचरग्रहणात् । उभे यस्यौदनः इति । मृत्युर्यस्योपसेचनमिति च श्रूयते ...। न ह्योदनो भोगायतनं नापि भोगसाधनमपि तु भोग्यः (तत्रैव भा० टी०) । अत्यन्ताभावः, अत्यन्ताभाव १. चतुर्विधेषु अभावेषु एकोऽभावः । १. यवस्तु यत्र न कदापि भविष्यति न च कदाचिद्भूतं, न चास्ति तस्य वस्तुनस्तत्रात्यन्ताभावो मन्तव्यः (वै० उ० ९/१/९) यथा वायौ रूपं नास्तीति प्रतीतिसाक्षिकोऽभावः । (तत्रैव वै० वि०) । २. त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽभावः (त० सं०) । ३. यत्राधिकरणे यस्य कालत्रयेऽप्यभावः सोऽत्यन्ताभावः । यथा वायौ रूपात्यन्ताभावः । सोऽपि घटादिवद् ध्वंसप्रतियोग्येव (वे० प० ७ प्र०) । अथ, अथ १. अनन्तरम् । यथा - तत्राथशब्द आनन्तर्यार्थः परिगृह्यते, नाधिकारार्थः । ब्रह्मजिज्ञासाया अनधिकार्यत्वात् (ब्र० सू० 91919 शा० भा०) । तस्मात् किमपि वक्तव्यं यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति । उच्यते नित्यानित्यवस्तुविवेकः इहामुत्रार्थभोगविरागः, शमदमादिसाधनसम्पत् मुमुक्षुत्वं च । ..... तस्मादथशब्देन यथोक्ते साधनसम्पत्त्यानन्तर्यमुपदिश्यते (तत्रैव) । यथा च अत्रायमथशब्द आनन्तर्ये भवति । अधीतसाङ्गसशिरस्कवेदस्याधिगताल्पास्थिरफलकेवलकर्मज्ञानतया संजातमोक्षाभिलाषस्यानन्तस्थिरफलजिज्ञासा ह्यनन्तरभाविनी । मीमांसापूर्वभाग-ज्ञातस्य कर्मणोऽल्पास्थिरफलत्वादुपरितनभागावसेयस्य ब्रह्मज्ञानस्यानन्तक्षयफलत्वं च पूर्ववृत्तात् कर्मज्ञानादनन्तरम् । २. अधिकारः (अधिक्रियते प्रारभ्यते इति) यथा नन्वधिकारार्थोऽप्यथशब्दो दृश्यते, यथा अथैष ज्योतिः इति वेदे यथा वा लोके अथ शब्दानुशासनम्, अथ योगानुशासनमिति (ब्र - सू० १ /१/१ भाम०) । ३. प्रश्न:यथा – अथ किम् । ४. विकल्पे । ५. समुच्चये । ६. मङ्गलम् । यथा - मङ्गलस्य च वाक्यार्थे समन्वयाभावात् । अर्थान्तरप्रयुक्त एव अथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति (ब्र० सू० १ ।१।१ ) । तत् किं इदानीं मङ्गलार्थोऽथ शब्दस्तेषु तेषु न प्रयोक्तव्यः तथा च ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्याती तस्मान्मान्माङ्गलिकावुभौ । इति स्मृतिव्याकोप इत्यत आह ..... अर्थान्तरेष्वानन्तर्यादिषु प्रयुक्तोऽथशब्दः श्रुत्या श्रवणमात्रेषु वेणुवीणाध्वनिवन्मङ्गलं कुर्वन् मङ्गलप्रयोजनो भवति । अन्यार्थमानीयमानोदकुम्भदर्शनवत् । ७. पक्षान्तरोपन्यासः । यथा - न चेह कल्पान्तरोपन्यास इति परिशेष्यादत्रानन्तर्यमिति वक्तव्यम् (तत्रैव भाम० ) । अदः, अद परोक्षबुद्धिविषयः, विप्रकृष्टपरोक्षव्यक्तिर्वा । यथा - पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमिवोच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते । अदितिः, अदिति १ . अत्तीति अदितिः सर्वदेवमयी शक्तिः । यथा - हिरण्यगर्भशब्दादीनाम् अदनाद् भक्षणात् अदितिर्वा । "किञ्च या सर्वदेवयी सर्वदेवतात्मका प्राणेन हिरण्यगर्भरूपेण परस्मात् ब्रह्मणः सम्भवति शब्दादीनामदनात् अदतिस्तां पूर्ववद् गुहां प्रविश्य तिष्ठन्तीमदितिम् (क० उप० ४।७ शा० भा०) । २. देवमाता, अदितेः पुत्राः आदित्याः देवाः । अदृष्टम्, अदृष्ट १ . अपूर्वः । स्वर्गकामो यजेदित्यादौ यजनेन कश्चन अपूर्वः जन्यते । अयं चापूर्वः स्वर्गं जनयति । तेन यजनानन्तरं कालान्तरे स्वर्गोपत्तौ अपूर्वः कारणं भवति । अन्यथा यजने सम्पन्ने कालान्तरे स्वर्गोत्पत्तौ यजनस्य कारणता न सिद्धयेत । एतदर्थं यजनात् कश्चन अपूर्वो जायते अपूर्वाच्च स्वर्गो जायते । अतो यजनस्वर्गयोर्मध्येऽपूर्वः कुल्प्यते पूर्वमीमांसकैः । २. भाग्यम् । यथा दैवोऽदृष्टं भागधेयमिति कोशः । ३. पुण्यपापात्मकं भोग्यम् । ४. धर्माधर्मजन्यः कश्चन गुणविशेषः । अदोम्भः, अदोम्भ धुलोकादुपरितनो लोकः । यथा- अदस् तदम्भ: शब्दवाच्यो लोकः परेण दिवं धुलोकात् परेण परस्तात् सोऽम्भः शब्दवाच्योऽम्भो भरणात् (ऐ० उप० २।१ शा० भा० ) । अद्वयम्, अद्वय न द्वयम् द्वयरहितम् । द्वयं च ग्राह्यं चैत्तिकं ग्राहकं च चित्तम् । एतद्व्यरहितम् । अर्थात् ग्राह्यग्राहकभावशून्यम् । यथा ग्राह्यग्राहकभावेन आत्मात्मीयं न विद्यते (ल० अ० सू० ३।२१ ) । अत्र आत्मार्थः चित्तमिति । यथा च प्रकृत्या भास्वरे चित्ते द्वयाकारकलङ्किते (त० सं० ३५३८) । यथा च ग्राह्यग्राहकसंवित्तिर्भेदवानिव लक्ष्यते (प्र० वा० ३।३५४) । यथा च - चित्तस्पन्दितमेवेदं ग्राह्यग्राहकवद्वयम् (गौ० पा० का० ४।७२ ) । अत एव बुद्धः अद्वयवादी उच्यते । यथा - षडभिज्ञो दशबलोऽद्वयवादी विनायकः (अ० को० स्व० व०) । अतोऽद्वैतशब्दाद् भिन्नार्थकोऽद्वयशब्दः । किन्तु आचार्यैर्द्वयोः शब्दयोः समानार्थेन प्रयोगः कृतः । यथा तस्मादद्वयता शिवा (गौ० पा० का० २।३३) । यथा च - प्रपञ्चोपशमोऽद्वयः (गौ० पा० का २।३५) । यथा च - तदेतदद्वयं ब्रह्म निर्विकारं कुबुद्धिभिः (नै० सि० २।२९) । वदन्ति तत् तत्त्वविदस्तत्त्वं यद् ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति शब्दयते । (भाग० १।२।११) यथा च - अमरकोशे १।१।१४ श्लोके भानुजीदीक्षित आह- अयमद्वैतं वदन्त्यवश्यम् । तत्रैव क्षीरस्वामी आह- अद्वयं विज्ञानाद्वैतं वदन्त्यवश्यम् । यथा च परमार्थतत्त्वमद्वयमेतन्न बुद्धेन भाषितम् । ....परमार्थतत्त्वमद्वैतं बेदान्तेष्वेव ज्ञेयम् (मा० का० ४।९९ भा०) । यथा च परमार्थसत् अद्वयं ब्रह्म (छा० उ० ९/१/१ शा० भा० ) । यथा च - न वयं नास्तिकाः । अस्तित्वनास्तित्वद्वयनिरासेन तु वयं निर्वाणपुरगामिनमद्वयमर्थं विद्योतयामः (मध्य वृ० पृ० ३३१) । वस्तुतस्तु बौद्धनये सांवृत्तिकं सत्यं पारमार्थिकं सत्यं च, एतद् द्वयरहितमद्वयमिति । यथा द्वे सत्यै समुपाश्रित्य बुद्धानां धर्मदेशना । लोकसंवृत्तिसत्यं च सत्यं च परमार्थतः (मध्य का० २४।८) । अतो भावाभावान्तद्वयरहितत्वात् । (चन्द्रकीर्तिप्रसन्नपदा) यथा च - अभूतपरिकल्पोऽस्ति द्वयं तत्र न विद्यते । (मैत्रेयनाथः मध्यान्तविभागशास्त्रे ल० प० ९ का०) यथा च - विषयोपलब्धिः सा कुशलाकुशलाऽद्वया (त्रिंशिका ८) । अत्र स्थिरमतिभाष्ये कुशलाकुशलाऽद्वयेत्यव्याकृतापि । अलोभाद्वेषामोहैः सम्प्रयुक्ता कुशला । लोभद्वेषमोहै: सम्प्रयुक्ता अकुशला । कुशलाकुशलैरसम्प्रयुक्ता अयुक्ता अद्वया न कुशला नाकुशलेत्यर्थः । वितर्कश्च विचारश्चेत्युपक्लेशो द्वये द्विधा (तत्रैव १४) । अत्र स्थिरमतिः - द्वये द्विधेति-द्वयं च द्वयं च द्वये ते पुनः कौकृत्यमिद्धे वितर्कविचारौ च एते च चत्वारो धर्मा द्विधा क्लिष्टाः अक्लिष्टाः । बौद्धमते अद्वयं नाभावरूपम् । नागार्जुनेन धर्मकाये अद्वयाय नमः कृतमस्ति । यथा - न भावो नाप्यभावोऽस्ति नोच्छेदो नापि शाश्वतः । न नित्यो नाप्यनित्यस्त्वमद्वयाय नमोस्तु ते । भेदे यदि न तद्बुद्धिरन्यापोहे धियापि च 1 घटाम्बुवत् संवृत्तिसत् तदन्यत् परमार्थसत् (अ० ध० को ६।४) । अर्थक्रियासामर्थ्यं यत् तदत्र परमार्थसत् । अन्यत् संवृतिसत् प्रोक्तं ते स्वसामान्यलक्षणे (प्र० वा० २।३ ) । अद्वितीयम्, अद्वितीय द्वयोः पूरणम् द्वितीयम्, न द्वितीयम् अद्वितीयम् । द्वितीयरहितम् । स्वगतसजातीयविजातीयभेदशून्यं ब्रह्म । वृक्षादीनां स्वावयवशाखादिभ्यो भेदः स्वगतभेदः, घटस्य घटान्तराद् भेदः सजातीयभेदः, घटस्य पटादितो भेदः विजातीयभेदः । ब्रह्मैवेदं सर्वम् (मु० उप० २।२।११) आत्मैवेदं सर्वम् (छा० उप० ७।२५।२) नेह नानास्ति किञ्चन (बृ० उप० ४।४।१९) इदं सर्वं यदयमात्मा (बृ० उप० २।४।५) इत्यादिश्रुतिभिः, तदनन्यत्वमारम्भणशब्दादिभ्यः (ब्र० सू० २।१।१४) इति सूत्रेण च स्वकार्याद् घटादितोऽनन्यत्वात् स्वगतभेदशून्यम्, सर्वं खल्विदं ब्रह्मेति श्रुत्या सजातीय़वस्त्वन्तराभावात् सजातीयभेदशून्यम्, घटादेर्व्यावहारिकसत्त्ववत्त्वेन पारमार्थिकसत्त्ववतो ब्रह्मणो विजातीयत्वेऽपि ततोऽभेद एवेति ब्रह्मभिन्नस्याभावाद् विजातीयभेदशून्यम्, एवं त्रिविधभेदशून्यं ब्रह्म । यथा च श्रुतिः एकमेवाद्वितीयं ब्रह्म । एकम् इत्यनेन स्वगतभेदशून्यमेवेत्यनेन सजातीयभेदशून्यम्, अद्वितीयम् इत्यनेन विजातीयभेदशून्यं परिगृह्यते । यथा - तत्र न द्वितीयम् अद्वितीयम् इति तत्पुरुषाभ्युपगमे न द्वितीयं किन्तु प्रथमं तृतीयं चेत्यर्थ: स्यात् । स च न सम्भवति । तयोरपि किञ्चिदपेक्ष्य द्वितीयत्वात् । अतो न विद्यते द्वितीयं यत्रेति बहुब्रीहि रेवादरणीयः ।.... तदुक्तम् वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः । वृक्षान्तरात् सजातीयो विजातीयः शिलादितः । तथा सवस्तुनो भेदत्रयं प्राप्तं निवार्यते । एकावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् । इति स्वगतभेदः नानात्वरूपजीवेश्वरभेदः । सजातीयभेदोऽथ द्रव्यत्वादिना सजातीयपृथिव्यादिभेदः विजातीयभेदो गुणादिभेदः । अथवा जडभेदो विजातीयभेदः चैतन्यभेदः सजातीयभेदः ज्ञानानन्दादिभेदः स्वगतभेदः । यदि च अस्य गौर्द्वितीयोऽन्वेष्टव्यः इत्युक्ते गौरेव द्वितीयोऽन्विष्यते नाश्वो गर्दभ इति महाभाष्यानुसारात् । समानजातीयद्वितीयपरत्वं द्वितीयशब्दस्य तदा अद्वितीयशब्दस्य सजातीयभेदनिषेधपरत्वम्, विजातीयस्वगतभेदनिषेधपरत्वं तु एकावधारणपदयोर्यथेष्टं व्याख्येयम् । अथवा अद्वैतपदेनैव भेदत्रयनिषेधः । एकावधारणपदे तु संकोचशङ्कापरिहाराय । यत्तु केनचित्त् प्रलपितम् - द्वितीयशब्दः सहायवाची असिद्वितीयोऽनुससार पाण्डवम् इति प्रयोगात् असिद्वितीयः असिसहाय इति महाभाष्योक्तेश्च । तथा अद्वितीयमसहायार्थोऽस्तु । एवमेकशब्दस्यापि नानार्थत्वेनाविरुद्धार्थमादाोयपत्तौ न मिथात्वपर्यवसायिताऽऽस्थेया । तथा च एके मुख्यान्यकेवला इत्यमरः । एकशब्दोऽयमन्यप्रधानासहायसंख्याप्रथमसमानवाचीति एको गोत्रे इति सूत्रे कैयटः ! षडितिसूत्रे महाभाष्यकारोऽपि एकशब्दोऽयं बह्वर्थः अस्ति सङ्ख्यार्थः अस्त्यसहायवाची अस्त्यन्यार्थ इत्यादि व्याख्यातवान् । तथा जीवादिभ्योऽन्यत्वं प्राधान्यं वा एकशब्दार्थोऽस्तु।: तत् पूर्वोक्तयुक्तिभिरपास्तम् । (अ० सि० एकमेवेतिविचारे) अद्वेष्टा, अद्वेष्टा १ . सर्वभूतेषु आत्मबुद्धिः । यथा - अद्वेष्टा सर्वभूतानां न द्वेष्टात्मनो दुःखहेतुमपि न किञ्चिद् द्वेष्टि सर्वाणि भूतानि आत्मत्वेन पश्यति (गी० १२/१३ शा० भा० ) । २. सर्वं मित्रमेव पश्येत् । यथा- अद्वेष्टा चेदुदासीनः स्यान्नेत्याहमैत्रः मित्रमेव मैत्रो न तूदासीनः कदाचिदपि (तत्रैव नी० क०) । यथा च - सर्वाणि भूतान्यात्मत्वेन पश्यन्नात्मनो दुःखहेतावपि प्रतिकुलबुद्धेरभावान्न द्वेष्टा सर्वभूतानां किन्तु मैत्र: मैत्री स्निग्धता तवान् (तत्रैव म० सू०) । ३. हीनेषु कृपालुः । यथा सर्वभूतानां यथायथमद्वेष्टा मैत्रः करुणश्च । उत्तमेषु द्वेषशून्यः । समेषु मित्रतया वर्तत इति मैत्रः । हीनेषु कृपालुरित्यर्थः (तत्रैव श्रीधरी) । अद्वैतम्, अद्वैत द्वाभ्यां प्रकाराभ्यामितं ज्ञानं द्वीतम्, द्वीतमेव द्वैतं न द्वैतम् अद्वैतम् । तच्च द्वैताभावोपलक्षितं ब्रह्म । यथा- द्विधेतं द्वीतमित्याहुस्तद्भावो द्वैतमुच्यते (बृ० उप० भा० वा० ४।३।१८०७) । न विद्यते द्वैतं द्विधाभावो यत्र तत् । (सि० बि० १०) यथा च स्थूलादिवाक्यैः परिहृतद्वैतप्रपञ्चम् । (सं० शा० १ । २६६ सु० टी०) यथा च - तुच्छत्वम् असत्त्वम् अनृतत्वम् आद्यसहनवपुः सत्यज्ञानानन्तानन्दसद्रूपं परमं पदमत एव परिहृतसकलप्रपञ्चं यत् तदेव तवात्मेति त्वमवेहि । किं कृत्वा भेदप्रतिभासहेतुं तमोऽविन्नेकलक्षणं वाक्यान्निरस्येति योजना । पुन पुनरवस्थात्रया पोहेन त्वमर्थस्वरूपविवेके तदविवेकलक्षणतमसो विलयादात्मब्रह्मणोर्भेदहेत्वभावान्निःसंशयमात्मेत्येवैकलक्षणं ब्रह्मक्षस्व (तत्रैव अ० टी०) । यथा च - मायाख्यायाः कामधेनोर्वत्सौ जीवेश्वरावुभौ । यथेच्छं पिवतां द्वैतं तत्त्वं त्वद्वैतमेव हि (प० द० ६।२६६) । २. अद्वयम् । यथा - परमार्थसत् अद्वयं ब्रह्म (छा० उ० ९/१/१ शा० भा० ) । यथा च - परमार्थतत्त्वमद्वयमेतन्न बुद्धेन भाषितम् । बहुत्र अद्वैतशन्दस्य अद्वयशब्दस्य च समानार्थप्रयोगो वेदान्तग्रन्थेषु प्राप्यते । किन्तु वस्तुतोऽनयोः शब्दयोरर्थे भेदः । स च अद्वयशब्दे द्रष्टव्यः । इत्यर्थः । अद्वैतीकरणम्, अद्वैतीकरण ब्रह्मात्मैक्यबोधनम् । यथा - अद्वैतात्मबोधनम् .... विधिर्विधिवाक्यं शबलार्थगोचरतया निर्भेदमखण्डार्थं कर्तुमैक्यं मुख्यं बोधयितुं न क्षमो यतोऽतो निषेधोपस्थापकतया तदपि निषेधशेष एवेति योजना (सं० शा० १/२/५१ अ० टी०) । यथा च - अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते (मा० का० ३।१७) । अधर्मः, अधर्म वेदादिप्रतिपादितनिषिद्धकर्मजन्यः । ऐहलौकिकपारलौकिकदुःखनरकादिसाधनम् । धर्माभावरूपो न अधर्मः । यथा - वेदविहितकर्मजन्यो धर्मः । वेदनिषिद्धकर्मजन्योऽधर्मः (त० सं० ) । यथा च - चोदनालक्षणत्वादिधर्मं प्रत्येव गृह्यताम् । धर्मस्यैव प्रतिज्ञोक्ते न तु ब्रह्म प्रतीष्यते (सम्बन्धवार्त्तिके) यथा च - चोदनालक्षणोऽर्थो धर्मः (मी० सू० १।१।२) । अत्र पदच्छेदं कृत्वा अधर्मः इति बुध्यते । तेन पदच्छेदं विना यथा वेदविहितकर्मजन्यो धर्मस्तथा वेदाविहितकर्मजन्यः अधर्मः । अथवा वेदनिषिद्धकर्मजन्यो अधर्मः । मीमांसकाचार्यप्रभाकरमिश्रैस्तु मीमांसाद्वितीयसूत्रे धर्मशब्दार्थः वेदार्थः कृतस्तेन अधर्म: वेदार्थभिन्नः । अतः श्रुतिर्यदकर्तव्यतया बोधयति तदेवाधर्मस्तमेव चानुवदति स्मृतिरपि । यथा च - शास्त्र हेतुत्वाधर्माधर्मविज्ञानस्य । अयं धर्मोऽयमधर्म इति शास्त्रमेव विज्ञानं कारणम् । अतीन्द्रियत्वात् तयोः अनियतदेशकालनिमित्तत्वाच्च । यमिन्देशे काले निमित्ते च यो धर्मोऽनुष्ठीयेत स एव देशकालनिमित्तान्तरेष्वधर्मो भवति । येन शास्त्रादृते धर्माधर्मविषये विज्ञानं न किञ्चिदस्ति । शास्त्राच्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्ववधारितः । स कथम् अशुद्ध इति शक्यते वक्तुम् (ब्र० सू० ३ । १ । २५ शा० भा० ) । यथा च प्राणिनां च सुखप्राप्तये धर्मो विधीयते । दुःखपरिहाराय चाधर्मः प्रतिषिध्यते । दृष्टानुश्रविकसुखदुःखविषयौ च रागद्वेषौ भवतः, न विलक्षणविषयावित्यतो धर्माधर्मफलभूतोत्तरा सृष्टिर्निष्पद्यमाना पूर्वसृष्टिसदृश्येव निष्पद्यते । स्मृतिश्च भवति - तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः । हिंम्नाहिंसे मृदुक्रूरे धर्माधर्मानृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ इति (ब्र० सू० १ । ३ । ३१ शा० भा०) । यथा च - धर्मं जैमिनिरत एव (ब्र० सू० ३।२।४०) अत्र शा० भाष्यम्- जैमिनिस्त्वाचार्यो धर्मं फलस्य दातारं मन्यते । अत एव हेतोः श्रुतेरुपपत्तेश्च । श्रूयते ताचदयमर्थः - स्वर्गकामो यजेत - इत्येवमादिषु वाक्येषु । तत्र च विधिश्रुतेर्विषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति गम्यते । यथा च - एतदनुसारमेव द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तौ च सुभाषितः (ब्रह्मपुराणे २३७।६) (महाभारते शान्तिपर्वणि २४१।६) च । अधिकरणम्, अधिकरण १ आधार: आधारोऽधिकारणम् इति पाणिनिसूत्रम् (१।४।४५) । २. एतन्नामकंमेकं कारकम् । व्याकरणस्य सप्तमीविभक्तेरियं संज्ञा । यद्धातूपस्थाप्ययादृशेऽर्थे विग्रहस्थया सप्तम्या यः स्वार्थोऽनुभाव्यते, तदेव तवस्तूपस्थाप्यतादृशक्रियायामधिकरणं नाम कारकम् । यथा ग्रामे गन्तेत्यादौ । अत्र धात्वर्थे गतौ ग्रामनिष्ठमधिकरणत्वं तन्निरूपितमाधेयत्वे या सप्तम्यानुभाव्यत इति । तदेव तवस्तूपस्थाप्यतादृशक्रियायामधिकरणकारकम् । अधिकरणत्वं च अधिकरणमिति प्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेषः । यथा घटवद्भूतलमित्यत्र भूतले अधिकरणता । २. न्यायालयः । अधिकरणे निर्णयद्वारा विवादस्य समाप्तिः क्रियते । अत एव महर्षिजैमिनिप्रणीतानां मीमांसादर्शनसूत्राणां भाष्ये शबरस्वामी अधिकरणानि व्यरचयत् । मीमांसाशास्त्रं न्यायशब्देनापि व्यवह्रियते न्यायालये निर्णयो भवति । अतोऽधिकरणे धर्मसम्बन्धिवेदवाक्यार्थविषयके विवादे निर्णयः प्रस्तूयते । तदर्थमधिकरणे षड् वा पञ्च अवयवा भवन्ति । यथा - विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयः सङ्गतिश्चेति शास्त्रेऽधिकरणं स्मृतम् । यथा च - विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । सङ्गतिश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् । एवमेव भगवत्पादश्रीशङ्कराचार्येण ब्रह्मसूत्रभाष्ये प्रतिविषयं निर्णयार्थम् अधिकरणानि विरचितानि । सम्प्रदायभेदेनाधिकरणसंख्याभेदस्तथा सूत्रसंख्याभेदश्च वर्तेते । श्रीभगवत्पादशङ्करानुसारं ब्रह्मसूत्रसंख्या ५५५ तथा अधिकरणसंख्या - १९९ । श्रीरामानुजानुसारं ब्र० सू० सं० ५४५ अधि० सं० १६० । श्री माध्वानुसारं ब्र० सू० सं० ५६४ अधि० सं० २२३ । श्रीनिम्बार्कानुसारं ब्र० सू० सं० ५४९ अधि० सं० १६१ । श्री विष्णुस्वाम्यनुसारं ब्र० सू० सं० ५५४ अधि० सं० १७१ । (श्री बल्लभाचार्यमतेऽपि) श्रीबोधायनीय श्रीरामानन्दमतानुसारं ब्र० सू० सं० ५५१ अधि० सं० १६० । यथा- जिज्ञासाधिकरणम्, जन्माद्यधिकरणमित्यादि । प्रत्यधिकरणं प्रथमं विषयोपन्यासस्ततः संशयः, ततः पूर्वपक्षः, तत उत्तरं ततो निर्णयः सङ्गतिश्चेति क्रियन्ते । अधिकवृत्तित्वम्, अधिकवृत्तित्व तदपेक्षया अधिकदेशकालान्यतरवृत्तित्वम् । यथा पृथिवीत्वमपेक्ष्य द्रव्यत्वस्याधिकदेशवृत्तित्वम् । योऽधिकदेशवृत्तिर्धर्मो भवति, स एव व्यापकधर्मो भवति । एतद् - विपरीतं व्याप्यत्वं भवति । तदपेक्षया अल्पदेशकालान्यतरवृत्तित्वम् । यथा - द्रव्यत्वमपेक्ष्य पृथिवीत्वस्य अल्पदेशवृत्तित्वम् । अधिकारी,अधिकारिन् ग्रन्थादौ अनुबन्धचतुष्टयं प्रदर्शनीयं भवति। विषयश्चाधिकारी च सम्बन्धश्च प्रयोजनम् । ग्रन्थादौ प्रदातव्यं तदनुबन्धचतुष्टयम् । तत्र वेदान्तग्रन्थाध्ययने अधिकारी – वक्ष्यमाणगुणसम्पन्नो भवति । यथा - अधिकारी तु विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽधिगताखिलवेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुरस्सरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गतनिखिलकल्मषतया नितान्तनिर्मलस्वान्तः साधनचतुष्टयसम्पन्नः प्रमाता । काम्यानि स्वर्गादीष्टसाधनानि ज्योतिष्टोमादीनि निषिद्धानि नरकाद्यनिष्टसाधनानि ब्राह्मणहननादीनि । नित्याकरणे प्रत्यवायसाधनानि सन्ध्यावन्दनानि । नैमित्तिकानि पुत्रजन्माद्यनुवन्धीनि जातेष्ट्यादीनि । प्रायश्चित्तानि - पापक्षयसाधनानि चान्द्रायणादीनि । उपासनानि - सगुणब्रह्मविषयमानसव्यापाररूपाणि शाण्डिल्यविद्यादीनि । एतेषां नित्यादीनां बुद्धिशुद्धिः परमम्प्रयोजनम् । उपासनानां तु चितैकाग्ग्रम् । तदेतमात्मानं वेदानुवचनेन ब्राह्मण्णा विविदिषन्ति यज्ञेन इत्यादि श्रुतेः, 'तपसा कल्मषं हन्ति' इत्यादिस्मृतेश्च । नित्यनैमित्तिकयोरुपासनानां त्ववान्तरफलं पितृलोकसत्यलोकप्राप्तिः। कर्मणा पितृलोको विद्यया देवलोक इत्यादिश्रुतेः । साधनचतुष्टयम्साधनानि नित्यानित्यवस्तुविवेकेहामुत्रार्थफलभोगविरागशमादिषट्कसम्पत्तिमुमुक्षुत्वादीनि । नित्यानित्यवस्तुविवेकस्तावद् ब्रह्मैव नित्यं वस्तु ततो अन्यदखिलमनित्यमिति विवेचनम् । ऐहिकानाम् स्रक्चन्दनवनितादिविषयभोगानां कर्मजन्यतया अनित्यत्ववद् आमुष्मिकाणामपि अमृतादिविषयभोगानां अनित्यतया तेभ्यो नितरां विरक्तिः इहामुत्रार्थफलभोगविरागः । शमादयस्तु शमदमोपरतितितिक्षासमाधानश्रद्धाख्याः । शमस्तावद् श्रवणादिव्यतिरिक्तविषयेभ्यो मनसो निग्रहः । दमो बाह्येन्द्रियविषयाणां तद्व्यतिरिक्तविषयेभ्यो निवर्तनम् । निवर्तितानामेतेषां तदव्यतिरिक्तविषयेभ्यः उपरमणं उपरतिः अथवा विहितानां कर्मणां विधिना पारित्यागः । तितिक्षा शीतोष्णादिद्वन्द्वसहिष्णुता । निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः समाधानम् । गुरूपदिष्टवेदान्तवाक्येषु विश्वासः श्रद्धा । मुमुक्षुत्वं मोक्षेच्छा । एवम्भूतः प्रमाता अधिकारी शान्तो दान्तः इत्यादि श्रुतेः उक्तञ्च प्रशान्तचित्ताय जितेन्द्रियाय प्रहीणदोषाय यथोक्तकारिणे । गुणानुतापानुगताय सर्वदा प्रदेयमेतत्सततं मुमुक्षवे ॥ (वे० सा० ८) श्रवणादिषु च मुमुक्षूणामधिकारः । काम्यकर्मणि फलकामस्याधिकारित्वात् । मुमुक्षायां च नित्यानित्यवस्तुविवेकस्येहामुत्रार्थफलभोगविरागस्य शमदमोपरतितितिक्षासमाधानश्रद्धानां च विनियोगः । अन्तरिन्द्रियनिग्रहः शमः । बहिरिन्द्रियनिग्रहो दमः । विक्षेपाभाव उपरतिः । शीतोष्णादिद्वन्द्वसहनं तितिक्षा । चित्तैकाग्रं समाधानम् । गुरुवेदान्तवाक्येषु विश्वासः श्रद्धा । अत्रोपरमशब्देन संन्यासोऽभिधीयते । तथा च संन्यासिनामेव श्रवणाधिकार इति केचित् । अपरे तु उपरमशब्दस्य संन्यासवाचकत्वाभावाद् विक्षेपाभावमात्रस्य गृहस्थेष्वपि सम्भवात्, जनकादेरिव ब्रह्मविचारस्य श्रूयमाणत्वात् सर्वाश्रमसाधारणं श्रवणादिविधानमित्याहुः। (वे० प० ८ प०) । अधिदैवम्, अधिदैव देवस्येदं दैवम् । दैवे इति अधिदैवम् । दैवमधिकृत्य भवतीत्यधिदैवमुच्यते । यथा- साधिभूताधिदैवं मां साधियज्ञं च मे विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्ततेजसः (गी० ७।३०) । अस्यार्थः गी० ८।४ श्लोकोक्ते अधिदैवतशब्दे स्पष्टः । अधिदैवतम्, अधिदैवत दैवतमधिकृत्य अनुगृहीतं कर्म । यथा- अधिदैवं दैवतान्यादित्यादीन्यधिकृत्य चक्षुरादिकरणान्यनुगृह्णातीति तथोच्यते (गी० ८।४ म० सू०) । यथा च पुरुषो वैराजः सूर्यमण्डलमध्यवर्ती स्वांशभूतसर्वदेवतानामधिपतिरधिदैवतमुच्यते अधिष्ठात्री देवता (तत्रैव श्रीधर्याम्) । यथा च - पुरुषः पूर्णमनेन सर्वमिति पुरि शयनाद् वा पुरुषः आदित्यान्तर्गतो हिरण्यगर्भः सर्वप्राणिकरणानाम् अनुग्राहकः स अधिदैवतम् (तत्रैव शा० भा०) । अधिप्रज्ञम्, अधिप्रज्ञ प्रज्ञाशब्दः इन्द्रियोपलक्षकस्तेन प्रज्ञामिन्द्रियाणि अधिकृत्य अनुगृहीतं कर्म । यथा - पञ्च शब्दादयः पञ्च पृथिव्यादयः इति दश दशभूतमात्राः बुद्धीन्द्रियाणि पञ्च बुद्धयः इति दश प्रज्ञामात्राः । (ब्र० सू० १।१।३१ भाम० ) अधिभूतम्, अधिभूत भूतं प्राणिजातमधिकृत्य जातम् । यथा क्षरतीति क्षरो विनाशी भावो यत् किञ्चिज्जनि॒मद् वस्तुभूतं प्राणिजातमधिकृत्य भवतीत्यधिभूतमुच्यते (गी० ८।४ म० सू०) । क्षरो विनश्वरो भावो देहादिपदार्थो भूतं प्राणिमात्रमधिकृत्य भवतीत्यधिभूतमुच्यते (तत्रैव श्रीधर्याम्) । यथा च- अधिभूतेषु ग्राह्यग्राहकयोरन्योन्यापेक्षत्वात् कल्पितमतोऽद्वैतं तत्त्वमित्यर्थः (ब्र० सू० १/१/३१ वे० क० त० ) । अधियज्ञः, अधियज्ञ विष्णुः यज्ञमधिकृत्य जातः । यथा- अधियज्ञः सर्वयज्ञाधिष्ठाता सर्वयज्ञफलदायकश्च सर्वयंज्ञाभिमानिनी विष्ण्वाख्या देवता । "यज्ञो ह वै विष्णुः" इति श्रुतेः । स च विष्णुरधियज्ञोऽहं वासुदेव एव न मद्भिन्नः कश्चित् (गी० ८।४ म० सू० ) । यथा - च स हि विष्णुः अहमेव अत्र अस्मिन् देहे यो यज्ञः तस्य अहम् अधियज्ञः । यज्ञो हि देहनिवर्त्यत्वेन देहसमवायी देहाधिकरणो भवति (तत्रैव शां० भा०) । यथा च- अन्तर्यामित्वेन स्थितोऽहमेवाधियज्ञो यज्ञाधिष्ठात्री देवता (तत्रैव श्रीधर्याम्) । यथा च - परमात्मा सर्वयज्ञस्वामी । यथा - अहं हि सर्वयज्ञानां श्रौतानां स्मार्तानां च सर्वेषां यज्ञानां देवतात्मत्वेन भोक्ता च प्रभुरेव च । मत्स्वामिको हि यज्ञोऽधियज्ञोऽहमेवात्रेति ह्युक्तम् । तथा न तु मामभिजानन्ति तत्त्वेन यथावत् । अतश्चाविधिपूर्वकमिष्ट्वा यागफलाच्च्यवन्ति प्रच्यवन्ते ते (गी० ९।२४ शा० भा० ) । अधिष्ठाता, अधिष्ठाता १. अध्यक्षः, २. नियन्ता, ३. अधिदेवः । आत्मा इन्द्रियाद्यधिष्ठाता । यथा – मयाध्यक्षेणाधिष्ठात्रा निमित्तभूतेन प्रकृतिः सचराचरं विश्वं सूयते जनयति । अनेन मदधिष्ठानेन हेतुना इदं जगद् विपरिवर्तते पुनः पुनर्जायते । सन्निधिमात्रेणाधिष्ठातृत्वात् कर्तृत्वमुदासीनत्वं चाविरूद्धमिति भाव । मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् (गी० ९/१० श्रीधरी) । अधिष्ठानम्, अधिष्ठानम् १ . आश्रयः । यथा - प्राणसञ्चाराय प्राणवहनाड्यादिः ।२. आरोपविशेष्यम् । यथा शुक्ती रजतस्याधिष्ठानम् । ३. कामस्य अधिष्ठानम् इन्द्रियाणि मनो बुद्धिश्च । यथा - संकल्पेनाध्यवसायेन च कामस्याविर्भावादिन्द्रियाणि च मनश्च बुद्धिश्चास्याधिष्ठानमुच्यते । एतैरिन्द्रियादिभिर्दर्शनादिव्यापारवद्भिराश्रयभूतैर्विवेकज्ञानमावृत्य देहिनं विमोहयति (गी० ३।४० श्रीधरी ) । यथा च - इन्द्रियाणि मनो बुद्धिः च - अस्य कामस्य अधिष्ठानमाश्रय उच्यते (तत्रैव शा० भा० ) । अध्यक्षः, अध्यक्ष अधिष्ठाता सन्निधिमात्रेण सर्वकर्मद्रष्टा सर्वकर्मकर्ता सर्वत उदासीनः परमात्मा । प्रकृतिसान्निध्येन अविद्यासाचिव्येन अकर्तर्यपि परमात्मनि जगत्कर्तृत्वं जगद्रष्टृत्वमुपवर्ण्यते । अतः स उदासीनोऽपि जगतोऽध्यक्ष उच्यते । यथा- मयाध्यक्षेण प्रकृतिः सूयते सचराचरणम् (गी० ९।१०) । इत्यत्र शाङ्करभाष्ये मया सर्वतो दृशिमात्रस्वरूपेण अविक्रियात्मना अध्यक्षेण मम माया त्रिगुणात्मिका अविद्यालक्षणा प्रकृतिः सूते उत्पादयति सचराचरं जगत् । तथा च मन्त्रवर्ण:- एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च । ... योऽस्याध्यक्षः परमे व्योमन् (तै० ब्रा० २।८) अत्रैव श्रीधर्याम्- मयाध्यक्षेण अधिष्ठात्रा निमित्तभूतेन प्रकृतिः सचराचरं विश्वं सूयते । .जगद् विपरिवर्तते पुनः पुनर्जायते । सन्निधिमात्रेणाधिष्ठातृत्वात् कर्तृत्वमुदासीनत्वं चाविरुद्धमिति । अध्यक्षम्, अध्यक्ष १ . प्रत्यक्षम् । यथा - उपादानस्य चाध्यक्ष्यं प्रवृत्तौ जनकं भवेत् (भा० प्र० श्लो० १५२) । २. प्रत्यक्षविषयः । यथा - अध्यक्षं विशेषगुणयोगतः ( भा० प्र० श्लो० ४९) । अध्ययनम्, अध्ययन (क) उच्चारणोत्तरकालिको नियमपूर्वको ग्रन्थस्वीकारानुकूलो व्यापारः । यथा उपाध्यायाद् अधीत इत्यादौ धात्वर्थः (ल० म०) । (ख) पठनम्, तच्च गुरुमुखोच्चारणानुसार्युच्चारणम् । (ग) सार्थाक्षरग्रहणम् इति मीमांसकाः । यथा साङ्गो वेदोऽध्येतव्यो ज्ञेयश्चेत्यादौ । (घ) अक्षरमात्रपाठोच्चारणमिति वेदाक्षरपाठकर्तारः । (ङ) अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत इति श्रुतिबोधिताध्यापनविधिप्रयुक्तमध्ययनम् । यथा- योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः । इत्यादिना अकरणे प्रत्यवायश्रवणाद् अध्यापनं चानित्यं काम्यत्वात् । तथा च कथं नित्यमनित्येन प्रयुज्येत विरोधात् । तस्मादध्ययनविधिप्रयुक्तमेवाध्यापनमिति न दृष्टान्तासिद्धिः । अस्तु वाध्यापनविधिप्रयुक्तमध्ययनं तथाप्यध्यापनविधिरखिलवेदवाक्याध्यापनं विदधानः स्ववाक्याध्यापनमपि विधत्त इति स एव दृष्टान्तो भविष्यतीत्यलमतिविस्तरेण (त० प्र० प्र० प० ) । अध्ययनविधिः, अध्ययनविधिः वेदान्तानामध्ययनं नित्यविधिरिति अङ्गीक्रियते । यथा - नित्यो हि- स्वाध्यायोऽध्येतव्य इति अध्ययनविधिः । ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च इतिवचनात् । काम्यत्वे हि वेदाध्ययनस्यान्योन्याश्रयता - अर्थावबोधे सति कामना कामनायां सत्यां षडङ्गोपेतवेदाध्ययनप्रवृत्तस्यार्थबोधः इति । अतः सर्वोऽपि नित्यविधिबलादेव षडङ्गसहितं वेदमधीत्यार्थं जानाति । पूर्वमीमांसकैरत्र नियमविधिरङ्गीकृतः । यथा- दृष्टफलस्यापि धर्मज्ञानस्य साधनेऽध्ययने नियमविधिस्तावदङ्गीकृत एव । अथावधातेऽपूर्वविधिरेव सन् फलतो नियम इति व्यवह्रियते । श्रवणेऽपि तथा भविष्यति । तस्माद् उपपद्यत एव श्रोतव्य इति विधिः (विवरणप्रमेय सङ्ग्रहे १ । १ श्रवणविधिविचारे) । यथा च - प्रकटार्थकारादयः (अनुभूतिस्वरूपाचार्यादयः) केचिदाहुः अपूर्वविधिरयम् । अप्राप्तत्वात् । घटसाक्षात्कारे चक्षुरतिरेकेण त्वगिन्द्रियमिव ब्रह्मसाक्षात्कारे श्रवणातिरेकेण उपायान्तरमस्तीति शङ्कायां व्यतिरेकव्यभिचारस्यापि अदोषत्वात् । तथा च प्राप्तत्वान्नापूर्वविधिः । (व्यतिरेकव्यभिचारस्यापि इत्यस्यायमर्थः= श्रवणरूपकारणाभावेऽपि वामदेवस्य ब्रह्मसाक्षात्कारः इति व्यतिरेकव्यभिचारस्य ज्ञानेऽपि) अतो नियमविधिरेवायम् । तदभावे हि यथा वस्तु किञ्चिच्चक्षुषा वीक्षमाणस्तत्र स्वागृहीते सूक्ष्मे विशेषान्तरे केनचित् कथिते तदवगमाय तस्यैव चक्षुषः पुनरपि सप्रणिधानं व्यापारे वर्तते । एनं मनसा अहम् इति गृह्यमाणे जीवे वेदान्तैरध्ययनगृहीतैरूपदिष्टं निर्विशेषब्रह्मचैतन्यरूपत्वमाकर्ण्य तदवगमाय तत्र सावधानं मनस एव प्रणिधाने कदाचित् पुरुषः प्रवर्तेतेति वेदान्तश्रवणे प्रवृत्तिः पाक्षिकी स्यात् ।... अथवा अद्वैतात्मपरभाषाप्रबन्धश्रवणस्य पक्षे प्राप्त्या वेदान्तश्रवणे नियमविधिरस्तु (सि० ले० सं० प्र० प०) यथा चनाध्ययनविधिप्रयुक्तमध्ययनम् । तस्याध्यापनविधिप्रयुक्तत्वात् ।.... अस्तु वाध्यापनविधिः तमध्यापयीतेतिप्रयुक्तमध्ययनं तथाप्यध्यापनविधिरखिलवेदवाक्याध्यापनं विदधानः स्ववाक्याध्यापनमपि विधत्ते इति स एव दृष्टान्तो भविष्यतीत्यलमतिविस्तरेण (त० प्र० प्र० प० ) । एवमेव अद्वैतसिद्धावपि । अध्यवसायः, अध्यवसाय १. इदमेवमेवेति विषयपरिच्छेदो निश्चयः । २. उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धेः रजस्तमोऽभिभवे सति यः सत्त्वसमुद्रेकः सोऽयमध्यवसायः इति वृत्तिरिति च सांख्याः । यथा - अध्यवसायो बुद्धेर्धर्मो ज्ञानं विराग ऐश्वर्यम् सङ्कल्पेन (सां० का० २३) । ३. संकल्पः । यथा - विषयदर्शनश्रवणादिभिः अध्यवसायेन (गी० ३।४० श्रीधर्याम्) । यथा - अतोऽन्तःकरणपर्यायरूपः । यथा कामः सङ्कल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिरधृतिर्धीर्भीरित्येतत् सर्वं मन एव (बृ० उप० १।५।३) इतिश्रुतिर्मानम् । धीशब्देन वृत्तिरूपज्ञानाभिधानात् । अत एव कामादेरपि मनोधर्मत्वम् (वे० प० १ प०) इत्यद्वैतिनः । अध्यवसेयः, अध्यवसेय विज्ञानवादिबौद्धदर्शनमते आन्तरः पदार्थः अवसेयस्तथा बाह्यः पदार्थः अध्यवसेयः । यथा - ययुच्यते द्विविधो हि विकल्पानां विषयः- ग्राह्यश्चाध्यवसेयश्च । तत्र स्वाकारी ग्राह्योऽध्यवसेयस्तु बाह्यः । तथा च पक्षप्रतिपक्षपरिग्रहलक्षणा विप्रतिपत्तिः प्रसिद्धपदार्थकत्वं चोपपद्यत इत्यत आह - (ब्र० सू० २ । २ । २५ भाम० ) स्वाकारस्य निर्विकल्पस्यावसायाद् अधि उपरि अवसेयोऽध्यवसेयः । अध्यवसेयस्य बाह्यार्थस्य निश्चितत्वादनिश्चितार्थत्वापादकं भाष्यमयुक्तम् इत्याशङ्क्याह (तत्रैव वे० क० त०) (बौद्धदर्शनसम्मतविज्ञानवादखण्डनावसरे आन्तरपदार्थबाह्यपदार्थविचारे) यथा च - केयमध्यवसेयता बाह्यस्य । यदि ग्राह्यता न द्वैविध्यम् । यथान्या सोच्यतां ननूक्ता तैरेव स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तिरिति । अथ विकल्पाकारस्य कोऽयमध्यवसायः । किं करणमाहो योजनमुतारोप इति । न तावत् करणम् । तह्यन्यद् अन्यत् कर्तुं शक्यम् । नहि जातु सहस्रमपि शिल्पिनो घटं पटयितुमीशते । न चान्तरं बाह्येन योजयितुम् । अपि च तथा सति युक्त इति प्रत्यय: स्यात् । चास्ति । आरोपो हि गृह्यमाणे बाह्ये उतागृह्यमाणे । यदि गृह्यमाणे तदा किं विकल्पेन अहो तत्समयजेनाविकल्पकेन । न तावद् विकल्पोऽभिलापसंसर्गयोग्यगोचरोऽशक्याभिलाप समयं स्वलक्षणं देशकालाननुगतं गोचरयितुमर्हति । यथाहुः - अशक्यसमयो ह्यात्मा सुखादीनामनन्यभाक् । तेषामतः स्वसंवित्तिर्नाभिजल्पानुसङ्गिणी । इति । न तत्समयभाविना निर्विकल्पकेन गृह्यमाणे बाह्ये विकल्पेनानुगृहीते तत्र विकल्पः स्वाकारमारोपमारोपयितुमर्हति (तत्रैव भाम०) । अध्यात्मम्, अध्यात्म आत्मनि इति अध्यात्मम् । आत्मविषयकं विवेचनम् । यथा अध्यात्मसंज्ञितमात्मानात्मविवेकविषय निरतिशयम् (गी० ११/१ शा० भा०) । यथा च अध्यात्मसंज्ञितमध्यात्मम् इति संज्ञितमात्मानात्मविवेकविषयमशोच्यानन्वशोचस्त्वम् इत्यादि षष्ठाध्यायपर्यन्तं त्वं पदार्थप्रधानम् (तत्रैव म० सू०) । यथा च स्वभावोऽध्यात्ममुच्यते । आत्मानं देहमधिकृत्य प्रत्यगात्मतया प्रवृत्तं परमार्थब्रह्मावसानं वस्तु स्वभावोऽध्यात्ममुच्यतेऽध्यात्मशब्देनाभिधीयते (तत्रैव ८।३ शा० भा०) यथा च - स्वस्यैव ब्रह्मण एवांशतो जीवरूपेण भवनं स्वभावः । स एवात्मानं देहमधिकृत्य भोक्तृत्वेन वर्तमानोऽध्यात्मशब्देनोच्यते (तत्रैव श्रीधरी) । अध्यारोपः, अध्यारोप वस्तुनि अवस्त्वारोपः अध्यारोपः । यथा असर्पभूतायां रज्जौ सर्पारोपवद् वस्तुन्यवस्त्वारोपोऽध्यारोपः । वस्तु सच्चिदानन्दानन्ताद्वयं ब्रह्म । अज्ञानादिसकलसमूहोऽवस्तु । अज्ञानं तु सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं ज्ञानविरोधि भावरूपं यत् किञ्चिदिति वदन्त्यहमंज्ञ इत्याद्यनुभवात् । देवात्मशक्तिं स्वगुणैर्निरूढाम् इत्यादिश्रुतेश्च (वे० सा० ११) । अयमध्यासपदेनापि व्यवह्नियते । अध्यासः, अध्यासः अध्युपसर्गाद् आस्धातोरचि प्रत्ययेऽध्यासः । अर्थात् अधिकृत्य आस्ते । आधारमाश्रित्य तिष्ठतीति यावत् । अयथार्थज्ञानम् । भ्रमात्मकं ज्ञानम् । साधिष्ठानं भ्रमात्मकं ज्ञानम् । रज्जौ सर्पः शुक्तौ रजतं चेतिवद् । (क) तत्राध्यासो नाम द्वयोर्वस्तुनोरनिवर्त्तितायामेवान्यतरबुद्धावन्यतरबुद्धिरध्यस्यते । यस्मिन्नितरबुद्धिरध्यस्यतेऽनुवर्तत एव तस्मिंस्तबुद्धिरध्यस्तेतरबुद्धावपि । यथा नाम्नि बुद्धिर्न ब्रह्मबुद्ध्या निवर्तते । यथा वा प्रतिमादिषु विष्ण्वादिबुद्धिरध्यासः । एवमिहापि अक्षर उद्गीथबुद्धिरध्यसत उद्गीथे चाक्षरबुद्धिरिति (ब्र० सू० ३।३।९ शा० भा० ) । यथा च – "गौणी बुद्धिरध्यासः । यथा माणवकेऽनिवृत्तायामेव माणवकबुद्धिव्यपदेशवृत्तौ सिंहबुद्धिव्यपदेशवृत्तिः सिंहो माणवक इति । एवं प्रतिमायां वासुदेवबुद्धिर्नाम्नि च ब्रह्मबुद्धिस्तथोङ्कार उद्गीथ बुद्धिव्यपदेशाविति । अपवादैकत्वविशेषणानि चोक्तानि । एकार्थेऽपि च शब्दद्वयप्रयोगो दृश्यते । यथा - वैश्वदेव्यामिक्षा विज्ञानमानन्दम् । व्याख्यायां च पर्यायाणामपि सहप्रयोगो । यथा सिन्धुरः करी पिकः कोकिल इति (तत्रैव भामं०) १ . अविद्या इत्यर्थः । यथा - तमेतमेवलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते । तद्विवेकेन च वस्तुस्वरूपावधारणं विद्यामाहुः । ( ब्र० सू० उपो०) अस्य लक्षणं ब्र० सू० शा० भा० उपोद्धाते एवमुच्यते - कोऽयमध्यासो नामेति । उच्यते स्मृतिरूपः परत्र पूर्वदृष्टावभासः । तं केचित् अन्यत्रान्यधर्माभ्यास इति वदन्ति । केचित्तु यत्र यदध्यास्तस्तद् विवेगाग्रहनिबन्धनो भ्रम इति । अन्ये तु यत्र यदध्यासस् तस्यैव विपरीतधर्मकल्पनामाचक्षत इति । सर्वथापि त्वन्यस्यान्यधर्मतां न व्यभिचरति । तथा च लोकेऽनुभवः शुक्तिका हि रजतवदवभासते एकश्चन्द्रः सद्वितीयवदिति । अत्र भामती - अवसन्नोऽवमतो वा भासोऽवभासः । प्रत्ययान्तरबाधश्चास्यावसदोऽवमानो वा । एतावता मिथ्याज्ञानमित्युक्तं भवति । तस्येदमुपख्यानम्- पूर्वदृष्ट इति । अत्र कल्पतरौ - स्मृतिरूपपदेन चासन्निहितविषयत्वे विवक्षिते । तावति चोक्ते स्मृतावतिव्याप्तिस्तन्निवृत्तये परत्रेत्युक्तमित्यपि द्रष्टव्यम् । अनेनासन्निहितस्य परत्र प्रतीतिरध्यास इति लक्षणमुक्तम् । असन्निधानं चारोप्याधिष्ठाने न परमार्थतोऽसत्त्वम् । न देशान्तरसत्त्वमिति । भामत्यामवसन्नोऽनुमतो वा भासोऽवभासः । वे० कल्पतरौ अवसादः उच्छेदः, अवमानो यौक्तिकतिरस्कारः । अत्र च - स्मृतिरूपः परत्र पूर्वदृष्टावभास इत्यध्यासलक्षणनिरूपणानन्तरमसत्ख्यात्यात्मख्यात्यख्यात्यन्यथाख्यातिवादिनां मतान्युद्धृत्य चोक्तम्- सर्वथापि त्वन्यस्यान्यधर्मावभासतां न व्यभिचरति । एवमेव सं० शा० १ । ३६ तथा १ । ४ अ० टी० अपि । स च षड्विधः - १. धर्माध्यासः, २. धर्मसहितधर्मिणोऽध्यासः । ३. सम्बन्धाध्यासः ४. सम्बन्धसहितसम्बन्धिनोऽध्यासः ५. अन्यतराध्यासः ६. अन्योन्याध्यासः । यथा - १. देहगतस्य गौरत्वस्य, इन्द्रियगतस्य बधिरत्वस्य च आत्मनि अध्यासः धर्माध्यासः २. कर्तृत्वादिधर्मसहितस्य अन्तःकरणस्य धर्मिणि आत्मनि अध्यासः धर्मसहितधर्मिणि अध्यासः । ३. शरीरादौ आत्मनः तादात्म्यसम्बन्धाध्यासः ४. सम्बन्धसहितशरीराधनात्मनां पदार्थानाम् आत्मनि अध्यासः, ५. अनात्मनि आत्मनो न किन्तु आत्मनि अनात्मपदार्थस्वरूपाणाम् अध्यासः, ६. अयोगोलकवह्निसदृशः आत्मानात्मनोः परस्पराध्यासः । केचन अध्यासं द्विविधमेव मन्यन्ते–१. स्वरूपाध्यासः२. संसर्गाध्यासश्च । अनयोर्द्वयोरेव पूर्वोक्तानां षण्णामन्तर्भावः । यथा स्वरूपाध्यासे प्रथमद्वितीयपञ्चमानामन्तर्भावः । पूर्वोक्तस्तृतीयः संसर्गाध्यासेऽन्तर्भूतः । चतुर्थषष्ठौ स्वरूपाध्याससंसर्गाध्यासयोः सम्मिश्रणरूपौ । (ख) अधिष्ठानविषयसत्ताकोऽवभासः अध्यासः । (ग) तदभाववति तप्रकारकोऽवभासः अध्यासः । (घ) अयथार्थज्ञानम् अध्यासः । उक्तञ्च प्रमाणदोषसंस्कारजन्मार्थस्य परात्मता । तद्धीचाध्यास इति हि द्वयमिष्टं मनषिमिः ॥ ( स० द० सं० शां० ) द्वयम् - अर्थात् अर्थाध्यासः ज्ञानाध्यासश्च । यथा च ब्र० सू० उपो० रत्नप्रभाटीकायामुक्तम्-अवभासनम् अवभासः । यथा शुक्तिरजतादिविषयकवृत्तिज्ञानम् । तथा अवभास्यते यत् – यथा शुक्तिरजादि । प्रथमव्युत्पत्तौ ज्ञानाध्यासः द्वितीयव्युत्पत्तौ अर्थाध्यासः । अध्यासो नाम अधिष्ठानविषयसत्ताकोऽवभासः । अथवा तदभाववति तप्रकारकोऽवभासः । अत एव चोक्तम्- अध्यासो नाम अतस्मिंस्तबुद्धिरित्यवोचाम । ....एवमनादिरनन्तो नैसर्गिकोऽध्यासो मिध्याप्रत्ययरूपः । कर्तृत्वभोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्षः । (ब्र० सू० उपो० शा० भा०) अध्यासजनने कारणत्रयम्१. प्रमेयदोषः २. प्रमातृदोषः ३. प्रमाणदोषश्चेति । एवमेव स्वप्नाध्यासेऽपि । कार्यकारणभावरूपेणापि अविद्याध्यासयोरैकरूप्यम् । यथा- एवं स्वप्नाध्यासस्यापि .एकाज्ञानकार्यत्वोक्तेश्च.... (सिं० ले० सं०) । यथा च - अध्यास एव सर्वानर्थहेतुः स एवाविधा । (ब्र० सू० उपो भाम०) एवं च वर्णाध्यासः अवस्थाध्यासः आश्रमाध्यासः वयोऽध्यासः इत्यदीनि जायन्ते (ब्र० स्० उपो० शा० भा०, भाम०) । अनन्तरम्, अनन्तर जात्यन्तरव्यवधानशून्यम् । यथा - नास्यान्तरं जात्यन्तरं अन्तराले विद्यत इत्यनन्तरम् (ब्र० सू० १/१/४ वे० क० त० ) । ततः परम्, तदव्यवहितोत्तरत्वं च । अनन्यशेषः, अनन्यशेष न अन्यशेषः अर्थात् प्रधानभूतो मुख्यः । यथा- उत्पाद्यादि'चतुर्विधद्रव्यविलक्षणः स्वप्रकरणस्थोऽनन्यशेषः । (ब्र० सू० १/१/४ शा० भा०) "अतश्च चतुर्विधद्रव्यविलक्षणो यदन्यशेषः (तत्रैव भा०) । अनपरम्, अनपर कारणरहितम् । यथा - तथा नास्यापरं कार्यं वास्तवं विद्यते इत्यनपरम्, अकारणमिति यावत् (ब्र० सू० १/१/४ वे० क० त०) । अनपेक्षः, अनपेक्ष अपेक्षारहितो निःस्पृहः । यथा - देहेन्द्रियविषयसम्बन्धादिष्वपेक्षाविषयेषु अनपेक्षो निःस्पृहः (गी० १२ / १६ शा० भा० ) । यथा च - किं च निरपेक्षः सर्वेषु भोगोपकरणेषु यदृच्छोपनीतेषु अपि निःस्पृहः (तत्रैव म० सू०) । यथा च अनपेक्षो देहेन्द्रियविषयसम्बन्धेषु सर्वेष्वपेक्षणीयेषु यदृच्छोपलब्धेष्वपेक्षाशून्यो निःस्पृहः (तत्रैव भा० क०) । अनपेक्षो यदृच्छोपस्थितेऽप्यर्थे निःस्पृहः (तत्रैव श्रीधरी) । अनभिष्वङ्गः, अनभिष्वङ्ग जागतिकवस्तुनि तादाम्याभिमानराहित्यम् । अनभिष्वङ्गोऽभिष्वङ्गाभावः । अभिष्वङ्गोनाम आसक्तिविशेष एवानन्यात्मभावनालक्षणः । (गी० १३।९ शा० भा० ) । यथा च अभिष्वङ्गस्तेन तादात्याभिमानोऽयमेवाहमिति च (नी० क०) । यथा च अभिष्वङ्गस्त्वमेवायमित्यनन्यत्वभावनया प्रीत्यतिशय: । ( म० सू०) अभिष्वङ्गः अन्यस्मिन् पुत्रादौ सुखिनि दुःखिनि वा जीवति मृते वाहमेव सुखी दुःखी च जीवामि मरिष्यामि इति चेति (भा० क० ) । यथा च - अनभिष्वङ्गः पुत्रादीनां सुखे दुःखे वाहमेव सुखी दुःखी चेत्यध्यासातिरेकाभावः (तत्रैव श्रीधरी ) । अनादिता, अनादिता अनादिकालेन सह अन्यतमयोगनियमः । यथा - तदाकृत्युपरक्तानां व्यक्तीनामेकया विना । अनादिकाला वृत्तिर्या सा कार्यानादिता मता । मिथ्याकारत्वतत्संस्कारत्वजात्यालिङ्गितव्यक्तीनां मध्येऽन्यतमव्यक्त्या विना यदनादिकालस्यावर्तनमन्यतमयोगनियम इति यावत् । तासामनादित्वम् । अत्र निमित्तनैमित्तिनोरनादित्वमुक्तम् (ब्र० सू० अध्यासभाष्ये वे० क० त० ) अनानांत्वम्, अनानांत्व एकम् अद्वितीयम् । यथा- दुर्दशमतिगम्भीरमजं साम्यं विशारदम् । बुद्धवा पदमनानात्वं नमस्कुर्मो यथाबलम् (मा० उप० का० ४।१००)। अत्र शाङ्करभाष्ये - ईदृक्पदं नानात्ववर्जितं बुद्ध्या अवगम्य । अनावृत्तिः, अनावृत्ति पौनःपुन्येन आवर्तनम् अर्थात् जन्ममृत्युरूपेण पुनः पुनरागमनम् आवृत्तिस्तविपरीता अनावृत्तिः । ब्रह्मज्ञानाद् ब्रह्म सम्पद्यते स्वस्वरूपमवगम्यते । न च पुनरावर्तते । तच्च मोक्ष इत्यभिधीयते । विद्याफलमेतत् । ब्रह्मज्ञानेनैतद्भवति । उत्तरायणस्यैषा गतिस्तथा मरणार्थं भीष्मादीनामुत्तरायणस्य प्रतीक्षादिकथनमुत्तरायणादीनां प्राशस्त्यवर्णनार्थम् । यथा - अत एव चोदीक्षानुपपत्तेरपाक्षिकफलत्वाच्च विद्याया अनियतकालत्वाच्च मृत्योर्दक्षिणायनेऽपि म्रियमाणो विद्वानाप्नोत्येव विद्याफलम् । उत्तरायणमरणप्राशस्त्यप्रसिद्धेर्भीष्मस्य च प्रतीक्षादर्शनात् । आपूर्णमाणपक्षाद्यान् षडुद्ड्डेति मासांस्तान् छा० ४।१५/५ इति च श्रुतेरपेक्षितव्यमुत्तरायणमितीमामाशङ्कामनेन सूत्रेणापनुदति । प्राशस्त्यप्रसिद्धिरविद्वद्विषया । भीष्मस्य प्रतिपालनमाचारप्रतिपालनार्थं पितृप्रसादलब्धस्वच्छन्दमृत्युताख्यापनार्थं च । श्रुतेस्त्वर्थं वक्ष्यति आतिवाहिकस्तल्लिङ्गात् ब्र० सू० ४।३।४ इति यथा च - यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ गी० ८।२३ इति कालप्राधान्येनोपक्रम्य अहरादिकालविशेषः स्मृतावपुनरावृत्तये नियमितः । यथा - कथं रात्रौ दक्षिणायने वा प्रयातोऽनावृत्तिं यायादिति अत्रोच्यते – योगिनः प्रति च स्मर्यते स्मार्ते चैते (ब्र०सू० ४।२।२०-२१ ) । योगिनः प्रति चायमहरादिकालविनियोगोऽनावृत्तये स्मर्यते । स्मार्ते चैते योगसांख्ये न श्रौते । (ब्र० सू० ४।२।२१ शा० भा०) यथा च अनावृत्तिः शब्दादनावृत्तिः शब्दात् (ब्र० सू० ४।४।२२) अत्र शा० भा० - नाडीरश्मिसमन्वितेनार्चिरादिपर्वणा देवयानेन यथा ये ब्रह्मलोकं शास्त्रोक्तविशेषणं गच्छन्ति यस्मिन्नरश्च वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि यस्मिन्नैरंमदीयं सरो यस्मिन्नश्वत्थः सोमसवनो यस्मिन्नपराजिता पूर्ब्रह्मणो यस्मिंश्च प्रभुविमितं हिरण्मयं वेश्म यश्चानेकधा मन्त्रार्थवादादिप्रदेशेषु प्रपञ्च्यते ते तं प्राप्य न चन्द्रलोकादिव भुक्तभोगा आवर्तन्ते । कुतः – तयोर्ध्वमायन्नमृतत्वमेति (छा० ८।६।६ कठ० ६।१६) तेषां न पुनरावृत्तिः (बृ० ६।२।१५) एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते (छा० ४/१५/६) ब्रह्मलोकमभिसम्पद्यते (छा० ८/१५/१) न च पुनरावर्तते (छा० ८।१५।१ ) । अन्तवत्वेऽपि त्वैश्वर्यस्य यथानावृत्तिस्तथा वर्णितम्- कार्यात्यये तदध्यक्षेण सहातः परम् (ब्र० सू० ४ । ३ ।१०) इत्यत्र । यथा च सम्यग्दर्शनविध्वस्ततमसां तु नित्यसिद्धनिर्वाणपरायणानां सिद्धैवानावृत्तिः । तदाश्रयणेनैव हि सगुण-शरणानामनावृत्तिसिद्धिरिति । अनावृत्तिः शब्दादनावृत्तिः शब्दादितिसूत्राभ्यासः (४।४।२२) अनित्यः, अनित्य (क) त्रैकालिकबाधरहितो नित्य एतद्विपरीतः अनित्यः सान्तो वा अनित्य इति शाङ्करवेदान्तिनः । यथा जगदादि अविद्या च । (ख) उत्पत्तिमान् ध्वसंप्रतियोगी चानित्य इति नैयायिकाः । यथा शब्दोऽनित्यः । (ग) प्रध्वंसाभावप्रतियोगी । यथा घटोऽनित्यः । अनित्यत्वम्, अनित्यत्व (क) प्रतियोगितासम्बन्धेन ध्वंसत्वम् (भू० म०) । ध्वंसप्रतियोगित्वमित्यर्थः (त० दी०) । इदं लक्षणं प्रागभावानङ्गीकारपक्षे ध्वंसस्य नित्यत्वपक्षेऽपि च सङ्गच्छते । (ख) प्रागभावप्रतियोगित्वध्वंसप्रतियोगित्वान्यतरवत्त्वम् (वाक्य० १) (त० प्र० १ ) यथा ध्वंसप्रागभावयोर्घटपटादेश्चानित्यत्वम् । अनिर्वचनीयम्, अनिर्वचनीय निःशेषेण वक्तुमनर्हम् अनिर्वचनीयम् । इत्थमेव वक्तुं न शक्यते तदनिर्वचनीयमुच्यत इदमेव अनिर्वाच्यम् । यथा अविद्या । अविद्यासाचिव्येन ब्रह्म जगद्द्रूपेण विवर्तते । अविद्यनाम मिथ्याप्रत्ययः अध्यासो वा । इयं चाविद्या सत्त्वेन असत्त्वेन सदसदत्त्वेन सदसदभावत्वेन वा निर्वक्तुं न शक्यतेऽनिर्वचनीया अविद्या । यदि सा सती तदा कदापि न निवर्तेत, यद्यसती तदा जगद्भासने कारणं न भवेत् । सदसदुभयरूपं तथा सदसदभावरूपं किञ्चिद्भवत्येव नहि । अतश्चतुष्कोटिविनिर्मुक्ता अनिर्वचनीया अविद्या कथ्यते । यथा - अव्यक्ता सा हि माया तत्त्वान्यत्वनिरूपणस्याशक्यत्त्वात् (ब्र० सू० १ । ४ । ३ शा० भा० ) । यथा च - नाविद्या ब्रह्माश्रया किन्तु जीवे सात्वनिर्वचनीया (तत्रैव १ । ४ । ३ भाम०) । यथा च प्रत्येकं सदसत्त्वाभ्यां विचारपदवीं न यत् । गाहते तदनिर्वाच्यमाहुर्वेदान्तवेदिनः ॥ सत्त्वेनासत्त्वेन विचारासहत्वे सति सदसत्त्वेन च यद्विचारं न सहते तदनिर्वाच्यम् । न चैवं सत्यव्याप्तिरतिव्याप्तिर्वा । सर्वभ्रमगोचराणां तथाभावनियमात् । सदादीनां च तत्तविचारसहत्वेन परैरभ्युपगमाच्च । एकालम्बनसंसर्गनिषेधे सदसत्त्वयोः । धर्मत्वाद्रूपरसवत् सिद्धानिर्वचनीयता (त० प्र० १ । १३, १४) यथा च - एवमविद्यायां तन्निबन्धनाध्यासे च सिद्धेऽपि न तस्यामनिर्वचनीयत्वसिद्धिः । तथा च लक्षणासम्भव इति चेन्न सविलक्षणत्वे सति असविलक्षणत्वे सति सदसद्विलक्षणत्वम्, सत्त्वासत्त्वाभ्यां विचारासहत्वे सति सदसत्त्वेन विचारासहत्वम् ( अ० सि० परि० १ अनि० ) । यथा च - अत एव पूर्वदृष्टमिव तत्त्वतस्तु न तोयं न च पूर्वदृष्टं किन्त्वनृतमनिर्वाच्यम् । एवञ्च देहेन्द्रियादिप्रपञ्चोऽप्यनिर्वाच्यः ।.... स चायमेवं लक्षणकोऽध्यासोऽनिर्वचनीयः सर्वेषामेव सम्मतः परीक्षकाणाम् (ब्र० सू० उपो० भाम०) । अस्यानिर्वचनीयस्य मूलम् नासदीये सूक्ते ऋग्वेदीये १०/१२९।१-३ मन्त्रेषु उपलभ्यते । तत्र सायणभाष्ये उक्तम् - तुच्छेन सदसद्विलक्षणेन भावरूपाज्ञानेन अपिहितम् । यथा च - अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः । चलस्थिरोभयाभावैरावृणत्येव बालिशः । कोट्यश्चतस्र एतास्तु ग्रहैर्यासां सदावृतः । भगवानाभिरस्पृष्टो येन दृष्टः स सर्वभाक् (मा० उप० का० ४।८३, ८४) । यथा च - नैव वाचा न मनसा (का० उप० २।३।१२) इत्युपक्रम्य अन्यत्र धर्मादन्यत्राधर्मात् (तत्रैव १४) । अशब्दम् अस्पर्शम् (तत्रैव १५ ) । यथा च - प्रत्येकं सत्त्वासत्त्वाभ्यां विचारपदवीं न यद् गहते तदनिर्वाच्यमाहुर्वेदान्तवादिनः (स० द० सं०) । यथा च - अनिर्वाच्याविद्याद्वितयसचिवस्य प्रभवतो विवर्ता यस्यैते वियदनिलतेजोऽबवनयः । यतश्चाभूद्द्विश्वं चरमचरमुच्चावचमिदं नमामस्तद् ब्रह्मापरिमितसुखज्ञानममृतम् । (ब्र० सू० भामतीमङ्गलश्लोके) अत्र वेदान्तकल्पतरौ - एका ह्यविद्या अनादिभावरूपा देवताधिकरणे (ब्र०अ० १ पा० ३ सू० २६-३३) वक्ष्यते, अन्या पूर्वपूर्वविभ्रमसंस्कारः तदविद्याद्वितयं सत्त्वासत्त्वाभ्यामनिर्वाच्यम्, सचिवं सहकारि यस्य तत्तथा । तत् सचिवता ब्रह्मणस्तद्विषयता । तदाश्रयास्तु जीवा एवेति वक्ष्यते । न चाविद्यासाचिव्ये ब्रह्मणोऽनीश्वरत्वमुपकरणस्य स्वातन्त्र्याविघातकत्वात् । अनिर्वचनीयतत्त्वम् ऋग्वेदे इत्थं सूचितम्- नासदासीन्नो सदासीत् तदानीं नासीद् रजो नो व्योमापरोयत् । किमावरीवः कुहकस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ।.न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यत्र परः किञ्च नास । तम आसीत्तमसा गूढमग्रे प्रकेतं सलिलं सर्वमा इदम् । तुच्छेनाभ्वपिहितं यदासीत्तपसस्तन्महिम्ना जायतैकम् । कामस्तदग्रे समवर्तताधि मनसोरेतः प्रथमं यदासीत् (ऋ० वे० १०/१२९।१-४) एवंविधस्थले अनिर्वचनीयं रजतादिकमुत्पद्यते यथा स्वप्ने उत्पद्यते । उक्तं च उपनिषदि न तत्र रथा न रथयोगाश्च रथा रथयोगाश्चोत्पद्यन्ते । अद्वैत-वेदान्त-विद्योतने उक्तम्तस्मादूभ्रमस्थले रजतादिकं जायते इत्यवश्यं वक्तव्यम् । अनिर्वाच्यम्, अनिर्वाच्य अनिर्वचनीयशब्दो द्रष्टव्यः । अनिवर्तकम्, अनिवर्तक न निवारकम् न विनाशकम् । यथा- चरमसाक्षात्काररूपायां वृत्तावभिव्यक्तं स्वरूपज्ञानमेव अविद्यानिवर्तकम् । यथा सूर्यकान्तारूढं सौरं तेज एव तृणदाहकं तद्वत् । न तु वृत्तिरविद्यानिवर्तिका जडत्वात् । इत्युक्तमाकरे । अनिष्टप्रसङ्कः, अनिष्टप्रसङ्क अनभिमतार्थापादनम् । यथा पर्वते धूमेन वह्निसाधने वादिना अप्रयोजकशङ्कायां कृतायां पर्वते यदि वह्निर्नस्यात्तर्हि धूमोऽपि न स्याद्, धूमो वह्निजन्यो न स्याद्वा इत्यापादनम् । अप्रयोजकशङ्कया च पक्षे हेतुरस्तु साध्यं मास्तु इति पर्यवसिता ।तत्रानिष्टप्रसङ्गश्च सिद्धव्याप्तिकयोर्धर्मयोर्व्याप्याङ्गीकारेणानिष्टव्यापकप्रसञ्जनम् (त० भा० ४३) । अनुपपत्तिः, अनुपपत्ति उपपत्त्यभावः । यथा पीनोऽयं देवदत्तः दिवा न भुङ्क्ते इति वाक्ये श्रुते भोजनं विना पीनत्वमनुपन्नम् । अनेन अनुपन्नेन भोजनं विना पीनत्वानुपपत्त्या रात्रिभोजनमाक्षिप्यते । विशेषज्ञानाय अर्थापत्तिशब्दो द्रष्टव्यः । अनुपलब्धिः, अनुपलब्धि ब्रह्मणि प्रपञ्चाभावसिद्धिद्वारा अद्वितीयब्रह्मस्वरूपसिद्ध्यर्थम् अभावानुभवस्य असाधारणकारणरूपत्वेन अनुपलब्धिनामकं षष्ठं प्रमाणमद्वैतनये स्वीक्रियते । व्यवहारे भाट्टनय इति रीत्येदं प्रमाणम् । श्लोकवार्तिके उक्तम् प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता । एवं रीत्या प्रमाणपञ्चकाभावः अनुपलब्धिरिति लक्षणमायातम् । अस्यैव निर्दुष्टं स्वरूपमित्थं क्रियते । यथा ज्ञानकरणाजन्याभावानुभवासाधारमनुपलब्धिरेकं प्रमाणम् । अस्यार्थः ज्ञानरूपं यत्करणं तदजन्यो योऽभावानुभवो नामाभावज्ञानं तस्य यदसाधारणं कारणं तदनुपलब्धिरूपं प्रमाणं बोध्यमिति । अनुमादिना जन्योऽत एवातीन्द्रियो योऽभावानुभवस्तस्य हेतुभूतेऽनुमानादावतिव्याप्तिवारणायाजन्यान्तम् । अदृष्टादौ साधारणकारणेऽतिव्याप्तिवारणायासाधारणेति । अभावस्मृत्यसाधारणहेतौ संस्कारेऽतिव्यातिवारणायानुभवेति विशेषणम् । एवं च घटादिज्ञानाभावो घटाद्यभावज्ञाने कारणमिति फलितोऽर्थः । तथा च घटाभाववति भूतले घटज्ञानाभाववद्घटाभावस्य ज्ञानं भवति । आत्मनि धर्माधर्माद्यनुपलब्धिसत्त्वेऽपि तदभावानिश्चयेन योग्यानुपलब्धेरेवाभावग्राहकत्वं बोध्यम् । अनुपलब्धेर्योग्यता च तर्कितप्रतियोगिसत्त्वप्रसञ्जितप्रतियोगित्वरूपा । अस्यार्थ:- तर्कितं यत् प्रतियोगिसत्त्वं तेन प्रसञ्जितप्रतियोगित्वरूपा । तर्कितं यत् प्रतियोगिसत्त्वं तेन प्रसञ्जित आपादितः प्रतियोगी यस्य तस्य भावस्तत्त्वमिति यावत् । तथा च स्फीतालोकवति भूतले यदि घटः स्यात्तदा घटोपलम्भः स्यादित्यापादनसम्भवात् तादृशभूतले घटाभावोऽनुपलब्धिगम्यः । अन्धकारे तु तादृशापादानासम्भवान्नानुपलब्धिगम्या । अतःस्तम्भे तादात्येन पिशाचसत्त्वे स्तम्भवत्प्रत्यक्षतापत्त्या तदभावोऽनुपलब्धिगम्यः स्तम्भः पिशाचो नेति । आत्मनि धर्माधमादिसत्त्वेऽपि तस्यातीन्द्रियतया निरुक्तोपलम्मापादनासम्भवान्न धर्माद्यभावस्यानुपलब्धिगम्यत्वम् । ननूक्तसत्याधिकरण इन्द्रियसन्निकर्षस्थले अभावस्यानुपलन्धिगम्यत्वं तवानुमतम् 1 तत्र च क्लृप्तेन्द्रियमेवाभावाकारवृत्तावपि कारणम् । इन्द्रियान्वयव्यतिरेकानुरोधादिति चेत्, न । प्रतियोग्यनुपलब्धेरभावग्रहे हेतुत्वेन क्लृप्तत्वात् करणत्वमात्रस्य कल्पनात् । इन्द्रियस्य चाभावेन समं सन्निकर्षाभावेनाभावज्ञाने हेतुत्वाभावात् । इन्द्रियान्वयव्यतिरेकयोरधिकरणज्ञानार्थमुपक्षीणत्वेनान्यथासिद्धेः (वे० प० ६ प्र०) । इत्यद्वैतिनः । अत्र नैयायिकाः तर्कितप्रतियोगिसत्त्वविरोध्यनुपलब्धिसहकृतेनेन्द्रियेणैवाभावज्ञानोपपत्तावनुपलब्धेः प्रमाणान्तरत्वासम्भवः इत्याहुः (त० दी०) । तदर्थश्च तर्किता आपादिता प्रतियोगिनो घटादेः सत्त्वस्य सत्त्वप्रयुक्तविरोधिनी या उपलब्धिस्तप्रतियोगिकः अभावोऽनुपलब्धिस्तत्सहकृतेनेति (नील० १८) तथा हि घटोपलब्धौ घटाभावाग्रहात् प्रतियोग्यनुपलब्धिरभावप्रत्यक्षे इन्द्रियस्यैव सहकारिणी । नतु प्रमाणान्तरम् । इन्द्रियेणैवाभावप्रत्यक्षोपपत्तेः । अन्यथा अभावप्रत्यक्षस्येन्द्रियजन्यत्वानङ्गीकारे इह घटो नास्तीति निर्णयानन्तरम् इह घटाभावं साक्षात्करोमीति साक्षात्कारविषयकप्रतीत्यनुपपत्तेः (त० कौ० १७-१८) । तथा चानुपलब्धिसहकृतेन्द्रियग्राह्यत्वादनुपलब्धिग्राह्य इत्युपचर्यते (गौ० वृ० ५/१।३०) । मीमांसकः श्रीगागाभट्टोऽप्येवमेव मनुते - वस्तुतस्त्वर्थापत्त्यनुपलब्ध्योरन्योन्यभेदमनुमानाच्च भेदन्नाकलयन्ति केचन (न्या० को०) । अनुपलब्धिद्विविधा - अज्ञाता ज्ञाता च । तत्राज्ञातोपलब्धिस्थले इन्द्रियेणैवाभावग्रहः । तावत्पर्यन्तमिन्द्रियव्यापारस्य विद्यमानत्वात् । अनुपलब्धिस्तु सहचारिमात्रम् । ज्ञातानुपलब्धिस्थले त्वनुमानमिति नानुपलब्धिर्मानान्तरम् (तत्त्व० ९९)। यत्र अज्ञातानुपलब्धिः कारणं तत्प्रत्यक्षम् । ज्ञातानुपलब्धिजन्याभावज्ञानस्यानुमानत्वम् (कु० व्या० ३।३९ न्या० को० ) । . अनुपब्धिसमः अनुपलब्धिसमा वा जातिः। महर्षिगोतमाभिप्रेतेषु षोडशपदार्थेष्वेकपदार्थः (प्रमाणप्रमेय....छल जातिनिग्रहस्थानामित्यादि न्यायसूत्रम् १।१ ) । (क) तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः (गौ० ५।१।२९) । प्रतिकूलतर्कदेशनाभासोऽयमिति ज्ञेयम् (गौ० वृ० ५।१।२९) । (खं) अनुपलब्धेरप्यनुपलब्धिस्तस्या अप्यनुपलेब्धिरित्येवंरूपेण प्रत्यवस्थानमनुपलब्धिसमः नैयायिकैस्तावच्छब्दानित्यत्वमेव साध्यते । यदि शब्दो नित्यः स्यादुच्चारणाप्राक् कुतो नोपलभ्यते । नहि घटाद्यावरणकुड्यादिवत् शब्दस्यावरणमिति तदनुपलब्धेरिति । तत्रैवं जातिवादी प्रत्यवतिष्ठते । यद्यावरणानुपलब्धेरावरणाभावः सिद्ध्यति तदा आवरणानुपलब्धेरप्यनुपलम्मादावरणानुपलब्धेरप्यभावः सिद्ध्यते । तथा चावरणानुपलब्धिप्रमाणक आवरणाभावो न स्यात् । अपि त्वावरणोपपत्तिरेव स्यादिति शब्दनित्यत्वे नोक्तं बाधकं युक्तम् (गौ० वृ० ५/१।२९) । (ग) वादिना कृतेन्द्रियग्राह्यत्वात् अनुपलब्धिग्राह्य इत्युपचर्यते (गौ० वृ० ५।१।३०) (न्यायकोशे) । यथा च - वादिना कस्यचित् पदार्थस्यानुपलब्धिवशाद् अनङ्गीकारेऽनुपलब्धिवशादेव वाद्यभिमतयत्किञ्चित्पदार्थाभावसाधनमनुपलब्धिसमा । शब्दोऽनित्यः । यदि शब्दो नित्यः स्यादुच्चारणाप्राक् कुतो नोपलभ्यते न हि घटाद्यावरणकुड्यादिवच्छद्वस्यावरणमस्ति तदनुपलब्धेरिति नैयायिकैरुक्ते प्रतिवादी प्रत्यवतिष्ठते यद्यवरणानुपलब्धेरावरणाभावः सिद्ध्यति तदावरणानुपलब्धेरप्यनुपलम्भात् तदावरणानुपलब्धेरभावसिद्धौ तद्विपरीतस्य तदावरणस्योपपत्तेस्तन्नित्यत्वमेव स्यादिति (त० सं० गङ्गाटीकायाम्) । अनुपानीयम्, अनुपानीय समीपस्थमुदकम् । यथा - अनुपानीयं समीपस्थमुदकम् । हन्त गृहाणानुपानमित्युक्तः प्रत्युवाच (छा० उप० १/१०/३ शा० भा० ) । अनुपोष्य, अनुपोष् अदग्ध्वा । यथा - समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य। (ब्र० सू० ४।२।७) । अनुपोष्य चेदम् अदग्ध्वाऽत्यन्तमविद्यादीन् (तत्रैव शा० भा०) । उपपूर्वाद् उष् दाहे इत्यस्मादुष्येति प्रयोगः (तत्रैव भाम०) वस् निवासे इत्यस्माद् धातोरिदं न भवति । अतो व्याचष्टे उष् दाहे इति (तत्रैव वे० क० त० ) । अनुबन्धः, अनुबन्ध १. ग्रन्थादौ अनुबन्धचतुष्टयं प्रदर्शनीयं भवति । तच्च - विषयश्चाधिकारी च सम्बन्धश्च प्रयोजनम् । ग्रन्यादौ प्रदातव्यमेतदनुबन्धचतुष्टयम् ॥ यथा च - तत्रानुबन्धो नामाधिकारिविषयसम्बन्धप्रयोजनानि (वे० सा० ) । १२. इच्छापूर्वकदोषविशेषाभ्यासः । यथा अनुबन्धादिकं दृष्ट्वा सर्वं कार्यं यथाक्रमम् इत्यादौ । ३. वातपित्तकफदोषाणामप्राधान्यमिति भिषजः । ४. प्रकृतिप्रत्यागमादेशानां विकरणागमगुणवृद्ध्यादिकार्यविशेषार्थमनुबन्धनीयः परिनिष्पन्नपदकालेषु आश्रयमाणतया नश्वरः इत्संज्ञतया कृतलोपो वर्ण इति शाब्दिकाः ।५. फलसाधनं पुनः पुनरनुष्ठानाभ्यास इति धर्मशास्त्रविदः । ६. बन्ध इति कोशकाराः । ७. आरम्भ इति केचिदाहुः (वाच०) । अनुबन्धः, अनुबन्ध ग्रन्थेषु परस्परं श्रृङ्खलितं विचारणीयं तत्त्वम् । अनुबन्धचतुष्टयम्, अनुबन्धचतुष्टय विषयश्चाधिकारी च सम्बन्धश्च प्रयोजनम् । ग्रन्थादौ प्रदातव्यमेतदनुबन्धचतुष्टयम् । ग्रन्थारम्भे प्रथममधिकारी विषयः सम्बन्धः प्रयोजनम् एतानि प्रदर्शनीयानि भवन्ति । वेदान्तग्रन्थे यथा- अधिकारी तु विधिवदधीतवेदवेदाङ्गत्वेनापात्तोऽधिगताखिलवेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुरःसरं नित्यनैमित्तिकप्रायश्चित्तोपवासनानुष्ठानेन निर्गतनिखिलकल्मषतया नितान्तनिर्मलस्वान्तः साधचतुष्टयसम्पन्नः प्रमाता । काम्यानि स्वर्गादीष्टसाधनानि ज्योतिष्टोमादीनि । निषिद्धानि नरकाद्यनिष्टसाधनानि ब्राह्मणहननादीनि । नित्यानि अकरणे. प्रत्यवायंसाधनानि सन्ध्यावन्दनादीनि । नैमित्तिकानि पुत्रजन्माद्यनुबन्धीनि जातेष्ट्यादीनि । प्रायश्चित्तानि पापक्षयसाधनानि चान्द्रायणादीनि । उपासनानि सगुणब्रह्मविषयमानसव्यापाररूपाणि शाण्डिल्यविद्यादीनि । एतेषां नित्यादीनां बुद्धिशुद्धिः परमं प्रयोजनम् । उपासनानं तु चित्तैकाग्र्यम् । तमेवात्मानं वेदानुवचनेन ब्राह्मणा विवदिषन्ति यज्ञेन इत्यादिश्रुतेः । तपसा कल्मषं हन्ति इत्यादि स्मृतेश्च । नित्यनैमित्तिकयोरुपासनयोस् त्ववान्तरफलं पितृलोकसत्यलोकप्राप्तिः कर्मणा पितृलोको विद्यया देवलोक इत्यादिश्रुतेः । साधनानि नित्यानित्यवस्तुविवेकेहामुत्रार्थफलभोगविरागशमदमादिषट्कसम्पत्तिमुमुक्षुत्वानि । नित्यानित्यवस्तुविवेकस्तावद् ब्रह्मैव नित्यं वस्तु ततोऽन्यदखिलमनित्यमिति विवेचनम् । ऐहिकानां स्रग्चन्दनवनितादिविषयभोगानां कर्मजन्यतयाऽनित्यत्ववदामुष्मिकाणामप्यमृतादिविषयभोगानामनित्यतया तेभ्यो नितरां विरतिरिहामुत्रार्थफलभोगविरागः । शमादयस्तु शमदमॊोपरतितितिक्षासमाधानश्रद्धाख्याः (वे० सा० ७-८) । यथा च - श्रवणादिषु च मुमुक्षूणामधिकारः । काम्ये कर्मणि फलकामस्याधिकारित्वात् । मुमुक्षूणां च नित्यानित्यवस्तुविवेकस्येहामुत्रार्थ फलभोगविरागस्य शमदमोपरतितितिक्षासमाधानश्रद्धानां च विनियोगः । अन्तरिन्द्रियनिग्रहः शमः । बहिरिन्द्रियनिग्रहो दमः । विक्षेपाभाव उपरतिः । शीतोष्णादिद्वन्द्वसहनं तितिक्षा । चित्तैकाग्र्यं समाधानम् । गुरुवेदान्तवाक्येषु विश्वासः श्रद्धा । अत्रोपरम-शब्देन संन्यासोऽभिधीयते । तथा च संन्यासिनामेव श्रवणाधिकार इति केचित् । अपरे तु उपरमशब्दस्य संन्यासवाचकत्वाभावाद् विक्षेपाभावमात्रस्य गृहस्थेष्वपि सम्भवात् । जनकादेरपि ब्रह्मविचारस्य श्रूयमाणत्वात् सर्वाश्रमसाधारणं श्रवणादिविधाना॑मत्याहुः । सगुणोपासनमपि चित्तैकाग्र्यद्वारा निर्विशेषब्रह्मसाक्षात्कारे हेतुः । तदुक्तम् - निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः । १. वशीकृते मनस्येषां सगुणब्रह्मशीलनात् । तदेवाविर्भवेत् साक्षादपेतोपाधिकल्पनम् । २. (वे० प० १ प०) विषयो जीवब्रह्मैवयं शुद्धचैतन्यं प्रमेयम् । तत्रैव वेदान्तानां तात्पर्यात् । सम्बन्धस्तु तदैक्यप्रमेयस्य तत्प्रतिपादकोपनिषत्रमाणस्य च बोध्यबोधकभावसम्बन्धः । प्रयोजनं तु तदैक्यप्रमेयगताज्ञाननिवृत्तिः स्वरूपानन्दावाप्तिश्च तरति शोकमात्मवित् इत्यादिश्रुतेः ब्रह्मविद् ब्रह्मैव भवति इत्यादि श्रुतेश्च (वे० सा० ९) । अनुभवः, अनुभव १. विषयाकारा अन्तःकरणवृत्तिरनुभवः इत्यद्वैतवेदान्तिनः । अन्तःकरणवृत्तिश्च – यथा- यथा जलं प्रणाल्या क्षेत्रादिकं प्राप्य चतुरस्राधाकारेण परिणमते एवमेव इन्द्रियप्रणाल्या अन्तःकरणं बहिर्निगत्य विषयाकारेण परिणमते । तादृशपरिणामवृत्त्या च विषयगतमज्ञानं निवारयंतीति अन्तःकरणस्य भवनादनुभवत्वम् । स्मृतौ तु विषयसन्निकर्षाभावाद् न विषयाकारता । अतः स्मृतिभिन्ने ज्ञाने अन्तःकरणस्य अनुभवत्वम् । यथा च - आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्माः इति पञ्चपादिकावचनाच्च (त० प्र० स्व० प्र० नि०) । २. स्मृतिभिन्नं ज्ञानम् । (तच्च बुद्धिरूपम्) यथा अयं घट इति चाक्षुषप्रत्यक्षमनुभवः । अनुभवामि इत्यनुगतप्रतीतिसिद्धावनुभवत्वजातिमान् (न्या० म० १ । २ । त० कौ० १ । ६) (न्या० को०) । यथा च – स च द्विविधः यथार्थानुभवः अयथार्थानुभवश्चेति । तद्वति तप्रकारकानुभवो यथार्थः । अयमेव प्रमा इत्युच्यते । तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः । अयं च अप्रमेत्युच्यते । यथार्थानुभवश्चतुर्विधः- प्रत्यक्षम् अनुमितिः उपमितिः शब्दश्चेति । एवमेव यथार्थानुभवकारणमिति चतुर्विधम् - प्रत्यक्षम् अनुमानम् उपमानम् शब्द इति (त० सं० प्र० ख०) । एवमेव अयथार्थानुभवोऽपि चतुर्विधः, तत्कारणं चापि चतुर्विधम् । इति नैयायिकमते । यथा च - अनुभवो द्विविधः- प्रमा अप्रमा चेति । तत्र प्रमारूपोऽनुभवोऽपि पुनर्द्विविधः - भ्रमः संशयश्चेति (त० कौ० ६।२ ) । इति वैशेषिकमते । यथा च - चित्तस्य विषयाकारा वृत्तिः विषयानुरूपत्वं वा । यथा वृत्तिसारूप्यमितरत्र (पा० यो० सू० १।४) । अत्र योगवार्त्तिके – गृहीतानिन्द्रियैरर्थान् आत्मने यः प्रयच्छति । अन्तःकरणरूपाय तस्मै विश्वात्मने नमः । इति विष्णुपुराणादिभ्यः । एतदुक्तं भवति – यद्यपि पुरुषश्चिन्मात्रोऽविकारी, तथापि बुद्धेर्विषयाकारवृत्तीनां पुरुषे यानि प्रतिबिम्बानि तान्येव पुरुषस्य वृत्तयः । इति पातञ्जलाः । यथा च - सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् । तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि । एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छति । सां० का० ३५, ३६ इति सांख्यविदः । अनुभावः, अनुभाव १. अनुभवार्थ इव अनुभावार्थोऽपि इत्यद्वैतवेदान्तिनः । एतदर्थमनुभवशब्दो द्रष्टव्यः । २. कर्मपुद्गलानां स्वकार्यकरणे सामर्थ्यविशेषोऽनुभाव इति आहर्ता : (स० द० सं०) । ३. रसनिष्पत्तौ तथाविधभ्रूभङ्गादिचेष्टादिविशेषोऽनुभावः । यथा उद्बुद्धं करणैः स्वैः स्वै बहिभावं प्रकाशयन् । लोके यः कार्यरूपः सोऽनुभावः काव्यनाट्ययोः (सा० द० ३ १०) । ४. सामर्थ्यं लोके यथा - महानुभावः । अनुभूतिः, अनुभूति १ . अनुभवविशेषः । एषा प्रत्यक्षानुमानोपमानशब्दरूपा अर्थापत्तिरूपा, अनुपलब्धिरूपा च यथा च - अनुभूतिः स्वयंप्रकाशा अनुभूतित्वाद् यन्नैवं तन्नैवं यथा घट इत्यनुमानम् (त० प्र० स्व० प्र०नि०) । इत्यद्वैतवेदान्तिनो भाट्टाश्च । एषा केवलं प्रत्यक्षात्मिकेति चार्वाकाः । एषा प्रत्यक्षानुमानोपमानशाब्दरूपा इति नैयायिकाः । प्रत्यक्षानुमानरूपेति वैशेषिकसौगतौ । सम्भवरूपा ऐतिहह्यरूपा चेति पौराणिकाः । चेष्टारूपापि चेत्यालङ्कारिकाः (दि० १ /१३, सि० च० २०) (न्या० को०) । यथा च - अनुभूतिर्हि स्वसद्भावेनैव कस्यचिद् वस्तुनो व्यवहारानुगुणत्वापादनस्वभावो ज्ञानावगतिसंविदाद्यपरनामा सकर्मकोऽनुभवितुरात्मनो धर्मविशेषः ( स० द० सं० रामानुजीयाः) । अनुमन्ता, अनुमन्ता अनुमोदिता । यथा - अनुमन्ता चानुमोदनमनुमननं कुर्वत्सु तत्क्रियासु परितोषस्तत्कर्तानुमन्ता च (गी० १३ । २२ शा० भा०) । यथा च - अनुमन्ता च कार्यकारणप्रवृत्तिषु स्वयमप्रवृत्तोऽपि प्रवृत्त इव सन्निधिमात्रेण तदनुकूलत्वादनुमन्ता (तत्रैव म० सू०) । यथा च - तथानुमन्ता अनुमोदितैव सन्निधिमात्रेणानुग्राहकः"साक्षी चेता केवलो निर्गुणश्च इत्यादिश्रुतेः (तत्रैव श्रीधर्याम्) । अनुमानम्, अनुमान १. अनुमितिकरणमनुमानम् । अनुमितिश्च व्याप्तिज्ञानत्वेन व्याप्तिज्ञानजन्या । व्याप्तिज्ञानानुव्यवसायादेस्तत्त्वेन तज्जन्यत्वाभावान्नानुमितित्वम् (वे० प० २प्र०) । अत्र अनुमीयतेऽनेनेति व्युत्पत्त्या येन व्याप्तिज्ञानेन अनुमितिप्रमोत्पद्यते तद्व्याप्तिज्ञानमनुमानमिति लक्षणम् । अव्युत्पन्नलोकप्रसिद्धानुमानशब्दवाच्यमनुमानं लक्ष्यम् । एवमनुमानं लक्षणं तथा लक्ष्यञ्च (विशेषज्ञानार्थं वे० प० २ प्र० द्रष्टव्यम्) । २. स्मृतिः । यथा प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यर्थः । (अपि च संराधने प्रत्यक्षानुमानाभ्याम् (ब्र० सू० ३।२।२४ शा० भा० ) । अनुव्यवसाय:, अनुव्यवसाय ज्ञानस्य ज्ञानं कथं भवतीत्यस्य समाधानार्थं नैयायिका अनुव्यसायं मन्यन्ते । अयं घट इति ज्ञानानन्तरम् अहं घटं जानामि अथवा घटमहं जानामिति ज्ञानमनुव्यवसाय: । अनेन ज्ञानस्य ज्ञानं जायते । अयमनुव्यवसाय: आत्मधर्मः। भाट्टा एतन्न सहन्ते । अतो भाट्टमतेऽयं घट इति ज्ञानानन्तरं ज्ञाते घटे ज्ञाततारूपो धर्मो भासते । अयं ज्ञातताधर्मो ज्ञानस्य ज्ञानम् अर्थापत्त्या जनयति । यदि पूर्वं ज्ञानं न स्यात् तदा कथं ज्ञातता स्यादित्येवार्थापत्तिः । व्यवहारे भाट्टनय इति रीत्या अद्वैतवेदान्तिनोऽप्येवमेव मन्यन्ते । यतो हि निर्धर्मिणि आत्मनि कथमनुव्यवसाय आत्मधर्मो भवेत् । यथा = घटैकाकारधीस्था चिद् घटमेवावभासयेत् । घटस्य ज्ञातता ब्रह्मचैतन्येनावभासते (प० द० ८।४) । अनुशयः, अनुशय भोगादवशिष्टं शुभाशुभं कर्म । यथा - कृतात्ययेऽनुशयवान् दृष्टश्रुतिभ्यां यथेतमनेवं च । (ब्र० सू० ३।११८) इति सूत्रे शा० भा० - किं निरनुशयामुक्तकृत्स्नकर्माणोऽवरोहन्त्याहोस्वित् सानुशया इति । ..... तद् य इह रमणीयचरणा ....इति चरणशब्देनानुशयः सूच्यत इति वर्णयिष्यति (तत्रैव शा० भा० ) । यथा च - अनुशयोऽत्र दत्तफलस्य कर्मणः शेष उच्यते (तत्रैव भाम० ) । यथा च- कर्मैव शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारणमिति कार्ष्णाजिनेर्मतम् । नहि कर्मणि सम्भवति शीलाद् योन्यापत्तिर्युक्ता । न हि पद्भ्यां पलायितुं पारयमाणो जानुभ्यां रंहितुमर्हति (ब्र० सू० ३।१।१० शा०भा० ) । अक्रोधः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च ज्ञानं च शीलमेतद् विदुर्जनाः इति स्मृतेः । शीलमाचारोऽनुशयाद्भिन्नः । तथाप्यस्याशयाङ्गतयाऽनुशयोपलक्षणत्वं कार्ष्णाजिनिराचार्यो मेने (तत्रैव भाम० ) । यथा - यथाग्निना हेममलं जहाति ध्मातं पुनः स्वं भजते च रूपम् । आत्मा च कर्मानुशयं विधूय । मद्भक्तियोगेन भजत्यथो माम् (भाग० ११ ।१४।२५) । अयं च अनुशयः एकभविकः अनेकभविकश्चेति (ब्र०सू० ३।१।८ वे० क० त०) । एकभविकोऽनेकभविकश्चानुशयः । सविशदं पातञ्जलयोगेसूत्रे वर्णितः । यथा च कर्तारमनुशेते अनुगच्छतीत्यर्थानुशयः (ब्र०सू० ३ ।१।८ वे०क०त० ) । २. चरणम् आचरणमित्यर्थः । यथा - चरणशब्देनानुशय सूच्यत इति वर्णयिष्यति (ब्र० सू० ३/१/८ शा० भा० ) । ३. शङ्का - पूर्वपक्षिणोऽनुशयबीजमुन्मूलयति (त० प्र० १ प० अभि० वादे० न० प्र० विषमटिप्पण्याम्) ।४. दु:खम्, पश्चात्तापः, चिन्ता च । यथा - श्रेष्ठादिविभागेऽपि पित्रा ज्येष्ठादिभ्यो दत्तेऽन्यैरनुशयो न कार्यः (वीरमित्रोदये दायभागे विभागकालकर्तृनिर्णये)। अनुशयी, अनुशयी पूर्वजन्मकृतकर्मवासनाश्रयरूपाशयवान् । यथा - अन्यैर्जीवैरधिष्ठितेषु ब्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते न तत्सुखदुःखभाजो भवन्ति (ब्र० सू० ३।१ । २४ शा० भा० ) । दुर्निष्प्रतरम् इति दुःखेन निःसरणं ब्रूते न विलम्बेनेति मन्यते पूर्वपक्षी (तत्रैव भाम०) । विशदज्ञानाय अनुशयशब्दोऽपि द्रष्टव्यः । अनुषङ्ग:, अनुषङ्ग १. परस्परसम्बन्धः, २. अविनाभाव:- यथा सुखं दुःखानुषङ्गं समवैत्यादौ (त० भा० ४१) ३. नेदीयः स्थानान्तरस्थितस्य (पदस्य) क्वचिदनुसन्धानम् (दि० ४।१८८)। यथा पञ्चावयववाक्येषूपनयवाक्यस्थस्यायमिति पदस्य तस्माद् वह्निमान् इति निगमनवाक्येऽनुषङ्गः । ३. (क) प्रसङ्गः । स चान्योद्देशेन प्रवृत्तस्य तन्नान्तरीयकविधयान्यसिद्धिः । यथा- अयं केचिदुपात्तस्य दुरितस्य प्रचक्षते । अनुपपत्तिं चान्ये प्रत्यवायस्य मन्वते । नित्यक्रियं तथा चान्ये ह्यनुषङ्गयुतां श्रुतिम् इत्यादौ (वाचस्पत्यम्) । नान्तरीयविधयान्यसिद्धिश्च यथा विप्रवधप्रायश्चित्तेन तद् नान्तरीयकविधया अवगूरणदण्डनिपातनप्रायश्चितसिद्धिः । नान्तरीयकत्वं च तत्सत्तासमनियतसत्ताकत्वम् । (ख) अन्यार्थप्रवृत्तस्य नान्तरीयकफलजनकत्वमित्यपि केचित् । अनुसन्धानम्, अनुसन्धान अनु पश्चात् – अर्थाद् वाक्यश्रवणानन्तरमर्थस्य सम्यक् प्रकारेण धारणं संग्रहणम् । एतच्चानुसन्धानं वेदान्तवाक्यानां श्रवणरूपं तथा मननरूपं च । यथा - इत्थं वाक्यैस्तदर्थानुसन्धानं श्रवणं भवेत् । युक्त्या सम्भावितत्वानुसन्धानं मनतं तु तत् (प० द० १ ।५३) । अत्र श्रीरामकृष्णः - वाक्यैस्तत्त्वमस्यादिवाक्यैरर्थानुसन्धानं तेषां वाक्यानामर्थस्य जीवब्रह्मणोरेकत्वलक्षणस्यानुसन्धानं श्रवणं भवेत् । युक्त्या शब्दस्पशार्दयो वेद्या इत्यादिना परापरात्मनोरेवं युक्त्या सम्भावितैकता इत्यन्तेन ग्रन्थसंदर्भेणोक्तप्रकारेण सम्भावितत्वानुसन्धानं श्रुतस्यार्थस्योपपाद्यमानत्वज्ञानं यदस्ति तत्तु मननमित्युच्यते । इत्यद्वैतवेदान्तिनः । २. उपनयः = यो यो धूमवान् स स वह्निमान् यथा महानसम् इत्युदाहरणज्ञानानन्तरं तथा चायं पर्वत इत्युपनयः इति नैयायिकाः । ३. अन्वेषणं गवेषणा शोधकार्यमित्याधुनिकाः । अनुस्मृतिः, अनुस्मृति स्वाकारस्य बाह्यतया अध्यवसानम् । यथा - अनुभवम् उपलब्धिम् अनूत्पद्यमानं स्मरणमेवानुस्मृतिः (ब्र० सू० २।२।२५ शा० भा०) । यथा च - अयमर्थः विकल्पप्रत्ययोऽयं विकल्पश्च स्वाकारं बाह्यतयाध्यवस्यति, न तु तत्त्वतः पूर्वापरौ क्षणौ तयोः सादृश्यं वा गृह्णाति (तत्रैव भाम० वैनाशिकमतखण्डने)। अनृतम्, अनृत १. अज्ञानम् । यथा- छान्दोग्ये अष्टमाध्याये - तद् यथापि हिरण्यं निधिनिहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुरेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन प्रत्यूढ़ा इति श्रुतिर्ब्रह्मज्ञानप्रतिबन्धकत्वेनानृतं ब्रुवाणा तादृगज्ञाने प्रमाणम् । न च ऋतशब्दस्य ऋतं पिबन्तावित्यत्र सत्कर्मणि प्रयोगदर्शनात् ऋतं सत्यं तथा धर्म इति स्मृतेश्च ऋतशब्दस्य सत्कर्मपरत्वमिति वाच्यम् ।..... अनृतनीहारादिशब्दानां दुष्कर्मपरत्वे श्रुत्यन्तरोक्तजीवेशभेदकत्वोपादानत्वादिविरोधाच्च । तस्मादनृतेन प्रत्यूढ़ा नीहारेण प्रावृताः तम आसीत् माया तु प्रकृतिं विद्यात् अजामेकां लोहितशुक्लकृष्णाम् अविद्यायामन्तरे वर्तमानाः भूयश्चान्ते विश्वमायानिवृत्तिरित्याद्याः श्रुतयो वर्णिता अज्ञाने प्रमाणमिति स्थितम् (अ० सि० अ० १ प० श्रुत्लु०) । इत्यद्वैतवेदान्तिनः। द्वैतिनस्तु- मायानृताविद्यादिशब्दानां सत्यप्रकृत्यादिपरत्वमेव युक्तम् । न तु भावरूपाज्ञानपरम् (न्यायामृते) । अनृतम्, अनृत १. अनिर्वाच्यम्, सत्त्वेनासत्त्वेन सदसद्भिन्नत्वेन सदसदुभयत्वेन वा वक्तुमशक्यम् । मरीच्यादौ जलादिबुद्धिः । यथा - तत्त्वतस्तु न तोयं न च पूर्वदृष्टं किन्त्वनृतम्, अनिर्वाच्यम् (ब्र० सू० अध्यासभाष्ये भा० ) । यथा च - अनृतेन हि प्रत्यूढाः अन्धीभूताः अस्फुरब्रह्मस्वरूपकाः । ज्ञानप्रतिबन्धकत्वेनास्फुरणव्याप्यत्वेन (अ० सि० १ प० गौ० ब्र०) । यथा च - अनृतं यद् यदस्तीति यत्र येनात्मना प्रतीतं सत् तदेव तत्र तेनात्मना नास्तीति प्रतीतिगोचरः । यथा पुरोदेशे इदमुल्लिख्पमाने रजतमिदमिति प्रतीतं सत्समयान्तरे शुक्तिरियं न रजतमिति पूर्वप्रतीतविपरीतस्वभावतया गृह्यते तदा तत्र पूर्वदृष्टमनृतमिति प्रसिद्धं लोके । तथा च प्रतिपन्नोपाधौ निषेधप्रतियोगितया व्यवह्रियमाणमनृतमित्यर्थः (सं० शा० मं० श्लोके अ० टी० ) । ३. मृत्युः । यथा - अनृतं हि मृत्युः (बृ० आ० उ० ५/५/१ शा० भा०) । ४. मिथ्या । ५. असत् । विशदार्थं तु ऋतशब्दो द्रष्टव्यः । अनेकजीववादः, अनेकजीववाद परब्रह्मणो जीवभावापन्नार्थं त्रयो वादाः सन्ति - आभासवादः प्रतिबिम्बवादः अवच्छिन्नवादश्च । श्रीसुरेश्वराचार्याभिमतः आभासवादः श्रीपद्यपादाचार्य.... प्रकाशात्मयत्यभिमतः प्रतिविम्बवादः । उभयपक्षे प्रायः समानः प्रतिबिम्बः स्वीकृतः । किन्तु मिथ्यात्वसत्यत्वाभ्यां उभयवादे कश्चन भेदोऽङ्गीक्रियते । श्रीवाचस्पतिमिश्रस्यावच्छिन्नवादः । विवरणकारमते जीवेश्वरयोः पारमार्थिकभेदाभावेऽपि औपाधिकः कल्पितो भेदः यथा गगनसूर्यप्रतिविम्बसूर्ययोः औपाधिको भेदः । एवं च एका अविद्या उपाधिः । अत एकजीववादः । यत्र अन्तःकरणमुपाधिस्तत्र अनेकानि अन्तःकरणानि अनेके च जीवा: अतोऽनेकजीववादः । यथा - एकमेव चैतन्यं विम्बत्वाक्रान्तमीश्वरचैतन्यं प्रतिबिम्बत्वाक्रान्तं जीवचैतन्यम् । बिम्बप्रतिबिम्बकल्पको पाधिश्चैकजीववादे अविद्या । अनेकजीववादेतु अन्तःकरणान्येव । उपाधिकृतदोषाश्च प्रतिबिम्वे जीव एव न तु बिम्बे परमेश्वरे । उपाधेः प्रतिविम्बपक्षपातित्वात् (वे० प०७१०) । यथा च - अथायं जीव एकः उतानेकः । अनुपदोक्तपक्षावलम्विनः केचित् आहुः - एको जीवः । तेन चैकमेव शरीरं सजीवम् । अन्यानि स्वप्नदृष्टशरीराणि इव निर्जीवानि । तदज्ञानकल्पितं सर्वं जगत् । तस्य स्वप्नदर्शनवद् यावदविधं सर्वो व्यवहारः । बद्धमुक्तव्यवस्थापि नास्ति जीवस्यैकत्वात् । शुकमुक्त्यादिकमपि स्वाप्नपुरुषान्तरमुक्त्यादिकमिव कल्पितम् । अत्र च सम्भावितसकलशङ्काकलङ्कपङ्कक्षालनं स्वप्नदृष्टान्तसलिलधारयैव कर्तव्यम् । ....इतरे तु अत्रापि बन्धमुक्तिव्यवस्थाभावस्य तुल्यत्वेन तद् यो देवानां प्रत्यबुध्यत स एव तदभवत् (बृ० उ० १/४/१०) इत्यादिश्रुतेः प्रतिषेधादिति चेन्न शारीरात् (ब्र० सू० ४।२।१२) इत्यधिकरणे शुकमुक्तप्रतिपादकभाष्यस्य चानाञ्जस्यमित्य-परितुष्यन्तः अन्तःकरणादीनां जीवोपाधित्वाभ्युपगमेन अनेकजीववादमाश्रित्य बन्धमुक्तिव्यवस्थां प्रतिपद्यन्ते (सि० ले० सं० १ प०) । यथा च एकजीववादेऽविद्याप्रतिबिम्बो जीवः अनेकजीववादे अन्तःकरणप्रतिबिम्ब: (वे० प० ७५०) । एवमेव अन्तःकरणावच्छिन्नेऽपि अनेकजीववादे दृष्टिसृष्टिवादः । विशदज्ञानार्थमेकजीववादशब्दो द्रष्टव्यः । अनेकत्वम्, अनेकत्व १. एकत्वभिन्नसंख्याविशिष्टत्वम् (दि० मु०) । यथा - अनेके ब्राह्मणाः सन्तीत्यादौ ब्राह्मणानामनेकत्वम् । २. अपेक्षा-बुद्धिविशेषविषयत्वम् । यथाअस्मिन् द्रव्येऽनेके गुणाः सन्तीत्यादौ अनेकत्वम् । अनेजत्, अनेजत् सर्वदैकरूपम् । यथा - न एजत् एज् कम्पने कल्पनं चलनं स्वावस्थाप्रच्युतिस्तद्-वर्जितं सर्वदैकरूपमित्यर्थः (ई० उ० ४ शा० भा०) । अन्तः, अन्त (पु० लि०) समाप्तिः विरामः, अवसानं समाप्तः, अन्तिमो भागश्च । यथा वेदानामन्तः वेदान्तः वेदानामन्तिमो भाग उपनिषद्भागः । तेन वेदान्तो नामोपनिषत्प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि च (वे० सा० ) । अन्तकालः, अन्तकाल वृद्धावस्था । यथा- अस्यां ब्राह्म्यां स्थितावन्तकाले वृद्धावस्थायामपि स्थित्वा ब्रह्मणि निर्वृत्तिं मोक्षमृच्छति गच्छति (गी०२।७२ भाष्यो०) । कालसमाप्तिः, निधनम् । अन्तत्रयम्, अन्तत्रय यस्य देशतः कालतः वस्तुतश्च अन्तो निरूप्यते । यथा- देशतः कालतो वस्तुतश्च यस्यान्तो निरूप्यते तदन्तत्रयवत् । यथा घटादि देहादि वा अन्तत्रयवत् (सं० शा० मं० श्लो० अ० टी०) । अन्तवत्, अन्तवत् परमं पदम् देशकालवस्तूनां यत्रान्तः समाप्तिस्तद्वत् । यथाअभूत्वा भावित्वाद् भूत्वा च यदभावित्वात् तत्कालतोऽन्तवत् । मूर्तत्त्वाद्देशतोऽप्यन्तवत् । वस्तुतोऽप्यन्तवदन्योन्याभावप्रतियोगित्वात् आकाशकालदिशामप्यन्तवत्त्वं वस्त्वन्तरकृतपरिच्छेदलक्षणं प्रसिद्धमेव । देशतः कालतश्चान्तवत्त्वं तु तेषामुत्पत्तिप्रलयश्रुतिनिरूप्यम् । तथा चेदमेवमन्तवदिति यस्मिन्ननुगते सत्यज्ञानात्मके व्यवह्रियते तत्रान्तवतामवधितयाऽनुस्यूताकारमन्तर्विरोधितयान्तपदेन तदेव परमपदमावेद्यत इत्यर्थ: । (सं० शा० म० श्लो० अ० टी०) । अन्तर्, अन्तर् अव्ययपदम् । अन्तः = १. मध्ये २. ध्वंसः ३. चरमावयः । अन्तरिक्षम् - उद्गीथविशेषः गगनं च । यथा - उद्गीथं गगनम्, गकार विशिष्टोद्गीथः (छा० उ० २/२/१ शा० भा० ) । अन्तरङ्गसाधनम्, अन्तरङ्गसाधन साधनं द्विविधम् अन्तरङ्गसाधनं बहिरङ्गसाधनं च । यथा ब्रह्मसाक्षात्कारे श्रवणमनननिदिध्यासनादीनि अन्तरङ्गसाधनानि यज्ञदानादीनि बुद्धिशुद्धिद्वारा साधनानीति बहिरङ्कसाधनानि । यथा - तस्मादेवंविच्छान्तो दान्तः ( बृ० उ० ४।४।२३) इत्यादि । ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् (बृ० उ० ३।५।१ ) इति च ज्ञानसमकालतया तत्परिपाकहेतुत्वेन श्रुतत्वादन्तरङ्गमित्यर्थः । यज्ञादिकं बुद्धिशुद्धयादिफलजनकत्वेन कारकत्वाद् वहिरङ्गम् । श्रवणादिकं त्वात्मस्वरूपज्ञापकत्वेन व्यञ्जकत्वाद् अन्तरङ्गमित्यर्थः । (सं० शा० ३।३०-३१ सु० टी०) यथा च - तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन (बृ० उ० ४।४।२२) इत्यत्र यद् यज्ञदानादिकर्मजातं विविदिषोदयाय श्रुतं तत्सर्वं बहिरङ्गसाधनमेवेत्यवगच्छ । तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा आत्मन्येवात्मानं पश्यन् (बृ० उ० ४/४/२३) श्रद्दधानो भूत्वा आत्मन्येवात्मानं पश्येदित्यादि यत्परावगतिसाधनं परमात्मज्ञानोत्पादकतया तत्परिपाचकतया च ज्ञानसहभावि यच्छान्तिदान्त्यादिश्रोतव्य इत्यादिना वेदान्तश्रवणादि च श्रुतं तत्पुनरन्तरङ्गमवगच्छेति योजना । परमात्मनो व्यञ्जकं भवति साधनं तदखिलमन्तरङ्गसाधनमित्यर्थः । एतदुक्तं भवति ज्ञानोत्पत्तौ येषां कारकाणां दृष्टद्वारोपकारो न दृश्यते तानि कारणानि यज्ञादीन्यरादुपकारकानि बहिरङ्गसाधनानीति चोच्यन्ते । येषां तु ज्ञानं प्रति दृष्टद्वारोपकारो दृश्यते तानि व्यञ्जकानि शमादीनि तानि संनिपत्योपकारकाण्यन्तरङ्गसाधनानि चोच्यन्त इति (सं० शा० ३।३३१ अ० टी०) अन्तःकरणम्, अन्तःकरण अन्तःज्ञानसाधनं मन इति यावत् । (बुद्धिचेतोऽहङ्कारादयः पर्यायवाचिनः) इदं मनः सावयवमनित्यं च । यथा - "न तावदन्तः करणं निरवयवं सादिद्रव्यत्वेन सावयवत्वात् । सादित्वं च तन्मनोऽसृजत् इत्यादि श्रुतेः । वृत्तिरूपज्ञानस्य मनोधर्मत्वे च "कामः संकल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिरधृतिर्धीर्भीरित्येतत् सर्वं मन एव । (बृ० उ० १/५/३) इति श्रुतिमानम् । धीशब्देन वृत्तिरूपज्ञानाभिधानात् । अत एव कामादेरपि मनोधर्मत्वम् । उच्यते- अयःपिण्डस्य दग्धृत्वाभावेऽपि दग्धृत्वाश्रयवह्नितादात्याध्यासात् यथा अयो दहतीति व्यवहारस्तथा सुखाद्याकारपारिणाम्यन्तःकरणैक्याध्यासात् अहं सुखी दुःखीत्यादिव्यवहारः । (वे० प० १ प०) । एवमेव चित्तं गर्वोऽहङ्कार इत्याद्यपि अन्तःकरणमेव । अन्तः करणमिन्द्रियं न । यथा – नन्वन्तःकरणस्येन्द्रियतया अतीन्द्रियत्वात् कथमहमिति प्रत्यक्षविषयतेति । उच्यते । न तावदन्त करणमिन्द्रियमित्यत्र मानमस्ति मनः षष्ठानीन्द्रियाणि इति भगवद्गीतावचनं प्रमाणमिति चेत्, न अनिन्द्रियेणापि मनसा षट्त्वसंख्यापूरणाविरोधात् । नहीन्द्रियगतसंख्यापूरणमिन्दियेणैति नियमः । यजमानपञ्चमा इद्रां भक्षयन्ति इत्यत्र ऋत्विगूगतपञ्चत्वसंख्याया अनृत्विजापि यजमानेन पूरणदर्शनात् । वेदानध्यापयामास महाभारतपञ्चममित्यत्र वेदगतपञ्चत्वसङ्ख्याया अवेदेनापि महाभारतेन पूरणदर्शनात् । इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः (का० १/३/१०) इत्यादिश्रुत्या मनसोऽनिन्द्रियत्वावगमाच्च । न चैवं मनसोऽनिन्द्रियत्वे सुखादिप्रत्यक्षस्य साक्षात्त्वं न स्यादिन्द्रियाजन्यत्वादिति वाच्यम् । न हीन्द्रियजन्यत्वेन ज्ञानस्य साक्षात्त्वम्, अनुमित्यादेरपि मनोजन्यतया साक्षात्त्वापत्तेः । ईश्वरज्ञानस्यानिन्द्रियजन्यस्य साक्षात्त्वानापत्तेश्च (तत्रैव) । तथा मनस इन्द्रियत्वे ब्रह्मसाक्षात्कारे ब्र० सू० ४।१।२ भामत्यनुसारं मनसः कारणत्वपक्षे ब्रह्मसाक्षात्कारः इन्द्रियजन्यः स्यात् । अतोऽपि मनसोऽनिन्द्रियत्वं साधनीयम् । तत्र भामत्यामुक्तम् – युक्त्यागमार्थज्ञानाहितसंस्कारसचिवं चित्तमेव ब्रह्मणि साक्षात्कारवतीं बुद्धिवृत्तिं समाधत्ते । भामतीकारमते मनसः इन्द्रियत्वं तथा ब्रह्मसाक्षात्कारे मनः साधनमपि । यथा - मनसस्त्विन्द्रियत्वे स्मृतेरवगते क्वचिद् इन्द्रियेभ्यो भेदेनोपादानं गोबलीवर्दन्यायेन (ब्र० सू० २।४।१७ भाम० ) । क्वचिद् विवरणकारमतेऽपि अन्तःकरणस्येन्द्रियत्वमुक्तम् । यथा- चित्तेन्द्रियं पारोक्ष्यविभ्रमनिमित्त.... । (प० मा० वि० प्र० वर्णक शब्दाद् ब्रह्मसाक्षात्कारनिरूपणे) इदमन्त करणं तैजसं मध्यमपरिमाणं च । अन्तःकरणस्य मनसः अणुपरिमाणत्वे प्राणशक्त्याश्रयस्य मनसः सुदूरवर्तिध्रुवादिविषयदेशपर्यन्तं गमनेन अन्तःकरणावच्छिन्नस्य जीवस्यापि तेन सह ध्रुवादिविषयप्रदेशगमने देहस्य निर्जीवत्वापत्तेः । परममहापरिणामत्वे च आकाशादिवत् निष्क्रियत्वापत्तेः । परममहापरिणामाकाशकालादिवद् उत्क्रान्त्यादिगतिरपि न सिद्ध्येत । श्रुतौ च प्राणशक्त्याश्रयस्यान्तःकरणस्योत्कन्त्यादिगतिः श्रूयते । अतोऽन्तःकरणं मध्यमपरिमाणम् । यद्यपि मध्यमपरिमाणत्वस्वीकारे देहादिवत् तस्यापि मन्दगमनापत्तिस्तथा सुदूरवर्तिध्रुवादिप्रदेशे झटिति क्षणेन गमनानापत्तिश्च । अतोऽन्तःकरणं तैजसमङ्गीक्रियते । अन्तःकरणस्य विशेषणं तैजसम् । तेजः सत्त्वगुणं प्रकाशकं च । तेन तैजसमन्तःकरणमपि अत्यन्तस्वच्छं विरलं तेजो द्रव्यम् । अतः सूर्यकिरणवदन्तः करणं शीघ्रमेव प्रसरति । यथा - "तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा निर्गत्य घटादिविषयदेशं गत्वा घटादिविषयाकारेण परिणमते (तत्रैव ) । शाङ्कराद्वैतेऽन्तःकरणरूपस्य मनस इन्द्रियत्वं विवरणप्रस्थाने नाङ्गीक्रियते । यथा विवरणानुसारेण वेदान्तपरिभाषायाननिन्द्रियत्वं साधितं तथानुपदमुद्धृतम् । इन्द्रियाणां मनश्चास्मि इति गीतावचनानुरोधादपि मनस इन्द्रियत्वं न । यतो हि तस्मिन्नेव प्रसङ्गे नक्षत्राणामहं शशी इत्यप्युक्तम् । वस्तुतश्चन्द्रो नक्षत्रं नास्ति । अतोऽत्र लक्षणया व्यवहर्तव्यम् । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चेति मुण्डकश्रुतिरपि अनिन्द्रियत्वे मानम् । ब्र० सू० शा० भा० भामत्यां च मनस इन्द्रियत्वमपि लक्ष्यते । यथा- ननु मनसोऽप्येवं सति वर्जनमिन्द्रियत्वेन प्राणवत्स्यात् "मनः सर्वेन्द्रियाणि च" इति पृथग् व्यपदेशदर्शनात् । सत्यमेतत् । स्मृतौ त्वेकादशेन्द्रियाणीति मनोऽपीन्द्रियत्वेन श्रोत्रादिवत् संगृह्यते । प्राणस्य त्विन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसिद्धमस्ति (ब्र० सू० २।४।१७ शा० भा० ) । अत्र भामत्यां मनसस्त्विन्द्रियत्वे स्मृतेरवगते क्वचिदिन्द्रियेभ्यो भेदेनोपादानं गोबलिवर्दन्यायेन । अथवा इन्द्रियाणां वर्तमानमात्रविषयत्वात् मनसस्तु त्रैकाल्यगोचरत्वाद् भदेनाभिधानम् । एकस्मिन् स्थले विवरणकारश्चित्तमिन्द्रियमित्यप्यलिखत् - चित्तेन्द्रियं पारोक्ष्यविघ्नमनिमित्तप्रतिबन्धनिरासेन शब्दादेव अपरोक्षनिश्चयनिमित्तं भवतीति गम्यते । लोके तु अतिसूक्ष्मतरवस्तुनिर्धारणे चित्तैकाग्र्यविशेषापेक्षाया दर्शनात् । एवं च ते त्वौपनिषदम् इति तद्धितप्रत्ययेन ब्रह्मावगतिहेतुत्वं शब्दस्य दर्शयितमुपपन्नं भवति (प० पा० वि० १ घ०) । अन्तःकरणस्य शक्तिद्वयम् ज्ञानशक्तिः क्रियाशक्तिश्च । तत्र सुषुप्तौ ज्ञानशक्तियुक्तोऽहं विनश्यति । यथा - अन्तःकरणस्य द्वे शक्तीज्ञानशक्तिः क्रियशक्तिश्च । तत्र ज्ञानशक्तिविशिष्टान्तःकरणस्य सुषुप्तौ विनाशः (वे० प० ७ प०) यथा च - यद्यपि महाप्रलये नान्तःकरणादयः समुदाचारवृत्तयः सन्ति तथापि स्वकारणेऽनिर्वाच्यायामविद्यायां लीनाः सूक्ष्मेण शक्तिरूपेण कर्म विक्षेपाविद्यावासनाभिः सहावतिष्ठन्त एव (ब्र० सू० १ ।३।३० भाम०) । यथा च सर्वोऽपि हि प्रपञ्चस्तदानीमविद्याचित्रभित्तौ संस्कारमात्रशेषं स्थित्वा पुनरुद्भवतीत्यङ्गीक्रियते (ब्र० सू० 91919 अध्यासभाष्ये वे० क० तरौ ) । श्रीमधुसूदनसरस्वती तु सिद्धान्तबिन्दौ (१) एवं प्रकारेण मनसो रूपं भेदं कार्यं च निरूपितवान् - न च सावयवत्वात् परिणममानो देहाभ्यन्तरे घटादौ च सम्यग् व्याप्य देहघटयोर्मध्येऽपि चक्षुर्वदवच्छिन्नो व्यवतिष्ठते । तत्र देहावच्छिन्नान्तःकरणभागोऽहङ्काराख्यः कर्तेत्युच्यते देहविषयमध्यवर्ती दण्डायमानो वृत्तिज्ञानाख्यः क्रियेत्युच्यते । विषयव्यापकस्तद्भागो विषयस्य ज्ञानकर्मत्वसम्पादकमभिव्यक्तियोग्यत्वमित्युच्यते । तस्य विभागस्यान्तःकरणस्यातिस्वच्छत्वाच्चैतन्यं तत्राभिव्यज्यते । तस्य चाभिव्यक्तस्य चैतन्यस्यैकत्वेऽपि अभिव्यञ्जकान्तःकरणभेदात् त्रिधाव्यपदेशो भवति । कर्तृभावावच्छिन्नश्चिदंशः प्रमाता । क्रियाभागावच्छिन्नश्चिदंशः प्रमाणम् । विषयगताभिव्यक्तियोग्यत्वभागावच्छिन्नश्चिदंशः प्रमितिः । प्रमेये तु विषयगतं ब्रह्मचैतन्यमेवाज्ञातम् । तदेव च ज्ञातं तत्फलम् । मनस इन्द्रियत्वे प्रत्यक्षप्रयोजके जाते परोक्षप्रिया इव हि देवा: प्रत्यक्षद्विषः (बृ० उ० ४ । ४ । २) इति श्रुतिर्विरुध्येत । अन्तःकरणवृत्तिः, अन्तःकरणवृत्तिः तैजसस्यान्तःकरणस्य चक्षुरादिना घटादिविषयदेशं गत्वा घटाद्याकारेण परिणामः । यथा - तत्र यथा तडागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान् प्रविश्य तवदेव चतुष्कोणादयाकारं भवति । तथा तैजसमन्तःकरणपि चक्षुरादिद्वारा निर्गत्य घटादिविषयदेशं गत्वा घटादिविषयाकारेण परिणभते । स एव परिणामो वृत्तिरित्युच्यते । (वे० प० १ ५०) अनया वृत्त्यैव प्रमाणचैतन्यस्य विषयावच्छिन्नचैतन्येन सहाभेदो जायते । ततश्च घटादिविषयप्रत्यक्षं भवति । चैतन्यं च त्रिविधं भवति विषयचैतन्यं प्रमाणचैतन्यं प्रमातृचैतन्यं च । अन्तःकरणवृत्तिरेव इन्द्रियजन्यं ज्ञानमुच्यते । यथा - इन्द्रियजन्यज्ञानं चान्तःकरणवृत्तिः (व० प० ७ प०) । साकारद्रव्यसम्बद्धान्तःकरणस्य द्रव्याकारसमानाकारता तु भवितुमर्हत्येव किन्तु आकाररहितैर्गुणैः सम्बद्धस्वान्तःकरणस्यापि गुणाकारसमानाकारता भवति । यतो हि गुणादीनां द्रव्याभिन्नत्वं स्वीकृतम् । यथा शङ्कराचार्येण भाष्ये उक्तम्- तस्माद् द्रव्यात्मकता गुणस्य । एतेन कर्मसामान्यविशेषसमवायानां द्रव्यात्मता व्याख्याता । अन्तःकरणवृत्तेः प्रयोजनद्वयम् । अन्तःकरणवृत्तिरावरणभङ्गार्था इत्येकं मतं तथा सम्बन्धार्था चिदुपरागर्था वा इत्यपरं मतम् । यथा - आवरणभङ्गजनकत्वमित्यावरणाभिभवार्था वृत्तिरुच्यते । .... एवं जीवस्यापरिच्छिन्नत्वेऽपि वृत्तेः सम्वन्धार्थत्वं निरूपितम् (वे० प० ७ १०) । यथा च - अत्र च यस्मिन् पक्षेऽन्तःकरणावच्छिन्नो जीवः यस्मिंश्च पक्षे सर्वगतोऽसङ्गोऽविद्याप्रतिबिम्बो जीवस्तत्रोभयत्रापि प्रमातृचैतन्योपरागार्था विषयगतचैतन्यावरणभङ्गार्था चान्तःकरणवृत्तिः । यस्मिंश्च पक्षे अविद्यावच्छिन्नः सर्वगतो जीव आवृतस्तस्मिन् पक्षे जीवस्यैव जगदुपादानत्वेन सर्वसम्बद्धत्वादावरणभङ्गार्थावृत्तिरिति विवेकः । ननु चिदुपरागार्था वृतिरिति पक्षे स्वतोऽन्तःकरणसम्बद्धानां धर्माधर्मादीनां ब्रह्मणश्च वृत्तिमन्तरेण सर्वदा भानं स्यात् । नं स्यात्, चैतन्यस्य तत्तदाकारत्वाभावात् (सि० वि०) । Xअन्तर्धानम्, अन्तर्धान १ . गोपनम् । २. उपधानम् । यथा उपाधानाद् अन्तर्दधते । अत्र स्वनिष्ठो योऽन्यकर्तृकदर्शनविषयताविरहस्तदुद्देश्यको व्यापारः, स्वनिष्ठप्रत्यक्षविरोधिव्यापार इति यावत् धात्वर्थः। अन्तःप्रज्ञः, अन्तःप्रज्ञ अन्त प्रबुद्धः बहिर्विषयनिरपेक्षज्ञानः । यथा - इन्द्रियापेक्षयाऽन्तःस्थत्वान्मनसस्तवासनारूपा च स्वप्ने प्रज्ञा यस्येत्यन्तः प्रज्ञः (मा० उ० का० १ ४ शा० भा० ) । एतद्भिन्नः बहिष्प्रज्ञो भवति । अन्तर्यामी, अन्तर्यामी १. सर्वप्राणिनामन्तः यो यमयति नियन्त्रयति । स परमात्मा । यथा एवं प्राप्त इदमुच्यते योऽन्तर्याम्यधिदैवादिषु श्रूयते स परमात्मैव स्यान्नान्य इति । कुतः तद्धर्मव्यपदेशात् (ब्र० सू० १ । २ । १८ शा० भा०) । यथा च एवं प्राप्तेऽभिधीयतेदेहेन्द्रियाभिनियमे नास्य देहेन्द्रियान्तरम् । तत्कमेपार्जितं तदविद्यार्जितं जगत् । ... तथा च सर्वं विकारजातं तदविद्याशक्तिपरिणामस्तस्य शरीरेन्द्रियस्थाने वर्तत इति यथायथं पृथिव्यादिदेवतादिकार्यकारणैस्तानेव पृथिव्यादिदेवान् शक्नोति नियन्तुम् एवं चाधिदेवतादिष्वेकस्यैवान्तर्यामिणः प्रत्यभिज्ञानं समञ्जसं भवति ( तत्रैव भाम०) । २. सर्वनियन्ता । यथा - एष हि सर्वस्य सर्वभेदावस्थो ज्ञातेत्येष सर्वज्ञ एषोऽन्तर्याम्यन्तरमनुप्रविश्य सर्वेषां भूतानां नियन्ताप्येष एव (मा० उ० का० १।४ शा० भा०) । अन्धः, अन्ध १. कष्टप्रदम् अज्ञानम् । यथा- अन्धेनार्दनात्मकेनाज्ञानेन (ई० उ० म० ३ शां० भा०) २. नेत्रहीनः । अन्नम्, अन्न १. देवानां भोग्यम् - गौणीवृत्त्या अयमर्थः । यथा - एष सोमो राजा तद् देवानामन्नं तं देवा भक्षयन्ति (छा० उप० ५/१०/४) (ब्र० सू० ३।१।६) । यथा च – भाक्तमेषामन्नत्वं न मुख्यम् । अन्नशब्दश्चोपभोगहेतुत्वसामान्यादनन्नेऽप्युपचर्यमाणो दृश्यते । यथा विशोऽन्नं राज्ञां पशवोऽन्नं विशामिति । तस्मादिष्टस्त्रीपुत्रभिन्नभृत्यादिभिरिव गुणभावोपगतैरिष्टादिकारिभिर्यत् सुखविहारिणां देवानां तदेवैषां भक्षणमभिप्रेतं न मोदकादिवच्चर्वणं निगरणं वा "न ह वै देवा अश्नन्ति न पिबन्त्येदेवामृतं दृष्ट्वा तृप्यन्ति (छा० उप० ३।६।१ ) । इति च देवानां चर्वणादिव्यापारं वारयति । तेषां चेष्टादिकारिणां देवान् प्रति गुणभावोपगतानामप्युपभोग उपपद्यते राजोपजीविनामिव परिजनानाम् । अनात्मवित्वाच्चेष्टादिकारिणां देवोभोग्यभाव उपपद्यते । तथा हि श्रुतिः - अनात्मविदां देवोपभोग्यतां दर्शयति । अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं देवानाम् (बृ० उ० ३ । १ ।१०) इति (ब्र० सू० ३।१।७) । २. ब्रह्म । यथा - अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति (तै० उ० ३ । २) । यथा च - अन्नं न निन्दयात् । तद्व्रतम् । (तै० उ० ३।७) । अन्नमयः, अन्नमय प्रचुरार्थे मयट् । तेन अन्नप्रचुर इत्यर्थः । यथा- आनन्दमयोऽभ्यासादिति ब्रह्मसूत्रम् (१।१।१२) । यथा वा ब्राह्मणमयो ग्रामस्तद्वत् अन्नमयो यज्ञ इति । अन्नमयम्, अन्नमय शारीरं ब्रह्म । अन्नमयादिशरीरपरम्परयोपचरितोऽयं शब्दः शरीरस्थिते ब्रह्मणि । यथा - शारीरत्वमप्यानन्दमयस्यान्नमयादिशरीरपरम्परया प्रदर्श्यमानत्वात्, न पुनः शारीरत्वं संसारिवत् (ब्र० सू० १/१/१२ शां० भा० ) । अन्नमयकोशः, अन्नमयकोश शरीरत्रयं भवति - कारणशरीरम्, सूक्ष्मशरीरम् (लिङ्गशरीरम्) स्थूलशरीरं च । एतदर्थं पञ्चकोशाः सिद्धान्तिताः- आनन्दमयकोशः विज्ञानमयकोशः मनोमयकोशः प्राणमयकोशः अन्नमयकोशः । एतेषु स्थूलशरीरमन्नमयकोश उच्यते । यथा – अत्रापि चत्रुर्विधसकलस्थूलशरीरमेकानेकबुद्धिविषयतया वनवज्जलाशयवद्वा समष्टिः वृक्षवज्जलवद्वा व्यष्टिरपि भवति । एतत् समष्ट्र्युपहितं चैतन्यं वैश्वानरो विराडिति चोच्यते सर्वनराभिमानित्वाद् विविधं राजमानत्वाच्च । अस्यैषा समष्टिः स्थूलशरीरमन्नविकारत्वादन्नमयकोशः स्थूलभोगायतनत्वाच्च स्थूलशरीरं जाग्रदिति च व्यपदिश्यते (वे० सा० ) । अन्यथाख्यातिः, अन्यथाख्याति प्रसिद्धासु पञ्चसु ख्यातिषु (विभ्रमेषु) आत्मख्यात्यसत्ख्यात्यख्यात्यन्यथाख्यात्यनिर्वचनीयख्यातिषु अन्यतमा अन्यथाख्यातिर्नैयायिकानाम् । यथा- शुक्तिशकलं रजतत्वेनावगाह्य इदं रजतमिति प्रत्यक्षविभ्रमो जायते । अत्र शुक्तिविशेष्यकं रजतत्वप्रकारकं ज्ञानं जायते । तेन प्रत्यक्षेण ज्ञानस्य शुक्तिनिष्ठविशेष्यतानिरूपितरजतत्वनिष्ठप्रकारताशालित्वं सिद्ध्यति । अत्र मते सन्मात्रविषयकं विशेष्यावृत्तिप्रकारकं व्यधिकरणप्रकारकं ज्ञानमन्यथाख्यातिरित्युच्यते । अतो व्यधिकरणनिष्ठप्रकारताशालित्वेन अन्यधर्मावगाहनेन अन्यथाख्यातिरिति शब्दयते । एवं च पुरोवर्तिनि परिस्फुरति वस्तुनि रजतार्थिनां प्रवृत्तिः रजतमिदमिति तादात्यव्यवहारश्च भवति । एतच्च रजतप्रकारतानिरूपिततादात्यसंसर्गतानिरूपितेदन्त्वावच्छिन्नविशेष्यताशालिबोधादेव सम्पद्येत नान्यथा । इदं रजतत्वेन जानामीत्यनुव्यवसायप्रत्यक्षं नेदं रजतमिति बाधज्ञानानन्तरं इदं रजतत्वेनावेदिषम् इत्यनुभवश्च अन्यथाख्यातौ प्रमाणम् । अत एवोक्तं ब्रह्मसिद्धौ तस्मादवश्यं प्रतिषेध्यप्राप्तये विपरीतख्यातिरुपासनीया (ब्र० सि० ब्रह्मकाण्डे ) । इदं रजतमितिभ्रमे इदमर्थः इन्द्रियसंयोगेन लौकिकसन्निकर्षेण भासते । रजतं च भासमानं नान्तरम् । तस्याप्रामाणिकत्वात् । नाप्यन्तमसत् । तस्येन्द्रियसन्निकर्षाभावेन प्रत्यक्षे भानायोगात् । नापि तत्कालोत्पन्नं रजतम् । रजतावयवसामग्रीविरहेण रजतोत्पत्तेरसम्भवात् । नापि रजतसंस्कारसहकृताविद्याकार्यं नेदं रजतमिति ज्ञानबाध्यं चानिर्वचनीयं रजतम् । जलबुद्बुदोत्पतिविनाशवत् तादृशप्प्रातिभासिकरजतोत्पादनाशयोरननुभवेन तादृशे रजते प्रमाणाभावात् । किन्तु आपणादौ विद्यमानं परमार्थरजतमेव । न च तेन चक्षुषः संयोगाभावात् कथं तद् रजतं चाक्षुषभ्रमे भासेतेति वाच्यम् । द्रव्यविषयकलौकिकचाक्षुषप्रमायामेव चक्षुः संयोगस्य हेतुत्वात् ! तदभावेऽपि उपनयवशात् चाक्षुषभ्रमे तस्य भानाविरोधात् । उपनयश्च संस्कारः । तस्य सर्वसम्मतत्वात् । रजतभ्रमस्य संस्कारजन्यत्वे स्मृतित्वापत्तिरिति यदि मन्यते, तदा रजतस्मरणमेव ज्ञानलक्षणात्मकः अलौकिकः सन्निकर्षः । आवश्यकश्च ज्ञानलक्षणाभ्युपगमः । कथमन्यथा चन्दनखण्डदर्शनमात्रेण सुरभिश्चन्दनखण्ड इति चाक्षुषप्रत्यक्षमुपपद्यते (वी० सुब्रह्मण्यशास्त्रिणः ख्यातितत्त्वसमीक्षाग्रन्थे ) । यथा च अत्र अद्वैतिनः प्रत्यवतिष्ठन्ते प्रत्यक्षसामान्यं प्रति विषयेन्द्रियसंयोगस्य हेतुत्वात् आपणस्थरजते इन्द्रियसंयोगस्याभावात् तत्र न चाक्षुषप्रत्यक्षं जायेत । न च लौकिकप्रमारूपप्रत्यक्षे इन्द्रियसंयोगः कारणं भ्रमादौ तु उपनयः कारणमिति वक्तव्यम् । तादृशहेतुताकल्पने गौरवात् तथा निर्विकल्पकप्रत्यक्षसाधारण्येन चोक्तहेतुताया असम्भवात् । अपरं च ज्ञानलक्षणाप्रत्यासत्तिर्नाङ्गीक्रियते । सुरभि चन्दनम् इत्यत्र चन्दनखण्डं पश्यामि सौरभं स्मरामि इत्येवानुभवः । अतो ज्ञानलक्षणाप्रत्यासत्तेर्नावश्यकता । तथा ज्ञानस्य प्रत्यासत्तित्त्वे तु अनुमानोच्छेदापत्तिः स्यात् । अपरं च पूर्वं रजतत्ववत्त्वेन रजतत्वावच्छेदकत्वेन वा अनवगते शुक्तिशकले रजतज्ञानस्य सन्निकर्षत्वं न कदापि सम्भवति। नैयायिकैः भ्रमस्थले व्यधिकरणप्रकारत्वमिष्यते । एतच्च अन्यत्र कुत्रापि नास्ति । अतः असत् । असतश्च सन्निकर्षाभावेन अप्रत्यक्षता । तस्माद् इदं रजतमित्यादिभ्रमस्थले अनिर्वचनीयं मायिकं तादृशवैशिष्टयं भासते इत्येव वक्तव्यम् । यथा च - नाप्यन्यत्र स्थितस्य रूप्यस्य भानाद् अन्यथाख्यातिः । अत्यन्तासत इवान्यत्र सतोऽप्यपरोक्षप्रतीतिप्रयोजकसन्निकर्षानुपपत्तेस्तुल्यत्वात् (अ०सि०१ प०) ।यथा च - ननु तर्हि अन्यथा प्रतिभासाद् विपरीतख्यातिरेवेति । ननु च विपरीतख्यातिरपि प्रतिभासविरोधान्न युक्तेति न अभिप्रायापरिज्ञानात् (न्यायभूषणे ) । यथा च - स्वरूपेण मरीच्यम्भो मृषा वाचस्पतेर्मतम् । अन्यथाख्यातिरिष्टास्येत्यन्यथा जगृहुर्जना: (ब्र० सू० उपो० भाम०) । अन्योऽन्यम्, अन्योऽन्य अन्यच्च अन्यच्चेत्यन्योऽन्यं परस्परमित्यर्थः । अन्योऽन्याध्यासः, अन्योऽन्याध्यास अन्यस्मिन् अन्यप्रतिभासनम् । अध्यासो नाभ परत्र पूर्वदृष्टावभासः । विस्तरस्तु अध्यासशब्दे द्रष्टव्यः । यथा - अन्योन्यार्थाध्यासे मिथुनीकरणमित्यर्थः । प्रत्यकूपरागुरूपं ह्यन्योन्यात्मकमन्योन्यधर्मवच्चाध्यस्तं तस्य मिथुनीकरणं नाम ज्ञानाध्यासस्तदुभयावच्छिन्नमेकं ज्ञानमिति यावत् (सं० शा० १/२१ सु० टी०) । अन्योऽन्याभावः, अन्योऽन्याभाव अन्यस्य अन्यस्मिन्नभावः, घटः पटो नेत्युदाहरणम् । यथा - इदमिदं नेति प्रतीतिविषयोऽन्योन्याभावः । अयमेव विभागो भेदः पृथक्त्वं चेति व्यवह्रियते । भेदातिरिक्तविभागादौ प्रमाणाभावः । अयं चान्योन्याभावोऽधिकरणस्य सादित्वे सादिः, यथा घटे पटभेदः । अधिकरणस्यानादित्वेऽनादिरेव, यथा जीवे ब्रह्मभेदः, ब्रह्मणि वा जीवभेदः । द्विविधोऽपि भेदो ध्वंसप्रतियोग्येव, अविद्याया निवृत्तौ तत्परतन्त्राणां निवृत्त्यवश्यम्भावात् (वे० प०६ प०) । न्यायानुसारं यथा- तादाल्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः । यथा घटः पटो नेति (त०सं०) । अद्वैतिभिरेतल्लक्षणं निराक्रियते । यथा - तादात्यप्रतियोगिकोऽभावोऽन्योन्याभाव इत्यपि न । घटपटयोस्तादात्यस्यैवाप्रमितत्त्वेन प्रमितिनिषेधवादिनस्तन्निषेधस्याशक्यत्वात् । प्रमिते घटे प्रमितपटत्वप्रतिषेधे च भूतले घटनिषेधवत्संसर्गाभावापत्तेः । प्रतियोग्यनिष्ठो नित्योऽभावोऽन्योन्याभाव इत्यपि न विकल्पानुपपत्तेः । प्रतियोगि शब्देन किमन्यदुच्यते । किं वा निरूपकः । विरोधो वा । नाद्यः धर्मिणोऽपि स्वस्मादन्यत्वेनासम्भवित्वात् । ...अस्तु वा यः कश्चिदविचारितरमणीयः प्रतियोगी । तथापीदं भवान् पृष्ठो व्याचष्टाम्- किमेको जगति अन्योन्याभावः किं वा बहवः (त० प्र० अन्यो० नि०) । अन्वयः, अन्वयः १. सदा सहचरः तत्सत्त्वे तत्सत्त्वमिति । २. साधनसत्त्वे साध्यसत्त्वम् अन्वयः । ३. काव्ये कर्तृकर्मक्रियाविशेषणादीनां यथाक्रमं प्रतिपादनमन्वयः । अन्वयव्यतिरेकः, अन्वयव्यतिरेक तत्सत्त्वे तत्सत्त्वमन्वयः । तदभावे तदभावो व्यतिरेकः । तथा साधनाभावे साध्याभावो व्यतिरेकः । अन्वयव्यतिरेकि, अन्वयव्यतिरेकिन् नैयायिकाभिमत एकोऽनुमानप्रकारो लिङ्गभेदश्च । यथा लिङ्गं त्रिविधम् अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयतिरेकि । यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र यत्र धूमस्तत्राग्निरिति अन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाहृद इति व्यतिरेकव्याप्तिः (त० सं० अ० ख०) अन्वयि, अन्वयिन् अनुमानप्रकारः । अद्वैतवेदान्ते अन्वयिरूपमेवानुमानम् । यथा तच्चानुमानमन्वयिरूपमेकमेव न तु केवलान्वयि । सर्वस्यापि धर्मस्यास्मनुमते ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वेन अत्यन्ताभावाप्रतियोगिसाध्यकत्वरूपकेवलान्वयित्वस्यासिद्धेः (वे० प० २ प०) । अन्विताभिधानम्, अन्विताभिधान शाङ्करवेदान्ताभिमताखण्डार्थबोधार्थं पक्षद्वयम् १. अभिहितान्वयवादः २. अन्विताभिधानवादश्च । अभिहितान्वयवादे प्रथमं पदेभ्यस्तदर्था उपतिष्ठन्ति । ततः परम् आकाङ्क्षायोग्यतासन्निधिबलात् तात्पर्यानामशक्त्या तेषामर्थानां परस्पररूपो वाक्यार्थः समुल्लसति इति श्रीकुमारिलभट्टप्रभृतीनां मतम् । अस्मिन् मते पदे पदार्थानुभावकशक्तिरेका । यया पदार्थानामनुभवो जायते । किन्तु अयमनुभवो न स्मृतिर्नाप्यनुभवः इति अभिधाप्रदेन व्यवह्रियते । एवं च पदैः पदार्था अभिधीयन्ते । अभिहितेषु च पदार्थेषु एकाशक्तिः । या स्वरूपसती वाक्यार्थमनुभावयति । अत्र अभिहिता: पदार्था एव वाक्यार्थं प्रमापयन्ति । न वाक्यं वाक्यार्थं प्रमांपयति । पदद्वारकं परम्परया जनकत्वमादाय वाक्यस्यापि प्रमाणत्वेन व्यवहारः । उक्तं च श्लोकवार्त्तिके सप्तमे वाक्याधिकरणे । अन्विताभिधानवादे अभिधाशक्त्या पदेभ्योऽन्विता एव पदार्था उपतिष्ठन्ति । अतः परं पदार्थानां परस्परसम्बन्धरूपो वाक्यार्थः समुल्लसति इति श्रीप्रभाकरगुरुप्रभृतीनां मतम् । अस्मिन् पक्षे पदैः पदार्थानां स्मरणं स्मृतानां पदार्थानां च संसर्गोऽपि पदैरेव अवगम्यते । अत्र पदे शक्तिद्वयम्एका स्मारिकाशक्तिः या ज्ञायमानैव पदार्थं स्मारयति । अपरा अन्वयानुभाविका शक्तिः या तु स्वरूपसती वाक्यार्थमन्वयं गमयति । अस्मिन् पक्षे वाक्यमेव वाक्यं प्रमापयति । प्रथमपक्षे तात्पर्या वृत्तिः कल्पनीया भवति । द्वितीयपक्षे तात्पर्यवृत्तेर्नावश्यकता । प्रथमपक्षे वाच्यार्थो वाक्यार्थश्च परस्परं भिन्नः द्वितीयपक्षे वाच्यार्थ एव वाक्यार्थस्तथा तात्पर्यवृत्तेरावश्यकता च न भवति । श्रीमण्डनमिश्रवाचस्पतिमिश्रचित्सुखाचार्यप्रभृतयोऽभिहितान्वयवादमाश्रित्य अखण्डार्थबोधं समर्थयन्ति । खण्डनखण्डखाद्यस्य विद्यासागरीटीकायां विवेचितमिदम् । श्रीचित्सुखाचार्यैरभिहितान्वयवादेऽन्विताभिधानवादे च शक्तित्रयकल्पनादिलाघवगौरवविवेचनपूर्वकमभिहितान्वयवाद एव श्रेयानिति प्रत्यपादि । यथा- तथा हि स्वार्थपरित्यागे विशिष्टसाध्यप्रतीत्यभावादेवाविघातकत्वात् अपरित्यागे च तत्रैवानैकान्तिकत्वात् मुख्यार्थबाधोपाधिप्रयुक्तत्वाच्च स्वार्थपरित्यागस्य इह च बाधाभावान्न स्वार्थपरित्यागानुमानं तस्मादभिहितान्वयवाद एव श्रेयान् इति केचिदाचार्याः । न चैवमपसिद्धान्तः । भाष्यकारसम्मतत्वात् । तथा च समन्वयसूत्रे वेदान्तवाक्यानि प्रस्तुत्य भाष्यकारः प्रतिपादयति स्म - न च तद्गतानां पदार्थानां ब्रह्मस्वरूपविषये निश्चिते समन्वये ऽवगम्यमानेऽर्थान्तरकल्पना युक्ता । श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् । तत्र च पदार्थानामेवान्योन्यान्वयप्रत्यायकता प्रतीयते । मण्डनमिश्रादिभिरप्यङ्गीकृतत्वात् । पदार्थान्तरतुल्यत्वाद् विध्याकाङ्क्षानिबन्धनः । न संसर्गः पदार्थानां स्वशब्देस्तु प्रदर्शितः। सम्बन्धयोग्यरूपेण तस्मात् सम्बन्धभागिनः । विशिष्टार्थप्रयुक्ता हि समभिव्याहृतिर्जन इति । व्यवहारे भट्टनय इत्यङ्गीकारात् । भट्टपादैश्च वाक्यार्थस्य सर्वत्र लाक्षणिकत्वस्वीकारात् वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति च स्थितिरिति । तस्मात्पौरुषेयवाक्येभ्य इवापौरुषेयेभ्यो वेदान्तवाक्येभ्यो लक्षणया यथोक्तलक्षणं ब्रह्म सिद्धयतीति सिद्धम् (त० प्र० १ प० ) । यथा च अन्विताभिधानवादिनां परदृष्टिपदजस्मृतिद्वये सति पदयुगलात् प्रतीतेः संसर्गबोधस्य समुद्भवः स्यादिति (सं० शा० १ । ३८५ अ० टी०, तत्रैव १ । १३१ अ० टी० तथा सु० टी०) । अद्वैतसिद्धौ द्वितीयपरिच्छेदे अखण्डार्थलक्षणोपपत्तावप्येतदुक्तम् । अत्र त्रयो दोषा अथवा गौरवम् - १. कार्यान्विते. शक्ति: २. इतरान्विते शक्तिः । ३. अन्वितेऽर्थे च शक्तिः । (उत्तमवृद्धमुखाद् गामानय श्रुत्वा गवार्थान्विते शक्तिग्रहे जाते अश्वमानय इति श्रुत्वा अश्वानयनरूपार्थे शक्तिग्रहे क्लिष्टकल्पना । अपदः, अपद ब्रह्मविद् । यथा - सर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः । देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणः इति (ब्र० सू० ४।२।१४ शा० भा०) । पद्यते इति पदं गन्तव्यम् अन्यद् यस्य नास्ति स ब्रह्मविद् अपदः । ब्रह्मविदो मार्गे ब्रह्मप्राप्तिसाधने ज्ञाने ये पदैषिणः निष्ठेच्छवः तेऽपि देवा उत्कृष्टाः, किमु तन्निष्ठाः, किन्तु परं मुह्यन्त्यत्र मन्दभाग्या इत्यर्थे स्मृतिं योजयति पदैषिणोऽपीति (तत्रैव वे० क० त०) । अपरम्, अपर १. परम् उत्कृष्टम्, अपरम् निकृष्टम् । ब्रह्म द्विविधं परं तथा अपरम् । परं शुद्धं ब्रह्म अपरं ब्रह्म जीवः । यथा - अक्षरं ब्रह्म परमं स्वभावोऽध्यात्म उच्यते ( ८ । ३) । अत्र श्रीधरी - न क्षरति न चलतीत्यक्षरम् । ननु जीवोऽप्यक्षरस्तत्राह परमं यदक्षरं जगतो मूलकारणं तद्ब्रह्म । एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति । २. नवम् । यथा - अपरं भवतो जन्म परं जन्म विवस्वतः (गी० ४।४) । अत्र श्रीधरी - अपरम् अर्वाचीनं तव जन्म, परं प्राक्कालीनं विवस्वतो जन्म । यथा चएतद् वै सत्यकाम परं चापरं च ब्रह्म यदोंकारस्तस्माद् विद्वानेतेनैवायतनेनैकतरमन्वेति । इति प्रकृत्य श्रूयते - य पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत ( प्र०५ /२/५) इति । किमस्मिन् वाक्ये परं ब्रह्माभिध्यताव्यमुपदिश्यते आहोस्विदपरमिति । एतेनैवायतनेन परमपरं चैकतरमन्वेति इति प्रकृतत्वात् संशयः । तत्रापरं ब्रह्मेति प्राप्तम् (व्र० सू० १ । ३ । १३ शा० भा० ) । यथा च - नहि निरुपाधिकः शारीरो नाम भवति । तस्मात्परमेव ब्रह्माक्षरमिति निश्चयः (ब्र० सू० १ । ३ । १२ शा० भा० ) । अपरा, अपरा ब्रह्मविद्या परा ततोऽतिरिक्ता ऋग्वेदादिलक्षणा अपरा विद्या । यथा अपि चात्र द्वे विद्ये वेदितव्ये उक्ते च परा चैवापरा च इति । तत्रापरामृग्वेदादिलक्षणां विद्यामुक्त्वा ब्रवीति अथ परा यया तदक्षरमधिगम्यते इत्यादि (ब्र० सू० १/२/२१ शा० भा०) । यथा च - सकलवेदशिरः सूत्सर्गतः परमात्मधीपरवचःसु परापरभेदतोऽवान्तरतात्पर्येणापरविद्याविषयतया भेदे सति परविद्यायामपरविद्यायाञ्च यथा योगमपुनरुक्तपदान्युपसंहरन्नुभयत्र वाक्यपरिमितं स्वयमेव ज्ञास्यसीति योजना । (सं० शा० ३१३ अ० टी०) । अपरा प्रकृतिः, अपरा प्रकृति संसारबन्धनरूपा । भगवतो द्विविधा प्रकृतिः परा तथा अपरा । यथा अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् (गी० ७।५) । अष्टधोक्ता या प्रकृतिरियमपरा निकृष्टा जडत्वात्परार्थत्वाच्च । इतः सकाशात् परां प्रकृष्टामन्यां जीवनस्वरूपां विद्धि जानीहि । परत्वे हेतुः- यदा चेतनया क्षेत्रज्ञरूपया स्वकर्मशरणेदं जगद्धार्यते । (तत्रैव श्रीधरी) अष्टधा प्रकृति:यथा - भूमिरापोऽनलं वायुःखं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा । (गी० ७।४) यथा च अपरा न परा निकृष्टाऽशुद्धानर्थकरी संसारबन्धनात्मिका इयम् (गी० ७।५ शा० भा०) । यथा च या प्रागष्टधोक्ता प्रकृतिः सर्वा चेतनवर्गरूपा सेयमपरा निकृष्टा जडत्वात् संसारबन्धनरूपत्वाच्च (तत्रैव म० सू०) । यथा च अपरा निकृष्टा अशुद्धत्वात् अनर्थकरत्वात् संसारस्वरूपत्वात् बन्धनात्मकत्वात् इयमष्टप्रकारा इतोऽस्या अन्याम् (तत्रैव भा० ) । अपवर्गः, अपवर्ग १ . कैवल्यसिद्धिः । यथा - तस्मादैकान्तिकी विदुषः कैवल्यसिद्धिः (ब्र० सू० ३।३।३२ शा० भा० ) । यथा च - राद्धान्तस्तु विद्याकर्मस्वनुष्ठानतोषितेश्वरस्योदितम्, अधिकारं समाप्यैते प्रविशन्ति परं पदम् । निर्गुणायां विद्यायामपवर्गलक्षणं श्रूयमाणं न स्तुतिमात्रतया व्याख्यातुमुचितम् । पौवापर्यपर्यालोचने भूयसीनां श्रुतीनामत्रैव तात्पर्यावधारणात् (तत्रैव भाम०) । यथा च - पार्वती फणी बालेन्दुर्भस्म मन्दाकिनी तथा । पवर्गैः पूजितः शम्भुरपवर्गफलप्रदः। २. फलप्राप्तिः। यथा- अपवर्गे तृतीया (पा० सू० २।३।६) अत्र अपवर्गः फलप्राप्तिरिति वृत्तिः । अध्ययनेन वसतीति । अपवादः, अपवाद १ . बाधः भ्रमनिवर्त्तिका यथार्थबुद्धिः । शुक्तौ रजतादिमिथ्याबुद्धौ निश्चितायां पश्चाज्जायमाना यथार्थबुद्धिः । एवमेव अनात्मनि वस्तुनि अविद्यया जातस्य आत्मज्ञानस्य विद्योदये सति निवृत्तिः । यथा - अपवादो नाम यत्र कस्मिंश्चिद् वस्तुनि पूर्वनिविष्टायां मिथ्याबुद्धौ निश्चितायां पश्चादुपजायमाना यथार्था बुद्धिः पूर्वनिविष्टाया मिथ्याबुद्धेर्निवर्तिका भवति । यथा देहेन्द्रियसंघात आत्मबुद्धिरात्मन्येवात्मबुद्ध्या पश्चाद्भाविन्या तत्त्वमसि ( छा० उप० ६।८।७) इत्यनया यथार्थबुद्ध्या निवर्त्यते । यथा वा दिग्भ्रान्तिबुद्धिर्दिग्याथाल्यबुद्ध्या निवर्त्यते । एवमिहाप्यक्षरबुद्धयोद्गीथबुद्धिर्निवर्त्यत उद्गीथबुद्ध्या वाक्षरबुद्धिरिति (ब्र० सू० ३।३।९ शा० भा०) । यथा च - अपवादो नाम रज्जुविवर्तस्य सर्पस्य रज्जुमात्रत्वववस्तुविवर्तस्यावस्तुनोऽज्ञानादेः प्रपञ्चस्य वस्तुमात्रत्वम् (वे० सा० ४७)। पाणिनीयसूत्रेषु बाध्यबाधकभावो भवति । बाध्यं सूत्रम् उत्सर्गसूत्रं तथा बाधकसूत्रमपवादसूत्रं कथ्यते । उक्तं च निरवकाशो विधिरपवाद इति । अपानः, अपान १. अपानाख्या वृत्तिः । यथा - यदपानित्यपश्वसिति ताभ्यामेवान्तराकर्षतीति वायुं सोऽपानोऽपानाख्या वृत्तिः (छा० उप० १।३।३ शा० भा०) । २. शरीरस्थेषु पञ्च वायुष्वेकः = अर्वाग् गमनवान् अपानः पाय्वादिस्थानवर्ती (वे० प० ७ १०) । अपीतः, अपीत अपि + इतः = प्राप्तः ब्रह्मणि लीनः इति यावत् । यथा - तथान्यत्र सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति (छा० उप० ६।८।१) इति (ब्र० सू० ३।२।७ शा० भा०) । अपूर्वम्, अपूर्व १. अकार्यम्, कार्यभावरहितम्, नित्यमिति यावत् । तेन अपूर्वं ब्रह्म भवति । यथा - नास्य पूर्वं कारणं विद्यत इत्यपूर्वम्, अकार्यम् इत्यर्थः (ब्र०सू० १ /१ । ४ वे० क० त०) ।२. अपूर्वनियमपरिसंख्याविधिषु अन्यतमोऽ पूर्वविधिः अप्राप्तप्रापको विधिरपूर्वविधिः । यथा ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यादि । ३. यज्ञादिभ्यो जन्यः अपूर्वः एतन्नामधायकः कश्चन पुण्यविशेषः । यो यज्ञादेर्बहुकालानन्तरं तिष्ठन् स्वर्गादिकं जनयति । पुरुषस्य कर्मणश्च अयोग्यतां निराकुर्वद् शास्त्रसमर्थित विधिजन्यं सामार्थ्यमतिशयः योग्यता वा अपूर्व उच्यते । यथा कर्मणः प्रागयोग्यस्य कर्मणः पुरुषस्य वा योग्यता शास्त्रजन्मा या सा परापूर्वमुच्यते (त० वा० २ । १ । २ ) । अधिकारापूर्वः फलापूर्व इत्यपि कथ्यते (पूर्वमीमांसायाम्) । अपूर्वता, अपूर्वता १ . वेदान्तवाक्यैरेव ब्रह्मसाक्षात्कारः । यथा - प्रकरणप्रतिपाद्यस्याद्वितीयवस्तुनः प्रमणान्तराविषयीकरणमपूर्वता (वे० सा०) इत्यद्वैतिनः । २. अपूर्वनिष्ठो धर्मः । स च उत्पत्त्यपूर्वङ्गापूर्वसमुदायापूर्वफलापूर्वेषु भवति । यथा - यागेन अपूर्वं कृत्वा स्वर्गं भावयेत् (शाबर भा० २।१।२ ) । अपोढ़म्, अपोढ तज्ज्ञानरहितम् । यथा - कल्पनापोढत्वेऽपि भ्रान्तत्वाद् घटादिप्रत्यक्षस्य पीतशङ्खादिज्ञानवन्न प्रत्यक्षता । (ब्र० सू० २।२।२८ भाम०) अत्र वेदान्तकल्पतरौ कल्पना अभिलापः । तदपोढं तदूरहितम् । यद्यपि स्थूलं व्यक्तिज्ञानं व्यक्तौ सम्बन्धग्रहस्याभावेन शब्दवाच्यत्वाभावात् । तथापि भ्रान्तत्वान्नास्य प्रत्यक्षता । कल्पनापोढमध्भ्रान्तमिति प्रत्यक्षलक्षणकरणादित्यर्थः । अप्रतिमः, अप्रतिम सादृश्यरहितः अनुपम इति यावत् । यथा- लोकत्रयेऽपि सर्वस्मिन्नप्रतिमप्रभावः प्रतिमीयते यया सा प्रतिमा न विद्यते प्रतिमा यस्य तव प्रभावस्य स त्वमप्रतिमप्रभावः (गी० ११/४३ शा० भा० ) । यथा- नहीन्द्रस्य प्रतिमानमस्त्यन्तर्जातेषूत ( ऋ० वे० ५।१८।४) । यथा च - नार्वागिन्द्रं प्रतिमानानि (तत्रैव १०/८९/५)। अप्रतिष्ठः, अप्रतिष्ठ कर्ममार्गरूपाश्रयरहितः । यथा - अप्रतिष्ठो निराश्रयः कर्ममार्गरूपाश्रयरहितः (गी० ६।३८ भाष्यो०) । यथा च - योगानिष्पत्तेश्च न मोक्षं प्राप्नोति । एवमुभयस्माद् भ्रष्टोऽप्रतिष्ठो निराश्रयः (तत्रैव श्रीधर्याम्) । निराश्रयः (तत्रैव शा० भा०) । अप्रतिसंख्यानिरोधः, अप्रतिसंख्यानिरोध बुद्धिपूर्वकं भावविरोधः । यथा - बुद्धिपूर्वकः किल विनाशो भावानां प्रतिसंख्यानिरोधो नाम भाष्यते, तद्विपरीतोऽप्रतिसंख्यानिरोधः (ब्र० सू० २ । २ । २२ शा० भा०) । भावप्रतीपा संख्या बुद्धिः प्रतिसंख्या तया निरोधः प्रतिसंख्यानिरोधः । सन्तमिमसन्तं करोमीत्येवमाकारता च बुद्धेर्भावप्रतीपत्वम् । एतेनाप्रतिसंख्यानिरोधोऽपि व्याख्यातः (तत्रैव भाम०) यथा च - प्रतीपा विरोधिनी । नन्वन्त्यसन्तानिनो न फलानारम्भकत्वं यतोऽसत्त्वापत्तिः । न च फलारम्भे सन्तानानुच्छेदः। नहि हेतुफलभावमात्रं सन्तानः । किन्तु सजातीयानां हेतुफलभावस्तत्र विशुद्धविजातीयक्षणोत्पत्तावपि सजातीयहेतुफलभावरूपसन्तानो निवर्तते । (तत्रैव वे० क० त०) इति बौद्धदार्शनिकाः । अप्रमा, अप्रमा प्रमाभिन्ना अप्रमा। स्मृतिव्यावृतं प्रमात्वम्- अनधिगताबाधित विषयज्ञानत्वम् ।स्मृतिसाधारणं तु अबाधितविषयज्ञानत्वम् । अर्थात् अधिगताबाधितविषयज्ञानत्वम् । यथा शुक्तौ रजतज्ञानम्, रज्जौ सर्पज्ञानमित्यादि (इत्यद्वैते) । अनुभवो द्विविधः यथार्थः अयथार्थश्च । तत्र अयथार्थानुभवः अप्रमा तल्लक्षणञ्च तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः । सैवाप्रमेत्युच्यते । (त०सं०१ख०) (न्यायवैशेषिकादयः) अप्राणः, अप्राण क्रियाशक्तिरहितः । यथा - प्राणः क्रियाशक्तिः परमार्थतो न विद्यते यस्य सोऽप्राणः (ब्र० सू० ११४ वे० क० त०) । यथा च - अप्राणो ह्यमनाः शुभ्रः (मु० उ० २।१।२)। अबोधः, अबोध बोधाभावोऽधिष्ठानरूपः । अधिष्ठानं तु चितिः । यथा - अबोधो ज्ञानापनोद्यात्मनाऽभिव्यक्तमज्ञानं तस्य नाशोऽधिष्ठानरूपापत्तिरेवाधिष्ठानं तु चितिरेवेत्यखण्डार्थपरे वाक्ये एकं पदं मुख्यमितरद्वितीयवृत्तिर्लक्षणावृत्तिरित्यर्थः (सं० शा० १/२१२ सु० टी० ) । अभावः, अभाव १. देशतः कालतो वस्तुतश्च परिच्छिन्नत्वमभावः । यथा अभावः परिच्छिन्नत्वं द्रेशतः कालतो वा वस्तुतो वा (गी० २।१६ म० सू०) । यथा च अभावः अविद्यमानता न विद्यते सर्वत्र अव्यभिचारात् इति अवोचाम (तत्रैव शा० भा० ) । यथा च - अभावो विनाशः (तत्रैव श्रीधर्याम्) । २. भावभिन्नत्वम् अभावस्य लक्षणम् । भावत्वं च समवाय एकार्थसमवायान्यतरसम्बन्धेन सत्तावत्त्वम् । एकार्थसमवायश्च स्वप्रतियोगिकसमवायप्रतियोगित्वस्वप्रतियोगिकसमवायतादात्म्यान्यतरस्वरूपः स्वं सत्ता (त० सं० गङ्गाटी०) । अद्वैतमते अनुपलब्धिप्रमाणेन अभावः प्रत्यक्षीक्रियते । स च अभावः चतुर्विधः । यथा - स चाभावश्चतुर्विधः प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति । तत्र भूतलादौ कारणे कार्यस्य घटादेरुत्पत्तेः पूर्वं योऽभावः स प्रागभावः । स च भविष्यतीति प्रतीतिविषयः । तत्रैव घटस्य मुद्गरपातानन्तरं योऽभावः स प्रध्वंसाभावः । ध्वंसस्यापि स्वाधिकरणकपालनाशे नाश एव । न चैवं घटोन्मज्जनापत्तिः । घटध्वंसस्यापि घटप्रतियोगिकध्वंसत्वात् । अन्यथा प्रागभावध्वंसात्मकघटस्य विनाशे प्रागभावोन्मज्जनापत्तिः । न चैवमपि यत्र ध्वंसाधिकरणं नित्यं तत्र कथं ध्वंसनाश इति वाच्यम् । तादृशाधिकरणं यदि चैतन्यव्यतिरिक्तं तदा तस्य नित्यत्वमसिद्धम् । ब्रह्मव्यतिरिक्तस्य सर्वस्य ब्रह्मज्ञाननिवर्त्यतया वक्ष्यमाणत्वात् । ....यत्राधिकरणे यस्य कालत्रयेऽप्यभावः सोऽत्यन्ताभावः । यथा वायौ रूपात्यन्ताभावः। सोपि घटादिवद्ध्वंसप्रतियोग्येक । इदमिदं नेति प्रतीतिविषयोऽन्योऽन्याभावः । अयमेव विभागो भेदः पृथक्त्वं चेति व्यवह्रियते (वे० प० ६ प०) । श्रीचित्त्सुखमुनिना अभावलक्षणमभावपदार्थश्च निराकृते । यथा - भवतु वा भिन्नैवानुपलब्धिरनुमानात्, तथापि नाभावः प्रमितिकरणम् । विकल्पासहत्वात् । तथा हि - किमुपलब्धेः प्रागभावोऽनुपलब्धिः । उत प्रध्वंसः । किं वान्योन्याभावः अत्यन्ताभावो वा..... । अपि च यत्राभाव एव लक्षणतो दुर्निरूपः । कुतस्तत्रेदं प्रमाणमिदं प्रमेयमिति विचारावतारः । तथाहि - कोऽयमभावः । १. भावादन्यो वा २. भाषत्वानधिकरणं वा ३. भावविरोधी वा ४. भावेन स्वभावप्रत्यासन्नो वा ५. नास्तीतिप्रत्ययविषयो वा ६. प्रतियोगिसापेक्षनिरूपणो वा ७. अस्तीति बुद्धेरविषयो वा ८. निर्विकल्पकबुद्धेरविषयो वा ९. भावलक्षणरहितो वा । नाद्यः भावस्यापि भावादन्यत्वेनातिव्याप्तेः ..... (त० प्र० अभावलक्षणनिराकरणे) । एवमेव तत्रैव भावलक्षणप्रागभावादिलक्षणान्यपि विमृष्टानि । यथा च - घटप्रतियोगिकानां प्रागभावप्रध्वंसाभावान्योन्याभावानां न कदापि घट आश्रयो भवति । घटप्रागभावस्याश्रयो मृत्पिण्डः । प्रध्वंसस्याश्रयः कपालानि । अन्योन्याभावस्य च पटादिः । केचित्तु (प्राञ्चः) यत्र भूतले पूर्वं घटादिकं स्थितमपसारितं पुनरानीतं च तत्रोत्पादविनाशशाली सामयिकनामा चतुर्थः संसर्गाभाव एव प्रतीयते नात्यन्ताभावः इत्याहुः (वै० वि० ९।१।५) । केवलाधिकरणादेव नास्तीति व्यवहारोपपत्तावभावो न पदार्थन्तरमिति प्राभाकारा: आहुः (दि० १) (त० दी०) । अत्यन्ताभावो द्विविधः । एकः पर्याप्तधर्मावच्छिन्नप्रतियोगिताकः, अपरः अनेकपर्याप्तधर्मावच्छिन्नप्रतियोगिताकः । आद्यो धर्मो घटादिः। द्वितीय उभावादिः । अयमेव व्यासज्यवृत्तिरित्युच्यते (सि० च० ४)। अभिनिवेशः, अभिनिवेश यथा अनुभूतादपि मरणादेस्त्रासोऽभिनिवेश: (पा० यो० सू० ५ - व्या० भा० ) । अभिनिष्पन्नम् (अभिनिष्पद्यते), अभिनिष्पन्न (अभिनिष्पन्नः) बन्धनमुक्तः शुद्धात्मा । यथा – योऽभिनिष्पद्यत इत्युक्तः स सर्वबन्धविनिमुक्तः शुद्धेनैवात्मनाऽवतिष्ठते (ब्र० सू० ४।४।२ शा० भा० ) । अभिन्ननिमित्तोपादानकारणम्, अभिन्ननिमित्तोपादानकारण जन्माद्यस्य यतः (ब्र०सू० १ । १ ।२) इत्यनेन ब्रह्मैव जगतो जन्मस्थितिलयहेतुः । इदं च ब्रह्म जगतो निमित्तकारणं तथा उपादानकारणम् । जगतो विश्वप्रपञ्चस्य कार्यजातस्य कर्तृत्वेन ब्रह्म निमित्तकारणम्, मायायां परिणाम्युपादनत्वेऽपि मायाया अधिष्ठानत्वेन स्वाधिष्ठानं विना माया न किञ्चित् कर्तुं प्रभवति इति हेतोः मायाधिष्ठानं ब्रह्म उपादानकारणम् । एवं प्रकारेण एकमेव ब्रह्म विश्वप्रपञ्चस्य निमित्तकारणमुपादानकारणमतोऽभिन्ननिमित्तोपादानकारणम् । यथा - प्रकृते ब्रह्मणि च जगज्जन्मादिकारणत्वम् । अत्र जगत्पदेन कार्यजातं विवक्षितम् । कारणत्वं च कर्तृत्वमतोऽविद्यादौ नातिव्याप्तिः । कर्तृत्वं च तत्तदुपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वम् । ईश्वरस्य तावदुपादानगोचरापरोक्षज्ञानसद्भावे च यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयंतपः । तस्मादेतद् ब्रह्म नामरूपमन्नं च जायते (मु० १।१।९) । इत्यादि श्रुतिर्मानम् । तादृशचिकीर्षासद्भावे सोऽकामयत बहुस्यां प्रजायेय (तै० २।६) इत्यादि श्रुतिर्मानम् । तादृशकृतौ च तन्मनोऽकुरुत इत्यादिवाक्यम् । ज्ञानेच्छाकृतीनां मध्येऽन्यतमगर्भलक्षणत्रितयमिदं विवक्षितम् । अन्यथा व्यर्थविशेषणत्वापत्तेः। अत एव जन्मस्थितिध्वंसानामन्यतमस्यैव लक्षणे प्रवेशः । एवं च प्रकृते लक्षणानि नव सम्पद्यन्ते । ब्रह्मणो जगज्जन्मादिकारणत्वे च - यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति (तै० ३।१) श्रुतिर्मानम् । यद्वा निखिलजगदुपादानत्वं ब्रह्मणो लक्षणम् । उपादानत्वं च जगदध्यासाधिष्ठानत्वं जगदाकारेण विपरिणममानमायाधिष्ठानत्वं वा । एतादृशमेवोपादनत्वमभिप्रेत्य इदं सर्वं यदयमात्मा सच्चत्यच्चाभवत् (तै० २।६) बहुस्यां प्रजायेय (तै० २।६) इत्यादिश्रुतिषु ब्रह्मप्रपञ्चयोस्तादात्म्यव्यपदेशः । घटः सन् घटो भाति घट इष्ट इत्यादिलौकिकव्यपदेशोऽपि सच्चिदानन्दरूपब्रह्मैक्याध्यासात् (वे० प० ७ प०) । यथा च - अन्ये तु जन्मकारणत्वस्य स्थितिकारणत्वस्य च निमित्तसाधारण्यात् उपादानत्वप्रत्यायनाय प्रपञ्चस्य ब्रह्मणि लयो दर्शितः । अस्तु ब्रह्म जगदुपादानं तज्जन्मनि घटजन्मनि कुलालवत् तत्स्थितौ राज्यस्थेमनि राजवत् उपादानादन्यदेव निमित्तं भविष्यतीति शङ्काव्यवच्छेदाय तस्यैव जगज्जननजीवननियामकत्वमुक्तम् । तथा चैकमेवेदं लक्षणमभिन्ननिमित्तोपादानतया अद्वितीयं ब्रह्म उपलक्षयतीत्याहुः । अथ शुद्धं ब्रह्म उपादानमिष्यते ईश्वररूपं जीवरूपं वा । अत्र संक्षेपशारीरकानुसारिणः केचिदाहुः- शुद्धमेवोपादानम् । जन्मादिसूत्रतद्भाष्ययोः उपादानत्वस्य ज्ञेयब्रह्मलक्षणत्वोक्तेः । तथा च आत्मनः आकाशः सम्भूतः (तै० उ० २।१।१) इत्यादिकारणवाक्येषु शबलवाचिनामात्मादिशब्दानां शुद्धे लक्षणैवेति । विवरणानुसारिणस्तु यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः । तस्मादेतत् ब्रह्म नाम रूपमन्नं च जायते (मु० उ० १।१।९) इति श्रुतेः सर्वज्ञत्वादिविशिष्टं मायाशबलमीश्वररूपमेव ब्रह्म उपादानम् । संक्षेपशारीरके शबलोपादनत्वनिराकरणमपि मायाविशिष्टोपादाननिराकरणाभिप्रायम्, न तु निष्कृष्टेश्वररूपचैतन्योपादानत्वनिराकरणपरम् । तत्रैव प्रथमाध्यायान्ते जगदुपादानत्वस्य तत्पदार्थवृत्तित्वोक्तेः । एवं च ईश्वरगतमपि कारणत्वं तदनुगतमखण्डचैतन्यं शाखाचन्द्रमसमिव तटस्थतयोपलक्षयितुं शक्नोतीति तस्य ज्ञेयब्रह्मलक्षणत्वोक्तिरिति मन्यन्ते । संक्षेपशारीरककृतस्तु ब्रह्मैवोपादानम् । कूटस्थस्य स्वतः कारणत्वानुपपत्तेः । .... वाचस्पतिमिश्रास्तु जीवाश्रितमायाविषयीकृतं ब्रह्म स्वत एव जाड्याश्रयप्रपञ्चाकारेण विवर्तमानतया उपादानमिति । माया सहकारिमात्रम् । न कार्यानुगतद्वारकारणमित्याहुः । सिद्धान्तमुक्तावलीकृतस्तु माया शक्तिरेवोपादनम् न ब्रह्म (सि० ले० प्र०प०) । अभिविमानः, अभिविमान मानं (परिमाणम्) तद्रहितः जगत्परिमाणकारकश्च परमात्मा (वैश्वानरः) जागतिकाभिमानरहितश्च । यथा - अभिविमानश्रुतिः । प्रत्यगात्मत्वाभिप्रायाप्रत्यगात्मतया सर्वैः प्राणिभिरभिविमीयत इत्यभिविमानः । अभिगतो वायं प्रत्यगात्मत्वाद् विमानश्च मानवियोगादित्यविभानः । अभिविमिमीते वा सर्वं जगत् कारणत्वादित्यवभिमानः (ब्र० सू० १।२।३२ शा० भा० ) । अभिव्यक्तिः, अभिव्यक्ति १. प्रमातृचिदुपरागः प्रकटनं च । यथा - घटाद्याकारवृत्त्या तु तदधिष्ठानचैतन्याभिव्यक्तौ तदवच्छेदेनैव तन्निष्ठावरणाभिभवो जायत इति न शुद्धात्मप्रकाशापत्तिः (अ० सि० १ १०) । अभिव्यक्तौ प्रमातृचिदुपरागे (तत्रैव ल० च०) । तैजसमन्तः स्वच्छद्रव्यत्वात् स्वत एव जीवचैतन्याभिव्यञ्जनसमर्थम् । वृत्त्युत्त्थानानन्तरं चैतन्यमभिव्यनक्ति तदुक्तं विवरणे । (वे० प० ७ प०) २. व्यञ्जनानामिकया वृत्त्या रसवस्त्वलङ्काराणामभिव्यक्तिर्जायत इति काव्यज्ञाः । ३. आशयप्रकटनं पदार्थप्रकाशनं वेति लौकिकाः । अभिहितान्वयः, अभिहितान्वय वाक्यार्थे पदार्थानामन्वयविषये मीमांसानये मतद्वयमस्ति । श्रीकुमारिलभट्टस्य मतमभिहितान्वयवादः । श्रीप्रभाकरस्यमतमन्विताभिधानवादः । अभिहिता एव पदार्थाः परस्परमन्वयमयन्ते इति अभिहितान्वयः। प्रथमत एवान्विताः पदार्थाः अभिदधत इति अन्विताभिधानम् । यथा - अन्यथा हि विस्मृतपूर्ववर्णानां पदानामन्त्यवर्णमात्राद् यथा न पदार्थावगतिस्तथा विस्मृतपूर्वपदानामपि वाक्यार्थधीर्न स्यात् । दृश्यते तु सा दीर्घतरेषु वाक्येषु । तस्मात् पदार्थेभ्य एवोपस्थितेभ्यो विशेषणविशेष्यभावेन संसर्गबोध इत्यभिहितान्वयः (सं० शा० १ । ३७० सु० टी०) । अभिहितान्वयवादिमते यथा अखण्डवाक्यार्थज्ञानं यथा च तेन ब्रह्मज्ञानं तदुक्तम्परेषामभिहितान्वयवादिनां मोहनिवर्तकमखण्डवाक्यार्थज्ञानं स्मृतित्वात् पदार्थज्ञानद्वयान्न तु शब्दात् (तंत्रैव १ । ३८५ सु० बो० टी० ) । यथा च परदृशि परात्मनि प्रत्यगुरूपे स्मृतिसमं यत्पदद्वयजन्यबुद्धियुग्मं तस्मान्मोहनिवर्तनमज्ञानादिबन्धनिवर्तकं साक्षाद्ब्रह्मज्ञानमिति सिद्ध्यति (तत्रैव १।३८५ अ० टी०) । अत्र त्रयो दोषा गौरवं वा - आकाङ्कायोग्यतासक्त्यपेक्षा, तात्पर्यावृत्तिस्वीकारस्तात्पर्यार्थ एव वाक्यार्थः सन् अपदार्थवपुः वाक्यार्थः। अभिहितेषु च पदार्थेषु एका शक्तिः, या स्वरूपसती वाक्यार्थमनुभावयति । अस्मिंश्च मते वाक्यं न वाक्यार्थं प्रमाणयति । किन्तु अभिहिताः पदार्थाः एव । तत्र तु पदार्थद्वारकं परम्परया जनकत्वमादाय वाक्यस्यापि प्रमाणत्वेन व्यवहारः । तदुक्तं शबरभाष्ये- तस्माद् वाक्यव्यतिरेकेऽपि पदार्थान्वयेऽन्वीयमानः पदार्थनिमित्त एव वाक्यार्थप्रत्ययः । श्लोकवार्त्तिकेऽपि सप्तमे वाक्याधिकरणे उक्तम् – पश्यतः श्वेतिमारूपं हेषाशब्दं च शृण्वतः । खुरविक्षेपशब्दश्च श्वेतोऽश्वो धावतीति धीः । दृष्टा वाक्यविनिर्मुक्ता न पदार्थैर्विना क्वचित् ॥ मानसेनापराधेन पदार्थं ये न गृह्णते । ते तवाक्यं गृहीत्वापि नार्थं गृह्णन्ति कर्हिचित् ॥ (श्लो० वा०३५७–३६०) । एवमेव न्यायरलेऽपि - क्लृप्तं तावत् पदार्थानामाकाङ्क्षासन्निधियोग्यतावशेन सामान्यतोऽन्वयबोधनम् । तद्विशेषनियतस्तत्त्वर्थापत्त्येति । एवमेव श्लोकवार्त्तिकेऽन्यत्रापि - साक्षायद्यपि कुर्वन्ति पदार्थप्रतिपादनम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् । एवं पदार्थनिष्ठैव वाक्यार्थानुभावशक्तिरिति अभिहितान्वयवादाशयः । यथा च अभिहितानां पदोपस्थितानामर्थानामन्वयः संसर्गः संसर्गमर्यादया वाक्यार्थबोधे विषयो भवतीति वादः कथनम् इति व्युत्पत्तिः । भट्टतार्किकाणां मतमेतत् अस्मिन्मते प्रत्येकं तत्तदर्थेषु गृहीतशक्तिकान्येव पदानि आकाङ्क्षादिसहकृतया तत्तद्वृत्त्या (शक्त्या लक्षणया वा) एव परस्परान्वितं विशिष्टमेकमर्थं बोधयन्ति । विशिष्टार्थबोधने अतिरिक्ताया वाक्यशक्तेरपेक्षा नास्तीति भावः । अयमेव वाक्यार्थवोध इति शाब्दबोध इति चोच्यते । किञ्च ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादौ तप्रत्ययः प्रकृत्यर्थोपस्थित्या भावनामभिधत्ते इति सिद्धे व्युत्त्पत्तिमभ्युपगच्छतां भट्टाचार्याणां सिद्धान्त इति विज्ञेयम् (सर्व० प्र० २८६ जैमिनि०) । भाट्टनये आकाङ्क्षायोग्यतासन्निधिबलात् तात्पर्यशक्त्या तत्तत्पदार्थानां सम्बन्धरूपो वाक्यार्थोऽवबुध्यते । यथा - आकाङ्क्षायोग्यतासान्निधिवशाद् वक्ष्यमाणस्वरूपाणां पदार्थानां समन्वये तात्पर्यार्थो विशेषवपुरपदार्थोऽपि वाक्यार्थः समुल्लसतीत्यभिहितान्वयवादिनां मतम् (का० प्र० २ । ६ ) । यथा च – किञ्च पदार्थानामनभिहितानां संसर्गबोधकत्वाभावादभिहितानामेव तदेष्टव्यम् । तथा च पदार्थानां संसर्गप्रत्ययजननसामर्थ्यं पदानां च पदार्थेषु तत्सामर्थ्याधानसामर्थ्यमिति द्वयं कल्पनीयमिति कल्पनागौरवमभिहितान्वयवादिनः । अन्विताभिधानवादिनस्तु पदानां योग्येतरान्वितस्वार्थामिधानसामर्थ्यमेकमेव कल्पनीयमिति कल्पनालाववमित्ययमेव पक्षः श्रेयानिति । किन्तु व्यवहारे भट्टनयः इति रीत्या अद्वैतवेदान्ते अभिहिताभिधानवाद एव स्वीक्रियते । विशदार्थमन्विताभिधानशब्दो द्रष्टव्यः । अभूताभिनिवेशः, अभूताभिनिवेश अभूते द्वये अद्वयनिश्चयः । यथा - यस्मादभूताभिनिवेशादसति द्वयेऽद्वयास्तित्वनिश्चयोऽभूताभिनिवेशस्तस्मादविद्याव्यामोहरूपाद्धि सदृशे तदनुरूपे तच्चित्तं प्रवर्तते (मा० का० ४।७९ शा० भा०) । अभ्रः, अभ्र १. आकाशः । २. उर्ध्वावरोहणमार्गेषु अन्यतमस्यैकस्य मार्गस्य नाम । यथा-तत्रेयमवरोहणश्रुतिर्भवति - अथ तमेवाध्वानं पुनर्निवर्तते यथेतमाकाशमाकाशाद् वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति (छा० ५/१०/५) इति (ब्र० सू० ३।१।२२ शा० भा० ।) अभ्यासः, अभ्यास १. ज्ञातस्य पौनःपुन्येन मननम् । यथा- प्रकरणप्रतिपाद्यस्य वस्तुनस्तन्मध्ये पौनःपुन्येन प्रतिपादनम् अभ्यासः (वे० सा०) । २. अभ्यासयोगः । यथा - अभ्यासयोगयुक्तेन मयि चित्तसमर्पणविषयभूते एकस्मिंस्तुल्यप्रत्ययान्तरितोऽभ्यासः स चाभ्यासो योगः (गी० ८।८ शा० भा०) । यथा च अभ्यासयोगयुक्तेन तत्र स्थितौ यलोऽभ्यासः इति सूत्रितोऽभ्यासः । तत्र ध्येये वस्तुनि चित्तस्य स्थिरीकरणार्थो यतः स च विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहीकरणरूपः सोऽत्राभ्यासः । (तत्रैव नी० क०) । यथा च अभ्यासः सजातीयप्रत्ययप्रवाहो मयि विजातीयप्रत्ययातिरिक्तः पृष्ठे प्राग्व्याख्यातः स एव योगः (तत्रैव म० सू०) एवमेव प्रसंख्यानमपि । एतदर्थं प्रसंख्यानशब्दो द्रष्टव्यः । अमतिः, अमति अज्ञानम् । यथा - अमतिरज्ञानं तत्पूर्वमित्युदाहृतश्रुतिशासन इत्यर्थः (सं० शा० ३।२६९ अ० टी०) । अमनस्कः, अमनस्कः मनःसत्त्वेऽपि यदा आत्मसत्त्वानुबोधेन मनसः सत्त्वं निरुद्धं भवति तदा अमनस्कता उदेति । यथा- आत्मसत्त्वानुबोधेन न संकल्पयते यदा । अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् । (मा० उ० का० ३।३२) अयं मनोनाशः मनोलयः इत्याद्यपि कथ्यते । यथा च - गुणत्रयमयी रज्जुं सुदृढामात्मबन्धनीम् । अमनस्कक्षुरेणैव छित्वा मोक्षमवाप्नुयात् (अमनस्कयोगे उत्तरार्द्धे ८९) । यथा संहियते सर्वमस्तं गच्छति भास्करे । करजालं तथा सर्वमनस्के विलीयते (तत्रैव ९०) । इन्द्रियग्राहनिर्मुक्ते निर्वाते निर्मलामृते । अमनस्कहदे स्नातः परमामृतमुपाश्नुते । (तत्रैव ९१ ) । इत्युक्तमेततसहजामनस्कं शिष्यप्रबोधाय शिवेन साक्षात् । नित्यं हि नूनं विगतप्रपञ्चं वाचामवाच्यं स्वयमेव बोध्यम् (तत्रैव ९२ ) । अमनस्कयोगः, अमनस्कयोग वेदान्तिभिर्योगिभिश्च यो हि मनोनिरोधश्चित्तवृत्तिनिरोधनिर्विकल्पकसमाधिरादिरभिधीयते स एवोन्नतावस्थामापन्नो योगो बौद्धदार्शनिकैरस्पर्शयोगोऽस्पर्शविहारोऽपर्णासमाधिरादिरभिधीयते । तथाप्यत्र अस्ति द्वयोर्मध्ये भेदः । तत्सर्वमनुक्त्वा सामान्यपरिचयोऽत्राभिधीयते । बौद्धमते सर्वोऽप्यं जागतिकः प्रपञ्चो ग्राह्यग्राहकाकारावस्थापन्नं मन एव । अतो मनसो ग्राह्यग्राहकाकांरराहित्यमेव निर्वाणम् । यथा - मप्रवचने पुनर्महामते विकल्पकस्य मनोविज्ञानस्य व्यावृत्तिनिर्वाणम् (लङ्कावतारसूत्रे) । अत्र अमनीभावो भवति । अर्थात् मनः अमनो भवति मनसः प्रचारो निरुध्यते । अतः अमनीभावः अमनस्ता अमनस्कं मनोनाशः मनोलय इत्याधुच्यते । यथा – अचित्तोऽनुपलम्भोऽसौ ज्ञानं लोकोत्तरञ्च यत् (त्रिंशिकायाम्) । यथा चद्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं मुनीश्वर । योगस्तद्वृतिनिरोधो हि ज्ञानं सम्यगवेक्षणम् (शाण्डिल्योपनिषदि १।२।२४) । अमनाः, अमन ज्ञानशक्तिशून्यमनस्कः पुरुषः । यथा- तथा ज्ञानशक्तिमन् मनो यस्य नास्ति सोऽमनाः (ब्र० सू० १/१/४ वे० क० त०) । अमनीभावः, अमनीभावः मनसो निरोधावस्था अथवा मनसि पुरीततनाड्यां गते सुषुप्तौ द्वैतस्यासत्त्वम् । यथा - मनोदृश्यमिदं द्वैतं यत् किञ्चित् सचराचरम् । मनसो ह्यमनीभावे द्वैतं नोपलभ्यते (मा० उ० का० ४।३१ ) । यथा च निरस्तविषयासङ्गं सन्निरुद्धं मनो हृदि । यदा यात्युन्मनीभावं तदा तत्परमं पदम् (ब्र० बि० उ० ४)। यथा च - तद्भावे भावात् तदभावेऽभावात् । मनसो ह्यमनीभांवे निरूद्धे विवेकदर्शनाभ्यासवैराग्याभ्यां रज्ज्वामिव सर्पे लयं गते वा सुषुप्तौ द्वैतं नोपलभ्यते इत्यभावात् सिद्धं द्वैतस्यासत्त्वमित्यर्थः (मा० उ० का० १।३१ शा० भा० ) । यथा च यत्ते चतस्रः प्रदिशः दिशो जगाम दूरम् । तत्र आवर्तयामसीह क्षयाय जीवसे । (ऋ० वे० १/५८।४) (सायणभाष्येऽस्या ऋचोऽर्थो वलिपरकः कृतो वर्तते) । यथा च - मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । अशुद्धं कामसम्पर्काच्छुद्धं कामवर्जितम् ॥ लयविक्षेपरहितं मनंः कृत्वा सुनिश्चलम् । तदा यात्यमनीभावं तदा तत्परमं पदम् (मैत्रायण्युपनिषदि ४।६, ७) । अमर्षः, अमर्षः परोत्कर्षासहनरूपचित्तवृत्तिविशेषः । यथा - अमर्षः परोत्कर्षासहनरूपचित्तवृत्तिविशेषः (गी० १२/१५ म० सू०) । तथाभर्षोऽभिलषितप्रतिघातेऽसहिष्णुता (तत्रैव शा० भा० ) । अमर्षोऽसहिष्णुता (नी० क० अभिलषितप्रतिघातेऽ सहिष्णुतामर्षः (तत्रैव भा०) अमर्षः परस्य लाभेऽसहनम् (तत्रैव श्रीधरी) । अमात्रः, अमात्र ॐकारः अयं मात्रारहितः । यथा - अमात्रश्चतुर्थोऽव्यवहार्यः इत्यादि (मा० उ० १२) अमात्रो मात्रा यस्य नास्ति सोऽमात्रः अकारोकारः (तत्रैव मा० उ० वि०) अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः (मा० उ० का० २९) । मीयतेऽनयेति मात्रा परिच्छितिः न विद्यते मात्रा अस्येत्यमात्रस्तुरीय ओंकारः । (मा० का० रहस्यविवृतौ) । यथा च - प्रपञ्चोपशमः शिवोऽद्वैतः (मा० उ० १।१२) । अमृतत्वम्, अमृतत्व ब्रह्मीभावः । यथा- अमृतत्वे गत्युत्क्रान्त्योरभावोऽभ्युपगतः । अथाकामयमानो योऽकामो निष्काम आप्तकामो भवति न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति (बृ० आ० ४।४।६) इत्यतः .... (ब्र० सू० ४।२।१२ शा० भा० ) । यथा च - अमृतत्वं च परस्मिन् ब्रह्मण्युपपद्यते न कार्ये विनाशित्वात् कार्यस्य (ब्र० सू० ४ । ३ । १३ शांभा० ) । अमृताक्षरम्, अमृताक्षर ब्रह्म । यथा- यच्चामृताक्षरं ब्रह्म तदाविद्यकं सर्ववृत्याभिव्यक्तं सत् । हरतीति हरः । द्योतत इति देवः स क्षरात्मानावीशत ईष्टे । तस्येदृशस्यामृताक्षरस्य हरस्याभिधानान्निदिध्यासनाद् योजनाच्छ्रवणमननात्मकात् तत्त्वभावादपरोक्षज्ञानादिव स्वमायासंसारलक्षणा निवर्तते (सं० शा० ४।४६ सु० टी०) । अम्भः, अम्भ धुलोकाः । यथा - वाचो लोकः परेण. दिवं धुलोकात् परेण परस्तात् सोम्भः शब्दवाच्योऽम्भो भरणात् । द्यौः प्रतिष्ठाऽऽश्रयस्तस्याम्भसो लोकस्य (ऐ० उप० १।२ शा० भा० ) । यथा च धुलोकात्परस्ताद् ये महरादयो लोका यश्च तस्याम्भसो लोकस्य आश्रयो धुलोकास्ते सर्वेऽम्भः शब्देनोच्यन्ते (तत्रैव आ० गि० टी०) । अयनम्, अयन मोक्षगमनम् । यथा - अयनाय मोक्षगमनाय । (ब्र० सू० ४ । ३ । १४ वे० क० त० ) । अयशः,अयश अधर्मनिमित्ता कीर्तिः । यथा - अयशस्त्वधर्मनिमित्ता कीर्ति: (गी० १० ।५ शा०भा०) । अयशस्त्वधर्मनिमित्ता दोषकथनलोकनिन्दारूपा (तत्रैव म० सू०) । अयुक्तः, अयुक्त असमाहितमनस्कः । यथा - अयुक्तस्य श्रवणमननयोरनासक्तस्य बुद्धिब्रह्मात्मैक्यनिश्चयो नास्ति । प्रमाणविषयासम्भावनायाः प्रमेयविषयासम्भावनायांश्चानिरासात् । तथायुक्तस्यासमाहितमनसो भावना ब्रह्माकारान्तःकरणवृत्तिप्रवाहो नास्ति (गी० २।६६ नी० क०) । यथा च - यस्तु पुनरयुक्तोऽसमाहितः । (गी० १२/५२ शा० भा०) । यथा च यस्तु पुनरयुक्त ईश्वरायैतानि कर्माणि न मम फलायेत्यभिप्रायशून्यः (तत्रैव म० सू०) । यथा च - यस्तु पुनरयुक्तोऽसमाहितः (तत्रैव भाष्यो०) । यथा च - अयुक्तस्तु बहिर्मुखः (तत्रैवश्रीधरी) । अयतिः, अयति वेदान्तवाक्येषु श्रद्धायुक्तः यत्नशीलो यावत् । यथा - अयतिर्यलशीलः । अल्पार्थे नञ् । अलवणा यवागुरित्यादिवदयतिरल्पप्रयत्नः श्रद्धया गुरुवेदान्तवाक्येषु विश्वासबुद्धिरूपयोपेतो युक्तः (गी० ६।३६ म० सू०) । अयथार्थः, अयथार्थ असुदर्थः, विशेष्यसमानाधिकरणप्रकारकः अर्थः सदर्थः, तद्विपरीतः असदर्थ इति यावत् । यथा शुक्तौ रजतम्, रज्जौ सर्पः इति च । अयथार्थबुद्धिः (बुद्धेर्भेदः), अयथार्थबुद्धि (बुद्धेर्भेदः) १. अत्रायथार्थत्वम् - तदभाववति तत्प्रकारकत्वम् । यथा शुक्तौ इदं रजतमिति ज्ञानम् । अत्र प्रसिद्धशुक्तिरजतत्वयोरलीक एव समवायो भासत इत्यसत्ख्यातिं वाचस्पतिमिश्रा अभिप्रयन्ति (सि० च० १/१९) । २. अर्थव्यभिचार्यप्रमाणजन्यं ज्ञानम् (त० भा०) । ३. प्रमाणाभासजन्यं ज्ञानम् (त० कौ० ६) । तच्छून्ये तन्मतिः (भा०प० गु० श्लो० १२८) ।४. तद्भाववति तप्रकारकं ज्ञानम् (चि० १।१०) । मीमांसकप्राभाकरमते अयर्थार्थबुद्धिः अयथार्थज्ञानं वा अप्रसिद्धम् । यतो हि सर्वं ज्ञानं सदेव भवति । शुक्तौ इदं रजतमिति ज्ञाने पुरोवर्त्ति शुक्तिज्ञानरजतस्मरणाभ्यामेव रजतानयने प्रवृत्त्युपपत्तेः (सि० च० १ । १९) । अयथार्थानुभवः, अयथार्थानुभव अप्रमा । अनुभवो द्विविधः यथार्थानुभवः अयथार्थानुभवश्च । यथा - सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विविधा स्मृतिरनुभवश्च । संस्कारमात्रजन्यं ज्ञानं स्मृतिः। तद्भिन्नं ज्ञानमनुभवः । स द्विविधः यथार्थोऽयथार्थश्च । तद्वति तप्रकारकोऽनुभवो यथार्थः सैव प्रमेत्युच्यते । तदभाववति तत्रकारकोऽनुभवोऽयथार्थः । सैवाप्रमेत्युच्यते (त० सं० प्र० प० ) । अर्थवादः, अर्थवाद प्राशस्त्यपरमथवा निन्दापरं वाक्यमर्थवादः । यथा - अर्थवादानां तु स्वार्थपरत्वे प्रयोजनाभावादध्ययनविधिवशेन फलवदर्थज्ञानार्थत्वस्यावश्यकत्वाद् विधेयगतप्राशस्त्यप्रतिपादनद्वारा विध्येकवाक्यतया प्रामाण्यम् । स च चतुर्विधः निन्दाप्रशंसापराकृतिपुराकल्पभेदात् । (मी०प०) अस्य उपभेदोऽपि । यथा विरोधे गुणवादः स्यादनुवादोऽवधारिते। भूतार्थवादस्तद्वादादर्थवादस्त्रिधा मतः । इमे त्रय उपभेदा अर्थसंग्रहे । यथा क्रमेण उदाहरणानि - अश्रुजं रजतम्, वायुर्वै क्षेपिष्ठा देवता, अग्निर्वा अकामयत । तम् अशयद् धिया त्वा वध्यासुः (तत्रैव) । यथा च - प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनमर्थवादः । यथा तत्रैव - उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् इत्यद्वितीयवस्तुप्रशंसनम् (वे० सा० ६०) । यथा च - अस्य महिमानमिति स्तुतिरूपोऽर्थः, अर्थवादः । तच्चेत्थं याज्ञवल्क्यसूत्रमविद्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यतीति निन्दारूपोऽर्थवाद: (अ० सि० षड्लिङ्ग) । प्राशस्त्य निन्दान्यतरपरवाक्यम् । यथा च - वायुर्वै क्षेपिष्ठा देवता इत्यादि, सोऽरोदीतीत्यादि वा । अत्र च वायव्यश्वेतमालभेत भूतिकामो वायुर्वै क्षैपिष्ठा देवता वायुरेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति (कृष्णयजुः संहिता २।१।१ ) । इत्यादौ वायुर्वै क्षेपिष्ठेत्याद्यर्थवादो हि वायव्य ॐ श्वेतमालभेतेत्यादि विधिविहितं श्वेतपश्वालम्भनं श्वेतपशुकरणको यागः प्रशस्तः इति प्रशंसतीति विज्ञेयम् । सोऽरोदीद् यदरोदीत् तद्रूद्रस्य रूद्रत्वम् । (कृ० य० १-५-१) । इति वाक्यं तु क्रतावृत्विग्भ्यो रजतं न देयम् इति निषिद्धम् । रजतदक्षिणादानं निन्दतीति बोध्यम् । अर्थवादश्चतुर्विधः - स्तुतिः, निन्दा, पराकृतिः पुराकल्पः (गौ० २।१।६४) । प्रकारान्तरेण स त्रिविधो गुणवादः, अनुवादः, भूतार्थवादश्चेति (न्या० भ० ४ प्र० ३०) तदुक्तं विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्वादादर्थवादस्त्रिधा मतः (न्या० म० ४ प्र० ३१) । मीमांसकास्तु विधिशेषो निषेधशेषो द्वैविध्येन बभाषिरे (लौ० भा० ६।७) । अर्थवादशब्दार्थः, अर्थवादशब्दार्थ अर्थस्य प्रयोजनस्य वादो वादनम् । विध्यर्थप्रशंसापरं वचनमित्यर्थः । अयं वादो हि स्तुत्यादिद्वारा विध्यर्थं शीघ्रं प्रवृत्तये प्रशंसति (गौ० वृ० २-१-६३)।. निषिद्धार्थं शीघ्रं निवृत्तये निन्दति च । स चायं अर्थवाद: लोके वेदे च समानः (त० कौ० ४-४) । तत्र लौकिकः ओदनकामस्तण्डुलं पचेत् तृप्तिकामस्तण्डुलौदनं भुञ्जीतेत्यादौ विध्यर्थस्य तण्डुलपाककरणस्य तण्डुलौदनभोजनरूपस्य च स्तावकं तण्डुलपाक ऋषिभिः पूर्वं स्वर्गाद्यर्थकृतः ओदनममृतम् इत्यादिवाक्यम् । एवं कफज्वरपीडितो दुग्धं न पिबेदित्यादिनिषेधविधिस्थलेऽपि दुग्धपानस्य निन्दकं पशुभिर्भक्षितेनापथ्यतृणादिना दुग्धं जन्यते, तच्च विषरूपभीत्यादिकं वाक्यम् । वैदिकोदाहरणानि चानुपदं प्रदर्श्यन्ते । अर्थवादश्च विधिनिषेधभिन्नः शब्दः । यथा आदित्यो यूपः, अग्निर्हिमस्य भेषजम् वज्रहस्तः पुरन्दरः, इत्यादि (त० कौ० ४ पृ० १७) । आद्यं गुणवादोदाहरणम्, द्वितीयमनुवादोदाहरणम्, तृतीयं भूतार्थवादोदाहरणम् । अर्थान्तरम्, अर्थान्तर (क) प्रकृताद् अथवा प्रकरणागतादर्थाद् अन्योऽर्थोऽर्थान्तरम् । निग्रहस्थानम्। प्रकृतादर्थादप्रतिसम्बद्धार्थम् अर्थान्तरम् (गौ० ५।२।४) । (ख) प्रकृतोपयुक्तमर्थमुपेक्ष्यासम्बद्धार्थाभिधानम् । प्रकृतानाकाङ्क्षिताभिधानमिति फलितार्थः। यथा अनित्यः शब्दः कृतकत्वादित्युक्त्वा शब्दो गुणः स चाकाशस्येत्यादि (गौ० वृ० ५।२।७) (न्यायकोश:) । अर्थापत्तिः, अर्थापत्ति (क) शाङ्करवेदान्त्यभिमतेषु प्रमाणेषु एकं प्रमाणम् । अन्येऽपि केचन दार्शनिका इदं प्रमाणं मन्यन्ते । उपपाद्यस्य (कार्यस्य) ज्ञानेन उपपादकस्य (कारणस्य) कल्पनम् (ज्ञानम्) अर्थापत्तिः प्रमा । अनयोर्द्वयोर्मध्ये उपपाद्यज्ञानम् प्रमाणम् (कारणं साधनं वा) तथा उपपादकं ज्ञानम् प्रमा (फलम्) अस्ति । यथोक्तम्उपपाद्यज्ञानेनोपपादकज्ञानम् अर्थापत्तिः । तत्रोपपाद्यज्ञानं करणम् । उपपादकज्ञानं फलम् । येन विना यदनुपपन्नं तत् तत्रोपपाद्यम् । यस्याभावे यस्यानुपपत्तिस्तत् तत्रोपपादकम् । यथा रात्रिभोजनेन विना दिवाऽभुञ्जानस्य पीनत्वमनुपपन्नमिति तादृशपीनत्वस्यानुपपत्तिरिति रात्रिभोजनमुपपादकम् । रात्रिभोजनकल्पनारूपायां प्रमितावर्थस्यापत्तिः कल्पनेति षष्ठीसमासेन अर्थापतिशब्दो वर्तते, कल्पनाकरणस्य पीनत्वादिज्ञाने त्वर्थस्यापत्तिः कल्पना यस्मादिति बहुब्रीहिसमासेन वर्तते इति फलकरणयोरुभयोस्तत्पदप्रयोगः (वे० प० ५ प्र०) । अत्र षष्ठीसमासबहुब्रीहि समासाभ्यां फलरूपा प्रमाणरूपा (करणरूपा) च अर्थापतिरिति तात्पर्यम् । (ख) अर्थापत्तिः - अनुमानम् । वाक्यार्थसम्प्रत्ययेनानभिहितस्यार्थस्य प्रत्यनीकभावाद् ग्रहणमर्थापत्तिः (वात्स्या० २ । २ । २) । (ग) अनुपद्यमानेनार्थेनोपपादकमानम् । यथा वृष्ट्या मेघज्ञानम् (गौ० वृ० २।२।१)। (घ) यत्राभिधीयमानेऽर्थे योऽन्योऽर्थः प्रसज्यते सोऽर्थापत्तिः यथा मेघेष्वसत्सु वृष्टिर्न भवतीति । किमत्र प्रसज्यते सत्सु भवतीति (वात्स्या० २।२।१ ) । (ङ) पुनरनुसन्धीयमानशब्दासहकृतमनुपपत्तिं ज्ञानमिति (गदाधरभट्टाचार्यः) । (च) उपपाद्यज्ञानेनोपपादककल्पनमर्थापत्तिः । तत्रोपपाद्यमानं करणम् । उपपादकज्ञानं फलम् । सेयमर्थापत्तिर्द्विविधा - यथा - सा चार्थापत्तिर्द्विविद्या- दृष्टार्थापत्तिः श्रुतार्थापत्तिश्चेति । तत्र दृष्टापत्तिर्यथा इदं रजतमिति पुरोवर्त्तिनि प्रतिपन्नस्य रजतस्य नेदं रजतमिति । तत्रैव निषिध्यमानत्वं सत्यत्वेऽनुपपन्नमिति रजतस्य सद्भिन्नत्वं सत्यत्वात्यन्ताभाववत्वं वा मिथ्यात्वं कल्पयतीति । श्रुतार्थापत्तिर्यथा यत्र श्रूयमाणस्य स्वार्थानुपपत्तिमुखेनार्थान्तरकल्पनम् । यथा तरति शोकमात्मवित् इत्यत्र श्रुतस्य शोकशब्दवाच्यबन्धजातस्य ज्ञातनिर्वत्यत्वस्यान्यथानुपपत्त्या बन्धस्य बन्धस्य मिथ्यात्वं कल्प्यते । यथा वा जीवी देवदत्तो गृहे नेति वाक्यश्रवणानन्तरं जीविनो गृहासत्त्वं बहिः सत्त्वं कल्पयति । श्रुतार्थापत्तिश्च द्विविधा - अभिधानानुपपत्तिरभिहितानुपपत्तिश्च । तत्र यत्र वाक्यैकदेशश्रवणेऽन्वयाभिधानानुपपत्त्याऽन्वयाभिधानोपयोगिपदान्तरं कल्प्यते तत्राभिधानानुपपत्तिः । यथा द्वारमित्यत्र पिधेहि इत्यध्याहारः, यथा वा विश्वजिता यजेत् इत्यत्र स्वर्गकाम इति पदाध्याहारः । .... अभिहितानुपपत्तिस्तु यत्र वाक्यावगतोऽर्थोऽनुपपन्नत्वेन ज्ञातः सन्नर्थान्तरं कल्पयति । तत्र द्रष्टव्या । यथा स्वर्गकामो ज्योतिष्टोमेन यजेत इत्यत्र स्वर्गसाधनत्वस्य क्षणिकज्योतिष्टोमयागगततयाऽवगतस्यानुपपत्त्या मध्यवर्त्त्यपूर्वं कल्प्यते । न चेयमर्थानुपपत्तिरनुमानेऽन्तर्भवितुमर्हति । अन्वयव्याप्त्यज्ञानेनान्वयिन्यनन्तर्भावात् । व्यतिरेकिणश्चानुमानत्वं प्रागेव निरस्तम् । अत एवार्थापत्तिस्थलेऽनुमिनोमीति नानुव्यवसायः। किन्तु अनेनेदं कल्पयामीति । नन्वर्थापत्तिस्थले इदमनेन विनानुपपन्नमिति ज्ञानं करणमित्युक्तम्, तत्र किमिदं तेन विनानुपपन्नत्वम् । तदभावव्यापकाभावप्रतियोगित्वम् । इति ब्रूमः । एवमर्थापत्तेर्मानान्तरत्वसिद्धौ व्यतिरेकि नानुमानान्तरम् । पृथिवीतरेभ्यो भिद्यते इत्यादौ गन्धवत्त्वमितरभेदं विनाऽनुपपन्नमित्यादिज्ञानस्य करणत्वात् । अत एवानुव्यवसायः पृथिव्यामितरभेदं' कल्पयामीति (वे० प० ५ १०) । अरुन्मुखः, अरुन्मुख अवेदान्तिनः । यथा- रौति यथार्थं शब्दयति इति रुद् वेदान्तवाक्यं तद् मुखे येषां ते । (ब्र० सू० १ । १ ।३१ वे० क०) वेदान्तवाक्यमुख इत्यर्थः । एतद् विपरीतार्थः अरुन्मुखः। अर्थाद् अवेदान्तवाक्यवादी अवेदान्तीति । अर्कः, अर्क १ . अग्नेर्नाम । यथा - अग्नेरेतद्गौणं नामार्क इति (बृ० आ० उप० १।२।१ शां० भा० ) । २. सूर्यः । अर्चिः, अर्चि १ . अर्चिरितिनामक एको मार्गः अयं ज्योतिर्मार्गो देवयानमित्यप्युच्यते । तेन उत्तरायणे मृता येन अर्चिमार्गेण गच्छन्ति ते उत्तमां गतिं लभन्ते अनावृत्तिं च प्राप्नुवन्ति । यथा - अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् (गी० ८।४) । यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ (गी० ८।२३) । यथा च आपूर्यमाणपक्षाद्यान् षड्डुदङेति मासांस्तान् (छा० उ० ४/१५/५) । अथ यत्रैतदस्माच्छरीरादुत्क्रामत्ययैतैरेव रश्मिभिरुदूर्ध्वमाक्रमते (छा० उ० ८।६।५) । तयोर्ध्वमायन्नमृतत्वमेति (छा० उ० ८।६।६)। तस्माच्छताधिकतया नाड्या निष्क्रामन् रश्म्यनुसारी निष्क्रामतीति गम्यते (ब्र० सू० ४।२।१८ शा० भा०) । दर्शयति चैतमर्थं श्रुतिः - अमुष्मादादित्यात् प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुस्मिन्नादित्ये सृप्ताः (छा० ८।६।२) (ब्र० सू० ४।२।१९) । इति च श्रौतावेतौ देवयानपितृयाणौ प्रत्यभिज्ञायेते स्मृतावपीति उच्यते तं काले वक्ष्यामि (गी० ८।२३) (ब्र० सू० ४।२।२१) । यथा च अग्निरर्चिरादिदेवता ज्योतिरादित्यदेवता (ब्र० सू० ४/२/२१ वे० क० त०) । यथा च सगुणोपासकानां चार्चिरादिमार्गेण ब्रह्मलोकं गतानां तत्रैव श्रवणाद्युत्पन्नतत्त्वसाक्षात्काराणां ब्रह्मणा सह मोक्षः। कर्मिणां तु धूमादिमार्गेण पितृलोकं गतानामुपभोगेन कर्मक्षये सति पूर्वकृतसुकृतदुष्कृतानुसारेण ब्रह्मादिस्थावरान्तेषु पुनरुत्पत्तिः (वे० प० ८ प०) । तेषामेषां ब्रह्मादीनां नार्चिराधा गतिर्मार्गोऽस्ति वो युस्माकमप्येतत् सम्मतमित्यर्थः । .... तस्मादस्या गतेर्निगुणब्रह्मविद्यासम्बन्धित्वं भवद्भिर्वैदिकैर्नैषितव्यं सगुणविद्यावतां ब्रह्मलोकगमनमार्गोऽयमर्चिरादिर्न साक्षात् मुक्तिमार्गः । साक्षान्मुक्तिमार्गस्तु देवानां मनुष्याणां वा ज्ञानोदयसमनन्तरमेवेति (सं० शा० ४।४७ अ० टी०) । २. अर्चिरभिमानिनश्चेतना देवताविशेषाः । यथा - ये तावदर्चिमार्गास्ते देहवियोगात् संपिण्डितकरणग्रामा इत्यस्वतन्त्रा अर्चिरादीनामप्यचेतनत्वादस्वातन्त्रमित्यतोऽर्चिराघभिमानिनश्चेतना देवताविशेषा अतियात्रायां नियुक्ता इति गम्यते ( ब्र० सू० ४।३।५ शा० भा०) । यथा च - साधूक्तमातिवाहिका देवतात्मानोऽर्चिरादय इति । (ब्र० सू० ४।३।६ शा० भा०) । ३. अयम् अर्चिमार्ग एव अग्निमार्गः ज्योतिर्मार्गः अहोमार्गः शुक्लमार्गः देवयानम्, उत्तरायणमार्गः इत्यादिपदैर्व्यवह्रियते । अर्चिफलम्, अर्चिफल शुक्लार्चिगत्या प्रयाणे मोक्षफलम्, कृष्णार्चिगत्या च पुनर्जन्मादि । यथा - शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः (गी० ८।२६) । अत्र श्रीधरस्वामी शुक्लार्चिरादिगतिः प्रकाशमयत्वात्, कृष्णाधूमादिगतिस्तमोमयत्वात् । एते गती मार्गौ ज्ञानकर्माधिकारिणो जगतः शाश्वते अनादी सम्मते संसारस्यानादित्वात् । तयोरेकया शुक्लया निवृत्तिं मोक्षं याति अन्यया कृष्णया तु पुनरावर्तते । अर्चिः = किरणम् । यथा - सहस्रार्चिः सप्तसप्तिर्मरीचिमान् (वाल्मीकीय रा० ४ आ० हृदये) । अलातम्, अलात १. उल्का, २. ज्वलदङ्गारः । अलातचक्रम्, अलातचक्र ज्वलदङ्गारो भ्राम्यमानो वर्तुलाकारोऽवभासते । स एकदेशस्थोऽपि वर्तुलचतुर्दिगवस्थित इव प्रतीयते । विभ्रमबोधनार्थम् आलातचक्रोपमा दीयते । जगद् आलातचक्रवदिति । यथा नहि द्विचन्द्रालातचक्रगन्धर्वनगरादिविभ्रमाः समुद्दिष्टप्रयोजना भवन्ति (ब्र० सू० २ । १ । ३३ शा० भा०) । यथा च - अलातचक्रमिव स्फुरन्तमादित्यवर्णम् (मैत्रायणब्राह्मणोपनिषदि ६।२४) । यथा च - अलातचक्रप्रतिमा दृष्टा गोष्पदवत्कृता (वाल्मीकिरामा० कि० का० ४६।१३) । यथा च - अलातचक्रवत् सैन्यं तदा बभ्राम तावकम् (म० भा० कर्णप० ८६ (४२) । यथा च-अलातचक्रनिर्माण- स्वप्नमायाम्बुचन्द्रकैः (आर्यदेवस्य चतुःशतके १३।२५) । अलातशान्तिः, अलातशान्ति माण्डूक्योपनिषदः श्रीगौडपादस्य माण्डूक्यकारिकाग्रन्थस्य चतुर्थप्रकरणस्येदं नाम । अस्यार्थः - वैतथ्याद्वैतयोः सिद्धौ अलातवन्मनसः स्पन्दनस्य शान्तिर्भवति । अलातस्पन्दितम्, अलातस्पन्दित उल्काचलनम् । यथा - यथा हि लोके ऋजुवक्रादिप्रकाराभासमालातस्पन्दितमुल्काचलनं तथा ग्रहणग्राहकाभासं विषयिविषयाभासमित्यर्थः । (मा० उ० गौ० का० ४।४७ शा० भा०) । यथा च - यदा खल्वालातं स्पन्दमानमवतिष्ठते तदा तस्मिन्नन्यतो देशान्तरादागत्याभासा भवन्तीति न शक्यं वक्तुमृजुवक्राद्याभासानां देशान्तरादागमनस्यानवगमाद् यदा तदेवालातं निस्पन्दनं स्पन्दनवर्जितं वर्तते तदा तदन्येऽत्राभासा भवन्तीत्यपि न युक्तं वक्तुमनुपलम्भाविशेषात् (मा० उ० गौ० का० ४।४९ आ० गि०) । यथा च श्री गौ० पा० कारिकाः ऋजुवक्रादिकाभासमलातस्पन्दितं यथा । ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा (४।४७)। अस्पन्दमानमालातमनाभासमजं यथा । अस्पन्दमानं विज्ञानमनाभासमजं तथा (४।४८) । अलाते स्पन्दमाने वै नाभासा अन्यतो भुवः । न ततोऽन्यत्र निस्पन्दान्नालातं प्रविशन्ति ते (४।४९)। अल्पम्, अल्प १. द्वैतम् । यथा - अल्पमेधसाम्-यत्रान्यत् पश्यत्यच्छृणोत्यन्यत् मनुतेऽन्यद् विजानाति तदल्पम् इति श्रुतेः द्वैतमल्पं तत्रैव मेधा येषां ते (गी० ७।२३ नी० क०) । २. मर्त्यं यत्रान्यत् पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्य ँस भगवः..... (छा० उ० २४।१ ) । अवगमः, अवगम मानम्, फलं च । यथा - प्रत्यक्षावगममवगम्यतेऽनेनेत्यवगमो मानम्, अवगम्यते प्राप्यते इत्यवगमः फलम् । प्रत्यक्षमवगमो मानमस्मिन्निति स्वरूपतः साक्षिप्रत्यक्षत्वम्, प्रत्यक्षोऽवगमोऽस्येति फलतः साक्षिप्रत्यक्षत्वम् मयेदं विदितमतो नष्टमिदानीमत्र ममाज्ञानमिति हि सार्वलौकिकः साक्ष्यनुभवः (गी० ९२ म० सू०) । यथा च प्रत्यक्षावगमं च प्रत्यक्षः स्पष्टोऽवगमोऽवबोधो यस्य तत् प्रत्यक्षावगमम् (तत्रैव श्रीधरी) । अवच्छिन्नो ब्रह्मविकारः, अवच्छिन्नो ब्रह्मविकार ननु यथावच्छिन्नस्याहङ्कारास्पदस्यानवच्छिन्नब्रह्मात्मतया भवत्यभावः । एवं प्रतीकानामपि भविष्यति । अवच्छेदः, अवच्छेद परिच्छेदः, परिमितिः, परिमितीकरणम् । यथा अपरिमितस्य आकाशस्य करसम्पुटेन कराकाशकरणेन परिमितीकरणम् । एवमेव अपरिमितस्य अपरिच्छिन्नस्य व्यापकस्य ब्रह्मणश्चैतन्यस्य अन्तःकरणावच्छेदेन अवच्छिन्नं कृत्वा अन्तःकरणावच्छिन्नं चैतन्यं जीव इत्युच्यते । अवच्छेदवादः, अवच्छेदवादः सर्वज्ञस्य व्यापकस्य ब्रह्मणश्चैतन्यस्य जीवभावापादानाय शाङ्करवेदान्ते त्रयो वादाः सन्ति - अवच्छेदवादः आभासवादः प्रतिबिम्बवादश्च । तत्र अवच्छेदवादः श्रीवाचस्पतिमिश्रस्य आभासवादः आचार्य श्रीसुरेश्वरस्वामिनः प्रतिबिम्बवादः पञ्चपदिकातविवरणसंक्षेपशारीरककृतां श्रीपद्मपादाचार्यप्रकाशयतिसर्वज्ञात्ममुनीनाम् । अत एव एवं प्रसिद्धिः- वाचस्पतेरवच्छेद आभासो वार्त्तिकस्य च । संक्षेपशारीरकृतां प्रतिबिम्बमिद्वेष्यते। अपरिच्छिन्नस्य अपरिमितस्य व्यापकस्य सर्वज्ञस्य ब्रह्मचैतन्यस्य अवच्छेदद्वारा आभासद्वारा प्रतिबिम्बद्वारा वा परिच्छिन्नपरिमिताल्पज्ञजीवरूपापादनमेवएतेषां त्रयाणां वादानां प्रयोजनम् । एकस्मादपरिच्छिन्नात् परब्रह्मणो मायाकृतोपाधिवशात् सकलप्रपञ्चः परिच्छिद्यते । यथा - अपरिच्छिन्नादाकाशादुपाधिवशाद् घटाकाशपटाकाशादयः परिच्छिद्यन्ते । यथोक्तम् - सत्यमेवैतत् पर एवात्मा देहेन्द्रियमनोबुद्ध्यादिभिः परिच्छिद्यमानो बालैः शारीर इत्युपचर्यते । यथा घटकरकाधुपाधिवशादपरिच्छिन्नमपि नभः परिच्छिन्नवदवभासते तद्वत् (ब्र० सृ० १ ।२।६ शा० भा०) । एतेषां सूत्राणां शाङ्करभाष्येऽयं वादः संकेतितः ब्र० सू० १/१/५, १/२/६, १/२/२०, १/३/७, २/१/१३, २१/१४, २१/२२, २३१७, २/३४३२३४६ ३/२/१८, १९, २० । वाचस्पतिमिश्रैश्च अविद्योपाधानकल्पितावच्छेदो जीवः परमात्मप्रतिविम्बकल्पः (२/२/१० ब्र० सू० भाम० ) । यथा च - अज्ञानविषयीभूतं चैतन्यमीश्वरः । अज्ञानाश्रयीभूतं च चैतन्यं जीव इति वाचस्पतिमिश्राः । अस्मिंश्च पक्षे अज्ञाननानात्वाज्जीवनानात्वम् । प्रतिजीवं च प्रपञ्चभेदः । जीवस्यैवाज्ञानोपहिततया जगदुपादानत्वात् । प्रत्यभिज्ञा चातिसादृश्यात् ईश्वरस्य च सप्रपञ्चजीवाविद्याधिष्ठानत्वेन कारणत्वमुपचारादिति । अयमेव चावच्छेदवादः (सि० वि० १) । अज्ञानम् उपाधिः । तच्च अज्ञानं विषयतासम्बन्धेन ईश्वरस्वरूपस्यावच्छेदकं तथा आश्रयतासम्बन्धेन जीवस्वरूपस्यावच्छेदकम् । अस्मिन् मते जीव एव अविद्यासहायतया जगत् कल्पयति । यथान्ये आचार्या व्यवहारसिद्ध्यर्थं कूटस्थम्, ब्रह्म, ईश्वरः जीवश्चेति चत्वारि चैतन्यानि, शुद्धं जीव ईशश्चेति त्रीणि वा कल्पयन्ति । तदत्र पक्षे चैतन्यद्वयमेव कल्पनीयं भवति निरुपाधिकः शुद्धः ईश्वरस्तथा जीवः । श्रीवाचस्पतिमिश्रैः रचनानुपत्त्यधिकरणस्य वाक्यान्वयाधिकरणस्य च भामत्यां प्रतिबिम्बवादः समीक्षितः । आभासवादो नाम – स्फटिके जपाकुसुमलौहित्यमिव परमात्मन अविद्यायां भासः प्रतीतिः । यथा - आभास एव चैष जीवः परमात्मनो जलसूर्यादिवत् (ब्र० सू० २ ।३।५० शा० भा०) जीवो हि नाम देवताया आभासमात्रः (छा० उ० ६ ।३।२ शा० भा०) । विशदज्ञानार्थम् आभास शब्दो द्रष्टव्यः । प्रतिबिम्बवादो नाम – दर्पणाद्युपाध्यन्तर्गतत्वे सति औपाधिकपरिच्छेदशून्यत्वे च सति बहिः स्थितस्वरूपकत्वम् प्रतिबिम्बत्वम् (सि० वि० ८ ब्र० टी०) । आभासवादः प्रतिबिम्बवादश्च समालोचितौ । आभासवादे ब्रह्मातिरिक्तानां सर्वेषां मिथ्यात्वेन जीवोऽपि मिथ्या स्यात्तेन च बन्धमोक्षव्यवस्था न स्यात् जीवस्य मिथ्यात्वं स्यात् माध्यमिकमतप्रवेशंश्च स्यात् । प्रतिबिम्बवादे श्री वाचस्पतिमिश्रो दोषमुद्घाटयन् कथयतिगन्धस्पर्शरसादीनां कीदृशी प्रतिबिम्बता । तथा बिम्बप्रतिबिम्बयोरभेदेन प्रतिबिम्बस्य सत्यत्वे बिम्बवत् प्रतिबिम्बरूपजीवस्यापि सर्वज्ञत्वाद्यापत्तिस्तथा जीवस्य कदापि मुक्तिर्न स्यात् । तस्य सत्यत्वात् । एतदर्थमुच्यते - अविद्यायां प्रतिविम्बितो जीवः अतः असत्य एव । अवच्छेदवादे इदं दूषणं दीयते यद् यथा अन्तःकरणावच्छिन्नं चैतन्यं जीवस्तथैव घटावच्छिन्नं चैतन्यमपि जीवः स्यात् । एतदर्थमुच्यते अन्तःकरणे स्वच्छत्वविशेषणं देयम् । यद्येवं तर्हि प्रतिबिम्बवाद एवागतः । आभासवादस्य विशदज्ञानार्थम् आभास शब्दस्तथा प्रतिबिम्बवादस्य विशदज्ञानार्थं प्रतिबिम्बशब्दो द्रष्टव्यः । ब्र० सू० १ ।४।४ कल्पतरुपरिमले प्रतिबिम्बवादावच्छेदवादयोरुभयोः सामञ्जस्यं कृतमुभयवादे दोषमुद्घाट्य दोषोद्धारश्च कृतः । यथोक्तं रूपवत एव प्रतिबिम्व इति नास्ति नियमः । रूपसंख्यापरिमाणसंयोगविभागपरत्वापरत्वचलनसुखत्वादिजातीनां प्रतिबिम्बदर्शनात् । ... संख्याया एव संख्यारूपगुणाश्रयभूताया नीरूपायाः प्रतिबिम्बदर्शनात् । अस्ति हि संख्यायामपि संख्या । एकत्वं प्रथमसंख्या द्वित्वं द्वितीयसंख्या तस्माद् रूपवत एव प्रतिबिम्ब इति नियममवलम्ब्यात्मप्रतिबिम्बनिराकरणमयुक्तम् । किं प्रतिबिम्बोपाधेर्वस्तुतो रूपवत्त्वं प्रतिबिम्बने प्रयोजकमिष्यते उत रूपवत्त्वेन ग्रहणम् । आद्ये नात्मनोऽन्तःकरणे प्रतिबिम्बनानुपपत्तिः । अन्तःकरणस्य त्रिवृत्करणेन पञ्चीकरणेन वा रूपवत्त्वात् । न द्वितीयः निजरूपवत्त्वेन अगृह्यमाणेऽपि स्फटिके सन्निहितजपाकुसुमप्रतिबिम्बनेन अरुणः स्फटिक इति व्यवहारदर्शनात् । तस्माद् निरवद्यः प्रतिबिम्बपक्षः । ....... नच मोक्षस्यानर्थबहुलता । यतः प्रतिबिम्बानामेव श्यामतावदातते न बिम्बस्य । एवं जीवानामेव नानावेदनादिभिः सम्बन्धः । ब्रह्मणस्तु बिम्बस्येव न तदभिसम्बन्धः ।.... तस्मात् प्रतिबिम्बपक्ष एवाचार्याणां सिद्धान्त इति । अथावच्छेदपक्षमभ्युपगच्छतां मतमनुसृत्योच्यते । प्रतिबिम्वपक्षो भाष्यकारैरेव न स्थानतोऽपि (ब्र० सू० ३।२।११) इत्यधिकरणे निराकृतः । .... अतो न क्वाप्यात्मनः सर्वगतस्य प्रतिबिम्बो युक्त इति ।.... तस्माज्जीवेश्वरोपाधिभ्यां वास्तवतदुभयाभावेन तत्तद्गुणोपाधिभेदेन चावच्छेदकभेदेन जीवेश्वरशुद्धचैतन्यादीनां भेद आस्थेयः । एवं जीवेश्वरयोरप्यवच्छेदकभेदेन भेदो भविष्यतीति नानुपपन्नमत्र किञ्चित् । कल्पतरुपरिमलकारेण अत्र प्रतिबिम्बे एव आभासोऽपि संगृहीतः इति प्रतिभाति । विशदविवेचनं स्वीये शङ्कराप्रागद्वैतवादग्रन्थे कृतमस्ति । आभासवादेऽयं दोषो यद् आभासरूपो जीवो बद्धः केवलं चैतन्यं च मुक्तं तेन बन्धमोक्षव्यवस्था न सेत्स्यतीति शङ्कायां श्रीमधुसूदनसरस्वतीभिः सिद्धान्तविन्दौ एवं समाहितम् - न चाभासस्यैव बद्धत्वात् केवलचैतन्यस्य च मुक्तत्वाद् बन्धमोक्षयोर्वैयधिकरण्यम्, स्वनाशार्थं प्रवृत्त्यनुपपत्तेश्चेति वाच्यम् । केवलचैतन्यस्यैवाभासद्वारा बद्धत्वाभ्युपगमात् । तदुक्तं वार्त्तिककारैः अयमेव हि नोऽनर्थो यत्संसार्यात्मदर्शनम् (वा०) इति । तेन शुद्धचैतन्यस्याभास एव बन्धस्तन्निवृत्तिश्च मोक्ष इति न किञ्चिदसमञ्जसम् । आभासवादे एव अवच्छेदप्रतिबिम्बवादयोरन्तर्भावः । पञ्चदश्या अच्युतरायपण्डितविरचितपूर्णानन्देन्दुकौमुदी व्याख्यायामित्यमस्ति - कूटस्थो ब्रह्मजीवेशावित्येवं चिच्चतुर्विधा । घटाकाशमहाकाशौ जलाकाशाभ्रखे यथा (प० द० चि० दी० १८) । अस्मिन् प्रकरणे परं हरिहरचतुराननावतारीभूतभगवद्बादरायणश्रीशङ्करभगवत्पादश्रीमत्सुरेश्वराभिधसूत्रभाष्यवार्तिककार प्रणीतत्वेन त्रिमुनिव्याकरणवत् त्रीश्वरेऽस्मिन् अद्वैतशास्त्रे यथोक्तं मुनीनां प्रामाण्यमिति न्यायेन स्वोक्तजीवेश्वरस्वरूपसिद्धान्तस्य श्रीमच्चरममुन्याख्यवार्त्तिककृत्सम्मताभासवादेन सहैकमतध्वननार्थं तद्वादस्य चित्रपटघटाकाशादिदृष्टान्तैः द्विविधसरण्यैव बुभुत्सुबुद्ध्यधिरोहसौकर्यार्थमतुलकरुणयैवोपन्यासः कृतः। तत्र श्रीमद्वार्त्तिकारसम्मत आभासवादस्तूक्तः सिद्धान्तबिन्दौ । अज्ञानोपहित आत्माऽऽज्ञानतादात्म्यापन्नस्वचिदाभासाविवेकादन्तर्यामी साक्षी जगत्कारणमिति च कथ्यते । बुद्ध्युपहितश्च तत्तदाम्यापन्नस्वचिदाभासाविवेकाद् जीवः कर्ता भोक्ता प्रमातेति च कथ्यत इति वार्त्तिककारपादा इत्यादिना अयमेव पक्ष आभासवाद इति गीयत इत्यन्तेन आभासलक्षणं तूक्तं मया बोधैक्यसिद्धावेव प्रतिबिम्बेशवादारम्भ एव प्रकटार्थकृन्मतं प्रकृत्य - .. आभासत्वमपि च बिम्बनिघ्नसत्वे सत्येतत् समपरिभासमात्रतैवेति । अधीनो निघ्न आयत्त इत्यमराद् विम्बाधीनसत्ताकत्वे सतीत्यर्थः । एवं विम्बत्वोपाधित्वे अपि तत्रैव लक्षिते । यदीयप्रमा स्वप्रयुक्तं भ्रमं न प्रबाधेत तबिम्बमारादुपाधेः । स्वधर्माद्यारोपकत्वं हि तत्त्वं मुखादौ तु तद् दृश्यते दर्पणादेरिति । तत्त्वमुपाधित्वमिति यावत् । .... इति वार्त्तिकमततत्त्वविवेकमतयोर्जीवोपाध्योरैकरूप्ये सिद्धम् ।... एवं वार्त्तिकमतेऽपि सिद्धान्तबिन्दौ जहल्लक्षणामाभासवादेनोक्त्वाग्रे जहदजहल्लक्षणाया अपि सर्वसम्मततया उक्तत्त्वेन तत्त्वविवेकसम्मतप्रतिबिम्बवादस्याप्युक्ताभासवादे पर्यवसानं तदुपाध्यंशमिथ्यात्वेन प्रतिबिम्बवादेऽप्याभासवादपर्यवसानमित्युपधेयजीवस्वरूपैक्यमप्युक्तमतयोर्युक्तमेव । .... विद्यारण्या वदेयुः श्रुतिसमभिमतं वार्त्तिकाचार्यजुष्टम् । चिच्चातुर्विध्यमुक्तं द्विविधसरणितः स्पष्टमाभासवादम् । आदौ चित्रपटीनिदर्शनमिषादग्रे घटाकाशतस्तद्वारिस्थप्रतिबिम्बखाभ्रगतच्छायादिदृष्टान्ततः । रेखा एव धियो मताः किल ततः संस्कारसंघाः पटे । ये जाता: परिघट्टिते स तु न ते किं तैः परिच्छिद्यते । एवं तेऽपि समष्टिधीप्रकृतिमन्मायैकगास्तेन तद् । भेदः कः प्रतिबिम्बिताद् वद परिच्छिन्ने निरुक्ते भवेत् । अवच्छिन्नो जीवो न तु निगदितो वाक्पतिगिरा। प्रतिच्छायात्मासौ विवरणकृताद्यैरपि ततः । कथं नो भेदः स्यादिति न हृदयानाकलनतो । द्वयोरप्यादृत्यै गुरुभिरियमुक्तात्र सरणिः । इत्थमवच्छेदवादप्रतिबिम्बवादयोराभासवादेऽन्तर्भाव इति । विशदज्ञानार्थं सिद्धान्तबिन्दौ प्रथमश्लोकस्तत्रत्यरलावलीटीका च द्रष्टव्यौ । उक्तवादत्रयस्य सम्पत्त्यर्थं चतुर्विधं चैतन्यं कल्प्यते - यथा मूलभूतं निरुपाधिकं महाकाशम्, जलाद्युपाधिसन्निहितं सोपाधिकं द्वितीयम् आकाशम्, जलान्तर्गतं जलाद्यवच्छिन्नं तृतीयमाकाशम्, जले प्रतिबिम्बितं चतुर्थमाकाशम्, तथैव मूलं निरुपाधिकं शुद्धं चैतन्यम् एकम्, अविद्योपाधियुक्तं सोपाधिकं द्वितीयं चैतन्यम्, अविद्यावच्छिन्नम् अविद्यान्तर्गतं तृतीयं चैतन्यम्, अविद्याप्रतिबिम्बितं च चतुर्थं चैतन्यम् । एवं च प्रतिबिम्बवादे द्वितीयं चैतन्यमिश्वरस्वरूपं बिम्बं तथा चतुर्थमविद्याप्रतिबिम्बितं चैतन्यं जीवः इति । अवच्छेदवादे च प्रथमं चैतन्यमीश्वरस्वरूपम्, तृतीयमविद्यावच्छिन्नमविद्यान्तर्गतं चैतन्यं जीवः । आभासवादे तु उपाधिविशिष्टस्य चितः आभास एव जीवः । अस्मिन् पक्षे उपाध्यंशोऽपि मिथ्या आभासांशो जीवोऽपि मिथ्या एवं शुद्धं चैतन्यमेव सत्यम् । यत्र नानाविद्योपाधितया नानाजीवास्तत्र जीवदृष्ट्या सृष्टं जगत् । अतो दृष्टिसृष्टिवादः । यत्र एकैवाविद्या तयानुपहित ईश्वरः उपहितश्च जीव इति पक्षः जीवैक्यवादस्तत्र जीव एव अज्ञानाधीनः जगत उपादानकारणं तथा निमित्तकारणं तत्र सृष्टिदृष्टिवादः । यथा च - अज्ञानोपहितं बिम्बचैतन्यमीश्वरः । अज्ञानप्रतिबिम्बितं चैतन्यं जीव इति वा । अज्ञानानुपहितं शुद्धं चैतन्यमीश्वरः । अज्ञानोपहितं च जीव इतिं वा । मुख्यो वेदान्तसिद्धान्त एकजीववादाख्यः । इममेव च दृष्टिसृष्टिवादमाचक्षते । अस्मिंश्च पक्षे जीव एव स्वाज्ञानवशाज्जगदुपादानं निमित्तं च । दृश्यं च सर्वं प्रातीतिकम् । देहभेदाच्च जीवभेदभ्रान्तिः । एकस्यैव च स्वकल्पितगुरुशास्त्राद्युपबृंहितश्रवणमननादिदार्यादात्मसाक्षात्कारे सति मोक्षः । शुकादीनां मोक्षश्रवणं चार्थवाद: (सि० बि०१ ) । विशदज्ञानार्थम् आभासवादप्रतिबिम्बवादशब्दावपि द्रष्टव्यौ । अवभासः, अवभास मिथ्याज्ञानम् । यथा - अवसन्नोऽवमतो वा भासोऽवभासः । प्रत्ययान्तरबाधश्चास्यावसादोऽवमानो वा । एतावता मिथ्याज्ञानमित्युक्तं भवति (ब्र० सू० अध्यास भाम०) । यथा च - अवसादः उच्छेदः । अवमानो यौक्तिकतिरस्कारः (तंत्रैव क० त०) । उच्छेदो बाधकंज्ञानोदयानन्तरं भ्रमवृत्त्यन्तरोत्पत्तिप्रतिबन्धः । स पीतशङ्खविभ्रमादिष्वव्याप्त इति तत्साधारणं पक्षान्तरमुक्तं टीकायामवमतो वेति । तत्रावमानशब्दार्थमाह - यौक्तिकेति । तिरस्कारः इच्छाप्रवृत्त्यादिकार्यक्षमत्वापादनम् (तत्रैव क० त० परि०) । अवमत:, अवमत युक्त्या तिरस्कृतः । अधिकमवभासशब्दे द्रष्टव्यम् । अवरम्, अवर कार्यम् । यथा परं कारणम् । अवरं कार्यम् (ब्र० सू० १ १/४ क० त० ) । श्रूयते - श्रीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे (मुण्ड० २।२।८) । अवसन्नः, अवसन्नः उच्छिन्नः समाप्त इति यावत् । यथा - उच्छेदो बाधकज्ञानोदयानन्तरं भ्रमवृत्त्यन्तरोत्पत्तिप्रतिबन्धः (ब्र० सू० अध्यासे क० त० परि०) । अधिकम् अवभासशब्दे द्रष्टव्यम् । अवस्त्वनुपलम्भम्, अवस्त्वनुपलम्भ लोकातीतम् । यथा - अवस्त्वनुपलम्भं न ग्राह्यग्रहणवर्जितमित्येतल्लोकोत्तरम् । अत एव लोकातीतम् । ग्राह्यग्रहणविषयो लोकस्तदभावात् सर्वप्रवृत्तिबीजं सुषुप्तमित्येतदेवं स्मृतं सोपायं परमार्थतत्त्वं लौकिकम् (मा० उ० गौ० पा० का० ४।८८ शां भा०) । अवस्तु सोपलम्भम्, अवस्तु सोपलम्भ लौकिकम् । यथा - अवस्तु सवृत्तेरपि अभावात् । सोपलम्भं वस्तुवदुपलम्भनमुपलम्भोऽसत्यपि वस्तुनि तेन सह वर्तते इति सोपलम्भञ्च (मा० उ० गौ० पा० का० ४१८७ शा० भा०) । अवस्था, अवस्था १. वृद्धिक्षयादिधर्मविशेषाः । यथा - अवस्थास्तु विशेषाख्या उपजनापायधर्माणः तासां सर्वासामनिर्वचनीयतया स्वतो न परमार्थत्वम् । अन्वय्येव रूपं तु तासां तत्त्वम् । तस्य च सर्वत्र प्रत्यभिज्ञायमानत्वान्न विनाश इत्यवस्थातोऽविनाशान्नावस्थानां निरन्वयो विनाश इति । तासां तत्त्वस्यान्वयिनः सर्वत्राविच्छेदात् । स्यादेतत् मृत्पिण्डमृद्धटमृत्कपालादिषु सर्वत्र मृत्तत्वप्रत्यभिज्ञानाद् भवत्वेवम् । तप्तोपलतलपतितनष्टस्य तूदविन्दोः किमस्ति रूपमन्वयि प्रत्यभिज्ञायमानं येनास्य न निरन्वयो नाशः स्यादित्यत आह अस्पष्टप्रत्यभिज्ञानास्वपीति । अत्रापि तत्तोयं तेजसा मार्तण्डमण्डलमम्बुदत्वाय नीयत इत्यनुमेयम्, मृदादीनामन्वयिनामविच्छेददर्शनात् । शक्यं च तत्र वक्तुम् - उदबिन्दौ च सिन्धौ च तोयभावो न विद्यते । विनष्टेऽपि ततो बिन्दावस्ति तस्यान्वयोऽम्बुधौ । तस्मान्न कश्चिदपि निरन्वयो नाश इति (ब्र० सू० २ । २।२२) । २. जीवस्य शरीरस्थस्य चतस्रोऽवस्थाः । यथा - स तु किमवस्थ इति परीक्षायामुच्यते । तिस्रस्तावदवस्था: शरीरस्थस्य जीवस्य प्रसिद्धाः जागरितं स्वप्नः सुषुप्तमिति । चतुर्थी शरीरापतिः । न तु पञ्चमी काचिदवस्था जीवस्य श्रुतौ स्मृतौ वा प्रसिद्धास्ति । तस्माच्चतसृणामेवावस्थानामन्यतमावस्था मूर्च्छत्येवं प्राप्ते ब्रूमः । न तावन् मुग्धो जागरितावस्थो भवितुमर्हति । न ह्ययमिन्द्रियैर्विषयानीक्षते ( व्र० सू० ३/२/१० शा० भा०) । मुग्धो मूर्च्छित इत्यर्थः । ३. जांग्रत्स्वप्नसुषुप्तिरूपास्तिस्रोऽवस्थाः । चतुर्थी मोक्षावस्था चेति चतुर्विधा अवस्था इति केचन वेदान्तिनः । जाग्रदवस्था नाम इन्द्रियद्वारा बुद्धेर्विषयाकारपरिणामः । स्वप्नावस्था च संस्कारमात्रजन्यों बुद्धेर्विषयाकारपरिणामः । सुषुप्त्यवस्था तु द्विविधा अर्धलयसमग्रलयभेदात् । तत्रार्धलये स्वगतसुखदुःखमोहाकारैव बुद्धिवृत्तिर्भवति न तु विषयाकारा वृत्तिर्भवति । समग्रलये तु बुद्धिवृतिः सेति विज्ञेयम् । (सिद्धान्तबिन्दौ) इन्द्रियवृत्तिकालिकार्थोपलम्भो जागरणम् । इन्द्रियवृत्त्यभावकालिकार्थोपलम्भः स्वापः । न किञ्चिदवेदिषम् इति कारणमात्रोपलम्भः सुषुप्तिः । ४. कालकृतः परिणामः । सा चावस्था जायते अस्ति वर्द्धते विपरिणमते अपंक्षीयते नश्यति इति भावविकारः षड्विध इति निरुक्तकारो यास्कः ।५. अविद्यास्मितारागद्वेषाभिनिवेशभेदेन पञ्चविधेति पातञ्जलाः । ६. अनागतांवस्था अभिव्यक्तावस्था तिरोहितावस्थेतिभेदेन त्रिविधेति साङ्ख्याः । ७. कौमारं पौगण्डं बाल्यं कैशोरं यौवनं तारुण्यं वृद्धत्वं वर्षीयस्त्वमिति अष्टौ इति पौराणिकाः । ८. वाल्यकौमारयौवनवृद्धत्वभेदेन चतुर्विधेति 'भिषजः । ९. अभिलाषचिन्तास्मृतिगुणकथनोवेगसंलापाः । उन्मादोऽथ व्याधिर्जडता मृतिरिति दशकामदशाः इति काव्यज्ञाः । १०. आलाभप्राप्तेरेकमर्यादास्थितस्य सदवस्थानं सा अवस्था ( स० द० सं० नकुलीशद०) । अवान्तरप्रलयः, अवान्तरप्रलय यथा - इदानीं प्रलयो निरूप्यते - प्रलयो नाम त्रैलोक्यनाशः । स च चतुर्विधः - नित्यः प्राकृतो नैमित्तिक आत्यन्तिकश्चेति । तत्र नित्यः प्रलयः सुषुप्तिः । तस्याः सकलकार्यप्रलयरूपत्वात् । धर्माधर्मपूर्वसंस्काराणां च तदा कारणात्मनाऽवस्थानम् । तेन सुषुप्तोस्थितस्य न सुखदुःखाद्यनुभवानुपपत्तिः । प्राकृतप्रलयस्तु कार्यब्रह्मविनाशनिमित्तकः सकलकार्यनाशः । यदा तु प्रागेवोत्पन्नब्रह्मसाक्षात्कारस्य कार्यब्रह्मणो ब्रह्माण्डाधिकारलक्षणप्रारब्धकार्यसमाप्तौ विदेहकैवल्यात्मिका परा मुक्तिः, तदा तल्लोकवासिनाम् अप्युत्पन्नब्रह्मसाक्षात्काराणां ब्रह्मणा सह सह विदेहकैवल्यम् । ... स्थावरादीनां भौतिकानां भूतानां च प्रकृतौ मायायां च लयः न तु ब्रह्मणि । बाधरूपविनाशस्यैव ब्रह्मनिष्ठत्वात् । अतः प्राकृत इत्युच्यते । कार्यब्रह्मणो दिवसावसाननिमित्तकस्त्रैलोक्यमात्रप्रलयः नैमित्तिकप्रलयः । ब्रह्मणो दिवसश्च चतुर्युगसहस्रपरिमितकालः । · चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते इति वचनात् । प्रलयकालो दिवसकालपरिमितः । रात्रिकालस्य दिवसकालतुल्यत्वात् । .... तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकः सर्वमोक्षः । स च एकजीववादे युगपदेव । नानाजीववादे तु क्रमेण । सर्व एकीभवन्ति इत्यादिश्रुतेः । तत्राद्यास्त्रयोऽपि प्रलयाः कर्मोपरतिनिमित्ताः । तुरीयस्तु ज्ञानोदयनिमित्तो लयोऽज्ञानेन सहैवेति विशेषः । एवं चतुर्विधप्रलयो निरूपितः (वे० प० ७ १०) । अविक्रियः, अविक्रिय विकाररहितः अचिन्त्यः आत्मा । यथा - अत एवाचिन्त्योऽयं यद्धीन्द्रियगोचरं वस्तु तच्चिन्ताविषयत्वमापद्यतेऽयं त्वात्मानिन्द्रियगोचरत्वाद-. चिन्त्योऽत एवाविकार्यो यथा क्षीरं दध्यातञ्चनादिना विकारि न तथायमात्मा । निरवयत्वाच्चाविक्रियः । न हि निरवयवं किञ्चिद् विक्रियात्मकं दृष्टम् (गी० २/२५ शा० भा०) । अविक्रियम् = परिणामरहितम् । यथा = अपरिणामीत्यर्थः । यद् वा जायतेऽस्ति वर्द्धते विपरिणमतेऽपक्षीयते विनश्यतीति षड्भावविकारस्तच्छून्यमित्यर्थः (सं० शा० १/१ सु० टी०) । अविचलम्, अविचल परिणामरहितम्, यस्य परिणामो न भवेद् ब्रह्मेत्यर्थः । यथा अविचलं न परिणामीत्यर्थ: (सं० शा० ३/२९२ अ० टी० ) । अविज्ञातम्, अविज्ञात विषयत्वेन अविज्ञातम् यथा ब्रह्म । यथा - विषयत्वेनाविज्ञातमेव ब्रह्म सम्यग् विजानतां विज्ञातमेव विषयतया भवति । यथावदविजानतां दृष्टेश्चक्षुर्जन्यायाः कर्मभूतायाः द्रष्टारं स्वभावभूतया नित्यदृष्ट्या व्याप्तारं दृश्या अनया न पश्येः । विज्ञाते बुद्धिधर्मस्य निश्चयस्य विज्ञातारमिति पूर्ववत् (ब्र० सू० १ ।१।४ वे० क० त०) । अविद्या, अविद्या अज्ञानम् । अनादित्वे सति भावरूपा ज्ञाननिर्वत्या अविद्येति लक्षणम् । उत्तरज्ञानेन पूर्वज्ञानस्य निवर्तनात्तत्र अतिव्याप्तिवारणाय अनादिविशेषणम् । ज्ञानरूपकार्येण ज्ञानप्रागभावनाशेऽतिव्याप्तिवारणाय भावत्वे सतीति विशेषणम् । आत्मनि दोषवारणाय ज्ञाननिर्वर्त्येति विशेषणम् । इयमविद्या अनादिः भावरूपा (अभावरूपा न) ज्ञाननिर्वत्या अनिर्वचनीया । इयमज्ञानं शक्तिः तमः माया अजा अव्यक्तम् प्रकृतिः इत्यादिशब्दैर्व्यवह्रियमाणा वेदे शास्त्रे लोके च परिलक्ष्यते । यथा- दूरमेते विपरीते विषूची अविद्या (का० उ० २१८) अविद्यायामन्तरे वर्तमानाः (मु० उ० २१८) मायामेतां तरन्ति ते (गी० ३।१४) मम माया दुरत्यया (तत्रैव ७।१४) तमसो मा ज्योतिर्गमय (बृ० उ० १।३।२८) अजामेकां लोहितशुक्लकृष्णाम् (सां० त० कौ० १।१ ) महतः परमव्यक्तमव्यक्तात्पुरुषः परः (का० उ० ३।११) भूयश्चान्ते विश्वमायानिवृत्तिः । अज्ञानेनावृतं ज्ञानम् । ते ध्यानयोगानुगता अपश्यन् । देवात्मशक्तिं स्वगुणैर्निगुणम् । परास्य शक्तिर्विविधैव श्रूयते । भगवता शङ्कराचार्येण अस्याः कृते इमे शब्दा प्रयुक्ताः - मिथ्याज्ञानं मिथ्याप्रत्ययः मिथ्याबुद्धिः (ब्र० सू० १/१/१, ११४, १/२८, २११४, २३३१४/१/१९, शा० भा०) अव्यक्तम् (बृ० उ० ३/८/११ शा० भा०) अक्षरः (ब्र० सू० १।४।३ शा० भा०) महासुषुप्ति: (ब्र० सू० १।४।३ शा० भा०) आकाश: (बृ० उ० ३/८/११ शा० भा०) अक्षरः (मु० उ० २।१/२ शा० भा०) अध्यासः (ब्र० सू० उपो० शा० भा०) माया (ब्र० सू० २।१।९ शा० भा०, ब्र० सू० १।३।९ शा० भा० ) तथा भ्रान्तिः । यथा- भ्रमात् संस्कारतश्चान्या मण्डूकं मृदुदाहृतेः । भावरूपा मताविद्या स्फुटं वाचस्पतेर्मतम् (ब्र० सू० १ । ३ । ३० वे० क० त०) । पञ्चपादिकायामादावेव अविद्यायाः पञ्चदशनामानि लिखितानि - येषां श्रुतिस्मृतीतिहासपुराणेषु नामरूपम् अव्यांकृतम् अविद्या माया प्रकृतिः अग्रहणम् अव्यक्तम् तमः कारणं लयः शक्तिः महासुषुप्तिः निद्रा, अक्षरमाकाशम् । इति । अविद्या भावरूपा । यतो हि अभावरूपत्वे अभावस्य परिणामासम्भवाज्जगतस्तदु पादनत्वप्रतिपादनमसम्भवं स्यात् । एवं च ज्ञानाभावातिरिक्तस्य भावरूपस्य सत्त्वे अहमज्ञः, सुखमहमस्वाप्सम् न किंचिदवेदिषम् इत्याद्यनुभवः प्रत्यक्षं प्रमाणम् । एवं च, अविद्याया इदं स्वरूपम् - यथा- अज्ञानं तु सदसद्भ्यात्मनिर्वचनीयं त्रिगुणात्मकं ज्ञानविरोधि भावरूपं यत् किंचिदिति वदन्ति अहमज्ञ इत्याद्यनुरोधात् । देवात्मशक्तिं स्वगुणैर्निगूढ़ामित्यादिश्रुतेश्च (वे० सा० १ ) । अविद्यासाधिका श्रुतिः । यथा - एवं श्रुतयश्च । तत्र छान्दोग्ये अष्टमाध्याये तद्यथापि हिरण्यं निधिनिहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एवं ब्रह्मलोकं न विदन्त्यनृतेन प्रत्यूढा इति श्रुतिर्बह्मज्ञानप्रतिबन्धकत्वे नानृतं ब्रुवाणा तादृगज्ञाने प्रमाणम् । न च ऋतशब्दस्य ऋतं पिवन्तौ इत्यत्र सत्कर्मणि प्रयोगदर्शनात् ऋतं सत्यं तथा धर्म इति स्मृतेश्च ऋतशब्दस्य सत्कर्मपरत्वादनृतशब्दस्य दुष्कर्मपरत्वमिति वाच्यम् उतरत्र च आत्मापहतपाप्मेत्यादिना आत्मनोऽपहत पाप्मत्वप्रतिपादनेन दुष्कर्मप्रत्यूढविरोधात् । सुषुप्तौ कर्ममात्रनिषेधे दुष्कर्मणोऽप्यभावात् । तस्मादनृतेन प्रत्यूढाः नीहारेण प्रत्यूढाः तम आसीत् मायां तु प्रकृतिं विद्यात् अजामेकां लोहितशुक्लमेकामविद्यायामन्तरे वर्तमानः भूयश्चान्ते विश्वमायानिवृत्तिरित्याद्याः श्रुतयो वर्णिता अज्ञाते प्रमाणमिति स्थितम् (अ० सि० अ० श्रु०) । यथा च - अथ ब्रह्मैव परार्द्धमगच्छत् । तत्परार्द्धं गत्वा ऐच्छत् कथं न्विमाल्लोकान् प्रत्यवेयामिति । तद् द्वाभ्यामेव प्रत्यवैद् रूपेण च नाम्ना च (श० ब्रा० १ ।१।२।३) । सम्यगध्यात्मविद्भिर्दर्शितार्थे विपरीतज्ञानमविद्या (पा० यो० सू० २।५ व्या० भा० ) । ब्रह्मसूत्रस्य श्रीरामानुजस्वामिप्रणीतश्रीभाष्ये १ । १ ।१ इत्यत्र अविद्यायां सप्तविधानुपपत्तयः प्रदर्शिताः । श्रीकृष्णानन्दसरस्वतीप्रणीते सिद्धान्तसिद्धाञ्जने श्रीभाष्योक्तस्य तथा तट्टीकाश्रुतिप्रकाशिकोक्तस्य च समालोचनमस्ति । शास्त्रान्तरेऽप्येवम्भूता माया अविद्या बहुशो वर्णिता - इत्येषा सहकारिशक्तिरसमा माया दुरुन्नीतितो मूलत्वात् प्रकृतिः प्रबोधभयतोऽविद्येति यस्योदिता । देवोऽसौ विरतप्रपञ्चरचनाकल्लोलकोलाहलः । साक्षात् साक्षितया मनस्यभिरतिं बध्नातु शान्तो मम (उदयनाचार्यःन्यायकुसुमाञ्जलौ १ ।२०) । किन्तु मोहवशादस्मिन् दृष्टेऽप्यनुपलक्षिते । शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते (ईश्वरप्रत्यभिज्ञायाम् ३) । दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः (न्यायदर्शने १ । १ । २) । अविद्यास्मितारागद्वेषांभिनिवेशाः पञ्च क्लेशाः ।(पा०यो०सू०२।३) प्रकृतिपुरुषयोरेकदर्शनमवि॑िवेकः ख्यातिर्भावरूपा प्रतीयते । तयोरन्याख्यातिरेव विवेकः । विवेकेन अविवेको निवर्तते (सांख्ययोगयोः) । नासद्रूपा न सद्रूपा माया नैवोभयात्मिका । अनिर्वाच्या ततो ज्ञेया मिथ्यारूपा सनातनी (बृहन्नारदीये) । ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि । तद् विद्यारात्मनो माया यथाभासो यथा तमः (भा० २।९।३३) । नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धम् । मायागुणव्यतिकराद् यदुरुर्विभासि । (तत्रैव ३।९।१ ) । तस्मादिदं जगद- अविद्याप्रतीत्युपपत्तिः । यथा - सा च अविद्या. साक्षिवेद्या न तु शुद्धचिप्रकाश्या । साक्षि चाविद्यावृत्तिप्रतिबिम्बितचैतन्यम् । तेन निर्दोषचित्प्रकाश्यत्वेनाज्ञानस्य पारिमार्थिकत्वापत्तिः । मोक्षेऽपि तत्प्रकाशापत्तिः । न च तदानीमविद्याया निवृत्तत्वात् प्रकाशाभावः, प्रतीतिमात्रशरीरस्य प्रतीत्यनुवृत्तौ निवृत्ययोगादित्यादिदोषानवकाशः । अत एवोच्यते राहुवत् स्वावृतचैतन्यप्रकाश्याऽ विद्येति । न· चैवं कदाचिदविद्याया अप्रतीत्यापत्तिः । इष्टापत्तेः । समाधौ तथाभ्युपगमात् । न च विद्यावृत्तेर्दोषजन्यत्वादत्र कथमविद्यावृत्तिः । अविद्याया एव दोषत्वात् । न च वृत्तेरपि वृत्त्यन्तरप्रतिबिम्बितचिद्भास्यत्वे अनवस्था । स्वस्या एव स्वभानोपाधित्वात् । ननु प्रमाणागम्यायामविद्यायां प्रमाणोपन्यासवैयर्थ्यम् । न च प्रमाणैरसद् व्यावृत्तिमात्रं बोध्यत इति वाच्यम् ।अज्ञानमगृह्णताम्..... तथा चासद्व्यावृत्त्युपनयने प्रमाणानां चरितार्थत्वाद् न काप्यनुपपत्तिः (अ० सि० अ० प्र० उप० ) । अविद्याया लक्षणम् - यथा - अथ केयमविद्या । न तावदनादिभावरूपत्वे सति ज्ञाननिर्वर्त्या सेति । सादिशुक्त्याद्यवच्छिन्नचैतन्यावारकांज्ञानेऽव्याप्तें: । तस्यानादित्वाभावात् । अभावोपादानाज्ञाने च भावत्वाभावात् तत्राव्याप्तिः । अभावस्य भावोपादानकत्वे असत्यस्यापि सत्योपादानकत्वं स्यात् । अज्ञानुपादानकत्वे तस्य ज्ञानान्निवृत्तिर्न स्यादिति । तत्र ब्रूमः रूप्योपादानाज्ञानमप्यनादिचैतन्याश्रितत्वादनाद्येव उदीच्यं शुक्त्यादिकं तु तदवच्छेदकमिति न तत्राव्याप्तिः ( अ० सि० अ० ल०) । अज्ञानसाधकमनुमानम्- अनुमानमपि विवरणोक्तं प्रमाणम् । विवादपदं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिर्वत्यस्वदेशगतवस्त्वन्तरपूर्वकमप्रकाशितार्थप्रकाशकत्वात् अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति । अत्र प्रमाणपदं प्रमाणवृत्तेरेव पक्षत्वेन सुखादिप्रमायां साक्षिचैतन्यरूपायामज्ञानानिवर्तिकायां बाधवारणाय । धर्म्यंशप्रमाणवृत्तेरिदमित्याकाराया अज्ञानानिवर्तिकायाः पक्षबहिर्भावाय विवादपदमिति विशेषणम् । विशेषाकारप्रमाणावृत्तिरिति फलितोऽर्थः (अ० सि० अ० अनु० उप.) । तत्त्वप्रदीपिकायां श्रीचित्सुखाचार्येण अनुमानप्रकार एवमभिहितः - विगीतं देवदत्तनिष्ठप्रमाणज्ञानं देवदत्तनिष्ठप्रमाभावातिरिक्तानादेर्निवर्तकं प्रमाणत्वाद् यज्ञदत्तादिगतप्रमाणज्ञानवदित्यनुमानम् । ये तु प्रमाप्रागभावनिवृत्तिरेव न तु निवर्त्तिकेति मन्यन्ते । तान् प्रति देवदत्तप्रमा तन्निष्ठप्रमाभावातिरिक्तानादिनिवृत्तिरिति प्रयोक्तव्यम् । अधिकं तु तत्र द्रष्टव्यम् । एतप्रसङ्गे श्रीकुलार्कपण्डितदशश्लोकिमहाविद्यासूत्रं तथा एतदाधारेण पण्डितमहादेवसर्वज्ञवादीन्द्रनिर्मितं महाविद्याविडम्बनमिति ग्रन्थद्वयं द्रष्टव्यम् । दशश्लोकमहाविधासूत्रे षोडशप्रकाराः अनुमानप्रकारा सन्निवेशिता: । शेषमसत्त्वरूपम् । स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् । त्वय्येव नित्यसुखबोधतनावनन्ते मायात उद्यदपि यत् सदिवावभाति (तत्रैव १०।१४।२२) । १ - अविद्यासाधिका अर्थानुपत्ति:- यथा - जीवस्यानवच्छिन्नब्रह्मानन्दाप्रकाशान्यथानुपपत्तिश्च तत्र मानम् । न च जीवस्य ब्रह्मभेदेनैव तादृगप्रकाशोपपत्तिः । जीवब्रह्मभेदस्याग्रे निरसिष्यमाणत्वात् । न चानवच्छिन्नानन्दस्यापि प्रकाशमानाप्रकाशमानत्वानुपपत्तिः । शरीरप्रतियोगिकस्यात्मनि स्वरूपभेदस्यात्माकारेण प्रकाशमानत्वेऽपि भेदाकारेणाप्रकाशमानत्ववद्रूपान्तरेण ब्रह्मणः प्रकाशमानत्वेऽपि उक्ताकारेणाविद्यावशादप्रकाशमानत्वोपपत्तेरुक्तत्वात् । २. भ्रमस्य सोपादानत्वान्यथानुपपत्तिरपि अविद्यायां प्रमाणम् । न चान्तःकरणोपादानम् । अन्तःकरणस्य ज्ञानजनने प्रमाणव्यापारसापेक्षत्वेन प्रमाणाविषये शुक्तिरूप्यादौ ज्ञानजनकत्वात् सादित्वेनानादिभ्रमपरम्परानुपादानत्वाच्च । न च ब्रह्मैवोपादानम्, तस्यापरिणामित्वात् । न च विवर्ताधिष्ठानत्वेन शुक्त्यादेरिवोपादानत्वम् । अविद्यामन्तरेणातात्त्विकान्यथाभावलक्षणस्य विवर्तस्यैवासम्भवात् शुक्त्यादेरधिष्ठानावच्छेदकतया विवर्ताधिष्ठानाभावात् । न च उपादानापेक्षस्य विवर्तस्य तात्त्विकातिरिक्तोपादानकल्पनवदविद्यादेराश्रयसापेक्षस्य ब्रह्मातिरिक्तमतात्त्विकमधिकरणं कल्प्यं स्यादिति वाच्यम् । ब्रह्मण एव विकारित्वे अनित्यत्वादिप्रसक्तिवद् ब्रह्मण एवाधिष्ठानत्वे बाधकाभावेन द्वितीयस्याधिकरणस्याकल्पनात् । न च असत्यस्य सत्यरूपान्तरापत्तिलक्षणपरिणाम्यनपेक्षत्वेन परिणामित्वेनापि नाविद्याकल्पनमिति वाच्यम् । परिणाम सत्तासमानसत्ताकृत्वनियमेनासत्यत्वस्यैवाभावात् । न च घटादौ स्वसमानसत्ताकोपादानकत्वदर्शनेन प्रपञ्चेऽपि तादृशोपादानकल्पने घटादेः स्वाधिकसत्ताकोपादानानपेक्षत्ववद् वियदादेरपि ब्रह्मानुपादनत्वं स्यादिति वाच्यम् । तदभिध्यानादेव तु तल्लिङ्गात् सः इत्यनेन न्यायेन घटादेरपि मृदवस्थचैतन्योपादनकतया तादृशोपादानानपेक्षत्वासिद्धेः । अत एव रूप्येपि स्वसमानसत्ताकस्य निमित्तस्यापि कल्पनापत्तिरिति निरस्तम् । निमित्तमात्रे इयं कल्पना विशेषे वा । नाद्यः अधिष्ठानरूपनिमित्तस्य सर्वत्राधिकसत्ताकत्वात् । द्वितीये उत्तरोत्तरभ्रमे पूर्वपूर्वभ्रमस्य निमित्तत्वेनेष्टापत्तेः। न च त्रिगुणात्मकं प्रधानमुपादानमिति वाच्यम् । तस्यासत्यत्वे अविधानतिरेकात् । सत्यत्वेऽपि सावयवं निरवयवं वा । आद्ये अनादित्वभ्रमः । द्वितीये परिणामित्वायोगो ब्रह्मवत् । न च अविद्यापक्षेऽपि समः पर्यनुयोगस्तस्याः काल्पनिकत्वेन पर्यनुयोगायोगात् । तस्मादर्थापत्तिरविद्यायां प्रमाणम् ( अ० सि० अ० अर्था० ) । एवमेव शाङ्करभाष्ये । यथा- विद्यया तस्या बीजशक्तेर्दाहात् । अविद्यात्मिका हि बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुप्तिः । यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवः । तदेतदव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम् । एतन्नु खल्वक्षरे गार्ग्याकाश ओतप्रोतश्च (बृ० ३/८/११) इतिश्रुतेः । क्वचिदक्षरशब्दोदितम् (अक्षरात्परतः परः (मु० २।१।२) इति श्रुतेः । क्वचित् मायेति सूचितम् । मायां तु .... (श्वे० ४/१०) (द्र० सू० १।४।३ शा० भा०) । इयं च अनिर्वचनीया - सत्त्वेन असत्त्वेन सदसत्त्वेन सदसदभावत्वेन वक्तुमशक्या । यदि सती तदा कदापि न नश्येत । यद्यसती तदा जगत्कारणं न भवेत् । यतो हि अभावस्य कारणत्वं नाङ्कीक्रियते । तथा सति कार्यकारणभावनियमो विलुप्येत तथा अभावः सर्वोत्पादको भवेत् । सदसत्त्वं सदसदभावत्वं च न कुत्रापि प्रसिद्धम् । अतोऽविद्या सदादिचतुष्कोटिविनिमुर्ता अनिर्वाच्या । एवंभूताया अस्या मूलम् ऋग्वेदे एवमुपलभ्यते - नासदासीन्नो सदासीत्तदानीं नासीद् रजो नो व्योमापरो यत् । किमावरीवः कुहकस्य शर्मन्नम्भः किमासीद् गहनं गभीरम् । न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यत्र परः किञ्च नास । तम आसीत् तमसागूढमग्रे प्रकेतं सलिलं सर्वमा इदम् । तुच्छेनाभ्वपिहितं यदासीत्तपसस्तन्महिम्ना जायतैकम् । कामस्तदग्रे समवर्तताधिमनसो रेतः प्रथमं यदासीत् । (ऋ० वे० १०/१२९।१-४) एवमेवास्या मूलं शतपथब्राह्मणेऽपि - अथ ब्रह्मैव परार्द्धमगच्छत् । तत्परार्द्धं गत्वा ऐक्षत कथं खल्विमाँल्लोकान् प्रत्यवेयामिति । तद् द्वाभ्यामेव प्रत्यवैद् रूपेण च नाम्ना च (श० प० ब्रा० १ । १ । २ । ३) । यथा चअनिर्वाच्याविद्याद्वितयसचिवस्य प्रभवतः - इत्यादि (ब्र० सू० भामतीमङ्गलश्लोके) । अविद्याबलादेव ब्रह्मणो रूपद्वयमुपलभ्यते । यथा - द्विरूपं हि ब्रह्मावगम्यते । नामरूपविकारभेदोपाधिविशिष्टं विपरीतं च सर्वोपाधिविवर्जितम् (ब्र० सू० १/१/११२ शा० भा० ) । माया तथा अविद्या एकैव अभिन्ना तथा केषाञ्चनमते भिन्ना । एकैव अभिन्ना इति । यथा - मायामात्रं ह्येतद् यत् परमात्मनोऽवस्थात्रयात्मनावभासनं रज्ज्वा इव सर्पादिभावेनेति । अत्रोक्तं वेदान्तार्थसम्प्रदायविद्भिराचार्यैः – अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा (गौ०पा० कारि० १/१६) (ब्र० सू० २।१।९ शा० भा० ) । यथा च - कृत्स्नप्रसक्त्यधिकरणे ब्र० सू० २/१/२६-२९ शा० भा० ) पञ्चपादिकाविवरणे आदौ च । केषाञ्चनमते मायाविद्ययोर्भेदः । शुद्धसत्त्वप्रधाना माया । अनया सह ईश्वरेण सम्बन्धः । मलिनसत्त्वप्रधाना अविद्या अनया सह जीवेन सम्बन्धः । पञ्चपादिकाविवरणे संक्षेपशारीरके च अनयोर्भेदवादः खण्डितः । श्रीसुरेश्वराचार्यो विद्यारण्यस्वामी चानयोरभिन्नत्वमङ्गीकुरुतः । माधवाचार्यस्य सर्वदर्शनसङ्ग्रहेऽनयोर्भेदः प्रतिपादितः । केचित्तु काल्पनिकोरनयोर्भेदः । वस्तुत एकैव । इयमविद्या द्विविधा मूला तथा तूला यथा - अनिर्वाच्याविद्याद्वितीयसचिवस्य प्रभवतः (ब्र० सू० भामती मङ्गलश्लोके वे० क० त० ) । इदमपि तत्रैवोक्तम्एका अविद्या अनादिर्भावरूपा देवताधिकरणे । ( ब्र० सू० १ । ३ । २६-३३) वक्ष्यते । (ब्र० सू० भामती - म० श्लो० वे० क० त०) यथा च - अनावृत्तिः (ब्र० सू० ४।४।२२) सूत्रभाष्ये - सम्यग्दर्शनविघ्नस्तमसाम्- इति पङ्क्तेर्व्याख्याने भामत्यां द्विधाविद्या तमः इत्युक्तम् । अस्याः पङ्क्तेर्व्याख्याने वे० क० तरौद्विधा कार्यकारणरूपा - इत्युक्तम् । यथा च- प्रवृत्तेश्च (ब्र० सू० २/२/२) सूत्रभामत्याम्- कारणभूतया लयलक्षणयाऽविद्यया प्राक् सर्गोपचितेन च विक्षेपसंस्कारेण यत्प्रत्युपस्थापितं नामरूपं तदेव माया तदावेशेनास्य चोद्यस्यांसकृत् प्रत्युक्तत्वात् । एतदुक्तं भवति -नेयं सृष्टिर्वस्तुसती । येनाद्वैतिनो वस्तुसतो द्वितीयस्याभावादनुयुज्यते । काल्पनिक्यां तु सृष्टावस्ति काल्पनिकं द्वितीयं सहायं मायामयम् । यथाद्दुः सहायास्तादृशा एव यादृशी भवितव्यता । इति । न चैवं ब्रह्मोपादानत्वव्याघातः । ब्रह्मण एव मायावेशेनोपादनत्वात् तदधिष्ठानत्वाज्जगद्विभ्रमस्य रजतविभ्रमस्येव शुक्तिकाधिष्ठानस्य शुक्तिकोपादनत्वमिति निरवद्यम् (भाम०) । यथा च - मूलाविद्यामाह अविद्या प्रथते मौली व्यक्ताव्यक्तात्मनाऽनिशंम् (बृ० उ० भा० वा० १ ।२।१३६) । यथा च – मूलाज्ञानस्य तूलाज्ञानहेतुत्वात् । (प० पा० आदौ ) एवमेव - अत्रत्ये चित्सुखाचार्यप्रणीततात्पर्यदीपिकाव्याख्या अखण्डानन्दप्रतीतं तत्त्वदीपनं चावलोकनीये । मूलाविद्याया नानात्वम् एकत्वं च । नानाजीववादिमण्डनमिश्रमते तदनुवर्तिवाचस्पतिमिश्रमते च प्रतिजीवमविद्याभेदादविद्याया नानात्वम् । यथा - अयमभिसन्धिः न वयं प्रधानवदविद्यां सर्वजीवेष्वेकामाचक्ष्महे । येनैवमुपालभ्येमहि । किन्त्वियं प्रतिजीवं भिद्यते । तेन यस्यैव जीवस्य विद्योत्पन्ना तस्यैवाविद्यापनीयते न जीवान्तरस्य । भिन्नाधिकरणयोर्विद्याविद्ययोरविरोधात् । तत्कुतः समस्तसंसारोच्छेदप्रसङ्गः । प्रधानवादिनां त्वेष दोषः । प्रधानस्यैकत्वेन तदुच्छेदे सर्वोच्छेदोऽनुच्छेदे वा न कस्यचिदित्यनिर्मोक्षप्रसङ्गः। प्रधानाभेदेऽपि चैतदविवेकख्यातिलक्षणाविद्या सदसत्त्वनिबन्धनौ बन्धमोक्षौ तर्हि कृतं प्रधानेन अविद्यासदसदभ्यामेव तदुपपत्तेः । न च अविद्योपाधिभेदाधीनो जीवभेदो जीवभेदाधीनश्चाविद्योपाधिभेद इति परस्पराश्रयादुभयासिद्धिरिति साम्प्र॒तम् । अनादित्वाद् बीजाङ्कुरवदुभयसिद्धेः । अविद्यात्वमात्रेण चैकत्वोपचारोऽव्यक्तमिति चाव्याकृतमिति च (ब्र० सू० १ ४ । ३ भाम०) । अविद्याया प्रतिजीवं नानात्वे भगवत्पादैरुक्तम्- यथा हि बिम्बस्य मणिकृपाणादयो गुहाः एवं ब्रह्मणोऽपि प्रतिजीवं भिन्ना अविद्या गुहा । एकजीववादीष्टसिद्धिकाराचार्यमत इव विवरणकाराणां मतेऽपि मूलाविद्याया एकत्वम् । यथा- ब्रह्मैकमेव स्वाविद्यया जगदाकारेण विवर्तते स्वप्नादिवदिति मतान्तरम् । तस्माद् ब्रह्मैव स्वमायया अविद्यया विवर्तते इति (प० पा० विव० ७ वर्णक) । अत्र व्याख्यायां चित्सुखाचार्यः ब्रवीति ब्रह्मसिद्धिकाराणां मतमाह - जीवा एवेति । इष्टसिद्धिकाराणां मतमाह - ब्रह्मैकमेवेति अन्त्यं पक्षमुपसंहरति - तस्मादिति (तात्पर्यदीपिकायाम् ) । अत्रैव व्याख्यायाम्अखण्डानन्दो ब्रवीति- सिद्धान्तरहस्यमाह- ब्रह्मेति । किं तर्हि उपादेयमित्यत्राह तस्मादिति। न चैकमुक्तौ सर्वमुक्तिप्रसङ्गः, इष्टापत्तेः । शिष्टमिष्टसिद्धौ द्रष्टव्यम् (तत्त्वदीपने) । एवमेव तत्र प्रथमवर्णकऽपि । मूलाज्ञानाद् ब्रह्मणो जीवभावस्तूलाज्ञानाद् शुक्तौ रजतादिभानम् । अविद्यायाः शक्तिद्वयम् । विक्षेपशक्तिः आक्षेपशक्तिश्च । अतोऽविद्या द्विधोच्यते । यथा - विक्षेपावृत्तिरूपाभ्यां द्विधाऽविद्या व्यवस्थिता । न भाति नास्ति कूटस्थ इत्यापादनमावृत्तिः (प० द० ६।२६) । इयमविद्या समष्टिव्यष्टिभेदेनापि द्विधा - यथा - इदमज्ञानं समष्टिव्यष्ट्यभि प्रायेणैकमनेकमिति व्यनहियते । तथा हि यथा वृक्षाणां समष्ट्यभिप्रायेण वनमित्येकव्यपदेशः । यथा वा जलानां समष्ट्याभिप्रायेण जलाशय इति तथा नानात्वेन प्रतिभासमानानां जीवगताज्ञानानां समष्ट्यभिप्रायेण तदेकत्वव्यपदेशः । अजामेकामित्यादिश्रुतेः (वे० सा० १२) । ... यथा वनस्य व्यष्ट्यभिप्रायेण वृक्ष इत्यनेकत्वव्यपदेशः । ... तथाज्ञानस्य तदनेकत्वव्यपदेशः । इन्द्रो मायाभिः पुरुरूप ईयते (बृ० उ० २/५/१९) (वे० सा० १३) । अविद्याया आश्रयो विषयश्च एकमेव ब्रह्मेति विवरणप्रस्थाने । अविद्याया आश्रयो जीवः विषयश्च ब्रह्मेति भामतीप्रस्थानमतम् (ब्र० सू० १/१/४ शा० भा० भामत्याम्) । मधुसूदनसरस्वतीकृतसिद्धान्तबिन्दौ १ श्लोके पद्मपादाचार्यवाचस्पतिमिश्रसर्वज्ञात्ममुनीनां मतानि उद्धृतानि । ब्रह्मैव अविद्याया आश्रयः । आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः (सं० शा० १/१३९ ) । यथा च - चिदेवाज्ञानं प्रत्याश्रयत्वविषयत्वभागिनीत्यर्थः । (तत्रैव अ० टी०) यथा च - अविद्याया आश्रयस्तु शुद्धं ब्रह्मैव । तदुक्तम् आश्रयत्व .........इति दर्पणस्य मुखमात्रसम्बन्धेऽपि प्रतिमुखे मालिन्यवत् प्रतिबिम्बे जीवे संसारः न बिम्बे ब्रह्मणि उपाधेः प्रतिबिम्बपक्षपातित्वात् (अ० सि० अ० आश्रयनि० ) । यथा च - अविद्या सर्वज्ञाश्रया- ननु शुद्धब्रह्मणः चिन्मात्रस्य ज्ञानाश्रयत्वे सार्वज्ञ्यविरोधः । न च विशिष्ट एव सार्वज्ञ्यम्, तुरीयं ब्रह्म सर्वदृक् सदा इति शुद्धस्य सर्वज्ञत्वोपपत्तेरिति चेत्, न । सर्वदृकूपदेन सर्वेषां दृग्भूतं चैतन्यमित्युच्यते, न तु सर्वज्ञं तुरीयम्, तस्माद् विशिष्ट एव सार्वज्ञ्यम् । तत्त्वविद्यां विना न सम्भवतीत्यविद्यासिद्धिः । तथा हि- सर्वज्ञो हि प्रमाणतः स्वस्वरूपज्ञप्त्या वा । तत्र प्रमाणस्य भ्रान्तेश्चाविद्यामूलत्वात् असङ्गस्वरूपज्ञप्तेश्चाविद्यां विना विषयासङ्गतेः (तत्रैव) । अविद्या जीवाश्रयेति वाचस्पतिमिश्रादीनां मतम् यथा - वाचस्पतिमिश्रैस्तु जीवाश्रितैवाविद्यां निगद्यते । ननु जीवाश्रिताऽविद्या तठप्रतिबिम्बचैतन्यं वा तदवच्छिन्नचैतन्यं वा तदवच्छिन्नभेदो वा जीवः । तथा चान्योन्याश्रय इति चेन्न । किमयमन्योन्याश्रय उत्पत्तौ ज्ञप्तौ स्थितौ वा । नाद्यः अनादित्वादुभयोः । न द्वितीयः अज्ञानस्य चिद्भास्यत्वेऽपि चितेः स्वप्रकाशत्वेन तदभास्यत्वात् । न तृतीयः स किं परस्पराश्रितत्वेन वा परस्परसापेक्षस्थितिकत्वेन वा स्यात् । तन्न उभयस्याप्यसिद्धेः । अज्ञानस्य चिदाश्रयत्वे चिदधीनस्थितिकत्वेऽपि चिंति अविद्याश्रितत्वतदधीनस्थितिकत्वयोरभावात् । न चैवमन्योन्याधीनता क्षतिः । समानकालीनयोरप्यवच्छेद्यत्वावच्छेदकत्वभावमात्रेण तदुपपत्तेः। घटतदवच्छिन्नाकाशयोरिव प्रमाणप्रमेययोरिव च। तदुक्तम्- स्वेन कलिगते देशे व्योम्नि यद्वद् धटादिकम् । तथा जीवाश्रयाविद्यां मन्यन्ते ज्ञानकोविदाः । तस्माज्जीवाश्रयत्वेऽप्यदोषः (तत्रैव अविद्याजीवाश्रयनिरूपणे ) । जीवस्य अविद्याश्रयत्वेन न आत्माश्रयदोषः । यथा - स्वाश्रिताविद्याश्रितत्वं जीवस्यात्माश्रयत्वमिति । चेत् किमतः ? उत्पत्तिज्ञप्तिप्रतिबन्धनत्वेन ह्यात्माश्रयत्वस्य दोषता । न चानयोरुत्पत्तिः, अनादित्वात् । प्रतीतिस्तु जीवस्य स्वतस्तद्बलादविद्यायाः, तथापि स्वस्कन्धारूढारोहवत् स्वाश्रिताश्रितत्वं विरुद्धमिति चेत्, न, स्वाश्रिताश्रितत्वस्य क्वचिठप्रमितांवरोधादप्रमिताव्याप्यादस्मादव्यापकस्य विरोधस्य दुःष्प्रसञ्जनत्वात् (ब्र०सू० १।२।८ वे०क०त०) । अविद्यासम्बन्धस्तन्निरूपकाविद्याधीनः, अविद्या तत्सम्बन्धाधीना, अविद्यासम्बन्धाधीनत्वात् सर्वविवर्तानाम् । तत्र तथेतरेतरतन्त्रत्वमनादित्वान्न दोषावहम् एवमिहापीत्यर्थः (क० त० प० ) । अविद्या जगत्कारणम् । अविद्यावशादेव ब्रह्म जगतो निमित्तकारणमुपादानकारणं च भवति । यथा - शक्तिद्वयवदज्ञानोपहितचैतन्यं स्वप्रधानतया निमित्तं स्वोपाधिप्रधानतयोपादानं च भवति । यथा लूता तन्तुकार्यं प्रति स्वप्रधानतया निमित्तं स्वशरीरप्रधानतयोपादानं च भवति (वे० सा०) । यथा च - अपि च नेयं पारिमार्थिकी सृष्टिर्येनानुयुज्येत प्रयोजनम् । अपि त्वनाद्यविद्यानिबन्धना । अविद्या च स्वभावत एव कार्योन्मुखी न प्रयोजनमपेक्षते । न हि द्विचन्द्रालातचक्रगन्धर्वनगरादिविभ्रमाः समुद्दिष्टप्रयोजना भवन्ति । न च तत्कार्या विस्मयभयकम्पादयः स्वोत्पत्तौ प्रयोजनमपेक्षन्ते । सा च चैतन्यच्छुरिता जगदुत्पादनहेतुरिति चेतनो जगद्योनिराख्यायते अपि च न ब्रह्म जगत् (ब्र० सू० २ । १ । ३३ भाम०) । पुनस्तत्रैव - कारणमपि तत्तथा विवक्षन्त्यागमाः । अपि तु जगति ब्रह्मात्मभावत्वम् । तथा च सृष्टेरविवक्षायां तदाश्रयो दोषो निर्विषय एवेत्याशयेनाह - ब्रह्मात्मभावप्रतिपादनपरत्वाच्चेति । अनया अनिर्वाच्यया अविद्यया अनिर्वचनीयमेव जगदुत्पद्यते । यथाअनिर्वाच्याच्चानिर्वचनीयोत्पत्तौ नानुपत्तिः । यादृशो हि यक्षस्तादृशो हि बलिरिति सर्वमदातम् (ब्र० सू० ४।१।१५ भाम०) । अविद्या बौद्धानां मते । बौद्धमते संसारानर्थमूलकारणमविद्या । यथा - यद्यपि भोक्ता प्रशासिता वा कश्चिच्चेतनः संहन्ता स्थिरो नाभ्युपगम्यते । तथाप्यविद्यादीनामिततरकारणत्वादुपपद्यते लोकयात्रा । तस्यां चोपपद्यमानायां न किञ्चिदपरमपेक्षितमस्ति । ते चाविद्यादयोऽविद्या संस्कारो विज्ञानं नामरूपं षडायनम् । (ब्र० सू० २/२/१९. शा० भा० ) । यथा च तत्रैतेष्वेव षट्सु धातुषु यैकसंज्ञा पिण्डसंज्ञा नित्यसंज्ञा सुखसंज्ञा सत्त्वसंज्ञा पुद्गलसंज्ञा मनुष्यसंज्ञा मातृदुहितृसंज्ञा अहंकारममकारसंज्ञा सेयमविद्या संसारानर्थसम्भारस्य मूलकारणं तस्यामविद्यायां सत्यां संस्कारा रागद्वेषमोहा विषयेषु प्रवर्तन्ते (तत्रैव भाम०) । अविद्या - वैयाकरणमते वासना । यथा- अविद्या अत्र वासनारूपा (वै० सि० ल० म० बौद्धार्थ वाच्यत्वप्र०) । यथा च तस्माद् भ्रमरूपा स्थूला अविद्या वासनारूपा चाव्यक्तपदवाच्या सूक्ष्माविद्या (तत्रैव) । .... योगसूत्रेऽप्युक्तम्अनित्याशुचिदुःखात्मत्सु नित्यशुचिसुखात्मख्यातिरविद्या । इति । व्याससूत्रेऽपि एतदविलक्षणाविद्यानुक्तेस्तस्यापीदं सर्वसम्मतमिति लक्ष्यते । वासनारूपाविद्यासहकारेण स्थूलाविद्यायास्तत्सहकारेण च सूक्ष्माविद्याया ब्रह्मजन्यत्वेन अनवस्थापत्त्यभावात् (तत्रैव) । अविद्यानाशः । शाङ्कराद्वैतवादे भावरूपाया अविद्याया नाशः केवलं ज्ञानेनैव जायते न तु कर्मणा । यथा - अविद्यायाश्च न कर्मणा नाश उपपद्यते दृष्टविषयत्वाच्च सामर्थ्यस्य । उत्पत्त्याप्तिविकारसंस्कारा हि कर्मसामर्थ्यस्य विकाराः । उत्पादयितुं प्रापयितुं विकर्तुं संस्कर्तुं च सामर्थ्यं कर्मणः (बृ० आ० उ० ३।३।१ शा० भा० ) । यथा च – इत्येवं जातीयका श्रुतिः केवलाया विद्यायाः पुरुषार्थ हेतुत्वं श्रावयति (ब्र० सू० ३।४।१ शा० भा० ) । अत्र रत्नप्रभाटीकायामुक्तम् - सिद्धान्ते केवलज्ञानान् मुक्तिः । ब्रह्मविद्यैव मोक्षकारणमित्युक्तम् । (बृ० उ० ४।४।७ शा० भा० ) । यथा च ईश्वरस्वरूपापरिज्ञानाद् बन्धस्तत्स्वरूपपरिज्ञानात्तु मोक्षः । तथा च श्रुतिः - ज्ञात्वा देवे सर्वपाशापहानिः (ब्र० सू० ३/२/५ शा० भा०) । अत एव बन्धकारणभूताया अविद्याया नाशार्थं न केवलं कर्म न वा ज्ञानकर्मसमुच्चयः अलं किन्तु विद्यया ज्ञानेनैव अविद्यानाश: । अविधिः, अविधि यतकिञ्चित्कार्यनिदेशकं शास्त्रविहितं वाक्यं विधिः । अयं च विधिस्त्रिविधः - अपूर्वविधिः नियमविधिः परिसंख्याविधिश्च । एवंविधशास्त्रविधेः परित्यागः अविधिः । यथा - यः शास्त्रविधिमुत्सृत्य वर्तन्ते कामकारतः (गी० १६/२३) । ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः (गी० १७।१)। विशदज्ञानार्थं विधिशब्दो द्रष्टव्यः । अविनाभावः, अविनाभाव १. अयमनेन विना अनुपपन्नः अथवा इदम् अनेन विना अनुपन्नम् । यथोदाहरणम्-मत्स्यकण्टकं मत्स्यं विना अनुपन्नम् । अर्थापत्तिस्थलेऽप्येवमेव भवति । यथा - नन्वर्थापत्तिस्थले इदमनेन विनानुपपन्नमिति ज्ञानं करणमित्युक्तम् । तत्र किमिदं तेन विनानुपन्नम् । तदभावव्यापका भावप्रतियोगित्वमिति ब्रूमः ( वे० प०५५०) अविनाभावः अर्थापत्तिरूपेति वेदान्तिनः ।२. व्याप्तिः- कार्यकारणभावाद्वा स्वभावाद्वा नियामकादि ते न्यायविदः । ३. सम्बन्धमात्रम्- यथा - मानान्तर विरोधे तु मुख्यार्थस्यापरिग्रहे । अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते (भट्टवार्तिकम्) । स्वदेशवृत्तित्वं तादाम्यं च अविनाभावः । यथा व्यक्त्यविनाभावात् जात्या व्यक्तिराक्षिप्यते । अत्र भट्टमते अविनाभावस्तादात्म्यम् । गुरुमते जातेर्व्यक्त्याक्षेप इति पूर्वमीमांसकाः (का० प्र० २।१६ टी०) । अविनाशी, अविनाशिन् अन्त्यभावविकाररहितं नित्यं ब्रह्म । यथा - अविनाशिनमन्त्यभावविकाररहितं नित्यं विपरिणामरहितं यो वेदेति सम्बन्धः (गी० २।२१ शा० भा० ) । यथा च तथा चं एनं नित्यमविनाशिनं सदैव नाशरहितं न त्वाकाशादिवद् व्यवहारदशायां नाशरहितमत एवाजं जन्मरहितं नित्यम्, अविनाशिनो जन्यत्वायोगात् । अत एवाव्ययं सदैकरसं यो वेदेत्यर्थः (तत्रैव भाष्यो०)। . अविभक्तः, अविभक्त पृथग्भावरहितः मुक्तः । यथा अविभक्तं एव परेणात्मना मुक्तोऽवतिष्ठते ( ब्र० सू० ४।४।४ शा० भा० ) । अविभक्तम्, अविभक्त सर्वव्यापकमाकाशवदेकं ब्रह्म । यथा - अविभक्तं च प्रतिदेहं व्योमवदेकम् (गी० १३/१६ शा० भा० ) । यथा च एक एव च भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवदिति श्रुतेर्भूतेषु कार्यकारण संघातापन्नेषु जलपात्रेषु चन्द्रस्येव ब्रह्मणः प्रतिबिम्बा जीवास्ते चोक्तरीत्या बिम्बादन्यया इति तद्रूपभूतेष्वविभक्तं च विभागमव्यक्तमपि ज्ञेयवस्तु मूढदृष्टया विभक्तमिव दूरदेशस्थमिव चाद् विभिन्नमिव च स्थितम् (तत्रैव नी० क०) । यथा च - भूतेषु सर्वप्राणिषु अविभक्तमभिन्नमेकमेव तत् न तु प्रतिदेहं भिन्नं व्योमवत् सर्वव्यापकत्वात् (तत्रैव म० सू०) । यथा च - अविभक्तं विभागशून्यं प्रतिदेहं व्योमवदेकं तद्भेदे मानाभावाद् भिन्नत्वे च घटवदनात्मत्वापातात् (तत्रैव भाष्यो०) । यथा च भूतेषु स्थावरजङ्गमात्मकेषु अविभक्तं कारणात्मना अभिन्नं कार्यात्मना विभक्तं च भिन्नमिवावस्थितं च (तत्रैव श्रीधरी) । अविभागः, अविभाग अविभागो वचनात् (ब्र० सू० ४।२।१६) इत्यत्र विभिन्नवेदान्तिभिः स्वस्वसिद्धान्तानुसारमविभागशब्दस्य विभान्ना अर्थाः स्वीकृताः । १. परब्रह्मणि जीवस्य तादात्म्यरूपा सम्पत्तिः अभेदो वा । यथा - अविद्यानिमित्तानां च कलानां न विद्यानिमित्ते प्रलये सावशेषत्वोपपत्तिः । .....निमित्तापाये नैमित्तिकात्यन्तिकापायः । अविद्यानिमित्तश्च विभागो नाविद्यायां विद्यया. समूलघातमपाकृतायां सावशेषो भवितुमर्हति । तथापि प्रविलयसामान्यात् सावशेषताशङ्कामतिमन्दामपनेतुमिदं सूत्रम् (तत्रैव शा० भा० ) । ब्रह्मविदः पुरुषस्य षोडशकलाः एकादशेन्द्रियाणि पञ्चसूक्ष्मभूतानि परस्मिन्नात्मनि ब्रह्मणि लीयन्ते । अयं कलाप्रलयो निरवशेषो भवति । यथा - यथा नद्यः समुद्रे लीयन्ते । एवमेव पुरुषे कलाः । आसां कलानां नामरूपे शक्त्यात्मके भिद्येते । स च विद्वान् अकलः कलारहितः सन्नमृतो भवति (तत्रैव वे० क० त०) इत्यद्वैतिनः । २. भेदाभेदवादिनो नैम्बार्का अपि एवमेवार्थं स्वीकुर्वन्ति । यथा – भूतसूक्ष्मसम्पत्तिः किं वागादेर्मन आदाविव संयोगरूपा उत समुद्रे नद्यादिसम्पत्तिवत् तादात्म्यरूपेति ......वागादेर्मन आधुपादानकत्वाभावात् संयोगरूपा सम्पत्तिरिष्टा । सर्वकारणे ब्रह्मणि तु तेषामविभागः । तादात्यापत्तिरूपा सम्पत्तिरित्यर्थः । (श्रीनिवास प्रणीते वेदान्तकौस्तुभे) ३. विशिष्टाद्वैतिनां श्रीरामानुजीयानां मते- अपृथग्भावः। यथा - परमात्मनि सम्पत्तिः किं प्राकृतलयवत्कारणापत्तिरूपा उत वाङ्मनसि (छा० उ० ६।८।६) इत्यादिवत् अविभागरूपा इति चिन्तायां परमात्मनः सर्वेषां योनिभूतत्वात् कारणापत्तिरूपा सिद्धान्त इति प्राप्ते उच्यते अविभाग इति पृथग् व्यवहारानर्ह इत्यर्थः (तत्रैव श्रीभाष्ये) । ३. तादाम्यापत्तिः अवियोगः । श्रीवल्लभाचार्यैः अविभाग इत्यस्य तादात्यापत्तिरूपोऽर्थो लिखितः । किन्तु श्रीधराचार्याः तादात्यापत्तिरिति महाप्रभुवचनस्य तात्पर्यमवियोग इति कृतम् । यथा - ब्रह्मणि तु तेषामविभागः । तादात्यापत्तिरूपा सम्पत्तिरित्यर्थः (तत्रैव अणुभाष्ये) । ननु लीलाया नित्यत्वेन तन्मध्यपतितानां तद्दर्शने यथा नित्यं तथा तादृक् साधनाभावेऽपि ....तदा कञ्चित्कालं स्थापयित्वा वियोजयति न वेति संशयः ......वियोजयति इति पूर्वपक्षः । तत्र सिद्धान्तमाह – तत्र प्रवेशितस्य तस्माद् अविभाग एव । तस्माद् लीलास्थानादित्यर्थः (तत्रैव श्री श्रीधरकृतायां बालबोधिन्याम्) । ४. अधीनः । श्रीमन्माध्वास्तु अधीन इत्यर्थं मन्यन्ते । एतन्मते अविभागोऽवचनात् (४।२।१६) इति सूत्रस्वरूपं न किन्तु अविभागाद् वचनात् । यथा - ॐ अविभागाद् वचनात् ॐ ननु मुक्तानां स्यात् तथा हरे: सर्वोत्तमत्वं न स्यादित्याशक्य निरस्यति मुक्तानां सत्यसंकल्पस्य ईश्वरसंकल्पाद् अविभागः परमेश्वराकल्पाद् अविभागेन अधीनत्वेनेह सत्यसङ्कल्पत्वादिकं तेषामिति न स्वातन्त्र्यम् । (श्री वनमालिकृतायां ब्रह्मसूत्रसिद्धान्तमुक्तावल्याम् । ५. स्वरूप्यैक्यम् । शक्त्यद्वैतवादिश्रीश्रीकरमते अविभाग इत्यस्य स्वारूप्यैक्यमित्यर्थोऽभिप्रेतः । यथा - अविभागिनः शिवज्ञानिनः सूक्ष्मशरीरस्य आत्यन्तिकनाशो विधीयते । ....स्वारूप्यैक्ये अविभागो निर्दिश्यते (तत्रैव श्रीकरभाष्ये) ।६. पृथक्त्वेऽपि अपृथक्त्वमिव भासनमविभागः । अनेकवृक्षेभ्यः मधुकरेण संगृहीतं मधु एकरसमिव एकरूपमिव प्रतीयते । किन्तु वस्तुतस्तत्र अनेकरसाः अनेकानि रूपाणि मधुनि सन्ति । एवमेव परावस्थायां जीवानाम् अविभागो भवति । यथा - आकाशे वायोरिवाविभागलक्षणानन्यत्वमेव सम्पत्तिः, न त्वेकत्वं भिन्नयोरखण्डतारूपैक्याभावात् । ... यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्मनां वृक्षाणां रसान् समवहारमेतेषां रसे गमयन्ति ते यथा तत्र विवेकं न लभन्तेऽमुस्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीति एवमेव सर्वा प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामहे इति । .....अत्र हि वाक्ये भेदेन सतां सोपकरणजीवानां पृथगवृत्तितालक्षणमविभागं स्वस्मिन् सम्मिश्रणमात्रदृष्टान्तेन प्रतीयते । ते यथा तत्र विवेकं न लभन्त इति च स्फुटमेवमत्र अविवेकमात्र रूपमैक्यं प्रतीयत इति (तत्रैवं विज्ञानामृतभाष्ये) । अविवेकः, अविवेक विवेकाभावः । यथा - अन्योन्यतादात्म्यारोपरूपं मिथ्याज्ञानम् । शुक्तौ रजतं रज्जौ सर्प इति ज्ञानम् (सा० का० ११ व्या०) । यथा च - अविवेकि व्यक्तं न विवेकोऽस्यास्तीति इदं व्यक्तमिमे गुणा इति न विवेकं कर्तुं याति अयं गौरयमश्व इति यथा ये गुणास्तद्व्यक्तं यद् व्यक्तं ते गुणा इति (तत्रैव गौडपादभाष्ये) । अविवेकि, अविवेकिन् न विवेकि अविवेकि = व्यक्तम् तथा प्रधानम् (सांख्ये) व्यक्तं चराचरं जगत्, प्रधानमव्यक्तम् । यथा - अविवेकि व्यक्तं न विवेकोऽस्यास्तीति । इदं व्यक्तमिमे गुणा इति न विवेकं कर्तुं याति अयं गौरयमश्व इति यथा । ये गुणास्तद् व्यक्तं यद् व्यक्तं ते च गुणाः । .... अन्ये गुणा अन्यत् प्रधानमेवं विवेक्तुं न याति तद् अविवेकि प्रधानम् (त्रिगुणमविवेकि इत्यादि सां का० ११ गौ० पा० भाष्ये) । अवृत्तिकम्, अवृत्तिक परिणामरहितम् । यथा- सर्वविषयपरिणामरहितम् (ब्र० सू० १ । १ ।५ क० त० प०) । यथा च तदन्तःकरणं वृत्तिभेदेन परिणामभेदेन द्विधा द्विप्रकारं भवति (प० द० १।२० रा० कृ० टी०) । अव्यक्तः, अव्यक्त इन्द्रियविषयाभावाद् अभिव्यक्तिरहितः अयमामा । यथा अव्यक्तः सर्वकरणाविषयत्वान्न व्यज्यते इति अव्यक्तोऽयमात्मा (गी० २/२५ शां० भा० ) । यथा च - अन्यो विलक्षणः स चाव्यक्तोऽ निन्द्रियगोचरः (त० ८/२० शां० भा०) । यथा च - योऽसावव्यक्तोऽक्षर इत्युक्तस्तमेवाक्षरसंज्ञकमव्यक्तं भावमाहुः परमां प्रकृष्टां गतिम् (त०८/२१ शा० भा०) । यथा च - तस्मादव्यक्ताद् भूतग्रामबीजादविद्यालक्षणादमृतात् अन्योऽत्यन्तविलक्षणो भावः सत्ता (त० ८/२० नी० क०) । यथा च अव्यक्तात् हिरण्यगर्भादिति वा (त० ८।२० भाष्यो०) । यथा च- अव्यक्तो न व्यज्यत इति दृश्यत्वं निरस्तम् (त० ८।२१ नी० क० ) । यथा च- यो भावः अव्यक्तोऽतीन्द्रियोऽक्षरः (त० ८।२१ श्रीधरी) । अव्यक्तम्, अव्यक्त १. प्रधानम् प्रकृतिर्वा । यथा व्यक्ताव्यक्तज्ञविज्ञानात् (सां० का० २, अव्यक्तम् - प्रधानम् गौ० पा० भा०) । २ - अदर्शनमनुपलब्धिर्वा । यथा - अव्यक्तादीन्यव्यक्तमदर्शनमनुपलब्धिरादिर्येषां भूतानां पुत्रमित्रादिकार्यकारणसंघात्मकानां तान्यव्यक्तादीनि भूतानि प्रागुत्पत्तेः उत्पन्नानि च प्राङ्मरणाद् व्यक्तमध्यान्यव्यक्तनिधनान्येव पुनरव्यक्तमदर्शनं मरणं येषां तान्यव्यक्तनिधनानि मरणादूर्ध्वमव्यक्ततामेव प्रतिपद्यन्त इत्यर्थः (गी० २२ । २८ शा० भा० ) । यथा च आदौ जन्मनः प्राक् अव्यक्तान्यनुपलब्धानि पृथिव्यादिभूतमयानि शरीराणि मध्ये जन्मानन्तरं मरणात् प्राक् व्यक्तान्युपलब्धानि सन्ति । निधने पुनरव्यक्तान्येव भवन्ति । यथा स्वप्नेन्द्रजालादौ प्रातिभासिकमात्रजीवनानि शुक्तिरुप्यादिवन्न तु ज्ञानात् प्राग्र्ध्वं वा स्थितानि दृष्टिसृष्ट्यूभ्युपगमात् (त० म० सू०) । यथा च - अव्यक्तं सोपाधिशून्यत्वेनास्पष्टमपि वासुदेवशरीरेण व्यक्तमापन्नम् अस्मदादिवच्छरीराभिमानिनं माम् अबुद्धयो मन्यन्ते (त० ७।२४ नी० क०) । यथा च - अव्यक्तं देहग्रहणात् प्राक् कार्याक्षमत्वेन स्थितमिदानीं वसुदेवगृहे व्यक्तिं भौतिकदेहावच्छेदे कार्यक्षमताप्राप्तं किञ्चिज्जीवमेव मन्यन्ते मामीश्वरमप्यबुद्धयो विवेकशून्या अव्यक्तं सर्वकारणमपि मां व्यक्ति कार्यरूपतां मत्स्यकूर्माद्यनेकावताररूपेण प्राप्तमिति वा (त० ७२४ म०सू० ) । यथा च - अव्यक्तं प्रपञ्चातीतं मां व्यक्तिं मनुष्यमत्स्यकूर्मादिभावं प्राप्तमल्पबुद्धयो मन्यन्ते (त० २७।२४ श्रीधरी) । यथा च - अव्यक्ताद् व्यक्तं प्रजापतेः स्वापावस्था तस्मादव्यक्ताद् व्यक्तयो व्यज्यन्त इति (त० ८ १८ शा० भा०) । यथा च- यद्धि लोके कस्णगोचरं तद् व्यक्तमुच्यते । अञ्जेर्धातोस्तत्कर्मत्वादिदं त्वक्षरं तद् विपरीतं शिष्टैश्चोच्यमानैर्विशेषणैर्विशिष्टं तद् ये चाप्युपासते । (त० १२/१ शां० भा०) । ३. अविद्या । यथा - अविद्यामिका हि बीजशक्तिरव्यक्तशब्दनिर्देश्या (ब्र० सू० १/४ । ३ शां० भा०) । अव्ययः, अव्यय १. नाशरहितो नित्यो वा । यथा - यावत् संसारभावित्वात् । न. ह्यबीजं किञ्चित्प्ररोहति । प्ररोहदर्शनाद् बीजसंन्ततेर्नित्यत्वमिति गम्यते । अव्ययमविनाशि न तु ब्रीह्यादिबीजवद् विनश्वरमिति वा (त० ९।१९ भाष्यो०) । यथा च किं च त्वमव्ययो न च तव व्ययो विद्यत इत्यव्ययः (त० ११/१८ शां० भा० ) । यथा च - किं च त्वमव्ययः विनाशरहितः (त० ११।१८ म० सू०) । यथा चअजमव्ययं जन्मविनाशशून्यं जायमानस्य विनश्यतश्च सर्वव्यापकत्वसत्यत्वयोरयोगात् । (त० २।२१ म० सू०) यथा च - अव्ययं क्षयरहितं तत्र हेतुरजं जन्मरहितत्वात् सर्वविकारशून्यत्वम् । तथा च न विद्यते व्ययोऽवयवापचयो वा यस्य तमव्ययम् अवयवापचयेन गुणापचयेन वा विनाशदर्शनात् तदुभयरहितस्य न विनाशः सम्भवतीत्यर्थः (त० २।२१ भाष्यो०)। २. न व्येति लिङ्गसङ्ख्यादीन् इति अव्ययः च वा ह एवमित्यादीति वैयाकरणाः । ३. न व्ययः धनापचय इत्यव्ययः व्ययरहित इति लोकव्यवहारे । अव्ययात्मा, अव्ययात्मान् परिपूर्णज्ञानशक्तिस्वभावः ईश्वरः । यथा- अजोऽपि जन्मरहितोऽपि संस्तथाऽव्ययात्माऽक्षीणज्ञानशक्तिस्वभावोऽपि संस्तथाभूतानां ब्रह्मादिस्तम्बपर्यन्तानामीश्वरः ईशनशीलोऽपि सन् (गी० ४।६ शां० भा० ) । अव्यवसायः, अव्यवसाय अविवेकबुद्धिः । यथा - अव्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन (गी० २।४१) व्यवसायात्मिका निश्चयस्वभावा एका एव बुद्धिः । इतरविपरीतबुद्धिशाखाभेदस्य बाधिका... (शा० भा०) । इहेश्वराराधनलक्षणे कर्मयोगे व्यवसायात्मिका परमेश्वरभक्यैव तरिष्यामीति निश्चयात्मिकैवैकनिष्ठा बुद्धिर्भवति । अव्यवसायिनाम् अनन्ता (श्रीधरी) । अव्यवसायिनाम्, अव्यवसायिन् विवेकबुद्धिरहितानाम् । यथा - ता बुद्धयो बहुशाखा बह्व्यः यासां ता शाखा बहुशाखा बहुभेदा इत्येतत् प्रतिशाखाभेदेन ह्यनन्ताश्च बुद्धयः केषाम् अव्यवसायिनां प्रमाणजनितविवेकबुद्धिरहितानामित्यर्थ: (गी० २।४१ शां० भा०) । यथा च - अव्यवसायिनामज्ञानिनां बुद्धयो अनन्ताश्च प्रत्येकं बहुशाखा इति (त० २।४१ नी० क०) । यथा च - अव्यवसायिनां तत्फलकामानां बुद्धीनामानन्त्य प्रसिद्धियोतनार्थो हि शब्दः (मी० २।४१ म० सू०) । अव्याकृतम्, अव्याकृत नामरूपव्याकृतिरहितम् । यथा - तत्त्वान्यत्वाभ्यामनिर्वचनीये नामरूपे अव्याकृते व्याचीकिर्षिते इति ब्रूमः । अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् (श्वे० उ० ३।१९) इति च । (ब्र० सू० १/१/५ शां० भा० ) । अव्रणम्, अव्रण १. नित्यशुद्धम् । यथा - स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम् (ई० उ० ८) इति चेतौ मन्त्रावनाधेयातिशयां नित्यशुद्धतां च ब्रह्मणो दर्शयतः (ब्र० सू० १/१/४ शां० भा०) ।२. दुःखरहितम् । यथा - अव्रणं दुःखरहितम् (त० शां० भा० ) । अशब्दम्, अशब्दम् शब्दप्रमाणरहितं श्रौतसिद्धान्तविपरीतमिति यावत् । यथा - न सांख्यपरिकल्पितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेष्वाश्रयितुम् । अशब्दं हि तत् (ब्र० सू० १/१/५ शा० भा०) । यथा च - ब्रह्मैवेक्षित्रनाद्यनिर्वाच्याविद्यासचिवं जगदुपादानं शुक्तिरिव समारोपितस्य रजतस्य मरीचय इव जलस्य एकश्चन्द्रमा इव द्वितीयस्य चन्द्रमसः न त्वचेतनं प्रधानपरमाण्वादि । अशब्दं हि तत् (त० भाम० ) । असक्तः, असक्त विषयेषु प्रीतित्यागः । यथा - असक्तिः सक्तिः संगनिमित्तेषु विषयेषु प्रीतिमात्रं तदभावोऽसक्तिः (गी० १३/९ शा० भा० ) । यथा च - असक्तिरिति । सक्तिः पुत्रादौ ममतामात्रम् (त० नी० क०) । यथा च - सक्तिर्ममेदमित्येतावन्मात्रेण प्रीतिः (त० म० सू०) । किं चासक्तिः संगनिमित्तेषु विषयेषु प्रीतिमात्रस्याभावः । (त० भाष्यो०) असक्तिः पुत्रादिपदार्थेषु प्रीतित्यागः (त० श्रीधरी) । यथा च असक्तम् यस्मात् सर्वकारणवर्जितं ज्ञेयं तस्मादसक्तं सर्वसंश्लेषवर्जितम् (गी० १३१४ शा० भा०) । यथा च तथा परमार्थतोऽ सक्तं सर्वसम्बन्धशून्यमेव मायया (त० म० सू०) यथा च - सर्वकारणवर्जितत्वादसक्तं सर्वसङ्गविनिर्मुक्तम् – असङ्गो हीति श्रुतेः (त० भाष्यो०) असक्तं सङ्गशून्यम् (त० श्रीधर्याम्) । असत्, असत् अनभिव्यक्तम्, कारणात्मना स्थितम् । यथा - कारणासम्बन्धेन नामरूपाभ्यामनभिव्यक्तं कारणात्मना स्थितमसदित्युच्यते (गी० ९।१९ भाष्यो०) । यथा च - तपाम्यहमादित्यो भूत्वा कैश्चिद् रश्मिभिस्तपाम्यहं वर्षं कैश्चिद् रश्मिभिरुत्सृजाम्युत्सृज्य पुनर्निर्गृह्णामि कैश्चिद्रश्मिभिरष्टमासैः पुनरुत्सृजामि प्रावृष्यमृतं चैव देवानां मृत्युश्च मर्त्यानां सद् यस्य यत्सम्बन्धितया विद्यमानं तविपरीतमसच्चैवाहमर्जुन न पुनरत्यन्तमेवासद् भगवान् स्वयं कार्यकारणे वा सदसती ये पूर्वोक्तैर्विवृतिप्रकारैकत्वपृथक्त्वादिविज्ञानैर्यज्ञैर्मां पूजयन्त उपासते ज्ञानविदस्ते यथाविज्ञानं मामेव प्राप्नुवन्ति (त० शां० भा०) । यथा च - हे अनन्त देवेश हे जगन्निवास त्वमक्षरं तत्परं यद्वेदान्तवाक्येषु श्रूयते किं तत् सदसद् यद् विद्यमानं सच यत्र नास्तीति बुद्धिस्ते उपधानभूते सदसती यस्याक्षरस्य यद्वारेण सदसदित्युपचर्यते । परमार्थवस्तु सदसतः परं तद् यदक्षरं वेदविदो वदन्ति तत्त्वमेव नान्यदित्यभिप्रायः (गी० ११ ।३७ शां० भा०) । यथा च - किञ्च सद् विधिमुखेन प्रतीयमानमस्तीति अस्मिन् निषेधमुखेन प्रतीयमानं नास्तीति अथवा सत् व्यक्तं असत् अव्यक्तं त्वमेव (त० म० सू०) । यथा च - असच्च यन्नास्तीति बुद्धिः निषेधमुखेन प्रतीयमाना अव्यक्तविषया कारणबुद्धिरिति यावत् (त० भाष्यो०) । यथा च किञ्च सत् व्यक्तं असद् अव्यक्तं च ताभ्यां परं मूलकारणं यदक्षरं ब्रह्म तच्च त्वमेव (त० श्रीधरी) 1 यथा च - तथासतः प्रागभावप्रतियोगिनो घटादेः सत्त्वं कारणव्यापारात् सतोऽपि तस्याभावः कारणनाशाद् भवत्येवेति कथमुक्तम्- नासतो विद्यते भावो नाभावो विद्यते सतः । (त० २ । १६ म०सू०) । यथा च - असदेवेदमग्रमासीत् - छा० उ० ३।९।१ इति असवा इदमग्र आसीत् - तै० उ० २।७।१ इति च तस्मादसद्व्यपदेशान्न प्रागुत्पत्तेः कार्यस्य सत्त्वमिति चेत् नेति ब्रूमः । न ह्यत्यन्तासत्त्वाभिप्रायेण प्रागुत्पत्तेः कार्यस्यासद्व्यपदेशः किं तर्हि व्याकृतनामरूपत्वाद् धर्माद् अव्याकृतनामरूपत्वं धर्मान्तरं तेन धर्मान्तरेणायमसद्व्यपदेशः प्रागुत्पत्तेः सत एव कार्यस्य कारणरूपेणानन्यस्य (ब्र ० सू० २ । १ । १७ शा० भा०) । यथा च - नो सदासीदित्यनेन सद्भिन्नत्वे उक्ते असत्त्वस्यापि प्रसक्तेः । न च तदानीमित्यस्य वैयर्थ्यम् । नासीद् रजो न व्योमेति रजोनिषेधादावेव तदन्वयात् । नहि रजः प्रभृतीनां सदा अनस्तित्वम् (अ० सि०श्रु० अनु०) । यथा च - स्वाभाविककर्मविज्ञाने मृत्युरित्युच्येते असदत्यन्ताधोभावहेतुत्वात् (बृ० आ० उ० १ । ३ । २८ ) । यथा च - असत्त्वं निरूपाख्यत्वम् (ब्र० सू० २।२।२२।२२ वे० क० त० ) । यत्कालसामान्यासम्बन्धि तत् । यथा शशशृङ्गकूर्मरोमादि (माध्वाः) । ३. न अर्थक्रियाकारि अकिञ्चित्करमाभावादिकमिति बौद्धाः I४. सत्तावद्भिन्नत्वम् । यथा सामान्यादिचतुष्टयम् तथा तत्कालीनस्वजनकाभावप्रतियोगी । यथा घटपटादिकार्यम् । स्वोत्पत्तेः पूर्वमसत् (न्यायवैशेषिकाः) । असत्ख्यातिः, असत्ख्याति ख्यातिः पञ्चप्रकारा- आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा । परीक्षकाणां विभ्रान्तौ विवादात्सा विमृश्यते (वि०वि० १) । एतेष्वन्यतमैका असत्ख्यातिः ।एषा माध्यमिकशून्यवादिबौद्धानाम् । अस्मिन् मते पदार्थानां व्यावहारिकसत्तां स्वीकृत्य तेषां परीक्षा क्रियते अन्ते च परीक्ष्य तेषामसत्त्वं साध्यते । अतोऽत्र सविषयकं सर्वं सविषयकं ज्ञानमपि असन् मिथ्या । यथा स्वप्ने निद्रावस्थायां सर्वेऽर्थाः प्रतिभासन्ते तेषां वाह्यं सत्त्वं नास्ति । अतो रज्जौ सर्प इति भ्रान्तिस्थले असत एव भ्रान्तिरिति असत्ख्यातिरुच्यते । भ्रमस्थले असत एव ख्यातिः प्रसिद्धिः भ्रान्तिः । अत्र प्रसिद्ध्यर्थकः ख्यातिशब्दः भ्रान्तिरित्यर्थे । प्रयुज्यते । यथा- न च विषयस्य समस्तसामर्थ्यस्य विरहेऽपि ज्ञानमेव तत्तादृशं स्वप्रत्ययसामर्थ्यासादितादृष्टान्तसिद्धस्वभावभेदमुपजातमसतः प्रकाशनं तस्मादसप्रकाशनशक्तिरेवाविद्येति साम्प्रतम् । यतो येयमसप्रकाशनशक्तिर्विज्ञानस्य किं पुनरस्याः शक्यम् असदिति चेत् किं तत् कार्यमाहोस्विदस्या ज्ञाप्यम् । न तावत्कार्यम् असतस्तत्त्वानुपपत्तेः नापि ज्ञाप्यं ज्ञानान्तरानुपलब्धेः अनवस्थापाताच्च । विज्ञानस्वरूपमेवासतः प्रकाश इति चेत् कः पुनरेष सदसतोः सम्बन्धः । असदधीननिरूपणत्वं सतो ज्ञानस्य असता सम्बन्ध इति चेत्, अहो वतायमतिनिर्वृत्तः प्रत्ययतपस्वी यस्यासत्यपि निरूपणमायतते । न च प्रत्ययस्तत्राधत्ते किञ्चित् असतः अधारत्वायोगात् । असदन्तरेण प्रत्ययो न प्रथत इति प्रत्ययस्यैवैष स्वभावो न त्वसदधीनमस्य किञ्चिदिति चेत् । अहो वतास्यासत्पक्षपातो यदयमतदुत्पत्तिरतदात्मा च तदविनाभावनियतः प्रत्यय इति । तस्मादत्यन्तासन्तः शरीरेन्द्रियादयो निस्तत्त्वा नानुभवविषया भवितुमर्हन्ति इति ( ब्र० सू० १/१/१ उपो० शा० भा० भाम०) । यथा च - न च इदमत्यन्तमसन्निरस्तसमस्तस्वरूपमलीकमेवास्त्विति साम्प्रतम् । तस्यानुभवगोचरत्वानुपपत्तेरित्युक्तमधस्तात् (तत्रैव भाम० ) । यथा च – भवत्वेनं विभ्रमसमुद्भवः । विभ्रमालम्बनं तु किमसत् सदेव वा किं वोभयात्मकम् उतोभयविलक्षणमिति विवेचनीयम् । न तावदसत् । असतोऽपरीक्षावभासानर्हत्वात् । तदादित्सया प्रवृत्यनुपपत्तेश्च । क्वचिदसद्विशेषेऽपि प्रतिभासप्रवृत्ती किं न स्यातामिति चेत् न विशेषाधिकरणत्वे तुच्छत्वानुपपत्तेस्तस्य निःस्वभावत्वात् । सद्वैलक्षण्यमात्रेणासत्त्वाभिक्षाने मायावादिमतप्रवेशात् (त० प्र० अ० ख्याति०) । यथा च - तस्मादनिर्वचीयख्यातिरेव । प्रमाणसम्भवात् । न त्वसदन्यथाख्याति प्रमाणविरहात् । न चासद्भाने असदेव रजतमभवादिति प्रत्यक्षं मानम् । अनन्तरोक्तबाधकेन सवैलक्षण्यविषयकत्वात् । न चेदं प्रत्यक्षमपि त्वया हि असदात्मनः प्रत्यक्षत्वमङ्गीक्रियते (अ०सि०अ० ख्या० भ० ) । असमवायिकारणम्, असमवायिकारण समवाय्यसवायिनिमित्तरूपत्रिविधकारणेष्वन्यतमम् । कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वें सति कारणमसमवायिकारणम् । यथा तन्तुसंयोगः पटस्य । तन्तुरूपं पटगतरूपस्य (त० सं० १ ) । असम्प्रज्ञातः, असम्प्रज्ञात १. न यथार्थज्ञानविषयः । २. ज्ञेयज्ञानज्ञातृभेदशून्यो निर्विकल्पकरूपः समाधिभेदः एकः । स च सर्ववृत्तिनिरोधरूपः । असम्भवः, असम्भव १. लक्षणदोषः यथा लक्ष्यमात्रावर्तनमसम्भवः । यथा गोरेकशफत्वम् (त० सं० १ दी०) । यथा च - लक्ष्यतावच्छेदकव्यापकीभूतो योऽभावस्तत्प्रतियोगित्वम् (त० सं० न्या० बो०) । यत्र यत्र लक्ष्यतावच्छेदकं गोत्वम् तत्र तत्रैकशफत्वस्याभावः इति व्याप्तेरेकशफत्वाभावो लक्ष्यतावच्छेदकस्य व्यापको भवतीति तत्प्रतियोगित्वमेकशफत्वे वर्तत इति बोध्यम् । २. स्वरूपासिद्धिः । यथा गोरेकशफत्वस्य लक्षणत्वे स्वरूपासिद्धात्मको हेत्वाभासः ३. यस्य सम्भावना नास्ति स असम्भव इति लोके । यथा असम्भवं हेममृगस्य जन्म । असम्भूतिः, असम्भूति अव्याकृता प्रकृतिः । यथा - सम्भवनं सम्भूतिः सा यस्य कार्यस्य सा सम्भूतिस्तस्या अन्या असम्भूतिः प्रकृतिः कारणम् अविद्या अव्याकृताख्या तामसम्भूतिमव्याकृताख्यां कारणमविद्यां कामकर्मबीजभूतामदर्शनात्मिकामुपासते ( ई० उ० १२ शा० भा० ) । असम्मोहः, असम्मोह विवेकपूर्विका प्रवृत्तिः । यथा - असम्मोहः प्रत्युत्पन्नेषु बोधव्येषु द्रष्टव्येषु च विवेकपूर्विका प्रवृत्तिः (गी० १०४ शा० भा०) । यथा च - असम्मोहः प्रत्युत्पन्नेषु बोधव्येषु कर्तव्येषु चाव्याकुलतया विवेकेन प्रवृत्तिः (त० म० सू० ) । असंसर्गाग्रहः, असंसर्गाग्रह १. बाधकग्रहः प्रतिबन्धकग्रहो वा असंसर्गः । तस्याभावः । यथा प्रभाकरमते कार्यतावाचकलिङादिपदासमभिहारस्थले व्यवहारस्तु असंसर्गाग्रहादेवेत्यत्र (भ० प्र० ४) । २. भेदाज्ञानम् । यथा सांख्यमते बुद्धिपुरुषयोरसंसर्गाग्रहात् कर्तृत्वाद्यभिमान इत्यत्र (दि० १ आत्म०) । केचितु संसर्गस्य सम्बन्धस्याग्रहः अबोधः । यथा मीमांसकमते इदं रजतमित्यादौ इदमिति रजतमिति च । ज्ञानद्वयस्यापि प्रवृत्तिजनकताप्रयोजकत्वेन परस्परसम्वन्धाभावस्याबोधः इत्याहुः (वाच०) । असाधारणधर्मः, असाधारणधर्म लक्ष्यतावच्छेदकसमनियतो धर्मः । यथा गोर्लक्षणं हि सास्नादिमत्त्वम् । स एवासाधारणधर्म इत्युच्यते (त० सं० १ दी०) । अत्र धर्मे असाधारणत्वं च तदितरावृत्तित्वे सति सकलतवृत्तित्वम् (त० प्र० १) । अथवा लक्ष्यतावच्छेदकसमनियतत्वम् (त० सं० १ दी०) । लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेदकव्याप्यत्वमित्यर्थः (तत्रैव नील०) । भवति हि सास्नादिमत्त्वं लक्ष्यतावच्छेदकीभूतगोत्वस्य व्यापकत्वं व्याप्यत्वं चेति । स चासाधारधर्मो द्विविधः । व्यावर्तकः अव्यावर्तकश्च । आद्यो गोः सास्नादिमत्त्वम् । द्वितीयः सप्तपदार्थातिरिक्तपदार्थाप्रसिद्ध्या तद्भेदासम्भवेनाभिधेयत्वस्य व्यावर्तकत्वं न सम्भवतीति । असुरः, असुर तमोगुणात्मिका इन्द्रियवृत्तिः । यथा- देवा दीव्यतेर्थोतनार्थस्य शास्त्रोद्भासिता इन्द्रियवृत्तयः । असुरास्तविपरीताः स्वेष्वेवासुषु विष्वग् विषयासु प्राणनक्रियासु रमणात् स्वाभाविक्यस्तम आत्मिका इन्द्रियवृत्तय एव (छा० उप० १।२।१ शा० भा० ) । असूर्यः, असूर्य असुरभावमापन्नानां देवानां लोकः । यथा - असूर्याः परमात्मभावमद्वयमपेक्ष्य देवादयोऽपि असुरास्तेषां च स्वभूता लोका असूर्या नाम । नाम शब्दोऽनर्थको निपातः । ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते भुज्यन्त इति जन्मानि (ई० उप० ३ शा० भा०) । अस्तिकायः, अस्तिकाय जैनदर्शने प्रसिद्धः एकः पदार्थः । स च पञ्चविधः - जीवाकाशधर्माधर्मपुद्गलास्तिकायमेतत् । अत्र जीवादीनां पुद्गलान्तानां पञ्चानां द्वन्द्वः । ततश्चास्तिकायशब्देन कर्मधारयसमासः । एवं च जीवादीनां पञ्चानाम् अस्तिकाय इति संज्ञा बोध्या । एतेषु पञ्चसु तत्त्वेषु कालत्रयसम्बन्धितया अस्तीति स्थितिव्यपदेशः । अनेकप्रदेशत्वेन शरीरवत् कायव्यपदेशः (सर्व० सं० आर्हते) । अस्तिता, अस्तिता अस्तीत्येवंरूपभावप्रत्ययविषयता । यथा- अस्त्याकाशादिरिति व्यवहारादाकाशादावस्तिता । व्यावहारिकसत्तालक्षणास्ति । प्रत्यङ्मात्रे तु पारमार्थिकसत्तारूपा (सं० शा० १।१८ सु० टी०) । यथा च - अस्तिता सद्बुद्धिवेद्यता भावप्रत्ययगोचरतेति यावत् । प्रत्यगात्मनि सा सर्वास्पदतया नित्यसिद्धा सूक्ष्मत्वव्यापकत्वाद्वितीयत्वानामप्युपलक्षणमेतत् (त० अ० टी०) । सत्तारूपोऽर्थः । अस्तीति क्रियाप्रतिरूपकमव्ययम् । ततो भावार्थे तल्प्रत्यये अस्तितेति । अस्ति ब्रह्म, अस्ति ब्रह्म यथां - अस्ति ब्रह्मेति च लकारो न ब्रह्मसत्तां प्रति ब्रह्मणः कर्तृत्वमाह । नित्यत्वेन तदसम्भवात् किन्तु साधुत्वार्थमिति द्रष्टव्यम् (अ० सि० ज० हेतू०) । यथा च - अस्त्यादावपि कर्त्रीशे भाव्येऽस्त्येव हि भावनेति चेत् । आस्तामेवम्, सत्तारूपक्रियायाः कर्तृत्वानन्वये प्रकृतार्थे हानिस्तु नैवास्ति सिद्धा उक्तसत्ता ब्रह्माश्रितेति बोधः । किं च प्राचीनसिद्धान्ते नोक्तरूपा सत्ता किन्तु शुद्धचिदेव । यथा हि एकस्य एव चितः कल्पितभेदेनांशत्रयं सत्तास्फुरणमानन्दश्च । तदुक्तं वृद्धैः - अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयमिति । तत्र सत्तांशस्य व्यवहारे असत्त्वापादकज्ञानं प्रतिबन्धकम् । स्फुरणांशस्याभानापादकमज्ञानम् । आनन्दस्य अनानन्दापादकमज्ञानम् । सत्तांश एव ज्ञानांशः तस्य त्रितयस्याखण्डस्यैव अस्तिस्फुरत्यानन्दतिवाच्यत्वेन घटोऽस्तीत्यादौ शुद्धचिप्रकारको बोधः । घटं जानामीत्यादौ च ज्ञाने घटादेर्नावान्तरबोधः । निर्धर्मितावच्छेदकबोधासम्भवात् । किन्तु विशेष्ये विशेषणं तत्रापि विशेषणान्तरमिति न्यायेन घटज्ञानप्रकारकधीः । घटस्य ज्ञानमित्यादौ तु ज्ञानपदं षष्ठ्या ज्ञानीयविषयितालक्षकत्वे तात्पर्यग्राहकम्, ज्ञानांशबोधकम्, निर्धर्मितावच्छेदकबोधसम्भवात् (त० गौ० ब्र०) । अस्नाविरम्, अस्नाविर अविनाशि । यथा - एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च (श्वेता० ६।११)। स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम् (ई० उ० ८) इति चैतौ मन्त्रावनाधेयातिशयतां नित्यशुद्धतां च ब्रह्मणो दर्शयतः (ब्र० सू० १।१।४ शा० भा० ) । यथा च अस्नाविरम् अविगलितम्, अविनाशीति यावत् (त० भाम०) । अस्पर्शयोगः, अस्पर्शयोग योगविशेषः । यथा - अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिभिः । योगिनो विभ्यति ह्यस्मादमये भयदर्शिनः (मा० उप० का० ३।३९) । योगविशेषाख्यः । यद्यपि इदमित्थं परमार्थतत्त्वम् अस्पर्शयोगो नामायं सर्वसम्बन्धाख्यस्पर्शविवर्जितत्वादस्पर्शयोगो नाम वै स्मर्यते प्रसिद्धमुपनिषत्सु (मा० उप० गौ० व्या० का० ३।३९ शा० भा०) । यथा च - तत्र वर्णाश्रमादिधर्मेण पापादिमलेन च स्पर्शो न भवत्यस्मादित्यद्वैतानुभवोऽस्पर्शः । स एव भोगो जीवस्य ब्रह्मभावेन योजनात् (तत्रैव आ०गि०टी०) । पातञ्जलसम्मतनिर्विकल्यसमाधिकल्पः बौद्धदर्शनसम्मतविपश्यनायोगसदृशो वा । केचिद् वदन्ति निरस्तसमस्तभेदाद्वयतत्त्वदर्शनमिति । अस्मिता, अस्मिता अहमित्यभिमानः । अहमस्मि इति अस्मि तस्य भावः अस्मिता । यथा - सत्त्वपुरुषयोरहमस्मीत्येकताभिमानः अस्मिता । तदप्युक्तम्- दृग्दर्शनशक्त्योरेकात्मत्वाभिमानोऽस्मिता इति (सर्व० स० पातञ्जले) । यथा च - अहमस्मि मद्विशिष्टः कोऽपि नास्ति इत्यभिमानातिशयोऽस्मिता (पा० यो० सू० ५व्या० भा० ) । अस्पर्शविहारः, अस्पर्शविहार बौद्धदर्शने योगविशेषः । स्पर्शः सुखं तेन सहितो विहारः स्पर्शविहारः न स्पर्शविहारोऽस्पर्शविहारः (त्रिंशिकायाम्) । यथा च - मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदा: (गी० २।१४) । अहम्, अस्मद् आत्मा । यथा - अहमर्थः आत्मैव । तस्य कथमविद्यातः सृष्टिः । न च सुषुप्तौ स्वयंप्रकाशस्यात्मनः सम्भवेऽप्येवंविधस्याहमर्थस्याभावः। यदि च सुषुप्तावहमर्थः प्रकाशेत तर्हि स्मर्येत ह्यस्तन इवाहङ्कारः (अ० सि०) । अहङ्कारः, अहङ्कार १. अहमित्यभिमानः । यथा - अहंकारमहंकरणमहंकारो विद्यमानैरविद्यमानैश्च गुणैरात्मन्यध्यारोपितैर्विशिष्टमात्मानमहमिति मन्यते सोऽहंकारोऽविद्याख्यः कष्टतमः सर्वदोषाणां मूलं सर्वानर्थप्रवृत्तीनाञ्च (गी० १६।१८ शा० भा०) । यथा च–अध्यारोपितवैशिष्ट्यविषयत्वादहंकारस्याविद्यामूलत्वेनाविद्यात्मत्वमाह - अविद्याख्य इति । विवेकिभिस्तस्यातियलादेव हेयत्वं सूचयति- कष्टतम इति (त० आ० गि० टी०) । यथा च - अहङ्कारो अहमेव सर्वश्रेष्ठ इति बुद्धिः (त० नी० क०) । यथा च – अहमभिमानरूपो योऽहङ्कारः स सर्वसाधारणः सर्वैरारोपितैर्गुणैरात्मनो महत्त्वाभिमानमहङ्कारम् (त० म० सू०) । यथा च आत्मनो विशिष्टाभिमानमविद्याख्यं कष्टतमं सर्वदोषाणां सर्वानर्थप्रवृत्तीनां च मूलम् (त० भाष्यो०) । यथा चकार्यकारणसंघात आत्मप्रत्ययोऽहंङ्कारः (गी० ३।२७ शा० भा०, नी० क०, म० सू० भाष्यो०, श्रीधरी) । यथा च अहमित्यभिमानः । स च शरीरादिविषयको मिथ्याज्ञानविशेष उच्यते (गौ० वृ० ४।२।१ ) ।२. अभिमानाश्रयोऽन्तः करणमहंङ्कारः । सच वैकारिकतैजसतामसभेदेन त्रिविधः (वेदान्तिनः) । ३. महत्तत्त्वजन्यः पञ्चतन्मात्रादीनां कारणीभूतस्तत्त्वविशेषोऽहंकारः इति साङ्ख्याः । अहं ब्रह्मास्मि, अहं ब्रह्मास्मि वेदान्ते चत्वारि महावाक्यानि प्रसिद्धानि - १. प्रज्ञानं ब्रह्म (ऐ० आ० ५३) २. अहं ब्रह्मास्मि (बृ० उ० १/४/१०) ३. तत् त्वमसि (छा० उ० ३।८।७) ४. अयमात्मा ब्रह्म (मा० उ० २) । एषु अहं ब्रह्मास्मि इति वाक्यम् अनुभववाक्यम् । अपराणि त्रीणि उपदेशवाक्यानि । अस्यार्थ एवं भवति । यथाअथाधुना अहं ब्रह्मास्मि इत्यनुभववाक्यार्थो वर्ण्यते । एवमाचार्येण अध्यारोपापवादपुरःसरं तत्त्वं पदार्थौ शोधयित्वा वाक्येनाखण्डार्थेऽवबोधितेऽधिकारिणोऽहं नित्यशुद्धबुद्धमुक्तसत्यस्वभावपरमानन्दानन्ताद्वयब्रह्मास्मीत्यखण्डाकाराकारिताचित्तवृत्तिरुदेति । सा तु चिप्रतिबिम्बसहिता सती प्रत्यगभिन्नमज्ञातं परं ब्रह्म विषयीकृत्य तद्गताज्ञानमेव बाधते । तदा पटकारणतन्तुदाहे पटदाहवदखिलकारणेऽज्ञाने बाधिते सति तत्कार्यस्याखिलस्य बाधितत्वात् तदन्तर्भूताखण्डाकाराकारिता चित्तवृत्तिरपि बाधिता भवति । तत्र प्रतिबिम्बते चैतन्यमपि । यथा दीपप्रभादित्यप्रभावभासनासर्मथा सती तथाभिभूता भवति । तथा स्वप्रकाशमानप्रत्यगभिन्नपरब्रह्मावभासनानर्हतया तेनाभिभूतं सत् स्वोपाधिभूताखण्डचित्तवृते र्बाधितत्वाद् दर्पणाभावे मुखप्रतिबिम्बस्य मुखमात्रवत् प्रत्यगभिन्नपरब्रह्ममात्रं भवति (वे० सा० ५८) । अहिनिर्ल्वयिनी, अहिनिर्ल्वयिन् सर्पत्वक् । यथा - तद् यथा अहिनिर्ल्डयिनी बल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते (ब्र० सू० १।१।४ शा० भा०) । यथा च अहिनिर्ल्डयिनी सर्पत्वक् यथा सर्पः परित्यक्तं स्वकञ्चुकं पश्यन्नपि पूर्ववदात्मत्वेन नाभिमन्यते । तदेदं शरीरं कदाचित्पश्यन्नपि नात्मतया जानामीत्यर्थ: (सं० शा० ४/५५ अ० टी० तथा सु० टी०) । अहिंसा, अहिंसा यथा च - अहिंसा प्राणिनां पीडानिवृत्तिः (त० म० सू०) । यथा अहिंसा अपीडा प्राणिनाम् (गी० १०/५ शा० भा० ) । अंशः, अंश १ . भागः । यथा अंशः पादो भाग इत्यनर्थान्तरम् (ब्र० सू० २।३।४४ शा० भा० ) । २. सर्वे चांशकलाः प्रोक्ताः कृष्णस्तु भगवान् स्वयम् (भागवते १॥ ३ । २८ ) । इति श्लोकव्यारव्यायां श्रीश्रीधरस्वामिभिरुच्यते - अंशः शक्तिसमावेशः कला ज्ञानप्रवोधनम् । ३ अंश इव अंशः । यथा - अतो ब्रवीति- अंश इति । जीव ईश्वरस्यांशो भवितुमर्हति । यथाग्नेर्विस्फुल्लिङ्गः । अंश इवांशो नहि निरवयवस्य मुख्योंऽशः सम्भवति ।....अतो भेदाभेदावगमाभ्यामंशत्वागमः (ब्र० सू० २ ।३।४३ शाळं भा० ) अंशाशिभावः, अंशाशिभाव एकदेशैकदेशि विकारविकारित्वं यावत् । यथा- अतो न पण्डितैर्बह्मस्वरूपप्रतिपत्तिविषये ब्रह्मणोंऽशांश्येकदेशैकदेशिविकारविकारित्वकल्पना कार्या सर्वकल्पनापनयनार्थसारपस्त्वात् सर्वोपनिषदाम् (बृ० आ० उ० २।१।२ शा० भा० ) अंशित्वम्, अंशित्व कार्यत्वम् । यथा - अंशित्वात् कार्यत्वात् । ननु पटे तन्त्ववच्छिन्नचिदेवोपादानम्, न तु तन्तुरिति मते सिद्धसाधनम् । तादात्म्यसम्बन्धेन तन्तौ पटस्यात्यन्ताभावसत्त्वात् (अ०सि०अं०प्र०गौ०प्र०) । यथा च - अयं पटः एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी अंशित्वात् इतरांशिवत् (त० प्र० मि० प्र०) । यथा च अंशिनः स्वांशगात्यन्ताभावस्य प्रतियोगिनः । अंशित्वादितरांशीव दिगेषैव गुणादिषु (वे० प० अनु० प० त० प्र० ८ ) । आकाङ्क्षा, आकाङ्क्षा यथा - तत्र पदार्थानां परस्परजिज्ञासाविषयत्वयोग्यत्वमाकाङ्क्षा । क्रियाश्रवणे कारकस्य कारकश्रवणे क्रियायाः करणश्रवणे कर्तव्यतायाश्च जिज्ञासाविषयत्वात् । अजिज्ञासोरपि वाक्यार्थबोधाद् योग्यत्वमुपात्तम् । तदवच्छेदकं च क्रियात्वकारकत्वादिकमिति नातिव्याप्तिः गौरश्वः इत्यादौ । अभेदान्वये च समानविभक्तिकप्रतिपाद्यत्वं तदवच्छेदकमिति तत्त्वमस्यादिवाक्येषु नाव्याप्तिः । एतादृशाकाङ्क्षाभिप्रायेणैव बलाबलाधिकरणे - सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् इत्यत्र वैश्वदेवयागस्यामिक्षाऽन्वितत्वेन न वाजिनाकाङ्क्षेत्यादिव्यवहारः । न तु तत्रापि वाजिनस्य जिज्ञासाऽविषयत्वेऽपि तद्योग्यत्वमस्त्येव । प्रदेयद्रव्यत्वस्य यागनिरूपितजिज्ञासाविषयतावच्छेदकत्वादिति चेत्, न । स्वसमानजातीयपदार्थान्वयविरहसहकृतप्रदेयद्रव्यत्वस्यैव तदवच्छेदकत्वेन वाजिनद्रव्यस्य स्वसमानजातीयामिक्षाद्रव्यान्वयबोधसहकृतत्वेन तादृशावच्छेदकाभावात् । आमिक्षायां तु नैवम् । वाजिनान्वयस्य तदानुपस्थितत्वात् । उदाहरणान्तरेष्वपि दुर्बलत्वप्रयोजकाकाङ्क्षाविरह एव द्रष्टव्यः (वे० प० ४ प०) । इत्यद्वैतवेदान्तिनो मीमांसकाश्च यथा च पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वम् (त० सं० श० प०) । तदर्थश्च यत्पदस्य यत्पदाभावत्वप्रयुक्तमन्वयबोधाजनकत्वं तत्पदसमभिव्याहृततत्पदत्वम् (तत्रैव नील० व्याख्यायाम्) । आकाङ्क्षा द्विविधा - उत्पाद्या आकाङ्क्षा उत्थिताकाङ्क्षा च । आकाङ्क्षा च शाब्दबोधगोचरेच्छा शब्देनैव विषयसिद्धिद्वारा निवर्त्यते । शाब्दी हि आकाङ्क्षा शब्देनैव प्रपूर्यते । अनेन शब्दकल्पना आवश्यकी । आकाशम्, आकाश १ . सर्वमूर्त्तिविभाजकः पदार्थः । यथा भर्तृहरिराह - आधारशक्तिः प्रथमा सर्वसंयोगिनामयम् । इदमत्रेति भावानामभावानां च कल्प्यते ॥ १ ॥ व्यपदेशस्वमाकाशनिमित्तं तु प्रचक्षते । कालात् क्रिया विभज्यन्ते आकाशात् सर्वमूर्तयः ॥२॥ एतावानेव भेदोऽयमभेदोपनिबन्धनः ॥ ( ३ १/, वाक्यप० ।) २. सांख्यास्तु निष्क्रमणादिकं कर्म आकाशानुमापकमिति (वै० सू० २।१।२०) । (सर्व० द० पृ० १२८) । अयं भावः निष्क्रमणप्रवेशनाद्युप्रेक्षणधर्मवत्त्वादाकाशसिद्धिरिति सांख्यादयो मन्यन्ते । एतदभिप्रायेण सुश्रूते उक्तम्- अन्तरिक्षात्तु शब्दः, शब्देन्द्रियं सर्वच्छिद्रसमूहो विविक्तता चेति । वेदान्तिनोऽपि शब्दः श्रोत्रेन्द्रियं चापि छिद्राणि च विविक्तता । वियतो दर्शिता एते. गुणा गुणविवारिभिः इत्याहुः (वाच०) । अत्रेदं बोध्यम् । ३. शब्दगुणकम् । तच्चैकं विभु नित्यं च । तच्च लाघवादेकम् । सर्वत्र कर्मोपलम्भाद् विभु । विभुत्वाच्च नित्यम् । तथापि कर्णशष्कुल्यवच्छिन्नं सत् शब्दग्राहकश्रोत्रेन्द्रियात्मकम् (त० कौ० ) इति न्यायवैशेषिकाः अद्वैतवेदान्ते शब्दो न केवलमाकाशमात्रस्य गुणः किन्तु वाय्वादीनामपि गुणः । यतो आकाशाद् वायोरुत्पत्तिर्मन्यते एतन्मते । नैयायिका नैवमङ्गीकुर्वन्ति । वेदान्तिमते- आकाशाद् वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी (तै० उ० ३ । १) इति श्रुतिर्मानम् । नैयायिकमते श्रुतिर्मानं नास्ति । उक्तं च पञ्चदश्याम्शब्दस्पर्शी रूपरसौ गन्धो भूतगुणा इमे । एकद्वित्रिचतुःपञ्चगुणा व्योमादिषु क्रमात् । प्रतिध्वनिर्वियच्छब्दः वायौ वीसीतिशब्दनम् । अनुष्णाशीतसंस्पर्शो वह्नौ भुगुभुगुध्वनिः । उष्णस्पर्शः प्रभारूपं जले बुलुबुलुध्वनिः । शीतस्पर्शः शुक्लरूपं रसो माधुर्यमीरितम् । भूमौ कडकडाशब्दः काठिन्यं स्पर्श उच्यते नीलादिकं चित्ररूपं मधुराम्लादिको गुणः । यथा च - न च शब्दस्याकाशमात्रगुणत्वम् । वाय्वादावपि तदुपलम्भात् । न चासौ भ्रमः बाधकाभावात् (वे० प० ७ प्र०) । आकारः, आकार १. विषयता निरूप्यनिरूपकभावापन्ना तत्तद्विषयता वा । यथा अयं घटः इत्याकारकं ज्ञानमित्यादौ तादृशं विषयता (वाक्यार्थ० २) । २. अभेदः (तादात्यम्) यथा इत्याकारकं ज्ञानमित्यादौ (वाक्यार्थ० २) ३. यथा वा तथा चायमित्याकार उपनय इत्पादौ (दीधि०) अभिनयः । उदाहरणं पूर्वोक्तमेव इत्याकार उपनय इति । ४. अवयवसंस्थानविशेष इति काव्यज्ञाः । ५. सांख्यास्तु अभेदस्थानीयः पदार्थविशेषः विषयिताविशेषो वा । यथा यत्सम्बद्धं सत् तदाकारोल्लेखि विज्ञानं तत्प्रत्यक्षमित्यादौ इत्याहुः । (सा० सू०) । ६. वर्णविशेष आकार इति शाब्दिकाः । ७. अतथाभूतस्य तथाभूतेन सामान्यम् । तद्यथा स्थाण्वाकारः पुमान् इत्यत्र पुरुषस्य स्थाणोराकारः पुरुषेण यत् सामान्यं सः (न्या० वा० १।१।१३) । आकाश: (आकाशम्), आकाश (आकाशम्) १. नभः । २. ब्रह्म । यथा तस्माद् ब्रह्मणि गौण आकाशशब्दो भवितुमर्हति ।.... अकाशशब्देनेह ब्रह्मणो ग्रहणं युक्तम् आकाशस्तल्लिङ्गात् । (ब्र० सू० १ । १ । २२ शां भा० ) । यथा च आकाश इति होवाच इति किं मुख्याकाशपदानुरोधेन अस्य लोकस्य का गतिः इति । सर्वाणि ह वा इमानि भूतानि इति च ज्यायान् इति च परायणमिति च कथञ्चित् व्याख्यायताम् उतैतदनुरोधेनाकाशशब्दो भक्त्या परमात्मनि व्याख्यायताम् इति ।... आकाशशब्देन ब्रह्मणो ग्रहणम् । कुतः तल्लिङ्गात् । (तत्रैव शां० भा० १ । १ । २२) । एवमेव ब्र० सू० १/२/१५ शा० भा० भामत्यां वे० क० तरावपि । ३. आवरणाभावमात्रमाकाशमिति । (ब्र० सू० २।२।२२) ४. अथैतमेवाध्वानं पुनर्निवर्तते । यथैतमाकाशमाकाशाद् वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति, अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति ( ब्र० सू० ३/१/२२ शां भा० ) । आगमः, आगम १ . शब्दः शब्दप्रमाणम्, श्रुतिः, आ सम्यग् गम्यते ज्ञायतेऽर्थोऽनेनेति । यथा- अथागमो निरूप्यते । यस्य वाक्यस्य तात्पर्यविषयीभूतसंसर्गो मानान्तरेण न बाध्यते तद्वाक्यं प्रमाणम् (वे० प० ४ परि०) । अत्रैव अर्थदीपिकाव्याख्यायाम्उपमाननिरूपणानन्तरं शब्दो निरूप्यत इत्यर्थः । तत्रागमप्रमाणं लक्षयति - यस्येति । इतिशाङ्करवेदान्तिनः। २. वेदशास्त्रमन्त्रादि । यथा आगमः खल्वपि ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्चेत्यादौ (पा० म० भा० १1१1१) आगमलक्षणं व यथोक्तं प्रामाणिकैः सिद्धं सिद्धैः प्रमाणैस्तु हितं वात्र परत्र वा । आगमः शास्त्रमाप्तानामाप्तास्तत्त्वार्थवेदिनः । इति । ३. प्रत्ययादेशभिन्नत्वे सति साक्षाल्लक्ष्यसंस्कारतया शास्त्रविहितः प्रकृतिप्रत्ययानुपघातको यः अट् इट् इत्यादिः स आगम इति शाब्दिकाः वदन्ति । ४. साक्षिपूर्वकं लिखितं पत्रम् ( दस्तावेज इति लोके) यथा - आगमो निष्फलस्तत्र श्रुतिः स्तोकमपि यत्र नो (वीरमित्रो० २ दाय०) इत्यादौ आगमशब्दार्थः व्यवहारशास्त्रज्ञः । ४. स्वत्वहेतुः प्रतिग्रहक्रियादिरागमः । ( याज्ञ० स्मृतौ २ अ० २७ श्लो० मीताक्षरायाम् ) । ५. उत्पत्तिः यथा आगमापायिनो नित्याः ।(गीतायाम्० २।१४) । ६. आसमन्ताद् गमयति = बोधयतीति आगमः, सर्वाणि शास्त्राणि । ७. आगमनमेवागमः । यथा - अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे रात्र्यागमे प्रलीयन्ते । (भगवद्गीतायाम् १८/८) १८. सामाधुपायः । यथा - आगमैः सदृशारम्भः आरम्भसदृशोदयः । (रघुवंशे १ । १५) । ९. आप्तवाक्यम् । यथा आगमो नामाप्रवाक्यम् । आप्तवाक्यं प्रमाणम् । (तर्कसंग्रहे । १०. शास्त्रविशेषः । यथा - आगतं शिववक्त्रेभ्यो गतं च गिरिजानने । मतं च वासुदेवस्य तस्मादागम उच्यते । (रुद्रयामले) तथा - आचारकथनाद् दिव्यगति प्राप्तिविधानतः । माहात्म्यतत्वकथनादागमः कथितः प्रिये । सृष्टिश्च प्रलयश्चैव देवतानां यथार्चनम् । साधकं चैव सर्वेषां पुरश्चरण एव च ॥ षट्कर्मसाधनञ्चैव ध्यानयोगश्चतुर्विधः । सप्तभिर्लक्षणैर्युक्तमागमं तद् विदुर्बुधाः । (कुलार्णवतन्त्रे ) । ११. आप्तेन दृष्टोऽनुमितो वार्थः । यथा- आगमेन दृष्टोऽनुमितो वार्थः परत्र स्वबोधसंक्रान्तये शब्देनोपदिश्यते । शब्दात् तदर्थविषया वृत्तिः श्रोतुरागमः । यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमिताऽर्थः स प्लवते । मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात् (पा० यो० सू० १ ।७ त० वै०) । आघातः, आघात १. चत्वारि आघातिकर्माणि, तद्यथा वेदनीयं कर्म शुक्लपुद्गलविपाकहेतुः, तद्धि बन्धोऽपि न निःश्रेयसपरिपन्थिः तत्त्वविज्ञानाविघात कत्वात् । शुक्लपुद्गलारम्भकवेदनीयकर्मानुगुणं नामिकं कर्म । तद्धि शुक्लपुद्गलस्याद्यावस्थां कललबुद्बुदादिमारभते । गोत्रिकमव्याकृतं ततोऽप्याद्यं शक्तिरूपेणावस्थितम् । आयुष्कं त्वायुः कायति कथयत्युत्पादनद्वारेत्यायुष्कम् । तान्येतानि शुक्लपुद्गलाद्याश्रयत्वादघातीनि कर्माणि । (ब्र० सू० २ ।२।३३ भाम०) आर्हतदर्शने । २. ताडनम् यथा दण्डाघातः इति लोके । आचारः, आचार १ . गुरूक्तस्यार्थस्याङ्गीकरणमाचार इति योगाचारबौद्धा वदन्ति । (सर्व प्र० ३० बौद्ध०) २. सत्पुरुषाणां प्रवृत्तिविषयत्वम् - विद्वेषरागरहिता अनुतिष्ठन्ति यं द्विजाः । विद्वांस्तं सदाचारं धर्ममूलं विदुर्बुधाः (म० स्मृ० १ । ३) । आचार्यः, आचार्यः क. उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । साङ्गं च सरहस्यं च तमाचार्यं प्रचक्षते (मनुस्मृ० २।२२) । ख. उपनीय ददद् वेदमाचार्यः स उदाहृतः (या० स्मृ० १-३४) । आचिनोति च शास्त्रार्थान् स्वयमाचरते तु यः । शिष्यान् ग्राहयते यस्मात् तस्मादाचार्य उच्यते । आजानदेवः, आजानदेव देवो द्विविधः कर्मदेव आजानदेवश्च । अग्निहोत्रादिकर्मभिर्देवत्वं प्राप्तः कर्मदेवः । आजानतः उत्पत्तितो यो देवः स आजानदेवः । यथा - ये शतं गन्धर्वलोक आनन्दाः स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्तेऽथ ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दः । (बृ० आ० उ० ४ । ३१३३) अत्र शाङ्करभाष्ये – अग्निहोत्रादिश्रौतकर्मणा ये देवत्वं प्राप्नुवन्ति ते कर्मदेवाः । तथैव आजानदेवानामेक आनन्दः - आजानत एव उत्पत्तित एव ये देवास्ते आजानदेवाः । यथा च वेदराशिर्ब्रह्मप्रभवःसन्नाजानसिद्धानावरणभूतार्थमात्रगोचरतबुद्धिपूर्वको यथा तथा कपिलादीनामपि श्रुतिस्मृतिप्रथिताजानसिद्धभावानां स्मृतयोऽनावरणसर्वविषयतद्बुद्धिप्रभवा इति न श्रुतिभ्योऽमूषामस्ति कश्चिविशेषः (ब्र० सू० २।१।१ भाम० ) । वेदान्तकल्पतरौ - आजानसिद्धा स्वभावसिद्धा च सानावरणभूतार्थमात्रगोचरा च (तत्रैव) । आतिवाहिकी, आतिवाहिकी अग्न्यादिदेवता । शरीरपातानन्तरं तत्तल्लोकाधिकारिणो देवास्तत्तल्लोकान् जीवात्मनो नयन्ति । ते देवा अतिवाहिकी देवतेतिपदेन व्यवह्रियन्ते । यथा – अग्न्याद्या देवता एवातिवाहिक्यो गृह्यन्ते (ब्र० सू० ४/२/२१ शा० भा०) । यथा च - तेष्वेवार्चिरादिषु संशयः - किमेतानि मार्गचिह्नानि उत भोगभूमयः अथवा नेतारो गन्तॄणामिति । तत्र मार्गलक्षणभूता अर्चिरादय इति प्राप्तम् । तत्स्वरूपत्वादुपदेशस्य .... एवं प्राप्ते ब्रूमः - आतिवाहिका एवैते भवितुमर्हन्ति । कुतःतल्लिङ्गात् । तथाहि चन्द्रमसो विद्युतं तत् पुरुषोऽमानवः स एतान् ब्रह्म गमयति । (छा० ४।१५।५) इति सिद्धवद् गमयितृत्वं दर्शयति (आतिवाहिकास्तल्लिङ्गात् इति ब्र०सू० ४।३।४ शा० भा०) । ये तावदर्चिरादिमार्गास्ते देहवियोगात् सपिण्डितकरणग्रामा इत्यस्वतन्त्रा अर्चिरादीनामप्यचेतनत्वादस्वातन्त्र्यमित्यतोऽर्चिराद्यभिमानितथा च लोके नश्चेतनादेवताविशेषा अतियात्रायां नियुक्ता इति गम्यते । प्रसिद्धेष्वप्यातिवाहिकेष्वेवं जातीयक उपदेशो दृश्यते । गच्छ त्वमितो बलवर्माणं ततो जयसिहं ततः कृष्णगुप्तमिति । अपि चोपक्रमे तेर्चिरभिसम्भवन्ति (बृ० ६।२।१५ ) इति सम्बन्धमात्रमुक्तम्, न सम्बन्धविशेषः कश्चित् । उपसंहारे तु - स एतान् ब्रह्म गमयति (छा० ४/१५/६) इति सम्बन्धविशेषोऽतिवाह्यातिवाहकलक्षण उक्तः (ब्र० सू० ४/३/५ शा० भा० ) । आत्मभावः, आत्मभाव अन्तःकरणाश्रयः । यथा - आत्मनो भावोऽन्तःकरणाश्रयः । (गी० १०/११ शा० भा० ) । आत्मभावस्थः, आत्मभावस्थ क - आत्मभावे अन्तःकरणाश्रये स्थितः - आत्मनो भावोऽन्तःकरणाश्रयस्तस्मिन्नेव स्थितः (गीता१०/११ शां भा० ) । ख- अन्तःकरणगृहम् । आत्मभावस्थ आत्मनो भावोऽन्तः करणगृहं तत्स्थः (तत्रैव नील०) ग- आत्माकारान्त:करणवृत्तिः आत्मभावस्थ आत्माकारान्तःकरणवृत्तौ विषयत्वेन स्थितोऽहं स्वप्रकाशचैतन्यानन्दाद्वयलक्षण आत्मा तेनैव यद्विषयान्तःकरणपरिणामरूपेण ज्ञानदीपेन दीपसदृशेन ज्ञानेन.... नाशयामि (तत्रैव म० सू०) । घ- आत्मभावस्थो ज्ञानदीपेन भास्वतेत्युक्तम् । आत्मनो भावोऽन्तःकरणाशयस्तस्मिन्नवस्थितः तत्त्वमस्यादिमहावाक्योत्त्थान्तःकरणवृत्त्यभिव्यक्तः सन् तेनैव वृत्तिज्ञानदीपेन भक्त्यादिनां नाशयामीत्यर्थः (तत्रैव भाष्यो०) । आत्मभेदवादः, आत्मभेदवाद ग्रंथा – चार्वाकास्तु - स वा एष पुरुषोऽन्नरसमय इत्यादिश्रुतेः प्रदीप्तगृहात् स्वपुत्रं परित्यज्यापि स्वस्य निर्गमदर्शनात् स्थूलोऽहं कृशोऽहमित्याधनुभवाच्च स्थूलशरीरमात्मेति वदन्ति (वे० सा० ३७) । अपरश्चार्वाक:- ते ह प्राणाः प्रजापतिं पितरमेत्य ब्रूयुः इत्यादिश्रुतेरिन्द्रियाणामभावे शरीरचलनाभावात् काणोऽह-मित्याद्यनुभवाच्चेन्द्रियाण्यात्मेति वदति (तत्रैव ३८) । अपरश्चार्वाकःअन्योऽन्यतर आत्मा प्राणमय इत्यादिश्रुतेः प्राणाभावे इन्द्रियादिचलनायोगादहमशनायावानहं पिपासावान् इत्याधुनभवाच्च प्राण आत्मेति वदति (तत्रैव ३९)। अपरस्तु चार्वाकः- अन्योऽन्तर आत्मा मनोमय इत्यादिश्रुतेर्मनसि सुप्ते प्राणादेरभावादहं संकल्पवानहमहं विकल्पवानित्याद्यनुभवाच्च मन आत्मेति वदति (तत्रैव ४० ) । बौद्धस्तु - अन्योऽन्यतर आत्मा विज्ञानमय इत्यादिश्रुतेः कर्तुरभावे करणस्य शक्त्यभावादहं कर्ताऽहं भोक्तेत्याद्यनुभवाच्च बुद्धिरात्मेति वदति (तत्रैव ४१ ) । प्राभाकर तार्किकौ - तु अन्योऽन्तर आत्मानन्दमय इत्यादिश्रुतेर्बुद्ध्यादीनामात्मज्ञाने लयदर्शनादहमज्ञोऽहमज्ञानीत्याद्यनुभवाच्चाज्ञानमेवात्मेति वदतः (तत्रैव ४२) । भाट्टस्तु प्रज्ञानघन एवानन्दमय इत्यादिश्रुतेः सुषुप्तौ प्रकाशाप्रकाशसद्भावान् मामहं न जानामीत्याद्यंनुभवाच्चाज्ञानोपहितं चैतन्यमात्मेति वदति । (तत्रैव ४३) अपरो बौद्ध:असदेवेदमग्र आसीद् इत्यादिश्रुतेः सुषुप्तौ सर्वाभावादहं सुषुप्तौ नासमित्युत्थितस्य स्वाभावपरामर्शविषयानुभवाच्च शून्यमात्मेति वदति । एतेषां पुत्रादीनामनात्मत्वमुच्यते । एतैरतिप्रकृतादिवादिभिरुक्तेषु श्रुतियुक्त्यनुभवाभासेषु पूर्वपूर्वोक्तश्रुतियुक्त्यनुभवाभासानामुत्तरोत्तरश्रुतियुक्त्यनुभवाभासैरात्मत्वबाधदर्शनात् पुत्रादीनामनात्मत्वं स्पष्टमेव (तत्रैव ४५) । किञ्च प्रत्यगस्थूलोऽचक्षुरप्राणोऽमना अकर्ता चैतन्यं चिन्मात्रं सदित्यादिप्रबलश्रुतिविरोधादस्य पुत्रादिशून्यपर्यन्तस्य जडस्य चैतन्यभास्यत्वेन घटादिवदनित्यत्वादहं ब्रह्मेति विद्वदनुभवप्राबल्याच्च तत्तच्छ्रुतियुक्त्यनुभवाभासानां बाधितत्वादपि पुत्रादिशून्यपर्यन्तमखिलमनात्मैव ।अतस्तत्तद्भासकं नित्यशुद्धबुद्धमुक्तसत्यस्वभावं प्रत्यक्चैतन्यमेवात्मवस्तु इति वेदान्तविद्वदनुभवः । स चात्मा जीवात्मपरमात्मरूप एक एवाभिन्नः पारमार्थिकः । अविद्यावशाज्जीवात्मपरमात्मनोर्भेदप्रतीतिरिति अद्वैतवेदान्तिनः । विशिष्टाद्वैतद्वैताद्वैतशुद्धाद्वैतादिवादिनः वैष्णवाः जीवात्मपरमात्मनोर्भेदं वदन्ति । ममैवांशो जीवलोके जीवभूतः सनातनः (गी० १३।७) इति श्रीमद्भगवद्गीतोक्तिमुदाहरन्ति । ब्रह्मणो जीवस्य च भेदं पोषयितुम् - भोक्ता भोग्यं प्रेरयितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म एतत् (श्वेता० उ० १ ।१२) उपस्थापयन्ति । स कारणं करणाधिपाधिपः (श्वेता० उ० ६।९) य आत्मानमन्तरो यमयति स आत्मा अन्तर्याम्यमृतः । (बृ० आ० उप० ३।६।३) ज्ञाज्ञौ द्वावजानीशौ (श्वेता० उप० १।९) इति श्रुतीरुपस्थापयन्ति । जीवात्मपरमात्मनोरभेदे - तत्त्वमसि (छा० उ० ६।१६।३) एकमेवाद्वितीयं ब्रह्म (तत्रैव ६।२।१) सदेवेदमग्र आसीत् (तत्रैव) । इत्यादि श्रुतयः प्रमाणम् । आत्मयोगः, आत्मयोग मुक्तिः । तदात्मना योगस्तद्योगः तद्भावापत्तिः मुक्तिरित्यर्थः । ( ब्र० सू० १/१/१९ शा० भा० ) आत्मसंस्थम्, आत्मसंस्थ आत्मनि सम्यक् प्रकारेण स्थितम् । शनैः शनैर्न सहसोपरमेद् उपरतिं कुर्यात् । कया बुद्ध्या किं विशिष्टया धृत्या धैर्येण गृहीतया धैर्येण युक्तयेत्यर्थः । आत्मनि संस्थितमात्मैव सर्वं न ततोऽन्यत् किञ्चिदस्तीत्येवमात्मसंस्थं मनः कृत्वा न . किञ्चिदपि चिन्तयेत् । एष योगस्य परमोऽवधिः (गी० ६।२५ शा० भा०) । तदेतदाह आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् इति । आत्मनि निरुपाधिके प्रतीचि संस्था समाप्तिर्यस्य तदात्मसंस्थं सर्वप्रकारवृत्तिशून्यं स्वभावसिद्ध्यात्माकारमात्रविशिष्टं मनः कृत्वा, धृतिगृहीतया विवेकबुद्ध्या सम्पाद्यासम्प्रज्ञातसमाधिस्थः सन् किञ्चिदपि अनात्मानम् आत्मानं वा न चिन्तयेत् न वृत्त्या विषयीकुर्यात् (तत्रैव म० सू० ) । आत्महन्, आत्महन् आत्मज्ञानविहीनः । यथा - आत्मानं घ्नन्तीति आत्महनः । के जनाः येऽविद्वांसः । कथं त आत्मानं नित्यं हिंसन्ति । अविद्यादोषेण विद्यमानस्यात्मनस्तिरस्करणात् ( ई० उ० ३ शा० भा०) । आत्मा, आत्मन् १ . अततीति आत्मा, सातत्यशीलः, आप्नोतीत्यात्मा परमकारणम्, चिद्रूपः कर्तृत्वादिरहितः परस्मादभिन्नः प्रत्यगात्मेत्यौपनिषदाः स च जीवः ईश्वरः परमात्मा च । यथा - जीवपरमेश्वरसाधरणं चैतन्यमात्रं विम्बम् तस्यैव बिम्बस्य अविद्यात्मिकायां मायायां प्रतिबिम्बमीश्वरचैतन्यम्, अन्तःकरणेषु प्रतिबिम्बं जीवचैतन्यम् (वे० प० ७ प०) चैतन्यमात्रं बिम्बः परमात्मा अत्र त्रयो वादाः प्रतिविम्बवादः अवच्छेदवादः आभासवादः । अतः अविद्याद्वारा प्रतिबिम्बितः आभासितः अवच्छिन्नः चैतन्यमात्ररूपः परमात्मैव जीवः । अविद्यावशात् परमात्मनो भिन्न इव लक्ष्यते । अधिकं जीवशब्दे द्रष्टव्यम् । २. चैतन्यविशिष्टं देहमात्मेति लोकायताः । ३. प्राणा आत्मेत्यन्ये ।४. अन्तःकरणमात्मेत्यपरे !५. मुख्यः प्राण एवात्मेत्यन्ये । ६. पुत्र एवात्मेति केचित् ।७. क्षणभङ्गुरं संतन्यमानं विज्ञानमात्मेति योगाचारबौद्धाः । ८. देहात्परमेश्वराद् भिन्नो जीवात्मेति नैयायिकाः । न कर्तेति सांख्या: । क. यथा - ज्ञानाधिकरणमात्मा । स द्विविधः- जीवात्मा परमात्मा चेति । तत्राद्यः प्रतिशरीरं भिन्नः विमुर्नित्यश्च कर्ता भोक्ता च । द्वितीयः ईश्वरः सर्वज्ञः एक एव । (त० सं०) ख. गुणविशिष्ट आत्मा । (वात्स्या० ४।१।२१) ग. आत्मा चाप्रत्यक्ष एवेति वैशेषिकः (वै० ८।१।२) एतन्मते ईश्वर आत्मा अनुमानगम्य एव । तच्च जगतो जन्यत्वम्, यज्जन्यं तत्सकर्तृकं भवति । अतो जगतः कर्तेश्वरः । घ. जीवात्मा मानसप्रत्यक्षविषय इति नैयायिकाः । (भा० प० श्लो० ५०) अत्र च श्रुतिः - आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो मन्तव्यो निदिध्यासितव्यः । (बृ० आ० उप० २।४।४) । ङ. ज्ञानाद् भिन्नो न चाभिन्नो भिन्नाभिन्नो न कथञ्चन.। ज्ञानं पूर्वापरीभूतं सोऽयमात्मेति कीर्तितम् इति आर्हताः । (सर्व० सं० पृ० ६९ आर्ह०) । यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततोभावस्तेनात्मा परि कीर्तितः (निरुक्तम्) (क० उ० २।११ शा० भा०) । यद्यप्येक आत्मा सर्वभूतेषु स्थावरजङ्गमेषु गूढः, तथापि चित्तोपाधिविशेषतारतम्यादात्मनः कूटस्थनित्यस्यैकरूप्यस्याप्युत्तरोत्तरमाविष्कृतस्य तारतम्यमैश्वर्यशक्तिविशेषैः श्रूयते - तस्य य आत्मानमाविस्तरां वेद (ऐ० आ० २/३/२, १ - ब्र० सू० १/१/११ शां० भा० ) ! आत्मा – ब्रह्म, व्यापकः लयस्थानम्, उपादानम्, देहः "अयमात्मा ब्रह्म" आप्लृव्याप्तौ धात्वर्थानुसारेण व्यापक आत्मशब्दार्थः यद्यस्माद् आदत्ते संहरति स्वात्मनि एव सर्वमिति जगदुपादानकारणं लभ्यते । विषयानत्तीत्यात्मेति व्युत्पत्त्या स्वचैतन्याभासेनोपलब्धृत्वमात्मशब्दार्थः । आत्मा स भोक्तुरपरे (ब्र० सू० १११ शां० भा०) भोक्तुर्जीवात्मनोऽविद्योपाधिकस्य स ईश्वरस्तत्पदार्थ आत्मा तत ईश्वरादभिन्नो जीवात्मा । परमाकाशादिव घटाकाशादय इत्यर्थः । (भामत्याम्) सहस्रशः ब्रह्मात्मशब्दयोः समानाधिकरण्यादेकार्थत्वमेवेत्यवगम्यते । (बृ० आ० उ० १।४।११ शां० भा० ) आप्नोतीत्यात्मा परमकारणम् (ब्र० सू० १/१/४ वे० क० त०) आत्मशब्दश्च चेतनवचन इत्यवोचाम (ब्र० सू० १/१/१० शां० भा०) (का० उप० ४ व० १ म० आ० टी०) १. (जीव:) तस्यात्मनो जीवस्यान्तःकरणं बन्धुर्भवति येन नियन्त्रा जीवेनान्तःकरणेनैव पूर्वाक्तसहायकसहकृतेन आत्मा शारीराख्यः सेन्द्रियो जितः स्वाधीनः सम्पादितः तस्यान्तःकरणं बन्धुरित्यर्थः (गी० ६।६ भाष्यो०)। संस्कृतेनान्तः करणेन पश्यन्ति साक्षात् कुर्वन्ति (तत्रैव भाष्यो०) ध्यानसंस्कृतेनान्त करणेन केचिदुत्तमा योगिनः (तत्रैव म० सू०) आत्मना । २. अन्तःकरणम् यथा - सततं सर्वदा आत्मानम् अन्तःकरणम् (गी० ६।१० शा० भा० ) । ३. बुद्धिः - यथा- एकान्ते स्थितः सन् आत्मानं बुद्धिं बुञ्जीत समादध्यात् (गी० ६।१० नीलकण्ठी) । यतौ स्थिरीकृतौ चित्तं मनः आत्मा सेन्द्रियं शरीरं येन स यतवितात्मा (गी० ६।१० भाष्योत्कर्षे) यतं सततं चित्तात्मा देहश्च यस्य (गी० ६।१० श्रीधर्याम्) । एकान्ते स्थितः सन् आत्मानं बुद्धिं युञ्जीत समादध्यात् (गी० ६।१० नी० क०)। आत्मना ध्यानसंस्कृतेनान्तःकरणेन केचिद् योगिनः (गी० १३/२४ शा० ) आत्मना मनसा एवात्मानं केचित् पश्यन्ति (तत्रैव श्रीधरी) । आत्मा-बुद्धिः ध्यानेनात्मनि बुद्धौ पश्यन्ति आत्मानं प्रत्यक् चेतनम् आत्मना ध्यानसंस्कृतेनान्तःकरणेन केचिद्योगिनः (गी० १३/२४ शां० भा०) । आत्मनि देहादावात्मबुद्धिरूपाया विपरीतभावनाया निवृत्त्यर्थं निदिध्यासनं विजातीयप्रत्ययतिरस्कारपूर्वकसजातीयप्रत्ययप्रवाहीकरणलक्षणं कर्तुं प्रवर्तन्ते (तत्रैव नील०) । ध्यानेनात्मनि बुद्धौ आत्मानं प्रत्यक् चेतनमात्मना ध्यानसंस्कृतेनान्तःकरणेन पश्यन्ति साक्षात्कुर्वन्ति (तत्रैव भास्यो०) ४ देह:- आत्मनि देहे आत्मना मनसा एवात्मानं केचिद् वदन्ति (तत्रैव श्रीधरी) । निधर्भिणोऽप्यात्मनः केचनधर्मा अपृथक्त्वेऽपि पृथगिव भासन्ते । यथा - विषयिणस्तद्धर्माणं चेत्यध्यासभाष्यावयवं व्याचक्षाणैः पञ्चपादिकाकृद्धिः - ननु विषयिणश् चिदेकरूपस्य कुतो धर्मा ये विषयेऽध्यसेरन् इत्याक्षिप्य समाहितम् आनन्दो विषयानुभवो नित्यत्वं चेतिधर्माः । अपृथक्त्वेऽपि चैतन्यात् पृथगिवावभासन्त इति ( त० प्र० स्वप्र० प्र० न० टी० ) । आत्मीयः, आत्मीय आत्मसम्बन्धी शरीरः । आत्मीयं शरीरम्, आत्मा शरीरादिसंयुक्तमात्मानमित्यर्थः (ब्र० सू० १/१/४ शा० भा०) । आदिः, आदि १. तप्रागभावाधिकरणकालः । यथा आदौ द्रव्यं स्वीकुरु । यथा वा आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते इत्यादौ । २. कारणम् । यथा आदिमत्त्वादैन्द्रियकत्वात्कृतकवदुपचाराच्च (गौ० २/२/१४) । इत्यादौ । अत्र आदीयते अस्मादिति व्युत्पत्तिर्द्रष्टव्या (वात्स्या० २।२।१४ ) । ३. उत्पत्तिः । यथा अनादिः प्रागभाव इत्यादौ । ४. यस्मिन् सति यस्मात्पूर्वो नास्ति स आदिरिति वैयाकरणाः । आदित्यः, आदित्य १. सूर्यः २. अदितेरपत्यत्वात् आदित्यो देवः (सर्वे देवा आदित्याः) ३. यज्ञकर्मणि सामवेदीयः प्रतिहारः । यथा - आदित्यः प्रतिहारः (छा० उ० २।२।१ शा० भा०) । आदिदेवः, आदिदेव १ . सर्वेषु देवेषु प्रथमः । यथा - आदिदेवं सर्वदेवानामादौ भवम् (गी० १०/१२ शा० भा०) । २. सूत्रात्मनः प्रथमः । यथा आदिदेवं सूत्रात्मनोऽप्याद्यम् (तत्रैव नी० क०) । ३. अजः । यथा - आदिदेवं सर्वेषां ब्रह्मादिदेवानामादिभवम् अत एव अजम् (तत्रैव भाष्यो०)। आदिबुद्धाः, आदिबुद्ध स्वभावत एव ज्ञानवन्तः । यथा प्रकृतिसिद्धज्ञानवन्तः । यस्मादादौ बुद्धा आदि बुद्धाः प्रकृत्यैव स्वभावत एव यथा नित्यप्रकाशस्वरूपाः सर्वदैवं नित्यबोधस्वरूपाः इत्यर्थः (मा० गौ० पा० का० ४।९२ शा० भा०) । आदेश:, आदेश १. आज्ञा । २. स्थानिधर्माभिधानसमर्थः इति शाब्दिकाः । यथा स्थानिवदादेशोऽनविधौ (पा० सू० १/१/५६) । ३. अमुकवर्णस्य उच्चारणप्रसङ्गे अमुकः उच्चारणीयः इति शाब्दिकाः । यथा इको यणचि (पा० सू० ६।१।७७) अजव्यवहितोत्तरत्त्वविशिष्टेक उच्चारणप्रसङ्गे यण् उच्चारयितव्य इति । ३. कथनम् उपदेशो वा इति अद्वैतवेदान्तिनः । यथा अथात आदेशः । यथा च एष आदेश एष उपदेशः (तै० उ० ११ । ४) । आधारता, आधारता १. अयम् अखण्डोपाधिः इति नैयायिकाः (व्युत्त्य० का० प्र०) । २. आधारोऽधिकरणम् (पा० सू० १ ।४।४५) । आधारनिष्ठो धर्मः इति पाणिनीयाः । ३. आधारः अधिष्ठानम् । तच्च सर्वस्य आविद्यकस्य अधिष्ठानमाधारो ब्रह्मैवेति अद्वैतिनः । तत्रैव चाधारता । आधेयता, आधेयता १. आधेयनिष्ठो धर्मः । आधेयमिति प्रतीतिनियामको धर्मविशेषः (वृत्तित्वम्) यथा भूतलं घटवद् इत्यादौ घंटे भूतलाधेयता । २. प्रकारताविशेष इति केचित् । ३ अखण्डोपाधिरिति अपरे । आध्यानम्, आध्यान सम्यग्दर्शनम् । यथा - आध्यानपूर्वकाय सम्यग्दर्शनाय इत्यर्थः । सम्यग्दर्शनार्थमेव हीहाध्यानमुपदिश्यते नत्वाध्यानमेव स्वप्रधानम् (ब्र० सू० ३ । ३ । १४ शा० भा० ) । सूक्ष्मशब्दादिभूतध्यायिनो भौतिकाः । करणाभिमान्यादित्यादिदेवताध्याधिन आभिमानिकाः । अन्तःकरणध्यायिनो बौद्धाः (तत्रैव वे० क० त० ) । अतः सम्यग्दर्शनमद्वितीयब्रह्मसाक्षात्कार इत्यद्वैतिनः । उक्तं च यथा- इतश्च पुरुषप्रतिपत्त्यर्थमेवेन्द्रियादिप्रवाहोक्तिः । यत् कारणम् - एष सर्वेषु भूतेषु गूढ आत्मा न प्रकाशते । दृश्यते त्वग्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः । (कठ० उ० ३ । १२) इति प्रकृतं पुरुषमात्मेत्याह । अतश्चानात्मत्वमितरेषां विवक्षितमिति गम्यते । तस्यैव च दुर्विज्ञानतां संस्कृतमतिगम्यतां च दर्शयति । तद् विज्ञानायैव - यच्छेद् वाङ्मनसी प्राज्ञः (कठ० ३।१३) इत्याध्यानं विदधाति (ब्र०सू० ३/३/१५ शा०भा० ) । आनन्दः, आनन्द १ . आङुपसर्गाद् टुनदिसमृद्धौ इति धातोः निष्पन्न आनन्द शब्दः सर्वसमृद्ध्यर्थकः। २. सुखम् यथा - नमस्यामस्तद्ब्रह्मापरिमितसुखज्ञानममृतम् (ब्र० सू० भाम० टी० मङ्गलश्लो०) । ३. ब्रह्म यथा - "सुखं द्विविधम् सातिशयं निरतिशयं चेति । तत्र सातिशयं सुखं विषयानुषङ्गजनितान्तःकरणवृत्तितारतम्यकृतानन्दलेशाविर्भावविशेषः । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति (बृ० उ०४।३।२) इत्यादिश्रुतेः । निरतिशयं सुखं च ब्रह्मैव । आनन्दो ब्रह्मेति व्यजानात् (तै० उ० ३।६) विज्ञानमानन्दं ब्रह्म (बृ० उ० ३।१८) इति श्रुतेः ।" (वे० प० ८ परि०) सुखशब्दव्युत्पत्तिरपि वैषयिकं सातिशयं सुखमभिदधाति - सुष्ठु खानि इन्द्रियाणि यत्र तत् सुखम् । ४. मोक्षः, यथा आनन्दात्मकब्रह्मभावाप्तिश्च मोक्षः । शोकनिवृत्तिश्च । ब्रह्म वेद ब्रह्मैव भवति (मु० ३।२।९) तरति शोकमात्मवित् । (छा० १/१।३) इत्यादिश्रुतेः । न तु लोकान्तरावाप्तिः, तज्जन्यवैषयिकानन्दो वा मोक्षः । तस्य कृतकत्वेनानित्यत्वे मुक्तस्य पुनरावृत्त्यापत्तेः । ५. दुःखाभावः । यथा परमात्मन्यानन्दानङ्गीकारपक्षेऽपि भारापगमे सुखी संवृतः इत्यादाविव दुःखाभावरूप आनन्दः (मु० १ । १०३) । अत्र आनन्दशब्दो लक्षणया दुःखाभावबोधकः इति बोध्यम् । आनन्दमयः, आनन्दमय १. परं ब्रह्म । आनन्दमयशब्दे प्रचुरार्थे मयट् प्रत्ययो न तु विकारार्थे । यथा- एवात्मानन्दमयो भवितुमर्हति । कुतः अभ्यासात् । परस्मिन्नेव ह्यात्मन्यानन्दशब्दो बहुकृत्वोऽभ्यस्यते । आनन्दमयं प्रस्तुत्य - "रसो वै सः" इति तस्यैव रसत्वमुक्त्वोच्यते - रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति इति को ह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयति । (तै० २।७) । आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन । (तै० २१८,९) आनन्दो ब्रह्मेति व्यजानात् (तै० ३।६)। .... विज्ञानमानन्दं ब्रह्म । (बृ० ३।९।२८) इति ब्रह्मण्येवानन्दशब्दो दृष्टः । एवमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्यभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यते ( ब्र० सू० १/१/१२ शा० भा० ) । २. आनन्दमयः कोशः, अन्नमयप्राणमयमनोमयर्विज्ञानानन्दमयेषु अन्यतमः । यथा आनन्दप्रचुरत्वात् कोशवदाच्छादकत्वादानन्दमयकोशः । सर्वोपरमत्वात् सुषुप्तिः (वे० सा० १२) । ३. कार्यात्मा । यथा .... आनन्दमय इति कार्यात्मप्रतीतिरधिकारान् मयट् शब्दाच्च । अन्नादिमया हि कार्यात्मानो भौतिका इहाधिकृताः । तदधिकारपतितश्चायमानन्दमैयः (तैत्ति० उ० २/५ शा० भा० ) । आनन्दभुक्, आनन्दभुक् सुषुप्त्यवस्थापन्न आत्मा । यथा - यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः (मा० उ० ५) । आनुपूर्वी, आनुपूर्वी तदुत्तरत्वविशिष्टतदुत्तरत्वादिः । यथा घटमानयेत्यक्षरणामानुपूर्वी । यथा वा उचितानुपूर्वी प्रतिज्ञोत्तरहेतूत्तरोदाहरणोत्तरोपनयोत्तरनिगमनत्वरूपेत्यादौ (ग०अव०पत्रम् ४) आनुपूर्वी च घटः इत्यत्र क्षणोत्पत्तिकत्वसम्बन्धेन घकारविशिष्टत्वम् (त० प्र० ख० ४ पृ० १२७) एवमन्यत्राप्युह्या । (न्यायकोशे) । आनुमानिकम्, आनुमानिक प्रधानम्- अनुमानेन साधितम् अव्यक्तमित्यर्थः । आपः, आप जलम् । यथा - या अधस्तात् पृथिव्यास्ता आप उच्यन्ते आप्नोतेर्लोकाः (ऐ० उ० १ । २ शा० भा०) । आपत्तिः, आपत्ति लयः । यथा- तेजसि समापन्नवृत्तिः खलु प्राणः । तेजस्तु जीवात्मनि समापन्नवृत्तिः । तद्वारा जीवात्मसमापन्नवृत्तिः प्राण इत्युपपद्यते । तस्मात् तेजस्येव प्राणवृतिलयः (ब्र० सू० २ । ३ । ४ शा० भा०) । अत्र आपत्तिर्लयः । यथा राजानं यात्रायामुद्यन्तं परिवारभूताः प्राणिनः समुपयन्ति । एवमात्मानमन्तकाले सर्वे प्राणाः अभिसमागच्छन्ति । (तत्रैव कल्पतरौ ) । यथा वा पान्थः प्रथमं नाविकेन संगत्य ततस्तेन सह तदीयां नावं गत्वा पारं प्राप्नोति । तथा प्राणः जीवेन संगत्य ततस्तेन सह तेज: शब्दोक्तं त्रिवृत्कृतभूतान्तरसंसृष्टं तदीयं सूक्ष्मशरीरं गत्वा तेन सह परां देवतां प्राप्नोति । जीवस्य प्राणतेजोमध्ये निवेशे दृष्टान्तः । यथा च सारथिः प्रथमं राजकीयं रथं स्वयमारूह्य राजसमीपं गत्वा पश्चाद् रथारूढेन तेन सहितस्तदभिमतदेशं प्राप्नोति । एवं जैवं सूक्ष्मशरीरं प्राणः प्रथमं प्राप्य ततस्तप्राप्तेन जीवेन सहितः परदेवतां प्राप्नोतीति । जीवस्य तेजोऽनन्तरनिवेशे दृष्टान्तः (तत्रैव क० त० परिमले) । आप्तः, आप्त यथार्थवक्ता । (त०सं०श०प०) यथा च - रजस्तमोभ्यां निर्मुक्तास्तयोज्ञानबलेन वै । येषां त्रैकालममलं ज्ञानमव्याहतं सदा । आप्ताः शिष्टा विबुद्धास्ते तेषां वाक्यमसंशयम् (चरकसंहितायांत्र्येषणीयाध्याये) । एवमेव न्यायभाष्येऽपि । आप्तोपदेशः, आप्तोपदेश प्रमाणशब्दः । १. दृष्टस्यार्थस्य प्रमाणयितुं प्रयुक्तः शब्दः । २. प्रकृतवाक्यार्थयथार्थज्ञानप्रयुक्तः शब्दः । ३. आप्तो यथार्थ उपदेशः शाब्दबोधो यस्मात् (गौ० बृ० १।१।७) । यथा - ब्रह्मसूत्रन्यायसूत्रादिराप्तोपदेशः । आप्यम्, आप्य प्राप्तुं योग्यम् । न चाप्यत्वेनापि कार्यापिक्षा, स्वात्मस्वरूपत्वे सत्यनाप्यत्वात् । स्वरूपव्यतिरिक्तत्वेऽपि ब्रह्मणो नाप्यत्वं सर्वगतत्वेन नित्याप्तस्वरूपत्वात् सर्वेण ब्रह्मणः आकाशस्येव (ब्र० सू० १।१।४ शा० भा०) । आभासः, आभास १. अवभासनं प्रतीतिः । स्वतः असतोऽपि तत्र तत्र सत इव भासनं प्रतीतिः । यथा स्वच्छे शुभ्रे स्फटिके समीपस्थस्य जपाकुसुमस्य अरुणिम्नः प्रतीतिः । यथा - जपाकुसुमस्य अरुणिम्नः स्फटिकेऽवभासनम् । उक्तञ्च अप्पात्रगतत्वम् आभासपरार्थः ।अप्पात्रमपि विशिष्टात्मना मृषैव दिवाकरस्तु न सर्वथेत्यर्थः । (सं० शा० ३ । २८० सु० टी०) । यथा च अप्पात्रमुदकधृक् । शरावाधुपाध्यप्पात्रम् । अतत्त्वमित्याभसनमुक्तम् । अप्पात्रगत इति प्रतिबिम्बोक्तिः । अप्पात्रगतात् परश्च दिवाकरो दिव्यवतिष्ठान इति शुद्धप्रतिबिम्बमुच्यते (तत्रैव अ० टी०) । यथा च चिदवदवभासनं चिदाभासनं न साक्षाचिन्नापि जडम् । तच्च चित्सन्निधाने मायायामुत्पन्नमीश्वरत्वं भवति । मायाप्रकृत्तिहेतुतया तदीशनरूपत्वात् । आत्माभासाविविक्तश्च चित्प्रतिबिम्बः स ईश्वरः शुद्धं चैतन्यमेव च बिम्बमित्यर्थः (तत्रैव सु० टी०) ।२. आभिमुख्येन अहमित्यपरोक्षेण भासते इत्याभासः प्रत्यक्चितोऽवमतो भासो नाम आभासः (बृ० उ० भा० वा० २।१।२१६ टी०) । अयं चाभासस्त्रिधा विभज्यते । यथा - जात्याभासं चलाभासं वस्त्वाभासं तथैव च (मा० का० ४।४५) । जात्याभासो यथा देवदत्तो जायते, चलाभासो यथा देवदत्तो गच्छति, वस्त्वाभासो यथा स एव देवदत्तो गौरो दीर्घः । अत्र वस्तुशब्दो द्रव्यपरो धर्मपरश्च । एव मेव सिद्धान्तबिन्दौ । २. निग्रहस्थानम् ।व्यभिचारादावसिद्ध्यायुद्भावनम् (गौ० वृ० ५।२।२२) । यथा पर्वतो धूमवान् वह्नेरित्यादौ वह्निः स्वरूपासिद्धः स्यादिति निरनुयोज्यानु योगप्रभेदोऽयमिति विज्ञेयम् (गौ० वृ० ५ ।२।२२) । ३. अप्रमाज्ञानहेतुः (ग० बाध० ५।६) यथा सामान्यतो दृष्टस्याप्याभासत्वमिति भासस्यासाङ्कर्यात् (चि० २ पृ० १०५) इत्यादावभासः । ४. प्रतिकूलो विरुद्धो वा । यथा तर्काभासः, प्रमाणाभासः, न्यायाभासः इत्यादौ । (वात्स्या० १।१19) (त० कौ० पृ० ६) (कु० ५ (३) (न्या० को) ५. भ्रमः । यथाः शुक्तौ रजताभास इत्यादौ । ६. दोषः यथा हेत्वाभास इत्यादौ हेतुदोष इत्यर्थः । अत्र हेतुवदाभासत इति व्युत्पत्त्या आभासपदं हेतुनिष्ठदोषपरम् । (न्या० र० सामा०) ६. जडचेतनपदार्थरूपः सत्यात्मकः । काश्मीरकचित्रिकदर्शने परमशिवो लीलया स्वस्मिन्नेव स्वचिद्भित्तावेव स्वातन्त्र्यशक्त्या जगद् भासयति । अयं जगदाभासः परमशिवरूप एव । यथा - आभासरूपा एव जडचेतनपदार्थाः (प्रत्य वि० ३।२।१) (न्या० को०) । आभासवादः, आभासवाद शाङ्कराद्वैतनये चिदात्मनो ब्रह्मणो जीवभावापादनाय त्रयो वादा आभासवादः प्रतिबिम्बवादोऽवच्छेदवादश्च स्वीक्रियन्ते । तत्र प्रथमः श्रीसुरेश्वराचार्याभिमतःद्वितीयः श्रीपद्मपादाचार्याभिमतस्तृतीयश्च श्रीवाचस्पतिमिश्राभिमतः । अनेन आभासेनैव निर्गुणं निर्विकारं निष्कलं निरंशं च ब्रह्म अविद्यासाचिव्येन जीवभावापन्नं जगद्भावापन्नं च भवति । यथा - एवमेवाप्तकामं सकलप्रवृत्तिनिवृत्तिहीनं कार्यकारणातीतं ब्रह्म दृश्यमानसर्वप्रपञ्चप्रकाशनाय नालम्, तथावरणविक्षेपशक्तिका तमोरूपा अविद्यापि प्रपञ्चप्रकाशनाय नालम् । तदा स्वाभाससाचिव्येनैवात्मा विषयान् प्रकाशयति (बृ० उ० भा० वा० ४/३/८९, ४/३/१८६, ४।३।३६१ आ० गि०) । यथा च - अज्ञानोपहित आत्मा अज्ञानतादात्यापन्नस्वचिदाभासाविवेकादन्तर्यामी साक्षी जगत्कारणमीश्वर इति च कथ्यते । बुद्ध्युपहितश्च तत्तादाम्यापन्नस्वचिदाभासा विवेकाज्जीवः कर्ता भोक्ता प्रमातेति च कथ्यत इति वार्त्तिककारपादाः । प्रतिदेहं च बुद्धीनां भिन्नत्वात्तद्गतचिदाभासभेदेन तदविविक्तं चैतन्यमपि भिन्नमिव प्रतीयते । अज्ञानस्य तु सर्वत्राभिन्नत्वात्तद्गतचिदाभासभेदाभावात्तदविविक्तसाक्षिचैतन्यस्य न कदाचिदपि भेदभानमिति (सि० वि० १) । यथा - जीवो हि नाम देवताया आभासमात्रः (छा० उ० ६।३।२ शा० भा०) । यथा च आभास एव चैष जीवः परमात्मनो जलसूर्यादिवत् प्रतिपत्तव्यः (ब्र० सू० ३/२/५० शा० भा० ) । यथा च आभिमुख्येन अहमित्यपरोक्षेण भासत इत्याभासः प्रत्यक्चितो भासो नाम आभासः (बृ० उ० भा० वा० २।१।२१६ आ० गि०) । यथा च - क्रियाकारकफलात्मक आभास ईषदपि परमार्थवस्तु न स्पृशति तस्य मोहमात्रोपादानत्वात् (नै० सि० २।५१) । यथा च परिणामो हि मोहादेश्चिदाभासः सदेष्यते (बृ० उ० भा० वा० ४ । ३।४९४)। आभासस्य मिथ्यात्वम् । यथा - मुखाभासो यथादर्शे आभासश्चोदितो मृषा (उप० साह० २।१८।८८, यथा च - २/१८/४३, २/१८/४८, २/१८/११४) बृ० उ० भा० वा० आभासस्य कृते इमे शब्दाः प्रयुक्ताः- चिदाभासः, चिद्बिम्बः कूटाभासः, महिमा, अभिप्रायः प्रसादः आकृतिः वृत्तिः । (२।३/२३२, ३/५/७०, ३/५/१३६, ३।८।११५, १।३।३१२, ४३/७४, ४/३/२९५, ४/३/२२९, ४/४/६५१, १।४।६३६) श्रीमधुसूदनसरस्वती आभासम् अनिर्वचनीयं कथयति - आभासस्यापि जडाजडविलक्षणत्वेनानिर्वचनीयत्वात् (सि० वि० १ ) । आभासप्रतिविम्बयोर्भेदः । यथा - ईषद्भासनमाभासः प्रतिबिम्बस्तथाविधः । बिम्बलक्षणहीनः सन् बिम्ववद्भासते हि सः (प० द० ८।३२) । इत्थं च आभासश्चैतन्यगतसत्त्वादिलक्षणहीनोऽपि सत्त्वादिरूपतया प्रतीयते यथा मुखलक्षणहीनोऽपि मुखाभासो मुखधर्मवान् भासते । एवं मुखाभासो मिथ्या अनिर्वचनीयः आपातरमणीयः दर्पणाधुपाधिस्थितिसमकालो विनाश्यस्तद्वद् आभासोऽपि मिथ्या अचिन्त्यः आपातरमणीयः अज्ञानाधुपाधिस्थितिसमक़ालो निर्वत्यः । आभासो द्विप्रकारेणानुभूयते - कारणाभासरूपेण कार्याभासरूपेण च । यथा- क्रियाकारकफलात्मक आभासः । (नै० सि० २/५१) कारणाभासः अज्ञानगतः कार्याभासः अज्ञानजन्यवस्तुगतः । कारणाभासस्योपादनं चैतन्यम्, कार्याभासस्योपादानमविद्या । आभाससाचिव्येन ब्रह्म जगद्रूपेण प्रथते । यथा एवमेवाप्तकामं सकलप्रवृत्तिनिवृत्तिहीनं कार्यकारणातीतं ब्रह्म दृश्यमानसर्वप्रपञ्चप्रकाशनाय नालम्, तथावरणविक्षेपशक्तिका तमोरूपाविद्यापि प्रपञ्चप्रकाशाय नालम्, तदा स्वाभाससाचिव्येनैवात्मा विषयान् प्रकाशयति (बृ० उ० भा० वा० ४।३।८९ तथा ४।३।१८६, ३६१) । आभासवादप्रतिबिम्बवादयोरियान् भेदःबिम्बभूताच्चितः प्रतिबिम्बभूतो जीवोऽभिन्नः । आभासपक्षे आभासस्य न चितो भिन्नत्वमभिन्नत्वं तदुभयरूंपत्वं वा अतोऽनिर्वचनीयत्वम् । इत्थम् आभासस्य मिथ्यात्वम्, तथा प्रतिबिम्बस्य सत्यत्वम् । उक्तं च सिद्धान्तबिन्दौ श्लो० १ न्यायरत्नावली टीकायां तथा स्वीये श्रीशङ्कराप्रागद्वैतवादे । यथा च - बुद्धितत्स्थचिदाभासौ द्वावेतौ व्याप्नुतो घटम् । तत्राज्ञानं धिया नश्येदाभासात्तत्र घटः स्फुरेत् (प० ८० ७।९५ )। आम्नायः, आम्नाय १ . श्रुतिः । यथा - आम्नायस्य क्रियार्थत्वादानर्थक्यं अतदर्थानाम् (जै० सू०) । अथाक्षरसामाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः । २. अवच्छेदकम् (नील० पृ० ७) यथा आत्मनो भोगायतनमित्यादौ । ३. प्रतिभेति वैदिका वदन्ति । यथा देवतायतनानि हसन्ति रुदन्तीत्यादौ । ४. आश्रयः स्थानं बौद्धकाव्यज्ञाः आहुः (न्या० को०) । आरण्यश्वा, आरण्यश्वन् शालावृकः । एतदर्थः शालावृकशब्दो द्रष्टव्यः ब्र० सू० १ ।१।३ वे० क० त० ) । आरम्भवादः, आरम्भवाद जगतः सृष्टिविषये आरम्भवादो न्यायवैशेषिकाभिमतः । विवर्तवादः शाङ्करवेदान्तिनाम्, परिणामवादः साङ्ख्ययोगानाम्, शून्यवादो बौद्धानाम् । आरम्भः = १ . उत्पत्तिः २. कार्यम् ३. सृष्टिः । यथा - आरम्भवादे हि कारणे कार्यस्योत्पत्तेः प्रागसत्त्वमिष्टम् । असतश्च न केनचित् कोऽपि सम्बन्धो भवति (सं० शा० ३/२०९ अ० टी०) । आरोपः, आरोप अन्यत्र अन्यधर्मस्याभासः प्रतीतिर्वा । अयमेव अध्यारोपः अध्यासश्च कथ्यते । यथा - असर्पभूतायां रज्जौ सर्पारोपवद् वस्तुन्यवस्त्वारोपः । वस्तु सच्चिदानन्दाद्वयं ब्रह्म । अज्ञानादिसकलजडसमूहोऽवस्तु । यथा च तत्राध्यासो नाम द्वयोर्वस्तुनोरनिवर्तितायामेवान्यतरबुद्धावन्यतरबुद्धिरध्यस्यते यस्मिन्नितरबुद्धिरध्यस्यतेऽनुवर्तत एव तस्मिंस्तद्बुद्धिरध्यस्तेतरबुद्धावपि । यथा नाम्नि ब्रह्मबुद्धावध्यस्यमानायामप्यनुवर्तत एव नामबुद्धिर्न ब्रह्मबुद्ध्या निवर्तते । यथा वा प्रतिमादिषु विष्णूवादिबुद्ध्यध्यासः। एवमिहाप्यक्षर उद्गीथबुद्धिरध्यस्यत उद्गीथे वाक्षरबुद्धिरिति (ब्र० सू० ३।३।९ शा० भा०) । अत्र भामत्याम्- गौणीवृत्तिरध्यासः । यथा माणवके सिंहो माणवक इति । आरोहणम्, आरोहण उपरिगमनम्, तत्तदूर्ध्वलोकप्राप्तिः । यथा - स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति (कौ० १।३) सूर्यद्वारेण ते विरजाः प्रयान्ति (मुण्ड़० १/२/११) (ब्र० सू० ४।३।१ शा०भा०) । आलम्बनम्, आलम्बन ज्ञानस्य आश्रयः । यथा यस्मिन् विज्ञाने यदवभासते तत्र तदालम्बनम् (सर्वद० सं० शा० द०) । आलयविज्ञानम्, आलयविज्ञान बौद्धदर्शनानुसारं वासनारूपेण स्थितस्य ज्ञानस्यालयः स्थानम् । यथा – आलयविज्ञानसन्तानपतितमेवासंविदितं ज्ञानं वासना, तद् वैचित्र्यान्नीलाद्यनुभववैचित्र्यात् पूर्वनीलाद्यनुभववैचित्र्याच्च वासनावैचित्यमित्यनादितानयोर्विज्ञानवासनयोः । तस्मान्न परस्पराश्रयदोषसम्भवो बीजाङ्कुरसन्तानवदिति (ब्र०सू० २।२।२८ शा० भा० भामती) । तथा नीलपीतादिसन्तानान्तराणां स्वस्वकारणभेदात् सामर्थ्यभेद एवमालयविज्ञानसन्तानपतितक्षणान्तराणामित्यर्थः (तत्रैव वे० क० त०) । आवरणम्, आवरण १ . आच्छादनम् । यथा मेघेन आदित्यस्यावरणम् । २. अविद्यायाः शक्तिद्वयम् – आवरणशंक्तिः विक्षेपशक्तिश्च । अविद्या अनया आवरणशक्त्या शुद्धं चैतन्यं ब्रह्म आवृणोति । तेन शुद्धं बुद्धं मुक्तं ब्रह्म अशुद्धमबुद्धममुक्तं मन्यते लोकः । स्वप्रकाशं चैतन्यमात्मरूपमपि न जानाति लोकः । यथा - एक एव परमेश्वरः कूटस्थनित्यो विज्ञानधातुरविद्यया मायया मायाविवदनेकधा विभाव्यते नान्यो विज्ञानधातुरस्तीति (ब्र० सू० १ । ३ । १९ शा० भा०) । इदमविद्यावरणमल्पमपि बृहद् ब्रह्म तथैवावृणोति यथाल्पोऽपि मेघो महदादित्यमण्डलमावृणोति आच्छादयति । यथाघनच्छन्नदृष्टिर्घनच्छन्नमर्कं यथा मन्यते निष्प्रभं चातिमूढः । तथा बद्धवद्भाति यो मूढदृष्टेः स नित्योपलब्धिस्वरूपोऽहमात्मा (वे० सा० १६) । आवरणशक्तिः, आवरणशक्ति अविद्यायाः शक्तिद्वयम् - आवरणशक्तिः विक्षेपशक्तिश्च । अनया आववरणशक्त्या सच्चिदानन्दात्मकस्यात्मनः स्वरूपमानन्दाद्यात्मकम् आच्छाद्य कर्तृत्वभोक्तृत्वसुखदुःखमोहात्मकतुच्छभावना सम्भाव्यते । यथा- अनयैवावरणशक्त्यावच्छिन्नस्यात्मनः कर्तृत्वभोक्तृत्वसुखदुःखमोहात्मकतुच्छसंसारभावनापि सम्भाव्यते । यथा स्वाज्ञानावृत्तायां रज्जौ सर्पत्वसम्भावना (वे० सा० अध्याः प्र०) । यथा चअनिर्वाच्याविद्याद्वितयस्य सचिवस्य (भामतीम० श्लो०) । यथा च आवरणशक्तिर्नास्ति ब्रह्म न प्रकाशते चेति व्यवहारहेतुः शक्तिः (सं० शा० १ ।२० सु० टी०) । यथा च- शक्तिद्वयं हि मायाया विक्षेपावृत्तिरूपकम् । विक्षेपशक्तिर्लिङ्गादिब्रह्माण्डान्तं जगत् सृजेत् । अन्तर्दृगूदृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः । आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् (दृगूदृश्यविवेके १३।१५) । यथा च - अस्याज्ञानस्यावरणविक्षेपनामकमस्ति शक्तिद्वयम् । .....आवरणशक्तिस्तावदल्पोऽपि मेघो..... आदित्यमण्डलमाच्छादयतीव तथाज्ञानम् .....आत्मानम् आच्छादयतीव । तादृशसामर्थ्यम् (वे०सा० १६) । आविर्भावः, आविर्भाव १. प्राकट्यम् २. अभिव्यक्तिः ३. उत्पत्तिः । यथा मृदः सुवर्णाद्वा घटकुण्डलादयो विशेषा निःसरन्त आविर्भवन्ति उत्पद्यन्ते वेत्युच्यते इति शाङ्करवेदान्तिभिः । ४. प्रकाशात्मिका अभिव्यक्तिराविर्भावः । यथा - कूर्मशरीरे आच्छादितानामङ्गानामाविर्भावः पयसो घृताविर्भावः तिलेभ्यस्तैलाविर्भावो वेति साङ्ख्ययोगाचार्याः । शाङ्करवेदान्तिसाङ्ख्ययोगमते न पुनरसतामुत्पादः सतां वा निरोधः । कारणात्कार्यस्य भिन्नतया कालाकारसङ्ख्यादिभेदात् सतः कारणाद् असतः कार्यस्योत्पत्तिरिति नैयायिकवैशेषिकाः । एवमेव रामानुजाचार्या अपि (ब्र० सू० २/१/१५ श्रीभा० ) । आविर्भूतस्वरूपः, आविर्भूतस्वरूप जीवः । यथा - यतस्तत्राप्याविर्भूतस्वरूपो जीवो विवक्ष्यते । आविर्भूतं स्वरूपमस्येत्याविर्भूतस्वरूपः भूतपूर्वगत्या जीववचनम् (ब्र०सू० १ ।३।१९ शा० भा०) अत्रैव- आविर्भूतस्वरूपे तु निरुपाधौ सम्भवन्तो ब्रह्मण एव न जीवस्य स्यादेतत् स्वरूपाविर्भावश्चेद् ब्रह्मैव न जीवः (तत्रैव भाम० ) । आवृत्, आवृत् इतिकर्तव्यता । यथा- उच्यते स्मार्तत्वात् कर्मणः । स्मार्तं हीदं मन्थकर्म । ननु श्रुतिविहितं सत् कथं स्मार्तं भवितुमर्हति स्मृत्यनुवादिनी हि श्रुतिरियम् । श्रौतत्वे हि प्रकृतिविकारभावस्ततश्च प्राकृतधर्मग्राहित्वं विकारकर्मणो न त्विह श्रौतत्वम् । अत एव चावसथ्याग्नावेतत् कर्म विधीयते सर्वा चावृत् स्मार्तेर्वेति (बृ० आ० उप० ६।३।१ शा० भा०) । त्रिकालविषयिणी श्रुतिः स्मृतिमप्यनुवदति । तेनात्र स्मार्तेतिकर्तव्यता श्रुत्यनूदिता । आवृत्तिः, आवृत्ति १. पुनःपुनरभ्यासः । भूय एकजातीयक्रियाकरणमिति यावत् । यथा - आवृत्तिरसकृदुपदेशात् (ब्र० सू० ४।१।१) इत्यादौ श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति श्रवणादीनामावृत्तिः । यथा च आनन्दमयोऽभ्यासात् (ब्र० सू० १।१।११) । २. स्वस्थानस्थितस्य पदस्य पदसमूहस्य वा पुनरनुसन्धानम् । यथा हलन्त्यम् (पा० सू० १।३।३) इति पाणिनिसूत्रस्यान्यो याश्रयदोषपरिहाराय पुनरनुसन्धानम् । ३. पुनर्जन्म । यथा- ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति तेषां न पुनरावृत्तिः (बृ० उ० ६/२/१५) । अत्र शाङ्करभाष्ये अस्मिन् संसारे न पुनरागमनम् । आवृत्तिमन्ति, आवृत्तिमत् पुनः पुनरभ्यासवन्ति श्रवणमननादीनि । यथा - अवघातादिवददृष्टफलत्वादाफलोदयमावर्तितान्येव ज्ञानजनकानि तानीत्यर्थः । (सं० शा० ३।३४३ सु० टी०) । आशयः, आशय १. आफलविपाकाच्चित्तभूमौ शेरत इत्याशयाः धर्माधर्मसंस्काराः । यथा - आशेरते सांसारिकाः पुरुषा अस्मिन्नित्याशयः । कर्मणामाशयौ धर्माधर्मौ (पा० यो० सू० २।१२) । अयं चाशयः सम्पातशब्देनाप्युच्यते । यथा - यावत् सम्पातमुषित्वा...। (छा० उ० ५/१०/५) ... सम्पातशब्देनात्र कर्माशय उच्यते । सम्पतन्त्यनेनास्माल्लोकादमुं लोकं फलोपभोगायेति । यावत्सम्पातमुषित्वेति च कृत्स्नस्य तस्य कृतस्य तत्रैव भुक्ततां दर्शयति । तेषां यदा तत्पर्यवैति (वृ० ६ ।२।१६) इति च । (ब्र० सू० ३।११८)। यथा च – अविद्यादयः क्लेशाः । कुशलाकुशलानि कर्माणि । तत्फलं विपाकः । तदनुगुणा वासना: आशयाः (पा० यो० सू० १।२४ व्या० भा० ) । अत्र तत्त्ववैशरद्याम्विपाकानुगुणाः वासनाः । ताश्चित्तभूमावाशेरत इत्याशयाः । अत्र च योगवार्त्तिके यतस्तच्छरीरसाध्यभोगवासनामुद्बोध्यैव कर्मणां विपाको दीयत इति । यथा च - असौ कर्माशयो जन्मायुर्भोगहेतुत्वात् त्रिविपाकोऽभिधीयत इति । अत एव एकभर्विकः कर्माशय उक्तः (तत्रैव व्या० भा०) । २. अन्तःकरणम् । यथा - आशयस्य अन्तःकरणस्य (या० स्मृ० यतिधर्मे ६२ ) । ३ - अभिप्राय इति लोके । आश्रमाः, आश्रम शरीरिणामवस्थाविशेषः आश्रमः स च चतुर्विधः - ब्रह्मचर्यम्, गार्हस्थ्यम्, वानप्रस्थः, संन्यासश्चेति, यथा- जीवनस्यावस्थाविशेष:- आश्रमा आश्रमिणोऽधिकृताः । वर्णिनश्च मार्गगाश्च.... श्रुतिभ्यः (मा० उप० गौ० पा० का० ३।१६ शा० भा०) । बृहदारण्यकोपनिषदः ६।२।१५ मन्त्रे शाङ्करभाष्ये चत्वार आश्रमास्तेषां किञ्चित् कर्म च वर्णितानि । आसक्तिः, आसक्ति यथा - वाक्यजन्यज्ञाने च आकाङ्क्षायोग्यतासक्तयस्तात्पर्यज्ञानं चेति चत्वारि कारणानि ।... एवं द्विविधोऽपि (शक्यार्थो लक्ष्यार्थश्च) पदार्थो निरूपितः । तदुपस्थितिश्च आसक्तिः । सा च शाब्दबोधे हेतुः । तथैवान्वयव्यतिरेकदर्शनात् । एवं महावाक्यार्थबोधेऽवान्तरवाक्यार्थबोधो हेतुः । तथैवान्वयाद्यवधारणात् (वे०प० ४ प०) अव्यवधानेन पदजन्यपदार्थोपस्थितिरासक्तिरिति भावः । यथा च – आकाङ्क्षायोग्यतासन्निधिश्च वाक्यार्थज्ञाने हेतुः । .....पदानामविलम्बेनोच्चारणं सन्निधिः । .... प्रहरे प्रहरे असहोच्चारितानि गाम् आनय इत्यादिपदानि न प्रमाणम्, सान्निध्याभावात् । (त० सं० श० प०) आसुरी, आसुरी असुरसम्बन्धिनी क्रिया तामसी लीला आदि । आसुरीसम्पत्, आसुरीसम्पत् दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् (गी० १६।४) । असुरसम्बन्धिनी सम्पत्तिः = अज्ञानं दम्भः दर्पःअभिमानः, क्रोधः, पारुष्यम्, हिंसा, क्रोधः, अनादरः । यथा - असुराणां सम्पदासुरी तामभिजातस्येत्यर्थः (गी०१६।४ शा० भा०) । दर्पो दम्भोऽभिमानः क्रोधः पारुष्यम् अज्ञानं चेति एंताम् आसुरीसम्पदमलिक्ष्य जातस्य भवन्ति हे पार्थ (तत्रैव नी० क०) । आसुरीमसुररमणहेतुभूतां रजस्तमोमयीं सम्पदम् अशुभवासनासन्ततिं शरीरारम्भकाले पापकर्मभिरभिव्यक्तामभिलक्ष्य जातस्य कुपुरुषस्य दम्भाद्या अज्ञानान्ता दोषा एव भवन्ति न तु अभयाद्या गुणा इत्यर्थः (तत्रैव म० सू०) । आसुरीमसुराणां सम्पदमभिलक्ष्य जातस्य दम्भादीन्यज्ञानानानि भवन्तीत्यनुषज्जते (तत्रैव भाष्यो० ) । असुराणां राक्षसानां च या सम्पत् ताम् आसुरीम् अभिलक्ष्य जातस्यैतानि दम्भादीनि भवन्तीत्यर्थः । (तत्रैव श्रीधरी) आस्तिकः, आस्तिक १. परलोकमतिकः । यथा - अस्ति परलोके मतिर्यस्य सः (अस्ति नास्ति दिष्टं गतिः- पा० सू० ४।४।६०) २. नरकभीरुः । ३. वेदमन्ता । एतदन्यः यथा - नास्तिको वेदनिन्दकः (म० स्मृ०) ।४: आस्तिकनामको मुनिः जरत्कारुमुनिपुत्रः महाभारते प्रसिद्धः । आस्रवः, आस्रव मिथ्याप्रवृत्तिः । (जैनदर्शनानुसारम्) यथा - तदेवं जीवाजीवपदार्थौ पञ्चधा प्रपञ्चितौ । आस्रवसंवरनिर्जरास्त्रयः पदार्थाः प्रवृत्तिलक्षणाः प्रपञ्च्यन्ते । द्विधा प्रवृत्तिः सम्यङ् मिथ्या च । तत्र मिथ्याप्रवृत्तिरास्रवः । सम्यक्प्रवृत्ती तु संवरनिर्जरौ । आस्रावयति पुरुषं विषयेष्वितीन्द्रियप्रवृत्तिरास्रवः । इन्द्रियद्वारा हि पौरुषं ज्योतिविषयान् स्पृशद् रूपादिज्ञानरूपेण परिणमत इति । अन्ये तु कर्माण्यास्रवमाहुः । तानि हि कर्तारमभिव्याप्य स्रवन्ति कर्तारमनुगच्छन्तीत्यास्रवः । सेयं मिथ्याप्रवृत्तिरनर्थहेतुत्वात् । संवरनिर्जरौ तु सम्यक्प्रवृत्ती (ब्र० सू० २।३।३३ भाम० ) । आहारः, आहार १ . आह्रियते इति आहारः शब्दादिविषयज्ञानम् । यथा - आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः (छा० उ० ७।२६।२) । अत्र शाङ्करभाष्ये - आहारशुद्धौ । आह्नियत इत्याहारः शब्दादिविषयविज्ञानं भोक्तुर्भोगायाह्रियते तस्य विषयोपलब्धिविज्ञानस्य शुद्धिराहारशुद्धी रागद्वेषमोहदोषैरसंसृष्टं विषयविज्ञानमित्यर्थः । तस्यामाहरशुद्धौ सत्यां तद्वतोऽन्तःकरणस्य सत्त्वस्य शुद्धिर्नैमल्यं भवति । अत्र आनन्दगिरिराह- आहारशब्दस्य भक्ष्यार्थतामपहाय तथा व्याख्यानं तु रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् इति गीतोक्तिमनुसृत्यैवेति । २. भक्ष्यपदार्थः भोजनं च । आहार्यज्ञानम्, आहार्यज्ञान आहार्यते आरोप्यते बुद्धिपूर्वकमिच्छापूर्वकं यज्ज्ञानं तद् आहार्यज्ञानम् । यथा निर्बह्निः पर्वतो बह्निमान् इति ज्ञानं बह्न्यभाववति पर्वते बह्निप्रकारत्वात् इच्छाप्रयोज्याच्च आहार्यम् । तच्च प्रत्यक्षमेव तदभाववत्त्वेन निश्चितेऽपि धर्मिणि तद्द्बोधस्य इच्छाप्रयोज्यत्वात् । अपरोक्षज्ञानम् अनाहार्यज्ञानं निश्चयश् चेति । यथा च मुखं चन्द्रं पश्य इत्यत्र मुखे चन्द्राभेदज्ञानमाहार्यज्ञानम् । इच्छा, इच्छा १. अन्तःकरणभेदः । यथा - कामः संकल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिरधृतिर्धीर्भीरित्येत्सर्वं मन एव (वृ० आ० उ० १ ।५।३) । इयं द्विविधा - नित्या अनित्या च । ईश्वरेच्छा नित्या सर्वं जगद्भूयादिति । सोऽकामयत । भूरिति व्याहरत् । भूमिमसृजत । समूहालम्बनात्मिका च । जीवेच्छा अनित्या । २. इच्छा चात्मधर्म इति । यथा - इच्छादयश्चाष्टी आत्ममात्रविशेषगुणा इति नैयायिकाः । पुनश्चेच्छा द्विविधा - फलविषयिणी तदुपायविषयिणी च । अत्र मुख्यं फलं सुखं दुःखाभावश्च । तत्र फलेच्छां प्रति फलज्ञानं कारणम् । अत एव फलस्य स्वतः पुरुषार्थत्वं सम्भवति । ३ अन्तःकरणधर्मः- यथा- यज्जातीयं सुखहेतुमुपलब्धवान् पूर्वं पुनस्तज्जातीयमुपलभमानस्तमादातुमिच्छति सुखहेतुरिति सेयमन्तःकरणधर्मो ज्ञेयत्वात् क्षेत्रम् (गी० १३/६ शा० भा०) । यथा च - इच्छासुखे तत्साधने चेदं मे भूयादिति स्पृहात्मा काम इति राग इति चोच्यते (तत्रैव म० सू०) । इच्छा अन्तःकरणधर्मरूपापि उपचारादन्तःकरणमुच्यते । अत एवोक्तम्- ननु कामादेरन्तःकरणधर्मत्वेऽहमिच्छाम्यहं जानाम्यहं विभेमीत्याद्यनुभव आत्मधर्मत्वमवगाहमानः कथमुपपद्यते । उच्यते अयः पिण्डस्य दग्धृत्वाभावेऽपि दधृत्वाश्रयवह्नितादात्याध्यासात् यथा अयो दहति व्यवहारस्तथा सुखाद्याकारपरिणाम्यन्तःकरणैक्याध्यासादहं सुखी दुःखीत्यादिव्यवहारः (वे० प० १ प०) । यथा च - इच्छा कामः (त० सं० श० प०) । अत्र गङ्गाटीकायाम् - इच्छाकामयोः पर्यायतासूचनाय । लक्षणं तु प्रवृत्तेः साक्षादनुकूलत्वम् । ज्ञानवारणाय साक्षादिति । एवमहमिच्छामीति प्रत्यक्षसिद्धेच्छात्वजातिमत्त्वमिच्छासामान्यस्य लक्षणम् । इच्छा द्विविधा - फलेच्छा उपायेच्छा च । इति, इति १. इत्थम् २. समाप्तिसूचकः शब्दः । इतिहासः, इतिहास इति – इत्थम्, ह = निश्चयेन, आस - बभूव (आस इति वैदिकप्रयोगः) । तेन पुरावृत्तप्रकाशको ग्रन्थविशेषो महाभारतादिः । यथा - वाकोवाक्येतिहासपुराणः पञ्चमो वेदानां वेद इति ( छा० उप० ७ । १ । २ ) । इदन्द्रः, इदन्द्र परमात्मा । यथा - इदन्द्रो नाम परमात्मा । इदन्द्रो ह वै नाम प्रसिद्धो लोक ईश्वरः । तमेवमिदन्द्रं सन्तमिन्द्र इति परोक्षेण परोक्षाभिधानेनाचक्षते ब्रह्मविदः (ऐ० उ० ३/१४ शा० भा० ) । इन्द्रियम्, इन्द्रिय इन्द्र आत्मा तस्य लिङ्गम् इन्द्रियम् । इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रत्तमिति वा ।(पा० सू० ५।२।९३) इति सूत्रेण इन्द्रशब्दात् षष्ठीसमर्थाद् लिङ्गमित्यर्थे घञ्प्रत्यये इन्द्रशब्दो निष्पन्नः । तच्च देहाधिष्ठानत्वे सति रूपाद्यालोचनकरणत्वमिन्द्रियत्वम् (ब्र० सू० २/४/१७ वे० क० त० प०) परमात्मनः इन्द्रियसृष्टिः । यथा – एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च (मु० उ० १ । ३) । यथा च – मुख्यप्राणात् तत्त्वान्तराणीन्द्रियाणि । मृत्युप्राप्ताप्राप्तत्वलक्षणविरुद्धधर्मसंसर्गश्रुतेः अर्थकियाभेदाच्च । देहधारणं हि प्राणस्य क्रियाथलोचनमनने चेन्द्रियाणाम्.. मनसश्चेन्द्रियत्वे स्मृतेरवगते क्वचिदिन्द्रियेभ्यो भेदेनोपादानं गोबलीवर्दन्यायेन । अथवा इन्द्रियाणां वर्तमानत्वमात्रविषयत्वान् मनसस्तु त्रैकालगोचरत्वाद् भेदेनोपादानम् ( ब्र० सू० २।४।१७ भाम०) अर्थक्रियाभेदाच्च । अर्थालोचनं बाह्येन्द्रियाणाम् । अर्थक्रिया.. मनसो मननम् (तत्रैव वे० क० त०) । तच्च दशविधम् - पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि । उक्तञ्च – स्यात् पञ्चीकृतभूतेत्थो देहः स्थूलोऽन्नसंज्ञकः । लिङ्गे तु राजसैः प्राणैः प्राणः कर्मेन्द्रियैः सह । सात्त्विकैर्धीरिन्द्रियैः साकं विमर्शात्मा मनोमयः । तैरेव साकं विज्ञानमयो धीर्निश्चयात्मिका । (प० द० १ । ३४,३५) इति अद्वैतिनः । सांख्ये तु - सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् । भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् । बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनस्पर्शकानि । वाकूपाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः (सा० का० २५,२६) । न्याये तु - शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनः संयोगाश्रयत्वमिन्द्रियत्वम् । तच्चैकादशविधम् पञ्चज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि एकमन्तःकरणं मन इति । यथा इन्द्रियं द्विविधम् । अन्तरिन्द्रियं बहिरिन्द्रियं च । तत्राद्यं मनः, द्वितीयं घ्राणादिपञ्चविधम् – घ्राणम्, रसनम्, चक्षुः, श्रोत्रम्, त्वक् चेत्यादि (वात्स्या० १/१।९) । विशेषज्ञानार्थमन्तःकरणशब्दे मनःशब्दे च द्रष्टव्यम् । इन्द्रियदेवता, इन्द्रियदेवता यथा - गुणाः सत्त्वरजस्तमांसि । एतैश्च सत्त्वगुणोपेतैः पञ्चभूतैः पृथक्-पृथक् क्रमेण श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि पञ्चज्ञानेन्द्रियाणि जायन्ते । एतेभ्यः पुनराकाशादिगतसात्त्विकांशेभ्यो मिलितेभ्यो मनोबुद्ध्यहङ्कारचित्तानि जायन्ते । श्रोत्रादीनां पञ्चानां क्रमेण दिग्वातार्कवरुणाश्विनोऽधिष्ठातृदेवताः । मन आदीनां चतुर्णां क्रमेण चन्द्रचतुर्मुखशङ्कराच्युता अधिष्ठातृदेवताः । एतैरेव रजोगुणोपेतैः पञ्चभूतैर्व्यस्तैर्यथाक्रमं वाक्पाणिपादपायूपस्थाख्यानि कर्मेन्द्रियाणि जायन्ते । तेषां च क्रमेण वह्नीन्द्रोपेन्द्रमृत्युप्रजापतयोऽधिष्ठातृदेवताः । रजोगुणोपेतैः पञ्चभूतैरेव मिलितैः पञ्च वायवःप्राणापानव्यानोदानसमानाख्या जायन्ते (वे० प० ७ प० ) । इन्द्रियार्थसन्निकर्षः, इन्द्रियार्थसन्निकर्षः प्रत्यक्षात्मकज्ञानहेतुरिन्द्रियस्य विषयेण सम्बन्धः । स च सन्निकर्षः षोढा तर्कसंग्रहादौ द्रष्टव्यः । ईक्षणम्, ईक्षण यथा- चिदात्मनिष्ठाया जगदात्मिकाया आद्यो विवर्ती विकारः परिणामविशेषः .....ईक्षणमुच्यते कथ्यते । ईश्वरस्य स्रष्टव्यविषयमालोचनमुच्यते (सं० शा० ३ । २५२ ) । यथा च - निःश्वसितमस्य वेदा वीक्षितमेतस्य पञ्चभूतानि । स्मितमेतस्य चराचरमस्य च सुप्तं महाप्रलयः (ब्र० सू० भाम० मङ्गलाचरणे २) । ईशः, ईश १. ईश्वरो हिरण्यगर्भः । यथा - ईशो विशुद्धसत्त्वप्रधानमायोपाधिकः परमेश्वरस्तत्र शरीरे अहमित्यभिमानेन हिरण्यगर्भता हिरणगर्भसंज्ञकत्वं प्रपद्यते इत्यनुषङ्गः । तैजसहिरण्यगर्भयोर्लिङ्गशरीराभिमाने समाने सति तयोः परस्परं भेदः किं निबन्धन इत्यत आह - तयोरिति । तयोस्तैजसहिरण्यगर्भयोः व्यष्टित्वं समष्टित्वं भवति । अत एव भेदः (प० द० १ । २४ रा० टी०) । यथा च - ईश: ईश्वरो हिरण्यगर्भः सर्वेषां लिङ्गशरीरोपाधिकानां तैजसानां स्वात्मतादात्यवेदनात् स्वात्मना तादात्यस्य एकत्वस्य वेदनाज्ज्ञानात् समष्टेर्भवति । तत ईश्वरादन्ये जीवास्तु तदभावात् तस्य तादात्म्यवेदनस्याभावाद् व्यष्टिसंज्ञया व्यष्टिशब्देन कथ्यते (त० २५) । यथा च ईशावास्यमिदम् (ई० उप० १) । २. परमेश्वरः परमात्मा च । यथा - ईशा ईष्टे इतीट् तेनेशा । ईशिता परमेश्वरः परमात्मा सर्वस्य (तत्रैव शा० भा०) । यथा च ईशिता परमेश्वरः मायोपाधेरीशनकर्तृत्वसम्भवात् क्विबन्तशब्दवाच्यता न विरुद्ध्यते निरुपाधिकस्य च लक्ष्यत्वं भविष्यतीत्यर्थः (त० आ० गि०) । निरतिशयज्ञानशक्त्युपाधिरात्मान्तर्यामीश्वर उच्यते (बृ० आ० उ० ३।८।१२ शा० भा०) । यथा च – यत्र यत्र विभूत्याद्यतिशयः स स ईश्वर इत्युपास्यतया द्योत्यते (ब्र० सू० १ । १ । ११ शा०भा०) । यथा च - ईश्वरः सर्वज्ञो नारायणाख्य ईशनशील: (गी० १५/१६ शा०भा०) । एवमेवात्र म० सू० भाष्यो० श्रीधर्यां च तथा सं० शा० ३।१४८ अ० टी० प्रकटार्थकारमते जीवेश्वरयोरुभयोः प्रतिबिम्बत्वम् । मायायां चित्प्रतिबिम्ब ईश्वरः, अविद्यायां चित्प्रतिबिम्बो जीवः । अत्र च मायाया आवरणविक्षेपशक्तिमद्भाग एवाविद्येति प्रदेशप्रदेशिभावेन मायाविद्ययोर्भेदवादः । २. तत्त्वविवेककारमते शुद्धप्रधाना मूलप्रकृतिः माया, मलिनसत्त्वप्रधाना अविद्या इति मायाविद्याभेदं परिकल्प्य मायाप्रतिबिम्ब ईश्वरः अविद्याप्रतिबिम्बो जीव इति । ३. संक्षेपशारीरककारमते अविद्यायां चित्प्रतिबिम्ब ईश्वरः अन्तःकरणे चिप्रतिबिम्बो जीव इति । ४. पञ्चदशीकारमते (चित्रदीपप्रकरणे) चितः चातुर्विध्यं परिकल्प्य ब्रह्माश्रितसकलप्राणिधीवासनोपरक्ताज्ञाने प्रतिबिम्बितं चैतन्यमीश्वरः । अन्तःकरणे प्रतिबिम्बितं चैतन्यं जीवः । अत्रोक्तं सिद्धान्तलेशसंग्रहेन च अन्तःकरणरूपेण द्रव्येण घटेनाकाशस्येव चैतन्यस्यावच्छेदसम्भवात् तदवच्छिन्नमेव चैतन्यं जीवोऽस्तु इति वाच्यम् । इह परत्र च जीवभावेनावच्छेद्यचैतन्यप्रदेशस्य भेदेन कृतहानाकृताभ्यागमप्रसङ्गात् । प्रतिबिम्बस्तु उपाधेर्गतागतयोः(गमनागमनयोः) अवच्छेद्यवत् न भिद्यते इति प्रतिबिम्बपक्षे न दोषः । पञ्चदशीकारैः श्रीविद्यारण्यस्वामिभिः पुनः स्वीये ब्रह्मानन्दग्रन्थे उक्तं यत् सुषुप्तिसंयोगात् माण्डूक्योक्त आनन्दमयो जीव इति । यदा हि जाग्रदादिषु भोगप्रदस्य कर्मणः क्षये निद्रारूपेण विलीनमन्तःकरणं पुनर्भोगप्रदकर्मवशात् प्रबोधे घनीभवति तदा तदुपाधिको जीवो विज्ञानमय इत्युच्यते । स एव पूर्व सुषुप्तिसमये विलीनावस्थोपाधिकः सन् आनन्दमय इत्युच्यते । स एव माण्डूक्ये सुषुप्तस्थान इत्यादिना दर्शितः । अत्र सौषुप्तजीवरूपानन्दमयस्य वस्तुत ईश्वरत्वाभावेऽपि ईश्वराभेदविवक्षया तस्य ईश्वर- वचनं संगच्छते । पच्चदश्यां चित्रपटदृष्टान्तेन यथा एक एव पट: शुभ्रः, घट्टितः लाञ्छितः रञ्जित इत्यवस्थाचतुष्टयसम्पन्नस्तथैव एक एव परमात्मा मायोपाधिरहितः शुद्धः मायोपहितः ईश्वरः अपञ्चीकृतभूतकार्य समष्टिसूक्ष्म शरीरोपहितो हिरण्यगर्भ : पञ्चीकृतभूतकार्यसमष्टिस्थूलशरीरोपहितो विराट्पुरुषः इत्यवस्थाचतुष्टयं भजते । ५. श्रीविद्यारण्यस्वामिनां दृग्दृश्यविवेकग्रन्थे चितस्त्रैविध्यमवलम्ब्य पारमार्थिकव्यावहारिकप्रातिभासिकभेदेन जीवत्रैविध्यमुपवर्ण्य ईश्वरः प्रसाधितः । ६. विवरणग्रन्थानुसारमीश्वरो न प्रतिबिम्बरूपः नापि शुद्धं ब्रह्म बिम्बरूपम्, किन्तु अविद्याप्रतिबिम्बो जीवः तद्बिम्बभूत ईश्वरः, उभयानुगतं शुद्धचैतन्यम् । ७. श्री वाचस्पतिमिश्रानुसारम् अन्तःकरणावच्छिन्नो जीवः तदनवच्छिन्नः किन्त्वविद्यावच्छिन्न ईश्वरः । केषाञ्चन मते मूलप्रकृतिरेव विक्षेपशक्तिप्राधान्येन माया ईश्वरोपाधिर्भवति आवरणशक्तिप्राधान्येन अविद्या जीवोपाधिः इति च जीवेश्वरः विभागः । यथा च - यद्यपि सकलप्रपञ्चकारणं मायाशबलं सविशेषमीश्वररूपं ब्रह्म नमस्कार्यम् । (ब्र० सू० वे० क० त० मङ्गलश्लो० २ क० त० प०) यथां च - तस्यैव ब्रह्मणो व्यावहारिक्याम् ईशित्रीशितव्यविभागावस्थायामयमन्यः स्वभावो वर्ण्यते (ब्र० सू० ३।२।३८ शा० भा० ) । ईश्वरः, ईश्वर ईशितुं शीलमस्येति वरच्प्रत्यये ईश्वरः । ईशशब्दवदस्यार्थोऽनुसन्धेयः । ईश्वरत्वम्, ईश्वरत्व मायावच्छिन्नं चैतन्यं परमेश्वरः, मायाया विशेषणत्वे ईश्वरत्वमुपाधित्वे साक्षित्वम् इति ईश्वरत्वसाक्षित्वयोर्भेदः । न तु धर्मिणोः ईश्वरतत्सक्षिणोः । सच परमेश्वर एकोऽपि स्वोपाधिभूतमायानिष्ठसत्त्वरजस्तमोगुणभेदेन ब्रह्मविष्णुमहेश्वरेत्यादिशब्दवाच्यतां लभते (वे० प० १ प्र० ) । यथा च - इयं समष्टिरुत्कृष्टोपाधितया विशुद्धसत्त्वप्रधाना । एतदुपहितं चैतन्यं सर्वज्ञत्वसर्वेश्वरत्वसर्वनियन्तृत्वादिगुणकमव्यक्तमन्तर्यामी जगत्कारणमीश्वर तिच व्यपदिश्यते । सकलाज्ञानावभासकत्वात् यः सर्वज्ञः स सर्ववित् इति श्रुतेः (वे० सा० ) । यथा च - चिच्छायावेशतः शक्तिश्चेतनेव विभाति या । तच्छक्त्युपाधिसंयोगाद् ब्रह्मैवेश्वरतां व्रजेत् (प० ८० ३ । ४०) । यथा च - सत्त्वशुद्धविशुद्धिभ्यां मायाविद्ये च ते मते । मायाबिम्बो वशीकृत्य तां स्यात् सर्वज्ञ ईश्वरः (त० १/१६) । यथा च - ईशसूत्रविराड्वेधोविष्णुरुद्रेन्द्रवह्नयः । विघ्नभैरवमैरालमरिकायक्षराक्षसाः । विप्रक्षत्रियविट्शूद्रा गवाश्वमृगपक्षिणः । अश्वत्थवटचूताद्या यवब्रीहितृणादयः । जलपाषाणमृत्काष्ठवासीकुद्दालकादयः । ईश्वराः सर्व एवैते पूजिताः फलदायिनः (त० ६।२०६, २०७, २०८) । यथा च - विष्णोर्नाभिः समुद्भूतो वेधाः कमलजस्ततः । विष्णुरेवेश इत्याहुर्लोके भागवता जनाः। शिवस्य पादावन्वेष्टुं शायशक्तस्ततः शिवः । ईशो न विष्णुरित्याहुः शैवा आगममानिनः । पुरत्रयं साधयितुं विघ्नेशं सोऽप्यपूजयत् । विनायकं प्राहुरीशं गाणपत्यमते रताः । मायां तु प्रकृतिं विद्यात् मायिनं तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् । (त० ६/११७, १८, १९, २३)। ईश्वरप्रणिधानम्, ईश्वरप्रणिधान अभिहितानामनभिहितानां च सर्वासां क्रियाणां परमेश्वरे परमगुरौ फलानपेक्षया समर्पणम् (पा० यो० सू० १ । २३ अर्थः) । ईश्वरप्राज्ञौ, ईश्वरप्राज्ञा यथा - समष्टिव्यष्ट्योरीश्वरप्राज्ञयोरभेदत्वं च तदानीमेतावीश्वरप्राज्ञौ चैतन्यप्रदीप्ताभिरतिसूक्ष्माभिरज्ञानवृत्तिभिरानन्दमनुभवतः (वे० सा० ) । यथा च अनयोः समष्टिव्यष्ट्योर्वनवृक्षयोरिव जलाशयजलयोरिव वाभेदः । एतदुपहितयोरीश्वरप्राज्ञयोरपि वनवृक्षावच्छिन्नाकाशजलगतप्रतिबिम्बाकाशयोरिव वाभेदः (त०) । ईश्वरसम्बन्धकाः, ईश्वरसम्बन्धक तस्मात् सत्यत्वे सम्बन्धानुपपत्तेराध्यासिक एव दृग्दृश्ययोः सम्बन्ध इति ( अ० सि० दृ० दृ सम्बन्धभङ्गे) । अत्र दृग् इति चेतनस्तथा चेतयिता सच ईश्वरोऽपि । ईश्वरसाक्षी, ईश्वरसाक्षिन् मायोपाधिकं चैतन्यमीश्वरसाक्षि । तदुपाधेर्मायाया अनादित्वात् (वे० प० १ प०) । यथा च - ईश्वरसाक्षि तु मायोपहितं चैतन्यम् (तत्रैव) । यथा च - अत्रोक्तं कूटस्थदीपे देहद्वयाधिष्ठानभूतं कूटस्थचैतन्यं स्वावच्छेदकस्य देहद्वयस्य साक्षादीक्षणात् निर्विकारत्वाच्च साक्षीत्युच्यते । एवं जीवाद् विवेचितोऽयं साक्षी न ब्रह्मकोटिरपि किन्त्वस्पृष्टजीवेश्वरविभागं चैतन्यमित्युक्तं कूटस्थदीपे । तत्त्वप्रदीपिकायामपि मायाशवलिते सगुणे परमेश्वरे केवलो निर्गुणः इति विशेषणानुपपत्तेः सर्वप्रत्यग्भूतं विशुद्धं ब्रह्मजीवाभेदेन साक्षीति प्रतिपद्यते इत्युदितम् । कौमुद्यां तु एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता, केवलो निर्गुणश्च (श्वे० उ० ६।११) इति देवत्वादिश्रुतेः परमेश्वरस्यैव रूपभेदः कश्चिद् जीवप्रवृत्तिनिवृत्त्योरनुमन्ता स्वयमुदासीनः साक्षी नाम .... परमेश्वर इति सुषुप्त्युत्क्रान्त्यधिकरणे निर्णयोऽपि साक्षिपरः इत्युपवर्णितम् ।.... तत्त्वशुद्धावपि यथा इदं रजतमिति भ्रमस्थले वस्तुतः शुक्तिकोट्यन्तर्गतोऽपीदमंशप्रतिभासतो रजतकोटिस्तथा ब्रह्मकोटिरेव साक्षी प्रतिभासतो जीवकोटिरिति जीवस्य सुखादिव्यवहारे तस्योपयोगः इत्युक्त्या अयमेव पक्षः समर्थितः । केचित्तु अविद्योपाधिको जीव एव साक्षाद् द्रष्टृत्वात् साक्षी । लोकेऽपि ह्यकर्तृत्वे सति द्रष्टृत्वं साक्षित्वं प्रसिद्धम् । तच्चासङ्गोदासीनप्रकाशरूपे जीव एव साक्षात् सम्भवति । ... एको देवः .... द्वा सुपर्णा... इति मन्त्रः... जीवान्तःकरणोभयपरो वा न कश्चिद् विरोधः ।...अन्ये तु सतां जीव एव साक्षी । ... अन्तःकरणविशिष्टः प्रमाता तदुपहितः साक्षीतिभेदोपपत्तेः इत्याहु: (सि० ले० सं० १ प०) । ईश्वरस्य षडङ्गानि, ईश्वर षडङ्ग सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अचित्यशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य (ब्र० सू० भाम० मङ्गलाचरणश्लोके - वे० क० त० व्याख्यायाम् ) । उक्थम्, उक्थ १. प्राणः । यथा - अहमुक्थमस्मीति विद्यात् (ऐ० आ० २।१।२।६ ब्र०सू० १/१ ।७ शा० भा०) । अत्र वेदान्तकल्पतरौ - उक्थं प्राण । इति । यथा च उक्थं प्राणो वा उक्थं प्राणो हीद ॐ सर्वमुत्थापत्युद्धास्मादुक्थविद् वीरस्तिष्ठत्युक्थस्य सायुज्य & सलोकतां जयति य एवं वेद (बृ० आ० उ० ५/१३/१) । २. शस्त्रविशेषः । यथा च - महत्युक्थे शस्त्रविशेषे मीमांसन्ते (ब्र० सू० ३।३।४ वे० क० त० ) । शस्त्रं यज्ञकर्माङ्गविशेषः । उत्क्रान्तिः, उत्क्रान्ति जीवस्य देहाद् अपसृतिः । यथा- उत्क्रान्तिस्तावत्- स यदास्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरुकामति (कौषीत० ३।३) इति । गतिरपि च- ये वै के चास्माल्लोकात् प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति (कौषीत० १२) इति आगतिरपि च तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मणे (बृ० उ० ४।४।६) इति । आसामुक्कान्तिगत्यागतीनां श्रवणात्परिच्छिन्नस्तावज्जीव इति प्राप्नोति । न हि .... निरस्तत्वादणुरात्मेति गम्यते (ब्र० सू० २।२।१९ शा० भा०) । अत्र भामत्यामुत्क्रमणं हि मरणे निरूढम् । तच्चाचलतोऽपि तत्र सतो देहस्वाम्यनिवृत्त्योपपद्यते । न तु गत्यागती । अत्र वेदान्तकल्पतरौ देहस्वामित्वं हि देहाभिमान इत्युक्तमध्यासे । तदेव च जीवनं तन्निवृत्तिश्च मरणम् । तत्रैव कल्पतरुपरिमले - उत्क्रान्तिर्देहादपसृतिरूपा । उत्तरमीमांसा, उत्तरमीमांसा दर्शनशास्त्रम्, वेदान्तः, उत्तरस्य वेदशेषभागस्योपनिषद्द्रूपस्य मीमांसा पञ्चाङ्गन्यायोपेतवाक्यसमुदायात्मको विचारः । यथा अथातो ब्रह्मजिज्ञासा (ब्र०सू० १।१ ।१ ) इत्यारभ्य अनावृत्तिः शब्दादनावृत्तिः शब्दात् । (ब्र०सू०४।४।२३) इत्येतावान् अध्यायचतुष्टयात्मकः सत्यवतीसुतव्यासकृतो ब्रह्मविचारः । उत्तरायणम्, उत्तरायण देवयानम्, अर्चिमार्गः ज्योतिर्मार्ग धूममार्ग इत्यादि । एकस्मिन् वर्षे षण्मासा उत्तरायणम् षण्मासा दक्षिणायनमुच्येते । उत्तरायणे मृताः देवयानेऩ ज्योतिरभिमानिदेवैः ब्रह्मलोकं प्राप्नुवन्ति ततो न पुनरावर्तन्ते । यथा - ते य एवमेत् विदुर्ये चामी अरण्ये श्रद्धा ॐ सत्यमुपासते तेऽर्चिभिरभिसम्भवन्त्यर्चिषोऽहरह आपूर्यमाणपक्षमापूर्यमाणपक्षाद् यान् षण्मासानुदादित्य इति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद् वैद्युतं तान् वैद्युतान् पुरुषो मानस एत्य ब्रह्मलोकान् गमयति । ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति तेषां न पुनरावृत्तिः (बृ० उ० ६/२/१५)। अत्र शाङ्करभाष्ये षड्डुत्तरायणदेवताः । तेभ्यो मासेभ्यः षण्मासदेवताभिरतिवाहिता देवलोकाभिमानिनीं देवतां प्रतिपद्यन्ते । देवलोकादादित्यमादित्याद् वैद्युतं विद्युदभिमानिनीं देवतां प्रतिपद्यन्ते । विद्युद्देवतां प्राप्तान् ब्रह्मलोकवासी पुरुषो ब्रह्मणा मनसा सृष्टो मानसः कश्चिदेत्यागत्य ब्रह्मलोकान् गमयति । ....तेषां ब्रह्मलोकं गतानां नास्ति पुनरावृत्तिरस्मिन् संसारे न पुनरागमनमिहेति । उत्पत्तिः, उत्पत्ति यथा - अस्य जगतो नामरूपाभ्यां व्याकृतस्य (ब्र० सू० १ । १ । २ शा० भा० ) । अत्र भामत्याम्- चेतनो हि बुद्धावालिख्य नामरूपे घट इति नाम्ना रूपेण च कम्बुग्रीवादिना वाह्यं घटं निष्पादयति । अत एव घटस्य निर्वर्त्यस्याप्यन्तः सङ्कल्पात्मना सिद्धस्य कर्मकारकभावो घटं करोति । उत्पाद्यम्, उत्पाद्य क्रियातः उत्पाद्यं कार्यं निष्पाद्यं निर्वत्यं च भवन्ति । ब्रह्म च न उत्पाद्यम् । यथा- योऽसावुपनिषत्स्वेवाधिगतः पुरुषोऽसंसारी उत्पाद्यादिचतुर्विधद्रव्यविलक्षणः स्वप्रकाशोऽनन्यशेषः (ब्र० सू० १/१/४ शा० भा० ) । अत्र भामत्याम् - उत्पत्यादिभिराप्यं साध्यम् । उदरम्,उदर उद् = अपि अरम् = भेदम् (भेदः) । यथा- यदाह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य (तै० २।७।१) अत्र वेदान्तकल्पतरौ– एषोऽधिकृतः पुरुषः एतस्मिन् आत्मनि उद् अपि अरम् अल्पम् अन्तरं भेदम् । अल्पमपि भेदं यदा कुरुते अथ तदा तस्य भयं भवति । उदासीनः, उदासीन १ . विरक्तो रागद्वेषादिरहितो यतिः । यथा - उदासीनो न कस्यचिद् मित्रादेः पक्षं भजते यः स उदासीनो यतिः (गी० १२/१६ शा० भा०) । यथा च पक्षपातरहितः (तत्रैव श्रीधर्याम्) । २. उद् उर्ध्वम् आसीनः । अर्थाद् इन्द्रियविषयेभ्यः परः । ब्रह्मस्थितः । उद्गाता, उद्गातृ १. यः ॐ इति उद्गायति स उद्गाता इत्युच्यते । यथा- तेनेयं त्रयी विद्या वर्तत ओमित्याश्रावयत्योमिति श५ सत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना रसेन (छा० उ० १।१।९) । अथाधिदैवतं च य एवासौ तपति तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति । उद्य स्तमोभयमपहन्त्यपहन्ता ह वै भयस्य तमसो भवति य एवं वेद (छा० उ० १ ।३।१) । २. सोमयागादिकर्मणि अध्वर्युः होता उद्गाता च भवन्ति । एतेषां कर्म भिन्नं भिन्नं भवति । उद्गाता साममन्त्रगानं करोति । उद्गीथः, उद्गीथः १. प्रणवः । यथा- य उद्गीथः स प्रणवः स उद्गीथः (छा० उप० १।५।१ ) । २. प्राण:- यथा उद्गीथः प्राणो वा । उप्राणेन हीदं सर्वमुत्तब्धं वागेव गीथोच्च गीथा चेति स उद्गीथः (बृ० उप० १ । ३ । २३) । अत्र शाङ्करभाष्येउद्गीथो नाम सामावयवो भक्तिविशेषो नोद्गानम् । सामाधिकारात् । कथमुद्गीथः प्राणः । प्राणो वा उत्प्राणेन हि यस्मादिदं स्तब्धमुत्तम्भितं विधृतमित्यर्थः । ..... वागेव गीथाशब्दविशेषत्वादुद्गीथभक्तेः । गायतेः शब्दार्थत्वात् सा वागेव । ..... उच्च प्राणो गीथा च प्राणतन्त्रा वागित्युभयमेके न शब्देनाभिधीयते स उद्गीथः । उद्गीथम्, उद्गीथ १. उद्गीथं कर्म । यथा - यदा च तदुद्गीथं कर्माजिहीर्षवस्तदानेह नासिक्यम् अतस्तादर्थ्येन कर्माहृतवन्त इति युक्तमेवोक्तम् । (असुरा उद्गीथकर्म उद्गातृकर्म कृतवन्तः) शब्दब्रह्म - यस्य ब्रह्मणः सम्बन्धि उर्ध्वमशेषविश्वाभेदात्मकतया उत्कृष्टतया गीयते विमृश्यते इत्युद्गीथः प्रणवोन्मेषात्मकशब्दब्रह्मरूपः प्रणवो ध्वनिः । (साम्बपञ्चाशिकायाः १ श्लो० क्षेमराजटीकायाम् । अत्र शब्दब्रह्मतया उद्गीथशब्दः प्रयुक्तोऽत उद्गीथमिति नपुंसकलिङ्गं व्यवहृतम् । उद्भिज्जम्, उद्भिज्जम् वृक्षादिशरीरम्, पापकर्मफलभोगायतनम् । यथा - उद्भिज्जानि भूमिमुद्भिद्य जातानि वृक्षादीनि । वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरत्वम् (वे० प० ७ प०) । यथा च चतुर्विधशरीराणि तु जरायुजाण्डजोद्भिज्जस्वेदजानि । उद्भिज्जानि भूमिमुद्भिद्य जातानि (वे० सा०) । यथा च - अपि च चतुर्विधे भूतग्रामे .... ननु तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति । आण्डजं जीवजमुद्भिज्जम् (छा० ६।३।१ ) इत्यत्र त्रिविध एव भूतग्रामः श्रूयते, कथं चतुर्विधत्वं भूतग्रामस्य प्रतिज्ञातमिति । अत्रोच्यते ..... तृतीयेन उद्भिज्जशब्देनैव स्वेदजोपसंग्रहः कृतः प्रत्येतव्यः (ब्र० सू० ३/१/२०, २१ शा० भा० ) । उद्वेगः, उद्वेग सन्तापः = यथा - यस्मान्नोविजते लोको लोकान्नोद्विजते तु यः (गी० १२/१५) । अत्र शाङ्करभाष्ये- न उद्वेगं गच्छति न सन्तप्यते न संक्षुभ्यते लोकः । यथा च - उद्वेगो भयादिनिमित्तचित्तक्षोभः (तत्रैव श्रीधर्याम्) उन्मनीभावः, उन्मनीभाव अमनस्ता, मनःक्षयः, मनोनाशः मनोलयः । अचित्तता आदि । यथा – मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । अशुद्धं कामसम्पर्काच्छुद्धं वै कामवर्जितम् (मैत्रा० उप6 ४।६) । लयविक्षेपरहितं मनः कृत्वा सुनिश्चितम् । यदा यात्युन्मनीभावं तदा तत्परमं पदम् (तत्रैव ४।७) । तथा - यजुर्वेदीयमैत्र० आरण्यके ६।३४।७) यो मनः सुस्थिरो भावः । सैवावस्था मनोन्मनी (शाण्डिल्योपनिषद् १ ।२।१०) । काष्ठवज्जायते देह उन्मन्यावस्थया ध्रुवम् । न जानाति स शीतोष्णं न दुःखं न सुखं तथा (नादबिन्दुः उप० ५३) । लयविक्षेपरहितं मन कृत्वा सुनिश्चलम् । यदा यात्युन्मनीभावं तदा तत्परमं पदम् । (ब्रह्मबिन्दुः उप० ४) कर्पूरमनले यवत् सैन्धवं सलिले यथा । तथा च लीयमानं सन् मनस्तत्त्वे विलीयते । ज्ञेयं सर्वप्रतीतं च तज्ज्ञानं मन, उच्यते । ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्थाः द्वितीयकः । ज्ञेयवस्तुपरित्यागाद् विलयं याति मानसम् । मानसे विलये याते कैवल्यमवशिष्यते । द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं मुनीश्वर । योगस्तद्वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम् (शाण्डिल्योपनिषदि १/२/२१-२४) तदेवार्थमात्रनिर्भाभं स्वरूपशून्यमिव समाधिः (यो० सू० ३ । ३) । अद्वैतवेदान्तस्य परमाचार्यगुरुगौडपादविरचितमाण्डूक्योपनिषत्कारिकाग्रन्थे अमनस्कयोगः सुविशदं वर्णितः । यथा - मनोदृश्यमिदं द्वैतं यत् किञ्चित् सचराचरम् । मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते । आत्मसत्यानुबोधेन न सङ्कल्पयते यदा । अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् । निगृहीतस्य मनसो निर्विकल्पस्य धीमतः । प्रचारः स तु विज्ञेयः सुषुप्तेरन्यो न तत्समः (मा० उप० का० ३।३१-३३) । ऋग्वेदे दशमण्डले अष्टपञ्चाशततमम् (५८) सूक्तं मनः सूक्तं कथ्यते । तत्र एवंविधाः एकादशमन्त्राः सन्ति । यथैको मन्त्रः – यत्ते यमं वैवस्वतं मनो जगाम दूरकम् । तत आवर्तयामसीह क्षयाय जीवसे (तत्रैव- म० १)। यथा च - चित्तं प्रवर्तते चित्रं चित्तमेव विमुच्यते । चित्तं हि जायते नान्यच्चित्तमेव निरुध्यते । (लङ्कावतारसूत्रे १०/१४५) तन्त्रशास्त्रे योगदर्शनदृशा अपरो विशिष्टोऽर्थः । स तु नात्र वितन्यते । उपचारः, उपचार १ . कर्तव्यः । यथा - अजमनिद्रमस्वप्नमनामकरूपकम् । सकृद्विभातं सर्वज्ञं नोपचारः कथंचन (मा० उ० गौ० पा० का० ३।३६) । ब्रह्मज्ञाने सति अन्यः कोऽपि उपचारः कर्तव्य उपायो नावशिष्यते । २. द्वयोः परस्परभिन्नयोः पदार्थयोः सादृश्यसम्बन्धेन अभेदज्ञानम् । यथा- उभयरूपा चेयं (लक्षणा) शुद्धा उपचारेणामिश्रितत्वात् (का० प्र० २ । १० । १३) । अत्र उपचारपदार्थो यथा - उपचारो हि नाम अत्यन्तं विशकलितयोः पदार्थयोः सादृश्यातिशयमहिम्नाभेदप्रतीतिस्थगनमात्रम् । (तत्रैव) उपद्रष्टा ,उपद्रष्टृ साक्षी (आत्मा) यथा - उपद्रष्टानुमन्ता चं भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः (गी० १३।२२) । अत्र शाङ्करभाष्येउपद्रष्टा समीपस्थः सन् द्रष्टा स्वयम् अव्यापृतो यथा ऋत्विग् यजमानेषु यज्ञकर्मव्यापृतेषु तटस्थः अन्यः अव्यापृतो यज्ञविद्याकुशल ऋत्विग् यजमानव्यापारगुणदोषाणामीक्षिता तद्वत् कार्यकरणव्यापारेषु अव्यापृतः अन्यो विलक्षणः तेषां कार्यकरणानां सव्यापाराणां सामीप्येन द्रष्टा उपद्रष्टा । अथवा देहचक्षुर्मनोबुद्ध्यात्मानो द्रष्टारः तेषां बाह्यो द्रष्टा देहः तत आरभ्य अन्तरतमः च प्रत्यक् समीप आत्मा यतः परो अन्तरो न अस्ति द्रष्टा स अतिशयसामीप्येन द्रष्टृत्वात् उपद्रष्टा स्यात् । यज्ञोपद्रष्टृवद् वा सर्वविषयीकरणाद् उपद्रष्टा (शा० भा० ) । यथा च अस्मिन् प्रकृतिकार्ये देहे च वर्तमानोऽपि पुरुषः परो भिन्न एव न तद्गुणैर्युज्यत इत्यर्थः । तत्र हेतवः - यस्मादुपद्रष्टा पृथग्भूत एव समीपं स्थित्वा द्रष्टा - साक्षीत्यर्थः (तत्रैव श्रीधर्याम्) । यथा च – योऽयं प्रजानामुपद्रष्टा प्रविष्ट: (श० प० ब्रा० ३।४।२।५)। उपधेयः, उपधेय १ . यत् किञ्चिद्धर्मविशिष्टो धर्मी । यथा उपधेयसंकरेऽप्युपाध्यसंकरादित्यादौ । अत्रेदमुदाह्वियते वायुः गन्धवान् स्नेहादित्यादावुपधेयस्य दोषाश्रयस्य धर्मिणः स्नेहादेर्हेतोः संङ्करेऽपि (ऐक्येऽपि) उपाधीनां व्यभिचारविरोधादिरूपदोषात्मकधर्माणामसांकर्यात् (भेदेन प्रतीयमानत्वात्) स्नेहादौ पृथक् तत्र दोषव्यवहार उपपद्यत इति । एवमन्यत्राप्यूह्यम् । २. मन्त्रविशेषेण स्थापनीय इष्टिकादिरिति याज्ञिका आहुः (वाच०) । उपनयः, उपनय १ . न्यायावयवः । परार्थानुमाने प्रतिज्ञाहेतूदाहरणप्रदर्शनानन्तरं तथा चायमित्युपनयः । यथा - प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः । पर्वतो वह्निमानिति प्रतिज्ञा । धूमत्वादिति हेतुः । यो यो धूमवान् स स वह्निमान् यथा । महानसमित्युदाहरणम् । तथा चायमित्युपनयः । तस्मात्तथेति निगमनम् (त० सं० अ० ख०) यथा च - तच्चानुमानं स्वार्थपरार्थभेदेन द्विविधम् । तत्र स्वार्थं तूक्तमेव परार्थं तु न्यायसाध्यम् । न्यायो नामावयवसमुदायः । अवयवाश्च त्रय एव प्रसिद्धा:प्रतिज्ञाहेतूदाहरणरूपाः, उदाहरणोपनयनिगमनरूपा वा । न तु पञ्चावयवरूपाः । अवयवत्रयेणैव व्याप्तिपक्षधर्मतयोरूपदर्शनसम्भवेन अधिकावयवद्वयस्य व्यर्थत्वात् (वे०प०२ प०) । अयं भावः- नैयायिकमते परार्थानुमाने प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवा अपेक्ष्यन्ते । अत्र अद्वैतिनो वदन्ति - अनुमाने साध्यनिर्देशरूपप्रतिज्ञया यो यो धूमवान् स सोऽग्निमान् इत्युदाहरणेन धूमादिति हेतूपन्यासेन च व्याप्तिपक्षधर्मताज्ञानयोरुत्पत्त्या अनुमितिसम्भवाद् उपनयनिगमनयोरावश्यकता नास्ति । अथवा - उदाहरणोपनयनिगमनैरेव अनुमितिसम्भवाद् न प्रतिज्ञाहेतुवाक्ययोरुपयोग इति । शास्त्रदीपिकायामप्येतदेवमुक्तम् । २. उपनयनम् यज्ञोपवीतसंस्कारः । उपनीय तु यः शिष्यान् इति मनुस्मृतौ । उप समीपे नयनम् । ३. उपनीयते उपस्थाप्यते ज्ञानविषयतामापाद्यते येनेति उपनयः ज्ञानलक्षणाप्रत्यासत्तिः ज्ञानलक्षणसन्निकर्षो वा । अयं च इन्द्रियसंयुक्तमनः संयुक्तान्यसमवेतस्मृतिविषयत्वरूपः । तेन सुरभि चन्दनमित्यस्य प्रत्यक्षता इति नैयायिकाः । अद्वैतिन एतन्न मन्यन्ते । यथा - सुरभि चन्दनमित्यादिज्ञानमपि चन्दनखण्डांशे अपरोक्षं सौरभांशे तु परोक्षम् । सौरभस्य चक्षुरिन्द्रियागोचरतया योग्यत्वघटितस्य निरुक्तलक्षणस्याभावात् । नचैकमेकत्र ज्ञाने परोक्षत्वापरोक्षत्वयोरभ्युपगने तयोर्जातित्वं न स्यादिति वाच्यम् । इष्टत्वात् । जातित्वोपाधित्वपरिभाषायाः सकलप्रमाणागोचरतया अप्रामाणिकत्वात् । घटोऽयमित्यादिप्रत्यक्षं हि घटादिसद्भावे मानं न तु तस्य जातित्वेऽपि । अतोऽद्वैतमते चन्दनांशे प्रत्यक्षत्वम् चन्दनखण्डरूपलिङ्गात् सौरभांशेऽनुमितित्वम् । एवमेव मधुरम् आम्रफलमित्यत्रापि (वे० प० १५०) । उपनीतम्, उपनीत अलौकिकेन ज्ञानलक्षणसन्निकर्षेण ज्ञानलक्षणाप्रत्यासत्त्या वा प्राप्तं प्रत्यक्षज्ञानम् । यथा सुरभिचन्दनमित्यत्र चन्दनस्येव सौरभस्यापि प्रत्यक्षता, मधुरम् आम्रफलमित्यत्र च आम्रफलस्येव माधुर्यस्यापि प्रत्यक्षता । उपनीतभानम्, उपनीतभान उपनीतविषयकं ज्ञानम् । इदं लौकिकालौकिकसन्निकर्षजन्यं ज्ञानम् । यथा सुरभिचन्दनमित्यत्र चन्दनांशे लौकिकसन्निकर्षेण तथा सौरभांशेऽलौकिकसन्निकर्षेण (उपनयेन) प्रत्यक्षतेति नैयायिकमतम् । अत्रायं विमर्शो यद्यथा चन्दनांशे लौकिको चक्षुरिन्द्रियसन्निकर्षस्तथा सौरभांशे लौकिकचक्षुरिन्द्रियसन्निकर्षो नास्ति । किन्तु अलौकिको ज्ञानलक्षणसन्निकर्षोऽस्ति । येन चन्दनखण्डम्, सौरभम्, अनयोः समवायसम्बन्धः इमे त्रयोऽपि प्रत्यक्षज्ञानविषया भवन्ति । अत्रेयमाशङ्का यद् गन्धस्य ज्ञानं स्मृतिरूपमथवा प्रत्यक्षरूपम् । स्मृतिरूपं वक्तुं न शक्यते । यतो हि अन्यचन्दनखण्डस्य सौरभं प्रत्यक्षीकृतं न तु वर्तमानचन्दनखण्डस्य । अतो वर्तमानचन्दनखण्डं सौरभं न स्पर्तुं शक्यते । सौरभस्य चाक्षुषं प्रत्यक्षं न भवति घ्राणजमेव भवति । अतः प्रत्यक्षतापि नास्ति । अतोऽद्वैतिनोऽत्र चन्दनं सुरभि चन्दनखण्डत्वात् इतरचन्दनखण्डवत् इत्यनुमानेन सौरभांशे परोक्षत्वं मन्यन्ते । उपनिषद्, उपनिषद् ब्रह्मविद्या तथा ब्रह्मविद्याप्रतिवादकं वेदशिरोभागरूपं वेदान्तशास्त्रम् । यथा ऐतरेयकठवल्लीशावास्यकेनप्रश्ना इत्यादि । अत्र व्युत्पत्तिः सेयं ब्रह्मविद्योपनिषच्छब्दवाच्या तत्पराणां सहेतोः संसारस्यात्यन्तावसादनात् । उपनिपूर्वस्य सदेस्तदर्थत्वात् तादर्थ्याद्ग्रन्थोऽप्युपनिषदुच्यते (बृ० आ० उपो० शा० भा०) । यथा च - उपसमीपे प्रत्यगात्मानमव्यवधानेन ब्रह्म गमयतीत्युपनिषन्महावाक्योत्त्था ब्रह्मविद्या, ब्रह्मप्रत्यगात्माभेदेन वेदयतीति वेदोऽपि सैव सा च महावाक्यैकनिबन्धनेति श्रुतिशिरसि वेदान्तभागे निविष्ट उपनिषदिति शब्दो वेदशब्दश्चात्र महावाक्ये योज्यतामिति योजना (सं० शा० ३।२९८ अ० टी०) । यथा च - सदेरुपनिपूर्वस्य संसारविनाशार्थस्य ब्रह्मगत्यर्थस्याविद्यादिबन्धशिथिलीकरणार्थस्य च ब्रह्मज्ञानमन्तरेणासम्भवादुपनिषद् ब्रह्मज्ञानं तस्य पदं विषयः (ब्रह्मोपनिषन्मन्त्रः ४ दीपिकाटीकायाम् ) । यथा च अत्र चोपनिषच्छ्रब्दो ब्रह्मविद्यैकगोचरः । तच्छब्दावयवार्थस्य विद्यायामेव सम्भवात् ॥ ३॥ उपोपसर्गः सामीप्ये तत्प्रतीचि समाप्यते । सामीप्यतारतम्यस्य विभ्रान्तेः स्वात्मनीक्षणात् ॥४॥ त्रिविधस्य सदर्थस्य निशब्दोऽपि विशेषणम् । उपनीयेयमात्मानं ब्रह्मापास्तद्वयं यतः ॥ ५॥ निहन्त्यविद्यां तज्जं च तस्मादुपनिषद् भवेत् । निहन्त्यानर्थमूलं सा विद्या प्रत्यकृतया परम् ॥६॥ गमयत्यस्तसम्भेदमतो बोपनिषद् भवेत् । प्रवृत्तिहेतून् निश्शेषाँस्तन्मूलोच्छेदकत्वतः ॥७॥ यतोऽवसादयेद् ब्रह्म तस्मादुपनिषद् भवेत् । यथोक्तविधो हेतुत्वाद् ग्रन्थोऽपि स तद्भेदतः ॥ ८ ॥ भवेदुपनिषन्नामा लाङ्गलं जीवनं यथा । ऐकात्म्यविषयान्नान्यो वेदान्तवचसां यतः ॥ ९॥ लभ्यते विषयः कच्चित्तस्मात् तद्धीस्तमोपनुत् । स चात्मोत्पत्तितो नान्यद् ध्वान्तध्वस्तावपेक्षते ॥ १०॥ (बृ० आ० उ० शा० भा० वा० सारे अ० १ अधिकारिपरीक्षायां श्लो० ३-१०) । यथा च - शुद्धजीव उपशब्दार्थः सामीप्योपलक्षितं ब्रह्म निश्चितं नीत्वा तत्स्वरूपं ग्राहयित्वा सकार्यां समूलां चाविद्यां शिथिलयति नाशयति या सा उपनिषद् इत्यर्थः । एवमेव बृ० आ० उ० ५/५/३ शा० भा०, का० उ० १।४।३ शा० भा० आ० गि०, तै० उ० अनुशि० ३, ब्र० उ० ४ भा०, बृ० आ० उ० उपो०, ब्र० सू० २/१/१ शा० भा०, सं० शा० ३।३० अ० टी०, तथा तत्रैव २।३।३०१ अ० टी०) । उपन्यासः, उपन्यास १ वाक्यप्रयोगः । यथा - तस्माद् ब्रह्मजिज्ञासोपन्यासमुखेन । (ब्र० सू० उपो० शा० भा० ) २. विचारः । यथा - यथापुण्यमुपन्यासं निबोधत ( म० स्मृ० ९/३१ कु० भ०) ३. विश्वासेनान्यसमीपे द्रव्योपक्षेपः उपन्यास उपनिधिर्वा व्यवहारविदः । उपपत्तिः, उपपत्ति १. युक्तिः । यथा - प्रकरणप्रतिपाद्यार्थसाधने तत्र तत्र श्रूयमाणा युक्तिरुपत्तिः (वे० सा०) । यथा च श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः । उपपत्तिरत्र अनुमानम् । यथोक्तम्- उपक्रमोपसंहारावभ्यासाऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये । २. सङ्गतिः । यथा - उपपत्तिमदूर्जिताश्रयम् वचनम् (कि० २१) ३. ज्ञानम् । यथा - समानानेकधर्मोपत्तेः (गौ० वृ० १।१।२३) । ४. हेतुः । ५. उपायः । ६. प्राप्तिः । ७. सिद्धिः इति काव्यज्ञा वदन्ति (वाच०)। उपभोगः, उपभोग विषयसेवनजन्यसुखविशेषः । यथा - ऐहिकानां स्रक्चन्दनवनितादिविषयभोगानां कर्मजन्यतयाऽनित्यवदामुष्मिकाणामप्यमृतादिविषयभोगानामनित्यतया तेभ्यो नितरां विरतिरिहामुत्रार्थफलभोगविरागः (वे० सा० ) । उपमर्दः, उपमर्द १ . नाशः । यथा अविद्योपमर्दे विद्योदये इत्यादि अद्वैतिनः । २. रूपान्तरोपजनः । यथा - एकरूपनिवृत्तौ रूपान्तरोपजन: (वात्स्या० २/२/५६) यथा च व्याकरणे अस्तेर्भूः इति सूत्रे ब्रुवो दचिः इति सूत्रे पाघ्राध्मेत्यादि सूत्रे च अस्स्थाने भू-इत्यादेशः, ब्रू इति स्थाने वच् इत्यादेशः पादीनां स्थाने पिबाद्यादेशः । उपमानम्, उपमान एकं प्रमाणम् । यथा- अथोपमानं निरूप्यते । तत्र सादृश्यप्रमाकरणमुपमानम् । तथा हि नगरेषु दृष्टगोपिण्डस्य पुरुषस्य वनं गतस्य गवयेन्द्रियसन्निकर्षे सति भवति प्रतीतिः अयं पिण्डो गोसदृश इति । तदनन्तरं भवति निश्चयः । अनेन सदृशी मदीया गौरिति । तत्रान्वयव्यतिरेकाभ्यां गवयनिष्ठगोसादृश्यज्ञानं कारणम् । गोनिष्ठगवयसादृश्यज्ञानं फलम् (वे० प० ३ प०) । वैयाकरणाउपमानप्रमाणं नाङ्गीकुर्वन्ति ( ल० म०) । केचन बौद्धाः वैशेषिकाश्चार्वाका साङ्ख्याश्च उपमानप्रमाणं न मन्यन्ते । उपमितिः, उपमिति उपमानप्रमाणजन्यं ज्ञानमनुभवः सादृश्यज्ञानकरणकं ज्ञानं वा । उपरतिः, उपरति बेदान्तसम्मतसाधनचतुष्टये शमादिषट्कसम्पत्तिरूपमेकं साधनम् । तत्रान्यतममुपरतिरूपम् । (शमदमोपरतितितिक्षासमाधानश्रद्धाख्याः षट्सम्पत्तयः) यथा- निवर्तितानामेतेषां (इन्द्रियाणाम्) तद्व्यतिरिक्तविषयेभ्य उपरमणम् उपरतिः, अथवा विहितानां कर्मणां विधिना परित्यागः (वे० सा० ८) । यथा च विक्षेपाभावः उपरतिः ।... अत्रोपरमशब्देन संन्यासोऽभिधीयते तथा च संन्यासिनामेव श्रवणाधिकार इति केचित् । अपरे तु उपरमशब्दस्य संन्यासवाचकत्वाभावाद् विक्षेपाभावमात्रस्य गृहस्थेष्वपि सम्भवात् जनकादेरपि ब्रह्मविचारस्य श्रूयमाणत्वात् सर्वाश्रमसाधारणं- श्रवणादिविधानमित्याहुः (वे० प० ८ प०) । वेक्षेपो नाम आन्तरेन्द्रियाणां बाह्येन्द्रियाणां च स्वाधिकारविषयव्यतिरिक्तविषयकवृत्त्युदयः। एवं रूपविक्षेणाभाव उपरतिः । उपलक्षणम्, उपलक्षण व्यावर्तकम्, प्रकारो वा । उपलक्षणविशेषणयोरयं भेदः । वर्तमानत्वे (विद्यमानत्वे) सतीतरव्यावर्तकं विशेषणं भवति । यथा शुक्लां गामानयेत्युक्ते कृष्णां गां व्यावर्तयति । उपलक्षणं तु अवर्तमानत्वे (अविद्यमानत्वे) सतीतरव्यावर्तकं भवति । यथा शाखायां चन्द्र इत्युक्ते शाखायामविद्यमानमपि चन्द्रमुपलक्षयति शाखायां चन्द्र इति वाक्यम् । यथा वा काकवन्तो देवदत्तस्य गृहा इत्युक्ते कदाचित् काकवन्तो गृहा दृष्टा अधुना अकाकवन्तोऽपि इतरेभ्यो व्यावर्तयति देवदत्तगृहांश्चोपलक्षयति काकवन्तो देवदत्तस्य गृहा इति वाक्यम् । एवमेव एकमेवाद्वितीयं ब्रह्मेति वाक्यम् अद्वितीयोपलक्षितं ब्रह्म बोधयति । अत एवोच्यते न्यायशास्त्रे उपलक्षणं स्वानधिकरणेऽपि व्यावृत्तिं बोधयति । उपलक्षणस्य शाव्दबोधे भानं न भवतीति सिद्धान्तः । अत्रोपलक्षणत्वं तु तत्पदनन्यबोधविषयत्वेन शक्त्यविषयत्वम् । उपलम्भः, उपलम्भ अविद्याकल्पनामात्रंम् । यथा - उपलम्भनमुपलम्भोऽविद्याकल्पनामात्रंम् । ..... त्रिष्वपि स्मृतो ब्रह्मविद्भिर्न परमार्थसत्यता त्रयाणाम् (मा० का० ४।९० शा० भा० ) । त्रयाणां जागरितस्वप्नसुषुप्तानामित्यर्थः । उपशमः, उपशम अहंकारराहित्यम् । यथा- उपशमो निरहङ्कारत्वम् अनौद्धत्यम् (गी० ५/१८ आ० गि०) । उपसंहारः, उपसंहार १. ग्रन्थतात्पर्यावधारकलिङ्गविशेषः । यथा - उपक्रमोपसंहारौ हेतुस्तात्पर्यनिर्णये इत्यादि । २. विस्तरेण निरूपितस्य पदार्थस्य सारांशकथनेन तन्निरूपणसमापनम् । यथा- तदेतत् त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् (त० सं० ) । इति करणलक्षणस्योपसंहारः (त० दी०) यथा - अनुपसंहारी हेतुरित्यत्र साध्यहेत्वोरूपसंहारस्याभावः । उपहितम्, उपहित उपाधिना युक्तम् । यथा - साक्षि तु अन्तकरणोपहितं चैतन्यम् (वे० प० १ प०) । उपादानम्, उपादान १ . त्रिविधकारणेषु अन्यतमं कारणम् । कारणं त्रिविधम् - उपादानसहकारिनिमित्तभेदात् । यथा- यद्वा निखिलजगदुपादानत्वं ब्रह्मणो लक्षणम् । उपादानत्वं च जगदध्यासाधिष्ठानत्वं जगदाकारेण विपरिणममानमायाधिष्ठानत्वं वा । एतादृशमेवोपादानत्वमभिप्रेत्य इदं सर्वं यदयमात्मा सच्च त्यच्चाभवत् (तै० २।६) बहुस्यां प्रजायेय (तै० २।६) इत्यादिश्रुतिषु ब्रह्मपञ्चयोस्तादात्यव्यपदेशः । घटः सन् घटो भाति घटो दृष्ट इत्यादिलौकिकव्ययदेशोऽपि सच्चिदानन्दरूप ब्रह्मैक्याध्यासात् (वे० प० ७ १०) । यथा च - उपादानं त्रिधा भिन्नं विवर्ति परिणामि च । आरम्भकं च तत्रान्त्यौ न निरंशेऽवकाशिनौ (प०६० १३ । ६) । यथा च अस्तु ब्रह्म जगदुपादानम् । तज्जन्मनि घटजन्मनि कुलालवत् तत्स्थितौ राजस्थेमनि राजवत् उपादानादन्यदेव निमित्तं भविष्यति इति शङ्काव्यवच्छेदाय तस्यैव जगज्जननजीवननियामकत्वमुक्तम् । तथा चैकमेवेदं लक्षणमभिन्ननिमित्तोपादानतया अद्वितीयं ब्रह्म उपलक्षयति इत्याहुः । ...अथ शुद्धं ब्रह्म उपादानमिष्यते ईश्वररूपं जीवरूपं वा । अत्र संक्षेपशारीरकानुसारिणः केचिदाहुः- शुद्धमेवोपादानम् (सि० ले० सं० १ प०) उपादानकारणमेव समवायिकारणमप्युच्यते । यथा तर्कसंग्रहे - कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात् (त० सं० प्र० ख०) । २. आध्यात्मिकतुष्टिविशेष इति सांख्याः । (३) असहकृतं कारणमुपादानम् । यथा उत्तरोत्तरविज्ञानव्यक्तौ पूर्वपूर्वविज्ञानव्यक्तिरुपादानमिति विज्ञानवादिनो बौद्धाः । उपादेयम्, उपादेय १. उपादातुं योग्यम्, उपादानयोग्यम्, उपादानकारणार्हमिति यावत् । २. ग्राह्यं वस्तु । यथा उपादेय आत्मा इत्यादि । यद् यद् द्रव्यध्वंसजन्यं तत्तदुपादानोपदेयमिति समवेतवदस्यार्थ इति नैयायिकाः । उपाधिः, उपाधि १. उप समीपे स्थित्वा स्वीयरूपमादधातीति । यथा अज्ञानं चिदात्मनः समीपे स्थित्वा स्वीयं रूपमस्मिन् प्रत्याययति । तस्मादज्ञानोपाधिक आत्मेत्युच्यते वर्त्तमानत्वे सति व्यावर्तकत्वमुपाधिस्तथा वर्तमानत्वे सति व्यावर्तकत्वं विशेषणमपि । किन्त्वनयोरयं भेदः उपाधिः कार्यानन्वयी भवति विशेषणं तु कार्यान्वयि भवति । यथा अन्तःकरणस्य विशेषणत्वोपाधित्वाभ्यामनयोः (जीवसाक्षिणोः) भेदः। विशेषणं च कार्यान्वयि व्यावर्तकम् । उपाधिश्च कार्यानन्वयी व्यावर्तको वर्तमानश्च । रूपविशिष्टो घटोऽनित्यः इत्यत्र रूपं विशेषणम् । कर्णशष्कुल्यवच्छिन्नं नभ श्रोत्रमित्यत्र कर्णशष्कुल्युपाधिः । अयमेवोधिर्नैयायिकैः परिचायक इत्युच्यते (वे० प० १ प०) । यथा च अन्तःकरणसाहित्यराहित्याभ्यां विशिष्यते । उपाधिर्जीवभावस्य ब्रह्मतायाश्च नान्यथा (पा० द० ७/८५ ) । यथा च कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः । २. हेत्वाभासभेदविशेषः। यथा - साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः (त० सं० २ ख०) । ३. धर्ममात्रम् । यथा जन्यमात्रं क्रियामात्रं वा कालोपाधिः स च धर्मः क्वचिज्जात्यादिः क्वचिद्भिन्नोऽपि । यथा पदार्थविभाजकत्वमित्यादौ । पदार्थविभाजकोपाधयस्तावद्रव्यत्वगुणत्वकर्मत्वसामान्यत्वविशेषत्वाभावत्वरूपाः सन्ति । तत्र द्रव्यत्वादयो जातिरूपाः । सामान्यत्वादयस्तु तद्भिन्नाः । जातिभिन्नो धर्मोऽपि द्विविधः सखण्डोपाधिः अखण्डोपाधिश्चेति । तत्राद्यः आकाशत्वादिः । द्वितीयः प्रमेयत्वकुण्डलित्वप्रतियोगित्वादिः । ४. निमित्तम्, प्रयोजनं कारणं वा । यथा - वायोः प्राणापानादिसंज्ञायां हृदयादिस्थानं मुखनिर्गमादिक्रिया चोपाधिः । उपाधिभेदेप्येकस्य नानायोग आकाशस्येव घटादिना भवति । उक्तं च कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः इत्यद्वैतवेदान्तिंभिः। (सोपाधिको हेतुर्व्याप्यत्वासिद्धः (त० सं० २ ख०) उपाधि-सहितो हेतुः सोपाधिर्दुष्टहेतुरिति यावत् । दोषप्रयुक्तभानत्वं स्वबाधकाबाध्यबाधकं प्रति निषेध्यत्वेन विषयत्वं वा विपक्षाद् व्यावृतं समव्याप्तम् (अद्वैतसिद्धौ २ परिच्छेदे सोपाधिकत्वनिरासे) । उदयनाचार्यमते समव्याप्त एव उपाधिः । २. कार्यानन्वयी व्यावर्तकः । यथा - उपाधिश्च कार्यानन्वयी व्यावर्तको वर्तमानश्च रूपविशिष्टो घटोऽ नित्य इत्यत्र रूपं विशेषणम् । कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रमित्यत्र कर्णशष्कुल्युपाधिः । अयमेवोपाधिर्नैयायिकैः परिचायक इत्युच्यते (वे० प० १ परि०) । ३. अन्यथा स्थितस्य वस्तुनोऽन्यथा प्रकाशनरूपो व्यापारः । यथा – यत्र वाप्युपधिं पश्येत् तत्सर्वं विनिवर्तयेत् (म० स्मृ० ८।१६५) ।४. छलमिति काव्यज्ञाः । उपासनम्, उपासन १. आराधनम्, चितस्य समानप्रत्ययप्रवाहकरणमिति यावत् । यथा - उपासनं नाम समानप्रत्ययप्रवाहकरणम् । न च तद्गच्छतो धावतो वा सम्भवति गत्यादीनां चित्तविक्षेपकत्वात् । तिष्ठतोऽपि देहधारणे व्यापृतं मनो न सूक्ष्मवस्तुनिरीक्षणक्षमं भवति । शयानस्याप्यकस्मादेव निद्रयाभिभूयेत । आसीनस्य त्वेवंजातीयको भूयान् दोषः सुपरिहर इति सम्भवति तस्योपासनम् (ब्र० सू० ४।१।७ शा० भा० ) । यथा च - उपासनस्यापि यथाश्रवणमननं प्रत्ययावृत्तेरवगमे द्वित्रिवारावृत्तेरवश्यंभावाद् विधित्सितार्थस्य ज्ञातस्य न पुनः कर्तव्यत्वं दर्शनस्य त्वशक्यत्वं स्फुटमिति (ब्र० सू० १/१/४ वे० क० त० ) । यथा च - उपासनं हि प्रत्ययावृत्तिः सा श्रवणमननकालयोरेकैकप्रत्ययोत्पत्तावपि प्रत्ययद्वयरूपा सिद्धैव (तत्रैव क० त० प०) । यथा च - विद्युपास्त्योश्च वेदान्तेष्वव्यतिरेकेण प्रयोगो दृश्यते । क्वचिद् विदितोपक्रम्योपासिनोपसंहरति । यथा यस्तद्वेद यत्स वेद स मयैतदुक्तः (छा० उप० ४।१।४) । इत्यत्र । अनु म एतां भगवो देवतां शाधि यो देवतामुपास्से (छा० उप० ५।२।२) । क्वचिच्चोपासिनोपक्रम्य विदिनोपसंहरति । यथा मनो ब्रह्मेत्युपासीत । (छा० उप० ३।१८।१ ) इत्यत्र भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद । (छा० उप० ३।१८।३) (ब्र० सू० ४।१।१ शा० भा० ) । यथा च उपासनं नाम यथाशास्त्रमुपास्यस्यार्थस्य विषयीकरणेन सामीप्यमुपगम्य तैलधारावत् समानप्रत्ययप्रवाहेन दीर्घकालेन यदासनं तदुपासनम् (गी० १२।३ शा० भा०) । आसनमिहानात्मनामदर्शनमेव (तत्रैव नी० क०) । ये त्वक्षरं पर्युपासते ध्यायन्ति तेऽपि मामेव प्राप्नुवन्ति इति द्वयोरन्वयः (तत्रैव श्रीधरी) । शास्त्रतोऽक्षरं ज्ञात्वा तदुपेत्यात्मत्वेनोपगम्योपासते तथैव तिष्ठन्ति पूर्णचिदेकतानमक्षरमात्मानमेव सदा- भावयन्ति इत्येतद् विवक्षितम् (तत्रैव आ० गि०) । यथा च - तमेतमात्मानं वेदानुवचनेन ब्राह्मणा विवदिषन्ति यज्ञेन इत्यादिश्रुतेस्तपसा कल्मषं हन्ति इत्यादिस्मृतेश्च । (वे० सा०) उपासना त्रैविध्यम् । यथा त्रैविधमिह ब्रह्मोपासनं विवक्षितम् प्राणधर्मेण प्रज्ञाधर्मेण स्वधर्मेण च (ब्र० सू० १ । १ ।३१ शा० भा०) । यथा च - एवं सति त्रिविधमुपासनं प्रसज्येत जीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति । (ब्र० सू० १/१/३१ शा० भा०) नैष सन्दर्भो ब्रह्मवाक्यमेव भवितुमर्हतीति किन्तु तथायोगं किञ्चिदत्र जीववाक्यं किञ्चिन्मुख्यप्राणवाक्यं किञ्चिद् ब्रह्मवा॒क्यमित्यर्थः (तत्रैव भा०) । (२) अभिगमनमुपादानमिज्यास्वाध्यायो योग इति पञ्चविधमुपासनं श्रीपाञ्चरात्रेऽभिहितम् (स० द० सं०) । ध्यानाराधनप्रसंख्याननिदिध्यासनशब्दाः उपासनशब्दसमानार्थाः । उरुगायः, उरुगाय विस्तृतगतिः । यथा - विस्तीर्णां गतिम् (का० उप०२।११ शा०भा०) । ऋतम्, ऋत १ . सत्यम् । यथा – ऋतं सत्यमवश्यम्भावित्वात् कर्मफलं पिबन्तौ (का० उप० ३।१ शा० भा० ) । यथा च - सत्यम् अवश्यम्भावीतियावत् (ब्र० सू० १ /२/११ भाम० ) । २. कर्मफलम् । यथा- ऋतपानं कर्मफलोपभोगः (तत्रैव शा० भा० ) । ३ शास्त्रविहितकर्मज्ञानम् । यथा - यथाशास्त्रकर्मविषयं ज्ञानम् (तै० उप० ब्र० व० अनु ८ शा० भा०) । ४. कर्म । यथा - ऋतशब्दः कर्मवचनः ऋतं पिबन्तौ इति वचनात् ( स० द० सं० रामा० ) । ५. सत्यस्वरूपं ब्रह्म । यथा- ऋतं सत्यं चाभीद्धात् । ऋ० वे० १०/१९०/१०) अत्र सायणः ऋतमिति सत्यनाम । ऋतं मानसं यथार्थसंकल्पनं सत्यं यथार्थभाषणम् । एवमेव तत्रैव १०।९।१०८ तथा १/१०५/१५) ऋतसत्यशब्दयोः सूक्ष्मः कश्चन भेदः । अन्यथा ऋतं च सत्यमिति मन्त्रे पौनरुक्त्यापत्तिः स्यादतः ऋतम् त्रिकालाबाधितं परमं सत्यं ब्रह्म । सत्यं तु यथा दृष्टं यथा श्रुतं पुरोबाधितमपि सत्यमुच्यते । ६. यज्ञः । यथा है ॐ .सः शुचिषद्....गोजा ऋतजा अद्रिजाना ऋतं बृहत् (क० उ० २/२६) यज्ञाङ्गरूपेण ज्ञायत इति । .....सर्वात्मापि सन् अवितथस्वभाव एव ( अत्र शा० भा०) । ऋतशब्दस्य अग्न्युदकयज्ञगत्यादयोऽप्यर्थाः अनेके भवन्ति । ऋग्वेद - सायणभाष्यं द्रष्टव्यम् । एकजीववादः, एकजीववाद तथा च कल्प्यमानमज्ञानम् एकमनेकं वेति विवादे एकस्यापि निद्रादोषस्य अनेकविधकार्यजनकस्य स्वप्ने दृष्टत्वात् लाघवसहकृता अन्यानुपपत्तिर्विचित्रशक्तिमेकमज्ञानमादाय विश्राम्यतीति युक्तम् । अत एव अज्ञानस्य जीवोपाधित्वात् तस्य च एकत्वात् तदुपाधिक आत्मा जीवो भवन्नेक एव भवति इति एकजीववादिनो वदन्ति । यथोक्तानुपपत्तिसिद्धार्थानुवदिनी श्रुतिरपि - अजामेकां लोहितशुक्लकृष्णाम्..... ( वेदान्तसिद्धान्तमुक्तावली)....। एकजीवपक्षे एकमुक्त्या सर्वमुक्तिप्रसङ्गः इति चेत्, न एकत्ववादिनं प्रति सर्वत्वस्य निरूपयितुमशक्यत्वात् । तथापि बहवो जीवा इति अनुभवसिद्धा इति चेत् । भवतु तर्हि स्वप्नवद् व्यवस्था (वे० सि० मु० ९) । एतदर्थम् अविद्याशब्दोऽपि द्र० । एकर्षिः, एकर्षि रविः । यथा - जगतः पूषणात् पूषा रविस्तथैक एव ऋषति गच्छतीत्येकर्षिः (ई उप० १६ शा० भा०) । एव, एव अस्यार्थस्त्रिविधः - विशेषणसङ्गतः विशेष्यसङ्गतः क्रियासङ्गतश्च । आद्य एवकारार्थः अयोगव्यवच्छेदः । यथा शंखः पाण्डुर एव । अत्र शंखत्वावच्छेदेन पाण्डुरत्वायोगव्यवच्छेदो बुध्यते । अथवा विशेष्ये शंखे पाण्डूरत्वायोगव्यवच्छेदो बोध्यते । द्वितीयः अन्ययोगव्यवच्छेदः । यथा पार्थ एव धनुर्धरः इत्यत्र धनुधरे पार्थान्वये तादात्स्यव्यवच्छेदो बुध्यते । अथवा विशेषणे धनुर्धरे पार्थान्ययोगव्यवच्छेदो बोध्यते । धनुर्धरपदस्योत्कृष्टधनुधरे लक्षणा । तथैव तात्पर्यात् पार्थान्ययोगस्तत्तादात्यम् । तृतीयः क्रियायोगव्यवच्छेदः । यथा ग्रीष्मे सूर्यस्तपत्येव । एषणात्रयम्, एषणात्रय लोकैषणा, पुत्रैषणा, वित्तैषणा च (क० उप० १/२१-२७) । ऐश्वरम्, ऐश्वर १. ईश्वरस्य अघटनघटनासामर्थ्यम् । यथा- तेन दिव्येन चक्षुषा पश्य मे योगमघटनघटनासामर्थ्यातिशयम् ऐश्वरमीश्वरस्य ममासाधारणम् (गी० ११/८ म० सू०) । यथा च - ईश्वरस्य मम ऐश्वरं योगशक्त्यतिशयमित्यर्थः (तत्रैव शा० भा०) । २. विश्वरूपम् ऐश्वरम् (तत्रैव ११/९ शा० भा० ) । ऐश्वर्यम्, ऐश्वर्य ईश्वरस्येदम् ऐश्वर्यम् । तच्चेश्वरे कल्पितम् । यथा - सत्यज्ञानादेस्तु समाम्नातस्य न क्वापि प्रतिषेध इति प्रतिपन्नोपाधौ निषिध्यमानमैश्वर्यं कल्पितमेव स्तुत्यर्थमुपात्तं न सत्यत्वादिवत् स्वरूपान्तर्गतमित्यर्थः (सं० शा० १ । १९३ सु० टी०) । यथा च - ऐश्वर्यमीश्वरत्वं स्वातन्त्र्यम् (गी० मं० श्लो० आ० गि०) । यथा च – ये सगुणब्रह्मोपासनात् सहैव मनसेश्वरभावं व्रजन्ति । ..... जगदुत्यत्त्यादि व्यापारं वर्जयित्वाऽन्यदणिमाद्यात्मकम् ऐश्वर्यं मुक्तानां भवितुमर्हति (ब्र० सू० ४।४।१७ शा० भा० ) । ओम्, ओम् १. ब्रह्म । यथा - ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् (गी० ८।१३) । यथा च - ओमित्येदक्षरमिदं सर्वं तस्योपव्याख्यानम् ।.... ओमिति आत्मानं युञ्जीत । ओमिति ब्रह्म (मा० उप० ११ शा० भा० ) । यथा च - ओमितीदं सर्वमित्यादिवाक्यान्तरसङ्ग्रहार्थमादिपदमित्यादिश्रुतिभ्यो ब्रह्मप्रतिपत्त्युपायत्वमोंकारस्य प्रमितमिति शेषः । ओंकारेण सर्वा वाक् संवृणोति श्रुतेः । अतो युक्तमोंकारसर्वास्पदत्वमित्यर्थः। तस्य विकारः सर्वो वाविशेषः । ओंकारो वै सर्वा वागिति श्रुतेः । ओंकारस्य च तप्रधानत्वात् तेन .....नास्ति । ओंकारमात्रं सर्वमिति निश्चीयते । (तत्रैव आ० गि०) । यथा च - यस्य शब्दस्योच्चारणे यत्स्फुरति तत्तस्य वाच्यं प्रसिद्धं समाहितचित्तस्यौँकारोच्चारणे यद्विषयोपरक्तं संवेदनं स्फुरति तदोंकारमवलम्ब्य तवाच्यं ब्रह्मास्मीति ध्यायेत् तत्रापि असमर्थ ओम्शब्द एव ब्रह्मदृष्टि कुर्यादित्यर्थः (का० उप० २/१५ आ० गि०) । २. प्रणवः । यथा तत्राप्यसमर्थस्तर्हि प्रणवे ब्रह्मदृष्टिं कुर्यात् (का० उप० २/१५ शा० भा० ) । ३. मङ्गलार्थः । यथा - ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ । यथा च - ओंशब्दो मङ्गलप्रयोजनः कृत्स्नोपनिषदर्थस्मारक इति शब्दो भाष्यसमाप्ति- द्योतनप्रयोजन इति बोध्यम् (का० उप० ६।२ शा० टी० गो० टी०) । ४. उद्गीथम् । यथा- ओमित्येतदक्षरमुद्गीथमुपासीत् (छा० उप० १ । १ ।१ ) । यथा च – य उद्गीथः स प्रणवः स उद्गीथः (छा० उ० १।५।१ ) । उद्गीथः प्राणो वा । उत्प्राणेन हीदं सर्वमुत्तब्धं वागेव गीथोच्च गीथा चेति स उद्गीथः ( बृ० आ० उप० १ ।३।२३) । ओम् एतदेव सर्वम् । यथा - ओमिति ब्रह्म । ओमितीद ॐ सर्वम् । ओमित्येतदनुकृति ह स्म वा अप्याश्रावयेत्याश्रावयन्ति । ओमिति सामानि गायन्ति । ओमिति शस्त्राणि शॐ सन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृह्णाति । ओमिति ब्रह्मा प्रस्तौति । ओमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपामवानीति ब्रह्मैवोपामोति (तै० उप० ८।१ ) । औपाधिकः, औपाधिक उपाधिना कृतः । जीवस्य परस्माद् ब्रह्मण औपाधिको भेदः । यथा - तस्मादनन्तब्रह्मात्मनोऽस्य परिच्छेद औपाधिकः । श्रूयते च जीवस्य परस्मादौपाधिको भेदः। यथा ह्ययं ज्योतिरात्मा विवश्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः (ब्र० सू० १।१।२ वे० क० त०) । औपनिषदः, औपनिषद उपनिषद्भ्यः प्रतीयमानः उपनिषन्मात्रगम्य इति यावत् औपनिषदः पुरुषः परमात्मा । यथा- ततो विदित औपनिषदः पुरुषः (ब्र० सू० १ । १ ४ शा० भा०) । यथा च - तं त्वौपनिषदं पुरुषं पृच्छामि (बृ० उप० ३।१।१६) अत्र मनसैवानुद्रष्टव्य इति श्रुतिविरोधो न शङ्ख्यः । मनसा इत्यस्य मनननिदिध्यासनसंस्कृतमनसा इत्यर्थः । एवमेव यतो वाचो निवर्तन्ते अप्राप्य मनसा सह (तै० उ० २।४।१ ) इति श्रुतिविरोधोऽपि न शङ्क्यः । अत्र मनसा इत्यस्य असंस्कृतमनसा अगम्य इत्यर्थः । यथोक्तम्- ब्रह्मसाक्षात्कारेऽपि मनननिदिध्यासनसंस्कृतं मन एव करणम् । मनसैवानुद्रष्टव्य इत्यादिश्रुतेः । मनोऽगम्यत्वश्रुतिश्चासंस्कृतमनोविषया । न चैवं ब्रह्मण औपनिषदत्वानुपपत्तिः, अस्मदुक्तमनसो वेदजन्यज्ञानानन्तरमेव प्रवृत्ततया वेदोपजीवित्वात् । वेदानुपजीविमानान्तरगम्यत्वस्यैव वेदगम्यत्त्वविरोधित्वात् (वे० प० ८ १०) । ब्रह्मसाक्षात्कारकारणं मन इति वाचस्पतिमिश्राः (91919 भाम०) । ब्रह्मसाक्षात्कारकारणं शब्द इति विवरणकाराः । (प० पा० वि० १ तथा २ व०) । कम्, किम् ब्रह्म । सुखम् । यथा - उच्यते- प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म । इत्येतदग्नीनां वचनं श्रुत्वोपकोशल उवाच .... तत्रेदं प्रतिवचनम् यद् वा कं तदेव खं यदेव खं तदेव कम् (छा० ४।१०।५)। कुत एतदविशेषितौ तु कं खं शब्दौ सुखात्मकं ब्रह्म गमयतः (ब्र० सू० १/२/१५ शा० भा० ) । ब्रह्मपदं कं पदस्योपरि प्रयुज्यमानं शिरः एवं खं पदस्यापि ब्रह्मपदं शिरो ययोः कं खं पदयोस्ते ब्रह्मशिरसी तयोर्भावो ब्रह्म शिरस्त्वम् (तत्रैव भाम०) । अतो निगमनवाक्यमुपक्रमानुरोधात् प्राणं हिरण्यगर्भाख्यं कार्यं ब्रह्म तदाकाशं परब्रह्मरूपं सुखविशिष्टाकाशं चोचुरित्येतदर्थकमिति न विरोधः इत्यापि द्रष्टव्यम् (तत्रैव क० त० प०) । कक्षम्, कक्ष अरण्यम् । यथा - तस्मात्ते पुरुषं दृष्ट्वा भीताः कक्षम् अरण्यं श्वभ्रं भयशून्यमित्युपद्रवन्त्युपगच्छन्ति (छा० २/९/७ शा० भा० ) । कटः, कट १. आशौचम् । यथा - सकटान्नं च नाश्नीयात् (या० स्मृ० प्रा० अ० १५) । अत्र मिताक्षरावागू- कटशब्देनाशौचं लक्ष्यते तत्सहचरितमन्नम् । २. तृणादिनिर्मितमास्तरणम् । कथा, कथा १. नानावक्तृकः पूर्वोत्तरपक्षप्रतिपादकवाक्यसंदर्भ : (त० सं० दी०) एकेन पूर्वपक्षः क्रियते अन्येन समाधानम् । एवं क्रमेण नानाकर्तृकत्वं । नानाकर्तृकत्वं वाक्यसमूहस्यावसेयम् (त० सं० नी०) । कथाधिकारिणस्तु तत्त्वनिर्णयविजय एतदन्यतराभिलाषिणः सर्वजनसिद्धानुभवानपलापिनः श्रवणादिपटवः अकलहकारिणः कथौपयिकव्यापारसमर्थाः (गौ० वृ० १/२/१ प्रस्तावनायाम्) कथकस्य कथायां नियमविशेषस्तथा तत्खण्डनं च खण्डनखण्डखाद्यग्रन्थे दर्शिते । यथा - अथ कथायां वादिनो नियममेतादृशं मन्यन्ते प्रमाणादयः सर्वतन्त्रसिद्धान्ततया सिद्धाः पदार्थाः सन्तीति कथकाभ्यामभ्युपेयमिति । तदपरे न क्षमन्ते । तथाहि प्रमाणादीनां सत्त्वं यदभ्युपेयं कथकेन तत् कस्य हेतोः । किं तदनभ्युपगच्छद्भ्यां वादिप्रतिवादिभ्यां तदभ्युपगमसाहित्यनियतस्य तस्य प्रवर्तयितुमशक्यत्वात् उत कथकाभ्यां प्रवर्तनीय वाग्व्यवहारं प्रति हेतुभावात् उत लोकसिद्धत्वात् अथवा तदनभ्युपगमस्य तत्त्वनिर्णयविजयातिप्रसञ्जकत्वात् । न तावदाद्यः । तदनभ्युपगच्छतोऽपि चार्वाकमाध्यमिकादेर्वाग्व्यवहाराणां सविस्तराणां प्रतीयमानत्वात् । तस्यैव वा अनिष्पत्तौ भवतस्तन्निराकरणप्रयासानुपपत्तेः (ख० ख० खा० आदौ ) । २. तत्त्वनिर्णयविजय एतदन्यतरस्वरूपयोग्यो न्यायानुगतवचनसन्दर्भ: (गौ०वृ० १ /२/१ प्रस्तावनायाम्) । ३. वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः (सर्व० द० सं० अक्ष०) तिस्रः कथा भवन्ति- वादः जल्पः वितण्डा चेति (वात्स्या० १/२ । ४२, गौ० वृ० १।२।४२)। ४. प्राज्ञाः स्तोकसत्यां प्रबन्धकल्पनां कथां विदुः इति काव्यज्ञाः । कथाभासः, कथाभास जातिः । यत्र वादिप्रतिवादिभ्यां परस्परमसकृदूषणमुद्भाव्यते सः । यथा प्रतिषेधोऽपि समानो दोषः (गौ० ५।१।३९) । शब्दः अनित्यः प्रयत्नानन्तरीयकत्वादित्यत्र प्रयत्नानन्तरीयकत्वं न शब्दानित्यत्वं साधयति अनैकान्तिकत्वादिति यो दोषः स त्वत्पक्षेऽपि तुल्यः प्रयत्लाभिव्यङ्ग्यत्वस्याप्यसाधकत्वादिति (गौ० वृ० ५/१/३९) । अत्र षट् पक्षाः प्रवर्तन्ते । तथा हि शब्दः अनित्यः प्रयत्नानन्तरीयकत्वात् इति स्थापनावादिनः प्रथमः पक्षः । प्रयत्नकार्यानेकत्वात् कार्यसम इति प्रतिवादिनां द्वितीयः पक्षः । प्रतिषेधाप्रतिषेधेऽप्यनैकान्तिकत्वतुल्यमिति वादिनस्तृतीयः पक्षः । विप्रतिषेधस्तत्रापि तथैवानैकान्तिकत्वं तत्समानदोषोद्भावनं वा चतुर्थ: पक्ष: (गौ० वृ० ५ । १।४१) । प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानप्रसङ्गे मतानुज्ञा (गौ० ५/१/४२) । इति पञ्चमः पक्षः । स्वपक्षलक्षणापेक्षोपपत्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात् समानो दोषः (गौ० ५।१।४३) । इति षष्ठ: पक्षः (गौ० वृ० ५/१/४१-४३)। अत्र त्रयः पक्षा अपि सम्भवेयुः (गौ० वृ० ५।१।४०) । कथा तस्याः षडङ्गानि प्राहुश्चत्वारि केचन (ता० २०) (इति न्यायकोशः) । कप्यासः, कप्यास १ (क) कपेर्मर्कटस्याऽऽसः कप्यासः । आसेरुपवेशनार्थस्य करणे घञ् ।कपिपृष्ठान्तो येनोपविशति । कप्यास इवं पुण्डरीकमत्यन्ततेजस्वेवमस्य देवस्याक्षिणी । उपमितोपमानत्वान्न हीनोपमा । तस्यैवं गुणविशिष्टस्य गौणमिदं नामोदिति (छा० १।६।७ शा० भा०) । (ख) कपेर्मर्कटस्य आसः पश्चाद्भागः, तत्सदृशं रक्तवर्णमिति पर्यवसितार्थः। एवमेव छान्दोग्यविवरणे भगवत्पादैर्व्याख्यानात् । यत्तु कप्यासं कं पिबतीति कपिः पद्मनालः तत्रास्ते इति कप्यासम् । कं पिबतीति कपाः तस्मिन्, कपि तस्य सप्तम्यन्तस्यासशब्देनालुक्समासे कप्यासम् । केऽप्यास्ते इति लुप्ताकाराप्युपसृष्टासशब्देन कप्यासमिति बहुविधं वृत्तिकृतां व्याख्यानम् (ब्र० सू० १ । १ । २० शा० भाष्ये श्रीमदनन्तकृष्णशास्त्रिटिप्पण्याम्) । एतद्व्याख्यानं श्रीरामानुजीयसम्मतम् । करणम्, करण १ (क) क्रियते यत्तत् करणम् । भावे ल्युट् बाहुलकात् उत्पादनमित्यर्थः । यथा- करणमुत्पादनं तत्प्रसिद्धेरित्यर्थः (सं० शा० १९९ सु० टी०) । (ख) साधकतमं करणम् (पा० सू० १ ।४।४२) । अस्यार्थः - क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात् । स्वनिष्ठव्यापाराव्यवधानेन फलनिष्पादनम् । इदमेव साधकतमम् (ल० म०) 1 यथा रामेण बाणेन हतो वाली । अत्र बाणनिष्ठव्यापाराव्यवधानेन प्राणवियोगरूपक्रियानिष्पत्तेस्तस्य करणसंज्ञा । सव्यापारं क्रियोत्पादकं करणम् । निर्व्यापारं क्रियोत्पादकं यत् स हेतुः । यथा दण्डेन घटः । अयमेव करणहेत्वोर्भेदः । (ग) इन्द्रियम् । यथा इन्द्रियं करणं मतम् (भा०प० ५९) । यथा वा अन्तःकरणम् । करणाधिपः,करणाधिप जीवः । यथा - स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः (श्वे० ६।९) इति । तस्मात् सर्वज्ञं ब्रह्म जगतः कारणं नाचेतनं प्रधानमन्यद् वेति सिद्धम् (ब्र० सू० १/१/११ शा० भा० ) । करणाधिपानाम् जीवानाम् अधिपः (तत्रैव वे० क० त० ) । करूणः, करूण संन्यासी कृपावान् परमहंसपरिव्राजकः । यथा - करुण एव करुणा कृपा दुःखितेषु दया तवान् करुणः सर्वभूताभयप्रदः संन्यासीत्यर्थ: (गी० १२/१३ शा० भा०)। दुःखदातारमपि न बाधितुमीष्टे अपि तु त्रातुमेवेच्छति । एतेन सर्वभूताभयप्रदः संन्यासी उक्तः (तत्रैव नी० क०) । यतः करुणा दुःखितेषु दया तवान् सर्वभूताभयदाता परमहंसपरिव्राजक इत्यर्थ: (तत्रैव म० सू० ) । अज्ञेषु दुःखितेषु करूणा दया तद्वान् । यतः सर्वाणि भूतान्यात्मत्वेनानुपश्यति करुणः कृपावान् (तत्रैव भाष्यो॰) । हीनेषु कृपालुरित्यर्थः (तत्रैव श्रीधरी) । कर्ता, कर्तृ स्वतन्त्रः कर्ता (पा० सू० १४/५४) स्वातन्त्र्यं च समभिव्याहृतकारकान्तरानधीनत्वे सति कारकत्वम् । धात्वर्थव्यापाराश्रयत्वं वा ( ल० म० सुब०, वा० प० अपि एवमेव) यथा देवदत्तः पचतीत्यादौ देवदत्तः कर्ता इति वैयाकरणाः । बुद्धिरेव कर्त्री पुरुषे कर्तृत्वाभिमानः । यथा - प्रकृतेः क्रियमाणानि गुणैः कर्माण्यशेषतः। अहङ्कारविमूढात्मा कर्ताहमिति मन्यते (गी० ३।२७) । इति साङ्ख्याः। अविद्योपाधिकं चैतन्यं जीवः । चैतन्यम् अकर्तृकमपि अविद्यावशात् स्वस्मिन् कर्तृत्वं मन्यते इति अद्वैतिनः । क्रियानुकूलकृतिमान् तथा उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वम् । यथा ईश्वरस्य द्वयणुकादिकर्तृत्वम् (त० सं० दी०) यथा वा कुलालस्य घटकर्तृत्वम् । क्रियायाः कृतेर्वा समवायित्वे कर्तृत्वमिति भावः । एतेन रामो ग्रामं गच्छतीत्यत्र रामस्य कर्तृत्वम्, तथा काष्ठं पचतीत्यादौ काष्ठे कर्तृपदप्रयोगः गौण इति नैयायिकाः । कर्म, कर्मन् १ . क्रियते यत् तत् कर्म । एतच्च द्विविधं सुकृतं दुष्कृतञ्च । श्रुतिस्मृतिपुराणाद्यनुमोदितं कर्म सुकृतम् । विसर्गो देवतोद्देशेन चरुपुरोडासादिद्रव्यस्य परित्यागः स एव विसर्गलक्षणो यज्ञः कर्मसंज्ञितः (गी० ८।३ शा० भा० एवमेव म० सू० नी० क०, भाष्यो०) । कर्म ब्रह्मोद्भवं विद्धि (गी० ३।१५) । ब्रह्म वेदः स उद्भवः कारणं यस्य (शा० भा०, एवमेव वी० क०, म० सू० श्रीधरी) । ख्यातमुपासनादिरूपं च यत् कर्म (गी० ४।३३ म० सू०) । श्रुतिस्मृतिपुराणाद्यननुमोदितं कर्म दुःष्कृतम् । सुकृतं च पुनः पञ्चविधम् - काम्यनित्यनैमित्तिकप्रायश्चित्तोपासनाभेदेन । काम्यं च फलोद्देश्येन विधीयमानं स्वर्गादीष्टसाधनं ज्योतिष्टोमादि । नित्यं चाकरणे प्रत्यवायसाधनं सन्ध्यावन्दनादि । नैमित्तिकं च पुत्रजननानन्तरं विधेयं जातेष्ट्यादि, उपरागे स्नायादितिविधिविहितं ग्रहणस्नानादि । प्रायश्चित्तं च प्रायः पापं विजानीयाच्चित्तं तस्यैव शोधनमित्युक्तदिशा पापक्षयमात्रसाधनं चान्द्रायणादि । उपासनं च शास्त्रबोधिते सगुणे ब्रह्मणि दीर्घकालपर्यन्तं नैरन्तर्योपेतमनोवृत्तिस्थिरीकरणम् सगुणब्रह्मविषयकमानसव्यापाररूपम् । एतत्सर्वं वेदान्तसारे उक्तम् । पुनश्च त्रिविधम् प्रारब्धम्, क्रियमाणम् सञ्चितं च । यत्कर्मवशादिह जन्मनि अस्मिन् शरीरे सुखदुःखाद्यनुभूयते तप्रारब्धं कर्म । अहर्निशं वर्तमानजन्मनि सुकृतदुष्कृतरूपं यत् कर्म कृतं क्रियते अनारब्धफलं तत् क्रियमाणम् । प्रारब्धक्रियमाणाभ्यामन्यद् अनारब्धफलं यदेकत्रितं कर्म तिष्ठति तत् सञ्चितम् । यथा - सञ्चितं द्विविधम् - सुकृतं दुस्कृतं चेति तथा च श्रुतिः - तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्यामिति (वे० प० १ प०) । यथा च - कर्मिणां तु धूमादिमार्गेण पितृलोकं गतानामुपभोगेन कर्मक्षये सति पूर्वकृतसुकृतदुष्कृतानुसारेण ब्रह्मादिस्थावरान्तेषु पुनरुत्पत्तिः । तथा च श्रुतिः रमणीयचरणा रमणीयां योनिमापद्यन्ते कपूयाचरणाः कपूयां योनिमापद्यन्ते (छा० उप० ५/१०/१) । अत्र रमणीयचरणाः प्रशस्तकर्माणः, रमणीयां योनिम् = ब्राह्मणादियोनिम्, कपूयाचरणा निन्दितकर्माणः कपूयां योनिम्= श्वशूकरादियोनिम्, आपद्यन्ते प्राप्नुवन्तीत्यर्थः । सुकृतकर्मणा ब्रह्मादिलोकप्राप्तिः दुष्कृतकर्मणा नरकादिलोकप्राप्तिश्च सर्वविधकर्मणां क्षये मोक्षावाप्तिः । मुक्त्यर्थं कर्मणां न साक्षात् प्रयोजनमिति अद्वैतवेदान्तिनः । २. कर्तुरीप्सिततमं कर्म इति पाणिनिसूत्रे १।४।४९ । कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं भवतीति वैयाकरणाः । व्याकरणेऽपरमपि प्रधानं गौणमुपपदविभक्तिरूपमित्यादिकर्म । वैयाकरणभूषणसारे अनेकविधं कर्म निरूपितम् । ३. चलनात्मकं कर्म । तच्च पञ्चविधम् - उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि । उर्द्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदेशसंयोगहेतुरपक्षेपणम्, शरीरसन्निकृष्ट संयोगहेतुराकुञ्चनम् । शरीरविप्रकृष्टसंयोगहेतुः प्रसारणम्, अन्यत् सर्वं गमनम् । पृथिव्यादिचतुष्टयमनोवृति (त० सं० ) । तच्च कर्मत्वं नित्यावृत्तिसत्तासाक्षाद्व्याप्यजातिरूपं नित्यावृत्तिपदार्थविभाजकोपाधिमत्त्वं वेति न्यायवैशेषिकाः । ४. कर्मपदस्य शक्यार्थः यागो दानं होमो भावना च । यथा - तन्त्रवार्त्तिके - प्राप्ते कर्मणि नानेको विधात्तुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयलतः । पूर्वमीमांसायाः नाम कर्ममीमांसाप्यस्ति । अस्मिन् शास्त्रे कर्म विचार्यते । कर्मकृत्, कर्मकृत् १ . आत्मज्ञानम् । कर्माणि कृन्तति छिनत्तीति कर्मकृत् कर्मच्छेदकम् । यथा- कर्माण्यात्मीयेषु कर्मसु यः अकर्तृत्वादकर्मकत्वं पश्यति प्रशान्ततया अकर्मसु च परकृते स्वात्मकृतत्वं जानाति परिपूर्णोदितरूपत्वेन स एव सर्वस्य मध्ये बुद्धिमान् कार्येन साकल्येनासौ कर्म करोति । अतोऽस्य केन कर्मणा फलं दीयतामित्युदितदशायां प्रशान्तत्वे तु कृत्स्नानि कर्माणि कृन्तति छिनत्ति । अतः सर्वमेव कर्म करोति न किञ्चिद् वा करोत्युपनिषद् । यस्य सर्वस्मिन् कर्मणि देहेन्द्रियक्रियायामकर्म स्वात्मनि निष्क्रियत्वं श्रोत्रादीनि शब्दादिषु वर्तन्ते वागादीनि वचनादौ मम किमायातमित्येवं लक्षणं यः पश्येत् । अकर्मणि यः परैः प्रमातृभिः कृते कर्मणि पूजादौ कर्म क्रियां जनयति । एते कर्तारः सर्वेऽहमेवेति दृष्ट्या पूंजकैरविभेदेन सदा पूजेति पूजनमिति सिद्धभाषाप्रामाण्यात् । स एव मनुष्येषु सामान्यजनेषु मध्ये बुद्धिमान् । देहेन्द्रियादिष्वपि कर्तृत्वदर्शनादात्मनि निष्क्रियत्वदर्शनाच्च स एव कृत्स्नकर्मकृत् (गी० ४/१८ अभि० गु०) । यथा च - कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान् मनेष्येषु स युक्तः कृत्स्नकर्मकृत् (गी० ४।१८) । अत्र श्रीधरीटीकायाम् - तत्र हेतुःयतः कृत्स्नानि सर्वाणि यदृच्छया प्राप्तान्याहारादीनि कर्माणि कुर्वन्नपि स युक्त एवाकर्त्रात्मने समाधिस्थस्य एवेत्यर्थः । अनेनैव ज्ञानिनः स्वभावादापन्नं कलञ्जभक्षणादिकं न दोषाय अज्ञस्य तु रागतः कृतं दोषायेति विकर्मणोऽपि तत्त्वं निरूपितं द्रष्टव्यम् । यथा च यस्य सर्वे समारम्भः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः (गी० ४।१९) । यथा च - यथैन्धासि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा (४।३७) यथा चयोगसन्यस्तकर्माणं ज्ञानसंच्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबद्ध्नन्ति धनञ्जय (गी० ४।४१) । तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । छित्वैवं संशयं योगमातिष्ठोतिष्ठ भारत ॥ (गी० ४।४२) । २. कर्मणः कर्ता । ३. कर्मच्छेदकः । कर्मक्षयः, कर्मक्षय सञ्चितप्रारब्धक्रियमाणरूपत्रिविधकर्मणां नाशः । अप्रवृत्तफलयोः अनारब्धकार्ययोः सुकृतदुष्कृतयोः कर्मणो र्ज्ञानादेव नाशः । आरब्धकार्ययोः प्रवृत्तफलयोः सुकृतदुष्कृतकर्मणोर्भोगाज् ज्ञानादपि च नाशः । ज्ञानोत्पत्तौ सुकृतदुष्कृतकर्मणी भवत एव नहि । अयमेव क्रियमाणकर्मणो नाशः । नाभुक्तं क्षीयते कर्म इति स्मृतिस्तथाज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन (गी० ४।३७) इति गीतोक्तिश्च । यथाअनारब्धकार्ये एव तु पूर्वे तदवधेः (ब्र० सू० ४।१।१५) पूर्वयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुष्कृतयोर्विनाशोऽवधारितः । स किमविशेषेणारब्धकार्ययोरनारब्धकार्ययोश्च भवत्युत विशेषेणानारब्धकार्ययोरेवेति विचार्यते । तत्र उभे उ हैवैष एते तरति (बृ० उ० ४।४।२२) इत्येवमादिश्रुतिष्वविशेषश्रवणादविशेषेण क्षय इति । एवं प्राप्ते प्रत्याह अनारब्धकार्ये एव त्विति । अप्रवृत्तफले एव पूर्वे जन्मान्तरसंचिते अस्मिन्नपि च जन्मनि प्राग्ज्ञानोत्पत्तेः संचिते सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते नत्वारब्धकार्ये सामिभुक्तफले, याभ्यामेतद् ब्रह्मज्ञानायतनं जन्म निर्मितम् । कुत एतत् - तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये। (छा० ६।१४।२) इति शरीरपातावधिकरणात् क्षेमप्राप्तेः । इतरथा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावाज् ज्ञानप्राप्त्यनन्तरमेव क्षेममश्नुवीत । तत्र शरीरपातप्रतीक्षां नाचक्षीत । ननु वस्तुबलेनायमकर्त्रात्माववोधः कर्माणि क्षपयन् कथं कानिचित् क्षपयेत् कानिचिच्चोपेक्षेत । नहि समानेऽग्निबीजसम्पर्के केषाञ्चिद् बीजशक्तिः क्षीयते केषांचिन्न क्षीयत इति शक्यमङ्गीकर्तुमिति । उच्यते - न तावदनाश्रित्यारब्धकार्यं कर्माशयं ज्ञानोत्पत्तिरुपपद्यते । आश्रिते च तस्मिन् कुलालचक्रवत् प्रवृत्तवेगस्यान्तराले प्रतिबन्धासम्भवाद् भवति वेगक्षयप्रतिपादनम् । अकर्त्रात्मबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्माण्युच्छिनत्ति । बाधितमपि तु मिथ्याज्ञानं द्विचन्द्रज्ञानवत् संस्कारवशात् कञ्चित् कालमनुवर्तत एव । अपि च नैवात्र विवदितव्यं ब्रह्मविदा कञ्चित् कालं शरीरं ध्रियते न वा ध्रियत इति । कथं हि एकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणं चापरेण प्रतिक्षेप्तुं शक्येत । श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्देशेनैतदेव निरुच्यते । तस्मादनारब्धकार्ययोरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात् क्षय इति निर्णयः (ब्र० सू० ४।१ । १५ शां० भा०) । यथा च - ब्रह्मज्ञानान् मूलाज्ञाननिवृत्तौ तत्कार्यप्रारब्धकर्मणोऽपि निवृत्तिः । कथं ज्ञानिनो देहधारणमुपपद्यते इति चेत् न । अप्रतिबद्धज्ञानस्यैव अज्ञाननिवर्तकतया प्रारंब्धकर्मरूपप्रतिबन्धकदशायामज्ञाननिवृत्तेरनङ्गीकारात् (वे० प० ८ प०) । यथा - भोगेन त्वितरे क्षपयित्वा सम्पद्यते (ब्र० सू० ४/१/१९) । अनारब्धकार्ययोः पुण्पपापयोर्विद्यासामर्थ्यात्क्षय उक्तः । इतरे त्वारब्धकार्ये पुण्यपापे उपभोगेन क्षपयित्वा ब्रह्म सम्पद्यते । तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये (छा० ६।१४।२) । इति ब्रह्मैव सन् ब्रह्माप्येति इति चैवमादिश्रुतिभ्यः । ननु सत्यपि सम्यग् यथा प्रागूदेहपाताद् भेददर्शनं द्विचन्द्रदर्शनन्यायेनानुवृत्तमेवं पश्चादप्यनुवर्तेत, न, निमित्ताभावात् । उपभोगशेषक्षपणं हि तत्रानुवृत्तिनिमित्तम् । न च तादृशमत्र किंचिदस्ति । नन्वपरः कर्माशयोऽभिनवमुपभोगमारप्स्यते । न तस्य दग्धबीजत्वात् । मिथ्याज्ञानावष्टम्भं हि कर्मान्तरं देहपात उपभोगान्तरमारभते । तच्च मिथ्याज्ञानं सम्यग्ज्ञानेन दग्धमित्यतः साध्वेतदारब्धकार्यक्षये विदुषः कैवल्यमवश्यं भवतीति (त० शा० भा०) । कर्मज्ञानसमुच्चयः, कर्मज्ञानसमुच्चय मोक्षस्य किं साधनमिति विषये वेदान्ते पक्षद्वयम् । शाङ्कराद्वैतवेदान्तिनः केवलं ज्ञानमेव मोक्षसाधनं मन्यन्ते । मूलाविद्यया जातोऽयं सकलसंसारप्रपञ्चो मूलाविद्याया नाशेन निवर्तते । कर्मणा सत्त्वशुद्धिस्ततो वैराग्यं ततो कर्मसंन्यासस्ततो ज्ञानं ततो मोक्षः । कर्म केवलमन्तः शुद्ध्यर्थम् । मोक्षस्तु ज्ञानादेव । उक्तं चैतत् बृ० आ० उप० ४ । ३ । ३३ इत्यत्र । अविद्याबलेनैव शुद्धत्तैतन्यं ब्रह्म जीवभावेन भाति । अविद्यानाशे मुक्त इत्युच्यते । अत एव तस्मादविद्यास्तमयो नित्यानन्दप्रतीतितः । निःशेषदुःखोच्छेदाच्च पुरुषार्थो परो मतः । (अ० सि० मु० आ० पुरुषार्थ०) तदुक्तं वार्त्तिके - अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः (तत्रैव गौ० ब्र०) । अतो ज्ञानमेव मोक्षकारणम् । अपरे केचन कर्मणः ज्ञानस्य च समुच्चयः साहित्यं मुक्तिकारणमिति वदन्ति । अयं वादः कर्मज्ञानसमुच्चयवादोऽथवा ज्ञानकर्मसमुच्चयवाद इत्युच्यते । श्रीभगवत्पादशङ्कराचार्याणामिदमभिमतं यद् नित्यप्राप्तमोक्षार्थं कर्म अकिञ्चित्करम् । यतो हि यज्ञादिकर्मकाण्डेन भव्यो धर्मोऽथवा कश्चन अपूर्व उत्पद्यते । कर्मणा संस्क्रियते उत्पाद्यते प्राप्यते विकार्यते च । न च मोक्षः संस्कार्य उत्पाद्यो विकार्यः प्राप्यो वा । यथा - यस्य तूत्पाद्यो मोक्षस्तस्य मानसं वाचिकं कायिकं वा कर्मापेक्षत इति युक्तम् । तथा विकार्यत्वे च तयोः पक्षयोर्मोक्षस्य ध्रुवमनित्यत्वम् । नहि दध्यादिविकार्यमुत्पाद्यं वा घटादि नित्यं दृष्टं लोके । न चाप्यत्वेनापि कार्यापेक्षा । स्वात्मस्वरूपत्वे सत्यनाप्यत्वात् । स्वस्वरूपव्यतिरिक्तत्वेऽपि ब्रह्मणो नाप्यत्वं सर्वगतत्वेन नित्याप्तस्वरूपत्वात् सर्वेण आकाशस्येव । नापि संस्कार्यो मोक्षः ।.... नित्यशुद्धब्रह्मस्वरूपत्वात् मोक्षस्य (ब्र० सू० १/१/४ शा० भा०) । यथा च कर्मकाण्डे च भव्यो धर्मो जिज्ञास्य इह तु भूतं नित्यनिवृत्तं ब्रह्म जिज्ञास्यमिति । तत्र धर्मज्ञानफलादनुष्ठानापेक्षत्वाद् विलक्षणं ब्रह्मज्ञानफलं भवितुमर्हति (ब्र० सू० १।१।४ शा० भा०) । आवृत्तिरूपा उपासना । इयं चापि न ब्रह्मसाक्षात्कारे साधनम् । यथा - अवृत्तिः सर्वोपासनेष्वादर्तव्येति स्थितम् । तत्र यानि तावत् सम्यग्दर्शनार्थान्युपासनानि तान्यवद्यातादिवत् कार्यपर्यवसानानीति ज्ञातमेवैषामावृत्तिपरिमाणम् । नहि सम्यग् दर्शने कार्ये निष्पन्ने यनान्तरं किञ्चिच्छासितुं शक्यम् । आनियोज्यब्रह्मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात् । यानि पुनरभ्युदंयफ्लानि तेष्वेषा चिन्ता । ... (ब्र० सू० ४।१।१२ शा० भा०) । ब्रह्मसाक्षात्कारे केवले ज्ञानमेव साधनमित्यत्राह । यथा- अथेदानीमौपनिषदात्मज्ञानं किमधिकारिद्वारेण कर्मण्येवानुप्रविशत्याहोस्वित् स्वतन्त्रमेव पुरुषार्थसाधनं भवतीति मीमांसमानः सिद्धान्तेनैव तावदुपक्रमते- पुरुषार्थोऽत इति । अस्माद् वेदान्तविहिततादात्यज्ञानात् स्वतन्त्रात्पुरुषार्थः सिद्ध्यतीति वादरायण आचार्यो मन्यते कुत एतदवगम्यते - शब्दादित्याह । तथाहि-तरति शोकमात्मवित् (छा० ७।१।३) । सयो ह वै तत्परमे ब्रह्म वेद ब्रह्मैव भवति (मु० ३।२।९) । ब्रह्मविदाप्नोति पदम् (तै० २।१।१ ) । आचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये (छा० ६।१४।२) इति । य आत्मा अपहतपाप्मा । (छा० ८/७/१) इत्युपक्रम्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानाति (छा० ८/७११) इति । आत्मा वा अरे द्रष्टव्यः (बृं० ४।५।६) । इत्युपक्रम्य एतावदरे खल्वमृतत्वम् (बृ० ४।५।१५) । इत्येवं जातीयकाः श्रुतिः केवलायाः विद्यायाः पुरुषार्थहेतुत्वं श्रावयति (ब्र० सू० ३।४।१ शा० भा०) । यथा च - नहि स पूर्वसमुद्रं जिगमिषोः प्रातिलोम्येन प्रत्यक्समुद्रं जिगमिषुणा समानमार्गत्वं सम्भवति । प्रत्यगात्मविषयप्रत्ययसन्तान- करणाभिनिवेशश्च ज्ञाननिष्ठा । सा च प्रत्यक् समुद्रगमनवत् कर्मणा सहभावित्वेन विरुध्यते । पर्वतसर्षपयोरिव अन्तरवान् विरोधः (गी० १८/५५ शा० भा० ) । एतद् - विपरीतं जैमिनिराचार्यः कर्मणा सह ज्ञानं साधनं मनुते (ब्र० सू० ३।४।२-७) । आचार्यशङ्कराप्राक्तनाः ब्रह्मदत्तः श्रीभर्तृप्रपञ्चः आश्मरथ्यः औड्डुलोमिश्च भेदाभेद-वादिनः । एते जीवब्रह्मणोर्भेदमङ्गीकृत्य कर्मकाण्डभागं तयोश्चाभेदमङ्गीकृत्य ज्ञानकाण्डं समर्थयन्ति । अत इमे कर्मसमुच्चितज्ञानं ब्रह्मसाक्षाकारसाधनं मन्वते । आचार्यमण्डनमिश्रः- ज्ञानकर्मसमुच्चयवादी । अयं कथयंति – विज्ञाय प्रज्ञां कुर्वीत (बृ० आ० उ० ४।४।२१) । इत्युनासरं विज्ञाय = तत्त्वमस्यादिमहावाक्यै ब्रह्म विज्ञायते ततः प्रज्ञया उपासनया ब्रह्मसाक्षात्कारः । स प्रज्ञाम् उपासनाम् = प्रसंख्यानम् इति कथयति । अत एवायं प्रसंख्यानवादी - आवृत्तिर्हि प्रसंख्यानम् (बृ० ऑ० उ० भा० वा० ८०३) नैष्कर्म्यसिद्धौ, बृ० उ० भा० वार्तिके च अयं पक्षः भृशं खण्डितः । जीवन्मुक्तास्तु कर्मफलं भुञ्जानोऽपि अभुञ्जान इव तिष्ठति । यथा -- अयं तु व्युत्त्थानसमये मांसशोणितमूत्रपुरीषादिभाजनेन शरीरेण अशनायापीपासाशोकमोहादिभाजनेनान्त करणेन च पूर्वपूर्ववासनया क्रियमाणानि कर्माणि भुज्यमानानि ज्ञानाविरुद्धारब्धफलानि च पश्यन्नपि बाधितत्वात् परमार्थतो न पश्यति यथेन्द्रजालमिति । ज्ञानवांस्तदिन्द्रजालं पश्यन्नपि परमार्थमिति न पश्यति । सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव इत्यादि श्रुतेः । उक्तं च - सुप्तवज्जाग्रति यो न पश्यति द्वयं च पश्यन्नपि चाद्वयत्वतः । तथा च कुर्वन्नपि निष्क्रियश्च यः स आत्मविन्नान्य इतीह निश्चयः । (वे० सा० जीवन्मुक्तप्रकरणे) । कर्मदेवः, कर्मदेव देवो द्विविधः कर्मदेवः आजानदेवश्च । तत्र कर्मदेवः श्रौत्रादिकर्मणा देवत्वं प्राप्नोति । आजानदेवश्च जन्मतः प्रारम्भत एव देवत्वं गतः । यथा - अग्निहोत्रादिश्रौतकर्मणा ये देवत्वं प्राप्नुवन्ति ते कर्मदेवाः (बृ० आ० उ० ४।३।३३ शा० भा० ) । कर्मभोगः, कर्मभोग प्रारब्धकर्मणां फलभोगः । लौकिकः पामरो जनः सुखदुःखरूपेण भुङ्क्ते जीवनमुक्तस्तु कर्मफलं भुञ्जानोऽपि अभुञ्जान इव तिष्ठति । यथा - अयं तु व्युत्त्थानसमये मांसशोणितमूत्रपुरीषादिभाजनेन शरीरेण अशनायापिपासाशोकमोहादिभाजनेनान्तःकरणेन च पूर्वपूर्ववासनया क्रियमाणानि कर्माणि भुज्यमानानि ज्ञानाविरुद्धारब्धफलानि च पश्यन्नपि बाधितत्वात् परमार्थतो न पश्यति । यथेन्द्रजालमिति । ज्ञानवांस्तदिन्द्रजालं पश्यन्नपि परमार्थमिति न पश्यति । सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव इत्यादिश्रुतेः । उक्तञ्च - स सुप्तवज्जाग्रति यो न पश्यति द्वयं च पश्यन्नपि चाद्वयत्वतः । तथा च कुर्वन्नपि निष्क्रियश्च यः स आत्मविन्नान्य इतीह निश्चयः (वे० सा० जीवन्मुक्तप्रकरणे ) । कर्मयोगः, कर्मयोग गीतायां ज्ञानयोगभक्तियोगकर्मयोगप्रभृतयोऽनेके योगाः प्रतिपादिताः । तत्र कर्मैव योगः कर्मयोगः । यथा - कर्मैव योगः कर्मयोगस्तेन कर्मयोगेन कर्मिणां निष्ठा प्रोक्तेत्यर्थः (गी० ३।३ शा० भा०) । यथा च - कर्मयोगेन कर्मैव योग ईश्वरार्पणबुद्ध्याऽनुष्ठीयमानं घटनरूपं योगार्थत्वाद्योग उच्यते (गी० १३२४ शा० भा०) । अन्ये पुनः कर्मयोगेनैव पूर्वोक्तलक्षणेन सांख्या ध्यानद्वारा पश्यन्तीति साधनत्रयस्य समुच्चयो न तु विकल्पः (तत्रैव नी० क०) । कर्मयोगेन ईश्वरार्पणबुद्ध्या क्रियमाणेन फलाभिसन्धिरहितेन तत्तवर्णाश्रमोदितेन वेदविहितेन कर्मकलापेन चापरे मन्दाः पश्यन्त्यात्मनीति वर्तन्ते (तत्रैव म० सू०) । अन्ये मन्दाधिकारिणः कर्मैव योगार्थत्वगुणेन योगस्तेन कर्मयोगेन ईश्वरार्पणबुद्ध्यानुष्ठीयमानेन सत्त्वशुद्धिश्रवणमननध्यानापरोक्षज्ञानोत्पत्तिद्वारेणात्मन्यात्मानमात्मना पश्यन्तीति पूर्ववत् (तत्रैव भाष्यो०) यथा च प्रवृत्त्या लक्ष्यते जायते कर्मयोगः (गी० ४।१ आ० गि०) । कर्मसमुच्चयः, कर्मसमुच्चयः कर्मज्ञानसमुच्चयशब्दो द्रष्टव्यः । कर्मसमुच्चितज्ञानम्, कर्मसमुच्चितज्ञान कर्मणा सह ज्ञानं मोक्षसाधनम् । एतदर्थं कर्मज्ञानसमुच्चयशब्दो द्रष्टव्यः । कर्माध्यक्षः, कर्माध्यक्ष १ (क) कर्माध्यक्षः कर्मफलप्रदाता (ब्र० सू० १।१।४) वे० क० त० । (ख) कर्मणां कारयितृत्वेन द्रष्टैव न कर्तेत्यर्थः (तत्रैव) । कर्माशयः, कर्माशय पुण्यापुण्यकर्मणामाशयः । यथा - क्लेशमूलः कर्माशयो दृष्टादृष्टजन्यवेदनीयः (पा० यो० सू० २।१२) । अत्र तत्त्ववैशारद्याम् आशेरते सांसारिकाः पुरुषा अस्मिन्नित्याशयः । कर्मणामाशयौ धर्माधर्मौ । यथा च - सकृठप्रवृत्तमेव हि ते कर्माशयमतिवाहयन्तः (ब्र० सू० ३ । ३।३२ भाम० ) । कलाः, कला १. ज्ञानप्रयोजनम् । यथा - सर्वे चांशकलाः प्रोक्ताः कृष्णस्तु भगवान् स्वयम् (भाग० १।३।२८ ) । इत्यत्र श्रीधर्याम्- अंशः शक्तिसमावेशः कला ज्ञानप्रयोजनम् । २. षोडशकलाः । यथा - प्रश्नोपनिषदि ... यस्मिन्नेता षोडशकलाः प्रभवन्तीति प्रस्तुत्य .... श्रद्धा खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्मलोका लोकेषु नाम चेति पठ्यते । छान्दोग्ये तु दिगाद्यवयवः षोडशकल उपास्यो न च.... कलाः षोडश भूतानि प्राणोऽक्षं नाम कर्म च श्रद्धा लोकास्तपो मन्त्रा मनो वीर्यं शरीरकम् (ब्र० सू० १ /१/५ भाम०, वे० क० त० च ) । ३. रात्र्यादयः । यथा - स एव संवत्सरः प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदश कलाः स रात्रिभिरेवा च पूर्यतेऽथ च क्षीयते सोऽमावास्या रात्रिमेतया षोडश्या कल्या सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते (बृ० उ० १/५/१४) । यथा च षोडशलः पुरुषः (छा० उ० ६।७।१) ।४. चन्द्रस्य कलाः । यथा - अमृता मानदा पूषा पुष्टिस्तुष्टी रतिधृतिः । शशिनी चन्द्रिका कान्तिश्ज्योत्स्ना श्रीः प्रीतिरङ्गदा । पूषणा चाथ पूर्णा स्युः कला चन्द्रस्य षोडशी (कोशे) । ५. कला तु षोडशो भागः (अ० को० १।३।१५) । कल्पना, कल्पना १. अभिलापः । यथा - कल्पनापोढत्वेऽपि भ्रान्तत्वाद् घटादिप्रत्ययस्य .... (ब्र० सू० २।२।२८ भाम०) । अत्र वेदान्तकल्पतरौ - कल्पना अभिलापः तदपोढं तद्रहितम् ।.... कल्पनापोढमभ्रान्तमिति प्रत्यक्षलक्षणकरणादित्यर्थः ।२. मनसा चिन्तनम् । यथा - स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् । बहिश्चेतो गृहीतं तद्द्दृष्टं वैतथ्यमेतयोः (मा० उ० का० २।९) । जाग्रवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् । बहिश्चेतो गृहीतं सयुक्तं वैतथ्यमेतयोः (मा० उ० का० २।१०) । कल्पनावादः, कल्पनावाद सृष्टिविषये अनेके वादाः सन्ति । तत्रैकः कल्पनावादः । यत्र आत्मैव इदं सर्वं दृश्यमानं कल्पयति । यथा- कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया । स एव बुद्ध्यते भेदानिति वेदान्तनिश्चयः (मा० उ० का० २।१२) । कतिपयकल्पना प्रकाराः । यथा - प्राण इति प्राणविदो भूतानीति तद्विदः । गुणानिति गुणविदस्तत्त्वानीति च तद्विदः । पादा इति पादविदो विषया इति तद्विदः । लोका इति लोकविदो देवा इति च तद्विदः । वेदा इति वेदविदो यज्ञा इति च तद्विदः । भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः । सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः । मूर्त इति मूर्तविदोऽमूर्त इति तद्विदः । काल इति कालविदो दिश इति च तद्विदः। वादा इति वादविदो भुवनानीति तद्विदः । मन इति मनोविदो । बुद्धिरिति च तद्विदः । चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः । पञ्चविंशक इत्येके षड्विंश इति चापरे । एकत्रिंशक इत्याहुरनन्त इति चापरे । लोकाँल्लोकविदः प्राहुराश्रमा इति तद्विदः । स्त्रीपुन्नपुंसकं लैङ्गाः परापरमथापरे । सृष्टिरिति सृष्टिविदो लय इति च तद्विदः । स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा (मा०उ०का० २।२०-२८) । स्वप्नमाये यथादृष्टे गन्धर्वनगरं यथा । तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः (मा० उ० का० २।३१) । कल्पितसंवृत्तिः, कल्पितसंवृत्ति अपरमार्थज्ञानम् । यथा - कल्पिता च सा तया योऽस्ति परमार्थेन नास्त्यसौ न विद्यते (मा० उ० गौ० पा० का० ४।७४ शा० भा० ) । कल्मषम्, कल्मष पापादिसंसारकारणदोषः । यथा - ज्ञाननिर्धूतकल्पषा ज्ञानेन नाशितः कल्मषः पापादिसंसारकारणदोषो येषां ते ज्ञाननिर्धूतकल्पषा यतय इत्यर्थः (गी० ५।१७ शा० भा० ) । यथा च - ज्ञानेन निर्धूतं समूलमुन्मूलितं पुनर्देहसम्बन्धकारणं पुण्यपापात्मकं कर्म येषां ते तथा (तत्रैव म० सू० ) । कवि:, कवि १. (क) मेधावी । यथा - कवयो मेधाविनोऽप्यत्र अस्मिन् विषये मोहिता मोहं गताः (गी० ४।१६ शा० भा०) । (ख) सर्वदृक् । यथा - कविः क्रान्तदर्शी सर्वदृक् (ई० ८ शा० भा० ) । कामः, काम १. (क) मनः । यथा - एष प्रसिद्धः कामः सोऽकामयत जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीतेति श्रुतिरिदं मे भूयादिदं भूयात् इति तीव्राभिलाषहेतुभूतश्चेतसोऽनवस्थितत्वापादको वृत्तिविशेषः । स च चेतोरूप एव । कामः संकल्प इत्युपक्रम्य एतत् सर्वं मनः इत्युपसंहारात् । स एष कामः केनचित् निमित्तेन प्रतिहितः क्रोधरूपेण परिणमतेऽतः क्रोधोऽभिज्वलनात्माप्येष एव तमेनमिह शरीरेऽन्तः स्थितं वैरिणं विद्धि (गी० ३।३७ नी० क०) । (ख) विषयः = यद्वत् सर्वे कामाः लोकैः काम्यमानाः विषयाः । न तु कामकामी काम्यन्त इति कामा विषयास्तान् कामयितुं शीलं यस्य स कामकामी नैव प्राप्नुवन्तीत्यर्थः (गी० २।७० भाष्यो०) । (ग) कर्महेतुः कर्महेतुः कामः प्रवर्तकत्वात् (तै० शि० अनु० १ शा० भा० ) । कामकारः, कामकार स्वैरवृत्तिः । यथा - अयुक्तस्तद्विपरीतः कामकारेण स्वैरवृत्त्या फले सक्तः सन् नितरां वध्यते (गी० ५/१२ नी० क०) । यथा च - यस्तु पुनरयुक्तोऽसमाहितः कामकारेण करणं कारः कामस्य कारः कामकारस्तेन कामकारेण (तत्रैव शा० भा० ) । काम्यत्वम्, काम्यत्व अभिलाषविषयत्वम्, आरब्धकर्मोपत्तिकामनाधीनकामना विषयत्वं वा । यथा भोजनादेर्ज्योतिष्टोमादेश्च काम्यत्वम् । यथा वा सुखं जगतामेकं काम्यं धर्मेण जन्यते । कारः, कार यथा - करणं कारः यस्तु पुनरयुक्तः ईश्वरायैतानि कर्माणि न मम फलायेत्यभिप्रायशून्यः स कामकारेण कामतः प्रवृत्त्या मम फलायैवेदं कर्म करोमीति फले सक्तो निबध्यते कर्मभिः नितरां संसारबन्धं प्राप्नोति (गी० ५/१२ शा० भा०) । कारकः, कारक (क) करोतीति कारकः क्रियाजनकत्वम्, साक्षात् क्रियान्वयित्वं वा कारकत्वम् इति वैयाकरणाः । (ख) यद्धातूपस्थाप्ययादृशार्थेऽन्वयप्रकारीभूय भासते यः सुबर्थः स तद्धातूपस्थाप्यतादृशक्रियायां कारकमिति नैयायिकाः । यथा वृक्षात् पतति, व्याघ्राद् विभेति, ब्राह्मणाय गां ददाति, पुत्राय क्रुध्यति, दात्रेण छिनत्ति, घटत्वेन जानाति, स्थाल्यां पचति, शुक्तौ भासते, ग्रामं गच्छति, स घटं पश्यति, चैत्रेण पच्यते, घटेन भूयत इत्यादौ पत्प्रभृतिधात्वर्थे पतनादौ पञ्चम्याद्युपस्थापितो विभागादिः प्रकारीभूय भासत इति तत्तद्धातूपस्थापिततत्तत् क्रियायां विभागादिकं प्रकृते कारणम् । अधिकं तु कारके (१।४।२३) इति पाणिनिसूत्रस्य महाभाष्ये द्रष्टव्यम् । (ग) कर्ता = स च सर्वक्रियाकलापकर्त्री बुद्धिरेव । अभिमानित्वेन पुरुषः स्वस्मिन् कर्तृत्वं मन्यते । यथा गीतायां प्रकृतेः क्रियमाणानि गुणैः कर्माण्यशेषतः । अहंकारविमूढात्मा कर्ताहमिति मन्यते (गी० ३।२७) । इति सांख्याः । (घ) शुद्धं चैतन्यं कर्तृत्वादिरहितं किन्तु अज्ञानोपहितं चैतन्यं जीवः सन् स्वस्मिन् लोकव्यवहारव्यापारकर्तृत्वं मन्यते । तेन च शुभाशुभकर्मकर्तृत्वद्वारा लोके संसरति । ज्ञाने जाते कर्तृत्वाभिमानरहितः संसरणान्मुच्यत इति अद्वैतवेदान्तिनः । कारणम्, कारण १. यस्मिन् सति यद् भवति यस्मिंश्चासति यन्न भवति तत्कारणम् । इदं च द्विविधम् - वैदिकं लौकिकञ्च । तत्र वैदिकं केवलमन्वयमात्रावगम्यम् । लौकिकं च अन्वयव्यतिरेकोभयगम्यम् । अभावस्य च न कारणत्वमिति अद्वैतवेदान्तिनः । अन्यथासिद्धशून्यत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणत्वमिति नैयायिकाः । एतच्च फलोपहितत्वं स्वरूपयोग्यत्वं चेति द्विविधम् । तत्र प्रथमं यथा अनुमितिं प्रति परामर्शस्य कारणत्वम् । फलोपहितत्वं च उपधायकत्वशब्देनापि व्यवह्रियते । द्वितीयं यथाअरण्यस्थदण्डादिसाधारणम् । जनकतावच्छेदकलक्षणं दण्डत्वादिस्वरूपं घटकारणत्वम् । पुनरपि साधारणासाधारणनिमित्तभेदेन त्रिधा इति नैयायिकाः क्वचिदुद्देश्यं प्रयोजनं फलमपि कारणं भवति इति पूर्वमीमांसकाः । नकुलीशादिदर्शने जगत्सृष्टिसंहारा नुग्रहकारिकारणमीश्वरो भवति ।२. (क) कारणमीश्वरः (ब्र० सू० २ । २ ।३७ भा० ) । (ख) कार्याकार्यविवेकविकलस्यैव लोकनिन्दितकर्मकरणमपि तत्कारणम् (तत्रैव क० त० प० ) । कारणशरीरम्, कारणशरीर ईश्वरस्येयं समष्टिरखिलकारणत्वात् कारणशरीरम् । यथा इदमज्ञानं समष्टिव्यष्ट्यभिप्रायेणैकमनेकमिति च व्यवह्रियते । यथा वृक्षाणां समष्ट्यभिप्रायेण वनमित्येकत्वव्यपदेशो यथा वा जलानां समष्ट्यभिप्रायेण जलाशय इति तथा नानात्वेन प्रतिभासमानानां जीवगताज्ञानानां समष्ट्यभिप्रायेण तदेकत्वव्यपदेशः अजामेकामित्यादिश्रुतेः । इयं समष्टिरुत्कृष्टोपाधितया विशुद्धसत्त्वप्रधाना । एतदुपहितं चैतन्यं सर्वज्ञत्वसर्वेश्वरत्वसर्वनियन्तृत्वादिगुणकमव्यक्तमन्तर्यामी जगत्कारणमीश्वर इति च व्यपदिश्यते सकलाज्ञानावभासकत्वात् । यः सर्वज्ञः स सर्ववित् इति श्रुतेः । ईश्वरस्येयं समष्टिरखिलकारणत्वात् कारणशरीरम् ।.... एतेषु कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान् कर्तृरूपः । मनोमयः इच्छाशक्तिमान् करणरूपः । प्राणमयः क्रियाशक्तिमान् कार्यरूपः। योग्यत्वादेवमेतेषां विभाग इति वर्णयन्ति । एतत्कोशत्रयं मिलितं सत् सूक्ष्मशरीरमित्युच्यते । अत्राप्यखिलसूक्ष्मशरीरमेकबुद्धिविषयतया वनवज्जलवद्वा समष्टिरनेकबुद्धिविषयतया वृक्षवज्जलवद्वा व्यष्टिरपि भवति । एतत्समष्ट्युपहितं चैतन्यं सूत्रात्मा हिरण्यगर्भः प्राणश्चेत्युच्यते सर्वत्रानुस्यूतत्वाज्ज्ञानेच्छाक्रियाशक्तिमदुपहितत्वाच्च । अस्यैषा समष्टिः स्थूलप्रपञ्चापेक्षया सूक्ष्मत्वात् सूक्ष्मशरीरम् । यथा च- अविद्यावशगस्त्वन्यस्तद्वैचित्यादनेकधा । सा कारणशरीरं स्याप्राज्ञस्तत्रभिमानवान् (प० द० १ ।१७) । तत्सर्वं क्रमेण व्युत्पादयति- सा कारणशरीरमित्यादिना । साविद्या कारणशरीरं स्थूलसूक्ष्मशरीरादिकारणभूतं प्रकृत्यवस्थाविशेषत्वात् कारणमुपचाराच्छीर्यते तत्त्वज्ञानाद् विनश्यति चेति शरीरं स्यात् । तत्कारणशरीरेऽभिमानवान् तादात्याध्यासेनाहमित्यभिमानवान् जीवः प्रज्ञा अविनाशिस्वरूपानुभवरूपा यस्य स प्रज्ञः एव प्राज्ञः एतन्नामकः स्यादित्यर्थः (तत्रैव रा० कृ० ) । कार्यम्, कार्य १ (क) मायामयं व्यवहारमात्रं सदसद्विलक्षणम् । यथा - कार्यं सव्यवहारमात्रं सदसद्विलक्षणं मायामयमित्याह (सं० शा० ३।२१८ अ० टी०) । (ख) सतो ब्रह्मणो विवर्तः (ग) अधिष्ठानज्ञानेन निवर्त्यम् । (घ) जगदेव कार्यम् । यथा - अत्र जगत्पदेन कार्यजातं विवक्षितम् । कारणत्वं च कर्तृत्वमतोऽविद्यादौ नातिव्याप्तिः (वे० प० ७ १०) । जगच्च नामरूपांशद्वयव्यवहारमात्रम् । यथा - जगति नामरूपांशद्वयव्यवहारस्तु अविद्यापरिणामात्मकनामरूपसम्बन्धात् । तदुक्तम्- अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् (वे० प० ७५०) । सतः सज्जायते अर्थात् पारमार्थिकात् सतो व्यावहारिकं सज्जायते । यतो वा इमानि भूतानि तैति०३।१ इत्यादिछान्दोग्यादिषूपलभ्यत इत्यद्वैतिनः । २. प्रागभावप्रतियोगि ( त० सं०) घटोत्पत्तेः पूर्वमिह घटो भविष्यतीति या प्रतीतिर्जायते तत्प्रतीतिविषयीभूतो योऽभावः स एव घटप्रागभावस्तत् प्रतियोगिघटादिरूपं कार्यम् (तत्रैव न्या० बो०) । अथवा कारणात् पश्चाद्भावि इति नैयायिकाः । ३. सतः सदेव जायत इति सांख्याः । यथा - कार्यं प्राधानादिकं महदादि (ब्र० सू० २ अ०) । ४. असतः कारणाद् असत् कार्य जायत इति बौद्धाः । जैनमतं नैयायिकमतमिव । ५. यागादिकृतिसाध्यमपूर्वं कार्यमिति पूर्वमीमांसकाः । यथा - अनन्योद्देशप्रवृत्तकृतिव्याप्यं कार्यमित्यर्थः। स्वर्गकामस्य हि साक्षात् स्वर्गं साधयितुमशक्नुवन्तो नियोगमेव कार्यमुद्दिश्य यागकृतिः प्रवृत्ता तया व्याप्त ईप्सितरूपो नियोग एव प्रधानत्वात् कार्यमिति भावः (सं० शा० १ । १३३ सु० एवमेव अ० टी० च) । अत्र - असद्वा इदमग्र आसीत् (छा० २।७) । सद्वा इदमग्र आसीत् (छा० उ० २।७) इति श्रुतिः मूलम् । अत्र चत्वारः पक्षाः सम्भवन्ति – असतः असत्, असतः सत् सतः सत् सतोऽसदिति । तत्र प्रथमो बौद्धानाम्, द्वितीयो नैयायिकानाम्, तृतीयः सांख्यानामद्वैतिनां च । तत्र सतः सकाशात् पारमार्थिकं सत् सांख्यानाम् । सतो ब्रह्मणः सकाशाद् व्यावहारिकं सद् अद्वैतिनामिति विवेकः । सतोऽसदिति चतुर्थः पक्षो नोपपद्यते । कार्यकारणभावः, कार्यकारणभाव यथा धूमवन्योः कार्यकारणभावः । कार्यं च कारणं च तयोर्भावः कार्यकारणभावः । अयं हेतुहेतुमद्भाव इत्यप्युच्यते । अत्र एकस्य स्वकारणापेक्षया कार्यत्वम्, अपरस्य तदपेक्षया कारणत्वम् । अनयोः कार्योत्पत्तिनिश्चयेनाविनाभावो निश्चीयते । कार्योत्पत्तिनिश्चयश्च कार्यकारणयोः प्रत्यक्षोपलम्भानुपलम्मपञ्चकनिबन्धनः । तथा हि कार्यस्योत्पत्तिः, प्रागनुपलम्भः, कारणोपलम्भः, कारणोपलम्भे सत्युपलम्भः पश्चाद् उपलब्धस्य कारणानुपलम्भादनुपलम्भः इति पञ्चात्मकः कार्यकारणभावः । अद्वैतमते एवं कार्यकारणभावो नाङ्गीक्रियते सतः पारमार्थिकब्रह्मणः सकाशाद् व्यावहारिकसतो जगतः उत्पत्तिस्वीकाराद् अभावस्य कारणत्वानङ्गीकारात् । कार्यान्विते शक्तिः, कार्यान्विते शक्ति १. प्राभाकरमीमासकाः कार्यान्वितघटादिपदे शक्तिं स्वीकुर्वन्ति । एतन्मते कथंचिदुपस्थितपदार्थानां शाब्दबोधवारणाय तत्तद्विषयक शाब्दबोधं प्रति वृत्तिज्ञानजन्यतदुपस्थितित्वेन हेतुतायाः कल्पनीयतया अन्वयांशेऽपि शक्तिरपेक्षिता । अन्यथा तादृशसामान्यकार्यकारणभावभङ्गापत्तेः । एवं च अन्वितो घटपदवाच्यः इत्याकारकशक्तिज्ञानमेव शाब्दबोधप्रयोजकम् । तत्रायं प्रकारः- प्रयोजक वृद्धेन घट आनीतः, तत्रस्थो बालो घटानयनरूपं कार्यं घटमानयेति शब्दप्रयोज्यमित्यवधारयति । ततश्च घटं नय गामानय इत्यवापोद्वापाभ्यां घटादिपदानां कार्यान्वित घटादौ शक्तिं कल्पयन्ति । २. नैयायिकास्तु पुत्रस्ते जातः कन्या ते गर्भिणी इत्यादिवाक्ये सिद्धार्थविषयकस्यापि शाब्दबोधोत्पत्तेर्न कार्यान्विते शक्तिस्तथा अन्वयस्य वाक्यार्थतया भानसम्भवादन्वयांशे शक्तिर्न कल्पनीयेति मन्यन्ते । एवमेव संसर्गस्य पदसमभिव्याहारबलादेव शाब्दबोधे भानसम्भवात्तादृशसंसर्गांशेऽपि शक्तिर्न कल्पनीयेति स्वीकुर्वन्ति । ३. अद्वैतवेदान्तिनस्तु वेदान्तवाक्यानां सिद्धार्थबोधकत्वान्न कार्यान्वितपदे शक्तिरित्यभिप्रयन्ति । यथा – तस्मात्तथैवास्तु योग्येतरान्वितस्वार्थे शब्दशक्तिरियमेवास्तु किं कार्यान्वयकल्पनेनेत्यर्थ: (सं० शा० १ ३४४ अ० टी० ) । काल:, काल १. (क) विवेकपरिपाकावस्था कांलशब्देनोच्यते (गी० २/५३ आ० गि०) । (ख) हेतुद्वयमनुरुद्ध्य वैराग्यपरिपाकावस्था कालशब्दार्थः (तत्रैव आ० गि०) । (ग) अक्षय: प्रवाहरूपः कालोऽहमेव कालः कलयतामित्यत्रायुर्गणनात्मकः संवत्सरशताद्यायुः कालः उक्तः स च तस्मिन्नायुषि क्षीणे सति क्षीयते, अत्र तु प्रवाहात्मकोऽक्षयः काल उच्यते इति विशेष: (गी० ११।३३ श्रीधर्याम्) । स च कालः साक्षिप्रत्ययभास्यः । २. परमात्मनः स्वातन्त्र्यशक्तिर्यया जगद् विवर्तते । यथा - अध्याहितकलां यस्य कालशक्तिमुपाश्रिताः जन्मादयो विकाराः षड् भावभेदस्य (वाक्यपदीये १।३) । अत्र स्वोपज्ञव्याख्यायाम् - कालाख्येन स्वातन्त्र्येण सर्वेषां हि विकाराणाम् .. सहकारिकारणं कालः । यथा च - जलयन्त्रभ्रमावेशसदृशीभिः प्रवृत्तिभिः । सकलाः कालयन् सर्वाः कालाख्यां लभते विभुः (वा०प० ३।९।१४) । अत्र हेलाराजव्याख्याने विभुः परमात्मैव कालः । यथा - अनेनैतत् सूचयति विश्वात्मैक एव परब्रह्माभिधान: सत्यो भावः स एव नानाविधः कार्यकारितयाऽनन्तशक्तित्वेन व्यवह्नियते । तथा च क्रमिकांश्च चक्रवत् परावर्तमानान् भावान् प्रकाशयन् कालयति भूतानीति काल इत्युच्यते । स विभुः स्वतन्त्रः अत एव स्वतन्त्रा शक्तिः काल इति वाक्यदीये (१३) इत्यत्र सिद्धान्तितम् । ३. आत्मदेवता । यथा - शक्त्यात्मदेवतापक्षैर्भिन्नं कालस्य दर्शनम् (वा०प० ३।९।६२ हे० रा० व्याख्याने) । ४. अद्वैतमते - अविद्या । यथाकालस्तु अविद्यैव तस्याः सर्वाधारत्वात् (सि० वि० ८ श्लो०) । अद्वैतब्रह्मसिद्धौ प्रथममुद्गरे – कालस्याविद्यात्मकस्वीकारात् । .. मायैव काल इति वेदान्तिनः । ५. बौद्धाः न किमपि कालतत्वमिति (वा० प०३/५७ का० तथा अस्या व्याख्याने) । ६. विवेकसाक्षात्कारान्तरायो मेधाख्यस्त्रुटिविशेषः काल इति सांख्या आहुः (वाच०) स च अकाशेऽन्तर्भवति (सा० कौ०) ।७. काल: द्रव्यम् । यथा - अतीतादिव्यवहारहेतुः कालः । स चैको विभुर्नित्यश्च (त० सं० ) । ८. शब्दतन्मात्रपरिणामः कालः इत्याहुः । (ल० म० लका० प्र०) येन मूर्तीनामुपचयाश्चापचयाश्च लक्ष्यन्ते तं कालमित्याहुः । तस्यैव कयाचित् क्रियया युक्तस्याहरिति रात्रिरिति च भवति । कया क्रियया आदित्यक्रियया तथैवासकृदावृत्तया मास इति संवत्सर इति च भवति (पा० म० भा० २/२/५) । इति शाब्दिकाः । षडिन्द्रियवेद्यः काल इति प्राभाकरमीमांसकाः । अधिकं च मम श्रीशङ्कराप्रागद्वैतवादग्रन्थे आचार्यभर्तृहरिनामकेऽध्याये । कालात्ययापदिष्टः, कालात्ययापदिष्ट कालातीतः । कालात्ययेन प्रयुक्तो यस्यार्थस्यैकदेशोपदिश्यमानस्यात्ययः स कालात्ययापदिष्टः कालातीतः । अथवा कालस्य साधनकालस्यात्ययेऽभावेऽपदिष्टः प्रयुक्तो हेतुः । अयं हेत्वाभासः । यथा - अग्निरनुष्णः कृतकत्वात् । अत्र कृतकंत्वं हेतुः कालात्ययापदिष्ट: । अत्र साध्यस्य अनुष्णत्वस्य त्वगिन्द्रियप्रत्यक्षेणाभावपरिज्ञानम् । बाधितपदवदस्यार्थः । यथा - कालात्ययापदिष्टाश्च हेत्वाभासाश्च पञ्चधा (भा०प० ७२) । कालिकविशेषता, कालिकविशेषता स्वरूपसम्बन्धविशेषः । कालिकपदवदस्यार्थः । कालिकसम्बन्धः, कालिकसम्बन्धः कालेन कृतः सम्बन्धः । यथा कालगन्धयोः सम्बन्धः । अयं च सम्बन्धः सर्वाधारताप्रयोजकसम्बन्धः । अनेन सम्बन्धेन सर्वेषु जन्यभावेषु जन्यभावानां वृत्तिमत्त्वम् । नित्येषु च कालिकसम्बन्धेन न कस्यापि सत्त्वम् । कालिक सम्बन्धस्तु स्वरूपादनतिरिक्त इत्यपि केचन मन्यन्ते । स च कालिकविशेषणताख्यः सर्वाधारताप्रयोजकः । यथा कालस्यं गन्धादिसर्ववस्त्वाधारताप्रयोजकः कालिकसम्बन्धः । एवं दिक्कृतविशेषणतापि बोध्या । आकाशादिकं सदैवास्तीति व्यवहारात् कालिकविशेषणताख्यसम्बन्धेनाकाशपरमाण्वादयो नित्या अपि काले वर्तन्ते । एवमेव दिग्विशेषणताख्यया सर्वाधारतानियामिकया जन्यमात्रं दिशि तिष्ठति । कालोपाधिः, कालोपाधिः क्षणदिवसादिव्यवहारविषयत्वनियामको धर्मः । स च जन्यमात्रं क्रियामात्रं वा कालोपाधिः । तथा हि - १. स्वजन्यविभागप्रागभावावच्छिन्नं कर्म । २. पूर्वसंयोगावच्छिन्नविभागः । ३. पूर्वसंयोगनाशावच्छिन्नोत्तरसंयोगप्रागभावः । ४. उत्तरसंयोगावच्छिन्नं कर्म । स्वजन्येत्यादेरर्थश्च - स्वं रविक्रिया तज्जन्यो विभागः रविपूर्वदेशयोर्विभागस्तस्य प्रागभावः । स तादृशक्रियोत्पत्तिकाले तिष्ठति तदवच्छिन्नं तदेव कर्म । अनेनोपाधिचतुष्टयेन क्षणचतुष्टयव्यवहार उपपद्यते इति नैयायिकाः । विशेषस्तु न्यायकोशे द्रष्टव्यः । कुटः, कुट घट: - यथा विभुन आकाशस्य कुटकरकाद्यवच्छेदात् कुटादिसाम्यम् (ब्र० सू० २।४।१३) । कुटो घटः (तत्रैव वे० क० त०) । कुटो निवापोऽस्त्रीत्यमरः (तत्रैव वे० क० त०) । कूटम्, कूट १ (क) बहिर्मनोहरमन्तर्दोषबहुलं वस्तु । यथा- दृश्यमानगुणमन्तर्दोषं वस्तुकूटं कूटरूपं कूटसाक्ष्यमित्यादौ कूटशब्दः प्रसिद्धो लोके (गी० १५/१६ आ० गि०) । (ख) कूटो माया वञ्चना जिह्नता कुटिलतेति पर्यायाः (गी० १५/१६ शा० भा०) । (ग) कूटो यथार्थवस्त्वाच्छादनेनायथार्थवस्तुप्रकाशनं वञ्चनं मायेत्यनर्थान्तरम् (तत्रैव म० सू०) । २. कूटः शिलाराशिः पर्वतः (तत्रैव श्रीधरी) । ३. माया अविद्या वा । मायां तु प्रकृतिं मम माया इत्यादौ मायाशब्दिततया प्रसिद्धमविद्यादि तदिह कूटशब्दितमित्यर्थः (तत्रैव आ० गि०) । ३. अहङ्कारः । वस्तुतोऽसदपि सदिवाभासमानं कूटम् । यथा कूटकार्षापणं कूटतुलेति तद्वत् कूटः अहङ्कारः प्रतीच्य भेदेन भासमानत्वे सति कादाचित्कत्वाद् यो यदभेदेन कदाचिद् भाति स तत्र मिथ्याकल्पितो यथा रज्जूरगस्तथा चायमहङ्कारो मिथ्यात्वात् कूटसंज्ञः (तत्रैव नी० क०) । ४. मिथ्याभूतं सत्यतया प्रतीयमानम् । यत् मिथ्याभूतं सत्यतया प्रतीयते तत्कूटमिति लोकैरुच्यते (तत्रैव म० सू०) । ५. राशिः । कूटो राशिः (गी० १५/१६ शा० भा०) । कूटस्थः, कूटस्थ अधिष्ठानतया देहद्वयावच्छिन्नचेतनः । कूटवन्निर्विकारेण स्थितः कूटस्थ उच्यते (प० ८०६ । २२ ) । सन्धयोऽखिलवृत्तीनामभावाश्चावभासिताः । निर्विकारेण येनासौ कूटस्थ इति चोच्यते (तत्रैव ८।२१) । द्विगुणीकृतचैतन्ये जन्मनाशानुभूतितः । अकूटस्थं तदन्यत्तु कूटस्थमविकारतः (तत्रैव ८।२४) । कूटस्थः कूटो राशिरिव स्थितः अथवा कूटो माया वञ्चना जिह्नता कुटिलतेति पर्यायाः अनेकमायादिप्रकारेण स्थितः कूटस्थ: (गी० १५/१६ शा० भा०) । कूटस्थो निर्विकारो मायोपाधिरक्षरः (तत्रैव नी० क०) । कूटस्थः कूटो यथार्थवस्त्वाच्छादनेनायथार्थवस्तुप्रकाशनं वञ्चनं मायेत्यनर्थान्तरम् (तत्रैव म० सू०) । कूटस्थ: कूटो राशिरिव स्थितः कूटस्थः (तत्रैव भाष्यो०) कूटः शिलाराशिः पर्वत इव देहेषु नश्यत्स्वपि निर्विकारतया तिष्ठतीति कूटस्थश्चेतनो भोक्ता (तत्रैव श्रीधरी) । सज्ञानविज्ञानतृप्तात्मा कूटस्थोऽप्रकम्पो भवति (तत्रैव ६।८ शा० भा०) । कूटस्थः सन्निधावपि विकारशून्यः (तत्रैव म० सू०) । अतः कूटस्थोऽप्रकम्प्यः केनापि शीतादिना चालयितुमशक्यो भवतीत्यर्थः (तत्रैव भाष्यो०) । अतः कूटस्थो निर्विकारः (तत्रैव श्रीधरी) । कूटस्थं दृश्यमानगुणमन्तर्दोषं वस्तु कूटं कूटरूपं कूटसाक्ष्यमित्यादौ कूटशब्दः प्रसिद्धो लोके । प्रकृते किं तदनृतं कूटशब्दितमित्याशङ्क्याह- तथा चेति उक्तरीत्या कूटशब्दस्यानृतार्थत्वे यदनेकस्य संसारस्य बीजं निरूप्यमाणं नानाविधदोषोपेतं "तद्धेदं तर्ह्याव्याकृतं" "मायां तु प्रकृतिं " "मम माया" इत्यादौ मायाशब्दिततया प्रसिद्धमविद्यादि तदिह कूटशब्दितमित्यर्थः (तत्रैव आ० गि०) । वस्तुतोऽसदपि सदिवाभासमानं कूटम् । यथा कूटकार्षापणं कूटतुलेति तद्वत् कूटः अहङ्कारः प्रतीच्यभेदेन भासमानत्वे सति कादाचित्कत्वाद् यो यदभेदेन कदाचिद्भाति स तत्र मिथ्याकल्पितो यथा रज्जूरगस्तथा चायमहङ्कारो मिथ्यात्वात् कूटसंज्ञस्तत्र तिष्ठति तद्भासकत्वेनेति कूटस्थं चैतन्यम् (तत्रैव नी० क० ) । यद् मिथ्याभूतं सत्यतया प्रतीयते तत्कूटमिति लोकैरुच्यते । यथा कूटः कार्षापणः कूटसाक्षित्वमादौ अज्ञानमपि मायाख्यं सहकार्यभेदेन मिथ्याभूतमपि लौकिकैः सत्यतया प्रतीयमानं कूटं तस्मिन्नाध्यासकेन सम्बन्धेनाधिष्ठानतया तिष्ठतीति कूटस्थमज्ञानतत्कार्याधिष्ठानमित्यर्थः (तत्रैव म०सू०) । अव्यक्तत्वादेवाचिन्त्यं कूटस्थं कूटे मायाप्रपञ्चे स्थितमधिष्ठानत्वेन स्थितम् (तत्रैव श्रीधरी) । कूटस्थनित्यम्, कूटस्थनित्य इदं तु पारमार्थिकं कूटस्थनित्यं व्योमवत् सर्वव्यापि सर्वविक्रियारहितं नित्यतृप्तं निरवयवं स्वयंज्योतिःस्वभावम् (ब्र० सू० १ । १ ।४ शा० भा०) । कूटस्थनित्यमिति निर्वर्त्यकर्मतामपाकरोति (तत्रैव भाम० ) । कृतम्, कृत १ . पुण्यम् । यथा - तस्यात्मरतेः कृतेन कर्मणार्थः प्रयोजनं नास्ति । स्वर्गादौ लिप्साभावात् । मोक्षस्य चाक्रियासाध्यत्वात् । नास्यकृतः कृतेन इति श्रुतेः । अकृतो मोक्षः कृतेन कर्मणा नास्तीति श्रुत्यर्थः । अकृतेन विरुद्धकर्मणाप्यर्थो नरकादिरस्य नास्ति । अत्र कृताकृतशब्दौ मित्रामित्रपदवत् परस्परविरुद्धार्थवाचितया पुण्यपापवचनौ (गी० ३।१९ नी० क०) । (ख) तस्यात्मरतेः कृतेन कर्मणाभ्युदयलक्षणो निःश्रेयसलक्षणो वार्थःप्रयोजनं नैवास्ति । तस्य स्वर्गाद्यभ्युदयानर्थित्वात् निःश्रेयसस्य च कर्मासाध्यत्वात् । तथा च श्रुतिः परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन इति । अकृतो नित्यो मोक्षः कृतेन कर्मणा नास्तीत्यर्थः । ज्ञानसाध्यस्यापि व्यावृत्तिरेव कारणेन सूचिता । आत्मरूपस्य हि निःश्रेयसस्य नित्यप्राप्तस्याज्ञानमात्रसमाप्तिः । तच्च तत्त्वज्ञानमात्रापनोद्यम् । तस्मिंस्तत्त्वज्ञानेनापनुन्ने तस्यात्मविदो न किञ्चित् । कर्मसाध्यं ज्ञानसाध्यं वा प्रयोजनमस्तीत्यर्थः (तत्रैव म० सू०) ।२. धर्मः । धर्मादधर्मात् तत्फलसुखदुःखाच्च कृतात् कार्यप्रपञ्चात् अकृतात् कारणात् अन्यत्र पृथग्भूतभूतादेः कालादन्यत्र तेनानवच्छेद्यम् (ब्र० सू० १ ४ वे० क० त०) । ३- कर्म = कृतमिति कर्म उच्यते तस्यान्तः परिसमाप्तिर्यत्र स कृतान्तः कर्मान्त इत्येतत् (गी० १८/१३ शा० भा० ) । कृतान्ते कृतस्य कर्मणोऽन्तः परिसमाप्तिर्यस्मिन् (तत्रैव नी० क०) । कृतमिति कर्मोच्यते तस्यान्तः परिसमाप्तिस्तत्त्वज्ञानोत्पत्त्या यत्र तस्मिन् कृतान्ते (तत्रैव म० सू० ) । कृतस्य कर्मणोऽन्तः (तत्रैव भाष्यो०) तस्मिन् (सांख्ये) कृतं कर्म तस्यान्तः परिसमाप्तिरस्मिन्निति कृतान्तस्तस्मिन् वेदान्तसिद्धान्त इत्यर्थः (तत्रैव श्रीधरी) । ४ –कार्यप्रपञ्चः । यथा - कृतात् कार्यप्रपञ्चात् (ब्र०सू० १।४।४ वे०क०त० ) । कृपणः, कृपण आत्मज्ञानविहीनो यो लोकान्तरं गच्छति । यथा - यो वा एतदक्षरं गार्ग्यविदित्वास्मांल्लोकात् प्रैति स कृपण: (बृ० उप० ३।८।१०) । यतोऽवरं कर्म कुर्वागा दीनाः फलहेतयः फलतृष्णाप्रयुक्ता सन्तः । यो वा एतक्षरं गार्ग्यविदित्वाऽस्माल्लोकात् प्रैति स कृपण इति श्रुतेः (गी० २।४९ शा० भा० ) । ब्रह्मतत्त्वविप्रतिपन्ना द्वैतवादी । ये यथोक्तं परमार्थतत्त्वं प्रतिप्रन्नास्त एवाकृपणाः । लोके कृपणा एवान्य इत्याहुः । .... नाना वस्तु अस्त्येवं वदनं येषां ते पृथग्वादा द्वैतिन इत्यर्थः । तस्मात्ते कृपणाः क्षुद्राः स्मृताः (मा० उ० मा० का० ४।९४ शा० भा०) । कृपणधीः, कृपणधी मन्दबुद्धिः शून्यवादिनः । यथा - मन्दबुद्धिः य इतरेतराध्यासे शून्यताप्राप्तिं मन्यते स कृपणधीः मन्दबुद्धिरिति यावत् (सं०शा० ३।२४० अ०टी०) । कृष्णः, कृष्ण पापकर्षक: भक्तदुःखकर्षकश्च । यथा - हे कृष्ण पापकर्षण मे मह्यं ज्ञानार्थिने संन्यासं कर्मयोगं चेति द्वयं परस्परविरुद्धं शंससि कथयसि (गी० ५/१ नी० क० ) । यथा च – हे कृष्ण सदानन्दरूप भक्तदुःखकर्षण इति वा (तत्रैव म० सू० ) । केवलः, केवल १. सर्वमेकमेव ब्रह्मेति । यथा - केवलः दृश्यवर्जितः (ब्र० सू० १ ।४।४ वे० क० त०) । इत्यद्वैतवेदान्तिनः । २. ज्ञानम् - यथा - तपः क्रियाविशेषादन्यमर्थं सेवन्ते तपस्विनस्तज्ज्ञानमन्यज्ञानासंस्पृष्टं केवलम् (स० द० सं० आ० प्र० ) । केवलव्यतिरेकि, केवलव्यतिरेकिन् एतल्लिङ्गमनुमानं वा । १. (क) व्यतिरेकमात्रव्याप्तिकम् । (ख) यत्र व्यतिरेकव्याप्तिरेवास्ति तत् । (ग) साध्याभावसाधनाभावयोः साहचर्यं व्यतिरेकस्तथा व्यतिरेकेणैव व्याप्तिर्यस्मिंस्तत् केवलव्यतिरेकि । एतच्च चतुर्धा भवतिपक्षधर्मत्वम् विपक्षाद्व्यावृत्तिः, अबाधितविषयत्वम्, असत्प्रतिपक्षत्वं चेति । अत्र सपक्षाभावेन सपक्षसत्त्वं न भवति । यथा पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात् । यदितरेभ्यो न भिद्यते न तद् गन्धवत् यथा जलम् । तत्र गन्धवत्त्वं केवलव्यतिरेकि ( त० सं० ) । यथा च जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् इत्यत्र यत्सात्मकं न भवति तत्प्राणादिमन्न भवति यथा घटः न चेदं जीवच्छरीरं प्राणादिमन्न भवति तस्मान्न तथेति । एवमेवान्यदुदाहरणम् । केवलान्वयि, केवलान्वयिन् एतल्लिङ्गमनुमानं वा । १. (क) अन्वयेनैव व्याप्तिर्यस्मिंस्तत् । (ख) व्यतिरेकव्याप्तिशून्यत्वे सति अन्वयव्याप्तिमत् । (ग) अत्यन्ताभावाप्रतियोगिसाध्यकम् ।(घ) असद्विपक्षम् । अस्यार्थः-पक्षव्यापकम्, सपक्षे वर्तमानम्, विपक्षशून्यम्, अबाधितविषयम्, असठप्रतिपक्षमिति । यथा घटोऽभिधेयः प्रमेयत्वादित्यत्र प्रमेयत्वं केवलान्वयि । एवमेव अन्वयव्यतिरेकि लिङ्गमनुमानं वा । यथा अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि। यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्राग्निरिति अन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रद इति व्यतिरेकव्याप्तिः (त० सं०) । हेतुं साध्ययोर्व्याप्तिरन्वयव्याप्तिः । तदभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः (तत्रैव दी०) । यथा पर्वतो वह्निमान् धूमादित्यत्रान्वयव्यतिरेकव्याप्तिः । एतदनुमानत्रैविध्यं नैयायिकानां मते । अद्वैतवेदान्तिमते नैयायिकोक्तमनुमानत्रैविध्यं नास्ति । अस्मिन्मते केवलम् अन्वयिरूपमेकमेवानुमानम् । यतो हि अद्वैतवेदान्ते सर्वेषां धर्माणां ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वेन अत्यन्ताभावाप्रतियोगिसाधकत्वरूपकेवलान्वयित्वस्यासिद्धेः । यथा – तच्चानुमानम् अन्वयिरूपमेकमेव न तु केवलान्वयि । सर्वस्यापि धर्मस्यास्मन्मते ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वेन अत्यन्ताभावाप्रतियोगिसाधकत्वरूपकेवलान्वयित्वस्यासिद्धेः । नाप्यनुमानस्य व्यतिरेकिरूपत्वम् । साध्याभावे साधनाभावनिरूपित व्याप्तिज्ञानस्य साधनेन साध्यानुमितावनुपयोगात् । कथं तर्हि धूमादावन्वयव्याप्तिमविदुषोऽपि व्यतिरेकव्याप्तिज्ञानादनुमितिः । अर्थापत्तिप्रमाणादिति वक्ष्यामः । अत एवानुमानस्य नान्वयव्यतिरेकिरूपत्वं व्यतिरेकव्याप्तिज्ञानस्यानुमित्यहेतुत्वात् (वे० प० २ प०) । अस्मिन् मतेऽनुमाने त्रय एवावयवाः । यथा - न्यायो नामावयवसमुदायः । अवयवाश्च त्रय एव प्रसिद्धा:- प्रतिज्ञाहेतूदाहरणरूपाः । उदाहरणोपनयनिगमनरूपा वा । न तु पञ्चावयवरूपाः । अवयवत्रयेणैव व्याप्तिपक्षधर्मतयोरुपदर्शनसम्भवेनाधिकावयवद्वयस्य व्यर्थत्वात् (वे० प० २ १०) । एवमेव मतं धर्ममीमांसकानामपि यथोक्तं शास्त्रदीपिकायाम् । केशवः, केशव कश्च ईशश्चेति केशौ ब्रह्ममहेश्वरौ तौ अवति प्रत्यवगच्छतीति केशवः निरतिशयैश्वर्यवान् परमात्मा, यस्य ब्रह्मरुद्रावपि अनुकम्प्यौ । यथा - केशौ ब्रह्मरुद्रौ सर्वेशावप्यनुकम्प्यतया वात्यवगच्छतीति व्युत्पत्तिमाश्रित्य निरतशयैश्वर्यप्रतिपादकेन केशवपदेन सूचितम् (गी० १०/१४ म० सू०) । यथा च - केशव ब्रह्मादीन् प्रत्यन्तर्यामितया गच्छतीति सः तस्य सम्बोधनं हे केशवेति (तत्रैव भाष्यो०)। केशोड्रकः, केशोड्रक करसम्मृदितलोचनरश्मिप्रसरे सति केशपिण्डज्ञानं जायते । इदमेव केशोड्रकभ्रम इति व्यवहियते । कैवल्यम्, कैवल्य १. एकत्वम्, मोक्षः अद्वितीयब्रह्मभावापत्तिश्च । यथा- कैवल्यं वस्तुतोऽद्वितीयत्वमसङ्गत्वं च (सं० शा० ३/१८३ अ० टी०) । यथा चमिथ्याज्ञानावष्टम्भं हि कार्यान्तरं देहपात उपभोगान्तरमारभते, तच्च मिथ्याज्ञानं सम्यग् ज्ञानेन दग्धम्, इत्यतः साध्वेतदारब्धकार्यक्षये विदुषः कैवल्यमवश्यं भवतीति । (ब्र० सू० ४/१/१९शा० भा०) । इत्यद्वैतवेदान्तिनः । २. (क) आत्यन्तिकदुःखत्रयविनाशः । (ख) प्रकृतिपुरुषसंयोगविरहः । (ग) पुरुषस्य निर्लेपस्य कैवल्येनावस्थानं कैवल्यम् (स०र० सं० पा०) । (घ) पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिः (पा० यो० ४।३४) । अत्र प्रतिप्रसवः उत्पादराहित्यं निष्क्रियत्वं वा । इति साङ्ख्ययोगविदः । कोशः, कोश पञ्च कोशाः भवन्ति - आनन्दमयो विज्ञानमयो मनोमयः प्राणमयोऽन्नमयश्च । यथा - इदमज्ञानं समष्टिव्यष्ट्यभिप्रायेणैकमनेकमिति च व्यवह्रियते । .... ईश्वरस्येयं समष्टिरखिलकारणत्वात् कारणशरीरम्, आनन्दप्रचुरत्वात्कोशवदाच्छादकत्वाच्चानन्दमयकोशः । ... इयं बुद्धिर्ज्ञानेन्द्रियैः सहिता विज्ञानमयकोशो भवति ।.... मनस्तु ज्ञानेन्द्रियैः सहितं सन् मनोमयकोशो भवति । इदं प्राणादिपञ्चकं कर्मेन्द्रियैः सहितं सत् प्राणमयकोशो भवति । अस्य क्रियात्मकत्वेन रजोंऽशकार्यत्वम् । एतेषु कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान् कर्तृरूपः । मनोमयः क्रियाशक्तिमान् कार्यरूपः । अस्य (विराट्चैतन्यस्य) एषा समष्टिः स्थूलशरीरमन्नविकारत्वादन्नमयकोशः । अस्य (विश्वस्य) अप्येषा व्यष्टिः स्थूलशरीरमन्नविकारत्वादेव हेतोरन्नमयकोशो जाग्रदिति चोच्यते (वे० सा० अध्या० प्र०) । यथा च - "इदं त्विह वक्तव्यं स वा एष पुरुषोऽन्नमयः । तस्माद् वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमय तस्मादन्योऽन्तर आत्मा प्राणमय तस्मादन्योऽन्तर मनोमयः तस्मादन्योऽन्तर आत्मा विज्ञानमयः (तै० २।१-४) । इति च विकारार्थे मयप्रवाहे सत्यानन्द एवाकस्मादर्द्धजरतीन्यायेन कथमिव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयत इति । मान्त्रवार्णिकब्रह्माधिकारादिति चेत् न अन्नमयादीनामपि ब्रह्मप्रसङ्गः । अत्राह - युक्तमन्नमयादीनामपि ब्रह्मत्वं तस्मात्तस्मादान्तरस्यान्तरस्यान्यस्यात्मन उच्यमानत्वात् । आनन्दमयात्तु न कश्चिदन्य आन्तर आत्मोच्यते । तेनानन्दमयस्य ब्रह्मत्वम् । अन्यच्च प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गादिति" (ब्र० सू० १/१/१९ शा० भा०) । क्रतुः, क्रतु १. हिरण्यगर्भोपासना, उपासनायाः फलं हिरण्यागर्भं पदम् (का० उ० २/११ शा० भा०) । २. सङ्कल्प: । ३. ध्यानम् । यथाक्रतुः सङ्कल्पो ध्यानमित्यर्थः (ब्र० सू० १/१/११, १ ।२।१ शा० भा०) । क्रतुः सङ्कल्पो देवताध्यानरूपः (गी० ९/१६ नी० क०) । ४. अध्वरः यज्ञः । यथा क्रतू अध्वरसङ्कल्पाविति निघण्टुः । ५. यादृशं सङ्कल्पं कुर्वन् यादृशं च ध्यानं कुर्वन् पुरुषः प्रैति तादृश एव जायते । यथा - अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुर्भवति (ब्र० सू० १/२/१ शा० भा०) । क्रतू अध्वरसङ्कल्पाविति निघण्टुः (तत्रैव क० त० प०) । तत्प्रधानस्तन्मय इति । मयड् विकारप्राचुर्यप्राधान्यादिष्विति केचन वैयाकरणाः पठन्ति । मयडर्थो मनोवच्छिन्नतया तद्विकारो जीव इति स एव सर्वनामार्थो भवेदिति भावः । .... तत्क्रतुन्यायः सर्वगुणविषयः क्रतूपासकप्राप्त्यर्हगुणविषयः (तत्रैव क० त० प०) । ६. श्रौतो यागः । यथा - अहं श्रौतकर्मभेदोऽहमेवाहं यज्ञः स्मार्तः (गी० ९/१६ शा० भा०) । क्रतुयज्ञशब्दयोरपौनरुक्त्यं दर्शयन् व्याचष्टे श्रौत इति । क्रियाकारकफलज्ञानं भगवदतिरिक्तं नास्तीति समुदायार्थ : (तत्रैव आ० गि०) । अहं क्रतुः श्रौतकर्मभेदोऽहमेव (तत्रैव भाष्यो०)। क्रममुक्तिः, क्रममुक्ति कार्यब्रह्मेन्द्रादयः स्वस्वपदमध्यासीनास्तत्रैवोत्पन्नज्ञानाः हिरण्यगर्भेण सह क्रमशः परं पदं लभन्ते । इयमेव मुक्तिः क्रममुक्तिः । अपरे केचन ज्ञानोदये सति सद्यः स्वस्वरूपानगतिं लभन्ते मुक्ताः भवन्ति । इयमेव सद्योमुक्तिः । यथा कार्यब्रह्मलोकप्रलयप्रत्युपस्थापने सति तत्रैवोत्पन्नसम्यग्दर्शनाः सन्तस्तदक्षेण हिरण्यगर्भेण सहातः परं विष्णोः परमं पदं प्रतिपद्यन्त इति । इत्थं क्रममुक्तिरनावृत्त्यादि श्रुत्यभिधानेभ्योऽभ्युपगन्तव्या । नाञ्जसैव गतिपूर्विका परप्राप्तिः सम्भवतीत्युपपादितम् (ब्र० सू० ४।३।१० शा० भा०) । क्रिया, क्रिया १. करोतीति क्रिया व्यापारो भावनेत्यादि । ब्रह्म च न क्रियासाध्यं केवलं ज्ञानसाध्यम् । यथा- किं पुनर्ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते, यावता आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् (जै० सू० १ । २ । १ ) । इति क्रियापरत्वं शास्त्रस्य प्रदर्शितम् । अतो वेदान्तवाक्यानामानर्थक्यम्, अक्रियार्थत्वात् । कर्तृदेवताप्रकाशनार्थत्वेन वा क्रियाविधिशेषत्वम् उपासनादिक्रियान्तरविधानार्थत्वं वा । नहि परिनिष्ठितवस्तुप्रतिपादनं सम्भवति (ब्र० सू० १ ।१।४ शा० भा०) ।२. भगवतः श्रीकृष्णस्य अष्टगोपीषु वा अष्टमहिषीषु वा अष्टशक्तिषु एका क्रिया - विमला उत्कर्षिणी ज्ञाना क्रिया योगा प्रह्ह्वी सत्या ईशाना चेति । आभिः सेवितया श्रीराधया सह श्रीकृष्णो नित्यलीलाधाम्नि सदा निमग्नस्तिष्ठति (पद्मपुराणे २५६।१७–४७)। क्लेशः, क्लेश सांसारिकविविधदुःखोपहारहेतुत्वेन पुरुषं क्लिश्नन्तीति क्लेशाः ( स० द० सं० पा०) । क्लेशाः पञ्चविधाः - अविद्यास्मितारागद्वेषाभिनिवेशा: (पा० यो० सू० २।३) । क्षण:, क्षण सूक्ष्मतमः कालखण्डः । निमेषक्रियावच्छिन्नकालस्य चतुर्थो भागः क्षणः । अधिकं तु न्यायग्रन्थेष्ववलोकनीयम् । क्षणिकत्वम्, क्षणिकत्व १ . (क) तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम् । प्रथमक्षणे उत्पद्यते, द्वितीयक्षणे तिष्ठति तृतीयक्षणे नश्यतीत्यभिप्रायः । (ख) योग्यविभुविशेषगुणानां ज्ञानादीनामपेक्षाबुद्धिव्यतिरिक्तानां क्षणिकत्वम् । क्षमा, क्षमा क्षमाकृष्टस्य ताडितस्य वाविकृतचित्तता (गी० १०४ शा० भा०) । क्षमा आक्रुष्टस्य ताडितस्य वा निर्विकारचित्तता (तत्रैव म० सू०) । क्षरः, क्षर विनाशी । सर्वं भूतजातं क्षरणशीलम् । जीवोऽपि ब्रह्मप्रतिबिम्बभूतः उपाधिनाशमनुनाशशीलः क्षरः । यथा क्षरश्च क्षरतीति क्षरो विनाशी (गी० १५/१६ शा० भा० ) । क्षरो विनाशी स च सर्वाणि भूतानि प्राणवन्ति कर्मक्षये सुप्तिलयकैवल्यादावुपाधिनाशमनुविनाशशीलो जीवो ब्रह्मप्रतिबिम्बभूतो जलार्कोपमः (तत्रैव नी० क०) । क्षरतीति क्षरो विनाशी कार्यराशिरेकः पुरुषः (तत्रैव म० सू०) । क्षरा सर्वाणि भूतानि सर्वं विकारजातं क्षरतीति क्षरो विनाशी कूटस्थः कूटो राशिरिव स्थितः (तत्रैव भाष्यो०) । अत्र क्षरः पुरुषो नाम सर्वाणि भूतानि ब्रह्मादिस्थावरान्तानि शरीराणि अविवेकिलोकस्य शरीरेष्वेव पुरुषत्वप्रसिद्धेः (तत्रैव श्रीधरी) । यथा च अधिभूतं प्राणिजातमधिकृत्य भवतीति कोऽसौ क्षरः क्षरतीति क्षरो विनाशी भावो यत् किञ्चिज्ञ्जनिमद् वस्त्वित्यर्थः (गी० ८।४ शा० भा०) । क्षरो भावो जनिमद् वस्तु कर्मफलभूतं तत्साधनभूतं च तदधिभूतमित्युच्यते (तत्रैव नी० क०) । क्षरतीति क्षरो विनाशी भावो यत् किञ्चिज्जनिमद् वस्तुभूतं प्राणिजातमधिकृत्य भवतीत्यधिभूतमुच्यते (म० सू०) । क्षरो विनश्वरो भावो देहादिपदार्थो भूतं प्राणिमात्रमधिकृत्य भवत्यधिभूतमुच्यते (तत्रैव श्रीधरी) । क्षेत्रम्, क्षेत्रम् क्षरणशीलं विनाशशीलं शरीरम् । अथवा अविद्यया आत्मानं क्षिणोति विद्यया च त्रायतेऽतः शरीरं क्षेत्रम् । यथा - क्षतत्राणात् क्षयात् क्षरणात् क्षेत्रवद् वास्मिन् कर्मफलनिवृत्तेः क्षेत्रमिति । इति शब्द एवं शब्दपदार्थकः (गी० १३।१ शा० भा०) । यथा च - क्षयो नाशः क्षरणमपक्षयः यथा क्षेत्रे बीजमुप्तं फलति तवदित्याहक्षेत्रवद्वेति । क्षेत्रपदादुपस्थितमिदं पदं क्षेत्रशब्दविषयमन्यथा वैयर्थ्यादित्याह इति शब्द इति । क्षेत्रमित्येवमनेन क्षेत्रशब्देनेत्यर्थः (तत्रैव आ० गि०) । इदमनात्मत्वेन भास्यं घटाद्यहङ्कारान्तं शरीरं विशरणधर्मिं । हे कौन्तेय क्षेत्रं क्षिणोत्यात्मानमविद्यया त्रायते विद्ययेति क्षेत्रं कर्मवीजप्ररोहस्थानं क्षेत्रशब्देनोच्यते (तत्रैव नी० क०) । इदमिन्द्रियान्तः करणसहितं भोगायतनं शरीरं हे कौन्तेय क्षेत्रमित्यभिधीयते । सस्यस्येवास्मिन्नसकृत्कर्मणः फलस्य निवृत्तेः (तत्रैव म० सू० ) । इदं शरीरं कौन्तेय क्षतात् त्राणात् क्षेत्रम् । क्षिणोत्यात्मानमविद्यया त्राति तं विद्यया । क्षीयते नश्यति क्षरति अपक्षीयतेऽतोऽपि क्षेत्रमित्यभिधीयते । क्षेत्रवदस्मिन् कर्मफलं निष्पद्यते इति वा । यथा कुन्ती त्वत्प्रादुर्भावस्थानत्वात् क्षेत्रं तथाऽत्मनोऽभिव्यक्तिस्थानत्वादपि इदं क्षेत्रमिति सम्बोधनाश्रयः । अनेन शरीरस्य आत्मनोऽन्यत्वं बोधितम् । क्षेत्रशब्दादुपस्थितमिति पदं क्षेत्रशब्दविषयमन्यथा वैयर्थ्यात् क्षेत्रमित्येवमनेन क्षेत्रशब्देनाभिधीयते कथ्यत इत्यर्थः (तत्रैव भाष्यो०) । इदं भोगायतनं शरीरं क्षेत्रमित्यभिधीयते संसारस्य प्ररोहभूमित्वात् (तत्रैव श्रीधरी) । क्षेत्रज्ञः, क्षेत्रज्ञ जीवः परमात्मा च । यथा - क्षेत्रज्ञः परमात्मेति नाममात्रभेदात् ( ब्र० सू० १/४/२२ शा० भा० भाम० चाधिकम् ) । यथा च सर्वसंसारधर्मातीतो ब्रह्मस्वभावश्चैतन्यमात्रस्वरूपः । अनश्नन्नन्योऽभिचाकशीत्यनश्नन्नन्योऽभिपश्यति ज्ञः इति वचनात् तत्त्वमसि क्षेत्रज्ञं चापि मां विद्धि इत्यादिश्रुतिस्मृतिभ्यश्च (ब्र० सू० १ । २ । १२ शा० भा०) । यथा च - एतच्छरीरं क्षेत्रं यो वेत्ति विजानाति आपादतलमस्तकं ज्ञानेन विषयीकरोति स्वाभाविकेनौपदेशिकेन वा वेदनेन विषयीकरोति विभागस्तं वेदितारं प्राहुः कथयन्ति क्षेत्रज्ञ इति (गी० १३।१ शा० भा० ) । यथा च - एतद् यो वेत्ति भासयति तं चिदात्मानं क्षेत्रज्ञ इत्यन्वर्थसंज्ञं प्राहुः । के प्राहुः तद्विदः क्षेत्रक्षेत्रज्ञविदः (तत्रैव नी० क०) । यथा च - एतद्द्यो वेत्ति अहं ममेत्यभिमन्यते तं क्षेत्रज्ञमिति प्राहुः कृषीवलवत्तत्फलभोक्तृत्वात् (तत्रैव म० सू०) । एतच्छरीरं क्षेत्रं यो वेत्ति आपादतलमस्तकं मनुष्योऽहं ममेदं शरीरमिति स्वाभाविकेन शरीरं नात्मा दृश्यत्वात् घटवदित्यौपदेशिकेन स्वातिरिक्तेन वा ज्ञानेन जानाति विषयीकरोति तं तद्विदस्तौ क्षेत्रक्षेत्रज्ञौ दृश्यत्वेन द्रष्टृत्वेन विदन्तीति तथा तं क्षेत्रज्ञ इति प्राहुः क्षेत्रज्ञ इत्येवम् (भा० उ०) (तत्रैव भा० उ०) । यथा च - एतद् यो वेत्ति अहं ममेति मन्यन्ते तं क्षेत्रज्ञ इति प्राहुः । कृषीवलवत् तत्फलमोक्तृत्वात् (तत्रैव श्रीधरी) । क्षेमः, क्षेम प्राप्तस्य रक्षणम् । यथा - अनुपात्तोपादानं योग: । उपात्तस्य रक्षणं क्षेमः (गी० २।४५ शा० भा०) । यथा च - प्राप्तरक्षणं क्षेमः (तत्रैव नी० क०) । खम्, खम् १. ब्रह्म । यथा- उच्यते प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म इत्येतदग्नीनां वचनं श्रुत्वोपकोशल उवाच तत्रेदं प्रतिवचनम् । यद्वा कं तदेवं खं यदेव खं तदेव कम् (छा० उ० ४/१०/५) । यथा च कुतरेतद् विशेषितौ तु कं खं शब्दौ सुखात्मकं ब्रह्म गमयतः (ब्र० सू० १ /२/१५ शा० भा०) । अतो विनिगमकवाक्यमुपक्रमानुरोधात् प्राणं हिरण्यगर्भाख्यं कार्यं ब्रह्म तदाकाशं परब्रह्मरूपं सुखविशिष्टाकाशं चोचुरित्येदर्थकमिति न विरोध इत्यपि द्रष्टव्यम् । (तत्रैव क० त०) यथा च - तन्माभूदित्युभयोः कं खं शब्दयोर्ब्रह्म शब्दशिरस्त्वं कं ब्रह्म खं ब्रह्म इति । ... तदेवं वाक्योपक्रमे सुखविशिष्टं ब्रह्मोपदिष्टम् (ब्र० सू० १ /२/१५ शा० भा०) । यथा च - एवं खं पदस्यापि ब्रह्मपदं शिरो ययोः कं खं पदयोस्ते ब्रह्मशिरसी तयोर्भावो ब्रह्मशिरस्त्वम् (तत्रैव भाम० ) । यथा च - खं ब्रह्म (बृ० आ० उ० ५/१/१) । २. आकाशः । यथा - खं पुराणं चिरन्तनं खं परमात्माकाशमित्यर्थः (तत्रैव शा० भा० ) । यथा च - सैषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिता (तै० उ० ३।६) । ॐ कं ब्रह्म खं ब्रह्म (छा० ४।१०।५) । खं पुराणम् (बृ० आ० उ० ५1१1१) । इति चैवमादौ वाक्योपक्रमेऽपि वर्तमानस्याकाशशब्दस्य वाक्यशेषवशाद् युक्ता ब्रह्मविषयावधारणा । .. तस्मादाकाशशब्दो ब्रह्मेति सिद्धम् (ब्र० सू० १ । १ । २३ शा० भा० ) । ३. इन्द्रियम् । यथा पराञ्चि परागच्छन्तीति खानि स्वोपलक्षितानि श्रोत्रादीनि इन्द्रियाणि खानि इत्यु (का० उ० ३ शा० भा० ) । ख्यातिः, ख्याति ख्याप्रकथने धातोः निष्पन्नः ख्यातिशब्दः प्रकथनार्थः तथा प्रसिद्धार्थकः । किन्तु दर्शनग्रन्थेषु ख्यातिशब्दार्थो भ्रमो विभ्रमो वा । यथा शुक्तौ इदं रजतमिति भ्रमः । तत्र प्रतिदर्शनं विभ्रमप्रकाराः भिन्नाः भिन्नाः । तदर्थमाचार्यमण्डनमिश्रेण विभ्रमविवेकनामको ग्रन्थो व्यरचि । तस्यादिमोऽयं श्लोकःआत्मख्यातिरसत्ख्यारख्यातिः ख्यातिरन्यथा । परीक्षकाणां विभ्रान्तौ विवादात्सा विविच्यते (वि० वि० १) । श्रीमद्भागवतस्य योगानामात्मसंरोधः (११।१६।२७) इति श्लोकस्य टीकायां श्रीबंशीधरस्वामिना ख्यातिपञ्चकानां निर्देशः कृतःआत्मख्यातिरसत्ख्यातिरख्यातिख्यातिरन्यथा । तथानिर्वचनीयख्यातिरित्येतत् ख्यातिपञ्चकम् । तदा मुख्यतया पञ्च ख्यातयः परिगणिताः । किन्त्ववान्तरभेदेन चतुर्दश ख्यातयो भवन्ति । १. आत्मख्यातिः विज्ञानवादिबौद्धानां सौत्रान्तिकबौद्धानां वैभाषिकबौद्धानां च । अत्र आत्मशब्दो विज्ञानपरः एतेषु त्रिष्वपि मतेषु आरोप्यांशे एकरूपता अधिष्ठानांशे च मतभेदः । यथा - सौत्रान्तिकनये तावद् बाह्यमस्ति सत् । तत्र ज्ञानाकारस्यारोपः । विज्ञानवादिनां यद्यपि न बाह्यमस्ति वस्तु सत् । तथाप्यनाद्यविद्यावासनारोपितमलीकं बाह्यम् । तत्र ज्ञानाकारस्यारोपः (ब्र० सू० अध्यासभाष्ये भाम०) । यथा च–बाह्यास्तित्ववादिनोः सौत्रान्तिकवैभाषिकयोः सत् शुक्तिकाशकलादिकमधिष्ठानम् । तन्नास्तित्ववादिनो योगाचारस्य तु अविद्याकल्पितं तदधिष्ठानम् (तत्रैव परि०) । २. असत्ख्यातिः । इदं मतं माध्यमिकशून्यवादिनाम् । अस्मिन्मते सर्वमसदिति कृत्वा असत एव ख्यातिः । ३. अख्यातिः, विवेकाख्यातिः विवेकाग्रहश्च । इदं मतं गुरुप्राभाकरमीमांसकानाम् । अत्र मते सर्वं ज्ञानं यथार्थमिति मत्वा भ्रमो नास्त्येव शुक्तौ रजतमिति स्थले प्रत्यक्षात्मकं स्मरणात्मकं ज्ञानद्वयं मन्यते । अतः अख्यातिः । ४. अन्यथाख्यातिः । इदं मतं नैयायिकवैशेषिकाणाम् । अन्यगुणानामन्यत्र प्रतीतिः अन्यथाप्रतीतिरित्यर्थः । ५. अनिर्वचनीयख्यातिः । इदं मतं श्रीशाङ्करमतानुयायिनाम् । भ्रमस्थले सद्रूपेण असद्रूपेण सदसद्रूपेण सदसदुभयाभावरूपेण वानिर्वक्तुमशक्यत्वाद् अनिर्वचनीयख्यातिरुच्यते । ६. यथार्थख्यातिः । इदं मतं श्रीरामानुजाचार्यानुयायिनाम् । अत्र मते पञ्चीकरणप्रक्रियया सर्वत्र सर्वभूतानां स्थित्या शुक्तौ रजतं यथार्थमेव ख्यायते । ७. सदसदख्यातिः । इदं सांख्ययोगदर्शनस्य । श्रीविज्ञानभिक्षुणा सदसत्ख्यातिर्बाधाबाधात् इति सांख्यसूत्रे ५/५६ । सूत्रे एवमर्थः कृतः - स्वरूपेण सतः संसर्गतः अवस्थारूपेण अध्यस्तरूपेण वा असतो वस्तुनः प्रतीतिः सदसत्ख्यातिः । व्याकरणदर्शनेऽपीयमेव ख्यातिरिति श्रीनागेशभट्टेनोदीरितम् । ८. अपूर्णख्यातिरूपा अख्यातिः । इदं प्रत्यभिज्ञादर्शनस्य । प्राभाकराभिमतायाः अख्यातेरेवैकं रूपम् । ९. अभिनवान्यथाख्यातिः । इदं श्रीमाध्वमतानुयायिनाम् । इत्थं व्याख्यायते यत् सत्यां शुक्तौ असतो रजतस्य भानम् इति । न्यायवैविशेषिकात् कश्चन भेदोऽतोऽभिनवान्यथाख्यातिरुच्यते । १०. सत्ख्यातिः । इदं श्रीमद्भागवतटीकाकर्तुः श्रीबंशीधरस्वामिनः । सदेव सौम्येदमग्र आसीद् इतिश्रुत्यनुसारं सर्वं सर्वत्र सदेव भासते । ११. प्रसिद्धख्यातिः । इदं चार्वाकप्रभृतीनाम् । न्यायभूषणग्रन्थे विवेचितेयं ख्यातिः । १२. अलौकिकार्थख्यातिः। श्रीमदुम्बेकमट्टेन श्लोकवार्त्तिके विवेचितेयं ख्यातिः । १३. स्मृतिप्रभोषख्यातिः । इयमपि श्रीमदुम्बेकभट्टेन तत्रैव विवेचिता । १४. निर्विषयख्यातिः । श्रीबेङ्कटदेशिकेन न्यायपरिशुद्धौ विवेचितेयं ख्यातिः । एतासां चतुर्दशख्यातीनां स्वरूपं परिशीलनं च मदीये चतुर्दशख्यातिविवेकग्रन्थे सविशदं द्रष्टव्यम् । पूर्वोक्तैः प्रसिद्धैराचार्यैरेतासां ख्यातीनां विषये स्वस्वसिद्धान्तानुसारं खण्डनं मण्डनं च कृतमस्ति । स्वामिश्रीशङ्करचैतन्येन दर्शनसर्वस्वग्रन्थे विज्ञानवादस्य शून्यवादस्य काश्मीरकसंवित्सिद्धान्तस्य च विमर्शनपूर्वकमनिर्वचनीयवादस्य महत्त्वं सुसंस्थापितम् । गतव्यथः, गतव्यथ क्षमाशीलत्वात् उत्पन्नज्ञानाद्वा दुःखावसरे प्राप्तेऽपि व्यथारहितः पीडाशून्यः । यथा - गतव्यथो गतभयः (गी० २।१६ शा० भा०) अत एव गता व्यथा चेतः पीडा यस्य स गतव्यथः (तत्रैव नी० क०) । गतव्यथः परैस्ताड्यमानस्यापि गता नोत्पन्ना व्यथा पीडा यस्य सः । उत्पन्नायामपि व्यथायामनपकर्तृत्वं क्षमित्वम् । व्यथाकारणेषु सत्स्वप्यनुत्पन्नव्यथत्वं गतव्यथत्वमिति भेदः (तत्रैव म० सू०) । ताडितुमुद्यतादपि व्यथानिमित्तं गतं भयं यस्मात् (तत्रैव भाष्यो०) । गतव्यथः आधिशून्यः (तत्रैव श्रीधरी) । गतिः, गति देवयानम्, पितृयानम्, शुक्ला, कृष्णा, उत्तरायणं, कृष्णायनं देवपथ: ब्रह्मपथ इत्यादि । देवयानेन पथा, शुक्लया गत्या, तथोत्तरायणे शरीरपातेन जीवा अनावृत्तिं लभन्ते । यथा - ब्रह्मविदो या गतिर्देवयानाख्या प्रसिद्धा श्रुतौ - अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्त एतद्वै प्राणानामायतनमेतदमृतमयमेतत्परायणमेतस्मान्न पुनरावर्तते (प्र० १ । १ ) इति । स्मृतावपि - अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः (गी० ८।२४) । .... इत्युपक्रम्य आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एतान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते (छा० ४/१५/५) । इति तदिह ब्रह्मविद्विषयया प्रसिद्धया गत्याक्षिस्थानस्य ब्रह्मत्वं निश्चीयते (ब्र० सू० १ । २।१६ शा० भा० ) । यथा च आचार्येण ये सुखं ब्रह्माक्षिस्थानसंयवामं वामनीभामिनीत्येवं गुणकं प्राणसहितमुपासते ते सर्वेऽपहतपाप्मानोऽन्यत्कर्म कुर्वन्तु मा वाकार्षुः अचिषमर्चिरभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्ते । अर्चिषोऽहरहर्देवताम् अह्नः आपूर्यमाणपक्षं शुक्लपक्षदेवतां ततः षण्मासान् येषु मासेषूत्तरां दिशमेति सविता ते षण्मासा उत्तरायणं तद्देवतां प्रतिपद्यन्ते तेभ्यो मासेभ्यः संवत्सरदेवतां तत आदित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्र स्थितानेतान् पुरुषः कश्चिद् ब्रह्मलोकादवतीर्यामानवोऽमानव्यां सृष्टौ भवः ब्रह्मलोकभव इति यावत् । स तादृशः पुरुष एतान् सत्यलोकस्थितं कार्यं ब्रह्म गमयति (ब्र० सू० १/२/११, १५, १६ शा० भा० ) । यथा च अथ यः एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गाः यदिदं दन्दशुकम् (बृ० उ० ६।२।१६) । इति च मार्गद्वयभ्रष्टानां कष्टामधोगतिं गमयन्ती श्रुतिर्देवयानपितृयाणयोरेवैनान् अन्तर्भावयति । स्मृतिरपि- शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः (गी० ८।२६) (ब्र० सू० ३।३।३१ शा० भा०) । गन्धर्वनगरम्, गन्धर्वनगर नीररहिते साभ्र आकाशे सायं किञ्चित्सौरालोके प्रासादादिमण्डितं नगरमिव दृश्यं दृष्टिपथमायाति तदेव गन्धर्वनगरमित्युच्यते । मृगमरीचिकावद् इदं भ्रमः । यथा - एतन्नाम कल्पितनगरम्, यथा च प्रसारितपण्यापणं गृहप्रासादस्त्रीपुंजनपदव्यवहाराकीर्णमिव गन्धर्वनगरं दृश्यमानमेव सदकस्मादभावतां गतं दृष्टम् (मा० उ० गौ० पा० का० २।३१ शा० भा०) । यथा च - द्विचन्द्रालातचक्रगन्धर्वनगरादिविभ्रमाः समुद्दिष्टप्रयोजना भवन्ति (ब्र० सू० २।१।३३ भा० ) । यथा - स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा । तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः (मा० उ० गौ० पा० का० २।३१) । यथादर्श तथात्मनि यथा स्वप्ने तथा पितृलोके । यथाप्सु परीदृश्यते तथा गन्धर्वलोके छायातपयोरिव (क० उ० २।६।५) । प्रसादमालाविततां स्तम्भैः काञ्चनसन्निभैः। शातकुम्भनिभैर्जालैर्गन्धर्वनगरोपमाम् (वा०रा०स०का ० २।५१) । असत्तु मृगतृष्णावद् गन्धर्वनगरं यथा (पा० म० भा० ४।१।३)। यस्त्वकारणको भाति न स्वभावो विजृम्भते । सर्वरूपेण सङ्कल्पगन्धर्वनगरादिवत् (यो० वा० ६।५४।१६) । गन्धर्वपुरी, गन्धर्वपुरी गन्धर्वनगरशब्दस्येवार्थः । अस्या अधिष्ठानं सौरालोकादि । यथातत्र सौरालोकादिकं सदधिष्ठानमिति भावः (ब्र० सू० १/१/१ क० त० प० ) । गुणः, गुण १. देहेन्द्रियान्तःकरणमहङ्कारास्पदम् । यथा- मधुसूदनस्तु गुणाः देहेन्द्रियान्तःकरणान्यहङ्कारास्पदानि । कर्माणि च तेषां व्यापारभूतानि ममकारास्पदानि । गुणकर्मेति द्वन्द्वैकवद्भावः । विभज्यते सर्वेषां जडानां भासकत्वेन पृथग्भवतीति विभागः स्वप्रकाश ज्ञानरूपोऽसङ्ग आत्मा । गुणकर्म च विभागश्चेति द्वन्द्वः । तयोर्जडाजडयोस्तत्त्वं यो वेत्ति स गुणाः गुणेषु वर्तन्त इति मत्वा गुणविभागे कर्मविभागे च न सज्जत इति योजना (गी० २।२८ नी० क० ) । यथा च गुणाः कारणात्मका गुणेषु विषयात्मकेषु वर्तन्ते नात्मेति मत्वा न सज्जते सक्ति न करोति (तत्रैव शा०भा०) । यथा च गुणैरहङ्कारादिभिः (गी० ३।२९ नी० क० ) । २. सत्त्वं रजस्तम इत्येवं नामानो गुणा इति पारिभाषिकः शब्दो न रूपादिवद् द्रव्याश्रिताः (गी० १४/५ शा० भा०) । यथा च सत्त्वंरजस्तम इत्येवं नामानो गुणा नित्यपरतन्त्राः पुरुषं प्रति सर्वेषामचेतनानां चेतनार्थत्वात् । न तु वैशेषिकानां रूपादिवद् द्रव्याश्रिताः । न च गुणगुणिनोरन्यत्वमत्र विवक्षितम् । गुणत्रयात्मकत्वाप्रकृतेः (तत्रैव म० सू०) । ३. सत्त्वरजस्तमांसि इति साङ्ख्यविदः । ४. रूपरसगन्धादयश्चतुर्विंशतिर्गुणाः इति नैयायिकाः। ५. अदेगुणः तथा वस्तुधर्मः इति वैयाकरणा वोतोगुणवचनादिति पाणिनिसूत्रव्याख्याने द्रष्टव्यम् । ६. शमदमादयो गुणा इति योगशास्त्रविदः । ७. विग्रहादयः षड्गुणाः नीतिशासनज्ञाः ।.८. शौर्यचातुर्द्यादयो गुणाः इति व्यवहारविदः । ९. माधुर्यौज प्रसादा: श्लेषादयश्चेति आलङ्कारिकाः । १०. ज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि आत्मनो गुण इति वैष्णवशैववेदान्तिनः । यथा - ज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि गुणः आत्मन एवैते भगवन्तो वासुदेवा इत्यादिदर्शनात् । वेदप्रतिषेधश्च भवति । चतुर्षु वेदेषु परं श्रेयोऽलब्ध्वा शाण्डिल्य इदं शास्त्रमधिगतवानित्यादिवेदनिन्दादर्शनात् । तस्मादसङ्गतैषा कल्पनेति सिद्धम् (ब्र० सू० २/२/४५ शा० भा०) । गुरुः, गुरु ज्ञानदाता । गुशब्दस्त्वन्धकारः स्याद् रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वाद्गुरुशब्दः स उच्यते । यथा- अयमधिकारी जननमरणादिसंसारानलतप्तो दीप्तशिरा जलराशिमिवोपहारपाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुमुपसृत्य तमनुसरति । समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठमित्यादिश्रुतेः (वे० सा० अ० प्र०) । गुहा, गुहा १ . आकाशः । यथा - गुहायां व्योम्नीति वा समानाधिकरण्यादव्याकृताकाशमेव गुहा (तै० उ० ब्र० व० १।१ शा० भा०) । २. बुद्धिः । यथा - गुहां गुहायां बुद्धौ प्रविष्टौ (का० उ० ३।१ ) । यथा च - गुहाहितं गुहायां बुद्धौ स्थितं तत्रोपलम्भात् (तत्रैव २ । १२ शा० भा०) । यथा च - ऋतपानेन जीवात्मा निश्चितोऽस्य द्वितीयता । ब्रह्मणैव स्वरूपेण न बुद्ध्या विरूपया । प्रथमं सद्वितीयत्वे ब्रह्मणावगते सति । गुहाश्रयत्वं चरमं व्याख्येयमविरोधतः । गौः सद्वितीयेत्युक्ते सजातीयेनैव गवान्तरेणावगम्यते न तु विजातीयेनाश्वादिना । .... तदेवं ऋतं पिबन्तौ इत्यत्र प्रथममवगते ब्रह्मणि तदनुरोधेन चरमं गुहाश्रयत्वं शालग्रामे हरिरितिवद् व्याख्येयम् । बहुलं गुहाश्रयत्वं श्रुतयः आहुः । तदिदमुक्तम्- तत्तदर्शनादिति । तस्य ब्रह्मणो गुहाश्रयत्वस्य श्रुतिषु दर्शनादिति (ब्र० सू० १/२/११ भा०) । ३. शरीरं हृदयं वा । यथा - यदि शरीरं गुहा यदि वा हृदयमुभयथापि बुद्धिक्षेत्रज्ञौ गुहां प्रविष्टावुपपद्येते (ब्र० सू० १ ।२।१ शा० भा०) । ४. देहः, शरीरम्, प्राणाश्च । यथा- देहादभ्यन्तरः प्राणः प्राणादभ्यन्तरं मनः । ततः कर्ता ततो भोक्ता गुहा सेयं परम्परा (प० द० ३।२ ) । गूढः, गूढ अज्ञानावृतःपरमात्मा । यथा - स सर्वभूतेषु गूढप्रकाशमानचित्स्वभावोऽपि शब्दाद्याकाराभी रागादिगर्भाभिर्बुद्धिवृत्तिभिः सङ्करात् सर्वभूतेषु वर्तमानोऽपि यथावन्न भासत इति गूढ इत्यर्थः (सं० शा० ३/१८३ अ० टी०) । गूढचर्या, गूढचर्या गुप्तवासः । यथा - गूढचर्या स्वगुणाप्रख्यानेन देशेषु वासः (ब्र० सू० २।२।३७ वे० क० त० ) । गेष्ण्यौ, गेष्ण्य ऋक्सामांदिषु लोके च गीयमानः सर्वात्मा । यथा - पृथिव्यग्न्याद्यात्मके चाधिदैवतम् ऋक्सामे वाक्प्राणाद्यात्मके चाध्यात्ममनुकम्प्याह- तस्यर्क् च साम च गेष्ण्यौ इत्यधिदैवतम्, तथाध्यात्ममपि यावमुष्य गेष्णौ तौ गेष्ण्यौ इति । तच्च सर्वात्मन एवोपपद्यते । तद् य इमे वीणायां गायन्त्येवं ते गायन्ति तस्मात्ते घनसमयः । (छा० उ० १।७।६) इति - व लौकिकेष्वपि गायनेष्वस्यैव गीयमानत्वं दर्शयति (ब्र० सू० १/१/२२ शा० भा० ) । गोचरः, गोचर १ . ज्ञानमात्रविषयः । यथा - अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् । आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये (वे० सा० म० श्लो०) । इत्यद्वैतवेदान्तिनः । २. जन्यज्ञानविषयत्वम् । यथा - घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः (भा० प० ५४) । एवं गन्धरूपरसादीनां गोचरत्वम् । इति नैयायिका । ३. ग्रहाणां गतिविशेषस्तथा सूर्यादिग्रहगमननिमित्तशुभाशुभनिरूपणं चेति ज्योतिर्विदः । गौणः, गौण १. गुणवृत्त्या प्रयुक्तः शब्दः । मुख्या शब्दवृत्तिः अमिधा अमुख्या वृत्तिः लक्षणा सा च गौणी । गुणवृत्त्या उपचारवृत्त्येत्यर्थः । गौणश्चेन्नात्मशब्दात् (ब्र० सू० १।१।६) इति सूत्रे यथा - तत्र यदि प्रधानमचेतनं गुणवृत्येक्षितृ कल्प्येत (शा० भा०) ।२. अमुख्य: अप्रधानश्च । यथा गां दोग्धि पयः इत्यत्र गौरप्रधानं कर्म । अत्रोक्तम् – गौणे कर्मणि दुह्यादेः प्रधाने नीहकृष्वहाम् । ३. गौणी वृत्तिः लक्षणा लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता (का० प्र० २ उ०) । यथा - अग्निर्माणवकः इत्यादौ । गौणसंन्यासी, गौणसंन्यासिन् अत्यागी कर्मफलत्यागित्वेऽपि कर्मानुष्ठाता अज्ञः । यथाअनिष्टं नरकतिर्यगादिरूपम्, इष्टं देवतादिरूपम्, मिश्रं मानुषभाव इति । कर्मणः कर्मजातीयस्य फलं त्रिविधं प्रेत्य मरणान्तरमत्यागिनां पूर्वोक्तमुख्यसंन्यासहीनानां भवति । मुख्यसंन्यासिनां तु न क्वचिदपि भवति (गी० १८/१२ नी० क०) । अत्यागिनां कर्मफलत्यागित्वेऽपि कर्मानुष्ठायिनामज्ञानां गौणसंन्यासिनां प्रेत्य विवदिषापर्यन्तं सत्त्वशुद्धेः प्रागेव मृतानां पूर्वकृतस्य कर्मणः फलं शरीरग्रहणं भवति । मायामयं फल्गुतया लयमदर्शनं गच्छतीति निरुक्तेः । कर्मण इति जात्यभिप्रायकमेकवचनमेकस्य त्रिविधफलत्वानुपपत्तेः । तच्च फलं कर्मणस्त्रिविधत्वात् त्रिविधं पापस्यानिष्टं प्रतिकूल वेदनीयं नारकतिर्यगादिलक्षणं पुण्यस्य इष्टमनुकूलवेदनीयं देवादिलक्षणं मिश्रस्य तु पापपुण्ययुगलस्य मिश्रमिष्टानिष्टसंयुक्तं मानुषलक्षणमित्येवं त्रिविधमित्यनुवादो हेयत्वार्थ: (तत्रैव म० सू०) । अनिष्टं नरकतिर्यगादिलक्षणमिष्टं देवादिलक्षणम्, मिश्रमिष्टानिष्टसंयुक्तं मनुष्यलक्षणम्, चैवं विधं त्रिप्रकारं कर्मणो धर्माधर्मलक्षणस्य फलं बाह्यानेककारकव्यापारनिष्पन्नत्वादनेकमविद्याकृतत्वात् । मिथ्याभूतमिन्द्रजालमायोपमं महामोहकरं प्रत्यगात्मोपसर्पीव फल्गुतया लयमदर्शनं गच्छतीति फलशब्दनिर्वचनात् । तदेवं त्रिविधं फलत्यागिनामज्ञानां कर्मिणामपरमार्थसंन्यासिनां प्रेत्य शरीरपातादूदूर्ध्वं भवति । फलाभिसन्धिरहितानां कर्मणां देहपातादूर्ध्वं सञ्चितादिकर्मानुरोधिफलस्यावश्यं भावादिति भावः (तत्रैव भाष्यो०)। अनिष्टं नारकित्वमिष्टं देवत्वं मिश्रं मानुष्यत्वम् एवं त्रिविधं पापस्य पुण्यस्य चोभयमिश्रस्य च कर्मणो यत्फलं प्रसिद्धं तत्सर्वमत्यागिनां सकामानामेव प्रेत्य परत्र भवति । तेषां त्रिविधकर्मसम्भवात् न तु संन्यासिनां क्वचिदपि भवति । संन्यासिशब्देनात्र फलत्यागसाम्यात् प्राकृताः कर्मफलत्यागिनोऽपि गृह्यन्ते (तत्रैव श्रीधरी) । ग्रन्थिः, ग्रन्थि अविद्याजन्यभ्रमादिबोधः । यथा - एवं ग्रन्थयो ग्रन्थिवद्दृढबन्धरूपा अविद्याप्रत्यया इत्यर्थः । अहमिदं शरीरं ममेदं धनं सुखी दुःखी चाहमित्येवमादिलक्षणास्तद्विपरीतब्रह्मात्मप्रत्ययोपजननाद् ब्रह्मैवाहमस्म्यसंसारीति विनष्टेष्वविद्याग्रन्थिषु विनश्यन्ति (का० उ० ६।१५ शा० भा०) । ग्रहः, ग्रह इन्द्रियाणि । यथा - तत्र कर्मप्रयुक्तस्य ग्रहातिग्रहसंज्ञकस्येन्द्रियविषयात्मकस्य बन्धनस्य प्रवृत्तिरिति कर्माश्रयतोक्ता (ब्र० सू० ४।२।६ शा० भा०) । ग्रहा इन्द्रियाणि अतिग्रहास्तद्विषयाः (तत्रैव भा० ) । यथा च - अथ हैनं जारत्कारव आर्तभागः प्रपच्छ याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इति । अष्टौ ग्रहा अष्टावतिग्रहा इति (बृ० उ० ३।२।१ ) । प्राणो ह वै ग्रहः सोऽपानेनातिग्रहेण गृहीतोऽपानेन हि हि गन्धाञ् जिघ्नति (तत्रैव २) । वागू वै ग्रहः स नाम्नातिग्राहेण गृहीतो वाचा हि नामान्यभिवदति (तत्रैव ३) । जिह्वा वै ग्रहः स रसेनातिग्राहेण गृहीतो जिह्वया हि रसान् विजानाति (तत्रैव ४) । एतद्विशदार्थमतिग्रहशब्दोऽपि द्रष्टव्यः । घनः, घन मूर्त्तिः - यथा - स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते । कस्तर्हि जीवघन इति । उच्यते - घनो मूर्त्तिः । जीवलक्षणो वनो जीवधनः । सैन्धवखिल्यवद् यः परमात्मनो जीवरूपः खिल्यभावः परश्च विषयेन्द्रियेभ्यः सोऽत्र जीवघन इति । अपर आह - स सामभिरुन्नीयते ब्रह्मलोकमित्यतीतानन्तरवाक्यनिर्दिष्टो यो ब्रह्मलोकः परश्च लोकान्तरेभ्यः सोऽत्र जीवघन इत्युच्यते जीवानां हि सर्वेषां कारणपरिवृतानां सर्वकरणात्मनि हिरण्यगर्भे ब्रह्मलोकनिवासिनि संघातोपपत्तेर्भवति ब्रह्मलोको जीवघनः । तस्मात्परो यः परमात्मेक्षणकर्मभूतः । स एवाभिध्यानेन कर्मभूत इति गम्यते । परं पुरुषमिति च विशेषणं परमात्मपरिग्रह एवावकल्पते । परो हि पुरुषः परमात्मैव भवति । यस्मात्परं किञ्चिन्नास्ति । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः इति श्रुत्यन्तरात् (ब्र० सू० १ । ३ । १३ शा० भा० ) । चतुष्पात्, चतुष्पात् ब्रह्म । यथा - चतुष्पाद् ब्रह्म षोडशकलं ब्रह्म वामनीत्वादिलक्षणं ब्रह्म त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्रह्मेव जातीयकाः (ब्र० सू० ३।२।२ शा० भा०) । यथा च - आत्मनः चतुष्पादत्वेन विश्वतैजसप्राज्ञतुरीयत्वेन अवस्था अयमात्मा ब्रह्म इति श्रुतिः । अयमिति चतुष्पात्त्वेन प्रविभज्य भज्यमानं प्रत्यगात्मतयाऽभिनयेन निर्दिशतीति (मा० उ० गौ० पा० का० १/२ शा० भा० ) । यथा च - चतुष्पादत्वेन विश्वतैजसप्राज्ञतुरीयत्वेनेत्यर्थः (तत्रैव आ० गि०) । चरणम्, चरण आचार: चारित्र्यं शीलमित्यर्थः लाक्षणिकोऽनुशय इति आचार्यकार्ष्णाजिनिः । यथा - तद् य इह रमणीयचरणा: (छा० उ० ५/१०/७) इति सा खलु चरणाद् योन्यापतिं दर्शयति नानुशयात् । अन्यच्चरणमन्योऽनुशयः । चरणं चारित्र्य माचारः शीलमित्यनर्थान्तरम् । अनुशयस्तु भुक्तफलात् कर्मणोऽतिरिक्तं कर्माभिप्रेतम् । श्रुतिश्च कर्मचरणे भेदेन व्यपदिशति च । तस्माच्चरणादयोन्यापत्तिश्रुतेर्नानुशयसिद्धिरिति चेत् नैष दोषः । यतोऽनुशयोपलक्षणार्थैवेषा चरणश्रुतिरिति कार्ष्णाजिनिराचार्यो मन्यते (ब्र० सू० ३।१।९ शा० भा०) । तदेवं चरणशब्देन आचारवाचिना सर्वोऽनुशय लक्षित इत्युक्तम् (तत्रैव भाम० ) । बादरिस्त्वाचार्यः सुकृतदुष्कृते एव चरणशब्देन प्रत्याय्येते इति मन्यते । चरणमनुष्ठानं कर्मेत्यनर्थान्तरम् (३।१।११ शा० भा० ) । चलाभासः, चलाभास चलमिव भासते । यथा - जात्याभासं चलाभासं वस्त्वाभासं तथैव च (म० उ० गौ० पा० का० ४।४५) जात्याभासो यथा देवदत्तो जायते, चलाभासो यथा देवदत्तो गच्छति, वस्त्वाभासो यथा स एव देवदत्तो गौरो दीर्घः । अत्र वस्तुशब्दो द्रव्यपरो धर्मपरश्च (तत्रैव शा० भा० ) । चिच्छक्तिः, चिच्छक्ति चैतन्यशक्तिः संविच्छक्तिर्वा । यथा- परमेश्वरस्यैका चिद्रूपा शक्तिरपरा च जडात्मिका शक्तिरिति शक्तिद्वयमस्ति । चैतन्यमेव चिच्छक्तिरुच्यते । सा च विमलोत्पत्त्यादिमलरहिता स्वरूपभूता सत्यैव (सं० शा० ३ । २२८ अ० टी०) । चित्, चित् चिति संज्ञाने इति धातोर्निष्पन्नश्चैतन्यम् इत्यर्थः । चिद् ब्रह्म जीवश्च । ब्रह्म सच्चिदानन्दरूपम् । एवमेव जीवोऽपि इति वेदान्तिनः ।२. असाकल्यम् - कच्चित् कथंचिदित्यादि । ३. चयनकर्ता । यथा अग्निचित् । ४ - अव्यक्तशब्दानुकरणम्, यथा हस्तिनश्चित्कारे । चित्तम्, चित्त १. मनः, अन्तःकरणस्यैवैकं रूपम् इत्यद्वैतवेदान्तिनः । महत एवैकं रूपमिति साङ्ख्ययोगविदः । यथा योगश्चित्तवृत्तिनिरोधः (पा० यो० सू० १ । २) । ३. मन एव चित्तमिति नैयायिकाः । ४. चित्तं विकल्पो विज्ञप्तिर्मनो विज्ञानमेव च । आलयस्त्रिभवश्चेष्टा एते चित्तस्य पर्यायाः (ल० सू० १०/४४९) । ४. माया यथा - चेतश्चित्तं क्रतुर्माया इतिचित्तामिधायकतावगमान् माया शब्दस्य (त० प्र० मि० प्र० नय० प्र०) । चित्तकालः, चित्तकाल कल्पनाकालः । यथा मनोरथादयो हि चित्तकालास्तद्वत् सर्वम् । यथा - विकरोत्यपरान् भावानन्तश्चित्ते व्यवस्थितान् । नियताँश्च बहिश्चित्त एवं कल्पयते प्रभुः । चित्तकाला हि येऽन्तस्तु द्वयकालाश्च ये बहिः । कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः (मा० उ० का० २।१३,१४) । चित्तचैत्ताः, चित्तचैत्त चित्तेन विज्ञानेन उद्भूताः पदार्थाः इति बौद्धदार्शनिकाः । ब्रह्मसूत्रशाङ्करभाष्ये विमृष्टमत्र - तस्मादसद्भ्यः शशविषाणादिभ्यः सदुत्पत्त्यदर्शनात् सद्भ्यश्च सुवर्णादिभ्यः सदुत्पत्तिदर्शनादनुपन्नोऽभावाद् भावोत्पत्त्यभ्युपगमः । अपि च चतुर्भिश्चितचैता उत्पद्यन्ते परमाणुभ्यश्च भूतभौतिकलक्षणः समुदाय उत्पद्यत इत्यभ्युपगम्य आकुलीक्रियते (ब्र० सू० २ । २ । २६ शा० भा०) । अपि च येपि सर्वतो विलक्षणानि स्वलक्षणानि वस्तूनि सन्त्यास्थिषत तेषामपि किमिति बीजजातीयेभ्योऽङ्कुरजातीयान्येव कर्माणि न तु क्रमेलकजातीयानि (तत्रैव भा०) । चित्तदृश्यम्, चित्तदृश्य चित्तमेव दृश्यं स्वप्न इति यावत् । यथा... तेन दृश्यास्ते जीवास्तस्मात् स्वप्नदृक् चित्तात् पृथङ् न विद्यन्ते न सन्तीत्यर्थः । चित्तमेव ह्यनेकजीवादिभेदाकारेण विकल्प्यते । तथा तदपि स्वप्नदृक् चित्तमिदं दृश्यमेव तेन स्वप्नदृशा दृश्यं तद् दृश्यम् (मा० उ० गौ० पा० का० ४।६४ शा० भा०) । यथा च - यस्मात् प्रागपि विज्ञानाच्चित्तदृश्यं तद्वयं जन्म च तस्मादजातस्य सर्वस्य सर्वदा चित्तस्य समाद्वयैवानुपपत्तिर्न पुनः कदाचिद् भवति कदाचिद् वा न भवति । सर्वदैकरूपैवेत्यर्थः (तत्रैव ४।७७ शा० भा० ) । चित्तवृत्तिः, चित्तवृत्ति चित्तस्य - महत्तत्त्वरूपस्य अन्तःकरणस्य वा वृत्तिः इन्द्रियप्रणालिकया अनुमानद्वारा शब्दद्वारा वा तत्तदर्थाकारा परिणतिः । ताश्च वृत्तयश्चैत्रमैत्रादिचित्तभेदाद् बह्व्योऽपि पञ्चतयी पञ्चावयवा वृत्तिर्भवति । यथा - वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टा: (पा० यो० सू० १।५ ) । ताश्च प्रमाणविपर्ययविकल्पनिद्रास्मृतयः (पा० यो० सू० ११६) । संस्कारैर्वृत्तयो जायन्ते वृत्तिभिश्च संस्काराः । यथा - तथाजातीयकाः संस्काराः वृत्तिभिरेव क्रियन्ते संस्कारैश्च वृत्तयः इत्येवं वृत्तिसंस्कारचक्रमनिशमावर्तते (पा०या० सू० ११५ व्यासभाष्यम्) । चित्तवृत्तिनिरोधः, चित्तवृत्तिनिरोधः आत्मज्ञानादेव यथा- अनन्यसाधनत्वाच्च निरोधस्य । न ह्यात्मविज्ञानतत्स्मृतिसन्तानव्यतिरेकेण चित्तवृत्तिनिरोधस्य साधनमस्ति । (बृ० उ० १।४।७ शा० भा० ) । चित्तस्पन्दितः, चित्तस्पन्दित आत्मा । यथा सर्वं ग्राह्यग्राहकवच्चित्तस्पन्दितमेव द्वयं चित्तं परमार्थत आत्मैवेति निर्विषयं तेन निर्विषयत्वेन नित्यमसङ्गं कीर्तितम् (मा० उ० गौ० पा० का० ४।६२ शा० भा० ) । चितिः, चिति लाङ्गलेन कृष्टे व्याममात्रे भूप्रदेशे नानाविधारिष्टिकाभिः पक्ष्याकारेण स्थानं निष्पाद्यते सेयं चितिः (जै० न्या० ४।४।६) । चिदाभासनम्, चिदाभासन चिदवच्चैतन्यवद् भासते केवलम् तन्न चिन्नापि जडम् । यथा- चिदवदाभासनं चिदाभासनं न साक्षाच्चिन्नापि जडम् (सं० शा० ३ । २७७ सु० टी०) । यथा च - मायिकोऽयं चिदाभासः श्रुतेरनुभवादपि । इन्द्रजालं जगत् प्रोक्तं तदन्तः पात्ययं यतः (प० द० ६।२१६) । यथा च - तदर्थेऽनादिसिद्धमज्ञानमुपाधिः । अस्मिन्नुपाधौ चिदाभासनं चिदवदाभासनं न साक्षाच्चिन्नापि जडं चित्सन्निधिवशादुपाधिधर्मतया जातं तच्च कारणमायागतं सदीश्वरत्वं चिदात्मनीश्वरशब्दप्रवृत्तिद्वारमित्यर्थः (सं० शा० ३।२७७ अ० टी०) । चिद्भेदः, चिद्भेद कूटस्थो ब्रह्मजीवेशावित्येवं चिच्चतुर्विधा । घटाकाशमहाकाशौ जलाकाशाभ्रखे यथा (प० द० ६।१८) । चिन्तनम्, चिन्तन ध्यानम् । यथा- ध्यानं चिन्तनं यद्यपि मानसं तथापि पुरुषेण कर्तुमकर्तुमन्यथा वा कर्तुं शक्यं पुरुषतन्त्रत्वात् (ब्र०सू० १ १/४ शा०भा०) । चेतना, चेतना चैतन्याभिव्यञ्जिका बुद्धिप्रवृत्तिः, ज्ञानाख्या चित्तवृत्तिर्वा । यथा भूतानामस्मि चेतना कार्यकारणसंघातेऽनित्याभिव्यक्ता बुद्धिप्रवृत्तिश्चेतना (गी० १० । २२ शा० भा० ) । चेतना धीवृत्तिः चिदभिव्यक्तित्वात् (तत्रैव नी० क० ) । संघाते जीवाधिष्ठिते यावत् प्रपञ्चत्वं सर्वत्र व्यापिनी चैतन्याभिव्यञ्जिकेति दोषः (तत्रैव आ० मि०) । चेतना कार्यकारणसंघातेऽभिव्यक्ता बुद्धिवृत्तिः (तत्रैव भाष्यो०) । भूतानां सर्वप्राणिसम्बन्धिनां परिणामानां मध्ये चिदभिव्यञ्जिका बुद्धेर्वृत्तिश्चेतनाहमस्मि (तत्रैव म० सू०) । तस्यामभिव्यक्तान्तःकरणवृत्तिस्तप्त इव लोहपिण्डेऽग्निरात्मचैतन्याभासरसविद्धा चेतना सा च क्षेत्रं ज्ञेयत्वात् (तत्रैव १३।६ शा० भा० ) । सेन्द्रियं शरीरं चेतनास्वरूपज्ञानव्यञ्जिका प्रमाणासाधारणकारणिका चित्तवृत्तिर्ज्ञानाख्या (तत्रैव म० सू० ) । चेता, चेतस् चेतयिता चिद्रूपो वा । यथा - चेता चैतन्यरूपो न तत्कर्ता स्वरूपचैतन्येन संघातस्य चिदाभासतापादनं चेतयितत्वम् (सं० शा० ११८३ अ० टी०) । चैतन्यम्, चैतन्य १ . (क) चेतना बुद्धिवृत्तिस्तस्याश्चेतनस्य वा भावश्चैतन्यम् । एतच्च त्रिविधम् । यथा - त्रिविधं चैतन्यं प्रमातृचैतन्यम्, प्रमाणचैतन्यम्, विषयचैतन्यं चेति । तत्र घटाधवच्छिन्नं चैतन्यं विषयचैतन्यम्, अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यम्, अन्तःकरणावच्छिन्नं चैतन्यं प्रमातृचैतन्यम् (वे०प०१ प०) । (ख) चिच्छाया चिदाभासश्चित्प्रतिबिम्बो वा चैतन्यम् । तत्र मायोपाधिकं चैतन्यमीश्वरः अविद्योपाधिकं चैतन्यं जीव इति । अत्र शुद्धसत्त्वप्रधाना माया, मलिनसत्त्वप्रधाना अविद्येति । इत्यद्वैतवेदान्तिनः । २. चैतन्यं ज्ञानं ज्ञानवाँश्चात्मा । यथा - ज्ञानाधिकरणमात्मा । स द्विविधः परमात्मा जीवात्मा चेति । तत्रेश्वरः सर्वज्ञः परमात्मा एक एव । जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्च (त० सं० ) । तत्रेश्वसाधकानुमानम् - क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वाद् घटवदित्यनुमानस्य प्रमाणत्वात् । उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वम् ।.. शरीरस्य करपादादिनाशे शरीरनाशादात्मनोऽपि नाशापत्तेः । .. तस्माद्देहेन्द्रियादिव्यतिरिक्तो जीवः (तत्रैव दी०) । यथा च - बुद्ध्यादयोऽष्टौ आत्ममात्रविशेषगुणाः । बुद्धीच्छाप्रयत्ना नित्या अनित्याश्च । नित्या ईश्वरस्य अनित्या जीवस्य (त० सं०) । द्यावाभूमी जनयन्देव एकः विश्वस्य कर्ता भुवनस्य गोप्ता, यः सर्वज्ञः स सर्ववित् यस्य ज्ञानमयं तपः इत्यादिश्रुतयः प्रमाणम् । शरीरहेत्वदृष्टाभावात् परमात्मा शरीररहितः एवैके, अन्ये तु पुरुषादृष्टेन अस्मदीया दृष्टेन इच्छाप्रयुक्तस्य शरीरस्येश्वरेऽपि सम्भव इति न्यायविदः । ३. वुद्धौ ज्ञस्य पुरुषस्य प्रतिविम्बः चिच्छाया एव चैतन्यमिति सांख्यविदः । योगश्चित्तवृत्तिनिरोधः (पा०यो०सू० १।१ ) इत्यस्य तत्त्ववैशारद्याम् – किन्तु बुद्धिरेव विषयाकारेण परिणता सती अतदाकारायै चितिशक्त्यै विषयमादर्शयति ततः पुरुषश्चेतयत इत्युच्यते । इति योगविदः । चोदना, चोदना क्रियायां प्रवर्तकं वचनम् । यथा - चोदनेति क्रियायाः प्रवर्तकं वचनम् (ब्र० सू० १/१/४ शा० भा० ) । यथा च - या हि चोदना धर्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरुषमवबोधयति । ब्रह्मचोदना तु पुरुषमवबोधयत्वेव केवलम् अवबोधस्य चोदनाऽजन्यत्वान्न पुरुषोऽवबोधे नियुज्यते (ब्र० सू० 91919 शा० भा०)। चोदनेति वैदिकशब्दमाह विशेषेण सामान्यस्य लक्षणात् । ..... आज्ञादीनां पुरुषाभिप्रायभेदानामसम्भवात् । अपौरुषेये वेदे चोदनोपदेशः । अत एवोक्तं तस्य ज्ञानमुपदेश इति । सा च स्वसाध्ये पुरुषव्यापारे भावनायां तद्विषये यागादौ स हि भावनाया विषयः । तदधीननिरूपणत्वात् प्रयलस्य भावनायाः । षिञ् बन्धने इत्यस्य धातोर्विषयपदमुत्पत्तेः (तत्रैव भा०) । शक्त्यात्मकमेकं स्वच्छद्रव्यं चित्ररूपमिव मिलित्वा जनयति । तस्य च ज्ञानशक्तिप्रधानोंऽशोऽन्तःकरणम् । .....एवमेकैकभूतेभ्यो ज्ञानक्रियाशक्तिभेदात् प्रत्येकमिन्द्रियद्वयं जायते । आकाशाच्छ्रोत्रवाचौ.... तानि . च तथाभूतानि भूतानि भोगायतशरीरं भोग्यं च विषयमन्तरेण भोग्यं जनयितुमशक्नुवन्ति जीवकर्मप्रयुक्तत्वात् स्थौल्याय पञ्चीकृतानि भवन्ति ।... एवं विषया अपि पञ्चीकृतैकभूतजन्याश्चतुर्दशभुवनाख्या उर्ध्वमध्याधोभावेन सत्त्वरजस्तमोऽशप्रधानाः । एतत्सर्वं ब्रह्माण्डं विराडिति मूर्तमिति चोच्यते । अयमौपनिषदः सृष्टिक्रमः। तद्विपरीतो लयक्रमः (सि० वि० ८ श्लो०) । महर्षिकणादो मानवादिशरीरे पृथिव्याकाशादीनां परस्परसम्बन्धाद् मानवादिशरीरस्य प्रत्यक्षं न स्यादित्याशङ्क्य वैशेषिक सूत्रे (४।२।२) पञ्चीकरणप्रक्रियां खण्डितवान् । भगवान् श्रीशङ्कराचार्यो ब्रह्मसूत्रे (२।२।११) भाष्ये पञ्चीकरणप्रक्रियां समर्थितवान् । जगतो जन्मनः कारणं क्रमश्च, जगत् जन्मन् कारण क्रम जीवानां कर्मभोगार्थं परमात्मनः सङ्कल्पः । यथा - तत्र सर्गाद्यकाले परमेश्वरः सृज्यमानप्रपञ्चवैचित्र्यहेतु प्राणिकर्मसहकृतोऽपरिमितानिरूपितशक्तिविशेषविशिष्टमायासहितः सन्नामरूपात्मकनिखिलप्रपञ्चं प्रथमं बुद्धावाकलय्येदं करिष्यामीति सङ्कल्पयति तदैक्षत बहुस्यां प्रजायेय (तै० उ० २१६) । इति श्रुतेः (वं० प० ७ प०) । यथा च- बुद्धिविलासप्रकारत्रयमिदं क्रमादधिकारिणामित्युक्तम् । द्वितीये तत्र कृपणादीनां मध्ये कृपणस्य ब्रह्मपरिणामो जगदिति, मध्यमस्य ब्रह्मविवर्ती जगदिति अज्ञानिनस्तु बहवो जीवाः सन्तीति, परिपक्वधियस्त्वहमेव मुमुक्षुरन्ये मदज्ञानकल्पिताः । परमाश्रयविषयं च तम इति (सं० शा० ३।२४० सु० टी०) । जडम्, जड चैतन्यविपरीतम् । यथा - जडम् इति तदभिधीयते यत्स्वव्यवहारे स्वविलक्षणस्वभावं प्रकाशं नियमेनापेक्षते यथा घटपटादि स्वविलक्षणस्वभावं चित्प्रकाशं स्वप्रतिबद्धव्यवहारेऽपेक्षते (सं० शा० मं०श्लो० पृ० ३ सु० टी०) । जडत्वम्, जडत्वम् चिद्भिन्नत्वम्, ज्ञातृभिन्नत्वम्, ज्ञानभिन्नत्वम्, अनात्मत्वम् । यथा जडत्वमपि हेतुः । ननु किमिदं जडत्वम् । अज्ञातृत्वं वा अज्ञानत्वं वा अनात्मत्वं वा (अ० सि० १५० ज० हेतू० ) । छुल्लकः, छुल्लक क्षुद्रकः । यथा - क्षुल्लकाः क्षुद्रकाः शिशव इति यावत् (छा० उ० १/१२/२ आ० गि०) । जगत्, जगत् स्थावरजङ्गमान्तं चैतन्यातिरिक्तं सर्वं प्रपञ्चजातं जगदित्युच्यते ! सर्वं खल्विदं ब्रह्म इति श्रुतिः । अस्ति भाति प्रियं रूपं नाम चेति पञ्चरूपात्मकं जगत्। यथा – अस्तिभाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् (वे० प० ७ प०) । यथा च - कार्यमाकाशादिकं बहुप्रपञ्चं जगत् । कारणं परं ब्रह्म तस्मात् कारणात् परमार्थतोऽन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते (ब्र० सू० २ । १ । १४ शा० भा०) । इदमाविद्यकमनादि च । यथा अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात् सर्वज्ञस्य तस्मादेतस्मादात्मनः आकाशः सम्भूतः (तै० उ० २।१) इत्यादिवाक्येभ्यो नित्यशुद्धबुद्धमुक्तस्वभावात् सर्वज्ञात् सर्वशक्तेरीश्वराज्जगज्जनिस्थितिलयः । स च स्वात्मभूतानेव घटाकाशजीवाख्यान् स्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातानुरोधिनो विज्ञानात्मनः प्रतीष्टे व्यवहारविषये।.... सृष्ट्युत्तरकालं हि शरीरादिविभागापेक्षं कर्म कर्मापेक्षश्च शरीरादिविभाग इतीतरेतराश्रयत्वं प्रसज्येत । नैष दोषः अनादित्वात् । संसारस्य भवेदेव दोषो यद्यादिमान् संसारः स्यात् (ब्र० सू० २।१।३५ शा० भा०) । सृष्टि क्रमः २/१/६, २५, ३०, ३२, ३३, ३६ ब्र० सू० शां भा० सविस्तरं विवेचितः । अयं शाङ्कराभिमतः औपनिषदः सृष्टिक्रमः श्रीमधुसूदनसरस्वतीभिः सिद्धान्तबिन्दौ इत्थं निरूपितः - अविद्यातद्व्याप्यतत्कार्यात्मकः प्रपञ्चो दृश्यपदार्थः । तस्यापारमार्थिकत्वेऽपि व्यावहारिकसत्ताभ्युपगमाद् न स्वाप्निकपदार्थवन्निरूपणं व्यर्थम् । उपासनादावुपयोगादिति । सोऽपि त्रिविधः अव्याकृतमूर्तामूर्तभेदात् । तत्र साभासाविद्या मूर्तामूर्तपञ्चवीजशक्तिरूपा । तदजन्यत्वेऽपि तन्निवृत्तौ निवर्तमानत्वेन तद्व्याप्यैः चैतन्यतत्सम्बन्धबीजजीवेश्वरविभागचिदाभासैः सहानादित्वादव्याकृतमित्युच्यते । अयमव्याकृतपदार्थ ईश्वरोपाधिः । सा स्वयं जडाप्यजडेन चिदाभासेनोज्ज्वलिता पूर्वपूर्वसंस्कारजीवकर्मप्रयुक्ता सती शब्दस्पर्शरूपरसगन्धकात्मन्याकाशवायुतेजोजलपृथिव्याख्यानि पञ्चभूतानि जनयति । तत्र पूर्वपूर्वभावापन्नाया अविद्याया उत्तरोत्तरं प्रति कारणत्वात् पूर्वपूर्वगुणानामुत्तरोत्तरगुणेष्वनुप्रवेशः । एवमविद्यात एवान्धकारोऽपि भावरूपएवावरणात्मा चाक्षुषज्ञानविरोधी आलोकनाश्यश्च झटिति महाविद्युदादिवदाविर्भवति तिरोभवति चेति सिद्धान्तः । संसारहेतुदेहोपादानाभावाच्च न श्रुतिषु सृष्टिप्रक्रियायामम्नात इत्यविरोधः । दिक्कालौ त्वप्रामाणिकत्वान्नोक्तौ । आकाशस्यैव दिग्व्यवहारजनकत्वसम्भवात् दिशः श्रोत्रमिति श्रुतेश्च । कालस्त्वविद्यैव । तस्या एव सर्वाधारत्वादिति । तानि च सूक्ष्माण्यपञ्चीकृतानि पञ्चे महाभूतान्यमूर्त्ताख्यानि कारणैक्यात् सत्त्वरजस्तमोगुणात्मकानि सत्त्वांशप्राधान्येन ज्ञानक्रिया जडात्मिका शक्तिः - अविद्या । यथा - अस्य परमेश्वरस्य अपरा जडाशक्तिः । या सा त्वविद्योच्यते सा चानृतरूपेणेत्यर्थात् सिद्धा । .... अनित्यया जडात्मिकयाऽविद्याशक्त्या सविकारं प्राप्नुवन्त्या योगाच्चिच्छक्तिरुद्दिच्यते (सं० शा० ३।२२८ अ० टी०) । जन्म, जन्मन् जन्मादिभावविकारेषु षट्सु त्रिषु वा अन्यतमम् उत्पत्तिरूपम् । यथापरिणामोऽपि द्विविधो धर्मलक्षणोऽवस्थालक्षण उत्पत्तिरेव । धर्मिणो हि हाटकादेर्धर्मलक्षणः परिणामः कटकमुकुटादिस्तस्योत्पत्तिः । एवं कटकादेरपि प्रत्युत्पन्नत्वादिलक्षणः परिणामः उत्पत्तिः । एवमवस्थापरिणामो नवपुराणत्वायुत्पत्तिः (ब्र० सू० १/१/२ भाम०) । नामरूपं व्याकरवाणि इति श्रुत्या वस्तुनोऽव्याकृतस्य व्याकृतत्वमेव जन्म । जहल्लक्षणा, जहल्लक्षणा शक्यसम्बन्धरूपा लक्षणा अथवा शक्त्या यत्पदसम्बन्धेन ज्ञाप्यते तत्सम्बन्धो लक्षणा । यथा - लक्षणा च द्विविधा केवललक्षणा लक्षितलक्षणा चेति । तत्र शक्यसाक्षात्सम्बन्धः केवललक्षणा यथा गङ्गायां घोष इति । अत्र प्रवाहसाक्षात्सम्बन्धिनि तीरे गङ्गापदस्य केवललक्षणा । यत्र शक्यपरम्परासम्बन्धेनार्थान्तरप्रतीतिस्तत्र लक्षितलक्षणा । यथा द्विरेफपदस्य रेफद्वये शक्तस्य भ्रमरपदघटितपरम्परासम्बन्धेन मधुकरे वृत्तिः । गौण्यपि लक्षितलक्षणैव । यथा सिंहो माणवक इति । अत्र सिंहशब्दवाच्यसम्बन्धिक्रौर्यादिसम्बन्धेन माणवकस्य प्रतीतिः । प्रकारान्तरेण लक्षणा त्रिविधा जहल्लक्षणा, अजहल्लक्षणा जहज्जहल्लक्षणा चेति । तत्र शक्यमनन्तर्भाव्यं यत्रार्थान्तरप्रतीतिस्तत्र जहल्लक्षणा - यथा विषं भुङ्क्ष्वेति । अत्र स्वार्थं विहाय शत्रुगृहे भोजननिवृत्तिर्लक्ष्यते । यत्र शक्यार्थमन्तर्भाव्यैवार्थान्तरप्रतीतिस्तत्राजहल्लक्षणा यथा शुक्लो घट इति । अत्र हि शुक्लशब्दः स्वार्थं शुक्लगुणमन्तर्भाव्यैव तद्वति द्रव्ये लक्षणया वर्तते । यत्र हि विशिष्टवाचकः शब्दः एकदेशं विहाय एकदेशे वर्तते तत्र जहदजहल्लक्षणा - यथा सोऽयं देवदत्त इति । अत्र हि पदद्वयवाच्ययोर्विशिष्टयोरैक्यानुपपत्त्या पदद्वयंस्य विशेष्यमात्रपरत्वम् । यथा तत्त्वमसि इत्यादौ तत्पदवाच्यस्य सर्वज्ञत्वादिविशिष्टस्य त्वंपदवाच्येनान्तःकरणविशिष्टेनैक्यायोगादैक्यसिद्ध्यर्थं स्वरूपे, लक्षणेति साम्प्रदायिकाः । वयन्तु ब्रूमः- सोऽयं देवदत्तः तत्त्वमसि इत्यादौ विशिष्टवाचकपदानामेकदेशपरत्वेऽपि न लक्षणा शक्त्युपस्थितयोर्विशिष्टयोरभेदान्वयानुपपत्तौ विशेष्ययोः शक्त्युपस्थितयोरेवाभेदान्वयाविरोधात् । यथा घटोऽनित्य इत्यत्र घटपदवाच्यैकदेशघटत्वस्यायोग्यत्वेऽपि योग्यघटपदव्यक्त्या सहानित्यत्वान्वयः । यत्र पदार्थैकदेशस्य विशेषणतयोपस्थितिस्तत्रैव स्वातन्त्र्येणोपस्थितये लक्षणाभ्युपगमः । यथा घटो नित्य इत्यत्र घटपदाद्घटत्वस्य शक्त्या स्वातन्त्र्येणानुपस्थित्या तादृशो- पस्थित्यर्थं घटपदस्य घटत्वे लक्षणा । एवमेव तत्त्वमसीत्यादिवाक्येऽपि न लक्षणा शक्त्या स्वातन्त्रेणोपस्थितयोस्तत्त्वंम्पदार्थयोरभेदान्वये बाधकाभावात् । अन्यथा गेहे घटो घटे रूपं घटमानयेत्यादौ घटत्वगेहत्वादेरभिमतान्वयबोधायोग्यतया तत्रापि घटादिपदानां विशेष्यमात्रपरत्वं लक्षणयैव स्यात् । तस्मात् तत्त्वमसीत्यादिवाक्येषु आचार्याणां लक्षणोपत्तिरभ्युपगमवादेन बोध्या । जहज्जहलक्षणोदाहरणं तु- काकेभ्यो दधि रक्ष्यतामित्याद्येव । तत्र शक्यकाकपरित्यागेनाशक्यदध्युपघातकत्वपुरस्कारेण काकेऽकाकेऽपि काकशब्दस्य प्रवृत्तेः । लक्षणाबीजं तु तात्पर्यानुपपत्तिरेव न त्वन्वयानुपत्तिः, काकेभ्यो दधि रक्ष्यतामित्यत्रान्वयानुपपत्तेरभावात् । गङ्गायां घोष इत्यादौ तात्पर्यानुपपत्तेरपि सम्भवात् । लक्षणा च न पदमात्रवृत्तिः । किन्तु वाक्यवृत्तिरपि । यथा गम्भीरायां नद्यां घोष:- इत्यत्र गम्भीरायां नद्यामिति पदद्वयसमुदायस्य तीरे लक्षणा । ननु वाक्यार्थस्याशक्यतया कथं शक्यसम्बन्धरूपा लक्षणा । उच्यते शक्त्या यत्पदसम्बन्धेन ज्ञाप्यते तत्सम्बन्धो लक्षणा । शक्तिज्ञाप्यश्च यथा पदार्थस्तथा वाक्यार्थोऽपीति न काचिदनुपपत्तिः (वे० प० ४ प० ) । इयमेव जहत्स्वार्था, अजहत्स्वार्था जहदजहत्स्वार्था लक्षणेत्यभिधीयते । जहति पदानि स्वार्थं यस्यां सा जहत्स्वार्थेत्यर्थः । एवमेव अजहत्स्वार्था जहदजहत्स्वार्थेत्यत्रापि । उक्तं च जहत्स्वार्था तु तत्रैव यत्र रूढिर्विरोधिनी । केचन अन्वयानुपपत्तिरपि लक्षणाबीजम् । मञ्चाः क्रोशन्ति इत्यत्र वाच्यार्थस्य क्रोशनकर्तृत्वान्वयासम्भवान् "मञ्चपदं मंञ्चस्थपुरुषे लाक्षणिकमिति । एवमेव आयुर्घृतमित्याद्युदाहरणम् । यथा... तथात्रापि वाक्ये तत्त्वंपदयो स्तदर्थयोर्वा विरूद्धपरोक्षत्वापरोक्षत्वादिविशिष्टत्वपरित्यागेनाविरुद्धचैतन्येन सह लक्ष्यलक्षणभावः । इयमेव भागलक्षणेत्युच्यते ।... न च तत्पदं त्वम्पदं वा स्वार्थविरुद्धांशपरित्यागेनांशान्तरसहितं त्वंपदार्थं तत्पदार्थं लक्षयत्वतः प्रकारान्तरेण भागलक्षणाङ्गीकरणमिति वाच्यम् । एकेन पदेन स्वार्थांशपदार्थान्तरोभयलक्षणाया असम्भवात् पदान्तरेण तदर्थप्रतीतौ लक्षणया पुनस्तप्रतीत्यपेक्षाभावाच्च (वे० सा०) । शक्यसम्बन्धो लक्षणा । ....लक्षणा त्रिविधा जहल्लक्षणा अजहल्लक्षणा जहज्जहल्लक्षणा चेति (त० सं० श० प० दी० ) । मुख्यार्थबाधे तद्योगे रुढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत् सा लक्षणारोपिता क्रिया । स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम् । उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा (का०प्र० २।९,१० ) । जाग्रत्, जाग्रत् जीवस्यैका अवस्था । यतो हि जीवस्य तटस्थलक्षणं जाग्रत्स्वप्नसुषुप्त्यवस्थान्यतमवत्त्वम् । इन्द्रियजन्यविषयगोचरापरोक्षान्तःकरणवृत्त्यवस्था जाग्रत् । यथा - एकजीववादेऽविद्याप्रतिबिम्बो जीवः । अनेकजीववादेऽन्तःकरणप्रतिबिम्बः । सच जाग्रत्स्वप्नसुषुप्तिरूपावस्थात्रयवान् । तत्र जाग्रद्दशा नामेन्द्रियजन्यज्ञानावस्था । अवस्थान्तरे इन्द्रियाभावान्नातिव्याप्तिः । इन्द्रियजन्यज्ञानं चान्तःकरणवृत्तिः । स्वरूपज्ञानस्यानादित्वात् । अन्यदवस्थाद्वयं स्वप्नस्तथा सुषुप्तिः । जातिः, जाति १. अनुगतैकाकारबुद्धिजननसमर्था, अवयवव्यङ्गया सकृदुपदेशव्यङ्ग्या । इति शाङ्कराद्वैतिनः । अस्मिन् मते जातिनामकः सामान्यपरपर्यायः पृथगपरः कोऽपि पदार्थो नाङ्गीक्रियते । यथा जातिनामको भावपदार्थो न्यायवैशेषिकैर्मन्यते । यथा... तयोर्जातित्वं न स्यादिति वाच्यम् । इष्टत्वात् । जातित्वोपाधित्वपरिभाषायाः सकलप्रमाणागोचरतया अप्रामाणिकत्वात् । घटोऽयमित्यादिप्रत्यक्षं हि घटत्वादिसद्भावे मानं न तु तस्य जातित्वेऽपि । जातित्वरूपसाध्याप्रसिद्धौ तत्साधकानुमानस्याप्यनवकाशात् । समवायासिद्ध्या ब्रह्मभिन्ननिखिलप्रपञ्चस्यानित्यतया च नित्यत्वसमवेतत्वघटितजातित्वस्य घटत्वादावसिद्धेश्च। एवमेवोपाधित्वमपि निरसनीयम् (वे० प० १ प०) । २. (क) नित्यमेकमनेकानुगतं सामान्यम् (जातिः) (त० सं०) । (ख) जाति: दूषणाभिधानम् साधर्म्यवैधर्माभ्यां प्रत्यवस्थानं जाति: (गौ० १।२।१८) अस्यार्थः व्यक्तिनिरपेक्षाभ्यां साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं दूषणाभिधानं जातिः । एषा च चतुर्विंशतिप्रकारा साधर्म्यसमः वैधर्म्यसमः उत्कर्षसमः अपकर्षसमः इत्यादि (गौ० ५/१/१ त० भा० ) । ३. अतद्व्यावृत्तिः इति बौद्धानां जातिपरिभाषा । ४. संस्थानमात्रव्यङ्ग्यं सामान्यमिति प्राभाकराणां जातिपरिभाषा । ५. वैयाकरणास्तु - सम्बन्धभेदात् सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः । तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते । सा नित्या सा महानात्मा तामाहुस्त्वतलादयः (वा० प० ३ । ३४, ३५ ) । अत्रैव - अनेकव्यत्यभिव्यङ्गया जातिः स्फोट इति स्मृता । कैश्चिद् व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिता । पातञ्जलमहाभाष्ये तु- प्रादुर्भावविनाशाभ्यां सत्त्वस्य युगपद्गुणैः । असर्वलिङ्गां बह्वर्थां तां जातिं कवयो विदुः । तथा चआकृतिग्रहणा जातिर्लिङ्गानाञ्च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या गोत्रञ्च चरणैः सह । अस्यार्थ:- आक्रियते व्यज्यतेऽनयेति आकृतिः संस्थानम् । गृह्यते इति ग्रहणं ज्ञानम् ।आकृत्या ग्रहणंयस्याः सा आकृतिग्रहणा । जातिराकृतिग्रहणा संस्थानव्यङ्ग्येत्यर्थः । तेन मनुष्यगोमृगहंसादीनां पृथक् पृथक् संस्थानै र्व्यज्यमानत्वाद् मनुष्यत्वगोत्वमृगत्वहंसत्वादिर्जातिः । एवं च ब्राह्मणक्षत्रियादीनां पृथक् संस्थानाभावाद् ब्राह्मणत्वक्षत्रियत्वादेर्जातित्वं न स्यादित्यतो लक्षणान्तरमाह लिङ्गानां च न सर्वभाक् इति । या सर्वाणि लिङ्गानि न भजते सा च जातिरित्यर्थः । तेन ब्राह्मणादीनां सर्वलिङ्गभागित्वाभावाज्जातित्वम् । एवं सत्यपि अज्ञातगोवृषभस्य जनस्य गोवृषभादिकं दृष्टवतोऽपि कथं संस्थानेन गोवृषभत्वादिकं व्यञ्जितुं शक्यत इत्यत आह सकृदाख्यातनिर्ग्राया । सकृदाख्यातेन सकृदुपदेशेन निर्ग्राह्या । एवं सत्यपि गार्ग्यादीनां कथं जातिप्रतीतिरित्यत आह – गोत्रं च चरणैः सह । गोत्रं पूर्वाचार्यपरिभाषितम्- गार्गी वात्सीत्यादि । चरणं च वेदैकदेशे कठादिरूपे प्रसिद्धम् । तेन गार्गी भार्या यस्यासौ गार्गीभार्य इत्यादौ गार्गीत्यस्य जातित्वाद् जातेश्चेति पाणिनिसूत्रेण पुंवद्भावनिषेधः । अत्रैव महाभाष्ये प्रादुर्भावविनाशाभ्यां सत्त्वस्य युगपद् गुणैः । असर्वलिङ्गां बर्थी तां जातिं कवयो विदुः । ६. जननम् । ७. षड्जादिषु सप्तस्वरेष्वन्यतमः । ८. छन्दोभेदः । ९. जातिनामक ओषधिविशेषः । १०. चमेली नामक पुष्पविशेषः । ११. वेदशाखाभेदः । जातिखण्डनम्, जातिखण्डन शाङ्करमते नित्यमेकं ब्रह्मैव । अतो नित्या जातिर्नाङ्गीक्रियते । यथा- तयोर्जातित्वं न स्यादिति वाच्यम् इष्टत्वात् । जातित्वोपाधित्वपरिभाषायाः सकलप्रमाणागोचरतया अप्रामाणिकत्वात् । घटोऽयमित्यादिप्रत्यक्षे हि घटत्वादिसद्भावे मानं न तु जातित्वेऽपि (वे० प० १ प०) । तेन नित्यत्वसमवेतत्वघटिता जातिर्नास्ति । जात्याभासः, जात्याभास उत्पत्तेरभासो भ्रमज्ञानमिति । यथा- अतस्मिन् तप्रकारकं ज्ञानम् । अजातिः सज्जातिवदवभासत इति जात्याभासम् । यथा देवदत्तो जायत इति (मा० उ० गौ० पा० का० ४।४५) । माण्डूक्यकारिकायामजातवादनिरूपणे उक्तं यज्जगद् अजातमपि जातवदवभासते । जामिता, जामिता सादृश्यम् । यथा अजामिकरणार्थत्वाच्चेति (जै० सू० १ ।८।९३) सूत्रभाष्ये जामिता सादृश्यमिति व्याख्यातम् । तत्रैव नयविवेके जामिता सादृश्यमे करूपा हि द्विः क्रियेति तेन कृताकृताननुसंधिदोष इति सादृश्यस्य दोषपर्यवासयि त्वमुपपादितम् (ब्र० सू० १/१/४ क० त० प० ) । जिज्ञासा, जिज्ञासा ज्ञातुमिच्छा जिज्ञासा । सा च शास्त्राध्ययने प्रयोजिका । जानाति इच्छति ततो यतत इत्यनुरोधात् । अत एव शास्त्रारम्भे अथातो धर्मजिज्ञासा (जै० सू० १ ।१ ।१ ) अथातो ब्रह्मजिज्ञासा (ब्र० सू० १ । १ । १) दुःखत्रयामिधातातु तदपघातके हेतौ जिज्ञासा । (सां० का० १) प्रकृतिप्रत्ययौ सहार्थं ब्रूतः प्रत्ययार्थस्य प्राधान्यादत्र सन् प्रत्ययार्थस्य इच्छायाः प्राधान्यम् । यथा- अथातो ब्रह्मजिज्ञासा (ब्र० सू० १।१।१ ) । अत्र शाङ्करभाष्ये - ज्ञातुमिच्छा जिज्ञासा । अवगतिपर्यन्तं ज्ञानं सन् वाच्याया इच्छयाः कर्मफलविषयत्वादिच्छायाः । ज्ञानेन हि प्रमाणेनावगन्तुं ब्रह्म । जितात्मा, जितात्मन् समाहितात्मा स्वप्रकाशज्ञानस्वभावः । यथा - शीतोष्णसुखदुःखेषु चित्तविक्षेपकरेषु सत्स्वपि तथा मानापमानयोः पूजापरिभवयोश्चित्तविक्षेपहेत्वोः सतोरपि तेषु समत्वेनेति वा जितात्मानः प्रागुक्तस्य जितेन्द्रियस्य प्रशान्तस्य सर्वत्र समबुद्ध्या रागद्वेषशून्यस्य परमात्मा स्वप्रकाशज्ञानस्वभाव आत्मा समाहितः समाधिविषयो योगारूढो भवति (गी० ६।७ म० सू०) । यथा च - कार्यकारणसंघातात्मा जितो येन स तस्य प्रशान्तस्य जितचित्तस्य योगारूढस्येति यावत् (त० भाष्यो०)। जीवः, जीव ब्रह्मैव जीवो नापरः । एतदर्थं त्रयः पक्षा आलम्बिताः । प्रतिबिम्बवादः अवच्छेदवादः आभासवादश्च । प्रतिबिम्बवादः श्रीपद्मपादाचार्यानुयायि नामवच्छेदवादवादश्च श्रीवाचस्पतिमिश्रानुयायिनाम् आभासवादश्च श्रीसुरेश्वराचार्यानुयायिनाम् । तेनाविद्याकार्यान्तःकरणं तत्र प्रतिबिम्बो जीवः अन्तः करणावच्छिन्नं चैतन्यं जीवः, चैतन्यस्याभासो वा जीव इत्युच्यते । कर्मणः कर्तृत्वं सुखदुःखयोश्च भोक्तृत्वमस्मिन्नेव जीवे सम्भवति । जाग्रत्स्वप्नसुषुप्तिषु तिसृष्ववस्थासु जीवोऽवतिष्ठते । स्थूलसूक्ष्मकारणशरीराभिमान्ययं जीवः क्रमशो विश्वतैजसप्राज्ञसंज्ञां लभते । अविद्यावशीभूतो जीवो देहेन्द्रियैः सह तादात्यमधिगम्य शारीरकैन्द्रियिकमानसिकसुखदुःखानां भोक्ता भवति । अविद्यापगमे ब्रह्मसाक्षात्कारे जाते स्वस्वरूपं ब्रह्मत्वमधिगच्छति । आनन्दात्मकब्रह्मावाप्तिरेव जीवस्य मोक्षः । अयं जीवो नाणुर्न मध्यमपरिमाणः किन्तु विभुः । अणुत्वमौपाधिकम् । अस्य नानात्वमेकत्वं च पक्षद्वयम् । अयमेव एकजीववादोऽनेकजीववादश्वोच्यते । यथा- तेषामयमाशयः जीवपरमेश्वरसाधारणं चैतन्यमात्रं बिम्बम् । तस्यैव बिम्बस्याविद्यात्मकायां मायायां प्रतिबिम्बमीश्वरचैतन्यमन्तःकरणेषु प्रतिबिम्बं जीवचैतन्यम् । कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः इति श्रुतेः । एतन्मते जलाशयगतशरावगतसूर्यप्रतिबिम्बयोरिव जीवपरमेश्वरयोर्भेदः। अविद्यात्मकोपाधेर्व्यापकतया तदुपाधिकेश्वरस्यापि व्यापकत्वम् । अन्तःकरणस्य परिच्छिन्नतया तदुपाधिकजीवस्यापि परिच्छिन्नत्वम् । एतन्मते अविद्याकृतदोषा जीव इव परमेश्वरेऽपि स्युरूपाधेः प्रतिबिम्बपक्षपातित्वादित्यस्वसाद् बिम्बात्मकमीश्वरचैतन्यमित्यपरे । तेषामयमाशयः । एकमेव चैतन्यं बिम्बत्वाक्रान्तमीश्वरचैतन्यं प्रतिबिम्बत्वाक्रान्तं जीवचैतन्यम् । विम्बप्रतिबिम्बकल्पनोपाधिश्चैकजीववादे अविद्या । अनेकजीववाव्रे तु अन्तःकरणान्येव । अविद्यान्तःकरणरूपोपाधिप्रयुक्तो जीवपरभेदः । उपाधिकृतदोषाश्च प्रतिबिम्बे जीव एव वर्तन्ते न तु बिम्बे परमेश्वरे । उपाधेः प्रतिबिम्बपक्षपातित्वात् । एतन्मते च गगनसूर्यस्य जलादौ भासमानप्रतिबिम्बसूर्यस्येव जीवपरयोर्भेदः । न नु ग्रीवास्थमुखस्य दर्पणप्रदेश इव बिम्बचैतन्यस्य परमेश्वरस्य जीवप्रदेशेऽभावात्तस्य सर्वान्तर्यामित्वं न स्यादिति चेत्, न । साभ्रनक्षत्रस्य आकाशस्य जलादौ प्रतिबिम्बितत्वेऽपि बिम्बभूतमहाकाशस्यापि जलादिप्रदेशसम्बन्धदर्शनेन परिच्छिन्नबिम्बस्य प्रतिबिम्बदेशासम्बन्धित्वेऽप्यपरिच्छिन्नब्रह्मबिम्बस्य प्रतिबिम्बदेशसम्बन्धाविरोधात् । न च रूपहीनस्य ब्रह्मणो न प्रतिबिम्बसम्भवः रूपवत एव तथात्वदर्शनादिति वाच्यम् । नीरूपस्यापि रूपस्य प्रतिबिम्बदर्शनात् । न च नीरूपस्य द्रव्यस्य प्रतिबिम्बाभावनियमः । आत्मनि द्रव्यत्वाभावस्योक्तत्वात् । एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् (ब्र० बि० उ० १२) । यथा- ह्ययं ज्योतिरात्मा विवस्वानपो भित्वा बहुधैकोनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेव मजोऽयमात्मा । इत्यादिवाक्येन ब्रह्मप्रतिबिम्बाभावानुमानस्य बाधितत्वाच्च (वे० प० ७ १०) । यथा च - महान् इति बुद्धिरुच्यते तदुपाधिको जीव: (सं० शा० ३।२९२ अ० टी०) । यथा च जीवो हि नाम चेतनः शरीराध्यक्षः प्राणानां धारयिता तत्प्रसिद्धेर्वचनाच्च (ब्र० सू० १/१/६ शा० भा०) । यथा च अविद्या कामकर्मविशिष्टकार्यकरणोपाधिरात्मा संसारी जीव उच्यते (बृ० आ० ३/८/१२ शा० भा० ) । यथा च परमात्मैव चोपाधिकल्पितावच्छेदको जीव इत्याख्यायते (ब्र० सू० ३।१।१ शा० भा०) । जीवत्वमौपाधिकम् । यथा च तथा प्रतीचोऽहङ्कारादिसाक्षिणः स्वस्मिन् स्वाज्ञानाध्यस्तकार्योपाधिप्रयुक्तमेव जीवत्वं कर्तृत्वप्रमातृत्वादिसंसारधर्मयोगित्वं हि जीवत्वम् । कर्तृत्वादि च न तस्मिन्नहङ्कारा पाधिसम्बन्धमन्तरेण निरूपणपथमवतरति इति जीवत्वमौपाधिकमेवेत्यर्थः (सं० शा० ३।१४८ अ० टी०) । यथा च - इयं व्यष्टि र्निकृष्टोपाधितया मलिनसत्त्वप्रधाना एतदुपहितचैतन्यमल्पज्ञत्वानीश्वरत्वादिगुणकं प्राज्ञ इत्युच्यते एकाज्ञानावभासकत्वात् । अस्य प्राज्ञत्वमस्पष्टोपाधितयाऽनतिप्रकाशकत्वात् । अस्यापीदमहङ्कारादिकारणत्वात् कारणशरीरम्, आनन्दप्रचुरत्वात् कोशवदाच्छादकत्वाच्चानन्दमयकोशः, सर्वोपरमत्वात् सुषुप्तिरत एव स्थूलसूक्ष्मशरीरप्रपञ्चलयस्थानमिति चोच्यते (वे० सा० ) । जीवस्य न चोत्पत्तिर्न च विलयः । यथा - परस्य ब्रह्मणः कार्यप्रवेशेन जीवभावो विज्ञायते न चोत्पत्तिर्विज्ञायते (ब्र० सू० २।३।१७) । यथा च - सर्वसंसारधर्मप्रत्याख्यानेन परमात्मभावप्रतिपादनात् । तस्मान्नैवात्मोत्पद्यते प्रविलीयते च ।.....आगन्तुकचैतन्य आत्मेति........... वैशेषिकादितर्कश्च श्रुतिविरोधी आभासी भवति । तस्मान्नित्यचैतन्यरूप एवात्मेति निश्चिनुमः । (ब्र० सू० २।३।१८) एकस्मिन्नेव जीवे उपाधिवशाज्जीवान्तरव्यवहारोऽपि भवति । यथा- सदेव तूपाधिसम्पर्काज्जीव. इत्युपचर्यत इत्यसकृत्प्रपञ्चितम् । एवं सति यावदेकोपाधिगता बन्धानुवृत्तिस्तावदेक जीवव्यवहारः । उपाध्यन्तरगतायां तु बन्धानुवृत्तौ जीवान्तरव्यवहारः । स एवायमुपाधिः स्वापप्रबोधयोर्बीजाङ्कुरन्यायेनेत्यतः स एव जीवः प्रतिबध्यत इति युक्तम् (ब्र० सू० ३।२।१० शा० भा०) । जीवः परमात्मनोंऽशो न । यथा - भेदाभेदाभ्यामंशत्वावगमः (ब्र० सू० २ । ३ । ४३ शा० भा०) । ... पादोऽस्य विश्वाभूतानि (छा० ३/१२/६).... अंशः पादो भाग इत्यनर्थान्तरम् (ब्र० सू० २।३।४४ शा० भा०) । अनंशत्वमपि हि जीवस्याभेदवादिन्यः श्रुतयः प्रतिपादयन्ति - तत्सृष्ट्वा तदेवानुप्राविशत् (तै० २।६१) इति (ब्र० सू० २।३।४७ शा० भा०) । यथा च - ममैवांशो जीवलोके जीवभूतः सनातनः (गी० १५/७) ।... अत्राह ननु जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदुःखोपभोगेनांशिनः ईश्वरस्यापि दुःखित्वं स्यात् .... सूर्यप्रतिबिम्बे कम्पमानेऽपि न तद्वान् सूर्यः कम्पते ....तस्मान्नास्ति जैवेन दुःखेन परमात्मनो दुःखित्वप्रसङ्गः (ब्र० सू० २।३ । ४६ शा० भा०) । तस्मादात्मैकत्वपक्ष एव सर्वदोषाभाव इति सिद्धम् (ब्र० सू० २ ।३।५३ शा० भा० ) । जीवो नाणुपरिमाणो नापि मध्यमपरिमाणः किन्तु महापरिमाणो विभुः । यथा- किंपरिमाणो जीव इति चिन्त्यते किमणुपरिमाण उत मध्यमपरिणाम आहोस्वित् महापरिणाम इति... परमेव चेद् ब्रह्म जीवस्तस्माद् यावत् परं ब्रह्म तावानेव जीवो भवितुमर्हति । परस्य ब्रह्मणो विभुत्वमाम्नातम् । तस्माद् विभुर्जीवः (ब्र० सू० २/३/१९-२९ शा० भा०) । जीवस्य प्राज्ञत्वं तैजसत्वं हिरण्यगर्भत्वं च । यथा - प्राज्ञस्तत्राभिमानेन तैजसत्त्वं प्रपद्यते । हिरण्यगर्भतामीशस्तयोर्व्यष्टिसमष्टिता (प० द० १ । २४) । अत्र श्रीरामकृष्णटीका- एवं सूक्ष्मशरीरममिधाय तदमिमानित्वप्रयुक्तं प्राज्ञेश्वरयोरवस्थान्तरं दर्शयति प्राज्ञ इति । प्राज्ञो मलिनसत्त्वप्रधानाविद्योपाधिको जीवः । तत्र तेजः शब्दवाच्यान्तःकरणोपलक्षितलिङ्गशरीरे अभिमानेन तादात्म्याभिमानेन तैजसत्वं तैजसात्मकत्वं प्रपद्यते प्राप्नोति । कोशोपाधिविवक्षायां याति ब्रह्मैव जीवताम् । पिता पितामहश्चैकः पुत्रपौत्रो यथा प्रति (प० द० ३।४१) । चैतन्यं यदधिष्ठानं लिहश्च यः पुनः । चिच्छाया लिङ्गदेहस्था तत्सङ्गो जीव उच्यते (त० ४।४१) । आत्माभासस्य जीवस्य संसारो नात्मवस्तुनः । इति बोधो भवेद् विद्या लभ्यतेऽसौ विचारणात् (त० ६ /११) । कूटस्थे कल्पिता बुद्धिस्तत्र चित्प्रतिबिम्बकः । प्राणानां धारणाज्जीवः संसारेण स युज्यते (त० ६।२३) । अधिष्ठानांशसंयुक्तं भ्रमांशमवलम्बते । यदा तदाहं संसारीत्येवं जीवोऽभिमन्यते (त० ७१७) । भ्रमांशस्य तिरस्कारादधिष्ठानस्य प्रधानता । यदा तदा चिदात्माहमसङ्गोऽस्मीति बुद्ध्यते (त० ७।१०) । नासङ्गेऽहकृतिर्युक्ता कथमस्मीति चेच्छृणु । एको मुख्यो द्वावमुख्यावर्थस्त्रिविधोऽहमः (त० ७।९) । अन्योन्याध्यासरूपेण कूटस्थाभासयोर्वपुः । एकीभूय भवेन्मुख्यस्तत्र मूढैः प्रयुज्यते (त० ७।१०) । पृथगाभासकूटस्थावमुख्यौ तत्र तत्त्ववित् । पर्यायेण प्रयुङ्क्तेऽहं शब्दं लोके च वैदिके(त० ७।११) । असङ्गोऽहं चिदात्माहमिति शास्त्रीयदृष्टितः । अहं शब्दः प्रयुङ्क्तेऽयं कूटस्थे केवले बुधः (त० ७ । १३) । तस्मादाभासः पुरुषः स कूटस्थो विविच्यताम् । कूटस्थोऽस्मीति विज्ञातुमर्हतीत्यभ्यधाच्छ्रुतिः (त० ७।१८) । जीवस्यैकत्वमनकेत्वं च । यथा - तस्य च मायोपाध्यपेक्षयैकत्वम्, अन्तःकरणोपाध्यपेक्षया च नानात्वं व्यवह्रियते । एतेन जीवस्याणुत्वं प्रत्युक्तम् । बुद्धेर्गुणेनात्मगुणेन चैव ह्याराग्रमात्रो ह्यवरोऽपि दृष्टः (श्वे० ५।८) । इत्यादौ जीवस्य बुद्धिशब्दवाच्यान्तःकरणपरिमाणोपाधिकस्य परमाणुत्वश्रवणात् । स च जीवः स्वयं प्रकाशः । स्वप्नावस्थामधिकृत्य अत्रायं पुरुषः स्वयं ज्योतिः (बृ० ४ । ३ ।८) । इति श्रुतेः । अनुभवरूपश्च प्रज्ञानघनः (मा० ५) इति श्रुतेः । अनुभवामीति व्यवहारस्तु वृत्तिप्रतिबिम्बितचैतन्यमादायोपपद्यते । (वे० प० ७५०) एकजीववादे अविद्याप्रतिबिम्बो जीवः अनेकजीववादेऽन्तःकरणप्रतिबिम्बः । यथा - बिम्बप्रतिबिम्बकल्पनोपाधिश्चैकजीववादे अविद्या अनेकजीववादे तु अन्तःकरणान्येव । अविद्यान्तः करणरूपोपाधिप्रयुक्तो जीवपरभेदः इति पूर्वमुक्तम् । अविद्यायाः आश्रयः कः इति विषये पक्षद्वयम् । भामतीप्रस्थाने अविद्याया आश्रयो जीवः विषयश्च ब्रह्मेति । यथा अन्तःकरणाद्यवच्छिन्नः प्रत्यगात्मा इदमनिदंरूपश्चेतनः कर्ता भोक्ता कार्यकारणाविद्याद्वयाधारः अहङ्कारास्पदं संसारी सर्वानर्थसम्भारभाजनं जीवात्मा (ब्र० सू० अध्यासभाम०) । यथा च - नाविद्या ब्रह्माश्रया किन्तु जीवे सा त्वनिर्वचनीया (ब्र० सू०१।१।४ भाम०) । एतच्च ब्र० सू० १/१/४, १/२/१, १९४१, १/४/६ भामत्यां बहु विवृतम्। विवरणप्रस्थाने - मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरमिति श्वेताश्वतरोपनिषच्छ्रुत्या आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः इति संक्षेपशारीरकवचनेनोपपत्त्या च स्वरूपचैतन्यमेवाविद्याश्रयः न तु जीवः । जीवत्वस्याज्ञानाश्रयतावच्छेदकत्वेऽन्योन्याश्रयदोषात् । सिद्धान्तविन्दौ प्रथमश्लोके श्रीमधुसूदनसरस्वतीभिः श्रीपद्मपादाचार्यवाचस्पतिमिश्र श्रीसर्वज्ञात्ममुनीनां त्रयाणामपि एतद्विषयकः पक्षः साधूपावर्णितः। जीवेश्वरयोर्न स्वामिभृत्यवत् सम्बन्धो न वा वह्निस्फुलिङ्गवद् अंशांशिभावः । निरतिशयोपाधिसम्पन्न ईश्वरो निहीनोपाधिसम्पन्नाञ्जीवान् प्रशास्तीति रीत्या ईशित्रीशितव्यवहारस्तथा भेदाभेदावगमाभ्यामंशत्वावगश्च भवतः । ईश्वरस्य निरवयवत्वाच्च जीवो नांशः । यथा- पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि (छा० ३।१२।६) इति । अत्र भूतपदेन जीवप्रधानानि स्थावरजङ्गमानि निर्दिशति । अंशः पादो भागा इत्यनर्थान्तरम् । तस्मादंशत्वावगमः। यत्तूक्तं स्वामिभृत्यादिष्वेवेशित्रीशितव्यभावो लोके प्रसिद्ध इति । यद्यप्येषा लोकप्रसिद्धिस्तथापि शास्त्रात् त्वंशांशित्वमीशित्रीशितव्यभावश्च निश्चीयते । निरतिशयोपाधिसम्पन्नश्चेश्वरो निहीनोपाधिसम्पन्नाञ्जीवान् प्रशास्तीति न किञ्चिद् विप्रतिषिध्यते । भेदाभेदावगमाभ्यामंशत्वं सिध्यतीत्युक्तम् ।..... न च निरवयवस्य ब्रह्मणोंऽशो जीवः सम्भवतीत्युक्तम् (ब्र० सू० २।३।४४,४५,४६) । जीवः कर्म कर्तुं स्वतन्त्रः । ईश्वरश्च जीवकृतप्रयत्नं धर्माधर्मलक्षणमपेक्ष्य कारयति प्रेरयति । तेन वैषम्यनैर्घृण्यादिदोषा ईश्वरे न प्रसरन्ति । यथा - यदिदमविद्यावस्थायामुपाधिनिबन्धनं कर्तृत्वं जीवस्याभिहितम् तत् किमनपेक्ष्येश्वरं भवत्याहोस्विदीश्वरापेक्षमिति भवति विचारणा । ... कृतो यः प्रयलो धर्माधर्मलक्षणस्तदपेक्ष एवैनमीश्वरः कारयति । ततश्चैते दोषा न प्रसज्यन्ते । जीवकृतधर्माधर्मवैषभ्यापेक्ष एव तत्तत्फलानि विषमं विभजेत् पर्जन्यवदीश्वरो निमित्तत्वमात्रेण । …... स्वस्ववीजेभ्यो जायमानानां साधारणं निमित्तं भवति पर्जन्यः । एवं जीवकृतप्रयलापेक्ष ईश्वरस्तेषां शुभाशुभं दिति श्लिष्यते ( ब्र० सू० २।३।४१,४२)। जीवानामुत्पत्तिस्तथा प्रलयो न भवतः । यथा - यथाग्रेः क्षुद्रा विस्फुलिङ्गान्युच्चरन्त्येवमेव अस्मादात्मनः सर्वे प्राणा (बृ० २।१।२०) ... यथा सुदीप्तात् पावकात् विस्फुलिङ्गाः । (मु० २।१ ।१ ) यथा च - सुदीप्तात् पावकात् इति ब्रह्मणो जीवानामुत्पत्तिं च तत्राप्ययं च साक्षाद् दर्शयति न जीवो म्रियते (छा० ६।११।३) (ब्र० सू० २।३।१७ भामती) । यथा च - स वा एष महानज आत्मा अजरोऽमरोऽमृतोऽभयो ब्रह्म (बृ०४।४।२५) । यथा - यदपि क्वचिदस्योत्पत्तिप्रलयश्रवणं तदप्यत एवोपाधिसम्बन्धान्नेतव्यम् । उपाध्युत्पत्त्यास्योत्पत्तिस्तप्रलये च प्रलयः इति (ब्र० सू० २ ।३।१७ शा० भा० ) । यथा च - विकारात्मकत्वे हि जीवस्याभ्युपगम्यमाने विकारस्य प्रकृतिसम्बन्धे प्रलयप्रसङ्गान्न तज्ज्ञानादमृतत्वमवकल्प्येत । अतश्च स्वाश्रयस्य नामरूपस्यासम्भवादुपाध्याश्रयं नामरूपं जीव उपचर्यते । अत एवोत्पत्तिरपि जीवस्य क्वचिदग्निस्फुलिङ्गोदाहरणेन श्राव्यमाणोपाध्याश्रयैव वेदितव्या (ब्र० सू० १/४/२२ शा० भा० ) । यथा च - न जीवः आत्मनोऽन्यः, नापि तद्विकारः किन्त्वात्मैवाविद्योपाधानकल्पितावच्छेदः आकाश इव घटमणिकादिकल्पितावच्छेदो घटाकाशो मणिकाकाशो न तु परमाकाशादन्यस्तविकारो वा ततश्च जीवात्मनोपक्रमः परमात्मनैवोपक्रमस्तस्य ततोऽभेदात् (अत्र सूत्रे भाम०) । यथा च - न च तेज प्रभृतीनां सृष्टौ जीवस्य पृथक् सृष्टिः श्रुता । येन परस्मादात्मनोऽन्यस्तद्विकारो वा जीवः स्यात् । काशकृत्स्नाचार्यस्याविकृतः परमेश्वरो जीवो नान्य इति मतम् । आश्मरथ्यस्य तु यद्यपि जीवस्य परस्मादनन्यत्वमभिप्रेतम्, तथापि प्रतिज्ञासिद्धेरिति सापेक्षत्वाभिधानात् कार्यकारणभावः कियानप्यभिप्रेत इति गम्यते । औडुलोमिमते पुनः स्पष्टमेवावस्थान्तरापेक्षौ भेदाभेदौ गम्येते । तत्र काशकृत्स्नीयं मतं श्रुत्यनुसारीति गम्यते । प्रतिपिपादयिषितार्थानुसारात् तत्त्वमसि इत्यादिश्रुतिभ्यः (तत्रैव शा० भा० ) । श्रीशङ्कराप्राक्तन आचार्यः श्रीब्रह्मदत्तो जीवस्य जन्म मनुते । तत्त्वमुक्ताकलापग्रन्थे आचार्यवेङ्कटदेशिको ब्रङ्कदत्तमतमेवं सूचितवान् - एकं ब्रह्मैव नित्यं तदितरदखिलं तत्र जन्मादिभाग् इत्याम्नातम् । तेन जीवोऽपि अचिदिव जनिमान् (त० मु० क० २।१६) । अत्रैव वृत्तौ सर्वार्थसिद्धौ उक्तम्- आत्मानित्यत्ववादिनश्चतुर्विधाः । तेषु ज्ञानात्मवादिनश्शरीरस्थितावात्मनो भिदुरत्वमाहुः प्राणेन्द्रियात्मवादिनः आत्मानम् आशरीरस्थायिनम् पौराणिकैकदेशिनस्तु प्रलयान्तम् औपनिषदाभासास्तु मोक्षावधिम् (त० मु० क० स० सि० वृ० २/१७) । अत्र औपनिषदाभासाः इति पदेनाचार्यब्रह्मदत्तोऽभिप्रेतः । अतः पूर्वमपि जीवजन्मसिद्धान्त आसीत् । यथा तोयेन जीवान् व्यससर्ज भूम्याम् (महानारायणोपनिषदि १।४) । यथा च प्रकृतिर्या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि (विष्णुपुराणे ६।४।२९) । यथा च आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना । आत्मना कृतिना च त्वमात्मन्येव प्रलीयते (कुमारसम्भवे २ । १०) । यथा च - यथा सुदीप्तात्पावकाद् विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाक्षराद् विविधाः सौम्यभावाः प्रजायन्ते तत्र चैवापयान्ति (ब्र० सू० १/१/२० श्रीभाष्ये) । प्रत्यभिज्ञादर्शनेऽ पिकेचन जीवजन्म मन्यन्ते । जीवघनः, जीवघनः जीवानां संघातः ब्रह्मलोको वा । यथा - स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते। .... कस्तर्हि जीवघन इति उच्यते- घनो मूर्त्तिः । जीवलक्षणो घनो जीवघनः । सैन्धवखिल्यवद् यः परमात्मनो जीवरूपः खिल्यभाव उपाधिकृतः परश्च विषयेन्द्रियेभ्यः सोऽत्र जीवघन इति । अपर आह - स सामभिरुन्नीयते ब्रह्मलोकम् इत्यतीतानन्तरवाक्यनिर्दिष्टो यो ब्रह्मलोकः परश्च लोकान्तरेभ्यः सोऽत्र जीवघन इत्युच्यते । जीवानां हि सर्वेषां करणपरिवृतानां सर्वकरणात्मनि हिरण्यगर्भे ब्रह्मलोकनिवासिनि संघातोपपत्तेर्भवति ब्रह्मलोको जीवघन: ( ब्र० सू० १।३।१३ शा० भा०) । तदिदमुक्तम् न चात्र जीवघनशब्देन प्रकृतोभिध्यातव्यः परः पुरुषः परामृष्यते । किन्तु जीवघनात् परात् परो यो ध्यातव्यो द्रष्टव्यश्च तमेव कथयितुं जीवघनो जीवः खिल्यभावमुपाधिवशादापन्नः स उच्यते । स सामभिरून्नीयते ब्रह्मलोकम् इत्यनन्तरवाक्यनिर्दिष्टो ब्रह्मलोको वा जीवधनः । स हि समस्तकारणात्मनः सूत्रात्मनो हिरण्यगर्भस्य भगवतो निवासभूमितया करणपरिवृतानां जीवानां संघात इति भवति जीवघनः । तदेवं त्रिमात्रौंकारायतनं परमेव ब्रह्मोपास्यम् । अत एवास्य देशविशेषाधिगतिः फलमुपाधिमत्त्वात् । क्रमेण च सम्यग्दर्शनोत्पत्तौ मुक्तिः (तत्रैव भामती) । जीवजम्, जीवज जरायुजम् । यथा - आण्डजं जीवजमुद्भिजम् (छा० ६ । ३ । १ ) इत्यत्र तृतीयेनोद्भिजशब्देनैव स्वेदजोपसंग्रहः कृतः प्रत्येतव्यः । उभयोरपि स्वेदजोद्भिज्जयोर्भूम्युदकोद्भेदप्रभवत्वस्य तुल्यत्वात् (ब्र० सू० २।३।३१ शा० भा०)। जीवजं जरायुजं संशोकजं संस्वेदजम् (तत्रैव भामती) । जीवजं जरायुजम् । अण्डजं हि किञ्चिद्वृश्चिकादि मातुरुदरं निर्भिद्य मृताज्जायते । उद्भिजं तु किञ्चिद् वृक्षाद्यचेतनं पृथिव्याद्युद्भिद्य जायते । जरायुजं तु जीवतो जायते (तत्रैव वे० क०) । अण्डजमित्यादि विभागो न युक्तः, अण्डजादीनामपि जीवजत्वादित्याशक्य यज्जीवदवस्थाज्जायते तज्जीवजं विवक्षितम् । अण्डजादिकं तु किंचिन्मृतादेव जायते (तत्रैव क० त०) । जीवधर्मः, जीवधर्म जीवस्य रागादिः जन्मादिबन्धनम् अस्वातन्त्र्यं च । यथा - रागादिर्बन्धनमस्वातन्त्र्यं दुःखमेव दुःखता प्रतिकूलवेदनीयो रजःपरिणाम इति जीवधर्माः (सं० शा० मं० श्लो० सु० टी०) । जीवन्मुक्तः,जीवन्मुक्त प्रारब्धकर्मवशात्सत्यपि देहे ब्रह्मनिष्ठो ब्रह्मसाक्षात्कारवान् । यथा - जीवन्मुक्तो नाम स्वस्वरूपाखण्डब्रह्मज्ञानेन तदज्ञानबाधनद्वारा स्वस्वरूपाखण्डब्रह्मणि साक्षात्कृतेऽज्ञानतत्कार्यसञ्चितकर्मसंशयविपर्ययादीनामपि बाधितत्वादखिलबन्धरहितो ब्रह्मनिष्ठ: (वे०सा०) । यथा च प्रारब्धकर्म वेगानुरोधादेव बाधितानुवृत्तिः सिद्ध्यति । तत्क्षये तु हेत्वभावादनारम्भे विदेहकैवल्यं भवत्येवेत्यर्थः (सं० शा० ४/४५ सु० टी० ) । यथा च - असंमूढनिदिध्यासनस्य विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहस्य परिपाकेन विपरीतभावनाख्यसम्मोहरहितः ततः सर्वप्रतिबन्धापगमाद् ब्रह्मविद् ब्रह्मसाक्षात्कारवान् ततश्च समाधिपरिपाकेन निर्दोषे समे ब्रह्मण्येव स्थितो नान्यत्रेति जीवन्मुक्त स्थितप्रज्ञ इत्यर्थः (गी० ५/२० म० सू०) । यथा चअयं व्युत्त्थानसमये मांसशोणित..... भाजनेन शरीरेण .... इन्द्रियग्रामेण ... पूर्वपूर्ववासनया क्रियमाणानि कर्माणि भुज्यमानानि ज्ञानाविरुद्धारब्धफलानि च पश्यन्नपि बाधितत्वात् परमार्थतो न पश्यति । यथेन्द्रजालमिदमिति ज्ञानवाँस्तदिन्द्रजालं पश्यन्नपि परमार्थमिदमिति न पश्यति । सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव इत्यादिश्रुतेः । उक्तं चसुषुप्तवज्जाग्रति यो न पश्यति द्वयं च पश्यन्नपि चाद्वयत्वतः । तथा च कुर्वन्नपि निष्क्रियश्च स आत्मविन्नान्य इतीह निश्चयः इति (वे० सा० जी० मु० प्र०) । जीवन्मुक्तिः, जीवन्मुक्तिः प्रारब्धकर्मवशाद् देहे सत्यपि ब्रह्मसाक्षात्कारवतः स्वस्वरूपावस्थितिः । अपरं जीवन्मुक्तवत् । प्रारब्धकर्मसमाप्त्यनन्तरं विदेहकैवल्यम् । जीवसाक्षि, जीवसाक्षिन् अन्तःकरणोपहितं चैतन्यम्- जीवसाक्षि । मायोपहितं चैतन्यम्ईश्वरसाक्षि । यथा - तच्च प्रत्यक्षं पुनर्द्विविधं जीवसाक्षि ईश्वरसाक्षि च । तत्र जीवो नामान्तःकरणावच्छिन्नं चैतन्यम् । तत्साक्षि तु अन्तःकरणोपहितं चैतन्यम् । अन्तःकरणस्य विशेषणत्वोपाधित्वाभ्यामनयोर्भेदः । विशेषणं च कार्यान्वयि व्यावर्तकम् । उपाधिश्च कार्यानन्वयी व्यावर्तको वर्तमानश्च । रूपविशिष्टो घटोऽनित्य इत्यत्र रूपं विशेषणम् । कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रमित्यत्र कर्णशष्कुल्युपाधिः ।अयमेवोपाधिनैयायिकैः परिचायक इत्युच्यते । प्रकृते चान्त करणस्य जडतया विषयभासकत्वायोगेन विषयभासकचैतन्योपाधित्वम् । अयं च जीवसाक्षी प्रत्यात्मं नाना एकत्वे मैत्रावगते चैत्रस्याप्यनुसन्धानप्रसङ्गः । ईश्वरसाक्षि तु मायोपहितं चैतन्यम् । तच्चैकम् । तदुपाधिभूतमायाया एकत्वात् (वे० प० १ प०) । यथा च अथ कोऽयं साक्षी जीवातिरेकेण व्यवह्नियते । अत्रोक्तं कूटस्थदीपे देहद्वयाधिष्ठानं कूटस्थचैतन्यं स्वावच्छेदकस्य देहद्वयस्य साक्षादीक्षणात् निर्विकारत्वाच्च साक्षीत्युच्यते । लोकेऽपि हि औदासीन्यबोधाभ्यामेव साक्षित्वं प्रसिद्धम् ।.... तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति (श्वे० ३।४।६) इति कर्मफलभोक्तुर्जीवात् उदासीनप्रकाशरूपस्य साक्षिणः पृथगाम्नातत्वाच्च । नाटकदीपेऽपि नृत्यशालास्थदीपदृष्टान्तेन साक्षी जीवाद् विविच्य दर्शितः ।.....कूटस्थचैतन्यात्मा साक्षी । एवं जीवाद् विवेचितोऽयं साक्षी न ब्रह्मकोटिरपि किं त्वस्पृष्टजीवेश्वरविभागं चैतन्यमित्युक्तं कूटस्थदीपे । तत्त्वदीपिकायामपि ... विशुद्धं ब्रह्म जीवाभेदेन साक्षीति प्रतिपद्यते इत्युदितम् । कौमुद्यां तु एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च (श्वे० उ० ६।११) इति देवत्वादिश्रुतेः परमेश्वरस्यैव रूपभेदः कश्चिद् जीवप्रवृत्तिनिवृत्त्योरनुमन्ता स्वयमुदासीनः साक्षी नाम । तत्त्वशुद्धावपि इत्युक्त्या अयमेव पक्षः समर्थितः । केचित्तु अविद्योपाधिको जीव एव साक्षाद् द्रष्टृत्वात् साक्षी । लोकेऽपि ह्यकर्तृत्वे सति द्रष्टृत्वं साक्षित्वं प्रसिद्धम् । तच्चासङ्गोदासीनप्रकाशरूपे जीव एव साक्षात् सम्भवति । जीवस्यान्तःकरणतादाल्यापत्त्या कर्तृत्वाधारोपभाक्त्वेऽपि स्वयमुदासीनत्वात् । एको देव इति मन्त्रस्तु ब्रह्मणो जीवाद्यभिप्रायेण साक्षित्वप्रतिपादकः । द्वा सुपर्णा इति (मु० उ० ३ । १ । ३) मन्त्रः गुहाधिकरणन्यायेन जीवेश्वरोभयपरः गुहाधिकरणभाष्योदाहृतपैङ्गिरहस्यब्राह्मणव्याख्यातेन प्रकारेण जीवान्तःकरणोभयपरो वा इति न कश्चिद्विरोध इत्याहुः । अन्ये तु सत्यं जीव एव साक्षी न तु सर्वगतेन अविद्योपहितेन रूपेण । पुरुषान्तरान्तःकरणादीनामपि पुरुषान्तरं प्रति स्वान्तःकरणभासकसाक्षिसंसर्गाविशेषेणप्रत्यक्षत्वापत्तेः ।... तस्मादन्तःकरणोपधानेन जीवः साक्षी । ... अन्तःकरणविशिष्टः प्रमाता तदुपहितः साक्षी इति भेदोपपत्तेरित्याहुः (सि० ले० सं० प्र० प० ) । जीवाणुत्वम्, जीवाणुत्व जीवो ब्रह्माभिन्नः स्वत एकोऽनेको वा व्यापकोऽव्यापकश्चेति अद्वैतवेदान्तिनां मतम् । स च मध्यमपरिमाण: नाणुपरिमाणः । इदं च मध्यमपरिमाणत्वमौपाधिकमेव । अत्रोपाधिरन्तःकरणम् । जीवस्यान्तःकरणोपाधिकत्वात् । अत एव अगुष्ठमात्रः पुरुषः आराग्रमात्र इत्यादिपदमन्तःकरणपरिमाणबोधकत्वेनोपपद्यते । यथा - तस्य च मायोपाध्यपेक्षयैकत्वम् । अन्तःकरणोपाध्यपेक्षया च नानत्वं व्यवह्रियते । एतेन जीवस्याणुत्वं प्रत्युक्तम् । बुद्धेर्गुणेनात्मगुणेन चैव ह्याराग्रमात्रो ह्यवरोऽपि दृष्टः (श्वे० उ० ५/८) इत्यादौ जीवस्य बुद्धिशब्दवाच्यान्तः करणपरिमाणोपाधिकस्य परमाणुत्वश्रवणात् (वे० प० ७ १०) यथा च - सन्तु तर्हि अणव एवात्मानः, यदि विभुत्वे व्यवस्था न सुवचा । मैवम् आत्मनामणुत्वे कदाचित् सर्वाङ्गीणसुखोदयस्य करशिरश्चरणाधिष्ठानस्य चानुपपत्तेः । यदत्रार्वाचीनकल्पनम् उत्क्रान्तिगत्यागतिश्रवणान्यथानुपपत्त्या अणुह्येवैष आत्मा यं वा एते सिनीतः पुण्यं च पापं च - बालाग्रशतभागस्य (श्वे० उ० ४।९) इत्यादिश्रुतिषु साक्षादणुत्वश्रवणेन च अणव एव जीवाः । तेषामणुत्वेऽपि ज्ञानसुखादीनां प्रदीपप्रभान्यायेन आश्रयातिरिक्तप्रदेशविशेषव्यापिगुणतया न सर्वाङ्गीणसुखानुपलब्धिः । ... एवं च जीवानामणुत्वेनासङ्करात् सुखदुःखादिव्यवस्था विभोरीश्वराद्भेदश्च । शुद्धत्वं हि भेदस्य अंशांशिभावासहचरितत्वं वा अभेदासहचरितत्वं वा स्यात् । नाद्यः- ममैवांशो जीवलोके (गी० १५।७) अंशो नानाव्यपदेशादिति श्रुतिस्मृतिसूत्रैर्जीवस्य ब्रह्मांशप्रतिपादनेन ब्रह्मजीवयोर्भोगसाङ्कर्यप्रसङ्गात् ।.... तस्मात् परमते ब्रह्मजीवयोर्विभुत्वाणुत्वाणुत्वव्यवस्थित्यसिद्धेः। ततो भेदसिद्धिप्रत्याशा दूरादपनेया । अस्मन्मते ब्रह्मात्मैक्यपरमहावाक्यानुरोधेन अवान्तरवाक्यानां नेयत्वात्स्वरूपेण जीवस्य विभुत्वं औपाधिकरूपेण परिच्छेदः इत्युभयश्रुत्युपपादनं भाष्यादिषु व्यक्तम् । तत्सृष्ट्वा तदेवानुप्राविशत् (तै० उ० २।६) - गुहां प्रविष्टौ (क० उ० ३।१ ) तदणुत्वश्रुतयः उपासनार्था दुर्ग्रहत्वाभिप्राया वा नेयाः । प्रवेशश्रुतयश्च शरीराद्युपाधिना निर्वाह्याः । (सि० ले० सं० २ प० ) । जीवावस्था, जीवावस्था जीवस्य तिस्रोऽवस्थाः प्रसिद्धा एका चतुर्थी अपि भवतिजागरितं, स्वप्नः सुषुप्तिश्च शरीरादपसृतिश्च चतुर्थी । यथा- अतिमुग्धो नाम यं मूर्च्छित इति लौकिकाः कथयन्ति । स तु किमवस्थ इति परीक्षायामुच्यतेतिस्रस्तावदवस्थाः शरीरस्थस्य जीवस्य प्रसिद्धा- जागरितं स्वप्नः सुषुप्तमिति । चतुर्थी शरीरादपसृतिः । न तु पञ्चमी काचिदवस्था जीवस्य श्रुतौ स्मृतौ वा प्रसिद्धास्ति (ब्र० सू० ३।२।१ शा० भा०) । ज्ञप्तिः, ज्ञप्ति ज्ञानशब्दवदर्थः । ज्ञप्तिप्रत्यक्षम्, ज्ञप्तिप्रत्यक्ष प्रमाणचैतन्यस्य विषयावच्छिन्नचैतन्याभेद इत्यद्वैतमते । ज्ञप्तिप्रत्यक्षलक्षणम्, ज्ञप्तिप्रत्यक्षलक्षण चित्त्वम् । यथा - तत्र ज्ञप्तिगतप्रत्यक्षस्य सामान्यलक्षणं चित्त्वमेव । पर्वतो वह्निमानित्यादावपि वह्याद्याकारवृत्त्युपहितचैतन्यस्य स्वात्मांशे स्वप्रकाशतया प्रत्यक्षत्वात् (वे० प० १ प०) । इत्यद्वैतमते । ज्ञातता, ज्ञातता ज्ञातत्वम् = ज्ञाते घटे चिदाभासफलोदयः । यथा - आभासहीनया बुद्ध्या ज्ञातत्वं नैव जन्यते । तादृगूंबुद्धेर्विशेषः को मृदादेः स्याद् विकारिणः । (प० द० ८।८) ज्ञात इत्युच्यते कुम्भो मृदा लिप्तो न कुत्रचित् । धीमात्रव्याप्तकुम्भस्य ज्ञातत्वं नेष्यते तथा । (त० ९) ज्ञातत्वं नाम कुम्भेऽतश्चिदाभासफलोदयः । न फलं ब्रह्मचैतन्यं मानात् प्रागपि सत्त्वतः । (त० २२) एवं च सति किं फलितमित्यत आह - घट इति । बाह्ये घटे यथा घटमात्रावभासकश्चिदाभासः घटस्य ज्ञाततावभासकं ब्रह्मचैतन्यं चेति चैतन्यद्वैगुण्यं तथान्तरेऽहङ्कारादिवृत्तिष्वपि कूटस्थचैतन्यं वृत्त्यवभासकचिदाभासश्चेति द्विगुणचैतन्यमस्ति । ततः सन्धितः सन्धिभ्यस्तत्र वृतिषु वैशद्यमधिकं दृश्यत इति शेषः (तत्रैव रा० कृ० टी०) । २. मीमांसकभाट्टमते घटे ज्ञाते घटमहं जानामि इत्येवरूपो ज्ञातताधर्म उदेति । ३. मीमांसकप्राभाकराणां मते- यथा- भाट्टानां हि ज्ञातताख्या संवित् स्वप्रकाशा गुरूणां च घटादिज्ञानं तयोश्च संविदोर्व्युत्पादकम् (सं० शा० १ । २४६ सु० टी०) ।४. नैयायिकमते-घटे ज्ञाते घटविषयकज्ञानवानहमित्येवंरूपोऽनुव्यवसायो जायते । अधिकं तु अनुव्यवसायशब्दे द्रष्टव्यम् । ज्ञानम्, ज्ञान १. आत्मानात्मसर्वपदार्थबोधः । यथा - ज्ञानमात्मादिपदार्थानामवबोधः (गी० १०।४ शा० भा०) । ज्ञानमात्मानात्मसर्वपदार्थावबोधः । (तत्रैव म० सू०) । यथा च - ज्ञानं शास्त्रत आचार्यतश्चात्मादिपदार्थानामवगमः (गी० १६।१ शा० भा०) । ज्ञानं श्रवणादिजन्यम् (तत्रैव नी० क०) । ज्ञानं शास्त्रादाचार्याच्चात्मादिपदार्थानामवगमः (तत्रैव भाष्यो०)। ज्ञानमात्मसाक्षात्कारः (तत्रैव म० सू० ) । ज्ञानं भगवत्तत्त्वसाक्षात्कारः (गी० ७।२६ शा० भा०) । ज्ञानी तत्त्वज्ञानवान् (गी०६।१७ म० सू०) । ज्ञानमत्र शास्त्रार्थपाण्डित्यम् (गी० ६।४६ शा० भा०) । ज्ञानेनात्मेश्वरैकत्वदर्शनलक्षणेन (गी०४।४१ शा० भा०) । ज्ञानमौपदेशिकं विज्ञानमपरोक्षानुभवः (गी० ६।८ श्रीधरी) । ज्ञानशास्त्रीयं विज्ञानमनुभवः (गी० ७ १२ श्रीधरी) । ज्ञानयोगे आत्मज्ञानोपाये व्यवस्थितिः परिनिष्ठा (तत्रैव श्रीधरी) । २. बुद्धिः - ज्ञानं शास्त्रोपदेशजा बुद्धिः (गी० ६।८ नी० क०) । ३. पदार्थबोध:- ज्ञानं ज्ञाप्तिरर्थपरिच्छितिः (गी० २।१ आ० टी०) । ४. आत्मनः शक्तिः- यथात्मा वेद्यं घटादिकं स्वं चावगतिसमर्थज्ञानाख्यगुणयोगात् साधयति । आत्मकार्यव्यवहारसहकारित्वाज्ज्ञानं शक्तिरित्युक्तम् (सं० शा० २।५४ सु० टी०) । ५. ब्रह्म तद्विषयं प्रमाणज्ञानं वाज्ञानं ब्रह्मचैतन्यं तद्विषयं वा प्रमाणज्ञानम् ( गी० ९।१ आ० गि०) । यथा चज्ञानं ज्ञप्तिमात्रस्वरूपं ब्रह्म (तत्रैव नी० क०) । यथा च - ज्ञानं शब्दप्रमाणकं ब्रह्मतत्त्वविषयकं ते तुभ्यं प्रवक्ष्यामि (तत्रैव म० सू०) । यथा च यत्तु इदं वक्ष्यमाणं तु पूर्वस्माद् ध्येयाद् विलक्षणं ज्ञेयं ज्ञानं ज्ञप्तिमात्रस्वरूपं ब्रह्म (तत्रैव भाष्यो०) । यथा च - तस्माद्वा एतस्माद् विज्ञानमयात् । अन्योऽन्यतर आत्मानन्दमयः (तै० २।५ इति) तत्र संशयः किमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते यठप्रकृतम् सत्यं ज्ञानमनन्तम् (तै० २।१० इति) । तस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्दमय इत्यर्थः । न च शरीरस्य सतः प्रियाप्रियसंस्पर्शो वारयितुं शक्यः । ...पर एवानन्दमयो भवितुमर्हति । कुतः अभ्यासात् । परस्मिन्नेव ह्यात्मन्यानन्दशब्दो बहुकृत्वोऽभ्यस्यते ( ब्र० सू० १/१/१२ शा० भा० ) । यथा च तच्च मद्विषयं ज्ञानं ते तुभ्यमहं सविज्ञानं विज्ञानसहितं स्वानुभवसंयुक्तं वक्ष्यामि कथयिष्याम्यशेषतः कार्येन (गी० ७।२ शा० भा०) । इदमपरोक्षं ज्ञानं चैतन्यम् (तत्रैव नी० क०) । इदं मद्विषयं स्वतोऽपरोक्षं ज्ञानमसम्भावनादिप्रतिबन्धेन फलमजनयत् परोक्षमित्युपचर्यते (तत्रैव म० सू०) । ज्ञानं शास्त्रीयं विज्ञानमनुभवस्तत्सहितम् । इदं मद्विषयम् (तत्रैव श्रीधरी ) । ६. ब्रह्मज्ञानं मानसी क्रिया न । यथा - ननु ज्ञानं नाम मानसी क्रिया । न । वैलक्षण्यात् । क्रिया हि नाम सा यत्र वस्तुस्वरूपनिरपेक्षेणैव चोद्यते पुरुषव्यापाराधीना च (ब्र० सू० १/१/४ शा० भा०) । यत्र विषये वस्तुस्वरूपनिरपेक्षेणैव चोद्यते । यथा सत्यं ज्ञानं मानसी क्रिया देवतासम्प्रदानकहविग्रहणे देवतावस्तुस्वरूपानपेक्षा देवता ध्यानक्रिया (तत्रैव भामती) । ६. गौणीवृत्त्या अन्तःकरणवृत्तिरपि ज्ञानम् । यथा ज्ञानावच्छेदकत्वाच्च वृत्तौ ज्ञानत्वोपचारः । तदुक्तं विवरणे अन्तःकरणवृत्तौ ज्ञानत्वोपचारादिति (वे० प० १ प०) । एवं च ज्ञानं द्विविधम् - वृत्तिरूपम्, तदवच्छिन्नवृत्तिप्रतिविम्बितचैतन्यरूपं च । अत्र प्रत्यक्षज्ञानमपि द्विविधम् - निर्विकल्पकं सविकल्पकं चेति । वस्तुमात्रद्योतकं निर्विकल्पकम्, संज्ञागुणादिद्योतकं सविकल्पकम् । आदिपदेन संकल्पसंशयभ्रान्तिस्मृतिसादृश्यनिश्चयाः ऊहोऽनध्यवसायः अनुभवश्च । अन्तःकरणस्य परिणामात्मिका वृत्तिः कथमुदेत्येतदर्थं वेदान्तपरिभाषाप्रत्यक्षपरिच्छेदे द्रष्टव्यम् । ८. सांख्यास्तु महत्तत्त्वापरपर्यायस्य बुद्धितत्त्वस्य परिणामविशेषो ज्ञानम् । अर्थात् अर्थाकारेण परिणताया बुद्धिवृत्तेश्चेतने प्रतिबिम्बनाद् विषयप्रकाशरूपं ज्ञानम् । तत्र पौरुषेयबोधे वृत्तिः करणं तथा वृत्तिरूपज्ञाने इन्द्रियाणि करणम् । योगविदस्तु बुद्धिवृत्तिनिरोधरूपो योगो ज्ञानम् । विज्ञानवादिबौद्धमते बाह्यार्थाभावाद् बुद्धिरेव अर्थाकारेण ज्ञानम् । ९. न्यायवैशेषिकमते- सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विविधा स्मृतिरनुभवश्च । संस्कारमात्रजन्यं ज्ञानं स्मृतिः । तद्भिन्नं ज्ञानमनुभवः । स द्विविधः- यथार्थोऽयथार्थश्च । तवति तप्रकारकोऽनुभवो यथार्थः । सैव प्रममेत्युच्यते । तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः सैवाप्रमेत्युच्यते । अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात् (त० सं० ) । १०. रामानुजीयास्तु ध्यानोपासनादिशब्दवाच्यं वेदनं ज्ञानम् (स० द० सं० रामा० ) ।११. ज्योतिः यथा ज्योतिरमृतं पूर्वोक्तविपरीतं दैवं स्वरूपम् । प्रकाशात्मकत्वाज्ज्ञानं ज्योतिः । तदेवामृतमविनाशात्मकत्वात् (बृ० उप० १।३।२८ शा० भा०) । ज्ञानकर्मसमुच्चयः, ज्ञानकर्मसमुच्चय परमपुरुषार्थस्य मोक्षस्य साधनं केवलं ज्ञानमथवा कर्मसमुच्चितं ज्ञानमित्यत्र आचार्याणां मतभेदः । शाङ्कराद्वैतिनो मोक्षसाधनं केवलं ज्ञानमिति मन्यन्ते । कर्मणा चान्तःकरणं शुद्धं सज्ज्ञानोपयोगि जायते तथा कर्मणा ब्रह्मजिज्ञासोत्पद्यते । ब्रह्मसाक्षात्कारे जाते सर्वं मिथ्येति विवेके उदिते कर्मणि न प्रवृतिरिति न ज्ञानकर्मसमुच्चय इति तेषां मतम् । अपरेऽनेके पुनः ज्ञानस्य कर्मणश्च समुच्चयः साहित्यं सहभावेन आश्रयणं मोक्षसाधनमिति स्वीकुर्वन्ति । ब्रह्मसूत्रे तृतीयाध्यायचतुर्थपादे एतत् सर्वं विमृष्टम् । पुरुषार्थोऽतः शब्दादिति बादरायणः (ब्र० सू० ३।४।१) इत्यत्र यथा- अस्माद्वेदान्तविहितादात्मज्ञानात् स्वतन्त्रात् पुरुषार्थः सिद्ध्यतीति बादरायण आचार्यो मन्यते । कुत एतदवगम्यते - शब्दादित्याह । तथा हि तरति शोकमात्मवित् (छा० ७।१।३) स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति (मु० ३।२।९) । ब्रह्मविदाप्नोति परम् (छा० ६।१४ । २) इति य आत्मापहतपाप्मा (छा० ८।७।१ ) इत्युपक्रम्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानाति (छा० ८।७।१ ) इति । आत्मा वा अरे द्रष्टव्यः (बृ० ४।५।६) इत्युपक्रम्य एतावदरे खल्वमृतत्वम् (बृ० ४/५/१५) इत्येवं जातीयका श्रुतिः केवलाया विद्यायाः पुरुषार्थहेतुत्वं श्रावयति (ब्र० सू० ३।४।१ शा० भा०) । अस्मिन्नधिकरणे शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनि: (ब्र० सू० १।४।२) आचारदर्शनात् (त० ३) तत्छ्रुतेः (त० ४) समन्वारम्भणात् (त० ५) तद्वतो विधानात् (त० ६) नियमाच्च (७) इति सूत्रैः पूर्वोक्तस्य शेषत्वात् पुरुषार्थवादः (ब्र० सू० ३/४/२) इत्यस्य व्याख्याने कृत्वा परमपुरुषार्थे विद्यायाः (ज्ञानस्य) न स्वातन्त्र्यमिति स्थूणानि खननन्यायेन प्रतिपाद्य अधिकोपदेशात्तु बादरायणस्यैवं दर्शनात् (ब्र० सू० ३/४/८) तुल्ये तु तद्दर्शनम् (त० ९) असार्वत्रिकी (त० १०) विभागः शतवत् (त० ११) अध्ययनमात्रवतः (त० १२) नाविशेषात् (त० १३) स्तुतयेऽनुमतिर्वा (त० १४) कामकारेण चैके (त० १५) उपमर्दं च (त० १६) उर्ध्वरेतःसु च· शब्दे हि (त० १७) इति सूत्रभाष्येषु कर्मासहकृतायाः केवलाया एव विद्यायाः परमपुरुषार्थहेतुत्वमाचार्यशङ्करेण प्रसाधितम् - उक्तं च - वेदान्तोदितात्मज्ञानपूर्विकां तु कर्माधिकारसिद्धिं प्रत्याशासानस्य कर्माधिकारोच्छितिरेव प्रसज्येत तस्मादपि स्वातन्त्र्यं विद्यायाः (ब्र० सू० ३/४/१६ शा० भा०) । एवमेव तस्मादपि स्वातन्त्र्यं विद्यायाः (ब्र० सू० ३।४।१७ शा० भा०) । यथा च - ईश्वरस्वरूपापरिज्ञानाद् बन्धस् तत्स्वरूपपरिज्ञानान्मोक्षः । (ब्र० सू० ३/२/५ शा० भा०) बृहदारण्यकोपनिषदः श्रीमद्भगवद्गीतायाश्च शाङ्करभाष्ये केवलं विद्याया एव मोक्षसाधनत्वमिति विशदं वर्णितम् । भामतीप्रस्थाने कर्मणः प्रयोजनं विवदिषा इति निरूपितम् । यथा- तमेतमात्मानं वेदानुवचनेन नित्यस्वाध्यायेन ब्राह्मणा विवदिषन्ति वेदितुमिच्छन्ति न तु विदन्ति । वस्तुतः प्रधानस्यापि वेदस्य प्रकृत्यर्थतया शब्दतो गुणत्वात् । इच्छायाश्च प्रत्ययार्थतया प्राधान्यात् प्रधानेन च कार्यसम्प्रत्ययात् । नहि राजपुरुषमानय इत्युक्ते वस्तुतः प्रधानोऽपि राजा पुरुषविशेषणतया शब्दत उपसर्जनः प्रतीयते अपि तु पुरुष एव शब्दतस्तस्य प्राधान्यात् । उत्पत्तौ ज्ञानस्य कर्मापेक्षा विद्यते विवदिषोत्पादनद्वारा विवदिषन्ति यज्ञेन इति श्रुतेः (ब्र० सू० 9 19 19 भाम०) । एवमेव प्रत्ययार्थप्राधान्यं विवदिषार्थत्वं च ब्र० सू० ३ । ३४ तथा ३ । ४ । ६ भामत्यामुक्तम् । विवरणप्रस्थाने कर्मणः प्रयोजनं विद्येति प्रतिपादितम् । यथा - अवान्तरवाक्यभेदेन विवदिषन्ति इति यज्ञादीनां ज्ञानसंयोगविधानात् (प० पा० वि० १ वर्णके) । यथा च - सर्वाण्येव कर्माणि उत्पत्तिविधिविहितानि संयोगभेदेन जीवनकामनाधधिकार विध्यन्तरवद् ब्रह्मानुभवकामो यज्ञादीनि अनुतिष्ठेत् इत्यधिकारान्तरविधिविधेयानि भविष्यन्तीत्याह- यज्ञेन दानेनेत्यादिना । आत्मतत्त्वापरोक्षानुभवस्तावदिष्यमाणतया स्वर्गादिना भावनासाध्योऽवगम्यते पुरुषार्थत्वात् । ... तच्च यज्ञादीनामिच्छोपसर्जनतयाऽऽख्याताभिहितभावनाकरतया अवगतानां साध्येनैव अन्वयाद् यज्ञादीनि ब्रह्मानुभवसाधनान्यवगतानि । ततश्च आत्मानुभवकामो यज्ञादीन्यनुतिष्ठेदिति विधिः परिणम्यते (प०प०वि० ३ व०) । यथा च - ननु विशुद्धिद्वारेण ज्ञानहेतुत्वे संस्कारविवदिषापक्षयोः को विशेषः । उच्यते - श्रवणमननध्यानाभ्यासादिसहकारिकारणसम्पत्तावेव संस्कारो विज्ञानं साधयति, तदभावे तु अभ्युदयमेव । विवदिषायां तु विज्ञानस्य कर्मफलत्वात् फलपर्यन्तं साधनानि सम्पाद्यापि विज्ञानं जनयन्तीति विशेष: (प० पा० वि० ३ व०) । एवमेव विवरणकारश्रीप्रकाशात्मस्वामिना शारीरकन्यायसंग्रहे सवपिक्षाधिकरणेयज्ञेन विवदिषन्तीति कर्मणा ज्ञानसाधनन्वं विधीयत इत्युक्तम् । अद्वैतवेदान्तिषु आचार्यब्रह्मदत्तो ज्ञानकर्मसमुच्चयमङ्गीकरोति । स एवमभिप्रैति यद् यथा कर्मकाण्डभागो विधिप्रधानस्तथैव ज्ञानकाण्डभागोऽपि विधिप्रधानः । किन्तु कर्मकाण्डभागे कर्मविधिरत्र ज्ञानकाण्डे उपासनाविधिरिति भेदः । तेनात्र तत्त्वमसि इत्यादिवाक्यानां न प्राधान्यं किन्तु आत्मा वा अरे इत्यादिविधिवाक्यानामेव प्राधान्यम् । वस्तुस्वरूपविज्ञानं विना भावना न भवितुमर्हति । भावना उपासना प्रसंख्यानं च एकमेव तत्त्वम् । अतो ब्रह्मस्वरूपावबोधकैस्तत्वमसि - इत्यादिवाक्यैर्वह्मस्वरूपबोधानन्तरम् आत्मा वा अरे इत्यादिवाक्यैर्भावना क्रियते । तेन तत्त्वमस्यादिवाक्यं केवलं ब्रह्मस्वरूपमात्रबोधकमज्ञाननिवृत्तिश्च भावनाजन्येन ज्ञानेनैव । अत आत्मा भावनाविधेयः । श्रीब्रह्मदत्तस्यैतन्मतं भगवता श्रीशङ्कराचार्येण इत्थमभ्यधायि- अपरे वर्णयन्ति उपासनेन आत्मविषयं विशिष्टं विज्ञानान्तरं भावयेत् तेनात्मा ज्ञायते । अविद्यानिवर्तकं च तदेव; नात्मविषयं वेदवाक्यजनितं विज्ञानमिति । एतस्मिन्नर्थे वचनान्यपि विज्ञाय प्रज्ञां कुर्वीत द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः सोऽन्वेष्टव्य स विजिज्ञासितव्य इत्यादीनि (बृ० आ० उ० १/७१ शा० भा०) । एतदुपरितनं मतं खण्डयन् भगवत्पादश्रीशङ्कराचार्यः कथयति- न अर्थान्तराभावात् । न च आत्मेत्येवोपासीत इत्यपूर्वविधिः। कस्मात् आत्मस्वरूपकथनानात्मप्रतिषेधवाक्यजनितविज्ञानव्यतिरेकेणार्थान्तरस्य कर्तव्यस्य मानसस्य बाह्यस्य वाभावात् । तत्र हि विधेः साफल्यं यत्र विधिवाक्यश्रवणमात्रजनितविज्ञानव्यतिरेकेण पुरुषप्रवृत्तिर्गम्यते । यथा दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत इत्यादौ (बृ० आ० उ० १।४।७ शा० भा०) । बृहदारण्यकभाष्यवार्त्तिकेऽपि एतन्निरस्तम् । यथा- नियोगपक्षमाश्रित्य विध्यर्थासम्भवो यथा । ऐकाम्यसिद्धौ यत्नेन तथात्र प्रतिपाद्यते (वृ० आ० उ० भा० सम्बन्धवा० ७९७)। अत्र आनन्दगिरिः स्पष्टयति- इह तु ब्रह्मदत्तादिमतेन ज्ञानाभ्यासे विधिमाशङ्क्य निरस्यते तन्न पुनरुक्तिरित्याह- नियोगेनेति । श्रीसुरेश्वराचार्येणापि नैष्कर्म्यसिद्धौ एतन्मतमुपन्यस्य निरस्तम् । यथा- एवमुपसंहृते केचित् स्वसम्प्रदायबलावष्टम्भादाहुः यदेतद् वेदान्तवाक्यादहं ब्रह्मेति विज्ञानं समुत्पद्यते तत्रैव स्वोत्पत्तिमात्रेण अज्ञानं निरस्यति । किं तर्हि अहन्यहनि द्राघीयसा कालेन उपासीनस्य सतः भावनोपचयात् निःशेषमज्ञानमपगच्छति देवो भूत्वा देवानप्येति इति श्रुतेः (नै० सि० १।६७) । अत्र ज्ञानामृतविरचितविद्यासुरभिटीकायां केचित् इत्यनेन श्रीब्रह्मदत्तो गृहीत इति स्पष्टीकृतम् । उपरितननैष्कर्म्यसिद्धिवाक्यस्यार्थं चन्द्रिकाटीकायां श्रीज्ञानोत्तम एवं स्पष्टयति - वाक्यजन्यज्ञानोत्तरकालीनभावनोत्कर्षाद् भावनाजन्यसाक्षात्कारलक्षणज्ञानान्तरेणैव अज्ञानस्य निवृत्तिः । ज्ञानाभ्यासदशायां ज्ञानस्य कर्मणा समुच्चयोपपत्तिरित्येकदेशिनां मतमुत्त्थाय निराकरोति- एवमुपसंहृत इत्यादिना । भेदाभेदवादी श्रीभर्तृप्रपञ्चोऽपि ज्ञानकर्मसमुच्चयवाद्यासीदिति बृ० आ० उ० भा० वा० १।४।४९० इत्यनेन तथा ब्र० सू० २/१/१४ शा० भा० अवगम्यते । आचार्यमण्डनमिश्रः प्रसंख्यानपक्षमङ्गीकृत्य ज्ञानकर्मसमुच्चयपक्षं स्वीकरोति। (प्रसंख्यानम्, भावना, उपासना,आवृत्तिः, आम्रेडितमेतत्सर्वं समानार्थकम् । भेदाभेदवादी आश्मरथ्याचार्यः आचार्य औडुलोमिश्च ज्ञानकर्मसमुच्चयं मन्येते । विज्ञानामृतभाष्यकर्ता विज्ञानभिक्षुर्मङ्गलाचरणश्लोकेन निर्जित्य ज्ञानकर्मभ्यां यान्तु श्रीमद्गुरोः पदमित्यनेनात्मानं ज्ञानकर्मपक्षपातिनमसूचयंत् । एवमेव द्वैताद्वैतवादी निम्बार्काचार्यस्तथा भेदाभेदवादी श्रीयादवाचार्योऽपि । विशिष्टाद्वैतवादिश्रीश्रीकण्ठाचार्यनिर्मिते ब्रह्मसूत्रभाष्येविद्यां चाविद्यां च यस्तद्वेदोभय .....सह तेनैति ब्रह्मवित् पुण्यकृच्च सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यमित्यादिना ज्ञानकर्मसमुच्चयवादिनी श्रुतिरुपलभ्यते (ब्र० सू०१।१।१ ) । अत्र व्याख्यानं कुर्वता श्रीमदप्ययदीक्षितेन लिखितम्- यदुपरितनपङ्क्तिभिः ज्ञानकर्मसमुच्चयपक्ष एव श्रुतिभ्यां प्रतिपादितमिति ज्ञानकर्मणोः समुच्चये प्रमाणमुपन्यस्यते । विवरणप्रमेयसंग्रहे प्रथमवर्णक लिखितं यद् भास्कराचार्यः ज्ञानकर्मसमुच्चयवादी स उपेक्षणीयः इति । विशिष्टाद्वैतिभास्कराचार्येण स्वीये ब्रह्मसूत्रभाष्ये सर्वापेक्षाच्च यज्ञादिश्रुतेरश्नवदिति सूत्रमुपन्यस्य ज्ञानकर्मसमुच्चयपक्षः समर्थितः। नारायणविशिष्टाद्वैतवादी श्रीरामानुजाचार्यः ब्रह्मसूत्रे 91919 श्रीभाष्ये ज्ञानकर्मसमुच्चयपक्षमित्थं समर्थितवान् - तदपेक्षितं च कर्मविज्ञानमेव । कर्मसमुच्चिताद् ज्ञानादपवर्गश्रुतेः । वक्ष्यति च सर्वापेक्षा च यज्ञादिश्रुतेरश्ववदिति । अपेक्षिते च कर्मण्यज्ञाते केन समुच्चयः केन नेति विभागो न शक्यते ज्ञातम् । अतस्तदेव पूर्ववृतम् । श्रीश्रीपतिराचार्यः स्वीये ब्रह्मसूत्रश्रीकरभाष्ये द्वा सुपर्णा सयुजा सखाया इति श्रुतिवाक्यमनुस्मृत्य जीवब्रह्मणोर्भेदमङ्गीकृत्य कर्मणा ज्ञानेन च परमपुरुषार्थं समर्थयति । श्री बल्लभाचार्यश्च ब्रह्मसूत्रस्य स्वीये अणुभाष्ये औपनिषदं ज्ञानं विना कर्म कर्मैव न भवति अपि तु कर्माभासं भवतीति प्रतिपादयति । यथा - औपनिषदज्ञानस्यापि कर्मोपयोगित्वं यदेव विद्यया करोति श्रद्धयोपनिषदा वा तदेव वीर्य्यवत्तरं भवति । अत एव ब्रह्मविदामेव जनकादीनां कर्मणि संर्वदैव सान्निध्यम्, अन्यथा आभासत्वमेव (ब्र० सू० १/१/१ अणुभाष्ये) । ज्ञानतपः, ज्ञानतप आत्मचिन्तनम् । यथा - ज्ञानतपसा ज्ञानमेव च परमात्मविषयं तपस्तेन ज्ञानतपसा (गी० ४।१० शा० भा०) । यथा च ज्ञानतपसा ज्ञानमयं तपः आलोचनं मम जन्मकर्मणोः स्वरूपस्य च निरन्तरं चिन्तनम् - यस्य ज्ञानमयं तप इति श्रुतिप्रसिद्धं ज्ञानतपस्तेन (तत्रैव नी० क०) । ज्ञानदीपः, ज्ञानदीप विवेकरूपः प्रकाशः । यथा- ज्ञानदीपेन विवेकप्रत्ययरूपेण भक्तिप्रसादस्नेहाभिषिक्तेन मद्भावनाभिनिवेशवातेरितेन ब्रह्मचर्यादिसाधनसंस्कारवत्प्रज्ञावर्त्तिना विरक्तान्त:करणाधारेण विषयव्यावृत्तचित्तरागद्वेषकलुषितनिवातापवारकस्थेन नित्यप्रवृत्तैकाग्ग्रध्यानजनितसम्यग्दर्शनभास्वता ज्ञानदीपेन इत्यर्थः (गी० १०/११ भा०) । यथा च ज्ञानरूपेण दीपेन (तत्रैव नी० क० ) । यथा - (ज्ञानम्) विवेकज्ञानम् (गी० ३।४० श्रीधर्याम्) । ज्ञानप्रक्रिया, ज्ञानप्रक्रिया अद्वैतवेदान्ते विषयावच्छिन्नचैतन्यस्य प्रमाणचैतन्येन सह अभेदस्तथा घटादिविषयावच्छिन्नचैतन्यस्य प्रमातृचैतन्यस्य चाभेदः । अन्तःकरण वृत्तिद्वारा विषयावच्छिन्नचैतन्यप्रमाणचैतन्ययोरभेदो जायते । वृत्तिश्च – यथा तत्र यथा तडागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति । तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा निर्गत्य घटादिविषयप्रदेशं गत्वा घटादिविषयाकारेण परिणमते स एव परिणामो वृत्तिरित्युच्यते (वे० प० १ प० ) । अत्र घटाद्यवच्छिन्नं चैतन्यं विषयचैतन्यम्, अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यम् । अन्तःकरणाच्छिन्नं चैतन्यं च प्रमातृचैतन्यम् । ज्ञानगतप्रत्यक्षत्वम्, विषयगतप्रत्यक्षत्वं द्वे च भवतः । ज्ञानगतप्रत्यक्षत्वस्य प्रयोजकं विषयावच्छिन्नचैतन्यस्य प्रमाणचैतन्यस्य च अभेदः । विषयगतप्रत्यक्षत्वस्य प्रयोजकं घटादिविषयावच्छिन्नचैतन्यस्य प्रमातृचैतन्यस्य चाभेदः । अनेन इन्द्रियजन्यज्ञानविषयस्य विषयप्रत्यक्षत्वमिति नैयायिकलक्षणं निरस्तम् । मनोरूपेन्द्रियजन्यतया अनुमितिज्ञानेऽतिव्याप्तेः । सांख्ययोगेऽपि अन्तश्चित्तस्य बहिर्विषयैः सह सम्बन्धार्थ चित्तवृत्तिरङ्गीक्रियते । यथा - इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात् तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् । फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः (पा० यो० सू० ७ व्या० भा०) । सांख्ययोगे प्रत्यक्षप्रमायां पञ्चपदार्था अपेक्ष्यन्ते प्रमाणम्, प्रमाप्रमाणम्, प्रमा, प्रमाता, साक्षी च । पौरुषेयबोधः प्रमा, (फलम्) । प्रमाकारणभूता अयं घट इति बुद्धिवृत्तिप्रमाप्रमाणम् । बुद्धिप्रतिबिम्बितं चेतनं प्रमाया आश्रयभूतं प्रमाता । बुद्धिवृत्तिप्रमायाः कारणभूतानीन्द्रियाणि प्रमाणम् । बुद्धिवृत्त्युपहितं शुद्धं चेतनं साक्षि । अद्वैतवेदान्ते सांख्ययोगे च उभयत्रापि - इन्द्रियद्वारा यत्र बुद्धिवृत्तिरुदेति तत्र प्रत्यक्षप्रमाणम् यत्र लिङ्गद्वारा बुद्धिवृत्तिरुदेति तत्रानुमानप्रमाणम् । पदज्ञानद्वारा यत्र बुद्धिवृत्तिरुदेति तत्रागमप्रमाणम् । न्यायमते यज्ज्ञानम् । (अयं घट इत्यादिज्ञानम्) व्यवसायज्ञानं तदेव सांख्ययोगे बुद्धिबोधः प्रमाणम् । यच्च घटमहं जानामीति ज्ञानं न्यायमतेऽ नुव्यवसायस्तदेवात्र पौरुषेयबोधः । न्यायवैशेषिकमते - विषयाः इन्द्रियैः संयुज्यन्ते इन्द्रियाणि मनसा, मनः आत्मना सह युज्यन्ते तथा प्रत्यक्षज्ञानम् । इन्द्रियार्थसन्निकर्षजन्यं प्रत्यक्षमिति लक्षणम् । एवमेव अनुमानादिज्ञाने । ज्ञानबलक्रिया, ज्ञानबलक्रिया ईश्वरस्य स्वातन्त्र्येण प्रवृत्यादि । यथा- ईश्वरस्य स्वरूपभूतं यज्ज्ञानं तस्य बलं स्वातन्त्र्याख्यं तेन ज्ञानबलेन क्रिया प्रवृत्त्यादिलक्षणा यस्याः सा (सं० शा० ३/१८४ अ० टी०) । यथा च ज्ञानमेव बलं क्रिया च तदनुग्रहादेवेति (तत्रैव सु० टी० ) । ज्ञानयोगः, ज्ञानयोग ज्ञानमेव योगः ब्रह्मसायुज्यकारणम् । यथा युज्यते ब्रह्मानेनेति योगः ज्ञानमेव योगः ज्ञानयोगः (गी० ३।३ भा०) । यथा च प्रवृत्त्या लक्ष्यते ज्ञायते कर्मयोगो निवृत्त्या च लक्ष्यते ज्ञानयोग इति विभागः (गी० ४ । १ आ० गि०) । निवृत्त्या लक्ष्यते ज्ञानयोग इति विभागः (तत्रैव आ० गि०) । ज्ञानलक्षणा प्रत्यासत्तिः, ज्ञानलक्षणा प्रत्यासत्ति ज्ञानलक्षणासन्निकर्षः । इदमत्रावधेयं प्रत्यक्षं द्विविधं लौकिकमलौकिकं च । संयोगसमवायादिषड्विधसन्निकर्षजन्यं प्रत्यक्षं लौकिकम् । अलौकिकसन्निकर्षजन्यं प्रत्यक्षमलौकिकम् । अलौकिकसन्निकर्षश्च त्रिविधःसामान्यलक्षणाप्रत्यासत्तिः ज्ञानलक्षणाप्रत्यासत्तिः योगजलक्षणाप्रत्यासत्तिश्च । तत्र सामान्यमेव लक्षणं यस्याः इति व्युत्पत्तिः । तेन विशेष्यतासम्बन्धेन घटप्रत्यक्षं प्रति समवायसम्बन्धेन घटत्वं कारणमिति पर्यवसितः कार्यकारणभावः । इत्थं घटत्वेन सर्वघटज्ञानम् । ज्ञानलक्षणाप्रत्यासत्तिरथवा ज्ञानलक्षणासन्निकर्षश्च इन्द्रियसंयुक्तमनःसंयुक्तात्मसमवेतस्मृतिविषयत्वरूपः । अत्र ज्ञानलक्षणसन्निकर्षेण (स्मरणेन) पूर्वज्ञातवस्तुनः अलौकिकप्रत्यक्षं जायते । यथा सुरभि चन्दनमिति चाक्षुषे चन्दनस्य चक्षुर्ग्राह्यत्वेऽपि सौरभस्य तदग्राह्यत्वात् पूर्वज्ञातस्य सौरभस्यालौकिकं प्रत्यक्षं भवति । एवं रज्जुसर्पादिबोधे सर्पत्वाद्युपस्थितिर्ज्ञानलक्षणसन्निकर्षादेव भवति । यतः सर्पत्वादौ चक्षुःसन्निकर्षो नास्ति । एवमेव यत्र धूमत्वेन धूलीपटलं ज्ञातं तत्र धूलीपटलस्यानुव्यवसाये भानं ज्ञानलक्षणसन्निकर्षेण भवति । योगजसन्निकर्षश्च योगेन चित्तवृत्तिनिरोधेन जातः सर्वज्ञत्वादिरूपः योगजः सन्निकर्षः । अनेन देशकालव्यवहितसूक्ष्मपदार्थविषयकं प्रत्यक्षं जायते । अयं च युक्तयोगियुञ्जानयोगिभेदेन द्विविधः सन्निकर्षः । सर्वदा सर्वविषयकज्ञानवान् युक्तस्तथा चिन्ताविशेषसहकारेण सर्वविषयकज्ञानवान् युञ्जान इति । एतन्नैयायिकवैशेषिकमतम् । अद्वैतवेदान्तिमते ज्ञानलक्षणसन्निकर्षो न मन्यते । प्रयोजनाभावाद् दोषसद्भावाच्च । यथा हि सुरभि चन्दनमित्यत्र अपरोक्षं परोक्षं च ज्ञानद्वयम् । चन्दनांशे अपरोक्षं सौरभांशे च परोक्षमिति ज्ञानद्वयम् । अत एव च पर्वते वन्यनुमाने पर्वतं पश्यामि वह्निमनुमिनोमीति अनुभवो भवति । अन्यथा न्यायवैशेषिकमते पर्वतमनुमिनोमीत्यनुव्यवसायापत्तिः स्यात् । यथा - न्यायमते तु पर्वतमनुमिनोमीत्यनुव्यसायापत्तिः । असन्निकृष्ट-पक्षकानुमितौ तु सर्वांशेऽपि ज्ञानं परोक्षम् । सुरभि चन्दनमित्यादिज्ञानमपि चन्दन-खण्डांशे अपरोक्षं सौरभांशे तु परोक्षम् । सौरभ्यस्य चक्षुरिन्द्रियायोग्यतया योग्यत्व-घटितस्य निरुक्तलक्षणस्याभावात् । न चैवमेकत्र ज्ञाने परोक्षापरोक्षत्वयोरभ्युपगमे तयोर्जातित्वं न स्यादिति वाच्यम् । इष्टत्वात् । जातित्वोपाधित्वपरिभाषायाः सकल-प्रमाणागोचरतया अप्रामाणिकत्वात् । घटोऽयमित्यादिप्रत्यक्षं हि घटत्वादिसद्भावे मानं न तु तस्य तस्य जातित्वेऽपि (वे० प० १ प०) । ज्ञानसाधनम्, ज्ञानसाधन ज्ञानं नाम आत्मानात्मसकलपदार्थबोध: । तच्च ज्ञानं परोक्षमपरोक्षं च । परोक्षज्ञानसाधनमनुमानोपमानश्रुत्याप्तशब्दादीनि । तत्र अपरोक्षज्ञानसाधनमिन्द्रियार्थसन्निकर्षः इति न्यायवैशेषिकपूर्वमीमांसकजैनबौद्धप्रभृतयः । बुद्धिवृत्तिरिति सांख्ययोगविदः। अद्वैतवेदान्तमते ज्ञानगतम् अपरोक्षं तथा विषयगतमपरोक्षं च भवति । ज्ञानगतापारोक्ष्ये प्रमाणचैतन्यस्य विषयावच्छिन्नचैतन्येन सहाभेदः साधनम् । घटादिविषयगतापारोक्ष्ये तु घटादेर्विषयस्य अन्तःकरणावच्छिन्नचैतन्यरूपप्रमात्रभिन्नत्वं साधनम् । यथा हि - सिद्धान्ते प्रत्यक्षप्रयोजकं किमिति चेत्, किं ज्ञानगतस्य प्रत्यक्षत्वस्य प्रयोजकं पृच्छसि किं वा विषयगतस्य । तथा हि त्रिविधं चैतन्यम् – विषयचैतन्यं प्रमाणचैतन्यं प्रमातृचैतन्यं चेति । तत्र घटाद्यवच्छिन्नं चैतन्यं विषय- चैतन्यम्, अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यमन्तःकरणावच्छिन्नं चैतन्यं प्रमातृचैतन्यम् । तत्र यथा तडागोदकं छिद्रान्तिर्गत्य कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति । तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा निर्गत्य घटादिविषयदेशं गत्वा घटादिविषयाकारेण परिणमते । स एव परिणामो वृत्तिरित्युच्यते । अनुमित्यादिस्थले तु नान्तःकरणस्य वह्न्यादिदेशगमनं वह्न्यादेश्चक्षुराद्यसन्निकर्षात् । घटादेविषयस्य प्रत्यक्षत्वं तु प्रमात्रभिन्नत्वम् ।.... तदयं निर्गलितोऽर्थः स्वाकारवृत्त्युपहितप्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्वशून्यत्वे सति योग्यत्वं विषयस्य प्रत्यक्षत्वम् (वे० प० १ प०) । अद्वैतवेदान्तमते यत्साक्षादपरोक्षाद् ब्रह्म (बृ० ३।४।१ ) श्रुतौ अपरोक्षादित्यस्य अपरोक्षमित्यथेन ब्रह्म अपरोक्षं मन्यते । तस्य साधनं श्री पद्मपादाचार्यानुयायिमते शब्दः, श्रीवाचस्पतिमिश्रानुयायिमते मनननिदिध्यासनसंस्कृतमन्तः करणम् । यथा- तच्च ज्ञानमपरोक्षरूपम् । परोक्षत्वेऽपरोक्षभ्रमनिवर्तकत्वानुपपतेः ॥ तच्चापरोक्षज्ञानं तत्त्वमस्यादिवाक्यादिति केचित् । मनननिदिध्यासनसंस्कृतादन्तःकरणादेवेत्यपरे । तत्र पूर्वाचार्याणामयमाशयः संविदापारोक्ष्यं न करणविशेषोत्पत्ति निबन्धनम् । किन्तु प्रमेयविशेषनिबन्धनमित्युपपादितम् । तथा च ब्रह्मणः प्रमातृजीवाभिन्नतया तद्गोचरं शब्दजन्यज्ञानमप्यपरोक्षम् । अत एव प्रतर्दनाधिकरणे प्रतर्दनं प्रति प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमुपास्व (कौ० ३।२) इतीन्द्रप्रोक्त-वाक्ये प्राणशब्दस्य ब्रह्मपरत्वे निश्चिते सति मामुपास्वेत्यस्मच्छब्दानुपपत्तिमाशङ्क्य तदुत्तरत्वेन प्रवृत्ते शास्त्रदृष्ट्या तूपदेशो वामदेववत् (ब्र० सू० १।१।३१) इत्यत्र सूत्रे शास्त्रीया दृष्टिः शास्त्रदृष्टिरिति तत्त्वमस्यादिवाक्यजन्यमहं ब्रह्मेति ज्ञानं दृष्टिशब्देनोक्तमिति । अन्येषां त्वयमाशयः करणविशेषनिबन्धनमेव ज्ञानानां प्रत्यक्षत्वम्, न विषयविशेषनिबन्धनम् । एकस्मिन्नेव सूक्ष्मवस्तुनि पटुकरणापटुकरणयोः प्रत्यक्षाप्रत्यक्षत्वव्यवहारदर्शनात् । तथा च संवित्साक्षात्वे इन्द्रियजन्यत्वस्यैव प्रयोजकतया न शब्दजन्यज्ञानस्यापरोक्षत्वम् । ब्रह्मसाक्षात्कारेऽपि मनननिदिध्यासनसंस्कृतं मन एव करणम् । मनसैवानुद्रष्टव्यमित्यादिश्रुतेः ।मनोऽगम्यत्वश्रुतिश्चासंस्कृतमनोविषया (वे० प० ८ १०) । यथा च एवं श्रवणमनननिदिध्यासनान्यपि ज्ञानसाधनानि (तत्रैव ) । अत्रापि श्रवणं प्रधानं मनननिदिध्यासने तदुत्तराङ्गे, इति विवरणाचार्यमतम्, निदिध्यासनस्यैव प्राधान्यं श्रवणमननयोरङ्गत्वमिति श्रीवाचस्पतिमतम् । ब्रह्मसूत्रस्य 91919 तथा ४।१।२ भामत्यामेवं पञ्चपादिकाविवरणस्य प्रथमवर्णके द्वितीयवर्णकं च विशेषतो द्रष्टव्यम् । एतद्विषये आचार्यब्रह्मदत्तश्रीमण्डनमिश्राभिप्रायज्ञानार्थं प्रसंख्यानशब्दस्तथा ज्ञानकर्मसमुच्चयशब्दस्तथा मम श्रीशङ्कराप्रागद्वैतवाद ग्रन्थोऽवलोकनीयाः । ज्ञानाकारता, ज्ञानाकारता ज्ञानं साकारं तथा निराकारं मन्यते । यस्मिन् दर्शने बाह्याः पदार्थाः सन्ति तत्र निराकारं ज्ञानम् । यत्र च बाह्याः पदार्थाः भवन्ति तन्मते ज्ञानं साकारम् । यथा - यदन्तर्ज्ञेयरूपं तद् बहिर्वदवभासते । सोऽर्थो विज्ञानरूपत्वात् प्रत्ययतयापि च । (आलम्बनपरीक्षायाम् ६ का०) सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तविज्ञानैर्दृश्येतेन्दाविवांद्वये ( प्रमाणविनिश्चयप्रमाणवार्तिकयोः) । यथा च - नासौ सुगताभिप्रायः । तस्य तु विज्ञानैकस्कन्धवाद एवाभिप्रेतः । तस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन रूपेणान्तःस्थ एव प्रमाणप्रमेयफलव्यवहारः सर्व उपपद्यते ।... अपि चानुभवमात्रेण साधारणात्मनो ज्ञानस्य जायमानस्य योऽयं प्रतिविषयं पक्षपातः स्तम्पज्ञानं कुड्यज्ञानं घटज्ञानं पटज्ञानमिति, नासौ ज्ञानगविषयमन्तरेणोपपद्यत इत्यवश्यं विषयसारूप्यं ज्ञानस्याङ्गीकर्तव्यम् । अङ्गीकृते च तस्मिन् विषयाकारस्य ज्ञानेनैवावरुद्धत्वादपार्थिका बाह्यार्थसद्भावकल्पना (ब्र० सू० २।२।२८ शा० भा० ) । ज्ञानाध्यासः, ज्ञानाध्यास प्रमाणदोषसंस्कारजन्या अन्यविधज्ञाने अन्यविधज्ञानस्य प्रतीतिः । यथा - प्रमाणदोषसंस्कारजन्मान्यस्य परात्मता । तधीश्चास्य इति हि द्वयमिष्टं मनीषिभिः ( स० द० सं०) । यथा च - कोऽयमध्यासो नाम । उच्यते स्मृतिरूपः परत्र पूर्वदृष्टावभासः (ब्र० सू० १1१1१ उपो० शा० भा०) । अत्र रत्नप्रभाटीकायाम् - अवभासनमवभासः शुक्तिरजतादिविषयकवृत्तिज्ञानम्, तथा अवभास्यते यत् यथा शुक्तिरजतादि । प्रथमव्युत्पत्तौ ज्ञानाध्यासः द्वितीयव्युत्पत्तौ अर्थाध्यासः । अध्यासो नाम अधिष्ठानविषमसत्ताकोऽवभासः । अथवा तदभाववति तप्रकारकोऽवभासः । यथा च - १. देहगतस्य गौरत्वस्य इन्द्रियगतस्य वधिरत्वस्य आत्मनि अध्यासः धर्माध्यासः । २. कर्तृत्वादिसहितस्य अन्तःकरणस्य धर्मिणः आत्मनि अध्यासः धर्मसहितधर्मिणोऽध्यासः । ३. शरीरादौ आत्मनस्तादाम्यसम्बन्धाध्यासः । ४. सम्बन्धसहितशरीराद्यनात्मनां पदार्थनामात्मन्यध्यासः । ५. आत्मनि आत्मनो न किन्तु आत्मनि अनात्मपदार्थस्वरूपाणामध्यासः । ६. अयोगोलकवह्निसदृशःआत्मानात्मनोः परस्पराध्यासः । ज्ञानी, ज्ञानिन् १.. कृतभगवत्तत्त्वसाक्षात्कारः । यथा - ज्ञानी च ज्ञानं भगवत्तत्त्वसाक्षात्कारस्तेन नित्ययुक्तो ज्ञानी तीर्यमाणो निवृत्तसर्वकामः (गी० ७।१७ शा० भा०) । यथा च - ज्ञानी तत्त्वज्ञानवान् (तत्रैव) । २. शास्त्रार्थज्ञाता । यथा – ज्ञानमत्र शास्त्रार्थपाण्डित्यं तद्वद्भ्योऽपि (गी०६।४६ शा० भा० ) । ज्ञानेन्द्रियम्, ज्ञानेन्द्रिय ज्ञानजनकेन्द्रियम् । तच्च पञ्च- श्रोत्रम्, त्वक्, चक्षुः, रसनम्, घ्राणम् । एतेषां देवता दिग्वातार्कप्रचेतोऽश्विनः । एतेषां विषयाश्च - शब्दस्पर्शरूपरसगन्धाः। मनस इन्द्रियत्वं नास्ति । मनोऽन्तःकरणम् । यथा - न चान्तः करणस्येन्द्रियतयाऽतीन्द्रियत्वात् कथमहमिति प्रत्यक्षविषयतेति । उच्यते- न तावदन्तःकरणमिन्द्रियमित्यत्र मानमस्ति । मनः षष्ठानीन्द्रियाणि इति भगवद्गीतावचनं प्रमाणमिति चेत्, न ।अनिन्द्रियेणापि मनसा षट्त्वसंख्यापूरणविरोधात् । नहीन्द्रियगतसंख्यापूरणमिन्द्रियेणैवेति नियमः । यजमानपञ्चमा इडां भक्षयन्तीत्यत्र ऋत्विग्गतपञ्चत्वसंख्याया अनृत्विजापि यजमानेन पूरणदर्शनात् । वेदानध्यापयामास महाभारतपञ्चमान् इत्यत्र वेदगतपञ्चत्वसंख्याया अवेदेनापि महाभारतेन पूरणदर्शनात् । इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मन (का० १।३।१०) इत्यादिश्रुत्या अनिन्द्रियत्वावगमाच्च । (वे० प० १ प० ) । मनः ज्ञानेन्द्रियं कर्मेन्द्रियं चोभयात्मकमिति सांख्ययोगविदः । मनोऽन्तरिन्द्रियमिति न्यायविप्रभृतयः । अस्य देवता चन्द्रमा विषयश्च सुखदुःखादि । नैयायिकादिमते ज्ञानेन्द्रियातिरिक्तानामिन्द्रियत्वं नास्ति । ज्योतिः, ज्योतिस् १. ब्रह्म । यथा - ज्योतीरूपं सम्पद्य छा० उप० - ८-१२-३ , यत आत्मैवात्र ज्योतिः शब्देनावेद्यते प्रकरणात् (ब्र० सू० ४।४।३ शा० भा०) । यथा च - एवं प्राप्ते ब्रूमः परमेव ब्रह्म ज्योतिःशब्दमिति । कस्माद् दर्शनात् (तत्रैव १ । ३ । ४० शा० भा०) । यथा च - ज्योतिरिह ब्रह्म ग्राह्यम् ।... तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम् (तत्रैव १ । १ । २४ शा० भा०) । २. ज्ञानम् - यथा - ज्योतिरमृतं दैवं स्वरूपम् प्रकाशात्मकत्वाज्ज्ञानं ज्योतिः । तदेवामृतमविनाशात्मकत्वात् । तस्मात् तमसो मा ज्योतिर्गमय (बृ० आ० १ ।३।२८ शा० भा०) । ३. देवः । यथा - तद्देवा ज्योतिषां ज्योतिः (बृ० आ० ४।४।१६ शा० भा०) । ४. ज्योतिष्टोमयागः । यथा वसन्ते-वसन्ते ज्योतिषा यजेत इत्यत्र ज्योतिः शब्दो ज्योतिष्टोमविषयो भवति (ब्र० सू० १ । १ । २३ शा० भा०) । तज्जलान्, तज्जल ब्रह्म जगतो जन्मस्थितिलयकरणत्वात् । ब्रह्मण एव जगतो जन्मस्थितिलया भवन्ति । तत्तस्माद् जः अर्थात् जायते, लः अर्थात् लीयते, अन् अर्थात् अनिति प्राणिति जीवतीति तज्जलानिति । यथा - यत्कारणं सर्वं खल्विदं ब्रह्म तज्जलाविति । शान्तमुपासीत इत्याह । एतदुक्तं भवति यस्मात् सर्वमिदं विकारजातं ब्रह्मैव तज्जत्वात्तल्लत्वात्तदनत्वाच्च (ब्र० सू० १/२/१ शा० भा० ) । तटस्थलक्षणम्, तटस्थलक्षण लक्षणं द्विविधं भवति - स्वरूपलक्षणं तटस्थलक्षणं चेति । तत्र स्वरूपभूतं लक्षणं स्वरूपलक्षणमुच्यते । यथा - लौहित्यम् उष्णता प्रकाशश्च दीपकस्य लक्षणम् । तटस्थलक्षणं तु लक्ष्यस्य यावत्कालम् अस्थित्वापि व्यावर्तकं भवति । यथा गन्धवत्त्वं पृथिव्या लक्षणम् । महाप्रलये पृथिवीपरमाणुषु उत्पत्तिकाले घटादिषु च गन्धाभावेऽपि गन्धवत्त्वं पृथिव्या लक्षणं तटस्थलक्षणमुच्यते । यथा - तत्र लक्षणं द्विविधम् – स्वरूपलक्षणं तटस्थलक्षणं चेति । तत्र स्वरूपमेव लक्षणं स्वरूपलक्षणम् । यथा सत्यादिकं ब्रह्मस्वरूपलक्षणम् । सत्यं ज्ञानमनन्तं ब्रह्म (तै० २।१।१ ) । आनन्दो ब्रह्मेति व्यजानात् (तै० ३।६) इति श्रुतेः । ननु स्वस्य स्ववृत्तित्वाभावे कथं लक्षणत्वमिति चेत्, न । स्वस्यैव स्वापेक्षया धर्मिधर्मभावकल्पनया लक्ष्यलक्षणसम्भवात् । तदुक्तम्आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्माः । अपृथक्त्वेऽपि चैतन्यात् पृथगिवाव भासन्ते । तटस्थलक्षणं तु. यावलक्ष्यकालमनवस्थितत्वे सति यद् व्यावर्तकं तदेव यथा गन्धवत्त्वं पृथ्वीलक्षणम् । महाप्रलये परमाणुषु उत्पत्तिकाले घटादिषु गन्धाभावात् । प्रकृते ब्रह्मणि च जगज्जन्मादिकारणत्वम् । अत्र जगत्पदेन कार्यजातं विवक्षितम् । कारणत्वं च कर्तृत्वमतोऽविद्यादौ नातिव्याप्तिः (वे० प० ७ १० ) । एवं च सच्चिदानन्दरूपं ब्रह्मणः स्वरूपलक्षणम्, जगज्जन्मस्थितिलयकारणं ब्रह्मणस्तटस्थलक्षणम् । अत्र करणमित्यस्य कर्तृत्वरूपोऽर्थः । यथा च - सजातीयविजातीयव्यावृत्तिप्रयोजनो धर्मो लक्षणं नाम । तदिह परिदृश्यमानं जगदेव लक्षणं ब्रह्मणः.... । न जगद् ब्रह्मलक्षणं किन्तु तत्प्रतिकारणत्वम् । कारणत्वं तु ब्रह्मलक्षणमित्यर्थः (ब्र० सू० १/१/२ वे० क० त० ) । तत्, तद् १. ब्रह्मणो नाम । यथा - ॐ तत्सदित्येष निर्देशो निर्दिश्यतेऽनेनेति निर्देशस्त्रिविधो नाम निर्देशो ब्रह्मणश्चिन्तितः (गी० १६।२३ शा० भा०) । यथा च ओमिति तदिति सदिति च त्रिविधस्त्रिप्रकारोऽयं ब्रह्मणो निर्देशो नाम्नां पाठः । "तदिति वा एतस्य महतो भूतस्य नाम भवति" इत्यैतरेयके, सदेव सोम्येदमग्र आसीदिति छान्दोग्ये च एतेषां शब्दानां ब्रह्मनामत्वप्रसिद्धेः (तत्रैव नी० क०) । ॐ तत्सदित्येवं रूपो ब्रह्मणः परमात्मनो निर्देशो निर्दिश्यतेऽनेनेति निर्देशः प्रतिपादकः शब्दो नामेति यावत् (तत्रैव म० सू० ) । ॐ तत्सदिति एष निर्देश: निर्दिश्यतेऽनेनेति निर्देशो ब्रह्मणस्त्रिविधो नामनिर्देशः । ॐ इति ब्रह्मतत्त्वमसि सदेव सोम्येत्यादिवेदान्तेषु ब्रह्मविद्भिः स्मृतश्चिन्तितः (तत्रैव भा० ) । यथा च - शोधितं तत्पदलक्ष्यं वस्तु दर्शयत्यात्मप्रभमित्यादिना शिवमानन्दरूपम् । अरूपगन्धरसकमित्यर्थः (सं० शा० ३।२९१ सु० टी०) । यथा च - तच्छब्दवाच्यं शबले स्थितिमधिष्ठानत्वेनानुमतमित्यर्थः । एवंभूतं विष्णोः पदं तत्पदलक्षितं वाक्यार्थान्वयि गृह्यतामिति योजना (तत्रैव अ० टी०) । यथा च चतुर उपाधिचिदाभासप्रतिबिम्बबिम्बान् । तदर्थभाजस्तत्पदार्थगतान् (तत्रैव ३।२७५ सु० टी०) । यथा च - तदेवं कार्यकारणादिव्यवहारस्य मायामात्रत्वात् प्रागुक्तेन न्यायेन करणत्वेश्वरत्वादिसमस्तविकल्परहितं निर्विशेषसच्चिदानन्दमात्रं ब्रह्म तत्पदार्थो वाक्यार्थान्वययोग्यतया संशोधित इदानीम् (तत्रैव अ० टी०) ।२. परोक्षबुद्धिविषयस्तच्छब्दार्थः पूर्वानुभूतपदार्थपरामर्शकः । यथोक्तम्- इदमस्तु सन्निकृष्टं समीपतरवर्त्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टे तदिति परोक्षं विजानीयात् । तमानय य इहास्तीत्यादौ । स किं सखा साधु न शास्ति योऽधिपम् (कि० १।५) । इत्यादौ । एवं प्रकान्तपरामर्शस्तच्छब्दवाच्यः । स आत्मा तत् त्वमसि श्वेतकेतो (छा० ६।१६।३) । ३. यथा - ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन । तत् किं कर्मणि घोरे मां नियोजयसि केशव (गी० ३।१ ) । यथा च - प्रथमं तत् पदार्थो लक्षणप्रमाणाभ्यां निरूप्यते । तत्र लक्षणं द्विविधम् - स्वरूपलक्षणं तटस्थलक्षणं चेति । तत्र स्वरूपमेव लक्षणं स्वरूपलक्षणम् । यथा सत्यादिकं ब्रह्मस्वरूपलक्षणम् । सत्यं ज्ञानमनन्तं ब्रह्म (तै० २।१।१ ) । आनन्दो ब्रह्मेति व्यजानात् (तै० ३।६) इति श्रुतेः । तटस्थलक्षणं तु ... प्रकृते ब्रह्मणि च जगज्जन्मादिकारणत्वम् (वे०प० ७५०) । तत्परायणः, तत्परायण ब्रह्मपरायणः । ब्रह्म एव परमयनं स्थानं यस्यासौ तत्परायणः । यथा - तत्परायणा इत्यनेन वैराग्यप्रकर्ष इत्युत्तरोत्तरस्य पूर्वपूर्वहेतुत्वं द्रष्टव्यम् (गी० ५/१७ म० सू० ) । तत्प्रख्यम्, तत्प्रख्य पूर्वमीमांसाशास्त्रस्यायमेको न्यायः । तत्रख्यापकेन शास्त्रान्तरेण यन्नामधेयं क्रियते तत् तत्प्रख्यम् । यथा -तप्रख्यन्यायेन नामत्वम् । तथाहि - अग्निहोत्रं जुहोति इत्यत्र अग्निहोत्रशब्देन अग्निदेवताको गुणो न विधीयते अग्निज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति इति वाक्यविहितेन मन्त्रेण देवतायाः प्राप्तत्वात् । किन्तु अग्निप्रख्यापकं (अग्निप्रापकम्) यच्छास्त्रान्तरे अग्निज्योतिर्ज्योतिरग्निः इत्यादिकम् । तेन प्राप्तमग्निसम्बन्धं निमित्तीकृत्य अग्नये होत्रं होमोऽस्मिन्निति बहुब्रीहिणा अग्निहोत्रशब्दस्य होमनामधेयत्वम् (मी० प०) । तत्त्वम्, तत्त्व १. सजातीयविजातीयस्वगतभेदशून्यं चिन्मात्रमद्वितीयं ब्रह्मैव तत्त्वमिति । अथवा अशेषविशेषप्रत्यनीकं चिन्मात्रं ब्रह्मैकमेव तत्त्वमित्यद्वैतवेदान्तिनः । २. सतश्च सद्भावः असतश्चासद्भावः सत् । सत् इति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति । असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति । (वात्स्या० भा० १ १/१ प्रस्तावना) यथा प्रमाणप्रमेय .... तत्त्वज्ञानान्निःश्रेयसाधिगमः (गौ० सू० 91919 ) । एवं न्यायमते षोडशतत्त्वानि । वैशेषिकमते द्रव्यादीनि सप्त तत्त्वानि । चार्वाकमते पृथिव्यादीनि चत्वारि भूतानि तत्त्वानि । सदसदुभयानुभयात्मकचतुष्कोटिविनिर्मुक्तं शून्यमेव तत्त्वमिति शून्यवादिनो बौद्धाः । विज्ञानमेकमद्वयमिति विज्ञानवादिनो बौद्धाः । जीवाजीवाख्ये द्वे तत्त्वे इति जैनाः । जीवाकाशधर्माधर्मपुद्गलास्तिकायाः पञ्चतत्त्वानीति जैनैकदेशिनः । जीवाजीवास्रवबन्धसंवरनिर्जरमोक्षा सप्ततत्त्वानीत्यपरे जैनैकदेशिनः। जीवेश्वरजडभेदेन त्रीणि तत्त्वानि रामानुजीयाः । प्रकृत्यादीनि पञ्चविंशतिस्तत्त्वानि इति निरीश्वर सांख्याः । ईश्वरसहितानि षड्विंशतितत्त्वानि इति सेश्वरसांख्याः योगविदश्च । प्रकृत्यादीनि कलाकालेत्यादीनि षट्त्रिंशत्तत्त्वानीति त्रिकदर्शनविदः शक्तिविशिष्टाद्वैतिनः शैवदर्शनविदश्च । तन्त्रशास्त्रे तु विशेषतत्त्वम्- मद्यं मासं तथा मत्स्यो मुद्रा मैथुनमेव च । पञ्चतत्त्वमिदं प्रोक्तं देवि निर्वाणहेतवे (गुप्तसाधनतन्त्रे ७ पटले) । गुरुतत्त्वं मन्त्रतत्त्वं मनस्तत्त्वं सुरेश्वरि । देवतत्त्वं ध्यानतत्त्वं पञ्चतत्त्वं प्रकीर्तितम् (निर्वाणतन्त्रे) (न्यायकोशे वाचस्पत्ये च) । एवमेव मध्ववल्लभादिवेदान्तेष्वपि । तत्त्वज्ञानम्, तत्त्वज्ञान १ . द्वितीयोपलक्षितनिखिलवस्तुनिवृत्तिपूर्वकमद्वितीयब्रह्मात्मावगमो इत्यद्वैतवेदान्तिनः । २. भगवद्विषयकमपरोक्षज्ञानमिति द्वैतवादिनः । ३ प्रमाणप्रमेयादिषोडशपदार्थज्ञानं निश्रेयस्साधनमिति न्यायविदः । ४. यथार्थज्ञानं यथा सति घटादिवस्तुनि सदिति ज्ञानम् । असति च शशशृङ्गादौ असदिति ज्ञानमिति व्यवहारविदः । तत्त्वदर्शनम्, तत्त्वदर्शन ब्रह्मसाक्षात्कारः । यथा - निरुपाधिकब्रह्मसाक्षात्कारस्तत्त्वदर्शनम् (ब्र० सू० ४।४।२ शा० भा० ) । तत् त्वम् असि, तद् युष्मद् असि तदिति ब्रह्मणो निर्देशस्त्वमिति जीवनिर्देशः । सर्वज्ञत्वादिविशिष्टं चैतन्यं तत्पदवाच्यम्, अल्पज्ञत्वादिविशिष्टं चैतन्यं त्वमुपदवाच्यम् । जहदजहल्लक्षणया सर्वज्ञत्वाल्पत्वादिविशेषणानवच्छिन्नं लक्ष्यस्वरूपं चैतन्यमात्रम् । तेन चैतन्यचैतन्ययोरीश्वरजीवयोरैक्यं तत्त्वंपदार्थः । यथा- तच्चैक्यं तत्त्वंपदार्थज्ञानाधीनज्ञानमिति तत्पदार्थो लक्षणप्रमाणाभ्यां निरूप्यते ।.... तत्र तत्त्वंपदवाच्ययोविशिष्टयोरैक्यायोगेऽपि लक्ष्यस्वरूपयोरैक्यमुपपादितमेव । अत एव तत्प्रतिपादकतत्त्वमस्यादिवाक्यानामखण्डार्थत्वं सोऽयमित्यादिवाक्यवत् (वे० प० ७ प्र०) । यथा च - आभ्यामध्यारोपापवादाभ्यां तत्त्वंपदार्थशोधनमपि भवति । तथाहि अज्ञानादिसमष्टिरेतदुपहितं सर्वज्ञत्वादिविशिष्टं चैतन्यमेतदनुपहितं चैतत् त्रयं तप्तायःपिण्डवदेकत्वेनावभासमानं तत्पदवाच्यार्थो भवति । एतदुपाध्युपहिताधारभूतमनुपहितं चैतन्यं तत्पदलक्ष्यार्थो भवति । अज्ञानादिव्यष्टिरेतदुपहिताल्पज्ञत्वादिविशिष्टचैतन्यमेतदनुपहितं चैतन्यं तप्ताय पिण्डवदेकत्वेनावभासमानं त्वम्पदार्थवाच्यार्थो भवति । एतदुपहिताधारभूतमनुपहितं प्रत्यगानन्दं तुरीयं चैतन्यं त्वम्पदलक्ष्यार्थो भवति । चिन्मात्रमेतत् त्रयं तप्ताय पिण्डवदविविक्तं तत्पदवाच्यार्थः । एतदाधारभूतमपि एतद्भिन्नमनुपहितं चैतन्यं चिन्मात्रं तत्पदलक्ष्यार्थः । एवमज्ञानादिव्यष्टिस्तदुपहितं प्राज्ञादिचैतन्यं तदनुपहितं चैतन्यं चिन्मात्रं एतत्त्रयं तप्ताय पिण्डवदविविक्तं त्वम्पदवाच्यार्थः । अज्ञानादिव्यष्टिस्तदुपहितं प्राज्ञादिचैतन्यमेतदाधारभूतमपि एतद्भिन्नमनुपहितं प्रत्यगानन्दरूपं तुरीयं चैतन्यं त्वम्पदलक्ष्यार्थः । एतेनानुपहितं शुद्धं चैतन्यं तत्पदत्वम्पदयोर्लक्ष्यार्थः । तत्पदं त्वम्पदं च लक्षकमिति भावः (वे० सा० ) । तद्बुद्धिः, तद्बुद्धि सच्चिदानन्दघनरूपान्तःकरणवृत्तिमान् पुरुषः । यथा - ज्ञानेन परमात्मतत्त्वप्रकाशे सति तस्मिन् ज्ञानप्रकाशिते परमात्मतत्त्वे सच्चिदानन्दघन एव बाह्यसर्वविषयपरित्यागेन साधनपरिपाकात् पर्यवसिता बुद्धिरन्तःकरणवृत्तिसाक्षात्कारलक्षणा येषां ते तद्बुद्धयः (गी० ५।१७ म० सू०) । तदात्मानं स्वयमकुरुत, तदात्मन् स्वयमकुरुत प्रागुत्पत्तेः धर्मान्तरेणायमसद्व्यपदेशः । यथाअसद् वा इदमग्र आसीत् इत्यत्रापि तदात्मानं स्वयमकुरुत इति वाक्यशेषे विशेषणात्यन्तासत्त्वम् । तस्माद् धर्मान्तरेणैवायमसद्व्यपदेशः प्रागुत्पत्तेः कार्यस्य । नामरूपव्याकृतं हि वस्तु सच्छब्दार्हं लोके प्रसिद्धम् (ब्र०सू० २।१।१७ शा०भा० ) । तन्त्रम्, तन्त्र १ . विवक्षितार्थज्ञापकं साधनं च तन्त्रम् । यथा - तन्त्रं साधनमुद्दिष्टं तन्त्रं ज्ञापकमेव च । यथा ईक्षतेर्नाशब्दम् । (ब्र० सू० ११ १५) इत्यत्र ईक्षतेरित्यत्र । अत्र ईक्षतेरित्यत्र तन्त्रम् । तेन ईक्षतेरित्यस्य आवृत्तिः । अशब्दं प्रधानं न जगत्कारणम् ईक्षतेस्तथा प्रधानमशब्दम् (अवैदिकम्) न ईक्षतेः (वेदोक्तेक्षणकर्तृत्वाभावात्) इति वारद्वयम् ईक्षतेर्हेतुत्वम् । अत एव च अस्मिन् सूत्रे ईक्षतेरिति पञ्चम्यन्तपदस्य प्रथमं प्रयोगः । अन्यथा (तत्) शास्त्रयोनित्वात् तत्तु समन्वयादित्यादिवत् पञ्चम्यन्तहेतुपदस्य प्रथमं प्रयोगो न स्यात् । २. उभयार्थैकप्रयोगस्तन्त्रम् । यत्र प्रधानकर्मणां युगपद्भावः। इति पूर्वमीमांसकाः । ३. कर्मणां युगपद्भावस्तन्त्रमिति धर्मशास्त्रविदः (कात्या० श्रौ० १।७१) । ४. शास्त्रविशेषः । यथा - कृत्स्नस्य षष्टितन्त्रस्य (सां० का० ७२) । यथा च शिवाधुक्तानि तन्त्रशास्त्राणि । ५. ग्रन्थभागविशेषः । यथा पञ्च तन्त्रग्रन्थे मित्रभेदादि । ६. सकृदुच्चरितस्य एकस्य शब्दस्य अनेकार्थप्रतिपादकत्वम् इति वैयाकरणाः । ७. तन्मते विस्तार्यते बहूनामुपकारो येन सकृत्प्रवर्तितेन तदिदं तन्त्रम् (जै० न्या० ११।१।१ ) । तन्निष्ठः, तन्निष्ठ ब्रह्मपरायणः । यथा यत्परज्ञानं प्रकाशितं तस्मिन् गता बुद्धिर्येषां ते तद्बुद्धयस्तदात्मानस्तदेव परं ब्रह्मात्मा येषां ते तदात्मानस्तन्निष्ठाः । निष्ठाभिनिवेशस्तात्पर्यं सर्वाणि कर्माणि संन्यस्य ब्रह्मण्येवावस्थानं येषां ते तन्निष्ठास्तत्परायणाश्च (गी० ५।१७ शा० भा०) । तपः, तपस् १ . ब्रह्मणो ज्ञानमयं तपः । यथा - यः सर्वज्ञः स सर्वविद् यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते (मुण्ड० १।१।९) । २. धर्मः परमात्मा च । यथा- तपो धर्मस्तद्रूपे मयि तपस्विनः प्रोक्ताः (गी० ७।९ नी० क०) । तपस्विषु नित्यं तपोयुक्तेषु वानप्रस्थादिषु यत्तपः शीतोष्णक्षुत्पिपासादिद्वन्द्वसहनसामर्थ्यरूपं तदहमस्मि । तद्रूपे मयि तपस्विनः प्रोक्ताः (तत्रैव म० सू०) । ३. धर्मार्थं नियमपूर्वकं शरीरपीडनम् । यथा – तप इन्द्रियसंयमपूर्वकं शरीरपीडनम् (गी०१०/५ शा० भा० ) । शास्त्रीयमार्गेण कायेन्द्रियशोषणम् (तत्रैव म० सू०) । स्वतेजसा चैतन्यज्योतिषा इदं विश्वं विश्वरूपं तपन्तं प्रकाशयन्तम् । अनादित्वादिसर्वविशेषणविशिष्टं विश्वं तपिकर्मीभूतं तापयन्तं त्वां परज्योतीरूपं पश्यामि जानामि (गी० ११।१९ शा०भा० ) । ४. यथायोग्यं सदाचारपालनम् । यथा- ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च । इत्यादि (तै० उ० १।९) । अयमर्थ:- स्वाध्यायप्रवचने तु आवश्यके एव किन्तु स्वाध्यायप्रवचनाभ्यां सह यथायोग्यं सदाचारपालनमपि कर्तव्यम् । एवमेव स्वाध्यायादिभ्यां सह सत्यतपोदमादि अपि । तप्यः, तप्य जीवः । यथा - अर्थोऽप्युपार्जनरक्षणक्षयरागवृद्धिहिंसादोषदर्शनादनर्थः सन् अर्थिनं दुनोति तदर्थी तप्यस्तापकश्चार्थः (ब्र० सू० २/२/१० भाम० ) । तमः, तमस् १. मृत्युः । यथा - मृत्युर्वै तमः सर्वं ह्यज्ञानमावरणात्मकत्वात् तमः । तदेव च मरणहेतुत्वान् मृत्युः । (बृ० आ० १ ।३।२८ शा० भा० ) । तमसो मा ज्योतिर्गमय, मृत्योर्मामृतं गमयेति स यदाहासतो मा सद्गमयेति । मृत्युर्वा असत् सदमृतं मृत्योर्मामृतं गमयामृतं वा .... (बृ० आ० उ० १ ।२।२८) २. तमो भावरूपः पदार्थः । न तु तेजसोऽभावस्तमः अभावरूपः पदार्थः । नैयायिका वैशेषिकाश्च तेजसोऽभावस्तम इति स्वीकुर्वन्ति । अविद्या च तमोरूपा । तमसोऽभावपदार्थत्वे तमोरुपया अविद्यया ज्ञानावरणं न सम्भवेत् । भावपदार्थो यथा- तस्मात् षट्ष्वपि भावेष्वनन्तर्भावात् तद्भावे वोपलम्भकाभावाच्च प्रभाभावस्तम इति । अत्रोच्यतेतमालश्यामलज्ञाने निर्वाधे जाग्रति स्फुटे। द्रव्यान्तरं तमः कस्माकस्मादपलप्यते । ५. अस्ति हि तमस्तमालमालाश्यामलमिति प्रतीतिः । न चाप्रतीतावेवायं प्रतीतिभ्रमः । तद्व्यवहारस्य तप्रतीतिमन्तरेणानुपपत्तेः । .... वैपरीत्याद् आलोकागमने गच्छति छायेति प्रतीतेर्गमने चागच्छतीति प्रतीतेः तद्विरोधित्वाच्च तदनुविधानुपपत्तेः । किञ्च – चक्षुः प्रकाशनाजन्यरूपववीक्षणक्षमम् । रूपग्राहीन्द्रियत्वेन यथैव स्पर्शनेन्द्रियम् । ६. तत्सिद्धमेतत्तमो द्रव्यान्तरमिति । इत्थमालोकवदेव भावरूपाज्ञानतमोविरोधिन आत्मनो जगदवभासकस्य ज्योतिः शब्दवाच्यत्वात् (त० प्र० १ प० तम० ) । ३. अविद्या - यथा - द्विधा अविद्या तमः (ब्र० सू० ४/४/२२ भाम०) । तातः, तात पिता पुत्रः शिष्यश्च । यथा - हे तात तनोत्यात्मानं पुत्ररूपेण पिता तात उच्यते । पितैव पुत्र इति पुत्रोऽपि तात उच्यते । शिष्योऽपि पुत्रतुल्य उच्यते । यतो न गच्छति (गी० ६।४० शा० भा०) । यथा च - तनोत्यात्मानं पुत्ररूपेणेति पिता तात उच्यते । स्वार्थिकेऽणि तत एव तातः राक्षसवायसादिवत् । पितैव च पुत्ररूपेण भवतीति पुत्रस्थानीयस्य शिष्यस्य तातेति सम्बोधनं कृपातिशयसूचनार्थम् (तत्रैव म० सू०) । यथा च - हे तातेति - नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयादिति मदुक्तं दिक्दर्शकमल्पबुद्धित्वात् स्त्रीस्वभावेन त्वया विस्मृत्य पृष्ठमिति पार्थेति सम्बोधनं ध्वनितम् (तत्रैव भाष्यो०) । तात्पर्यम्, तात्पर्य (क) तत्प्रतीतिजननयोग्यत्वं तात्पर्यम् । यथा - क्रमप्राप्तं तात्पर्यं निरूप्यते । तत्र तत्प्रतीतीच्छ्योच्चारितत्वं न तात्पर्यम् । अर्थज्ञानशून्येन पुरुषेणोच्चारिताद् वेदार्थप्रत्ययाभावप्रसङ्गात् । अयमध्यापको व्युत्पन्न इति विशेषदर्शनेन तत्र तात्पर्यभ्रमस्याप्यभावात् । न चेश्वरीयतात्पर्यज्ञानात् तत्र शाब्दबोध इति वाच्यम् । ईश्वरानङ्गीकर्तुरपि तवाक्यार्थव्युत्पत्तिदर्शनात् । उच्यतेतप्रतीतिजननयोग्यत्वं तात्पर्यम् । गेहे घट इति वाक्यं गेहे घटसंसर्गप्रतीतिजननयोग्यत्वं न तु पटसंसर्गप्रतीतिजननयोग्यमिति तवाक्यं घटसंसर्गपरं न तु पटसंसर्गपरमित्युच्यते । ननु सैन्धवमानय इत्यादिवाक्यं यदा लवणानयनप्रतीतीच्छ्या प्रयुक्तं तदाश्वसंसर्गे प्रतीतिजनने स्वरूपयोग्यतासत्त्वाल्लवणपरत्वज्ञानदशायामपि अश्वादिसंसर्गज्ञानापत्तिरिति चेत, न । तदितरप्रतीतीच्छ्यानुच्चरितस्यापि तात्पर्यं प्रति विशेषणत्वात् । तथा च यवाक्यं यत्प्रतीतिजननस्वरूपयोग्यत्वे सति यदन्यप्रतीतीच्छया नोच्चरितं तवाक्यं तत्संसर्गपरमित्युच्यते । ......तच्च तात्पर्यं वेदे मीमांसापरिशोधितन्यायादेवावधार्यते, लोके तु प्रकरणादिना । तत्र लौकिकवाक्यानां मानान्तरावगतार्थानुवादकत्वम् । वेदे तु वाक्यार्थस्यापूर्वतया नानुवादकत्वम् (वे० प० ४ प०) इत्यद्वैतिनः । (ख) तत्प्रतीतीच्छ्योच्चारितत्त्वं तात्पर्यम् । तात्पर्यज्ञानं च वाक्यार्थज्ञाने हेतुः नानार्थानुरोधात् । प्रकरणादिकं च तात्पर्यग्राहकम् (त० सं० श० ख० दी०)। सैन्धवमानयेत्यादौ सैन्धवपदम् आनयनपदार्थे लवणं प्रत्याययतु इत्याकारिकाया वाक्यप्रयोक्तुरिच्छायाः सत्त्वादत्र सैन्धवशब्दस्य लवणार्थे तात्पर्यमिति नैयायिकादयः । तात्पर्यग्राहकाणि- संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थ: प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः । सामर्थ्यमौचिती देश: कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः (वा०प० श्लोकाः) । उदाहरणानि काव्यप्रकाशे द्वितीयोल्लासेऽपि द्रष्टव्यानि । तात्पर्या वृत्तिः, तात्पर्या वृत्ति तात्पर्यार्थोऽपि केषुचित् (का० प्र० २।६) तात्पर्यार्थो विशेषवपुरपदार्थोऽपि वाक्यार्थः समुल्लसतीति मम्मटाचार्यवचनेन तात्पर्या वृत्तिः सूचिता । तन्त्रवार्तिकस्य न्यायसुधाटीकायां तृतीयावृत्तिरङ्गीकृता । किन्तु अद्वैतवेदान्तिभिः शक्तिर्लक्षणा चेति वृत्तिद्वयमेव स्वीक्रियते । यथा - पदार्थश्च द्विविधः- शक्यो लक्ष्यश्चेति । (वे० प० ४ १०) तात्पर्यमिति शब्दो द्रष्टव्यः । तादात्म्यम्, तादात्म्य १. ऐक्यम् । यथा तादाल्येनेति ऐक्येन (ब्र० सू० १ । १ । २ वे० क० त०) इति अद्वैतवेदान्तिनः । २. (क) तद्वृत्तिधर्मविशेषः । यथा तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताको योऽभावः सोऽन्योन्याभावः इत्यत्र घटत्वमेव घटतादात्म्यम् । तादात्यं च सम्बन्धताविशेषः प्रतीतिसाक्षिकः । घटान्योन्याभावबोधे घटत्वं सम्बन्धविधया प्रकारविधया च प्रतियोगितावच्छेदकमिति द्विविधतया घटत्वस्य मानम् । तेन तदवच्छिन्नप्रतियोगिताकश्चान्योन्याभाव इति लक्षणसमन्वयः । (ख) तद्द्वृत्त्यसाधारणो धर्मः । इति न्यायवैशेषिकाः । तापकः, तापक विषयोऽर्थः प्रतिकूल : सन् अनर्थो भूत्वा तप्यं जीवं तापयतीति तापक: तप्यशब्दे द्रष्टव्यम् । अनर्थ इत्युच्यते । यथा - अर्थिनोऽनुकूलोऽर्थः प्रतिकूलोऽनर्थस्ताभ्यामेकः पर्यायेणोभाभ्यां सम्बध्यते । तत्रार्थस्याल्पीयस्त्वाद् भूयस्त्वाच्वानर्थस्योभावप्यर्थानर्थावनर्थ एवेति तापकः स उच्यते । तप्यस्तु पुरुषो य एकः पर्यायेणोभाभ्यां सम्बध्यत इति तयोस्ताप्यतापकयोरेकात्मकतायां मोक्षानुपपत्तिः । ....अतश्चाविद्याकृतोऽयं तप्यतापकभावो न पारमार्थिक इत्यभ्युपगन्तव्यमिति (ब्र० सू० २।२।१० शा० भा०) । यथा च तथा हि अर्थोऽप्युपार्जनरक्षणक्षयरागबृद्धिहिंसादोषदर्शनादनर्थः सन्नर्थिनं दुनोति तदर्थी तप्यस्तापकार्थः । तौ चेमौ लोके प्रतीतभेदौ । ... अस्मत्पक्षे त्वदोष इत्याह - औपनिषदस्य त्विति । यथा हि मुखमवदातमपि मलिनादर्शतलोपाधिकल्पितप्रतिबिम्बभेदं मलिनतामुपैति । न च तद् वस्तुतो मलिनं न च बिम्बात् प्रतिबिम्बं वस्तुतो भिद्यते, अथ तस्मिन् प्रतिबिम्बे मलिनादर्शोपाधानान्मलिनतापदं लभते । तथा चात्मनो मलिनं मुखं पश्यन् देवदत्तस्तप्यते । यदा तूपाध्ययनयाद् बिम्बमेव कल्पनावशात् प्रतिबिम्बं तच्चावदातमिति तत्त्वमवगच्छति । तदास्य तापः प्रशाम्यति । न च मलिनं मे मुखमिति । एवमविद्योपाधानकल्पितावच्छेदो जीवः परमात्मप्रतिबिम्बकल्पः कल्पितैरेव शब्दादिभिः सम्पर्कात् तप्यते । न तु तत्त्वतः परमात्मनोऽस्ति तापः । यदा तु तत्त्वमसीति वाक्य श्रवणमननध्यानाभ्यासपरिपाकप्रकर्षपर्यन्तजोऽस्य साक्षात्कार उपजायते । तदा जीवः शुद्धबुद्धस्वभावमात्मनोऽनुभवन् निर्मृष्टनिखिलवासनाक्लेशजालः केवलः स्वस्थो भवति । न चास्य पुनः संसारभयमस्ति । तद्धेतोरवास्तवत्वेन समूलकाषं कषितत्वात् (तत्रैवभाय०) । तितिक्षा, तितिक्षा शीतोष्णादिद्वन्द्वसहनं सहिष्णुता (वे० प० ८५०) । तुच्छम्, तुच्छ १. (क) अनिर्वचनीयम् । यथा मरीचिषु तोयनिर्भासप्रत्ययः । यथा अत्र ब्रूमः - निस्तत्त्वं चेन्नानुभवगोचरः, तत् किमिदानीं मरीचयोऽपि तोयात्मना सत्तत्त्वाः यदनुभवगोचराः स्युः । न सत्तत्त्वाः तदात्मना मरीचीनामसत्त्वात् । द्विविधं च वस्तूनां तत्त्वं सत्त्वमसत्त्वं च । तत्र पूर्वं स्वतः परं तु परतः । यथाहुः स्वरूपपररूपाभ्यां नित्यं सदसदात्मके । वस्तुनि ज्ञायते किञ्चिद् रूपं कैश्चित्कदाचन । इति तत् किं मरीचिषु तोयनिर्भासप्रत्ययस्तत्त्वगोचरः । तथा च समीचीन इति न भ्रान्तो नापि 'बाध्येत । अद्धा न बाध्येत, यदि मरीचीनतोयात्मतत्त्वान् अतोयात्मना गृह्णीयात् । तोयात्मना तु गृह्णन् कथमभ्रान्तः कथं वाऽबाध्यः । हन्त तोयाभावात्मनां मरीचीनां तोयभावात्मत्वं तावन्न सत् तेषां तोयाभावादभेदेन तोयभावात्मतानुपपत्तेः । नाप्यसत्, वस्त्वन्तरमेव हि वस्त्वन्तरस्यासत्त्वमास्थीयते- भावान्तरमभावोऽन्यो न कश्चिदनिरूपणादिति वदद्भिः । न चारोपितं रूपं वस्त्वन्तरम् । तद्धि मरीचयो वा भवेत् गङ्गादिगतं तोयं वा । पूर्वस्मिन् कल्पे मरीचय इति प्रत्यय: स्यान्न तोयमिति । उत्तरस्मिंस्तु गङ्गायां तोयमिति स्यात्, न पुनरिहेति । देशभेदास्मरणे तोयमिति स्यान्नपुनरिहेति । न च इदमत्यन्तमसदन्निरस्तसमस्तस्वरूपमलीकमेवास्त्विति साम्प्रतम् । तस्यानुभव-गोचरत्वानुपपतेरित्युक्तमधस्तात् । तावन्न सत् नापि तदसत्, परस्पर-विरोधादित्यनिर्वाच्यमेवारोपणीयं मरीचिषु तोयमास्थेयम् । तदनेन क्रमेणाध्यस्तं तोयं परमार्थतोयमिव । अत एव पूर्वदृष्टमिव, तत्त्वतस्तु न तोयं न च पूर्वदृष्टं किन्वनृतमनिवार्च्यम् । एवं देहेन्द्रियादिप्रपञ्चोऽप्यनिर्वाच्यः । अपूर्वोऽपि पूर्वमिथ्याप्रत्ययोपदर्शित इव परत्र चिदात्मन्यध्यस्त इति उपपन्नम् (ब्र० सू० अध्यासभाम०) । अत्र वेदान्तकल्पतरौ - तोयाभावात्मकमरीचिरूपे यदारोपितं तोयं तत् तत्र सदसद्वेति विकल्प्याद्यं निरस्यति हन्तेति । द्वितीये तु किं तुच्छम् असत् सदन्तरं वा । नाद्योऽपराद्धान्तात् । न द्वितीय इत्याह वस्त्वन्तरमेवेति । अस्मिन् हि भ्रमे मरीचयस्तोयं च द्वे वस्तुनी भासेते । तत्र मरीचितोयतादाम्यं यदि वस्तु तर्हि तोयाद्वस्तुनो वस्त्वन्तरभूता मरीचयो वा स्युर्मरीचिभ्यो वस्त्वन्तरं तोयं वा स्यान्नान्यत् । अन्यस्यान्यस्मिन् भ्रमेऽनवभासनादुभयत्र दूषणमाह । अत्र कल्पतरुपरिमले - किं तुच्छमसत् सदन्तरं वेति । असच्छब्दस्यालीकमर्थमभिप्रेत्याद्यो विकल्पः । अभावामर्थमभिप्रेत्य द्वितीयो विकल्पः । एवं हि टीकायां द्वितीयविकल्पविवरणे भावान्तरमभाव इति तन्मतप्रदर्शनं सङ्गच्छते । (ख) केवलं शब्दमात्रप्रत्ययः । यथा शशशृङ्गं वन्ध्यापुत्रादि अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि इति सिद्धान्तात् । तुरीयचैतन्यम्, तुरीयचैतन्य जागरितस्वप्नसुषुप्त्यवस्थात्रयवद्विलक्षणं चैतन्यं तुरीयचैतन्यमुच्यते । यथा - "नान्तः प्रज्ञं न बहिष्प्रज्ञं नोभयतः प्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः (मा० उ० ७) । यथा च वनवृक्षतदवच्छिन्नाकाशयोर्जलाशयजलतद्गतप्रतिबिम्बाकाशयोर्वाऽऽधारभूतानुपहिताकाशवदनयोरज्ञानतदुपहितचैतन्ययोराधारभूतं यदनुपहितं चैतन्यं तत्तुरीयमुच्यते ।शिवमद्वैतं चतुर्थं मन्यन्ते इत्यादिश्रुतेः । इदमेव तुरीयं शुद्धं चैतन्यमज्ञानादितदुपहितं चैतन्याभ्यां तप्ताय पिण्डवदविविक्तं सन्महावाक्यस्य वाच्यं विविक्तं तत्त्वमिति चोच्यते (वे० सा० ) । तुरीयप्रलयः, तुरीयप्रलय आत्यन्तिकः सर्वमोक्षः । यथा - तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकः सर्वमोक्षः । स चैकजीववादे युगपदेव, नानाजीववादे तु क्रमेण । 'सर्व एकीभवन्ति' इत्यादिश्रुतेः तत्राधास्त्रयोऽपि प्रलयाः कर्मोपरतिनिमित्ताः, तुरीयस्तु ज्ञानोदयनिमित्तो लयोऽज्ञानेन सहैवेति विशेषः (वे० प० ७ प०) । तुल्यवित्तिवेद्यत्वम्, तुल्यवित्तिवेद्यत्व समानज्ञानज्ञेयत्वम् । यथा- प्राभाकरमते आक्षेपाद् जातिविशिष्टव्यक्तिप्रतीतिः । एतन्मते जातौ व्यक्तौ च न शक्तिः किन्तु जातिविषयक शक्तिज्ञानमेव जातिविशिष्टव्यक्तिविषयकशाब्दबोधे कारणम् । व्यक्तिशक्तिस्तु स्वरूपसती (न तु ज्ञाता) उपयुज्यते । नैयायिकमते एकज्ञानविषयत्वम् । यथा वह्निमदवृत्तिर्धूमाभावः इति ज्ञाने धूमाभावे वह्निमदवृत्तित्वस्य भासने बह्रौ धूमाभावववृत्तित्वमपि तुल्यवित्तिवेद्यतया नियमतो भासते। तूलाज्ञानम्, तूलाज्ञान अज्ञानं द्विविधं - मूलाज्ञानं तूलाज्ञानं च। मूलाज्ञानं जगत्कारणम् । तूलाज्ञानं च प्रतिदिनं जायमानं रज्जौ सर्पादिभ्रमरूपम् । तूलं कार्पासकं तद्वद् अज्ञानम् । यद्धि – ब्रह्मभिन्नज्ञाननाश्यं भवति । यथा - आवरणविक्षेपशक्तियुक्तं ब्रह्मज्ञानान्यज्ञाननाश्यमूलाज्ञानतादात्यानापन्नमज्ञानम् । अवस्थाविशेषस्तु तादृशं मूलाज्ञानतादात्यपन्नम् । वक्ष्यति हि अज्ञानावस्थायास्तदभिन्नाया इति (अ० सि० १ गौ० ब्र०) । अधिकं तु अविद्याशब्दे द्रष्टव्यम् । तेजः, तेजस् १ (क) ब्रह्म । यथा- तेजसेति ब्रह्मण एवायं निर्देशः । श्रुत्यन्तरे "ब्रह्मैव तेज एव" (बृ० उ० ४।४।७) इति तेजश्शब्दस्य ब्रह्मणि प्रयुक्तत्वात् (ब्र० सू० ३।२।७ शा० भा०) । (ख) सूक्ष्मशरीरम् । यथा - पान्थः प्रथमं नाविकेन सङ्गत्य ततस्तेन सह तदीयां नावं गत्वा पारं प्राप्नोति, तथा प्राणाः प्रथमं जीवेन सङ्गत्य - ततस्तेन सह तेजःशब्दोक्तं त्रिवृत्कृतभूतान्तरसंसृष्टं तदीयं सूक्ष्मशरीरं गत्वा तेन सह परां देवतां प्राप्नोतीति जीवस्य प्राणतेजोमध्ये निवेशे दृष्टान्तः । यथा सारथिः प्रथमं राजकीयं रथं स्वयमारूढ़ो राजसमीपं गत्वा पश्चाद् रथारूढ़ेन तेन सहितस्तदभिमतदेशे प्राप्नोति एवं जैवं सूक्ष्मशरीरं प्राणः प्रथमं प्राप्य ततस्तप्राप्तेन जीवेन सहितः परदेवतां प्राप्नोतीति जीवस्य तेजोनन्तरनिवेशे दृष्टान्तः (ब्र०सू० ४।२।४ क० त० ) । (ग) प्रगल्भता । यथा - "तेजस्तु प्रागल्भ्यम् अधृष्यत्वम् ।" (गी० म० श्लो० १ आ० गि०) इत्यद्वैतिनः। न्यायादिविदस्तु प्रकाश इति । लौकिकास्तु पराक्रमादि । यथा- तेजस्वी पुरुषः आदि । त्यागः, त्याग १. संन्यासः । यथा - त्यागः संन्यासः पूर्वं दानस्योक्तत्वात् (गी० १६।२शां० भा०) । यथा - त्यागः सर्वकर्मसंन्यासः पूर्वं दानस्योक्तत्वात् (तत्रैव नी० क०) दानस्य प्रागुक्तेस्त्यागः संन्यासः (तत्रैव म० सू० ) । यथा - "त्यागः संन्यासः ।" (तत्रैव भाष्यो) । २. औदार्यम् । यथा - त्यागः औदार्यम् (तत्रैव श्रीधरी) । ३. आत्मसम्बन्धितया प्राप्तस्य फलस्य त्यागः यथा - नित्यनैमित्तिकानामनुष्ठीयमानानां सर्वकर्मणामात्मसम्बन्धितयां प्राप्तस्य फलस्य त्यागः परित्यागः फलपरित्यागो वार्थो वक्तव्यः सर्वथा परित्यागमात्रं संन्यासत्यागशब्दयोरेकोऽर्थो तेषां परित्याग इति (गी० १८/२ शा० भा०) । ४. काम्यकर्मत्यागः । यथा - काम्यकर्मत्यागः संन्यासत्वेन नित्यादिकर्मणां फलानभिसन्धानं च त्यागत्वेन स्तूयत इति (तत्रैव नी० क० ) । ५. सर्वकर्मफलत्यागः । यथा - सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः सर्वेषां काम्यानां नित्यानाञ्च प्रतिपदोक्तफलत्यागं सत्वशुद्धार्थितया विविदिषासंयोगेनानुष्ठाने विचक्षणा विचारकुशलास्त्यागं प्राहुः (तत्रैव म० सू०) । यथा च - "नित्यनैमित्तिकानामनुष्ठीयमानानां सर्वकर्मणामात्मंसम्बन्धितया प्राप्तस्य फलस्य परित्यागः सर्वकर्मफलत्यागः तं त्यागं त्यागशब्दार्थं विचक्षणाः निपुणाः पण्डिताः कथयन्ति (तत्रैव भाष्यो) । यथा सर्वेषां काम्यानां नित्यनैमित्तिकानां च कर्मणां फलमात्रत्यागं प्राहुस्त्यागं विचक्षणाः निपुणाः न तु स्वरूपतः कर्मत्यागम् (तत्रैव श्रीधरी) । ६. एषणात्रयत्यागः न तु कर्मत्यागः । यथा- जगत्यामित्युपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्यं विकारजातं परमार्थसत्यात्मभावनया त्यक्तं स्यात् । एवमीश्वरात्मभावनया युक्तस्य पुत्राधेषणात्रयसंन्यास एवाधिकारो न कर्मसु । तेन त्यक्तेन त्यागेनेत्यर्थ: (ई० उ० १ शां० भा०) । यथा – त्यागेनात्मा रक्षितः स्यान्निष्क्रियात्मस्वरूपावस्थानानुकूलत्वात्त्यागस्येत्यर्थः।" (तत्रैव आ० गि०) । त्वम्, युष्मद् १. प्रत्यक् । यथा - अद्वितीयं ब्रह्मात्मत्वं विना त्वमर्थस्य प्रत्यक्त्वं नाम सर्वान्तरत्वं तद् ब्रह्मणो व्यावृतस्य न निरङ्कुशं भवेदिति पदार्थशोधनेन त्वमर्थस्य प्रत्यक्त्वं सिद्ध्येद् ब्रह्मात्मनैव सिद्ध्यतीत्यर्थः (सं० शा० ३/३०५ अ० टी० ) । २. त्वमर्थश्चत्वारः पदार्थाः । यथा - बुद्धिचिदाभासप्रतिबिम्बबिम्बाश्चतुष्टयम् (सं० शा० ३ । २७६ सु० बो० ) । यथा च - त्वं पदार्थेऽपि चातुर्विध्यमाह - तथा त्वमर्थेऽपीति । तमेवं चतुष्टयं विभजते - मतिरिति । मतिरन्तःकरणमुपाधिः (तत्रैव अ० टी० ) । यथा च - त्वं पदार्थो हि प्रमाता प्रमाणाधीनतया प्रमित्या प्रमेयं घटादि व्याप्नोतित्यविद्याविलसितम् (ब्र० सू० १/१/४ भाम० ) । त्रिणाचिकेतः, त्रिणाचिकेत त्रिणाचिकेतानामकविशेषाग्न्यनुष्ठानवान् । यथा- त्रिः कृत्वो नाचिकेतोऽग्निश्चितो येन स त्रिणाचिकेतः तद्विज्ञानस्तदध्ययनस्तदनुष्ठानवान् । त्रिभिः मातृभिः पितृभिः आचार्यैरेत्य प्राप्य सन्धि समाधानं सम्बन्धं मात्राद्यनुशासनं यथावत् प्राण्येत्येतत् (का० उ० १/१/१७ शां० भा० ) । त्रिदण्डी, त्रिदण्डिन् मनोवाक्कायरूपत्रिदण्डनियन्ता । यथा - तेन योगेन युक्तः पुरुषः प्रथमं विशुद्धात्मा विशुद्धो रजस्तमोभ्यामकलुषित आत्मान्त करणः सन् । विजितात्मा स्ववशीकृतदेहस्ततो जितेन्द्रियः स्ववशीकृतबाह्येन्द्रियः । एतेन मनूक्तत्रिदण्डी कथितः वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च । यस्यैते नियता दण्डाः स त्रिदण्डीति कथ्यते । इति वागिन्द्रियं बाह्येन्द्रियोपलक्षणम् (गी० ५।७ म० सू०) । त्रिपुटी, त्रिपुटिन् मातृमितिमेयत्रिपुटसम्बद्धं ज्ञानम् । यथा- त्रिविधं चैतन्यं विषयचैतन्यं प्रमाणचैतन्यं प्रमातृचैतन्यं चेति । तत्र घटाद्यवच्छिन्नं चैतन्यं विषयचैतन्यम्, अन्तःकरणवृत्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यम्, अन्तःकरणावच्छिन्नं चैतन्यं प्रमातृचैतन्यम् (वे० प० १ प०) । इदमेव मितिमातृमेयविषयिका प्रमेत्युच्यते । यथा - प्रभाकरमते सर्वस्य ज्ञानस्य मितिमातृमेयविषयकत्वात् त्रिपुटीप्रत्यक्षतेति (त० प्र० ख० ४) । त्रिवृत्, त्रिवृत् पञ्चीकरणं त्रिवृत्करणं च द्विधा भवति । अपञ्चीकृतैः पृथ्वीजलतेजोवाय्वाकाशैः पञ्चीकृतं भवति तथा पृथ्वीजलतेजोभिः त्रिवृत्करणं भवति । पञ्चीकरणत्रिवृत्करणयोः प्रकारश्चेत्थम् । यथा - "सोऽकामयत बहु स्यां प्रजायेय (तै० ३२।६) इत्यादिश्रुतेः । तत आकाशादीनि पञ्चभूतानि अपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यानि उत्पद्यन्ते । .... तैरेव तमोगुणोपेतैरपञ्चीकृतभूतैः पञ्चीकृतानि जायन्ते । तासां त्रिवृतं त्रिवृतमेकैकां करवाणि (छा० उ० ६ ।३।३) इति श्रुतेः पञ्चीकरणोपलक्षणार्थत्वात् । विशदज्ञानार्थं ब्र० सू० १ । १ ।५वे० क० त० द्रष्टव्यः । पञ्चीकरणप्रकारश्चेत्थम् – आकाशमादौ द्विधा विभज्य तयोरेकं भागं पुनश्चतुर्द्धा विभज्य तेषां चतुर्णामंशानां वाय्वादिषु चतुर्षु भूतेषु संयोजनम् । एवं वायुं द्विधा विभज्य तयोरेकं भागं पुनः चतुर्द्धा विभज्य तेषां चतुर्णामंशानामाकाशादिषु संयोजनम् । एवं तेज आदीनामपि । तदेवमेकैकभूतस्यार्द्धं स्वांशात्मकमर्द्धान्तरं चतुर्विध-भूतमयमिति पृथिव्यादिषु स्वांशाधिक्यात्पृथिव्यादिव्यवहारः । तदुक्तम्- वैशेष्यात्तु तद्वादस्तद्वादः (ब्र० सू० २/४/२२) (वे० प० ७ प०) । यथा च - "छान्दोग्ये हि - तासां त्रिवृतं त्रिवृतमेकैकामकरोदि''ति । तिसृणां देवतानां तेजोबन्नानामेव त्रिवृत्करण-मनन्तरं वक्ष्यति, न गगनपवनयोः, तत्र च तेजः प्रथममिति स्वरूपोत्पत्तावपि तदुपचार इति । सम्प्रदायाध्वना पञ्चीकरणं यद्यपि स्थितम् । तथापि युक्तियुक्तत्वाद् वाचस्पतिमतं शुभम् । पृथिव्यपनलात्मत्वं गगने पवने च चेत् । रूपवत्त्वमहत्त्वाभ्यां चाक्षुषत्वं प्रसज्यते । अर्द्धभूयस्त्वतः क्षित्याद्यविभावनकल्पने । व्यवहारपथा प्राप्ता मुधा पञ्चीकृतिर्भवेत् । अनपेक्षस्य फलं वेदसिद्धेत्येषेष्यते यदि । त्रिवृत्कृतिः श्रुता पञ्चीकृतिर्न क्वचन श्रुता । तस्मात्सूच्यते । तेजोबन्नानामेव त्रिवृत्करणस्य विवक्षितत्वादिति । पञ्चीकरणमेवम् पञ्चभूतानि प्रथमं प्रत्येकं द्विधा विभज्यन्ते । तदेकैकमर्धं चतुर्धा क्रियते । ते च चत्वारो भागा इतरभूतेषु चतुर्षु निक्षिप्यन्ते । तत्राकाशस्य स्वार्धेन भूतान्तरगतपादचतुष्केन च पञ्चीकरणम् । एवं भूतान्तरेषु योजना । त्रिवृत्करणे तु त्रीणि भूतानि द्विधा विदार्य प्रतिभूतमेकैकमर्द्धं द्विधा विस्फोट्येतरभूतद्वये योजनमिति (ब्र० सू० १/१/५ वे० क० त० ) । यथा च - अस्तु तर्हि त्रिवृत्कृतमेव तत्तेजो ज्योतिः शब्दम् (ब्र० सू० १ । १ । २४ शा० भा०) । आक्षेप्ता दूषयति नेति । न हि तत् क्वचिदपि उपयुज्यते सर्वास्वर्थक्रियासु त्रिवृत्कृतस्यैवोपयोगादित्यर्थः ।.... एकैकं त्रिवृतं करवाणि इति तेजः प्रभृत्युपसनामात्रविषया श्रुतिर्न संकोचयितुं युक्तेत्यर्थः (तत्रैव भाम०) । तेज आदिभूतं सामान्यप्रवृत्ता त्रिवृत्करणरूपास्यमानतेजो विषयत्वेन संकचयितुं न युक्ताः । ततोऽन्यत्र नेतुमयुक्तेत्यर्थः । तेज आदीनि परोक्षसाम्याद् देवताः । त्रिवृतं त्रिवलितम् (तत्रैव वे० क० त० ) । यथा च न च गिरिनदीसमुद्रादिषु नानाविधेषु नामरूपेष्वनीश्वरस्य जीवस्य व्याकरणसामर्थ्यमस्ति । येष्वपि चास्ति सामर्थ्यं तेष्वपि परमेश्वरायत्तमेव तत् । न च जीवो नाम परमेश्वरादत्यन्तभिश्नश्चार इव राज्ञः । आत्मनेति विशेषणात् । उपाधिमात्रनिबन्धनत्वाच्च जीवभावस्य । तेन तत्कृतमपि नामरूपव्याकरणं परमेश्वर कृतमेव भवति । परमेश्वर एव च नामरूपयोर्व्याकर्तेति सर्वोपनिषत्सिद्धान्तः । आकाशो ह वै नाम नामरूपयोर्व्याकरणम् । त्रिवृत्करणपूर्वकमेवेदमिह नामरूपव्याकरणं विवक्ष्यते । प्रत्येकं नामरूपव्याकरणस्य तेजोऽबन्नोत्पत्तिवचनेनैवोक्तत्वात् । तच्च त्रिवृत्करणमग्न्यादित्यचन्द्रविद्युत्सु श्रुतिर्दर्शयति- यदग्ने रोहितं रूपं तेजस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य (छा० ६।४।१ ) इत्यादिना । ....भौमाम्भसतैजसेषु त्रिष्वपि द्रव्येष्वविशेषेण त्रिवृत्करणमुक्तं भवति । इमास्तिस्रो देवतास्त्रिवृदेकैका भवति (छा० ६।३।४) इति । अविशेषेण चोपसंहारः (ब्र० सू० २१४/२० शा० भा० ) । यथा च - यद्यपि आकाशाद्या भूतसृष्टिस्तथापि तेजोबन्नानामेव त्रिवृत्करणस्य विवक्षितत्वात् तत्र तेजसः प्राथम्यात्तेजः प्रथममुक्तम् (ब्र० सू० १/१/५ भाम०) । छान्दोग्ये हि तासां त्रिवृतं त्रिवृतमेकैकामकरोदिति तिसृणां देवतानां तेजोबन्नानामेव त्रिवृत्करणमनन्तरं वक्ष्यति न गगनपवनयोस्तत्र च तेजः प्रथममिति स्वरूपोत्पत्ताविति तदुपचार इति । सम्प्रदायाध्वना पञ्चीकरणं यद्यपि स्थितम् । तथापि युक्तियुक्तत्वाद् वाचस्पतिमतं शुभम् । पृथिव्यबनलात्मत्वं गगने पवने च चेत् । रूपवत्त्वमहत्त्वाभ्यां चाक्षुषत्वं प्रसज्यते । अर्थभूयस्त्वतः क्षित्याद्यविभावनकल्पने। व्यवहारपथा प्राप्ता मुधा पञ्चकृतिर्भवेत् । अनपेक्ष्यफलं वेदसिद्धेत्येवेष्यते यदि । त्रिवृत्कृतिः श्रुता पञ्चीकृतिर्न क्वचन श्रुता । तस्मात् सुष्ठ्च्यते तेजोऽबन्नानामेव त्रिवृत्करणस्य विवक्षितत्वादिति ।पञ्चीकरणमेवम् - पञ्चभूतानि प्रथमम् .... । (तत्रैव वे० क० त०) । त्रुटि:, त्रुटि क्षणद्वयात्मकः कालः । यथा - अणुर्यौ परमाणुः स्यात् त्रसरेणुस्त्रयः स्मृतः । जालार्करश्म्यवगतः खमेवानुपतन् नगात् । त्रसरेणुस्त्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः । शतभागस्तु वेधः स्यात् तैस्त्रिभिस्तु लवः स्मृतः । निमेषस्त्रिलवो ज्ञेयः आम्नातस्ते त्रयः क्षणः । क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च । लघूनि वै समाम्नाता दश पञ्च च नाडिका । ते द्वे मुहूर्तः प्रहरः षड् यामः सप्त वा नृणाम् (भाग० ३।११।५-८) । त्रुटेरवयवः परमाणुरिति न्यायवैशेषिकविदः । त्रुटावेवावयवधारा विश्रामात् त्रुटिरेव परमाणुरिति मीमांसकाः । दक्षः, दक्ष १. भगवद्भजनादौ निरालसः । यथा- दक्षः भगवद्भजनादावनलसः (गी० १२/१६ नी० क०) । २. चतुरः प्रत्युत्पन्नमतिः । यथा- दक्षः प्रत्युत्पन्नेषु कार्येषु सद्यो यथावत् प्रतिपत्तुं समर्थः (तत्रैव शा० भा० ) । यथा च दक्षः प्रत्युत्पन्नेषु कर्तव्येषु यथावज्ज्ञातुं कर्तुं च कुशलो न त्वलसः (तत्रैव भाष्यो०) । यथा च दक्ष उपस्थितेषु ज्ञातव्येषु कर्तव्येषु च सद्य एव ज्ञातुं कर्तुं च समर्थः (तत्रैव म० सू० ) । यथा च दक्षोऽनलसः (तत्रैव श्रीधरी ) । दक्षिणा, दक्षिणा १ . ऋत्विग्भ्यो यज्ञसम्पादनानन्तरं दीयमानं धनं दक्षिणा सा च यमलोकजयसाधनमर्थात् स्वर्गसाधनंम् । यथा- ऋत्विग्भ्यो निष्पादितो यज्ञो दक्षिणया यजमानस्तेभ्यो यज्ञं निष्क्रीय तेन यज्ञेन दक्षिणां दिशं सह यमेन जयति (बृ० उ० ३।९।२७ शा० भा० ) । २. अग्निपल्याः एकं नाम । यज्ञानन्तरमस्यास्तुष्ट्यै यजमान ऋत्विग्भ्यो धनं दीयते । अनेन यज्ञः सुसम्पन्नः सत्फलदो भवतीति याज्ञिकाः । ३. स्तुतिजपार्चनध्यानादीनां कृते शुल्करूपेण याजकेभ्यो दीयमानं धनं दक्षिणेति लौकिकाः । दक्षिणायनम्, दक्षिणायनम् अयनद्वयमुत्तरायणं दक्षिणायनं च । वर्षस्य षण्मासा उत्तरायणरूपाः, षण्मासाश्च दक्षिणायनरूपाः । उत्तरायणे शरीरत्यागिनाम् उत्तमा गतिर्भवति । ते पुनर्नावर्तन्ते । दक्षिणायने शरीरत्यागिनां नोत्तमा गतिर्भवति । एते पुनरावर्तन्ते यथा- धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते (गी० ८।२५) । धूमः = धूमाभिमानिनी देवता, रात्रिः, रात्र्यभिमानिनी देवता, शुक्ल: शुक्लपक्षाभिमानी देवता एताभिस्तिसृभिर्देवताभिरुपलक्षितो यो मार्गस्तत्र प्रयातः कर्मयोगी इष्टापूर्तादिकर्मफलं भुक्त्वा पुनरावर्तते । यथा - ते धूममभिसम्भवन्ति धूमादूरात्रिं रात्रेरपरपक्षमपरपक्षात् यान् षड्दक्षिणेति मासांस्तानेते संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोकम्.......... तमेवाध्वानं पुनर्निवर्तन्ते (छा० उ० ५/१०/५) । अधिकं उत्तरायणशब्दे द्रष्टव्यम् । दमः, दम बाह्येन्दियसंयमः। यथा- दमो बाह्येन्द्रियोपशम: (गी० १०।४ शा० भा०) । दमो बाह्येन्द्रियाणां स्वविषयेभ्यो निवृत्तिः (तत्रैव म० सू०) । दमश्च बाह्यकरणानामुपशमोऽन्तःकरणस्योपशमं शान्ति वक्ष्यति (तत्रैव ६।१६ शा० भा०) । दमो बाह्येन्द्रियसंयमः ऋतुकालाद्यतिरिक्ते मैथुनाभावः (तत्रैव म० सू० ) । दमो बाह्येन्द्रियनियमः (तत्रैव नी० क०) । दमश्च बाह्यकरणानामुपशमोऽन्तःकरणस्योपशमं शान्तिं वक्ष्यति (तत्रैव भाष्यो०)। दमो. बाह्येन्द्रियसंयमः (तत्रैव श्रीधरी) । यथा च बहिरिन्द्रियनिग्रहो दमः (वे० प०) । दमो बाह्येन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो निवर्तनम् (वे० सा०) । दर्शनम्, दर्शन १ . ब्रह्मसाक्षात्कारः । यथा - आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः (वृ० २।४।४) । श्रवणमनननिदिध्यासनानि च ब्रह्मसाक्षात्काररूपदर्शनसाधनानि । श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः ज्ञात्वा च सततं ध्येय इति दर्शनहेतवः । २. तत्त्वज्ञानसाधनं शास्त्रं दर्शनम् । दर्शनं तत्त्वज्ञानमुपचाराच्च तत्त्वज्ञानसाधनेऽपि दर्शनशब्दः प्रयुज्यते । यथा - त्रयीदर्शनविपरीतेषु (प० पा० भाष्ये विपर्ययप्रकरणे) अत्र श्रीधरविरचिताया न्यायकन्दलीव्याख्यायाम्-दृश्यते स्वर्गापवर्गसाधनभूतोऽर्थोऽनया इति दर्शनम्, त्रयी एव दर्शनं त्रयीदर्शनम् । एतच्च दर्शनं द्विविधम् श्रुतिसापेक्षं श्रुतिनिरपेक्षं च । तत्रापि द्वैविध्यम् - श्रुतिसापेक्षाणि षट्, श्रुतिनिरपेक्षाणि च षट् । श्रुतिसापेक्षाणि - न्यायवैशेषिकौ, साङ्ख्ययोगौ, पूर्वोत्तरमीमांसे । गोतमप्रणीतं न्यायदर्शनम्, कणादप्रणीतं वैशेषिकदर्शनम्, कपिलप्रणीतं साङ्ख्यम्, पतञ्जलिप्रणीतं योगशास्त्रम्, मर्हषिजैमिनिप्रवर्तितं द्वादशाध्यायात्मकं दर्शनं पूर्वमीमांसा महर्षिवेदव्यासप्रवर्तितं चतुरध्यायात्मकं ज्ञानकाण्डरूपं ब्रह्मसूत्रमुत्तरमीमांसा । एतदपि षडविधम् - मध्वापरनामपूर्णप्रज्ञप्रवर्तितं द्वैतवादि, श्रीच्छङ्कराचार्यसम्मतं निर्विशेषाद्वैतवादि, श्रीनिम्बार्काचार्यप्रवर्तितं द्वैताद्वैतवादि, श्रीमवल्लभाचार्यप्रवर्तितं शुद्धाद्वैतवादि, श्रीरामानुजाचार्यश्रीमद्रामानन्दाचार्यश्रीकण्ठाचार्यश्रीकराचार्याभिनवगुप्ताचार्याद्यभिमतं विशिष्टाद्वैतवादिदर्शनम् । श्रुतिनिरपेक्षाणि च षट्- माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकरूपचतुर्भेदात्मकानि बौद्धदर्शनानि, आर्हतदर्शनम् (जैनदर्शनम्) चार्वाकदर्शनं च । पद्मपुराणे उ० ख० २०७ अ० सर्वदर्शनसंग्रहे च विशेषज्ञानार्थं द्रष्टव्यम् । २. ज्ञानम् । यथा इदं विश्वं मिथ्या दृश्यत्वाद् शुक्तिरजतवत् । ३. चक्षुरादीन्द्रिय-जन्यं ज्ञानम् । यथा घटं पश्यतीत्यादि । दशमस्त्वमसि, दशमस्त्वमसि इति अभिज्ञानवाक्यम् । कदाचिद् दशपुरुषाः नदीपारमगच्छन् । नदीपारं प्राप्य तेषु प्रत्येकं आत्मीयान् सर्वान् गणितवान् । आत्मानं च परित्यज्य अन्यान् सर्वान् गणितवान् । सर्वदा नवपुरुषान् गणयित्वा रोदितुम् आरब्धवन्तः । एतस्मिनन्तरे कोऽपि विज्ञः समागतः । रोदनकारणं विज्ञाय गणितवान् । तेषु एकस्य गणकस्य कर्णौ गृहीत्वा उक्तवान् दशमस्त्वमसि । ततः प्रत्येकं गणकः आत्मानमपि दशमं गणयित्वा वयं सर्वे दश एव इति विज्ञाय हृष्टाः । अत्र यथा प्रत्येकं गणकः आत्मानं विस्मृत्य अपरान् गणयति तथा विज्ञजनद्वारा उपदेशेन आत्मानं दशमं परिचिनोति तथैव लोके सर्वोऽपि जनः सर्वं जानाति । परमात्मानं न परिचिनोति । गुरोरुपदेशेन आत्मानमभिजानाति । अयमेव भावः "दशमस्त्वमसि " इति वाक्यस्य । एवमेव उद्दालकश्वेतकेतुसंवादे "तत्त्वमसि " इत्यादि महावाक्यस्यापि । यथानवसंख्याहृतज्ञानो दशमो विभ्रमात्तदा । न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव । न भाति नास्ति दशम इति स्वं दशमं तदा । मत्वा वक्ति तदज्ञानकृतमावरणं विदुः । नद्यां ममार दशम इति शोचन् प्ररोदिति । अज्ञानकृतविक्षेपं रोदनादिं विदुर्बुधाः । न मृतो दशमोऽस्तीति श्रुत्वा प्रवचनं तदा । परोक्षत्वेन दशमं वेत्ति स्वर्गादिलोकवत् । त्वमेव दशमोऽसीति गणयित्वा प्रदर्शितः । अपरोक्षतया ज्ञात्वा हृष्यत्येव न रोदिति प० द० ७।२३-२७ । दहरः, दहर परमेश्वरः । दहरशब्दस्य भूताकाशः परमेश्वरश्च द्वावर्थी प्राप्नुतः । तत्र दहराधिकरणे ब्रह्मसूत्रे परमेश्वर एवार्थः निर्णीतः । अनेन दहरविद्या इत्यपि प्रसिद्धा । यथा - तत्राकाशशब्दस्य भूताकाशे रूढ़त्वात् भूताकाश एव च दहरशब्द इति प्राप्तम् । अत उत्तरं ब्रूमः- परमेश्वर एवात्र दहराकाशो भवितुमर्हति, न भूताकाशो जीवो वा । कस्मात् ? उत्तरेभ्यो वाक्यशेषगतेभ्यो हेतुभ्यः (ब्र० सू० १ ।३।१४ शां० भा० ) । दहरविद्या, दहरविद्या दहरः ब्रह्म तस्य वेदनम् । यथा- छान्दोग्योपनिषदोऽष्टमेऽध्याये प्रथमखण्डे प्रथमोऽयं मन्त्रः हरिः ॐ अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वा व विजिज्ञासितव्यमिति । अस्यार्थः अस्मिन् ब्रह्मपुरे शरीरे यत्सूक्ष्मं कमलाकारं गृहरूपं स्थानं तस्मिन् यः सूक्ष्म आकाशस्तस्मिन् यद् विद्यते तद् अन्वेष्टव्यं ज्ञातव्यं तत् किमिति । अत्र शाङ्करभाष्ये उक्तं यद् यावानयं भौतिकाकाशस्तावानेवान्तर्हृदयेऽप्याकाशस्तत्र सूर्याचन्द्रमसौ वायुरग्निर्नक्षत्रादीनि तिष्ठन्ति । स च आकाशो जरया न जीर्यते न च मृत्युना विन्यते । तदाकाशाख्यं ब्रह्म ज्ञातव्यम् । इयमेव दहरविद्या । ब्रह्मसूत्रे दहराधिकरणे ब्र० सू० २।३।१४-२१ सूत्रेषु एतच्छाङ्करभाष्ये चोक्तम् - तत्र योऽयं दहरे हृदयपुण्डरीके दहर आकाशः श्रुतः स किं भूतांकाशोऽथवा परमात्मेति संशय्यते । कुतः संशयः आकाशब्रह्मपुरशब्दाभ्याम् (१४ सूत्र शा० भा०) । ततः परम् - दहरः परमेश्वरः उत्तरेभ्यो हेतुभ्यः । दहरवाक्यशेषे परमेश्वरस्यैव प्रतिपादकौ गतिशब्दौ भवतःइमाः सर्वाः प्रजाः अहरहर्गच्छन्त्यः एतं ब्रह्मलोकं न विन्दन्ति (छा० ८।३।२) (ब्र० सू० १५ शा० भा०) । ततः परम् - धृतेश्च हेतोः परमेश्वर एवायं दहरः । कथम् दहरोऽस्मिन्नन्तराकाशः (द्र० सू० १६ शा० भा० ) । ततः परम् - इतश्च परमेश्वर एव दहरोऽस्मिन्नन्तराकाश इत्युच्यते । यत्कारणमाकाशशब्दः परमेश्वरे प्रसिद्धः (ब्र० सू० १७ शा० भा०) । एषा एव दहरविद्या । दिक्, दिश् १ . दिग् अविद्यास्वरूपैव । यथा- दिक्कालौ त्वप्रमाणिकत्वात् नोक्तौ आकाशस्यैव दिग्व्यवहारजनकत्वसम्भवात् दिशः श्रोत्रमिति श्रुतेश्च (सि० वि० ८ ) इत्यद्वैतवेदान्तिनः । २. प्राच्यादिव्यवहारहेतुर्दिक् (त० सं० प्र० ख०) । इयं प्राचीप्रतीच्युदीच्यवाचीशब्दप्रयोगरूपव्यवहारभागित्यर्थः । सा चैका विभ्वी नित्या च । एकाऽपि उपाधिभेदेन प्राच्यादिभेदव्यवहारवती । नवद्रव्येषु एकमन्यतमं द्रव्यम् । यथा पृथिव्यप्तेजोवाय्वाकाशकालादिगात्ममनांसि नवैव (त० स० प्र० ख०) । जगदाधारानिखिलकार्यनिमित्तकारणं च । मूर्तं द्रव्यं अवधिं कृत्वा मूर्तेष्वेव द्रव्येषु एतस्मादिदं पूर्वेण दक्षिणेन पश्चिमेन उत्तरेण पूर्वदक्षिणेन दक्षिणापरेण अपरोत्तरेण उत्तरपूर्वेण अधस्तादुपरिष्ठाच्च दशप्रत्ययाः भवन्ति सा दिक। एतासां दिशां पूर्वादिक्रमेण इन्द्राद्यधिपतयः भवन्तीति वेदान्तिनैयायिकादयः ।३. शब्दतन्मात्रपरिणाम एव दिगित्याहुः वैयाकरणाः (ल० म० ल० प्र०) । दिव्यः, दिव्य सर्वगतः परमेश्वरः । हृदयाकाशे प्रतिष्ठितः । यथा- दिवि परमे व्योम्नि भवतीति दिव्यस्तं सर्वप्रपञ्चातीतं दीव्यति द्योतत इति देव स चादिः । सर्वमूलत्वादत एवाजस्तं त्वां सर्वगतमाहुरिति सम्बन्धः (गी० १०/१२ आ० गि०) । दुःखम्, दुःख १ . निरूपाधिद्वेषविषयीभूता चित्तवृत्तिः । यथा - दुःखं प्रतिकूलात्मकं ज्ञेयत्वात्तदपि क्षेत्रम् (गी० १३।६ शा० भा०) । यथा - निरूपाधिद्वेषविषयीभूता चित्तवृत्तिरधर्मासाधारणकारिका (तत्रैव म० सू०) । इत्यद्वैतवेदान्तिनः । २. प्रतिकूलवेदनीयं दुःखमिति (त० स०) अत्र प्रतिकूलत्वं च द्विष्टत्वम् । दुःखं तु मनसैव गृह्यते जीवमात्रवृत्ति च । यथा - बुद्ध्यादयश्च नवात्ममात्रविशेषगुणाः (त०सं०) । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्लधर्माधर्मा विशेषगुणाः । तत्त्वज्ञानाद्विशेषगुणानां बुद्ध्यादीनां नाशे भोगनाशः भोगनाशे भोगायतनस्य शरीरस्य नाशे बुद्ध्यादिभ्यो गुणेभ्य आत्मनः सम्बन्धनाशः । यथा च- प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकारसुखदुःखेच्छाद्वेषप्रयलाश्चात्मनो लिङ्गानि (वै० सू० ३।२।४) । इति न्यायवैशेषिकाः । ३. दुःखं चित्तादिधर्मः । तच्च बुद्धितत्त्वस्य परिणामविशेषः । रजसः कार्यम् । तच्च त्रिविधम् । आध्यात्मिकं आधिभौतिकं आधिदैविकञ्च । तत्रापि आध्यात्मिकं द्विविधं शारीरं मानसञ्च । तत्र शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तम् । मानसं तु कामक्रोधलोभमोहभयेर्ष्याविषादविषयविशेषादर्शननिबन्धनम् । सर्वं चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् । बाह्योपायसाध्यं च दुःखं द्वेधा - आधिभौतिकम्, आधिदैविकञ्च । तत्राधिभौतिकं मानुषपशुपक्षिसरीसृपस्थावरनिमित्तम् । आधिदैविकं यक्षराक्षसविनायकग्रहावेशनिबन्धनं चेति (सा० कौ०) । उक्तं च दुःखत्रयामिघातात् (सा० का० १ ) । दुःखान्तः, दुःखान्त आध्यात्मिकाधिदैविकाधिभौतिकत्रिविधदुःखोच्छेदः मोक्ष इति यावत् । स च द्विविधः अनात्मकः सात्मकश्च यथा - दुखान्तो मोक्षः । दुखान्तो द्विविधः अनात्मकः सात्मकश्चेति । तत्रानात्मकः सर्वदुः खानामत्यन्तोच्छेदरूपः । सात्मकस्तु दृक्रियाशक्तिलक्षणमैश्वर्यम् (सर्व० द० सं० नकुलीस द०) । यथा च दुःखान्तः मोक्षः । पशव आत्मानस्तेषां पाशो बन्धनं तद् विमोक्षो दुखान्तः । (ब्र० सू० २।२।३७ भाम०) इति नकुलीशपाशुपताः । दुरोणसद्, दुरोणसद् सोमः, ब्राह्मणः, अतिथिश्च । यथा - सोम: सन्दुरोणे कलशे सीदतीति दुरोणसत् । ब्राह्मणोऽतिथिरूपेण वा दुरोणेषु गृहेषु सीदतीति (का० उ० ५/२ शा० भा० ) । दुर्दशम्, दुर्दश दुर्विज्ञेयम्, अज्ञानमिति । दुईक्षा । दुर्दर्शं दुःखेन दर्शनमस्येति दुर्दशम् । अस्ति नास्तीति चतुष्कोटिवर्जितत्वाद् दुर्विज्ञेयमित्यर्थः (मा० उ० गौ० का० ४ ।१०० शा० भा० ) । दूरम्, दूर दूर इव । यथा- किञ्च तद्दूरे वर्षकोटिशतैरप्यविदुषामप्राप्यत्वाद्दूर इव (ई० उ० ५ शा० भा०) । दृक्, दृश् आत्मा । यथा - "बुद्धिश्च सुषुप्तौ नश्यन्ती नात्मा दृगेव तु सर्वदा व्यभिचाराणीति नूनं सैवाऽऽत्मेत्यादि"। (सं० शा० १/१९९ सु० टी० ) । दृक्शक्ति:, दृक्शक्ति पुरुषः । यथा च शक्तिशक्तिमतोरभेदात्पुरुषो दृक्शक्तिः (ब्र० सू० २।२।६ वे० क० ) । यथा - दृक्शक्तिसर्गशक्तिवैयर्थ्यभयाच्चेप्रवृत्तिस्तर्हि सर्गशक्त्यनुच्छेदवदृक्शक्त्यनुच्छेदात्संसारानुच्छेदादनिर्मोक्षप्रसङ्ग एव । तस्मात् प्रधानस्य पुरुषार्था प्रवृत्तिरित्येतदयुक्तम् (तत्रैव शा० भा०) । दृतिहरिः, दृतिहरि पशुः । यथा - यथा दृतिहरणकर्तेव पशुत्वरूपतटस्थोपाधिना दृतिहरिशब्देनोच्यते तथा व्यवहारदशायां स्वाभिधया शुक्तिकात्वमापन्नं चैतन्यमेव शुक्तिविज्ञानमेवावगतं सत्त्वेनोपाधिना शुक्त्यज्ञाननिवृतिपदेनाभिधीयत इत्यर्थः (सं० शा० ४।१६) । यथा - दृतेर्हरणकर्तृवाचक एव शब्दः कृदन्तत्वात् किं त्वन्वयविशेषे दृतिनाथयोरूपपदयोः सतो: पशुत्वं तटस्थं निमित्तं भवति न वाच्यान्तर्गतमित्यर्थः (सं० शा० ४।१७) । दृतिहरिः पशुर्यथेति स्वोक्तबुद्धिवृत्तेरूपाधित्वे दृष्टान्त उक्तः । तत्रोपाधिर्नाम विशेषणोपलक्षणाभ्यामन्यो यथा पशुत्वं तटस्थमेव सद् दृतिहरिशब्दप्रवृत्तिनिमित्तमित्युक्तं दृष्टान्तं स्पष्टयति (सु० टी०) । दृश्यत्वम्, दृश्यत्व यथा वृत्तिव्याप्यत्वं वा । फलव्याप्यत्वं वा । साधारणं वा । कदाचित् कथंचिच्चिद्विषयत्वं वा । स्वव्यवहारे स्वातिरिक्तसंविदन्तरापेक्षानियतं वा । अस्वप्रकाशत्वं वा ( अ० सि० ) । यथा च दृश्याः बुद्धिसत्त्वोपारूढाः सर्वे धर्माः (पा० यो० सू० भा०) । दृष्टिसृष्टिः, दृष्टिसृष्टि अद्वैतवेदान्ते - एकजीववादः (जीवैक्यवादः) नानाजीववादश्च पक्षद्वयं वर्तते । तत्र जीवैक्यवाद एव मुख्यः सिद्धान्तः । अस्मिन् पक्षे जीव एव अज्ञानाधीनो जगत उपादानकारणं निमित्तकारणं च भवति । अतो जीवस्य दृष्टिरेव सृष्टिः । यथोक्तमद्वैतसिद्धौ दृष्टिसृष्ट्युपपत्तौ - यदा यत् पश्यति तत् समकालं तत्सृजतीत्यत्र तात्पर्यमिति (अ० सि० ) । यथा च - एतन्मतेऽविद्याकृतदोषा जीव इव परमेश्वरेऽपि स्युरुपाधेः प्रतिबिम्बपक्षपातित्वादित्यस्वरसात् बिम्बात्मकमीश्वरचैतन्यमित्यपरे । तेषामयमाशय:- एकमेव चैतन्यं बिम्बत्वाक्रान्तमीश्वरचैतन्यं प्रतिबिम्बत्वाक्रान्तं जीवचैतन्यम् । बिम्बप्रतिबिम्बकल्पनोपाधिश्चैकजीववादे अविद्या । अनेकजीववादे तु अन्तःकरणान्येव । अविद्यान्तःकरणरूपोपाधिप्रयुक्तो जीवपरभेदः । उपाधिकृतदोषाश्च प्रतिबिम्बे जीव एव वर्तन्ते न तु विम्बे परमेश्वरे । उपाधेः प्रतिबिम्बपक्षपातित्वात् । ... तस्य च मायोपाध्यपेक्षया एकत्वम् । अन्तः करणोपाध्यपेक्षया च नानात्वं व्यवयिते (वे० प० ७ प०) । दृष्टिसृष्टिवादः,दृष्टिसृष्टिवाद सृष्टिविषये वादद्वयम्-दृष्टिसृष्टिवादः सृष्टिदृष्टिवादश्च । तत्र दृष्टिसृष्टिवादो यथा - अज्ञानानुपहितं शुद्धं चैतन्यमीश्वरः अज्ञानोपहितं च जीव इति मुख्यो वेदान्तसिद्धान्त एकजीववादाख्यः । इममेव च दृष्टिसृष्टिवादमाचक्षते । अस्मिंश्च पक्षे जीव एव स्वाज्ञानवशाज्जगदुपादानं निमित्तं च । दृश्यं च सर्वं प्रतीतिकम् । देहभेदाच्च जीवभेदभ्रान्तिः (सि० वि० १) । यथा च दृष्टिसृष्टिवादिनस्तु कल्पितस्याज्ञातसत्त्वमनुपपन्नमिति कृत्स्नस्य जाग्रप्रपञ्चस्य दृष्टिसमयां सृष्टिमुपेत्य घटादिदृष्टेश्चक्षुः सन्निकर्षानुविधानप्रतीतिं दृष्टेः पूर्वं घटाद्यभावेनासंगच्छमानां स्वप्नवदेव समर्थयमानाः जाग्रद्गजाद्यनुभवोऽपि न चाक्षुष इत्याहुः । ननु दृष्टिसृष्टिमवलम्ब्य जाग्रप्रपञ्चस्य कल्पितत्वोपगमे कस्तस्य कल्पकः । निरुपाधिरात्मा अविद्योपहितो वा । नाद्यः मोक्षेऽपि साधनान्तरनिरपेक्षस्य कल्पकस्य सत्त्वेन प्रपञ्चानुवृत्त्या संसाराविशेषप्रसङ्गात् । न द्वितीयः अविद्याया अपि कल्पनीयत्वेन तत्कल्पनात् प्रागेव कल्पकसिद्धेर्वक्तव्यत्वात् । अत्र केचिदाहुः पूर्वपूर्वकल्पिताविद्योपहितोत्तरोत्तराविद्याकल्पकः । अनिदंप्रथमत्वाच्च कल्पककल्पनाप्रवाहस्य नानवस्थादोषः ।.... अन्ये तु दृष्टिरेव विश्वसृष्टिः । दृश्यस्य दृष्टिभेदे प्रमाणाभावात् । ज्ञानस्वरूपमेवाहुर्जगदेतद् विचक्षणाः । अर्थस्वरूपं भ्राम्यन्तः पश्यन्त्यन्ये कुदृष्टयः (वि० पु० १/४/४०) इतिस्मृतेश्च इति सिद्धान्तमुक्तावल्यादिदर्शितो दृष्टिसृष्टिवादः (सि० ले० सं० २ प०) । यथा च - अथ केयं दृष्टिसृष्टि: १. दृष्टिरेव सृष्टिरिति वा २. दृष्टिव्यतिरिक्तसृष्ट्यभावो वा ३. दृष्टिव्यतिरेकेण सृज्याभावो वा ४. दृष्टिसामग्रीजन्यत्वं वा ५. दृष्टिसमानकालीनसृष्टिर्वा ६. दृष्टिसमानसत्ताकसृष्टिर्वा ७. सदसविलक्षणत्वं वा ८. त्रिविधसत्त्ववहिंर्भूतत्वे सति असद्विलक्षणत्वं वा ९. अज्ञातसत्त्वाभावो वा १०. ज्ञातैकसत्त्वं वा.... इति चेत्, न । अनाद्यतिरिक्तसृष्टिविषय एव दृष्टिसृष्टिस्वीकारात् । कारणात्मना स्थायित्वस्वीकारच्च । .... सर्वलोकादिसृष्टिश्च तत्तदृष्टिव्यक्तिमभिप्रेत्य यदा यत्पश्यति तत्समकालं तत्सृजतीत्यत्र तात्पर्यात् (अ० सि० दृ० सृ० उप०) । एतदर्थं सृष्टिदृष्टिवादशब्दोऽपि द्रष्टव्यः । देवः, देव १ . (क) द्योतनात् द्योतनस्वरूपः । यथा - 'देवं द्योतनात्मकम्' (गी० ११।११ श्रीधरी) । यथा च - शास्त्रजनितज्ञानकर्मभाविता द्योतनाद् देवा भवन्ति । त एव स्वाभाविकप्रत्यक्षानुमानजनितदृष्टप्रयोजनकर्मज्ञानभाविता असुराः । स्वेष्वेवासुषु रमणात् सुरेभ्यो वा देवेभ्योऽन्यत्वात् (बृ० उ० १ ।३।१ शा० भा०) । (ख) शास्त्रोद्भासिता इन्द्रियवृत्तिः । यथा च - दीव्यतेर्घोतनार्थस्य शास्त्रोद्भासिता इन्द्रियवृत्तयः (छा० उ० १ ।२।१ शा० भा० ) । यथा च - दीव्यतिर्घोतनार्थो दिवु क्रीडाविजीगिषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिष्विति दर्शनात् तस्य चाजन्तस्य सति गुणे कर्त्तरि यथोक्तरूपसिद्धिरित्यर्थः । ते च द्योतका देवा रूढे इन्द्रादयो भविष्यन्तीत्याशङ्क्याऽऽह (तत्रैव शा० भा० आ० टी०) । यथा च देवनार्थदीव्यतिधातुनिर्मितो देवशब्दः इति । एतदाम्नायते देवनाद्वै देवोऽभूदिति तद्देवानां देवत्वमिति । अतः दीव्यतीति देवः मन्त्रेण द्योत्य इत्यर्थः इति । (ऋ० भा० भूमिकायां माधवः) । देवगण:, देवगण वसवः (अष्टसंख्यो गण:) तथैकादश रूद्राः द्वादशादित्याः विश्वेदेवास्त्रयोदश, विश्वाया = अपत्यानि सर्वे वा देवाः मरूतः सप्त सप्तगणाः (बृ० उ० १।४।१२) । देवसंख्या, देवसंख्या पुनश्च शाकल्येन 'कतमे ते' इति संख्येयेषु पृष्टेषु याज्ञवल्क्यस्योत्तरम् यथा - महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति । अष्टौ वसव एकादश रूद्रा द्वादशादित्या इन्द्रश्च प्रजापतिश्चेति त्रयस्त्रिंशद्देवाः (ब्र० सू० १ । ३ । २७ भाम०) । अत्र अन्येऽपि देवविषयकाः बहवः विचाराः सन्ति । यथा च - 'कति देवाः' इत्युपक्रम्य 'त्रयश्च त्री च शता त्रयश्च त्री च सहस्रा' इति निरूच्य 'कतमे ते' इत्यस्यां पृच्छायाम् महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवाः (बृ० उ० ३।९।१,२) इति निब्रुवती श्रुतिरेकैकस्य देवतात्मनो युगपदनेकरूपतां दर्शयति । तथा त्रयस्त्रिंशतोऽपि षडाद्यन्तर्भावक्रमेण 'कतम एको देव इति प्राणः' इति प्राणैकरूपतां देवानां दर्शयन्ती तस्यैवैकस्य प्राणस्य युगपदनेकरूपतां दर्शयति । तथा स्मृतिरपि - "आत्मनो वै शरीराणि बहूनि भरतर्षभ । योगी कुर्याद्वलं प्राप्य तैश्च सर्वैर्महीं चरेत् । प्राप्नुयाद्विषयान् कैश्चित्कैश्चिदुग्रं तपश्चरेत् । संक्षिपेच्च पुनस्तानि सूर्यो रश्मिगणानिव" । इत्येवं जातीयका प्राप्ताणिमाद्यैश्वर्याणां योगिनामपि युगपदनेकशरीरयोगं दर्शयति । किमु वक्तव्यमाजानसिद्धानां देवानाम् । अनेकरूपप्रतिपत्तिसम्भवाच्चैकैका देवता बहुभी रूपैरात्मानं प्रविभज्य बहुषु·यागेषु युगपदङ्गभावं गच्छतीति । परैश्च न दृश्यतेऽन्तर्धानादिक्रियायोगादित्युपपद्यते । अनेकप्रतिपत्तेर्दर्शनादित्यस्यापरा व्याख्या - विग्रहवतामपि कर्माङ्गभावचोदनास्वनेका प्रतिपत्तिर्दृश्यते । क्वचिदेकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं न गच्छति यथा बहुभिर्भोजयद्भिर्नैको ब्राह्मणो युगपद्भोज्यते । क्वचिच्चैकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं गच्छति, यथा बहुभिर्नमस्कुर्वाणैरेको ब्राह्मणो युगपन्नमस्क्रियते । तद्वदिहोद्देशपरित्यागात्मकत्वाद्यागस्य विग्रहवतीमप्येकां देवतामुद्दिश्य बहवः स्वं स्वं द्रव्यं युगपत्परित्यक्ष्यन्तीति विग्रहवत्त्वेऽपि देवतानां न किञ्चित्कर्मणि विरुध्यते (ब्र० सू० १ । ३ । २७ शा० भा० ) । देवता, देवता १. रामादयो देवता । यथा - देवता सगुणं ब्रह्म (ब्र० सू० १/४० वे० क० त० ) । २. मन्त्रकरणकहविःकर्मकत्यागभागित्वेनोद्देश्यत्वम् । यथा – अग्नये स्वाहा, पितृभ्यः स्वधा इत्यादि । शब्दमयी देवता तथा अर्थोपहितः शब्द एव देवता इति मीमासकाः । उक्तञ्च - यस्य यस्य तु मन्त्रस्य उद्दिष्टा देवता तु या । तदाकारं भवेत्तस्य देवत्वं देवतेति च (वाच०) । ३. अग्नीन्द्रादयः । यथा - अग्न्यादिदेवपल्यन्तं देवताकाण्डमुच्यते । वाय्वादयो भगान्ताः स्युरन्तरिक्षदेवता । सूर्यादिदेवपल्यन्ता घुस्थाना देवता इति (यास्काचार्यः) । सदाराः बिबुधाः सर्वे स्वानां स्वानां गणैः सह । त्रैलोक्ये ते त्रयस्त्रिंशत् कोटिसंख्या तयाभवन् (पद्मपुराणे उत्तरखण्डे) (वाच०)। ४. पितरः । वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिता: ( याज्ञ० स्मृ०१ । २६८ ) । देवयानम्, देवयान परलोकगमने उत्तममार्गविशेषः । अर्चिमर्ग: देवपथः उत्तरायणं च । यथा - अर्चिरादिकैका तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽह: (बृ० उ० ६ ।२।१५) । यथा च - एनं देवयानं पन्थानमासाद्याग्निलोकमागच्छति (कौ० १ ।३) । यथा च सूर्यद्वारेण ते विरजाः प्रयान्ति (मु० उ० १/२/११) विशदज्ञानाय अर्चिर्मार्गशब्दः उत्तरायणमार्गशब्दश्च द्रष्टव्यौ । देहः, देह भोगायतनम् । यथा - वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरत्वम् (वे० प० ७ प०) । अयं च त्रिविधः - कारणदेहः लिङ्गदेहः (सूक्ष्मदेहः) स्थूलदेहश्च । कारणदेहो यथा- अन्तर्यामी जगत्कारणमीश्वर इति च व्यपदिश्यते सकलाज्ञानावभासकत्वात् । यः सर्वज्ञः स सर्वविदिति श्रुतेः । ईश्वरस्येयं समष्टिः अखिलकारणत्वात् कारणशरीरम् ।....अस्यप्राज्ञत्वमस्पष्टोपाधितया अनतिप्रकाशकत्वात् । अस्यापीयमहङ्कारादिकारणत्वात् कारणशरीरम् । एतानि एव सूक्ष्मभूतानि तन्मात्राणि अपञ्चीकृतानि चोच्यन्ते । एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते । सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरीराणि । अवयवास्तु ज्ञानेन्द्रियपञ्चकं वुद्धिमनसी कर्मेन्द्रियपञ्चकं वायुपञ्चकं चेति । एवं पञ्चीकृतपञ्चभूतेभ्यः स्थूलशरीरोत्पत्तिः (वे० सा० ३३) । यथा च- जरायुजाण्डजस्वेदजोद्भिजाख्यचतुर्विधस्थूलशरीराणामुत्पत्तिः (वे० प० ७ प०) । यथा च - सूक्ष्मा मातापितृजाः सह प्रभूतेस्त्रिधा विशेषाः स्युः । सूक्ष्मस्तेषां नियता मातापितृजा निवर्तन्ते । पूर्वोत्पन्नमसक्तं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् । चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया । तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् (सां० का० ३९-४१) । शरीरशब्दोऽपि द्रष्टव्यः । देही, देहिन् देहभिन्नात्मदर्शी । यथा - देही देहभिन्नात्मदर्शी प्रवासीव परगेहे पूजापरिभवादिभिरप्रहृष्यन्न विषीदन्नहंकारममकारशून्यस्तिष्ठति । अज्ञो हि देहतादात्याद् देह एव न तु देही । स च देहाधिकरणमेवात्मनोऽधिकरणं मन्यमानो गृहे भूमावासने वाहमास इत्यभिमन्यते न तु देहेऽहमास इति भेददर्शनाभावात् । संघातव्यतिरिक्तात्मदर्शी तु सर्वकर्मसंन्यासी भेददर्शनाद् देहेऽहमास इति प्रतिपद्यते (गी० ५।१३ म० सू०) । यथा च – 'यदप्यदेही लिङ्गशरीररहित इति तदपि न । भेदबोधकेन प्रत्ययेन देहादितरात्मदर्शीति वर्णनस्यैव नवद्वारे पुरे आस्ते इत्यस्य योगेन स्वारसिकत्वेन प्रश्लेषेण क्लिष्टकल्पनाया अन्याय्यत्वात् (तत्रैव भाष्यो०) । यथा च - सर्वो हि संन्यास्यसंन्यासी वा देह एवास्ते । ..... देहादिसंघातव्यतिरिक्तात्मदर्शिनस्तु देह आस इति प्रत्यय उपपद्यते (तत्रैव शा० भा० ) । दैवीसम्पत्, दैवीसम्पत् सात्विकी सम्पत् । यथा - तयोर्ज्ञानयोगयोव्यवस्थिति र्व्यवस्थानं तन्निष्ठतैषा प्रधाना दैवी सात्विकी सम्पत् (गी० १६१ शा० भा० ) । यथा - "ज्ञाने कर्मणि वाधिकृतानामभीतिरूपाद्या या प्रकृतिः सा तेषां तत्र सात्त्विकी सम्पदित्यर्थः । महाभाग्यानामत्युत्तमा दैवी सम्पदुक्ता (तत्रैव आ० गि०) । यथा - अभयं स्वोच्छेदबुद्ध्यभावः । सत्त्वसंशुद्धिः चित्तनैर्मल्यम् । ज्ञानं श्रवणादिजन्यं योगो ज्ञातेऽर्थे चित्तप्रणिधानं तयोर्व्यवस्थितिः । निर्दिष्टैषा मुख्या दैवी सम्पत् (तत्रैव नी० क०) । यथा च - तत्राधिकारिविशेषभूतां सम्पदमाह श्रीभगवान् । अभयमिति त्रिभिः । अभयं भयाभावः सत्त्वस्य चित्तस्य संशुद्धिः सुप्रसन्नता, ज्ञानयोगे आत्मज्ञानोपाये व्यवस्थितिः परिनिष्ठा, .आर्जवमवक्रता (तत्रैव श्रीधरी) । दोषः, दोष १. यथार्थज्ञानावरोधकं कारणम् । यथा- रज्जौ सर्पभ्रमे गाढ़तिमिररोगादि । इत्यद्वैतवेदान्तिनः ।२. अप्रमायाः असाधारणं कारणमिति । अयं लक्षणदोषोऽपि अनुमितितत्करणपरामर्शैतदन्यतरप्रतिबन्धकयथार्थज्ञानविषयः (त० सं० दी०) । इति न्यायविदः । ३. वातपित्तकफाः इति आयुर्विदः । ४. धूर्तताचापल्यादि इति लौकिकाः । युभ्वायायतनम्, युभ्वायायतन ब्रह्म । यथा च - द्यौश्च भूश्च द्यु॒भुवौ द्युभुवावादी यस्य तदिति द्युभ्वादि । तदेतदस्मिन् वाक्ये द्यौः पृथिव्यन्तरिक्षं मनः प्राणा इत्येवमात्मकं जगदोतत्वेन निर्दिष्टं तस्यायतनं परं ब्रह्म भवितुमर्हति । कुतः ? स्वशब्दादात्मशब्दादित्यर्थः (ब्र० सू० १ ।३।१ शा० भा०) । यथा द्युभ्वाद्यायतनं परं ब्रह्मैव, न प्रधानाव्याकृतवायुशारीरहिरण्यगर्भाः कुतः ? स्वशब्दात् (तत्रैव भाम० ) । द्यौः, द्यो १. निधनम् (सामगानभेदः) । सामोपासनम् । यथा - "निधनम्, दिवि निधीयन्ते हीतो गता इत्यूर्ध्वेषूर्ध्वगतेषु लोकदृष्ट्या सामोपासनम् (छा० उ० २।१ शा० भा०) । २. अम्भोलोकस्य = जललोकस्याश्रयः । यथा - "दिवं धुलोकात् परेण परस्तात् सोम्भःशब्द वाच्योऽम्भोभरणात् । द्यौः प्रतिष्ठाऽऽश्रयस्तस्माम्भसो लोकस्य (ऐ० उ० १/२ शा० भा० ) । द्वयम्, द्वय द्वयोः पूरणमित्यर्थे द्वेस्तीयः (पा० सू०५/२/५४) इत्ययेन तीयप्रत्ययेन निष्पन्नः । बौद्धनये सत्यद्वयं ग्राह्यग्राहकरूपं चित्तं चैत्तिकं च । यथाचित्तमात्रमिदं सर्वं द्विधा चित्तं प्रवर्तते । ग्राह्यग्राहकभावेनात्मात्मीयं न विद्यते (ल० अ० सूत्रे ३ । १ । २१ ) । द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोकसंवृति सत्यं च सत्यं च परमार्थतः (माध्य० का० २४।८) । यथा च - चित्तस्पन्दितमेवेदं ग्राह्यग्राहकमद्वयम् (मा० उप० गौ० पा० का० ४।७२) । अत्रावधेयम् - परिकल्पितं परतन्त्रं च सत्यं संवृतिसत्येऽन्तर्भवतः । परिनिष्पन्नं च सत्यं परमार्थसत्येऽन्तर्भवति । द्वयकालः, द्वयकालः विज्ञानाभासः । स च यावदन्तर्भासते तावदेव बहिर्भासते । यथा - अन्तर्बहिरूपः । कालोभयम् = द्वयकालाश्च भेदकाला अन्योन्यपरिच्छेद्याः । यथाऽऽगोदोहनमास्ते यावदास्ते तावद्गां दोग्धि यावद्गां दोग्धि तावदास्ते । तावानयमेतावान्स इति परस्परपरिच्छेद्यपरिच्छेदकरणं बाह्यानां भेदानां ते द्वयकालाः (मा० उ० गौ० का० २।१४ शा० भा० ) यथेयं माण्डूक्योप० कारिका - चित्तकाला हि येऽन्तस्तु द्वयकालाश्च ये बहिः । कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः । द्वयाभासः यथा, द्वयाभास यथा स्वप्ने द्रष्टा तथा चित्तं द्वयं भासते न केवलं चित्तमेवेति बौद्धमतनिरासः । यथा - द्रष्टा चित्तस्यावभासः । जीवादिभेदानां स्वप्ने दृश्यमानानामुक्तानां पृथगसत्त्वं साधयति चित्तमेवेति । तर्हि द्रष्टा चित्तं चेति द्वयं स्वप्ने स्वीकृतम् (मा० उ० गौ० पा० का० ४ । ६२ शा० भा० ) । द्वादशायतनम्, द्वादशायतन बौद्धाभिमतधर्मस्य.... द्वादश आयतनानि । एथा - पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि द्वादशायतनानि तु (सर्व० द० सं० बौ०) । द्वारम्, द्वार अध्यासे अज्ञानं द्वारम् । यथा- आत्मन्यज्ञानसम्बन्धोऽज्ञानकृतो दृग्दृश्यसम्बन्धत्वाद् घटसम्बन्धवत् । अयमर्थः - यस्मादसङ्ख्या दृशा (सकलमेव दृश्यं घटादिसम्बध्यमानमज्ञानसम्बन्धं द्वारीकृत्याऽऽध्यासिकेन तादात्येनैव सं० ) बध्यतेऽन्यस्य संयोगसमवायादेश्शक्यनिरूपणत्वादिति वक्ष्यति (सं० शा० १ ।५२ सु० टी०) । द्विचन्द्रः, द्विचन्द्र एतत्सप्रयोजनभानस्योदाहरणम् । यथा - न हि द्विचन्द्रालातचक्रगन्धर्वनगरादिविभ्रमाः समुद्दिष्टप्रयोजना भवन्ति (ब्र० सू० २।१।३३ भाम० ) । द्विनामा, द्विनामन् एक एव पुरुषः पुरुषद्वयवद्भासते । अत्रोदाहरणम् - द्विनामा । यथा - द्विनामा द्विगोत्र इत्यादि हि स्मृतिः । दृश्यते चोभयोः पिण्डभाक्त्वम् (छा० उ० १/१२/१ शा० भा० ) । यथा च - द्विनामेति । इत्यादिवाक्यं स्मृतिरूपं धर्मशास्त्रे प्रसिद्धमित्यर्थः। द्विगोत्रमेकस्य लोकेऽपि प्रसिद्धम् (तत्रैव आ० गि०) । द्वेषः, द्वेष क्षेत्रम् (शरीरम्) । यथा - तथा द्वेषो यज्जातीयमर्थं दुःखहेतुत्वेनानुभूतवान् पुनस्तज्जातीयमुपलभमानस्तं द्वेष्टि सोऽयं द्वेषो ज्ञेयत्वाद् क्षेत्रमेव (गी० १३ ।६ शा० भा०) । यथा च - द्वेषो दुःखे तत्साधने चेदं मे भूयादिति स्पृहाविरोधिनी चित्तवृत्तिः क्रोध इति ईर्ष्यति चोच्यते (तत्रैव म० सू०) । दुःखेष्वप्रीतिर्द्वेषः । यथा अविद्यास्मितारागद्वेषाभिनिवेशः इति (पा० यो० सूत्रे २।३) । द्वैतम्, द्वैत द्वाभ्यां प्रकाराभ्यां जीवात्मपरमात्मप्रकाराभ्याम् इतं प्राप्तं ज्ञानं द्वैतं तदेव (स्वार्थे) द्वैतम् । यथा - मायायाः कामधेनोर्वत्सौ जीवेश्वरावुभौ । यथेच्छं पिबतां द्वैतं तत्त्वं त्वद्वैतमेव हि (प० ० ६ । २३६) । दंशः, दंश कर्म – यथा - तद्वां नरा सनये दं द...... स उग्रमाविष्करोमि तन्यतुर्न वृष्टिम् (बृ० उ० २।५।१६) । तच्च दिव्यम् । यथा च - दिव्य दिवि भवम् (तत्रैव शा० भा० ) । यथा - दिव्यं दिवि हार्दाकाशे आविर्भूतम् (तत्रैव नी० क०) । यथा – दिवि परमे व्योग्नि स्वस्वरूपे भवं दिव्यम् (तत्रैव म० सू०) । यथा - "दिव्यं दिवि परमे व्योग्नि हृदयाकाशे भवं दिव्यम् (तत्रैव भाष्यो०) । यथादिव्यत्वमप्राकृतत्वम् (गी० १०/१६ आ० गि०) । यथा - दिव्या असर्वज्ञैर्ज्ञातुमशक्या हि यस्मात्तस्मात्सर्वज्ञस्त्वमेव ता अशेषेण वक्तुमर्हसि (तत्रैव म० सू०) । यथा दिव्या अत्यद्भुता (तत्रैव श्रीधरी) यथा - दिव्यमप्राकृतं ऐश्वररूपदर्शनयोग्यं चक्षुस्तुभ्यं ददामि (गी० ११।८ म० सू० ) । यथा- अतोऽहं दिव्यमलौकिकं ज्ञानात्मकं चक्षुस्तुभ्यं ददामि (तत्रैव श्रीधरी) । यथा च - दिवि भवानि दिव्यान्यप्राकृतानि । गी० ११।५ शां० भा० । धनसनिः, धनसनि विभूतिमान् । यथा - तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः (छा० १।७।६) । इति च लौकिकेष्वपि गायनेष्वस्यैव गीयमानत्वं दर्शयति (ब्र० सू० १/१/२० शा० भा०) । यथा च - धनसनय इति धनमन्तो विभूतिमन्त इति यावत् (तत्रैव भाम० ) । धर्मः, धर्म आनन्दः विषयानुभवः नित्यत्व चेत्यादयो ब्रह्मधर्माः । यथा विषयिणस्तद्धर्माणां चेत्यध्यासभाष्यावयवं व्याचक्षाणैः पञ्चपादिकाकृद्भिः - ननु विषयिणश्चिदेकरसस्य कुतो धर्मा ये विषयेऽध्यस्येरन् इत्याक्षिप्य समाहितम् - आनन्दो विषयानुभवो नित्वं चेति धर्माः । अपृथक्त्वेऽपि चैतन्यात् पृथक्त्वेनावभासन्त इति (त० प्र० स्वप्र० न० प्र० टी० ) । धर्मः, धर्म १ . अभ्युदयसाधनं निःश्रेयससाधनं वासुदेवाख्यं परं ब्रह्म च । यथा अभ्युदयार्थोऽपि यः प्रवृत्तिलक्षणो धर्मो वर्णाश्रमांश्चोद्दिश्य विहितः स च देवादिस्थानप्राप्तिहेतुरपि सन्नीश्वरार्पणबुद्ध्यानुष्ठीयमानः सत्त्वशुद्धये भवति फलाभिसन्धिवर्जित, शुद्धसत्त्वस्य च ज्ञाननिष्ठायोग्यताप्राप्तिद्वोरण ज्ञानोत्पत्तिहेतुत्वेन च निःश्रेयसहेतुत्वमपि प्रतिपद्यते । तथा चेममर्थमभिसन्धाय वक्ष्यति- "ब्रह्मण्याधाय कर्माणि यतचित्ता जितेन्द्रियाः । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये । इमं द्विप्रकारकं धर्मं निःश्रेयसप्रयोजनं परमार्थतत्वञ्च वासुदेवाख्यं परब्रह्माभिधेयभूतं विशेषतोऽभिव्यञ्जयत् विशिष्टप्रयोजनसम्बन्धाभिधेयवद्गीताशास्त्रं यतस्तदर्थविज्ञानेन समस्तपुरुषार्थसिद्धिरतस्तविवरणे यत्नः क्रियते मया (गी० उपो० शा० भा०)। २. चित्प्रतिबिम्बो जीवः बन्धनरहितः आवरणरहितो वा । यथा - अजेष्वजमसंक्रान्तं धर्मेषु ज्ञानमिष्यते । यतो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम् (मा० उ० गौ० पा० का० ४।६) । अजेष्वनुत्पन्नेष्वचलेषु धर्मेष्वात्मसु । .... तदेवमजमचलं च धर्मेषु ज्ञानमिष्यते .... (तत्रैव शां० भा०) । यथा च - अजा धर्माश्चिप्रतिबिम्बा जीवा विवक्ष्यन्ते (तत्रैव आ० गि० टी० ) । यथा च - अलब्धावरणाः । अलब्धमप्राप्तमावरणमविद्यादिबन्धनं येषां ते धर्मा अलब्धावरणा बन्धनरहिता इत्यर्थः । .....न तु मुत्याख्या स्थितिस्तैराप्याऽस्ति । नित्यशुद्धबुद्धमुक्तस्वभावा एव सर्वे ! कल्पितसंवृतिमात्रेण तु बोधेनाप्रबोधनाश आवरणच्युतिर्मोक्षप्राप्तिश्च भवतीत्युच्यत इत्यभिप्राय: (तत्रैव ९८ शां० भा०) । ३. स्वस्वभावः । यथा - स्वयं प्रभातं भवति । स्वयं ज्योतिः स्वभावमेतन्नादित्याद्यपेक्षमित्यर्थः ।.... एव धर्म आत्माख्यः सकृद्विभातः सदैव विभातः (तत्रैव ८१ शां० भा०) । बौद्धमते धर्मो धातुः प्रायः द्रव्यवाचकः (ब्र० सू० भाम०) इत्यद्वैतवेदान्तिनः । ४. (क) आधेयः पदार्थः । यथा द्रव्यं गुणवद् इत्यादौ गुणो धर्मः । यथा - सन्दिग्धसाध्यधर्मत्वं पक्षत्वम् । (ख) यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । (वै० सू० १ । १ । २) न च धर्माधर्मयोः स्वरूपफलसाधनादिसमधिगमे शास्त्रादतिरिक्तं कारणं शक्यं सम्भावयितुम् (ब्र० सू० ३ । १।८ शा० भा०) । प्रवृत्तिलक्षणः निवृत्तिलक्षणश्च । यथा - प्राणिनां च सुखप्राप्तये धर्मो विधीयते । दुःखपरिहाराय चाधर्मः प्रतिषिध्यते (ब्र० सू० १ । ३ । ३० शा० भा० ) । यथा च - आचारोऽपि च धर्मविशेष एव (ब्र० सू० ३/१/११ शा० भा० ) । ये केचन धर्मा ब्रह्मणि असन्तोऽपि अपृथक्त्वेऽपि पृथक्त्वेन भासन्ते । यथा चिदेकरसस्य – आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्माः । अपृथक्त्वेऽपि चैतन्यात्पृथगिवावभासन्ते (त० प्र० स्वप्र० प्र० न० प्र० टी०) । (ग) वेदविहितकर्मजन्यो धर्मः।वेदनिषिद्धकर्मजन्योऽधर्मः (त० सं० इति न्यायवैशेषिकाः) ।५. चोदनालक्षणोऽर्थो धर्मः (जै० सू० १।१।१) । अत्रार्थत्वे सति चोदनागम्यो धर्मः (जै० न्या० १।१।१ ) । स च धर्मः भट्टमते यागादिः, प्राभाकरमते त्वपूर्वः । इति पूर्वमीमांसकाः । ६. वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साक्षाद् धर्मस्य लक्षणम् (मनु० स्मृ० २।१२) । एतद् धर्मलक्षणं दशविधम् - धृतिः क्षमा दमः स्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्यासत्यमक्रोधो दशकं धर्मलक्षणम् (म० स्मृ० ६।९२)। धर्मस्य शुद्धिश्च तत्रैवोक्ता - प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदित्तं कार्यं धर्मशुद्धिमभीप्सता (म० स्मृ० १२।१०५) । पुनश्चाऽयं स्मार्तः धर्मः षड्विधः । वर्णधर्मः आश्रमधर्मः, वर्णाश्रमधर्मः, गुणधर्मः, निमित्तधर्मः, साधारणधर्मश्चेति । एतेषां विस्तृतं विवेचनम् मनुयाज्ञवल्क्यस्मृत्यादौ मिताक्षरादिटीकायां च द्रष्टव्यमिति धर्मशास्त्रविदः । यथा च - धर्मः प्रत्यग्ब्रह्मैक्यसाक्षात्कारः (पा० यो० सू० ४।१९ बलरामोदासीनः) । यथा च - योग्यतावच्छेदिका धर्मिणः शक्तिरेव धर्मः (पा० यो० सू० भा०)। धर्मिणो द्रव्यस्य मृदादेः चूर्णपिण्डघटाद्युत्पत्तिशक्तिरेव धर्मः (तत्रैव व० रा० उ०) । यथा च - त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति । प्रथमस्तप एव द्वितीयो ब्रह्मचर्याचार्यकुलवासी । तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् । सर्व एते पुण्यश्लोका भवन्ति (छा० उ० १३ । १) । धर्ममेघसमाधिः, धर्ममेघसमाधि धर्मं मेहति वर्षति एवम्भूतः समाधिः धर्ममेघसमाधिः निर्विकल्पसमाधिरित्यर्थः । यथा - धर्ममेघमिमं प्राहुः समाधिं योगवित्तमाः । वर्षात्येष यतो धर्मामृतधाराः सहस्रशः (प० द० १।६०) । धर्मस्कन्थाः (त्रयः), धर्मस्कन्थ (त्रि) १ . यज्ञः अध्ययनम् दानम् । २. तपः । ३. ब्रह्मचर्याचार्यकुलवासः । यथा – त्रयो धर्मस्कन्धाः (छा० उ० २।२३।१ ) ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छा० उ० ५।१०।१) तपः श्रद्धे ये ह्युपवसन्त्यरण्ये (मु० उ० १ ।२।११)। एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति (वृ० उ० ४ । ४ । २२) । त्रयो धर्मस्कन्धाः इत्यत्र तावद् यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचर्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् सर्व एते पुण्यलोका भवन्तीति ( ब्र० सू० ३।४।१८ शा० भा० ) । यथा च - ख्यातिमात्रं धर्ममेघध्यानोपमं भवति (पा० यो० सू० १/१ व्या० भा० ) । यथा च - धर्मः प्रत्यग् ब्रह्मैक्यसाक्षात्कारः तं मेहति सिञ्चति वर्षतीति धर्ममेघः समाधिः (पा० यो० सू० २।२९ का० भा० ) । यथा च प्रसंख्यानं विवेकज्ञानम् । प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः (तत्रैव) । धातुः, धातु १. वस्तु, आत्मा, जीवः । यथा - "सकृद्विभातो ह्येवैष धर्मो धातुस्वभावतः" । (मा० उ० गौ० पा० का० ४।८१ ) । यथा - धातुस्वभावतः वस्तु स्वभावत एव चैतन्यैकप्रकाशोऽयमित्यर्थः (तत्रैव शा० भा० ) । यथा च धर्मो धातुः परमात्मरूपं स्वतन्त्रं वस्तु यस्मात् स्वभावत एव सकृद्विभातम् । किञ्च धीयते निधीयते स निक्षिप्यते सुषुप्त्यादौ अस्मिन्निति धातुरात्मोच्यते (मा० उ० गौ० पा० का० ४।८१ शा० भा० ) । २. शब्दप्रकृतिः - भू सत्तायाम्, पच्छृ पाके इत्यादि । भूवादयो धातवः (पा० सू० १ ।३।१) । ३. वातपित्तकफाः तथा रेतः इति आयुर्वेदविदः । ४. हिरण्यम् रजतम्, कांस्यम् ताम्रम्, शीशकमेव च । रङ्गमायसरैत्यं च धातवोऽष्टौ प्रकीर्तिताः । इति धातुवादिनः । ५. शुद्धं ब्रह्म - यथा - देवैरत्रापि विचिकित्सितं पुरा नहि सुविज्ञेयमणुरेष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् (क० उ० १ ।१।२१)। धातुस्वभावतः, धातुस्वभावत आत्मस्वभावतः । एष एवंलक्षण आत्माख्यो धर्मो धातुस्वभावतो वस्तुस्वभावत इत्यर्थः (मा० उ० गौ० पा० का० ४।८१ शां० भा०) । यथा च - किं च धीयते निधीयते सर्वं निक्षिप्यते सुषुप्त्यादौ अस्मिन्निति धातुरात्मोच्यते (तत्रैव आ० गि० टी०) । धाम, धामन् १. परमात्मा प्रकाश आश्रयश्च । यथा - "परं ब्रह्म परमात्मा परं धाम परं तेज:" (गी० १२/१२ शा० भा०) । यथा - परं ब्रह्म परं धाम आश्रयः प्रकाशो वा (तत्रैव म० सू० ) । यथा- परं धाम परं तेजः सूर्यादितेजसामपि तेजः (तत्रैव भाष्यो०) । २. स्थानम् । ३. तीर्थस्थानविशेषः । यथा श्रीजगन्नाथधाम इति । धीर्गुणाः, धीर्गुण बुद्धेः शुश्रूषादयोऽष्टौ गुणाः । यथा- शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहोत्थविज्ञानं तत्त्वज्ञानं च धीगुणाः (सं० शा० १० सु० टी० ) । धीरः, धीर धीमान् । आत्मज्ञः । यथा - धीमान् आत्मवित् नह्येवंविधस्यात्मविदः शोकोपपत्तिः (का० उ०- २ शा० भा० ) । धूमः, धूम १. प्रेत्य परलोकं प्राप्तुरात्मनः एकः मार्गविशेषः । प्रितृयानज्योतिर्मार्गादिवत् । दक्षिणायनादिकालविशेषे प्रेताः जीवविशेषाः धूममार्गेण प्रयान्ति । यथा - अथैतमेवाध्वानं पुनर्निवर्तते यथेतमाकाशमाकाशाद् वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति (छा० उ० ५/१०/५) (ब्र० सू० ३ । १ । २२ शा० भा० ) । धृतिः, धृति अवसन्नदेहेन्द्रियधारणसाधनम् । यथा- धृतिर्ययावसादप्राप्तानि देहेन्द्रियाणि ध्रियन्ते सा च ज्ञेयत्वात् क्षेत्रम् (गी० १३/६ शा० भा० ) यथा - धृतिरवसन्नानां देहेन्द्रियाणामवष्टम्भहेतुः प्रयत्नः (तत्रैव म० सू०) । ध्यानम्, ध्यान १ . (क) चित्तवृत्तेः समानरूपेण प्रवाहः । यथा - ध्यायत्यर्थ एव यत् समानप्रत्ययप्रवाहकरणम् । ध्यायतिश्च प्रशिथिलाङ्गचेष्टेषु प्रतिष्ठितदृष्टिष्वेकविषयाक्षिप्तचित्तेषूपचर्यमाणो दृश्यते ध्यायति वको ध्यायति प्रोषित बन्धुरिति (ब्र० सू० ४।१।८ शा० भा०) (ख) चिन्तनम् । यथा - ध्यानं चिन्तनं यद्यपि मानसं तथापि पुरुषेण कर्तुमकर्तुमन्यथा वा कर्तुं शक्यं पुरुषतन्त्रत्वात् (तत्रैव १ । १ ।४ शा० भा० ) यथा च - ध्यानं नाम शब्दादिभ्यो विषयेभ्यः श्रोत्रादीनि करणानि मनस्युपसंहृत्य मनश्च प्रत्यक् चेतयितयैकाग्रतया यच्चिन्तनं तद्ध्यानम् (गी० १३।२४ शा० भा०) । यथा च - अत्र ये आत्मानं विविदिषन्ति ते निष्कामकर्मणा परमेश्वरमाराधयन्ति ते कर्मयोगिनः । तत एवोत्पन्नविविदिषा वेदान्तश्रवणे प्रवर्तन्ते । ततः प्रमाणगतासम्भावनानिवृत्तौ सत्यां तस्यैवार्थस्य मनने प्रवर्तते । प्रमेयगतासम्भावनानिवृत्त्यर्थं ते सांख्याः । ततः प्रमाणप्रमेयगतासम्भावनाया निवृत्त्यनन्तरं आत्मनि देहादावात्मबुद्धिरूपाया विपरीतभावनाया निवृत्त्यर्थं निदिध्यासनं विजातीयप्रत्ययतिरस्कारपूर्वकसजातीयप्रत्ययप्रवाहीकरणलक्षणं कर्तुं प्रवर्त्तन्ते । ततः तत्परिपाके आत्मनि बुद्धिवृत्तौ आत्मानं परमेश्वरं पश्यन्ति ते ध्यायिनः (तत्रैव नी० क०) । यथा ध्यानेन विजातीयप्रत्ययानन्तरितेन सजातीयप्रत्ययप्रवाहेन श्रवणमननफलभूतेनात्मचिन्तनेन निदिध्यासनशब्दोदितेन आत्मनि बुद्धौ पश्यन्ति साक्षात्कुर्वन्ति (तत्रैव म० सू०) । केचिदुत्तमाधिकारिणो योगिनः । एतज्जन्मनि जन्मान्तरे वा कृताभ्यां श्रवणमननाभ्यामसम्भावनादिदोषनिर्मुक्ताः शब्दादिंविषयेभ्यः श्रोत्रादीनि करणानि मनस्युपसंहृत्य मनश्च प्रत्यगात्मन्येकाग्रं विधाय तैलधारावत् सतताविच्छिन्नप्रत्ययेन निदिध्यासनापरपर्यायेण ध्यानेनात्मनि बुद्धौ आत्मानं प्रत्यक्चेतनमात्मना ध्यानसंस्कृतेनान्तःकरणेन पश्यन्ति साक्षात् कुर्वन्ति (तत्रैव भाष्यो०) । ध्यानेन आत्माकारप्रत्ययावृत्त्या (तत्रैव श्रीधरी) इत्यद्वैतवेदान्तिनः । २. तत्र प्रत्ययैकतानताध्यानम् (पा० यो० ३ । २) । तस्मिन् देशे ध्येयाऽवलम्बनस्य प्रत्ययस्य विसदृशप्रत्ययप्रहाणेन प्रवाहो ध्यानमित्यर्थः ।उक्तञ्चतद्रूपप्रत्ययैकाग्र्या सन्ततिश्चान्यनिःस्पृहा । तद्धयानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते यथा । इति योगशास्त्रविदः । ३. चिन्तनम् । यथा - लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् । ध्येयः सदा सवितृमण्डलंमध्यवर्ती.... इति पौराणिकाः काव्यविदश्च । ध्रुवः, ध्रुव १ (क) अव्यभिचारी । यथा - जातस्य हि लब्धजन्मनोः ध्रुवोऽव्यभिचारी मृत्युर्मरणं ध्रुवं जन्म मृतस्य च तस्मादपरिहार्योऽयं जन्ममरणलक्षणोऽर्थस्तस्मिन्नपरिहार्येऽर्थे न त्वं शोचितुमर्हसि (गी० २।२७ शा० भा०) । (ख) अविकारि । यथा ध्रुवमित्यविकारित्वमुच्यते (सं० शा० ३ । २९२ सु० टी०) । एतावत्युक्तेऽपि महत्त्वात्परमव्यक्तमव्याकृताख्यं प्राप्तं तदर्थमाह - ध्रुवमिति । (ग) नित्या । यथा - स एष संवत्सरः प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदशकला ध्रुवैवास्य षोडशी कला रात्रिभिरेवांस्य च पूर्यतेऽप एव च क्षीयते सोऽमावस्या ॐ रात्रिमेतया षोडशकलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते । तस्मादेता & रात्रिं.... प्राणभृतः प्राणेन विच्छिन्द्यादपि च कृकलासस्यैतस्या एव देवताया अपचित्यै (बृ० उ० १/५/१४) ध्रुवा नित्येत्यर्थः (तत्रैव शा० भा० ) । नवद्वारम्, नवद्वार नवद्वारं पुरं शरीरमिति । यथा - नवद्वारे पुरे सप्तशीर्षाण्यान्यात्मन उपलब्धिद्वाराण्यर्वाग्द्वे मूत्रपुरीषविसर्गार्थे तैद्धरिर्नवद्वारं पुरमुच्यते शरीरं पुरमिव पुरमात्मैकस्वामिकं तदर्थप्रयोजनैश्चेन्द्रियमनोबुद्धिविषयैरनेकफलविज्ञानस्योत्पादकैः पौरैरिवाधिष्ठितं तस्मिन्नवद्वारे पुरे देही सर्वं कर्म सन्यस्यास्ते (गी० ५/१३ शा० भा०) । यथा - समाधिस्थो योगी नवद्वारे नवैव पञ्चज्ञानेन्द्रियाणि षष्ठः प्राणस्तेनैव तप्रवर्त्यानां कर्मेन्द्रियाणां सङ्ग्रहः । बुद्ध्यहङ्कारचित्तानीति नव । एतानि द्वाराणीव पुरपतेर्जीवस्य भोगार्थं विषयप्रवेशस्थानानि यस्मिन्नवद्वारे शरीराख्ये पुरे विचित्रवासनाकल्पितानन्दविषयवति अनेकैः कर्मसचिवैरधिष्ठिते सुखदुःखादिनानापण्यवति मनसा सर्वद्वारोद्घाटनकुञ्जिकया सह सर्वाणि कर्माणि पुरपतिरिव राजकार्याणि संन्यस्य सुखं निर्विकल्पसंविन्मात्ररूपेणास्ते (तत्रैव नी० क० ) । यथा "नवेति । देहसम्बन्धाभिमानाभासवत्त्वमाह - देहीति । मनसा सर्वकर्मसंन्यासेऽपि लोकसंग्रहार्थं बहिः सर्वं कर्म कर्त्तव्यमिति प्राप्तं प्रत्याह - नवेति । तान्येव सर्वाणि कर्माणि परित्याज्यानि विशिनष्टि - नित्यमिति । तेषां परित्यागे हेतुमाह- तानीति । यदुक्तं सुखमास्त इति तदुपपादयति- त्यक्तेति । जितेन्द्रियत्वं कायवशीकारस्याप्युपलक्षणम्, द्वे श्रोत्रे 'द्वे चक्षुषी, द्वे नासिके, वागेकेति सप्तशीर्षाण्यानि शिरोगतानि शब्दाधुपलब्धिद्वाराणि । अथापि कथं नवद्वारत्वमधोगताभ्यां पायूपस्थाभ्यां सहेत्याह – अर्वागिति । शरीरस्य पुरसाम्यं स्वामिना पौरैश्चाधिष्ठितत्वेन दर्शयति आत्मेत्यादिना । यद्यपि देहे जीवनत्वाद्देहसम्बन्धामिधानाभासवानवतिष्ठते तथापि प्रवासीव परगेहे तत्पूजापरिभवादिभिरप्रहृष्यन्न् व्यामोहादिरहितश्च तिष्ठति (तत्रैव आ० गि० ) । नान्तरीयकत्वम्, नान्तरीयकत्व न अन्तरा विना नान्तरा ततो भवार्थे छ प्रत्ययः अव्ययानां भमात्रे टिलोपः ततः स्वार्थे क प्रत्ययः नान्तरीयकमिति ततो भावार्थे त्वलिति नान्तरीयकत्वम् । १. व्याप्तिः (का० प्र० २।११) । २. तद्भावे तद्रूपा व्याप्तिः । ३. तत्सत्तानियतसत्ताकत्वम् । यथा - आम्रफले बीजसत्ता, मत्स्यादौ कण्टकादि च । ४. मध्ये अवश्यं भावित्वम् । नाभिः, नाभि केचन नाभिः प्राणस्तथेन्द्रियमिति मन्यन्ते । तच्च न समीचीनम् । नाभिः गात्रावयवः । यथा - नव वै पुरुषे प्राणा नाभिर्दशमी इत्यत्रापि देहच्छिद्रभेदाभिप्रायेणैव दश प्राणा' उच्यन्ते, न प्राणतत्त्वभेदाभिप्रायेण; नाभिर्दशमीति वचनात् । नहि नाभिर्नाम कश्चिप्राणः प्रसिद्धोऽस्ति । मुख्यस्य तु प्राणस्य भवति नाभिरप्येकं विशेषायतनमित्यतो नाभिर्दशमीत्युच्यते । क्वचिदुपासनार्थं कतिचिप्राणा गण्यन्ते क्वचिप्रदर्शनार्थम् । तदे॒वं विचित्रे प्राणेयत्ताम्नाने सति क्व किंपरमाम्नानमिति विवेक्तव्यम् । कार्यजातवशात्त्वेकादशत्वाम्नानं प्राणविषयं प्रमाणमिति स्थितम् (ब्र० सू० २/४/६ शा० भा० ) । नारायणः, नारायण १. (क) नराणां समूहः नारः स अयनम् स्थानमस्य असौ नारायणः । अथवा नारस्य अयनम् एव नारायणः पुरुषः । पुंस्त्वं तु श्रौतवात् । जीवसमष्टिस्थानं हिरण्यगर्भः न तु परमेश्वरः । यथा - देहान्निकृष्टस्याजत्वाऽव्ययत्वे "नन्वेवाहं जातु नासमि"त्यत्र साधिते, इह तु देहाविशिष्टस्यैव ते उच्येते । ईश्वरोऽपीत्यनेन देहनिष्कृष्टस्यास्मदादेरपीश्वरत्वं "तत्त्वमसि" "अहं ब्रह्मास्मि" इत्यादिश्रुतिप्रसिद्धमतो देहविशिष्टस्यैवाजत्वनित्यत्वे दृढ़ीक्रियेतेऽन्यथानीश्वरत्वप्रसङ्गात् । न ह्यादित्यान्तर्यामिणः परमेश्वरस्य हिरण्यश्मश्रुत्वादिविशिष्टो देहो जन्मव्ययवानिति वक्तुं शक्यम् । अकर्मजत्वात् । कर्मफलस्य हि पराकाष्ठा हिरण्यगर्भशरीरप्राप्तिः । न च पुरुषो ह वै नारायणोऽकामयत अत्र तिष्ठेयं सर्वाणि भूतानि अहमेवेदं सर्वं स्यामिति स एवं पुरुषमेधं पञ्चरात्रं यज्ञं कर्तुमपश्यत्" इत्यादिना शतपथे नारायणाख्यस्य परमात्मनः "सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं सर्वतः स्पृत्वात्यतिष्ठद्दशाङ्गुलम्" । इति "पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतन्दिवि" इति च पुरुषसूक्तप्रतिपाद्यस्य सर्वाणि भूतान्यतिक्रम्य स्थितस्येश्वरस्यापि शरीरं पाञ्चरात्राख्यकर्मविशेषफलमिति श्रूयत इति वाच्यम् । तत्र नारायणशब्देन हिरण्यगर्भस्यैव विवक्षितत्वात् । न हि परमेश्वरस्य पूर्णकामस्य सर्वानतिक्रम्य स्थितस्य पुनरत्यतिष्ठेयं सर्वाणि भूतानीति कामना भवति । ननु परमेश्वरेऽपि कामना दृष्टा "सोऽकामयत बहुस्यां प्रजायेय" इतीति चेच्छ्लाघनीयप्रज्ञो देवानां प्रियः यत आप्तकामस्य का स्पृहा इति श्रुतेः "लोकवत् तु लीलाकैवल्यम्" इति न्यायाच्च निःस्पृहस्य लीलयैव ब्रह्माण्डकोटीः सृजतो भगवतो राजगोपालस्य कर्म किङ्करेण कर्मणा सार्वात्यं प्रार्थयता साम्यमापादयति । तस्मान्न कर्मफलं भगवतः शरीरम् । अत एव न भौतिकम् । विराट्सूत्रात्मातिरिक्तस्य भौतिकस्याभावात् । तस्माद्युक्तमजोऽपि सन्निति । ननु तर्हि भगवच्छरीरस्य किमुपादानम् । अविद्येति चेत्, न । परमेश्वरे तदभावात् । जीवाविद्या चेत्, न । शुक्तिरजतादेरिव तुच्छत्वापत्तेः । चिन्मात्रं चेत्, न । चितः साकारत्वायोगात् । तथात्वे वा तस्यातीन्द्रियत्वापत्तिः। तस्मात्किमालम्बो भगवद्देहो देवकीगर्भप्रवेशजननबाल्यकौमारपौगण्डयौवनादिप्रतीतिविषय इति चेच्छृणु । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममाययेति । अयमर्थः– जीवात्मनो ह्यनात्मनः प्रकृतिं तेजोबन्नात्मिकां पञ्चभूतात्मिकां वाधिष्ठाय सम्भवन्ति जन्मादींल्लभन्ते, अहं तु स्वां प्रत्यगनन्यां प्रकृतिं प्रत्यक्चैतन्यमेवेत्यर्थः । तदेवाधिष्ठाय न तूपादानान्तरम् । आत्ममायया स्वीयमायया सम्भवामि । यथा कश्चिन्मायावी स्वयं स्वस्थानादच्युतस्वभावोऽप्यदृश्यो भूत्वा स्थूलसूक्ष्मभूतान्यनुपादायैव केवलया मायया द्वितीयं मायाविनं स्वसदृशमेव सूत्रमार्गेण गगनमारोहन्तं सृजति, एवमहं कूटस्थ चिन्मात्रोऽग्राह्यः स्वमायया चिन्मयमात्मनः शरीरं सृजामि तस्य बाल्याद्यवस्थाश्च सूत्रारोहणवद्दर्शयामि । एतावांस्तु विशेषः लौकिकमायावी मायामुपसंहरन् द्वितीयं मायाविनमप्युपसंहरति । अहं तु तामनुपसंहरन् स्वविग्रहमपि नोपसंहरामीति । एवं हि सति हिरण्यश्मश्रुत्वादिलक्षणविग्रहयोगिनश्चैतन्यस्य "अन्तस्तद्धर्मोदेशात्" इत्यादिन्यायसिद्धं वियदाधुपादानत्वलक्षणं सर्वेश्वरत्वं युज्यते नान्यथेति । तस्मात् सिद्धं परमेश्वरस्य मायामयं शरीरं नित्यमिति एकेनैव देहेन विवस्वन्तमुपदिश्यत्वामुपदिशामीति (गी० ४।६ नी० क०) । (ख) जलशायी विष्णुः । यथा - "आपो नारा इति प्रोक्ता आपो वै. नरसूनवः अयनं यस्य ताः पूर्वं तेन नारायणः स्मृतः । इति स्मृतिसिद्धः स्थूलदृशां नारायणशब्दार्थः (तत्रैव उपोद्घाते) । (ग) चराचरात्मक सर्वशरीरान्तर्यामी । यथा - सूक्ष्मदर्शिनः पुनराचक्षते - नरशब्देन चराचरात्मकं शरीरजातमुच्यते । तत्र नित्यसन्निहिताश्चिदाभासजीवा नारा इति निरुच्यते तेषामयनमाश्रयो नियामकोऽन्तर्यामी नारायण इति (तत्रैव मं० श्लो० १ उपो०)। (घ) परं ब्रह्म । यथा - अत्र च नारायणशब्देनाभिधेयमुक्तम्- नरा एव नारा जीवास्त्वं पदवाच्यास्तेषामयनमधिष्ठानं तत्पदवाच्यं परं ब्रह्म (तत्रैव मं० श्लो० १ उपो०)। नास्तिकः, नास्तिक १. नास्ति परलोके दृष्टिर्यस्य सः । अस्ति नास्ति दृष्टं मतिः (पा० सू० ४/४/६०) इति सूत्रेण ठञ् प्रत्यये नास्तिक इति पदं सिद्ध्यति । यो हि स्वर्गनरकपरलोकादिकं न मनुते । यथा चार्वाक्बृहस्पतिप्रभृतयः । २. नास्तिको वेदनिन्दकः। यथा – "नास्तिक्यं वेदनिन्दां च देवतानाञ्च कुत्सनम् (म० स्मृ० ४।१६३) । वेदनिन्दकः नास्तिकः षड्विधः - चार्वाक: माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकरूपाश् चत्वारो बौद्धाः आर्हताश्च । तत्र देहात्मवादी चार्वाकः सर्वशून्यवादी माध्यमिकः आन्तरार्थवादी योगाचारः बाह्यार्थानुमेयवादी सौत्रान्तिकः आन्तरबाह्यार्योभयवादी वैभाषिकः पुद्गलवादी जैनश्च । निगमः, निगम नितरां गच्छन्त्यत्रेति - गोचरसंचर इत्यादि (पा० ३/३/११९) सूत्रनिपातितो निगमशब्दः । १. निश्चयः । न्यायशास्त्रे अनुमाने पञ्चावयववाक्ये एकं निगमनम्, यथा – हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् । यथा तत्र तथेति निगमनम् (तं० सं० २ ख०) । २. कटादिः । यथा - निगमो वाणिजे पुर्यां कटे वेदे वणिकूपये (विश्वकोशः) । पुरभेदे वाणिजे कटभेदे वणिकूपथे हट्टे (मेदिनीकोशः) ३. वेदः । यथा आद्यं नैघण्दुकं वाक्यं द्वितीयं नैगमं तथा (ऋगनुक्रमणिकायाम्) । तथापि च निगमे भवति ( यास्कनिरुक्ते) । यथा चनिगमशब्दो वेदवाची यास्केन तत्र तत्रापि निगमे भवति इत्येवं वेदवाक्यानामवतारित्वात् । तस्मिन् निगम एव प्रायेण वर्तमानानां शब्दानां चतुर्थाध्यायरूपे द्वितीयस्मिन् काण्डे उपदिष्टंत्वात् तस्य काण्डस्य नैगमत्वम् (ऋग्वेदभाष्ये सायणः) । यथा च निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् । पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुका: (भागवते १ । १ । ३ ) । यथा च - कुशा वानस्पत्याः स्थ ता मा पाते इत्येतस्मिन् निगमे (ब्र० सू० ३।३।२६ शा० भाष्ये) । यथा च – निखिलनिगमान्तस्तुतिपदे (सौन्दर्यलहर्याम्- १००) । ४. आगमः । यथा वेदन्तपरिभाषायां शब्दप्रामाण्याय वेदप्रामाण्याय वा आगमपरिच्छेदः । अद्वैतसिद्धौ वेदवाक्यबाधोद्धाराय – आगमबाधोद्धारप्रकरणम् । क्वचिद् निगमागमशब्दौ समानार्थकौ क्वचिच्च विभिन्नार्थकौ । नित्यम्, नित्य १ (क) अनादिनिधनं चैतन्यम् । यथा- यत्किल स्वाभाविकं तन्नित्यं यथा चैतन्यम्, स्वाभाविकं चेदं तस्मान्नित्यम् । परे हि नित्यताद्वयीमाहुः कूटस्थनित्यतां परिणामिनित्यतां च । तत्र नित्यमित्युक्ते माभूदस्य परिणामिनित्यतेत्यत आह - तत्र किञ्चिदिति । परिणामिनित्यता हि न परमार्थिकी । तथाहि - सर्वात्मना वा परिणम एकदेशेन वा । सर्वात्मना परिणामे कथं न तत्त्वव्याहतिः । एकदेशपरिणामे वा स एकदेशस्ततो भिन्नोऽभिन्नो वा । भिन्नश्चेत् कथं तस्य परिणामः । न हि अन्यस्मिन् परिणममानेऽन्यः परिणमतेऽतिप्रसङ्गात् । अभेदे वा कयं न सर्वात्मना परिणामः । भिन्नाभिन्नं तदिति चेत्, तथाहि तदेव कारणात्मना- अभिन्नं भिन्नं च कार्यात्मना । कटकादयः स्वाभिन्ना हाटकात्मना भिन्नाश्च कटकाद्यात्मना । न च भेदाभेदयोर्विरोधान्नैकत्र समवाय इति युक्तम्, विरुद्धमिति । नः क्व सम्प्रत्ययो यत्प्रमाणविपर्ययेण वर्तते । ..... यथाहुः कार्यरूपेण नानात्वमभेदः कारणात्मना । हेमात्मना यथा भेदः कुण्डलाद्यात्मना भिदा .....तथा च श्रुतिः मृत्तिकेत्येव सत्यमिति । तस्मात् कूटस्थनित्यतैव पारमार्थिकी न परिणामनित्यतेति सिद्धम् (ब्र० सू० १।१।४ भाम० ) । (ख) सर्वव्यापकम् । यथा - "नित्यं सर्वदा विद्यमानम् ....नित्यं सर्वव्यापकम्" (गी० २।२१ म० सू०) । यथा च - नित्यं सर्वदा विद्यमानम् । प्रागविद्यमानस्य हि जन्म दृष्टं न तु सर्वदा सत्यस्येत्यभिप्रायः । ..... नित्यं सर्वव्यापकम् (तत्रैव भाष्ये०) । यथा च - आकाशादावस्त्यर्वाचीनापेक्षया चिरकालवृत्तित्वाद् व्यावहारिकी नित्यता । प्रत्यङ्मात्रे लंक्ष्येऽविनाशित्वलक्षणापारमार्थिकी (सं० शा० १/१८१ सु० टी०) । २. उत्पत्तिविनाशशून्यं वस्तु । प्राग्भावप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वम् उत्पत्तिविनाशशून्यत्वम् । अत्र ध्वंसेऽतिव्याप्तिवारणाय सत्यन्तम्, प्रागभावेऽतिव्याप्तिवारणाय विशेष्यदलस्य निवेशः । यथा - ईश्वरस्य परमाण्वाकाशादीनाञ्च नित्यत्वम् इति न्यायवैशेषिकविदः । नित्यतृप्तः, नित्यतृप्त कूटस्थनित्यम् । यथा- "इदं तु पारमार्थिकं, कूटस्थनित्यं व्योमवत्सर्वव्यापि, सर्वविक्रियारहितं नित्यतृप्तं निरवयवं, स्वयं ज्योतिः स्वभावम्" (ब्र० सू० १/१/४ शा० भा० ) । यथा - तृप्त्यां दुःखरहितं सुखमुपलक्षयति । क्षुदुःखनिवृत्तिसहितं हि सुखं तृप्तिः (तत्रैव भाम० ) । निद्रा, निद्रा इन्द्रियोपरतिर्निद्रेत्यद्वैतवेदान्तिनः । अभावप्रत्ययालम्बना वृत्तिर्निद्रेति योगविदः । निदिध्यासनम्, निदिध्यासन आत्मविषयकस्थैर्यानुकूलो मानसो व्यापारः । यथा- निदिध्यासनं नाम अनादिदुर्वासनया विषयेष्वाकृष्यमाणचित्तस्य विषयेभ्योऽपकृष्यात्मविषयकस्थैर्यानुकूलो मानसो व्यापारः । तत्र निदिध्यासनं ब्रह्मसाक्षात्कारे साक्षात् कारणम् । ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढ़ाम् (श्वे० १-३) इत्यादिश्रुतेः । निदिध्यासने च मननं हेतुः, अकृतमननस्यार्थदार्याभावेन तद्विषये निदिध्यासनायोगात् । मनने च श्रवणं हेतुः श्रवणाभावे तात्पर्यानिश्चयेन शाब्दज्ञानाभावेन श्रुतार्थविषयकयुक्तत्वायुक्तत्वनिश्चयानुकूलमननायोगात् । एतानि त्रीण्यपि ज्ञानोपतौ कारणानीति केचिदाचार्या ऊचिरे । अपरे तु श्रवणं प्रधानम्, मनननिदिध्यासनयोस्तु श्रवणात्पराचीनयोरपि श्रवणफलब्रह्मदर्शननिर्वर्तकतया आरादुपकारकाङ्गत्वमित्याहुः । तदप्यङ्गत्वं न तार्तीयशेषत्वरूपम् । यस्य श्रुत्याद्यन्यतमप्रमाणगम्यस्य प्रकृते श्रुत्याद्यन्यतमाभावेऽसम्भवात् (वे० प० ८ प० ) । यथा च - विजातीयदेहादिप्रत्ययरहिताद्वितीयवस्तुसजातीयप्रत्ययप्रवाहो निदिध्यासनम् (वे० सा०) । यथा च- विधेयनिदिध्यासनावगमकाले विधेयावृत्त्यवगमस्य ब्रह्मात्मैक्यविषयत्वस्यापि सद्भावात् (ब्र० सू० १/१/४ वे० क० त० परि०) । यथा च - यत्पुनरुक्तं श्रवणात्पराचीनयोर्मनननिदिध्यासनयोर्दर्शनाद् विधिशेषत्वं ब्रह्मणो न स्वरूपपर्यवसायित्वमिति । न, अवगत्यर्थत्वान्मनननिदिध्यासनयोः । यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येत भवेत्तदा विधिशेषत्वम् । न तु तदस्ति मनननिदिध्यासनयोरपि श्रवणवदवगतत्यर्थत्वात् (तत्रैव शा० भा०) । यथा-च - विजातीयप्रत्ययतिरस्कारेण तैलधारावंदविच्छिन्नसमानप्रत्ययप्रवाहेण निदिध्यासनसंज्ञकेन ध्यानेन विषयीकुर्वन्तीत्यर्थः (गी० १२/३ म० सू० ) । यथा च - एतादृशम् अक्षरं ये पर्युपासते परिसमन्तादुपासते श्रवणमननाभ्यां उपास्यस्यार्थस्य विषयीकरणेन सामीप्यमुपगम्यानवच्छिन्नतैलधारावत्समानप्रत्ययप्रवाहेन दीर्घकालमासनं निदिध्यासनं कुर्वन्तीत्यर्थः (तत्रैव भाष्यो०) । यथा च ताभ्यां निर्विचिकित्सेऽर्थे चेतसः स्थापितस्य यत् । एकतानत्वमेतद्धि निदिध्यासनमुच्यते (प० द० १।५४) । यथा च - आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यश्च (बृ० उ० २।४।४) । निरन्तरं विचारो यः श्रुतार्थस्य गुरोर्मुखात् तन्निदिध्यासनं प्रोक्तं तच्चैकाग्रेण लभ्यत इति चेतसः एकतानत्वमेव निदिध्यासनमित्यद्वैतवेदान्तिनः । ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ध्यानशब्देन विख्याता परमानन्ददायिनी । इत्यद्वैत-वेदान्तिनः ।यथा च - रागोपहतिर्ध्यानम् (सां० सू० ३ । ३०) । चित्तैकाग्रताध्यानमेव निदिध्यासनमिति योगविदः । एवमेव जैनदर्शनेऽपि । निधानम्, निधान १ . (क) आश्रयः । यथा – "त्वमस्य विश्वस्य समस्तस्य जगतः परं प्रकृष्टं निधानं निधीयतेऽस्मिन्निति निधानं पर आश्रय इत्यर्थः (गी० ११/१८ शा० भा०) । यथा च - त्वमेवास्य विश्वस्य परं प्रकृष्टं निधीयतेऽस्मिन्निति निधानमाश्रयः (तत्रैव म० सू० १) । (ख) दैवं शङ्खपद्मादिनिधिर्वा । यथा - निधीयते निक्षिप्यते कालान्तरोपभोम्यं प्राणिनां कर्मफलमस्मिन्निति निधानं शंखपद्मादिनिधिर्वा" (गी० ९/१९ भाष्यो०)। निमित्तम्, निमित्त १. समवाय्यसमवायिभिन्नं कारणं निमित्तकारणम् । एतदुभयभिन्नं कारणं निमित्तकारणम् । यथा- तुरीवेमादि (त० सं० १ ख० ) । इति न्यायादिविदः । २. अपरिणामित्वे सति यत्कारणं तन्निमित्तकारणमिति मध्ववेदान्तिनः । निमित्तकारणम्- निमित्तशब्दवत् । नियतत्वम्, नियतत्व १. व्यापकत्वम् । यथा - नित्यसमानाधिकरण्यम्, व्याप्तिरित्यादौ बर्धूमव्यापकत्वम् (त० सं० न्या० बो०) । २. कारणत्वम् । अन्यथासिद्धिशून्यस्य नियता: पूर्ववर्तिता कारणत्वं भवेत्तस्य । ३. ध्वंसाप्रतियोगित्वम् (त० सं० दी०) । ४. नित्यनम् । यदकरणे प्रत्यवायः । इति धर्मशास्त्रविदः । ५. निश्चितत्वम् । इत्यपरें । नियमः, नियम १. शौचतप आदि । यथा - शौचतपः सन्तोषस्वाध्यायेश्वरप्रणिधाना नियमा एते प्रवृत्तिरूपा इत्यर्थः । एतत् प्रकरणीयप्रवर्त्तकशास्त्रवेद्या नियमाः इत्यर्थः (सं० शा० श्लो० ८५ सुं० टी० ) । यथा च - अत्र श्रवणादयोऽपि स्वाध्यायेश्वरप्रणिधानयोरेवान्तर्भवन्तीति तेऽपि नियमा इत्यर्थः (तत्रैव अ० का० टी०) २. शौचसंतोषादि । "शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः (पा० यो० सू० २ । ३२ ) । ३. तद्वदन्यावृत्तित्वं व्याप्तिः । यथा - कार्यकारणनियमः । ४. व्याप्यत्वम् । ५. व्यापकत्वम् । ६. प्रत्यवायजनकीभूताभावप्रतियोगित्वमिति धर्मविदः । ७. प्रतिज्ञास्वीकारो वा इत्यपरे । निरग्निः, निरग्नि नित्यसमाधिनिष्ठः । यथा - निर्गता अग्नयः कर्माङ्गभूता यस्मात्स अनग्निसाधना अप्यविद्यमाना क्रियास्तपोदानादिका यस्य स नित्यसमाधिनिष्ठ इत्यर्थः (गी० ६।१ भाष्यो०)। निरन्वयत्वम्, निरन्वयत्व भावानां निरन्वयः विनाशः न भवति । यथा- नहि भावानां निरन्वयो निरूपाख्यो विनाशः सम्भवति, सर्वास्वप्यवस्थासु प्रत्यभिज्ञानबलेनान्वय्यविच्छेददर्शनात् अस्पष्टप्रत्यभिज्ञानास्वप्यवस्थासु क्वचिदृष्टे नान्वय्यविच्छेदे नान्यत्रापि तदनुमानात् । तस्मात्परपरिकल्पितस्य निरोधद्वयस्यानुपपतिः (ब्र० सू० २।२।२२ ) । अत्र भामती - शक्यं तु तत्र वक्तुम् - "उदबिन्दौ च सिन्धौ च तोयभावो न विद्यते । विनष्टेऽपि ततो बिन्दावस्ति तस्यान्वयोऽम्बुधौ । तस्मान्न क्वचिदपि निरन्वयो नाश इति सिद्धम् । अत्र वेदान्तकल्पतरुः - भाष्यगतनिरन्वयनिरूपाख्यत्वपदयोर्हेतुहेतुमद्भावमाह - यत इति । अपरिशिष्यमाणरूपत्वं निरन्वयत्वम् असत्वं निरुपाख्यत्वम् । निरवयवम्, निरवयव १ . पारमार्थिकं सर्वव्यापि । यथा- "इदं तु पारमार्थिकं कूटस्थनित्यं व्योमवत्सर्वव्यापि, सर्वविक्रियारहितं नित्यतृप्तं निरवयवं स्वयं ज्योतिः स्वभावम् (ब्र० सू० १।१।४ शा० भा० ) । यथा - निरवयवमिति संस्कार्यकर्मताम् । ब्रीहीणां खलु प्रोक्षणेन संस्काराख्योंऽशो यथा जन्यते, नैवं ब्रह्मणि कश्चिदंश: क्रियाधेयोऽस्ति अनवयवत्वात् अनंशत्वादित्यर्थः (तत्रैव भा०) । २. अविनाशि नित्यमिति । यथा परमाणुगगनादीति केचन । निरहङ्कारः, निरहङ्कार अहं भावरहितः ब्रह्मवित् । यथा - "निरहङ्कारो निर्गताहं प्रत्ययः (गी० १२/१३ शा० भा०) । यथा - मुख्यमक्षरविदो लक्षणं निरहङ्कार इति । अहङ्कारो हि सर्वानर्थनिदानं स एव निर्गतो यस्मात् स निरहंकारः (तत्रैव नी० क० ) । यथा निरहंकारः वृत्तस्वाध्यायादिकृताहङ्काराम्निष्क्रान्तः द्वेषरागयोरप्रवर्त्तकत्वेन समे दुःखसुखे यस्य सः" (तत्रैव म० सू०) । यथा- निर्ममो निरहंकारः ममेति प्रत्ययवर्जितः ममतास्पदानां गेहादीनां त्यागात् वृत्तस्वाध्यायकृतादहङ्कारप्रत्ययान्निर्गतः । अत एव समे द्वेषरागयोरप्रवर्त्तक सुखदुःखे यस्य (तत्रैव भाष्यो०) । निरिन्द्रियाः, निरिन्द्रिया १ . अदायादाः स्त्रियः । यथा - तस्मात् स्त्रियोऽनिन्द्रिया अदायादा इति वचनं तत्पूलकं च निरिन्द्रिया ह्यदायादाः स्त्रियो नित्यमिति स्थितिः (अ० ९ । १८) इति मनुवचनम् । अनिन्द्रियत्वं तु पुम्पारतन्त्र्यात् कथंचिदनुवादः । पराशरस्मृतिटीकायां विद्यारण्यश्रीचरणास्तु श्रुतिमेवैनामन्यथा व्याचख्युः । पालीवतग्रहे पल्या अंशो नास्तीत्यादायादपदस्यार्थः । तत्र हेतुरनिन्दियाइति । इन्द्रियं वै सोमपीथ इति सोमेऽपीन्द्रियशब्दप्रयोगात् ततो निर्गत्य इति सोमपानामधिकृता इति पालीव्रतग्रहप्रशंसेति । (वीरमित्रोदये दायभागे दुहितुरपुत्रेधनग्रहणाधिकारविचारे)। २. प्रननशक्त्यभावः । यथा- दुग्धदोहा निरिन्द्रियाः (क० उ० १ । ३) अप्रजननसमर्था जीर्णा: (शा० भा० ) । निरूपाख्यम्, निरूपाख्य १ . (क) उपाख्यारहितं तुच्छं वस्तु । यथा - असत्वं निरूपाख्यम् (ब्र० सू० २।२।२२ वे० क०) । तच्च प्रमाणमात्राविषयोऽसत्पदार्थः । यथा वन्ध्यापुत्रशशशृङ्गकूर्मरोमादि । इदमेवालीकं तुच्छमिति । (ख) ब्रह्म द्विविधं निरुपाधिकं सोपाधिकं च । तत्र निरुपाधिकं ब्रह्म निरूपाख्यमित्युच्यते । यथा - सोपाधिर्निरुपाधिश्च द्वैधा ब्रह्म समुच्यते । सोपाधिः स्यात् सर्वात्मना निरुपाख्योऽनुपाधिकः (गी० ५/२९ नी० क०) । (ग) अभावपदार्थ इत्यन्ये । निरुपाधिकम्, निरुपाधिक ब्रह्म द्विविधम् - निरुपाधिकं सोपाधिकं च तत्र सोपाधिकम् ऐश्वरं रूपं जगदात्मकं विश्वरूपाख्यम् । अपरं च सर्वव्यापकं निरुपाधिकम् । यथा परस्य सोपाधिकं निरुपाधिकं च । चिद्रूपेण ध्येयत्वेन ज्ञेयत्वेन चोक्तमित्यर्थः । सोपाधिकमैश्वरं रूपमशेषजगदात्मकं विश्वरूपाख्यमधिकृत्याध्यायान्तरमवतारयन्नन्तरप्रश्नोपयोगित्वेन वृत्तं कीर्तयति- तत्र चेति (गी० ११११ आ० गि०) । यथा च "यथोक्तं वार्तिकसारे" सोपाधिर्निरुपाधिश्च द्वैधा ब्रह्म समुच्यते । सोपाधिः स्यात्सर्वात्मना निरुपाख्योऽनुपाधिकः । जक्षन् क्रीडन् रतिं प्राप्य इति सोपाधिकस्य तु । छान्दोग्ये सर्वकामाप्तिः सार्वात्यात्स्पष्टमीरिता । अहमन्नं तथान्नादः श्लोककार्यप्यहो अहम् । इति तत्त्वविदः सामगाने सर्वात्मता श्रुता । अत्रापि चक्रदृष्टान्तात्सोपाधिस्तत्त्वविच्छ्रुतः । अपूर्वानपराद्युक्त्या श्रोष्यते निरुपाधिकः । इति (गी० ५/२९ नी० क०) । निर्गुणः, निर्गुण १. ब्रह्म ज्ञानरूपम् । ज्ञानाधिकरणं ज्ञानादिगुणवद् वा न । यथा "केवलस्यासंसृष्टस्यैव कल्पितचिदाभासाविवेकाप्रकाशकत्वमित्यर्थः" । (सं० शा० ३।१८३ सु० टी०) । यथा - निर्गुणो ज्ञानादिगुणवान् न भवति (ब्र० सू० १ । १४ वे० क० ) । २. ज्ञानाधिकरणमात्मा (त० सं०) इति न्यायवैशेषिकादयः । निर्जरः, निर्जर १. जैनदर्शने निर्जरनामकः एकः पदार्थः । यथा - सप्त चैषां पदार्थाः सम्मताः जीवाजीवाश्रवसंवरनिर्जरबन्धमोक्षा नाम (ब्र० सू० २ । २ । ३३ शा० भा०) । यथा च - सप्त चैषां पदार्थाः सम्मता इति । तत्र संक्षेपमाह - संक्षेपतस्तु द्वावेव पदार्थाविति बोधात्मको जीवो जडवर्गस्त्वजीव इति ( तत्रैव भाम० ) । २. जरारहितः निर्जरः देवः । यथा – अमरा निर्जरा देवाः (अ० को०) । ३. वार्धक्यरहितः सर्वोऽपीत्यन्ये । निर्णय:, निर्णय १. विमृश्य पक्षप्रतिपक्षाम्यामर्थावधारणम् । तदभावाप्रकारकमित्यर्थः । षोडश पदार्थेष्वन्यतमः एकः पदार्थः । यथा - प्रमाणप्रमेयप्रयोजनं इत्यादि गौतमसूत्रम् (गौ० सू० १।१।१ ) । निर्णयस्तत्त्वज्ञानं प्रमाणानां फलम् (तत्रैव वात्स्या० ) । २. अधिकरणाङ्गविशेष इति पूर्वोत्तरमीमांसकाः । तथाहि - विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् । । ३. यथार्थानुभवपर्याया प्रमितिर्निर्णयः ( स० द० सं०) । ४. सिद्धान्तसिद्धविचार्यवाक्यतात्पर्यावधारणमिति सांख्याः (सां० त० कौ०) । निर्ममः, निर्ममः मुख्यतः ब्रह्मविद् । यथा - "निर्ममो ममेति प्रत्ययवर्जितो निरहङ्कारो निर्गताहं प्रत्ययः (गी०१२।१३ शा० भा०) । यथां च - अत एव तस्य निर्मम इति विशेषणं युज्यते । मुख्यमक्षरविदो लक्षणं निरहङ्कार इति । अहङ्कारो हि सर्वानर्थनिदानं स एव निर्गतो यस्मात्स निरहङ्कारः (तत्रैव नी० क०) यथा - निर्ममः देहेऽपि ममेति प्रत्ययरहितः निरहङ्कारः वृत्तस्वाध्यायादिकृताहङ्कारान्निष्क्रान्तः द्वेषरागयोरप्रवर्त्तकत्वेन समे दुःखसुखे यस्य सः (तत्रैव म० सू०) यथा - निर्ममो निरहङ्कारः ममेति प्रत्ययवर्जितः ममतास्पदानां गेहादीनां त्यागात् वृत्तस्वाध्यायकृतादहङ्कारप्रत्ययान्निर्गतः (तत्रैव भाष्यो०) । यथा - "निर्ममो निरहङ्कारश्च" (तत्रैव श्रीधरी)" । निर्वर्त्यम्, निर्वर्त्य १. हेयम् = परित्याज्यम्, विनाश्यम् । यथा - ज्ञाननिर्वर्त्यमज्ञानम् । इत्यद्वैतिनः । २. क्रियया निष्पाद्यम् । निर्वर्त्यविकार्यादिकर्मभेदेष्वन्यतमः । यथा - कटं वा घटं करोतीत्यादाविति वैयाकरणाः । निर्वाणम्, निर्वाण निरावरणं निर्वाणम् अज्ञानरूपावरणरहितं चैतन्यं मोक्ष इत्यर्थः । १. (क) मोक्षः । यथा - स्थित्वास्यां स्थितौ ब्राह्म्यां यथोक्तायामन्त-कालेऽन्ते वयस्यपि ब्रह्मनिर्वाणं ब्रह्मनिवृत्तिं मोक्षमृच्छति, किमु वक्तव्यं ब्रह्मचयदिव संन्यस्य यावज्जीवं यो ब्रह्मण्येवावतिष्ठते स ब्रह्मनिर्वाणमृच्छतीति (गी० २।७२ शा० भा०) । (ख) स्वस्यात्मनः रूपे ब्रह्मणि अवस्थानं ब्रह्म रूपज्ञानम् (ब्र० सू० ४ । ४ । २२ भाम० ) । (ग) परलोकादिगमनागमनराहित्यम् । यथा - "निर्गतं वानं गमनं यस्मिन्प्राप्ये ब्रह्मणि तन्निर्वाणम् (गी० २।७२ नी०) । (घ) जीवन्मुक्तस्वभावः । यथा - निर्गतं वानं गमनं यस्मिन्नित्यर्थोऽपि तवाप्ययं शोकमोहाभिभूतत्वरूपः स्वभावो नोचितः किन्तु जीवन्मुक्तस्वभाव एवेति" (तत्रैव भाष्यो०) । (ङ) ब्रह्मणि लयः । यथा - एनां परमेश्वराराधनेन शुद्धान्तःकरणः पुमान् प्राप्य न विमुह्यति पुनः संसारमोहं न प्राप्नोति । यतः अन्तकाले मृत्युसमयेऽप्यस्यां क्षणमात्रमपि स्थित्वा ब्रह्मणि निर्वाणं लयम् ऋच्छति प्राप्नोति (तत्रैव श्रीधरी) । (च) दुःखक्षयः । निर्गतं वानं दुःखं यत्रेति बौद्धाः । (छ) अत्युर्ध्वलोकप्राप्तिरिति जैनाः । निर्विकल्पः, निर्विकल्प समाधिद्विविधः सविकल्पको निर्विकल्पकश्च । तत्र निर्विकल्पकः यथा (क) अद्वितीये वस्तुनि (ब्रह्मणि) चित्तवृतेरेकाकारिता चित्त-वृत्तिः । यथानिर्विकल्पकस्तु ज्ञातृज्ञानादिविकल्पलयापेक्षयाद्वितीयवस्तुनि तदाकाराकारितायाश्चित्तवृत्तेरतितरामेकीभावेनावस्थानम् । तदा तु जलाकाराकारितलवणानवभासेन जलमात्रावभासवदद्वितीयवस्त्वाकाराकारितचित्तवृत्त्यनवभासेनाद्वितीयवस्तुमात्रमवभासते । ततश्चास्य सुषुप्तेश्चाभेदशङ्का न भवति । उभयत्र वृत्त्यभाने समानेऽपि तत्सद्भावासद्भावमात्रेणानयोर्मेदोपपत्तेः (वे० सा० ) । पातञ्जलयोगेऽयमेव असम्प्रज्ञातसमाधिरित्युच्यते । यथा - विरामप्रत्ययाभ्यासपूर्वं संस्कारशेषोऽन्यः (पा० यो० सू० १।१८) । अत्र व्यासभाष्यम्- सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः । अत्र बालरामोदासीनटिप्पण्याम्-मनसो वृत्तिशून्यस्य ब्रह्माकारतया स्थितिः । असम्प्रज्ञातनामासौ समाधिरभिधीयते । निर्विकल्पकम्, निर्विकल्पक प्रत्यक्षज्ञानं द्विविधम्, सविकल्पकं निर्विकल्पकं च । यथा – तच्च प्रत्यक्षं द्विविधम् - सविकल्पकनिर्विकल्पकभेदात् । तत्र सविकल्पकं वैशिष्ट्यावगाहिज्ञानम् । यथा घटमहं जानामीत्यादिज्ञानम् । निर्विकल्पकन्तु संसर्गानवगाहिज्ञानम् । यथा सोऽयं देवदत्तः, तत्त्वमसीत्यादिवाक्यजन्यं ज्ञानम् (वे० प० ८ प०) । यथा च - ज्ञानाकरणकं ज्ञानं प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तद् द्विविधम् - निर्विकल्पकं सविकल्पकं चेति । निष्प्रकारकं ज्ञानं निर्विकल्पकम् । सप्रकारकं ज्ञानं सविकल्पकम् । यथा- डित्थोऽयं ब्राह्मणोऽयम् । श्यामोऽयमिति (त० सं० १ ख०) । निवृत्तिः, निवृत्ति निवर्तनं परिहारः परित्यागः परिवर्जनं च । निवृत्तिं प्रति फलगतद्वेषो द्विष्टसाधनताज्ञानं च कारणमथवा उत्कटद्वेषजन्यो यनविशेषः इति वैशेषिकाः । अत एव ज्ञानेन अज्ञानं निवर्तत इति । ज्ञाननिर्वर्त्यमज्ञानमित्यद्वैतवेदान्तिनः । संयोगाभाव एव निवृतिरिति सांख्याः । यथा- औत्सुक्यनिवृत्त्यर्थं प्रवर्तते लोकः (सां० का० ५८) । प्रवृतिनिराकरणस्य साध्यमाना निवृत्तिरिति कलञ्जाधिकरणे पूर्वमीमांसकाः। प्रवृत्त्यभाव एव निवृतिरित्यन्ये । निवृत्तिमार्गः, निवृत्तिमार्ग अभ्युदयनिःश्रेयसकरौ द्वौ मार्गौ प्रवृत्तिमार्गः निवृत्तिमार्गश्च । प्रवृत्तिलक्षणो मार्गः धर्मः निवृत्तिलक्षणो मार्गः संन्यासः । लोकैषणा वित्तैषणा यश एषणा एतत्त्रयत्यागरूपः सन्यासः । यथा- "इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रियापथश्चैव पुरस्तात्संन्यासश्चोत्तरेण । निवृत्तिमार्गेणैषणात्रयस्य त्यागः । तयोः संन्यासपथ एवातिरेचयति । न्यास एवात्यरेचयदिति च तैत्तिरीयके । द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः। प्रवृत्तिलक्षणो धर्मो निवृत्तश्च विभावितः । इत्यादि पुत्राय विचार्य निश्चितमुक्तं व्यासेन वेदाचार्येण भगवता (ई० उ० २ शा० भा० ) । निर्वेदः, निर्वेदः वैराग्यम् । यथा- "निर्वेदं वैराग्यं श्रोतव्यस्य श्रुतस्य च ( गी० २।५२ शा० भा० ) । यथा च - निर्वेदेन फलेनान्तःकरणशुद्धिं ज्ञास्यसीत्यमिप्रायः (तत्रैव म० सू० ) । निष्ठा, निष्ठा १. (क) स्वरूपेण स्थितिः । यथा - लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् (गी० ३।३ ) । (ख) सत्याऽभिसन्धिः । यथा - तन्निष्ठस्य मोक्षोपदेशादिति (ब्र० सू० १।१।७)। इत्यत्र शाङ्करभाष्यम् – "सत्याऽभिसन्धस्य मोक्षोपदेश उपपद्यते । अन्यथा ह्यमुख्ये सदात्मतत्त्वोपदेशे" अहमुक्थमस्मीति विद्यात्" (ऐ० आर० २१११२१६) इतिवत्संपन्मात्रमिदमनित्यफलं स्यात् इत्यद्वैतवेदान्तिनः । २. क्तक्तवतू प्रत्ययौ निष्ठेति वैयाकरणाः ।३.(क)विद्यमानत्वं वृत्तिश्च । यथा - अथवा हेतुमन्निष्ठविरहाप्रतियोगिना । साध्येन हेतोरैक्याधिकरण्यं व्याप्तिरुच्यते (भा० परि० ७०) । (ख) आधेयत्वम् । इति न्यायविदः । 'श्रद्धा' अवधारणमिति च लौकिकाः । निःश्रेयः, निःश्रेय १. संसारस्य अत्यन्तोपरमः । यथा "तस्यास्य गीताशास्त्रस्य संक्षेपतः प्रयोजनं परं निःश्रेयसं सहेतुकस्य संसारस्यात्यन्तोपरमलक्षणम् । तच्च सर्वकर्मसंन्यासपूर्वकात्मज्ञाननिष्ठारूपाद्धर्माद् भवति । तथेममेव गीतार्थधर्ममुद्दिश्य भगवतैवोक्तम्" स हि धर्मः स पर्याप्तो ब्रह्मणः पदसेवनम् इत्यनुगीतासु (गी० उपो० शा० भा० ) । जीवस्याविद्याप्रभवमिथ्याज्ञाननिवृत्तौ स्वस्वरूपाधिगमः इति । आनन्दमयपरमात्मनि जीवात्मलयः मुक्तिरिति । तत्र लयश्च लिङ्गशरीराऽपगमः । लिङ्गशरीरञ्च एकादशेन्द्रियाणि पञ्चमहाभूतानि सूक्ष्ममात्रयावस्थितानि जीवात्मसुखदुःखावच्छेदकानि । एष एकादशेन्द्रिय पञ्चभूतरूपस्य लिङ्गशरीरस्य जीवात्मनोऽपगमो विश्लेषः । स एव परे ब्रह्मणि जीवस्य लयः उच्यते । इत्यद्वैतवेदान्तिनः । २. पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चिच्छक्ति : (पा० यो० सू० ४ । ३४ ) । इति पातञ्जलाः । ३ प्रकृतिपुरुषयोर्वियोगः कैवल्यमिति सांख्याः ।४. यथा - यदा तु तत्त्वज्ञानात् मिथ्याज्ञानमपैति तदा मिथ्याज्ञानापाये दोषा अपयान्ति । दोषापाये प्रवृत्तिरपैति प्रवृत्त्यपाये जन्मापैति, जन्मापाये दुःखमपैति, दुःखापाये चात्यन्तिकोऽपवर्गो निःश्रेयसमिति (वात्स० भा० १ ।१ ।२) । यथा च – दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापायादपवर्गः (गौ० सू० १।१।२) । अयं भावः जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रहाणं निःश्रेयसम् । तच्च शास्त्रज्ञानानन्तरं पदार्थतत्वज्ञानेनात्मसाक्षात्कारानन्तरं अनारब्धकर्मणां ज्ञानात् प्रारब्धकर्मणां भोगाच्च क्षये सति उत्पद्यते । उक्तञ्च - प्रमाणप्रमेय तत्त्वज्ञानानि :श्रेयसाधिगमः (तत्रैव १ ।१।१ ) । इति न्यायविदः । द्रव्यादिषण्णां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानं निःश्रेयसहेतुः (प्रश० भा०) इति वैशेषिकाः । एवञ्च योगबलेन आत्मतत्त्वसाक्षात्कारे सति तेन च सवासनमिथ्याज्ञाने ध्वस्ते तन्निबन्धनानां रागद्वेषमोहानां दोषाणामपायात् प्रवृत्तेरपाये तन्निबन्धनस्य जन्मनः अपाये तन्निबन्धनस्य दुःखस्यापायः निःश्रेयः । तपोविद्या हि विप्रस्य निःश्रेयसकरं परम् (म० स्मृ० १२।१०४) । ५. मङ्गलं कल्याणमिति लौकिकाः । नैष्कर्म्यम्, नैष्कर्म्यम् सर्वकर्मशून्यत्वम् । यथा - नैष्कर्म्यं निष्कर्मभावं कर्मशून्यताज्ञानयोगेन निष्ठां निष्क्रियात्मस्वरूपेणैवावस्थानमिति यावत् (गी० ३।४ शा० भा०) । यथा निष्कर्मणः संन्यासिनः कर्मज्ञानं नैष्कर्म्यम् (तत्रैव आ० गि०) । यथा - नैष्कर्म्यं सर्वकर्मशून्यत्वं ज्ञानयोगेन निष्ठामिति यावत् (तत्रैव म० सू०) । यथा- नैष्कर्म्यं कर्मशून्यत्वं ज्ञानयोगेन निष्ठाम् (तत्रैव भाष्यो०)। नैष्ठिकी, नैष्ठिकी ज्ञाननिष्ठाक्रमेण प्राप्ता । यथा- नैष्ठिकीं निष्ठायां भवां सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासज्ञाननिष्ठाक्रमेणेति वाक्यशेष: (गी०५।१२ शा० भा०) । यथा नैष्ठिकीं सत्त्वशुद्ध्यादिक्रमप्राप्तब्रह्मनिष्ठाफलभूतां प्राप्नोति (तत्रैव नी० क०) । यथानैष्ठिकीं सत्त्वशुद्धिनित्यानित्यवस्तुविवेकसंन्यासज्ञाननिष्ठाक्रमेण जातामिति यावत् (तत्रैव म० सू०) । युक्तः परमेश्वरैकनिष्ठः सन्कर्मणां फलं त्यक्त्वा कर्माणि कुर्वन्नात्यन्तिकीं शान्ति मोक्षं प्राप्नोति (तत्रैव श्रीधरी)। न्यायः, न्याय १ . अयनं आयः नियमेन आयः न्यायः । नियमपूर्वकं गमनं ज्ञानमिति । यथा - "पुनः प्रतिन्यायं प्रतियोन्या द्रवति स्वप्नान्तायैव (बृ० उ० ४ । ३ ।१६) । अयनं आयः नियमेन गमनं न्यायः । जीवः प्रतिन्यायं सम्प्रसादे सुषुप्तावस्थायां बुद्धान्तायाद्रवति आगच्छति प्रतियोनि । यो हि व्याघ्रयोनिः सुषुप्तो बुद्धान्तमागच्छन् स व्याघ्र एव भवति न जात्यन्तरम् । तदिदमुक्तम्- त इह व्याघ्रो वा सिंहो वेति । अथ तत्र सुप्त उत्तिष्ठेदिति (ब्र० सू० ३।२।९ भाम०) इत्यद्वैतवेदान्तिनः । २. (क) प्रमाणैरर्थपरीक्षणमथवा समस्तप्रमाणव्यापारादर्थाधिगतिर्न्यायः । अत्र व्युत्पत्तिः । नियते प्राप्यते विवक्षितार्थसिद्धिरनेनेति न्यायः । (ख) आन्वीक्षिकी विद्या न्यायशास्त्रे (वात्स्य भा० १।१।१ ) । न्यास:, न्यास १. (कं) ब्रह्मा । यथा – "न्यास इति ब्रह्मा, ब्रह्मा हि परः परो हि ब्रह्मा तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत् (नारा० उ० ७८) । ...इत्याद्याः श्रुतयः । ... ब्रह्मसंस्थस्य कर्माभावं दर्शयन्ति (ब्र० सू० ३।४।२० शाळ भा०)। ब्रह्मसंस्थत्वमसाधारणं परिव्राजकधर्मश्रुतिरादर्शयतीत्याह- तथा च न्यास इति ब्रह्मेति । सर्वसङ्गपरित्यागो हि न्यासः, स ब्रह्मा, कुतः ? इत्यत आह - ब्रह्मा हि परः । अतः परो न्यासो ब्रह्मेति । किंमपेक्ष्य परः संन्यास इत्यत आह - तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयदिति । एतदुक्तं भवति ब्रह्मपरतया सर्वेषणापरित्यागलक्षणो न्यासो ब्रह्मेति । तथा चेदृशं न्यासलक्षणं ब्रह्मसंस्थत्वं भिक्षोरेवासाधारणं नेतरेषामाश्रमिणाम् । ब्रह्मज्ञानस्य शब्दजनितस्य यः परीपाकः साक्षात्कारोऽपवर्गसाधनं तदङ्गतया पारिव्राज्यं विहितम्, न त्वनधिकृतं प्रतीत्यर्थः (तत्रैव भाम०) । यथा च - परमात्मज्ञाननिष्ठालक्षणत्वात् प्रकृतः संन्यासो ब्रह्मोच्यते "न्यास इति ब्रह्म" (गी० ५/६ शा० भा०) । यथा - तत्र ब्रह्मशब्दप्रयोगे हेतुमाहपरमात्मेति । लक्षणशब्दो गमकविषयः संन्यासे ब्रह्मशब्दप्रयोगे तैत्तिरीयके श्रुतिं प्रमाणयति - न्यास इति । कथं संन्यासे हिरण्यगर्भवाची ब्रह्मशब्दः प्रयुज्यते । द्वयोरपि परत्वाविशेषादित्याह (तत्रैव आ० गि०) । (ख) सर्वकर्मत्यागः । यथा च काम्यानामश्वमेधादीनां कर्मणां न्यासं परित्यागं संन्यासम्.... (गी० १८/२ शा० भा० ) । यथा - सर्वेषां नित्यनैमित्तिककाम्यानां कर्मणां फलत्यागमेव त्यागं विचक्षणाः । प्राहुर्न स्वरूपतस्त्यागं प्राहुः (तत्रैव नी० क० ) । यथा - काश्यानां फलकामनया चोदितानां अन्तःकरणशुद्धावनुपयुक्तानां कर्मणामिष्टिपशुसोमादीनां न्यासं त्यागं संन्यासं विदुर्जानन्ति कवयः सूक्ष्मदर्शिनः (तत्रैव म० सू० ) । यथा - काम्यानां स्वर्गादिकामनाप्रयुक्तानामश्वमेधादीनां कर्मणां न्यासं परित्यागं संन्यासं ..... विजानन्ति (तत्रैव भाष्यो०) । यथा - "पुत्रकामो यजेत्" "स्वर्गकामो यजेत्" इत्येवमादिकामोपबन्धेन विहितानां काम्यानां कर्मणां न्यासं परित्यागं सन्यासं कवयो विदुः (तत्रैव श्रीधरी) । पक्वधीः, पक्वधी जगद्व्यवहारं पश्यन्नपि यस्य बुद्धिः अद्वैते स्थिरा अस्ति । यथाविवर्तपक्षेऽपि यो व्यवहारसङ्करं शङ्कमानोऽद्वैत एवाभिनिविष्टमतिर्भवति स पक्वधीः (सं० शा० ३।४० अ० टी०) । पञ्चकोशः, पञ्चकोश १. अन्नमयकोशः, २. प्राणमयकोशः, ३. मनोमयकोशः, ४. विज्ञानमयकोशः, ५. आनन्दमयकोशश्च । यथा - अन्नं प्राणोमनोबुद्धिरानन्दश्चेति पञ्च ते । कोशास्तैरावृतः स्वात्मा विस्मृत्य संसृतिं व्रजेत् (प० द० १ । ३३ ) । यथा च तद्विजिज्ञाषयिपयैवान्नमयादय आनन्दमयपर्यन्ता पञ्चकोशाः कल्प्यन्ते (ब्र० सू १ । १ । १९ शां० भा०) । यथा च - अस्य प्राज्ञत्वमस्पष्टोपाधितया अनतिप्रकाशकत्वात् अस्यापीदमहङ्कारादिकारत्वात् कारणशरीरम् । आनन्दप्रचुरत्वात् कोशवदाच्छाकत्वाच्चान्नमयकोशः। सर्वोपरमात् सुषुप्तिरत एव स्थूलसूक्ष्मशरीरप्रपञ्चलयात् प्रपञ्चलयस्थानमिति चोच्यते । .... इयं बुद्धिर्ज्ञानेन्द्रियैः सहिता विज्ञानमयकोशो भवतिः । अयं कर्तृत्वभोकतृत्वसुखित्वदुःखित्वाद्यभिमानित्वेनेहलोकपरलोकगामी व्यावहारिको जीव इत्युच्यते । मनस्तु ज्ञानेन्द्रियैः सहितं सन्मनोमयकोशो भवति ।.... एतप्राणादिपञ्चकमाकाशादिगतरजोंऽशेभ्यो मिलितेभ्यः उत्पद्यते । इदं प्राणादिपञ्चकं कर्मेन्द्रियैः सहितं सप्राणमयकोशो भवति । अस्य क्रियात्मकत्वेन रजोंऽशकार्यत्वम् । एतेषु कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान् कर्तृरूपः । मनोमय इच्छाशक्तिमान् करणरूपः । प्राणमयः क्रियाशक्तिमान् कार्यरूपः । योग्यत्वादेवमेतेषां विभाग इति वर्णयन्ति । एतत्कोशत्रयं मिलितं सत् सूक्ष्मशरीरमित्युच्यते । .... एतत्समष्ट्युपहितं चैतन्यं वैश्वानरो विराडिति चोच्यते सर्वनराभिमानित्वाद् विविधं राजमानत्वाच्च । अस्यैषा समष्टिः स्थूलशरीरमन्नविकारत्वादन्नमयकोशः स्थूलभोगायतनत्वाच्च स्थूलशरीरं जाग्रदिति च व्यपदिश्यते ( वे० सा० ) । यथा च - स्यात् पञ्चीकृतभूतोत्त्थो देहः स्थूलोऽन्नसंज्ञकः । लिङ्गे तु राजसैः प्राणैः प्राणः कर्मेन्द्रियैः सह । सात्त्विकैर्धीन्द्रियैः साकं विमर्शात्मा मनोमयः । तैरेव साकं विज्ञानमयो धीर्निश्चयात्मिका । कारणे सत्त्वमानन्दमयो मोदादिवृत्तिभिः । तत्तत्कोशैस्तु तादाम्यादात्मा तत्तन्मयो भवेत् (प० द० १/३४, ३५, ३६) । पञ्चस्कन्धाः, पञ्चस्कन्ध बौद्धदर्शने रूपविज्ञानादयः पञ्चस्कन्धाः यथा - तथा रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्च स्कन्धाः ।.... तत्रेदमभिधीयते योऽयमुभयहेतुक उभयप्रकारः समुदायः परेषामभिप्रेतोऽणुहेतुकश्च भूतभौतिकसंहतिरूपः स्कन्धहेतुकश्च पञ्चस्कन्धीरूपः तस्मिन्नुभयहेतुकेऽपि समुदायेऽभिप्रेयमाणे तदप्राप्तिः स्यात् । समुदायाप्राप्तिः समुदायभावानुपपत्तिरित्यर्थः (ब्र० सू० २/२/१८ शा० भा०) अत्र भामती- रूप्यन्ते एभिरिति रूप्यन्त इति च व्युत्पत्या सविषयाणीन्द्रियाणि रूपस्कन्धः। यद्यपि रूप्यमाणाः पृथिव्यादयो बाह्याः, तथापि कायस्थत्वाद्वा इन्द्रियसम्बन्धाद्वा भवन्त्याध्यात्मिकाः । विज्ञानस्कन्धोऽहमित्याकारो रूपादिविषय इन्द्रियादिजन्यो वा दण्डायमानः । वेदनास्कन्धो या प्रियाप्रियानुभयविषयस्पर्शे सुखदुःखतद्रहितविशेषावस्था चित्तस्य जायते स वेदनास्कन्धः । संज्ञास्कन्धः सविकल्पप्रत्ययः संज्ञासंसर्गयोग्यप्रतिभासः यथा डित्थः कुण्डली गौरो ब्राह्मणो गच्छतीत्येवंजातीयकः । संस्कारस्कन्धो रागादयः क्लेशा: उपक्केशाश्च मदमानादयः धर्माधर्मौ चेति । तदेतेषां समुदाय: पञ्चस्कन्धी । पञ्चास्तिकायः, पञ्चास्तिकाय जैनदर्शने सप्तपदार्थाः सम्मताः जीवाजीवास्त्रवसंवरनिर्जरबन्धमोक्षा नाम । संक्षेपतस्तु द्वावेव पदार्थों जीवाजीवाख्यौ । यथयोगं तयोरेवेतरान्तर्भावादिति मन्यन्ते । तयोरिममपरं प्रपञ्चमाचक्षते पञ्चास्तिकायो नाम जीवास्तिकायः पुद्गलास्तिकायो धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायश्चेति (ब्र० सू० २ । २ । ३३ शा० भा०) अत्र भामती - जीवास्तिकायस्त्रिधा - बद्धो मुक्तो नित्यसिद्धश्चेति । पुदगलास्तिकायः षोढा पृथिव्यादीनि चत्वारि भूतानि स्थावरं जङ्गमं चेति । धर्मास्तिकायः प्रवृत्यनुमेयोऽधर्मास्तिकायः स्थित्यनुमेयः । आकाशास्तिकायो द्वेधा-लोकाकाशोऽलोकाकाशश्च । तत्रोपर्युपरि स्थितानां लोकानामन्तवर्ती लोकाकाशस्तेषामुपरि मोक्षस्थानमलोकाकाशः । तत्र हि न लोकाः सन्ति । तदेवं जीवाजीवपदार्थौ पञ्चधा प्रपञ्चितौ । आस्त्रवसंवरनिर्जरास्त्रयः पदार्थाः प्रवृत्तिलक्षणा: प्रपञ्चूयन्ते । द्विधा प्रवृत्तिः सम्यमिथ्या च । तत्र मिथ्याप्रवृत्तिरास्त्रवः । सम्मक्प्रवृत्ती तु संवरनिर्जरौ । आस्त्रावयति पुरुषं विषयेष्वितीन्द्रियप्रवृत्तिरास्त्रवः । इन्द्रियद्वारा हि पौरुषं ज्योतिर्विषयान् स्पृशद्रूपादिज्ञानरूपेण परिणमत इति । अन्ये तु कर्माण्यास्त्रवमाहुः । तानि हि कर्तारमभिव्याप्य स्रवन्ति कर्तारमनुगच्छन्तीत्यास्त्रवः । सेयं मिथ्याप्रवृत्तिरनर्थहेतुत्वात् । संवरनिर्जरौ च सम्यक्प्रवृत्ती । तत्र शमदमादिरूपा प्रवृत्तिः संवरः । सा ह्यास्त्रवःस्रोतसो द्वारं संवृणोतीति संवर उच्यते । निर्जरस्त्वनादिकालप्रवृत्तिकषायकलुषपुण्यापुण्यप्रहाणहेतुस्तप्तशिलारोहणादिः । स हि निःशेषं पुण्यापुण्यं सुखदुःखोपभोगेन जरयतीति निर्जरः । बन्धोऽष्टविधं कर्म । तत्र घातिकर्म चतुर्विधम् । ....तदेतत् कर्माष्टकं पुरुषं बध्नातीति बन्धः । विगलितसमस्तक्लेशतद्वासनस्यानावरणज्ञानस्य सुखैकतानस्यात्मन उपरि देशावस्थानं मोक्ष इत्येके । अन्ये तूर्ध्वगमनशीलो हि जीवो धर्माधर्मास्तिकायेन बद्धस्तद्विमोक्षाद्यदूर्ध्वं गच्छत्येव स मोक्ष इति । त एते सप्तपदार्था जीवादयः सहावान्तरप्रभेदैरुपन्यस्ताः । अत्र वेदान्तकल्पतरुः - अस्तीति कायन्ते शब्दयन्त इत्यस्तिकायाः । कै गै शब्दे । अर्हन् नित्यसिद्धः.... । पञ्चीकरणम्, पञ्चीकरण आकाशवायुतेजोजलभूमीनां पञ्चमहाभूतानां प्रत्येकं आकाशादिषु एकैकभागस्य सम्मेलनम् यथा पञ्चभूतानि प्रथमं प्रत्येकं द्विधा विभज्यन्ते ततः एकैकमर्धं चतुर्धा क्रियते । ते च चत्वारो भागा इतरभूतेषु चतुर्षु निक्षिप्यन्ते । तत्राकाशस्य स्वार्धेन भूतान्तरागतपादचतुष्केण च पञ्चीकरणम् (ब्र० सू० १।१।५ वे० क० त०) यथा च - आकाशमादौ द्विधा विभज्य तयोरेकं भागं पुनश्चतुर्द्धा विभज्य तेषां चतुर्णामंशानां वाय्वादिषु चतुर्षु भूतेषु संयोजनम् । एवं वायुं द्विधा विभज्य तयोरेकं भागं पुनः चतुर्द्धा विभज्य तेषां चतुर्णामंशानामाकाशादिषु संयोजनम् । एवं तेज आदीनामपि तदेवमेकैकभूतस्यार्द्धं स्वांशात्मकमर्द्धान्तरं चतुर्विधभूतमयमिति पृथिव्यादिषु स्वांशाधिक्यात्पृथिव्यादिव्यवहारः (वे० प०) । यथा च पञ्चीकरणं त्वाकाशादिपञ्चस्वेकैकं द्विधा समं विभज्य तेषु दशभागेषु प्राथमिकान् पञ्चभागान् प्रत्येकं चतुर्धा समं विभज्य तेषां चतुर्णां भागानां स्वस्वद्वितीयार्धभागपरित्यागेन भागान्तरेषु संयोजनम् (वे० सा०) । यथा च तद्भोगाय पुनर्भोग्यभोगायतनजन्मने । पञ्चीकरोति भगवान् प्रत्येकं वियदादिकम् (प० द०) । तासां त्रिवृतं त्रिवृतमेकैकां करवाणि इति छान्दोग्यश्रुतेः (६।३।३) पञ्चीकरणोपलक्षणार्थत्वम् । गगने वायौ च रूपाभावाद् श्रीवाचस्पतिमिश्राय त्रिवृत्करणमेव रोचते। विशदज्ञानार्थं त्रिवृद्शब्दो द्रष्टव्यस्तथा ब्र० सू० १/१/५ वे० क० त० । पतिः, पति १ . माहेश्वरदर्शने ईश्वरः यथा - माहेश्वरास्तु मन्यन्ते कार्यकारणयोगविधिदुःखान्ताः पञ्च पदार्थाः पशुपतिनेश्वरेण पशुपाशविमोक्षणायोपदिष्टाः । पशुपतिरीश्वरो निमित्तकारणमिति वर्णयन्ति । तथा वैशेषिकादयोऽपि - केचित्कथंचित्स्वप्रकियानुसारेण निमित्तकारणमीश्वर इति वर्णयन्ति । अत उत्तरमुच्यते- पत्युरसामञ्जस्यात् इति । पत्युरीश्वरस्य प्रधानपुरुषयोरधिष्ठातृत्वेन जगत्कारणत्वं पपद्यते (ब्र० सू० २।३७) । २. शिवः । यथा पतिपशुपाशास्त्रयः पदार्था इत्यत्र (सर्व० द० सं० शै० द०) । पदम्, पद १ (क) मोक्षः । यथा - पदमव्ययम् (गी० १५/५ शा० भा०) । यथा च - तत्पदमव्ययं अपुनरावृत्तिं गच्छन्ति (तत्रैव नी० क० ) । यथा च तदव्ययं यथोक्तं पदं गच्छन्ति (तत्रैव म० सू० ) । यथा च तथोक्तमावृत्तिरहितं वैष्णवं पदं मोक्षाख्यं गच्छन्ति मुक्ता भवन्ति (भाष्यो०) । यथा च तदव्ययं पदं वैष्णवं गच्छन्ति (तत्रैव श्रीधरी) यथा च पदं परमं विष्णोर्मोक्षाख्यम् (गी० २/५१ शा० भा० ) । यथा च पदं पदनीयमात्मतत्त्वमानन्दरूपं ब्रह्म ( म० सू० ) । यथा च - सर्वोपद्रवरहितं मोक्षाख्यं विष्णो परमं पदं गच्छन्ति (भाष्यो०) । (ख) अक्षरब्रह्म । यथा ब्रह्मचर्यं गुरौ चरन्तीति तत्ते पदं यदक्षाराख्यं पदं पदनीयं तुभ्यं सङ्ग्रहणेन सङ्ग्रहः संक्षेपस्तेन संक्षेपेण प्रवक्ष्ये कथमिष्यामि (गी० ८।११ शा० भा०) । इति वेदान्तिनः । २. वर्णाः । यथा - आनुपूर्वी भेदवन्तो हि वर्णाः पदम् (ब्र० सू० १ ।१।३ भाम०) । ३. गवादिखुराङ्कितो देशः । यथा - पदेन गवादिखुराङ्कितो देशः पदमित्युच्यते तेन पदेन (बृ० उ० १/४/७) । ४. स्थानम् । ५. सुतिङन्तं पदम् इति वैयाकरणाः । पथिद्वयम्, पथिद्वय प्रवृत्तिलक्षणो धर्मः निवृत्तिलक्षणो धर्मः इति निःश्रेयसे मार्गद्वयम् । यथा- "इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रियापथश्चैव पुरस्तात्संन्यासश्चोत्तरेण निवृत्तिमार्गेणैषणात्रयस्य त्यागः । तयोः संन्यासपथः एवातिरेचयति न्यास एवात्यरेचयदिति च तैत्तिरीयके । "द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तश्च विभावितः (ई० उ० शा० भा० ) । परम्, पर ब्रह्म । यथा - सो (अन्तर्यामी) निरुपाधिः केवलः शुद्धः स्वभावेनाक्षरं पर उच्यते (बृ० उ० ३/८/१२ शा० भा०) । यथा च - परं कारणम् (ब्र० सू० १ ।१।४ क० त०) श्रूयते - क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे (मुण्ड० उ० २।२।८) । यथा च - परं परमार्थतत्त्वं ब्रह्म (गी० १३ । ३४ शा० भा०) यथा च परं परमार्थात्मवस्तुस्वरूपं कैवल्यम् (तत्रैव म० सू०) । यथा च - परं परमार्थातत्त्वं ब्रह्म । (तत्रैव भाष्यो०) यथा च - परमात्मनो जीवरूपः खिल्यभाव उपाधिकृतः परश्च विषयेन्द्रियेभ्यः सोऽत्र जीवघन इति (ब्र० सू० १३ ।१३ शा० भा० ) । सम्भवति च परपुरुषविषयत्वेनार्थप्रत्यभिज्ञानात् सममिहाराच्चैकवाक्यता । तदनुरोधेन च परात्पर इत्यत्र परादिति जीवघनविषयं द्रष्टव्यम् (तत्रैव भाम० ) । यथा चयत्राविद्याकृतनामरूपादिविशेषप्रतिषेधादस्थूलादिशब्दैर्ब्रह्मोपपिश्यते तत्परम् (ब्रह्म) (ब्र० सू० ४।३।१४ शा० भा० ) । परतन्त्राभिसंवृत्तिः, परतन्त्राभिसंवृत्ति परशास्त्रसिद्धान्तस्य अस्वीकृतिः । यथा- यश्च परतन्त्राभिसंवृत्त्या परशास्त्रव्यवहारेण स्यात् पदार्थः सः परमार्थतो निरूप्यमाणो नास्त्येव (मा० उ० गौ० पा० का०४।७३ शा० भा०) । परदेवता, परदेवता प्रत्यगात्मदेवता परमात्मा च । यथा- परदेवता सदाख्या 'सदेवसोम्येदमग्रमासीत्' छा० ६।२।१ इत्यत्रोक्ता सा परदेवताऽन्तर्गुणान्तः स्वरूपगुणेति स्वरूपमेवात्र विवक्ष्यते धर्मः । अन्तर्गुणेत्यस्य व्याख्या प्रत्यग्गुणेति प्रत्यगात्मरूपेत्यर्थः । भगवतीति तद्विशेषणं तस्या ईक्षणादौ स्वव्यवहारे स्वातन्त्र्यद्योतनार्थम् । भगवान् सर्वज्ञो भाष्यकारो नन्दिकृतभाष्यकारो द्रविडाचार्योऽन्तर्गुणा भगवती परदेवतेति यदाह स्म तदिह निर्गुणवस्तुवादे संगच्छते सङ्गतं भवति न तु पुनः सगुणप्रवाद इति योजना । परदेवतायाः प्रत्यक्तत्वाभिधानमत्यन्ताद्वैतमत एव सङ्गतं भवति नान्यत्रेत्यर्थः (सं० शा० ३/२/२१ अ० टी०) । यथा च परस्यां देवतायाम् (छा० उ० ६।८।६ । यथा च - तेजः परस्यां देवतायामित्यत्रापि सप्तम्या तेजसः परमात्मनि लयप्रतीतेः । परमात्मनि खलु तेजसो लय: प्रसिद्ध: ( ब्र० सू० ४।२।४ क० परि०) । परपुरुषः, परपुरुष परमात्मा । यथा- एवं परं पुरुषमिति च विशेषणं परमात्मपरिग्रह एवावकल्पते । परो हि पुरुषः परमात्मैव भवति, यस्मात्परं किंचिदन्यन्नास्ति, पुरुषान्न किंचित्सा सा काष्ठा सा परा गतिः इति श्रुत्यन्तरात् परं चापरं च ब्रह्म यदोंकारः इति च भाष्यानन्तरमोंकारेण परं पुरुषमभिध्यातव्यं ब्रुवन्परमेव ब्रह्म परं पुरुषं गमयति (ब्र० सू० १ ।३।१३ शा० भां०) । अत्र भामती - किन्तु जीवघनात् परात् परो यो ध्यातव्यो द्रष्टव्यश्च तमेव कल्पयितुं जीवधनो जीवः खिल्यभावमुपाधिवशादापन्नः । स उच्यते । स सामभिरुन्नीयते ब्रह्मलोकमित्यनन्तरवाक्यनिर्दिष्टो ब्रह्मलोको वा जीवघनः । स हि समस्तकरणात्मनः सूत्रात्मनो हिरण्यगर्भस्य भगवतो निवासभूमितया करणपरिवृतानां जीवानां संघात इति भवति जीवघनः । तदेवं त्रिमात्रौंकारायतनं परमेव ब्रह्मोपास्यम् । अत एव चास्य देशविशेषाधिगतिः फलमुपाधिमत्वात् क्रमेण च सम्यग्दर्शनोत्पत्तौ मुक्ति: 'ब्रह्म वेद ब्रह्मैव भवति' इति तु निरूपाधिब्रह्मवेदनाविषया श्रुतिः। अपरं तु ब्रह्मैकैकमात्रायतनमुपास्यमिति मन्तव्यम् । परमम्, परम सर्वप्रमाणपथातीतमपरिनिछन्नं वा ब्रह्म । यथा - तच्च परमं माभ्यः परं सर्वप्रमाणपथातीतम् । यद्वा परा मा परिमाणं यस्य तत्परममपरिछिन्नमित्यर्थः (सं० शा० मं० श्लोक सु० टी० ) । परममुक्तिः, परममुक्ति निःश्रेयसम् । सवासनाज्ञाननिवृत्तिः । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति (बृ० आ० उ० ४ । ३ । ३२) आनन्दं ब्रह्मणो विद्वान् (तै० उ० २।४) । निरतिशयानन्दरूपा परमा मुक्तिः । परमा, परमा ब्रह्मसंस्था निवार्णरूपा पराशान्तिः । यथा - सोऽयं नियतमानसः स शान्तिमुपरतिं निर्वाणपरंमां मत्संस्थां मदधीनामधिगच्छति प्राप्नोति (गी० ६ । १५ । शा० भा० ) । परमात्मा, परमात्मन् १. निरूपाधिकः परमपुरुषः प्रत्यक्चेतनः । यथा - परमश्चासौ देहाद्यविद्याकृतात्मभ्य आत्मा च सर्वभूतानां प्रत्यक्चेतनः परमात्मेत्युदाहृत उक्तो वेदान्तेषु (गी० १५ । १७ शा० भा० ) । यथा एताभ्यां कार्यकारणोपाधिभ्यामन्यो निरुपाधिरुत्तमः पुरुषः योऽसौ परमात्मेत्युदाहृतः शास्त्रे (तत्रैव नी० क०) । यथा च परमात्मेत्युदाहृतः अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयेभ्यः पञ्चभ्योऽविद्याकल्पितात्मभ्यः परमप्रकृष्टोऽकल्पितो ब्रह्मपुच्छं प्रतिष्ठा इत्युक्त आत्मा च सर्वभूतानां प्रत्यक्चेतन इत्यत परमात्मेत्युक्तो वेदान्तेषु (तत्रैव म० सू०) । यथा आभ्यां क्षराक्षराभ्यां अन्यो विलक्षणः उपाधिद्वयदोषेणासंस्पृष्टो नित्यशुद्धबुद्धमुक्तस्वभावः उत्तमः उत्कृष्टतमः पुरुषः अविद्यात्मभ्यो देहादिभ्यः परमश्चासौ सर्वभूतानामात्मा च प्रत्यक्चेतन इत्यतः परमात्मेत्युदाहृतः वेदान्तेषु प्रतिपादितः (तत्रैव भाष्यो०) । यथा च परमश्चासौ आत्मेति चोदाहृतः उक्तः श्रुतिभिः (तत्रैव श्रीधरी) यथा च - परमात्मा देहादीनां बुद्ध्यन्तानां प्रत्यगात्मत्वेन कल्पितानामविद्यया परम उपद्रष्टृत्वादिलक्षण आत्मेति परमात्मा सोऽन्तः परमात्मेत्यनेन शब्देन चात्युक्तः कथितः श्रुतौ (तत्रैव १३।२२ शा० भा०) । यथा च परमात्मा देहादिबुद्ध्यन्तानामचेतनानामविद्ययात्मत्वेन कल्पितानां परमः प्रकृष्टः उपद्रष्टृत्वादिपूर्वोक्तविशेषणविशिष्ट आत्मा परमात्मा (तत्रैव म० सू०) । यथा च - परमात्मान्तर्यामी चोक्तश्रुत्या (तत्रैव श्रीधरी) । ब्र० सू० २/४/२ शाङ्करभाष्ये भामत्यां कल्पतरौ परिमले च परमात्मनि इन्द्रियग्रामस्य सूक्ष्मशरीरस्य जीवस्य च लयः उक्तः । परमाणुः, परमाणुः जालान्तर्गते भानौ सूक्ष्मकणः अवलोक्यते तस्य षष्ठितमः षष्ठतमो वा भागः अतीव सूक्ष्मतत्त्वं परमाणुः । यथा च - "एषा तेषां परिक्रिया - परमाणवः किल कंचित्कालमनाब्धकार्या यथायोगं रूपादिमन्तः पारिमाण्डल्यपरिमाणाश्च तिष्ठन्ति । ते च पश्चाददृष्टादिपुरःसराः संयोगसचिवाश्च सन्तो द्वयणुकादिक्रमेण कृत्स्नं कार्यजातमारभन्ते ( ब्र० सू० २/२/११ शा० भा०) यथा च तदेतयैव प्रक्रियया कारणसमवायिनो गुणाः कार्यद्रव्ये समानजातीयमेव गुणान्तरमारभन्त इति दूषणमदूषणीक्रियते, व्यभिचारादित्याह- यथा महद् द्रव्यं त्र्यणुकादि ह्रस्वाद् द्व्यणुकाज्जायते.... न तु तद्गतं दीर्घत्वमपेक्षते, तदभावात् । वा शब्दश्चार्थेऽनुक्तसमुच्चयार्थः । यथा द्व्यणुकमणु ह्रस्वपरिमाणं परिमण्डलात् परमाणोरपरिमण्डलं जायत एवं चेतनाद् ब्रह्मणोऽचेतनं जगन्निष्पद्यत इति सूत्रयोजना (तत्रैव भाम० ) । परमार्थः, परमार्थ परमपुरुषार्थः, अनवच्छिन्नानन्दप्राप्तिः । यथा - तस्मान्मुक्तौ संसारदुःखनिवृत्तिरप्यविद्यानिवृत्तिवत् सुखशेष इति अनवच्छिन्नानन्दप्राप्तिरेव स्वतः पुरुषार्थः (सि० ले० सं० ४ प० ) । परमार्थता, परमार्थता १ . परमसत्यम्, ब्रह्मत्वम् । यथा - न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता (प० द० ६।२३५, ८।७१)। २. सत्स्वरूपता । यथा - उत्पत्तिप्रलययोरभावाद् बद्धादयो न सन्तीति एषा परमार्थता (मा० उ० गौ० पा० का० २।३२ शा० भा० ) । परमार्थसत्यम्, परमार्थसत्यम् ब्रह्म सत्यं जगत् मिथ्या जीवो ब्रह्मैव नापरः । एकमेवाद्वितीयम् । त्रिकालाबाध्यत्वम्, यथा परब्रह्मणः । प्रातिभासिकसत्ता भ्रान्तिकारणापगमे विनश्यति व्यावहारिकसत्ता च ब्रह्मसाक्षात्कारे सति नश्यति । सदा सर्वदा परमार्थसत्यं ब्रह्मैव तिष्ठति । परमृत्युः, परमृत्यु मृत्युसमाप्तिकालः । यन्मृत्योरनन्तरं पुनर्मृत्युर्न जायते मोक्षो जायते स कालः । यथा च - "परेण मृत्युना मृत्यौ भक्षिते परमात्मदर्शनेन योऽसौ मुक्तो विद्वान् सोऽयं पुरुषो यत्र यस्मिन् काले म्रियते । अत उर्ध्वम्..... (बृ० आ० उप० ३।२।११ शा० भा० ) । परमेश्वरः, परमेश्वर कर्तृभोक्त्राद्युपाधिरहित आत्मा । यथा च "परमेश्वरस्त्वविद्याकल्पिताच्छारीरात्कर्तुर्भोक्तुर्विज्ञानात्माख्यादन्यः । यथा मायाविनश्चर्मखड्गधरात्सूत्रेणाकाशमधिरोहतः स एव मायावी परमार्थरूपो भूमिष्ठोऽन्यः । यथा वा घटाकाशादुपाधिपरिच्छिन्नादनुपाधिरपरिच्छिन्न आकाशोऽन्यः (ब्र० सू० १/१/१७ शा० भा०) । यथा च - मायावच्छिन्नं चैतन्यं परमेश्वरः मायाया विशेषणत्वे ईश्वरत्वमुपाधित्वे साक्षित्वमिति ईश्वरत्वसाक्षित्वयोर्भेदः, न तु धर्मिणोरीश्वरतत्साक्षिणोः । स च परमेश्वर एकोऽपि स्वोपाधिभूतमायानिष्ठसत्त्वरजस्तमोगुणभेदेन ब्रह्मविष्णुमहेश्वर इत्यादिशब्दवाच्यतां लभते (वे० प० ) । यथा च द्विरूपे परमेश्वरे निर्गुणरूपमनवाप्य सगुण एवावतिष्ठन्ते एवं सगुणेऽपि निरवग्रहमैश्वर्यमनवाप्य सावग्रह एवावतिष्ठन्त इति (ब्र० स० ४/४/१९ शा० भा० ) । परलोकपथ्यदनम्, परलोकपथ्यदन परलोकयात्रायां समुपकारकसामग्रीस्थानीयं विद्या कर्म पूर्वप्रज्ञा एतत्त्रयम् । यथा च - तस्मादेतत्त्रयं शाकटिकसम्भारस्थानीयं परलोकपथ्यदनं विद्याकर्मपूर्वप्रज्ञाख्यम् । यस्माद् विद्याकर्मणी प्रज्ञा च देहान्तरप्रतिपत्त्युपभोगसाधनम् (बृ० आ० उप० ४।४।२ शा०भा० ) । पराग्, पराग् दृश्यप्रपञ्चः। यथा - परागिति चैतन्यभास्यं दृश्यमुच्यते । यद्वा, असत्य आरोपितः परागर्थः प्रभिद्यते विदीर्यते विनश्यत्यस्मिन्नित्यसत्यपराक् प्रभेदस्तमिति विग्रहः (सं० शा० अ० का० टी० मं० ३) । परात्मा, परात्मन् सच्चिदानन्दः । यथा - परात्मा सच्चिदानन्दस्तादाम्यं नामरूपयोः । गत्वा भोग्यत्वमापन्नस्तद्विवेके तु नोभयम् (प० द० १४ ।७) । परार्धम्, परार्ध हृदयाकाशः । यथा - "परस्य ब्रह्मणोऽर्धं स्थानं परार्धम् । तस्मिन् हि परं ब्रह्मोपलभ्यते । तस्मिन् परमे परार्द्धे हार्दाकाशे प्रविष्टावित्यर्थः (का० उ० ३।१ शा० भा० ) । परायणम्, परायण परम् अयनं = परमात्मा । यथा - "तथा परायणत्वमपि परमकारणत्वात् परमात्मन्येवोपपन्नतरम्। श्रुतिश्च भवति" विज्ञानमानन्दं ब्रह्मरातेतुः परायणम् (बृ० ३।९।२८) इति (ब्र० सू० १।१।२२ शा० भा०) । यथा च - परायणमिति च तस्यैवोपसंहाराद् ब्रह्मैव प्रधानम् । तथा च तदर्थं सत् आकाशपदं प्रधानार्थं भवति नान्यथा । तस्मात् ब्रह्मैव प्रधानमाकाशपदेनेहोपास्यत्वेनोपक्षिप्तम्, न भूताकाशमिति सिद्धम् (तत्रैव भाम०) । परावाक्, परावाक् शब्दब्रह्म । यथा च श्रीनागेशप्रणीतलघुमञ्जूषायां वाचश्चत्वारो भेदाः परा पश्यन्ती मध्यमा वैखरी च वर्णिताः । परावाक् मूलचक्रस्था पश्यन्ती नाभिदेशगा। हृदिस्था मध्यमा ज्ञेया वैखरी कण्ठगा स्मृता । श्रीभर्तृहरिमते त्रयो भेदाः- वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् । अनेकतीर्थभेदायास्त्रय्या वाचः परं पदम् (वा० प० १।१४४) । अत्र हेलाराजः- पश्यन्तीमेव परां वाचं मनुते । यथा संविच्च पश्यन्तीरूपा परावाक् शब्दब्रह्ममयीति ब्रह्मतत्त्वं शब्दात् पारमार्थिकान् न भिद्यते । विवर्तदशायां तु वैखर्यात्मना भेदः (वा० प० ३ द्र० स० ११ हे०) । पराविद्या, पराविद्या १ . विद्याया भेदद्वयम्- पराविद्या अपराविद्या च । यया परमात्मधीरुदेति सा परा विद्या । यथा च - "अथ परा यया तदक्षरमधिगम्यते" इत्यादि । तत्र परस्या विद्याया विषयत्वेनाक्षरं श्रुतम् (ब्र० सू० १ ।२।२१ शा० भा०) । यथा च प्रथमं सकलवेदशिरःसु परापरबोधतः परापरविषयमिदं वाक्यमिदमपरविद्याविषयमिति विवेके कृते सति परमात्मधीपरवचःसु परविद्याविषयवाक्येष्वपुनरुक्तपदानि भिन्नशाखागतान्यप्युपसंहरन्वाक्यपरिमितं स्वयमेव वेत्स्यसि वक्ष्यपरिमाणं त्वमेव ज्ञास्यसीति । यवा सकलवेदशिरसूत्सर्गतः परमात्मधीपरवचःसु परापरभेदतोऽवान्तरतात्पर्येणापरविद्याविषयतया भेदे सति परविद्यायामपरविद्यायां च यथायोगमपुनरुक्तपदान्युपसंहन्नुभयत्र वाक्यपरिमितं स्वयमेव ज्ञास्यसीति योजना (सं० शा० ३।३१३ आ० टी०) । २. परा प्रकृष्टा गतिः मोक्ष इति । यथा च परां प्रकृष्टां गतिं मोक्षाख्यम् (गी० १३ । २८ शा० भा०) । यथा च - ततः परां गतिं मोक्षं याति (तत्रैव नी० क०) । अतः स्वरूपलाभान्न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् । तत आत्महननाभावादविद्यातत्कार्यनिवृत्तिलक्षणां मुक्तिमधिगच्छतीत्यर्थः (तत्रैव म० सू०) । यथा च तस्मात् परां प्रकृष्टां मोक्षाख्यां गतिं याति प्राप्नोति (तत्रैव भाष्यो०) । यथा च ततश्च परां गतिं मोक्षमाप्नोति (तत्रैव श्रीधरी) । यथा च परां प्रकृष्टां गतिं स्वर्गं मोक्षं वा (गी० १६।२३ शा० भा० ) । यथा च - परां गतिं मोक्षं च नावाप्नोति (तत्रैव नी० क०) । यथा च - "नापि परां प्रकृष्टां गतिं स्वर्गं मोक्षं वा" (तत्रैव म० सू०) । यथा च - नापि परां प्रकृष्टां गतिं स्वर्गं मोक्षं चाप्नोति (तत्रैव भाष्यो०)। यथा च - न च परां गतिं मुक्तिं प्राप्नोति (तत्रैव श्रीधरी)। परासिद्धिः, परासिद्धिः उत्तमा सिद्धिः, मुक्तिः । यथा- "परां सिद्धिं मोक्षाख्याम्" (गी० १४।१ शा० भा०) । यथा च परां सिद्धिं मोक्षम् (तत्रैव नी० क०) । यथा च- परां सिद्धिं मोक्षाख्याम् (तत्रैव म० सू०) । परिच्छिन्नत्वम्, परिच्छिन्नत्व केनाप्युपाधिना परिमितत्वम् । यथा - परिच्छिन्नत्वमपि हेतुः । तच्च देशतः कालतो वस्तुतश्चेति त्रिविधम् । तत्र देशतः परिच्छिन्नत्वमत्यन्ताभावप्रतियोगित्वम् । कालतः परिच्छिन्नत्वं ध्वंसप्रतियोगित्वम् । वस्तुतः परिच्छिन्नत्वमन्योन्याभावप्रतियोगित्वम् ( अ० सि० मि०नि०) । यथा च देशत इत्यादि क्वचिद्देश एव विद्यमानत्वं देशतः एव परिच्छेदः । क्वचित्काल एव विद्यमानत्वं कालपरिच्छेदः । केनचिदेव वस्तुना तादाम्यापन्नत्वं वस्तुपरिच्छेदः (तत्रैव गौ० ब्र०) । परिणामः, परिणामः १. कस्यापि वस्तुनो रूपान्तरेण परिणतिः परिणामः स च त्रिविधः । यथा - "परिणामोऽपि त्रिविधो धर्मलक्षणावस्थालक्षण: उत्पत्तिरेव । धर्मिणो हि हाटकादेर्धर्मलक्षणः परिणाम: कटकमुकुटादिस्तस्योत्पत्तिः । एवं कटकादेरपि प्रत्युत्पन्नत्वादिलक्षणपरिणाम उत्पत्तिः । एवमवस्थापरिणामो नवपुराणत्वाद्युत्पत्तिः (ब्र० सू० १ । १ । २ भाम०) । यथा च - धर्म इति लक्षणमिति अवस्थेति त्रीणि लक्षणानि यस्य परिणामस्य स तथोक्तः । धर्मिणो हीति । कटकादेधर्मिणो धर्मरूपपरिणामो नाम मुकुटकटकादिरिति सांख्यप्रक्रिया...... । प्रत्युत्पन्नत्यं वर्तमानत्वं कटकादिकार्यस्य वर्तमानत्वातीतस्य भविष्यत्त्वरूपो लक्षणपरिणामः सोऽप्युत्पत्तिरित्यर्थः । ..... । अतीतादेरेवातीतत्वातीततरत्वातीततमत्वादिरूपो नवपुराणत्वाद्यापत्तिरवस्थापरिणामो नाम, स चोत्पत्तिरेवेत्यर्थ: (तत्रैव वे० क० त०) । यथा च - "तत्त्वतोऽन्यथाभावः परिणामः .....धर्मिसमसत्ताकोऽन्यथाभावः परिणामः (ब्र० सू० १/२/२१ वे० क० त० प०) । यथा च अवस्थान्तरतापत्तिरेकस्य परिणामिता । स्यात् क्षीरं दधि मृत्कुम्भः सुवर्णं कुण्डलं यथा (प० द० १३ ।८) । यथा च परिणामो नाम उपादानसमसत्ताककार्यापत्तिः । विवर्तो नाम उपादानविषमसत्ताककार्यापत्तिः । प्रातिभासिकरजतं चाविद्यापेक्षया परिणामः चैतन्यापेक्षया विवर्त इति चोच्यते (वे० प० १ परि०) । २. जीर्णता (पाकः) यथा - "भुक्तस्य परिणामहेतुरौदर्यं तेजः (त० सं०) इत्यादौ । ३. सांख्या: पातञ्जलाश्च परिणामो नाम अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिरिति । परिणामस्त्रिविधः धर्मलक्षणावस्थाभेदात् (पा० यो० सू० पा० ३ द्रष्टव्यः) ।४. शेषः = (अन्त्यावस्था) यथा - परिणामेऽमृतोपमम् (गी० १८।३७)। ५. अर्थालङ्कारविशेषः । काव्यप्रकाशादिग्रन्थेषु । परिणामिनित्यम्, परिणामिनित्य सर्वात्मना एकदेशेन वा यत् परिणमेत् यन्न पारमार्थिकम् । यथा - तत्र किञ्चत्परिणामि नित्यं यस्मिन् विक्रयमाणेऽपि तदेवेदमिति बुद्धिर्न विहन्यते (ब्र० सू० १ १ ४ शा० भा०) । यथा च - परं हि द्वयीं नित्यतामाहुः कूटस्थनित्यतां परिणामिनित्यतां च । परिणामिनित्यता हि न पारमार्थिकी तथा हि तत्सर्वात्मना वा परिणमेदेकदेशेन वा (तत्रैव भाम० ) । परिदेवना, परिदेवना प्रलापः। यथा - तथा चोक्तम्- अदर्शनादापतितः पुनश्चादर्शनं गतः । नासौ तव न तस्य त्वं वृथा का परिदेवना इति । तत्र का परिदेवना को वा प्रलापोऽदृष्टदृष्टप्रनष्टभ्रान्तिभूतेषु भूतेष्वित्यर्थः (गी० २।२८ शा० भा० ) । यथा च अयमर्थः रज्जूरगकारणमज्ञानं न रज्जुवत् उरगवद् वा व्यक्तमस्ति । परीक्ष्यमाणं न च दृष्टिपथमवतरति । अतस्तदव्यक्तम् । तत उत्पन्नः सर्पः तत्रैव लीयते न रज्वाम् । एवम् आत्मनि कल्पितानां भूतानां आदिरन्तश्चाव्यक्तमेव । तेन आदावन्ते च यन्नास्ति वर्त्तमानेऽपि तत्तथा इति न्यायेन मध्ये भासमानान्यपि तानि रज्जूरगवत् न सन्त्येव । एवंविधे तत्र तस्मिन् विषये का परिदेवना को वा विलापः (तत्रैव नी० क०) । परिनिष्ठितम्, परिनिष्ठित प्रमाणितम् । यथा च - "सांख्यादयस्तु परिनिष्ठितं वस्तु प्रमाणान्तरगम्यमेवेति मन्यमानाः प्रधानादीनि कारणान्तराण्यनुमिमानास्तत्परतयैव वेदान्तवाक्यानि योजयन्ति" (ब्र० सू० १/१/५ शा० भा० ) । परिभाषा, परिभाषा १. आधुनिकसङ्केतः । यथा - शाब्दिकमते वृद्धिपदस्याकारैकारौकारेषु पाणिनिसंङ्केतः । २. (क) अनियमे नियमकारिणी परिभाषा । (ख) परितो व्यापृतां भाषां परिभाषां प्रचक्षते । यथा - "यथोद्देशं संज्ञापरिभाषम्" इत्यादौ । परिभूः, परिभूः सर्वोपरि भवनम् । यथा - परिभूः सर्वेषामुपर्युपरि भवतीति परिभूः (ई० उ० मं० ८ शा० भा० ) । परिमण्डलम्, परिमण्डल परमाणुगुणविशेषः । यथा - एषा तेषां प्रक्रिया - परमाणवः किल कञ्चित्कालमनारब्धकार्या यथायोगं रूपादिमन्तः पारिमाण्डल्यपरिमाणाश्च तिष्ठन्ति । ....परमाणुगुणविशेषस्तु पारिमाण्डल्यं न तु द्व्यणुके पारिमाण्डल्यमपरमारभते, द्व्यणुकस्य परिमाणानन्तरयोगाभ्युपगमात् (ब्र० सू०२/२/११ शा० भा० ) । परिसंख्या, परिसंख्या १ . विवेकः । यथा - तस्मात् तत्काले स्वातन्त्र्यार्थं योगधर्मानुसेवनं परिसंख्यानाभ्यासश्च श्रद्दधानैः परलोकार्थिभिरप्रमत्तैः कर्त्तव्य इति (बृ० आ० उ० ४।४।२ शा० भा०) । २. सर्वत्र प्राप्तस्य क्वचिद् विधिः । यथा - "विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र चप्राप्तौ परिसंख्येति कीर्त्यते ।" अग्निहोत्रं जुहूयादित्यत्र अपूर्वविधिः । ब्रीहीन् अवहन्ति इत्यत्र नियमविधिः । पञ्च पञ्चनखा भक्ष्याः इत्यत्र परिसंख्याविधिः । पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव । शशकः शल्लकी गोधा खड्गी कूर्मोऽथ पञ्चमः (बा० रा०) । यथा च - द्वयोः समुच्चितस्य प्राप्तावितरनिवृत्तिफलको विधिः परिसंख्याविधिः । यथा चयनप्रकरणे - इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्त इति अश्वरशनाग्रहणाङ्गत्वेन मन्त्रविधिः । ....एतद्विध्यभावे ..... अश्वरशनादान इव गर्दभरशनाऽऽदानेऽपि प्राप्नुयात् । ....द्वयोः समुच्चित्य प्राप्तावितरनिवृत्तिफलकत्वादयं परिसंख्याविधिः । एवं पञ्च पञ्चनखाः भक्ष्याः इत्यादावपि बोध्यम् (मी०प० वि० नि०) । परोवरीयः, परोवरीय उद्गीथः, परमात्मा सम्पन्नः यथा - यस्मात्परं परं वरीयो वरीयसोऽप्येष वरः परश्च वरीयांश्च परोवरीयानुद्गीथः परमात्मा सम्पन्न इत्यर्थः । अत एव स एषोऽनन्तोऽविद्यमानान्तस्तमेतं परोवरीयांसं परमात्मभूतमनन्तमेवं विद्वान् परोवरीयांसमुद्गीथमुपास्ते । तस्यैतत्फलमाह । परोवरीयः परं परं वरीयो विशिष्टतरं जीवनं हास्य विदुषो भवति दृष्टं फलमदृष्टं च परोवरीयस उत्तरोत्तर विशिष्टतरानेव ब्रह्माकाशान्तांल्लोकाञ्जयति य एतदेवं विद्वानुद्गीथमुपास्ते (छा० उ० १/९/२ शा० भा० ) । पवित्रम्, पवित्र परमात्मा, यो हि ज्ञानमात्रेण अविद्याकामकर्मभ्यो मोचकः । यथा"परमं पवित्रं पावनं च भवानेव" (गी० १०/१२ म० सू० ) । यथा चपवित्रं पावनं परमं प्रकृष्टं ज्ञानमात्रेण सवासनाऽविद्याकामकर्मभ्यो मोचकत्वात्" (तत्रैव भाष्यो०) । पशुः, पशु १ . (क) बन्धनयुक्त आत्मा पाशुपतदर्शने । यथा - पशव आत्मानस्तेषां पाशो बन्धनं तद्विमोक्षो दुःखान्तः" (ब्र० सू० २ । २ । ३७ भाम०) । (ख) पशुत्वसम्बन्धी पशुः । सोऽपि द्विविधः साञ्जनो निरञ्जनश्चेति । तत्र साञ्जनः शरीरेन्द्रियसम्बन्धी, निरञ्जनस्तु तद्रहितः । (ग) अननुक्षेत्रज्ञादिपदवेदनीयो जीवात्मा पशुः ( स० द० शैव०) । २. चतुष्पाद् जीवः । यथा पशुना रूद्रं यजते इत्यादि पूर्वमीमांसायां लोके च । पाङ्क्तम्, पाङ्क्त दाराग्निसम्बद्धं हि पाङ्क्तं कर्म (वृ० आ० ३०६।२।९ शा०भा०) । पाङ्क्तः, पाङ्क्त यज्ञेन सम्बद्धैः पशुपुरुषादिभिः सम्पन्नो यज्ञः पाङ्क्तः उच्यते । यथा हि एष पाङ्क्तः पञ्चभिर्निवृत्तः पाको यज्ञो दर्शनमात्रनिर्वृत्तोऽकर्मणोऽपि च पशुः पुरुषश्च पाङ्क एव ....पाङ्कमिदं सर्वं कर्मसाधनं फलम् .....एवं पानं यज्ञमात्मानं यः सम्पादयति (बृ० आ० उप० १ ।४।१७ शा० भा० ) । यथा च "जायापुत्रवित्तादिलक्षणं पाङ्क्तं कर्म अविद्याविषयम् (तत्रैव ४।१।१ शा० भा०) । यथा च - दाराग्निसम्बद्धं हि पाङ्क्तं कर्म (तत्रैव ६।२।९ शा० भा०) । पाण्डित्यम्, पाण्डित्य पण्डा अध्ययनजा ब्रह्मबुद्धिः तद्वान् पण्डितः तस्य ज्ञानमात्रम् । यथा च तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः (तत्रैव ३।५।१ ब्र० सू० ३।४।४७ शा० भा०)। यथा च पण्डा अध्ययनजा ब्रह्मधीस्तद्वान् पण्डितः तस्य कृत्यम् श्रवणम् (तत्रैव वे० क० त० ) । यथा च - ज्ञानमात्रम् पण्डितम् (तत्रैव भाम०) । पारमार्थिकम्, पारमार्थिक १. प्रमाविषयत्वम् ( न तु व्यावहारिकं प्रातिभासिकं वा) यथा च - इदं तु पारमार्थिकं कूटस्थनित्यं व्योमवत् सर्वव्यापि सर्वविक्रियारहितं नित्यतृप्तं निरवयवं, स्वयं ज्योतिः स्वभावम्" (ब्र० सू० १ १ ४ शा० भा०) । यथा च तथा च श्रुतिः - मृत्तिकेत्येव सत्यमिति । तस्मात् कूटस्थनित्यतैव पारमार्थिकी न परिणामिनित्यतेति सिद्धम् (तत्रैव भाम० ) ।२. कालत्रयसम्बन्धित्वम् । ३. त्रिकालाबाधितत्वम् । यथा - ब्रह्मणस्तत्सत्तायाश्च पारमार्थिकत्वम्, घटपटादीनां व्यावहारिकत्वम्, शुक्तिरजतादीनां प्रातिभासिकत्वमलीकत्वं वा । खपुष्पशशशृङ्गकूर्मरोमवन्ध्यापुत्रादीनां तुच्छत्वम् । पाशः, पाश पाशश्चतुर्विधः मलकर्ममायारोधशक्तिभेदात् । पत्युरसामञ्जस्यात् (ब्र० सू० २।२।३७) इति सूत्रे शा० मा० भाम० द्रष्टव्ये । पितृयाणम्, पितृयाण दक्षिणायनमितिशब्दोऽथवा धूममार्ग इति शब्दो द्रष्टव्यः । पितृयानम्- पितृयाणशब्दवत् । दक्षिणायनमिति शब्दोऽथवा धूममार्गः इति शब्दो द्रष्टव्यः । पिप्पलम्, पिप्पल कर्मफलम् । यथा- पिप्पलं कर्मफलम् (ब्र० सू० १/१/४ वे० क० त०) । यथा च - पिप्पलं कर्मफलं संसरस्याश्वत्थत्वेन रूपितत्वात् (तत्रैव १ । २ । १२ वे० क० त० ) । पिबन्तौ, पिबन् कर्मफलभोगयिता ईश्वरः । किन्त्वत्र उपचाराद् भोक्तृत्वेनोक्तः । यथा - जीवस्तावत् पिबति, ईश्वरस्तु पाययति । पाययन्नपि पिबतीत्युच्यते, पाययितर्यपि पातृत्वप्रसिद्धिदर्शनात् (ब्र० सू० १/२/११ शा० भा० ) । पुच्छम्, पुच्छ आधारः उपचारात् । यथा - अत्रोच्यते तथा सति तदेव ब्रह्मानन्दमय आत्मावयवी, तदेव च ब्रह्मपुच्छं प्रतिष्ठावयव इत्यसामञ्जस्यं स्यात् । अन्यतरपरिग्रहे तु युक्तं "ब्रह्मपुच्छं प्रतिष्ठा" इत्यत्रैव ब्रह्मनिर्देश आश्रयितुं ब्रह्मशब्दसंयोगात् नानन्दमयवाक्ये ब्रह्मशब्दसंयोगाभावादिति । ....उच्यते - आनन्दमयोऽभ्यासात् । आनन्दमय आत्मेत्यत्र ब्रह्मपुच्छं प्रतिष्ठा ब्रह्मण इति स्वप्रधानमेव ब्रह्मोपदिश्यते, अभ्यासात् । .... प्राचुर्यादप्यवयवशब्दोपत्तेः । प्राचुर्य प्रायापत्तिः, अवयवप्राये वचनमित्यर्थः । अन्नमयादीनां हि शिर आदिषु पुच्छान्तेष्ववयवेषूक्तेष्वानन्दमयस्यापि शिरआदीन्यवयवान्तराण्युक्त्वावयवप्रायापत्त्या ब्रह्मपुच्छं प्रतिष्ठा इत्याह; नावयवविवक्षया (ब्र० सू० १ ।१ ।१९ शा० भा०) । यथा च - पुच्छवत् पुच्छमिति । ननु - प्रतिष्ठापदेनैवाधारत्वलाभात्पुच्छपदेन नाधारत्वलक्षणा सम्भवति । कान्तिमन्मुखं चन्द्र इत्यत्र स्वशब्देनैव कान्तिमत्वे लब्धेऽपि चन्द्रकान्तितुल्यकान्तिसंग्रहार्थं चन्द्रपदमपि गौणमिति युक्तम्, नैवमत्र; ब्रह्म प्रतिष्ठात्वसंकोचकमानान्तराभावेन प्रत्युत तस्य निरपेक्षप्रतिष्ठात्वप्रमापकश्रुतिसत्वेन प्रतिष्ठापदेनैवेष्टसिद्धेः, एवं चानन्दमया वयवत्वेन ब्रह्मनिर्देश इत्यत उक्तम्- प्राचुर्यादिति । एवं च यथा पक्षिणां पुच्छमाधारः एवमानन्दमयस्य ब्रह्म आधार इति दृष्टान्तमुखेन श्रोतृबुद्ध्यवतरणार्थं पुच्छवद्भावविशेषिततयाऽधारत्वसामान्यलक्षणार्थं च पुच्छपदप्रयोगः सार्थक इति न दोषः ।" (तत्रैव टिप्पणी) पुण्यम्, पुण्य १. शास्त्रविहितकर्मजन्यः कोऽप्यपूर्वः । यथा - तस्मात् पुण्यो वै शास्त्रविहितेन पुण्येन कर्मणा भवति । तद्विपरीतेन विपरीतो भवति । पापः पापेन (बृ० आ० उ० २/२/१३ शा० भा० ) । २. धर्मविशेषः । यथा - तस्मादात्मकृतं पुण्यं वृथा न परिकीर्तयेदिति (देवल:) क्षीणे पुण्ये मर्त्यलोके विशन्ति (श्रुतिः) तद्यथेह कर्मचितो लोकः क्षीयते एवममुत्र पुण्यचितो लोकः क्षीयते (श्रुतिः) । ३. लग्नावधिकं सप्तमस्थानमिति ज्योतिर्विदः । ४. सत्कर्म पुद्गलाः पुण्यम् ( स० द० सं० आर्हते) । पुदगल:, पुदगल १. अणुः । यथा- "यत्तु पुद्गलसंज्ञकेभ्योऽणुभ्यः संघाताः सम्भवन्तीति कल्पयन्ति, तत्पूर्वेणैवाणुवादनिराकरणेन निराकृतं भवतीत्यतो न पृथक् तन्निराकरणाय प्रयत्यते" (ब्र० सू० २ । २ । ३४ शा०भा० ) । पुरम्, पुर १. शरीरम्, पुरसादृश्यात् । यथा- पुरमिव पुरम् । द्वारपालाधिष्ठात्राद्यनेकपुरोपकरणसम्पत्तिदर्शनाच्छरीरं पुरम्" (का० उ० ५1१ शा० भा०) । २. शरीरमेव पुरम् - सादृश्यात् । यथा - "नवद्वारे पुरे सप्तशीर्षाण्यान्यात्मन उपलब्धिद्वाराण्यर्वाग् द्वे मूत्रपुरीषविसर्गार्थे तैर्द्वारैर्नवद्वारं पुरमुच्यते । शरीरं पुरमिव पुरमात्मैकस्वामिकं तदर्थप्रयोजनैश्चेन्द्रियमनोबुद्धिविषयैरनेकफलविज्ञानस्योत्पादकैः पौरैर्यथा च – "जीवः आत्मा वा । यथा - न च प्रकृतिर्न च विकृतिः पुरुषः (सां० का०) । यथा च - पुरुष: पुरि शयनात् (गी० ११ ।३८ शा० भा०) । यथा च पुरुषो जीवः क्षेत्रज्ञो भोक्ता इति पर्यायः (गी० १३ । २० शा० भा० ) । यथा चतथा पुरुषः सुखदुःखानां भोक्तृत्वेन संसारस्य कारणं भवति । .... यद्वा पुरुषस्य कार्यत्वे कारणत्वे कर्तृत्वे च प्रकृतिरेव पुरुषतादात्यं प्राप्ता हेतुर्भवति (तत्रैव नी० क०) । यथा च – पुरुषः क्षेत्रज्ञः परा प्रकृतिरिति प्राग् व्याख्यातः स सुखदुःखमोहानां भोग्यानां सर्वेषामपि भोक्तृत्वे वृत्त्युपरक्तोपलम्मे हेतुरुच्यते (तत्रैव म० सू०) । हि यस्मात् पुरुषो भोक्ता प्रकृतावविद्यालक्षणायां स्थितस्तदैक्याध्यासं प्राप्तस्तस्मात्सुखी दुःखी मूढः पण्डितोऽहमित्येवं प्रकृतेः जातान् सुखदुःखमोहाकाराभिव्यक्तान् गुणान् सत्त्वादीन् भुङ्क्ते उपलभते (तत्रैव भाष्या० ) । यथा च - हि यस्मात्प्रकृतिस्थः तत्कार्यदेहे तादात्येन स्थितः पुरुषः । अतस्तञ्जनितान् सुखादीन्भुङ्क्ते (तत्रैव श्रीधरी) । यथा च - अतः पुरुषः सन्निधानात् प्रकृतेः कर्तृत्वमुच्यते । भोक्तृत्वं च सुखदुःखसंवेदनम् । तच्चेतनधर्म एवेति सन्निधानात्पुरुषस्य भोक्तृत्वमुच्यत इति (तत्रैव श्रीधरी) यथा च - पुरुषं देहान्तःस्थम् (गी० १०/१२ नी० क०) । २. परमात्मा । यथा च - यतः पुरुषं परमात्मानं शाश्वतं सर्वदैकरूपम् (तत्रैव म० सू०) । यथा च - यतो यस्मात्पुरुषात्संसारमायावृक्षप्रवृत्तिः प्रसृता निःसृतैन्द्रजालिकादिव माया पुराणी चिरन्तनी (गी० १५/४ शा० भा० ) । यथा च- येन सर्वं पूर्णं पूर्षु वा शयानं पुरुषं प्रपद्ये शरणं गतोऽस्मीत्यर्थः (तत्रैव आ० गि०) । यथा च - पुरुषं पुरि शरीरे शयानमहमपि प्रपद्ये शरणागतोऽस्मीति भावयेत् (तत्रैव नी० क०) । यथा च - यतो यस्मात् पुरुषात् प्रवृत्तिर्मायामयसंसारवृक्षप्रवृत्तिः पुराणी चिरन्तन्यनादिरेषा प्रसृता निःसृतैन्द्रजालिकादिव मायाहस्त्यादि तं पुरुषं प्रपद्य इत्यन्वयः (तत्रैव म० सू०) । यथा च - यच्छब्देनोक्तस्तमेवादौ भवमाद्यं पुरुषं पूर्णं प्रपद्ये गतोऽस्मीत्येवं तच्छरणतया परिमार्गितव्यमित्यर्थः (तत्रैव भाष्यो०) । यथा च यत एषा पुराणी चिरन्तनी संसारप्रवृत्तिः प्रसृता विस्तृता तमेव चाद्यं पुरुषं प्रपद्ये शरणं ब्रजामीत्येवमेकान्तभक्त्यान्वेष्टव्यमित्यर्थः (तत्रैव श्रीधरी)। ३. (क) सर्वपूरयिता । यथा च - अत एव सर्वपूरणात् ततोऽन्यस्य परस्य प्रसङ्गं निवारयन्नाह (का० उ० २ शा० भा०) । (ख) समस्तजगत्पूरयिता । यथा - पुरुषाकारत्वात् पूर्ण वाऽनेन प्राणबुद्ध्यात्मना जगत् समस्तमिति पुरुषः पुरिशयनात् वा पुरुषः सोऽहमस्मि भवामि ( ई० उ० १६ शा० भा० ) । पुराणः, पुराण आत्मा । यथा - पुरा वियदादिसृष्टेः प्रागपि नव एव । एतेन अपक्षयादिधर्मराहित्यान्मुख्यमजत्वादिकमात्मन एव, वियदादेस्त्वमुख्यं तदिति दर्शितम् । .... शाश्वतः पुराण इत्येताभ्यामुपचयापचयौ निषिध्येते इति न हन्यते न विपरिणमत इति च व्याख्यातम् (गी० २।२० नी० क० ) । यथा च - आत्मा, शाश्वतनवः अयं तु शाश्वतोऽत एव पुराणः पुरापि नव एवेति । यो हि अवयवोपचयद्वारेणाभिनिर्वर्त्यते स इदानीं नवो यथा कुम्भादिः तद्विपरीतस्त्वात्मा पुराणो वृद्धिविवर्जित इत्यर्थ: (का० उ०२।१८ शा० भा० ) । पुरितत्, पुरितत् हृदयपरिवेष्ठनम् एकस्या विशेषनाड्या नाम वा । यथा - तथा पुरीततोऽपि ब्रह्मप्रक्रियायां सङ्कीर्तनात्तदनुगुणमेव सुप्तिस्थानं विज्ञायते - य एषोऽन्तर्हदय आकाशस्तस्मिञ्छेते (छा० २।१।१७) इति हृदयाकाशे सुप्तिस्थाने प्रकृत इदमुच्यते पुरीतति शेते ( बृ० आ० उ० २।१।१९) इति पुरीतदिति हृदयपरिवेष्टनमुच्यते । तदन्तर्वर्ति न्यपि हृदयाकाशे शयानः शक्यते पुरीतति शेत इति वक्तुम् । प्राकारपरिरक्षितेऽपि पुरे वर्तमानः प्राकारे वर्तत इत्युच्यते । हृदयाकाशस्य च ब्रह्मत्वं समधिगतम्- दहर उत्तरेभ्यः (ब्र० सू० १ । ३ । १४) इत्यत्र (ब्र० सू० ३ । २।७ शा० भा० ) । पुरुषः, पुरुष १ . जीवात्मा । यथा - पुरुषः पुरि शयनात् पूरयति वा स्वेनाऽऽत्मना जगदिति (छा० उ० १।६।६ शा० भा० ) । यथा च - पुरुषो विनाशहेत्वभावादविनाशी, विक्रियाहेत्वभावाच्च कूटस्थनित्यः अत एव नित्यशुद्धबुद्धमुक्तस्वभावः (ब्र० सू० १ । १ । ४ शा० भा० ) । यथा च त्रिविधोऽपि धर्मलक्षणावस्थापरिणामलक्षणो विकारो नास्तीत्युक्तम् । अपि चात्मनः परमार्थसतो धर्मोऽपि परमार्थसन्निति न तस्यात्मविकारः वदन्यथात्वं कारणैः शक्यं कर्तुं न च धर्मान्यथात्वादन्यो (तत्रैव भाम०) यथा च - अनन्तोऽनवधिः । विकारो नास्तीत्युक्तं भेदाभेदविचारे (वे० क० त० ) । पुरुषकर्मोद्भूतानि, पुरुषकर्मोद्भूत धर्माधर्मफलानि । यथा च - पुरुषकर्म धर्माधर्माख्यं तत् उद्भूतिर्येषां तानि पुरुषकर्मोभूतिकानि (सं० शा० ३।२५० अ० टी०) । पुरुषस्पन्दः, पुरुषस्पन्द पुरुषव्यापारः (व्याकरणशास्त्रानुसारी ) । यथा च - "एक एव हि पूर्वदेशविभागोत्तरदेशसंयोगरूपफलद्वयस्याप्यनुकूलो व्यापारः पुरुषस्पन्दः" ( ब्र० सू० १/१/४ क० त० परि० ) । पुरुषार्थः, पुरुषार्थ १. पुरुषस्यार्थः प्रयोजनमिति । स च धर्मार्थकाममोक्षाख्यरूपः । मोक्षः परमपुरुषार्थः इत्यद्वैतवेदान्तिनः । २. पुरुषप्रीतये विधीयमानः पुरुषार्थः इति पूर्वमीमांसकाः । ३. स तु पुरुषान्यताख्यातिः पुरुषार्थः इति सांख्ययोगविदः । ४. बलवद्वेषाविषयः इति लौकिकाः । पूर्तम्, पूर्त वाप्यादि स्मार्तं कर्म । यथा- पूर्वं स्मार्तं वाप्यादि (ब्र० सू० १ । १ ।४ वे० क० त० ) । यथा च - पूर्तं स्मार्तम् (तत्रैव वे० क० त० ) । पूषा, पूषा सूर्यः । तथा एकर्षिः= रविः । यथा - जगतः पोषणात् पूषा रविस्तथैक एव ऋषति गच्छतीत्येकर्षि: (ई० उ० १६ शा० भा० ) । प्रकरणम्, प्रकरण ग्रन्थविशेषस्य संज्ञा । यथा - शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम् । प्राहुः प्रकरणं नाम ग्रन्थभेदं विपश्चित: (सं० शा० १० सु० टी०) । १. ज्ञानम् । यथा - अर्थप्रकाशो बुद्धिः इत्यादौ । प्रागप्रकाशरूपस्यात्मनो मनःसंयोगाज्ज्ञानाख्यः प्रकाशो जायते । इति न्यायवैशेषिकाः । २. ज्ञानस्वरूप आत्माप्रकाश इति सांख्ययोगविदः । ३. तेजः । यथा प्रचुरप्रकाशो रविः इत्यादौ । तमो विरोध्याकारो हि प्रकाशः । प्रकाश:, प्रकाश १. ज्ञानम् । यथा - अर्थप्रकाशो बुद्धिः इत्यादौ । प्रागप्रकाशरूपस्यात्मनो मनःसंयोगाज्ज्ञानाख्यः प्रकाशो जायते । इति न्यायवैशेषिकाः । २. ज्ञानस्वरूप आत्माप्रकाश इति सांख्ययोगविदः । ३. तेजः । यथा प्रचुरप्रकाशो रविः इत्यादौ । तमो विरोध्याकारो हि प्रकाशः । प्रकाशमानम्, प्रकाशमान प्रत्यक्षविषयत्वम् । प्रकृतिः, प्रकृति अविद्या । यथा- एवमविद्यालक्षणां स्वां प्रकृतिमवष्टभ्य आश्रित्य तां विना केवलस्य स्रष्टृत्वासम्भवात् । इमं भूतग्रामं पुनः पुनर्विधं सृजामि । किं भूतम् । प्रकृतेर्वशात् स्वभावात् (गी० ९।८ नी० क०) । यथा च - प्रकृतिं मायाख्यामनिर्वचनीयां स्वां स्वस्मिन् कल्पितामवष्टभ्य स्वसत्तास्फूर्तिभ्यां दृढ़ीकृत्य तस्याः प्रकृतेर्मायाया वशाद् अविद्याऽस्मितारागद्वेषाभिनिवेशकारणावरणविक्षेपात्मकशक्तिप्रभावाज्जायमानमिमं सर्वप्रमाणसंसाधितं भूतग्राममाकाशादिभूतसमुदायमहं मायावीव पुनः पुनर्विसृजामि विविधं सृजामि (तत्रैव म० सू०) । यथा च - प्रकृतिं स्वां मम वैष्णावीं मायां त्रिगुणात्मिकां यस्यावशे सर्वं जगत् वर्तते । मया मोहितं सत् स्वमात्मानं वसुदेवं न जानाति (गी० ४।६ शा० भा०) । यथा च - प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममामयेति । अयमर्थः – जीवात्मनो ह्यनात्मभूतां प्रकृतिं तेजोबन्नात्मिकां पञ्चभूतात्मिकां वाधिष्ठाय सम्भवन्ति जन्मादींल्लभन्ते अहन्तु स्वां प्रत्यगनन्यां प्रकृतिं प्रत्यक् चैतन्यमेवेत्यर्थः । तदेवाधिष्ठाय न तूपादानान्तरम् (तत्रैव नी० क० ) । यथा च स च भगवान् ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सदा सम्पन्नस्त्रिगुणात्मिकां वैष्णवीं स्वां मायां प्रकृतिं. वशीकृत्याजोऽव्ययो भूतानामीश्वरो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन् स्वमायया देहवानिव जात इव च लोकानुग्रहं कुर्वंल्लक्ष्यते स्वप्रयोजनाभावेऽपि भूतानुजिघृक्षयेति (तत्रैव म० सू०) । यथा च - प्रकृतेः प्रकृतिः प्रधानं सत्त्वरजस्तमसां गुणानां साम्यावस्था तस्याः प्रकृतेः गुणैः विकारैः कार्यकारणरूपैः क्रियमाणानि कर्माणि .... ( तत्रैव ३ । २७ शा० भा०) । यथा च - कर्मस्वविद्वान् आसक्तिप्रकारं प्रकटयन् व्याकरोति- प्रकृतेरि त्यादिना । प्रधानशब्देन मायाशक्तिरुच्यते । अविद्ययेत्युभयतः सम्बध्यते (तत्रैव आ० टी० ) । यथा च प्रकृतेः पारमेश्वर्याः सत्त्वरजस्तमोगुणात्मिकायाः देवात्मशक्तिंस्वगुणैर्निरुद्धाम् इति श्रुतिप्रसिद्धायाः शक्तेर्गुणैः कार्यकारणसंघात्मकैः .... (तत्रैव नी० क० ) । यथा च - प्रकृतिर्माया सत्त्वरजस्तमोगुणमयी मिथ्याज्ञानात्मिका माहेश्वरी शक्तिः । मायान्तु प्रकृतिं वियान्मायिनं तु महेश्वरमिति श्रुतेः (तत्रैव म० सू०) यथा च – प्रकृत्या प्रकृतिर्भगवतो माया त्रिगुणात्मिकां मायां तु प्रकृतिं विद्यादिति मन्त्रवर्णात्तया प्रकृत्या (गी० १३/२९ शा० भा०) । यथा च - सर्वशः सर्वप्रकारेण कर्माणि वाङ्मनः कायैरारब्धानि प्रकृत्यैव क्रियमाणानीति यः पश्यति तथात्मानं चाकर्तारं यः पश्यति पूर्वोक्तरीत्या स एव सर्वत्र समं पश्यतीति पूर्णेनान्वयः (तत्रैव नी० क०) । यथा च – कर्माणि वाङ्मनःकायारभ्याणि सर्वशः सर्वैः प्रकारैः प्रकृत्यैव देहेन्द्रियसंघाताकारपरिणतया सर्वविकार- कार्यकारणभूतया त्रिगुणात्मिकया भगवन्माययैव क्रियमाणानि ...... पश्यति (तत्रैव म० सू० ) । यथा च - प्रकृतिस्त्रिगुणात्मिका भगवतो माया (तत्रैव भाष्यो०) । यथा च - प्रकृत्यैव देहेन्द्रियाकारेण परिणतया सर्वशः सर्वैः प्रकारैः क्रियमाणानि कर्माणि यः पश्यति (तत्रैव श्रीधरी) । (ख) यथा च - भूतप्रकृतिमोक्षं च भूतानां प्रकृतिरविद्यालक्षणाऽव्यक्ताख्या तस्या भूतप्रकृतेर्मोक्षणमभावगमनं च ये विदुर्विजानन्ति यान्ति गच्छन्ति ते परं परमार्थतत्त्वं ब्रह्म न पुनर्देहमाददत्त इत्यर्थः (गी० १३।३४ शा० भा०) । यथा च - भूतप्रकृतिमोक्षं च भूतानां सर्वेषां प्रकृतिरविद्या मायाख्या तस्याः परमार्थात्मविद्यया मोक्षमभावगमनं च ये विदुर्जानन्ति यान्ति ते परम् । परमार्थात्मवस्तुस्वरूपं कैवल्यं न पुनर्देहमाददत इत्यर्थः (तत्रैव म० सू०) । यथा च प्रकृतिरविद्यालक्षणाऽव्यक्ताख्या तस्या भूतप्रकृतेः परमार्थात्मविद्यया मोक्षमभावगमनं ये विदुर्जानन्ति ते परं परमार्थतत्त्वं यान्ति गच्छन्ति पुनर्देहं नाददत इत्यर्थः (तत्रैव भाष्यो०) । यथा च तथा येयमुक्ता भूतानां प्रकृतिस्तस्या सकाशान्मोक्षं मोक्षोपायं ध्यानादिकं च ये विदुस्ते परं पदं यान्ति (तत्रैव श्रीधरी) । (ग) यथा च - दैवीं देवानां प्रकृतिं शमदमदयाश्रद्धादिलक्षणामाश्रिताः सन्तो भजन्ति सेवन्ते (तत्रैव ९ । १३) । यथा च - महाननेकजन्मकृतसुकृतैः संस्कृतः क्षुद्रकामाद्यनभिभूत आत्मान्तःकरणं येषां ते अत एव अभयं सत्त्वशुद्धिः इत्यादिवक्ष्यमाणां दैवीं सात्त्विकीं प्रकृतिमाश्रिताः (तत्रैव म० सू०) । (घ) यथा च - तेषां कार्यकरणानां कर्तृत्वमुत्पादकत्वं यत्तत्कार्यकरणकर्तृत्त्वं तस्मिन् कार्यकरणकर्त्तृत्वे हेतुः कारणमारम्भकत्वेन प्रकृतिरुच्यते । एवं कार्यकरणकर्तृत्वेन संसारस्य करणं प्रकृतिः । कार्यकारणकर्तृत्व इत्यस्मिन्नपि पाठे कार्यं यद्यस्य परिणामस्तत्तस्य कार्यं विकारो विकारिकारणं तयोर्विकारविकारिणोः कार्यकारणयोः कर्तृत्व इति । अथवा षोडशविकाराः कार्यम्, सप्त प्रकृतिविकृतयः करणं तान्येव कार्यकारणान्युच्यन्ते । तेषां कर्तृत्त्वे हेतुः प्रकृतिरुच्यत आरम्भकत्त्वेनैव (तत्रैव १३ ।२० शा० भा० ) । यथा च गुणाश्च सुखदुःखमोहात्मका: करणाश्रयत्वात्करणग्रहणेन गृह्यन्ते । तेषां कार्यकरणानां कर्तृत्वे तदाकारपरिणामे हेतुः कारणं प्रकृतिरुच्यते महर्षिभिः । कार्यकारणेति पाठेऽपि स एवार्थ: (तत्रैव म० सू०) । यथा च तेषां कार्यकारणानां कर्तृत्वे उत्पादकत्वे प्रकृतिरारम्भकत्त्वेन हेतुः कारणमुच्यते । एवं कार्यकरणकर्तृत्त्वेन संसारस्य कारणं प्रकृतिरुक्ता । कार्यकारणकर्त्तृत्व इति पाठेऽप्ययमेवार्थः । यद्वा एकादशेन्द्रियाणि पञ्च विषयाः षोडश विकाराः कार्यं महानहङ्कारो भूततन्मात्राणि पञ्चेति सप्तप्रकृतिविकृतयः कारणं तेषां कर्तृत्त्वे हेतुः प्रकृतिरुच्यत इत्यर्थः (तत्रैव भाष्यो०)। २. प्रकृष्टा कृतिः प्रधानम् । सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः । अव्यक्तमिति सांख्ययोगविदः । यथा च महतः परमव्यक्तमिति प्रकृतिरुच्यते । श्रुतावसङ्गता तद्वदसङ्गो हीत्यतः स्फुटा (प० द० ६।१०१ ) । यथा च - जाड्यांशः प्रकृतेः रूपं विकारि त्रिगुणं च तत् चितो भोगापवर्गार्थं प्रकृतिः सा प्रवर्त्तते (तत्रैव ६।९९) । यथा च - चिदानन्दमयब्रह्मप्रतिबिम्बसमन्विता । तमोरजः सत्त्वगुणा प्रकृतिर्द्विविधा च सा (प० द० १ ।१५) । इदानीं प्रतिबन्धहेतुभूतामविद्यां प्रतिपादयितुं तन्मूलभूतां प्रकृतिं व्युत्पादयति - चिदानन्देति । सच्चिदानन्दरूपं ब्रह्म तस्य प्रतिबिम्बेन प्रतिच्छायया समन्विता युक्ता । तमोरजः सत्त्वगुणाः सत्त्वरजस्तमोगुणानां साम्यावस्था या सा प्रकृतिरित्युच्यते । सा च द्विविधा द्विप्रकारा भवति । चकाराद्वक्ष्यमाणं प्रकारान्तरं सूचयति (अत्र रा० कृ० टी०) । प्रकृति द्वैविध्यम् सत्त्वशुद्ध्यविशुद्धिभ्यां मायाविद्ये च ते मते । मायाबिम्बो वशीकृत्य तां स्यात् सर्वज्ञ ईश्वरः । सहेतुकं द्वैविध्यमेव दर्शयति सत्त्वेति । सत्त्वस्य प्रकाशात्मकस्य गुणस्य शुद्धिः गुणान्तरेणाकलुषीकृतता अविशुद्धिः । गुणान्तरेण कलुषीकृतत्वं ताभ्यां सत्त्वशुध्यविशुद्धिभ्यां ते च द्विविधं मायाविद्ये इति मायेत्यविद्येति च मते सम्मते । विशुद्धसत्त्वप्रधाना माया मलिनसत्त्वप्रधाना अविद्येत्यर्थः (प० द० १ । १६ रा० कृ० टी०) ।३. जडात्मको भगवदंशविशेषः इति वाल्लभाः । लक्ष्मीरिति माध्वाः । शब्दविशेषः इति शाक्ताः । सा च शक्तिः गणेशजननी दुर्गा, राधा, लक्ष्मीः, सरस्वती, सावित्री । प्रकृतिः विष्णुरिति पूर्णप्रज्ञाचार्याः । ब्रह्मसूत्रे – प्रकृतिश्च प्रतिज्ञादृष्टान्तानुरोधात् (१।४।२४) । प्रातिपदिकं धातुश्च प्रकृतिरिति शाब्दिकाः । समग्राङ्गोपदेशः प्रकृतिः यथा - दर्शपूर्णमासादिरूपप्रधानयागः प्रकृतिः(ईष्ट्यग्निहोत्रसोमाः प्रकृतयः) । यत्र कर्त्तव्यं सर्वं प्रकर्षेण कर्मान्तरनैरपेक्ष्येणोपदिश्यते सा प्रकृतिः इति पूर्वमीमांसकाः । प्रकृतिस्थः, प्रकृतिस्थ अविद्योपहितः (जीवः) । यथा - प्रकृतिस्थःप्रकृतावविद्यालक्षणायां कार्यकारणरूपेण परिणतायां स्थितः प्रकृतिस्थः प्रकृतिमात्मत्वेन गत इत्येतद्धि यस्मात् तस्मात् भुङ्क उपलभत इत्यर्थ: (गी० १३/२१ शा० भा०) । यथा च - प्रकृतिस्थानि स्वस्थाने कर्णशष्कुल्यादौ प्रकृतौ स्थितानि कर्षत्याकर्षति (गी० १५/७ शा० भा०) । प्रकृतिस्थानि इन्द्रियाणां प्रकृतिः स्वभावो विषयप्रावण्यं तत्र स्थितानि (तत्रैव नी० क० ) । यथा च - प्रकृतिस्थानि प्रकृतावज्ञाने सूक्ष्मरूपेण स्थितानि पुनर्जाग्रद्भोगजनककर्मोदये भोगार्थं कर्षति (तत्रैव म० सू०) । यथा च - प्रकृतिस्थानि प्रकृतावज्ञाने सूक्ष्मरूपेण स्थितानि पुनर्जाग्रद्भोगजनककर्मोदये भोगार्थं कर्षति (तत्रैव भाष्यो०)। यथा च – प्रकृतौ लीनतया स्थितानि सोपाधिभूतानीन्द्रियाण्याकर्षति (तत्रैव श्रीधरी) । यथा च - पुरुषो भोक्ता प्रकृतिस्थः प्रकृतावविद्यालक्षणायां कार्यकारणरूपेण परिणतायां स्थितः प्रकृतिस्थः (गी० १३/२१ शा० भा०) । यथा च - प्रकृतिस्थः देहेन्द्रियमनःसंघातमध्यारूढ़स्तत्तादात्म्यं गत इत्यर्थः । प्रकृतिर्माया तां मिथ्यैव तादाम्येनोपगतः प्रकृतिस्थो हि यस्मात् पुरुषो भोक्ता प्रकृतावविद्यालक्षणायां स्थितस्तदैक्याध्यासं प्राप्तस्तस्मात्सुखी दुःखी मूढ़ः पण्डितोऽहमित्येवं प्रकृतेः जातान्सुखदुःखमोहाकाराभिव्यक्तान्गुणान् सत्त्वादीन् भुङ्क्ते उपलभते (तत्रैव भाष्यो०) । यथा च - हि यस्मात् प्रकृतिस्थः तत्कार्यदहे तादाल्येन स्थितः पुरुषः (तत्रैव श्रीधरी) । प्रकृतेः नियामकाः, प्रकृति नियामक ईश्वरः (पुरुषविशेषः स इति केचन) । यथा चचित्सन्निधौ प्रवृत्तायाः प्रकृतेर्हि नियामकम् । ईश्वरं ब्रुवते योगाः स जीवेभ्यः परः श्रुतः । प्रधानक्षेत्रज्ञपतिर्गुणेश इति हि श्रुतिः । आरण्यकेऽसम्भ्रमेण ह्यन्तर्याम्युपपादितः। अत्रापि कलहायन्ते वादिनः स्वस्वयुक्तिभिः । वाक्यमपि यथाप्रज्ञं दार्यायोदाहरन्ति हि । क्लेशकर्मविपाकैस्तदाशयैरप्यसंयुतः । पुंविशेषो भवेदीशो जीववत् सोऽप्यसङ्गचित् (प० ८० ६/१०२-१०५ ) । प्रकृष्टप्रकाशश्चन्द्रः, प्रकृष्टप्रकाशश्चन्द्रः प्रकृष्टप्रकाशः इत्यत्र यथा - शब्दद्वयमखण्डार्थं चन्द्ररूपमर्थं वक्ति । तथा सच्चिदानन्दशब्दः अखण्डं ब्रह्मरूपमर्थं वक्ति । यथा चयथेह ज्योतिश्चक्रे कश्चन्द्रः इति प्रश्ने = प्रकृष्टप्रकाशशब्दौ स्वार्थत्यागेनाखण्डां चन्द्रव्यक्तिं लक्षयतस्तथा किं ब्रह्मेत्याकाङ्क्षायां सच्चिदानन्दादिशब्दावपि इत्यर्थ: (सं० शा० १ । २२६ सु० टी०) । यथा च - शशाङ्कादिशब्दार्थसङ्कीर्त्तने शशाङ्कश्चन्द्र इत्यादिशब्दार्थस्योद्देशे सति यथा प्रकृष्टप्रकाशध्वनी लक्षणावर्त्मनैकां चन्द्रव्यक्तिमुपक्षिपेतां चन्द्रस्वरूपे जिज्ञासिते सति प्रकृष्टप्रकाशश्चन्द्र इति लक्षणनिर्देशेन जिज्ञासितश्चन्द्रस्वरूपपरे वाक्ये यथा प्रकृष्टपदं चापकृष्टाप्रकाशवत् वस्तुव्यावृतं चन्द्रप्रतिपादिकार्थं लक्षणया बोधयत इत्यर्थः (तत्रैव अ० टी०) । प्रजापतिः, प्रजापति विराट् । यथा - प्रजापतिर्विराट् (ब्र० सू० ४ । ३ । ३ क० त०) । यथा च – समस्तस्थूलाभिमानी विराट् समष्टिसूक्ष्मशरीराभिमानी हिरण्यगर्भः इति भेदः (तत्रैव क० त० परि०) । यथा च - प्रजापतिः कर्मज्ञानाधिकृतः पुरुषः । पुरुष एव उक्थमयमेव महान्प्रजापतिरिति श्रुत्यन्तरात् (छा० उ० १ ।२।१ शा० भा०) । प्रज्ञा, प्रज्ञा १. प्राणः (उपचारेण) । यथा - यो वै प्राणः सा प्रज्ञा । या वै प्रज्ञा स प्राणः । सः ह्येतावस्मिन् शरीरे वसतः सोत्क्रामतः इति....मामेव विजानीहि इत्युपक्रम्य प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व, इत्युक्त्वा अन्ते स एव प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः । इत्येकरूपावुपक्रमोपसंहारौ दृश्येते । तत्रार्थैकत्वं युक्तमाश्रयितुम् (ब्र० सू० १/१/३१ शा० भा०) । २. प्रज्ञा = बुद्धिः । यथा - प्रज्ञाः बुद्धयः नियन्ते शब्दादयः आभिरिति मात्रा इन्द्रियाणि (तत्रैव वे० क० त० ) । प्रज्ञानम्, प्रज्ञान १. (क) ब्रह्म । यथा च तदन्तःकरणोपाधिस्थस्योपलब्धप्रज्ञानरूपस्य ब्रह्मणः उपलब्ध्यर्थाः या अन्तःकरणवृत्तयो बाह्यान्तरवर्तिविषयविषयास्ता इमा उच्यन्ते (ऐ० उ० ५।२ शा० भा०) । (ख) ब्रह्मज्ञानं प्रज्ञानेनैनं प्रकृतमात्मानमाप्नुयात् । यस्तु दुश्चरिताद् विरत इन्द्रियलौल्याच्च समाहितचित्तः समाधानफलादप्युपशान्तमानसश्चाचार्यवान् प्रज्ञानेन यथोक्तमात्मानं प्राप्नोतीत्यर्थः (का० उ० २।२४ शा० भा० ) । यथा च - सर्वं तत्प्रज्ञानं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म (ऐत० ५ ३ ) । (ब्र० सू० ३।३।१७) । यथा च यः शरीरे प्रविष्टः परमेश्वर एष एव ब्रह्म परमात्मा प्रजापतिर्हिरण्यगर्भोऽप्येष एव । प्रज्ञा ब्रह्मचैतन्यं नीयतेऽनेनेति नेत्रं नियन्तृ यस्य तत् प्रज्ञानेत्रम् । प्रज्ञाने तस्मिन्नेवाधिष्ठाने प्रतिष्ठितम् । लोकोऽपि भूरादिप्रज्ञानेत्रःप्रज्ञानियन्तृकः । सैव प्रज्ञा सर्वस्य लोकस्य प्रतिष्ठाधिष्ठानम् । तच्च प्रज्ञानं ब्रह्म (ब्र० सू० ३।३।१७ क० त० ) । प्रज्ञानघनः, प्रज्ञानघन घनप्रज्ञः । मनोव्यापाराभावात् । हृत्स्मरणव्यापारोपरमः एकीभूतः । यथा - यथात्र तथास्वप्ने । अतो मनस्यन्तस्तु तैजसोऽपि विश्व एव । आकाशे च हृदि स्मरणाख्यव्यापारोपरमे प्राज्ञ एकीभूतो घनप्रज्ञ एव भवति । मनोव्यापाराभावात् दर्शनस्मरणे....परिच्छिन्नाभिमानिनामध्यक्षाणां च तेनैकत्वमिति पूर्वोक्तं विशेषणमेकीभूतः प्रज्ञानघन इत्युपपन्नम् (मा० उ० १ ४ शा० भा० ) । यथा च उपाध्युत्पत्त्यास्योत्पत्तिस्तालयेन च प्रलय इति । तथा च दर्शयतिप्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्यसंज्ञास्ति (बृ० आ० ४।५।१३) । यथा. च- तथोपाधिप्रलय एवायं नात्मविलय इति (ब्र० सू० २।३।१७ शा० भा० ) । प्रज्ञानं ब्रह्म, प्रज्ञान ब्रह्मन् वेदान्तस्य चत्वारि महावाक्यान्युच्यन्ते- ऐ० आ० -प्रज्ञानं ब्रह्म (ऋ० वे०) तत्त्वमसि (छा० उ० ६।८।७ सा० वे०) अहं ब्रह्मास्मि (बृ० आ० उ० १।४।१० य० वे०) अयमात्मा ब्रह्म (मा० उ० २ अ० वे०) एतेषु महावाक्येषु प्रज्ञानं ब्रह्म इति ऋग्वेदीयं महावाक्यम् । अस्यार्थो ब्रह्मणः स्वरूपं ज्ञानमिति । प्रज्ञामात्राः, प्रज्ञामात्राः इन्द्रियाणि (उपचारेण ) । यथा - प्रज्ञाशब्दः इन्द्रियाण्यप्युपलक्षयति । इन्द्रियेषु तज्ज्ञानेषु च दश प्रज्ञामात्राः इन्द्रियतज्जप्रज्ञाः अधिभूतेषु ग्राह्यग्राहकयोरन्योन्यापेक्षत्वादकल्पितत्वमतोऽद्वैतं तत्त्वमित्यर्थः (ब्र० सू० १/१/३१ वे० क० त० ) । यथा च - दशैव भूतमात्रा अधिप्रज्ञमित्यादिना ग्राह्यग्राहकाणामन्योन्यसापेक्षसिद्धित्वोक्त्यनन्तरं नो एतानानेति तदैक्योपसंहारादद्वैतं तत्त्वं दर्शितमिति भावः (तत्रैव वे० क० त० प० ) । प्रणय:, प्रणय ब्रह्मप्रापकः (उपचारेण) । यथा - प्रकृष्य नयः प्रणयः प्रत्यगर्थस्य भागलक्षणया विरूद्धांशाप्रकृष्य तत्पदार्थं प्रति नयनादित्यर्थः । यद्वा प्रणयो भक्तिस्तया हि प्रत्यगभिन्ने ब्रह्मणि चित्तमेकाग्रं भवति (सं० शा० १ सु० टी०) । प्रणवः, प्रणव उद्गीथः (आदित्यः) । यथा - अथ खलु य उद्गीथः स प्रणवो बह्वृचानां यश्च प्रणवस्तेषां स एव च्छान्दोग्य उद्गीथशब्दवाच्यः । असौ वा आदित्य उद्गीथ एष प्रणवः .....उद्गीथ आदित्यः (छा० उ० १/५/१ शा० भा० ) । प्रणश्यति, प्रणश्यति अन्तःकरणे नष्टे जीवभावो नश्यति । यथा - बुद्धिनाशाप्रणश्यति तावदेव हि पुरुषो यावदन्तःकरणं तदीयं कार्याकार्यविषयविवेकयोग्यं, तदयोग्यत्वे नष्ट एव पुरुषो भवत्यतस् तस्यान्तःकरणस्य बुद्धेर्नाशाप्रणश्यति (गी० २।६३ शा० भा० ) । प्रणिधानम्, प्रणिधान १. ध्यानविशेषः । चिन्तनविशेषरूपः । २. समाधिविशेषः तथा भक्तिविशेषः । यथा – ईश्वरप्रणिधानाद्वा (पा० यो० सू० १।२३) । ३. अर्पणम् । (४) कर्मणां फलत्यागः (पा० यो० सू० २।१) ।५. सुस्मूर्षया मनसोधारणम् (वात्स्या० ३।२।४२ अत्र सुस्मूर्षा च स्मर्तुमिच्छा) । प्रतिबिम्ब:, प्रतिबिम्ब बिम्बभूतस्य पदार्थस्य आदर्शजलादिस्वच्छद्रव्येषु प्रतिफलनम् । आदर्शजलादौ सूर्यमुखादेर्विम्बस्य प्रतिफलनं प्रतिबिम्बः । यथा- जलगतो हि सूर्यप्रतिबिम्बो जलवृद्धौ वर्द्धते जलहासे इसति जलचलने चलति जलभेदे भिद्यते (ब्र० सू० ३।२/२० शा० भा०) । यथा चोदशरावादिकम्पनात् तद्गते सूर्यबिम्बे कम्पमानेऽपि न तद्वान् सूर्यः कम्पते (ब्र० सू० २ । ३ । ४६ शा० भा० ) । रूपवद्रव्याणामेव प्रतिबिम्बः । भामतीकारोऽकथयद् रूपरसगन्धादीनां किदृशी प्रविबिम्बता । किन्तु शाङ्कराद्वैतिनो नीरूपस्यापि परब्रह्मणः प्रतिबिम्बत्वं स्वीकुर्वन्ति । यथा जले आकाशस्य । यथा - न च रूपहीनस्य ब्रह्मणो न प्रतिबिम्बसम्भवः । रूपवत एव तथात्वदर्शनादिति वाच्यम् । नीरूपस्यापि रूपस्य प्रतिबिम्बदर्शनात् । न च नीरूपस्य द्रव्यस्य प्रतिबिम्बाभावनियमः । आत्मनि द्रव्यत्वाभावस्योक्तत्वात् । ...... एकधा बहुधा चैव दृश्यते जलचन्द्रवत् । ब्र० वि० उप० १२ (वे० प० ७ प०) । यथा च - किं प्रतिबिम्बोपाधेर्वस्तुतो रूपवत्त्वं प्रतिबिम्बने प्रयोजकमिष्यते उत रूपवत्त्वेन ग्रहणम् । आद्ये नात्मनोऽन्तःकरणे प्रतिबिम्बनानुपपत्तिः । अन्तःकरणस्य त्रिवृत्करणेन पञ्चीकरणेन वा रूपवत्त्वात् । न द्वितीयः निजरूपवत्त्वेनागृह्यमाणेऽपि स्फटिकं सन्निहितजपाकुसुमप्रतिबिम्बनेन अरुणः स्फटिक इति व्यवहारदर्शनात् (ब्र० सू० १ । १ ।४ क० त० प०) । विवरणप्रस्थानस्यायं प्रतिबिम्बपक्षः। विवरणप्रमेयसङ्ग्रहे सिद्धान्तलेशसद्वितीय-परिच्छेदे च विशदं वर्णितोऽयं पक्षः । प्रतिबिम्बनम्, प्रतिबिम्बन प्रातबिम्बशब्दवत् । प्रतिबिम्बवादः, प्रतिबिम्बवाद शाङ्कराद्वैतवादे एकमेवाद्वितीयमित्यादिश्रुतिबलादेकमेव ब्रह्म परमार्थतः सर्वस्वम् । अविद्याद्वारा तदेकं ब्रह्म जीवजगदादिरूपेण प्रतीयते । एतप्रतीत्यर्थं त्रयो वादा अवलम्बिताः- प्रतिबिम्बवादः आभासवादः अवच्छेदवादश्च । तत्र प्रतिबिम्बवादः श्री पद्मपादाचार्यप्रकाशात्ममुनिसर्वज्ञात्ममुनिप्रभृतीनाम्, आभासवादः श्रीसुरेश्वराचार्यप्रभृतीनाम् ।अवच्छेदवादश्च श्रीवाचस्पतिमिश्रप्रभृतीनाम् ।प्रतिबिम्बवादे बिम्बस्थानीयं ब्रह्म तथा प्रतिबिम्बस्थानीयो जीवादिः । उपनिषद्ब्रह्मसूत्रादिषु सूर्यप्रतिबिम्बो दृष्टान्तेनोपन्यस्तः । यथा – तदुच्यते बृद्धिहासभाक्त्वमिति जलगतो हि सूर्यप्रतिबिम्बो जलबृद्धौ ह्रसति जलचलने चलति जलभेदे भिद्यते इत्येवं जलधर्मानुयायी भवति न तु सूर्यस्य तथात्वमस्ति (ब्र० सू० ३।२।२० शा० भा०) । यथा च - उदशरावादिकम्पनात्तद्गते सूर्यप्रतिबिम्बे कम्पमानेऽपि न तद्वान् सूर्यः कम्पते (ब्र० सू० २।३।४६ शा०भा० ) । यथा च बुद्ध्युपाधिस्वभावानुविधायी हि स चन्द्रादिप्रतिबिम्ब इव (बृ० उ० २।१।९ शा० भा०) । अयं प्रतिबिम्बवादः प्र० उ० ४९, क० उ० ६/२, मु० उ० ३।९ ऐ० उ० ३१ शा० भा० समर्थितः । पञ्चपादिकायाम्, पञ्चपादिकाविवरणे संक्षेपशारीरके च प्रतिबिम्बवादः स्वीकृतः । अवच्छेदवादे आभासवादे च काले काले भिद्यमानेनोपाधिना विभिद्यमानस्य जीवकर्मफलानुभवे कृतहानाकृताभ्युपगमादयो दोषाः प्रसज्येरन् । इमे दोषाः प्रतिबिम्बवादे न सम्भवन्ति । बहवो अद्वैतवेदान्तिनोऽवच्छेदाभासवादापेक्षया प्रतिबिम्बवादमेव समर्थयन्ति । प्रतिबिम्बस्येदं लक्षणम् दर्पणाद्युपाध्यन्तर्गतत्वे सत्यौपाधिकपरिच्छेदशून्यत्वे च सति बहिः स्थितस्वरूपकत्वम् । तथा बिम्बस्येदं लक्षणम् - उपाध्यनन्तर्गतत्वे सति उपाध्यन्तर्गतरूपाभिन्नवहिःस्थितत्वम् (सि० बि० १ न्यायरलावलीटीकायाम्) । यथा चोक्तम्- अज्ञानोपहितं बिम्बचैतन्यमीश्वरः। अन्तःकरणतत्संस्कारावच्छिन्नाज्ञानप्रतिबिम्बितं चैतन्यं जीव इति विवरणकाराः । अज्ञानप्रतिबिम्बितं चैतन्यमीश्वरः । बुद्धिप्रतिबिम्बितं चैतन्यं जीवः । अज्ञानानुपहितं तु बिम्बचैतन्यं शुद्धमिति संक्षेपशारीरककाराः । अनयोश्च पक्षयोर्बुद्धिभेदाज्जीवनानात्वम् । प्रतिबिम्बस्य च पारमार्थिकत्वाज्जहदजहल्लक्षणैव तत्त्वमादिपदेषु । इममेव च प्रतिबिम्बवादमाचक्षते (सि० वि० १) । पुनश्चात्रैवतस्य च प्रतिबिम्बस्य सत्यत्वमेवेति श्रुतिबिम्बवादिनः मिथ्यात्वमेवेत्याभासवादिनः । स्वरूपे तु न विवाद एवेत्यन्यदेतत् (सि० वि० १) पारमार्थिकबिम्बैकरूपे प्रतिबिम्बे सत्यत्वम् । आभासः स्वरूपतो मिथ्या लक्ष्यत्वेन सत्यः । अतः प्रतिबिम्बवादे उपाधेर्बाधः प्रतिबिम्बस्य अभेदः सामानाधिकरण्यं च । आभासे त्वेतद्वैपरीत्येन आभासस्य उपाधेश्च द्वयोबधिः । अत एव च प्रतिबिम्बवादे तत्त्वमसीतिमहावाक्यस्याखण्डार्थबोधे जहज्जहल्लक्षणा अभेदे सामानाधिकरण्यं च स्वीक्रियेते । आभासवादेतु तत्त्वमसि इति महावाक्यस्याखण्डार्थबोधे जहल्लक्षणबाधायां च सामानाधिकरण्यम् अङ्गीक्रियेते । एवमाभासप्रतिबिम्बयोः द्वयोरपि चैतन्यमूलकत्वमङ्गीक्रियते । किन्तु आभासस्य चैतन्यमूलकत्वं चितोऽधिष्ठानतया प्रतीयते न तु चैतन्यस्वरूपावगाहितया । प्रतिबिम्बस्य तु चैतन्यमूलकत्वं बिम्बमूलकत्वेन तथा स्वरूपतो बिम्बैकस्वरूपलक्षणेनापि प्रतीयते । एवमेव चिल्लक्षणराहित्येन आभासो न वस्तु संस्पर्शं लभते, किन्तु बिम्बलक्षणानुगतत्वेन प्रतिबिम्बं बिम्बसंस्पर्शि भवति तथापि यथार्थस्वरूपाग्रहणेन बिम्बाभिन्नं प्रतिबिम्बं प्रतीयते । अपरोऽपि भेदः - आभासवादे आभासस्योपाधेश्चैकरूप्येण अज्ञानाद्युपाधिरपि आभास एव मन्यते । किन्तु प्रतिबिम्बवादे प्रतिबिम्बस्यौपाधिकपरिच्छेदशून्यत्वेन अज्ञानाद्युपाधिः प्रतिबिम्बं न मन्यते । ब्रह्मसिद्धौ प्रथमकाण्डे श्रीमण्डनमिश्रेणापि प्रतिबिम्बवाद: समर्थितः दर्पणतलस्थमात्मानं विभक्तमिवात्मनं प्रत्येति । अपरोऽपि भेदः - आभासाय गुणस्य प्रकारस्य वापेक्षा । प्रतिबिम्बस्य कृते द्रव्यस्यापेक्षा । आभासे उपाधिः स्वगुणेन सर्वमुपाधेयं व्याप्नोति । आभासे आभास्यमाने उपाधेर्भिन्नतया अभिन्नतया न शक्यते वक्तुं केवलमाभासमात्रमेव शक्यते वक्तुम् । प्रतिबिम्बं तु बिम्बेन सह समानरूपम् । अयमेव विशेषः प्रतिबिम्बवादं विशिनष्टि ।आभासे उपाधिः स्वगुणं स्वस्मात् पार्थक्येन उपाधेये दर्शयति । यथा स्फटिके रक्तं पुष्पं रक्तिमानं दर्शयति । प्रतिबिम्बे तु उपाधिः स्वान्तःस्थतया उपाधेयं दर्शयति यथा दर्पणादिः । अत्र अविधा अन्तःकरणं वा स्वान्तःस्थतया चैतन्यं दर्शयति । पञ्चदश्यां तृप्तिप्रकरणे कू० दी० प्रक० चि० दी० प्रक० च आभासप्रतिबिम्बवादयोरैक्यमपि प्रतिपादितम् । बिम्बप्रतिबिम्बविषये श्रीमधुसूदनसरस्वतीभिरुक्तं यत् - अज्ञानोपहितं बिम्बचैतन्यमीश्वरः । अज्ञानप्रतिबिम्बितं चैतन्यं जीव इति वा अज्ञानानुपहितं शुद्धं चैतन्यमीश्वरः अज्ञानोपहितं च जीव इति वा मुख्यो वेदान्तसिद्धान्तः एकजीववादाख्यः । इममेव च दृष्टिसृष्टिवादमाचक्षते । अस्मिश्च पक्षे जीव एव स्वाज्ञानवशाज्जगदुपादानं निमित्तं च । दृश्यं च सर्वं प्रातीतिकम् । देहभेदाच्च जीवभेदभ्रान्तिः (सि० बि० १) प्रतिबिम्बवादपक्ष एकजीववादस्वीकारे एकस्य जीवस्य मोक्षे सर्वेषां मोक्षप्रसङ्गः स्यादिति शङ्का सि० बि० इत्थं समाहिता- एकस्यैव च स्वकल्पितगुरुशास्त्राद्युपहित श्रवणमननादिदार्यादात्मसाक्षात्कारे सति मोक्षः शुकादीनां मोक्षश्रवणं चार्थवादः । महावाक्ये च तत्पदमनन्तसत्यादिपदवदज्ञानानुपहितचैतन्यस्य लक्षणयोपस्थापकमित्याद्या अवान्तरभेदाः स्वयमूहनीयाः (तत्रैव) । माया तथा अविद्या भिन्नाभिन्नेति एकः पक्षस्तथा माया तथा अविद्या एकैवेति अपरः पक्षः । उभयोरेकत्वे एकेनैवोपाधिना कथं जीवेश्वरभेदः स्पादिति शङ्कायामेवमुच्यते यत् सा अविद्या विषयतासम्बन्धेन ईश्वरोपाधिस्तथा आश्रयतासम्बन्धेन जीवोपाधिः । अत एव जीवः स्वाश्रिताविद्यया जगत् कल्पयति । अयमेव दृष्टिसृष्टिवादः । अत एव च सर्वं दृश्यं प्रातिभासिकम् । विद्यारण्यस्वामी प्रतिबिम्बमसत्यं मनुते । यतोऽस्य मते दर्पणेऽनिर्वचनीयो मुखाभास उत्पद्यते । न तत्र छाया न वा तत्र स्वतन्त्रं द्रव्यमस्ति । तत्रोपादनकारणं तूलाविद्या । अत आभासस्यैव अपरं नाम प्रतिबिम्ब इति । विवरणकारमते बिम्बेन सह प्रतिबिम्बस्याभेदात् प्रतिबिम्ब: सत्यः । विद्यारण्यस्वामिमते प्रतिबिम्बस्याधिष्ठानं दर्पणावच्छिन्नं चैतन्यं विवरणकारमते च मुखावच्छिन्नं चैतन्यमधिष्ठानम् । आभासवादः प्रतिबिम्बवादश्च एक एव । अयं भेदः आभासवादे प्रतिबिम्बोऽनिर्वचनीयस्तथा प्रतिबिम्बवादे दर्पणस्थत्वविपरीतदेशाभिमुखत्वादिधर्माः अनिर्वचनीयाः । सर्वज्ञात्ममुनिः प्रतिबिम्बपक्षपाती । किन्त्वस्य मते एकैवाविद्या न नाना । तथापि यथा नित्या जाति: अनेकव्यक्तिसमवेता एकस्याः व्यक्तेर्विनाशेऽपरव्यक्त्याश्रिता भवति तथैव एकापि अविधा तत्तद्व्यक्तिनिष्ठा एकस्या व्यक्तेर्विनाशेऽपरव्यक्तौ तिष्ठति । अत्र संक्षेपशारीरककृतां विवरणकाराणां च मते प्रतिबिम्बवादस्य स्वरूपं वेदान्तपरिभाषाग्रन्थे इत्थमभ्यधायि - तदेवं स्वरूपतटस्थलक्षणलक्षितं तत्पदवाच्यमीश्वरचैतन्यं मायाप्रतिबिम्बितमिति केचित् । तेषामयमाशयःजीवपरमेश्वरसाधारणं चैतन्यमात्रं बिम्बम् । तस्यैव बिम्बस्याविद्यात्मिकायां मायायां प्रतिबिम्बमीश्वरचैतन्यमन्तःकरणेषु प्रतिबिम्बं जीवचैतन्यम् । कार्योपाधिरयं जीवः कारणोपाधिरीश्वर इति श्रुतेः । एतन्मते जलाशयगतशरावगतसूर्यप्रतिबिम्बयोरिव जीवपरमेश्वरयोर्भेदः । अविद्यात्मकोपाधेर्व्यापकतया तदुपाधिकेश्वरस्यापि व्यापकत्वम् । अन्तःकरणस्य परिच्छिन्नतया तदुपाधिकजीवस्यापि परिच्छिन्नत्वम् (वे० प० ७ प०) । एतत् संक्षेपशारीरककृतां मतानुसारम् । यथा च - एतन्मतेऽविद्याकृता दोषा जीव इव परमेश्वरेऽपि स्युरुपाधेः प्रतिबिम्बपक्षपातित्वादित्यस्वरसाद् बिम्बात्मकमीश्वरचैतन्यमित्यपरे । तेषामाशयः एकमेव चैतन्यं बिम्बत्वाक्रान्तमीश्वरचैतन्यं प्रतिबिम्बत्वाक्रान्तं जीवचैतन्यम् । बिम्बप्रतिबिम्बकल्पनोपाधिश्चैकजीववादे अविद्या, अनेकजीववादे तु अन्तःकरणान्येव । अविद्यान्तःकरणरूपोपाधियुक्तो जीवपरभेदः । उपाधिकृतदोषाश्च प्रतिबिम्बे जीव एव वर्तन्ते न तु बिम्बे परमेश्वरे । उपाधेः प्रतिबिम्बपक्षपातित्वात् । एतन्मते च गगनसूर्यस्य जलादौ भासमानसूर्यस्येव जीवपरयोर्भेदः (वे० प० ७ प०) । इदं विवरणप्रस्थानानुसारम् । एतन्मते जीवेश्वरयोरभेदेऽपि अविद्याकृतो भेदः । अत्र एकजीववादे अविद्योपाधिको जीवेशभेदः । प्रतिबिम्बस्य जीवत्वात् बिम्बस्य ईशत्वात् । नानाजीववादे तु अन्तःकरणतत्संस्कारावच्छिन्नाज्ञानोपाधिकस्य अन्तःकरणतत्संस्कारावच्छिन्नाज्ञानप्रतिबिम्बतचैतन्यस्य जीवत्वात् बिम्बस्य च ईशत्वात् । एवं च संक्षेपशारीरककृतो मते चैतन्यत्रयम् - शुद्धं चैतन्यम्, मायायां प्रतिबिम्बितं चैतन्यम् ईश्वरः, अन्तःकरणप्रतिबिम्बितं चैतन्यं जीवः । माया जगत्कारणमतः कारणोपाधिः, अविद्याकार्यम् अन्तःकरणमतः कार्योपाधिः । एवं चायमनेकजीववादः । एतन्मते अविद्याकृता दोषा जीव इव ईश्वरेऽपि प्रसज्येरन् । विवरणकारमते च बिम्बात्मकमेव ईश्वरचैतन्यम् । तेन ईश्वरे न अविद्याकृता दोषाः प्रभवन्ति । अवच्छेदवादे च ईश्वरस्य सर्वान्तर्यामित्वं न सिद्ध्येत । विवरणकारमते भामतीकारमते च चैतन्यद्वयं शुद्धचैतन्यं बिम्बं तथा प्रतिबिम्बचैतन्यं तथा अवच्छिन्नचैतन्यं जीवः । पञ्चदश्यां कू० दी० प्र० ३ तथा चि० दी० प्र० १८ श्लो० आभासपर्यायवाची प्रतिबिम्बशब्द इत्यप्याह । विशदज्ञानार्थस् अवच्छेदशब्द: आभासशब्दश्च द्रष्टव्यौ । प्रतिपत्तिः, प्रतिपत्ति सिद्धिः उत्पत्तिर्वा । यथा- "तस्मान्न प्रतिपत्तिविषयतया शास्त्रप्रमाणकत्वं ब्रह्मणः सम्भवतीत्यतः स्वतन्त्रमेव ब्रह्मशास्त्रप्रमाणकं वेदान्तवाक्यसमन्वयादिति सिद्धम् (ब्र० सू० १/१/४ शा० भा० ) । इतरथा तु धर्मजिज्ञासैवेति न शास्त्रान्तरमिति न शास्त्रारम्भत्वं स्यादित्यत आह प्रतिपत्तिविधिपरत्व इति" (तत्रैव भाम० ) । प्रतिप्रसवः, प्रतिप्रसव सर्गरहितः सृष्टिरहित उत्पत्तिरहितो वा । यथा - "पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति (पा० यो० सू० ४ । ३४)। यथा च - "यदा प्रकृतिपुरुषयोरन्यथाख्यातिर्भवति तथा सृष्टिर्न भवति सा स्थितिः प्रतिप्रसव उच्यते । कैवल्यं चोच्यत इति भावः" । प्रतिमा, प्रतिमा उपमानराहित्यम् । यथा - तस्य ब्रह्मणः प्रतिमा सदृशं वस्त्वन्तरं नास्ति यस्य (ब्र० सू० ४ । ३ । १५ क० त०) । यथा च - अब्रह्मक्रतवो यान्ति यथा पञ्चाग्निविद्यया ।ब्रह्मलोकं प्रयास्यन्ति प्रतीकोपासकास्तथा (ब्रह्मलोके कार्यब्रह्मलोके) । आश्रयान्तरप्रत्ययस्यान्तरे प्रक्षेपः प्रतीकः (तत्रैव भाम०) । यथा च - न च प्रतीकोपासको ब्रह्मोपास्ते सत्यति ब्रह्मेत्यनुगमे, किन्तु नामादिविशेषं ब्रह्मरूपतया (तत्रैव भाम० ) । यथा च - "न तस्य प्रतिमास्ति" (श्वेता० ४/१९) इति च ब्रह्मणोऽनुपमानत्वं दर्शयति (ब्र० सू० २ । ३ ।७ शा० भा० ) । यथा च - प्रतिमीयते यया सा प्रतिमा (गी० ११/४३ शा० भा० ) । प्रतिसंख्या, प्रतिसंख्या भावपदार्थविपरीता बुद्धिः । यथा - तदपि च त्रयं प्रतिसंख्याऽप्रतिसंख्यानिरोधावाकाशं चेत्याचक्षते । .....बुद्धिपूर्वकः किल विनाशो भावानां प्रतिसंख्यानिरोधो नाम भाष्यते (ब्र० सू० २।२।२२ शा० भा०) । यथा च - भावप्रतीपा संख्या बुद्धिः प्रतिसंख्या, तया निरोधः प्रतिसंख्यानिरोधः (तत्रैव भाम० ) । प्रति संचरः, प्रति संचर प्राकृतप्रलयः सृष्टिविलयो वा । यथा - प्रतिसंचरः प्रलयः (ब्र० सू० ३ । ३ । ३२ शा० भा०) । यथा च - ब्रह्मणा सह ते सर्वे प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदमिति स्मरणात् (ब्र० सू० ३।३।३२ शा० भा० ) । विशेषस्तु प्रलयशब्दे द्रष्टव्यः । प्रतिष्ठा, प्रतिष्ठा १ . चरणम् । यथा - प्रतिष्ठे पादौ प्रतितिष्ठत्याभ्यामिति ( बृ० आ० उप० ५/५/३ शा० भा० ) । २. आश्रयः आधारो वा । यथा - ब्रह्म पुच्छं प्रतिष्ठा । ३. ब्रह्मणः प्रतिष्ठा प्रत्यगात्मा (गी० १४/२६ शा० भा०) यथा च - यद् ब्रह्म प्रत्यगात्मनि प्रतितिष्ठति (तत्रैव आ० गि०) । ४. वेदप्रतिष्ठा ब्रह्म यथा- ब्रह्मणो वेदस्य प्रतिष्ठा तात्पर्येण पर्यवसानस्थानमहमेव (तत्रैव नी० क०) । ५. शुद्धं ब्रह्म । यथा - ब्रह्मणस्तत्पदवाच्यस्य सोपाधिकस्य जगदुत्पत्तिस्थितिलयहेतोः प्रतिष्ठा पारमार्थिकं निर्विकल्पकं सच्चिदानन्दात्मकं निरुपाधिकं तत्पदलक्ष्यमहं निर्विकल्पको वासुदेवः प्रतितिष्ठत्यत्रेति प्रतिष्ठा । कल्पितरूपरहितमकल्पितं रूपमतो यो मामानुपाधिकं ब्रह्म सेवते स ब्रह्मभूयाय कल्पत इत्युक्तमेव (तत्रैव म० सू०) । यथा च- अमृतादिस्वभावस्य परमात्मनः प्रत्यगात्मा प्रतिष्ठाः यस्मात्तस्मात् सम्यग्ज्ञानेन स परमात्मेति निश्चीयते तदेतद् ब्रह्मभूयाय कल्पते (तत्रैव श्रीधरी) । ६. प्रतिमा । यथा – हि यस्माद् ब्रह्मणोऽहं प्रतिष्ठा प्रतिमा घनीभूतं ब्रह्मैवाहम् । यथा - घनीभूतः प्रकाश एव सूर्यमण्डलं तवदेवेत्यर्थः (तत्रैव श्रीधरी) । प्रतिहारः, प्रतिहार १. आदित्यः प्रतिप्राण्यभिमुखः । यथा - आदित्यः प्रतिहारः। प्रतिप्राणि अभिमुखत्वान्मां प्रति - मां प्रतीति (छा० उ० २।२।१ शा० भा०) । २. प्राणिनां संहारः । शरप्रतिहारः रोगिणां मृतानां च- प्रतिहरणात् (छा० उ० २।६।१ शा० भा०) । प्रतीतिः, प्रतीति १. बुद्धिवदस्यार्थोऽनुसन्धेयः । २. ख्यातिः । ३. आदरः । ४. हर्षः (वाच०) । प्रत्यक्, प्रत्यक् जीवचैतन्यम् "प्रत्यक्चितिरहङ्कारोपलक्षितं जीवचैतन्यं त्वंपदलक्ष्यं सा विजयते सर्वस्मादुपरि तत्पदलक्ष्येऽभेदेनैव वर्त्तत इत्यर्थः (सं० शा० २ सु० टी०) । यथा च - प्रत्यगिति सर्वान्तरं चित्सदानन्दरूपमात्मतत्त्वमुच्यते" (सं० शा० ३ अ० का० टी० ) । यथा च - "प्रतीपमञ्चतीति प्रत्यक्त्वं तत्पदलक्ष्यं जीवचैतन्यम् (सं० शा० ३ सु० टी०) । यथा च तथा प्रतीचोऽहंकारादिसाक्षिणः स्वस्मिन् स्वाज्ञानाध्यस्तकार्योपाधिप्रयुक्तमेव.... इत्यर्थ: (सं० शा० ३।१४८ अ० टी०) । यथा च - पराञ्चि खानि व्यतृणत् स्वयंभूस्तस्मात् पराङ्पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृतचक्षुरमृतत्वमिच्छन् (क० ४।१ ) । इति । ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः (मु० ३।१।८) इति चैवमाद्या । स्मृतिरपि - यं विनिद्राजितश्वासाः सन्तुष्ठाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनमिति चैवमाद्या (ब्र० सू० ३।२।२४ शा० भा०) । प्रत्यक्षम्, प्रत्यक्ष अद्वैतिनये मनसोऽनिन्द्रियतया इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षमिति नाङ्गीक्रियते तथा मनस इन्द्रियत्वे अनुमित्यादेरपि मनोजन्यतया प्रत्यक्षत्वापत्तेस्तथा ईश्वरज्ञानस्यानिन्द्रियजन्यस्य प्रत्यक्षत्वानापत्तेश्च । विषयप्रत्यक्षस्येदं लक्षणं क्रियते - स्वाकारवृत्त्युपहितप्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्वशून्यत्वे सति योग्यत्वं विषयस्य प्रत्यक्षत्वम् । संयोगादीनां सम्बन्धानां चैतन्याभिव्यञ्जकवृत्तिजनने उपयोगः । यथा- सिद्धान्ते प्रत्यक्षत्वप्रयोजकं किमिति चेत्, किं ज्ञानगतस्य प्रत्यक्षत्वस्य प्रयोजकं पृच्छसि किं वा विषयगतस्य । आद्ये प्रमाणचैतन्यस्य विषयावाच्छिन्नचैतन्याभेद इति ब्रूमः । तथा हि त्रिविधं चैतन्यं विषयचैतन्यं प्रमाणचैतन्यं प्रमातृचैतन्यं चेति । तत्र घटाद्यवच्छिन्नं चैतन्यं विषयचैतन्यम्, अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यम् अन्तःकरणावच्छिन्नं चैतन्यं प्रमातृचैतन्यम् । तत्र यथा तडागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति । तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा निर्गत्य घटादिदेशं गत्वा घटादिविषयाकारेण परिणमते । स एव परिणामो वृत्तिरित्युच्यते । अनुमित्यादिस्थले तु नान्तःकरणस्य वह्न्यादिदेशगमनं बह्न्यादेश्चक्षुराद्यसन्निकर्षात् । तथा चायं घट इत्यादिप्रत्यक्षस्थले घटादेस्तदाकारवृत्तेश्च बहिरेकत्र देशे समवधानात् तदुभयावच्छिन्नं चैतन्यमेकमेव विभाजकयोरप्यन्तःकरणवृत्तिघटादिविषययोरेकदेशस्थत्वेन भेदाजनकत्वात् । अत एव मठान्तर्वर्तिघटावच्छिन्नाकाशो न मठावच्छिन्नाकाशाद् भिद्यते । तथा चायं घट इति घटप्रत्यक्षस्थले घटाकारवृत्तेर्घटसंयोगितया घटावच्छिन्नचैतन्यस्य तद्वृत्त्यवच्छिन्नचैतन्यस्य चाभिन्नतया तत्र घटज्ञानस्य घटांशे प्रत्यक्षम् । सुखाद्यवच्छिन्नचैतन्यस्य तद्वृत्त्यवच्छिन्नचैतन्यस्य नियतेनैकदेशस्थितोपाधिद्वयावच्छिन्नत्वात् नियमेनाहं सुखीत्यादिज्ञानस्य प्रत्यक्षत्वम् । अहं पूर्वं सुखीत्यादिस्मृतावतिव्याप्तिवारणाय वर्तमानत्वं विषयविशेषणं देयम् । ..... नन्वेवमपि स्वकीयधर्माधर्मौ वर्तमानौ यदा शब्दादिना ज्ञायेते तदा तादृशशाब्दज्ञानादावतिव्याप्तिः । तत्र धर्माद्यवच्छिन्नतद्वृत्त्यवच्छिन्नचैतन्ययोरेकत्वात् इति चेत, न । योग्यत्वस्यापि विषयविशेषणत्वात् । अन्तःकरणधर्मत्वाविशेषेऽपि किञ्चिदयोग्यं किञ्चिद् योग्यमित्यत्र फलबलकल्प्यः स्वभाव एव शरणम् । अन्यथा न्यायमतेऽप्यात्मधर्मत्वाविशेषात् सुखादिवद्धमदिरपि प्रत्यक्षत्वापत्तिर्दुर्वारा । पर्वतो वह्निमानित्यादौ च पर्वतांशे वह्न्यंशे चान्तःकरणवृत्तिभेदाङ्गीकारेण तत्तद्वृत्त्यवच्छेदकभेदेन परोक्षत्वापरोक्षत्वयोरेकत्र चैतन्ये वृत्तौ न विरोधः । तथा च तत्तदिन्द्रिययोग्यवर्तमानविषयावच्छिन्नचैतन्याभिन्नत्वं तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम् । घटादेर्विषयस्य प्रत्यक्षत्वं तु प्रमात्रभिन्नत्वम् । ननु कथं घटादेरन्तःकरणावच्छिन्नचैतन्याभेदः, अहमिमं पश्यामीति भेदानुभवविरोधादिति चेत् उच्यते प्रमात्रभेदो नाम न तदैक्यम् । किन्तु प्रमातृसत्तातिरिक्तसत्ताकत्वाभावः । तथा च घटादेः स्वावच्छिन्नचैतन्येऽध्यस्ततया विषयचैतन्यसत्तैव घटादिसत्ता । अधिष्ठानसत्तातिरिक्तसत्ताया अनङ्गीकारात् । विषयचैतन्यं च पूर्वोक्तप्रकारेण प्रमातृचैतन्यमेवेति प्रमातृचैतन्यस्यैव घटाद्यधिष्ठानतया प्रमातृसत्तैव घटादिसता नान्येति सिद्धं : घटादेरपरोक्षत्वम् । ..... नन्वेवमपि धर्माधर्मादिगोचरानुमित्यादिस्थले प्रत्यक्षत्वापत्तिः धर्माधवच्छिन्नचैतन्यस्य प्रमातृचैतन्याभिन्नतया धर्मादिसत्तायाः प्रमातृसत्तानतिरेकादिति चेत्, न । योग्यत्वस्यापि विषयविशेषणत्वात् । न चान्तःकरणतधर्मादीनां वृत्तिविषयत्वाभ्युपगमे केवलसाक्षिविषयत्वाभ्युपगमविरोध इति वाच्यम् । न हि वृत्तिं विना साक्षिविषयत्वं किन्त्विन्द्रियानुमानादिप्रमाणव्यापारमन्तरेण साक्षिविषयत्वम् । अत एवाहङ्कारटीकायामाचार्यैरहमाकारान्तःकरणवृत्तिरङ्गीकृता । अत एव च प्रातिभासिकरजतस्थले रजताकाराविद्यावृत्तिः साम्प्रदायिकैरङ्गीकृता । तथा चान्तःकरणतधर्मादिषु केवलसाक्षिवेधेषु वृत्त्युपहितत्वधटितत्वलक्षणस्य सत्त्वान्नाव्याप्तिः । तदयं निर्गलितोऽर्थःस्वाकारवृत्त्युपहितप्रमातृचैतन्यसत्तातिरिक्तसत्ताकशून्यत्वे सति योग्यत्वं विषयस्य प्रत्यक्षत्वम् (वे० प० १ प०) । प्रत्यक्षप्रमाणम्, प्रत्यक्षप्रमाण १ . यथा - तत्र प्रत्यक्षप्रमायाः करणं प्रत्यक्षप्रमाणम् । प्रत्यक्षप्रमा चात्र चैतन्यमेव यत्साक्षादपरोक्षाद् ब्रह्म ( बृ० ३।४।१ ) । इति श्रुतेः । अपरोक्षादित्यस्यापरोक्षमित्यर्थः । यथा च तदयं निर्गलितोऽर्थः, स्वाकारवृत्त्युपहितप्रमातृचैतन्यसत्ताऽतिरिक्तसत्ताकत्वशून्यत्ये सति योग्यत्वं विषयस्य प्रत्यक्षत्वम् । तत्र संयोगसंयुक्ततादात्यादीनां सन्निकर्षाणां चैतन्याभिव्यञ्जकवृत्तिजनने विनियोगः (वे० प० १ प०) । यथा च - घटादेः स्वावच्छिन्नचैतन्येऽध्यस्ततया विषयचैतन्यसत्तैव घटादिसत्ता, अधिष्ठानसत्ताऽतिरिक्ताया आरोपितसत्ताया अनङ्गीकारात् । विषयचैतन्यश्च पूर्वोक्तप्रकारेण प्रमातृचैतन्यमेवेति प्रभातृचैतन्यस्यैव घटाद्यधिष्ठानतया प्रमातृसत्तैव घटादिसत्ता नान्येति सिद्धं घटादेरपरोक्षत्वम् (वे० प० १ प्र०) । यथा च - पर्वतो बह्निमानित्यादौ च पर्वतांशे वन्यंशे चान्तःकरणवृत्तिभेदाङ्गीकारेण तत्तद्वृत्त्यवच्छेदकभेदेन परोक्षत्वापरोक्षत्वयोरेकत्र चैतन्ये वृत्तौ न विरोधः । तथा च तत्तदिन्द्रिययोग्यवर्तमानविषयावच्छिन्नचैतन्याभिन्नत्वं तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम् (तत्रैव) । यथा च - प्रत्यक्षं द्विविधम् - एवं साक्षाद्वैविध्येन प्रत्यक्षज्ञानद्वैविध्यम् । प्रत्यक्षत्वं च ज्ञेयगतं ज्ञाप्तिगतं चेति निरूपितम् (तत्रैव ) । यथा च - प्रत्यक्षं द्विविधम् - सविकल्पकनिर्विकल्पकभेदात् । तत्र सविकल्पकं वैशिष्ट्यावगाहिज्ञानं यथा घटमहं जानामीत्यादि ज्ञानम् । निर्विकल्पकं तु संसर्गानवगाहिज्ञानम् (तत्रैव ) । यथा च - तच्च प्रत्यक्षं पुनर्द्विविधं जीवसाक्षि ईश्वरसाक्षि चेति । तत्र जीवो नामान्तःकरणावच्छिन्नं चैतन्यम् । तत्साक्षि तु अन्तःकरणोपहितं चैतन्यमन्तःकरणस्य विशेषणत्वोपाधित्वाभ्यामनयोर्भेदः (तत्रैव ) । यथा च - नित्यापरोक्ष इत्यर्थः । चित्स्वरूपस्यात्मनः परोक्षे हेत्वभावात् सर्वावस्थानानुसंधानप्रसंगाच्चेति भावः (सं० शा० १ ।२३९ अ० टी०) । २. प्रतिविषयाध्यवसायः प्रत्यक्षम् (सा० का० ४) । इति सांख्याः । ३. साक्षात् धीः इति प्राभाकराः । ४. अक्षमक्षं प्रतीत्योत्पद्यत इति प्रत्यक्षम् । अक्षाणि - इन्द्रियाणि । अतः इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् (गौ० सू० १/१।४)। तदुत्पत्तिप्रकारस्तु आत्मा मनसा युज्यते, मनः इन्द्रियेण इन्द्रियमर्थेन ततः प्रत्यक्षं ज्ञानमुत्पद्यते । अत प्रत्यक्षत्वञ्च ज्ञानत्वव्याप्यजातिविशेषः । अपरञ्च ज्ञानाकरणकं ज्ञानं प्रत्यक्षमिति न्यायवैशेषिकाः । प्राभाकरमते साक्षात्वं न जातिः, न्यायवैशेषिकमते तु साक्षात्वं जातिविशेषः । प्रत्यक्षभेदः, प्रत्यक्षभेद १. प्रथमं प्रत्यक्षं निर्विकल्पकसविकल्पकभेदेन द्विविधं ततः पुनः जीवसाक्षि तथा ईश्वरसाक्षि इति भेदेन द्विविधम् । यथा- तच्च प्रत्यक्षं द्विविधं सविकल्पकनिर्विकल्पकभेदात् । तत्र सविकल्पकं वैशिष्ट्यावगाहिज्ञानम् । यथा घटमहं जानामीत्यादिज्ञानम् । निर्विकल्पकं तु संसर्गानवगाहि ज्ञानम् । यथा सोऽयं देवदत्तः तत्त्वमसीत्यादि वाक्यजन्यज्ञानम् । ननु शाब्दमिदं ज्ञानं न प्रत्यक्षमिन्द्रियाजन्यत्वात् इति चेत् । न । न हि इन्द्रियजन्यत्वं प्रत्यक्षत्वे तन्त्रं दूषितत्वात् । ....तच्च प्रत्यक्षं पुनर्द्विविधम् - जीवसाक्षि ईश्वरसाक्षि चेति । तत्र जीवो नामान्तःकरणावच्छिन्नं चैतन्यम् । तत्साक्षि तु अन्तःकरणोपहितं चैतन्यम् । अयं च जीवसाक्षी प्रत्यात्मं नाना । ....ईश्वरसाक्षि तु मायोपहितं चैतन्यम् ।..... तच्चैकम् । तदुपाधिभूतमायाया एकत्वात् । मायावच्छिन्नं चैतन्यं परमेश्वरः । मायाया विशेषणत्वे ईश्वरत्वम् उपाधित्वे साक्षित्वमिति । ईश्वरत्वसाक्षित्वयोर्भेदः, न तु धर्मिणोरीश्वरतत्साक्षिणोः ।.... उक्तं प्रत्यक्षं प्रकारान्तरेण द्विविधम् - इन्द्रियजन्यं तदजन्यं चेति । तत्रेन्द्रियाजन्यं सुखादिप्रत्यक्षम् । मनस इन्द्रियत्वनिराकरणात् (वे० प० १५०) । २. ज्ञानाकरणकं ज्ञानं प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तद्विविधं सविकल्पकं निर्विकल्पकं चेति (त० सं० प्र० ख०) । प्रत्यग्गुणा, प्रत्यग्गुणा प्रत्यगात्मरूपा । यथा - अन्तर्गुणेत्यस्य व्याख्या प्रत्यग्गुणेति प्रत्यगात्मरूपेत्यर्थः (सं० शा० ३।२२१ अ० टी० ) । प्रत्यनुमानम्, प्रत्यनुमान प्रतिपक्षानुमानम् । यथा पर्वतो बह्निमान् धूमादिति वादिनोक्ते पर्वतो बह्न्यभाववान् पाषाणमयत्वादिति प्रतिवादिनः प्रतीपानुमानम् । प्रथमजम्, प्रथमज महत् तत्त्वम्, बुद्धिः । यथा - महत्तत्वाख्यम् (तै०३० २।४ शा०भा०) । प्रद्राणकः, प्रद्राणक कुगतिः, मृत्युः । यथा - द्रा कुत्सायां गतौ । कुत्सितां गतिं गतोऽन्त्यावस्थां प्राप्त इत्यर्थः (छा० उ० १।१०।२ शा० भा० ) । प्रध्वंसाभावः, प्रध्वंसाभाव चतुर्विधेष्वभावेष्वन्यतमः । यथा-तत्रैव घटस्य मुद्गरपातानन्तरं योऽभावः स प्रध्वंसाभावः । ध्वंसस्यापि स्वाधिकरणकपालनाशे नाश एव । न चैवं घटोन्मज्जनापत्तिः । घटध्वंसस्यापि घटप्रतियोगिकध्वंसत्वात् । अन्यथा प्रागभावध्वंसात्मकघटस्य विनाशे प्रागभावोन्मज्जनापत्तिः (वे० प० ६ प०) । प्रपञ्चधर्माः, प्रपञ्चधर्म प्रपञ्चः भूतभौतिकविस्तारस्तस्य धर्मः जडत्वादि । यथा अत्रानृतत्वं बाध्यत्वं जडत्वमचेतनत्वमन्तवत्त्रयं देशकालस्वरूपपरिच्छेद इति प्रपञ्चधर्मा: (सं० शा० १ सु० टी० ) । प्रभवः, प्रभव १ (क) प्रभुशक्तिः । उत्पत्तिश्च । यथा- मम प्रभवं प्रभावं प्रभुशक्त्यतिशयम्, अथवा प्रभवं प्रभवनमुत्पत्तिः (गी० १०/२ शा० भा० ) । प्रभवं प्रभुशक्त्यतिशयं प्रभवनमुत्पत्तिमनेकविभूतिभिराविर्भावं वा (तत्रैव म० सू०) । यथा च- अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभव उत्पत्तिःभत्त एव स्थितिनाशक्रियाफोपभोगलक्षणं विक्रियारूपं सर्वं जगत् प्रवर्त्तते (गी० १०/८ शा० भा० ) । यथा च - अहमेव सर्वस्य जगतः प्रभव उत्पत्तिः (तत्रैव नी० क०) । यथा च - प्रभव उत्पत्तिकारणमुपादानं निमित्तं च (तत्रैव म० सू०) । यथा च - प्रभवनमिति प्रभव उत्पत्तिः । यद्वा प्रकर्षेण भवत्यनेनेति प्रभवः (तत्रैव ९।१९ भाष्यो०) (ख) जगतः प्रभव उत्पत्तिः प्रलयो विनाशस्तथा प्रकृतिद्वारेणाहं सर्वज्ञ ईश्वरो जगतः कारणमित्यर्थः (तत्रैव ६।६ शा० भा०) । एवमेव तत्रैव नी० क० तथा श्रीधरी । प्रभातम्, प्रभात स्वयंप्रकाशः । यथा - स्वयमेव प्रभातं भवति नादित्याद्यपेक्षम्..... सकृद् विभावतः सदैव विभात इत्येतत् (मा उ० मा० का० ४।९१ शा० भा० ) । प्रमा, प्रमा १. अबाधितानधिगतज्ञानविषयकं ज्ञानम् । यथा - तत्र प्रमाकरणं प्रमाणम् । तत्र स्मृतिव्यावृत्तं प्रमात्वम्, अनधिगताबाधितविषयज्ञानत्वम् । स्मृतिसाधारणं तु अबाधितविषयज्ञानत्वम् (वे० प० १ १०) । इति अद्वैतवेदान्तिनः । २. तद्वति तप्रकारकोऽनुभवो यथार्थः । सैव प्रमेत्युच्यते (त०सं०प्र०ख०) इति न्यायवैशेषिकाः । अत्र एतप्रमात्वं द्विविधं मन्यते - आंशिकप्रमात्वम्, सर्वांशे प्रमात्वमथवा प्रमात्वं नाम भ्रमसामान्यभिन्नत्वमिति । यथा च प्रमाभ्रमभिन्नं न ज्ञानम्, न चात्मस्वरूपं ज्ञानं प्रमा तद्विषयस्याविद्यादेस्तात्विकत्वापातात्, न च अप्रमा दोषजन्यत्वापातात् इति चेत्, न (अ० सि०) । यथा च - प्रमा त्रिकालाबाध्यविषयकत्वघटितप्रमात्वाश्रयः । दोषेति । सिद्धान्ते प्रमात्वस्य स्वतस्त्वस्वीकारेण गुणजन्यतावच्छेदकत्वेन प्रमाया गुणजन्यत्वं नापादितम्, भ्रमस्य तु दोषजन्यत्वं सिद्धान्ते स्वीक्रियते (तत्रैव गौ० ब्र०) । यथा च - त्रिकालाबाध्यविषयकत्वघटितप्रमात्वाश्रयः (तत्रैव ल० च०) । इत्यद्वैतवेदान्तिनः । २. अनधिगतार्थस्य वस्तुनोऽवधारणमिति । ३. पुरुषनिष्ठबोधः प्रमा इति च सांख्ययोगविदः । ४. अनुभव:- (क) यदर्थविज्ञानम्, सा प्रमा (वात्स्या० १।१।१) । प्रस्तावना सा च द्रष्टव्यादिविषयं ज्ञानम् (यथार्थम्) (प्रशस्त पृ० २६) । लक्षणञ्च वक्ष्यमाणं प्रमात्वमेव इति विज्ञेयम्....। (ख) तत्त्वानुभवः । (ग) यत्र यदस्ति तत्र तस्यानुभवः तद्वति तप्रकारानुभवो वा (चि० १ पृ० ४००) (त० सं०) फलितार्थस्तु तद्वति तद्विशेष्यकत्वावच्छिन्नतत्प्रकारताशाल्यनुभवः इति । विशेष्यतासम्बन्धेन तदवच्छिन्ना या तत्प्रकारिता तच्छाल्यनुभवः इति वा । तेन रजतरङ्गयोः इमे रङ्गरजते इत्यादिविपरीतसमूहालम्बनभ्रमे नातिव्याप्तिः (मू० म० १ प्रमा पृ० ४०३ ) । निर्विकल्पकज्ञानं तु प्रमा अप्रमा एतद्बहिर्भूतमेव । व्यवहारानङ्गत्वात् (चि० १ प्रमा पृ० ४०२) । एवञ्च निर्विकल्पकं प्रमालक्षणलक्ष्यमेवेति । तस्य प्रकारिताविशेष्यितादिशून्यत्वेऽपि न तत्रातिव्याप्तिशंका इति भावः । (घ) यथार्थानुभवः (ता० २०) (त० भा०) (न्या० म० १ पृ० १) (त० सं०) (त० कौ० पृ० ७) यथा रजते इदं रजतमिति प्रत्यक्षं प्रमा ( त० सं० ) । अत्र यथार्थ्यं च तदवति तदवगाहित्वम् (त० सं० ) । (ङ) विषयताश्रयावृत्त्यप्रकारकानुभवः । (च) विशेष्यनिष्ठात्यन्ताभावाप्रतियोगिप्रकारकविषयताप्रतियोगी । (छ) विशेष्यनिष्ठात्यन्ताभावप्रतियोगिप्रकारानवच्छिन्न विषयताप्रतियोगी वा । (ज) विषयतासमानाधिकरणात्यन्ताभावप्रतियोगिप्रकारकविषयत्वाप्रतियोगी वा । (झ) विषयतासमानाधिकरणात्यन्ताभावप्रतियोगिप्रकारानवच्छिन्नविषयताप्रतियोगी वा अनुभवः (चि० १ प्रामा० पृ० ४००-४२०) । एकधर्मावच्छिन्नतत्तदभावोभयवन्निष्ठविशेष्यताकं द्रव्यं रजतमित्यादि ज्ञानं न लक्ष्यमिति मते छ, ज इत्यादीनि लक्षणानि (मू० न० १ प्रामा पृ० ४५०) (न्यायकोशः) । प्रमाणम्,प्रमाण अनधिगतस्याबाधितस्यार्थस्य बोधनम्, यथा- अनधिगतावबोधनं हि प्रमाणम् (ब्र० सू० ४।४।१ भाम०) । यथा च तत्र प्रमाकरणं प्रमाणम्, तत्र स्मृतिव्यावृतं प्रमात्वमनधिगताबाधितविषयज्ञानत्वम् । स्मृतिसाधारणं त्वबाधितविषयज्ञानत्वम् । नीरूपस्यापि कालस्येन्द्रियवेद्यत्त्वाभ्युपगमेन धारावाहिकबुद्धेरपि पूर्वपूर्वज्ञानाविषयतत्तत्क्षणविशेषविषयकत्वेन न तत्राव्याप्तिः (वे० प० १ प०) । यथा च – अन्तःकरणवृत्त्यवच्छिन्नचैतन्यं तु प्रमाणम् (अ० सि० १ प० ) । यथा च - तानि च प्रमाणानि षट् प्रत्यक्षानुमानोपमानागमार्थापत्त्यनुपलब्धिभेदात् (वे० प० १ प०) । इत्यद्वैतवेदान्तिनः । दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि (सां० का० ४) इति (सांख्यविदः) । प्रत्यक्षानुमानागामाः प्रमाणानि (पा० यो० सू० ११७) (इति योगविदः) । तत्करणमपि चतुर्विधम् प्रत्यक्षानुमानोपमानशाब्दभेदात् (त० सं० प्र० ख ) । अत्र न्यायबोधिन्याम् - प्रत्यक्षादिचतुर्विधप्रमाणानां प्रमाकरणत्वं सामान्यलक्षणम् । एकैकप्रमाणलक्षणं तु वक्ष्यते प्रत्यक्षज्ञानेत्यादिना । अत्र दीपिकायाम् - प्रमायाः करणं प्रमाणमिति प्रमाणसामान्यलक्षणम् (इति न्यायवैशेषिकाः) । १. (क) प्रमाता येनार्थं प्रमिनोति तत् (वात्स्या० १।१।१ प्रस्तावना) । (ख) प्रमायाः करणम् (न्या० मु० पृ० १) (त० सं०) (त० भा० पृ० ४) (त० कौ० पृ० ८) । यथा चक्षुरादिप्रत्यक्षात्मकप्रमायाः प्रमाणम् । अनुमितौ च लिङ्गदर्शनं प्रमाणम् । उपमितौ च सादृश्यज्ञानं प्रमाणम् । शाब्दे च वेदाः प्रमाणमित्यादौ शब्दः प्रमाणम् । अत्रेदं बोध्यम् । इन्द्रियसंयोगादिरेव प्रमाकरणम् । न तु प्रमातृप्रमेयादीनि । सत्यपि प्रमातरि प्रमेये च प्रमानुत्पत्तेः इन्द्रियसंयोगादौ तु सत्यबिलम्बेन प्रमोत्पत्तिः अतः इन्द्रियसंयोगादिरेव करणम् । न प्रमात्रादि (त० भा० पृ० ५) (ग) - साधनाश्रयाव्यतिरिक्तत्वे सति प्रमाव्याप्तम् । अनेन च प्रतितन्त्रसिद्धान्तसिद्धम् परमेश्वरप्रामाण्यम् सगृहीतम् (सर्व० द० सं० अक्ष० ) ( कु० टी० ४/५) । अत्र सूत्रम् - मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्(गौ०२।१।६८) ।(घ) प्रमायोगव्यवच्छिन्नम् - प्रमया सह योगव्यवच्छदेन सम्बन्धि । (ङ) अवधिगतार्थं गन्तृप्रमाणमिति भाट्टमीमांसका आहुः (सि० च० १ पृ० २०). (कु० टी० ४/५) (तत्त्वसंख्या) । तदसत् । न्यायनये प्रमाणानि चत्वारि प्रत्यक्षम्, अनुमानम्, उपमानम् शब्दश्च (गौ० १ । १ ।३) । यप्रमाणं तत्प्रत्यक्षादिचतुष्टयान्यतममिति वाक्यार्थः । तेन न्यूनाधिकसंख्याव्यवच्छेदलाभः (म० प्र० १ पृ० ६) । अत्रेदं बोध्यम् - नित्यप्रमायाः आश्रयः समवायिप्रमाणमीश्वरः । अनित्यप्रमायास्तु कारणं प्रत्यक्षादिचतुष्टयम् (ता० र० श्लो० ४) । इति । प्रमीयते परिच्छिद्यते अनेनेति प्रमाणम् । तच्च द्विविधं मानसं दैविकञ्च (मिताक्षरा २ । २२ ) । प्रकारान्तरेण प्रमाणं द्विविधम् - शब्दोपजीवि शब्दानुपजीवि च (कु० टी०) । इदानीं मतभेदेन प्रमाणसंख्या कथ्यते । प्रत्यक्षमेकमेव प्रमाणमिति चार्वाकाः आहुः प्रत्यक्षमनुमानं चेति द्वे प्रमाणे इति कणादप्रधाना वैशेषिकाः मन्यन्ते । एतन्मते शब्दोपमानयोरनुमानविधयैव प्रामाण्यम् । न तु स्वातन्त्रेणेति बोध्यम् (त० कौ० पृ० ८) । प्रत्यक्षमनुमानमेवेति बौद्धाः आर्हताश्च मन्यन्ते । लौकिकमार्षं च द्विविधं प्रमाणमिति सांख्या मन्यन्ते । तत्र लौकिकं प्रत्यक्षानुमानाप्तवचनानि । आर्षं विज्ञानम् । प्रत्यक्षं शब्दश्चेति द्वे प्रमाणे इति श्रीमदानन्दतीर्थभगवत्पादाचार्या प्राहुः । एतन्मते त्वनुमानं श्रुत्यनुसारित्वेन प्रमाणं न तु स्वातन्त्र्येणेति बोध्यम् । मानुषदैवभेदेन द्विविधं प्रमाणम् (याज्ञ० २।१।१६) । इति व्यवहारशास्त्रज्ञा आहुः । प्रत्यक्षानुमानं शाब्दं चेति मन्वादयः आहुः। अत्र अलौकिके विषये वेदो ब्रह्मसूत्रं भगवद्गीता श्रीमद्भागवतमितिप्रमाणचतुष्टयमिति वाल्लभा मन्यन्ते । प्रत्यक्षमनुमानमाप्तवचनमिति त्रीणि प्रमाणानि इति सांख्याः योगिनश्च । तत्र सांख्यपातञ्जलमायावादिमते अन्तःकरणवृत्तीनां पौरुषेयचित्तवृत्तिः प्रकाशरूपबोधे कारणम् । अन्तःकरणवृत्तिषु च ज्ञानत्वारोपेण तत्करणत्वमिन्द्रियाणामिति विवेकः (सां० प्र० भा०) । (पात० सू० ) । प्रत्यक्षानुमानोपमानानि त्रीणि इति नैयायिकैकेदेशिनः आहुः । प्रत्यक्षानुमानोपमानशब्दाश्चत्वारि प्रमाणानि इति गौतमप्रधाना नैयायिका आहुः । शब्दात् प्रत्येमीति विलक्षणप्रतीतेर्व्याप्तिनिरपेक्षादाकाङ्क्षादिज्ञानादुत्पत्तेस्तत्कारणतया शब्दस्यातिरिक्तं प्रमाणं सिद्ध्यति नैयायिकसिद्धान्तः । तत्र शब्दस्य स्वतन्त्रप्रामाण्यमुक्तम् । आप्तोपदेशसामर्थ्याच्छब्दादर्थसम्प्रत्ययः (गौ०२/१/५०) । प्रत्यक्षानुमानोपमानशब्दार्थापत्तिश्चेति पञ्च प्रमाणानि इति प्राभाकरा: आहुः । प्रत्यक्षानुमानोपमानशब्दार्थापत्तिरनुपलब्धिश्चेति षट् प्रमाणानि इत्यपरे भाट्टा वेदान्तिनश्चाहुः । सम्भवैतिह्ये अप्यतिरिक्ते प्रमाणम् इति पौराणिका आहुः । चेष्टाप्यतिरिक्तं प्रमाणमिति तान्त्रिका अमन्यन्त (ता० २० श्लो० ८-११) (सि० च० १ पृ० २०) । अनुभूतिरपि प्रमाणम् इति प्राभाकरा आहुः । केचित्तु शकुनलिप्यादिकमपि प्रमाणान्तरमिच्छन्ति । उपक्रमोऽनुमानमेव नातिरिक्तं प्रमाणमिति (प्र० प० पृ० ५) (प्र० च० पृ० ४४) २. प्रमा (यथार्थज्ञानम्) । यथा स्वतः प्रामाण्यं परतः प्रामाण्यमित्यादौ प्रमाणपदार्थः । ३. सत्यवादी । ४. इयत्ता । ५. परिच्छेदः । ६. हेतुः । ७. प्रमाता (मेदिनी) । ८. विष्णुः (विष्णु स०) (न्यायकोशः पृ०३०१-३०५) । प्रमाणान्तरम्, प्रमाणान्तर स्वतन्त्रप्रमाणम् । यदसाधारणं सहकारि समासाद्य मनोबहिर्गोचरां प्रमां जनयति तत् । यथा प्रत्यक्षमिन्द्रियं प्रमाणान्तरम् । संशयस्वप्नौ तु न प्रमे इति न निद्रादेः प्रमाणान्तरत्वम् (चि० २ पृ० ३५) (कु० टी० ४) । (न्यायकोशः पृ० ३०६) । प्रमाता, प्रमातृ चैतन्यम् । यथा - येन प्रमात्रा इदं सर्वं वस्तु विजानाति लोकः (ब्र० सू० १ ।१ ।४ वे० क० त० ) । यथा च - अन्तःकरणवृत्तिप्रतिबिम्बनं तदवच्छिन्नं वा चैतन्यमेव प्रमाता (वे० प० १ प०) । यथा च अधिकारी तु विधिवदधीतवेदाङ्गत्वेनापाततोऽधिगताखिलवेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुरस्सरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गतनिखिलकल्मषतया नितान्तनिर्मलस्वान्तः साधनचतुष्टयसम्पन्नः प्रमाता ( वे० सा० ) । यथा च - अविद्योपाधिकं साक्षित्वं बुद्ध्यादिकं च प्रमातृत्वमतो द्वयमपि कल्पितमित्यर्थः (सं० शा० ३ । १३२ सु० टी०) । यथा च - नैल्यस्य यावत्पटमनुवृत्तेः स्वाभाविकता न तु सुषुप्तौ व्यभिचारिणः साक्षित्वादेरित्यर्थः । ननु सुषुप्तावविद्यायाः सत्त्वात्कथं तदुपाधिकसाक्षित्वाभाव इति । तत्राह – यद्धेतुकमिति । न तदविद्यामात्रापेक्षमपि तु साक्ष्यमपेक्षत इत्यर्थः (सं० शा० ३।१३२ सु० टी०) । इत्यद्वैतवेदान्तिनः । बुद्धिप्रतिविम्बतं चेतनं प्रमाया आश्रयत्वेन प्रमाता कथ्यते । (पा ० पो० सू० १ । ७) इति साङ्ख्ययोगविदः । अधिकं तु प्रमाशब्दे द्रष्टव्यम् । यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः सः (वात्स्या० १।१ ।१ प्रस्तावना) । सच प्रमाता आत्मा (प्रशस्त० पृ० २६) । यथा चैत्रो घटं प्रमिनोतीत्यादौ चैत्रःप्रमाता । .अत्र प्रमातृत्वं च प्रमासमवायित्वम् । एतच्चाकारणत्वेऽपि प्रमाया ईश्वरस्य सिद्धम् ( कु० टी० ४।५) । अत्रेदं बोध्यम् । प्रमाता स्वतन्त्रः । स्वातन्त्र्यं च कारकफलोपभोक्तृत्वम् (न्या० वा० १ पृ० ९) इति । ( न्यायकोशः पृ० ३०७) इति । प्रमातृ, प्रमातृ अन्तःकरणावच्छिन्नचैतन्यं प्रमातृ । यथा - यद्यपि विषयप्रकाशकं विषयाधिष्ठानभूतं प्रमेयचैतन्यम्, अन्तःकरणावच्छिन्नचैतन्यं तु तस्य प्रमातृ, अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं तु प्रमाणम् (अ० सि० ) । यथा च - तथाहि त्रिविधं चैतन्यम् - विषयचैतन्यम्, अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यम्, अन्तःकरणावच्छिन्नं चैतन्यं प्रमातृचैतन्यम् (वे० प० १ प०) । प्रमात्वम्, प्रमात्व १ यथार्थज्ञानत्वम् । यथा- तत्र प्रमाकरणं प्रमाणम् । तत्र स्मृतिव्यावृतं प्रमात्वम्- अनधिगताबाधितविषयज्ञानत्वम् । स्मृतिसाधरणं तु अबाधित विषयज्ञानत्वम् । (वे० प० १ प०) । यथा च - प्रमाणलक्षणस्य प्रमाघटितत्वात् प्रथमं तावत् प्रमात्वं निरूप्यते । तत्र अभिव्यक्तचैतन्यस्यैव प्रमात्वं तस्यैव अज्ञानविरोधित्वात् । अतोऽज्ञानविरोधिचैतन्यस्यैव प्रमात्वमुच्यते । अन्तःकरणपरिणामरूपाया वृत्तेस्तु जडत्वात् नाज्ञानविरोधित्वमिति न प्रमात्वम् । किन्तु प्रमाकरणत्वेन तस्याः प्रमाणत्वम् । इन्द्रियादेः प्रमाणत्वव्यवहारस्तु प्रमाणजनकतया गौणो विज्ञेयः । न्यायरत्नावलीकाराणामपि एतदभिमतम्- चक्षुरादेः प्रमाणत्वव्यवहारस्तु वृत्तिजनतयौपचारिक इति स्थितिः । तथापि प्रत्यक्षपरिच्छेदे चैतन्यस्य प्रमात्वम्, अनुमानपरिच्छेदे वृत्तेः प्रमात्वं दर्शितवान् ग्रन्थकारः । तत्र स्वाकारवृत्त्यमिव्यक्तचैतन्यस्य प्रमात्वे वृत्तेः करणत्वम्, व्यापारस्तु वृत्तिविषययोः स च सर्वप्रमाणसाधारणः । वृत्तेः प्रमात्वे तु करणानि इन्द्रियाणि व्याप्तिज्ञानादीनि च । व्यापारस्तु विषयेन्द्रियसम्बन्धरूपो व्याप्तिसंस्कारादिरूपश्च (तत्रैव श्रीगजाननशास्त्रिकृतटिप्पणी) (ख) प्रमीयते यत् तत् प्रमाणमिति भावव्युत्पत्त्या प्रमाणमेव प्रमा तथा प्रामाण्यमेव प्रमात्वम् । यथा - स्वतः प्रामाण्यविचारो हि संशयातिरिक्तं ज्ञानसामान्यमुद्दिश्यैव न तु प्रमाणानि अधिकृत्य । तथा च न्यायरत्नमालायाम् - यदि प्रामाणान्येव विषयीकृत्य चिन्त्येरन् ततो यानि उभयोः प्रमाणतया प्रसिद्धानि तेषामेव प्रामाण्यं स्वतः इत्येतावत् सिद्धयेत् । ततश्च वेदस्य उभयवादिसिद्धप्रामाण्याभावेन विचाराविषयत्वात् नास्य स्वत आमाण्यं साधितं स्यात् । तत्र वेदप्रामाण्यानुपयोगिन्याश् चिन्तायाः काकदन्तपरीक्षावदकर्तव्यता स्यात् । ज्ञानमात्रं त्वधिकृत्य स्वतःप्रामाण्ये परतश्च अप्रामाण्ये साध्यमाने वेदस्यापि स्वतस्तावद् विषयतात्वरूपं प्रामाण्यमवगतं सत् कारणदोषज्ञानादेः अभावात् निरपवादं स्थितं भवतीति प्रयोजनवती चिन्ता इति । तथा च संवादिप्रवृत्तिप्रयोजकत्वरूपं प्रामाण्यं कस्य ज्ञानस्य कस्य च ज्ञानस्य विसंवादिप्रवृत्तिजनकत्वरूपमप्रामाण्यम् । एतच्च कथमुत्पद्यते कथं च ज्ञायते । इत्येवात्र विचारणीयम् । अत्र प्रमाणशब्दः भावव्युत्पत्त्या प्रमार्थकः स्वतःप्रमाणानां प्रामाण्यं प्रमात्वमित्यर्थः । तत्र केचित् प्रमात्वाऽप्रमात्वयोः स्वतस्त्वमिच्छन्ति केचिन्नेच्छन्ति । तथा च तार्किकरक्षायाम् – प्रमाणत्वाप्रमाणत्वे स्वतः सांख्याः समाश्रिन्ताः नैयायिकास्ते परतः सौगताश्च चरमं स्वतः । प्रथमं परतः प्राहुः प्रामाण्यं वेदवादिनः । प्रमाणत्वं स्वतः प्राहुः परतश्चाप्रमाणतामिति । स्वत एवोत्पद्यते ज्ञायते च । स्वस्य स्वहेतुकत्वानुपपत्तेः आत्मीयानिति स्वतःशब्दस्यार्थः । आत्मीयशब्देन दोषाभावसहकृतज्ञानसामान्यसामग्री दोषाभावसहकृतज्ञानग्राहकसामग्री च ज्ञातव्या । जनकज्ञापकयोः आत्मीयत्वप्रसिद्धिः । उत्पत्तौ जनकत्वेन आत्मीयत्वम् । ज्ञप्तौ ज्ञापकत्वेन आत्मीयत्वम् (तत्रैव श्रीगजाननशास्त्रिकृतटिप्पणी) । यथा- एवमुक्तानां प्रमाणानां प्रामाण्यं स्वत एवोत्पद्यते ज्ञायते च । तथा हि स्मृत्यनुभवसाधारणं संवादिप्रवृत्त्यनुकूलं तद्वति तत्प्रकारकज्ञानत्वं प्रामाण्यम् । तच्च ज्ञानसामान्यसामग्रीप्रयोज्यं न त्वधिकं गुणमपेक्षते प्रमामात्रेऽनुगतगुणाभावात् । नापि प्रत्यक्षप्रमायां भूयोऽवयवेन्द्रियसन्निकर्षः । रूपादिप्रत्यक्षे आत्मप्रत्यक्षे च तदभावात् । सत्यपि तस्मिन् पीतः शङ्ख इति प्रत्ययस्य भ्रमत्वाच्च । अत एव न सल्लिङ्गपरामर्शादिकमप्यनुमित्यादिप्रमायां गुणः । असल्लिङ्गपरामर्शादिस्थलेऽपि विषयाबाधेन अनुमित्यादेः प्रमात्वात् । न चैवम् अप्रमापि प्रमा स्याद् ज्ञानसामान्यसामग्र्या अविशेषादिति वाच्यम् । दोषाभावस्यापि हेतुत्वाङ्गीकारात् । न चैवं परतस्त्वमिति वाच्यम् । आगन्तुक भावकारणापेक्षायामेव परतस्त्वात् । ज्ञायते प्रामाण्यं स्वतः । स्वतो ग्राह्यत्वं च दोषाभावे सति यावत्स्वाश्रयग्राहकसामग्रीग्राह्यत्वम् । स्वाश्रयो वृत्तिज्ञानं तद्ग्राहकं साक्षिज्ञानं तेनापि वृत्तिज्ञाने गृह्यमाणे तद्गतं प्रामाण्यं गृह्यते । त चैवं प्रामाण्यसंशयानुपपत्तिः । तत्र संशयानुरोधेन दोषस्यापि सत्त्वेन दोषाभावघटितस्वाश्रयग्राहकाभावेन तत्र प्रामाण्यस्यैवाभावात्। यद्वा यावत्स्वाश्रयग्राह्यत्वयोग्यत्वं स्वतस्त्वम् । संशयस्थले प्रामाण्यस्योक्तयोग्यतासत्त्वेऽपि दोषवशेनाग्रहात् न संशयानुपपत्तिः । अप्रामाण्यं तु न ज्ञानसामान्यसामग्रीप्रयोज्यम् । प्रमायामप्यप्रामाण्यापत्तेः । किन्तु दोषप्रयोज्यम् । नाप्यप्रामाण्यं यावत्स्वाश्रयग्राहकग्राह्यम् । अप्रामाण्यघटकतदभाववत्त्वादेर्वृत्तिज्ञानानु पनीतत्वेन साक्षिणा ग्रहीतुमशक्यत्वात् । किन्तु विसंवादिप्रवृत्त्यादिलिङ्गकानुमित्यादिविषय इति परत एवाप्रामाण्यमुत्पद्यते ज्ञायते चेति (वे० प० ६ प०) । इत्यद्वैतवेदान्तिनः । २. तत्र प्रामाण्यं स्वतो ग्राह्यमिति वदतां मीमांसकानामयमाशयः । यथा दूराप्रत्यक्षेणेन्द्रियेण जलादिज्ञाने जाते तत्र स्वत एव यथार्थत्वरूपप्रामाण्यमवधार्य जलार्थी प्रवर्तते । ज्ञानग्रहे तद्गतप्रामाण्यस्यापि ग्रहात् प्रमात्वस्य स्वतस्त्वमुपपद्यते त० कौ० प्रामा० पृ० १८ इति । अन्यत्र चेत्थमुक्तम्, मीमांसकमते प्रामाण्यस्य स्वतस्त्वं द्विविधम् – उत्पत्तौ ज्ञप्तौ चेति । तत्र उत्पत्तौ स्वतस्त्वं नाम ज्ञानकरणमात्रजन्यत्वम् । येन ज्ञानं जायते तेनैव तद्गतं प्रामाण्यमपि जायत इति । ज्ञप्तौ स्वतस्त्वं नाम ज्ञानग्राहकमात्रग्राह्यत्वम् । येन ज्ञानं गृह्यते तेनैव तद्गतप्रामाण्यमपि गृह्यत इति । नैयायिकमते परतस्त्वमपि द्विविधम् - उत्पत्तौ ज्ञप्तौ चेति । तत्र उत्पत्तौ परतस्त्वं नाम ज्ञानकारणातिरिक्तकारणजन्यत्वम् । ज्ञप्तौ च परतस्त्वं नाम ज्ञानग्राहकातिरिक्तग्राह्यत्वमिति वस्तुस्थितिः (प्र० च० परि० १ पृ० ४५) । मीमांसकाश्च त्रयो मिथो विप्रतिपन्नाः । प्रभाकरापरनामका गुरवस् तु तौताख्या भट्टाः मुरारिनामका मिश्राश्चेति । तत्र गुरूणां मतं ज्ञानस्य स्वप्रकाशरूपत्वात् तज्ज्ञानप्रामाण्यं तेनैव गृह्यत इति । भट्टानां मतं च ज्ञानमतीन्द्रियम् । ज्ञानजन्या ज्ञातता प्रत्यक्षा । तया च ज्ञानमनुमीयते । अत्रानुमानं तु घटो घटत्ववद्द्विशेष्यकघटत्वप्रकारकज्ञानविषयो घटत्वप्रकारकज्ञाततावत्त्वात् यन्नैवं तन्नैवमिति (नील० प्रामा० पृ० ३५) (न्यायकोश: पृ० ३१२) । ३. प्रमात्वम् तत्प्रकारकज्ञानत्वम् (गौ० वृ० ११४) तद्वति तद्वैशिष्ट्यज्ञानत्वं वा (चि० १ प्रामा० पृ० १७०) । वस्तुतस्तु तद्वतीत्यत्रावच्छिन्नत्वमेव सप्तम्यर्थः । अन्वयश्चास्य विशेष्यितासम्बन्धेन तठाकारत्वे । तथा च - विशेष्यितासम्बन्धेन तदवच्छिन्ना या तत्रकारिता तच्छाल्यनुभवत्वं तत्प्रमात्वमिति फलितम् । इदमत्रैतप्रकारकमिति प्रतीत्या विशेष्यस्यापि विशेष्यितासम्बन्धेन तठप्रकारितायामवच्छेकत्वात् लक्षणसमन्वयः । रङ्गरजतयोः इमौ रजतरङ्गौ इति विपरीतभ्रमे च रजतावच्छिन्नं न रजतत्वप्रकारकत्वमपि तु रङ्गावच्छिन्नमिति न तत्रातिव्याप्तिः (मू० म० प्रामा० सिद्धान्ते पृ० ४०३) (न्यायकोश: पृ० ३०८) । प्रमायुकम्, प्रमायुक मरणशीलम् । यथा - लौकिकं प्रियमपि अप्रियमेवेति निश्चित्य उपास्ते चिन्तयति नह्यस्यैवं विदः प्रियं प्रमायुकं प्रमरणशीलं भवति (बृ० आ० उप० १/४/८ शा० भा०) । प्रमायुकम् = मरणशीलम् । ताच्छील्यार्थे उकञप्रत्ययः । प्रमितत्वम्, प्रमितत्व प्रमाविषयत्वम् । यथा घटे स घटः अस्तीति ज्ञानविषयत्वम् । यथा वा स्थावरजङ्गमात्मकस्य सर्वस्य जगतः प्रमितत्वम् । क्वचित् स्वविशेष्यप्रमाप्रकारत्वम् (ग० वा०) । २. परिमितत्वम् । यथा - प्रमितास्तण्डुला इत्यादौ (न्यायकोशः) । प्रमेयः, प्रमेय १. अद्वैतनये सर्वमेव मिथ्या । एकमेव पारमार्थिकं सत्यं नित्यं ब्रह्म । तदेव अनधिगताबाधितविषयज्ञानरूपायाः प्रमायाः विषयः प्रमेयः । अत एकमेव प्रमेयं बह्म । अन्यत्सर्वमप्रमेयं मिथ्याभूतं केवलं व्यावहारिकप्रातिभासिकसत्तारूपम् । इदमेव एकमेवाद्वितीयं ब्रह्म इत्यादिश्रुतेः स्वारस्यम् । यथा - विषयो जीवब्रह्मैक्यं शुद्धचैतन्यं प्रमेयम् (वे० सा० ९) । २. न्यायवैशेषिकमते द्वादशविधं प्रमेयम् । यथा आत्मशरीरेन्द्रियार्थबुद्धिमन प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयमिति द्वादशविधं प्रमेयम् (त० सं० दी० श० ख०) । साङ्ख्ययोगे चतुर्विशतिस्तत्त्वानाम् । बौद्धनये सर्वं शून्यमेकं विज्ञानं वा । आर्हते जीवाजीवावित्यादि । ३. (क) योऽर्थः तत्वतः प्रमीयते तत्प्रमेयम् (वात्स्या० १/१/१ प्रस्तावना) । यथा- घटपटादिसर्वं जगत् प्रमेयम् । अत्र प्रमेयत्वं च ईश्वरीयप्रमाविषयत्वम् (त० दी० २) । तच्च केवलान्वयि । सर्वस्यापि जगतः ईश्वरज्ञानरूपप्रमाविषयत्वात् (न्या० म०) । सामान्यतः प्रमाविषयत्वं वा प्रमेयत्वम् । मायावादिमते विशुद्धचैतन्यमेव प्रमेयम् । (ख) संसारहेतुमिथ्याज्ञानविषयः मोक्षहेतुधीविषयो वा । यथा - आत्मशरीरादि प्रमेयम् । न्यायनये द्वादशविधं प्रमेयम् - आत्मा शरीरम् इन्द्रियम् अर्थः बुद्धि मनः प्रवृत्तिः दोषः प्रेत्यभावः फलं दुःखमपवर्गश्च (गौ० १।१।९) इति । अत्र अर्थः प्रमेयत्वं च तत्त्वज्ञाननियामकतावच्छेदकमिति ज्ञेयम्। २. परिच्छेद्यम्, ३. अवधारणविषयः (अवधार्यम्) इति काव्यज्ञाः आहुः (न्यायकोशः) । प्रमेयचैतन्यम्, प्रमेयचैतन्य विषयाधिष्ठानभूतं चैतन्यम् । यथा - अत एव वृत्तिविषयावच्छिन्नचैतन्यात् प्रागज्ञानमस्तीत्यभिप्रायेण विषयात्प्रागज्ञानमस्तीति साधूक्तम् । तस्मादधिष्ठानचैतन्यं स्वाध्यस्तं भासयतीति सिद्धम् । तदयमत्र निष्कर्षः- यद्यपि विषयप्रकाशकं विषयाधिष्ठानभूतं प्रमेयचैतन्यम्, अन्तःकरणावच्चिन्नचैतन्यं तु तस्य प्रमातृ, अन्तःकरणवृत्यवच्छिन्नचैतन्यं तु प्रमाणम् ( अ० सि० १ प० ) । यथा च - प्रमेय चैतन्यमिति । जीवचैतन्यस्य भासकत्वपक्षेऽपि तदभास्यं घटाद्यवच्छिन्नं चैतन्यम्, मनोवृत्तेस्तादाकारत्वात्, घटादेस्तु तदवच्छेदकत्वस्यैव स्वीकारात् घटादिकं तु तादृश्या प्रमेयचिता भास्यते (तत्रैव गौ० ब्र०) । प्रलयः, प्रलय १. विनाशः संहर्त्ता वा । यथा - प्रलीयते विश्वमस्मिन्निति प्रलयः । यवा प्रलीयतेऽनेनेति प्रलयः संहर्त्ता (गी० ९/१९ भाष्यो०) । यथा च - करणार्थी चोत्पत्तिप्रलयशब्दौ क्रियामात्रस्य पुरूषान्त्रगोचरत्वसम्भवात् (गी० ३।३७ शा० भा०) । यथा च - प्रलयो नाम त्रैलोक्यनाशः स च चतुर्विधः - नित्यः प्राकृतो नैमित्तिक आत्यन्तिकश्चेति । तत्र नित्यः प्रत्ययः सुषुप्तिः । तस्याः सकलकार्यप्रलयरूपत्वात् । धर्माधर्मपूर्वसंस्काराणां च तदा कारणत्मनावस्थानम् । तेन सुषुप्तोत्थितस्य न सुखदुः खाद्यनुभवानुपपत्तिः । न वा स्मरणानुपपत्तिः । न च सुषुप्तावन्तःकरणस्य विनाशे तदधीनप्राणादिक्रियानुपपत्तिः । वस्तुतः श्वासाद्यभावेऽपि तदुपलब्धेः पुरुषान्तरविभ्रममात्रत्वात् सुप्तशरीरोपलम्भवत् । न चैवं सुप्तस्य परेतादविशेषः । सुप्तस्य हि लिङ्गशरीरं संस्कारात्मनात्रैव र्वतते । परेतस्य तु लोकान्तरे इति वैलक्षण्यात् । तत्र ज्ञानशक्तिविशिष्टान्तःकरणस्य सुषुप्तौ विनाशः । न क्रियाशक्तिविशिष्टस्येति प्राणाद्यवस्थानमविरुद्धम् । यदा सुप्तः स्वप्नं न कञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति । अथैनं वाक् सर्वैर्नामभिः साहाय्यमेति (कौ० ३।२) । "सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति" (छा० ६।८।१ ) । इत्यादिश्रुतिरुक्तसुषुप्तौ मानम् । प्राकृतप्रलयस्तु कार्यब्रह्मविनाशनिमित्तकः सकलकार्यनाशः । यदा तु प्रागेवोत्पन्नब्रह्मसाक्षात्कारस्य कार्यब्रह्मणो ब्रह्माण्डाधिकारलक्षणप्रारब्धकर्मसमाप्तौ विदेहकैवल्यात्मिका परामुक्तिस्तदा तल्लोकवासिनामप्युत्पन्नब्रह्मसाक्षात्काराणां ब्रह्मणा सह विदेहकैवल्यम् । ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् । इति श्रुतेः । एवं स्वर्लोकवासिभिः सह कार्ये ब्रह्मणि मुच्यमाने तदधिष्ठितब्रह्माण्डतदन्तर्वर्तिनिखिललोकतदन्तर्वर्तिस्थावरादीनां भौतिकानां भूतानां च प्रकृतौ मायायां च लयः न तु ब्रह्मणि बाधरूपविनाशस्यैव ब्रह्मनिष्ठत्वात् । अतः प्राकृत इत्युच्यते । कार्यब्रह्मणो दिवसावसाननिमित्तस्त्रैलोक्यप्रलयः नैमित्तिकप्रलयः । ब्रह्मणो दिवसश्चतुर्युगसहस्रपरिमितकालः । चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते इति वचनात् । प्रलयकालो दिवसकालपरिमितः । रात्रिकालस्य दिवसकालतुल्यत्वात् । प्राकृतप्रलये नैमित्तकप्रलये च पुराणवचनानि द्विपराद्धुत्वतिकान्ते ब्रह्मणः परमेष्ठिनः । तदा प्रकृतयः सप्त कल्प्यन्ते प्रलयाय हि । एष प्राकृतिको राजन् प्रलयो यत्र लीयते । इति वचने प्राकृतप्रलये मानम् । एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक् । शेतेऽनन्तासने नित्यमात्मसात्कृत्य चाखिलम् । इति वचनं नैमित्तकप्रलये मानम् । तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकः सर्वमोक्षः । स चैकजीववादे युगपदेव । नानाजीववादे तु क्रमेण । "सर्व एकीभवन्ति" इत्यादिश्रुतेः । तत्राधास्त्रयोऽपि प्रलयाः कर्मोपरतिनिमित्ताः । तुरीयस्तु ज्ञानोदयनिमित्तो लयोऽज्ञानेन सहैवेति विशेषः । एष चतुर्विधप्रलयो निरूपितः । (वे० प० ७ प०) ततश्च पुनः पूर्ववत् सृष्टिः । यथा श्रुतिः - धाता 'यथा पूर्वमकल्पयत् (ऋ० वे० १०।१९०।३) । इत्यद्वैतवेदान्तिनः । २. संसारप्रवाहस्य अनादित्वादनन्तत्वाच्च प्रलयसद्भावे मानाभावः । इति पूर्वमीमांसकाः । ३. दोधूयमानास्तिष्ठन्ति प्रलये परमाणवः (प्र० पा० भा० क०) । अदृष्टसंस्कारविशिष्टात्मानः आकाशादयश्च अवतिष्ठन्ते, तदा यावान् जगत्स्थितिकालस्तावानेव कालः प्रलयकालः । खण्डप्रलयःअवान्तरप्रलयः महाप्रलयश्चेति । महाप्रलयानन्तरं न सृष्टिः । सर्वमुक्तौ सर्वोत्पत्तिनिमित्तस्यादृष्टस्यापायादिति । (प्र० पा० भा०) सृष्टिक्रमश्च साकारोपासनापरिवासितचेतसो यतयस्ते हिरण्यगर्भपदवीमनुप्राप्यापवृज्यन्ते-इत्यागमाद् ब्रह्मणो जीवभूतस्य ब्रह्मशतवर्षपर्याप्तस्य अपवर्गसमये शरीरिणां विश्रान्त्यर्थम् ईश्वरस्य संजिहीर्षा जायते । .....सर्वेषां जीवानां युगपददृष्टवृत्तिनिरोधो भवति ( त० १० पृ० १२५) । .....ततः परमाणुद्वयविभागः ततस्त्र्यणुकनाशः । एवं क्रमेण जगतः प्रलयः नाशोऽभावो वेति नैयायिकाः (न्यायकोशः) । प्रवर्तकम्, प्रवर्तक प्रवृत्तिजनकम् । अर्थाद् बलवदनिष्टाननुबन्धीष्टसाधनत्वे सति कृतिसाध्यताविषयकं ज्ञानं प्रवर्तकम् । तेन मधुविषसम्पृक्तान्नभोजने न प्रवृत्तिः। पूर्वमीमांसकनये अहरहः सन्ध्यामुपासीत तथा स्वर्गकामो यजेत इत्यादि चोदनावाक्यं प्रवर्तकम् । प्रविविक्तभुक्, प्रविविक्तभुज् जाग्रदादिषु तिसृसु अवस्थासु आनन्दभुक् । यथा - स्वप्ने भोक्तृ त्रिषु धामसु जाग्रदादिषु स्थूलप्रविविक्तानन्दाख्यं भोज्यमेकं त्रिधाभूतम् (मा० उ० प्र० १।४ शा० भा०) । प्रवृत्तिः, प्रवृत्ति १. प्रयत्नः । क- उत्कटरागजन्यः प्रयत्नविशेषः (वै० वि० ३।१।१९) लयणं तु प्रवृत्तित्वमेव । तच्च रागजन्यतावच्छेदकतया सिद्धो जातिविशेषः (गौ० वृ० १।१।१७) । चिकीर्षाजन्यतावच्छेदको जातिविशेषो वा (मू० म० १) (ल० व० पृ० १३७) चेष्टा जनकतावच्छेदकतया सिद्धो जातिविशेषो वा (श० प्र० श्लो० ९५ पृ० १३७) । प्रवृत्त्युत्पत्तावयं क्रमः । प्रथमतः फलज्ञानम् । ततः फलेच्छा । तत इष्टसाधनताज्ञानमुपाये । तत उपायेच्छा । ततः प्रवृत्तिरुत्पद्यत इति ( त० प्र० ख० ४ पृ० १०३) । न्यायकोशः । प्रवृत्तिविज्ञानम्, प्रवृत्तिविज्ञान बौद्धविज्ञानवादियोगाचारनये प्रवृत्तिविज्ञानमालयविज्ञानं च भवतः । तत्र यथा – तथा चैकालयज्ञानसन्तानपतितेषु कस्यचिदेव ज्ञानक्षणस्य स तादृशः सामर्थ्यातिशयो वासनापरनामा स्वप्रत्ययासादितः यतो नीलाकारं प्रवृत्तिविज्ञानं जायते न पीताकारम् (ब्र० सू० २।२।२८ भाम०) । यथा च - यश्चासावालयविज्ञानसन्तानातिरिक्तः कादाचित्कप्रवृत्तिज्ञानहेतुः स बाह्योऽर्थः (तत्रैव भाम० ) । अत्र वेदान्तकल्पतरौ - अहमित्युदीयमानालयविज्ञानेन जन्यमानास्तदतिरिक्तजन्यत्वाजन्यत्वाभ्यां विवादाध्यासिताः शब्दस्पर्शरूपरसगन्धसुखादिविषयाः षडप्यर्थविषयप्रवृत्तिहेतुत्वात् प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञानसन्ताने कदाचिद्भवन्तस्तदतिरिक्तहेतुका इत्यर्थः । अर्थान्तरमाशङ्क्याह यश्चेति । यथा च तस्यां सन्ततौ प्रवृत्तिविज्ञानानि नीलादिविषयाणि तज्जननशक्तिर्वासना इत्यर्थः । तत्प्रत्येति प्रत्यागच्छति उत्पद्यतेऽनेन परिपाक इति प्रवृत्तिविज्ञानजनकालयविज्ञानात् पूर्वमालयविज्ञानसन्ताने यदाकदाचिदुत्पन्नो नीलादिप्रत्ययः प्रत्यय इति (तत्रैव वे० क० तरौ) । प्रसंख्यानम्, प्रसंख्यान १. ध्यानम्, आम्रेडनम् आवृत्तिर्वा । यथा - तत्त्वमसिवाक्यार्थपरिभावनाभुवा प्रसंख्यानेन (ब्र० सू० ४।१।१३ भाम०) । यथा च तापत्रयपरीतमात्मानं च जीवलोकं चावलोक्यास्मिन् संसारमण्डले अनित्याशुचिदुःखात्मकं प्रसंख्यानमुपावर्तते । ततोऽस्यैतादृशान्नित्यानित्यवस्तुविवेकलक्षणात्प्रसंख्यानात् - इहामुत्रार्थभोगविरागो भवति (ब्र० सू० १ 19 19 भाम०) । यथा च आवृत्तिर्हि प्रसंख्यानं शब्दबुद्ध्योरिति स्थितम् (बृ० आ० उ० भा० वा० सं० वा० )। अत्रानन्दगिरिः-- श्रवणमननयोरावृत्तिस्त्वया प्रसंख्यानमभ्युपेतम् । यथा चप्रसंख्यानं नाम तत्त्वमस्यादिशब्दार्थान्वयव्यतिरेकयुक्तिविषयबुद्धयाम्रेडनमित्यभिधीयते । तच्चानुष्ठीयमानं प्रमितिवर्द्धनया परिपूर्णां प्रमितिं जनयति न पुनरैकाग्र्यवर्द्धनया (नै० सि० ३।९०) । यथा च प्रसंख्यानस्य चित्तैकाग्र्यस्य (तत्रैव ३।८९) । यथा च - प्रत्ययावृत्तिलक्षणं प्रसंख्यानम् (गी० १०/११ नी० क०) ।२. विवेकजं ज्ञानम् । यथा - तत्परं प्रसंख्यानमाचक्षते ध्यायिनः (पा० यो० सू० १/२ व्या० भा० तथात्र बलरामोदासीनटी०) । ३. विवेकसाक्षात्कारः । यथा - प्रसंख्यानेऽकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः (पा० यो० सू० ४।२९ योगवार्त्तिके) । आचार्यबादरायणमण्डनमिश्रवाचस्पतिमिश्रामलानन्दश्रीधरमधुसूदनसरस्वतीप्रभृतय एवमभिप्रथन्ति यद् दशमस्त्वमसि इति वाक्यजन्यबोधसाक्षात्कारवत् तत्त्वमसि (छा० उ० ६।८।७) । इत्यादिमहावाक्यादिना ब्रह्मसाक्षात्कारो न जायते । किन्तु महावाक्येन केवलं ब्रह्म विज्ञायते । तदनन्तरम् उपासनया साक्षात्क्रयते । अत एव - विज्ञाय प्रज्ञां कुर्वीत (बृ० आ० ३।४।४।२१ ) । इत्यादि श्रुतयः सङ्गच्छन्ते । प्रज्ञामित्यस्य उपासनाम् इत्यर्थः । इयमुपासना प्रसंख्यानशब्देनाभिधीयते । श्रीमण्डनप्रभृतयः कथयन्ति प्रमाणेन मिथ्यावभासा निवर्तन्ते । किन्तु कारणविशेषात्पुनरपि अनुवर्तन्ते । यथा देशान्तरे गते दिग्भ्रमो जायते । आप्तोपदेशाद् निवर्तते पुनरपि अनुवर्तते । किन्तु अभ्यासेन ज्ञानं यदा दृढं क्रियते तदा न पुनः दिग्भ्रमोऽनुवर्तते । एवमेव श्रुतिवचनेन ब्रह्म विज्ञाय प्रसंख्यानेन अर्थात् तद्ध्यानेन उपासनया वा मिथ्यावभासा निवर्तन्ते ब्रह्म साक्षात् क्रियते (ब्र० सि० ब्र० का ० २ तथा नि० का० का० १०९) । अपि च संराधने प्रत्यक्षानुमानाभ्याम् । (ब्रा० सू० ३ । २ । २४) इत्यपि प्रमाणम् । अमलानन्दः ब्र० सू० १ ।१।२८ भामतीव्याख्याने प्रसंख्यानपक्षं समर्थयति । सुरेश्वराचार्य: विज्ञाय प्रज्ञां कुर्वीत (बृ० आ० उ० ४।४।२१) । इत्यस्यार्थमेवं करोति - महावाक्येन ब्रह्मयाथाल्यमलब्ध्वा प्रज्ञां कुर्वीत केनेति व्यपेक्षायां विज्ञानेनेति लभ्यते । सुरेश्वराचार्य: बृ० आ० भा० वा० ८०३, ४/४/७९६,४/४/८९१, नैष्कर्म्यसिद्धौ ३/७०, ३८९ प्रसंख्यान पक्षं भृशमालोचितवान् । प्रसादः, प्रसाद चित्तस्वच्छता । यथा परमात्मसाक्षात्कारयोग्यता जायते । यथा प्रसादः प्रसन्नता स्वास्थ्यम् । प्रसादे सर्वदुःखानामाध्यात्मिकादीनां हानिर्विनाशोऽस्य यतेरुपजायते (गी० २।६४ शा० भा० ) । यथा च - प्रसादं प्रसन्नतां चित्तस्य स्वच्छतां परमात्मसाक्षात्कारयोग्यतामधिगच्छति (तत्रैव म० सू०) । प्रस्तावः, प्रस्ताव सामगाने प्रस्तावो भवति । तस्यानेकेऽर्थाः । १. आदित्यः । यथा आदित्यः प्रस्तावः । उदिते ह्यादित्ये प्रस्तूयन्ते कर्माणि प्राणिनाम् (छा० उ० २/२/२ शा० भा० ) । यथा च - २. भक्तिः (कश्चन प्रकारः) । प्रस्तावः । अग्नौ हि कर्माणि प्रस्तूयन्ते । प्रस्तावश्च भक्तिः (छा० उ० २।२।१ शा० भा० ) । यथा च - अतः सैषा देवता प्रस्तावमन्वायत्त तां चेदविद्वांस्त्वं प्रास्तोष्यः । प्रस्तवनं प्रस्तावभक्तिं कृतवानसि यदि मूर्धा शिरस्ते व्यपतिष्यत्..... (छा० उ० १।११।५ शा० भा० ) । प्राकृतप्रलयः, प्राकृतप्रलय सृष्टिनाशस्यैको भेदः । यथा - प्राकृतप्रलयस्तु कार्यब्रह्मविनाशनिमित्तिकसकलकार्यनाशः । यदा तु प्रागेवोत्पन्नब्रह्मसाक्षात्कारस्य कार्यब्रह्माणो ब्रह्माण्डाधिकारलक्षणप्रारब्धकर्मसमाप्तौ विदेहकैवल्यात्मिका परा मुक्तिः तदा तल्लोकवासिनामप्युत्पन्नब्रंह्मसाक्षात्कारणां ब्रह्मणा सह विदेहकैवल्यम् । ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदमिति श्रुतेः । एवं स्वलोकवासिभिः सह कार्ये ब्रह्मणि मुच्यमाने तदधिष्ठितब्रह्माण्ड तदन्तर्वर्तिनिखिललोकतदन्तर्वर्तिस्थावरादीनां भौतिकानां भूतानां च प्राकृतौ मायायां च लयः न तु ब्रह्मणि, बाधरूपविनाशस्यैव ब्रह्मनिष्ठत्वात् । अतः प्राकृत इत्युच्यते । (वे० प० ७ प०) प्रागभावः, प्रागभाव स चाभावश्चतुर्विधः प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्या भावश्चेति । तत्र मृत्पिण्डादौ कारणे कार्यस्य घटादेरुत्पत्तेः पूर्वं योऽभावः स प्रागभावः स च भविष्यतीति प्रतीतिविषयः । तत्रैव घटस्य मुद्गरपातानन्तरं योऽभावः स प्रध्वंसाभावः । ध्वंसस्यापि स्वाधिकरणकपालनाशे नाश एव । ....यत्राधिकरणे यस्य कालत्रयेऽप्यभावः सोऽत्यन्ताभावः । यथा वायौ रूपात्यन्ताभावः । सोऽपि घटादिवद्ध्वंसप्रतियोग्येव । इदमिदं नेति प्रतीति-विषयोऽन्योन्याभावः । अयमेव विभागो भेदः पृथक्त्वं चेति व्यवह्रियते (वे० प० ६ प०) । यथा च - अनादि: सान्तः प्रागभावः उत्पत्तेः पूर्वं कार्यस्य । सादिरनन्तः प्रध्वंसः उत्पत्त्यनन्तरं कार्यस्य । त्रैकालिकसंसर्गाविच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः । यथा भूतले घटो नास्तीति । तादाल्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः । यथा घटः पटो नेति (त० सं० श० प० ) । प्राज्ञः, प्राज्ञ जीवः । यथा - इयं व्यष्टिर्निकृष्टोपाधितया मलिनसत्त्वप्रधाना । एतदुपहितचैतन्यमल्पज्ञत्वानीश्वरत्वादिगुणकं प्राज्ञ इत्युच्यते, एकाज्ञानावभासकत्वात् अस्य प्राज्ञत्वमस्पष्टोपाधितयाऽनतिप्रकाशकत्वात् अस्यापीदमहङ्कारादिकारणत्वात्कारणशरीरम्, आनन्दप्रचुरत्वात् स्थूलसूक्ष्मशरीरप्रपञ्चलयस्थानमिति चोच्यते । यथा च - अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा । सा कारणशरीरं स्याप्राज्ञस्तत्राभिमानवान् (प० ६० १।१७) । यथा च - तत्र कारणशरीरेऽभिमानवान् तादाल्याध्यासेनाहमित्यभिमानवान् जीवः प्रज्ञा अविनाशिस्वरूपानुभवरूपा यस्य स प्रज्ञः । प्रज्ञ एव प्राज्ञः एतन्नामकः स्यादित्यर्थः (तत्रैव रा० कृ० टी०) । यथा च - ज्ञातृत्वं सर्वविषयज्ञातृ इति प्राज्ञः सुषुप्तोऽपि हि भूतपूर्वगत्या प्राज्ञ उच्यते अथवा प्रज्ञप्तिमात्रमस्यैवासाधारणं रूपमिति प्राज्ञः । इतरयोर्विशिष्टमपि विज्ञानमस्ति सोऽयं प्राज्ञस्तृतीयः पादः (मा० उ० १।३ शा० भा०) । प्राणः, प्राण १ . क्रियाशक्तिः । यथा - प्राणः क्रियाशक्तिः परमार्थतो न विद्यते यस्य सोऽप्राणः ( ब्र० सू० १ । १ । ४ वे० क० त०) । २. हृदयगतो वायुविशेषः । यथा - प्राणिति मुखनासिकाभ्यां वायुं बहिर्निःसारयति स प्राणाख्यो वायुर्वृत्तिविशेषः (छा० उ० १ । ३ । ३ शा० भा०) । यथा च -"पञ्चवृत्तिर्वायुः प्राणः (ब्र० सू०१ । ३ । ३९ शा० भा०) । ३. तस्मादव्याकृतात् व्याचिकीर्षितादन्नाप्राणः (ब्र० सू०१।१।५ भाम०) ४. इन्द्रियेभ्यः प्राणस्य श्रैष्ठ्यम् (प्राण विद्या) । यथा - एक एव प्राणः प्राणो वा व संवर्गः (छा० ४।३।३) । प्राणो वा व ज्येष्ठश्च श्रेष्ठश्च (छा० ५।१।१ ) । प्राणो ह पिता प्राणो माता (तत्रैव ७/१५/१) (ब्र० सू० ३।३।५८ शा० भा० ) । यथा च - सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता (छा० १/११/४,५) प्राणस्य प्राणम् (बृ० आ० उ० ४।४।१८ ) । इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते (ब्र० सू० १/१ । २३ शा० भा० ) । ४. सद् इतिवत् । यथा- वाक्यशेषो हि तत्रायतनैषी जीवः सदुपसर्पतीत्याह- अन्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते (छा० ६।८।२) । इति । प्राणशब्देन तत्र प्रकृतस्य सत उपादानात् (ब्र० सू० ३।२।७ शा० भा० ) । ५. ब्रह्मवत् । यथा – तत्र अत एव ब्रह्मलिङ्गादेव प्राणोऽपि ब्रह्मैव, न वायुविकार इति युक्तम् (ब्र० सू० १ । १ । २३ भाम० ) । यथा च - प्राणबन्धनं हि सोम्य मनः (छा० ६।८।२) । प्राणस्य प्राणम् (बृ० आ० उ० ४।४।१८) । इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते ... । अत एव तल्लिङ्गात् प्राणशब्दमपि परं ब्रह्म भवितुमर्हति । प्राणस्यापि ब्रह्मलिङ्गसम्बन्धः श्रूयते - सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते (छा० १ ।११।५ ) । इति प्राणानिमित्तौ सर्वेषां भूतानामुत्पत्तिप्रलयावुच्यमानौ प्राणस्य ब्रह्मतां गमयतः (ब्र० सू० १ । १ । २३शा० भा०) । यथा च - अत एव प्राणः इत्यत्र वर्णितं प्राणशब्दस्य ब्रह्मपरत्वम् । इहापि ब्रह्मलिङ्गमस्ति - आनन्दोऽजरोऽमृतः इत्यादि (ब्र० सू० १/१/२८ शा० भा० ) । ६.हिरण्यगर्भः (सूत्रात्मा) । यथा - एतत्समष्ट्युपहितं चैतन्यं सूत्रात्मा हिरण्यगर्भः प्राणश्चेत्युच्यते सर्वत्रानुस्यूतत्वाज्ज्ञानेच्छाक्रियाशक्तिमदुपहितत्वाच्च । ७. समनस्कानीन्द्रियाणि । यथा - द्वादशं यज्ञमाह अपरे इति । नियतो निगृहीत आहारो विषयभोगो यैस्ते नियताहाराः वैराग्यादिमन्तः प्राणाः । अत्र समनस्कानीन्द्रियाणि प्राणशब्देन गृह्यन्ते । तान्प्राणेषु मनश्चित्ताहङ्कारेष्वन्तःकरणवृत्तिभेदेषु । बुद्धेः प्राग्गृहीतत्वादग्रहणम् । जुह्वति प्रविलापयन्ति ( गी० ४ । ३० नी० क ० ) । यथा च ५. इन्द्रियरूपः । यथा - प्राणो वा अमृतं करणात्मकः (बृ० आ० उ० १ । ६ । ३ शा० भा० ) । यथा च - सर्वे प्राणा वागादयः (तत्रैव २ । १ । २० शा० भा० ) 1६.बलरूपः । यथा – शक्तिः प्राणो बलमिति पर्याय: (तत्रैव २ ।२।१ शा० भा०) ।७. पृथिव्यादीनां रजोंऽशैः प्राणो जायते (प० द० १ । २२ तत्त्वविवेकः) ।८. परमात्मन एव..... (बृ० आ० उ० २।१।२० मु० उ० २/१/३, प्र० उ० ६।२४, ब्र० सू० २।४।१ ) । प्राणा:- एक दश एकादश द्वादश च (ब्र० सू० २/४/५-६, बृ० आ० उ० १/५/२१, तत्रैव १ ।६।३, तत्रैव २ । १ । २०शा० भा०) श०प० ब्रा० १० ।३।३।६ ) । शरीरे शक्तिद्वयम् - क्रियात्मिका ज्ञानात्मिका च । तत्र क्रियात्मिका प्राणः । यथा कार्यात्मके शरीरावस्थे क्रियात्मकस्तु प्राणः (बृ० आ० उ० १ ।६।३ शा० भा० ) । ९. महत्तत्त्वम् बुद्धिः । यथा - एका क्रियात्मिका शक्तिः प्राणः अपरा अध्यवसायात्मिका शक्तिः बुद्धिः । (ब्र०सू० २/४/१३ वि० भा०, सि० हे० सं० २ जीवाणुविचारे, ब्र० सू० १ १/२३, २१४/१३ शा०, भा०, सा०, प्र० भा०, अथर्ववेदे उक्तं चराचरेषु) । सिद्धान्तलेशसंग्रहे - विज्ञानभिक्षुसांख्यप्रवचनभाष्ये च ।१०. हिरण्यगर्भाख्यं कार्यं ब्रह्म । यथा - अतो निगमनवाक्यमुपक्रमानुरोधात् प्राणं हिरण्यगर्भाख्यं कार्यं ब्रह्म । तदाकाशं परब्रह्मरूपं सुखविशिष्टाकाशं चोचुरित्येदर्थकमिति न विरोध इत्यपि द्रष्टव्यम् (ब्र० सू० १ ।२।१५ वे० क० त० प०) । अथर्ववेदे उक्तं चराचरेषु सर्वेषु विकासात्यिका शक्तिः प्राण एव । यथा- यप्राणा ऋतावागतेऽभिक्रन्दत्यौषधीः । सर्वस्तदा मोदते यत् किञ्च भूम्यामधि (अ० वे०१।६।४) । यदा प्राणो अभ्यवर्षीद् वर्षेण पृथिवीं महीम् (तत्रैव ५) अभिवृष्टा ओषधयः प्राणेन समवादिरन् (तत्रैव ६) ११. ब्रह्म । ब्र० सू० प्राणाधिकरणे १/१/२३ प्रतर्दनाधि० १/१/२८ शा० भा० प्रसाधितम् । प्राणमयकोशः, प्राणमयकोश अन्नमयमनोमयप्राणमयविज्ञानमयानन्दमयकोशेष्वन्यतमः क्रियाशक्तिमान् । यथा – इदं प्राणादिपञ्चकं कर्मेन्द्रियैः सहितं सप्राणमयकोशो भवति । अस्य क्रियात्मकत्वेन रजोंऽशकार्यत्वम् । एतेषु कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान् कर्तृरूपः । मनोमय इच्छाशक्तिमान् करणरूपः । प्राणमयः क्रियाशक्तिमान् कार्यरूपः । .... स्थूलशरीरमन्नविकारत्वादेव हेतोरन्नमयकोशो जाग्रदिति चोच्यते । ..... अस्य प्राज्ञत्वमस्पष्टोपाधितयाऽनतिप्रकाशत्वात् अस्यापीदमहङ्कारादिकारणत्वात् कारणशरीरम् । आनन्दप्रचुरत्वादाकाशवदाच्छाकत्वाच्चानन्दमयकोशः सर्वोपरमत्वात् सुषुप्तिः (वे० सा० ) । यथा च - स्यात्पञ्चीकृतभूतोत्थो देहः स्थूलोऽन्नसंज्ञकः । लिङ्गे तु राजसैः प्राणैः प्राणः कर्मेन्द्रियैः सह (प० द० १ ।३४) । यथा च - तद्विजिज्ञापयिषयैवान्नमयादयः आनन्दमयपर्यन्ताः पञ्चकोशाः कल्प्यन्ते ( ब्र० सू० १ । १ । १९) । प्रातिभासिकम्, प्रातिभासिक सत्त्वं त्रिविधम् - पारमार्थिकम्, व्यावहारिकम्, प्रातिभासिकञ्चेति । लौकिकेन प्रमाणेन यद् बाध्यं तत् प्रातिभासिकं सत्त्वम् । यथा - शुक्तौ रजतमिति ज्ञानम्, रज्जौ सर्प इति ज्ञानादि । यथा - प्रातिभासिकं रजतं चाविद्यापेक्षया परिणामः, चैतन्यापेक्षया विवर्त इति चोच्यते । अविद्यापरिणामरूपं च तदुजतमविद्याधिष्ठाने इदमवच्छिन्नचैतन्ये वर्तते । अस्मन्मते सर्वस्यापि कार्यस्य स्वोपादानाविद्याधिष्ठानाश्रितत्वनियमात् । ननु चैतन्यनिष्ठस्य रजतस्य कथमिदं रजतमिति पुरोवर्तितादात्यम् । उच्यते । यथा न्यायमते आत्मनिष्ठस्य सुखादेः शरीरनिष्ठत्वेनोपलम्भः । शरीरस्य सुखाद्यधिकरणतावच्छेदकत्वात् । तथा चैतन्यमात्रस्य रजतं प्रत्यधिष्ठानतया इदमवच्छिन्नचैतन्यस्य तदधिष्ठानत्वेन इदमोऽवच्छेकतया रजतस्य पुरोवर्तिसंसर्गप्रत्यय उपपद्यते । तस्य च विषयचैतन्यस्य तदन्तःकरणोपहितचैतन्याभिन्नतया विषयचैतन्याध्यस्तमपि रजतं साक्षिण्यध्यस्तं केवलसाक्षिवेद्यं सुखादिवदनन्यवेद्यमिति चोच्यते (वे० प० १ प०) । प्राप्यप्रकाशकारित्वम्, प्राप्यप्रकाशकारित्व विषयान् प्राप्य प्रकाशं कर्तुं शीलं यस्य तत् प्राप्यप्रकाशकारि तस्य तत्त्वम् । इन्द्रियाणां प्राप्यप्रकाशकारित्वम् । कञ्चिद् इन्द्रियं विषयदेशं गत्वा विषयं प्राप्य प्रकाशयति । यथा- आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेन ततः प्रत्यक्षज्ञानमुत्पद्यते (त० सं० दी० प्र० ख०) । यथा च - एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति (सा० का० ३६) । १ . सन्निकृष्टग्राहित्वम् । यथा - बाह्येन्द्रियाणाम् । २. विषयदेशं गत्वा विषयप्रकाशकत्वम् । यथा - न्यायमते चक्षुरिन्द्रियस्यैव प्राप्यप्रकाशकारित्वम् । गोलकमेव चक्षुः न तैजसम् इत्युच्छृङ्खलमते तु चक्षुरप्राप्यप्रकाशकार्येव भवति । यदि प्राप्यप्रकाशकारि स्यात्तदा रसनादिवदधिष्ठानसम्बद्धं गृह्णीयात् । न चैवम् । गोलकासम्बद्धग्रहणात् इत्यादि (दि० १ तेजो०) । मायावादिमते तु श्रोत्रस्यापि प्राप्यप्रकाशकारित्वम् (वाचस्०) इति । प्रामाण्यं द्विविधम्, प्रामाण्य द्विविध एवं निरूपितानां प्रमाणानां प्रामाण्यं द्विविधम्व्यावहारिकतत्त्वावेदकत्वं पारमार्थिकतत्त्वावेदकत्त्वं चेति । तत्र ब्रह्मस्वरूपावगाहिप्रमाणातिरिक्तानां सर्वप्रमाणानामाद्यं प्रामाण्यम्, तद्विषयाणां व्यवहारदशायां बाधाभावात् । द्वितीयं तु जीवब्रह्मैक्यपराणां सदेव सोम्येदमग्र आसीत् (छा० ६।२।१) । इत्यादीनां तत्त्वमसि (छा० ६।८।१ ) इत्यन्तानाम् । तद्विषयस्य जीवपरैक्यस्य कालत्रयाबाध्यत्वात् । प्रारब्धम्, प्रारब्ध कर्म अदृष्टं वा त्रिविधम् - सञ्चितम् प्रारब्धम् क्रियमाणं च । तत्र येनादृष्टेन कर्मणा इदं शरीरमारब्धं तत् प्रारब्धम् । यथा - नैष दोषो यतोऽनेकविधं प्रारब्धमीक्ष्यते । इच्छाऽनिच्छा परेच्छा च प्रारब्धं त्रिविधं स्मृतम् (प० द० ७ । १५२ ) । यथा च - अपथ्यसेविनश्चोरा राजदाररता अपि । जानन्त एव स्वानर्थमिच्छन्त्यारब्धकर्मतः (प० द० ७।५३) । यथा च - किन्तु यावत् प्रारब्धकर्मक्षयं सुखदुःखे अनुभूय पश्चादपवृज्यते । ननु क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे (मु० ३१८) इत्यादिश्रुत्या ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा (भ० गी० ४ । ३७) इत्यादि स्मृत्या च ज्ञानस्य सकलकर्मक्षयहेतुत्वनिश्चये सति प्रारब्धकर्मावस्थानमनुपपन्नमिति चेत् । न । तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये (छा० ६।१४।२) इत्यादिश्रुत्या नाभुक्तं क्षीयते कर्म इत्यादिस्मृत्या चोत्पादितकार्यकर्मव्यतिरिक्तानां कर्मणामेव ज्ञानविनाशित्वावगमात् (वे० प० ८ प० ) । प्लवः, प्लव तारकः यज्ञादिरूपः । यथा- संसारसागरात् प्लवन्ते गच्छन्ति अस्थायिन इति प्लवाः । अत एवादृढ़ाः (ब्र० सू० १ ।२।२१ भाम०) । यथा च प्लवा ह्येते अदृढ़ा यज्ञरूपा अष्टादशोक्तमपरं येषु कर्म एतच्छ्रेयो येऽभिनन्दन्ति मूढ़ा जरामृत्युं ते पुनरेवापियन्ति (मु० १ ।२।७ ) । इत्येवमादिनिन्दावचनात् (तत्रैव शा० भा० ) । प्रेत्यभावः, प्रेत्यभाव (क) पुनरुत्पत्तिः प्रेत्यभावः (गौ० १ । १ । १९) उत्पन्नस्य क्वचित्सत्त्वनिकाये मृत्वा या पुनरुत्पत्तिः स प्रेत्यभावः। उत्पन्नस्य सम्बद्धस्य सम्बन्धस्तु देहेन्द्रियमनोबुद्धिवेदनाभिःपुनरुत्पत्तिः पुनर्देहादिभिः सम्बन्धः (वात्स्या० १।१।१९)। अत्र वृत्तिः । प्रेत्य मृत्वा भावो जननं प्रेत्यभावः । तत्र पुनरित्यनेनाभ्यासकथनात् प्रागुत्पत्तिस्ततो मरणम् तत उत्पत्तिरिति प्रेत्यभावो जननादिरपवर्गान्तः । एतज्ज्ञानं च वैराग्य उपयुज्यत इति प्रेत्य इति न व्यर्थम् (गौ० ब्र० १/१/१९) (नील०) । अयं धर्माधर्माभ्यामुत्पद्यते । अस्यैव च प्रेत्यभावस्य अजरं जरीभाव इति वैदिकी संज्ञा (वै० उ० ६।२।१५) । प्रेत्यभावश्च आत्मनः पूर्वदेहनिवृत्तिः उत्तरदेहसंघातलाभः इति (त० भा० पृ० ४०) । पुनर्ग्रहणं संसारानादित्वे ज्ञापनार्थम् । (ख) पूर्वोपात्तशरीरादिपरित्यागादन्यशरीरसंक्रान्तिः (न्या० वा० १।१।१९) । (ग) मरणोत्तरं जन्म (दि० १) (त० दी०) (नील०) (ता०र० श्लो० ३१) । तद्यथा श्रूयते वसिष्ठर्षेरुर्वश्यां पुनरुत्पत्तिः इति । (घ) जन्ममरणप्रबन्ध: संसार: (वै०3० ६।२।१५) । प्रबन्ध: प्रवाहः (वै० वि० ६।२।१५) । (ङ) प्रवाहरूपेणानादिसम्बन्धः संसारः (वाच०) । (न्या० को०) प्रेयः, प्रेयस् अतिशयेन प्रियः संसारसुखादि । तदतिरिक्तं श्रेयः आत्यन्तिकं कल्याणम् । यथा- 'वृणुते' क० उ० अविद्यारूपं प्रेयः (तत्रैव २।१ शा० भा० ) । यथा च - अभ्युदयार्थी प्रेयसि कर्मणि, अमृतत्त्वार्थी श्रेयसि मोक्षसाधने (तत्रैव २ । १ गो० टी०) । यथा च - या च अविद्या प्रेयोविषया (तत्रैव २।४ शा० भा०) । फलव्याप्यत्वम्, फलव्याप्यत्व अद्वैतवेदान्तसम्मतप्रत्यक्षप्रक्रियायां वृत्तिव्याप्यत्वं फलव्याप्यत्वं चाङ्गीक्रियेते । घटादिप्रत्यक्षे घटाकाराकारितान्तःकरणवृत्तौ घटस्य वृत्तिव्याप्यत्वम् । अत्रैव घटादिविषयावच्छिन्नचैतन्येन सह प्रमातृचैतत्यस्य अपृथग्भावे = विषयाकारवृत्त्युपहितप्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्वशून्यत्वे घटप्रत्यक्षता भवति तेन उपाधिसहितयोर्द्वयोश्चैतन्ययोरपृथग्भावे घटप्रत्यक्षता फलव्याप्यता । यथा - अयमंत्र निष्कर्षः- वृत्तिप्रतिबिम्बितचिज्जन्यातिशययोगित्वं वृत्त्या तत्प्रतिफलितचिता वा अभिव्यक्ताधिष्ठानचिद्विषयत्वं वा फलव्याप्यत्वम् । चिज्जन्यातिशयश्च नावरणभङ्गः नापि व्यवहारो विवक्षितः । किन्तु भग्नावरणचित्सम्बन्धः । स च घटादावस्ति नात्मनि । सम्बन्धस्य भेदगर्भत्वात् (अ० सि० ब्रह्मणः स्व प्रकाश ० ) । इदं च फलव्याप्यत्वं घटादिजडविषयसाक्षात्कारे भवति ब्रह्मसाक्षात्कारे तु न भवति । ब्रह्मसाक्षात्कारे केवलं वृत्तिव्याप्पत्वमेवापेक्ष्यते । यदा अहं ब्रह्मास्मीति अखण्डाकाराकारिता चित्तवृत्तिरुदेति तदा सा चिप्रतिबिम्बसहिता सती प्रत्यगभिन्नमज्ञातं परं ब्रह्म विषयीकृत्य तद्गताज्ञानमेव वाधते । यथा पटकारणतन्तुदाहे पटदाहस्तथैव सकलप्रपञ्चकारणाज्ञाननाशे जगत्प्रपञ्चान्तर्गतचित्तवृत्तिरपि नश्यति परब्रह्ममात्रं भवति । यथा - ब्रह्मास्मीत्यखण्डाकाराकारिता चित्तवृत्तिरुदेति । सा तु चिप्रतिबिम्बसहिता सती प्रत्यगभिन्नमज्ञातं परं ब्रह्म विषयीकृत्य तद्गताज्ञानमेव बाधते । तदा पटकारणतन्तुदाहे पटदाहवदखिलकारणेऽज्ञाने बाधिते सति तत्कार्यस्याखिलस्य बाधितत्वात् तदन्तर्भूताखण्डाकाराकारिता चित्तवृत्तिरपि बाधिता भवति । तत्र प्रतिबिम्बितं चैतन्यमपि यथा दीपप्रभादित्यप्रभावभासनासमर्था सती तयाभिभूता भवति तथा स्वयम्प्रकाशमानप्रत्यगभिन्नपरब्रह्मावभासनानर्हतया तेनाभिभूतं सत् स्वोपाधिभूताखण्डचित्तवृत्तेर्बाधितत्वाद् दर्पणाभावे मुखप्रतिबिम्बस्य मुखमात्रत्ववत् प्रत्यगभिन्नपरब्रह्ममात्रं भवति । एवञ्च सति मनसैवानुद्रष्टव्यम्, यन्मनसा न मनुत इत्यनयोः श्रुत्योरविरोधो वृत्तिव्याप्यत्वाङ्गीकारेण फलव्याप्यत्वप्रतिषेधप्रतिपादनात् । तदुक्तम्- फलव्याप्यत्वमेवास्य शास्त्रकृद्धिर्निवारितम् । ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता । इति । स्वयंप्रकाशमानत्वान्नाभास उपयुज्यते । इति च । जडपदार्थाकाराकारितचित्तवृत्ते र्विशेषोऽरित । तथाहिअयं घट इति घटाकाराकारितचित्तवृत्तिरज्ञातं घटं विषयीकृत्य तद्गताज्ञाननिरसनपुरस्सरं स्वगतचिदाभासेन जडघटमपि भासयति । तदुक्तम्- बुद्धितत्स्थचिदाभासौ द्वावेतौ व्याप्नुतो घटम् । तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेदिति । यथा दीपप्रभामण्डलमन्धकारगतघटपटादिकं विषयीकृत्य तद्गतान्धकार-निरसनपुरस्सरं स्वप्रभया तदपि भासयतीति (वे० सा० ५८, ५९) । बद्धः, बद्ध अविद्यानिगडितो जीवः । यथा च - अनेनाल्परूपेण धर्मधर्म्यध्यासात्मकेनाऽऽत्मा बद्धो निगडितः स्वच्छोऽप्यस्वच्छ इव विज्ञोऽप्यज्ञ इवाऽऽनन्दोऽप्यशनायादिविविधदुःखदावदहनप्रदीप्तशिरा इवानिशं बम्भ्रमीति (सं०शा० ५०सु०टी०) । बन्धः, बन्ध १. जीवस्य मूलतूलाविद्यायोगः अविद्योपरागो वा । यथाअविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः (अ० सि० गौ० ब्र० आदौ) ।२. पारतन्त्र्यं बन्धः ( स० द० सं० अक्षपादः) । ३. (क) आत्मनः शरीरादिसम्बन्धः । (ख) मिथ्यादर्शनाविरतिप्रमादकषायवशाद् योगवशाच्चात्मा सूक्ष्मैकक्षेत्रावगाहिनामनन्तप्रदेशानां पुद्गलानां कर्मबन्धयोग्यानामादानमुपश्लेषणं यत् करोति स बन्धः । तदुक्तम् (त० सू० ८२) (स० द० सं० आर्हत०) अन्योन्यं प्रदेशानुप्रवेशे सत्यविभागेनावस्थानं बन्धः । (स० द० सं० आ०) पारतन्त्र्यं बन्धः (अक्षपादः) अविद्यास्तमयो मोक्ष स च बन्ध उदाहृतः (अद्वैतिनः) । (न्या० को०) बन्धनम्, बन्धन अविद्यया आत्मनः परिच्छिन्नत्वम् । यथा - यदल्पं परिच्छिन्नमात्मनः प्रमातृत्वादिरूपं तद्बन्धनम् । बन्धोऽविद्याकृतः । अनेन बन्धनेन स्वभावतः स्वच्छचैतन्यमूर्त्तिरपि प्रत्यगात्मा बद्धो निगडितः (सं० शा० ५० अ० का० टी०) । बन्धमोक्षौ, बन्धमोक्ष अविद्योपाधानम्, तथा अविद्यानाशः । यथा - असङ्गायाश्चितेर्बन्धमोक्षौ भेदाग्रहान्मतौ । बन्धमुक्तिव्यवस्यार्थं पूर्वेषामिव चिद्भिदा (प० द० ६।१००) । बलम्, बल सहायकसम्पत्त्यादि । यथा - बलं सहायकसम्पत्तिः (गी० १ आ० गि० टी०) । बहिरङ्गसाधनम्, बहिरङ्गसाधन आत्मज्ञानार्थं श्रवणादौ अन्तःकरणशुद्धिद्वारा प्रवर्तनार्थं यज्ञादि । यथा - विविदिषन्ति यज्ञेन (बृ० उ० ४।४।२२) इत्यादिश्रुतिभिरिच्छाद्वारा श्रवणादौ प्रवर्तकत्वाद् बहिरङ्गम् (सं० शा० ३।३३० सु० टी०) । यज्ञादिकं बुद्धिशुद्ध्यादि-फलजनकत्वेन कारकत्वाद् बहिरङ्गम् (तत्रैव ३ । ३३१ सु० टी०) । यथा च - तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन (बृ० उ०४।४।२२) । इत्यत्र यज्ञदानादिकर्मजातं विविदिषोदयाय श्रुतं तत्सर्वं बहिरङ्गसाधनमेवेत्यवगच्छ (सं० शा० ३।३३० अ० टी०) । बाध:, बाध १. अभावः (वाक्य० ४ पृ० १९) । २. हेत्वाभासविशेषः । स च प्राचीनमते साध्याभाववत्त्वप्रमाविषयपक्षकत्वम् । अथवा प्रमितसाध्याभाववत्पक्षकत्वम् । तथा च साध्याभावप्रमैव दोषः । एतादृशबाधज्ञानस्य प्रमात्वविषयकता नियमेन प्रतिबन्धकता ध्रौव्यादिति भावः । तथा चैतन्मते प्रमात्वविषयकत्वस्यैव प्रतिबन्धकतायां प्रयोजकत्त्वाद्धेत्त्वाभासलक्षणस्य समन्वयो भवति (ग० बांध० पृ०१) । (न्या० को०) बाल्यम्, बाल्य यथा पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् (बृ० उ० ३/५/१) । बालस्य भावः कर्म वा बाल्यम्.... ज्ञानाध्ययनधार्मिकत्त्वादिभिरात्मानम् अविख्यापयन् दम्भदर्पादिरहितो भवेत् । यथा बालोऽप्ररूढेन्द्रियतया न परेषामात्मानमाविष्कर्तुमीहते तद्वत् (ब्र० सू० ३/४/५० शा० भा० ) । बिम्बम्, बिम्ब ग्रीवास्थं मुखं बिम्बं दर्पणस्थं प्रतिबिम्बं तथैव शुद्धं चैतन्यं बिम्बम् । एतस्य प्रतिबिम्बं जगत् । यथा- आत्माभासा विविक्ता च चिठप्रतिबिम्बः स ईश्वरः, शुद्धं चैतन्यमेव च बिम्बमित्यर्थः (सं० शा०३ । २७७ सु० टी०) । यथा च - "आभास हेतुभूता शुद्धचिदेव बिम्बमुक्तम् । प्रतिबिम्बापेक्षया बिम्बमुच्यत ईश्वरः । वाचकपदलक्ष्यं तद्भवतीत्यर्थः (सं० शा० ३।२७७ अ० टी० ) । यथा च - शुद्धचिद्बिम्बमित्याहुरित्यर्थः (तत्रैव ३।२७८ सु० टी०) । यथा च - अनन्वितामुपाधितत्स्थाभासतदविविक्ताकारेभ्यो विविक्तां तां चिदमिह त्वमर्थे बिम्बमाहुरध्यात्मतत्त्वविद इति योज्यम् (तत्रैव ३।२७८ अ० टी०) । यथा च - चित्रबिम्बकेऽपि भागमाभासांशं विविक्तत्वं मृषेत्यवेहीति योजना बिम्बं पुनरशेषमेव सत्यमशेषं सत्यमेवेति वा योजना (तत्रैव ३।२७८ अ० टी०) । बुद्धः, बुद्ध १. ज्ञाता । २. वेदतत्कर्मणोर्निन्दाकर्ता भगवतोऽवतारविशेषः । स च विष्णोश्चतुर्विंशत्यवतारमध्य एकविंशोऽवतारः । यथोक्तम्- ततः कालौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् । बुद्धो नाम्ना जिनसुतः कीकटेषु भविष्यति (श्रीमद्भाग० १ । ३ । २४) । इति । बुद्धत्वम्, बुद्धत्व ज्ञानत्वं चैतन्यं वा । यथा - बुद्धत्वमजडत्वम् (गी० १ आ० गि० टी०) । बुद्धिः, बुद्धि १. अन्तःकरणवृत्तिः । यथा तदुक्तं विवरणे अन्तःकरणवत्तौ ज्ञानत्वोपचारादिति .....वृत्तिरूपज्ञानस्य मनोधर्मत्वे च - कामः संकल्पो विचिकित्सा श्रद्धा श्रद्धाधृतिरधृतिर्धीभरित्येतत्सर्वं मन एव (बृ० आ० उ० १/५/३) श्रुतिर्मानम् । धीशब्देन वृत्तिरूपज्ञानाभिधानात् (वे० प० १ प०) । यथा च अध्यवसायलक्षणा बुद्धिः (गी० १२/१४ शा० भा० ) । यथा च - बुद्धिरध्यवसायः (तत्रैव नी० क०) । यथा च सङ्कल्पविकल्पात्मकं मनोऽध्यवसायलक्षणा बुद्धिश्च (तत्रैव भाष्यो०) । यथा च – बुद्धेर्नाशः कार्याकार्यविषयविवेकयोग्यान्तःकरणस्य बुद्धेर्नाश उच्यते (गी० २।६३ शा० भा०) यथा च - तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तद्विधा । मनो विमर्शरूपं स्याद्बुद्धिः स्यान्निश्चयात्मिका (प० द० १ । २०) । यथा च - बुद्धिरन्तःकरणस्य सूक्ष्माद्यर्थावबोधनसामर्थ्यम् (गी० १०४ शा० भा०) । यथा चबुद्धिरन्तःकरणस्य सूक्ष्मार्थविवेकसामर्थ्यम् (तत्रैव म० सू०) । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी । राजसी यथा - यया धर्ममधर्मच कार्यं चाकार्यमेव च । अयथावप्रजानाति बुद्धिः सा पार्थ राजसी । तामसी यथा - अधर्मं धर्ममिति या मन्यते तमसावृता। सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी । (गी० १८/३०-३२)। इति । बुद्धेः पञ्चगुणा यथा - इष्टानिष्टविपत्तिश्च व्यवसायः समाधिता । संशयः प्रतिपत्तिश्च बुद्धेः पञ्च गुणान्विदुः । (महा० भा० मोक्षधर्मे) इति (न्या० को०) । २ – सम्यग् ज्ञानम् । यथा च अतो बुद्धौ योगरूपायां वा निमित्तकं शरणं रक्षितारमाश्रयं वा ईश्वरम् अन्विच्छ प्रार्थयस्व (गी० २।४९ शा० भा० ) । यथा च - बुद्धौ परमात्मबुद्धौ सर्वानर्थनिवर्तकायां शरणं प्रतिबन्धपापक्षयेण रक्षकं निष्कामकर्मयोगम् (तत्रैव म० सू०) इत्यद्वैत-वेदान्तिनः । यथा च - १. धर्मपत्नीभेद इति पौराणिका वदन्ति (भा० आ० अ० ६६ ) । २. (गुण:) (क) बुद्धिस्त्वसामान्यवती (प्र० प्र०) (त० कौ० १ पृ० ६) । सा चात्ममात्रवृत्तिः । न त्वन्तःकरणवृत्तिः अव्याप्यवृत्तिः मनोमात्रगम्या च । लक्षणं च बुद्धयादिपदवाच्यत्वम् । अनुभवसिद्धज्ञानत्वजातिरेव वा (गौ० वृ० १/१/१५) अथवा जानामि इत्यनुव्यवसायगम्यज्ञानत्वम् (त० दी० १ पृ० १४) (सि० च० १ पृ० १६) अथवा सम्बन्धावच्छिन्नप्रकारतानिरूपितप्रकारितासमानाधिकरणगुणत्वव्याप्यजातिमत्त्वम् ( ल० व०) बुद्धिविशेषाः केचिदुच्यन्ते । सन्निकृष्टे वस्तुनि तावद् अयमिति बुद्धिरुत्पद्यते । विप्रकृष्टे वस्तुनि एष' इति बुद्धिः । क्रियायां स्वतन्त्रोऽयमिति बुद्धिमपेक्ष्य त्वया इति कर्तृत्वोपरक्ता बुद्धिः । करणव्यापारविषयत्वबुद्धिमपेक्ष्य कृतमिति कर्मबुद्धिः । अयं भुजिक्रियायां कर्ता प्रयोजकश्चायमिति बुद्धिमपेक्ष्य भोजय इति बुद्धिः । नियोज्यनियोक्तृव्यापारस्य विषयोऽयमिति बुद्ध्यपेक्षमेनमिति ज्ञानम् । एवमन्यदपि बुद्ध्यपेक्षमूहनीयम् (वै० उ० ८।२।१ पृ० ३६८-३६९) । (ख) आत्माश्रयः प्रकाशः (प० च० पृ० ३०) । (ग) आत्मगुणत्वे सत्यर्थप्रकाश: (त० प्र०) (त० भा०) (त० कौ०) (ता० २० श्लो० २९) । (च) सर्वव्यवहारहेतुर्ज्ञानम् (त० सं०) । यथा भोगः (वात्स्या० १।१।९) । सांख्यास्तु सत्त्वरजस्तमोगुणात्मिकाया अनादिपरिणामिनित्यव्यापिप्रकृतेर्जडाया आद्यः परिणामोऽन्तःकरणरूपो महत्तत्वोपयोगी बुद्धि: (कु० १) (वै० उ० ८1१1१) (सि० च० पृ० १९) । अध्यवसायो वा बुद्धिः इत्याहु: (सांख्य सू० २।१३) । मायावादिनस्तु निश्चयात्मकवृत्तियुतमन्तःकरणं बुद्धिः इत्याहुः । अत्रोच्यते निश्चयात्मा निराकारा बुद्धिरित्यभिधीयते इति वासिष्ठे (सांख्य भा० १ । ६४)।मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया अमी इति (वे० सा०) न्यायमते बुद्धिर्द्विविधा - नित्या अनित्या च । तत्र नित्या परमात्मनः । सा च साक्षात्काराभिधा । प्रत्यक्षप्रमात्मिकैव । अनित्या तु जीवस्य । अनित्या द्विविधा-स्मृतिः, अनुभवश्च । तौ च प्रत्येकं द्विविधौ यथार्थोऽयथार्थेश्चेति । अनुभवश्च चतुर्विधः प्रत्यक्षम्, अनुमितिः, उपमितिः, शाब्दबेधश्च । तत्र यथार्थानुभवः प्रमा इत्युच्यते । अयथार्थानुभवस्तु अप्रमा इति, भ्रम इति चोच्यते । वेदान्तिमते बुद्धिः सात्त्विकराजसतामसभेदेन त्रिविधा, तत्र सात्त्विकी यथा - प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः स पार्थ सात्त्विकी (गी० १८।३०) । यया धर्ममधर्मं च कार्यं चाकार्यमेव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी । (तत्रैव १८।३१ ) । अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान् विपरीताँश्च बुद्धिः सा पार्थ तामसी (तत्रैव १८ । ३२) । बुद्धियोगः, बुद्धियोग सम्यग्दर्शनं ज्ञानयोगो वा । यथा- बुद्धियोगं बुद्धिः सम्यग्दर्शनं मत्तत्त्वविषयं तेन योगो बुद्धियोगस्तं बुद्धियोगम् (गी० १०/१० शा० भा०) । यथा च- बुद्धियोगं ज्ञानरूपं योगं समाधिम् (तत्रैव नी० क० ) । यथा च - बुद्धियोगं महत्तत्त्वविषयं सम्यग्दर्शनम् (तत्रैव् म० सू० ) । यथा च - तं सम्यग्ज्ञानलक्षणमविकम्पबुद्धियोगं ददामि (तत्रैव भाष्यो० ) । बोधः, बोध ज्ञानम्, जागरितावस्था च, सम्यग्ज्ञानं च । यथा च - बोधव्यमिति च यथाभूतदर्शनमुच्यते (गी० ४।१८ शा० भा०) । यथा च - बोधशब्दस्य सम्यग्ज्ञाने प्रसिद्धत्वात् कर्माकर्मविकर्मणां स्वरूपमस्तीति वदता सम्यग्ज्ञानोपदेशस्य विवक्षितत्त्वादपि कूटस्थं ब्रह्ममात्राभिप्रेतमित्याह - बोधव्यमिति चेति (तत्रैव आ० गि०) । बोधस्वरूपम्, बोधस्वरूपम् प्रत्यगात्मोपलम्भः सम्यग्ज्ञानं च । यथा- नैष्कर्म्यसिद्धिकारैर्हिप्रतीचो बोधत्वमात्मत्वं च द्वे निर्निमित्ते स्वाभाविके उक्ते । तथा बुद्धेरपि ते तन्निमित्ते तेन सह परस्पराध्यासनिर्व्यूढ़े शबले उक्ते । तथा ते बुद्धिधर्मो बुद्धिपरिणामात्मके व्यावहारिके उक्ते । एवं तात्त्विकाध्यासिकपारिणामिकभेदेन त्रिधा बोधात्मत्वे उक्ते (सं० शा० १/१९० सु० टी० पृ० १८२-८३) । अस्यार्थः - चिदात्मनो निर्विकारनित्यबोधः सर्वान्तरत्वं च क्रमेण तत्राध्यस्ताया बुद्धेर्बोद्धृत्वात्मत्वयोर्हेतुः स्वचिदाध्यासव्याप्त्या तत्र तद्व्यवहारप्रवृत्तिनिमित्तं यत् एवं तेन हेतुना ताभ्यामागमापायिबुद्धिगताभ्यां बोधात्मत्वाभ्यां तत्कारणरूपकूटस्थबोधः प्रत्यगात्मोपलक्ष्यत इति (सं० शा० १/१९० अ० टी०) । बौद्धः, बौद्ध १ . बुद्ध्या प्रकल्पितोऽर्थः बौद्धोऽर्थः ।२. शाक्यमुनिबुद्धसम्प्रदायानुयायी च । यथा- एतेषामपि बुद्धौ बोधव्याभावात् पूर्ववल्लीनायां समाधिबुद्धिरस्ति । नन्वेतैर्बुद्धेरन्यत्वेन नात्मा ज्ञातो नापि तस्मिन् बुद्धिरूपसंहता । अत एवैतान् प्रकृत्योक्तं वायवीये - बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः इति । बौद्धा बुद्धौ लीनाः दशसहस्राणि मन्वन्तराणीत्यनुषङ्गात् (गी० ४।२७ नी० क० ) । (नास्तिक:) वेदो न प्रमाणमिति यत्किञ्चिद्वेदविशेष्यकानाहार्यनिश्चयवान् (मू० म० १ ) । यथा - सुगतादिबौद्धः । अत्र व्युत्पत्तिः । बौद्धं बुद्धप्रोक्तशास्त्रं वेत्त्यधीते वा बौद्धः इति । अत्र व्याकरणं तदधीते वेत्ति वा (अणू) इति । तत्र बौद्धाश्चतुर्विधाः । १. माध्यमिकाः, २. योगाचाराः, ३. सौत्रान्तिकाः, ४. वैभाषिकाश्च इति । ते च बौद्धाश्चतुर्विधया भावनया परमपुरुषार्थं कथयन्ति । चतुर्विधभावना च १ . सर्वं क्षणिकं क्षणिकमिति । २. दुःखं दुःखमिति, ३. बाह्यार्थानुमेयत्वम्, ४. बाह्यार्थप्रत्यक्षत्वमिति वादानातिष्ठन्ते (सर्व० सं० बौद्ध०) । तत्र माध्यमिकादीनां संक्षेपतो मतमुपन्यस्यते । तत्त्वचतुष्टये भगवतोपदिष्टे १. माध्यमिकास्तावत् प्रज्ञा इत्थमचीकथन् । भिक्षुपादप्रसारणन्यायेन क्षणभङ्गाद्यभिधानमुखेन स्थायित्वानुकूलवेदनीयत्वानुगतसर्वसत्यत्वभ्रमव्यावर्तनेन सर्वशून्यतायामेव पर्यवसानम् । अतस्तत्त्वं सदसदुभयानुभयात्मकचतुष्कोटिविनिर्मुक्तं शून्यमेव । दृष्टा व्यवहारश्च स्वप्नव्यवहारवत् संवृत्त्या सङ्गच्छते । अत एवोक्तं परिव्राट्कामुकशुनामेकस्यां प्रमदायां नौः कामिनी कुणपः भक्ष्य इति तिस्रो विकल्पनाः इति । २. केषाञ्चित् बौद्धविशेषाणां योगाचार इति संज्ञा । गुरुभक्तभावनाचतुष्टयं बाह्यार्थस्य शून्यत्वं चाङ्गीकृत्य आन्तरस्य शून्यत्वं कथमिति - पर्यनुयोगस्य करणादेतेषां योगाचारप्रथा । ३. सौत्रान्तिका इत्थं मन्यन्ते । बाह्यमर्थजातमस्त्येव । तच्चानुमीयते । यथा - पुष्ट्या भोजनमनुमीयते यथा च भाषया देशः यथा वा सम्भ्रमेण स्नेहः तथा ज्ञानकारणेन ज्ञेयमनुमेयमिति । ४. केचन बौद्धाः (वैभाषिकाः) बाह्येषु गन्धादिषु आन्तरेषु च रूपादिषु स्कन्धेषु सत्स्वपि तत्रानास्थामुत्पादयितुं सर्वं शून्यमिति प्राथमिकान् माध्यमिकान् विनेयानचीकथद्-भगवान् । द्वितीयांस्तु योगाचारान् विज्ञानमात्रग्रहनिष्टान् विज्ञानमेवैकं सत् इत्यचीकथत् । तृतीयान् सौत्रान्तिकान् उभयं सत्यमित्यास्थितान् विज्ञेयमनुमेयमित्यचीकथत् । सेयं विरूद्धा भगवतो भाषा इति वर्णयन्तो बौद्धा वैभाषिकाख्ययाख्याताः (सर्व०) (न्या० को०) । ब्रह्म, ब्रह्मन् १ (क) व्यापकं सर्वातिशायि भूम ईश्वर अत्मा चेत्यादि । यथाब्रह्मपदं हि बृहिधातोर्व्युत्पन्नं भूमानमेव यत्र नान्यत्पश्यति (छा० उ०७।२४।१शा० भा०) इत्यादिना लक्षितं वक्तुं न तु यद् रूपं तन्मर्त्यमित्यादिना लक्षितं परिच्छिन्नमित्यर्थः (सं० शा० १ ।५२१ सु० टी०) यथा च - न च ब्रह्मपदस्येषदपि भेदमादाय वृत्तिसङ्कोचो युक्तो भूमलक्षणवाचो सर्वभेदरहितं ब्रह्मभूमेति प्रतिष्ठापितत्त्वात्तेन विरोधापत्तेरिति सूचयति भूमानमिति । तथा च श्रुतिर्भूमलक्षणपरा पठ्यते यत्र नान्यत् पश्यति नान्यत् शृणोति नान्यत्र विजानाति स भूमा - छा० उ० ७।२४।१ - इति सर्वभेदरहितमविषयभूतं ब्रह्म (सं० शा० १ । ५२१ अ० टी०) । (ख) यथा च - बृहत्वात् ब्रह्मेति व्युत्पत्तिबलेनास्ति किमपि महद्वस्त्वित्यविशेषेण प्रतीयते (तै० उ० ब्र० व० १ अनु० १ शा० भा० ) । बृह्-बृहि वृद्धौ इति धातोर्ब्रह्मेति शब्दो निष्पन्नो बृद्धौ महत्त्वे वर्तते । तच्च महत्त्वं देशतः कालतो वस्तुतश्चानवच्छिन्नत्वं सङ्कोचकमानान्तराभावान्निरतिशयमहत्त्वसम्पन्ने धर्मिणि पर्यवस्यति (तै० उ० १/१ शा० भा० श० न० टी०) । (ग) महत्तमम् ( ब्र० सू० १ १/४ भाम०) (घ) बृहत्त्वाद् बृंहणत्त्वाद् वात्मैव ब्रह्मेति गीयते ( ब्र० सू० अध्यासभाष्ये भाम०) । (ङ) बृहत्वाद् बृंहणत्वादात्मैव ब्रह्मेति ( ब्र० सू० अध्यास ० भाम०) । बृंहणत्वाद् देहादीनां परिणमयितृत्वात् (क० त० प०) । (च) बृहत्वात् सर्वात्मत्वाच्च ब्रह्म, एतत्सर्वम् (बृ० उ० ५ । ३ । १) । २. (क) ब्रह्मणो लक्षणम् । यथा - अवेद्योऽप्यपरोक्षोऽतः स्वप्रकाशो भवत्ययम् । सत्यं ज्ञानमनन्तं चेत्यस्ती ब्रह्मलक्षणम् (प० द० ३।२८) । (ख) ईश्वरः । यथा च सत्यज्ञानमनन्तं यद् ब्रह्म तद्वस्तु तस्य तत् । ईश्वरत्वं च जीवत्वमुपाधिद्वयकल्पितम् (प० द० ३।३७)। (ग) चतुर्मुख: ब्रह्मा । यथा च - चतुर्मुखेन्द्रदेवेषु मनुष्याश्वगवादिषु । चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि (प० द० ५१२) । स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन वर्णितः । अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम् (तत्रैव ४) । (घ) ब्रह्म सोपाधिकं निरुपाधिकं च। यथा- उच्यते- द्विरूपं हि ब्रह्मावगम्यते, नामरूपविकारभेदोपाधिविशिष्टं तद्विपरीतं च सर्वोपाधिविवर्जितम् (ब्र० सू० १ । १ /११ शा० भा०) । (ङ) सर्वोपाधिरहितशुद्धब्रह्मवाचिनः शब्दाः यथा - नित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्यशुद्धबुद्धमुक्तस्वभावो विज्ञानमानन्दं ब्रह्म इत्येवमादयः (ब्र० सू० १/१/४ शा० भा०) । निधर्मिण्यपि ब्रह्मणि केचन आनन्दविषयानुभवनित्यत्वादयो धर्माः भवति । एते धर्मा अपृथक्त्वेऽपि पृथगिव अवभासन्ते । यथा- विषयिणस्तधर्माणां चेत्यध्यासभाष्यावयवं व्याचक्षाणैः पञ्चपादिकाकृद्भिः - ननु विषयिणश्चिदेकरसस्य कुतो धर्मा ये विषयेऽध्यस्येरन् इत्याक्षिप्य समाहितम् - आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्माः । अपृथक्त्वेऽपि चैतन्यात् पृथगिवावभासन्त इति (त० प्र० स्वप्र० प्र० न० प्र० टी०) । ३. ब्रह्मणो लक्षणे मानम्, यथा- ब्रह्मणो जगज्जन्मादिकारणत्वे च यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यप्रयन्त्यभिसंविशन्ति (तै० ३-१) इत्यादिश्रुतिर्मानम् (वे० प० ७ १०) । ४. ब्रह्मणो रूपद्वयम् - यथा - द्वे वाव ब्रह्मणो रूपं मूर्तं चामूर्तं च मर्त्यं चामर्त्यं च स्थितं च यच्च सच्चासच्च (बृ० उ० २।३।१ ) । ५. (क) कार्यब्रह्म- यथा - यः सर्वज्ञः सामान्यतः सर्ववित् विशेषः । यस्य भगवतो ज्ञानमयं तपो धर्मो नायासमयम् तस्माद् ब्रह्मणः पूर्वस्मादेतत्परं कार्यं ब्रह्म (ब्र० सू० १/१/५ भाम० ) । यथा च - उच्यते तत्पदनिर्दिष्टब्रह्मकार्यत्वं जायत इत्यनेनोक्तं ब्रह्मादिपदनिर्दिष्टकार्यप्रकृतित्वं तस्मादिति पञ्चम्योक्तम् (तत्रैव वे०. क० त० प०) । (ख) ब्रह्मा । यथा- उच्छिन्नकाम्यकर्मबन्धनः परब्रह्मभावी ब्रह्मा विद्याहेतोर्ब्रह्मेत्यभिधीयते । दृष्टश्च लोके भाविनीं वृत्तिमाश्रित्य शब्दप्रयोगः (बृ० उ० १।४।१०) ।६. त्रैलोक्यशरीरवैश्वानरः । यथा - अथापि स्याद्यदुक्तं निर्विकल्पमेकलिङ्गमेव ब्रह्म नास्य स्वतः स्थानतो वोभयलिङ्गत्वमस्तीति । तन्नोपपद्यते, कस्मात् ? भेदात् । भिन्ना हि प्रतिविद्यं ब्रह्मण आकारा उपशिष्यन्ते । चतुष्पाद् ब्रह्म षोडशकलं ब्रह्म वामनीत्वादिलक्षणं ब्रह्म त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्रह्मेत्येवं जातीयकाः (ब्र० सू० ३ । २ । १२ शा० भा० ) । ७. वेदः । यथा - कर्म ब्रह्मोद्भवं ब्रह्म वेदः स उद्भवः कारणं यस्य तत् कर्म ब्रह्मोद्भवं विद्धि जानीहि (गी० ३।१५ शा० भा०) । यथा च - कर्म ब्रह्मोन्द्रवं वेदोद्भवम् वेद एव धर्मे प्रमाणं न तु पाखण्डादिप्रणीतागमः ब्रह्म वेदोऽपि अक्षरसमुद्भवम् (तत्रैव नी० क० ) । यथा च - ब्रह्म वेदः स एव उद्भवः प्रमाणं यस्य तत्तथा (तत्रैव म० सू०) । यथा च तच्च यजमानादिव्यापाररूपं कर्म ब्रह्मोद्भवं विद्धि ब्रह्म वेदस्तस्मात् प्रवृत्तं जानीहि (तत्रैव श्रीधरी) । ८. ब्रह्मणो नित्यत्वम् । यथा च- वंशीविभूषितकरान्नवनीरदाभात् । पीताम्बरादरुणविम्बफलाधरोष्ठात् । पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात् कृष्णात्परं किमपि तत्त्वमहं न जाने । ननु निर्विशेषं चेत् ब्रह्म तर्हि ब्रह्मैवैकं ज्ञानात्मकमानन्दात्मकमद्वितीयं नित्यं साक्षि चेति नोपपद्यते । तथाहि - तत्र तावत् ज्ञानत्वं किं जातिविशेषो वा, साक्षाद्व्यवहारजनकत्वं वा, जडविरोधित्वं वा, जडान्यत्वं वा, अज्ञानविरोधित्वं वा, अर्थप्रकाशात्मकत्वं वा, पराङ्गीकृतं वा । .... इति चेत्, न अर्थप्रकाशत्वमेव ज्ञानत्वम् । मुक्तावर्थाभावेऽपि तत्संसृष्टप्रकाशत्वस्य कदाचिदर्थसम्बन्धेनाप्यनपायात् । अत एव अर्थप्रकाशरूपत्वं ज्ञानत्वं ब्रह्मणः कथम् । अन्यार्थाभावतो मोक्षे स्वेन स्वस्याप्यवेदनात् । इति निरस्तम् । .....ज्ञानानन्दयोरभेदेऽपि कल्पितजातिभेदनिबन्धनप्रवृत्तिकतया पदद्वयप्रयोगस्य व्यावृतिभेदेन साफल्यात् । एतेन विषयानुल्लेखिज्ञानमेवानन्द इत्यपि युक्तम् ।...तस्मात् ज्ञानानन्दैकरूपमद्वितीयं नित्यं साक्षि च ब्रह्मेति सिद्धम् (अ० सि० ब्रह्मणो ज्ञानत्वा० ) । एवमेव ब्रह्मणो निर्गुणत्वनिराकारत्वोपपत्तिरपि अ० सिद्धौ द्रष्टव्या । आनन्दो ब्रह्म । यथा - आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति आनन्दं प्रयन्त्यभिसंविशन्तीति (तै० उ०३/६) । ९. रसः ब्रह्म । यथा - रसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति (तै० उ० २।७) । यथा च सैषानन्दस्य मीमांसा भवति....ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः (तै० उ० २।८ ) । यथा च श्रुत्यन्तरे च - विज्ञानमानन्दं ब्रह्म (बृ० उ० ३।९।२८) इति ब्रह्मण्येवानन्दशब्दो दृष्टः । एवमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्यभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यते । यद् मन्त्रमयाद्यमुख्यात्मप्रवाहपतितत्वादानन्दमयस्याप्यमुख्यमिति नासौ दोषः । आनन्दमयस्य सर्वान्तरत्वात् । प्रतिपत्तिसौकयपेिक्षया सर्वान्तरं मुख्यमानन्दमयमात्मानमुपदिदिशेति श्लिष्टतरम् (ब्र० सू० १ । १ । १२ शा० भा०) । यथा च - ब्रह्मणो निराकारत्वम् - एवं निराकारमपि । ननु आदित्यवर्णं तमसः परस्तात् यदापश्यः पश्यते रुक्मवर्णं ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्, "विश्वतश्चक्षुः" "सहस्रशीर्षा" इत्यादिश्रुतिभिः "पश्य मे पार्थ रूपाणि" सर्वतः पाणिपादं तत् इत्यादि स्मृतिभिः ब्रह्म, सविग्रहम्, स्रष्टृत्वात् पालयितृत्वादुपदेष्टृत्वादित्याद्यनुमानैश्च विग्रहसिद्धिरिति चेत्, न, आदित्यवर्णमित्यस्याविद्याविलक्षणस्वप्रकाशस्वरूपप्रतिपादनपरतया उपास्यपरतया चोपपत्तेः (अ० सि० निरा० उप०) । यथा च - ब्रह्मणो निर्गुणत्वम् - कैवल्यश्रुत्या तावदात्मा निर्गुणः । ननु बृहन्तोऽस्य धर्मा इति श्रुत्या ब्रह्मेशानादिभिर्देवैः समेतैर्यद्गुणांशकः । नावसाययितुं शक्यो व्याचक्षाणैश्च सर्वदा । इति स्मृत्या च ब्रह्म धर्मवत् पदार्थत्वादित्याधनुमानेन च स्वसमानसत्ताकधर्मवत् ब्रह्मेति चेत्, मैवम् न तावच्छ्रुत्या सगुणत्वसिद्धिः सगुणप्रकरणस्थाया उपास्तिविधिविषयविशेषणसमर्पकत्वेन तत्परत्वाभावात् । न चापूर्वत्वात् सत्यकामादौ विशेषणे तात्पर्यम् । अपूर्वत्वेऽप्यन्यशेषस्यातत्परत्वदर्शनात् । (अ० सि० ब्र० नि० उप०) । यथा च - ब्रह्मणोऽभिन्ननिमित्तोपादानत्वोपपत्तिः ननु निर्विशेषं चेत् ब्रह्म, कथं तदेव निमित्तमुपादानमिति अभिन्ननिमित्तोपादानकत्वं जगतः ? विकारवत्कारणस्यैवोपादानत्वात्, ब्रह्मणोऽविकारत्वात्, अन्यथा "निर्विकारो हरः शुद्ध:" इत्यादिश्रुतिविरोधापत्तेरिति चेत्, न, परिणामितयोपादानत्वाभावेऽपि विवर्ताधिष्ठानतयोपादानत्वसम्भवात् । विवर्ताधिष्ठानत्वं च विवर्तकारणाज्ञानविषयत्वमेव तदुक्तं वार्तिककृद्भिः - अस्य द्वैतेन्द्रजालस्य यदुपादानकारणम् । अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुच्यते । यथा च ब्रह्मणः शब्दवाच्यत्वम् । निर्धर्मकतया अवेद्यतया च ब्रह्म आनन्दादिपदलक्ष्यम्, न वाच्यम् प्रवृत्तिनिमित्ताभावादिति । ननु अवाच्यशब्देनोच्यते चेत्, वाच्यत्वसिद्धिः, लक्ष्यते चेत्, अवाच्यरूपमुख्यार्थस्याभावात् कथं लक्षणा ? भावे वा ब्रह्म नावाच्यम्, किन्तु तीरवदवाच्यरूपमुख्यार्थसम्बन्धमात्रमिति स्यात् । मुख्यार्थहीनस्यापि ब्रह्मलक्षकत्वे घटपदमपि पटलक्षकं स्यादिति चेत्, न, अवाच्यरूपमुख्यार्थाभावेऽपि नञ्समभिव्याहृत-वाच्यशब्देन वाच्यत्वात्यन्ताभावबोधनद्वारा स्वरूपे लक्षणयैव पर्यवसानात् (अ० सि०) । (१६) ब्रह्मणः सच्चिदानन्दरूपमिति स्वरूपलक्षणम् । ब्रह्मणः जगज्जन्मस्थितिलयहेतुः इति तटस्थलक्षणम् । ब्रह्म च निमित्तोपादानहेतुर्जगतः । यथा- तन्तुनाभश्च स्वत एव तन्तून् सृजति बालका चान्तरेणैव शुक्रं गर्भं धत्ते, पद्मिनी चानपेक्ष्य किञ्चित् प्रस्थानसाधनं सरोऽन्तरात् सरोऽन्तरं प्रतिष्ठे । एवं चेतनमपि ब्रह्म निरपेक्ष्य बाह्यं साधनं स्वत एव जगत् स्रक्ष्यति (ब्र० सू० २।१।२५ शा० भा० ) । ब्रह्मणो निमित्तोपादानकारणत्वम् । मूलकारणस्य च ब्रह्मणः इति अत्र मूलकारणत्वविशेषेण ब्रह्मणः सर्वोपादानत्वमपि मूलकारणत्वात्पारम्पर्येणेति दर्शितम् (ब्र० सू० २।३।१३ क० त० परि०) । १. वेदः । यथा तस्मादेतद् ब्रह्म नाम रूपमन्नं च भासते (मु० १।१।९) । यथा वा "तेने ब्रह्म हृदा च आदिकवये" (भाग० १1१19) इत्यादौ । २. तपः । ३. सत्यम् । ४. तत्त्वम् । ५. हिरण्यगर्भादयो जीवाः । ६. विप्राः । ७. ऋत्विग्विशेषः । यथा यज्ञस्य हैष भिषक् ब्रह्मा (श्रुतिः) इत्यादौ । ८. विष्कम्भादिषु पञ्चविंशो योगविशेषः इति मौहूर्तिका आहुः । ९. विषयभोगत्यागः । स चाष्टादशविधः । तदुक्तम्दिव्यौदारिककामानां कृतानुमतकारितैः । मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम् (सर्व० सं० पृ० ६५ आर्ह०) इति । १०. परब्रह्म (परमात्मा) इति वेदान्तिनो वदन्ति । अत्राम्नायते । यद् वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते (केन० ४) । वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति शब्धते (भाग० १/२/११) इति । तस्य नवधा रूपं यथातर्काणामेव षण्णां यत् षड्विधं रूपमैश्वरम् । वैष्णवानामेकरूपं वेदानामेकमेव च । पुराणानामेकरूपं तस्मान्नवविधं स्मृतम् । न्यायो निर्वर्णनीयं च यन्मतं शङ्करोऽब्रवीत् । नित्यं वैशेषिकास्त्वन्यं वदन्ति च विचक्षणाः । सांख्या वदन्ति तं देवं ज्योतीरूपं सनातनम् । मीमांसा सर्वरूपं च वेदान्तः सर्वकारणम् । पातञ्जलोप्यनन्तं वेदाः सत्यस्वरूपकम् । स्वेच्छामयं पुराणं च भक्ताश्च नित्यविग्रहम् (ब्रह्मवै० पु० अ० १०० ) । इति ... । अत्र मध्वमते विष्णुरेव परब्रह्म । रामानुजमते शेषशेषिभावाङ्गीकारेण विशेषः । परमात्मा शेषी जीवास्तु परमात्मशरीररूपत्वाच्छेषाः इति । मायावादिमते तु सगुणनिर्गुणभेदेन द्विविधं ब्रह्म । तत्र मायाश्रितः जाग्रदाद्यवस्थात्रयसाक्षी च ईश्वरः सगुणः । मायातीतम् अवस्थात्रयातीतं च निर्गुणमिति विशेषो ज्ञेयः । ब्रह्मणः तटस्थलक्षणं च जगज्जन्मस्थितिप्रलयानां प्रत्येकं प्रत्येकमुपादानप्रत्यक्षज्ञानचिकीर्षाकृतिमत्वमिति । तेन नवलक्षणवत्त्वम् । तदुक्तं ब्रह्मसूत्रकारैः । जन्माद्यस्य यतः (ब्र० सू० १ । १ । २) इति । अत्र श्रुतिः प्रमाणम्, यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद् ब्रह्म (तै० उ० २।१ ।१ ) । इति । ब्रह्मणः स्वरूपलक्षणं च सच्चिदानन्दात्मकत्वम् इति । अत्र श्रुतिः सत्यं ज्ञानमनन्तं ब्रह्म (तै० उ० २।१।१ ) इति । निर्गुणं निष्कलं शान्तं निरवद्यं निरञ्जनम् (श्वे० उ० ६।१९) । इत्यादिश्च (न्या० को०) । बृहदारणाकोपनिषदस्तृतीयाध्याये शाङ्करभाष्ये भर्तृप्रपञ्चमते ब्रह्म द्विविधं परमपरमिति सूचितम् । ब्रह्म च क्षत्रं च, ब्रह्मन् च क्षत्र च सर्वधर्मविधारकम् । यथा - यस्त्वनेवंभूत उक्तसाधनसम्पन्नो यस्यात्मनो ब्रह्मक्षत्रे सर्वधर्मविधारके अपि मृत्युर्यस्योपसेचनमेवौदनवदत्त्यन्नत्वेऽप्यपर्याप्तस्तं प्राकृतबुद्धियथोक्तसाधनरहितः सन्क इत्था इत्थं यथोक्तसाधनवानिवेत्यर्थः वेद विजानाति यत्र स आत्मेति (का० उ० २।२५ शा० भा० ) । यथा च ब्रह्मणश्चिदरूपत्वे मतभेदः । यथा - इत्युक्त्वा तद्विशेषे तु बहुधा कलहं ययुः । अचिद्रूपोऽथ चिद्रूपश्चिदचिद्रूप इत्यपि । प्राभाकरास्तार्किकाश्च प्राहुरस्याचिदात्मताम् । आकाशवद् द्रव्यमात्मा शब्दवत्तद्गुणश्चितिः (प० द० ६।८७-८८) । ब्रह्मजज्ञम्, ब्रह्मजज्ञ सर्वज्ञः । यथा - ब्रह्मणो हिरण्यगर्भाज्जातो ब्रह्मजः । ब्रह्मजश्चासौ ज्ञश्चेति ब्रह्मजज्ञः सर्वज्ञो ह्यसौ (का० उ० १।७ शा० भा० ) । ब्रह्मजिज्ञासा, ब्रह्मजिज्ञासा ब्रह्मसम्बन्धिनी जिज्ञासा । यथा - ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा (ब्र० सू० १/१/१ शा० भा०) । यथा च - ब्रह्मणो जिज्ञासेत्युक्ते तत्रानेकार्थत्वाद् ब्रह्मशब्दस्य संशयः; कस्य ब्रह्मणो जिज्ञासेति ।.... षष्ठसमासपरिग्रहेऽपि नेयं कर्मषष्ठी, किन्तु शेषलक्षणा, सम्बन्धमात्रं च शेष इति ब्रह्मणो जिज्ञासेत्युक्ते ब्रह्मसम्बन्धिनी जिज्ञासेत्युक्तं भवति (तत्रैव भाम० ) । ब्रह्मतटस्थलक्षणम्, ब्रह्मतटस्थलक्षण यथा- तटस्थलक्षणन्तु यावल्लक्ष्यकालमनवस्थितत्वे सहि यद् व्यावर्तकं तदेव यथा. गन्धवत्त्वं पृथ्वीलक्षणम् । महाप्रलये परमाणुषु उत्पत्तिकाले घटादिषु गन्धाभावात् । प्रकृते ब्रह्मणि च जगज्जन्मादिकारणत्वम् । अत्र जगत्पदेन कार्यजातं विवक्षितम् । कारणत्वं च कर्तृत्वमतोऽविद्यादौ नातिव्याप्तिः । ज्ञानेच्छाकृतीनां मध्येऽन्यतमगर्भलक्षणत्रितयमिदं विवक्षितम् । अन्यथा व्यर्थविशेषणत्वापत्तेः । अत एव जन्मस्थितिध्वंसानामन्यतमस्यैव लक्षणे प्रवेशः । एवञ्च प्रकृते लक्षणानि नव सम्पद्यन्ते । ब्रह्मणो जन्मादिकारणत्वे च यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्ति ( तै० उ० ३।१ ) । इत्यादिश्रुतिर्मानम् (वे० प० ७ प०) । ब्रह्मणो नव तटस्थलक्षणानि - १. जत्रज्जन्योपादानगोचरापरोक्षज्ञानम् । २. तज्जन्मगोचरचिकीर्षा । ३. तज्जन्मानुकूलकृतिः । ४ स्थित्युपादानविषयकज्ञानम् । ५. स्थितीच्छा ।६. स्थितिप्रयलः । ७. प्रलयोपादानम् ।८. प्रलयेच्छा ।९. प्रलयप्रयलः । यद्वा निखिलजगदुपादनत्वं ब्रह्मणो लक्षणम् । (वे० प० ७ प०) ब्रह्मनिर्वाणम्, ब्रह्मनिर्वाण मोक्षः । यथा- किं च कामक्रोधवियुक्तानां कामश्च क्रोधश्च कामक्रोधौ ताभ्यां वियुक्तानां यतीनां संन्यासिनां यतचेतसां संयतान्त:करणानामभित उभयतो जीवतां मृतानां च ब्रह्मनिर्वाणं मोक्षो वर्त्तते (गी० ५।२६ शा० भा० ) । ब्रह्मपुरम्, ब्रह्मपुर जीवः । यथा - कुतः संशयः ? आकाशब्रह्मपुरशब्दाभ्याम् । तथा ब्रह्मपुरमिति किं जीवोऽत्र ब्रह्मनामा तस्येदं पुरं शरीरं ब्रह्मपुरमथवा परस्यैव ब्रह्मण पुरं ब्रह्मपुरमिति । ....तस्य च दहरायतनापेक्षया दहरत्वम् । यावान्वा आकाशस्तावानेषोऽन्तर्हदय आकाश: इति इति च बाह्याभ्यन्तरभावकृतभेदस्योपमानोपमेयभावः । द्यावापृथिव्यादि च तस्मिन्नतः समाहितमवकाशात्मनाकाशस्यैकत्वात् । अथवा जीवो दहर इति प्राप्तम्; ब्रह्मपुरशब्दात् (ब्र० सू० १ ।३।१४ शा० भा० ) । यथा च - तत्र - आधेयत्वात् विशेषाच्च पुरं जीवस्य युज्यते । देहो न ब्रह्मणो युक्तो हेतुद्वयवियोगतः असाधारण्येन हि व्यपदेशा भवन्ति । तद्यथा क्षितिजलपवनबीजादिसामग्रीसमवधानजन्माप्यकुरः शालिबीजेन व्यपदिश्यते शाल्यकुर इति, न तु क्षित्यादिभिः तेषां कार्यान्तरेष्वपि साधारण्यात् । ....... जीवभेदधर्माधर्मोपार्जितं तदित्यसाधारणकारणत्वाज्जीवत्वेन व्यपदिश्यत इति युक्तम् । अपि च ब्रह्मपुरसप्तम्यधिकरणे स्मर्यते, तेनाधेयेनानेन सम्बद्धव्यम् (तत्रैव भाम० ) । ब्रह्मभूतः, ब्रह्मभूत पुण्यपापरहितो जीवन्मुक्तः । यथा- ब्रह्मभूतं जीवन्मुक्तं ब्रह्मैव सर्वमित्येव निश्चयवन्तं ब्रह्मभूतमकल्मषं धर्माधर्मादिवर्जितम् (गी० ६।२७ शा० भा०) । यथा च - भौतिकानां बाह्यानां मानोरथिकानामान्तराणां च विषयाणां त्यागात् शान्तरजसं प्रक्षीणमोहादिक्लेशं ब्रह्मभूतं सवस्तुरूपमकल्मषं धर्माधर्मवर्जितम् (तत्रैव नी० क० ) । ब्रह्मभूयम्, ब्रह्मभूय ब्रह्मभावः, मोक्ष इति । यथा - ब्रह्मभूयाय भवनं भूयो ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय कल्पते । समर्थो भवतीत्यर्थः (गी० १४ । २६ शा० भा० ) । यथा च - ब्रह्मभूयाय ब्रह्मभावाय कल्पते योग्यो भवति (तत्रैव नी० क०) । यथा च ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय कल्पते समर्थो भवति ( तत्रैव म० सू० ) । यथा च ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय समर्थो भवति (तत्रैव भाष्यो०) । यथा च - ब्रह्मभूयाय ब्रह्मभावाय मोक्षाय कल्पते योग्यो भवति (तत्रैव श्रीधरी ) । ब्रह्म महद्योनिः, ब्रह्मन् महद्योनि स्थावरजङ्गमादीनां सर्वेषामुत्पत्तिकारणम् । यथा - सर्वयोनिष्विति । देवपितृमनुष्यपशुमृगादिसर्वयोनिषु कौन्तेय मूर्त्तयो देहसंस्थानलक्षणा मूर्तिताङ्गावयवा मूर्तयः सम्भवन्ति यास्तासां मूर्तीनां ब्रह्म सर्वावस्थं योनिः कारणमहमीशो बीजप्रदो गर्भाधानस्य कर्त्ता पिता (गी० १४४ शा० भा० ) । यथा च किञ्च सर्वेषु भूतेषु योनिषु उत्पादनभूतेषु पृथिव्यामोषधय इव या मूर्त्तयः शरीराणि सुरनरतिर्यक्स्थावरात्मकानि चतुर्विधानि सम्भवन्ति तासां मूर्तीनां ब्रह्म महत्पूर्वोक्तं महतो ब्रह्म ब्रह्ममहत् । राजदन्तादित्त्वादुपसर्जनस्य परनिपातः । मायैव योनिरित्यर्थः (तत्रैव नी० क० ) । यथा च- देवपितृमनुष्यपशुमृगादिसर्वयोनिषु या मूर्त्तयो जरायुजाण्डजस्वेदजोद्भिज्जादिभेदेन विलक्षणविविधसंस्थानास्तनवः सम्भवन्ति, हे कौन्तेय तासां मूर्तीनां तत्तत्त्कारणभावापन्नं महत् ब्रह्मैव योनिर्मातृस्थानीया (तत्रैव म० सू० ) । यथा च - नलक्षणाः सम्भवन्ति हे कौन्तेय, यथा, तव कुन्ती तथा तासां ब्रह्म महत्-तत्र तत्तदाकारणरूपेणावस्थितं योनि कारणमहमीशो बीजप्रदः गर्भाधानस्य कर्त्ता पिता (तत्रैव भाष्यो०) । यथा च - सर्वासु योनिषु मनुष्याद्यासु या मूर्त्तयः स्थावरजङ्गमात्मिका उत्पद्यन्ते तासां मूर्तीनां महद् ब्रह्म प्रकृतिः योनिर्मातृस्थानीया (तत्रैव श्रीधरी) । ब्रह्मयोगयुक्तात्मा, ब्रह्मयोगयुक्तात्मन् समाहितान्तःकरणः । यथा - "स ब्रह्मयोगयुक्तात्मा ब्रह्मणि योगः समाधिर्ब्रह्मयोगस्तेन ब्रह्मयोगेन युक्तः समाहितस्तस्मिन् व्यापृतः आत्मान्तःकरणं यस्य स ब्रह्मयोगयुक्तात्मा सुखमक्षय्यमश्नुते प्राप्नोति (गी०५/२१ शा० भा० ) । यथा च - यो ब्रह्मयोगे ब्रह्मणि योगः समाधिस्तत्र युक्तो योजित आत्मा बुद्धिर्येन स ब्रह्मयोगयुक्तात्मा (तत्रैव नी० क०) । यथा च - स चोपशमात्मकं सुखं लब्ध्वा ब्रह्मणि योगेन समाधिना युक्तस्तदैक्यं प्राप्त आत्मा यस्य सोऽक्षय्यं सुखमश्नुते प्राप्नोति (तत्रैव श्रीधरी) । ब्रह्मलक्षणम्, ब्रह्मलक्षण लक्षणं द्विविधं तटस्थलक्षणं स्वरूपलक्षणं च । तटस्थलक्षणन्तु ब्रह्मतटस्थलक्षणमिति शब्दे निरूपितम् । ब्रह्मणः स्वरूपलक्षणमत्रोच्यते । यथा - तत्र लक्षणं द्विविधं स्वरूपलक्षणं तटस्थलक्षणं चेति । तत्र स्वरूपमेव लक्षणं स्वरूपलक्षणम् । यथा सत्यादिकं ब्रह्मस्वरूपलक्षणम् । सत्यं ज्ञानमनन्तं ब्रह्म - तै० २।१।१ - आनन्द ब्रह्मेति व्यजानात् - तै० ३।६ - इति श्रुतेः । ननु स्वस्य स्ववृत्तित्वाभावे कथं लक्षणत्वमिति चेत्, न । स्वस्यैव स्वापेक्षया धर्मिधर्मभावकल्पनया लक्ष्यलक्षणसम्भवात् । तदुक्तम् - आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्माः । अपृथक्त्वेऽपि चैतन्यात् पृथगिवावभासन्ते (वे० प० ७ प० ) । ब्रह्मलोकः, ब्रह्मलोक १. हिरण्यगर्भः जीवघनो वा । यथा - स तेजसि सूर्ये सम्पन्नः स सामभिरुन्नीयते ब्रह्मलोकमिति च तद् विदो देशपरिच्छिन्नस्य फलस्योच्य मानत्वात् । ....जीवानां हि सर्वेषां करणपरिवृतानां सर्वकरणात्मनि हिरण्यगर्भे ब्रह्मलोकसंघातोपपत्तेर्भवति । ब्रह्मलोको जीवघनः (ब्र० सू० १ । ३ । १३ शा० भा० ) । यथा च - स सामभिरुन्नीयते ब्रह्मलोकम् इत्यनन्तरवाक्यनिर्दिष्टो ब्रह्मलोको वा जीवघनः (तत्रैव भाम०) ।२. ब्रह्मभूतो लोकः । यथा च - परस्मिन् ब्रह्मण्यपरस्मिंश्च ब्रह्मभूतो ब्रह्मवत् उपास्यो भवतीत्यर्थः (का० उ० २। १७ शा० भा० ) । यथा च - ब्रह्मैव लोको ब्रह्मलोकस्तस्मिन् महीयते पूज्यो भवति इत्यर्थः (तत्रैव शा० भा० गो० टी०) । यथा च - ब्रह्मैव लोक एष सम्राट् इत्यादिषु (ब्र० सू० ४।३।८ शा० भा०) । ब्रह्मविद्, ब्रह्मविद् सगुणब्रह्मोपासकः । यथा - तत्र तस्मिन् मार्गे प्रयाता मृता गच्छन्ति ब्रह्म ब्रह्मविदो ब्रह्मोपासनपरा जनाः (गी० ८।२४ शा० भा०) । यथा च - "ब्रह्मविदः सगुणब्रह्मोपासकाः जनाः" (तत्रैव म० सू० ) । ब्रह्मविद्या, ब्रह्मविद्या ब्रह्मज्ञानम् । यथा - यदि स एव ब्रह्मशब्दवाच्यस्तद्विद्यैव ब्रह्मविद्येति ( बृ० आ० २।१।२० शा० भा० ) । ब्रह्मविहारः, ब्रह्मविहार अयं शब्दो बहुधा बौद्धदर्शनग्रन्थेषु व्यवह्रियते । अत्र ब्रह्मशब्दः आत्मपरः विज्ञानपरश्चित्तपरश्च । यथा - तथापि ब्रह्माध्येषणान् महाकरुणया धर्मचक्रं प्रवर्तितमिति भावः (अष्टसाहसिकायाम् १५ प० हरिभद्रटीकायाम्) । सर्वे धर्मा ब्रह्मभूता दोषानुत्पादनतः (अ० सा० २९ प०) । यद् ब्रह्मचर्यं परमं विशुद्धं निषेवितं शासनि नायकस्य (सद्धर्मपुण्डरीके ४ परि० ५२ श्लो०)। अतो ब्रह्मणि आत्मरूपे विज्ञाने चित्ते वा विहारः अवस्थितिरिति ब्रह्मविहारशब्दार्थः । यथा च ब्रह्मविहाराश्चत्वारः संग्रहा ये च कीर्तिता ( स० धo पुण्ड० ५ परि ७८ श्लो०) । ब्रह्मा विष्णुमहेश्वरः, ब्रह्मन् विष्णुमहेश्वर मायावच्छिन्नं चैतन्यं परमेश्वरः मायाया विशेषणत्वे ईश्वरत्वमुपाधित्वे साक्षित्वमिति ईश्वरत्वसाक्षित्वयोर्भेदः, न तु धर्मिणोरीश्वरतत्साक्षिणोः स च परमेश्वर एकोऽपि स्वोपाधिभूतमायानिष्ठसत्त्वरजस्तमोगुणभेदेन ब्रह्मविष्णुमहेश्वर इत्यादिशब्दवाच्यतां लभते (वे० प० १ प०)। ब्रह्मसंस्थः, ब्रह्मसंस्थ ब्रह्मज्ञः, ब्रह्मनिष्ठः । यथा - न च सम्भवत्यवयवार्थे समुदाय शक्तिकल्पना । तस्माद् ब्रह्मणि संस्थाऽस्येति ब्रह्मसंस्थः । एवञ्च चतुर्षु आश्रमेषु यस्यैव ब्रह्मणि निष्ठत्वमाश्रमिणः स ब्रह्मसंस्थोऽमृतत्वमेति इति युक्तम् (ब्र० सू० ३ । ४ । २० भाम०) । यथा च - एष हि ब्रह्मसंस्थतालक्षणो धर्मो भिक्षोरसाधारणः । आश्रमान्तराणि तत्संस्थान्यतत्संस्थानि च । भिक्षुस्तत्संस्थ इत्येव (तत्रैव भाम० ) । यथा च - ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति (गी० १८/५४)। अत्र श्रीधर्याम्- ब्रह्मभूतो ब्रह्मण्यवस्थितः प्रसन्नचित्तो नष्टं न शोचति । यथा च - ग्रहो न तत्र नोत्सर्गश्चिन्ता यत्र न विद्यते । आत्मसंस्थं तदा ज्ञानमजातिसमतां गतम् (मा० का० ३।३८ ) । आत्मसंस्थं ब्रह्मसंस्थमित्यर्थः । ब्रह्माहमित्येवं नैश्चल्येनावस्थानमिति भावः (तत्रैव शा० भा० ) । यथा च ब्रह्मसंस्थोऽमृतत्वमेति (छा० २।२३।१) । पुण्यलोकफलास्त्रयो धर्मस्कन्धा ब्रह्मसंस्थता त्वमृतत्वफलमिति (ब्र० सू० ३/४/२० शा० भा० ) । ब्रह्मसंस्पर्श:, ब्रह्मसंस्पर्श १. (क) ब्रह्मसाक्षात्कारः । यथा - "युञ्जन्नेवं यथोक्तेन क्रमेण योगी योगान्तरायवर्जितः सदात्मानं युञ्जन् विगतकल्मषो विगतपापः सुखेनानायासेन ब्रह्मसंस्पर्शं ब्रह्मणा परेण संस्पर्शो यस्य तद् ब्रह्मसंस्पर्शम् (गी० ६।२८ शा० भा०)। यथा च - संस्पर्शस्तादात्यैकरस्यम् । उत्कर्षो विषयासंस्पर्श: (तत्रैव आ० गिo) । यथा च - स योगी सुखेनानायासेन ब्रह्मणः संस्पर्शोऽविद्यानिवर्तकः साक्षात्कारस्तदेवात्यन्तं सर्वोत्तमं सुखमश्नुते" (तत्रैव श्रीधरी) । (ख) अहं ब्रह्म इति ज्ञानम् । यथा च – "अस्ति ब्रह्मेति चेद्वेद परोक्षज्ञानमेव तत् । अहं ब्रह्मेति चेद् वेद साक्षात्कारः स उच्यते (प० द० ६।१६) । ब्रह्मसूत्रपदम्, ब्रह्मसूत्रपद ब्रह्मणस्तटस्थलक्षणस्य तथा स्वरूपलक्षणस्य ज्ञापकम् । यथा"किञ्च ब्रह्मसूत्रपदैश्चैव ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि वै पद्यते गम्यते ज्ञायते ब्रह्मेति तानि पदान्युच्यन्ते (गी० १३ । ४ शा० भा०) । यथा च - "ब्रह्मसूत्रपदैः ब्रह्मणः सूचकानि पदानि समुच्चित्य वाक्यभावमापन्नानि तैर्ब्रह्मसूचकैर्ब्राह्मणवाक्यैः । तत्तत्वमसीत्याद्यैरित्यर्थः (तत्रैव नी० क० ) । यथा च - ब्रह्मसूत्रपदैश्चैव ब्रह्म सूत्र्यते सूच्यते किञ्चिदव्यवधानेन प्रतिपाद्यत एभिरिति ब्रह्मसूत्राणि ।"यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयल्यभिसंविशन्ति" इत्यादीनि तटस्थलक्षणपराण्युपनिषद्वाक्यानि । तथा पद्यते ब्रह्म साक्षात् प्रतिपाद्यत एभिरिति पदानि स्वरूपलक्षणपराणि "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादीनि तैर्ब्रह्मसूत्रैः पदैश्च हेतुमद्भिः "सदेव सोम्येदमग्रमासीदेकमेवाद्वितीयम् इत्युपक्रम्य तद्ध्यैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत इति नास्तिकमतमुपन्यस्य कुतस्तु सौम्येवं स्यादिति होवाच कथमसतः सज्जायते इत्यादियुक्तीः प्रतिपादयभिः (तत्रैव म० सू०) । यथा च– "ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि तै पद्यते ज्ञायते ब्रह्मेति तानि पदानि उच्यन्ते तैः (तत्रैव भाष्यो०) यथा च - "ब्रह्मणः सूत्रैः पदैश्च । ब्रह्म सूत्र्यते सूच्यत एभिरिति ब्रह्मसूत्राणि "यतो वा इमानि भूतानि जायन्ते" इत्यादीनि तटस्थलक्षणपराणि उपनिषवाक्यानि, तथा ब्रह्म पद्यते गम्यते साक्षात् ज्ञायत एभिरिति पदानि स्वरूपलक्षणपराणि 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादीनि तैश्च बहुधा गीतम् (तत्रैव श्रीधरी) । ब्रह्मस्वरूपम्, ब्रह्मस्वरूप ब्रह्मतटस्थलक्षणं तथा ब्रह्मलक्षणमिति शब्दद्वयं द्रष्टव्यम् । ब्राह्मणः, ब्राह्मण १. ब्रह्मवित् । यथा- एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात् प्रैति स ब्राह्मण: (बृ० उ० ३।८।९) ।२. ब्रह्मणोऽपत्यं ब्राह्मणस्यापत्यं वा पुमान् ब्राह्मणः । स च पराशरस्मृत्यनुसारं राक्षसब्राह्मणासुरब्राह्मणाद्यनेकभेदभाक् । ३. साक्षात्कृतब्रह्म ब्रह्मसाक्षात्कर्त्ता वा ।यथा –"अमौनं मौनं च निर्विद्याथ ब्राह्मणः" (बृ० आ० ३।५।१) । यथा च ब्रह्माहम् इत्यवगच्छतीति ब्राह्मणः साक्षात्कृतब्रह्म भवति इत्यर्थः (ब्र० सू० ३।४।४७ क० त०) । यथा च – "यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित् स ब्राह्मणः" (तत्रैव ३।४।५० शा० भा०) । यथा च- "ब्राह्मणोऽपि मुखादेव जज्ञे प्रजापतेः । तस्मादेकयोनित्वाज्ज्येष्ठेनेवानुजोऽनुगृह्यते अग्निना ब्राह्मणः । तस्माद् ब्राह्मणोऽग्निदैवत्यो मुखवीर्यं च श्रुतिस्मृतिसिद्धम् (बृ० उ० १/४/६ शा० भा० ) । अत एव प्रसिद्धमस्ति- वाचिवीर्यं द्विजानाम् । यथा च य एतदक्षरं गार्गि विदित्वास्माल्लोकात् प्रैति स ब्राह्मणः (बृ० उ० ३।८ । ९) । ३. अत्रार्थे व्युत्पत्तिः ब्रह्म वेदं परब्रह्म वा वेत्त्यधीते वा इति ।ब्राह्मणलक्षणं च विशुद्धमातापितृजन्यत्वम् । अत्र विशुद्धत्वं च षट्कर्माधिकारवत्त्वम् (त० कौ० पृ० २१) । तस्य स्वरूपं यथा जात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्विज उच्यते (बह्निपुराणे) । (वाच०) इति । वशिष्ठेनोक्तं ब्राह्मणस्वरूपम्, यथा– योगस्तपो दमो दानं सत्यं शौचं दया श्रुतम् । विद्याविज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम् । इति । ब्राह्मणगुणप्रयुक्तं फलमाह - सर्वत्र दान्ताः श्रुतपूर्णकर्णा जितेन्द्रियाः प्राणिवधे निवृत्ताः । प्रतिग्रहे सङ्कुचिताग्रहास्ते ब्राह्मणास्तारयितुं समर्थाः । इति ( न्या० को०) । ब्राह्मी, ब्राह्मिन् ब्रह्मरूपेऽवस्थानम् । यथा - "एषा यथोक्ता ब्राह्मी ब्रह्मणि भवेयं स्थितिः सर्वकर्म संन्यस्य ब्रह्मरूपैणैवावस्थानमित्येतत्" (गी० २।७२ शा० भा०) यथा च एषा स्थितप्रज्ञलक्षणसंगात् कथिता ब्राह्मी । ब्रह्मशब्देनात्र ब्रह्मविदुच्यते । 'ब्रह्मविद् ब्रह्मैव भवति' इति श्रुतेः । 'तस्येयं ब्राह्मी स्थितिर्निष्ठा....' (तत्रैव नी० क०) । यथा च - ब्रह्मणि भवा स्थितिः । सर्वं परित्यज्य ब्रह्मरूपेणैवावस्थानमिति यावत् (तत्रैव भाष्यो०)। यथा च - ब्राह्मी ब्रह्मविषया (तत्रैव म० सू० ) । भक्तिः, भक्ति तैलधारावन्निरवच्छिन्ना सततं भगवदनुस्मृतिः भक्तिः (गी० ९/३४ रङ्गरामानुजभाष्ये) । यथा - समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् (गी० १८/५४) । अत्र श्रीधर्याम्- मद्भावनालक्षणां मद्भक्तिं लभते । यथा च सगुणोपासनमपि .... चित्तैकाग्र्यद्वारा निर्विशेषब्रह्मसाक्षात्कारे हेतुः (वे० प० ८ प०) । इयम् उपासना प्रसंख्यानशब्देनाप्यद्वैतिभिर्व्यवह्रियते । यथा - अभ्यासो हि संस्कारं द्रढयन् (ब्रह्मसिद्धौ २ का०) । अत्र शङ्खपाणिव्याख्यायाम् - तत्राभ्यासस्य उपासनापर्यायस्य । यथा च - आवृत्तिर्हि प्रसंख्यानं शब्दयुक्त्योरिति स्थितम् (बृ० आ० भाष्यवा० ८०३) । अत्र आनन्दगिरिराह - श्रवणमननयोरावृत्तिस्त्वया प्रसंख्यानमभिप्रेतम् । यथा च - प्रसंख्यानस्य चित्तैकण्यरूपस्य (नै० सि० ३।८९ च० टी०) । यथा च प्रसंख्यानं नाम तत्त्वमस्यादिशब्दार्थान्वयव्यतिरेकयुक्तिविषयबुद्ध्याम्रेडनमभिधीयते (नै० सि० ३।९० च० टी०) । भक्तिशास्त्रे तु ईश्वरे परानुरक्तिः भक्तिः (शाण्डिल्यसू०) सा च नवधा श्रवणकीर्तनेत्यादिरूपा । १. (क) गौणीशब्दवदस्यार्थोऽनुसन्धेयः । यथा ततो भक्त्या दश दिशः सिद्धाः (प्रशस्तदिनिरूपणे पृ० ८) इत्यादौ । (ख) भक्तिर्नाम लक्षणावृत्तिः । (जै० सू० वृ० ३ । २ । ४३ ) । इयं भक्तिस्तु गौणत्वम् उपचारश्च इति व्यवह्नियत इति वदन्ति । (ग) प्रकर्षभावाभावः । यथा बिल्वामलकादावणुत्वव्यवहारः समिदिक्षुदण्डादिषु च ह्रस्वत्वव्यवहारो भाक्तः इत्यादौ आमलके यः प्रकर्षभावस्तस्याभावः कुबले । बिल्वे यः प्रकर्षभावस्तस्याभाव आमलके । स च गौणमुख्योभयभागित्वाद् भक्तिपदवाच्यः (वै० उ० ७।१।८) । २. (क) आराध्यत्वप्रकारकं ज्ञानम् (कि० व० पृ० ४) (म० प्र० १ पृ० १६) (श० प्र० श्लो० ७२ टी० पृ० ९५) (त० प्र० १ पृ० ६) (सि० च०) । यथा भक्त्या हरिमुपास्ते इत्यादौ । यथा वा भक्तिर्ज्ञानाय कल्पते इत्यादौ । (ख) निरतिशयानन्दप्रियानन्यप्रयोजनसकलेतरवैतृष्ण्यवज्ज्ञानं विशेषो भक्तिः इति रामानुजीया आहुः (सर्व० पृ० १२३ रामा०) । परे तु सा परानुरक्तिरीश्वरे (शाण्डि० सू० १।१ ) । यथा - रसं ह्येवायं लब्ध्वानन्दी भवति (तैत्ति० उ० २।७।१) । इत्यादौ रसो भक्तिः । यथा वा ब्रह्मसंस्थोऽमृतत्वमेति (छान्दो० २।२३।१ ) । इत्यादौ संस्थापदवाच्या भक्तिः इत्याहु: (शाण्डि० सू० टी० २(२) । अत्र रसशब्दवाच्यं संस्थाशब्दवाच्यं च भगवदपरोक्षज्ञानमेव इति वयं जानीमः । भक्तेर्लक्षणं च आराध्यविषयकरागित्वम् । भक्ते रागरूपत्वे प्रयोगः भक्तिर्भजनीयगोचररागरूपा तदनुवर्तनादिहेतुहितसाधनताधीभिन्नात्मविशेषगुणत्वात् यन्नैवं तन्नैवं यथा द्वेषः इति (शाण्डि० सू० टी०) । अत्र वल्लभीया वदन्ति । इयं भक्तिद्विविधा - साधनीभूता फलीभूता च । तत्र साधनभूता भक्तिर्ज्ञानाय कल्पते ।वासुदेवे भगवति भक्तियोगःप्रयोजितः । जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् । इत्यादौ । फलभूता तु स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे । अहैतुक्यव्यवहिता ययात्मा सम्प्रसीदति" (भा० १।२।६-७)। ब्रह्मसंस्थोऽमृतत्वमेति इत्यादौ इति । सुखानुशयो रागः (पात० सू० २।७) । भक्तिः इति शाण्डिल्यसूत्रटीकाकृत आहुः । जीवोपाध्यनवच्छिन्नचेतनविषयिण्यनुरक्तिरेव भक्तिः इत्यप्यन्य आहुः(शाण्डि० सू० टी०) । माहाल्यज्ञानपूर्वः सुदृढ़ः स्नेहो भक्तिः इति पञ्चरात्रागमकुशलाः इति भक्तिस्त्रिविधा । सा (उत्तमा) भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता इति । तत्र साधनभक्तिर्यथा कृतिसाध्या भवेत्साध्यभावा सा साधनाभिधा । नित्यसिद्धस्य भावस्य प्राकट्यं हृदि साध्यता । इति । भावभक्तिर्यथा शुद्धसत्त्वविशेषात्मा प्रेमा सूर्यांशुसाम्यभाक् । रुचिभिश्चित्रमासृण्यकृदसौ भाव उच्यते । इति । प्रेमभक्तिर्यथा सम्यङ्मसृणितस्वान्तो ममतातिशयाङ्कितः । भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते । इति (भक्तिरसामृतसिन्धौ पूर्वभागः) । अत्रोच्यते - अनन्यसमता विष्णौ ममता प्रेमसङ्गता । भक्तिरित्युच्यते भीष्मप्रह्लादोद्धवनारदैः । इति नारदपञ्चरात्रे । भक्तिरपि ब्रह्मविद्यायामधिकारे उपयुज्यते । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् (कठोप० २/२२) (मध्वमा० १ ।१।१ उपोद्धा० ) इति । ३. रचना । यथा भवति विरलभक्तिर्लानपुष्पोपहारः (रघु० स० ५ श्लो० ७४) । इत्यादौ । ४. भागः इति काव्यज्ञा आहुः । ५. विभागः इति व्यवहारज्ञा वदन्ति । ६. भङ्गी इत्यालङ्कारिका आहुः (न्या० को०) । भगवान्, भगवत् ऐश्वर्यादिषड्विधभगयुक्तः परमात्मा । यथा च - ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना । अपरं च"ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा" (वि० पु० अंश: २) । समग्रस्येति प्रत्येकं सम्बन्धः । मोक्षस्येति तत्साधनस्य ज्ञानस्य । इङ्गना संज्ञा । एतादृशं समग्रमैश्वर्यादिकं नित्यमप्रतिबन्धनेन यत्र वर्तते स भगवान् । नित्ययोगे मतुप् । तथा उत्पत्तिं च विनाशं च भूतानामगतिं गतिम् । वेत्ति विद्यामविद्यांच स वाच्यो भगवानिति । तथा भूतानामिति प्रत्येकं सम्बध्यते उत्पत्तिविनाशशब्दौ तत्कारणस्याप्युपलक्षकौ । आगतिगती आगमिन्यौ सम्पदापदौ । एतादृशो भगवच्छब्दार्थः श्रीवासुदेव एव पर्यवसित इति तथोच्यते (गी० ३ । ३ म० सू०) । यथा च - ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना । ऐश्वर्यादिषट्कं यस्मिन् वासुदेवे नित्यमप्रतिबन्धत्वेन सामस्त्येन च वर्तते । 'उत्पत्तिं प्रलयञ्चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति' । उत्पत्त्यादिविषयं च विज्ञानं यस्य स वासुदेवो वाच्यो भगवानिति' (गी० ३।३७ शा० भा०) । परं ब्रह्मैव विशेषस्थितौ भगवानित्युच्यते । यथा - वदन्ति तत् तत्त्वविदस्तत्त्वं यद् ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवनिति शब्दयते ( भाग० १ ।२।११ ) । यथा च - तत्रैव भागवते - सर्वे चांशकलाः प्रोक्ताः कृष्णस्तु भगवान् स्वयमिति (भाग० १।३।२८ ) । भयम्, भय त्रासः आत्मोच्छेदशङ्केति यावत् । यथा - "भयं त्रासः" । (गी० अ० श्लो० १५ शा० भा०) यथा च - भयमात्मोच्छेदशङ्का च (तत्रैव नी० क०) । यथा च - "भयं व्याघ्रादिदर्शनाधीश्चित्तवृत्तिविशेषस्त्रासः" । (तत्रैव म० सू०) । यथा च- "व्याघ्रादिदर्शननिबन्धनस्त्रासः" (तत्रैव भाष्यो०) । यथा च - "भयं त्रासः" (तत्रैव श्रीधरी) । भर्ता, भर्तृ आत्मा । यथा - "भर्ता भरणं नाम देहेन्द्रियमनोबुद्धीनां संहतानां चैतन्यात्मपारार्थ्येन निमित्तभूतेन चैतन्याभासानां यत्स्वरूपधारणं तच्चैतन्यात्मकृतमेवेति भर्तात्मेत्युच्यते" (गी० १३/२२ शा० भा० ) । यथा च - "भर्ता देहेन्द्रियमनोबुद्धीनां संहतानां चैतन्याभासविशिष्टानां स्वसत्तया स्फुरणेन च धारयिता पोषयिता च (तत्रैव म० सू०) । यथा च - "तथा ऐश्वरेण रूपेण भर्ता विधारक इति चोक्तः (तत्रैव श्रीधरी) । भव्यः, भव्य १. (क) भवितुं योग्यः धर्मः । न तु भव्यं ब्रह्म । यथा - भव्यश्च धर्मो जिज्ञास्यो न ज्ञानकालेऽस्ति पुरुषव्यापारतन्त्रत्वात् (ब्र० सू० १/१/१ शा० भा०) । यथा च –"भव्यश्च धर्म इति । भविता भव्यः कर्तरि कृत्यः (तत्रैव भाम०) । यथा च -"कर्मकाण्डे भव्यो धर्मो जिज्ञास्य इह तु भूतं नित्यनिवृत्तं ब्रह्म जिज्ञास्यमिति" (ब्र० सू० १ । १।४ शा० भा०) ।२." प्रवृत्तिनिवृत्तिविधितच्छेषव्यतिरेकेण भूतं चेद् वस्तूप दिशति भव्यार्थत्वेन" (ब्र० सू० १ १ ४ शा० भा०) । यथा च - "भव्यं कार्यम्" (तत्रैव भाम० ) । भस्म, भस्मन् त्रैवर्णिकानां सर्वेषामग्निहोत्रसमुद्भवम् । विरजानलजं चैव धायें भस्म महामुने । औपासनसमुत्पन्नं गृहस्थानां विशेषतः । समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणा । शूद्राणां श्रोत्रियागारपचनाग्निसमुद्भवम् (देवीभाग० उ० ११ स्क० १० अ० ३-५ श्लो०) । अस्य शरीरस्य अन्तिमा स्थितिर्भस्म । पावनत्वेन तु भस्म धार्यमेव । किन्तु जगतो नश्वरत्वबोधनाय नश्वरत्वस्मरणाय चापि भस्म सदा धार्यम् । यथावायुरनिलममृतमथेदं भस्मान्त शरीरम् । ॐ क्रतो स्मर कृत स्मर क्रतो स्मर कृत स्मर (ई० उ० १७) । भाक्त:, भक्त भक्त्या लक्षणया युक्तः शब्दः भाक्तः लाक्षणिकः । यथा - तत्त्वमसि इत्यादौ । इत्यद्वैतवेदान्तिनः । १. लाक्षणिकः शब्दः गौण इत्यर्थः । यथा- सिंहो माणवक इत्यादौ सिंहशब्दः । अत्र सिंहपदस्य सिंहसदृशे लक्षणा । सादृश्यं च शौर्यादीनाम् इति नैयायिका आहुः । तथा च सिंहवृत्तिगुणसदृशगुणवान्माणवकः इति शाब्दबोधः । शाब्दिकास्तु सिंहपदस्य सिंह एवार्थ: माणवके च सिंहवृत्तिशौर्यक्रौर्यादयो गुणा आरोप्यन्ते इत्याहुः। तथा चैतन्मते सिंहवृत्त्यारोपितगुणवान्माणवकः इति बोधः। २. गौण्या वृत्त्या बोधितोऽर्थः (औपचारिकः) । ३. भक्तमन्नम्, तत्सम्बन्धि भाक्तमिति काव्यज्ञा आहुः । (न्या० को०) भागलक्षणा, भागलक्षणा भागे एकस्मिन् भागे लक्षणा भागलक्षणा । इयं जघ्दजहल्लक्षणाप्युच्यते । यथा- यथा तत्रैव वाक्ये सशब्दाऽयंशब्दयोस्तदर्थयोर्वा विरुद्धतत्कालैतत्कालविशिष्टत्वपरित्यागेनाविरुद्धदेवदत्तेन सह लक्ष्यलक्षणभावः । तथात्रापि वाक्ये तत्त्वंपदयोस्तदर्थयोर्वा विरुद्धपरोक्षत्वापरोक्षत्वादिविशिष्टत्वपरित्यागेनाविरुद्धचैतन्येन सह लक्ष्यलंक्षणभावः । इयमेव भागलक्षणेत्युच्यते (वे० सा०) । अधिकं तु लक्षणाशब्दे द्रष्टव्यम् । भागवतः, भागवत् विष्णुभक्ता ये प्रकृतिश्चाधिष्ठाता चोभयात्मकं कारणमीश्वरमभिमन्यन्ते । एतेषां सिद्धान्तो यथा शाङ्करभाष्ये उक्तः - तत्र भागवता मन्यन्ते भगवानेवैको वासुदेवो निरज्जनज्ञानस्वरूपः परमार्थतत्त्वं स चतुर्धात्मानं प्रविभज्य प्रतिष्ठितो वासुदेवव्यूहरूपेण सङ्घर्षणव्यूहरूपेण प्रधूम्नव्यूहरूपेणानिरुद्धव्यूहरूपेण च । वासुदेवो नाम परमात्मोच्यते । सङ्कर्षणो नाम जीवः । प्रद्युम्नो नाम मनः । अनिरुद्धो नामाहङ्कारः । तेषां वासुदेवः परा प्रकृतिरितरे सङ्घर्षणादयः कार्यम्, तमित्थं भूतं परमेश्वरं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैर्वर्षशतमिष्टा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यत इति । तत्र यत्तावदुच्यते योऽसौ नारायणः परोऽव्यक्तात् प्रसिद्धः परमात्मा सर्वात्मा आत्मनात्मानमनेकधा व्यूह्यावस्थित इति तत्र निराक्रियते । स एकधा भवति त्रिधा भवति छा० - ७।२६।२ - इत्यादिश्रुतिभ्यः परमात्मनोऽनेकधाभावस्याधिगतत्वात् । अत्र ब्रूमः न वासुदेवात् जीवस्योत्पत्तिः (ब्र० सू० २ ।३।४२ शा० भा० ) । भानम्, भान १. प्रतीतिः । यथा - उपनीतभानमित्यादौ । २. ज्ञानम् । ३. प्रकाशः । ४. दीप्तिः । भामनीः, भामनी लोकनियन्ता परमात्मा । यथा- "संयन्ति सङ्गच्छमानानि वामा॒न्यनेनेति संयद्वामः परमात्मा स एव पुण्यफलानि वामानि नयति लोकमिति वामनीः । एष एव भामनीः । भामानि भानानि नयति लोकमिति भामनी: (ब्र० सू० १ । २ । १३ भाम०) । यथा च - "एवं संयवाम इत्याचक्षते एतं हि सर्वाणि वामान्यभिसंयन्तीति श्रुतिमीश्वरस्य फलभोक्तृत्वभ्रमव्यावर्त्तनेन व्याचष्टे वननीयानिति । जीवान्प्रति सङ्गच्छमानानि यानि वामानि तानि येन हेतुना सङ्गच्छन्ते स संयवामः (तत्रैव वे० क० त० ) । वन सम्भक्ताविति धातोरौणादिकप्रत्ययान्ततया निष्पन्नो वामशब्दः सम्भजनीयवाची शोभनेषु पुण्यफलेषु पर्यवस्यतीति भावः । (तत्रैव वे० क० त० प०) । भावः, भाव १. सत्ता, नित्यपदार्थः । तेन मण्डनमिश्रादीनां भावाद्वैतः इत्यद्वैतिमतार्थं भावाद्वैतशब्दो द्रष्टव्यः । बुद्ध्यादिः । यथा - "भवन्ति भावाः बुद्ध्यादयो भूतानां प्राणिनामत्र एवेश्वरात्पृथविधा नानाविधाः स्वकर्मानुरूपेण (गी० १०/५ शा० भा०) । यथा च - "एते बुद्ध्यादयो भावाः कार्यविशेषाः सकारणकाः पृथग्विधा धर्माधर्मादिसाधनवैचित्र्येण नानाविधाभूतानां सर्वेषां प्राणिनां मत्तः परमेश्वरादेव भवन्ति नान्यस्मात् (तत्रैव म० सू० ) । यथा च - एते यथोक्ता भावाः पृथग्विधा नानाप्रकारभूतानां स्वकर्मानुसारेण मत्त एवेश्वराद् भवन्ति (तत्रैव भाष्यो०) । यथा च १. अन्यनिगूढ़ेच्छा (प्रशस्त० २ पृ० ३३) । २. सत्ता (सामान्यम्) यथाद्रव्यत्वगुणत्वप्रतिषेधो भावेन व्याख्यातः (वै० ७।२।२७) । इत्यादौ । ३. द्रव्यादिषट्कम् (मु० १ पृ० १९) । तल्लक्षणं च भावत्वमेव । तच्चात्र समवाय एकार्थसमवाय एतदन्यतरसम्बन्धेन सत्तावत्त्वम् (दि० १ पदार्थ नि० पृ० २०) । ४. नव्यास्तु इतराविशेषणतया क्रियाबोधपरत्वम् । यथा कृष्णेन स्थीयत इत्यादौ आत्मनेपदविधायके भावकर्मणोः (पा० सू० १ । ३ । १३) इति पाणिनिसूत्रे भावपदार्थ इत्याहुः (ग० व्यु० आख्यातार्थनि० पृ० १२९) । ५. धातुवाच्या क्रिया यथा भावप्रधानमाख्यातम् (यास्कनिरुक्तम्) । इत्यादौ । ६. सिद्धावस्थापन्नो धात्वर्थो भाव इति वैयाकरणा आहुः । ७. धर्मादयोऽष्टौ भावाः इति सांख्या आहुः । धर्मादयस्तु भावैरधिवासितं लिङ्गम् (सांख्य का० ४०) । इत्यादौ धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्याणि भावाः (सांख्या० कौ० का० ४०-४५) । इत्युक्ताः । ८. प्रकृतिजन्यबोधप्रकारः असाधारणधर्मो भावः । यथा घटस्य भावो घटत्वमित्यादौ इति सर्वशास्त्रकारा आहुः । प्रकृतिजन्यबोधे येन सम्बन्धेन तत्प्रतिपाद्यतावच्छेदकधर्मस्य प्रकारता तेन सम्बन्धेन तदितरावृत्तित्वे सति तद्वृत्तिर्धर्मः इति (भवानन्दी०) । अत्र तस्य भावस्त्वविहितः इति ज्ञेयम् । ९. वासना संस्कारश्च इति मीमांसकाः प्रवदन्ति । १०. भक्तिरपीति सर्वे वेदान्तिनो वदन्ति ।११. नाट्योक्तनानापदार्थचिन्तकः पण्डितः इति नाटकज्ञा ब्रूवते । १२. अभिप्रायोऽपीति काव्यज्ञा संजगदुः । १३. अलङ्कारविशेषः इत्यालङ्कारिका आहुः । १४. जन्म इति पौराणिकाः संवदन्ते । १५. ग्रहाणां द्वादशविधचेष्टाविशेषः इति ज्योतिर्विद आहुः । १६. दिव्यवीरपशुभेदेन त्रिविधो भाव इति तन्त्रज्ञा आहुः । १७. मध्वमतानुयायिवेदान्तिनस्तु प्रथमप्रतीतौ यः अस्ति इति प्रतीतिविषयः स भावः इत्याहुः (प्र० च० परि० २ पृ० ४८) (न्यायकोशः) । भावपदार्थः, भावपदार्थ भावः सत्ता । स च एक एव परब्रह्मरूपः । शास्त्रे लोके च त्रयो भावाः तिस्रो वा सत्ताः । पारमार्थिकी सत्ता (भाव:) प्रातिभासिकी सत्ता (भाव:) व्यावहारिकी सत्ता (भाव:) सच्चिदानन्दशब्दगतस्य सत् इति शब्दस्य प्रतीतिविषयीभूतं यत्तद् ब्रह्मैव भावपदार्थः । यो हि सदा नित्यः । यथा अद्वैतसिद्धौ परिच्छिन्नत्वहेतुविचारे श्रीमधुसूदनसरस्वतीभिरुक्तम्- अत एव घटादिकं सद्रूपे कल्पितम् । प्रत्येकं तदनुविद्धत्वेन प्रतीयमानत्वात् प्रत्येकं चन्द्रानुविद्धजलतरङ्गचन्द्रवदिति ब्रह्मसिद्धिकारोक्तमपि साधु । भाव एव सत्पदार्थः । एक एव भावपदार्थो ब्रह्म । अतो भावाद्वैतमप्युच्यते । यथा- भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः । वर्तयन् स्वानुभूत्येह त्रीन् स्वप्रान् धुनुते मुनिः (भाग० ७/१५ ।३२) । लोके जागरिते स्वप्ने च भावाभावपदार्थः । भावविकाराः, भावविकाराः भवतीति भावः । स च षड्विधः - जायते अस्तीत्यादि । यथा"जायतेऽस्ति वर्धते परिणमतेऽपक्षीयते नश्यति" इति यास्कोक्तान् षड्भावविकारानात्मनि निराकुर्वन् तस्याविक्रियत्वं साधयति-नेति । कदाचित्पदं सर्वविक्रियाप्रतिषेधैः पदैः सम्बन्धनीयम् । न कदाचिज्जायते यतोऽभयमात्मा न भूत्वा भूयः पुनः भविता न, यस्माच्च भूत्वा भवनक्रियामनुभूय भूयो न भविताऽभावं गन्ता वा न, तस्मान्न कंदाचिन्प्रियते च । वा शब्दश्चार्थे । यद्वा 'अयं ना पुरुषो भूत्वा पुनर्भविता न अस्ति, विक्रियायोग्यो न भवतीत्यर्थ: (गी० ३।२० भावोत्कर्षटी०) । भावना, भावना तथानुचिन्तनम् । आत्मभावनाभिनिवेशः ध्यानं च। यथा - "न चास्त्ययुक्तस्य भावनात्मज्ञानाभिनिवेशस्तथा न चास्य भावयत आत्मज्ञानाभिनिवेशं कुर्वतः शान्तिरुपशमो न विद्यते, अशान्तस्य कुतः सुखम्" (गी० २।६६ आ० टी०) । यथा च - न चायुक्तस्य भावना ध्यानम् (तत्रैव श्रीधरी) । भावार्थः, भावार्थ भावो व्यापारस्तदर्थाः शब्दाः यजत्यादिधातवः । एतेभ्यो धातुभ्यः अपूर्वस्य ज्ञानं जायते । यथा- भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेत इति । द्रव्यगुणशब्दानां नैमितिकावस्थायां कार्यावमर्शेऽपि भावस्य स्वतः, द्रव्यगुणशब्दानां तु भावयोगात्कार्यावमर्श इति भावार्थेभ्य एवापूर्वावगतिर्न द्रव्यगुणशब्देभ्य इति भावार्थेभ्य एवांपूर्वावगतिर्न द्रव्यगुणशब्देभ्य इति । (ब्र० सू० १।१।४ भाम०) । यथा च "भावार्थशब्दा यजत्यादिधातवः । तेभ्यो यद्यपि विषयमात्रस्याधिगतिः, तथापि विषयाधीनप्रतिपत्तिकत्वादपूर्वस्य कार्यस्य विषयवाचकेभ्य एव तस्याप्यधिगतिरुक्ता" (क० त० प०) । भावाद्वैतम्, भावाद्वैत श्रीमण्डनमिश्रो भावाद्वैतं मन्यते । मिश्रस्यायमभिप्रायो यद् भावपदार्थ एक एव । स च ब्रह्म । अतः यः सत् स एव भावः स च ब्रह्म । अयं भावाद्वैतवादी सत्ताद्वैतवादी शब्दाद्वैतवादी उच्यते । यथा - एवं भावाद्वैतमते प्रपञ्चभावादेः सत्यत्वेऽपि तदावश्यकम् (अ० सि० अनु० तर्क नि० ल० च०) । यथा च - अत एव घटादिकं सद्रूपे कल्पितम् (तत्रैव परि० हेतुविचारे) । यथा च - भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः । वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनुते मुनिः (भाग० ७।१५।६२) । कार्यकारणवस्त्वैक्यमर्षणं पटतन्तुवत् । अवस्तुत्वाद् विकल्पस्य भावाद्वैतं तदुच्यते (तत्रैव ६३) । भूतम्, भूत १ . यत् सदा एकरूपेण तिष्ठेत् तत् सत्यमिति ब्रह्मेति । यथा - "भूतं सत्यम् । सदेकान्ततः न कदाचिदसदित्यर्थः (ब्र० सू० १/१/१ भाम०) । यथा च - "कर्मकाण्डे भव्यो धर्मो जिज्ञास्य इह तु भूतं नित्यनिवृत्तं ब्रह्म जिज्ञास्यमिति" (ब्र० सू० १।१।४ शा० भा० ) । यथा च - "यः परिव्राड् मुमुक्षुः सर्वाणि भूतानि अव्यक्तादीनि स्थावरान्तान्यात्मन्येवानुपश्यत्यात्मव्यतिरिक्तानि न पश्यतीति अर्थः (ई० उ० ६ शा० भा०) । यथा च - "भूतानि सचराचरसंस्थानलक्षणानि" (सं० शा० ३।१८३ अ० टी०) ।२. पदार्थः पञ्च महाभूतादीनि पृथिव्यादीनि । ३. प्राणी चराचरश्च । भूतग्रामः, भूतग्राम भूतानि पृथिव्यादीनि तेषां ग्रामः समुदायः । यथा - "भूतग्रामं करणसमुदायम्" (गी० १७।६ शा० भा० ) । यथा च - "भूतग्रामं करणसमूहम्" (तत्रैव नी० क० ) । यथा च "भूतग्रामं देहेन्द्रियसंघाताकारेण परिणतं पृथिव्यादिभूतसमुदायम्"(तत्रैव म० सू०) । यथा च - "भूतग्रामं करणसमुदायरूपेण परिणतम्" (तत्रैव भाष्यो०) । यथा च - "देहे स्थितं भूतानां पृथिव्यादीनां ग्रामं समूहम्" (तत्रैव श्रीधरी) । भूतयोनिः, भूतयोनि भूतानां प्राणिनां सकलचराचराणां योनिः कारणं निमित्तं ब्रह्मेति । इत्यद्वैतवेदान्तिनः । प्रधानमिति सांख्ययोगविदः । ईश्वर इति न्यायवैशेषिकाः । यथा योयमदृश्यत्वादिगुणको भूतयोनिः स "प्रधानमेव त्वक्षरशब्दनिर्दिष्टं भूतयोनिः ।..... परमेश्वर एव स्यान्नान्य इति" (ब्र० सू० १ । २ । २१ शा० भा० ) । यथा च - "अथ योनिशब्दो निमित्तकारणपरः, तथापि ब्रह्मैव निमित्तं, न तु जीवात्मेति विनिगमनायां न हेतुरस्तीति संशयेन- पूर्वपक्षः । अत्रोच्यते अक्षरस्य जगद्योनिमुक्त्वा ह्यनन्तरं यः सर्वज्ञश्रुत्या सर्वज्ञस्य स उच्यते" ( तत्रैव भाम० ) । यथा च "भूतयोनिर्जडः परिणममानत्वाद् विवर्तमानत्वाद् वा सम्मतवदित्यर्थः (वे० क० त० ) । यथा च परिणामवितर्तयोर्भेदे स्थिते, यदि विश्वस्य भूतयोनिपरिणामत्वमभ्युपगम्यते, यदि वा तद्विवर्तत्वम्, उभयथापि भूतयोनिर्जडाङ्गीकार्या कनकरुचकस्रग्भुजङ्गादिलोकदृष्टोर्णनाभ्यादिश्रुत्युपात्तदृष्टान्तानुसारेण" (वे० क० त० प० ) । भूतसृष्टि:, भूतसृष्टि भूतानां पृथिवीजलतेजोवाय्वादीनां सृष्टि: उत्पत्तिः । यथा"तम प्रधानप्रकृतेस्तद्भोगायेश्वराज्ञया । वियत्पवनतेजोम्बुभुवो भूतानि जज्ञिरे (प० द० १।१८) । भूमभावः, भूमभाव परमात्मभावः । अज्ञानाकलुषितः आत्मभावः । यथा च"स्वाश्रयविषयानादिभावरूपाज्ञानेन कल्पितो यस्त्रिविधो भेदस्तेन कलुषीकृत आच्छादितो भूमभावः पूर्णानन्दस्वरूपता यस्या इति त्वंपदवाच्योक्तिः" (सं० शा० १ सु० टी० पृ० ९४) । भूमा, भूमन् अनन्तः सर्वतो महान् परमात्मा भूमा विद्या च । यथा च - "तत इदमुच्यते - परमात्मैवेह भूमा भवितुमर्हति न प्राणः । कस्मात् ? सम्प्रसादादध्युपदेशात्" (ब्र० सू० १।३।८ शा० भा०) । छान्दोग्योपनिषदि सप्तमाध्याये त्रयोविंशखण्डे भूमाविद्या वर्णितास्ति । यथा यदमृतं तदेव भूमा ब्रह्मेत्यर्थः यदल्पं तदेव म सर्वदुःखमूलमित्यर्थः । यथा - यो वै भूमा तत्सुखं नाल्पे सुखमस्ति । भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति । भूमानं भगवो विजिज्ञास इति (छा० उ० ७।२३।१ ) । यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद् विजानाति तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम् । स भगवः कस्मिन् प्रतिष्ठित इति । स्वे महिम्नि यदि वा न महिम्नि (तत्रैव ७।२४।१ ) । यथा च - "भूमा बाहुल्यम्" (गौ० प्र०) । भोक्ता, भोक्तृ अज्ञानकल्पितो जीवभावो । अभोक्तृत्वेऽपि भोक्तारं मन्यमानो अबुद्धो अज्ञानबद्धो जीवः । यथा - "एवं विवेचिते तत्त्वे विज्ञानमयशब्दितः । चिदाभासो विकारी यो भोक्तृत्वं तस्य शिष्यते (प० द०७।२१६ ) । यथा च - "भोक्तारं जीवं भोज्यं प्रपञ्चम्" (सं० शा० ३।२९३ अ० टी०) । यथा च – "भोक्तृभोग्ययोरैक्यम् । उपाधिनिमित्तो विभाग आकाशस्येव घटाधुपाधिनिमित्त इत्यतः परमकारणाद् ब्रह्मणोऽनन्यत्वेऽप्युपपद्यते । भोक्तृभोग्यलक्षणो विभागः समुद्रतरङ्गादिन्यायेनेत्युक्तम्" (ब्र० सू० २।१।१३ शा० भा०) । यथा च - "सोपाधिकेन रूपेण यज्ञानां तपसां च कर्तृरूपेण देवतारूपेण च भोक्तारम्" (गी० ५।२९ नी० क०) । भोगः, भोगः कर्मजनितफलप्राप्तिः । अयं च भोगः ....यस्मिल्लोके चन्द्रादिलोके च तथा मनुष्यादीनां देवादीनां च तारतम्येन भोगो न्यूनाधिकरूपेण भवति । यथातथा हि श्रुत्यन्तरं चन्द्रमण्डले भोगसद्भावं दर्शयति स सोमलोके विभूतिमनुभूय पुनरावर्तते - प्र० ४/५ - इति । तथान्यदपि श्रुत्यन्तरम् - अथ ये शतं पितॄणां जितलोकानामानन्दाः स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्ते बृ० ४।३।३३ । इतीष्टादिकारिणां देवैः सह संवसतां भोगप्राप्तिं दर्शयति (ब्र० सू० ३।१।७) । यथा च इष्टादिकारिणां धूमादिना वर्त्मना चन्द्रमण्डलमधिरूढानां भुक्तभोगानां ततः प्रत्यवरोह आम्नायते- तस्मिन् यावत्... - छा० ५/१०/4 (ब्र० सू० ३।१।८) । १. (क) सुखदुःखान्यतरसाक्षात्कारः (त० भा० पृ० ४) (त० दी० १ पृ० ७) (वाक्य०) । (ख) स्वसमवेतसुखदुःखान्यतरलौकिकसाक्षात्कारः (प्र० प्र०) । यथाआत्मनो भोगायतनं शरीरम् (त० दी० १) इत्यादौ भोगः । यथा - ॐ भोगमात्रसाम्यलिङ्गाच्च ॐ (ब्र० सू० ४।४।२१) । इत्यादौ आहुः । अत्र भविष्यपुराणम्- मुक्ताः प्राप्य परं विष्णुं तद्भोगल्लेशतः क्वचित् । बहिःष्ठान् भुञ्जते नित्यं नानन्दादीन् कथञ्चन (मध्वभा० ४।४।४) । इति । २. रव्यादीनां राशिगतकालः । इति ज्योतिर्विद आहुः । अत्रोच्यते अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः (तिथि० त०) । इति । ३. सर्पदेहः इति काव्यज्ञा आहुः (न्यायकोशः) । भोगायतनम्, भोगायतन भोगस्य कर्मफलभोगस्य आयतनं स्थानं साधनमिति यावत् । तच्च भोगायतनं शरीरमित्यर्थः । इदं च शरीरं त्रिविधम् - कारणशरीरंम् (कारणशरीरं सवासनो जीवः) । सूक्ष्मशरीरम् (लिङ्गशरीम्) स्थूलशरीरञ्च । यथा - पूर्वोक्तैरपञ्चीकृतैर्लिङ्गशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्यन्तं स्थायि मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकप्राणादिपञ्चकसंयुक्तं जायते । ब्रह्माण्डस्य जरायुजाण्डजस्वेदजोद्भिज्जाख्यचतुर्विधशरीराणामुत्पत्तिः। ............वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरत्वम् (वे० प० ७ प०) । यथा च - एतद्भोगायतनं चतुर्विधसकलस्थूलशरीरजातं एतद्भोग्यरूपान्नपानादिकमेतदायतनभूतभूरादिचतुर्दशभुवनान्येतदायतनभूतं ब्रह्माण्डं चैतत् सर्वमेतेषां कारणरूपं पञ्चीकृतभूतमात्रं भवति (वे० सा०) । यथा च - भोगस्यावच्छेदकम् । यथा यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनम् (त० दी० १) इत्यादौ शरीरावच्छिन्न आत्मनि भोगो जायत इति शरीरं भोगायतनम् । तच्च भोगायतनम् स्थूलदेहः इति सांख्या आहुः । अत्र सूत्रं भोक्तुरधिष्ठानाद् भोगायतननिर्माणम् । अन्यथा पूतिभावप्रसङ्गात् (सांख्य सू० ५।११४) । इति । अत्र केचिद् वेदान्तिन आहुः । भोगसाधनं च लिङ्गशरीरमेव । तथा चोक्तं पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् । इति । साख्यमते तु पञ्चप्राणस्थले पञ्चभूतमात्राः इति भेदः । स्थूलदेहस्य भोगत्वं तु भोगावच्छेदकत्वात् उपचारादिति बोध्यम् । अत्र सूत्रम् - तदधिष्ठानाश्रये देहे तद्वादात्तद्वादः (सांख्य सू० ३।११) । इति । (न्यायकोशः) । भोज्यम्, भोज्य जडजगत् । यथा - "भोक्तारं जीवं भोज्यं प्रपञ्चम्" (सं० शा० ३।२९३ अ० टी०) । यथा च - एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि ञ्चत् । भोक्ता भोग्यं प्रेरयितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्मैतत् (श्वेता० उ० १।१२ ) । भौतिकसृष्टि:, भौतिकसृष्टि सर्गाधकाले प्राणिनां फलोन्मुखकर्मप्रेरणया परमेश्वरे सिसृक्षा जायते । स सङ्कल्पयति- एकोऽहं बहु स्याम् । ततः अपञ्चीकृतानि पञ्चभूतानि तन्मात्रपदवाच्यानि जायन्ते । ततः क्रमेण ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि पञ्चीकृतभूताश्च पृथिव्यादीनि पञ्चमहाभूतानि च जायन्ते । यथा - ततः सर्गाद्यकाले परमेश्वरः ....... सङ्कल्पयति तदैक्षत बहुस्यां प्रजायेय- छा० ६।२।३ । तत आकाश आदीनि पञ्चभूतानि अपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यानि उत्पद्यन्ते । इमानि भूतानि त्रिगुणमायाकार्याणि त्रिगुणानि ....पञ्चीकृतभूतेभ्यो भूम्यन्तरिक्षस्वर्महः .......उत्पत्तिः । ....एवं भूतभौतिकसृष्टिर्निरूपिता (वे०प० ७ प० ) । यथा च पञ्चीकृतपञ्चभूतेभ्यः स्थूलप्रपञ्चोत्पत्तिः (वे० सा०) । यथा च - स्वांशैः पञ्चभिस्तेषां क्रमादीन्द्रियपञ्चकम् । श्रोत्रत्वगक्षिरसनघ्राणाख्यमुपजायते (प० द० १ । १९) । भ्रमः, भ्रमः उत्तरकाले बाधितज्ञानं भ्रम उच्यते । यथा रज्जौ सर्पभ्रमः शुक्तौ रजतभ्रमश्च । अयमेव अयथार्थानुभव इत्यपि कथ्यते । यथा तदभावति तप्रकारकोऽनुभवोऽयथार्थः । .....अयथार्थानुभवस्त्रिविधः संशयविपर्पयतर्कभेदात् (त० सं० ४ ख०) । अयम् अध्यासशब्देन शाङ्करवेदान्ते व्यवह्रियते सचस्मृतिरूपः परत्र पूर्वदृष्टावभासः । तं केचित् अन्यत्र अन्यधर्माध्यास इति वदन्ति (ब्र० सू० उपो० शा० भा०) । इत्यादि । अयं च ख्यातिशब्देनापि दर्शनग्रन्थेषूपलभ्यते । यथा- आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा । परीक्षकाणां विभ्रान्तौ विवादात् सा विविच्यते । (विभ्रमविवेके १) एतदर्थं ख्यातिशब्दो द्रष्टव्यः । अधिकं तु मदीये चतुर्दशख्यातिविवेकग्रन्थे द्रष्टव्यम् । १. (अप्रमा) (क) यत्र यन्नास्ति तत्र तस्य ज्ञानम् । समुदायार्थश्च तदभाववन्निरूपिततन्निष्ठविषयताप्रतियोगि ज्ञानम् इति । अत्र स्मृतेरपि भ्रमतया अनुभवत्वमपहाय ज्ञानत्वप्रवेशः (मु०म० १ प्रामा० पृ० ४०५) भ्रमश्च दोषाज्जन्यते । भ्रमलक्षणं तु स्वानुयोगिनिष्ठविशेष्यतानिरूपितत्वस्वप्रतियोगिनिष्ठत्वस्वावच्छिन्नत्व एतन्त्रितयसम्बन्धेन सम्बन्धविशिष्टान्य प्रकारताशालिज्ञानत्वम् (ग० अव० हेतु०) इति । अत्र स्वपदार्थस्तु विशेष्यविशेषणयोर्भासमानः सम्बन्धो ज्ञेयः । अत्रेदमवधेयम् । विपर्ययोऽपि प्रत्यक्षानुमानविषय एव भवति । प्रत्यक्षविषये तावत् प्रसिद्धानेकविशेषस्यापि पित्तकफानिलोपहतेन्द्रियस्यायथार्थलोचनात् सम्प्रत्यसन्निहितविषयविज्ञानजसंस्कारापेक्षादात्ममनसोः संयोगादधर्मत्त्वात्तस्मिन् तत् इति प्रत्ययो विपर्ययः । यथा गच्छत्येव अश्व इति । असत्यपि प्रत्यक्षे प्रत्यक्षाभिमानो भवति । यथा - अपगतघनपटलमचलविषयेऽपि वाष्पादिभिर्धूमाभिमतैर्वह्न्यनुमानं गवयविषाणदर्शनाच्च गौः इति त्रयीदर्शनविपरीतेषु शाक्यादिदर्शनेषु इदं श्रेयः इति मिथ्याप्रत्ययो विपर्ययः (प्रशस्त० पृ० २४) । (ख) तदभाववति तत्प्रकारकं ज्ञानम् (चि० १ प्रामा० पृ० ४०१) (त० प्र० १) (त० दी०) । (ग) अतस्मिन् तत् इति प्रत्ययः । (न्या० बा० १ पृ० २६) (भा०प० श्लो० १२८) (त० भा० पृ० ४०) । (घ) विशेष्यताव्यधिकरणप्रकारकं ज्ञानम् ( म० प्र० ४ पृ० ७३) । यथा - पुरोवर्तिन्येवारजते शुक्त्यादौ रजतारोपः । इदं रजतमिति ज्ञानम् (त० भा० पृ० ४०) (त० प्र० १) (त० दी०) । यथा वा पीतः शङ्खः लोहितः स्फटिकः इत्यादिज्ञानम् । (त० कौ) (भा०प० श्लो० १२९) । यथा वा कृशोऽहम् बधिरः, स्थूलः इति ज्ञानम् (त० व०) । भ्रमो द्विविधः विपर्यासः (विपर्ययः) संशयश्च । तत्राद्यो यथा शरीरादौ आत्मत्वप्रकारकं गौरोऽहम् इत्याकारकं निश्चयरूपं ज्ञानम् (मु० गु०) द्वितीयो यथा स्थाणुर्वा पुरुषो वा इति संशयरूपः (भा० प० श्लो० १३०) प्रकारान्तरेण भ्रमो द्विविधः निरूपाधिकः सोपाधिकश्च । तयोः स्वरूपं चेत्थम् । दोषेण कर्मणा वापि क्षोभितो ज्ञानसम्भवः । तत्त्वविद्याविरोधी च भ्रमोऽयं निरूपाधिकः। उपाधिसन्निधिप्राप्तक्षोभाविद्याविजृम्भितम् । उपाध्यपगमापोह्यमाहुः सोपाधिकं भ्रमम् ॥ (सर्व० सं० पृ० ४२१ शा० ) । (ङ) मिथ्याज्ञानापरपर्यायः अयथार्थनिश्चयः । (गौ० वृ० ४ । १ ।३) (त० सं०) । अयं च मोक्षपर्यन्तगतो दोषविशेष इति विज्ञेयम् (न्याय- कोश:) । १. भ्रमः ( अमरः) । २. योगान्तरायश्चित्तविक्षेपो भ्रान्तिः इति योगशास्त्रज्ञा आहुः (पात० पा० १ सू० ३० ) । अत्रोच्यते व्यवहारविषये षाण्मासिके तु सम्प्राप्ते भ्रान्तिः सञ्जायते नृणाम् । धात्राक्षराणि सृष्टानि पत्रारूढ़ान्यतः पुरा ॥ (ज्यो० त०) (वाच०) इति । भ्रमोपादानम्, भ्रमोपादान तमश्चाकचिक्यादिदोषसहकृतेन्द्रियवैकल्यतो जातविवेकाग्रहो भ्रमोपादानम् । अत एव तमसि रज्जौ सर्पभ्रमस्तथा शुक्तौ चाकचिक्येन रजतभ्रमः । यथा – यत्र यदध्यासस्तद्विवेकाग्रहनिबन्धनो भ्रमः (ब्र० सू० शा० भा० उपो०)। भ्रमः, ख्यातिः, अध्यासः । ख्यातिशब्दो भ्रमशब्दश्च द्रष्टव्यौ । भ्रान्तिः, भ्रान्ति भ्रान्तिदर्शनम्, भ्रान्तिदर्शन अतस्मिंस्तद्बुद्धिः (सर्व० सं०) । तथा (ब्र० स० शा० भा० उपो० ) । मटची, मटची अशनिः पाषाणवृष्टिः । यथा - "मटची हतेषु मटच्योऽशनयस्ताभिर्हतेषु नाशितेषु कुरुषु कुरुसस्येष्वित्यर्थः । ततो दुर्भिक्षे जात आटिच्याऽनुपजातपयोधरादिस्त्रीव्यञ्जनया सह जाययोषस्तिर्ह... (छा० उ० १/१०/१ शा० भा० ) । यथा च- "मटच्यो मर्दनहेतवोऽशनयः पाषाणवृष्टयो वा ततः सस्यनाशादित्येतत्सर्वतः स्वैरसञ्चारेऽपि न व्याभिचारशङ्केति । (छा० उ० १।१०।१ शा०भा० आ० टी०) । मत्कर्म, मत्कर्मन् भगवप्रीत्यर्थं श्रवणादिकं दशविधं कर्म । यथा - "मत्कर्मपरमोभव मदर्थं कर्म मत्कर्म तत्परमो मत्कर्मप्रधान इत्यर्थः (गी० १२/१० शा० भा० ) । यथा च "मत्कर्म श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्" ॥इति नवविधभजनात्मकं भगवत्प्रीत्यर्थ कर्म मत्कर्मशब्दितं तदेव परमावश्यकं यस्य तादृशो भव" (तत्रैव नी० क० ) । मद्योगः, मद्योग भगवते सर्वकर्मसमर्पणपूर्वकं कर्मानुष्ठानम् । यथा च - "मद्योगमास्थितो मयि क्रियमाणानि कर्माणि संन्यस्य यत्करणं तेषामनुष्ठानं स मद्योगः (गी० १२/११ शा० भा०) । यथा च - "मद्योगं मदेकशरणत्वमाश्रितः मयि सर्वकर्मसमर्पणं मद्योगः (तत्रैव म० सू०) । यथा च - मयि सर्वाणि कर्माणि संन्यस्य तेषामनुष्ठानं मद्योगः (तत्रैव भाष्यो०)। मदामदः, मदामद विरुद्धधर्मवान्, अलौकिकः इति । यथा - "एवमसावात्मा देवो मदाऽमदः समदोऽमदश्च सहर्षोऽ हर्षश्च विरुद्धधर्मवानतोऽ शक्यत्वाज्ज्ञातुं कस्तं मदामदं देवं मदान्यो ज्ञातुमर्हति (का० उ० १/२/२१ शा० भा०) । मधुज्ञानम्, मधुज्ञान मधुविद्या, ब्रह्मज्ञानम् । यथा - ब्रह्मविद्याख्यं मध्वमृतममृतत्वं मोदनहेतुत्वात् विज्ञायते यस्मिन्निति मधुज्ञानं मधुब्राह्मणम् (मा० उ० गौ० काo ३।१२ शा० भा० ) । मध्वदः, मध्वद कर्मफलभोक्ता जीवः आत्मा । यथा - मधु कर्मफलं अत्तीति मध्वदः तमिति व्युत्पत्याह । सामीप्यं चात्राभेदः । अभेदेन वेदेत्यर्थ: (का० उ० ४ । ५) । यथा च - किञ्च यः कश्चिदिमं मध्वदं कर्मफलभुजं जीवं प्राणादिकलापस्याधारयितारमात्मानं वेद विजानाति (का० उ० ५ शा० भा० ) । मध्यमधीः, मध्यमधी ब्रह्मजिज्ञासुः । यथा - "यस्तु समस्तकारणतया परस्य सत्त्वं निश्चित्य तत्स्वरूपं जिज्ञासते स मध्यमधीः" (सं० शा० ३।२४० अ० टी०) । मनः, मनस् १. अन्तःकरणस्य वृत्तिभेदः । यथा - "मय्यर्पितमनोबुद्धिसङ्कल्पात्मकं मनोऽध्यवसायलक्षणा बुद्धिस्ते मय्येवार्पिते स्थापिते यस्य सन्यासिनः स मय्यर्पितमनोबुद्धिर्य ईदृशो मद्भक्तः स मे प्रियः" (गी० १२।१४ शा० भा०) । यथा च – "मयि निर्गुणे ब्रह्मण्यर्पिते निहिते प्रविलापिते वा मनः सङ्कल्पादिरूपं बुद्धिरध्यवसायस्ते उभे येन स मय्यर्पितमनोबुद्धिः" (तत्रैव नी० क०) । यथा च – "यतः सततं मयि परमात्मनि सङ्कल्पविकल्पात्मकं मनोऽध्यवसायलक्षणा बुद्धिश्च ते मय्येव स्थापिते यस्य स. यतो मय्यर्पितमनोबुद्धिरिति वा" (तत्रैव भाष्यो०) । यथा च - तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तद् द्विधा । मनो विमर्शरूपं स्याद् बुद्धिः स्यान्निश्चयात्मिका (प० द० १ / २०) । यथा च -"तच्चात्मनः उपाधिभूतमन्तःकरणं मनोबुद्धिर्विज्ञानं चित्तमिति चानेकधा तत्र तत्राभिलप्यते । ......कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्धीर्भीरित्येतत्सर्वं मनः । क्वचिच्च वृत्तिविभागेन संशयादिवृत्तिकं मन इत्युच्यते निश्चयादिवृत्तिकं बुद्धिरिति तच्चैवंभूतमन्तःकरणमवश्यमस्तीत्युपगन्तव्यम् (ब्र० सू० २ । ३ । ३२) । यथा च - तमसि विनालोकेन चक्षूरूपसन्निकर्षो नक्तञ्चराणां रूपज्ञाने निमित्तं भवति । मन एव केवलं रूपज्ञाननिमित्तं योगिनाम् (बृ० उ० १ ।४।२शा० भा० ) ।२. मनसः करणमहङ्कारः । यथा - मन इति मनसः करणमहङ्कारो गृह्यते (गी०७४ शा० भा० ) । यथा च - "मनः शब्देन न च परिशिष्टमव्यक्तं लक्ष्यते । मनः शब्देन वा स्वकारणमहङ्कारो लक्ष्यते पञ्चतन्मात्रसन्निकर्षात्" (तत्रैव म० सू०) । ३. यथा च - "विवेकबुद्धिः" । यथा - "मनसा विवेकबुद्ध्या (गी० ५/१३ शा० भा० ) । यथा च - " विचारतया" मनसेति । यद्यन्मया दृश्यते बाह्यं घटादि तत्तदहं न भवामि तथाऽस्मिन्नपि संघाते यद्यद् दृश्यं तत्तदहं न भवामि किन्तु योऽत्र ज्ञोंशः सोऽस्मि सर्वशरीरेष्वेकलक्षणलक्षितत्त्वादेक एवेति विचारेण प्रथमं सम्भावित इत्यर्थ:" (का० उ० ६।९ शा० भा० आ० टी० ) । यथा च - "त्रयाभावे तु निर्वैतः पूर्ण एवानुभूयते । समाधिसुषुप्तिमूर्च्छासु पूर्णः सृष्टेः पुरा तया" (प० द० ११ ।१६) । अद्वैतवेदान्तनये केषाञ्चन नये मनस इन्द्रियत्वं न तथा केषाञ्चन नये च इन्द्रियत्वमस्ति विवरणप्रस्थानानुसारिवेदान्तपरिभाषायां यथा - नन्वन्तःकरणस्येन्द्रियतया अतीन्द्रियत्वात् कथमहमिति प्रत्यक्षविषयतेति । उच्यते- न तावदन्तःकरणमिन्द्रियमित्यत्र मानमस्ति । मनः षष्ठानीन्द्रियाणि इति भगवद्गीतावचनं प्रमाणमिति चेत्, न । अनिन्द्रियेणापि मनसा षत्वसंख्यापूरणाविरोधात् । नहीन्द्रियगतसंख्यापूरणमिन्द्रियेणैवेति नियमः । यजमानपञ्चमा इडां भक्षयन्ति इत्यत्र ऋत्विग्गतपञ्चत्वसंख्याया अनृत्विजापि यजमानेन पूरणदर्शनात् । वेदानध्यापयामास महाभारतपञ्चमम् इत्यत्र वेदगतपञ्चत्वसंख्याया अवेदेनापि महाभारतेन पूरणदर्शनात् । इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः (का० १।३।१०) इत्यादिश्रुत्या मनसोऽनिन्द्रियत्वावगमाच्च । न चैवं मनसोऽनिन्द्रियत्वे सुखादिप्रत्यक्षस्य साक्षात्त्वं न स्यादिन्द्रियाजन्यत्वादिति वाच्यम् । न हीन्द्रियजन्यत्वेन ज्ञानस्य साक्षात्त्वम् । अनुमित्यादेरपि मनोजन्यतया साक्षात्त्वापत्तेः । ईश्वरज्ञानस्यानिन्द्रियजन्यस्य साक्षात्वानापत्तेश्च (वे० प० १ ५०) । भामतीकारवाचस्पतिमते मनस इन्द्रियत्वमङ्गीकृतम् । यथा - यदि च प्राणरूपतामिन्द्रियाणामभिंदधाति श्रुतिस्तथापि पौर्वापर्यालोचनायां भेद एव प्रतीयत इत्युक्तं भाष्यकृता । तस्माद् बहुश्रुतिविरोधात् पूर्वापरविरोधाच्च प्राणरूपाभिधानमिन्द्रियाणां प्राणायत्ततया भाक्तं गमयितव्यम् । मनसस्त्विन्द्रियत्वे स्मृतेरवगते क्वचिदिन्द्रियेभ्यो भेदेनोपादानं गोबलीवर्दन्यायेन । अथवा इन्द्रियाणां वर्तमानत्वमात्रविषयत्वान् मनसस्तु त्रैलोक्यगोचरत्वाद् भेदेनाभिधानम् (ब्र० सू० २/४/१७ भाम०) । श्रीवाचस्पतिमिश्रमते ब्रह्मसाक्षात्कारे मनसः कारणत्वमपि स्वीकृतम् । यथा न चैष साक्षात्कारो मीमांसासहितस्यापि शब्दप्रमाणस्य फलम् । अपि तु प्रत्यक्षस्य । तस्यैव फलनियतत्वात् ।.... तस्माद् निर्विचिकित्सितवाक्यार्थभावनापरिपाकसहितमन्तःकरणं त्वंपदार्थापरोक्षस्य तत्तदुपाध्याकारनिषेधेन तत्पदार्थमनुभावयतीतियुक्तम् ।...... एवं वेदान्तार्थज्ञानाभ्यासाहितसंस्कारो जीव: स्वस्य ब्रह्मभावमन्तःकरणेन (ब्र० सू० 9 19 19 भाम० ) । यथा च तस्माद् यथा गान्धर्वशास्त्रार्थज्ञानाभ्यासाहितसंस्कारसचिवेन श्रोत्रेण षड्जादिस्वरग्राममूर्च्छनाभेदमध्यक्षेणेक्षते एवं वेदान्तार्थज्ञानाहितसंस्कारो जीवस्य ब्रह्मस्वभावमन्तःकरणेन (ब्र० सू० ४/१/२ भाम० ) । यथा च - अयमभिसन्धिः सत्यं न ब्रह्मसाक्षात्कारः साक्षादागमयुक्तिफलमपितु युक्त्यागमार्थज्ञानाहितसंस्कारसचिवं चित्तमेव ब्रह्मणि साक्षात्कारवतीं बुद्धिवृत्तिं समाधत्ते । सा च नानुमानितवह्निसाक्षात्कारवत् प्रातिभत्वेनाप्रमाणम् । तदानीं वह्निस्वलक्षणस्य परोक्षत्वात् । सदातनं तु ब्रह्मस्वरूपस्योपाधिरुषितस्य जीवस्यापरोक्षत्वम् । नहि शुद्धबुद्धत्वादयो वस्तुतस्ततोऽतिरिच्यन्ते । जीव एव तु तत्तदुपाधिरहितशुद्धादिस्वभावो ब्रह्मेति गम्यते । न च तत्तदुपाधिविरहोऽपि ततोऽतिरिच्यते (तत्रैव) । विवरणप्रस्थाने ब्रह्मसाक्षात्कारकारणं शब्दः । यथा - ननु ततस्तु ते पश्यते निष्कलं ध्यायमानः इति ध्यानमपरोक्षफलं श्रूयते । सत्यम् । एकस्य चित्तस्य समवधानता तदैकग्र्यनिमित्तं भवति । तदेकण्यचेतसा सहकारिणा शब्द एव औषनिषदम् इति तद्धितप्रत्ययसामर्थ्यात् अपरोक्षज्ञानमुत्पादयति (प० पा० वि० २ वर्णके) । यथा च - चित्तेन्द्रियं पारोक्ष्यविभ्रमनिमित्तप्रतिबन्धनिरासेन शब्दादेव अपरोक्षनिश्चयनिमित्तं भवतीति गम्यते । लोके तु अतिसूक्ष्मतरवस्तुनिर्धारणे चित्तैकाग्यविशेषापेक्षाया दर्शनात् । एवं तं त्वौपनिषदम् इति तद्धितप्रत्ययेन ब्रह्मावगतिहेतुत्वं शब्दस्य दर्शितमुपपन्नं भवति (प० पा० वि० १ वर्णके) । एवमेव शारीरकन्यायसंग्रहे सर्वापेक्षाधिकरणे । अत्र विवरणवाक्ये चित्तेन्द्रियमिति कथयता चित्तस्य मनसः इन्द्रियत्वमभिप्रैतीतिवद् आभाति । यथा च - त इन्द्रियाणि तद् व्यपदेशादन्यत्र श्रेष्ठात् (ब्र० सू० २।४।१७ शा० भा० ) । यथा च - (द्रव्यम्) १ (क) निःस्पर्शमणु (न्या० म० १ ।१४) (वै० ७।१।३) (गौ० वृ० १ ।१ ।१६) । अत्र व्युत्पत्तिः मन्यतेऽनेन मनः इति । करणार्थे अगुन् प्रत्ययः । तच्च मनः सर्वेन्द्रियप्रवर्तकम् आन्तरेन्द्रियं स्वसंयोगेन बाह्येन्द्रियानुग्राहकम्, अत एव सर्वोपलब्धिकारणम् (त० भा० प्रमेयनि० पृ० ३२) मनः सद्भावे प्रमाणमनुमानम् । तच्चानुमानं सुखादिसाक्षात्कारः करणसाध्यः जन्यसाक्षात्कारत्वाच्चाक्षुषसाक्षात्कारवत् इति । आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोभावश्च मनसो लिङ्गम् (वै० ३।२।१ ) । भावः अभावः इति पदच्छेदः । यत्संयोगव्यतिरेकात्सुषुप्तिकाले कर्मानुत्पादः तदेव मनः इति (पं० मा०) । युगपज्ज्ञानानुत्पत्तिः मनसो लिङ्गम् (गौ० १।१।१६) । (ख) मनस्त्वभिसम्बन्धवत् (त० भा०) (प्रशस्त० पृ० २३) (न्या० म०) । (ग) मयि सुखमिति सुखप्रत्यक्षस्यासाधारणं कारणम् (त० कौ०) (ता० २० श्लो० ३०) । अत्र मनसः प्रत्यक्षकरणत्वे आत्ममन संयोगो व्यापारो बोध्यः (त० कौ०) । (घ) सुखाद्युपलब्धिसाधनमिन्द्रियम् (गौ० वृ० १/१/१६) (त० भा० अर्थ० पृ० ३१) (भा०प०) (त० सं० ) यथा - सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्ति इति सर्वविषयमन्तःकरणं मनः (वात्स्या० १।१।९) । मनो नेन्द्रियमिति मायावादिनो वेदान्तिनो वदन्ति । न्यायनये मनस्यष्टौ गुणास्तिष्ठन्ति संख्या अणुपरिमाणं पृथक्त्वं संयोगः विभागः परत्वम् अपरत्वम् वेगश्चेति (वै० ३।२।२-३) तथा च - मनसः क्रियावत्त्वान्मूर्त्तत्त्वं गुणवत्त्वाद् द्रव्यत्वं प्रयत्नादृष्टपरिग्रहवशादाशु सञ्चारित्वम (प्रशस्त० पृ० २३-२४)। इति । मायावादिनस्तु सङ्कल्पविकल्पात्मकवृत्तिमदन्तःकरणं मन इत्याहुः। तच्च तन्मते सुखदुःखादीनामाधारः । अत्र श्रुतिं प्रमाणयन्ति मायावादिनः- कामः सङ्कल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिरधृतिर्धीर्भीरित्येतत्सर्वं मन एव ( बृ० उ० १।५।३) । इति । न्यायमते तु तदाधार आत्मैव इति भेदाः । २. मनः शिलानामको धातुविशेषः इति भिषज: आहुः (न्यायकोशः) । मननम्, मनन श्रवणानन्तरं युक्त्यनुचिन्तनम् । यथा च - "एवं मननस्यापि विषयविशेषनियतयुक्त्यालोचनस्यावगतस्य कर्तुमशक्यत्वादिति (ब्र० सू०१ । १४ वे० क० त०) । यथा च – "इदानीं न्यायतस्तत्तात्पर्यावधारणं श्रवणं तदनुग्राहकानुमानादिरूप युक्त्यनुचिन्तनं मननमिति पक्षे विध्यन्तरेणापि तयोर्निदिध्यासनस्य च विधानासम्भवमाह" (तत्रैव क० त० परि०) । यथा च - "इत्थं वाक्यैस्तदर्थानुसन्धानं श्रवणं भवेत् । युक्त्या सम्भावितत्वानुसन्धानं मननं तु तत्" (प० द० १ ।५३) । यथा च "षड्विधलिङ्गतात्पर्यपूर्वकं मननं तु श्रुतस्य अद्वितीयवस्तुनो वेदान्तानुगुणयुक्तिभिरनवरतमनुचिन्तनम्" (वे० सा० ) । यथा च - "मननं नाम शब्दावधारितेऽर्थे मानान्तरविरोधशङ्कायां तन्निराकरणानुकूलतर्कात्मज्ञानजनको मानसो व्यापारः (वे०प० ८५०) । यथा च -यपुनरुक्तं श्रवणात्पराचीनयोर्मनननिदिध्यासनयोर्दर्शनाविधिशेषत्वं ब्रह्मणो न स्वरूपपर्यवसायित्वमिति । न अवगत्यर्थत्वान्मनननिदिध्यासनयोः । यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येत भवेत्तदा विधिशेषत्वम् । न तु तदस्ति; मनननिदिध्यासनयोरपि श्रवणवदवगत्यर्थत्वात् (ब्र० सू० १/१/४ शा० भा० ) । भामतीकारमते निदिध्यासनं ब्रह्मसाक्षात्कारे साक्षात्कारणम् । श्रवणं मनने हेतुर्मननं च निदिध्यासने हेतुः । विवरणकारमते ब्रह्मसाक्षात्कारे श्रवणं साक्षात्कारणम् । मनननिदिध्यासनयोस्तु अरादुपकारकत्वादङ्गत्वम् । यथा - तत्र निदिध्यासनं ब्रह्मसाक्षात्कारे साक्षात्कारणम् । ........निदिध्यासने च मननं हेतुः । अकृतमननस्यार्थदादर्याभावेन तद्विषये निदिध्यासनायोगात् । मनने तु श्रवणं हेतुः । श्रवणाभावे तात्पर्यानिश्चयेन.... मननायोगात् . .... केचिदाचार्या उचिरे । अपरे तु श्रवणं प्रधानम्...मनननिदिध्यासनयोस्तु अरादुपकाराकाङ्गत्वमित्याहुः (वे० प० ८ प०) । अधिकन्तु ब्र० सू० ३।४।६ शा० भा० भामत्यां तथा पञ्चपादिकाविवरणप्रथमवर्णक । मनोदृश्यम्, मनोदृश्य कल्पितरूपम् । यथा - कथं तेन हि मनसा विकल्प्यमानेन दृश्यं मनोदृश्यमिदं सर्वं मन इति प्रतिज्ञा (मा० उ० गौ० का० ३।३१ शा० भा०) । मनोमयः, मनोमय मनश् शब्दाप्राचुर्यार्थे मयट् । यथा आनन्दप्रचुरत्वाद् आनन्दमय उच्यते तथैव विज्ञानमयः मनोमयः प्राणमयः अन्नमयश्च । मनोमयकोशः, मनोमयकोश १. ज्ञानेन्द्रियसहितं मनः । यथा - मनस्तु ज्ञानेन्द्रियैः सहितं सन्मनोमयकोशो भवति (वे० सा०) । यथा च - सात्त्विकैर्धीन्द्रियैः साकं विमर्शात्मा मनोमयः तैरेव साकं विज्ञानमयो धीर्निश्चयात्मिका (प० द० १ ।३५) ।२. मनोमय इच्छाशक्तिमान् करणरूपः (वे० सा०) ३. मनोमयः प्राणशरीरः (छा० ३।१४।२)। ४. ....मनोमयात् (तै० उ० २।४ शा० भा०) । ५ . यथा च - स्यादेतत् - जीवस्य साक्षात् मनोमयत्वादयः, ब्रह्मणस्तु तद्वारा ( ब्र० सू० १ ।२।१ भाम० ) । मनोमयशरीरम्, मनोमयशरीर ज्ञानेन्द्रियैः सहितं मनो मनोमयशरीरं भवति । विज्ञानमयकोशः मनोमयकोशः प्राणमयकोशः एभिस्त्रिभिः कोशैर्मिलित्वा सूक्ष्मशरीरं भवति इदमेव लिङ्गशरीरमप्युच्यते । यथा- पूर्वोक्तैरपञ्चीकृतैर्लिङ्गशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्यन्तं स्थायि मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकप्राणादिपञ्चकसंयुक्तं जायते । तदुक्तम्- पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्त्थं सूक्ष्माङ्गं भोगसाधनम् तच्च द्विविधं परमपरं च । तत्र परं हिरण्यगर्भशरीरम्, अपरमस्मदादिशरीरम् (वे० प० ७ प०) । यथा च - मनस्तु ज्ञानेन्द्रियैः सहितं सन् मनोमयकोशो भवति । .....एतेषु कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान् कर्तृरूपः मनोमय इच्छाशक्तिमान् करणरूपः प्राणमय: क्रियाशक्तिमान् कार्यरूपः । योग्यत्वादेवमेतेषां विभाग इति वर्णयन्ति । एतत्कोशत्रयं मिलितं सत् सूक्ष्मशरीरमित्युच्यते ।...... स्थूलशरीरापेक्षया सूक्ष्मत्वादेव हेतोरेव सूक्ष्मशरीरम् । विज्ञानमयादिकोशत्रयं जाग्रवासनामयत्वात् स्वप्नोऽतएव स्थूलशरीरलयस्थानमिति चोच्यते (वे० सा०) । मरः, मर पृथिवीलोकः, मर्त्यलोकः । यथा - "अदोऽम्भः परेण दिवं द्यौः प्रतिष्ठान्तरिक्षं मरीचयः पृथिवी मरो या अधस्तात् ता आपः (ऐ० उ० १ । १ ) । अत्र शा० भाष्यम् - म्रियन्तेऽस्मिन् भूतानीति पृथिवीलोको मरः याः पृथिव्याः अधस्तात् ता आपः पातालानि ।" मरणम्, मरण प्रणानां तनुनिष्क्रान्तिर्मरणं प्राणवियोगः, जीवस्य शरीरादपसृतिर्वा । यथा - अस्ति मुग्धो नाम यं मूर्च्छित इति लौकिकाः कथयन्ति । स तु किमवस्थ इति परीक्षायामुच्यते । तिस्रस्तावदवस्थाः शरीरस्थस्य जीवस्य प्रसिद्धा जागरितं स्वप्नः सुषुप्तमिति । चतुर्थी शरीरादपसृतिः । न तु पञ्चमी काचिदवस्था जीवस्य श्रुतौ स्मृतौ वा प्रसिद्धास्ति (ब्र० सू० ३।२।१० शा० भा०) । यथा च - अत्र केचिन्मरणमूर्च्छयोरवस्थान्तरत्वमाहुः । अपरे तु सुषुप्तावेव तयोरन्तर्भावमाहुः (वे० प० ७ प०) । यथा च यद्यपि सत्यपि मोहे न मरणम् । तथाप्यसति मोहे मरणमिति मरणार्थो मोहः (ब्र० सू० ३।२।१० भाम०) । (क) जीवनादृष्टनाशः । मरणं च धर्माधर्माधीनम् । तथा च सूत्रं तत्संयोगो विभाग इति (वै० सू० ६ ।२।१५) । (ख) प्राणध्वंसः । (ग) चरमप्राणशरीरसंयोगध्वंसः (गौ० वृ० १/१/१९) (नील० पृ०४२) (दि० १ पृ० २०) (वै० वि० ६।२।१५) । प्राणशरीरसंयोगे चरमत्वं च स्वसजातीयशरीरवृत्तिप्राणसंयोगप्रागभावानधिकरणत्वम् (राम० १ पृ० २०) । (घ) शरीरमनोविभागः (वै० उ० ६ ।२।१५ ) । यथा - न जायते म्रियते वा कदाचित् (गी० २ । २०) इत्यादौ । उपात्तानां जातिविशिष्टदेहेन्द्रियमनोऽहङ्कारबुद्धिवेदनानां परित्यागो मरणमिति सांख्या आहुः (सांख्य कौ० ) । स्कन्धनाशो मरणम् इति बौद्धा आहुः । केचित् देहात्मनोर्विच्छेदः प्राणवायोरूत्क्रमणरूपो व्यापारविशेषो वा मरणम् इत्याहुः । मरीचिः, मरीचि अन्तरिक्षलोकः । यथा- "धुलोकादधस्तादन्तरिक्षं यत्तन्मरीचयः (ऐ० उ० १/२ शा० भा० ) । यथा च - "मरीचिशब्देन सूर्यकिरणसम्भवात् अन्तरिक्षलोकं लक्षयित्वा तस्यैकत्वेऽपि प्रदेशभेदात् बहुबचनं युक्तम् (ऐ० उ० १/२ शा० भा० आ० टी०) । मर्त्यः, मर्त्य मरणशीलः । यथा - "मरणधर्मा धर्मादनपेतम्" (का० उ० २।१३ शा० भा० ) । मर्यः, मर्य मरणशीलः । यथा - "मर्याः मरणधर्मिणः" (बृ० आ० उ० ६ ।४।४ शा० भा० ) । मलः, मल रागादिः · आत्मप्रतीतिबन्धकृत् । यथा- "मलो रागादिर्बन्धनमस्वातन्त्र्यं दुःखमेव दुःखिता प्रतिकूलवेदनीयो रजः परिणाम इति जीवधर्मः" (सं० शा० १ पृ० ३ सु० टी० ) । यथा - "मलशब्देन तप्रसिद्धं यवस्तु याथाल्यप्रतीतिप्रतिबन्धकृद्यथा पडूदिग्धमादर्शादि । तविरुद्धं चापगतमलत्वेन व्यवह्रीयमाणं शुद्धमिति । तथा च परमपदस्वरूपावभासप्रतिबन्धकृदनाद्यनिर्वचनीयाऽविद्या ।" "अनृतेन हि प्रत्यूढाः" - छा० ८।३।२ - । यथा च - "इत्याद्यनेकश्रुतिषु परमात्मवस्तुयाथाल्यावभासप्रतिबन्धकत्वेन प्रसिद्धा सैव तस्याशुद्धिकरी चेत्यात्मनि मलस्तस्यां हि सत्यामशुद्धोऽस्मीति प्रत्यकूपदार्थो मन्यतेऽप्रक्षालितमिव वस्त्रादि (तत्रैव अ० का० टी० ) । महः, महान् धर्मजन्यभास्वरबुद्धिः । यथा - "अनया हि यागाद्यनुष्ठानमनो भास्वरबुद्धितत्त्वम्" (तै० उ० २।४ शा० भा०, शं० न० प० बो०)। महागीः, महागी उपनिषद् । यथा- "बाह्यान्तरापेक्षया मुख्यार्थेऽप्युपनिषद् पदं महागिर्युपचारात् वर्तत इत्यर्थः । वाक्यान्तरापेक्षया मुख्यार्थेऽप्युपनिषद् ब्रह्मविद्यायां निकटभावमपेक्ष्य तु महावाकोऽप्युपनिषद्गीर्मुख्येत्युक्तमिति न दोष इत्यर्थः (सं० शा० ३ । ३०० अ० टी०) । महात्मा, महात्मन् १. कल्याणदिगुणाकरः सर्वज्ञः । यथा - "महात्मा परमकारुणिकः सर्वेश्वरः सर्वज्ञ इत्यादिकल्याणगुणाकरः" (गी० ११ /२० भाष्यो०) । यथा च "महात्मा विश्वरूपः दयालुरिति वा " (तत्रैव श्रीधरी ) । २. "महात्मनोऽक्षुद्रस्वभावस्य तव निर्दोषलोकपीडनं नोचितमित्याशयेनाह - हे महात्मन्निति" (तत्रैव भाष्यो०) । महान्, महत् महत्तत्त्वं बुद्धिः तदुपाधिको जीवः । यथा - "महानिति बुद्धिरुच्यते तदुपाधिको जीवः इह महानिति विवक्ष्यते" (सं० शा० ३।२९२ अ० टी० ) । महाप्रलय:, महाप्रलय त्रैलोक्यनाशः । स च चतुर्विधः नित्यः प्राकृतः नैमित्तिकः आत्यन्तिकश्चेति । यथा - "इदानीं प्रलयो निरूप्यते । प्रलयो नाम त्रैलोक्यनाशः, स च चतुर्विधः - नित्यः, प्राकृतो नैमित्तिक आत्यन्तिकश्चेति । तत्र नित्यः प्रलयः सुषुप्तिः, तस्याः सकलकार्यप्रलयरूपत्वात् । धर्माधर्मपूर्वसंस्काराणां च तदा कारणात्मनाऽवस्थानम् । तेन सुषुप्तोत्थितस्य न सुखदुःखाद्यनुभवानुपपत्तिः । न वा स्मरणानुपपत्तिः । नच सुषुप्तावन्तःकरणस्य विनाशे तदधीनप्राणादिक्रियाऽनुपपत्तिः । वस्तुतः श्वासाद्यभावेऽपि तदुपलब्धेः पुरुषान्तरविभ्रममात्रत्वात् सुप्तशरीरोपलम्भवत् । न चैवं सुप्तस्य परेतादविशेषः। सुप्तस्य हि लिङ्गशरीरं संस्कारात्मनाऽत्रैव वर्तते, परेतस्य तु लोकान्तर इति वैलक्षण्यात् । यद्वा, अन्तःकरणस्य द्वे शक्ती - ज्ञानशक्तिः क्रियाशक्तिश्चेति । तत्र ज्ञानशक्तिविशिष्टान्तःकरणस्य सुषुप्तौ विनाशः, न क्रियाशक्तिविशिष्टस्येति प्राणाद्यवस्थानमविरुद्धम् । यदा सुप्तः स्वप्नं च कञ्चन पश्यति, अथास्मिन् प्राण एवैकधा भवति, अथैनं वाक् सर्वैर्नामभिः सहाप्येति, कौ० ३-२ - 'सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति' - छा० ६-८-१- इत्यादिश्रुतिरुक्तसुषुप्तौ मानम् । प्राकृतप्रलयस्तु कार्यब्रह्मविनाशनिमित्तकः सकलकार्यनाशः । यदा तु प्रागेवोत्पन्नब्रह्मसाक्षात्कारस्य कार्यब्रह्मणो ब्रह्माण्डाधिकारलक्षणप्रारब्धकर्मसमाप्तौ विदेहकैवल्यात्मिका परामुक्तिः, तदा तल्लोकवासिनामप्युत्पन्नब्रह्मसाक्षात्काराणां ब्रह्मणा सह विदेहकैवल्यम् । ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदमिति श्रुतेः । एवं स्वलोकवासिभिः सह कार्ये ब्रह्मणि मुच्यमाने तदधिष्ठितब्रह्माण्डतदन्तर्व र्तिनिखिललोकतदन्तर्वर्त्तिस्थावरादीनां भौतिकानां भूतानां च प्रकृतौ मायायां च लयः, न तु ब्रह्मणि, बाधरूपविनाशस्यैव ब्रह्मनिष्ठत्वात् । अतः प्राकृत इत्युच्यते । कार्यब्रह्मणो दिवसावसाननिमित्तकस्त्रैलोक्यमात्रप्रलयः नैमित्तिकप्रलयः । ब्रह्मणो दिवसश्चतुर्युगसहस्रपरिमितकालः, चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते इति वचनात् । प्रलयकालो दिवसकालपरिमितः, रात्रिकालस्य दिवसकालतुल्यत्वात् । प्राकृतप्रलये नैमित्तिकप्रलये च पुराणवचनानि - द्विपरार्द्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः । तदा प्रकृतयः सप्त कल्प्यन्ते प्रलयाय हि । एष प्राकृतिको राजन् प्रलयो यत्र लीयते । इति वचनं प्राकृतपलये मानम् । एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक् । शेतेऽनन्तासने नित्यमात्मसात्कृत्य चाखिलम् ॥ इति वचनं नैमित्तिकप्रलये मानम् । तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकः सर्वमोक्षः । स चैकजीववादे युगपदेव, नानाजीववादे तु क्रमेण । 'सर्व एकीभवन्ति' इत्यादिश्रुतेः तत्राधास्त्रयोऽपि प्रलयाः कर्मोपरतिनिमित्ताः, तुरीयस्तु ज्ञानोदयनिमित्तो लयोऽज्ञानेन सहैवेति विशेषः । एवं चतुर्विधप्रलयो निरूपितः । तस्येदानीं क्रमो निरूप्यते - भूतानां भौतिकानां च न कारणलयक्रमेण लयः । कारणलयसमये कार्याणामाश्रयान्तराभावेनावस्थानानुपपत्तेः । किन्तु सृष्टिक्रमविपरीतक्रमेण तत्तत्कार्यनाशे तत्तज्जनकादृष्टनाशस्यैव प्रयोजकतया उपादाननाशस्याप्रयोजकत्वात् । अन्यथा न्यायमतेऽपि महाप्रलये पृथिवीपरमाणुगतरूपगन्धरसादेरविनाशापत्तेः । तथा च पृथिव्या अप्सु, अपां तेजसि, तेजसो वायौ, वायोराकाशे आकाशस्य जीवाहारे तस्य हिरण्यगर्भाहारे, तस्य चाविद्यायामित्येवंरूपाः प्रलयाः । तदुक्तं विष्णुपुराणे - जगप्रतिष्ठा देवर्षे । पृथिव्यप्सु प्रलीयते । तेजस्यापः प्रलीयन्ते तेजो वायौ प्रलीयते । वायुश्च लीयते व्योग्नि तच्चाव्यक्ते प्रलीयते । अव्यक्तं पुरुषे ब्रह्मन् निष्कले सम्प्रलीयते । एवंविधप्रलयकारणत्वं तत्पदार्थस्य ब्रह्मणस्तटस्थल क्षणम् (वे० प० ७ प० ) । (क) चरम संयोगनाश: (ग० सिद्धा०) । (ख) सर्वभावकार्यध्वंसः (त० दी० १ पृ० १०) । केचित्तु पौराणिकादयः जन्यभावानधिकरणकालः इत्याहुः । तस्योत्पत्तिनियमस्तु महान् प्रलयो ब्रह्मणः । स्वमानेन शतवर्षावसाने जायत इति । अत्रेदं बोध्यम् । महाप्रलयानन्तरं न सृष्टिः । सर्वमुक्तौ सर्वोत्पत्तिनिमित्तस्यादृष्टस्यापायात्। सर्वभोक्त्रपवृक्तौ प्रयोजनाभावाच्च । न हि बीजप्रयोजनाभ्यां विना कार्योत्पत्तिः इति (प० भा०) महाप्रलयो न प्रमाणसिद्धः इति नव्यनैयायिका आहुः (न्यायकोशः) । महावाक्यम्, महावाक्य चतुर्णां वेदानां चत्वारि उत्कृष्टानि ब्रह्मात्यैकबोधकानि वाक्यानि महावाक्यमुच्यते । तानि – प्रज्ञानं ब्रह्म (ऐ० आ० ५३) । अयमात्मा ब्रह्म (मा० उ० २) तत्त्वमसि (छा० उ० ६।८।७) अहं ब्रह्मास्मि (बृ० उ० १ ।४।१०) । इति । यथा "अथ महावाक्यार्थो वर्ण्यते इदं तत्त्वमसीति वाक्यं सम्बन्धत्रयेणाखण्डार्थबोधकं भवति । सम्बन्धत्रयं नाम पदयोः समानाधिकरण्यं पदार्थयोर्विशेषणविशेष्यभावः, प्रत्यगात्मलक्षणयोर्लक्ष्यलक्षणभावश्चेति । तदुक्तम्- सामानाधिकरण्यञ्च विशेषणविशेष्यता । लक्ष्यलक्षणसम्बन्धः पदार्थप्रत्यगात्मनाम् । इति । सामानाधिकरण्यसम्बन्धस्तावद्, यथा – 'सोऽयं देवदत्त' इत्यस्मिन् वाक्ये तत्कालविशिष्टदेवदत्तवाचकसशब्दस्यैतत्कालविशिष्टदेवदत्तवाचकायंशब्दस्य चैकस्मिन् पिण्डे तात्पर्यसम्बन्धः । तथा च तत्त्वमसीति वाक्येऽपि परोक्षत्वादिविशिष्टचैतन्यवाचकतत्पदस्यापरोक्षत्वादिविशिष्टचैतन्यवाचकत्वम्पदस्य चैकस्मिंश्चैतन्ये तात्पर्यसम्बन्ध: ( वे० सा० म० वा० प्र०) । यथा च - "इदं महावाक्यमेव वेदः उपनिषवच्च" । यथा - " पुत्र: श्वेतकेतुः पितुरुद्दालकात् सकाशान्महावाक्यत एवास्य परमात्मनस्तत्त्वं विजज्ञिवानिति यतो यस्माच्छुतं छान्दोग्ये तेन वेदहेतुत्त्वेन स एव वेदस्तन्महावाक्य-मेव वेदः पुंल्लिङ्गत्वनिर्देशो विधेयाभिप्रायेण । तथैव वेदवाच्यत्ववत्सैवोपनिषच्च सिद्धा (सं० शा० ३।३०२ अ० टी०) । यथा च - १ . (क) स्वघटकानेकनामलभ्यतादृशार्थ-बोधकं वाक्यम् । अत्र तादृशार्थंबोधस्तु तत्तदर्थावच्छिन्नविषयताशाली इति बोध्यम् (श० प्र० श्लो० ३० टी० पृ० ४४) । यथा महावाक्यार्थबुद्धि प्रति खण्डवाक्यार्थज्ञानं कारणमिति कार्यकारणभावे वक्तव्ये पञ्चावयवोपेतन्यायवाक्यम् । अत्र प्रतिज्ञादिघटितपञ्चावयवोपेतमहावाक्यजनितसमुदितार्थविषयकशाब्दबुद्धौ प्रतिज्ञादिरूपावान्तरवाक्यार्थज्ञानं कारणमिति कार्यकारणभावो द्रष्टव्यः । अत्रोच्यते भर्तृहरिणा-स्वार्थबोधे समाप्तानामङ्गाङ्गित्वव्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते ॥ (वाक्यपदीये)। मायावाद्यद्वैतमते तत्त्वमसि ब्रह्माहमस्मि इत्यादीनि द्वादशमहावाक्यानि । साहित्यशास्त्रज्ञास्तु वाक्योच्चयो महावाक्यम् । यथा रामायणमहाभारतरघुबंशादि (सा० द० प० २।७) । इत्याहुः (न्या० को०)। महावाक्यानि, महावाक्य अद्वैतवेदान्ते चत्वारि महावाक्यानि प्रसिद्धानि एतेषां जीवब्रह्मणोरैक्यपरोऽर्थः ।१ . प्रज्ञानं ब्रह्म - (ऋ० वे० ऐ० आ० ५३) आम्नायमठः जगन्नाथपुर्याम् (उत्कले) ।२. अहं ब्रह्मास्मि - (य० वे० बृ० उ० १।४।१०) आम्नायमठः शृङ्गेयम् (कर्णाटके) तत् त्वमसि - (सा० वे० छा० उ० ६।८। ७) आम्नायमठ: द्वारकायाम् (सौराष्ट्रे) अयमात्मा ब्रह्म- (अ० वे० मा० उ० २) आम्नायमठः जोशीमठ: बदरिकाश्रमसमीपे ( उ० प्रदेशे) ज्योतिष्पीठमुच्यते । क्वचिन् महावाक्यानि द्वादश अपि । महेश्वरः, महेश्वर सर्वात्मा, सर्वस्वतन्त्रः शिवश्च । यथा - "सर्वात्मत्वात्स्वतन्त्रत्वाच्च महानीश्वरश्चेति महेश्वर: (गी० १३/२२ शा० भा० ) । यथा च - उपद्रष्टमहेश्वरपरमात्मरूपैस्तु नित्यमुक्त एक एवेति ज्ञेयम् (तत्रैव नी० क०) । यथा च महेश्वरः सर्वात्मत्वात्स्वतन्त्रत्वाच्च महानीश्वर चेति महेश्वरः (तत्रैव म० सू०) । यथा च - महांश्चासावीश्वरश्चेति महेश्वरः (तत्रैव भाष्यो०) । यथा च - महांश्चासावीश्वरश्चेति महेश्वरः (तत्रैव श्रीधरी)। मातरिश्वाः, मातरिश्वन् सर्वस्य जगतो धारयिता वायुश्च । यथा - मातर्यन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः सर्वप्राणभृक्रियात्मको यदाश्रयाणि कार्यकारणजातानि यस्मिन्नीतानि प्रोतानि च यत् सूत्रसज्ञकं सर्वस्य जगतो विधारयितृ स मातरिश्वा (ई० उ० ४ शा० भा० ) । मात्रास्पर्शः, मात्रास्पर्श मीयन्तेऽस्माभिरिति मात्राः इन्द्रियाणि । यथा - "आभिर्मीयन्ते शब्दादय इति श्रोत्रादीनीन्द्रियाणि, मात्राणां स्पर्शाः शब्दादिभिः संयोगास्ते शीतोष्णसुखदुःखदाः शीतमुष्णं सुखं दुःखं च प्रयच्छन्तीति । अथवा स्पृश्यन्त इति स्पर्शा विषयाः शब्दादयः मात्राश्च स्पर्शाश्च शीतोष्णसुखदुःखदा....। (गी० २।१४ शा० भा० ) । यथा च - "मीयन्ते आभिर्विषया इति मात्रा इन्द्रियाणि तासां स्पर्शा विषयैः सम्बन्धास्तत्तद्विषयाकारान्तःकरणपरिणामा वा ते आगमापायिनः..... । (तत्रैव म० सू०) । यथा च - "मीयन्ते आभिर्विषया इति मात्राः इन्द्रियाणि तेषामिन्द्रियैः स्पर्शाः संयोगाः । यद्वा स्पृशन्त इति स्पर्शा विषया मात्राश्च स्पर्शाश्च ते शीतोष्णसुखदुःखदा (तत्रैव भाष्यो०) मीयन्ते ज्ञायन्ते विषया आभिरिति मात्रा इन्द्रियवृत्तयः तासां स्पर्शा: विषयैः सम्बन्धाः (तत्रैव श्रीधरी) । मानसी क्रिया, मनस् क्रिया वस्तुस्वरूपसापेक्षा तथा पुरुषव्यापाराधीना । अतो ज्ञानं (ब्रह्मज्ञानम्) । न मानसी क्रिया यथा - "ननु ज्ञानं मानसी क्रिया । न, वैलक्षण्यात् । क्रिया हि नाम सा, यत्र वस्तुस्वरूपनिरपेक्षेणैव चोद्यते पुरुषव्यापाराधीना च " (ब्र० सू० १ ।१ ।४ शा० भा० ) । अयमर्थः - सत्यं ज्ञानं मानसी क्रिया, नत्वियं ब्रह्मणि फलं जनयितुमर्हति; तस्य स्वयंप्रकाशतया विदिक्रियाकर्मभावानुपपत्तेरित्युक्तम् (तत्रैव भाम०) । मानिट्, मानिट् मनीषा संयमितमनः (सद्बुद्धिः) । मनसः सङ्कल्पादिरूपस्येष्टे नियन्तृत्वेनेति मानिट् ....मनीषा विकल्पवर्जितया (का० उ० ६।९ शा० भा० ) । यथा च - तस्यासङ्गत्वात् परमानन्दस्वभावत्वाच्चेति नियन्तृत्वेन बुद्धिर्मनिडुच्यते (तत्रैव शा० भा० आ० टी०) । माया, माया मात्यस्यां विश्वमिति माया अघटितघटनापटीयसी । माछाससिभ्यो यः । ततष्टाप् । अथवा माकाभ्यामयच् इति । अथवा मा लक्ष्मीः अयः शुभावहो विधिर्यस्याः सा इति । भगवता शङ्करेण मायायाः कृते इमे शब्दाः प्रयुक्ताः- मिथ्याज्ञानं मिथ्याप्रत्ययः मिथ्याबुद्धिः (ब्र० सू० १ ।१।४ शा० भा०) अव्यक्तम् (तत्रैव १ । ४ । ३) महासुषुप्तिः (तत्रैव १ ।४।३) आकाश: (बृ० उ० ३।८।११) अक्षरः (मु० उ० २।१।२) अध्यासः यथा- तमेतमेवं लक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते (ब्र० सू० शा० भा० उपो०) माया (तत्रैव २।१।९ शा० भा० ) । पञ्चपादिकायां च मायायाः कृते चतुर्दशनामानि प्रयुक्तानि - नामरूपम्, अव्याकृतम्, अविद्या, प्रकृतिः अग्रहणम्, अव्यक्तं तमः कारणं लयः शक्तिः महासुषुप्तिः निद्रा अक्षरम् आकाशम् । अस्या मायाया अविद्याया वा मूलं शतपथब्राह्मणे एवमुक्तम्- अथ ब्रह्मैव परार्द्धमगच्छत् । तत्परार्द्धं गत्वा ऐक्षत कथं त्विमाँल्लोकान् प्रत्यवेयामिति । तद् द्वाभ्यामेव प्रत्यवैद् रूपेण च नाम्ना च (श० प० ब्रा० १।१।२।३) स्वर्भानोरद्य यदिन्द्रमाया इत्यादि ऋग्वेदीये ५ ।४०।६ सूक्तमन्त्रे मायाशब्दस्य बहुधा प्रयोगो वर्तते । ऋग्वेदीये - नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमापरो यत् । किमावरीवः कुहकस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् । न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनास । तम आसीत्तमसा गूढमग्रे प्रकेतं सलिलं सर्वमा इदम् । तुच्छेनाभ्वपिहितं यदासीत्तपसस्तन्महिम्ना जायतैकम् । कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् - इति नासदीये १०/१२७ सूक्ते मायास्वरूपमित्थं निरूपितमस्ति । मायाबलादेव- नेह नानास्ति किञ्चन, एकमेवाद्वितीयमित्यादिश्रुतयः सङ्गच्छन्ते । एषा माया तथा अविद्या एकैव भिन्ना वेत्यत्र आचार्याणां मतभेदः । श्रुतेस्तु शब्दमूलत्वात् (ब्र० सू० २।१।२७) इत्यत्र शाङ्करभाष्ये - अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्मपरिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते । पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणतमवतिष्ठते । वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्येति न निरवयत्वं ब्रह्मणः कुप्यति । इति भाष्ये अविद्याकल्पितमेतदुक्तम् । अत्रैव भामत्यामुच्यते अनेन स्फुटितो मायावादः । एवमेव उत्तराच्चेदाविर्भूतस्वरूपस्तु (ब्र० सू० १ ।३।१९) इति सूत्रे भगवता. शङ्करेण अविद्यामाययोः पर्यायत्वेन व्यवहारः कृतः - एक एव परमेश्वरः कूटस्थनित्यो विज्ञानधातुरविद्यया मायया मायाविदवदनेकधा विभाव्यते । इति । पञ्चपादिकाविवरणेऽप्येवमेव । एके आचार्या अनयोर्भेदं मन्वते । एतन्मते माया शुद्धसत्त्वप्राधाना अविद्या च मलिनसत्त्वप्रधाना । मायाया ईश्वरेण सम्बन्धस्तेन मायोपाधिक ईश्वरः । अविद्यायाश्च जीवेन सम्बन्धस्तेन अविद्योपाधिको जीवः । तत्त्वप्रदीपिकायाम् एकस्या अविद्याया अनेके आकारा उक्ताः- संसारमूलकारणभूता अविद्या यद्यप्येकैव तथापि तस्याः सन्त्येव बहव आकाराः । तत्रैकः प्रपञ्चस्य परमार्थसत्यभ्रमहेतुः । द्वितीयो अर्थक्रियासमर्थवस्तुकल्पकः । तृतीयस्तु अपरोक्षप्रतिभासविषयाकारकल्पकः (त० प्र० ४ प०) । १ . अज्ञानम् । यथा च – "श्रुतिस्मृतिर्वचोभिरुदीर्यमाणा परमेश्वरस्यैषा मायाशक्तिरज्ञानमेव भविष्यतीति शेषः (सं० शा० ३।९४ सु० टी०) । यथा च - 'श्रुतिस्मृतिवचोभिरुदीर्यमाणा या परमेश्वरस्य सर्वप्रपञ्चजननीशक्तिरेषाऽज्ञानमेव भविष्यतीति योजना (तत्रैव अ० टी०) । यथा च - "अज्ञानस्य स्वकार्यान्तःकरणद्वारैव किञ्चिज्ज्ञानसम्पादकत्वं न चेश्वरस्य तदस्तीत्युक्तेन मार्गेणेत्यर्थः । ननु तर्ह्यज्ञानलक्षणाभावादज्ञानभिन्नैव मायेत्याशङ्क्याह - सर्वज्ञेति । "माया चाविद्या च स्वयमेव भवति" (नृसिं० ता० उ० ९) इत्यादिश्रुतावज्ञानात्मकमायाया एवेश्वराश्रयत्वश्रुतेर्भेदप्रमाणाभावस्य चोक्तत्वात् बुद्ध्यादिसहकार्यभावादनावरणत्वं न त्वज्ञानलक्षणाभावादित्यर्थः (तत्रैव ३।९९ सु० टी०) । २. अविद्या । यथा - न अज्ञानमात्रं मायोच्यते किन्तु द्रष्टभ्रमहेतुमायाविविषयमज्ञानम् । तं हि मायाविनं हस्त्यादिहीनमपि हस्त्यादिमन्तमिव मूढाः पश्यन्तीत्यर्थः । वाचस्पतिमते तु जीवाश्रया ब्रह्मविषया अनन्ताः अविद्याः । तासामाश्रितत्वोपाधिनाऽविद्यात्वं तदवच्छिन्ना जीवाः । तासां च मिलितानां विषयित्वोपाधिना मायात्वम् (तत्रैव ३।१०० सु० टी० ) । ३. आवरणम् अज्ञानम् । यथा- 'सर्वेश्वरेण सर्वसमेन परमाप्तेन हरिणा चैतन्यवस्तुनोऽज्ञानमावरणमभ्यधायि - न मां दुष्कृतिनो मूदाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ (भ० गी० ७।१५)। इतीत्थं भगवद्वाक्यं च प्रतिपद्यमानास्तन्मायाविद्ययोस्तत्वमेकमिति निश्चयतः प्रतीमो वयमिति योजना" (सं० शा० ३/१०८ सु० टी०) । ४. प्रकृतिः । यथा - "मायां तु प्रकृतिम् (श्वे० ४।१०) । ५. परमात्मशक्तिः यथा देवात्मशक्तिं स्वगुणैर्निरूढाम् (श्वे० १ । ३) । इन्द्रो मायाभिः पुरुरूप ईयते (बृ०उ०२/५/१९) । इत्याद्यनेकश्रुतिभिः । मयाऽध्यक्षेण प्रकृतिः सूयते चराचरम् (भ० गी०) इत्यादिस्मृतिभिश्च मायाविद्याज्ञानादिशब्द - वाच्यस्याऽऽत्माश्रयादिविषयस्य जडस्य सदसदभ्यामनिर्वचनीयस्य ब्रह्मणो जगत्सृष्ट्यादौ द्वारत्वाङ्गीकारादज्ञानमूलकमेव जगत्प्रवृत्तिरिति सिद्धान्तः स्थितः....... (सं० शा० ३।२६९ अ० टी०) । यथा च "जगदुत्पादनयोरनिर्वचनीयत्वान्मायाप्रकृतित्वश्रुतेश्चाखिलं मृषेति भाष्यकृतवचनपरित्यागस्तव स्यादित्यर्थः (सं० शा० ३।९३ सु० टी०) । ६. (क) मायाभासेन जीवेशौ करोतीति श्रुतत्वतः । कल्पितावेव जीवेशौ ताभ्यां सर्वं प्रकल्पितम् (प० द० ७।३) । (ख) अत्र मायाशब्देन चिदानन्दमयब्रह्मप्रतिविम्बसमन्विता सत्वरजस्तमोगुणात्मिका जगदुपादानभूता प्रकृतिरुच्यते । सा च सत्वगुणस्य शुद्ध्यविशुद्धिभ्यां द्विधा भिद्यमाना क्रमेण माया चाविद्या च भवति । तयोः मायाविद्ययोः प्रतिबिम्बितं ब्रह्मचैतन्यमेव ईश्वरो जीवश्चेत्युच्यते । तदिदं तत्त्वविवेकाख्ये ग्रन्थे श्रीमविद्यारण्यगुरुभिर्निरूपितम् -- चिदानन्दमयब्रह्मप्रतिबिम्बसमन्विता । तमोरजःसत्वगुणा प्रकृतिर्द्विविधा च सा । सत्वशुद्ध्यविशुद्धिभ्यां मायाविद्ये च ते मते । मायाबिम्बो वशीकृत्य तां स्यात्सर्वज्ञ ईश्वरः । अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा । ६. सा कारणशरीरं स्यात्प्रांज्ञस्तत्राभिमानवान् । इति इममेवार्थं मनसि निधाय जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवतीति श्रुतिरपि प्रवृत्ता । अतो जीवेश्वरयोर्मायाकल्पितत्वं अन्यत्कृत्स्नं जगत्ताभ्यामेव कल्पितम् (प० द० ७।३) । (घ) मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । स मायी सृजतीत्याहुः श्वेताश्वतरशाखिन: (प० द० ४।२) । ७. अनृतत्वम् - यथा - मायोपदेशकाले हि मायावी मणिमन्त्राद्येव प्रयच्छति न तु काञ्चिच्छक्तिमाधत्ते मानाभावादित्यर्थः । परतोऽपि परेणाऽहितेत्यपि (सं० शा० ३।९१ सु० टी०) । यथा च अस्मिन्पक्षे हि मायाविपुरुषान्तरोपदेशादस्य मायाप्राप्तिर्वक्तव्या । तथा च काञ्चिन्मायावी पुरुषोऽपि मणिमन्त्रं चौषधं वेतीत्थमीदृशकमन्यद्वा विरहय्य विनाऽन्यच्छक्तिलक्षणमिहास्मिञ्छिष्ये नार्पयति । मणिमन्त्रमिति द्वन्द्वैक्यम् । मायावी पुरुषः पुरुषान्तरे मण्यादिप्रदानव्यतिरेकेण न शक्तिं काञ्चिदाधत्ते मण्यादिश्च न शक्तिर्नापि मायाशब्दवाच्यस्तस्य सत्यत्वान्मायाया अनृतत्वेन प्रसिद्धत्वात् (सं० शा० ३।९१ अ० टी०) ।८. त्रिगुणात्मिका । यथा - कथं पुनर्देवीमेतां त्रिगुणात्मिकां वैष्णबीं मायामतिक्रामन्तीत्युच्यते दैवीति । दैवी देवस्य ममेश्वरस्य विष्णोः स्वभूता हि यस्मादेषा यथोक्ता गुणमयी मम माया दुरत्यया दुःखेनात्ययोऽतिक्रमणं यस्याः सा दुरत्यया (गी० ७९४ शा० भा०) । "यथा च --मम मायाविनः परमेश्वरस्य सर्वजगत्कारणस्य सर्वज्ञस्य सर्वशक्तेः स्वभूता स्वाधीनत्वेन जगत्सृष्ट्यादिनिर्वाहिका माया तत्त्वप्रतिभासप्रतिबन्धेनातत्त्वप्रतिभासहेतुरावरणविक्षेपशक्तिद्वयवत्यविद्या सर्वप्रपञ्चप्रकृतिः(तत्रैव म० सू०) । यथा च - "देवस्य ममेश्वरस्य स्वभूता त्रिगुणमयी त्रिगुणात्मिका माया प्रकृतिः " मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । सा प्रकृतिर्मायाविद्यारूपेण द्विधा 'माया चाविद्या च स्वयमेव भवति' इति श्रुतेः । तदुक्तं 'तमोरजःसत्त्वगुणा प्रकृतिर्द्विविधा मता । सत्त्वशुद्ध्यविशुद्धिभ्यां मायाविद्ये च ते मते । मायाबिम्बो वशीकृत्य तां स्यात् सर्वज्ञ ईश्वरः । अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा । इति । तथा च माया प्रकृतिरविद्या मायामयी ईश्वरमधिष्ठानत्वेनाश्रित्य जीवान्मोहयति (तत्रैव भाष्यो०) । ९. तमोरूपा तुच्छा च । यथा - माया चेयं तमोरूपा तापनीये तदीरणात् । अनुभूतिं तत्र मानं प्रतिजज्ञे श्रुतिश्च यम् (प० द० ६।१२५) । तुच्छानिर्वचनीया च वास्तवी चेत्यसौ त्रिधा । ज्ञेया माया त्रिभिर्बोधैः श्रौतयौक्तिकलौकिकैः (तत्रैव ६ । १३० ) । अचिन्त्यरचनाशक्तिर्बीजमायेति निश्चिनु । मायाबीजं तदेवैकं सुषुप्तावनुभूतये (त० १५१) एकापि माया स्वीयाभिर्बह्वीभिः शक्तिभिरनेका बह्वी चोच्यते । यथा - इन्द्रो मायाभिः पुरुरूप ईयते ( ऋ० वे० ६।४७।१८) । सर्वोपेता च तद्दर्शनात् (ब्र० सू० २।१।३०) । इति सूत्रे शा० भा० मायारूपा अनेकशक्तय उक्ताः । यथा – विचित्रशक्तियुक्तं परं ब्रह्मेति । तदुच्यते । सर्वोपता च तद्दर्शनात् । सर्वशक्तियुक्ता च परदेवतेत्यभ्युपगन्तव्यम् । कुतः तद्दर्शनात् । तथा हि दर्शयति श्रुतिः सर्वशक्तियोगं परस्या देवताया :- सर्वकर्मा सर्वकामः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः (छा० ३।१४।४) । सत्यकामः सत्यसङ्कल्पः (छा० ८/७/१) । यः सर्वज्ञः सर्ववित् (मुण्ड० १।१ । ९) एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः (बृ० उ० ३/८/९) । इत्येवं जातीयका (शा० भा०) 1१०. माया तु प्रकृतिं विद्यान्मयिनं तु महेश्वरम् (श्वे० ४।१०) । अजामेकां लोहितशुक्लकृष्णां बह्वी प्रजास्सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः (श्वे० ४।५) । तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते योगी मायाममेयाय तस्मै विद्यात्मने नमः । इत्यादिश्रुतिस्मृतिषु एकवचनबलेन लाघवानुगृहीतेन मायाया एकत्वं निश्चीयते । ततश्च तदुपहितं चैतन्यम् ईश्वरसाक्षि तच्चानादि तदुपाधेर्मायाया अनादित्वात् । मायावच्छिन्नं चैतन्यं परमेश्वरः, मायाया विशेषणत्वे ईश्वरत्वमुपाधित्वे साक्षित्वमिति ईश्वरत्वसाक्षित्वयोर्भेदः न तु धर्मिणोरीश्वरस्तमोगुणभेदेन ब्रह्मविष्णुमहेश्वरः इत्यादिशब्दवाच्यतां लभते (वे० प० १ प०) । यथा च - इदमज्ञानं समष्टिव्यष्ट्यभिप्रायेणैकमनेकं च व्यवह्नियते । तथा हि यथा वृक्षाणां समष्ट्यभिप्रायेण वनमित्येकत्वव्यपदेशो यथा वा जलानां समष्ट्यभिप्रायेण जलाशय इति तथा नानात्वेन प्रतिभासमानानां जीवगताज्ञानानां समष्ट्यभिप्रायेण तदेकत्वव्यपदेशः अजामेकामित्यादिश्रुतेः । इयं समष्टिरुत्कृष्टोपाधितया विशुद्धसत्त्वप्रधाना । एतदुपहितं चैतन्यं सर्वज्ञत्वसर्वेश्वरत्वसर्वनियन्तृत्वादिगुणकमव्यक्तमन्तर्यामी जगत्कारणमीश्वर इति व्यपदिश्यते सकलाज्ञानावभासकत्वात् । यः सर्वज्ञः स सर्वविदिति श्रुतेः । ईश्वरस्येयं समष्टिरखिलकारणत्वात् कारणशरीरम् आनन्दप्रचुरत्वात् कोशवदाच्छादकत्वाच्चानन्दमयकोशः सर्वोपरमत्वात् सुषुप्तिरत एव स्थूलसूक्ष्मप्रपञ्चलयस्थानमिति चोच्यते (वे० सा०) ।११. "मायामेतां तरन्ति ते" इति स्मृतेरिति वाच्यम्, ज्ञानहेतुकतरणस्य निवृत्त्यतिरिक्तस्यासम्भवेन उभयोर्नाशमात्रार्थत्वाद् । न च "तम आसी"दित्यस्य सत्त्वप्रतिपादकस्य बाधकं विना परमार्थिकसत्त्वपरत्वेन कथमावरणस्यान्तत्त्वमिति वाच्यम् । नासदासीन्नोसदासी'दित्यनेन पारमार्थिकत्वतुच्छत्वयोर्निषेधेन व्यावहारिक सत्त्वपरत्त्वात् । न चानेन माया प्रतिपाद्यते; मायाशब्दार्थश्च नाज्ञानम्, मायिनो ब्रह्मणोऽज्ञानित्वे सर्वज्ञत्वनिरवद्यत्वादिश्रुतिविरोधादिति वाच्यम्। उपाधेः प्रतिबिम्बपक्षपातित्वेनेश्वरासार्वज्ञ्याधापादनायोगात्, सार्वज्ञ्याद्यैश्वर्यस्य मायानिबन्धनत्वाच्च । न च "मय ज्ञान' इति घात्वर्थानुसारात् माया कथमज्ञानमिति वाच्यम्; एवमेवैषा माया स्वव्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वा जीवेशावाभासीकरोति । माया चाविद्या च स्वयमेव भवतीति श्रुत्या मायाविधयोरैक्यप्रतिपादनान्माया अज्ञानमेव; घट चेष्टायामिति धातुजस्यापि धटशब्दस्य चेष्टावाचकत्वाभाववदत्रापि ज्ञानवाचकत्वाभावात् । माया प्रज्ञा वयुनमिति ज्ञानपर्याये निघण्टुकारवचनं च ज्ञानाकारपरिणामित्वादज्ञानस्योपपन्नम् । वृत्तिज्ञानस्याज्ञानाभिन्नत्वात् । अज्ञानस्यैवानिर्वचनीयविचित्रशक्तियोगात् । न विचित्रशक्तिमिति मायाशब्दप्रयोगानुपपत्तिः क्वचिन्मणिमन्त्रादौ तत्प्रयोगस्तूपचारात् । न च शुक्तिरूप्यादौ मायाशब्दाप्रयोगात् । न मृषार्थोऽयमिति वाच्यम् । वज्रादौ पृथिवीत्वादिव्यवहाराभावेऽपि पृथिवीत्ववत् व्यवहाराभावेऽपि मायात्वानपायात् । ऐन्द्रजालिकादौ बहुशो मायाशब्दप्रयोगदर्शनाच्च, मायाया अज्ञानान्यत्वे ज्ञाननिवर्त्यत्वविरोधाच्च । नीहारतमः शब्दावप्यस्मिन्मते अज्ञानस्यावारकत्वाधुज्येते नान्यमते । अनृतनीहारादिशब्दानां दुष्कर्मपरत्वे श्रुत्यन्तरोक्तजीवेशभेदकल्पोपादानत्वादिविरोधाञ्च । तस्मादनृतेन प्रत्यूढ़ाः नीहारेण प्रावृताः तम आसीत् "मायां तु प्रकृतिं विद्यात्" "अजामेकां लोहितशुक्लकृष्णाम्" अविद्यायामन्तरे वर्तमानाः 'भूयश्चान्ते विश्वमायानिवृत्ति' रित्याद्याः श्रुतयो वर्णिता अज्ञाने प्रमाणमिति स्थितम् । इत्यद्वैतसिद्धावविद्याप्रतिपादक श्रुत्युपपत्तिः (अ० सि० पृ० ५१-५७)।१.(दोषः) परवञ्चनेच्छा (गौ० बृ०४।१।३) । यथा मायावादतमोव्याप्तं जगत् इत्यादौ त्वद्वयाख्या सिंहनादे सपदि ददृशिरे मायिगोमायवस्ते (वायुस्तुतौ) इत्यादौ च माया ।२. भगवदिच्छा (भाग० ११।२।३७ विज० टी०) । यथा यन्माययातो बुध आभजेत्तम् (भाग ११।२।३७) (ब्र० सू० मध्व० भा० १ ।४।२५) । इत्यादौ । यथा वा - मम माया दुरत्यया (गी० ७।१४) इत्यादौ । तदुक्तं मायेत्युक्ता प्रकृष्टत्वाप्रकृष्टे हि मायाभिधा (सर्व० सं० पृ० १४१ पूर्ण०) इति मध्वमतानुयायिनः प्राहुः । ३. भगवच्छक्तिविशेषः इति वल्लभीया मन्यन्ते । ४. मायाशब्दो विचित्रार्थसर्गकरत्रिगुणात्मकप्रकृत्यभिधायको नानिर्वचनीयाज्ञानवचनः इति रामानुजीयाः (सर्व० सं० पृ० १०० रामा०) । ५. मायावादिवेदान्तिनस्तु मिथ्याबुद्धिहेतुभूतमज्ञानं माया । तच्चाज्ञानमीश्वरोपाधिः । मात्यस्यां शक्त्या प्रलये सर्वं जगत् सृष्टौ व्यक्तिमायातीति माया (सर्व० सं० पृ० १८९ शैव० ) । इति वदन्ति । ६. आदिमाया आदिशक्तिः चण्डी इत्याद्यपरनाम्नी कालिका इति शाक्ता आहुः । ७. कापट्यम् । ८. दम्भः इति काव्यज्ञा वदन्ति । ८. माया भगवदिच्छा । सैव मानत्राणकर्त्री यस्य तन्मायामात्रम् (सर्व० द० सं०) (पूर्ण प्र०) (न्यायकोशः) । अन्यच्च, अन्यच्च १. परमेश्वरशक्तिः । यथा- इन्द्रो मायाभिः पुरुरूप ईयते (ऋ० वे० ६।४७।१८)। २. बुद्धिवृत्तिः । यथा - अत्र हि मायापदेन बुद्धिवृत्तयोऽभिधीयन्ते । चेतश्चित्तं क्रतुर्माया इति चित्ताभिधायकावगमान् माया शब्दस्य । अथवा परमेश्वरस्येच्छाज्ञानक्रियाशक्तयो मायाशब्दाभिधेयास्तासामपि श्रुत्यादिषु माया शब्दाभिधानदर्शनात् । ताभिश्च परमेश्वरः प्रत्युपासकं बहुरूपमाविर्भवति । अवतारभेदैर्वा बहुधा व्यवह्रियते (त० प्र० मि० प्र० न० प्र०) माया एव अविद्या अन्या च इत्यादि तथा माया एकैव अनेका वेति अविद्याशब्दे द्रष्टव्यम् । मायामयम, मायामयम केवलं प्रतीयमानं न तु पारमार्थिकम् । यथा - प्रतीयमानस्य परमार्थतः कालत्रयेऽपि स्वतः सत्ताहीनत्वमेव मायामात्रत्वमित्यर्थः (सं० शा० ३।२२५ अ० टी०) । यथा च - मायामये सद्विलक्षणकार्यपक्ष इत्यर्थः (तत्रैव ३।२२७ अ० टी०) । यथा च प्रतीयमानस्य परमार्थतः कालत्रयेऽपि स्वतः सत्ताहीनत्वमेव मायामयत्वमित्यर्थः (तत्रैव ३ । २२५ अ० टी०) । मायामात्रम्, मायामात्र माया एव इदमिति मायामात्रं जगत् सर्वम् । यथा - मायामात्रं तु कार्येनानभिव्यक्तस्वरूपत्वात् (ब्र० सू० ३ । २ । ३ ) । अत्र शा० भा० मायैव सन्ध्ये सृष्टिर्न परमार्थगन्धोऽस्ति । सन्ध्ये स्वप्ने इत्यर्थः । मायी, मायिन् मायावान् मायोपाधिक ईश्वरः । जगतः सृष्टिस्थितिसंहारकर्ता । यथा मायां तु प्रकृतिं विधान् मायिनं तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ (प० द० ६ । १२३) । यथा च - मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । स मायी सृजतीत्याहुः श्वेताश्वतरशाखिन: (प० द० ४९२ )। मायिकः, मायिक मायोपहित ईश्वरोऽथवा मायानिर्मितः सर्वोऽपि लोकः । यथा मायिकोऽयं चिदाभासः श्रुतेरनुभवादपि । इन्द्रजालं जगत्प्रोक्तं तदन्तः पात्ययं यतः (प० द०७।२१७) । यथा च - इन्द्रो मायाभिः पुरुरूप ईयते ( ऋ० वे० ६।४७।१८) । मायोपहितं चैतन्यम्, मायोपहित चैतन्य ईश्वरसाक्षि तु मायोपहितं चैतन्यम् । तच्चैकम् । तदुपाधिभूतमायाया एकत्वात् । इन्द्रो मायाभिः पुरुरूप ईयते इत्यादिश्रुतौ मायाभिरिति बहुवचनस्य मायागतशक्तिविशेषाभिप्रायतया मायागतसत्त्वरजस्तमोरूपगुणाभिप्रायतया वोपपत्तेः । तरत्यविद्यां विततां हृदि यस्मिन् निवेशिते । योगी मायाममेयाय तस्मै विद्यात्मने नमः । इत्यादिश्रुतिस्मृतिषु एकवचनबलेन लाघवानुगृहीतेन मायाया एकत्वं निश्चीयते । ततश्च तदुपहितं चैतन्यम् ईश्वरसाक्षि । तच्चानादिस्तदुपाधेर्मायाया अनादित्वात् (वे० प० १ प०) । मार्गद्वयम्, मार्गद्वय श्रेयसे मार्गद्वयम् - प्रवृत्तिमार्गो निवृत्तिमार्गश्च। प्रवृत्तिमार्गः कर्मकाण्डादिरूपो निवृत्तिमार्गः संन्यासरूपः । यथा- "इमौ द्वावेव पन्थानावनु निष्क्रान्ततरौ भवतः क्रियायाः पथश्चैवं पुरस्तात् संन्यासेनोत्तरेण निवृत्तिमार्गेणैषणात्रयस्य त्यागः ।" तैत्तरीयके - "द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तिश्च विभावित इत्यादि..... ( ई० उ० २ शा० भा० ) । मार्तण्ड:, मार्तण्ड भगवान् सूर्यः । यथा आदित्यस्य ब्रह्माण्डोदरजातहिरण्यगर्भरूपत्वमसदेवेदमग्र आसीत्तत्सदासीत्तत् समभवत्तदाण्डं निरवर्ततेत्यादिच्छन्दोगोपनिषद् - वचनजातेन मृते द्विधाभवनादार्ते ब्रह्माण्डे जातो मार्तण्ड इत्यादितद्वाचिनो मार्तण्डशब्दस्य पौराणिकव्युत्पादनेन "विद्यासहायो भगवान् यस्यासौ मण्डलान्तरे । हिरण्यगर्भः पुत्रोऽसावीश्वरो दृश्यते परः" । इत्यादिपुराणवचनेनावगतम् (ब्र० सू० १।२।१६ क० त० प०) । माहेश्वराः, माहेश्वर महेश्वरसिद्धान्तानुयायिन आगमिकाश्चत्वारः सन्ति - शैवाः, पाशुपताः, कारुणिकसिद्धान्तिनः, कपालिकाश्च । यथा - माहेश्वरास्तु मन्यन्ते कार्यकारणयोगविधिदुःखान्ताः पञ्चपदार्थाः पशुपतिनेश्वरेण पशुपाशविमोक्षणायोपदिष्टाः पशुपतिरीश्वरो निमित्तकारणमिति वर्णयन्ति (ब्र० सू० २ ।२।३७ शा० भा०) । यथा च - "माहेश्वराश्चत्वारः - शैवाः पाशुपताः कारुणिकसिद्धान्तिनः, कापालिकाश्चेति । चत्वारोऽप्यमी महेश्वरप्रणीतसिद्धान्तानुयायितया माहेश्वराः" (तत्रैव भाम०) । एतेषां सिद्धान्तः । यथा - कारणमीश्वरः । कार्यं प्राधानिकं महदादि । योगोऽप्योंकारादिध्यानधारणादिः । विधिस्त्रिषवणस्नानादिर्जूढचर्यावसानः । दुःखान्तो मोक्षः । पशव आत्मनस्तेषां पाशो बन्धनम् । तद्विमोक्षो दुःखान्तः । एष तेषामभिसन्धिः– चेतनस्य खल्वधिष्ठातुः कुम्भकारादेः कुम्भादिकार्ये निमित्तकारणत्वमात्रं न तूपादानत्वमपि । तस्मादिहापीश्वरोऽधिष्ठाता जगत्कारणानां निमित्तमेव न तूपादानत्वमप्येकस्याधिष्ठातृत्वाधिष्ठेयत्वविरोधादिति प्राप्तम् (तत्रैव भाम०) । अत्र पशवो जीवाः । यथा – पश्यनात् पाशनाच्च पशवः । पाशा नाम कार्यकारणाख्याः कलाः । ताभिः पाशिता बद्धा सन्निरुद्धाः शब्दादिविषयपरवशा भूत्वावतिष्ठन्ते (कौण्डिन्यभाष्ये) । यथा च - मिथ्याज्ञानमधर्मश्च शक्तिर्हेतुश्च्युतिस्तथा । पशुत्वं मूलं पञ्चैते तन्त्रे हेयाधिकारतः ॥ (गणकारिका ८) । मिथुनीकृत्य, मिथुनीकृत्य सत्यं ब्रह्म असत्यं च बुद्धीन्द्रियादि इमे उभे मिलित्वा जगद् इत्युच्यते । यथा - सत्यं चिदात्मा, अनृतं बुद्धीन्द्रियदेहादि ते द्वे धर्मिणी मिथुनीकृत्य युगलीकृत्येत्यर्थः । न च संवृतिपरमार्थसतोः पारमार्थिकं मिथुनमस्तीत्यभूततद्भावार्थस्य च्वेः (ब्र० सू० अध्यासभाष्यभाम० पृ० १७) । मिथ्यात्वम्, मिथ्यात्व बाधज्ञाननिवर्त्यत्वम् । यथा - 'मिथ्यात्वं च स्वाश्रयत्वेनाभिमतयावन्निष्ठात्यन्ताभावप्रतियोगित्वम् । अभिमतपदं वस्तुतः स्वाश्रयाप्रसिद्ध्या असम्भववारणाय । यावत्पदमर्थान्तरवारणाय तदुक्तम्- सर्वेषामेव भावानां स्वाश्रयत्वेन सम्मते । प्रतियोगित्वमत्यन्ताभावं प्रति मृषात्मता । यद्वा अयं पटः एवं तन्तुनिष्ठात्यन्ताभावप्रतियोगी, पटत्वात् पटान्तरवदित्याद्यनुमानं मिथ्यात्वे प्रमाणम् तदुक्तम् (वे० प०२प०) । यथा च – १. सदसदविलक्षणत्वम् । २. प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वम् । ३. ज्ञाननिवर्त्यत्त्वम् । ४. स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वं वा । ५. सद्विविक्तत्वम् (अ० सि०) । सदसद्रूपत्वेऽप्युपपत्तेः । अत एव न सत्त्वराहित्ये सत्यसत्त्वविरहः । ६. तथा च लक्षणासम्भव इति चेत्, न, सद्विलक्षणत्वे सत्यसद्विलक्षणत्वे सति सदसद्विलक्षणत्वम् । ७. सत्त्वासत्त्वाभ्यां विचारासहत्वे सति सदसत्त्वेन विचारासहत्वं वा । ८. प्रतिपन्नोपाधौ बाध्यत्वं वा । ९. इत्यादिलक्षणे निरवद्यत्वसम्भवात् । न च आद्ये सतोऽपि सदन्तरविलक्षणत्वात् सिद्धसाधनमिति वाच्यम्, सत्त्वावच्छिन्नभेदस्य सन्नेति प्रतीतिप्रयोजकस्य सद्वैलक्षण्यपदार्थत्वात् । यथा च अद्वैतसिद्धौ - १४. मिथ्यात्वं ब्रह्मतुच्छोभयातिरिक्तत्वाव्यापकम्, सकलमिथ्यावृत्तित्त्वात् मिथ्यात्वसमानाधि करणात्यन्ताभावाप्रतियोगित्वाद्वा दृश्यत्ववत् । १५ दृश्यत्वं परमार्थसदवृत्ति अभिधेयमात्रवृत्तित्वाच्छुक्तिरूप्यत्ववत् । १६. दृश्यत्वं परमार्थसद्भिन्नत्वव्याप्यम्, दृश्येतरावृत्तिधर्मत्वात् प्रातिभासिकत्ववत् । १७. उभयसिद्धमसद्विलक्षणं मिथ्यात्वा समानाधिकरणधर्मानधिकरणम् अधारत्वाच्छुक्तिरूप्यत्ववत् । १८. प्रतियोग्यवच्छिन्नो देशः अत्यन्ताभावाश्रयः आधारत्वात्कालवत् । १९. आत्मत्वावच्छिन्नं परमार्थसत्त्वानधिकरणप्रतियोगिकभेदत्वावच्छिन्नरहितं परमार्थसत्त्वसत्त्वात् परमार्थसत्त्वावच्छिन्नवत्, परमार्थसति परमार्थसद्भेदाङ्गीकारवादिमतेऽपि सद्भेदोन परमार्थसत्त्ववन्निष्ठः । किन्तु घटत्वाद्यवच्छिन्ननिष्ठ एव । २०. शुक्तिरूप्यं मिथ्या प्रपञ्चान्न भिद्यते व्यवहारविषयत्वात् ब्रह्मवत् । साध्यसत्त्वमत्र त्रेधा । स्वस्यामिथ्यात्वेनोभयोर्मिथ्यात्वेनोभयोरमिथ्यात्वेन वा । तत्रान्तिमपक्षस्यासम्भवात् पक्षे साध्यसिद्धिपर्यवसानं मध्यमपक्षेण, दृष्टान्ते तु प्रथमपक्षेणेति विवेकः । २१. विमतं मिथ्यामोक्षहेतुज्ञानाविषयत्वे सत्यसदन्यत्वात् शुक्तिरूप्यत्ववत् मोक्षहेतुज्ञानविषयत्वम् । २२. परमार्थसत्त्वव्यापकम्, परमार्थसत्वसमानाधिकरणत्वात् परमार्थिकत्वेन श्रुतितात्पर्यविषयत्ववत् । २३. एतत्पयत्यन्ताभावः एतत्तन्तुनिष्ठः एतत्पटानाद्यभावत्वात् एतत्पटान्योन्याभाववत् । तन्तुनाशजन्यपटनाशस्य कदापि तन्तुवृत्तिता नास्तीति तत्र व्यभिचारवारणायानादिपदम् । यस्य पटस्याश्रयविभागेन नाशस्तदत्यन्ताभावस्य पक्षत्वे त्वनादिपदमनादेयमेव । अत्र चैतत्पटप्रतियोगिकात्यन्ताभावत्वावच्छिन्नस्य पक्षीकरणान्न सम्बन्धान्तरेणात्यन्ताभावमादायांशतः सिद्धसाधनम् । पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वात् । समवायसम्बन्धावच्छिन्नो व्यधिकरणधर्मानवच्छिन्नश्च यः एतत्पटात्यन्ताभावः स एव वा पक्षः । तन्तुशब्देन च पटोपादानकारणमुक्तम् । तत्र च प्रागभावस्य सत्त्वान्न तेन व्यभिचारः । कार्यकारणयोरभेदेन सिद्धसाधनादिदूषणानि प्रागेव तत्त्वप्रदीपिकानुमानोपन्यासे निराकृतानि । ... भेदस्य मिथ्यात्वेऽपि अभेदो न तात्त्विकः, भावाभावयोरुभयोरपि मिथ्यात्वस्य प्रागेवोपपादितत्वात् (अद्वैतसिद्धौ मिथ्यात्वे विशेषानुमानप्रकरणे)। यथा च "आद्यो विकार आकाशः सोऽस्ति भात्यपि च प्रियः । अवकाशस्तस्य रूपं तन्मिथ्या न तु तत्रयम्" (प० द०१३ । ६७) । यथा च - "कालासम्बन्धित्वम् । यथा- शशविषाणकूर्मरोमबन्ध्यापुत्रादीनां मिथ्यात्वम् । इति नैयायिकाः । तुच्छत्वमिति माध्वाः प्राहुः । निरूपाख्यत्वं (निः स्वरूपत्वम्) । इति बौद्धाः आहुः । मिथ्याचार:, मिथ्याचार दाम्भिकः, बाह्यप्रदर्शनकारी । यथा - कर्मेन्द्रियाणि यो विमूढ़ात्मा रागद्वेषादिभिर्मलिनचित्तः हस्तादीनि संहृत्य इन्द्रियार्थाञ्शब्दादीन्मनसा स्मरन्नास्ते स मिथ्याचारोऽसदाचारः पापाचार उच्यते (गी० ३।५ भाष्यो०) । यथा च - वाकूपाण्यादीनि कर्मेन्द्रियाण्यपि संयम्य निगृत्य यो भगवद्ध्यानच्छलेनेन्द्रियार्थान् विषयान् स्मरन्नास्ते अविशुद्धवत्तया मनस आत्मनि स्थैर्याभावात् स मिथ्याचारः कपटाचारो दाम्भिक उच्यत इत्यर्थः (तत्रैव श्रीधरी)। मिथ्याज्ञानम्, मिथ्याज्ञान अतात्त्विकज्ञानम्, बाधज्ञाननिर्वत्यज्ञानम् । यथा अनात्मनि देहादौ आत्मबुद्धिः । अयमेव अध्यासो भ्रमः ख्यातिरित्याधुच्यते । अयं च भ्रमः ख्यातिर्वा विभिन्नदार्शनिकमतानुसारमात्मख्यारित्यादिभेदेन चतुर्दशप्रकारको भवति । एतदर्थं ख्यातिशब्दो द्रष्टव्यः । मुक्तः, मुक्त ब्रह्मभावापन्नः । यथा - एतदज्ञानमज्ञानोपहितं चैतन्यं चेश्वरादिकमेतदाधारभूतानुपहितचैतन्यरूपं तुरीयं ब्रह्ममात्रं भवति (वे० सा०) । यथा च - अयं च मुक्तः द्विविधः जीवन्मुक्तो विदेहमुक्तश्च । तत्र जीवन्मुक्तो नाम- उक्तप्रकारौ सविकल्पक निर्विकल्पकसमाधी जीवन्मुक्तस्यैव भवतः । तत्र जीवन्मुक्तो नाम आचार्योपदेशश्रुतिवाक्यस्वानुभवैः स्वस्वरूपाखण्डब्रह्मज्ञाने जाते आत्मगताखिलाज्ञाननिवृत्तिद्वारा स्वस्वरूपाखण्डब्रह्मणि साक्षात्कृते सति अज्ञानतत्कार्याणां सञ्चितकर्मसंशयविपर्ययादीनामपि विनाशे विगलिताखिलबन्धनः अविद्यालेशसहितः क्षालितलशुनभाण्डवद् अविद्यावासनासहितो वा । ब्रह्मनिष्ठः । अत्र अखिलबन्धरहितो ब्रह्मनिष्ठः जीवन्मुक्तः इति जीवन्मुक्तस्य लक्षणमन्यत् सर्वबन्धसम्बन्धसाहित्ये हेतुः । यथा च - अथ जीवन्मुक्तलक्षणमुच्यते । जीवन्मुक्तो नाम स्वस्वरूपाखण्डब्रह्मज्ञानेन तदज्ञानबाधनद्वारा स्वस्वरूपाखण्डब्रह्मणि साक्षात् कृतेऽज्ञानतत्कार्यसञ्चितकर्मसंशयविपर्ययादीनामपि बाधितत्वादखिलबन्धरहितो ब्रह्मनिष्ठः ।"भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इत्यादि श्रुतेः (वे० सा०) । विदेहमुक्तश्च स्वस्वरूपावगतिः सगूलाझननाशः समनन्तरमेव शरीरपातश्च । यथा च - ननु 'क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' (मु० ३।८) इत्यादिश्रुत्या । 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा' (भ० गी० ४।३७) इत्यादिस्मृत्या च ज्ञानस्य सकलकर्मक्षयहेतुत्वनिश्चये सति प्रारब्धकर्मावस्थानमनुपपन्नमिति चेत्, न । 'तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये - छा० ६।१४।२- इत्यादिश्रुत्या 'नाभुक्तं क्षीयते कर्म' इत्यादिस्मृत्या चोत्पादितकार्यकर्मव्यतिरिक्तानां सञ्चितकर्मणामेव ज्ञानविनाशित्वावगमात् । सञ्चितं द्विविधम् - सुकृतं दुष्कृतं चेति । तथा च श्रुतिः 'तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्यामि'ति । ननु ब्रह्मज्ञानान्मूलाज्ञाननिवृत्तौ तत्कार्यप्रारब्ध कर्मणोऽपि निवृत्तिः, कथं ज्ञानिनो देहधारणमुपपद्यते ? इति चेत्, न । अप्रतिबद्धज्ञानस्यैवाज्ञाननिवर्तकतया प्रारब्धकर्मरूप - प्रतिबन्धकदशायामज्ञाननिवृत्तेरनङ्गीकारात् । नन्वेवमपि तत्त्वज्ञानादेकस्य मुक्तौ सर्वमुक्तिः स्यात् अविद्याया एकत्वेन तन्निवृत्तौ क्वचिदपि संसारायोगादिति चेत्, न । इष्टापत्तेरित्येके । अपरे त्वेतद्दोषपरिहाराय 'इन्द्रो मायाभिः' इति बहुबचनश्रुत्यनुगृहीतमविद्याया नानात्वमङ्गीकर्तव्यमित्याहुः । अन्ये त्वेकैवाविद्या, तस्या एवाविद्याया जीवभेदेन ब्रह्मस्वरूपावरणशक्तयो नाना । तथा च यस्य ब्रह्मज्ञानं तस्य ब्रह्मस्वरूपावरणशक्तिविशिष्टाविद्यानाशः न त्वन्यं प्रति ब्रह्मस्वरूपावरणशक्ति - विशिष्टाविद्यानाश इत्यभ्युपगमात् नैकमुक्तो सर्वमुक्तिप्रसङ्गः । अत एव च यावदधिकारमवस्थितिराधिकारिकाणाम् (ब्र० सू० ३।३।३२) । इत्यस्मिन्नधिकरणेऽधिकारिपुरुषाणामुत्पन्नतत्त्वज्ञानानामिन्द्रादीनां देहधारणानुपपत्तिमाङ्क्याधिकारापादकप्रारब्धकर्मसमाप्त्यनन्तरं विदेहकैवल्यमिति सिद्धान्तितम् । तदुक्तमाचार्यवाचस्पतिमिश्रै: - उपासनादि- संसिद्धितोषितेश्वरचोदितम् । अधिकारं समाप्यैते प्रविशन्ति परं पदम् । इति । (वे० प० ८ प०) । यथा चभवान्तरप्राप्तिविधुरः (सर्व० सं० पृ० ७१ आई०) । अन्यत्र चोक्तम्विद्यादिज्ञापितैश्वर्यश्चिद्धनो मुक्त उच्यते (सर्व० सं० पृ० १९९ प्रत्य०) (इति न्याय कोशः) । यथा च - मुक्तिस्तु ब्रह्मतत्त्वस्य ज्ञानादेव न चान्यथा । स्वप्नबोधं विना नैव स्वस्वप्नो हीयते तथा (प० ६।२१०) । यथा च - तदेवं ब्रह्मज्ञानान् मोक्षः । स चानर्थनिवृतिर्निरतिशयब्रह्मानन्दावाप्तिश्चेति सिद्धं प्रयोजनम् (वे० प० ८ प०) । मुक्तता, मुक्तता बन्धराहित्यम्, प्रपञ्चोपशमरूपा निःसंसारित्वम् । यथा - गोवत्सादावस्ति बन्धविमोकलक्षणा मुक्तता व्यावहारिकी प्रत्यगात्मनि तु प्रपञ्चोपशमरूपे निःसंसारत्वलक्षणा तात्त्विकी (सं० शा० १/१८३ सु० टी०) । मुक्तत्वम्, मुक्तत्व प्रपञ्चोपशमत्वम्, निःसंसारिता । यथा- "मुक्तत्वमविद्याकामकर्मपारतन्त्र्यराहित्यम्" (गी० म० श्लो० १ आ० गि० टी०) । मुक्तिः, मुक्ति मोक्षः स्वस्वरूपावगतिः, अविद्यानाशः, अविद्यास्तमयः । यथाअद्वयानन्दरूपस्य सद्वयत्वं च दुःखिता । बन्धः प्रोक्तः स्वरूपेण स्थितिर्मुक्तिरितीर्यते (प० द० १०।४) । यथा च - आनन्दात्मकब्रह्मावाप्तिश्च मोक्षः शोकनिवृत्तिश्च । 'ब्रह्मवेद ब्रह्मैव भवति' - मु० उ० ३।२१९- । 'तरति शोकमात्मवित्' - छां० उ० १ ।१।३ - इत्यादिश्रुतेः । न तु लोकान्तरावाप्तिः, तज्जन्यवैषयिकानन्दो वा । मोक्षः । तस्य कृतत्वेनानित्यत्वे मुक्तस्य पुनरावृत्त्यापत्तेः । ननु त्वन्मतेऽप्यानन्दावाप्तेरनर्थनिवृत्तेश्च सादित्वे तुल्यो दोषः, अनादित्वे मोक्षमुद्दिश्य श्रवणादौ प्रवृत्त्यनुपपत्तिरिति चेत्, न । सिद्धस्यैव ब्रह्मस्वरूपस्य मोक्षस्यासिद्धत्वभ्रमेण तत्साधने प्रवृत्त्युपपत्तेः । अनर्थनिवृत्तिरप्यधिष्ठानभूतब्रह्मस्वरूपतया सिद्धैव । लोकेऽपि प्राप्तप्राप्तिपरिहृतपरिहारयोः प्रयोजनत्वं दृष्टमेव । यथा हस्तगतविस्मृतसुवर्णादौ 'तव हस्ते सुवर्णम्' इत्याप्तोपदेशादप्राप्तमिव प्राप्नोति । यथा वा वलयितचरणायां रज्जौ सर्पत्वभ्रमवतो नायं सर्प इत्याप्तवाक्यात् परिहृतस्यैव सर्पस्य परिहारः । एवं प्राप्तस्याप्यानन्दस्य प्राप्तिः, परिहृतस्याप्यनर्थस्य निवृत्तिः मोक्षः प्रयोजनम् (वे० प० ८ परि०) । यथा च "मुक्तिस्तु ब्रह्मतत्त्वस्य ज्ञानादेव न चान्यथा । स्वप्नबोधं विना नैव स्वप्नो हीयते यथा (प० द०६ । २१०) । यथा - यथा च किंबहुनाऽयं देहयात्रामात्रार्थमिच्छानिच्छापरेच्छाप्रापितानि सुखदुःखलक्षणान्यारब्धफलान्यनुभवन्नेवान्तःकरणाभासादीनामवभासकः संस्तदवसाने प्रत्यगानन्दपरब्रह्मणि प्राणे लीने सत्यज्ञानतत्कार्यसंस्काराणामपि विनाशात् परमकैवल्यमानन्दैकरसमखिलभेदप्रतिभासरहितमखण्डं ब्रह्मावतिष्ठते (वे० सा०) । यथा च- तस्मात् शास्त्राचार्यप्रसादासादिततत्त्वमस्यादिवाक्योत्थसाक्षात्कारेण मोक्षाविर्भावप्रतिबन्धकाज्ञानतत्कार्यतिरस्कारसमनन्तरं नित्यशुद्धबुद्धमुक्तस्वभावाद्वितीयानन्दोऽस्मीति मन्यते । ततः कृतकृत्यो भवति (वेदान्तसिद्धान्तमुक्तावल्याम्) । यथा च - नन्वज्ञाननिवृत्तेः क्षणिकत्वान्मुक्तिरस्थिरा स्याच्चेत् । ब्रह्मानन्दस्फुरणं दुःखाभावश्च मुक्तिरित्याहुः । ननु तस्याः क्षणिकत्वे मुक्तिर्न स्थिरपुमर्थ इति मैवम् । सुखदुःखाभावान्यतरत्वाभावान् नहि तथेत्याहुः । चित्सुखचरणास्त्वाहुर्दुःखाभावोऽपि न पुमर्थः । सुखशेषत्वात्तस्य स्वरूपसुखमेव तादृगिति (सिद्धान्तकल्पवल्ल्याम् ३ स्तवके) । अन्तःकरणशुद्धिद्वारा क्रममुक्तिश्च । एतत्सर्वोपाधिनिराकरणेन साक्षिचैतन्यमात्रज्ञानेन तु साक्षादेव मोक्षः (सि० वि० ९८) । यथा च - मुक्तिर्हि दुःखनिवृत्तिसुखावाप्तिस्वरूपा (सं० शा० ६८ सु० टी०) । यथा च -... सा हि मुक्तिरखिलानर्थनिर्मुक्तपूर्णानन्दावाप्तिरूपत्वात् परमपुरुषार्थ इत्यर्थ: (सं० शा० ५० सु० टी० ) । यथा च - १. संसारोपरमः । २. पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरुप्रतिष्ठा वा चितिशक्तिरिति (सर्व ० सं० पृ० ३८७. पात०) ।३. नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिः (सर्व० सं० पृ० २५० अक्ष०)। ४. प्रकृतिपुरुषान्यत्वख्यातौ प्रकृत्युपरमे पुरुषस्य स्वरूपेणावस्थानं मुक्तिः (सर्व० सं० पृ० २४९ अक्षपा० ) । ५. आवरणमुक्तिर्मुक्ति: (सर्व० सं० पृ० २४८ अक्षपा० ) । ६. लब्धानन्तचातुष्कस्य लोकागूढस्य चात्मनः । क्षीणाष्टकर्मणो मुक्तिर्निर्व्यावृत्तिर्जिनोदिता (सर्व० सं० पृ० ८८ आई०) । ७ गतसमस्तक्लेशतद्वासनस्यानावरणज्ञानस्य सुखैकतानस्यात्मन उपरिदेशावस्थानं मुक्तिः ( सर्व० सं० पृ० ८१ आई०) । ८. रागादिज्ञानसन्तानवासनोच्छेदसम्भवा । चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता (सर्व० सं० पृ० ४६ बौ०) ।९. मोचनम् इति कामज्ञाः निःसरणं वा मुक्तिः आहुः (न्यायकोशः) । मुक्तितारतम्यम्, मुक्तितारतम्य एवमखण्डब्रह्मानन्दस्वरूपावगतिरूपमुक्तौ उच्चनीचसातिशयनिरतिशयादिरूपं तारतम्यं नास्ति । सति सातिशये मुक्तावनित्यता प्रसङ्गः स्यात् स्वर्गादिवत् । यथा - नापि मुक्तावुच्चनीचभावः । तस्य द्वितीयसापेक्षत्वे तदा असम्भवात् । परमं साम्यमुपैतीति साम्यश्रुतेश्च । सातिशयत्वे मुक्तेः स्वर्गादिवदनित्यत्वं स्यात् । अधिकदर्शने दुःखद्वेषादिकं च स्यात् । ननु मुक्तौ अतारतम्यं किं भेदाभावात् उत सत्यपि भेदे तत्साम्यात् । इत्यादि ।...तस्मात् स्वरूपानन्दस्य प्रकाशात्मस्वरूपिणः । प्राप्तिर्मुक्तिर्न तस्यास्ति तारतम्यं कदाचन ( अ० सि० मुक्तौ तारतम्यभङ्गे) । मुक्तिभेदः, मुक्तिभेद मुक्तिस्त्रिविधा - क्रममुक्तिः जीवन्मुक्ति विदेहमुक्तिश्च । यथा - तत्र कानिचिद् ब्रह्मण उपासनान्यभ्युदयार्थानि कानिचित् क्रममुक्त्यर्थानि कानिचित् कर्मसमृद्ध्यर्थानि (ब्र० सू० १/१/११ शा० भा०) । अत्र वेदान्तकल्पतरौ अभ्युदयार्थानि प्रतीकोपासनानि क्रममुक्त्यर्थानि दहराद्युपासनानि । उपासनया चित्तशुद्धिद्वारा उत्तमलोकप्राप्तिस्ततश्च निर्विशेषब्रह्मसाक्षात्काररूपो मोक्षः । यथा - सगुणोपासनमपि चित्तैकाग्र्यद्वारा निर्विशेषब्रह्मसाक्षात्कारे हेतुः ।सगुणोपासकानां चार्चिरादिमार्गेण ब्रह्मलोकं गतानां तत्रैव श्रवणादुत्पन्नतत्त्वसाक्षात्काराणां ब्रह्मणा सह मोक्षः । .......कर्मिणां तु धूमादिमार्गेण पितृलोकम्.....। निर्गुणब्रह्मसाक्षात्कारवतस्तु न लोकान्तरगमनम् (वे० प० ८ प०) । इयमेव क्रममुक्तिः जीवन्मुक्तिः । यथा अद्वैतसिद्धिजीवन्मुक्त्युपपत्तिनिरूपणे - जीवनमुक्तश्च तत्त्वज्ञानेन निवृत्ताविद्योऽप्यनुवृत्तदेहादिप्रतिभासः । लेशो नावयवः । आकारस्येव लेशशब्दार्थत्वात् । ...यद्वा- अज्ञानस्य सूक्ष्मावस्थालेशः । ..... तस्मादविद्यालेशानुवृत्त्या जीवन्मुक्तिरूपपन्नतरा । यथा च सिद्धान्तलेशसंग्रहे चतुर्थपरिच्छेदे - क्षालितलशुनभाण्डानुवृत्तलशुनवासनाकल्पोऽविद्यासंस्कारः । तेनाविद्यालेशेन जीवन्मुक्तिः । तत्त्वप्रदीपिकायां चतुर्थपरिच्छेदे-मायालेशो जीवन्मुक्तस्यानिवृत्तः समाध्यवस्थायां तिरोहितोऽन्यदा देहाभासजगदाभासहेतुतयानुर्वतते । तदेवं श्रुतिस्मृतिपुराणादिष्वाघुष्यमाणा जीवन्मुक्तिः प्रद्वेषमात्रेण नापलपितुं शक्यते । विदेहमुक्तिश्च प्रधाना । ब्रह्मसाक्षात्कारसमनन्तरमेव देहपातं विदेहमुक्तिः । अधिकं मुक्तिशब्दे द्रष्टव्यम् । निर्विशेषब्रह्मवादिनामेष मुक्तिभेदः । सगुणोपासकानां विशिष्टाद्वैतिनां शुद्धाद्वैतिनां वेदान्तिनान्तु सालोक्यादयः पञ्च- भेदाः । यथा - ब्रह्मणः सायुज्यंसालोक्यमाप्नोत्येतासामेव देवतानां सायुज्यं सार्ष्टिता समानलोकतामाप्नोति य एवं वेद (कृष्णयजुर्वेदतैत्तिरीयारण्यके १० प्रपाठके १४ अनुवाके) भागवतादिपुराणेष्वप्येवमेव । यथा च - सगुणोपासकानां चार्चिरादिमार्गेण ब्रह्मलोकं गतानां तत्रैव श्रवणादुत्पन्नतत्त्वसाक्षात्काराणां ब्रह्मणा सह मोक्षः (वे० प० ८ प०) । अद्वैतसिद्धौ सायुज्यमुक्तिः खण्डिता । मुक्तिसाधनम्, मुक्तिसाधन केवलं ज्ञानमेव । यथा च - "स च ज्ञानैकसाध्यः" 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' (श्वे० ३-८) । इति श्रुतेः, अज्ञाननिवृत्तेर्ज्ञानैकसाध्यत्वनियमाच्च । तच्च ज्ञानं ब्रह्मात्मैक्यगोचरम् । अभयं वै जनक प्राप्तोऽसि ( बृ० उ० ४ ।२।४) । तदात्मानमेव वेदाहं ब्रह्मास्मि (बृ० उ० १ ।४।१०)। इति श्रुतेः । 'तत्त्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनम्' इति नारदीयवचनाच्च । तच्च ज्ञानमपरोक्षरूपम् । परोक्षत्वेऽपरोक्षभ्रमनिवर्तकत्वानुपपत्तेः । तच्चापरोक्षज्ञानं तत्त्वमस्यादिवाक्यादिति केचित् । मनननिदिध्यासनसंस्कृतान्तःकरणादेवेत्यपरे । तत्र पूर्वाचार्याणामयमाशयः - संविदापरोक्ष्यं न करणविशेषोत्पतिनिबन्धनम्, किन्तु प्रमेयविशेषनिबन्धनमित्युपपादितम् । तथा च ब्रह्मणः प्रमातृजीवाभिन्नतया तद्गोचरं शब्दजन्यज्ञानमप्यपरोक्षम् । अत एव प्रतर्दनाधिकरणे प्रतर्दनं प्रति प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमुपास्व (कौ० ३ । २) । इतीन्द्रप्रोक्तवाक्ये प्राणशब्दस्य ब्रह्मपरत्वे निश्चिते सति मामुपास्वेत्यस्मच्छब्दानुपपत्तिमाशङ्क्य तदुत्तरत्वेन प्रवृत्ते 'शास्त्रदृष्ट्या तूपदेशो वामदेववत्' (ब्र० सू० १ । १ । ३१ ) । इत्यत्र सूत्रे शास्त्रीया दृष्टिः शास्त्रदृष्टिरिति तत्त्वमस्यादिवाक्यजन्यमहं ब्रह्मेति ज्ञानं दृष्टिशब्देनोक्तमिति । अन्येषां त्वयमाशयः करणविशेषनिबन्धनमेव ज्ञानानां प्रत्यक्षत्वम्, न विषयविशेषनिबन्धनम्, एकस्मिन्नेव सूक्ष्मवस्तुनि पटुकरणापटुकरणयोः प्रत्यक्षत्वाप्रत्यक्षात्वव्यवहारदर्शनात् । तथा च संवित्साक्षात्त्वे इन्द्रियजन्यत्वस्यैव प्रयोजकतया न शब्दजन्यज्ञानस्यापरोक्षत्वम् । ब्रह्मसाक्षात्कारेऽपि मनन-निदिध्यासनसंस्कृतं मन एव करणम् 'मनसैवानुद्रष्टव्यः' इत्यादिश्रुतेः । मनोऽगम्यत्वश्रुतिश्चासंस्कृतमनोविषया । न चैवं ब्रह्मण औपनिषदत्वानुपपत्तिः, अस्मदुक्तमनसो वेदजन्यज्ञानानन्तरमेव प्रवृत्ततया वेदोपजीवित्वात् । वेदानुपजीविमानान्तरगम्यत्वस्यैव वेदगम्यविरोधित्वात् । शास्त्रदृष्टिसूत्रमपि ब्रह्मविषयमानसप्रत्यक्षस्य शास्त्रप्रयोज्यत्वादुपपद्यते । तदुक्तम्- अपि संराधने सूत्राच्छास्त्रार्थध्यानजा प्रमा। शास्त्रदृष्टिर्मता तां तु वेत्ति वाचस्पतिः परम् । इति । तच्च ज्ञानं पापक्षयात् । स च कर्मानुष्ठानादिपरम्परया कर्मणां विनियोगः । अत एव तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन (बृ. उ० ४।४।२२) । इत्यादिश्रुतिः, कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते इत्यादिस्मृतिश्च सङ्गच्छते । एवं श्रवण-मनन-निदिध्यासनान्यपि ज्ञानसाधनानि । मैत्रेयी ब्राह्मणे 'आत्मा वा अरे द्रष्टव्यः (बृ० उ० २।४।४) इति दर्शनमनूध तत्साधनत्वेन 'श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' (बृ० उ० २।४।४) इति श्रवण-मनन निदिध्यासनानां विधानात् । तत्र श्रवणं नाम वेदान्तानामद्वितीये ब्रह्मणि तात्पर्यावधारणानुकूला मानसी क्रिया । मननं नाम शब्दावधारितेऽर्थे मानान्तरविरोधशङ्कायां तन्निराकरणानुकूलतर्कात्मज्ञानजनको मानसो व्यापारः। निदिध्यासनं नाम अनादिदुर्वासनया विषयेष्वाकृष्यमाणचित्तस्य विषयेभ्योऽपकृष्यात्मविषयकस्थैर्यानुकूलो मानसो व्यापारः । तत्र निदिध्यासनं ब्रह्मसाक्षात्कारे साक्षात्कारणम् । ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढ़ाम् (श्वे० १-३) इत्यादिश्रुतेः निदिध्यासने च मननं हेतुः । अकृतमननस्यार्थदाढ्र्याभावेन तद्विषये निदिध्यासनायोगात् । मनने च श्रवणं हेतुः, श्रवणाभावे तात्पर्यानिश्चयेन शाब्दज्ञानाभावेन श्रुतार्थविषयकयुक्तत्वायुक्तत्वनिश्चयानुकूलमननायोगात् । एतानि त्रीण्यपि ज्ञानोत्पत्तौ कारणानीति केचिदाचार्या ऊचिरे । अपरे तु - श्रवणं प्रधानम्, मनननिदिध्यासनयोस्तु श्रवणात्पराचीनयोरपि श्रवणफलब्रह्मदर्शननिर्वर्तकतया आरादुपकारकाङ्गत्वमित्याहुः । तदप्यङ्गत्वं न तार्तीयशेषत्वरूपम् । यस्य श्रुत्याद्यन्यतम प्रमाणगम्यस्य प्रकृते श्रुत्याद्यन्यतमाभावेऽसम्भवात् । तथा हि, 'ब्रीहिभिर्यजेत' 'दध्ना जुहोति' इत्यादाविव मनननिदिध्यासनयोरङ्गत्वे न काचित्तृतीया श्रुतिरस्ति । नापि 'बर्हिदेवसदनं दामि' इत्यादि-मन्त्राणां बर्हिः खण्डनप्रकाशनसामर्थ्यवत् किञ्चिल्लिङ्गमस्ति । नापि प्रदेशान्तरपठितप्रवर्ग्यस्याग्निष्टोमे प्रवृणक्तीति वाक्यवच्छ्रवणानुवादेन मनननिदिध्यासनयोर्विनियोजकं किञ्चिद्वाक्यमस्ति । नापि 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति वाक्यावगतफलसाधनताकदर्शपूर्णमासप्रकरणे प्रयाजादीनामिव फलसाधनत्वेनावगतस्य श्रवणस्य प्रकरणे मनननिदिध्यासनयोराम्नातम् । ननु द्रष्टव्य इति दर्शनानुवादेन श्रवणे विहिते सति फलवत्तया श्रवणप्रकरणे तत्सन्निधावाम्नातयोर्मनननिदिध्यासनयोः प्रयाजन्यायेन प्रकरणादेवाङ्गतेति चेत् । न । 'ते ध्यानयोगानुगता अपश्यन्' इत्यादिश्रुत्यन्तरे ध्यानस्य दर्शनसाधनत्वेनावगतस्याङ्गाकाङ्क्षायां प्रयाजन्यायेन श्रवण-मननयोरेवाङ्गतापत्तेः । क्रमसमाख्ये च दूरनिरस्ते । किञ्च प्रयाजादावङ्गत्वविचारः सप्रयोजनः । पूर्वपक्षे विकृतिषु न प्रयाजाद्यनुष्ठानम्, सिद्धान्ते तु तत्रापि तदनुष्ठानमिति । प्रकृते तु श्रवणं न कस्यचिठप्रकृत्तिः, येन मनननिदिध्यासनयोस्तत्राप्यनुष्ठानमङ्गत्वविचारफलं भवेत् । तस्मान्न तार्तीयशेषत्वं मनननिदिध्यासनयोः । किन्तु यथा घटादिकार्यै मृत्पिण्डादीनां प्रधानकारणता, चक्रादीनां सहकारिकारणतेति प्रधान्याप्राधान्य व्यपदेशः, तथा श्रवणमनन-निदिध्यासनानामपीति मन्तव्यम् । सूचितं चैतद्विवरणाचार्यैः शक्तितात्पर्यं विशिष्टशब्दावधारणम् प्रमेयावगमं प्रत्यव्यवधानेन कारणं भवति, प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात् । मनननिदिध्यासने तु चित्तस्य प्रत्यगात्मप्रवणतासंस्कारपरिनिष्पन्नतदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभव-हेतुतां प्रतिपद्येते इति फलं प्रत्यव्यवहितकरणस्य तात्पर्यविशिष्टशब्दावधारणस्य व्यवहिते मनन-निदिध्यासने तदङ्गेऽङ्गीक्रियेते इति । श्रवणादिषु च मुमुक्षूणामधिकारः काम्ये कर्मणि फलकामस्याधिकारित्वात् । मुमुक्षायां च नित्यानित्यवस्तुविवेकस्येहामुत्रार्थफलभोगविरागस्य शमदमोपरतितितिक्षासमाधानश्रद्धानां च विनियोगः । अन्तरिन्द्रियनिग्रहः शमः । बहिरिन्द्रियनिग्रहो दमः । विक्षेपाभाव उपरतिः । शीतोष्णादिद्वन्द्वसहनं तितिक्षा । चित्तैकाग्र्यं समाधानम् । गुरुवेदान्तवाक्येषु विश्वासः श्रद्धा । अत्रोपरमशब्देन संन्यासोऽभिधीयते, तथा च संन्यासिनामेव श्रवणाधिकार इति केचित् । अपरे तु उपरमशब्दस्य संन्यासवाचकत्वाभावाद्विक्षेपाभावमात्रस्य गृहस्थेष्वपिसम्भवात् जनकादेरपि ब्रह्मविचारस्य श्रूयमाणत्वात्सर्वाश्रमसाधारणं श्रवणादिविधानमित्याहुः । सगुणोपासनमपि चित्तैकाग्र्यद्वारा निर्विशेषब्रह्मसाक्षात्कारे हेतुः । तदुक्तम्- "निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्ते अनुकम्प्यन्ते सविशेषनिरूपणैः । वशीकृते मनस्येषां सगुणब्रह्मशीलनात् । तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम्" । सगुणोपासकानां चार्चिरादिमार्गेण ब्रह्मलोकं गतानां तत्रैव श्रवणादुत्पन्नतत्त्वसाक्षात्काराणां ब्रह्मणा सह मोक्षः। कर्मिणां तु धूमादिमार्गेण पितृलोकं गतानामुपभोगेन कर्मक्षये सति पूर्वकृतसुकृतदुष्कृतानुसारेण ब्रह्मादिस्थावरान्तेषु पुनरुत्पत्तिः । तथा च श्रुतिः रमणीयचरणा रमणीयां योनिमापद्यन्ते, कपूयचरणाः कपूयां योनिमापद्यन्ते (छा० ५।१०।१) इति । प्रतिषिद्धानुष्ठायिनां तु रौरवादिनरकविशेषेषु तत्तत्पापोपचितं तीव्रदुःखमनुभूय श्वशूकरादितिर्यग्योनिषु स्थावरादिषु चोत्पत्तिरित्यलं प्रसङ्गादागतप्रपञ्चेनेति। निर्गुणब्रह्मसाक्षात्कारवतस्तु न लोकान्तरगमनम्, न तस्य प्राणा उत्क्रामन्ति (बृ० उ० ४।४।६) । इति श्रुतेः । किन्तु यावत् प्रारब्धकर्मक्षयं सूखदुःखे अनुभूय पश्चादपवृज्यते । ननु क्षीयन्ते चास्यकर्माणि तस्मिन् दृष्टे परावरे (मु० ३।८) इत्यादिश्रुत्या ।'ज्ञानाग्निः सर्वकर्माणि भम्मसात्कुरुते तथा' (भ०गी० ४।३७) । इत्यादिस्मृत्या च ज्ञानस्य सकलकर्मक्षयहेतुत्वनिश्चये सति प्रारब्धकर्मावस्थानमनुपपन्नमिति चेत्, न । 'तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये (छा० ६।१४ । २ ) इत्यादिश्रुत्या नाभुक्तं क्षीयते कर्म इत्यादिस्मृत्या चोत्पादितकार्यकर्मव्यतिरिक्तानां सञ्चितकर्मणामेव ज्ञानविनाशित्वावगमात् (वे० प०८ प०) । यथा च - "गीताशास्त्रस्य ससंन्यासं ज्ञानमेव मुक्तिसाधनमर्थो नार्थान्तरमिति विवेकार्थमिह श्रुत्यर्थं कीर्तयतीत्यर्थः (गी०३।१७ आ० गि० टी०) । यथा च - मोक्षमेकं वर्जयित्वा अन्यस्य अविद्याविषयत्वात् पुरुषाभिप्रायतन्त्रौ ह्यर्थानर्थौ । मारणादिकाम्येष्टिदर्शनात् । तस्माद् यावदात्मज्ञानविधेराभिमुख्यं तावदेव कर्मविधयः । तस्मान्नात्र ज्ञानसहभावित्वं कर्मणामित्यतः सिद्धमात्मज्ञानमेवामृतत्वसाधनम् । एतावदरे खल्वमृतत्वम् कर्मनिरपेक्षत्वाज्ज्ञानस्य (बृ० आ० उप० ४/५/१५ शा० भा०) । मुख्यसंन्यासी, मुख्यसंन्यासिन् संन्यासी द्विविधः मुख्यसंन्यासी, गौणसंन्यासी च । मुख्यसंन्यासी सर्वकर्मत्यागी, गौणसंन्यासी च कर्म कुर्वन्नपि कर्मफलत्यागी । यथा- "अनिष्टं नरकतिर्यगादिरूपम्, इष्टं देवतादिरूपम्, मिश्रं मानुषभाव इति कर्मणः कर्मजातीयस्य फलं त्रिविधं प्रेत्य मरणान्तरमत्यागिनां पूर्वोक्तमुख्यसंन्यासहीनानां भवति मुख्यसंन्यासिनां तु न क्वचिदपि भवति । तेषां कर्तृत्वाभिमानाभावात्" (गी० १८/१२ नी० क० ) । यथा च – एवं गौणसंन्यासिनां शरीरपातादूर्ध्वं शरीरान्तर्ग्रहणमावश्यकमित्युक्त्वा मुख्यसंन्यासिनां परमात्मसाक्षात्कारेणाविद्यातत्कार्यनिवृत्तौ विदेहकैवल्यमेवेत्याह- न तु संन्यासिनां क्वचिदिति । परमात्मज्ञानवतां मुख्यसंन्यासिनां परमहंसपरिव्राजकानां प्रेत्य कर्मणः फलं शरीरग्रहणमनिष्टमिष्टं मिश्रं च क्वचिद्देशे काले वा न भवत्येवेत्यवधारणार्थस्तु शब्दः । ज्ञानेनाज्ञानस्योच्छेदे तत्कार्याणां कर्मणामुच्छिन्नत्वात् - तथा च श्रुतिः 'भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे' इति । पारमार्षं च सूत्रम्-'तदधिगम उत्तरपूर्वार्धयोरश्लेषविनाशौ तदव्यपदेशात्' इति परमात्मज्ञानात्मज्ञानादशेषकर्मक्षयं दर्शयति । तेन गौणसंन्यासिनां पुनः संसार: मुख्यसंन्यासिनां तु मोक्ष इति फले विशेष उक्तः (तत्रैव म० सू०) । यथा च संन्यासिशब्देनात्र फलत्यागसाम्यात् प्राकृताः कर्मफलत्यागिनो गृह्यन्ते । अनाश्रित कर्मफलं कार्यं कर्म करोति यः । स संन्यासी चेत्येवमादौ च फलत्यागिषु संन्यासि"शब्दप्रयोगदर्शनात् तेषां सात्त्विकानां पापासम्भवात् ईश्वरार्पणेन च पुण्यफलस्य त्यक्तत्वात् त्रिविधमपि कर्मफलं न भवतीत्यर्थ इति वर्णयति तन्नोपादेयम् । संन्यासिशब्दस्य परमार्थसंन्यासिनि सर्वकर्मत्यागिनि मुख्यत्वात् कर्मणि च फलत्यागसाम्येन गौणत्वात् मुख्यार्थस्य चेहाबाधात्तस्यैव संन्यासिशब्देन ग्रहणसम्भवे गौणग्रहणस्य "गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः, इति शब्दमर्यादाऽपरिज्ञानविजृम्भित्वात् सत्यां कारणसामग्र्यां कार्योत्पाद इत्यर्थमर्यादाऽज्ञानमूलकत्वाच्च ईश्वरार्पणेन त्यक्तकर्मफलस्यापि सत्त्वशुद्ध्यर्थं नित्यानि कर्माणि अनुष्ठितोऽन्तराले मृतस्य प्रागर्जितकर्मरूपकारणसामग्र्या त्रिविधशरीररूपकार्योत्पाद आवश्यक एवेति दिक् (तत्रैव भाष्यो०) । मुग्धः, मुग्ध अर्द्धेन सुषुप्त्यवस्थामापन्नः अर्द्धनावस्थान्तरदशामापन्नः । यथा अत्रोच्यते न ब्रूमो मुग्धेऽर्थे सम्पत्तिर्जीवस्य ब्रह्मणा भवतीति । किं तर्ह्यर्धेन सुषुप्तपक्षस्य भवति मुग्धत्वमर्धेनावस्थान्तरपक्षस्येति ब्रूमः । दर्शिते च मोहस्य स्वापेन साम्यवैषम्ये । द्वारं चैतन्मरणस्य । यदास्य सावशेषं कर्म भवति, तदा वाङ्मनसे प्रत्यागच्छतः । यदा तु निरवशेषं कर्म भवति तदा प्राणोष्माणावपगच्छतः । तस्मादर्धसम्पत्तिं ब्रह्मविद् इच्छन्ति (ब्र० सू० ३।२।१० श० भा० ) । यथा च - अस्ति मुग्धो नाम यं मूर्च्छित इति लौकिकाः कथयन्ति (तत्रैव) । मुनिः, मुनि १. (क) योगी, मननशीलः । यथा- एतमेव आत्मानं विदित्वा यथाप्रकाशितं मुनिर्भवति । मनमान् मुनिः योगी भवतीत्यर्थः (बृ० उ० ४।४।२२ शा० भा० ) । यथा च - मुनयः संन्यासिनो मननशीला: (गी० १४।१ )।यथा च - मुनिशब्दस्य चतुर्थाश्रमविषयत्वे तन्मात्रादेव ज्ञानायोगात् कुतस्तेषां मुक्तिरित्याशङ्क्याह - मननेति (तत्रैव आ० गि०) । यथा च - 'मुनयः संन्यासिनो' मननशीलाः (तत्रैव म० सू० ) । यथा च - मुनयो मननशीलाः (तत्रैव श्रीधरी) । (ख) स्थितधीः, संन्यासी । यथा - "वीतरागभयक्रोधः रागश्च भयं च क्रोधश्च वीता विगता रागभयक्रोधा यस्मात् स वीतरागभयक्रोधः स्थितधीः स्थितप्रज्ञो मुनिः संन्यासी तदोच्यते" (गी० २।५६ शा० भा० ) । यथा च - अनुभूताभिनिवेशे विषयेषु रञ्जनात्मकस्तृष्णाभेदो रागः, परेणापकृतस्य गात्रनेत्रादिविकारकारणं भयं, क्रोधस्तु परवशीकृत्यात्मानं स्वपरापकारप्रवृत्तिहेतुर्बुद्धिवृत्तिविशेषः । मनुत इति मुनिः (तत्रैव आ० गि० ) । यथा च - 'रागः शोभनाध्यासनिबन्धनो विषयेषु रञ्जनात्मकश्चित्तवृत्तिविशेषोऽत्यन्ताभिनिवेशरूपः, रागविषयस्य नाशके समुपस्थिते तन्निवारणासामर्थ्यमात्मनो मन्यमानस्य दैन्यात्मकश्चित्तवृत्तिविशेषो भयम् । एवं रागविषयविनाशके समुपस्थिते तन्निवारणसामर्थ्यमात्मनो मन्यमानस्याभिज्वलनात्मकश्चित्तवृत्तिविशेषः क्रोधः ते सर्वे विपर्ययरूपत्वाद् विगता यस्मात् स तथा एतादृशो मुनिर्मननशीलः संन्यासी स्थितप्रज्ञ उच्यते' (तत्रैव म० सू०) । (ग) ईश्वरार्पितकर्मफलः । यथा च - योगयुक्तो वैदिकेन कर्मयोगेनेश्वरसमर्पितरूपेण फलनिरपेक्षेण युक्तो मुनिर्मननादीश्वरस्वरूपस्य मुनिः (गी० ४।६ शा० भा० ) । मुमुक्षुत्वम्, मुमुक्षुत्व मोक्तुमिच्छतीति मुमुक्षुस्तस्य भावो मुमुक्षुत्वम् । यथा - मुमुक्षुत्वं मोक्षेच्छा । एवम्भूतः प्रमाता अधिकारी शान्तो दान्तः इत्यादिश्रुतेः । उक्तञ्च - प्रशान्तचित्ताय जितेन्द्रियाय प्रहीणदोषाय यथोक्तकारिणे । गुणान्वितायानुगताय सर्वदा प्रदेयमेतत् सततं मुमुक्षवे । (वे० सा० ८) । मुरा,रिः, मुरारि १. सच्चिदानन्दः । यथा - सत्यत्वादनृतासहं चित्त्वाज्जडरूपासहमद्वैतत्वाद्विभक्तरूपासहं सुखत्वाद् दुःखासहं सत्त्वात्तुच्छरूपासहमित्यादिवाक्यैः परिहृतद्वैतप्रपञ्चो मुरारिः (सं० शा० १ । २६६ सु० टी०) । २. विष्णुः । यथा - अत्र मुरारिः सत्त्वप्रधानमायाप्रतिविम्बितं चैतन्यं जगत्पालकं विष्वाख्यम् पदं पद्यते गम्यते...... इत्यर्थः । 'तुरुस्तुशम्यम: सार्वधातुके' इति स्तौतेरीडागमः । यद्वा, 'मुर संवेष्टने इति तौदादिकस्येगुपधकप्रत्ययान्तस्य रूपं मुरति संवेष्टते स्वस्वरूपमिति मुरोऽज्ञानं तन्निवृत्तिरूपत्वेन तद्विरोधिभूतं तत्पदलक्ष्यं बिम्बचैतन्यमेव मुरारिः । (सं० शा० १ । २६६ सु० टी० ) । मूर्च्छा, मूर्च्छा मुग्धावस्था । नेयं जागरितावस्था नापि स्वप्नावस्था नापि सुषुप्त्यवस्था । किन्तु अर्धसुषुप्त्यवस्था अर्द्धेन च अवस्थान्तरदशा । यथा - परिशेषादर्द्धसंपत्तिर्मुग्धतेत्यगच्छामः । ........ किं तर्ह्यर्द्धन सुषुप्तपक्षस्य भवति मुग्धत्वमर्द्धनावस्थान्तरपक्षस्येति ब्रूमः । द्वारं चैतन्मरणस्य यदास्य सावशेषं कर्म भवति तदा वाङ्मनसे प्रत्यागच्छतः। तस्मादर्द्धसम्पत्तिं ब्रह्मविद इच्छन्ति । (ब्र० सू० ३।२।१० शा० भा० ) मूलप्रकृतिः, मूलप्रकृति या मूलप्रकृतिरम्युपगम्यते तदेव च नो ब्रह्मेत्यविरोधः । (ब्र० सू० २।३।९ शा० भा०) मूलाविद्या, मूलाविद्या अविद्या द्विधा मूला तथा तूला । तत्र मूला अनादिर्नश्वरा च । यथा च- अयं जीवो न कूटस्थं विविनक्ति कदाचन । अनादिरविवेकोऽयं मूलाविद्येति गम्यताम् ॥ (प० द० ६।२५) विशेषज्ञानार्थम् अविद्याशब्दो द्रष्टव्यः । मृत्युः, मृत्यु १ . तमः, अज्ञानम् । यथा - "मृत्युर्वै तमः सर्वं ह्यज्ञानमावरणात्मकत्वात् तमः, तदेव च मरणहेतुत्वान्मृत्युः । (बृ० आ० उ० १ ।३।२८) २. ग्रहातिग्रहः । यथा - "ग्रहातिग्रहरूपं बन्धनयुक्तं मृत्युरूपम् । (बृ० आ० उ० ३ ।२।१२ शा० भा०) ३. अशनाया – यथा - अशितुमिच्छा अशनाया सैव मृत्योलर्क्षणं तया लक्षितेन मृत्युना अशनायया । ...... यो हि अशितुमिच्छति सोऽशनायानन्तरमेव हन्ति जन्तून् । तेनासावशनायया लक्ष्यते मृत्युरित्यशनाया हीत्याह । बुद्ध्यात्मनोऽशनाया धर्म इति स एष बुद्ध्यवस्थो हिरण्यगर्भो मृत्युरित्युच्यते । (ब्र० आ० उ० १ ।२।१ शा० भा०) मेघः, मेघ सामान्यमेघ एव किन्तु दक्षिणायने मृतस्य धूममार्गगामिन एकस्य मार्गस्य नाममेघ-इत्यपि । यथा – "तत्रेयमवरोहश्रुतिर्भवति – "अथैतमेवाध्वानं पुनर्निवर्तते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमोभूत्वाऽभ्रं भवति अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति' (छा० ५/१०/५) इति ।" (ब्र० सू० ३।१।२२ शा० भा० ) मेयः, मेय प्रमाणैर्ज्ञेयोऽर्थः । यथा - "परागर्थप्रमेयेषु या फलत्वेन सम्मता । संवित्सैवेह मेयोऽर्थो वेदान्तोक्तिप्रमाणतः ॥ (प० द० ८।११) विशेषज्ञानार्थं प्रमेयशब्दो द्रष्टव्यः । मैत्रः, मैत्र (क) सर्वत्र चराचरेषु मित्रभावसम्पन्नः स्नेहवानिति । यथा - 'मैत्रो मित्रभावो मैत्री मित्रतया वा वर्तत इत मैत्रः' (गी० १२/१३ शा० भा० ) । यथा च - मैत्रः मित्रमेव मैत्रो न तूदासीनः कदाचिदपि (तत्रैव नी० क० ) । यथा च मैत्र: मैत्री स्निग्धता तद्वान् । (तत्रैव म० सू०) । यथा च - "मैत्रः स्नेहवान्" (तत्रैव भाष्यो०) यथा च - "समेषु मित्रतया वर्तत इति मैत्रः" (तत्रैव श्रीधरी) । (ख) मैत्रसंज्ञको विशिष्टो ब्राह्मणः । यथा - तस्मात् तस्मिन्नग्नौ कर्म कृत्वा तत्फलं प्रार्थयन्त इत्येतदुपपन्नं ब्राह्मणे मनुष्येषु मनुष्याणां पुनर्मध्ये कर्मफलेच्छायां नाग्न्यादिनिमित्तक्रियापेक्षा । किं तर्हि जातिमात्रस्वरूपप्रतिलम्भेनैव पुरुषार्थसिद्धिः । यत्र तु देवाधीना पुरुषार्थसिद्धिः तत्रैवाग्र्यादिसम्बद्धा क्रियापेक्षा । स्मृतेश्च जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः कुर्यन्यन्न वा कुर्यान् मैत्रो ब्राह्मण उच्यते (मनु० २१८७) (बृ० आ० उप० १/४/१५ शा० भा० ) । मोक्षः, मोक्ष १. (क) ब्रह्मभावापन्नः । यथा - यथा च किंबहुनायं देहयात्रामात्रार्थ मिच्छानिच्छापरेच्छाप्रापितानि सुखदुःखलक्षणान्यारब्धफलान्यनुभवन्नन्तःकरणाभासादीनामवभासकः संस्तदवसाने प्रत्यगानन्दपरब्रह्मणि प्राणे लीने सत्यज्ञानतत्कार्यसंस्काराणामपि विनाशात् परमकैवल्यमानन्दैकरसमखिलभेदप्रतिभासरहितमखण्डं ब्रह्मावतिष्ठते (वे० सा०) । यथा च - निर्गुणब्रह्मसाक्षात्कारवतस्तु न लोकान्तरगमनम् । न तस्य प्राणा उत्कामन्ति ( बृ० उ० ४।४ । ६) इति श्रुतेः । किन्तु यावत् प्रारब्धकर्मक्षयं सुखदुःखे अनुभूय पश्चादपवृज्यते (वे० प० ८ प० ) । यथा - तत्र किं ज्योतिरेवायं पुरुष इत्यादिनाऽत्रायं पुरुषः स्वयंज्योतिरित्यन्तेनात्मनः सर्वव्यवहारसाक्षितया विशुद्धचैतन्यज्योतिः स्वरूपत्वमुपपाद्य ततः परेण ग्रन्थेनावस्थात्रयस्याऽऽगमापायित्वोक्तिपूर्वकं महामत्स्यनिदर्शनेनासङ्गत्वं चोपपाद्याऽत्मने नित्यशुद्धचिद्रूपत्वं प्रतिपादितं दृश्यते । अतो नात्र शङ्का कार्येत्यर्थः । मोक्षायेति ब्रह्मभावायेत्यर्थ: (सं० शा० ३।१४१ अ० टी०) । (ख) यथा च - ब्रह्मभावश्च मोक्षः । तस्मान्न संस्कार्योऽपि मोक्षः (ब्र० सू० १/१/४ शा० भा०) (ग) यथा - नापि संस्कार्यो मोक्षः येन व्यापारमपेक्षते । ....न तावद् गुणाधानेन सम्भवति, अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य । नापि दोषापनयनेन, नित्यशुद्धब्रह्मस्वरूपत्वान्मोक्षस्य, स्वात्मधर्म एव संस्तिरोभूतो मोक्षः क्रिययात्मनि संस्क्रियमाणेऽभिव्यज्यते (ब्र० सू० १/१/४ शा० भा० ) । यथा - कार्यमपूर्वं यागादिव्यापारजन्यं तमपेक्षते मोक्षः स्वोत्पत्ताविति । ....क्षणिकं ज्ञानमात्मेति बौद्धाः । तथा च विशुद्धज्ञानोत्पादो मोक्ष इति निर्वर्त्यो मोक्षः, अन्येषां तु संसाररूपावस्थामपहाय या कैवल्यावस्था वाप्तिरात्मनः स मोक्ष इति विकार्यो मोक्षः । ....तदेतयोः पक्षयोरनित्यता मोक्षस्य कार्यत्वात्, दधिघटादिवत् । ब्रह्मस्वभाव एव मोक्षोऽनाद्यविद्यामलावृत्त उपसनादिक्रिययात्मनि संस्क्रियमाणेऽभिव्यज्यते (तत्रैव भाम० ) । २. (क) अविद्यानाशः । यथा - बन्धननाश एव हि मोक्षः, न कार्यभूतः, बन्धनं चाविद्येत्यवोचाम (बृ० . उ० ३।३।१ शा० भा०) । (ख) भूतप्रकृतिमोक्षं च भूतानां प्रकृतिरविद्यालक्षणाऽव्यक्ताख्या तस्या भूतप्रकृतेर्मोक्षणमभावगमनं च ये विदुर्विजानन्ति यान्ति गच्छन्ति ते परं परमार्थतत्त्वं ब्रह्म न पुनर्देहमाददत्त इत्यर्थः (गी० १३३४ शा० भा० ) । यथा च भूतानां वियदादीनां प्रकृतिरुपादानं त्रिगुणात्मिका अविद्या तस्या विद्याया मोक्षं निरन्वयोच्छेदं च ये विदुस्त एव परं यान्ति न तु क्षेत्रक्षेत्रज्ञयोरन्तरमात्रविद् इत्यर्थः (तत्रैव नी० क०) । यथा च - भूतप्रकृतिमोक्षं च भूतानां सर्वेषां प्रकृतिरविद्या मायाख्या तस्याः परमार्थात्मविद्यया मोक्षमभावगमनं च ये विदुर्जानन्ति ते परं परमार्थात्मवस्तुस्वरूपं कैवल्यं न पुनर्देहमाददत इत्यर्थः (तत्रैव० म० सू० ) । यथा च- भूतानां प्रकृतिस्तस्याः सकाशान्मोक्षं मोक्षोपायं ध्यानादिकं च ये विदुस्ते परं पदं यान्ति (तत्रैव श्रीधरी) । (ग) यथा च - तस्मादविद्याकामकर्मोपादानहेतुनिवृत्तौ स्वात्मन्यवस्थानं मोक्ष इति । स्वयं चात्मा ब्रह्म तद्विज्ञानात् अविद्यानिवृत्तिः मोक्ष इति । मोक्षो हि भावरूपः (तै० उ० शि० अनु० १ शा० भा० ) । ३.ब्रह्मरूपाविर्भावःस्वस्वरूपावगतिरिति । यथा - ततोऽविद्यानिवृत्त्या ब्रह्मरूपाविर्भावो मोक्षः, न तु विद्याकार्यस्तज्जनितापूर्वकार्यो वेति सूत्रार्थ: (ब्र० सू० १।१।४ भाम० ) । ४. अविद्याकल्पितसंसारित्वनिवर्तनम् । यथा- अतोऽविद्याकल्पितसंसारित्वनिवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणात् न मोक्षस्यानित्यत्वदोषः । यस्य तूत्पाद्यो मोक्षस्तस्य मानसं वाचिकं कायिकं वा कार्यमपेक्षत इति युक्तम् । तथा विकार्यत्वे च तयोः पक्षयोर्मोक्षस्य ध्रुवमनित्यत्वम् । न हि दध्यादि विकार्यमुत्पाद्यं वा घटादि नित्यं दृष्टं लोके (ब्र० सू० १ ।१।४ शा० भा०) । ५. स्वर्गः प्रकरणानुरोधात् क्वचित् क्वचिद् यथा - तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमिव उर्ध्वं विमुक्ता: (बृ० उप० ४।४।८ शा० भा०) । ब्रह्मविद्याफलं मोक्षं स्वर्गलोकम् । स्वर्गलोकशब्दस्त्रिविष्टपवाच्यपि सन्निह प्रकरणान् मोक्षाभिधायकः (तत्रैव शा० भा०) । ६. आत्मनः शरीरेन्द्रियरहितस्यापि मनसा सर्वकामभुजः अवस्था इति आचार्यबादरिमतम् । यथा - मनसैतान् कामान् पश्यन् रमते (छा० ८।१२।५) । य एते ब्रह्मलोके (छा० ८।१३।१) । इति मनसा शरीरेन्द्रियैश्च विहरेन् मनसेति विशेषणं न स्यात् । तस्मादभावः शरीरेन्द्रियाणां मोक्षे (ब्र० सू० ४।४।१० शा० भा०) ।७. मोक्षः आत्मन एकावस्था । यस्यामवस्थायामात्मा स्वेच्छया सङ्कल्पबलेन सशरीरः अशरीरोऽपि भवितुमर्हति इति आचार्यजैमिनिमतम् । यथा - जैमिनिस्त्वाचार्यो मनोवच्छरीरस्यापि सेन्द्रियस्य भावं मुक्तं प्रति मन्यते । यतः स एकधा भवति त्रिधा भवति (छा० उ० ८।१२।५) (इत्यादिनाऽनेकधा विकल्पमामनन्ति । नहि अनेकविधता विना शरीरभेदेनाञ्जसी स्यात् । यद्यपि निर्गुणायां भूमविद्यायामयमनेकधाभावविकल्पः पठ्यते तथापि विद्यमानमेवेदं सगुणावस्थायामैश्वर्यं भूमविद्यास्तुतये संकीर्त्यत इत्यतः सगुणविद्याफलभावेनोपतिष्ठत इति (ब्र० सू० ४।४।११ शा० भा०) ।बादरणाचार्यः सकल्पानुसारं सशरीरताम् अशरीरतां च मनुते । यथा- बादरायणः पुनराचार्योऽत एवोभयलिङ्गश्रुतिदर्शनादुभयविधत्वं साधु मन्यते (ब्र० सू० ४।४।१२ शा० भा०) । देहोच्छेदो मोक्ष इति चार्वाकाः । माध्यमिकशून्यवादिबौद्धमते सर्वं शून्यमिति सिद्धान्ते मोक्षोऽपि शून्यो मिथ्यैव । विज्ञानवादियोगाचारबौद्धमते प्रवृतिविज्ञानमालयविज्ञानं च द्वयम् । तत्रालयविज्ञानधारारूप एव मोक्षः । वैभाषिकसौत्रान्तिकबौद्धयोर्मतेऽप्येवमेव । स्वर्गविशेष एव मोक्ष इति पूर्वमीमांसकाः । आत्यन्तिकदुःखोच्छेदो मोक्षः इति न्यायवैशेषिकाः । उर्द्ध्वलोकप्राप्तिरिति आर्हताः (उमास्वाती-तत्त्वार्थसूत्रे) । विशिष्टाद्वैतवादिनां द्वैतवादिनां च वेदान्तिनां सालोक्यादिसशरीरता मुक्तिः (ब्र० सू० ४/४/१३-२१ शा० भा० ) । अपरञ्च शोकनिवृत्तिः- यथा- आनन्दात्मकब्रह्मावाप्तिश्च मोक्षः । शोकनिवृत्तिश्च । ब्रह्मवेद ब्रह्मैव भवति (मु० ३।२।९) । तरति शोकमात्मवित् ( छा० १ ।१।३) । इत्यादिश्रुतेः । न तु लोकान्तरावाप्तिः तज्जन्यवैषयिकानन्दो वा मोक्षः । तस्य कृतकत्वेनानित्यत्वे मुक्तस्य पुनरावृत्त्यापत्तेः । ननु त्वन्मतेऽप्यानन्दावाप्तेरनर्थनिवृत्तेश्च सादित्वे तुल्यो दोषः, अनादित्वे मोक्षमुद्दिश्य श्रवणादौ प्रवृत्त्यनुपपत्तिरिति, नः सिद्धस्यैव ब्रह्मस्वरूपस्य मोक्षस्यासिद्धत्वभ्रमेण तत्साधने प्रवृत्त्युपपत्तेः (वे० प० ८ प० ) । १. निःश्रेयसम् । मिथ्यादर्शनादीनां बन्धहेतूनां निरोधेऽभिनवकर्माभावान्निर्जराहेतुसंनिधानेनार्जितस्य कर्मणो निरसनादात्यन्तिककर्ममोक्षणं मोक्षः (सर्व० सं० पृ० ८० आई०) इत्यार्हताः । आत्मोच्छेदो मोक्षः (सर्व० सं० पृ० २४७ अक्ष०) इति केचित् । स्वातन्त्र्यं मोक्ष: (सर्व० सं० पृ० २४९ अक्षपा०) इत्यन्ये । अविद्यास्तमयो मोक्षः (सर्व० सं० पृ० ४०२ शां० ) । इत्यपरे । २. मोचनम् । यथा नीविमोक्षो हि मोक्षः (सा० द०) । इत्यादौ इत्यालंकारिका आहुः । ३. मरणम् (हेम०) । (न्यायकोश:) मोक्षभेदः, मोक्षभेद शाङ्करमते मोक्षस्त्रिधा विभज्यते- क्रममुक्तिः, जीवन्मुक्तिः विदेहमुक्तिश्च । यथा - तत्र कानिचिद् उपासनान्यभ्युदयार्थानि कानिचित् क्रममुक्त्यर्थानि, कानिचित् कर्मसमृद्ध्यर्थानि (ब्र० सू० १/१/११ शा० भा०) । अत्र वेदान्तकल्पतरौ अभ्युदयार्थानि प्रतीकोपासनानि, क्रममुक्त्यर्थानि दहराद्युपासनानि कर्मसमृद्ध्यर्थानि उद्गीथादिध्यानानि । अत्रत्यरत्नप्रभायां च नामब्रह्म इत्याद्युपास्तीनां कामचारादिरभ्युदयः फलम्, दहरादुपास्तीनां क्रममुक्तिः फलम्, उद्गीथादिध्यानस्य कर्मसमृद्धिः फलम् । क्रममुक्तौ न विवादः । जीवन्मुक्तौ चत्वारि मतानि - अविद्याया आवरणशक्तेर्नाशेऽपि प्रारब्धकर्मवशाद् विक्षेपशक्तेर्लेश एव देहाद्यनुवृत्तिप्रयोजकः । क्षालितलशुनभाण्डगन्धवद् अविद्यावासनालेशः । दग्धपटन्यायेनानुवृत्ता मूलाविद्यैव । सर्वज्ञात्ममुनिमते तु अविद्यालेशाभावाद् जीवन्मुक्तिर्नास्त्येव । जीवन्मुक्तिप्रतिपादकं शास्त्रमर्थवादमात्रम् । सगुणोपासकानां मते सालोक्यसामीप्यादयोः पञ्च मुक्तिभेदाः । अधिकं सि० ले० संग्रहे । मोक्षसाधनम्, मोक्षसाधन तत्त्वमस्यादिवाक्योत्थं केवलं ज्ञानम् । यथा- स च ज्ञानैकसाध्यः । तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय (श्वे० उ० ३।८) इति श्रुतेः अज्ञाननिवृत्तेर्ज्ञानैकसाध्यत्वनियमाच्च । तच्च ज्ञानं ब्रह्मात्मैक्यगोचरम् । अभयं वै जनक प्राप्तोऽसि (बृ० उ० ४।२।४) तदात्मानमेव वेदाहं ब्रह्मास्मि (बृ० उ० १ ।४।१०) । इति श्रुतेः । तत्त्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनम् इति नारदीयवचनाच्च । तच्च ज्ञानमपरोक्षम् । परोक्षत्वेऽपरोक्षभ्रमनिवर्तकत्वानुपपत्तेः । तच्चापरोक्षज्ञानं तत्त्वमस्यादिवाक्यादिति केचित् । मनननिदिध्यासनसंस्कृतान्त:करणादेवेत्यपरे (वे० प० ८ प०) । अत्र केचिदिति विवरणप्रस्थानानुयायिनः । अपरे भामतीप्रस्थानानुयायिनः । शब्दादेव अपरोक्षज्ञानमित्यत्र शास्त्रदृष्ट्या तूपदेशो वामदेववत् (ब्र० सू० १/१/३१) इति प्रमाणम् । मनननिदिध्यासनसंस्कृतं मन एव ब्रह्मसाक्षात्कारे करणमित्यत्र करणविशेषनिबन्धनमेव ज्ञानानां प्रत्यक्षत्वम्, न विषयविशेषनिबन्धनम् । तेन संवित्साक्षात्त्वे इन्द्रियजन्यत्वस्यैव प्रयोजकत्वमिति नियमः प्रमाणम् । अतः संस्कृतं मन एव ब्रह्मसाक्षात्कारे करणम् । ब्रह्मसाक्षात्कारे कर्म न कारणम् । कर्मणः फलम् आप्यं विकार्यमुत्पाद्यं भवति । एतच्च मोक्षे नास्ति । ज्ञानकर्मसमुच्चयोऽपि न कारणम् । अधिकं ज्ञानकर्मसमुच्चयशब्दे द्रष्टव्यम् । तथा मुक्तिसाधनशब्दे मनश्शब्दे च द्रष्टव्यम् । मोहः, मोह (क) भ्रमः । यथा - मोहस्तु विपरीतप्रत्ययप्रभवोऽविवेको भ्रमः । स च अविद्या सर्वस्यानर्थस्य प्रसवबीजम् (बृ० उप० ३।५।१ शा० भा०) । विशेषज्ञानार्थं भ्रमशब्दो द्रष्टव्यः । (ख) १. मिथ्या प्रतिपत्तिलक्षण: दोषः (वात्स्या ४।१।३) । यथा शरीरादावात्मभ्रमः (त० दी०) । तमोगुणप्रयोज्योऽन्तःकरणपरिणामविशेषः इति सांख्या आहुः । तत्स्वरूपं तु उपेक्षाविषयत्वम् । उपेक्षाविषयत्वं नाम मोहः (सर्व० सं० पृ० ३२६ सा०) संसारहेत्वविद्याप्रयोज्यान्तःकरणवृत्तिविशेषः इति मायावादिन आहुः । भ्रान्तिसाधनमज्ञानमिति मेदिनीकार आह । २. वेदान्तिनस्तु मूर्छा इत्याहुः । अत्राधिकं तु मूर्छनशब्द व्याख्याने द्रष्टव्यम् । ३. चित्तवैकल्यं मोह: (मिता० अ० २ श्लो० २१४) । ४. दुःखम् (शब्द० २०) । (न्यायकोशः) मोहशक्तिः, मोहशक्ति परमेश्वरस्य मायाशक्तिः । यथा - "माहेश्वरी तु माया या तस्या निर्माणशक्तिवत् । विद्यते मोहशक्तिश्च तं जीवं मोहयत्यसौ (प० द० ४।१२ ) । मौनम्, मौन मननशीलस्य मुनेः अवस्थाविशेषो भावः । यथा – "ज्ञानातिशयस्तु मौनम् (ब्र० सू० ३।४।२७ भाम० ) । यथा च - मुनिर्मननशीलो निदिध्यासकः (तत्रैव क० त० ) । यज्ञः, यज्ञ १. (क) पञ्चविधो महायज्ञस्तत्र ब्रह्मयज्ञस्य प्राधान्यम् । ब्रह्मयज्ञशब्दे ब्रह्मशब्दो वेदपरः । यथा - "यज्ञश्च श्रौतोऽग्निहोत्रादिः, स्मार्तश्च देवयज्ञादि: ' (गी० १६।१ शा० भा०) । यथा च - "यज्ञः श्रौतस्मार्तादि:" (तत्रैव नी० क० ) । यथा च – "यज्ञश्च श्रौतोऽग्निहोत्रदर्शपूर्णमासादिः, स्मार्तो देवयज्ञः, पितृयज्ञो, भूतयज्ञो, मनुष्ययज्ञ इति चतुर्विधः । ब्रह्मयज्ञस्य स्वाध्यायपदेन पृथगुक्तेः । एतत्रयं गृहस्थस्य । स्वाध्यायो ब्रह्मयज्ञः अदृष्टार्थमृग्वेदाद्यध्ययनरूपो यज्ञशब्देन पञ्चविधमहायज्ञोक्तिसम्भवेऽप्यसाधारण्येन ब्रह्मचारिधर्मत्वकथनार्थं पृथगुक्तिः (तत्रैव म० सू०) । यथा च यज्ञश्च श्रौतोऽग्निहोत्रादि: देवयज्ञ: स्मार्तश्च पितृयज्ञो भूतयज्ञो मनुष्ययज्ञश्चेति त्रिविधः । स्वाध्यायोऽदृष्टार्थे ऋग्वेदाद्यध्ययनं तदध्यापनं च ब्रह्मयज्ञः (तत्रैव भाष्यो०) । यथा च – "यज्ञो यथाधिकारं दर्शपूर्णमासादिः, स्वाध्यायो ब्रह्मयज्ञादिर्जपयज्ञः' (तत्रैव श्रीधरी) । (ख) परमेश्वरः विष्णुश्च । यथा - "यज्ञः परमेश्वरः" "यज्ञो वै विष्णुः इति श्रुतेः (गी० ३।९ म० सू०) । यथा च - "यज्ञोऽत्र" विष्णुः । यज्ञो वै विष्णुः इति श्रुते (तत्रैव श्रीधरी) । यथा च - "यज्ञार्थादीश्वरात् यज्ञो वै विष्णुः" इति श्रुतेः (तत्रैव भाष्यो०) (२. आत्मा । यथा - यज्ञं यज्ञशब्दवाच्य आत्मा आत्मनामसु यज्ञशब्दस्य पाठात्तमात्मानं यज्ञं प्रक्षिपन्ति । सोऽयं सम्यग्दर्शनलक्षणो यज्ञो दैवयज्ञादिषु यज्ञेषूपक्षिप्यते ब्रह्मार्पणमित्यादिश्लोकैः "श्रेयान् द्रव्ममयाद्यज्ञाज्ज्ञानयज्ञः परंतप इत्यादिस्तुत्यर्थम्" (गी० ४।२५ शा० भा० ) । यथा च - देवा इन्द्राग्न्यादय इज्यन्ते येन स दैवस्तमेव यज्ञं दर्शपूर्णमासज्योतिष्टोमादिरूपमपरे योगिनः कर्मिणः पर्युपासते । सदा कुर्वन्ति न ज्ञानयज्ञम् । एवं कर्मयज्ञमुक्त्वाऽन्तःकरणशुद्धिद्वारेण तत्फलभूतं ज्ञानयज्ञमाह - ब्रह्माग्नौ सत्यज्ञानानन्तानन्दरूपं निरस्तसमस्तविशेषं ब्रह्म तत्पदार्थस्तस्मिन्नग्नौ यज्ञं प्रत्यगात्मानं त्वंपदार्थयज्ञेनैव । यज्ञशब्दः आत्मनामसु यास्केन पठितः (गी० ४।२५ म० सू०) । यथा च - "दैवं देवताप्रधानमेव दर्शपूर्णमासादियज्ञं नान्यं एके योगिनः कर्मयोगिनः पर्युपासते, अपरे तु ब्रह्मैव सत्यज्ञानानन्तानन्दात्ममखण्डैकरसं वस्तु तदेव ज्ञातं सत्सर्वकर्मदग्धृत्वादग्निरिवाग्निब्रह्माग्निस् तत्र यज्ञं जीवम् । यज्ञशब्दस्यात्मानामसु पाठात् । सोपाधिं ज्ञानेनैवात्मनैव निरुपाधिकेन रूपेण जुह्वति घटाकाशमिव महाकाशे उपाधिप्रहाणेन प्रविलापयन्ति सोऽयं ज्ञानयज्ञो मुख्यः । ३. विष्णु । यज्ञो ह वै विष्णुः इति श्रुतिः । इति वैष्णवाः । यज्ञशिष्टाशी, यज्ञशिष्टाशिन् यो यज्ञशिष्टमन्नमश्नाति स यज्ञशिष्टाशी । यथा - ये पुनर्देवयज्ञादीन्निर्वर्त्य तच्छिष्टमशनममृताख्यमशितुं शीलं येषां ते यज्ञशिष्टाशिनः (गी० ३/१३ शा० भा० ) । यथा च ये तु यज्ञशिष्टाशिनो वैश्वदेवादिशेषान्नभोजनशीलाः सन्तः ऋणापाकरणात् ते मुच्यन्ते सर्वकिल्विषैः प्रमादकृतैर्विहिताकरणनिमित्तैर्पञ्चसूनानिमित्तैर्वा (तत्रैव नी० क० ) । यथा च - "ये तु वैश्वदेवादियज्ञावशिष्टममृतमश्नन्ति ते सन्तः शिष्टाः वेदोक्तकारित्वेन देवर्णापाकरणात् । अतस्ते मुच्यन्ते" (तत्रैव म० सू०) । यथा च - ये पुनर्यज्ञान् - ब्रह्मयज्ञो देवयज्ञः पितृयज्ञस्तथैव च । भूतयज्ञो नृयज्ञश्च पञ्चयज्ञाः प्रकीर्तिताः ॥ अध्यापनमध्ययनं चाद्यः होमो द्वितीयः, तर्पणश्राद्धं तृतीयः, भूतेभ्यो बलिदानं चतुर्थः, अतिथिपूजनं पञ्चमः इत्युक्तान् कृत्वा तच्छिष्टममृतमशितुं शीलं येषां ते सन्तः सर्वपापैः कण्डणी पेषणी चुल्ली उदकुम्भी च मार्जनी । पञ्चसूना गृहस्थस्य सदा' इति स्मृत्युक्तैः पञ्चसूनाकृतैरन्यैश्च मुच्यन्ते" (तत्रैव भाष्यो०) । यथार्थबुद्धिः, यथार्थबुद्धिः तद्वति तत्रकारकं ज्ञानम् । यथा घटे अयं घटः इति ज्ञानम् । इदं च लक्षणं स्मृत्यनुभवोभयसाधारणमपि भवति इति विज्ञेयम् । अत्र याथार्थ्यं च फलवप्रवृत्तिजननयोग्यत्वम् (त० कौ० १ पृ० ७) । तद्वति तदवगाहित्वं वा । सर्वांशे याथार्थ्यं तु स्वानधिकरणवृत्तिप्रकारतावच्छिन्ना या या विषयता तत्तदनिरूपकत्वम् (ग० २ हेत्वा० सामा०) (न्यायकोशः) । यथार्थवक्ता, यथार्थवक्तृ (आप्तः) प्रकृतवाक्यार्थविषयक यथार्थशाब्दबोधविषयकतात्पर्यवान् (वाक्य० ४ पृ० १९) । यथा आप्तवाक्यं प्रमाणशब्दः इत्यादौ सत्यवतीसुतव्यासो गौतमकणादौ च यथार्थवक्तारः । शाब्दबोधे याथार्थ्यं च तद्वति तत्प्रकारकनिश्चयत्वमेवेति ज्ञेयम् (न्यायकोशः) । यमाः, यम अहिंसादयः । एते अन्तःकरणवृत्तिरूपाः । यथा - अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमा एते निवृत्तिरूपाः । अत्रत्यनिवर्त्तकशास्त्रवेद्या यमाः (सं० शा० ८५ सु० टी०) । यथा च - निवर्त्तकशास्त्रवेद्या यमाः (सं० शा० अ० का० टी०) । यथा च - तत्र अहिंसास्ते ब्रह्मचर्यापरिग्रहाः यमा: (पा० यो० सू० २।३०)। यशः, यशस् धर्मजन्यकीर्तिः । यथा - "यशः धर्मनिमित्ता कीर्त्तिः (गी० १०/५ शा० भा० ) । यथा च -'यशो धर्मनिमित्ता लोकश्लाघारूपा प्रसिद्धिः (तत्रैव म० सू० ) । याज्ञवल्क्यः, याज्ञवल्क्य यज्ञस्य वल्को वक्ता यज्ञवल्कः तस्यापत्यं याज्ञवल्क्यो दैवारातिरित्यर्थः (बृ० उप० १।४।३) । युक्तः, युक्त परमेश्वरनिष्ठसर्वकर्मफलत्यागी । यथा – "यस्माच्च युक्त ईश्वराय कर्माणि करोमि न मम फलाय इत्येवं समाहितः सन् कर्मफलं त्यक्त्वा .... प्राप्नोति (गी० ५/१२ शा० भा० ) । यथा च - युक्तो ब्रह्मण्याधाय कर्माणीत्यादिनोक्तलक्षणः कर्मणां फलं त्यक्त्वा ईश्वरे समर्प्य शान्ति.... प्राप्नोति (तत्रैव नी० क० ) । यथा च - युक्तः ईश्वरायैवैतानि कर्माणि न मम फलायेत्येवमभिप्रायवान् (तत्रैव म० सू० ) । यथा च – युक्तः परमेश्वरैकनिष्ठः सन् कर्मणां फलं त्यक्त्वा.... कर्माणि कुर्वन्नात्यन्तिकीं शान्तिं मोक्षं प्राप्नोति (तत्रैव श्रीधरी) । योगः, योग १ . (क) आत्मनो योगैश्वर्यसर्वज्ञत्वादिशक्तिः यथा – "विस्तरेणात्मनो योगं योगैश्वर्यशक्तिविशेषम् (गी० १०/१८ शा० भा० ) । यथा च - आत्मनस्तव योगं सर्वज्ञत्वसर्वशक्तित्वादिलक्षणं योगैश्वर्यं विभूतिं च विस्तरेण पुनः कथय" (तत्रैव श्रीधरी) । (ख) चित्तैकाग्रतया आत्मसंवेद्यताप्राप्तिः । यथा च "अवगतानामिन्द्रियाद्युपसंहारेणैकाग्रतया स्वात्मसंवेद्यतापादनं योगः" (गी० १६/१ शा० भा० ) । यथा च - "योगो ज्ञातेऽर्थे चित्तप्रणिधानं तयोर्व्यवस्थितिः" (तत्रैव नी० क० ) । यथा च – "योगो मनोनाशवासनाक्षयानुकूल: पुरुषप्रयत्नस्ताभ्यां विशिष्टा संसारि विलक्षणावस्थितिर्जीवन्मुक्तिर्ज्ञानयोगव्यवस्थितिरित्येवं व्याख्यायते तदा फलीभूतं दैवी सम्पदियं द्रष्टव्या" (तत्रैव म० सू०) । यथा च - "योगस्तयोर्व्यवस्थितिः व्यवस्थानं तन्निष्ठता" (तत्रैव भाष्यो) । (ग) युक्तिः, घटनम् । यथा – "अतएवासङ्गित्वान्मम न च मत्स्थानि भूतानि ब्रह्मादीनि पश्य मे योगं युक्तिं घटनं मे ममेश्वरस्येदमैश्वरं योगमात्मनो याथास्यमित्यर्थ:" (गी० ९।५ शा० भा०) । यथा च - योगं युक्ति घटनां ममैश्वरं याथाल्यभावम् । तथा च श्रुतिः 'असङ्गो न सज्जते' इति (तत्रैव भाष्यो०) । (घ) ज्ञानम् । यथा - "योऽयं योगोऽध्यायद्वयेनोक्तो ज्ञाननिष्ठालक्षणः स संन्यासकर्मयोगोपायो यस्मिन् वेदार्थः परिसमाप्तः प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च, गीतासु च सर्वास्वयमेव योगो विवक्षितो भगवता" (गी० ४१ शा० भा०) । यथा च - रहस्यं हि यस्मादेतदुत्तमं योगो ज्ञानमित्यर्थः (तत्रैव ४ । ३ शा० भा०) । (ङ) चित्तविक्षेपाभावः । यथा - "संन्यासो हि योगः, चित्तगतविक्षेपाभावश्च योगः, तौ चास्य विद्येते फलत्यागात्, फलतृष्णारूपचित्तविक्षेपाभावाच्च" (तत्रैव ६।१ म० सू०) । (च) सम्यग्दर्शनोपायः । यथा - "योगेति । यदा पुनरयं सम्यग्दर्शनप्राप्त्युपायत्वेन योगेन युक्तो विशुद्धात्मा विशुद्धसत्त्वो विजितात्मा विजितदेहो जितेन्द्रियश्च सर्वभूतात्मभूतात्मा सर्वेषां ब्रह्मादीनां स्तम्बपर्यन्तानां भूतानामात्मभूत आत्मा प्रत्यक् चेतनो यस्य स सर्वभूतात्मभूतात्मा । सम्यग्दर्शीत्यर्थ:" (तत्रैव ५।७ शा० भा०) । यथा च - "तथा योगोऽप्यग्निहोत्रसन्ध्योपासनादिनिर्विकल्पसमाध्यन्तमनुष्ठानं तत्र मुख्ययोगाख्यलक्षणं योगश्चित्तवृत्तिनिरोधः" इति । वृत्तयश्च प्रमाणविपर्ययविकल्पनिद्रास्मृतयः इति पञ्च (तत्रैव ५।४ भाष्यो०) । (छ) ध्यानम् । यथा च - "ध्यानादिरूपो योगः" (ब्र० सू०. २।२.३७ क० त० परि०) । यथा च - "योगोऽप्योङ्कारादिध्यानधारणादिः" (तत्रैव भाम०) । (ज) सिद्धौ असिद्धौ च समत्वम् । यथा च - यदेतत् सिद्ध्यसिद्ध्योः समत्वम् इदमेव योगस्थ इत्यत्र योग शब्देनोच्यते न तु कर्मेति न कोऽपि विरोधः इत्यर्थः (गी० २।४८ म० सू०) । यथा च - "कोऽसौ योगो यत्रस्थः कुर्वित्युक्तमिदमेव तत् सिद्ध्यसिद्ध्योः समत्वं योग उच्यते" (तत्रैव शा० भा०) । (झ) परमार्थदर्शनम्, तथा (ञ) भगवदाराधनलक्षणसमत्वबुद्धिः । यथा - "योगसंन्यस्तकर्माणं परमार्थदर्शनलक्षणेन योगेन संन्यस्तानि कर्माणि येन परमार्थदर्शिना धर्माधर्माख्यानि तं योगसंन्यस्तकर्माणम्" (गी० ४।४ शा० भा०) । यथा च - "योगेन भगवदाराधनलक्षणसमत्वबुद्धिरूपेण संन्यस्तानि भगवति समर्पितानि कर्माणि येन । यद्वा परमार्थदर्शनलक्षणेन योगेन संन्यस्तानि त्यक्तानि कर्माणि येन तं योगसंन्यस्तकर्माणम्" (तत्रैव म० सू० ) । (ट) परब्रह्मणा सहैक्यदर्शने साधनं ब्रह्मनिष्ठत्वसाधनं वा । (ठ) सिद्ध्यसिद्ध्योः समभावः । यथा - "युज्यते परब्रह्मणानेनेति योग:" (गी० ३।३ भाष्यो०) । यथा च- "योगिनां सिद्ध्यसिद्धयोर्भूत्वा समत्वं योग उच्यते इत्युक्तलक्षणयोगवतां कर्मयोगेन सन्ध्योपासनादिनिर्विकल्पकसमाध्यनुष्ठानमिह कर्मयोगपदार्थः तेन योगिनो ब्रह्मनिष्ठां प्राप्नुवन्तीत्यर्थः ।.... तथा सर्वाणि कर्माणि परमगुरावर्पयञ्श्रवणमननात्मकं विचारमन्तरेणैव केवलं श्रद्धामात्राप्रतीचो निर्विशेषब्रह्मरूपत्वं गुरूवाक्यतो निश्चित्यासम्भवनादिदोषरहित आचार्यान्निर्गुणब्रह्मोपास्तिप्रकारमधिगम्य कर्मच्छिदेषु समाध्यभ्यासं कुर्वन्निष्कलं प्रत्यगात्मस्वरूपं साक्षात्करोति सोऽयं योगमार्गः (गी० ३।३ नी० क०) । यथा च - "एकं सांख्यं च योगं च यः पश्यति स पश्यति" । .....ज्ञानयोगेन ज्ञानमेव युज्यते ब्रह्मणानेनेति व्युत्पत्त्या योगस्तेन निष्ठा उक्ता । द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानञ्च राघव । योगो वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम् । असाध्यकस्य चिद्योगः कस्यचित्तत्वनिश्चयः । प्रकारौ द्वौ ततो देवो जगाद परमः शिवः । इति । चित्तदर्शनोपलक्षितस्य ब्रह्मसाक्षात्कारस्य द्वौ क्रमौ । चित्तादेर्मिथ्यात्वपक्षे ज्ञानमेव यथा रज्जूरगादिसम्यगवेक्षणेनैव नश्यति तद्वत्तस्य सत्यत्वपक्षे योग एव । यथा उरगो मन्त्रादिना निरुद्धप्रचारः स्वयमेव नश्यति तद्वत् चित्तमपि योगेन निरुध्यमानं नश्यति (तत्रैव म० सू०) । (ड) जीवपरमात्मनोरैक्यम् । यथा - "तदा योगं जीवपरमात्मैक्यलक्षणं तत्त्वमस्यादिवाक्यजन्यमखण्डसाक्षात्कारं सर्वयोगफलमवाप्स्यसि" (गी० २।५३ म० सू०) । यथा च - "श्रुतिभिर्नानाविधशास्त्रश्रवणैविप्रतिपन्ना आत्मा नित्योऽनित्यो वा, नित्योऽपि कर्त्ताऽकर्त्ता वा, कर्त्ताप्येकोऽनेको वेत्येवमादिसंशयग्रस्तासती यदा असम्भावनाविपरीतभावनानिरासपूर्वकं श्रुतितात्पर्य विषयीभूते ब्रह्माद्वैते निश्चला पुनः कुतर्कैरनास्कन्दनीया निर्विचिकित्सा परोक्षनिश्चयवती भूत्वा समाधौ निर्विकल्पके प्रत्यगात्मनि अचला लयविक्षेपशून्या स्थास्यति स्थिरा भविष्यति तदा योगं विवेकप्रज्ञां प्राप्स्यसि" (तत्रैव नी० क०) । (द) शास्त्रार्थविषये सन्देहविपर्ययरहिता वृत्तिः (तै० उ० ब्र० व० अनु० ४ शा० भा०) (शङ्करानन्दीपदार्थबोधिन्याम्) । (ण) समाधानम् । यथा - "योगो युक्तिः समाधानम्" (तै० उ० ब्र० व० २ अनु० ५ शा० भा०) । (त) उपात्तस्योपादनं योगः (गी० २।४५) । (थ) अप्राप्तस्य प्राप्तिर्योगः (गी० २।४५ नी० क० ) । १. सम्बन्धः । २. (क) समुदायशब्दस्य अवयवशक्तिः (त० दी० ४) (नील० ४) (सि० च० ४।३१) । यथा पाचकादिपदेषु योगः । अत्र च पाचकादिपदात् पचतीति व्युत्पत्त्या पापकर्त्ता बुद्ध्यत इति बोध्यम् । अत्र योगबलं समाख्या इति मीमांसका वदन्ति (वाच०) । (ख) वैयाकरणास्तु शास्त्रकल्पितावयवार्थमात्रबोधप्रयोजको योगः (शक्तिः) । यथा पाचकादौ इत्याहुः (ल० म० आकांक्षादिवि० पृ० १२) । ३. (क) चित्तवृत्तिनिरोधः इति योगिन आहुः (पात० पा० १ सू० २) । (ख) क्लेशकर्मविपाकाशयपरिपन्थिचित्तवृत्तिनिरोधो योगः (सर्व० सं० १३२ पात०) । अत्रेदं बोध्यम् । विषयेष्वलं प्रत्ययवत उदासीनस्य बहिरिन्द्रियेभ्यो॒ो व्यावृत्तं मनो यदा आत्ममात्रनिष्ठं भवति तदा तत्कर्मानुगुणं प्रयत्नाभावात्कर्म मनसि नोत्पद्यते स्थिरतरं मनो भवति स एव योगः (वै० उ० ५।२।१६) । अथ आत्मस्थे मनसि षडङ्गयोगेन इन्द्रियादिकं परित्यज्य यदा आत्ममात्रे तिष्ठति तदा मनः कर्मणोऽनुत्पादः तदा मनो निश्चलं भवति । तदवस्थायां शरीरावच्छेदेन दुःखं न जायते । स आत्मना बाह्यव्यावृत्तमनसः संयोगो योग उच्यते । षडङ्गानि स्कन्दपुराणे उक्तानि यथा - आसनं, प्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् (वै० सू० ५/२।१६) (वै० वि०) इति । यद्वा इन्द्रियाणि विषयेभ्यः प्रत्याहृत्येन्द्रियेभ्यो मनः प्रत्याहृत्य साक्षात्कर्तव्ये वस्तुनि मनः प्रणिधानं योगः (नील०) इति । स च योगो द्विविधः राजयोगो हठयोगश्च । तत्र राजयोगः पतञ्जलिनोक्तः । हठयोगस्तु तन्त्रशास्त्रोक्तः । प्राकारान्तरेणापि योगो द्विविधः सम्प्रज्ञातः असम्प्रज्ञातश्चेति । तथा योगस्त्रिविधः ज्ञानयोगः कर्मयोगः भक्तियोगश्च ।(भाग० ११।२०।६) इति । इदं च बोध्यम् । षष्ठो भगवदवतारो दत्तात्रेयः । सच आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् (भाग० १/३ । १२ ) । तेन च स्वसंहितायां योगोऽनुशिष्टः इति । ४. उपायः । ५. युक्तिः । ६. जीवात्मपरमात्मनोः सम्बन्धः इति केचिद्वेदान्तिन आहुः । तदुक्तं- योगं संयोगमित्याहुर्जीवात्मपरमात्मनोः इति (वाच०) । ७. देवतानुसन्धानं योगः इति रामानुजीयाः नारदपञ्चरात्रविदः आहुः (सर्व० पृ० ११७ रामा०) ।८. अप्राप्तस्यार्थप्राप्तये पर्यनुयोगो योगः। यथा योगाचारः इत्यादौ इति बौद्धा आहुः । ९. शब्दादीनां प्रयोगः इति वैयाकरणा आहुः । १०. भेषजमिति भिषज आहुः । ११. कामुककामिनीसम्मेलनं योगः इत्यलङ्कारिका वदन्ति । १२. चित्रद्वारेणात्मेश्वरसम्बन्धो योगः (सर्व० सं० पृ० १६९ नकुली०) (न्या० को०) । योगक्षेमः, योगक्षेम अप्राप्तस्य प्राप्तिः योगः । प्राप्तस्य संरक्षणं क्षेमः । यथा - योगक्षेमं वहाम्यहम् (गी० ९।२२ ) । अत्र शाङ्करभाष्यम्- योगक्षमं योगोऽप्राप्तस्य प्रापणं क्षेमस्तद् रक्षणम् । योगमाया, योगमाया १ गुणानां घटनम् । २. भगवतः सङ्कल्पानुविधायिनी । ३. भगवत्सङ्कल्पवशवर्त्तिनी । यथा - "योगमायासमावृत्तः योगो गुणानां युक्तिर्घटनं सैव माया योगमाया तया योगमायया समावृतः संच्छन्न इत्यर्थ: (गी० ७।२५ शा० भा०) । यथा च – योगो मम सङ्कल्पस्तद्वशवर्तिनी माया योगमाया तयाऽयं मद्भक्तो जनो मां स्वरूपेण न जानाति सङ्कल्पानुविधायिन्या मायया सम्यगावृतः ।" (तत्रैव म० सू०) । यथा च - योगो गुणानां युक्तिर्घटनं सैव माया तया । यद्वा योगो भगवतश्चित्तसमाधिस्तत्कृता माया । भगवत्सङ्कल्पवशवर्तिनीति यावत् (तत्रैव भाष्यो०)। योगयुक्तात्मा, योगयुक्तात्मन् योगद्वारा प्राप्तसमाधिः । यथा- "योगयुक्तात्मा योगेन समाहितचित्तः" (गी० ६।२९ नी० क० ) । यथा च - योगेनाभ्यस्यमानेन युक्तात्मा समाहितचित्तः । (तत्रैव श्रीधरी) यथा च - योगयुक्तात्मा समाहितान्तःकरणः (तत्रैव शा० भा० ) । योगाग्निः, योगाग्नि असम्प्रज्ञातलक्षणयोगरूपाग्निः । यथा - तानि चापर आत्मसंयमयोगाग्नावात्मनि संयम आत्मसंयमः । स एव योगाग्निस्तस्मिन्नात्मसंयमयोगाग्नौ जुह्वति प्रक्षिपन्ति ज्ञानदीपिते स्नेहेनेव प्रदीपिते विवेकज्ञानेनोज्वलभावमापादिते प्रविलापयन्तीत्यर्थः (गी० ४।२७ शा० भा० ) 1 यथा च - "आत्मसंयमयोगाग्नौ आत्मविषयकः संयमो धारणाध्यानसम्प्रज्ञातसमाधिरूपस्तत्परिपाके सति योगो निरोधसमाधिः । यं पतञ्जलिः सूत्रयामास" व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः (पा० यो० ३।९ ) इति । व्युत्थानं क्षिप्तमूढ़विक्षिप्ताख्यं भूमित्रयं तत्संस्काराः समाधिविरोधिनस्ते योगिना प्रयलेन प्रतिदिनं प्रतिक्षणं चाभिभूयन्ते तद्विरोधिनश्च निरोधसंस्काराः प्रादुर्भवन्ति । ततश्च निरोधमात्रक्षणेन चित्तान्वयो निरोधपरिणाम इति । तस्य फलमाह ततः प्रशान्तवाहितासंस्कारादिति । तमोरजसोःक्षयाल्लयविक्षेपशून्यत्वेन शुद्धसत्त्वस्वरूपं चित्तप्रशान्तमित्युच्यते । पूर्वपूर्वप्रशमसंस्कारपाटवेन तदाधिक्यं प्रशान्तवाहितेति । तत्कारणं च सूत्रयामास-विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः" इति । विरामो वृत्त्युपरमस्तस्य प्रत्ययः कारणं वृत्त्युपरमार्थः पुरुषप्रयत्नस्तस्याभ्यासः पौन पौन्येन सम्पादनं तत्पूर्वकस्तज्जन्योऽन्यः सम्प्रज्ञातविलक्षणोऽसम्प्रज्ञात इत्यर्थः । एतादृशो य आत्मसंयमयोगः स एवाग्निस्तस्मिन् ज्ञानदीपिते ज्ञानं वेदान्तवाक्यजन्यो ब्रह्मात्म्यैकसाक्षात्कारस्तेनाविद्यातत्कार्यनाशद्वारा दीपिते अत्यन्तोज्ज्वलिते बाधपूर्वके समाधौ समष्टिलिङ्गशरीरमपरे जुह्वति प्रविलापयन्तीत्यर्थः (गी० ४।२७ म० सू०) । योगाचार:, योगाचार (बौद्धाः) क्षणिकविज्ञानवादी बौद्धविशेषः । गुरुक्तभावनाचतुष्टयं बाह्यार्थस्य शून्यत्वं चाङ्गीकृत्यान्तरस्य शून्यत्वं चाङ्गीकृतं कथमिति पर्यनुयोगस्य करणात्केषांचिद्योगाचारप्रथा (सर्व० सं० पृ० ३० बौ०) । योगाचारमतं तु बौद्धशब्दव्यानावसरे (पृ० ६०९) । संक्षेपतः सम्पादितम् (न्यायकोशः) । विशेषज्ञानार्थं बौद्धशब्दो द्रष्टव्यः । योगारूढः, योगारूढ परमवैराग्ययुक्तः । यथा - "योगी परमहंसपरिव्राजकः परवैराग्ययुक्तो योगारूढ उच्यते" (गी० ६।८ म० सू०) । यथा च - "समानि लोष्ठादीनि यस्य स य ईदृशो योगी स युक्तः यथार्थयोगयुक्तः योगारूढ उच्यत इत्यर्थः (तत्रैव भाष्यो०) । योगी, योगिन् १. ममत्वरहितः ईश्वरायैव यः कर्म करोति । यथा - "कायेन देहेन मनसा बुद्ध्या च कैवलै र्ममत्ववर्जितैरपीश्वरायैव कर्म करोमि न मम फलायेति ममत्वबुद्धिशून्यैरिन्द्रियैरपि केवलशब्दः कायादिभिरपि प्रत्येकं सम्बध्यते सर्वव्यापारेषु ममतावर्जनाय योगिनः कर्मिणः कर्म कुर्वन्ति सङ्गं त्यक्त्वा...." (गी० ५/११ शा० भा०) ।२. ईश्वराराधनपरः । यथा च – "योगिनामेवेश्वराराधनलक्षणयोगवताम्" (गी० ६।४२ भाष्यो०) । ३. ध्यायी तथा कर्मी । यथा - "योगिन इति योगिनः कर्मिणश्चोच्यन्ते" (गी० ८।२३ शा० भा० ) । यथा च - "योगिनो ध्यायिनः कर्मिणश्च"। (तत्रैव)। ४. परमेश्वरे समाहितान्तःकरणः । यथा - "योगिनामपि सर्वेषां रुद्रादित्यादिध्यानपराणां मध्ये मद्गतेन मयि वासुदेवे समाहितेनान्तरात्मान्तःकरणेन श्रद्धावान् श्रद्दधानः सन्भजते सेवते" (गी० ६।४७ शा० भा० ) । यथा च "योगिनां वसुरूद्रादित्यादिक्षुद्रदेवताभक्तानाम्" (तत्रैव म० सू०) । यथा च - "योगिनां यमनियमादिपराणां मध्ये मद्भक्तः श्रेष्ठ इति" (तत्रैव श्रीधरी) । यथा च – "तत्र ज्ञानयोगेन ज्ञानमेव योगस्तेन सांख्यानामात्मविषयविवेकज्ञानवतां ब्रह्मचर्याश्रमादेव कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां परमहंसपरिव्राजकानां ब्रह्मण्येवावस्थितानां निष्ठा प्रोक्ता, कर्मयोगेन कर्मैव योगस्तेन योगेन योगिनां कर्मिणां निष्ठा प्रोक्तेत्यर्थ:" (गी० ३।३ शा० भा० ) । यथा च - "सांख्यभूमिकामारुरुक्षूणां त्वन्त:करणशुद्धिद्वारा तदारोहार्थं तदुपायभूतकर्मयोगाधिकारिणां योगिनां कर्मयोगेन निष्ठोक्ता 'धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते' इत्यादिना" (गी० ३।३ शा० भा० ) । श्रीधरी टीकायां च । यथा च- "संख्या सम्यगात्मबुद्धिस्तां प्राप्तवतां ब्रह्मचर्यादेव कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां ज्ञानभूमिमारूढ़ानां शुद्धान्तःकरणानां सांख्यानां ज्ञानयोगेन ज्ञानमेव युज्यते ब्रह्मणानेनेति व्युत्पत्त्या योगस्तेन निष्ठोक्ता 'तानि सर्वाणि संयम्य युक्त आसीत् मत्परः इत्यादिना" (गी० ३।३ शा० भा० म० सू० टी०) । ५. ऐश्वर्यसम्पन्नः । यथा- योगो नामैश्वर्यं तदस्यास्तीति योगी । हे योगिन्" (गी० १०/१७ आ० गि०) । यथा च - "योग ऐश्वर्यं तद्वत् हे योगिन्" (तत्रैव नी० क०) । यथा च - "योगो निरतिशयैश्वर्यादिशक्तिः सोऽस्यास्तीति हे योगिन्निरतिशयैश्वर्यादिशक्तिशालिन्" (तत्रैव म० सू०) । योग्यता, योग्यता यत्र वाक्ये तात्पर्यविषयीभूतस्य संसर्गस्य बाधो न भवेत् । यथा योग्यता च तात्पर्यविषयीभूतसंसर्गाबाधः । वह्निना सिञ्चतीत्यादौ तादृशसंसर्गबाधान्न योग्यता । स प्रजापतिरात्मनो वपामुदखिदत इत्यादावपि तात्पर्यविषयीभूतपशुप्राशस्त्याबाधाद् योग्यता । तत्वमस्यादिवाक्येष्वपि वाच्याभेदबाधेऽपि लक्ष्यस्वरूपाभेदे बाधाभावाद् योग्यता (वे० प० ४ प०) । यथा च - कार्यविशेषजनने सामर्थ्यम् । तच्च१. (क) एकपदार्थे अपरपदार्थप्रकृतसंसर्गवत्त्वम् (न्या० म० ४ पृ० २२) । इयं योग्यता च ज्ञाता सती शाब्दबोधप्रयोजिका शब्दयोग्यता इति व्यवह्नियते । इयं योग्यता अयोग्यवाग्निरासिका च भवति । अत एव वह्निना सिञ्चतीत्यादिवाक्यान्नान्वयबोधः प्रमात्मको भवति । योग्यताविरहात् (त० कौ०) (त० सौ०) । (ख) इतरपदार्थसंसर्गे अपरपदार्थनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकधर्मशून्यत्वम् । (ग) बाधकप्रमाणाभावः । (घ) बाधकप्रमाविरहः । स चेतरपदार्थसंसर्गे अपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वाभाव: (चि० ४) । (ङ) अबाधितार्थकत्वम् (ग० अव०) । (च) अर्थाबाधः (त० सं० ४) २. (क) प्रतियोगितद्व्याप्येतरयावत्तदुपलम्भकसमवहितत्वम् (मू० म० १) । न्यायमते योग्यानुपलब्धिरभावप्रत्यक्षे इन्द्रियस्य सहकारिणी । न तु भट्टमते इव प्रमाणान्तरम् । तथा च इयं योग्यता प्रतियोग्युपलम्भाभावात्मकानुपलब्धिनिष्ठा अनुपलब्धियोग्यता इति व्यवहियते । (ख) प्रतियोगिसत्त्वापादनापादितोपलम्भप्रतियोगिकत्वम् (तत्रैव नील० १ पृ० १८ ) । यथा यद्यत्र घटः स्यात्तर्छुपलभ्येत इत्यापादयितुं शक्यते । तत्र घटाभावादेः प्रत्यक्षं भवति । अन्धकारे तु नापादयितुं शक्यते । तेन घटाभावादेरन्धकारे न चाक्षुषप्रत्यक्षम् । स्पार्शनप्रत्यक्षं तु भवत्येव । आलोकसंयोगं विनापि स्पार्शनप्रत्यक्षमापादयितुं शक्यत्वात्.... । गुरुत्वपिशाचादिकपदयोस् तदभावस्तु न योग्यः । प्रत्यक्षाभावात् । तत्र गुरुत्वादिप्रत्यक्षस्यापादयितुमशक्यत्वात् । अतः गुरुत्वपिशाचाद्यभावानां जलपरमाणौ पृथिवीत्वाद्यभावस्य च न प्रत्यक्षमिति (मु० १ पृ० १२४-१२६) । अत्र योग्यानुपलब्धौ योग्यता च योग्यप्रतियोगिप्रकारकयोग्याधिकरणविशेष्यकोलम्भप्रतियोगिकत्वमिति निर्वचनमपि चिन्तामणिकृन्मते सम्भवति (राम० १ पृ० १२३) । ३. जात्यवच्छिन्नप्रतियोगिताकत्वजात्यतिरिक्तयोग्यधर्मावच्छिन्नप्रतियोगिताकत्व एतदन्यतरत् (दि० १।३ पृ० १२६-१२७) ।४. अनुमित्सानन्तरं लिङ्गदर्शनादिक्रमेण यावता कालेनोत्सर्गतः परामर्शोत्पत्तिः जायते तावानेव कालः । अनुमित्सोत्पत्त्यधिकरणक्षणमारम्भक्रमेण पक्षविषयकलिङ्गज्ञानव्याप्तिस्मरणयोरुत्पत्तौ सत्यामुत्सर्गतो यावता कालेन परामर्शोत्पत्तिः अनुमित्सोत्पत्तिक्षणमारम्भ तत्क्षणपर्यन्तं यावन्तः क्षणाः यो वा तावन्मात्रक्षणावस्थायी स्थूलकालस्तत्समूह एव वेत्यर्थः । एवञ्च क्षणचतुष्टयं तदधिककालायोग्यानुपलब्धि: ( अनुपलब्धिः) । (क) प्रतियोगितद्व्याप्येतरप्रतियोग्युपलम्भकयावत्सामग्रीविशिष्टप्रतियोग्युपलम्भाभावः (कु० ३ टी०) । (ख) अभावप्रत्यक्षसामग्रीविशिष्टप्रतियोग्यनुपलब्धिः (त० प्र० १ ) । अत्र अनुपलब्धौ योग्यत्वविशेषणदानेन अन्धकारे न घटाभावप्रत्यक्षापत्तिः । तथा हि आलोकसंयोगाद्यसत्त्वदशायामत्र घटः स्यात् तर्छुपलभ्येत इत्यापादनासम्भवेन योग्यानुपलब्ध्यभावात् न तत्र घटाभावप्रत्यक्षम् (नील० पृ० १८) । इति । अत्र भट्टा आहुःअभावप्रत्यक्षे चेन्द्रियं न करणं किन्तु योग्यानुपलब्धिरेव (दि० १) । इति । अत्रेदं बोध्यम् – यस्य सत्त्वं यत्रानुपलब्धिविरोधि तस्याभावस्तत्र गृह्यते (चि० ४) । इति शिष्टमुदाहरणप्रयोजनादिकं च अनुपलब्धिशब्दव्याख्यानावसरे योग्यताशब्दव्याख्यानोपस्थाने च सम्पादितम् । तत्तत्र दृश्यम् । नच स्थायी स्थूलसमयश्च योग्यता इति पर्यवसितम् (ग० २ पक्ष० पृ० २८) । ५. साधकबाधकमानाभावः (चि० २ पक्ष० पृ० ३३) । इयं योग्यता त्वनुमितौ प्रयोजिका पक्षतात्मकसंशययोग्यता इत्युच्यते (न्यायकोशः) । योनिः, योनि १. कारणम् । यथा- महतः ऋग्वेदादेः .....सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म (ब्र० सू० १।१।३ शा० भा० ) । २. निमित्तकारणम् । यथा"ब्रह्मयोनित्वेति योनिशब्दो निमित्तार्थ:" (ब्र० सू० २।३ । १३) । यथा च – "प्रधानमेव त्वक्षरशब्दनिर्दिष्टं भूतयोनिः । यदा तु योजिशब्दो निमित्तवाची, तदा शारीरोऽपि भूतयोनिः स्यात्.... । एवं प्राप्तेऽभिधीयते .... योऽयमदृश्यत्वादिगुणको भूतयोनिः स परमेश्वर एव स्यान्नान्य इंति" (ब्र० सू०१/२/२१ शा० भा० ) । यथा च - "तस्मात् परमात्मविवर्ततया तद्योनिः, न तु परिणामतया" (तत्रैव भाम०) । ३. प्रमाणम् । यथा - "यद्यपि शास्त्रप्रमाणकं ब्रह्म (ब्र० सू० १।१।४ शा० भा०) ४. प्रजननाङ्गम् । ५. उत्पत्तिकारणम् । ६. उत्पत्तिस्थानम् । रजः, रजस् सांख्यदर्शनोक्तो गुणविशेषः । यथा - चलं च रजः (सां० का० १३) । प्रकृतिस्त्रिगुणात्मिका । सत्त्वं रजस्तम इति त्रयो गुणाः । रजश्चलनात्मकं कर्म । गुणः । कस्तर्हि रजस्तमोभ्यां सत्त्वस्य विशेषः । स्वच्छता । अस्वच्छे च रजस्तमसी (ब्र० सू० १/१/५ भाम०) । (क) जगत्कारणे या दुःखात्मता तद्रजः (सर्व० सं० पृ० ३२६ सां०) । (ख) जातसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् (याज्ञ० अ० १ । ३६२) (न्यायकोशः) । रतिः, रति इष्टार्थसंयोगजन्या क्रीडा । यथा - "रतिर्नाम इष्टार्थसंयोगजा क्रीडा । तत्प्रसङ्गिनंःइष्टवियोगान्मनस्याकुलीभावो अरतिरित्युच्यते (बृ०३०९।४।३ शा० भा० ) । रम्, रम् प्राणः । यथां – '"प्राणो वै रम् (बृ० उ० ५।१२।१) । किं पुनस्तद् रं प्राणो वै रम्, कुत इत्याह- प्राणे हि यस्माद् बलाश्रये सति सर्वाणि भूतानि रमन्तेऽतो रं प्राणः । सर्वभूताश्रयगुणमन्नं सर्वभूतरतिगुणञ्च प्राणः (तत्रैव शा० भा०) । रसः, रस १. (क) हिरण्यगर्भो विज्ञानात्मा वायोरन्तरिक्षस्य च प्रेरकः । अतस्तस्यैकं नाम रस इति । अत एव हिरण्यगर्भो वायोरन्तरिक्षस्य च कारणमप्युच्यते । यथा रसः कारणं हि हिरण्यगर्भो विज्ञानात्मा चेतन इति केचित् (बृ० उ० २ । ३ । ३शा० भा०) । (ख) ब्रह्म । यथा - "रसो वै सः" "रस ह्येवायं लब्ध्वानन्दी भवति" (तै० उ० २।७) । १. (गुणः) (क) रसनग्रहणो योऽर्थः सः (वै० उ० ३।१।१ प्रशस्त पृ० १२) अत्र अर्थशब्देन धर्मीभावभूत उच्यते । तेन रसत्वादौ रसाद्यभावे च नातिव्याप्तिः । स च बाह्यैकेन्द्रियग्राह्यः (वै० उ० ३।१।१ ) । रसनसहकारी च (प्रशस्त ०. पृ० १२) । लक्षणं तु रसत्वमेव । तच्च रसनग्राह्यगुणविभाजकधर्मवत्त्वम् (वाक्य० १ पृ० ७) (वै० उ० ७/१।६) । अत्र व्युत्पत्तिः रस्यते आस्वाद्यत इति रसः (कर्मणि प्रत्ययः) । (ख) रसनमात्रग्राह्यजातिमान् (त० कौ० १ पृ० ४) । अत्र रसनग्राह्यां रसादिगतां सत्तां जातिमादाय द्रव्यादावतिव्याप्तिवारणाय मात्र इति पदं दत्तम् । (ग) रसवृत्ति-गुणत्वसाक्षाद्व्याप्यजातिमान् (वै० उ० ७/१।६) । सा च जातिः रसत्वम् । रसः षड्विधः मधुरः अम्लः, लवणः, कटुः, कषायः, तिक्तश्च इति ।२. आलङ्कारिकास्तु विभावानुभावसञ्चारिव्यङ्ग्यो रत्यादिस्थायिभावकः शृङ्गारादिर्नवविधः रस इत्याहुः । वात्सल्याख्यं दशममपि रसं मुनीन्द्रादयोऽङ्गीचक्रुः (सा० द० परि० ३ श्लो० २४१ पृ० ६५) । ३. ब्रह्मण आनन्द: ज्ञानं वा रसः । यथा - रसो वै सः रस ह्येवायं लब्ध्वानन्दी भवति (तैति० उ० २।७) इत्यादाविति वेदान्तिन आहुः । अत्रालङ्कारिका आहुः । सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः । वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः । (ता० द० परि० ३ श्लो० ३३ पृ० १६) (न्यायकोशः) । रंहतिः, रंहति व्रजतिः । यथा- "रंहतिः = प्राप्नोति (ब्र० सू० ३।१।१ ) । तस्मादद्भिः परिवेष्टितो जीवो रंहति व्रजतीति गम्यते (तत्रैव शा० भा०) । यथा च परमात्मैव चोपाधिकल्पितावच्छेदको जीव इत्याख्यायते, तस्य च देहेन्द्रियादेरुपाधेः प्रादेशिकत्वान्न तत्र सन् देहान्तरं गन्तुमर्हति । तस्मात् सूक्ष्मदेहपरिष्वक्तो रंहतिकर्मोपस्थापितः प्रतिपक्तव्यः । प्राप्तव्यो यो देहस्तद्विषयाया भावनाया उत्पादनाया दीर्घीभावमात्रं जलूकयोपमीयते (तत्रैव भाम० ) । ननूदाहृताभ्यां प्रश्नप्रतिवचनाभ्यां केवलाभिरद्भिः सम्परिष्वक्तो रंहति प्राप्नोति अपशब्दश्रवणसामर्थ्यात् । तत्कथं सामान्येन प्रतिज्ञायते सर्वैरेव भूतसूक्ष्मैः सम्परिष्वक्तो रंहति इति । अत उत्तरं पठति (ब्र० सू० ३/१19 शा० भा० ) । यथा च "त्र्यात्मकत्वात् भूयस्त्वात् ( ब्र० सू० ३।१।२) । रागः, राग रतिः अभिलाषः । यथा - "इहामुत्रफलभोगविरागः। ....विषयभोगानामनित्यतया तेभ्यो नितरां विरतिरिहामुत्रार्थफलभोगविरागः (वे० सा०) । यथा च - "इहामुत्रफलभोगविरागस्य.... (वे० प० ८ प०) । (क) रागः । (ख) तृष्णा । (ग) अभिलाषः । (घ) अन्तःकरणगत उपरागः । यथा - रसशब्दो रागे प्रसिद्धः । स्वरसेन प्रवृत्तो रसिको रसज्ञ इत्यादिदर्शनात् । सोऽपि रसो रञ्जनरूपः सूक्ष्मोऽस्य यतेः परं परमार्थतत्त्वं ब्रह्मदृष्ट्वोपलभ्याहमेव तदिति वर्त्तमानस्य निवर्त्तते (गी० २।५९ शा० भा० ) । यथा च - "यो हि विषयप्रवणो न भवति तस्यात्यन्तिके तपसि क्लेशात्मके व्यवस्थितस्य विद्याहीनमनआदीन्द्रियाणि विषयेभ्यः सकाशाद्यद्यपि संह्रियन्ते, तथाऽपि रागोऽवशिष्यते, स च तत्त्वज्ञानादुच्छिद्यत इत्यर्थः । रसशब्दस्य माधुर्यादिषड्रसविषयत्वं निषेधति । .....रसिकः स्वेच्छावशवर्ती रसज्ञो विवक्षितापेक्षितज्ञातेत्यर्थः" (गी० २।५९ आ० गि०) । तथा च – "तथापि रसवर्जं रसो रागस्तवर्जं निवर्तन्ते (तत्रैव नी० क० ) । यथा च - "रसवर्जं रसस्तृष्णा तं वर्जयित्वा (तत्रैव म० सू०) । यथा च "किन्तु रसो रागोऽभिलाषस्तवर्जम् (तत्रैव श्रीधरी) । यथा च - "यद्यप्याहार्यैः रूपादिभिर्विषयैः सम्बन्धोऽस्य नास्ति तथापि तस्य विषया अन्तःकरणगतमुपरागलक्षणं रसं वर्जयित्वा निवर्तन्ते । अतः नासौ स्थितप्रज्ञः । रसं केचिदास्वाद्यं मधुरादिकमाहुः । योगिनस्तु परमेश्वरदर्शनादुपरागो भवति । अन्यस्य तु तपस्विनो नासौ निवर्तते (तत्रैव अभि० गुप्तः) इत्यद्वैतवेदान्तिनः । १. दोषः (क) आसक्तिलक्षणो दोषः । यथा तृष्णा (वात्स्या० ४।१।३) । (ख) पुनः पुनर्विषयानुरञ्जनेच्छा (प्रशस्त० २ पृ० ३३) । रागलक्षणं चोज्ज्वलमणिनोक्तम् । सुखमप्यधिकं चित्ते सुखत्वेनैव रज्यते । यतस्तु प्रणयोत्कर्षात्स राग इति कथ्यत इति (वाच०) । (ग) सुखाभिज्ञस्य सुखानुस्मृतिपूर्वकः सुखसाधनेषु तृष्णारूपो गर्धो रागः (सर्व० सं० पृ० ३६२ पात०) ।२. महारञ्जनादिवर्णविशेषः इति काव्यज्ञा आहुः । ३. गायकास्तु निषादादिस्वरयोनिकः स्वरविशेषः । यथा मालवभैरवादी राग इत्याहुः । तत्स्वरूपं च - यैस्तु चेतांसि रज्यन्ते जगत्त्रतयवर्तिनाम् । ते रागा इति कथ्यन्ते मुनिभिर्भरतादिभिः इति (वाच०) तेषां मतभेदेन भेदा यथा आदौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः । श्रीरागश्च ततः पश्चाद्वसन्तस्तदनन्तरम् । हिन्दोक्तश्चाथ कर्णाट एते रागाः षडेव तु ( संगीत दामो०) इति । भरतमते तुभैरवः कौशिकश्चैव हिन्दोलोदीपकस्तथा । श्रीरागो मेघरागश्च रागा षडिति कीर्तिताः । ( वाच०) इति । अत्र एकैकरागे रागिण्यः स्त्रियः षट् । रागिण्यो गीत्यङ्गानि (संगीतदा०) । एवं षट्सु रागेषु रागिणीभेदाश्च षट्त्रिंशद्रागिणीभेदाः क्रमशः कथिता मया । धानसी १. मालसी । २. चैव रामकीरी । ३. च सिम्बुडा । ४. आशपारी । ५. भैरवी । ६. च मालवस्य प्रिया इमाः । वेलावली १ पुरवी २ च कानडा ३. माधवी ४ तथा । कोज ५. केदारिका ६. चापि मल्लारदयिता इमाः ॥ गान्धारी १. सुभगा २. चैव गौरी । ३. कौमारिका ४ तथा । वेलोयारी ५. च वैरागी । ६. श्रीरागस्य प्रिया इमाः ॥ तुडी १ च पञ्चमी २. चैव ललिता ३. पठमञ्जरी । ४. गुर्जरी ५. च विभाषा ६. च वसन्तस्य प्रिया इमाः । मायूरी १ दीपिका २ चैव देशकारी ३ च पाहिड़ी ४. वराडी ५ सोरहाटी ६ च हिन्दोलस्य प्रिया इमाः । नाटिका १ चाथ भूपाली २ रामकेली ३. गडा ४. तथा । कामोदा ५. चाथ कल्याणी ६. कर्णाटस्य प्रिया इमाः (संगीतदा०) इति । एवं तत्तद्गानकालभेदाः तत्तत्पुत्रादयश्च तत्रैव दृश्याः (वाच०) (न्यायकोश:) विषयेष्वासक्ती रागः इति पातञ्जला: (पा० यो० २ । ३ ) । रायः, राय कर्मफलभोगः धनं च । यथा - "राये धनाय कर्मफलभोगायेत्यर्थ:" (ई० उ० १८ शा० भा०) । रूपम्, रूप सर्वाधिष्ठानकं येन सर्वं रूप्यते तद् ब्रह्म । यथा - "जगतो वास्तवं रूपमित्यर्थः । रूप्यते ह्यनेन सर्वं जगदिति सर्वाधिष्ठानत्वात् साक्षितया सर्वसाध कत्वाच्च, तदभावे हि निःस्वरूपमसाक्षिकं सन्न किञ्चित्सिध्येदित्यवश्याभ्युपेयं तदिति भावः (सं० शा० सु० टी० श्लो० १) । रुत्, रुत् वेदान्तवाक्यम् । यथा- रौति यथार्थं शब्दयति इति तद् वेदान्तवाक्यम् (ब्र० सू० १/१/३१ वे० क०) । रून्मुखाः, रून्मुख वेदान्तिनः । यथा - रुद् वेदान्तवाक्यं तत्र मुखं येषां ते (ब्र० सू० १/१/३१ वे० क० ) । रूपकम्, रूपक १ . मूर्तम् । २.शुक्लादिवर्णविशेषः । ३. आकारः ।४. साहित्यशास्त्रज्ञास्तु अभिनयप्रदर्शको दृश्यकाव्यविशेषः । ५. आलङ्कारिकास्तु अर्थालङ्कारविशेषः इत्याहुः । तल्लक्षणं तु रूपकं रूपितारोपाद्विषये निरपहये (सा० द० परि० १० । ६६९) इति । ६. गणकास्तु गुञ्जात्रयपरिणाम इत्याहुः । अत्रोच्यते- सञ्चाली प्रोच्यते गुञ्जा तास्तिस्रो रूपकं भवेत् (युक्ति क०) इति । ७. राजतो नाणकविशेष इत्याधुनिका व्यवहरन्ति (न्यायकोशः) । रूपस्कन्धः, रूपस्कन्ध सर्वेन्द्रियाणि । बौद्धाभिमतेषु पञ्चविधेषु रूपविज्ञानवेदनासंज्ञास्कन्धेषु अन्यतमः । यथा - "रूप्यन्ते एभिरिति रूप्यन्त इति च व्युत्पत्या सविषयाणि इन्द्रियाणि रूपस्कन्धः । यद्यपि रूप्यमाणाः पृथिव्यादयो बाह्याः, तथापि कायस्थत्वावा इन्द्रियसम्बन्धाद्वा भवन्याध्यात्मिका:" (ब्र० सू० २/२/१८ भाम० ) । लक्षणम्, लक्षण तत्र लक्षणं द्विविधम् - स्वरूपलक्षणं तटस्थलक्षणं चेति । तत्र स्वरूपमेव लक्षणं स्वरूपलक्षणम्, यथा सत्यादिकं ब्रह्मस्वरूपलक्षणम् । सत्यं ज्ञानमनन्तं ब्रह्म (तै० २- १ - १ )। "आनन्दो ब्रह्मेति व्यजानात्" (तै० ३।६) इति श्रुतेः । ननु स्वस्य स्ववृत्तित्त्वाभावे कथं लक्षणत्वमिति चेत्, न । स्वस्यैव स्वापेक्षया धर्मिधर्मभावकल्पनया लक्ष्यलक्षणत्वसम्भवात् । तदुक्तम् - आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्माः, अपृथक्त्वेऽपि चैतन्यात्पृथगिवावभासन्त इति । तटस्थलक्षणं तु यावल्लक्ष्यकालमनवस्थितत्त्वे सति यद्व्यावर्तकं तदेव यथा गन्धवत्त्वं पृथिवीलक्षणम् । महाप्रलये परमाणुषु उत्पत्तिकाले घटादिषु गन्धाभावात् । प्रकृते ब्रह्मणि च जगज्जन्मादिकारणत्वम् । अत्र जगत्पदेन कार्यजातं विवक्षितम् कारणत्वं च कर्तृत्वमतोऽविद्यादौ नातिव्याप्तिः । कर्तृत्वं च तत्तदुपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वम् । ईश्वरस्य तावदुपादानगीचरापरोक्षज्ञानसद्भावे च 'यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नामरूपमन्नं च जायते (मु० १ । १ ।९) । तादृशचिकीर्षासद्भावे 'सोऽकामयत बहु स्यां प्रज़ायेयम् (तै०२।६) । इत्यादिश्रुतिर्मानम् । तादृशकृतौ च तन्मनोऽकुरूत' इत्यादि वाक्यम् । ज्ञानेच्छाकृतीनां मध्येऽन्यतमगर्भलक्षणत्रितयमिदं विवक्षितम् । अन्यथा व्यर्थ विशेषणत्वापत्तेः । अत एव जन्म-स्थिति-ध्वंसानामन्यतमस्यैव लक्षणे प्रवेशः । एवञ्च प्रकृते लक्षणानि नव सम्पद्यन्ते । ब्रह्मणो जगज्जन्मादिकारणत्वे च - "यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति' (तै० ३।१ ) । इत्यादिश्रुतिर्मानम् । यद्वा - निखिलजगदुपादानत्वं ब्रह्मणो लक्षणम् । उपादानत्वं च जगदध्यासाधिष्ठानत्वं जगदाकारेण विपरिणममानमायाऽधिष्ठानत्वं वा । एतादृशमेवोपादानत्वमभिप्रेत्य 'इदं सर्वं यदयमात्मा' 'सच्च त्यच्चाभवत्' (तै० २।६) । 'बहु स्यां प्रजायेय' (तै० २।६) । इत्यादिश्रुतिषु ब्रह्मप्रपञ्चयोस्तादात्म्यव्यपदेशः । घटः सन् घटो भाति, घट इष्ट इत्यादिलौकिकव्यपदेशोऽपि सच्चिदानन्दरूपब्रह्मैक्याध्यासात् । नन्वानन्दात्मकं चिदध्यासात् घटादेरिष्टत्वव्यवहारे दुःखस्यापि तत्राध्यासात्तत्रापि इष्टत्वव्यवहारापत्तिरिति चेत्, न । आरोपे सति निमित्तानुसरणं, न तु निमित्तमस्तीत्यारोप इत्यभ्युपगमेन दुःखादौ सच्चिदंशाध्यासेऽप्यानन्दांशाध्यासाभावात् । जगति नामरूपांशद्वयव्यवहारस्तु अविद्यापरिणामात्मकनामरूपसम्बन्धात् । तदुक्तम्अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् । इति (वे० प० ७ प०) । १ (क) उद्दिष्टस्यातत्त्वव्यवच्छेदको धर्मः (वात्स्या० १।१ । ३) । यथा इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं..... प्रत्यक्षम् (वात्स्या० १।१४) इति प्रत्यक्षलक्षणम् । त्रिविधा शास्त्रस्य प्रवृत्तिः उद्देशो लक्षणं परीक्षा चेति । तत्र उद्देशानन्तरं लक्षणम् । ततः परीक्षा । लक्षणस्य प्रयोजनं च सर्वं हि लक्षणमितरपदार्थव्यवच्छेदकम् (न्या० वा० १/१/१४ पृ० ८२) । पदार्थतत्त्वज्ञानं लक्षणस्य प्रयोजनम् इति तर्कभाषायामुक्तम् (त० भा० पृ० १) । व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनमिति दीपिकायाम् (त० दी० पृ० ५) (सि० च०) । वेदान्तिनस्तु यो धर्मो लक्ष्ये व्याप्त्या वर्तते न वर्तते चान्यत्र स धर्मः । यथा गोः सास्नादिमत्त्वम् । तद्धि गोषु सर्वत्रास्ति नास्ति चागोषु इत्याहुः (प्र० प० पृ० १) । सजातीयविजातीयव्यावर्तको लक्ष्यगतः कश्चिल्लोकप्रसिद्धः आकारो लक्षणम् (जै० व्या० अ० १ पा० १ अधि० १ ) । इदं लक्षणं द्विविधम् स्वरूपलक्षणं तटस्थलक्षणञ्च इति । तदुक्तं स्वरूपं तटस्थं द्विविधं लक्षणं स्यात् स्वरूपे प्रविष्टं स्वरूपाद्विभिन्नमिति । तत्र स्वरूपलक्षणं यथा आकाशो बिलमिति । यथा - वेदान्तमते सच्चिदानन्दो ब्रह्म इति स्वरूपलक्षणम् । यथा मीमांसकमते चोदनालक्षणोऽर्थो धर्मः इत्यादौ चोदनावाच्यविधिवाक्यमेव धर्मस्वरूपज्ञापकमस्ति इति । तटस्थलक्षणं तु काकवत् देवदत्तगृहमिति । अत्रोदासीनोऽपि काक इदं देवदत्तगृहमिति बोधयति । यथा वा पृथिव्या गन्धो लक्षणम् । स हि तटस्थलक्षणमपि पृथिवीं परस्माद्भिन्नतयानुमापयति । तथा हि पृथिवी जलादिभ्यो भिद्यते गन्धवत्त्वात् यन्नैवं तन्नैवं यथा जलमिति । मायावादिमते तु जगज्जन्मादिकारणं ब्रह्म इति तटस्थलक्षणम् । लक्षणेन च पदार्थज्ञानं सुकरं भवति । तदुक्तम् ऋषयोऽपि पदार्थानां नान्तं यान्ति पृथक्त्वतः । लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः । इति । व्यावर्तकम् । तच्च द्विविधम् विशेषणम् उपलक्षणं च । तत्रोपलक्षणं यथा जटाभिस्तापस इत्यादौ तापसादेः कालान्तरीणजटादिकं लक्षणम् (ग० व्यु० का० ३ पृ० ९१ ) (न्यायकोशः) । अयं च "इत्थम्भूतलक्षणे" (पा० सू० २।३।२१) । इति पाणिनिसूत्रघटकलक्षणशब्दस्यार्थः । विशेषणं तु पताकावद् देवदत्तगृहमित्यादौ पताका । तथा हि सजातीयविजातीयव्यावकतया लक्ष्यावधारणं लक्षणस्य प्रयोजनम् (न्यायकोशः) । लक्षणा, लक्षणा पदानामर्थेषु वृत्तिः शक्तिर्वा लक्षणा । सा च न केवलं शक्यसाक्षात्सम्बन्धरूपा बोध्यपम्परासम्बन्धरूपा अपि लक्षणा । अद्वैतमते शक्यसम्बन्धरूपा एव लक्षणा न स्वीक्रियते । सा च पदे तथा वाक्येऽपि । यदि पदमात्रे एव लक्षणास्यात्तर्हि वायुर्वै क्षेपिष्टा देवतेत्यादि वाक्यानामानर्थक्यापत्तिः । उक्तं च - मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे। मुख्यार्थेनाविनाभूते प्रवृतिर्लक्षणोच्यते । अतो लक्षणा पदवृत्तिः वाक्यवृत्तिरपि । तेन गभीरायां नद्यां घोषः इत्यत्र पदद्वयसमुदायस्य तीरे लक्षणा । यत्र बोध्यसाक्षात्सम्बन्धेन अन्यार्थप्रतीतिस्तत्र केवला लक्षणा । यत्र बोध्यपरम्परासम्बन्धेनान्यार्थप्रतीतिस्तत्र लक्षितलक्षणा । यथा - "अथ लक्ष्यपदार्थो निरूप्यते । तत्र लक्षणाविषयो लक्ष्यः । लक्षणा च द्विविधा, केवललक्षणा लक्षितलक्षणा चेति । तत्र शक्यसाक्षात्सम्बन्धः केवललक्षणा, यथा - 'गङ्गायां घोष' इति अत्र प्रवाह-साक्षात्सम्बन्धिनि तीरे गङ्गापदस्य केवललक्षणा । यत्र शक्यपरम्परासम्बन्धेनार्थान्तर-प्रतीतिस्तत्र लक्षितलक्षणा । यथा द्विरेफंपदस्य रेफद्वये शक्तस्य भ्रमरपद-घटित-परम्परा-सम्बन्धेन मधुकरे वृत्तिः । गौण्यपि लक्षितलक्षणैव । यथा- सिंहो माणवक इति अत्र सिंह-शब्द-वाच्य-सम्बन्धि-क्रौर्य्यादिसम्बन्धेन माणवकस्य प्रतीतिः । प्रकारान्तरेण लक्षणा त्रिविधा- जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा चेति । तत्र शक्यार्थमनन्तर्भाव्यैव यत्रार्थान्तरप्रतीतिस्तत्र जहल्लक्षणा, यथा विषं भुङ्क्ष्वेति । अत्र स्वार्थं विहाय शत्रुगृहे भोजननिवृत्तिर्लक्ष्यते । यत्र शक्यार्थमन्तर्भाव्यैवार्थान्तरप्रतीतिस्तत्राजहल्लक्षणा, यथा शुक्लो घट इति । अत्र हि शुक्लशब्दः स्वार्थं शुक्लगुणमन्तर्भाव्यैव तद्वति द्रव्ये लक्षणया वर्तते । यत्र हि विशिष्टवाचकः शब्दः एकदेशं विहाय एकदेशे वर्तते तत्र जहदजहल्लक्षणा, यथा सोऽयं देवदत्त इति । अत्र हि पदद्वयवाच्ययोर्विशिष्टयोरैक्यानुपपत्त्या पदद्वयस्य विशेष्यमात्रपरत्वम् । यथा वा तत्त्वमसीत्यादौ तत्पदवाच्यस्य सर्वज्ञत्वादिविशिष्टस्य त्वंपदवाच्येनान्तःकरणविशिष्टेनैक्यायोगादैक्यसिद्ध्यर्थं स्वरूपे लक्षणेति साम्प्रदायिकाः । वयन्तु ब्रूमः- सोऽयं देवदत्तः, तत्त्वमसीत्यादौ विशिष्टवाचकपदानामेकदेशपरत्वेऽपि न लक्षणा, शक्त्युपस्थितयोर्विशिष्टयोरभेदान्वयानुपपत्तौ विशेष्ययोः शक्त्युपस्थितयोरेवाभेदान्वयाऽविरोधात् । यथा घटोऽनित्य इत्यत्र घटपदवाच्यैकदेशघटत्वस्यायोग्यत्वेऽपि योग्यघटव्यक्त्या सहानित्यत्वान्वयः । यत्र पदार्थैकदेशस्य विशेषणतयोपस्थितिः, तत्रैव स्वात्रन्त्र्येणोपस्थितये लक्षणाऽभ्युपगमः । यथा घटो नित्य इत्यत्र घटपदात् घटत्वस्य शक्त्या स्वातन्त्र्येणानुपस्थित्या तादृशोपस्थित्यर्थं घटपदस्य घटत्वे लक्षणा । एवमेव तत्त्वमसीत्यादिवाक्येऽपि न लक्षणा शक्त्या स्वातन्त्र्येणोपस्थितयोस्तत्त्वम्पदार्थयोरभेदान्वये बाधकाभावात् । अन्यथा गेहे घटो, घटे रूपं घटमानयेत्यादौ घटत्वगेहत्वादेरभिमतान्वयबोधायोग्यतया तत्रापि घटादिपदानां विशेष्यमात्रपरत्वं लक्षणयैव स्यात् । तस्मात्तत्त्वमसीत्यादिवाक्येषु आचार्याणां लक्षणोक्तिरभ्युपगमवादेन बोध्या । जहदजहल्लक्षणोदाहरणं तु काकेभ्यो दधि रक्ष्यतामित्याद्येव । तत्र शक्यकाकपरित्यागेनाशक्यदध्युपघातकत्वपुरस्कारेण काकेऽकाकेऽपि काकशब्दस्य प्रवृत्तेः । लक्षणावीजं तु तात्पर्य्यानुपपत्तिरेव न त्वन्वयानुपपत्तिः, काकेभ्यो दधि रक्ष्यतामित्यत्रान्वयानुपपत्तेरभावात् । गङ्गायां घोष इत्यादौ तात्पर्यानुपपत्तेरपि सम्भवात् । लक्षणा च न पदमात्रवृत्तिः, किन्तु वाक्यवृत्तिरपि । यथा गम्भीरायां नद्यां घोष इत्यत्र गम्भीरायां नद्यामिति पदद्वयसमुदायस्य तीरे लक्षणा । ननु वाक्यार्थस्याशक्यतया कथं शक्यसम्बन्धरूपा लक्षणा ? उच्यते । शक्त्या यत्पदसम्बन्धेन ज्ञाप्यते तत्सम्बन्धो लक्षणा, शक्तिज्ञाप्यश्च यथा पदार्थस्तथा वाक्यार्थोऽपीति न काचिदनुपपत्तिः । एवमर्थवादवाक्यानां प्रशंसारूपाणां प्राशस्त्ये लक्षणा । सोऽरोदीदित्यादिनिन्दार्थवाक्यानां निन्दितत्त्वे लक्षणा । अर्थवादगतपदानां प्राशस्त्यादिलक्षणाऽभ्युपगमे एकेन पदेन लक्षणया तदुपस्थितिसम्भवे पदान्तरवैयर्थ्यं स्यात् । एवञ्च विध्यपेक्षितप्राशस्त्यरूपपदार्थप्रत्यायकतया अर्थवादपदसमुदायस्य पदस्थानीयतया विधिवाक्येन एकवाक्यत्वं भवतीत्यर्थवादानां पदैकवाक्यता (वे० प० ४ १०) । यथा च - अपि च गौण्या वृत्तेर्लक्षणावृत्तिर्गरीयसी, लाघवात् । लक्षणया हि लक्षणीयपरत्वं पदस्य तस्यैव वाक्यार्थान्तर्भावात् । यथा गङ्गायां घोष इति लक्ष्यमाणस्य तीरस्य वाक्यार्थेऽन्तर्भावोऽधिकरणतया । गौर्वाहीक इत्यत्र तु गोसम्बन्धितिष्ठन्मूत्रपुरीषादिकारिलक्षणया न तत्परत्वं गोशब्दस्य । अपि तु तत्कक्षाध्यवसिततद्गुणयुक्तवाहीकपरत्वमिति गौण्या वृत्तेर्दुर्बलत्वं तदिदमुक्तं लक्षणायामपि त्विति । गौण्यपि वृत्तिर्लक्षणावयवत्वाल्लक्षणोक्ता (ब्र० सू० ३।३।९ भाम० ) । यथा च - वाच्यमर्थं विहाय यद् वस्तु लक्ष्यते तन्मात्रपरत्वलक्षणायाम् इत्यव्यवधानमुक्त्वा गौण्या लक्षणीयार्थद्वाराऽर्थान्तरे शब्दस्य वृत्तेर्व्यवधानमाह- गौर्वाहीक इति (तत्रैव वे० क०) । यथा च - इह लक्षणागौण्योः सन्निकर्षविप्रकर्षप्रदर्शनभाष्यब्याख्यानावसरे मुख्यार्थसादृश्यं लक्षयित्वा तद्द्वारेण तद्वत्यर्थान्तरे वृत्तिर्गौणीति लक्षितलक्षणारूपा सा टीकाकारैराचार्यैश्च वक्ष्यते (तत्रैव क० त० ५० ) । यथा च - सत्यमेवमेतत् । लक्षणायामपि तु सन्निकर्षविप्रकर्षौ भवत एव । अध्यासपक्षे ह्यर्थान्तरबुद्धिरर्थान्तरे निक्षिप्यत इति विप्रकृष्टा लक्षणा, विशेषणपक्षे त्ववयविवचनेन शब्देनावयवः समर्प्यत इति सन्निकृष्टा । समुदायेषु हि प्रवृत्ताः शब्दाः अवयवेष्वपि प्रवर्तमाना दृष्टाः पटग्रामादिषु (ब्र० सू० ३।३।९ शा० भा०) । (क) न्यायमते स्वशक्यसम्बन्धः (भा०प० श्लो० ८३) (त० दी० ख० ४) (न्या० बो० ४) (न्या० म० ४ पू० १०) (वाक्य०) । तदर्थस्तु स्वं लाक्षणिकं पदं गङ्गापदम् । तस्य शक्यः प्रवाहः । तत्सम्बन्धः संयोगः इति (त० प्र० ४ पृ० ३५) । (ख) प्राञ्चस्तु शक्यादशक्योपस्थितिर्लक्षणा इत्याहुः । (ग) अन्ये तु अशक्ये तात्पर्यविषयत्वं लक्षणा इत्याहुः (न्या० म० ४ पृ० १०) (त० प्र० ४ पृ० ३५) । (घ) मीमांसकास्तु प्रतिपाद्यसम्बन्धो लक्षणा । यथा छत्रिणो यान्तीत्यादावज्हल्लक्षणा । अत्र छत्रिन् इत्यस्य मतुबर्थकेन्प्रत्ययान्ततया पदसमूहरूपत्वेन तच्छक्त्या प्रसिद्ध्या शक्यसम्बन्धरूपलक्षणया न सम्भवति (न्यायकोशः) । लक्ष्यत्रैविध्यम्, लक्ष्यत्रैविध्य त्रिविधानि लक्ष्याणि यथा - "स्वरूपविशेषणोपलक्षणभेदास्त्रिविधम्" (सं० शा० १ ।५१४ सु० टी० ) । यथा च - "इहलोके व्यवहारभूमौ स्वलक्षणमनुष्यस्वरूपस्य . विशेषं विशेषणमुपलक्षणं कदाचित्कथञ्चित् सङ्गतिमात्रेण लक्षणमिति लक्ष्यस्य लक्षणमिति त्रिविधं प्रसिद्धमिति सम्बन्धः (तत्रैव १/५१५ अ० टी०) । यथा च - तत्र लक्षणाविषयो लक्ष्यः । लक्षणा च द्विविधा केवललक्षणा लक्षितलक्षणा चेति । शक्यसाक्षात्सम्बन्धः केवललक्षणा । यथा गङ्गायां घोष इति अत्र प्रवाहसाक्षात्सम्बन्धिनि तीरे गङ्गापदस्य केवललक्षणा । यत्र शक्यपरम्परासम्बन्धेनार्थान्तरप्रतीतिस्तत्र लक्षितलक्षणा । यथा द्विरेफपदस्य रेफद्वये शक्तस्य भ्रमरपदघटितपरम्परासम्बन्धेन मधुकरे वृत्तिः । गौण्यपि लक्षितलक्षणैव । यथा सिंहो माणवक इति । अत्र सिंहशब्दवाच्यसम्बन्धिक्रौर्यादिसम्बन्धेन माणवकस्य प्रतीतिः (वे० प० ४ प्र० ) । लिङ्गम्, लिङ्ग १ .त्रिविधशरीरेष्वन्यतमं लिङ्गशरीरम् । यथा - लिङ्ग्यतेऽनेन चैतन्यमिति लिङ्गं शरीरं तच्च नास्तीत्यतः स्वातन्त्र्यात्सर्वकारणम् (सं० शा० ३।१८१ सु० टी०) । यथा च - "लिङ्ग्यतेऽनेनेति लिङ्गं कार्यकारणसङ्घातस्तदस्य नास्ति" (सं० शा० ३/१८५ अ० टी० ) । २. हेतुः यथा - "लिङ्गानि तूपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादोपपत्त्याख्यानि (वे० सा०) (हेतुः) । (क) व्याप्तिबलेन यद्यस्य गमकमं तत् तस्य लिङ्गम् । यथा पर्वतो वह्निमान् धूभादित्यादौ धूमो वह्नेर्लिङ्गम् (प्र० प०) (त० भा० पृ० ९) । इदं लिङ्गं द्विविधम् - सल्लिङ्गम् असल्लिङ्गं च । २. सांख्यमते महत्तत्त्वादिकार्यजातं लिङ्गमुच्यते । अस्मिन्नर्थे. व्युत्पत्तिस्तु लियं लयं गच्छति प्रधान इति लिङ्गम् । पृषोदरादित्वात्साधुत्वम् । ३. लक्षणम् । यथा - युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् (गौ० १।१।१६) । इत्यादौ ज्ञानकारणाणुत्वं मनसो लिङ्गम् (गौ० वृ० १।१।१६) । इत्यादौ । ४. वैयाकरणास्तु शब्दसाधुताप्रयोजको धर्मः । स च प्राकृतगुणगतावस्थात्मको धर्मः । तद्विशेषश्च स्त्रीपुंनपुंसकत्वादि इत्याहुः (शब्दार्थ ० २० ) । तथा हि सर्वेषां त्रिगुणप्रकृतिकार्यतया शब्दानामपि तथात्वेन गुणगतविशेषाच्छब्देषु लिङ्गविशेषः इति कल्प्यते । ५. मीमांसकाश्च अर्थप्रकाशनसामर्थ्यं लिङ्गमित्याहुः । सामर्थ्यं द्विविधम् शब्दगतं सामर्थ्यम् अर्थगतं सामर्थ्यं च । ६. स्वरूपम् । यथा सप्तदशावयवो लिङ्गदेहः इत्यादौ सप्तदशसूक्ष्मदेहस्य लिङ्गमित्याहुः । अत्र सूत्रम् - सप्तदशैकं लिङ्गम् (सांख्य सू० अ० ३ सू० ९) । इति । तदर्थश्च सूक्ष्मशरीर-मप्याधाराधेयभावेन द्विविधं भवति । तत्र सप्तदश मिलित्वा लिङ्गशरीरम् । तच्च सर्गादौ समष्टिरूपमेकमेव भवतीत्यर्थः । एकादशेन्द्रियाणि पञ्चतन्मात्राणि बुद्धिश्च इति सप्तदश । अहङ्कारस्य बुद्धावेवान्तर्भावः (सांख्य भा० ३।९) इति । अत्रोक्तं वासनाभूतसूक्ष्मम् (तन्मात्रा) च कर्मविद्ये तथैव च । दशेन्द्रियं मनो बुद्धिरेतल्लिङ्गं विदुर्बुधाः (वासिष्ठे०) इति । कर्मात्मा पुरुषो योऽसौ बन्धमोक्षैः प्रयुज्यते । स सप्तदशकेनापि राशिना युज्यते च सः (म० भा० मोक्षधर्मे) (सांख्य० भा० ३।९) इति । अत्रेदं बोध्यम् । सांख्यमते लिङ्गशरीरस्यैव सुखदुःखकार्यकत्वम् । कुतः ? एकस्य लिङ्गदेहस्यैव सुखदुःखाख्यभोगात् । न तु स्थूलशरीरस्य । मृतशरीरे सुखदुःखाद्यभावस्य सर्वसंमतत्वात् (सांख्य० भा० अ० ३ सू० ८) । इति । (न्यायकोशः) । लिङ्गशरीरम्, लिङ्गशरीर इदं सूक्ष्मशरीरमप्युच्यते। अस्यार्थः लिङ्ग्यते ज्ञाप्यते प्रत्यगात्मसद्भाव एभिरिति लिङ्गानि, लिङ्गानि च तानि शरीराणि इति लिङ्गशरीराणि । यथा- पूर्वोत्तैरपञ्चीकृतैर्लिङ्गिशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्यन्तं स्थायि मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकप्राणादिपञ्चकसंयुक्तं जायते । तदुक्तम् - पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनमिश्रितम् । १ । इति । तच्च द्विविधं परमपरं च । तत्र परं हिरण्यगर्भलिङ्गशरीरम् । अपरमस्मदादिलिङ्गशरीरम् । तत्र हिरण्यगर्भलिङ्गशरीरं महत्तत्वम् । अस्मदादिलिङ्गशरीरम् अहङ्कार इत्याख्यायते (वे० प० ७ प०) । अत्रायं विवेकः स्थूलशरीरं भोगावच्छेदकम्, सूक्ष्मशरीरन्तु अनुभवविशेषात्मकभोगसाधनमिति वैषग्यम् । न हि स्थूलशरीरं विना सूक्ष्मशरीरमात्रेण भोगः सम्भवति । तदुक्तं पञ्चदश्यां चित्रदीपे स्थूलदेहं विना लिङ्गदेहो न क्वापि दृश्यते । यथा च तत्र परमेश्वरस्य पञ्चतन्मात्राद्युत्पत्तौ सप्तदशावयवोपेतलिङ्गशरीरोत्पत्तौ हिरण्यगर्भस्थूलशरीरोत्पत्तौ च साक्षात्कर्तृत्वम् (वे० प० ७ प० ) । यथा च सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरीराणि । अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धिमनसी कर्मेन्द्रियपञ्चकं वायुपञ्चकं चेति (वे० सा० ) । इदं सूक्ष्मशरीरं विज्ञानमयमनोमयप्राणमयकोशत्रययुतं भवति । पुनश्च समष्टिव्यष्टिभेदेन सूक्ष्मशरीरं द्विविधम् । यथा - एतौ सूत्रात्मतैजसौ तदानीं मनोवृत्तिभिः सूक्ष्मविषयाननुभवतः प्रविविक्तमुक्ततैजस इत्यादिश्रुतेः । अत्रापि समष्टिव्यष्ट्योस्तदुपहितसूत्रात्मतैजसयोर्वनवृक्षवत्तदवच्छिन्नाकाशवच्च जलाशयजलवत् तद्गतप्रतिबिम्बाकाशवच्चाभेदः । एवं सूक्ष्मशरीरोत्पत्तिः (वे० सा०) । साङ्ख्ययोगदर्शने तु अष्टादशावयवैर्युक्तं सूक्ष्मशरीरं लिङ्गशरीरं वोच्यते । यथा - पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् (सा० का० ४०) । अष्टादशावयवाः- महद् अहङ्कारः पञ्चज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनः पञ्च तन्मात्राणि ।अद्वैतवेदान्तिमते सप्तदशावयवाः । यथा - बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा घिया । शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते । (प० द० १ । २३ ) । यथा चलिङ्गदेहेन संयुक्तः । नित्यज्ञानादिमत्त्वेऽस्य सृष्टिरेव सदा भवेत् । हिरण्यगर्भ ईशोऽतो लिङ्गदेहेन संयुतः । उद्गीथब्राह्मणे तस्य माहात्यमतिविस्तृतम् । लिङ्गसत्त्वेऽपि जीवत्वं नास्य कर्माद्यभावतः । स्थूलदेहं विना लिङ्गदेहो न क्वापि दृश्यते । वैराजो देह ईशोऽतः सर्वतो मस्तकादिमान् (प० द० १/१११-११३)। लीला, लीला यदृच्छा, स्वभावश्च । यथा - "लीलाशब्दस्य क्रीडावाचितायामिदं दूषणम् । न क्रियामात्रवाचितायामनायाससाध्यक्रियालक्षकतायां वा (ब्र० सू० २ । १ । ३३ क० त० प०) । जीवभ्रान्त्या परं ब्रह्म जगद्बीजमजूघुषत् । वाचस्पतिः परेशस्य लीलासूत्रमलूलुपत् । प्रतिबिम्बगताः पश्यन् ऋजुवक्रादिविक्रियाः । एवं वाचस्पतेर्लीला लीलासूत्रीयसङ्गतिः । अस्वतन्त्रात्मतः क्लिष्टा प्रतिबिम्बेशवादिनाम् (ब्र० सू० २।१।३३ वे० क० त०) । यथा च - तस्मादुपपन्नं यदृच्छया वा स्वभावाद् वा लीलया वा जगत्सर्जनं भगवतो महेश्वरस्येति (तत्रैव २।१।३३ भाम०) । लोकः, लोक प्राणिनां भोगायतनम् । स च अनेकविधः । यथा - लोकशब्दश्च प्राणिनां भोगायतनेषु भाव्यते - मनुष्यलोकः पितृलोको देवलोकः (बृ० उ० १/५/१६) । तथा च ब्राह्मणम्- अहोरात्रेषु ते लोकेषु सज्जन्ते इत्यादि (ब्र० सू० ४।३।४ शा० भा०) । यथा च-- ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते भुज्यन्ते जन्मानि (ई० उ० ३ शा० भा०) । उर्ध्वलोकाः सप्त तथा अधोलोकाः सप्त भवन्ति । यथा - एवं तमोगुणयुक्तेभ्यः पञ्चीकृतभूतेभ्यो भूम्यन्तरिक्षस्वर्महर्जनस्तपःसत्यात्मकस्योर्ध्वलोकसप्तकस्य अतलवितलसुतलतलातलरसातलमहातलपातालाख्याधोलोकसप्तकस्य ब्रह्माण्डस्य जरायुजाण्डजस्वेदजोद्भिज्जाख्यचतुर्विधस्थूलशरीराणामुत्पत्तिः (वे० प० ७ प०) । यथा च- अष्टविधो दैवस्तैर्यग्योनयश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः (सा० का० ५३) । उर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः (सा० का० ५४) । दैवः अष्टविधः- ब्राह्मः प्राजापत्यः ऐन्द्रः पैत्रः गान्धर्वः याक्षः राक्षसः पैशाचः । इमे लोका अपि कथ्यन्ते । एषु भुवः स्वर्महर्जनतपःसत्यलोकाः सत्त्वगुणप्रधानाः, पातालादयोऽधो लोकास्तम प्रधानाः, मध्यलोकः पृथिवीलोको रजप्रधानः । वशी, वशिन् १. इन्द्रियजित् । २. जितचित्तो योगी । यथा - "वशी जितेन्द्रिय इत्यर्थ:" (गी० ५/१२ शा० भा० ) । यथा च - "जितेन्द्रियत्वं कायवशीकारस्याप्युपलक्षणम्" (तत्रैव आ० गि०) । यथा च - "वशी जितचित्तः समाधिस्थो योगी" (तत्रैव नी० क०) । यथा च - "यत्तु वशी विवेकवैराग्यसम्पन्नः" (तत्रैव भाष्यो०) । यथा च "वशी यतचित्तः (तत्रैव श्रीधरी) । वसुः, वसु सर्वव्यापकः सूर्यः । यथा - "वासयति सर्वानिति" (का० उ०५/२ शा० भा०) । वस्त्वाभासः, वस्त्वाभास वस्तुन इवाभासः । वस्तुन इव ज्ञानम् = "वस्तु द्रव्यं धर्मि तद्वत् अवभासत इति वस्त्वाभासम् । यथा - स एव देवदत्तो गौरो दीर्घ इति (मा० उ० गौ० का० ४।४५ शा० भा० ) । वाक्, वाच् १. तदधिष्ठातृदेवताधिष्ठितं वागिन्द्रियम् । यथा - ज्योतिरादिभिरग्न्याद्यभिमानिनीभिर्देवताभिरधिष्ठितं वागादिकरणजातम् । अग्नेश्चायं वाग्भावो मुखप्रवेशश्च देवतात्मनाऽधिष्ठातृत्वमङ्गीकृत्योच्यते (ब्र० सू० २।४।१४ शा० भा० ) । २. ब्रह्म । यथा - स उ एष ब्रह्मणस्पतिर्वाग् वै ब्रह्म (बृ० उ० १ ।३।२१) । शालिनि र्वाक् वै ब्रह्म (बृ० उ० ४।१।२) । यदि वै प्रजापतेः परमस्ति वागेव (श० प० ब्रा० ५ । १ ।३।३) । स यो वाचं ब्रह्मेत्युपास्ते (छा० उ० ७।२।२) । चत्वारि वाक् परिमिता पदानि तानि (ऋ०वे० १/१६४/१०) । ३. स्फोटः । यथा तस्मात् स्फोट एव शब्दः .....वर्णा एव तु शब्दः भगवानुपवर्षः (ब्र० सू० १ ।३।२८ शा० भा० ) । ४. प्रणवः उद्गीथश्च । यथा - उद्गीथः प्रणवो वा । उत्प्राणेन वाहीदं सर्वमुत्तब्धं वागेव गीथोच्च गीथा चेति स उद्गीथः (बृ० उ० १ । ३ । २२ ) । यथा- विश्वमिदं वाचम् (ऋ० वे० १ । १६४/२०) । वागू ब्रह्मैवैतत् (जै० उ० २ । १३ । २ ) । वाचा हीदं सर्वं मनुते ( शत० ब्रा० ३।६।२।२) । वाग् वै विराट् (तत्रैव ८।१।२।८) । वाग् वै सम्राट् परमं ब्रह्म (तत्रैव ३।५।१।३४) । सर्वमिदं गोरूपम् (ऐ० उप० ३।६।७) । वाच्येव विश्वं निबद्धम् (वा० प० १/११० स्वो० वृ०) । वाक्यम्, वाक्य पदसमूहो वाक्यम् (त० सं० ) । पदान्तरसमभिव्याहारो वाक्यम् (मी० प०) । समभिव्याहरश्च अव्यवधानेनोच्चारणम् । तत्र विधायकवाक्यं ब्राह्मणम् (वेदस्यैको भेदः) । वेदो द्विविधो मन्त्ररूपो ब्राह्मणरूपश्चेति । ब्राह्मणवाक्यं चानेकविधम्कर्मोत्पत्तिवाक्यं गुणवाक्यं फलवाक्यं फलाय गुणवाक्यं सगुणकर्मोत्पत्तिवाक्यमित्यादिभेदात् (मी०प० ) । यथा च आकाङ्क्षासन्निधियोग्यतावन्ति पदानि वाक्यमिति वाक्यविदः (त० प्र० १ परि०) । यथा च - पदसमूहः । वाक्यत्वं च विशिष्टार्थपरशब्दत्वम् (चि० ४) । वाक्यं द्विविधं प्रमाणवाक्यम् अप्रमाणवाक्यं चेति । तत्र प्रमाणवाक्यम् आकांक्षायोग्यतासन्निधिमतां पदानां समूहः । यथा गामानय इत्यादि (त० भा० ४) (त० सं०) (सा० द०) । समभिव्याहारो वाक्यमिति मीमांसका आहुः । तदर्थश्च साध्यत्वादिवाचकद्वितीयाद्यभावेऽपि वस्तुतः शेषशेषिवाचकपदयोः सहोच्चारणम् । यथा यस्य पर्णमयी जुहूर्भवति न पापं श्लोकं ....शृणोति (तै० सं० ३/५।७) इति । लिङ्गादिपदघटितं वाक्यं द्विविधम् - विधिः निषेधश्च । तत्र विधिः स्वर्गकामो यजेत इत्यादिवाक्यम् । निषेधस्तु न कलजं भक्षयेत् न सुरां पिबेत् इत्यादि वाक्यम् (लौ० भा०) । अप्रमाणवाक्यं तु आकाङ्क्षादिरहितवाक्यम् । यथा बहिना सिञ्चति हदो वह्निमान् इत्यादिवाक्यम् । अत्र वाक्यदोषाश्चत्वारः भ्रमः प्रमादः विप्रलिप्सा करणापाटवं चेति । प्रकारान्तरेण वाक्यं द्विविधम् - वैदिकं लौकिकं च । तत्र वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्यत् (अनाप्तोक्तम्) अप्रमाणम् (त० सं०) । तत्र वेदघटकं वाक्यं वैदिकम् (वाक्य० ४ पृ० २०) । तस्येश्वरोक्तत्वे प्रमाणमनुमानम् । तच्च वेदः पौरुषेयो वाक्यत्वाद्भारतादिवत् इति (त० दी० ४ पृ० ३२) (सि० च० ४ पृ० ३२) । प्रकारान्तरेणापि वाक्यं द्विविधम् महावाक्यम् अवान्तरवाक्यम् (खण्डवाक्यम्) चेति । (न्यायकोशः) । वाक्यप्रमाणम्, वाक्यप्रमाण यस्य वाक्यस्य तात्पर्यविषयीभूतसंसर्गो मानान्तरेण न बाध्यते तद्वाक्यं प्रमाणम् । वाक्यजन्यज्ञाने च आकाङ्क्षायोग्यताऽऽसत्तयस्तात्पर्यज्ञानं चेति चत्वारि कारणानि (वे० प० ३ प०) । वाक्यार्थः, वाक्यार्थ वाक्यजन्यं ज्ञानम् । स च अखण्डार्थः । तेन वेदान्तवाक्यानामखण्डार्थत्वम् । तत्र यथार्थसंसर्गो न प्रयोजकः । अनभिमतस्यापि संसर्गस्य बोधविषयत्वापत्तेः । अतस्तत्र वाक्यजन्यज्ञाने तात्पर्यविषयत्वमेव प्रयोजकम् । यथा - "ननु वाक्यजन्यज्ञानस्य पदार्थसंसर्गावगाहितया कथं निर्विकल्पकत्वम् उच्यते । वाक्यजन्यज्ञानविषयत्वे हि न पदार्थसंसर्गत्वं तन्त्रम्, अनभिमतसंसर्गस्यापि वाक्यजन्यज्ञानविषयत्वापत्तेः, किन्तु तात्पर्यविषयत्वम् । प्रकृते च 'सदेव सौम्येदमग्र आसीत्' - छा० ६-२-१इत्युपक्रम्य 'तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो' छा० ६-८-७ इत्युपसंहारेण विशुद्धे ब्रह्मणि वेदान्तानां तात्पर्यमवसितमिति कथं तात्पर्याविषयसंसर्गमवबोधयेत् । इदमेव तत्त्वमस्यादिवाक्यानामखण्डार्थत्वम्, यत् संसर्गानवगाहियथार्थज्ञानजनकत्वमिति । तदुक्तम्- संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् । उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥ प्रातिपदिकार्थमात्रपरत्वं वाऽखण्डार्थत्वमिति चतुर्थपादार्थः (वे० प० १ प०) । यथा च - अपर्यायशब्दानां संसर्गागोचरप्रमितिजनकत्वमखण्डार्थता ।... यद्वा अपर्यायशब्दानाम् एकप्रातिपदिकार्थमात्रपर्यवस्तायित्वमखण्डार्थता । नापि प्रमाणासम्भवः । तथाहि - सत्यज्ञानादिगीरेतत् संसर्गव्यतिरेकिणि । अर्थे प्रमाणं मानत्वान्नयनादिप्रमाणवत् । २० । सत्यादिवाक्यमेतत्पदार्थसंसर्गातिरिक्तेऽर्थे प्रमाणं प्रमाणत्वाच्चक्षुरादिवत् (त० प्र०) । यथा च तच्चाखण्डार्थं द्विविधम् एकपदनिष्ठम् अपरं वाक्यार्थनिष्ठम् ।.....अत्राहुः किमखण्डार्थत्वम् । अपर्यायशब्दानां संसर्गागोचरप्रमितिजनकत्वम् (अ० सि० २ प०) । यथा च – "यत्पूर्वमर्थैकत्त्वादेकं वाक्यमित्यत्र व्यक्तिपदार्थपक्षे संसर्गस्य पदार्थान्तर्गतत्वात् शुक्लो गौरिति कृष्णाश्वादिव्यवच्छेदमात्रं वाक्यार्थः । आकृतिपक्षे शुक्लत्वगोत्वयोः स्वरूपेणाभिहितयोरन्योन्यानुरञ्जनात्मकः संसर्गो वाक्यार्थमिति भट्टादिभिरुक्तम् । नैतज्ज्ञानकाण्डेऽभिमतं यतोऽद्वितीये वस्तुनि निष्प्रयोगिकभेदसंसर्गादिरसम्भवाद् वर्जितं तत्त्वमर्थयोरत्यन्ताभेदमेव वाक्यार्थं भाष्यकारादय इच्छन्तीत्यर्थः (सं० शा० १ ।१४६ सु० टी०) । वामनीः, वामनी वामः शोभनपुण्यफलस्वर्गादिभोग्यवस्तु तन्नयतीति वामनीः शुभपुण्यफलदाता परमेश्वरः । यथा - संयद्वामत्वादिगुणोपदेशश्च तस्मिन्नवकल्पते ।'एतं संयवाम इत्याचक्षत एतं हि सर्वाणि वामान्यभिसंयन्ति ।" एष उ एव वामनीरेष सर्वाणि वामानि नयति एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति - छा० ४/१५/२,३,४ - इति च (ब्र०सू० १ । २ । १३) अत्र भामती- वननीयानि सम्भजनीयानि शोभनीयानि पुण्यफलानि वामानि । संयान्ति संगच्छमानानि वामान्यनेनेति संयवामः परमात्मा । तत्कारणत्वात्पुण्यफलोत्पत्तिस्तेन पुण्यफलानि सङ्गच्छन्ते । स एव पुण्यफलानि वामानि नयति लोकमिति वामनीः । वामनीत्वम्, वामनीत्व फलप्रापकत्वम् । तच्च ब्रह्मण उपपद्यते । सर्वगन्धत्वसर्वरसत्ववद् वामनीत्वं ब्रह्मण उपाधिः । यथा च - "वामनीत्वादिलक्षणं ब्रह्म" (ब्र० सू० ३।२।१२ शा० भा० ) । यथा च - "तस्मान्निर्विशेषमेकरूपं चैतन्यैकरसं सद् ब्रह्म परमार्थतः, विशेषाश्च सर्वगन्धत्ववामनीत्वादय उपाधिवशादध्यस्ता इति सिद्धम्" (ब्र० सू० ३।२।१२ भाम०) । यथा च - संयद्वामत्वं फलोत्पादकमात्रं वामनीत्वं फलप्रापकत्वंमिति भेदः (ब्र० सू० २ ।३।१३ वे० क० त० ) । यथा च वन सम्भक्ताविति धातोरौणादिकप्रत्ययान्ततया निष्पन्नो वामशब्दः सम्भजनीयवाची शोभनेषु पुण्यफलेषु स्वर्गादिभोग्यवस्तुषु पर्यवस्यतीति भावः । निमित्तीकृत्येत्यपेक्षितो ऽध्याहारः, तदनध्याहारे परमेश्वरस्यैव फलभोक्तृत्वप्रतिपादकत्वापत्तेरिति भावः (ब्र० सू० २ । ३ । १३ क० त० प० ) । वायुः, वायु १. पञ्चमहाभूतेष्वन्यतमः । यथा - "वायवः प्राणापानव्यानोदानसमानाः । प्राणो नाम प्राग्गमनवान्नासाग्रस्थानवर्ती । अपानो नामार्वाग्गमनवान्पाय्वादिस्थानवर्ती । व्यानो नाम विष्वगूगमनवानखिलशरीरवर्ती । उदानो नाम कण्ठस्थानीय उर्ध्वगमनवानुत्क्रमणवायुः । समानो नाम शरीरमध्यगताशितपीतान्नादिसमीकरणकरः । केचित्तु नागकूर्मकृकलदेवदत्तधनञ्जयाख्याः पञ्चान्ये वायवः सन्तीति वदन्ति । तत्र नाग उद्गीरणकरः । कूर्म उन्मीलनकरः कृकलं क्षुत्करः । देवदत्तो जृम्भणकरः । धनञ्जयः पोषणकरः । एतेषां प्राणादिष्वन्तर्भावात्प्राणादयः (वे० सा० ) । यथा च तत आकाशादीनि पञ्चभूतानि अपञ्चीकृतभूतानि तन्मात्रपदप्रतिपाद्यानि उत्पद्यन्ते । तत्राकाशस्य शब्दो गुणः । वायोस्तु शब्दस्पर्शी (वे० प० ७ प०) । २. पवनस्तथा इतः प्रेत्य पुनरावर्तने वायुस्वरूपोपलब्धिरथवा वायुनामक एको मार्गविशेषः । यथा "अथैतमेवाध्वानं पुनर्निवर्तते यथैतमाकाशमाकाशाद् वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति" - छा० ५1१०1५इति" (ब्र० सू० ३ । १ । २२ शा० भा० ) । अत्र भामती - यद्यपि यथेतमाकाशमाकाशाद् वायुमित्यतो न तादाम्यं स्फुटमवगम्यते । तथापि वायुर्भूत्वेत्यादेः स्फुटतरं तादात्यावगमाद् यथैतमाकाशमित्येदपि तादात्म्य एवावतिष्ठते । न चान्यस्यान्यथाभावानुपपत्तिः । मनुष्यशरीरस्य नन्दिकेश्वरस्य देवदेहरूपपरिणामस्मरणाद् देवदेहस्य च नहुषस्य तिर्यक्त्वस्मरणात्। तस्मान्मुख्यार्थपरित्यागेन न गौणीवृत्तिराश्रयणीया । गौण्यां च वृत्तौ लक्षणाशब्दः प्रयुक्तो गुणे लक्षणायाः सम्भवात् । १. (द्रव्यम्) (क) वायुत्वसामान्यवान् (त० कौ०) (प्रशस्त०) । वायुश्च पञ्चमहाभूतान्तर्गतः । (ख) रूपरहितः स्पर्शवान् । अत्र सूत्रम् - स्पर्शवान् वायुः (वै० २।१।४) इति । तल्लक्षणं च स्पर्शेतरविशेषगुणासमानाधिकरणविशेषगुणसमानाधिकरणजातिमत्त्वम् (वै० उ० २।१।४) । अथवा रूपाभावे सति स्पर्शवत्त्वम् (वाक्य० १।४) । समवायेन रूपवदवृत्तिस्पर्शवत्त्वमित्यर्थः (ल० वं ० ) । अथवा पाकजस्पर्शवदवृत्त्यनुष्णाशीतस्पर्शवद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् (दि० १ पृ० ८३) । स चायं वायुर्द्विविधः नित्यः अनित्यश्च । तत्र नित्यः परमाणुलक्षणः । अनित्यः कार्यलक्षणः नाना च । तस्य वायोः अप्रत्यक्षस्यापि नानात्वं सम्मूर्च्छनेनानुमीयते । अत्र सूत्रम् - वायोर्वायुसम्मूर्च्छनं नानात्वलिङ्गम् (वै०२।१।१४) इति । सम्पूर्च्छनं पुनः समानजवयोर्वाय्वोर्विरुद्धदिक्क्रिययोः संनिपातः । सोऽपि सन्निपातः सावयविनोर्वाय्वोरुर्ध्वगमनेनानुमीयते । तच्च वाय्योरुर्ध्वगमनं प्रत्यक्षेण तृणादिगमनेन अनुमीयते (प्रशस्त० वायुनि० पृ० ५) (वै० उ० २।१।१४) इति । अत्र भाष्यकारा आहुः । कार्यलक्षणः अनित्यो वायुः चतुर्विधः शरीरम् इन्द्रियं विषयः प्राणः इति । तत्र १. अयोनिजमेव शरीरं मरुतां लोके । पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् । २. इन्द्रियं सर्वप्राणिनां स्पर्शोपलम्भके पृथिव्यादौ (न्यायकोशः) । वाराणसी, वाराणसी १ . आत्मा अविमुक्ते प्रतिष्ठितः । स च अविमुक्तः वरणायां नास्यां च मध्ये प्रतिष्ठितः । तच्च स्थानं भ्रुवो घ्राणस्य च सन्धिभागः । २. श्री विश्वनाथप्रियनगरी च । यथा - "वरणायां नास्यां च मध्ये प्रतिष्ठित इति । का वै वरणा का च नासीति' तत्र चेमामेव नासिकां वरणा नासीति निरुच्य या सर्वाणीन्द्रियकृतानि पापानि वारयतीति सा वरणा सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासीति पुनरामनन्ति कतमच्चास्य स्थानं भवतीति । भ्रुवो घ्राणस्य च यः सन्धिः स एष धुलोकस्य परस्य च सन्धिर्भवतीति (जाबा० उ० १) तस्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिः (ब्र० सू० १ । २ । ३२ शा० भा०) । यथा च – "मूर्धानमुपक्रम्य चुबुकान्तो हि कायप्रदेशः प्रादेशमात्रः । तत्रैव त्रैलोक्यात्मनो वैश्वानरस्यावयवान्सम्पादयन् प्रादेशमात्रं वैश्वानरं दर्शयति.....। आमनन्ति चैनस्मिन् अविमुक्ते अविद्योपाधिकल्पितावच्छेदे जीवात्मनि स खल्वविमुक्तः । तस्मिन्प्रतिष्ठितः परमात्मा, तादात्यात्" (तत्रैव भाम०) । वासना, वासना कृतस्य कर्मणो वासितो भावः । सा देहान्तरारम्भिका । देहान्तरेषु तिष्ठत्यपि । यथा - "तत्र वासना पूर्वप्रज्ञाख्या विद्याकर्मतन्त्रा जलूकावत् सन्ततैव स्वप्नकाल इव कर्मकृतं देहाद् देहान्तरामारभते हृदयस्थैव पुनर्देहान्तरारम्भे पूर्वाश्रयं विमुञ्चति (बृ० उप० ४।४।२ शा० भा०) । वासुदेवः, वासुदेव सर्वात्मा । यथा- "मत्परोऽहं वासुदेवः सर्वप्रत्यगात्मा परो यस्य स मत्परो नान्योऽहं तस्मादित्यासीतेत्यर्थः" (गी० २।६१ शा० भा० ) । यथा च "तस्मात् सर्वाणि वशीकृत्य युक्तः समाहितः सनू मत्परोऽहं वासुदेवः सर्वप्रत्यगात्मा परो यस्य स मत्परो नान्यस्तस्मादहमित्यासीतेत्यर्थ: (गी० २६१ भाष्यो०) । विकल्पना, विकल्पना संशयविपर्ययाः । यथा - "न तु वस्त्वेवं नैवमस्ति नास्तीति वा विकल्यते विकल्पनास्तु पुरुषबुद्ध्यपेक्षाः" (ब्र० सू० १ । १ । २ शा० भा० ) । यथा च – "पुरुषबुद्धिः अन्तःकरणं तदपेक्षाविकल्पनाः संशयविपर्यासाः (तत्रैव भाम०) । विकारः, विकार सर्वोऽपि लोकव्यवहारः । यथा - "यस्मात्तदृष्टिं विसृज्य तन्निकटं विवर्तं परिगृह्य सर्वं विकारं संव्यवहारमात्रं कृत्वाऽ द्वैतमेव परिरक्षति तस्मादेवं निश्चय इत्यर्थ: (सं० शा० ३।२२० सु० बो०) । विकारं परिणामं विवर्तदर्शनं परिगृह्यार्थान्तरं सर्वं विकारं संव्यवहारमात्रं न परमार्थं मायामयमेवेति च परिशेषतः परिगृह्य योजना" (सं० शा० ३।२२० अ० टी०) । यथा च - "तत्क्षेत्रं समासेन सविकारं सह विकारेण महदादिनोंदाहृतमुक्तम्" (गी० १३।७ शा० भा० ) । तथा च – "विकारो जन्मादिर्नाशान्तः परिणामः" (तत्रैव म० सू०) । यथा च"एतत्क्षेत्रं सविकारं विकारेण महदादिना तद्विकारेण चेच्छादिना सहितं समासेन संक्षेपेणोदाहृतमुक्तम्" (तत्रैव भाष्यो०)। विकारभेदः, विकारभेद विकारो हि द्विप्रकारः कश्चिच्छुक्तिरूप्यादिः स्वरूपेणाध्यस्तः, कश्चित्तु प्रतिबिम्बघटाकाशादिरूपाधितो विभक्तः, तत्र प्राणाधुपाधिविभक्त आत्मा तद्विकारः । अथवा - भृगुवल्ल्युक्ताधिदैविकान्नादीन्प्रत्याध्यात्मिका अन्नमयादयः कोशा विकारा इति" (ब्र० सू० १/१/१२ वे० क० त० ) । विकार्यम्, विकार्य १. आप्यम्, २. व्याकरणशास्त्राभिमतकर्मभेदः, यथा- ओदनं पचतीत्यत्र ओदनादिः। ३. यागप्रकरणे सोम आदि । यथा - "विकार्यमाप्यम्" (ई० उ० सं० भा०) । यथा च - "विकार्यः सोमादि:" (आ० गि० सं० भा० टी०) । विक्षेपः, विक्षेप अविद्यायाः शक्तिविशेषः । अविद्यायाः शक्तिद्वयम् - आवरणशक्तिः विक्षेपशक्तिश्च। अनया विक्षेपशक्त्या शुद्धं चैतन्यं बुद्धम् जगदाकारेण विवर्तते भासते । विक्षेपश्च ब्रह्मणो भोक्तृभोग्यविविधाकारेण क्षेपणं विकीरणम् । यथा"अज्ञानं कर्तृ वस्तुतो निर्विभागमप्यात्मस्वरूपं जीवत्वेश्वरत्वजगदाकारैर्विक्षिपति, विभजत इत्यर्थः" (सं० शा० का० २० सु० टी०) । यथा च – "अज्ञानं यथाव्याख्यातस्वभावं स्फुरत्स्वमाहिम्नैव स्वप्रकाशरूपेण सम्यग्भासमानमात्मनः प्रत्यग्रूपस्य रूपं याथाम्यं परिपूर्णमखण्डाद्वयब्रह्मलक्षणमाच्छाद्य प्रतिबद्ध्य तदेवाऽत्मरूपं जीवेश्वरत्वजगदाकृतिभिर्भोक्तृनियन्तृभोग्याकारैरनेकधा विक्षिपति विविधं क्षिपति विकीरतीति । स च विक्षेप आवरणं चानिर्वचनीयाज्ञानकृतत्वान्मृषैव न परमार्थत इत्यर्थ:" (सं० शा० १।२० अ० का० टी०) । विक्षेपशक्तिः, विक्षेपशक्ति अज्ञानस्य शक्तिद्वयम् - आवरणशक्तिर्विक्षेपशक्तिश्च । आवरणशक्त्या अपरिच्छिन्नमात्मानमावृणेति अज्ञानम् । विक्षेपशक्त्या रज्जौ सर्पादिकमुद्भावयति यथा - विक्षेपशक्तिस्तु यथा रज्ज्वज्ञानं स्वावृत्तरज्जौ स्वशक्त्या सर्पादिकमुद्भावयति एवमज्ञानमपि स्वावृतात्मनि विक्षेपशक्त्याकाशादिप्रपञ्चमुद्भावयति तादृशं सामर्थ्यम् । तदुक्तम् - विक्षेपशक्तिर्लिङ्गादिब्रह्माण्डान्तं जगत् सृजेत् (वे० सा०) । इदं च मूलाविद्या तूलाविद्येति शब्दाभ्यामप्यधीयते । आकाशाद्युपादानभूता मूलाविद्या । या केवलं चिन्मात्राश्रिता भवति चिदेव च तस्या विषयो भवति तथा सा निर्विकल्पकज्ञानेन निवर्त्यते । तूलाविद्या तु शुक्त्यवच्छिन्नचैतन्याश्रिता भवति तथा रजतभिन्ना या शुक्तिस्तन्निष्ठं यच्छुक्तित्वं तदाश्रिता भवति । एषा तूलाविद्या सविकल्यकज्ञानेन निवर्त्यते । विक्षेपाध्यासः, विक्षेपाध्यास तूलाविद्यया जगदध्यासः । यथा अविद्यावृतकूटस्थे देहद्वययुता चितिः । शुक्तौ रूप्यवदध्यस्ता विक्षेपाध्यास एव हि (प० द० ६।३३) । विगीतम्, विगीत १ . वेदनिषिद्धम् । २. निन्दितम् (चि० १ ) । यथा सुरापानादेर्विगीतत्वम् । अत्र निषेधकश्रुतिः न सुरां पिबेत् इत्यादिः । सर्वं मद्यमपेयम् (आप० स्मृ०) इति स्मृतिश्च । अत्र वेदपदं स्मृत्याधुपलक्षणम् । न कुर्यान्निष्फलं कर्म इत्यादिना निष्फलजलताडनादेरपि निषिद्धत्वात् । २. लौकिकविषयकत्वम् । ३. वेदनिषिद्धविषयकत्वम् । यथा मङ्गलं कर्तव्यम् अलौकिकाविगीतशिष्टाचारविषयत्वात् दर्शादिवत् इत्यादौ विगीतत्वम् (न्याथ कोशः) । विजिगुप्सा, विजिगुप्सा घृणा । यथा- "विजुगुप्सते विजिगुप्सां घृणां न करोति । ....सर्वा हि घृणाऽऽत्मनोऽन्यद् दुष्टं पश्यतो भवत्यात्मानमेवात्यन्तं विशुद्धं निरन्तरं पश्यतो न घृणानिमित्तमर्थान्तरमस्तीति प्राप्तमेतावतो न विजिगुप्सत इति" (ई० उ० ६ शा० गा० ) । विज्ञानम्, विज्ञान १. ब्रह्म । यथा- विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्ध्येव खल्विमानि जायन्ते विज्ञानेन जातानि जीवन्ति विज्ञानं प्रयन्त्यभिसंविशन्तीति । २. अनुभवः । यथा - ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते (गी० ७ । २) । अत्र शाङ्करभाष्यम्- अहं सविज्ञानम् विज्ञानसहितं स्वानुभवसंयुक्तम् । अत्र श्रीधरी - ज्ञानं शास्त्रीयं विज्ञानमनुभवस्तत्सहितम् । यथा च – ज्ञानविज्ञानतृप्तात्मा (गी० ६।८) अत्र श्रीधरी ज्ञानमौपदेशिकं विज्ञानमपरोक्षानुभवः । ३. ज्ञानम् - आत्मविषयम् । यथा - बुद्धिर्ज्ञानमसम्मोहः (गी० १०।४) । अत्र श्रीधरी - बुद्धिः सारासारविवेकनैपुण्यम् । ज्ञानमात्मविषयम् । यथोक्तं विज्ञानसुनिश्चितार्थाः । बौद्धदर्शनस्य पारिभाषिकः शब्दः- आलयविज्ञानं प्रवृत्तिविज्ञानं च । ५. लोके - विज्ञानं शिल्पकला कौशलम् । २. आनन्दः । यथा – "विज्ञप्तिर्विज्ञानम्, तच्च आनन्दम् । न विषयविज्ञानवद् दुःखानुविद्धम् । किं तर्हि शिवमतुलमनायासं नित्यतृप्तमेकरसमित्यर्थः " ( बृ० उ० ३।९।७)। ३. प्रमाणजन्यं प्रतिबन्धाभावविशिष्टम् अपरोक्षज्ञानम् । यथा "असम्भावनादिनिरासे तु विचारपरिपाकान्ते तेनैव प्रमाणेन जनितं ज्ञानं प्रतिबन्धाभावात्फलं जनयदपरोक्षमित्युच्यते विचारपरिपाकनिष्पन्नत्वाच्च तदेव विज्ञानम्" (गी० ७।२ म० सू०) । ४. अनुभवयुक्तं ज्ञानम् । यथा - "विज्ञानसहितम् अनुभवयुक्तम्" (गी० ९।१ शा० भा० ) । यथा च - विज्ञानमनुभवः साक्षात्कारस्तेन सहितमित्यर्थः (तत्रैव आ० गि०) । यथा च - "विशेषेण ज्ञायतेऽनेनेति विज्ञानमुपासनं तत्सहितं ज्ञानमीश्वरविषयमिदम्" (तत्रैव श्रीधरी) । ५. प्रमारूपोऽनुभवः ।" यथा – "विज्ञानं शास्त्रार्थध्यानजः प्रमारूपोऽनुभवस्ताभ्यां तृप्तः संजातालंप्रत्ययः आत्मा चित्तं यस्य स ज्ञानविज्ञानतृप्तात्मा" (गी० ६।८ नी० क०) । ६. मानसी क्रिया । यथा - मानसक्रियात्वाच्च विज्ञानस्य (बृ० उ० ९।४।७) । १. बुद्धिशब्दवदस्यार्थोऽनुसन्धेयः । २. पौराणिकाश्च चतुर्दशविद्याधारणमित्याहुः । तदुक्तम्- चतुर्दशानां विद्यानां धारणं हि यथार्थतः । विज्ञानमितरद्विद्याद्येन धर्मो विवर्धते । (कूर्म० पु० अ० १४) (वाच०) इति । ३. मायावादिनस्तु अविद्यावृत्ति विशेषः आत्मैक्यज्ञानं च विज्ञानमित्यङ्गीचक्रुः । ४. काव्यज्ञास्तु शिल्पादिज्ञानं इत्याहुः । ५. विज्ञानवादिनो बौद्धास्तु विज्ञानं द्विविधम् - प्रवृत्तिविज्ञानम् आलयविज्ञानं च । तत्राद्यम् अयं घटः इत्याद्याकारकम् । द्वितीयं च अहं जानामि इत्याकारकम् । तदेव आत्मा इत्युच्यते इति वदन्ति । ६. निरवशेषशास्त्रविषयं ग्रन्थतोऽर्थतश्च सिद्धिज्ञानं विज्ञानम् (सर्व० सं० पृ० १६६ नकुली०) । वासना १. (गुणः) स्मृतिहेतुः संस्कारविशेषः (जय०) । २. शक्तिविशिष्टचित्तोत्पादः (न्या० वा० १/१/१० पृ० ६९ ) । ३. मिथ्याज्ञानजन्यो गौरोऽहम् इत्यादिमानसज्ञानजनको दोषविशेषः । यथा आत्मा देहाद्यभिन्नः इति (ग० २ हेत्वाभा० सामान्य०) ।४. एकसन्तानवर्तिनामालयविज्ञानानां तत्तत्प्रवृत्तिजननशक्तिः इति विज्ञानवादिनो बौद्धा आहुः (सर्व० पृ०३७ बौद्ध०) । ५. ग्रहस्पष्टीकरणाद्युपयोगी संस्कारविशेषः इति ज्योतिः शास्त्रज्ञा गणका आहुः ६. ज्ञानम् । ७. प्रत्याशा इति पौराणिका आहुः । ८. सुरभीकरणम् इत्यालङ्कारिका आहुः । ९. भगवदिच्छा । प्रकृतिर्वासनेत्येव तवेच्छानन्त कथ्यते । प्रकृतिः प्रकृष्टकरणाद्वासनां वासयेद्यतः (सर्व० सं० पृ० १४१ रण० ) । भूतैर्वाय्ववयवैरारब्धं सर्वशरीरत्यापि त्वक् । ३. विषयस्तूपलभ्यमानस्पर्शाधिष्ठानभूतः स्पर्शशब्दधृतिकम्पलिङ्ग:तिर्यग्गमनस्वभावकः मेघादिप्रेरणधारणादिसमर्थः । ४. प्राणोन्तः शरीरे रसमलधातूनां प्रेरणादिहेतुः एकः सन् क्रियाभेदादिभिरपानादिसंज्ञा लभते (प्रशस्त० पृ० ५) (प० भा०) । इति । नव्यास्त्वित्थं वदन्ति । अनित्यस्त्रिविधः शरीरम् इन्द्रियम् विषयश्च (न्यायकोशः) । विज्ञानकलः, विज्ञानकल विज्ञानयोगसंन्यासैर्भोगेन वा कर्मक्षये सति कर्मक्षयार्थस्य कलादेर्भोगसम्बन्धस्याभावात्केवलनखगात्रयुक्तो विज्ञानकल: (सर्व० सं० पृ० १८२ शै०) (न्यायकोशः) । विज्ञानमयः, विज्ञानमय १. पञ्चकोशेषु अन्यतमः । पञ्चकोशाः - अन्नमयः प्राणमयः, मनोमयः, विज्ञानमयः आनन्दमयश्चेति । बुद्ध्यात्मकः । यथा- एतेषु कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान् कर्तृरूप: (वे० सा०) । २. आत्मा - "यथा च" आत्मा विज्ञानमयो मनोमयस्याऽभ्यन्तरो विज्ञानमयो मनोमयो वेदात्मोक्तः (तै० उ० २ । ४ शा० भा० ) । यथा च - स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः (बृ० उ० ४।४।५ ) । यथा च - "इत्येवमादि ब्रह्मण एवाविकृतस्य सतोप्येकस्यानेकबुद्ध्यादिमयत्वं दर्शयति । तन्मयत्वं चास्य विविक्तस्वरूपानभिव्यक्त्या तदुपरक्तस्वरूपत्वं स्त्रीमयो जाल्म इतिवद् द्रष्टव्यम् । यदपि क्वचिदस्योत्पत्तिप्रलयश्रवणं तदप्यत एवोपाधिसम्बन्धान्नेतव्यम् । उपाध्युत्पत्त्यास्योत्पत्तिस्तप्रलयेन च प्रलय इति । तथा च दर्शयति- प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्त्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति - बृ० उ० ४/५/१३ - (ब्र० सू० २ । ३ । १७) । सात्त्विकैर्धीन्द्रियैः साकं विमर्शात्मा मनोमयः । तैरेव साकं विज्ञानमयो धीर्निश्चयात्मिका (प० द० १।३५ ) । विज्ञानस्कन्धः, विज्ञानस्कन्ध बौद्धदर्शने पञ्च स्कन्धाः । तेष्वन्यतमोऽयं विज्ञानस्कन्धः । यथा - तत्रैते त्रयो वादिनो भवन्ति - केचित् सर्वास्तित्ववादिनः, केचिद् विज्ञानास्तित्व मात्रवादिनः अन्ये पुनः सर्वशून्यवादिन इति । तत्र ये सर्वास्तित्ववादिनो बाह्यमान्तरं च वस्त्वभ्युपगच्छन्ति भूतं भौतिकं च चित्तं चैत्रं च तांस्तावत् प्रतिब्रूमः । तत्र भूतं पृथिवीधात्वादयः ।भौतिकं रूपादयश्चक्षुरादयश्च । चतुष्टये च पृथिव्यादिपरमाणवः खरस्नेहेरणस्वभावास्ते पृथिव्यादिभावेन संहन्यन्त इति मन्यन्ते । तथा रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्च स्कन्धा : ( २ । २ ।८१ । शाः भा०) अत्र भामती यद्यपि वैभाषिक-सौत्रान्तिकयोरवान्तरमतभेदोऽस्ति । तथापि सर्वास्तितायामस्ति सम्प्रतिपत्तिरित्येकी- कृत्योपन्यासः । तथा त्रित्वमुपपन्नमिति । पृथिवी खरस्वभावा आपः स्नेहस्वभावाः अग्निरुष्णस्वभावः वायुरीरणस्वभावः । ईरणं प्रेरणम् । भूतभौतिकानुक्त्वा चित्त-चैत्तिकानाह- तथारूपेति । रूप्यन्ते एभिरिति रूप्यन्त इति च व्युत्पत्त्या सविषयाणीन्द्रियाणि रूपस्कन्धः । यद्यपि रूप्यमानाः पृथिव्यादयो बाह्याः, तथापि कायस्थत्वाद्वा इन्द्रियसम्बन्धाद्वा भवन्त्याध्यात्मिकाः । विज्ञानस्कन्धोऽहमित्याकारो रूपादिविषय इन्द्रियादिज़न्यो वा दण्डायमानः । वेदनास्कन्धो वा प्रियाप्रियानुभवविषयस्पर्शे सुखदुःखतद्रहितविशेषावस्था चित्तस्य जायते स वेदनास्कन्धः । संज्ञास्कन्धः सविकल्पप्रत्ययः संज्ञासंसर्गयोगप्रतिभासः यथा द्वित्थः कुण्डली गौरो ब्राह्मणो गच्छतीत्येवं जातीयकः । संस्कारस्कन्धो रागादय: क्लेशाः उपक्लेशाश्च मदमानादयः धर्माधर्मौ चेति । तदेतेषां समुदायः पञ्चस्कन्धी । अत्र कल्पतरुपरिमलः अहमित्याकारमालयविज्ञानमिति । तस्मादालयविज्ञानं यद् भवेदहमास्पदम् । तस्मात्प्रवृतिविज्ञानं यन्नीलादिकमुल्लिखेत् । विज्ञान-स्कन्धो निर्विकल्प इति । केचिद् देवत्तादिनाम संज्ञास्कन्ध इत्याहुः । तन्मते विकल्पोऽपि विज्ञानस्कन्धः । अत्र वेदान्तकल्पतरुः अहमित्याकारकमालयविज्ञानमिन्द्रियादिजन्यं रूपादिविषयं च ज्ञानमेतद्द्वयं दण्डायमानं प्रवाहापन्नं विज्ञानस्कन्ध इत्यर्थः । वेदनास्कन्ध इति भाष्योपादानं या प्रियेत्यादि तद्व्याख्यानम् । सविकल्पप्रत्यय इत्यनेन विज्ञानस्कन्धो निर्विकल्प इति भेदः स्कन्धयोर्ध्वनितः । विज्ञानस्पन्दितम्, विज्ञानस्पन्दित अचलस्यापि विज्ञानस्य स्पन्दनमिव । यथा - "किं विज्ञानस्पन्दितम् । स्पन्दितमिव स्पन्दितमविद्यया । न ह्यचलस्य विज्ञानस्य स्पन्दनमस्ति । अजाचलमितियुक्तम् (मा० उ० गौ० का० ४ ४७ शा० भा० ) । विज्ञानैकस्कन्थवादः, विज्ञानैकस्कन्थवाद केषाञ्चित्किल विनेयानां बाह्ये वस्तुन्यभिनिवेशमालक्ष्य तदनुरोधेन बाह्यार्थवादप्रक्रियेयं विरचिता । नासौ सुगताभिप्रायः । तस्य तु विज्ञानैकस्कन्धवाद एवाभिप्रेतः । तस्मिंश्च विज्ञानवादे बुद्ध्यारूढ़ेन रूपेणान्तःस्थ एव प्रमाणप्रमेयफलव्यवहारः सर्व उपपद्यते, सत्यपि बाह्येऽर्थे बुद्ध्यारोहणमन्तरेण प्रमाणादिव्यवहारानवतारात् (ब्र० सू० २।२।२८ शा० भा०) । यथा च - "अथ प्रमाता प्रमाणं प्रमेयं प्रमितिरिति हि चतसृषु विधासु तत्त्वपरिसमाप्तिः, आसामन्यतमाभावेऽपि तत्त्वस्याव्यवस्थानात् । तस्मादनेन विज्ञानस्कन्धमात्रं तत्त्वं व्यवस्थापयता चतस्रो विधा एषितव्याः, तथा च न विज्ञानस्कन्धमात्रं तत्त्वम्" (तत्रैव भाम० ) । वितण्डा, वितण्डा न्यायशास्त्रे - प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासछलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः इति (गौ० सू० १1१19) सूत्रेण षोडशपदार्था उक्ताः । तत्रैको वितण्डा । तत्त्वबुभुत्सोर्वादः कथोच्यते । तत्र च स्वपक्षस्थापनाहीना वितण्डा प्रोच्यते । यथा स्वपक्षस्थापनाहीना वितण्डा (त० दी० ) । खण्डनखण्डखाद्यनामकाद्वैतवेदान्तग्रन्थो वितण्डाप्रधानः । वितण्डावादी विद्वान् वैतण्डिक इति कथ्यते । (कथा) (क) सत्रतिपक्षस्थापनाहीनो वितण्डा (गौ० १ । २ । ३) । स जल्पो वितण्डा भवति । किं विशेषणः प्रतिपक्षस्थापनया हीनः । यौ तौ समानाधिकरणौ विरुद्धौ धर्मों पक्षप्रतिपक्षावित्युक्तौ तयोरेकतरं वैतण्डिको न स्थापयतीति परपक्षप्रतिषेधेनैव प्रवर्तत इति । अस्तु तर्हि स प्रतिपक्षहीनो वितण्डा । यद्वै खलु तत्परप्रतिषेधवाक्यं स वैतण्डिकस्य पक्षः । न त्वसौ साध्यं कञ्चिदर्थं प्रतिज्ञाय स्थापयतीति । तस्माद्यथान्यासमेवास्त्विति ( १ । २ । ३) । अभ्युपेत्य पक्षं यो न स्थापयति स वैतण्डिकः इत्युच्यते (न्या० वा०) । वितर्कः, वितर्क नानाविधसङ्कीर्णज्ञानम् । यथा - तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः (पा० यो० सू० १ (४२) । अत्र तत्त्ववैशारदी - तद्यथा गौरिति शब्दो गौरित्यर्थः गौरिति ज्ञानमित्यविभागेन विभक्तानामपि ग्रहणं दृष्टम् । विभज्यमानाश्चान्ये शब्दधर्मा अन्येऽर्थधर्मा अन्ये विज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः । तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां समारूढ़ः स चेच्छब्दार्थज्ञानविकल्पानुबिद्ध उपावर्तते सा सङ्कीर्णा समापत्तिः, सवितर्केत्युच्यते । १. प्रयोक्तुः सम्भावनात्मकं ज्ञानम् । यथा- किमिन्दुः किं पद्यं किमु मुकुरविम्बं किमु मुखमित्यादौ किं· पदार्थः । अत्र अव्ययकिमर्थस्य सम्भावनात्मकज्ञानस्य विशेष्यतासम्बन्धेन प्रथमान्तपदोपस्थाप्यविशेष्ये अन्वयः । प्रकारितासम्वन्धेन तत्र च विशेषणस्य चन्द्रादेरन्वयः (ग० शक्ति० पृ० १०८ ) ॥२. आलङ्कारिकास्तु अलङ्कारविशेषः इत्याहुः (न्यायकोशः) । विदृतिः, विदृति द्वारम् । यथा - "सैषा विट्टतिर्विदारितत्वात् विदॄतिर्नाम प्रसिद्धा द्वाः" (ऐ० उ० ३।१२ शा० भा० ) । विदेहकैवल्यम्, विदेहकैवल्य तत्र शरीरपातसमकालिका मुक्तिः । सति देहे मुक्तिः असति शरीरे च मुक्तिः । विदेहकैवल्यम् । यथा - "इत्यस्मिन्नधिकरणेऽधिकारिपुरुषाणामुत्पन्नतत्त्वज्ञानानामिन्द्रादीनां देहधारणानुपपत्तिमाशङ्क्याधिकारापादकप्रारब्धकर्मसमाप्त्यनन्तरं विदेहकैवल्यमिति सिद्धान्तितम् (वे० प० ८ प०) । विद्या, विद्या १ . आत्मज्ञानम् । विशेषतो मुक्तिप्रयोजकं ज्ञानम् । यथा – "सा विद्या या विमुक्तये । इयं च द्विविधा - परा तथा अपरा । यथा अक्षरमधिगम्यते सा परा । या जगद्व्यवहारसम्पादिका सा अपरा। यथा- आत्मतत्त्वं न जानाति सुप्तो यदि तदा त्वया । आत्मधीरेव विद्येति वाच्यं न द्वैतविस्मृतिः (प० द० ७।१८६) यथा च – अविद्येति मन्यन्ते ।. तद्विवेकेन च वस्तुस्वरूपावधारणं विद्यामाहुः (ब्र० सू० शा० भा० उपो०) । अत्र भामती - निर्विचिकित्सं ज्ञानं विद्यामाहुः पण्डिताः । प्रत्यगात्मनि खल्वत्यन्तविवेके बुद्ध्यादिभ्यः बुद्ध्यादिभेदाग्रहनिमित्तो बुद्ध्यात्मत्वतद्धर्माध्यासः । तत्र श्रवणमननादिभिर्यविवेकज्ञानं तेन विवेकाग्रहे निवर्तिते अध्यवसायबाधात्मकं वस्तुस्वरूपावधारणं विद्या चिदात्मरूपं स्वरूपे व्यवतिष्ठत इत्यर्थः । यथा च - विद्यां चाविद्यां च यस्तद्वेदोभय सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते (ई० उ० ११) । आत्मज्ञानार्थमुपनिषत्सु अनेका विद्या उपवर्णिताः - दहरविद्या प्राणविद्या मधुविद्या भूमविद्याप्रभृतयः । एतदतिरिक्ता अपि सामान्यविद्या । यथा देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां.... सर्वदेवजन-विद्याम्.... (छा० उ०७।१।२) । २. देवताज्ञानम्- "विद्यया देवताज्ञानेनामृतं देवतात्मभावमश्नुते प्राप्नोति" (ई० उ० ११ शा० भा०) । ३. विवेकज्ञानम् । यथा - "परकर्मणां च परस्मिन्नात्मन्यविद्ययाध्यारोपितानां विद्यया विवेकज्ञानेन मनसा संन्यास उपपद्यते" (गी० ५।१३ शा० भा०) । ४. "ब्रह्माकारा अन्तःकरणवृत्तिः । यथा - ब्रह्माकारान्तःकरणवृत्तिर्विद्या" (सं० शा० १ । २१३ सु० टी० ) । ५. मोक्षकारणम् । यथा "अपवर्गफला च विद्याऽप्येकैवेति योज्यम्" (सं० शा० ३ । ३४२ सु० टी०)। ६. ब्रह्मविद्या । यथा – "विद्या वेदार्थपरिज्ञानं ब्रह्मविद्या वा" (गी० ५/१८ म० सू० ) । उपासनाशब्दवच्चार्थः।" ७. बुद्धिः । १. ज्ञानम् । तच्च कणादनये - यथा विशेषणवद्विशेष्यसन्निकर्षलिङ्गपरामर्शादिरूपगुणजन्यो बुद्धिविशेष: (त० व० २१३ ) । यथार्थज्ञानमिति भावः। विद्याया विभागादिकं तु बुद्धिशब्दव्याख्याने दृश्यम् । २. विजातीयज्ञानहेतुः शास्त्रम् । यथा आन्वीक्षिकी न्यायविद्या । सेयमान्वीक्षिकी प्रमाणादिभिः पदार्थैर्विभज्यमाना - प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रमः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता (वात्स्या० ११ ।१ ) । इति । ३. पौराणिकनये विद्याश्चतुर्दश अष्टादश चापि । ता उच्यन्ते । विद्याश्चतुर्दश प्रोक्ताः क्रमेण तु यथा स्थिति । षडङ्गमिश्रिता वेदा धर्मशास्त्रं पुराणकम् । मीमांसातर्कमपि च एताविद्याश्चतुर्दश। ( नन्दी पु०) । इति । न्यायनये विद्याश्चतस्रः - आन्वीक्षिकी त्रयी वार्ता दण्डनीतिरूपाश्चतस्रो विद्या विद्याप्रस्थाने कथिताः (गौ० वृ० १ ।१ ।१ ) । तदर्थश्च आन्वीक्षिकी न्यायविद्या । त्रयी वेदविद्या । वार्ता नीतिशास्त्रम् । दण्डनीतिस्त्वर्थशास्त्रमिति । मनुना चोक्तम् त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः (मनु० ७ । ४३) । इति । वार्तिके चोक्तम् - चतस्र इमा विद्या भवन्ति । ताश्च पृथक् प्रस्थानाः अग्निहोत्रहवनादिप्रस्थाना त्रयी । हलशकटादिप्रस्थाना वार्ता । स्वाम्यमात्यभेदानुविधायिनी दण्डनीतिः । संशयादिभेदानुविधायिन्यान्वीक्षिकी (न्या० वा० १-१३) । पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश (याज्ञ० १ ।३) इति च । अष्टादश चान्यत्रोक्ताः । ता उच्यन्ते । अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश । आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः । अर्थशास्त्रं चतुर्थं च विद्या ह्यष्टादशैव ताः (विष्णु पु०) । (वाच०) । श्रुतौ तु विद्या द्विविधोक्ता परा अपरा च । तत्र परा यया ब्रह्मावगमः सा । ययाक्षरमधिगम्यते सा परा इति श्रुतेः। ऋग्वेदादिलक्षणा अपरा । सा चाध्ययनाध्यापनरूपा (वाच०) । विद्याभेदेन देवताभेदा: (हेमा० शु०) । विष्णुधर्मोत्तरे उक्ता तास्तत्रैव दृश्याः । पशुगुणो विद्या ( सर्व० सं० पृ० १६७ नकुली०) (न्यायकोशः) । विद्याभेदः, विद्याभेदः विद्याभेदद्वयम् - परोक्षा अपरोक्षा च । तथा - परोक्षा चापरोक्षेति विद्या द्वेधा विचारजा । तत्रापरोक्षविद्याप्तो विचारोऽयं समाप्यते (प० द० ६।९५) । विद्याशक्तिः, विद्याशक्ति चिच्छक्तिः । यथा - "सत्या चिच्छक्तिरसत्या वा विद्याशक्तिस्तदुभयसंसर्गाज्जगदुत्पत्तिरित्यर्थ:" (सं० शा० ३।२२८ सु० टी०) । विधारयिता, विधारयितृ परमेश्वरः लोकधारणात् । यथा - "अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय (छा० ८।४।१) इति । तत्र विधृतिरित्यात्मशब्दसमानाधिकरण्याद् विधारयितोच्यते, क्तियः कर्त्तरि स्मरणात्" (ब्र० सू० १/३/१६ शा० भा०) । यथा च - "सौत्रो धृतिशब्दो भाववचनः । धृतिश्च परमेश्वर एव दहराकाशः । कुतः ? अस्य धारणलक्षणस्य महिम्नोऽस्मिन्नेवेश्वर एव श्रुत्यन्तरेषूपलब्धे: (तत्रैव भाम० ) । विधिः, विधि १. यत्किञ्चित्कार्यनिदेशकं वाक्यं विधिः । अयं च त्रिविधः - यथा अपूर्वविधिःनियमविधिःपरिसंख्याविधिश्च । यथा - अप्राप्तप्रापको विधिःअपूर्वविधिः। यथा दर्शपूर्णमासप्रकरणे ब्रीहीन् प्रोक्षति। .....अत्यन्ताप्राप्तप्रोक्षणप्रापकत्वादयमपूर्वविधिः। यश्च पक्षे प्राप्तमर्थं नियमयति स नियमविधिः । यथा तत्रैव ब्रीहीन् अवहन्ति इति । .....वैतुष्यकार्याय अवहननवत् कदाचिन्नखविदलनमपि प्राप्नुयादिति । तस्मिन् पक्षेऽवहननस्य प्राप्तेरभावात् कार्यान्यथोपपत्तेरवहननस्य पाक्षिकी प्राप्तिः स्यात् । सति त्वस्मिन् विधौ अवहननेनैव वैतुष्यं कार्यमिति नियमे सति विदलनं सर्वात्मना निवर्तत इति नियमविधिरयम् ।....द्वयोः समुच्चित्य प्राप्तावितरनिवृत्तिफलको विधिः परिसंख्याविधिः । यथा चयनप्रकरणे इमामगृभणन् रशनामृतस्येत्यश्वाभिधानीमादत्ते इत्यश्वरशनाग्रहणाङ्गत्वेन मन्त्रविधिः। ...अनेन मन्त्रेणाश्वरशनामेवाददीत न तु गर्दभरशनाम् (मी०प०) । विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते । ये शास्त्रविधिमुत्सृज्य वर्तन्ते कामकारतः (गी० १६ । २३) । शास्त्रविधिं वेदविहितम् (अत्रैव श्रीधरी ) । ये शास्त्रविधिमुत्सृज्य यजन्ते शुद्धयान्विताः (गी० १७।१ ) । यथा च - आत्मा वा अरे द्रष्टव्यः श्रोतव्यः मन्तव्यः (बृ० उ० २/४/५ ) । ..... वेदान्तश्रवणं किं विधिः प्रतीयमानः किंविध इति चिन्त्यते । ....केचिदाहुः अपूर्वविधिरयम् । अप्राप्तत्वात् ( सि० ले० सं० १ प०) । २. शैवदर्शनस्य धर्मार्थविचारः । यथा - "धर्मार्थविचारो विधिः। स ब्रह्मद्वाररूपेण द्विविधः । भस्मस्नानभस्मशयनोपहारादिव्रतम् । आद्ये प्रसिद्धे । उपहारः षड्विधः। हसितगीतनृत्तहुडुक्कारनमस्कारजपभेदेन । तत्र हसितमट्टहासः । गीतं गान्धर्वशास्त्रप्रकारेण । हुडुक्कारो जिह्वातालुसंयोगान्निष्पाद्यमानो वृषभनादसदृशो नादः । यत्र लौकिका न भवन्ति तत्र चत्वार्येतानि निगूढं प्रयोक्तव्यानि । जपनमस्कारौ प्रसिद्धौ । द्वाराणि कायनस्पन्दनमन्दायनशृङ्गारणातत्कारणतद्भाषणभेदेन षड्विधानि असुप्तस्येव सुप्तलिङ्गप्रदर्शनं कायनम् । वातव्याध्यभिभूतस्ये शरीरावयवानां कम्पनं स्पन्दनम् । उपहतपादेन्द्रियस्येव गमनं मन्दायनम् । रूपयौवनसम्पन्नां कामिनीमवलोक्यात्मानं कामुकमिव यैर्विलासैः प्रदर्शयति तद्वदाचरणं शृङ्गारणा । कार्याकार्यविकलस्येव लोकनिन्दितकर्मकरणमपि तत्कारणम् । व्याहतापार्थकादिशब्दोच्चारणमपि तद्भाषणम् । दुःखान्तो द्विविधः - अनात्मकः सात्मकश्च । अनात्मकः सर्वदुः खानामत्यन्तोच्छेदः । सात्मकस्तु दृक्रियाशक्तिबललक्षणमैश्वर्यम् । तत्र दृक्शक्तिरेकापि विषयभेदात्पञ्चधोपचर्यते । दर्शनं श्रवणं मननं विज्ञानं सर्वज्ञत्वञ्चेति । सूक्ष्मव्यवहितविप्रकृष्टाशेषचाक्षुषस्पार्शनादिविषयं ज्ञानं दर्शनम् । अशेषशब्दविषयं ज्ञानं श्रवणम् । निरवशेषशास्त्रविषयं ज्ञानं मननम् । ग्रन्थतोऽर्थतश्चासन्दिग्धज्ञानं विज्ञानम् । सर्वज्ञत्वं प्रसिद्धम् । क्रियाशक्तिरेकापि त्रिविधोपचर्यते । मनोजवत्वं कामरूपित्वं विकरणधर्मित्वञ्चेति । निरतिशयशीघ्रगामित्वं मनोजवत्वं कर्मानपेक्ष्य स्वेच्छयैवानन्तशरीरेन्द्रियाधिष्ठातृत्वं कामरूपित्वम् । उपसंहृतशरीरेन्द्रियस्यापि निरतिशयैश्वर्यशक्तित्वं विकरणधर्मित्वम्" (ब्र० सू० २ । २ । ३७ क० त० परि०) । १ . प्रमाशब्दः । (क) विधिर्विधायकः (गौ० २।१।६३) । (ख) इष्टसाधनताबोधकप्रत्ययसमभिव्याहृतवाक्यम् (गौ० वृ० २।१।६३) । (ग) विध्यभिधायकप्रत्ययः तद्धटितवाक्यं वा (न्या० मं० ४) । तदर्थश्च विधीयते विधिरूपशब्देन प्रतिपाद्यतेसौ विधिरिष्टसाधनत्वादिः । तस्याभिधायको वाचकः इति । अथवा अर्थविशेषाभिधायकः प्रत्ययः । स च प्रत्ययो लिंङ्लोट्लेट्तव्यकृत्यप्रत्ययरूपः इति (सि० च०) (म० प्र० ४ पृ० ५८) (त० प्र० ख० ४ पृ० ९३) । ६. प्रवृत्तिपरं वाक्यम् । यथा - ज्योतिष्टोमेन स्वर्गकापो यजेत (शतपथ०) । ओदनकामस्तण्डुलं पचेत इत्यादि । (ङ) मीमांसकास्तु अज्ञातार्थज्ञापको वेदभागः (अपूर्वविधिः) । स च तादृशप्रयोजनवदर्थविधानेनार्थवान् । तादृशं चार्थं प्रमाणान्तरेणाप्राप्तं विधत्ते । यथा अग्निहोत्रं जुहुयात् स्वर्गकामः इत्यादि इत्याहुः । अयं विधिर्मानान्तरेणाप्राप्तं स्वर्गप्रयोजनवहोमं विधत्ते । अग्निहोत्रहोमेन स्वर्गं भावयेत इति वाक्यार्थबोध: (लौ० भा० पृ० १३) । यत्र कर्म मानान्तरेण प्राप्तं तत्र तदुद्देशेन गुणमात्रं विधत्ते । यथा- दध्ना जुहोति (तै० ब्रा० २/१/५) (शतप०) इति । (च) धर्मार्थसादकव्यापारो विधिः (सर्व० सं० पृ० १६९ नकुली०) । (छ) अज्ञातस्थानुष्ठेयत्वकथनं विधिः (जै० न्या० १।४ अधि० ६) । (ज) विधिनमि विधिप्रत्ययार्थः । अत्र व्युत्पत्तिः विधीयते विधिरूपशब्देन प्रतिपाद्यतेसौ विधिस्त्विष्टसाधनत्वादिः (म० प्र० -४ पृ० ५८) इति । (न्यायकोशः) । विधिशेषः, विधिशेष पूर्वमीमांसायां विधिवाक्येषु अपूर्वविध्यादिपरेषु विधिशेषो भवति । तवद् वेदान्तवाक्येषु विधिशेषः । यथा - "यत्पुनरुक्तं श्रवणात्पराचीनयोर्मनननिदिध्यासनयोर्दर्शनाद् विधिशेषत्वं ब्रह्मणो न स्वरूपपर्यवसायित्वमिति । न, अवगत्यर्थत्वान्मनननिदिध्यासनयोः । यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येत भवेत्तदा विधिशेषत्वम् । न तु तदस्ति; मनननिदिध्यासनयोरपि श्रवणवदवगत्यर्थत्वात्" (ब्र० सू० १/१/४ शा० भा० ) । विधृतिः, विधृति धारणम् । परमेश्वरस्य लक्षणं शक्तिर्वा । यथा- एवमिह प्रकृते दहरे विधारणक्षमं महिमानं दर्शयति । अयं च महिमा परमेश्वर एव श्रुत्यन्तरादुपलभ्यते 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इत्यादेः । .....एवं धृतेश्च हेतोः परमेश्वर एवायं दहरः" (ब्र० सू० १ ।३।१६ शा० भा०) । यथा- "धृतेश्च परमेश्वर एव दहराकाशः । कुतः । अस्य धारणलक्षणस्य महिम्नोऽस्मिन्नेवेश्वर एव श्रुत्यन्तरेषूपलब्धेः" (तत्रैव भाम० ) । यथा च - सौत्रो धृतिशब्दो भाववचनः । धृतेश्च परमेश्वर एव दहराकाशः । कुत अस्य धारणस्य म. हिम्रोऽस्पिन्नेवेश्वर एव श्रुत्त्यन्तरेषूपलब्धेः । (तत्रैव भाम०) वियर्ययः, वियर्यय मिथ्याज्ञानम् । यथा - विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठितम् (पा० यो० सू० १।८) । यथा च - मिथ्याज्ञानं विपर्ययः । यथा शुक्तौ इदं रजतमिति (त० सं० ) । १. (अप्रमा) (क) मिथ्याज्ञानापरपर्यायः अयथार्थनिश्चयः (गौ० वृ० ४।१।३) । अत्र अयथार्थज्ञानमेव नास्ति इति प्रभाकरादय आहुः (प्र० प० पृ० ४) । (ख) वेदान्तिनस्तु विपरीतंनिश्चयः ( प्र० प० पृ० ४) । अत्र विपरीतत्वं च पुरोवर्तिन्यविद्यमानप्रकारकत्वम् (प्र० प० टी० वेदेशतीर्थी० पृ० १०) । विपरीतनिश्चयश्च प्रत्यक्षानुमानागमाभासेभ्यो जायते । तत्र प्रत्यक्षाभासजो यथा शुक्तिकायां इदं रजतमित्यादि । अनुमानाभासजो यथा धूलिपटले धूमभ्रमाद्बह्न्यभाववति वन्यनुमितिः। आगमाभासजो यथा- नदीतीरे पञ्च फलानि सन्ति इति प्रतारकवाक्यजन्यज्ञानमित्याहुः (प्र० च० पृ० ८-९) । अत्र प्रत्यक्षाभासविषये विप्रतिपत्तिः । १. प्रतीतं रजतं देशान्तरे सदेव इति वैशेषिकादय आहुः । २. ज्ञानस्वरूपमेव इति विज्ञानवादिन आहुः। ३. तत्रैव तात्कालिकमुत्पन्नं सदिति भास्कर आह । ४. न सत् नासत् न सदसत् किं तु अनिर्वचनीयमेव इति मायावादिनो मन्यन्ते । ५. श्रीमदानन्दतीर्थाचार्यास्तु असदेव रजतं प्रत्यभादित्युत्तरकालीनानुभवात् शुक्तिरेवात्यन्तासद्रजतात्मना द्रष्टुर्दोषवशात् प्रतिभाति इति प्राहुः (प्र० प० पृ० ४) । (ग) पातञ्जलास्तु पञ्चविधवृत्त्यन्तर्गतो वृत्तिविंशेष इत्याहुः (पात० सू० पा० १ सू० ६, ८)। २. संशयः । ३. विपरीतम्। यथा विपर्ययोऽभूत्सकलं जनौकसः (भाग० ८।२२।२९) । इत्यादौ । (न्यायकोशः) । विपर्यासः, विपर्यास १. अविवेकः विपर्यासादविवेकतो यथा जाग्रज्जागरितेऽचिन्त्यान्भावानशक्यचिन्तनीयान् रज्जुसर्पादीन्भूतत्ववत् परमार्थवत् स्पृशन्निव विकल्पयेदित्यर्थः (मा० उ० गौ० का० प्र० ४।४४ शा० भा०) । २. वैपरीत्यम् । विपाकः, विपाक आरब्धफलं कर्म । तेन - रमणीयचरणा ब्राह्मणादियोनिमापद्यन्ते कपूयचरणाः श्वादियोनिम्.... (छा० उ० ५/१०/५) । इति श्रूयते । ब्रह्मसूत्रे ३।१।८ शा० भाष्ये च विचारितम् । ब्र० सू० ३।३।३२ भामत्यां यथा च - प्रारब्धविपाकानि तु कर्माणि । यथा च सति मूले । तद्विपाको जात्यायुर्भोगाः (पा० यो० सू० २।१३) । अत्र व्यासभाष्यम्- सत्सु क्लेशेषु कर्माशयो विपाकाऽऽरम्भीभवति नोच्छिन्नमूलः । यथा तुषाऽवनद्धा: शालितण्डुला अदग्धवीजभावाः प्ररोहसमर्था भवन्ति । नापनीततुषा दुग्थबीजभावा वा । तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति । नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशबीजभावो वेति । स च विपाकस्त्रिविधो जातिरायुर्भोग इति । यथा च - अविद्यादयः क्लेशा, कुशलाकुशलानि कर्माणि तत्फलं विपाकः । तदनुगुणा वासना आशयाः (पा० यो० सू० १।२४ व्या० भा०) । यथा च तयोः क्लेशकर्मणोः फलं विपाकः (तत्रैव यो० वा० ) । विभक्तम्, विभक्त पृथक्त्वेन प्रतीयमानम् । यथा - "अविभक्तं च प्रतिदेहं व्योमवदेकं भूतेषु सर्वप्राणिषु विभक्तमिव च स्थितं देहेष्वेव विभाव्यमानत्वात्" (गी० १३।१६ शा० भा० ) । यथा च - "विभागमप्राप्तमपि ज्ञेयवस्तुमूढदृष्ट्या विभक्तमिव दूरदेशस्थमिव चाद्विभिन्नमिव च स्थितम् (तत्रैव नी० क० ) । यथा च - "तथापि देहतादात्येन प्रतीयमानत्वात् प्रतिदेहं विभक्तमिव च स्थितमौपाधिकत्वेनापारमार्थिको व्योम्नीव तत्र भेदावभास इत्यर्थ: (तत्रैव म० सू० ) । यथा च - "भूतेषु सर्वप्राणिषु विभक्तमिव च स्थितं मिथ्याभूतभेदवातीतं जलमात्रे जलचन्द्रवद् देहेष्वेव विभाव्यमानत्वात् । 'एक एव तु भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्" इति श्रुतेः (तत्रैव भाष्यो०) । यथा च - "कार्यात्मना विभक्तं च भिन्नमिवावस्थितं च । समुद्राज्जातं फेनादि समुद्रादन्यन्न भवति तत्पूर्वोक्तं स्वरूपं च ज्ञेयम् (तत्रैव श्रीधरी) । विभुः, विभु व्यापकः । यथा- "विभुं सर्वगतं त्वामाहुरिति सम्बन्धः" (गी० १०।१२ म० सू०) । यथा च - "विभुं विभवनशीलम्" (तत्रैव भाष्यो०)। विभूति विस्तारो वैभवञ्च । यथा - "एतां यथोक्तां विभूतिविस्तारं योगं च युक्तिं चात्मनो घटनमथवा योगैश्वर्यसामर्थ्यं सर्वज्ञत्वं योगजं योग उच्यते (गी० १०/७ शा० भा०) । २. वैभवम् । विभ्रमः, विभ्रम भ्रान्तिः, ख्यातिः, ख्यातिश्च चतुर्धा श्रीमण्डनमिश्रेणोक्ता-आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा । परीक्षकाणां विभ्रान्तौ विवादात् सा विविच्यते । (वि० वि० १)। "न खलु बाह्यसारूप्यनिबन्धन एव सर्वो विभ्रम इति नियमनिमित्तमस्ति, अन्तरादपि कामक्रोधभयोन्मादस्वप्नादेर्मानसादपराधात्सारूप्यानपेक्षात्तस्य तस्य विभ्रमस्य दर्शनात् । अपि च हेतुमति विभ्रमे तदभावादनुयोगो युज्यते ।.....तस्मात् परमात्मविवर्त्ततया प्रपञ्चस्तद्योनिः, न तु परिणामतया (ब्र० सू० १/२/२१ भाम०) । यथा च -विभ्रमरूपा एषा ख्यातिराचार्यमण्डनमिश्रेण चतुप्रकारोक्ता यथोपरि निर्दिष्टा । तदनन्तरं चदुर्दशविधा ख्यातिराचार्यैर्विमृष्टा । आसां स्वरूपं भेदश्च चतुर्दशख्यातिविवेकग्रन्थेऽस्माभिर्विवेचिते स्तः - १. आत्मख्यातिः । २. असत्ख्यातिः । ३. अख्यातिः । ४. अन्यथाख्यातिः । ५. अनिर्वचनीयख्यातिः । ६. अपूर्णख्यातिः । ७. यथार्थख्यातिः । ८.सदसत्ख्यातिः। ९. अभिनवा ख्यातिः । १०. सत्ख्यातिः । ११. प्रसिद्धार्थख्यातिः । १२. अलौकिकख्यातिः । १३. स्मृतिप्रमोषख्यातिः । १४. निर्विषयख्यातिः । यथा च प्रत्यक्षबाधापहृतविषयं च विभ्रमाणां यथार्थत्वानुमानमाभासः । हुतवहानुष्णत्वानुमानवत् (ब्र० सू० उपो० भाम०) । यथा च - स्वप्नज्ञानविषयस्यापि स्मृतिविभ्रमरूपस्यैवं रूपत्वादिति उपोद्घातभामत्यां वेदान्तकल्पतरौ - स्मृतौ विभ्रमः स्मृतिविभ्रमः, स्मर्यमाणे स्मर्यमाणरूपान्तरारोप इति यावत् । विभ्रमशक्तिः, विभ्रमशक्ति तद्रूपेऽतद्रूपभासनशक्तिः । यथा – "विभ्रमशक्तिस्तु विपरीतार्थप्रदर्शनशक्तिः" (सं० शा० १ । २० सु० टी०) । यथा च "आवरकविक्षेपकसामर्थ्ययोः सहजसिद्धत्वादित्यर्थ:" (सं० शा० १ । २० अ० का० टी० ) । विमोक्षः, विमोक्ष १. मोक्षशब्दवदस्यार्थः । २. मोचनम् । विरजः, विरजस् १. धर्माधर्मादिरूपमलरहितः । यथा - विगतरजः रजो नाम धर्माधर्मादिमलम् (बृ० आ० उ० ४।४।२० शा० भा०) । विरजाः, विरजस् जननमरणरूपरजोगुणफलरहितः मुक्तः । यथा – "जननमरणमुक्तः (ब्रह्मप्राप्तः) एवंवित्सोऽपि विरजाः सन् ब्रह्मप्राप्त्या विमृत्युर्भवतीति वाक्यशेषः" (का० उ० ६।२ शा० भा०) । यथा च - देवयानेन यथा पर्यङ्कस्थं ब्रह्माभिप्रस्थितस्य व्यध्वनि सुकृतदुष्कृतयोर्वियोगः कौषितकिनः पर्यडूविद्यायामामनन्ति- स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति (कौ० १ ३ ) । इत्युपक्रम्य स आगच्छति विरजां नदीं तां मनसैवात्येति तत् सुकृतदुष्कृते विधुनुते (कौ० १।४)। .... विद्यासामर्थ्येन तयोः (सुकृतदुष्कृतयोः) । क्षयः । स च यदैव विद्याफलामिमुखी तदैव भवितुमर्हति । तस्मात् प्रागेव सन्नयं सुकृतदुष्कृतक्षयः पश्चात् पठ्यते । .....सुकृतदुष्कृतहानमामनन्ति अश्व इव रोमाणि विधूय पापम् -छा० ८।१३।१(ब्र० सू० ३।३।२७ शा० भा० ) । विलक्षणम्, विलक्षण १. (क) विजातीयम् । (ख) विभिन्नम् । २. स्वच्छन्दताया निष्प्रयोजनस्थितिः । तदुक्तं भागुरिणा विलक्षणं मतं स्थानं यद्भवेन्निष्प्रयोजनम् (अमर० टी० ३।२।२) । इति । ३. दानार्थकल्पितकाञ्चनपुरुषमूर्तियुतशय्याविशेषः (शु० त०) (मत्स्यपु०) (न्यायकोशः) । विवर्तः, विवर्त अतात्त्विकोऽन्यथाभावः । यथा- रज्जौ सर्पः, शुक्तौ रजतमित्यादि । यथा - परिणामो नाम उपादानसमसत्ताककार्यापत्तिः । विवर्तो नाम उपादानविषमसत्ताककार्यापत्तिः । प्रातिभासिकरजतं चाविद्यापेक्षया परिणामः । चैतन्यापेक्षया च विवर्त इति चोच्यते । अविद्यापरिणामरूपं च तद्रजतमविद्याधिष्ठाने इदमवच्छिन्नचैतन्ये वर्तते । अस्मन्मंते सर्वस्यापि कार्यस्य स्वोपादानाविद्याधिष्ठानाश्रितत्वनियमात् (वे० प० १ प०) । यथा च - सतत्त्वतोऽन्यथाप्रथा विकार इत्युदीरितः । अतत्त्वतोऽन्यथाप्रथा विवर्त इत्युदीरितः (वे० सा० ४७) । अत्र कारणमध्यासः । येन सद्ब्रह्मणि असतः प्रपञ्चस्य प्रतीतिः भ्रान्निरूपा । अयं चाध्यासः अविद्येति मन्यते । यथा च - अतत्वतोऽन्यथाभावो विवर्तः। न केवलं ब्रह्मविवर्तत्वम्, अपितु जीवानामपि चराचरशरीरोपाधिकानां तत्प्रतिविम्बत्वेन तद्विवर्तत इत्याह यतश्चेति (भामती मङ्गलाचरणे वे० क० त० ) । यथा च – "विवर्तस्तु प्रपञ्चोऽयं ब्रह्मणोऽपरिणामिनः । अनादिवासनोद्भूतो न सारूप्यमपेक्षते । तस्मात् परमात्मविवर्ततया प्रपञ्चस्तद्योनिः, भुजङ्गः इव रज्जुविवर्ततया तद्योनिः, न तु परिणामतया (ब्र० सू० १।२।२१ भाम०) । यथा च - "तत्त्वतोऽन्यथाभावः परिणामः अतत्त्वतोऽन्यथाभावो विवर्त इति वा; धर्मिसमसत्ताकोऽन्यथा परिणामस्तत्समसत्ताको विवर्त इति वा " (ब्र० सू० १।२।२१ वे० क० त० प०) । यथा च - "अवस्थान्तरभानं तु विवर्तो रज्जुसर्पवत् । निरंशेऽप्यस्त्यसौ व्योग्नि तलमालिन्यकल्पनात् (प० द० १३।९)। विवर्तः १ . (क) अतात्त्विकोऽन्यथाभावः । स च अपरित्यक्तपूर्वरूपस्य रूपान्तरप्रकारकप्रतीतिविषयत्वम् (वै० सा० द० पृ० २) । यथा - मायावादिमते परब्रह्मणि सर्वस्य जगतो विवर्तः। (ख) पूर्वरूपापरित्यागेनासत्यनानाकारप्रतिभासः । यथा शुक्तिकायां रजतस्य रज्ज्वां वा सर्पस्य प्रतीतिः (अथर्वभाष्ये सायणः) । शिष्टं तु वादशब्दव्याख्याने दृश्यम् । (ग) स्वरूपपरित्यागेन रूपान्तरापत्तिर्विवर्तः (सर्व० सं० पृ० ४२० शं०) । २. नृत्यमिति नर्तका आहुः । ३. समुदायः इति काव्यज्ञा आहुः (वाच०) । (न्यायकोश:) विवसनः, विवसन अर्हन् जिनो दिगम्बरश्च । यथा - निरस्तः सुगतसमयः । विवसनसमय इदानीं निरस्यते । सप्त चैषां पदार्थाः सम्मता जीवाजीवासवसंवरनिर्जरबन्धमोक्षा नाम । संक्षेपतस्तु द्वावेव पदार्थों जीवाजीवाख्यौ । यथायोगं तयोरेवेतरान्तर्भावादिति मन्यन्ते । तयोरिममपरं प्रपञ्चमाचक्षते पञ्चास्तिकाया नाम - जीवास्तिकायः पुद्गलास्तिकायो धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायश्चेति । अत्र भामत्यां सर्वेऽपि विवसनसिद्धान्ताः संक्षेपविस्तराभ्यां निरूपिताः । यथा च - दिगम्बरः। अर्हन्नामको जिनः । एतन्मते जीवः शरीरपरिमाणः । मोक्षस्तु सप्तभङ्गीनयस्तु स्याद्वादशब्दव्याख्यानावसरे सम्पादयिष्यते । अत्र शिष्टं तु नास्तिक इत्यादितत्तच्छब्दव्याख्याने दृश्यम् (न्यायकोशः) । विशरारवः, विशरारव "विशरारवो हि प्रदीपावयवाः" (ब्र० सू० २।२।३४ भाम०) । विशुद्धिः, विशुद्धि प्रपञ्चशून्यम् । यथा - "विशुद्धिश्च प्रपञ्चराहित्यम्" (सं० शा० ५६ सु० टी० ) । विशेषणम्, विशेषण विशेषणं च कार्यान्वयि व्यावर्तकम् । उपाधिश्च कार्य्यानन्वयी व्यावर्तको वर्तमानश्च । रूपविशिष्टो घटोऽनित्य इत्यत्र रूपं विशेषणम् । कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रमित्यत्र कर्णशष्कुल्युपाधिः । अयमेवोपाधि नैयायिकैः परिचायक इत्युच्यते । प्रकृते चान्तःकरणस्य जडतया विषयभासकत्वायोगेन विषयभासकचैतन्योपाधित्वम् (वे० प० १ प०) । एतेन विशेषणत्वे अन्तःकरणावच्छिन्नं चैतन्यं जीव उच्यते, उपाधित्वे च अन्तःकरणोपहितं चैतन्यं जीवसाक्षि उच्यते । विश्वः, विश्व १. वेदः । यथा - "विश्वशब्दो वेदविषयः" (सं० शा० ३।२४५ अ० टी० ) । विश्वम्, विश्व २. संसारव्यष्टिः । यथा – "अस्य विश्वस्य एषा एतद्शरीरव्यक्तिलक्षणा व्यष्टिः स्थूलशरीरम्, अन्नविकारत्वाद् एव हेतोः अन्नमयकोशः, स्थूलभोगायतनत्वात् स्थूल इन्द्रियैरर्थोपलम्भाच्च जाग्रदिति चोच्यते (वे० सा०) । ३. नामरूपम् । यथा – "नामरूपमिति विश्वरूपनिर्देशो वाच्यवाचकात्मकमित्यर्थः । नामरूपं विश्वं निःश्वासादिप्रख्यं निःश्वासादितुल्यं विष्णोरुत्थितमिति यद् वेद आह तवर्णितेन वर्त्मना तथ्यं यथार्थं नास्य बाधकमस्तीति योजना" (सं० शा० ३।२७३ अ० टी०) । ४. "चित्रपटस्थानीयं जगत् । यथा - अनादित्वादिसर्वविशेषणविशिष्टं विश्वं तपिकर्मीभूतं तापयन्तं त्वां परज्योतीरूपं पश्यामि जानामि । चित्रपटस्थानीयं विश्वरूपं सकलकारकात्मकधीवासनोपेतं येन ज्योतिषा प्रकाशते तदेव त्वमसीति जानामि भावः" (गी० ११/१९ नी० क०) । विषयः, विषय बुद्धीन्द्रियदेहैर्यदवगाहते स विषयः । सर्वे विषयाः ज्ञानं विषयि । यथा- चित्स्वभाव आत्मा विषयी, जडस्वभावा बुद्धीन्द्रियदेहविषया विषयाः । एते हि चिदात्मानं विसिन्वन्ति अवबध्नन्ति स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् (ब्र० सू० शा० भा० उपो० भाम०) । अत एव वेदान्तसारे - विषयो जीवब्रह्मैक्यं शुद्धचैतन्यं प्रमेयम् । तत्रैव वेदान्तानां तात्पर्यात् । सम्बन्धस्तु तदैक्यप्रमेयस्य तत्प्रतिपादकोपनिषत् प्रमाणस्य च बोध्यबोधकभावलक्षणः । अत एव च - युष्मप्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाध्यासः (ब्र० सू० उपो०) । यथा च - "विषयं लक्षयति - विषय इति । अविद्याध्यारोपितसर्वज्ञत्वकिञ्चिज्ज्ञत्वादिविरुद्धधर्मपरित्यागेनावशिष्टं यज्जीवब्रह्मैक्यं स विषयः (वे० सा० ) । विष्णु:, विष्णु १. पूर्णात्मा । यथा च - "यथैतादृशं यस्य लेशमात्रलाभोऽपि कृतार्थताहेतुस्तद् वैष्णवं विष्णोः पूर्णात्मनः स्वरूपभूतं सुखमवाप्तवन्तः किमन्यद्विषयसुखमर्थनीयं न किमपीत्यर्थ:" (सं० शा० १ । ३०२ अ० टी०) । यथा च "परमात्मस्वरूप इत्यर्थ: (तत्रैव १ । २३९ अ० टी०) । २. नारायणः । यथा - भगवतः नित्यसिद्धनिरङ्कुशैश्वर्यवतो विष्णोः श्रीनारायणस्य जगत्कारणतयोपलक्षितस्य यत्परमं पदं सत्यज्ञानाद्यात्मकं स्वरूपं परिगृहीतादेयं यथा स्यात्तथा तच्छब्देन समर्पितं विरुद्धांशप्रहाणेन तच्छब्दलक्षितमिति यावत् (तत्रैव १/२६५ अ० टी० ) । विष्णोः परमपदम्, विष्णु परमपद ब्रह्म । यथा - एवंविधं यद् विष्णोः परं पदं ब्रह्माख्यममुत्रामुस्मिन्पदे किं लक्षणेऽतिबुद्धिमनसि । अतिक्रान्ते बुद्धिमनसी येन तत्तथा तस्मिन्सङ्कल्पाध्यवसायागोचरेऽपि विष्णोः परमे पदे शब्दशक्तिर्ग्रहीतुं शक्येति योजना (सं० शा० १/३५८ अ० टी०) । विसिकः, विसिक (विसिच्– शब्दः) विवसनः, दिगम्बरः आर्हतः । यथा - "यथा रक्तपटानां विज्ञानावस्थानेऽपि तत्सन्ताननित्यता तद्वद् विसिचामपीत्याशङ्क्यानेन सूत्रेणोत्तरमुच्यते (ब्र० सू० २ । २ । ३५ शा० भा०) । यथा च – "विसिचो विवसनाः" (तत्रैव भाम०) । यथा च - "सिग वस्त्रं विगतं येभ्यस्ते विसिचः (तत्रैव वे० क० त० ) । विस्तारः, विस्तार उत्पत्तिः, ब्रह्मणो जगद्रूपेण विस्तार इति यावत् । यथा - "तत एव च तस्मादेव च विस्तारमुत्पत्तिविकासमात्मनः प्राण आत्मत आशा आत्मत स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतो भूरात्मनोऽस्मिन्नेवमादिप्रकारैर्विस्तारं यदा पश्यति ब्रह्म सम्पद्यते बह्मैव, भवति तदा" (गी० १३/३० शा० भा० ) । यथा च - "भूतानां वियदादीनां जरायुजादीनां च पृथग्भावं नानाभावेनावस्थानं परिदृश्यमानमिदं यदा एकस्थमेकस्मिन्नात्मनि स्थितं रज्ज्वां सर्पादिवत् कनके वा कुण्डलादिवत् विलीनं शास्त्राचार्योपदेशमनुपश्यति । तत एवैकस्मात् विस्तारं च भूतपृथग्भावस्य व्युत्थानावस्थामनु स्वप्नादिवत् पश्यति तदा ब्रह्म सम्पद्यते ब्रह्मैव भवति" (तत्रैव नी० क० ) । यथा च - "यथा भूतानां स्थावरजङ्गमानां पृथग्भावं भेदं पृथक्त्वमेकस्थमेकस्यामेवेश्वरशक्तिरूपायां प्रकृतौ स्थितं प्रलयेऽनुपश्यत्यालोचयति, तत एव च तस्या एव प्रकृतेः सकाशाद्भूतानां विस्तारं सृष्टिसमयेऽनुपश्यति तदा प्रकृतितावन्मात्रत्वेन भूतानामप्यभेदं पश्यन् परिपूर्ण ब्रह्म सम्पद्यते ब्रह्मैव भवतीत्यर्थः (तत्रैव श्रीधरी) । वृक्षः, वृक्ष शरीरम् । छेदनशीलत्वादुच्छेद्यत्वाच्चोपचाराद् शरीरम् । यथा "अनन्तरे च मन्त्रे तावेव द्रष्टृद्रष्टव्यभावेन विशिनष्टि- समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः" - मु० ३।१।२ - । इति । (ब्र० सू० १ । २ । १२ शा० भा० ) । यथा च - "उच्छेद्यत्वाद् वृक्षं शरीरं परिष्वक्तवन्तौ" (तत्रैव वे० क० त० ) । यथा च - "ओब्रश्चू च्छेदन इति धातो वृक्षशब्दः ।" ननु पिप्पलशब्दोऽश्वत्थवाची फले लुगिति विकारार्थतद्धितलुकि तत्फलं ब्रूयाद्, न तु कर्मफलमित्यत आह- संसारस्येति । उर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातन इति श्रुतिः (तत्रैव क० त० परि०) । वृत्तिः, वृत्ति १. इन्द्रियद्वारा विषयदेशं गत्वा अन्तःकरणस्य तत्तदाकारपरिणामः । यथा - "तत्र यथा तडागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान्प्रविश्य तद्वदेव चतुष्कोणाघाकारं भवति तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा निर्गत्य घटादिविषयदेशं गत्वा घटादिविषयाकारेण परिणमते । स एव परिणामो वृत्तिरित्युच्यते" (वे० प० १ प०) । यथा च - सा चान्तःकरणवृत्तिरावरणाभिवार्थेत्येकं मतम् । तथाहि अविद्योपहितचैतन्यस्य जीवत्वपक्षे घटाद्यधिष्ठानचैतन्यस्य जीवरूपतया सर्वदा घटादिभानप्रसक्तौ घटाघवच्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापरतन्त्रमवस्थापदवाच्यमभ्युपगन्तव्यम् । एवं सति घटादेर्न सर्वदा भानप्रसङ्गः । अनावृतचैतन्यसम्बन्धस्यैव भानप्रयोजकत्वात् । तस्य चावरणस्य सदातनत्वे कदाचिदपि घटभानं न स्यादिति तद्भङ्गे वक्तव्ये तद्भङ्गजनकं न चैतन्यमात्रम् । तद्भासकस्य तदनिवर्तकत्वात् नापि वृत्त्युपहितं चैतन्यम् । परोक्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्षवृत्तिव्यावृत्तवृत्तिविशेषस्य, तदुपहितचैतन्यस्य वाऽऽवरणभङ्गजनकत्वमित्यावरणाभिभवार्था वृत्तिरित्युच्यते । सम्बन्धार्था वृत्तिरित्यपरं मतम् । तत्राप्यविद्योपाधिकोऽपरिच्छिन्नो जीवः । स च घटादिप्रदेशे विद्यमानोऽपि घटाद्याकारापरोक्षवृत्तिविरहदशायां न घटादिकमवभासयति । घटादिना तस्य सम्बन्धाभावात् । तत्तदाकारवृत्तिदशायां तु भासयति । तदा सम्बन्धसत्वात् । ..... स च सम्बन्धविशेषो विषयस्य जीवचैतन्यस्य च व्यङ्ग्य़व्यञ्जकतालक्षणः कादाचित्कः तत्तदाकारवृत्तिनिबन्धनः । ....एतन्मते च विषयाणामपरोक्षत्वं चैतन्याभिव्यञ्जकत्वमिति द्रष्टव्यम् । एवं जीवस्यापरिच्छिन्नत्वेऽपि वृत्तेः सम्बन्धार्थत्वं निरूपितम् । २: वृत्तिः– शक्तिः लक्षणा, व्यञ्जना तात्पर्या च । ३. जीविका । ४. अर्थप्रक्रिया एका - यथा सूत्रवृत्तिः (अर्थः) । वृत्तिचातुर्विध्यम्, वृत्तिचातुर्विध्य वृत्तिश्चतुर्विधा संशयो, निश्चयो गर्वः, स्मरणमिति (वे० परि० १ प० ) । वृत्तिद्वयम् = तस्मादधिष्ठानांशे अन्तःकरणवृत्तिः अध्यस्तांशे चाविद्यावृत्तिः तस्यां च तादात्म्यस्य भानात् नाख्यातिमतप्रवेशः (अ० सि०) । १ (क) शाब्दबोधहेतुपदार्थोपस्थित्यनुकूल: पदपदार्थयोः सम्बन्ध: (चि० ४) (मु० ४ पृ० १७४) । सा च पदवृत्तिः इत्युच्यत इति विज्ञेयम् (ग० शक्ति० पृ० २) । अत्र वृत्तित्वं च शक्तिलक्षणान्यतरत्वम् (त० प्र० ख० ४ पृ० ३४) । परे तु शाब्दबोधजनकपदपदार्थसम्बन्धत्वमित्याहुः (ल० म० स्फोट० पृ० १३) । सांख्यास्तु महदादीनामिन्द्रियाणां च व्यापारो वृत्तिः । यथा अध्यवसायो (बुद्धेर्वृत्तिः) बुद्धिः (सां० सू० २।१३) । इत्यादौ इत्याहुः । तत्रोक्तम्- रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः । वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् । (सां० का० २८) इत्यादि । अत्र योगशास्त्रप्रवर्तकः पतञ्जलि: सूत्रयामास वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः । प्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगः सू० १ । ६-७) इति । अन्तःकरणपरिणामो वृत्तिः इति मायावादिनो वेदान्तिन आहुः । अन्तःकरणवृत्तेः स्वरूपप्रयोजनादिकं यथा । यथा तडोगोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा घटादिविषयदेशं गत्वा घटादिविषयाकारेण परिणमते । स एव परिणामो वृत्तिः इत्युच्यते । अनुमित्यादिस्थले तु नान्तःकरणस्य वह्न्यादिदेशगमनम् । वह्न्यादेश्चक्षुराद्यसन्निकर्षात् । इन्द्रियजन्यवृत्तिश्चावरणभङ्गार्था सम्बन्धार्था इति मतद्वैधम् (वेदा० प० ७ प०) (न्यायकोशः) । वृत्तित्वम्, वृत्तित्व वृत्तित्वं तु शाब्दबोधजनकपदपदार्थसम्बन्धत्वमिति परे (वै० सिं० ल० म० श० नि०) । वृत्तिव्याप्यत्वम्, वृत्तिव्याप्यत्व अन्तःकरणवृत्तौ घटादेविषयस्य व्याप्तिः । तथा हिअद्वैतवेदान्ते ज्ञानगतं प्रत्यक्षं तथा विषयगतं प्रत्यक्षं च द्वे भवतः । तत्र ज्ञानगत प्रत्यक्षत्वस्य प्रयोजकं प्रमाणचैतन्यस्य विषयावच्छिन्नचैतन्यस्य च अभेदः । घटादिविषयगतप्रत्यक्षत्वप्रयोजकं तु विषयावच्छिन्नचैतन्यस्य तथा प्रमातृचैतन्यस्याभेद इति मन्यते । चैतन्यं च त्रिविधं भवति - घटाघवच्छिन्नं चैतन्यं विषयचैतन्यम्, अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यम् । अन्तःकरणावच्छिन्नं चैतन्यं प्रमातृचैतन्यम् । अतःकरणवृत्तिद्वारा अयंघट इति ज्ञानप्रत्यक्षं प्रमाणचैतन्यस्य तथा विषयावच्छिन्नचैतन्यस्य च अभेदो जायते । घटज्ञाने विषयरूपस्य घटस्य प्रत्यक्षे घटादेर्विषयावच्छिन्नचैतन्यस्य प्रमातृचैतन्यस्य च अभेदो जायते । इयं च वृत्तिरित्थं भवति यथा – तैजसमन्तःकरणं चक्षुरादिद्वारा निर्गत्य घटादिविषयदेशं गत्वा घटादिविषयाकारेण परिणमते । एष एव परिणामो वृत्तिः इत्युच्यते । अस्यां वृत्तौ घटादेर्विषयस्य व्याप्तिर्भवति । तदेव वृत्तिव्याप्यत्वमुच्यते । उक्तं च - बुद्धितत्स्थ - चिदाभासौ द्वावेतौ व्यापृतो घटम् । तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत् (वे० सा०, प० द० ७।९१)। द्रष्टव्यं वेदान्तपरिभाषायां वृत्तिस्वरूपम् । यथा च - फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निवारितम् । ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता । स्वयंप्रकाशभानत्वान्नाभास उपयुज्यते । ब्रह्मणि वृत्तिव्याप्यत्वं भवति फलव्याप्तिर्न भवति । (वे० सा० ) वेदः, वेद महावाक्यम्, श्रुतिश्च । यथा - "वेद्यते ज्ञाप्यतेऽनेन परं ब्रह्मेति वेदो महावाक्यम् (सं० शा० ३।३९८ सु० टी० ) । यथा च - "उप समीपे प्रत्यगात्मानमव्यवधानेन ब्रह्म गमयतीत्युपनिषन्महावाक्योत्था ब्रह्मविद्या ब्रह्म प्रत्यगात्माऽभेदेन वेदयतीति वेदोऽपि सैव सा च महावाक्यैकनिबन्धनेति श्रुतिशिरसि वेदान्तभागे निविष्ट उपनिषदितिशब्दो वेदशब्दश्चात्र महावाक्ये योज्यतामिति योजना" (सं० शा० ३।२९८ अ० टी०) । २. कर्मकाण्डम् । यथा - "वेदशब्देनात्र कर्मकाण्डमेव गृह्यते" (गी० २।४५ आ० गि०) । यथा च - "त्रयाणां गुणानां कर्म त्रैगुण्यं काममूलः संसारः स एव प्रकाश्यत्वेन विषयो येषां तादृशाः वेदाः कर्मकाण्डात्मकाः, यो यत्फलकामस्तस्यैव तत्फलं बोधयन्तीत्यर्थः" (तत्रैव मधु०) । वेदनास्कन्धः, वेदनास्कन्ध "वेदनास्कन्धो या प्रियाप्रियानुभयविषयस्पर्शे सुखदुःखतद्रहितविशेषावस्था चित्तस्य जायतै स वेदनास्कन्धः" (ब्र०सू०२।२।१८ भाम०) । बौद्धसिद्धान्ते ये सर्वास्तित्ववादिनो बाह्यमाभ्यन्तरं च वस्त्वभ्युपगच्छन्ति भूतं भौतिकचित्तं चैत्तिकं च तेषां मते पञ्च स्कन्धाः मन्यन्ते - रूपस्कन्धः विज्ञानस्कन्धः वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धश्च । (ब्र० सू० २ ।२।१८ क० त० ) । यथा वेदमास्कन्ध इति भाष्योपादानं या प्रियेत्यादि तद्व्याख्यानम् । सविकल्पप्रत्यय इत्यनेन विज्ञानस्कन्धो निर्विकल्प इति भेदः स्कन्धयोर्ध्वनितः । उक्तं च प्रागुक्तस्कन्धद्वयसम्बन्धजन्यः सुखदुःखादिप्रत्ययप्रवाहः । वेदवाक्यम्, वेदवाक्य प्रमाणान्तरागोचरार्थप्रतिपादकं वाक्यम् (सर्व० सं० पृ० २७३-७४ जै०) (न्या० को०) । वेदविदः, वेदविद् उपनिषद्विदः । यथा - "यदक्षरं प्रणवाख्यं वाचकं वेदविदो वेदादौ वदन्ति । यद्वा यदक्षरं ब्रह्म तवाच्यम् एतद्वै यदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घम्" इत्येवं लक्षणं वा वेदविद उपनिषद्विदो वदन्ति" (गी० ८/११ नी० क०) । वेदादिगी:, वेदादिगी महावाणी, महावाक्यम्, उपनिषद् । यथा - "तथा च सर्वत्रैव वेदान्तेषु महागिरां ग्राहक उपनिषच्छब्दो भवेत् । वेदश्चायं महावाक्यलक्षण एवार्थाद् सिद्ध इत्यर्थः । अतोऽन्यन्महावाक्यातिरिक्तमस्य महावाक्यस्य निकटं तदपेक्षितार्थसम्पर्कत्वेन तदेकार्थनिष्ठं यतस्तेन हेतुनात्र वाक्यान्तभागे वेदादिगीरध्येतॄणामित्यर्थः (सं० शा० ३।२९९ अ० टी०) । वेदान्तः, वेदान्त ब्रह्मविद्या प्रतिपादकानि ब्रह्मसूत्रादिशास्त्राणि । यथा - १ . ( क ) वेदान्तो नाम उपनिषत् प्रमाणम् । तदुपकारीणि शारीरकसूत्रादीनि (वे० सा०) । (ख) वेदानामन्तिमो भागः उपनिषद् । वैनाशिक:, वैनाशिक बौद्धः, सर्वक्षणिकवादी । यथा- वैशेषिकराद्धान्तो दुर्युक्ति योगाद् वेदविरोधाच्छिष्टापरिग्रहाच्च नापेक्षितव्य इत्युक्तम् । सोऽर्धवैनाशिक इति वैनाशिकत्वसाम्यात् सर्ववैनाशिकराद्धान्तो नतरामपेक्षितव्य इतीदानीमुपपादयामः (ब्र० सू० २/२/१८ शा० भा०) । अत्र भामती - वादिवैचित्र्यात् खलु केचित् सर्वास्तित्वेन राद्धान्तं प्रतिपद्यन्ते । केचिज्ज्ञानमात्रतास्तित्वम् । केचित् सर्वशून्यताम् । .....विनयभेदावा । हीनमध्यमोत्कृष्टधियो हि शिष्या भवन्ति । तत्र ये हीनमतयस्ते सर्वास्तित्ववादेन तदाशयानुरोधाच्छून्यतायामवतार्यन्ते । ये तु मध्यमास्ते ज्ञानमात्रास्तित्वेन शून्यतायामवतार्यन्ते । ये तु प्रकृष्टमतयस्तेभ्यः साक्षादेव शून्यतातत्त्वं प्रतिपाद्यते । यथोक्तं वोधिचित्तविवरणे - देशना लोकनाथानां सत्त्वाशयवशानुगाः। भिद्यन्ते बहुधा लोक उपायैर्बहुभिः पुनः । १ । गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणा । भिन्नापि देशनाऽऽभिन्ना शून्यताद्वयलक्षणा । यद्यपि वैभाषिकसौत्रान्तिकयोरवान्तरमतभेदोऽस्ति तथापि सर्वास्तितायामस्ति सप्रतिपतिरित्येकीकृत्योपन्यासः । १. क्षणिकः पदार्थः । २. सर्वस्य क्षणभङ्गुरत्वप्रतिपादको बौद्धागमः । ३. बौद्धागमाभिज्ञः । केचित्तु मायावादिनः तार्किकस्यार्धवैनाशिकत्वं मेनिरे । ४. ज्यौतिषज्ञास्तु षण्नाडीचक्रस्थं जन्मनक्षत्रावधि त्रयोविंशनक्षत्रमित्याहुः । ५. परतन्त्रः । ६. ऊर्णनामिः (मेदि०) (वाच०) (न्यायकोशः) । वैराजम्, वैराज स्वर्गलोकसम्बन्धिपदम्, हिरण्यगर्भलोको वा । यथा - "स्वर्गलोके विराजे विराडात्मस्वरूपतया प्रतिपत्त्या । विराजः इदं वैराजम् पदम् (का० उ० १/१८ शा० भा० ) । वैशारद्यम्, वैशारद्य विशुद्धोद्वैतभावः । यथा- "विशुद्धेर्भावो वैशारद्यम् = यस्मात् वैशारद्यं विशुद्धिर्नास्ति तेषां भेदे विचरतां द्वैतमार्गेऽविद्याकल्पिते सर्वदा वर्तमानानामित्यर्थः (मा० उ० गौ० का० ४।९४ शा० भा०) । वैश्वानरः, वैश्वानर १. व्यापकः सर्वनराधिष्ठाता, विश्वाधिष्ठाता । यथा - "विश्वेषां नराणामनेकधा नयनाद् वैश्वानरः, यद्वा विश्वश्चासौ नरश्चेति विश्वानरो विश्वानर एव वैश्वानरः (मा० उ० १।४।१ शा० भा०) ।२. परमात्मा । यथा - "तत इदमुच्यतेवैश्वानरः परमात्मा भवितुमर्हतीति । कुतः ? साधारणशब्दविशेषात् 'इत्यादि (ब्र० सू० १।२४-२६)। ३. यथा च- "यस्त्वेतमेव प्रादेशमात्र अभिविमानमात्मानं वैश्वानरमुपास्ते" (छा० ५/१८/१) (ब्र० सू० ३।३।४) । ४. जीवः । यथा च "वैश्वानर इति जाठरभूताग्निदेवतानां साधारणशब्दप्रयोगादात्मेति च शारीरपरमेश्वरयोः । तत्र कस्योपादानं न्याय्यं कस्य वा हानमिति भवति संशयः ।...."अयमग्निर्वैश्वानरो योऽयमन्तःपुरुषे येनेदमन्नं पच्यते यदिदमद्यते (बृ०उ० ५।९) । इत्यादौ । अग्निमात्रं वा स्यात् सामान्येनापि प्रयोगदर्शनात् ।" वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिषीः (ऋ० सं० १/९८।१ ) । इत्येवमाद्याः श्रुतेर्देवतायाद्युपेतायां सम्भवात् । ....तस्मान्नेश्वरो वैश्वानर इत्येवं प्राप्ते तत इदमुच्यते- वैश्वानरः परमात्मा भवितुमर्हतीति । कुतः ? साधारणशब्दप्रयोगात् । तस्मात् परमेश्वर एव वैश्वानरः (ब्र०सू० १ । २ । २४ शा० भा० ) । यथा च "मूर्धा ते व्यपतिष्यदित्यादिनैकैकोपासननिन्दय तस्या हवा एतस्येत्याविना वैश्वानरस्य धुलोकादयो मूर्धादय कथनेनावयविनः समस्तभावमुपदिश्येत्यर्थः (तत्रैव वे० क० त०) । यथा च -अयमर्थः - वैश्वानरस्य भगवतो द्यौर्मूर्धा सुतेजा: । चक्षुश्च विश्वरूपः सूर्यः । प्राणो वायुः । तदेवं वैश्वानरावयवेषु द्युसूर्यानिखिलाकाशजलावनिषु मूर्धचक्षु प्राणसन्देहवस्तिपादेष्वेकैकस्मिन् वैश्वानर-बुद्ध्या विपरीततयोपासकानां.....निन्दया मूर्धादिसमस्तभावमुपदिश्याम्नायते"यस्त्वेतमेवं प्रादेशमात्रमभिविमानम् इति । (तत्रैव भाम० ) । यथा च - "तैरण्डस्तत्र भुवनं भोग्यभोगाश्रयोद्भवः । हिरण्यगर्भः स्थूलेऽस्मिन्देहे वैश्वानरो भवेत् (प० द० १।२८)। वैष्णवपदम्, वैष्णवपद सर्वत्र व्यापकम् आत्मपदम् । यथा च "एवञ्च सति वक्ष्यमाणरक्षककल्पनया वैष्णवस्य पदस्यात्मतया प्रतिपत्तिरुपपद्यते नान्यथा स्वभावानतिक्रमात् (का० उ० ३ । ४ । शा० भा० ) । यथा च - "वैष्णवपदप्राप्तिश्रुत्यनुपपत्त्यापि न. स्वाभाविकं भोक्तृत्वं वाच्यमित्याह" (तत्रैव शा० भा० आ० टी०) । व्यष्टिः, व्यष्टि इदमज्ञानं समष्टिव्यष्ट्यभिप्रायेणैकमनेकमिति च व्यवह्रियते । तथा हि - यथा वृक्षाणां समष्ट्यमिप्रायेण वनमित्येकत्वव्यपदेशो यथा वा जलानां समष्ट्यभिप्रायेण जलाशय इति तथा नानात्वेन प्रतिभासमानानां जीवगताज्ञानानां समष्ट्यभिप्रायेण तदेकत्वव्यपदेशः अजामेकाम् इत्यादिश्रुतेः । इयं समष्टिरुत्कृष्टोपाधितया विशुद्धसत्त्वप्रधाना । ....यथा वृक्षस्य व्यष्ट्यभिप्रायेण वृक्षा इत्यनेकत्वव्यपदेशाः । यथा वा जलाशयस्य व्यष्ट्यभिप्रायेण जलानीति (वे० सा० ) । यथा च - "व्यक्तयः स्थावरजङ्गमलक्षणाः सर्वाः प्रजाः प्रभवन्त्यभिव्यज्यन्ते" (गी० ८।१८ शा० भा०) । व्यानः, व्यान वाक् । यथा – "प्राणापानयोः सन्धिस्तयोरन्तरा वृत्तिविशेषः स व्यानो यः सांख्यादिशास्त्रप्रसिद्धश्रुत्या विशेषनिरूपणेनासौ व्यान इत्यभिप्रायः । यो व्यानः सा वाक्, व्यानकार्यत्वात् (छा० उ० १ ।३।३ शा० भा० ) । व्याप्तिः, व्याप्ति व्याप्तिश्च अशेषसाधनाश्रयाश्रितसाध्यसमानाधिकरण्यरूपा । सा च व्यभिचारादर्शने सति सहचारदर्शनेन 'गृह्यते । तच्च सहचारदर्शने न भूयो दर्शनं सकृद्दर्शने वेति विशेषो नादरणीयः सहचारदर्शनस्यैव प्रयोजकत्वात् । तच्चानुमानम् अन्वयिरूपमेकमेव, न तु केवलान्वयि । सर्वस्यापि धर्मस्यास्मन्मते ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वेन अत्यन्ताभावाप्रतियोगिसाध्यकत्वरूपकेवलान्वयित्वस्यासिद्धेः (वे० प० २ १०) । व्यावर्तकम्, व्यावर्तक १ . आश्रयाणां परस्परभेदानुमितिजनकम् । यथा विशेषस्तत्तत्परमाणूनां व्यावर्तकः । तथा हि- अयं पृथिवीपरमाणुरितरपरमाणुभ्यो भिद्यते एतद्विशेषात् इत्यंनुमाने विशेषस्य हेतुत्वं बोध्यम् (वाक्य पृ० २२) । यथा वा सास्नादिमत्त्वं महिष्यादेर्व्यावर्तकम् । इतरभेदविधेयकानुमितिजनकतावच्छेदकविषयता विशेषाश्रयः इति तदर्थ: (नील० १ पृ० ४) । २. क्वचिद् विशेष्यतावच्छेदकसमानाधिकरणाभावप्रतियोगि। एतच्च व्यावर्तकं द्विविधम् विशेषणम् उपलक्षणं चेति । तत्राद्यं यथा पुरुषादौ वर्तमानकालावच्छेदेन विद्यमानो दण्डादिः । द्वितीयं यथा काकवन्तो देवदत्तस्य गृहा इति । व्यावहारिकम्, व्यावहारिक व्यावहारिकसत्यं जगदादि । व्यवहर्तुं योग्यमित्यर्थः न पारमार्थिकम् । व्यावृत्तिः, व्यावृत्ति १. (क) तत्तद्धर्मावच्छिन्नेतरभेदः (नील० पृ० ५) । यथा व्यार्तकस्यैव लक्षणत्वे व्यावृत्तावभिधेयत्वादौ चातिव्याप्तिः (त० दी० ) । इत्यादौ व्यावृत्तिशब्दस्यार्थः । (ख) इतरभेदानुमितिः । यथा व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनमित्यत्र व्यावृत्तिशब्दस्यार्थः पृथिवीतरेभ्यो भिद्यते इत्यनुमितिः । तथा हि गन्धाभाव इतरव्यापकत्वग्रहे सति गन्धवती पृथिवी इति पक्षधर्मताग्रहे पृथिवीतरेभ्यो भिद्यते इत्यनुमितिरुत्पद्यते सैव व्यावृत्तिः (वाक्य पृ० २) । २. अत्यन्ताभावः । यथा यद्व्यावृत्त्या यस्य साधनस्य साध्यं निवर्तते स धर्मस्तत्र हेतावुपाधिः (पि० २ पृ० २८) । इत्यादौ । व्यासज्यवृत्तित्वम्, व्यासज्यवृत्तित्व १. स्वस्मानाधिकरणभेदप्रतियोगितावच्छेदकत्वम् (ग० २ मिश्र०) । समानाधिकरणभेदप्रतियोगितावच्छेदकत्वतादात्म्यैतदुभयचतु० सम्बन्धेन यत्किञ्चित्पदार्थविशिष्टत्वमित्यर्थः । यथा उभयत्वस्य व्यासज्यवृत्तित्वम् । २. अपेक्षाबुद्धिविशेषविषयत्वमपेक्षाबुद्धिजन्यत्वं वा । यथा द्वित्वत्रित्वादीनां व्यासज्यवृत्तित्वम् (ग० व्यु० का० १) (न्या० को०) । व्रतः, व्रत नियमः, भक्तिश्च । यथा च - "यान्ति गच्छन्ति देवव्रता देवेषु व्रतं नियमो भक्तिश्च येषां ते देवव्रता देवान् यान्ति । पितृनग्निष्वात्तादीन्यान्ति पितृव्रताः श्राद्धादिक्रियापराः पितृभक्ताः" (गी० ९/२५ शा० भा०) । यथा च - "देवव्रता देवेषु व्रतं बल्युपहारप्रदक्षिणाप्रह्लीभावादिरूपो नियमो भक्तिश्च येषां ते । तथा च पितृष्वग्निष्वात्तादिषु व्रतं श्राद्धादिक्रियानियमो भक्तिश्च येषां ते" (तत्रैव भाष्यो०)। यथा च - "पितृनग्निष्वात्तान्यान्ति पितृव्रता श्राद्धादिक्रिया पराः पितृभक्ताः" (गी० ९।२५ शा० भा०) । यथा च - "राजसास्तु पितृभक्ताः श्राद्धादिक्रियाभिरग्निष्वात्तादीनां पितृणामाराधकास्तामेव पितॄन् यान्ति (तत्रैव म० सू०) । शक्तिः, शक्ति सामर्थ्यम् । यथा - शक्तिस्तदर्थविवर्तनसामर्थ्यम् (गी० मं० श्लो० १ आ० गि०) । इयं शक्तिर्ब्रह्मणो मायारूपा ब्रह्मणि चानेकाः शक्तयः सन्ति । यथा सर्वोपेता च तदर्शनात् (ब्र० सू० २ । १ । ३०) । अत्र शा० भा० - एकस्यापि ब्रह्मणो विचित्रशक्तियोगादुपपद्यते विचित्रो विचार प्रपञ्च इत्युक्तम् । तत्पुनः कथमवगम्यते विचित्रशक्तियुक्तं परं ब्रह्मेति । तदुच्यते - सर्वोपेता च तद्दर्शनात् । सर्वशक्तियुक्ता च परा देवतेत्यभ्युपगन्तव्यम् । कुतः तद्दर्शनात् । तथा हि तद् दर्शयति श्रुतिः सर्वयोगं परस्या देवतायाः सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोवाक्यनादरः - छा० ३।१४।४। सत्यकामः सत्यसङ्कल्प: (छा० ८।७।१ ) । सर्वज्ञः सर्ववित् - मुण्ड० १।१।९ - एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः - बृ० उ० ३।८।९ - । इत्येवं जातीयका (तत्रैव शा० भा० ) । यथा च-- प्रतिषिद्धसर्वविशेषस्यापि ब्रह्मण: सर्वशक्तियोगः सम्भवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेव । तथा च शास्त्रम् - अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः (श्वे० ३।१९) । इत्यकरणस्यापि ब्रह्मणः सर्वसामर्थ्ययोगं दर्शयति (ब्र० सू० २।१।३१ शा० भा० ) । यथा च भामती मङ्गलश्लोकस्य - षड्भिरङ्गैरुपेताय विविधैरव्ययैरपि इत्यस्य वेदान्तकल्पतरु व्याख्यायामुक्तम् – ईश्वरस्य षडङ्गानि पुराणोक्तानि - सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अचिन्त्यशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य इति । अव्ययानि वायुपुराणे पठ्यन्ते -ज्ञानं विरागतैश्वर्यं तपः सत्यं क्षमा धृतिः । स्रष्टृत्वमात्मसम्बोधो ह्यधिष्ठातृत्वमेव च (वे०क०त०) । तत्रैव भामत्याम्-पञ्चममङ्गलश्लोके ज्ञानशक्तेरवतारो व्यासः कथितः- ज्ञानशक्त्यवतराय नमो भगवतो हरे: (भा० म० श्लो० ५) । यथा च - मायामत्रं तु कर्त्येनानमिव्यक्तस्वत्वात् (ब्र० सू० ३ । २।३) । शा० भाष्ये मायैव सन्ध्ये सृष्टिर्न परमार्थगन्धोऽप्यस्ति । यथा च - भामतीमङ्गलश्लोके अनिर्वाच्याविद्याद्वितीयसचिवस्य । १. दहराधिकरणे १ ।३।१९ ब्र० सू० शा० भा० तथा अन्यत्रापि अविद्या एवं माया एकैवेति । देवात्मशक्तिं स्वगुणैर्निगूढां मुनयोऽविन्दन् परास्य शक्तिर्विविधा क्रियाज्ञानफलात्मिका (प० द० १३।१ ) अद्वैतबेदान्ते सर्वेषां कार्याणां कारणतावच्छेदिका कार्यानुकूला शक्तिरङ्गीक्रियते । यथा - अस्माकं तु मते सर्वत्र कारणतायाः शक्तेरेवावच्छेदकत्वान्न कोऽपि दोषः (वे० प० ४ प०) । यथा च- अविद्या कर्मसंज्ञान्या तृतीया शक्तिरिष्यते । यथा क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वथा (वि० पु० ६ ।७।६१) । यथा च तस्मादसप्रकाशनशक्तिरेवाविद्येति साम्प्रतम् (ब्र० सू० १1१1१ उपो० भाम० ) । यथा च - मायामात्र० ब्र० सू० ३।२।३ शुद्धाद्वैतिपुरुषोत्तमाचार्यस्य प्रकाशटीकायाम् - ईश्वरस्य या व्यामोहिका शक्तिः सा माया । यथा च - ब्रह्मसूत्रे १/१/१ श्रीभाष्ये अनेकाः शक्तयः उक्ताः । काश्मीरप्रत्यभिज्ञादर्शने परमेश्वरस्य पञ्च शक्तयो गण्यन्ते - चित् आनन्दः इच्छा ज्ञानं क्रिया चेति । तन्त्रसारे उक्तम् - आनन्द: स्वातन्त्र्यं स्वात्मविश्रान्तिस्वभावह्लादप्राधान्यात् । एवम् इयं चिच्छक्तिरेव संविद् शक्तिरप्युच्यते । यथा – विश्वात्मिकां तदुत्तीर्णां हृदयं परमेशितुः । परादिशक्तिरूपेण स्फुरन्तीं संविदं नुमः (क्षेमराजः) । यथा च - सर्वाकारयोगित्वं क्रियाशक्तिः (त० सा० १ आ० ) । यथा च - ह्लादिनी सन्धिनी संवित् त्वय्येका सर्वसंश्रये । ह्ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते (तत्रैव वि० पु०) । यथा च - भगवत्प्रीतिरूपा वृत्तिर्मायादिमयी न भवति किं तर्हि स्वरूपशक्त्यानन्दरूपा यथानन्दपराधीनः श्री भगवानपीति । (चैतन्यमतस्य प्रीतिसन्दर्भे) । यथा च - तदीया परमा शक्तिः सच्चिदानन्दरूपा समस्तलोकनिर्माणसमवायस्वरूपिणी । तदिच्छयाऽभवत् साक्षात् तत्स्वरूपानुकारिणी (माध्वदर्शनस्य सिद्धान्तशिखामणौ ) । माध्वदर्शने परमेश्वरस्य चतस्रः शक्तयो भवन्ति.... । १. अचिन्त्यशक्तिः। २. आधेयशक्तिः । ३. सहजशक्तिः ।. ४. पदशक्तिश्च । यथा च - १. (क) कारणनिष्ठः कार्योत्पादनयोग्यो धर्मविशेषः स च धर्मः प्रतिबन्धकाभावादिरूपकारणात्मकः (त० दी० ४।४६) यथा वह्नौ दाहानुकूला शक्तिः । (ख) कारणत्वम् । तच्च स्वस्वव्याप्येतरसकलसम्पत्तौ कार्याभावव्यापकाभावप्रतियोगित्वम् (चि० २) । (ग) मीमांसकविशेषाः प्राभाकरास्तु शक्तिः पदार्थान्तरमेव न तु कारणत्वरूपा इत्याहुः (नील० पृ० ४६) (दि० १ पृ० २२)। २. पौराणिकास्तु स्त्रीदेवता शक्तिः । यथा वैष्णवी ब्राह्मी गौरी च इत्याहुः । अत्रोक्तम् इच्छा क्रिया तथा ज्ञानं गौरी ब्राह्मी तु वैष्णवी । ३. तान्त्रिकास्तु पीठाधिष्ठातृदेवताविशेष इत्याहुः । ४. इच्छामात्रं शक्तिरिति नव्या आहुः (मु० ४) (वात्स्या० २।१।५४) । मीमांसकास्तु अभिधा नाम पदार्थान्तरं संकेतग्राह्यं शक्तिः इत्याहुः (न्या० मु० ३) (त० दी०) (ग० शक्तिः) । ६. पदपदार्थयोर्वाच्यवाचकभावनियामकं सम्बन्धान्तरं शक्तिः इति शाब्दिका वदन्ति (वै० सा० द०) (वै० ल० म०) । ७. वेदान्तिनस्तु अङ्गुलिप्रसारणादिपूर्वकं निर्देशेन शक्तिग्रहो भवति । यथा बाल तवेयं माता तवायं पिता अयं ते भ्राता कदलीफलमभ्यवहरति इति निर्देशेन बालस्य मात्रादौ शक्तिग्रह इत्याहु: (प्र० च० परि० १ पृ० ३८) (न्या० को०) । शक्तिभेदः ,शक्तिभेद प्रतिवेदान्तं शक्तेरनेकं रूपमनेके भेदा उपलभ्यन्ते । यथा - ब्रह्मसूत्रे तदधीनत्वार्थवत् १ । ४ । ३ शा० भाष्ये अविद्यात्मिका हि बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुप्तिः । यस्यां स्वरूपबोधरहिताः शेरते संसारिणो जीवाः । तदेतदव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम् । एतस्मिन्तु खल्वक्षरे गार्ग्याकाश ओतः प्रोतश्च (बृ० उ० ३/८/११) इति श्रुतेः । क्वचिदक्षरशब्दोदितम् - अक्षरात्परतः परः (मु० २।१।२) । इति श्रुतेः । क्वचिन्मायेति सूचितम्- मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् (श्वे० ४।१०) इति मन्त्रवर्णात् । यथा च - अव्यक्तनाम्नी परमेशक्तिरनाद्यविद्या त्रिगुणात्मिका या (विवेकचूडामणौ ११०) । यथा च शक्तिद्वयं हि मायाया विक्षेपावृत्तिरूपकम् । विक्षेपशक्तिर्लिङ्गादिब्रह्माण्डान्तं जगत्सृजेत् (दृग्दृश्यविवेके १३) । विष्णुपुराणे (६।७।६१) । यथा च - विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा । अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते । तत्रैव च - ह्लादिनी सन्धिनी संवित् त्वय्येका सर्वसंश्रये । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते । यथा च स्वच्छन्दतन्त्रे – कुलं शक्तिरिति प्रोक्तमकुलं शिव उच्यते । यथा च प्रत्यभिज्ञादर्शने चित् आनन्दः इच्छा ज्ञानं क्रियाः इमाः शक्तयः । शतम्, शतम् शतसंख्यावाची तथा वह्वर्थवाची अयं शब्दः । यथा - शताद्या द्विपरार्द्धान्ता संख्या स्वार्थपरा क्वचित् । प्रायोऽनेकार्थिका ज्ञेया इतिहासपुराणयोः (भाग० १०/५९/३ बंशीधरी टी०) । शतायुर्वै पुरुषः (कौषतकी ब्राह्मणे ११।७)। अन्यत्र च- शतायुर्वै पुरुषः सहस्रायुः शतेन्द्रियः । शतेन्द्रियाः = देवाः । शब्द:, शब्द आकाशमात्रस्य गुण इति नैयायिकाः । किन्तु अद्वैतवेदान्तमते वाय्वादीनामपि शब्दो गुणः । नैयायिका आकाशाद् वायोरुत्पत्तिं न मन्यन्ते । अतः आकाशगुणस्य शब्दस्य वाय्वादिक्रमेण तेज आदिषु अङ्गीकारो न युक्तः। अद्वैतिनां तु आकाशाद् वायुरिति श्रुतेराकाशगुणस्य वाय्वादावपि तम्भवः । यथा - न च शब्दस्याकाशमात्रगुणत्वम् । वाय्वादावपि तदुपलम्भात् । नचासौ भ्रमः बाधकाभावात् (वे० प० ७ प०) । यथा च - शब्दस्पर्शी रूपरसौ गन्धो भूतगुणा इमे । एकद्वित्रिचतुः पञ्च गुणा व्योमादिषु क्रमात् । प्रतिध्वनिर्वियच्छब्दः वायौ वीसीति शब्दनम् । अनुष्णाशीतसंस्पर्शो वह्नौभुगुभुगुध्वनिः । शीतस्पर्शः शुक्लरूपं रसो माधुर्यमीरितम् । भूमौ कडकडाशब्दः । काठिन्यं स्पर्श इष्यते । नीलादिकं चित्ररूपं मधुराम्लादिको रसः (प० द० पञ्चभूतवि० प्र० २-४) । वर्णा एव तु शब्द इति भगवानुपवर्षः (ब्र० सू० १ ।३।२८ शा० भा०) । अयमेव अद्वैतसिद्धान्तः । स्फोट एव शब्द इति वैयाकरणाः । आकाशगुण: शब्दो ध्वन्यात्मको वर्णात्मकश्च इति न्यायवैशेषिकौ । शब्दो ध्वनिरूपः क्षणिकोऽनित्यश्चेति बौद्धाः । शब्दः पौद्गलिक कार्यो द्रव्यरूपो वर्णात्मकोऽनित्यश्चेति जैनाः । शब्दतन्मात्रैवाकाशः अत आकाशवच्छब्दोऽपि व्यापकः । ध्वन्यात्मको वर्णरूपः शब्द इति सांख्ययोगौ । यथा च - गुणः । (क) श्रोत्रग्रहणो योऽर्थः स शब्दः । शब्दलक्षणं च श्रोत्रग्राह्यगुणविभाजकधर्मवत्त्वम् (वाक्य० ४९) । अथवा श्रवणेन्द्रियजन्यलौकिकप्रत्यक्षविषयवृत्तिगुणत्वव्याप्यजातिमत्त्वम् । तादृशजातिश्च शब्दत्वरूपा । गुणव्याप्य जातिघटितलक्षणकरणेन अश्रुतशब्दे नाव्याप्तिः । न वा सत्त्वगुणादिकमादाय गुणान्तरेष्वतिव्याप्तिश्च (वै० वि०२।२।२१) । शब्दस्तु आकाशमात्रवृत्तिः बाह्यैकेन्द्रियग्राह्यः द्विक्षणावस्थायी तृतीयक्षणे नश्यति च । अत एवानित्य इति नैयायिकसिद्धान्तः । पृथिव्यादिषु पञ्चसु शब्दस्तिष्ठति इति सांख्यवेदान्तिनश्चाहुः । स्वतन्त्रास्तु भेर्यां शब्दः मृदङ्गे शब्दः इति व्यवहारात् पृथिव्यामेव शब्दमिच्छन्ति (सि० च० १ पृ० १९) । शब्दो न स्पर्शवद् विशेषगुणःप्रत्यक्षत्वे सति अकारणगुणपूर्वकत्वात् अभावद्रव्यभावित्वात् आश्रयादन्यत्र श्रोत्रदेशे उपलब्धेश्च । शब्दो गुणो भूत्वाकाशस्याधिगमे लिङ्गम् (प्रशस्त ० पृ० ६) (मु० ख०) । इति । (न्यायकोशः) । शब्दब्रह्म, शब्दब्रह्मन् १. वेदोक्तकर्मानुष्ठानफलम् । २. वेदकर्मप्रतिपादकम् । ३. वेदः । यथा- जिज्ञासुरपि योगस्य स्वरूपं ज्ञातुमिच्छन् योगमार्गे प्रवृत्तः संन्यासी योगभ्रष्टः सामर्थ्यात् सोऽपि शब्दब्रह्म वेदोक्तकर्मानुष्ठानफलमतिवर्ततेऽपाकरिष्यति किमुत बुद्ध्या यो योगं तन्निष्ठोऽभ्यासं कुर्यात् (गी० ६।४४ शा० भा०) । यथा च शब्दब्रह्म वेदकर्मप्रतिपादकमतिवर्तते अतिक्रम्य तिष्ठति (तत्रैव म० सू०) । यथा च शब्दब्रह्म वेदमतिवर्तते वेदोक्तकर्मफलान्यतिक्रामति (तत्रैव श्रीधरी) ।४. कर्मकाण्डम् । यथा – शब्दब्रह्म कर्मकाण्डं वेदमप्यतिक्रम्य वर्तते किं पुनः पित्राद्याज्ञाम् (तत्रैव नी० क०) । ५. वैयाकरणैः परा पश्यन्ती वा वाक्(शब्दः) ब्रह्म मन्यते । यथा अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ (वा०प० १।१)। आचार्यमण्डनमिश्रेण शब्दाद्वैतब्रह्मवादमाश्रित्यैव ब्रह्मसिद्धि-नामको ग्रन्थो निरमायि । तत्र ब्रह्मसिद्धौ ब्रह्मकाण्डस्यान्तिमायां कारिकायाम्- अन्यैर्ब्रह्मविद्भिः इत्युक्तम् । अन्यैर्ब्रह्मविद्भिः इति पदाभ्यां श्रीमर्तृहरिप्रभृतय आचार्याः स्मृता इति सम्प्रदायविदः कथयन्ति। वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे इति वदन् मनुः । शब्द इति चेन्नातः प्रभवात् (ब्र० सू० १ ।३।२८ ) । इति ब्रह्मसूत्रे सोऽयमक्षरसमाम्नायः । ब्रह्मराशिः इति व्याकरणमहाभाष्ये १/१/२ आह्निके प्रतिपादयन् पतञ्जलिरत्र च व्याख्यापरौ कैयटो नागेशश्च शब्दब्रह्म अभिप्रयन्ति स्वीकुर्वन्ति च । व्याकरणमहाभाष्ये पस्पशाह्निके चत्वारि शृङ्गा त्रयोऽस्यपादाः इति ऋचो व्याख्यायां शब्दरूपं परं ब्रह्म श्रीपतञ्जलिः साधितवान् । ऋचोऽ क्षरे परमे व्योमन् यस्मिन् देवा अधिविश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत तद् विदुस्त इमे समासते ( ऋ० वे० १।१६४।३९) । इति ऋचो व्याख्या शब्दब्रह्मपरा वर्तते । चत्वारि वाक् परिमितानि पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ( ऋ० वे० १ ।१६४।१०) । इति ऋचो व्याख्यापि शब्दब्रह्मपरा । यथा च वाचा विरूपनित्यया (ऋ० वे० ८/७५।६) । यदि वै प्रजापतेः परमस्ति वागेव (श० प० ब्रा० ५ । १ ।३।३) । एष उ एव ब्रह्मणस्पतिर्वाग् वै ब्रह्म (बृ० उ० १ । ३ । २१ ) । शैलिनी र्वाग् वै ब्रह्म (बृ० उ० ४।१।२) । स यो वाचं ब्रह्मेत्युपास्ते..... यथा कामचारो भवति यो वाचं ब्रह्मेत्युपास्ते (छा० उ० ७ ।२।२) । ॐकार एवेदं सर्वमोंकार एवेदं सर्वम् (छा० २।२३।३) । यथा च - अपि प्रयोक्तुरात्मानं शब्दमन्तरवस्थितम् । प्राहुर्महान्तमृषभं येन सायुज्यमिष्यते (वा० प० १ । १३०) । इत्याहुस्ते परं ब्रह्म यदनादि तथाक्षयम् । तदक्षरं शब्दरूपं सा पश्यन्ती सा परा हि वाक् (शिवदृष्टौ २।२) । अयमेव शब्दाद्वैतः सत्ताद्वैतः । सत्तात्र जाति: जातिश्च शब्दार्थः । सत्ताद्वैत एव भाषाद्वैतः । विस्तरस्तु शंकराप्रागद्वैतवादग्रन्थे द्र० । शमः, शम अन्तःकरणस्य संसर्गनिवृत्तिः । अत्र च वेदान्तप्रतिपादितपदार्थेभ्योऽन्यत्र अन्तःकरणनिवृत्तिर्ज्ञेया । तेन श्रवणमनननिदिध्यासनादौ न दोषः । यथा - शमस्तावच्छ्रवणादिव्यतिरिक्तविषयेभ्यो मनसो निग्रहः । वेदान्ताध्ययनस्य अधिकारी साधनचतुष्टयसम्पन्नो भवेत् । साधनचतुष्टयं च । यथा साधनानि नित्यानित्यवस्तुविवेकेहामुत्रफलभोगविरागशमादिषट्कसम्पत्तिमुमुक्षुत्वादीनि (वे० सा०) । यथा च अन्तरिन्द्रियनिग्रहः शमः (वे० प० ८ प०) । शमादिषट्कसम्पत्तिः, शमादिषट्कसम्पत्ति वेदान्ताध्ययने शमादयः षट् सम्पत्तयोऽपेक्ष्यन्ते । ताश्च शमः दमः उपरतिः तितिक्षा समाधानं श्रद्धा च । यथा - शमादयस्तु शमदमोपरतितितिक्षासमाधानश्रद्धाख्याः । शमस्तावच्छ्रवणादिव्यतिरिक्तविषयेभ्यो मनसो निग्रहः । दमो बाह्येन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो निवर्तनम् । निवर्तितानामेतेषां तद् व्यतिरिक्तविषयेभ्य उपरमणमुपरतिः । अथवा विहितानां कर्मणां विधिना परित्यागः । तितिक्षा शीतोष्णादिद्वन्द्वसहिष्णुता । निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः समाधानम् । गुरूपदिष्टवेदान्तवाक्येषु विश्वासः श्रद्धा । मुमुक्षुत्वं मोक्षेच्छा । एवं भूतः प्रमाता अधिकारी "शान्तो दान्तः" इत्यादिश्रुतेः । उक्तं च - प्रशान्तचित्ताय जितेन्द्रियाय प्रहीणदोषाय यथोक्तकारिणे । गुणन्वितानुगताय सर्वदा प्रदेयमेतत् सततं मुमुक्षवे (वे० सा०) । अन्यच्च यथा वेदान्तपरिभाषाप्रयोजनपरिच्छेदे - अत्रोपरमशब्देन संन्यासोऽभिधीयते । तथा च संन्यासिनामेव श्रवणाधिकार इति केचित् । अपरे तु उपरमशब्दस्य संन्यासवाचकत्वाभावाद् विक्षेपाभावमात्रस्य गृहस्थेष्वपि सम्भवात् । जनकादेरपि ब्रह्मविचारस्य श्रूयमाणत्वात् । शम्, शम् आनन्दः प्रीतिः शुभं कल्याणं सुखम् ब्रह्म शान्तिश्च । यथा - ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः (तै० उ० १ । १ ) । यथा च नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च०.... (शु० य० वे० १६।४२ ) । शरीरम्, शरीर भोगायतनम् । यथा - वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरत्वम् (वे० प० ७ प०) । एतच्च त्रिविधम् - १. कारणशरीरम् । २. लिङ्गशरीरम् (सूक्ष्मशरीरम्) । ३. स्थूलशरीरं च । तत्र कारणशरीरं यथा - यः सर्वज्ञः स सर्ववित् इति श्रुतेः ईश्वरस्येयं समष्टिरखिलकारणत्वात् कारणशरीरम् । आनन्दप्रचुरत्वात्कोशवदाच्छादकत्वाच्चानन्दमयकोशः सर्वोपरमत्वात् सुषुप्तिरत एव स्थूलसूक्ष्मप्रपञ्चलयस्थानमिति चोच्यते (वे० सा०) । लिङ्गशरीरं यथा- पूर्वोक्तैरपञ्चीकृतैर्लिङ्गशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्यन्तं स्थायि मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियकर्मेन्द्रियपञ्चकप्राणादिपञ्चकसंयुक्तं जायते । तदुक्तम्- पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्त्थं सूक्ष्माङ्गं भोगसाधनम् ॥ १ ॥ इति । तच्च द्विविधं परमपरं च । तत्र परं हिरण्यगर्भं लिङ्गशरीरम् । अपरमस्मदादिलिङ्गशरीरम् । तत्र हिरण्यगर्भलिङ्गशरीरं महत्तत्वम् । अस्मदादिलिङ्गशरीरमहङ्कार इत्याख्यायते (वे० प० ७ प०) । स्थूलशरीरं यथा - स्थूलभूतानि तु पञ्चीकृतानि । एतेभ्यः पञ्चीकृतेभ्यो भूतेभ्यो भूर्भुवः स्वः .....अत्रापि चतुर्विधस्थूलशरीरम् । अस्यैषा समष्टिः स्थूलशरीरमन्नमयविकारत्वादन्नमयकोशः स्थूलभोगायतनत्वाच्च स्थूलशरीरं जाग्रदिति च व्यपदिश्यते (वे० सा०) । १. चेष्टेन्द्रियार्थाश्रयः शरीरम् (गौ० १/१/११) (त० भा० प्रमेय० पृ० २५)। अत्र व्युत्पत्तिः शीर्यते इति (शु ईरन्) । प्रतिक्षणं क्षीयमानं देहं शरीरम् । शरीरत्वं न जातिः । पृथिवीत्वादिना संकरात् (वै० वि०४।२।१) (मु० परि० २) । शरीरत्वं च प्रयत्नवदात्मसंयोगासमवायिकारणवक्रियावदन्त्यावयवित्वम् (वै० उ०४।२।१ ) । अथवा अन्त्यावयविमात्रवृत्तिचेष्टावद्वृत्तिजातिमत्त्वम् (वै० वि० ४।२।१) (प० भा०) । अत्रान्त्यपदप्रयोजनमुच्यते- हस्तत्वपृथिवीत्वद्रव्यत्वसत्त्वादिवारणाय अन्त्यावयविमात्रवृत्ति इति पदं दत्तम् । घटत्वादिवारणाय चेष्टावद्वृत्तिपदं दत्तम् । घटशरीरसंयोगादिवारणाय जाति इति पदम् । एवञ्च मनुष्यत्वचैत्रत्वादिजाति-मादाय मानुषादिशरीरे लक्षणसमन्वयः । कल्पभेदेन नृसिंहशरीरस्य नानात्वान् नृसिंहत्वजातिमादाय तत्र लक्षणसमन्वयः । अथवा अवच्छेदक तासम्बन्धेन भोगा-श्रयत्वम्, भोगायतनवृत्त्यन्तावयविमात्रवृत्तिजातिमत्त्वं वा (प० भा०) । जीवशरीर-मात्रलक्षणं तु आत्मविशेषगुणजनकमनःसंयोगावच्छेदकत्वम् (त० भा०) । अथ चेष्टेन्द्रियार्थाश्रया उच्यते । अत्र आश्रयपदस्य प्रत्येकमन्वयाच्चेष्टाश्रयत्वादि-लक्षणत्रयम् (न्या० को०) । शाखारण्डत्वम्, शाखारण्डत्व निन्दाप्रायश्चितयोरुपालम्भः । यथा - शाखारण्डत्वेनान्यशाखानिष्ठस्य निन्दाप्रायश्चित्तयोरुपलम्भात् (सं० शा० ३।२९५ अ० टी०) । शान्तिः, शान्ति १. कैवल्यम् । २. मोक्षः । यथा - युक्तो ब्रह्मण्याधाय कर्माणीत्यादिनोक्तलक्षणः कर्मणां फलं त्यक्त्वा ईश्वरे समर्प्य शान्ति कैवल्यं नैष्ठिकीं सत्त्वशुद्ध्यादिक्रमप्राप्तब्रह्मनिष्ठाफलभूतां प्राप्नोति (गी० ५/१२ नी० क०) । यथा च - युक्तः परमेश्वराय कर्माणि न मम फलायेत्येवं समाहितः सन् कर्मफलं परित्यज्य शान्ति मोक्षाख्यां नैष्ठिकीं निष्ठायां भवां सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासज्ञाननिष्ठाक्रमेण प्राप्नोति (तत्रैव भाष्यो०) । यथा च परमेश्वरैकनिष्ठः सन् कर्मणां फलं त्यक्त्वा कर्माणि कुर्वन्नात्यन्तिकीं शान्तिं मोक्षं प्राप्नोति (तत्रैव श्रीधरी) । ३. निर्वाणम् । यथा - स एवम्भूतः स्थितप्रज्ञो ब्रह्मविच्छान्तिं सर्वसंसारदुःखोपरमत्वलक्षणां निर्वाणाख्यामधिगच्छति प्राप्नोति (गी० २।७१ शा० भा०) । एवम्भूतः स्थितप्रज्ञः शान्ति सर्वसंसारदु: खोपरमलक्षणामविद्यातत्कार्यनिर्वृतिमधिगच्छति ज्ञानबलेन प्राप्नोति (तत्रैव म० सू०) । यथा च - शान्तिः १ . उपद्रवनिवारणम् । यथा शान्ता पृथिवी, शान्तं पापमित्यादौ । २. वेदान्तिनस्तु कामक्रोधादिजयः विषयेभ्यो मनसो निवारणं च इत्याहुः । ३. दुर्गा देवी इति शाक्ता आहुः ।४. दैवज्ञास्तु पूजाहोमजपदानादिद्वारा गोचरविलग्नादिस्थग्रहदौस्थ्यदुःस्वप्नादिसूचितैहिकानिष्टहेतुपापनिवृत्तिः । तदुक्तम्यथा- शस्त्रप्रहाराणां कवचं विनिवारकम् । तथा दैवोपघातानां शान्तिर्भवति वारणम् । (मलमासधृतवाक्यम्) । यथा उदकशान्तिः वास्तुशान्तिः भुवनेश्वरीशान्तिः इत्याहुः (न्या० को०) । शारीरः, शारीर जीवः । यथा – शरीरे भवः शारीरो जीवः (सं० शा० १० सु० टी०) । यथा च – ब्रह्मैवोक्तेन न्यायेन मनोमयत्वादिगुणं न तु शारीरो जीवो मनोमयत्वादिगुणः । यत्कारणं सत्यसङ्कल्पः आकाशात्मा अवाकी अनादरः न्यायान् पृथिव्या इति चैवंजातीयका गुणा न शारीर आञ्जस्येनोपपद्यते । शारीर इति शरीरे भव इत्यर्थः । ननु ईश्वरोऽपि शरीरे भवति ज्यायान् पृथिव्या ज्यायानन्तरिक्षात् आकाशवत् सर्वगतश्च नित्यः इति च व्यापित्वश्रवणात् (ब्र० सू० १ । २ । ३ शा० भा० ) । यथा सत्यसङ्कल्पादयो ब्रह्मण्युपपद्यन्ते एवं शारीरेऽप्युपपद्यन्ते । शारीरस्य ब्रह्मणोऽभेदात् (तत्रैव भाम० ) । शारीरम्, शारीर १ . शरीरस्थितिमात्रनिमित्तं कर्म । यथा - शारीरं शरीरस्थितिमात्रप्रयोजकं केवलं कर्म कुर्वन्नाप्नोति न प्राप्नोति किल्विषमनिष्टरूपं पापं धर्मं च.... एवं शारीरं केवलं कर्मेत्यस्यार्थस्य परिग्रहे निरवद्यं भवति (गी० ४।२१ शा० भा० ) । यथा च स व्युत्त्थानकाले शारीरं शरीरस्थितिमात्रप्रयोजनं भिक्षाटनादि (तत्रैव नी० क०) । यथा च - शारीरं शरीरस्थितिमात्रप्रयोजनं कौपीनाच्छादनादिग्रहणभिक्षाटनादिरूपम् (तत्रैव म० सू०) । यथा च - शारीरं शरीरमात्रानिर्वत्यं कर्तृत्वाभिनिवेशरहितं कर्म कुर्वन्नपि किल्विषं बन्धनं न प्राप्नोति (तत्रैव श्रीधरी) । शारीरकः, शारीरक जीवात्मा । यथा - वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः (ब्र० सू० १/१/१ शा० भा० उपो०) । अत्र भामत्याम्- शरीरमेव शरीरकं तत्र निवासी शारीरको जीवात्मा । शारीरकम्, शारीरक शारीरो जीवस्तस्य परमात्मरूपताप्रतिपादकं शास्त्रम् । तच्च शारीरकमीमांसेत्युच्यतेऽ द्वैतवेदान्तिभिः । अत एव ब्रह्मसूत्रभाष्यं शारीरकभाष्यं कथ्यते । यथा - शरीरमेव शारीरकं तत्र निवासी जीवात्मा, तस्य त्वंपदाभिधेयपरमात्मरूपतामीमांसा (ब्र० सू० शा० भा० उपो०) । शरीरे भवः भवं च शारीरो जीवस्तथा ब्रह्म तं तच्च कै गै शब्दे इति धातोः कायति शब्दयति बोधयति इति शारीरकवेदान्तशास्त्रमित्यन्यैः । शालावृकः, शालावृक आरण्यश्वा । यथा - रौति यथार्थं शब्दयति इति रुद् वेदान्तवाक्यं तत्र मुखं येषां ते रुन्मुखाः । तेभ्योऽन्ये अनुरुन्मुखाः शालावृकेभ्यः आरण्यश्वभ्यः ( ब्र० सू० १/१/३१ वे० क० ) । शाश्वतः, शाश्वत नित्यो धर्मः । यथा - "शश्वद्भवः शाश्वतो नित्यो धर्मस्तस्य गोप्ता शाश्वतधर्मगोप्ता" (गी० ११/१८ शा० भा०) । यथा च - "अविनाशित्वात्तवैव ज्ञातव्यतातिरिक्तस्य नाशित्वेन हेयत्वादित्यर्थः । ज्ञानकर्मात्मनो धर्मस्य नित्यत्वं वेदप्रमाणकत्वं धर्मसंस्थापनार्थाय सम्भवामि इत्युक्तत्वाद् गोप्ता रक्षिता" (तत्रैव आ० गि०) । यथा च - शाश्वतः इत्यपक्षयलक्षणा विक्रिया प्रतिषिध्यते । शश्वद्भवः शाश्वतः । नापक्षीयते स्वरूपेण निरवयवत्वान्निर्गुणत्वाच्च । नापि गुणक्षयेणापक्षयः" (गी० २।२० शा० भा० ) । शाश्वतम्, शाश्वत नित्यम्, सर्वदैकरूपम् । यथा - "शाश्वतं नित्यम्" (गी० १०/१२ शा० भा० ) । यथा च- "शाश्वतं सर्वदैकरूपम्" (तत्रैव म० सू० ) । शास्त्रम्, शास्त्र १ शिष्यतेऽनुशिष्यते बोध्यतेऽपूर्वोऽनेनेति शास्त्रं वेदस्तथा तदुपजीविस्मृतीतिहासपुराणादि । यथा - "शास्त्रं वेदस्तस्य विधिं कर्तव्याकर्तव्यज्ञानकारणं विधिप्रतिषेधाख्यमुत्सृज्य त्यक्त्वा वर्तते कामकारतः कामप्रयुक्तः सन्न स सिद्धिं पुरुषार्थयोग्यतामाप्नोति" (गी० १६/२३ शा० भा०) । यथा च -आसुर्याः सम्पदो वर्जने श्रेयसश्च करणे किं कारणं तदाह - सर्वस्येति । तस्य कारणत्वं साधयतिशास्त्रेति । ....शिष्यतेऽनुशिष्यते बोध्यतेऽनेनापूर्वोऽर्थ इति शास्त्रं तच्च विधिनिषेधात्मकम् (तत्रैव आ० गि०) । यथा च - "शिष्यतेऽनुशिष्यतेऽपूर्वोऽर्थो बोध्यतेऽनेनेति शास्त्रं वेदस्तदुपजीविस्मृतिपुराणादि च तत्सम्बन्धीविधिलिङ्गादिशब्दः कुर्यान्न कुर्यादित्येवं प्रवर्तनानिवर्तनात्मकः कर्त्तव्याकर्त्तव्यज्ञानहेतुर्विधिनिषेधाख्यस्तं शास्त्रविधिं विधिनिषेधातिरिक्तमपि" (तत्रैव म० सू०) । यथा च - "शिष्यतेऽनुशिष्यते बोध्यतेऽनेनाज्ञातोऽर्थ इति शास्त्रं वेदस्तदुपजीविस्मृतीतिहासपुराणादि च" (तत्रैव भाष्यो०)। २. ज्ञापकं हि शास्त्रं न कारकमिति स्थितिः (बृ० उ० १/४/११ शा० भा० ) । यथा च - अपि च वेदान्तानां वेदत्वाच्छास्त्रत्वप्रसिद्धिरस्ति । प्रवृत्तिनिवृत्तिपराणां च सन्दर्भाणां शास्त्रत्वम् । `यथाहुः - प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत् तच्छास्त्रमभिधीयते ॥ (ब्र० सू० १/१।४ भाम० ) । शास्त्रयोनिः, शास्त्रयोनि शास्त्रवेदादियोनिः प्रमाणं तथा कारणमुत्पत्तिस्थानं यस्य तद् ब्रह्म । अथवा शास्त्राणां वेदादीनां योनिः कारणं तद् ब्रह्म । यथा - "महत ऋग्वेदादेः शास्त्रस्यानेकविद्यास्थानोपवृंहितस्य प्रदीपवत् सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणम् ।......शास्त्रादेव प्रमाणाज्जगतो जन्मादिकारणं ब्रह्मादि गम्यत इत्यभिप्रायः" (ब्र० सू० १/१/३ शा० भा० ) । यथा च - "न केवलं जगद्योनित्वादस्य भगवतः सर्वज्ञता, शास्त्रयोनित्वादपि बोध्यव्या । शास्त्रयोनित्वस्य सर्वज्ञतासाधनत्वं समर्थ्यते महत ऋग्वेदादेः शास्त्रस्येति" (तत्रैव भाम०) । शिक्षा, शीक्षा च - "वर्णोच्चारणविधिबोधकं शास्त्रम् ।" यथा - "शिक्षा शिक्ष्यतेऽनयेति वर्णाधुच्चारणलक्षणम् । शिक्ष्यन्त इति वा शिक्षा वर्णादयः । शिक्षैव शीक्षा" (तै० उ० अनु० ३ शा० भा०) । उक्तं च- मुखं व्याकरणं तस्य ज्यौतिषं नेत्रमुच्यते । निरुक्तं श्रोत्रमुद्दिष्टं छन्दसां विचितिः पदे । शिक्षा प्राणं तु वेदस्य हस्तो कल्पान् प्रचक्षते । शिवः, शिव १. सर्वसंसारधर्मवर्जितः परमानन्दरूपोऽद्वैत ओंकारः । यथा अमात्रोऽनन्तमात्रश्च द्वैतस्योपरमः शिवः । ओंकारो विदितो येन स मुनिर्नेतरो जनः (मा० उ० का० १ ।२९)।२-शंकरः ३. सर्वमङ्गलोपेतः । यथा - शिवः शक्त्यायुक्तः (सौन्दर्यलहरी) । अत्र लक्ष्मीधरीव्याख्यायाम्- वश् कान्तौ धातोरथवा शीङ् स्वप्ने वा क्षेपणे धातोर्निष्पन्नः कान्त्यर्थः स्वप्नाविद्यायां लोकवमनार्थः । २. वेदः । यथा च-अट्टशूला जनपदाः शिवशूला द्विजातयः । कामिन्यः केशशूलिन्यो भविष्यन्ति कलौ युगे । अत्र व्याख्यायाम् - अट्टमन्नं शिवो वेदः केशो भग इत्युदीर्यते । शूलं विक्रय उच्यत इत्यादि । शिवा, शिवा १. पार्वती । २. शृङ्गाली च पौराणिककथानुसारमेकदा पावर्ती शृङ्गालीरूपमधारयत् । ३. अद्वयता यथा- भावैरसदिरेवायद्वयेन च कल्पितः भावः अप्यद्वयेनैव तस्मादद्वयता शिवा (मा० उ० का० २।३२ ) । शिवम्, शिव १. आत्मा ब्रह्म च । यथा - नान्तप्रज्ञं न बहिष्प्रज्ञं नोभयत अज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा विज्ञेयः (मा० उ० ७ म०) । २. कल्याणम् । यथा शिवं सन्तनोतु शिव इत्यादि । परमार्थस्वभावमिति बौद्धाः । यथा - अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्ध्यः । भावानां ते न पश्यन्ति द्रष्टव्यो-पशमं शिवम् (म० का० ५।८) । शिवम् = परमार्थस्वभावम् (तत्रैव चन्द्रकीर्त्तिः) । यथा च - "शिवशब्देन शिवयोगिनां मन्त्रमन्त्रेश्वरमहेश्वरमुक्तात्मशिवानां सवाचकानां शिवत्वप्राप्तिसाधनेन दीक्षादिनोपायकलापेन सह प्रतिपदार्थे सङ्ग्रहः (सर्व० सं० पृ० १८० शै०) । शिवत्वं च पाशजालापोहने नित्यनिरतिशयदृक्रियारूपचैतन्यात्मकत्वम् (सर्व० सं० पृ० १८२ शै०) । शीक्षा, शीक्षा शिक्षैव शीक्षा इत्यप्युच्यते । यथा- शिक्षैव शीक्षा (तै० उ० अनु० ३ शा० भा० ) । शिक्षाशब्दो द्रष्टव्यः । शीलम्, शील आचारः । यथा - अक्रोधः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च ज्ञानं च शीलमेतद् विदुर्बुधाः । इति स्मृतेः शीलमाचारोऽनुशयाद् भिन्नः (ब्र० सू० ३।१।१० भाम०) । यथा च - आचारहीनं न पुनन्ति वेदाः इत्यादिस्मृतिभ्यः (अत्रैव सूत्रे शा० भा०) । यथा च - चरणमनुष्ठानं कर्मेत्यनर्थान्तरम् । तथा हिअविशेषेण कर्ममात्रे चरतिः प्रयुज्यमानो दृश्यते । यो हीष्टाटिलक्षणं पुण्यं कर्म करोति तं लौकिका आचक्षते धर्मं चरत्येव महात्मेति । आचारोऽपि धर्मविशेष एव । भेदव्यपदेशस्तु कर्मचरणयोर्ब्राह्मणपरिव्राजकन्यायेनाप्युपपद्यते (ब्र० सू० ३/१/११ शा० भा० ) । शुक्रम्, शुक्र शुक्लम्, नित्यशुद्धम्, अपापविद्धं ब्रह्म । यथा - "सपर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्" (ईशा० ८) । इति चेतौ मन्त्रावनाधेयातिशयतां नित्यशुद्धतां च ब्रह्मणो दर्शयतः" (ब्र० सू० 91१।४ शा० भा० ) । यथा च"शुक्रं दीप्तिमत्" (तत्रैव भाम० ) । शुङ्गम्, शुङ्ग मूलम् । यथा – तथा को ह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्दयति । अन्नेन सोम्य शुङ्गेन तेजोमूलमन्विच्छ अद्भिः सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः प्रजाः इत्यादिभिः (गी० १३।४ भाष्यो०) । यथा च - "शुङ्गेन कार्येण (तत्रैव १३।४) । २. कार्यम् । यथा - शुङ्गेन अग्रेण कार्येणेति यावत् (ब्र० सू० १।४।१४ भाम० ) । शुचिः, शुचि जलादिना बाह्येन शौचेन सत्यदयादिना आभ्यन्तरेण शौचेन सम्पन्नः । यथा- "शुचि बाह्याभ्यन्तरेण च शौचेन सम्पन्नः" । "बाह्याभ्यन्तरशौचवान् पुण्यापुण्याभ्यामलिप्तो वा'(नी० क०) । यथा च - "शुचिर्बाह्याभ्यन्तरशौचसम्पन्नः" (तत्रैव म० सू०) । यथा च - "शुचि मृदम्ब्वादिनिमित्तेन बाह्येन दयादिनाभ्यन्तरेण च शौचेन सम्पन्नः पुण्यापुण्याभ्यामलिप्तः इति वा (तत्रैव भाष्यो०) । यथा च "शुचिर्बाह्याभ्यन्तरशौचसम्पन्नः" (तत्रैव श्रीधरी) । शुचिसद्, शुचिसद् सूर्यः । यथा - "शुचौ दिव्यादित्यात्मना सीदतीति" (का० उ० व० ५।२ शा० भा० ) । शुद्धम्, शुद्ध १. लौकिकमलादिरहितं शुद्धत्वं लौकिकम् । तथा - सङ्गत्यादिमलरहितं तात्त्विकमलौकिकम् । यथा- "आकाशादावस्ति मलादिलेपरहितत्वलक्षणा शुद्धता लौकिकी प्रत्यगात्मनि चासङ्गत्वादिप्रयुक्ता तात्त्विकी (सं० शा० १८२ सु० टी०) । शुद्धत्वम्, शुद्धत्व कार्यकारणभावरहितत्वम् । यथा -- "शुद्धत्वमकारणत्वम्" (गी० १ आ० टी०) । शुद्धो धर्मः, शुद्ध धर्म सञ्चिताशेषकर्मनाशः । यथा - "अनादाविह संसारे सञ्चिताः कर्मकोटयः । अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते । अस्य समाधेरवान्तरफलमाह अनादाविति । अनादौ स्पष्टम् । इहास्मिन्संसारे सञ्चिताः कर्मकोटयः कर्मणां पुण्यापुण्यलक्षणानां कोटय इत्युपलक्षणम् । अपरिमितानि कर्माणीत्यर्थः । अनेन समाधिना विलयं यान्ति विनश्यन्ति (प० द० १।५९ ) । शूद्रः, शूद्र शोकयुक्तः । यथा - "कामं चायं शूद्रशब्दः संवर्गविद्यायामेवैकस्यां शूद्रमभिकुर्यात्, तद्विषयत्वात्, न सर्वासु विद्यासु ।.....शुचमभिदुद्राव, शुचा वाभिदुद्रुवे, शुचा वा रैक्वमभिदुद्रावेति शूद्रः" (ब्र० सू० १।३।३४ शा० भा० ) । शून्यम्, शून्य १ . चतुर्विधेषु बौद्धदार्शनिकेषु माध्यमिकबौद्धानां शून्यमेकं तत्त्वम् । तदपि शून्यस्य वास्तविकं पारमार्थिकम् अस्तित्वं नास्ति । यथा - अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम् । निर्विकल्पमनानार्थमेतत् तत्त्वस्य लक्षणम् । यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे । सा प्रज्ञप्तिरूपा या सा प्रतिपत् सैव मध्यमा (मध्यमकका ० २४।१८) । यथा च - केचित् सर्वास्तित्ववादिनः केचिद् विज्ञानास्तित्ववादिनः अन्ये पुनः सर्वशून्यवादिनः (ब्र० सू० २।२।८ शा० भा०) । अत्र भामत्याम्वादिवैचित्र्यात् खलु केचित् सर्वास्तित्वमेव राद्धान्तं प्रतिपद्यन्ते । केचिज्ज्ञानमात्रास्तित्वम् । केचित् सर्वशून्यताम् ।.....यथोक्तं बोधिचित्तविवरणे - देशना लोकनाथानां सत्त्वाशयवशानुगाः। भिद्यन्ते बहुधा लोक उपायैर्बहुभिः पुनः ।१। गभीरोत्तानभेदेन क्वचिन्नोभयलक्षणा । भिन्नापि देशनाऽभिन्ना शून्यताद्वयलक्षणा । २ । यथा चनामरूपमेव शून्यता । शून्यतैव नामरूपम् । सर्वमद्वयम् (शतसाहस्रिकायाम्) । यथा च- आत्मेत्यपि प्रज्ञपितमनात्मेत्यपि देशितम् । बुद्धेनात्मा न चानात्मा कश्चिदित्यपि देशितम् (मध्यमकका० १८/६) ।२. समाध्यवस्थायां शून्यानुभूतिः । यथा उर्ध्वशून्यमधः- शून्यं मध्यशून्यं यदात्मकम् । सर्वशून्यं यदात्मेति समाधिस्थस्य लक्षणम् (महाभारते- भीष्मप० उ० म० १ ।३९) । प्रज्ञाशून्यं मनः शून्यं बुद्धिशून्यं निरामयम् । सर्वशून्यं निराभासं समाधिस्थस्य लक्षणम् । त्रिशून्यं यो विजानीयात्स मुच्येत सर्वबन्धनात् (तत्रैव १।१४) । एवमेव गायत्रीतन्त्रे कामधेनुतन्त्रे च । यथा च – "अत्यन्ताभाववत् । यथा ज्ञानशून्यः पुरुषः इत्यादौ । २. निर्जनस्थानम् । ३. आकाशः (शब्द च०) । ४. बिन्दुमात्रम् (हेम० च०) । ५. असम्पूर्णम् । ६. ऊनम् । ७. तुच्छं च (त्रि० अमरः) । शेवधिः, शेवधि शेवधिर्निधिः । यथा - "कर्मफललक्षणो निधिरिव प्रार्थ्यत इति । परमात्माख्यः शेवधिः (क० उ० २।१० शा० भा० ) । यथा च - प्रज्ञोऽप्यधिकतरप्रज्ञोस्तीति सन्तोषात् स्तौति । कामनाविषयत्वगुणयोगात् शेवधिशब्दः कर्मफलं विद्यते । शेषवत्, शेषवत् (अनुमानम्) १ . यत्र कार्येण कारणमनुमीयते तत् । यथा- पूर्वोदकविपरीतमुदकम् नद्याः पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोऽनुमीयते भूता वृष्टिः इति (वात्स्या० १।१ ।५) । अत्र वृत्तिकार इत्थं व्यवृत। शेषः कार्यम् तल्लिङ्गकं शेषवत् । यथा नदीवृद्ध्या वृष्ट्यनुमानम् । अथवा शेषो व्यतिरेकः । तद्वत्केवलव्यतिरेकीत्यर्थः । यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् इत्यादि (गौ० वृ० १/१/५) । २. शेषवन्नाम परिशेषः । स च प्रसक्तप्रतिषेधेन्यत्राप्रसङ्गाच्छिष्यमाणे सम्प्रत्ययः । शोकः, शोकः १ . परिदेवना । २. चिन्ता । ३. द्वैतम् । यथा - "तरति शोकमात्मवित् (छा० उ० १ । १ । ३) । तथा विद्वान्नामरूपाद्विमुक्तः (मु० उ० ३।२।८) । भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे (मु० उ० २।२१८) अ० सि० परि० १ ज्ञाननिवर्त्यत्वानुपपत्तिप्रक०..... गौडब्रह्मानन्दी व्याख्यायाम् – शोकं भीतिहेतुं द्वैतमिति यावत् । शौवः, शौव शुना दृष्ट: उद्गीथः । यथा - "अतीते खण्डेऽन्नाप्राप्तिनिमित्ता कष्टावस्थोक्तोच्छिष्टपर्युषितभक्षणलक्षणा सा मा भूदित्यन्नलाभायाथानन्तरं शौवः श्वभिर्दृष्ट उद्गीथ उद्गानं सामातः प्रस्तूयते (छा० १ १२/१ शा० भा० ) । श्रद्धा, श्रद्धा १ . सादरदानम्, आस्तिक्यबुद्धिः, भक्तिः हृदयस्य वृत्तिः । यथा - श्रद्धा नाम दित्सुत्वम् आस्तिक्यबुद्धिर्भक्तिसहिता । हृदयस्य हि वृत्तिः श्रद्धा (बृ० आ० उ० ३।९।२१) । २. आदरयुक् । यथा - श्रद् अव्ययः आदरार्थः, धा धातुः धारणार्थः । 'श्रद्धावित्तो भूत्त्वा' इति माध्यन्दिनश्रुतिः । यस्य स्यादद्धान विचिकित्साऽस्ति (छा० ३।१४) । इति काण्वश्रुतिः । चकारात् श्रद्धाँवाल्लभते ज्ञानम् (गी० ४।३९) इति स्मृत्यादिकं सूचितं तेन संशयस्य श्रुत्यादिभिर्निन्दितत्वान्न प्रामाणिकेऽश्रद्धा कार्येत्यर्थः (सं० शा० १ । २६७ सु० टी०) । ३. आपः (लक्ष्यार्थः) तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति (छा० उ० ५ ।४।२) । श्रद्धाशब्दस्य अप्सु लाक्षणिकस्य.... (ब्र० सू० ४/२/४ क० त० परि०) । यथा च - "वैदिकप्रयोगदर्शनात् श्रद्धा वा आपः इति ।......आपो देहवीजभूता इत्यतः श्रद्धाशब्दाः स्युः । ......श्रद्धापूर्वककर्मसमवायाच्चाप्सु श्रद्धाशब्द उपपद्यते (ब्र० सू० ३।१।५ ) । यथा च - "(श्रद्धा जुह्वति) केवलाभिरद्भिः सम्परिष्वक्तो रंहतीति (ब्र० सू० ३।१।१ शा० भा०) । न स भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते ।कर्माणि चाग्निहोत्रादीनि सोमाज्यपयःप्रभृतिद्रवद्रव्यव्यपाश्रयाणि कर्मसमवायिन्यश्चापः श्रद्धाशब्दोदिताः सह कर्मभिर्धुलोकाख्येऽग्नौ हूयन्त इति तस्मादपि अपां बाहुल्यसिद्धिः । बाहुल्याच्चाबूशब्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम् (ब्र० सू० ३।१।२ शा० भा०) । श्रद्धा सोम इत्यर्थः (ब्र० सू० ३/१/१२ क० त० ) । श्रवणम्, श्रवण १. आत्मां वा अरे द्रष्टव्यः श्रोतव्यः इत्यादि श्रुत्यनुसारं वेदान्तवाक्यानां श्रवणानन्तरमद्वैतब्रह्मणि उपसंहारादिलिङ्गैः शक्तितात्पर्यनिर्णयः । यथा श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः । ज्ञात्वा च सततं ध्येय एते दर्शनहेतवः । तत्र तावन्मुनिश्रेष्ठ श्रवणं नाम केवलम्उपक्रमादिभिर्लिङ्गैः शक्तितात्पर्यनिर्णयः (विवरणप्रमेयसं० १।१।१-२) । यथा च - "श्रवणं नाम वेदान्तानामद्वितीये ब्रह्मणि तात्पर्यावधारणानुकूला मानसी क्रिया । मननं नाम शब्दावधारितेऽर्थे मानान्तरविरोधशङ्कायां तन्निराकरणानुकूलतर्कात्मज्ञानजनको मानसो व्यापारः (वे० प० ७ प०) । यथा च - श्रवणं नाम षड्विधलिङ्गैरशेषवेदान्तानामद्वितीये वस्तुनि तात्पर्यावधारणम् (वे० सा० ) । यथा च - अत्र श्रवणं विधिः न तु विधिशेषः । "यत्पुनरुक्तं श्रवणात् पराचीनयोर्मनननिदिध्यासनयोर्दर्शनाद्विधिशेषत्वं ब्रह्मणो न स्वरूपपर्यवसायित्वमिति ।न, अवगत्यर्थत्वान्मनननिदिध्यासनयोः । यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येत भवेत्तदा विधिशेषत्वम् । न तु तदस्ति; मनननिदिध्यासनयोरपि श्रवणवदवगत्यर्थत्वात् ।" तस्मान्न प्रतिपत्तिविधिविषयतया शास्त्रप्रमाणकत्वं ब्रह्मणः सम्भवतीत्यतः स्वतन्त्रमेव ब्रह्म शास्त्रप्रमाणकं वेदान्तवाक्यसमन्वयादिति सिद्धम् । एवं च सति अथातो ब्रह्मजिज्ञासा इति तद्विषयः पृथग् शास्त्रारम्भ उपपद्यते (ब्र० सू० १ ।१ । ४ शा० भा०) । यथा च - श्रवणं शब्दजं ज्ञानमुपपत्त्यानुचिन्तनम् । मतिर्निरन्तरा चिन्ता निदिध्यासनमुच्यते । ब्रह्मज्ञानमुद्दिश्योक्तश्रवणस्योक्तविधिना विधानादपूर्वविधिः ( अ० सि० ज्ञानस्य पुरुषतन्त्रताभङ्गपरि० गौ० ब्र० ) । यथा च - "श्रवणं हि ब्रह्मात्मनि तत्त्वमसि वाक्यस्य तच्छब्दश्रुत्यादिपर्यालोचनया तात्पर्यावगम:" (ब्र० सू० १/१/४ वे० क० त० ) । यथा च- तात्पर्यावधारणं श्रवणं तदनुग्राहकानुमानादिरूपयुक्त्यनुचिन्तनं मननमिति पक्षे विधान्तरेणापि तयोर्निदिध्यासनस्य च विधानासम्भवमाह - श्रवणमिति" (क० त० परि०) । यथा च - "इत्थं वाक्यैस्तदर्थानुसन्धानं श्रवणं भवेत् । युक्त्या सम्भावितत्वानुसंधानं मननं तु तत् (प० द० १-५३) । यथा च - "१. श्रोत्रेन्द्रियजन्यं शब्दविषयकं ज्ञानम् । यथा श्रूयते सुपुरुषचरितं किं तद्यन्न हरन्ति काव्यालापाः इत्यादौ ।" २. श्रुतिवाक्योत्थं ज्ञानम् । यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः (बृ० उ० २।४।५)। इत्यादौ ( म०प्र० १ ) । यथा वा श्रोतब्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः इत्यादौ । अश्र श्रवणं च श्रुतिपदपक्षिका संसर्गज्ञानानुमितिः (प० च० प० २०) । ३. अशेषशब्दविषयं सिद्धिज्ञानं श्रवणम् (सर्व० सं० पृ० १६६ नकु०) (४. शब्दग्राहकमिन्द्रियम् श्रोत्रम् । ५. मौहूर्तिकास्तु अश्विन्यादिषु द्वाविंशो (२२) नक्षत्रविशेष इत्याहुः । ६. मुण्डरीकावृक्षः (वाच०) । श्रुतार्थापत्तिः, श्रुतार्थापत्ति वाक्यस्य स्वार्थानुपपत्त्या अर्थान्तरकल्पनम् । यथा - श्रुतार्थापत्तिर्यथा यत्र श्रूयमाणवाक्यस्य स्वार्थानुपपत्तिमुखेनार्थान्तरकल्पनम् । यथा- 'तरति शोकमात्मवित्' इत्यत्र श्रुतस्य शोकशब्दवाच्यबन्धजातस्य ज्ञाननिवर्त्यत्वस्यान्यथाऽनुपपत्त्या बन्धस्य मिथ्यात्वं कल्प्यते (वे० परि० ५ प० ) । श्रुतिः, श्रुति १. वेदः । श्रुतिस्तु वेदो विज्ञेय इति मनूक्तिः । श्रूयते इति श्रुतिः । अकर्तृका सम्प्रदायद्वारा श्रवणपरम्परया समागता ज्ञानराशिः । अस्य महतो भूतस्य निःश्वसितमेतद् यद् ऋग्वेदः (बृ० उ० २।४।१०) । आगम इत्यप्युच्यते । निरपेक्षरवः श्रुतिरिति पूर्वमीमांसकाः । घोषस्य श्रवणं श्रुतिः (ब्र० सू० १।१।२४ भाम०) । षड्जादिरागाद्यारम्भकशब्दविशेष इति संगीतशास्त्रविदः । श्रवणेन्द्रियमिति लौकिकाः। पूर्वमीमांसकमते अनाद्यनिधना सृष्टिस्तेनाद्यनिधना नित्या श्रुतिः । उत्तरमीमांसायामद्वैतवेदान्ते यथा- पूर्वमकल्पयदिति ऋङमन्त्रेण प्रतिसर्गं ब्रह्मण आनुपूर्वीसमानवर्णनिःश्वासरूपतया श्रुतेर्नित्यता । २. प्रत्यक्षम् । अपि संराधने ........ब्र० सू० ३/२/२४ इत्यत्र शा० भा० प्रत्यक्षानुमानाभ्यां श्रुतिस्मृति भ्यामित्यर्थः सुतेः प्रत्यक्षम् इत्यर्थः । यथा- अपि च संराधने प्रत्यक्षानुमानाभ्याम् (ब्र० सू० ३।२।२४) । इत्यत्र शाङ्करभाष्ये कथं पुनरवगम्यते संराधनकाले पश्यन्तीति । प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्यामिथ्यर्थः । यथा च - "घोषस्य श्रवणं श्रुति:" (ब्र० सू० १।१।२४ भाम० ) । यथा च- १. श्रोत्रशब्दवदस्यार्थोऽनुसन्धेयः । २. श्रोत्रेन्द्रियजन्यं ज्ञानम् । ३. मीमांसकास्तु निरपेक्षो रवः श्रुतिः । ४. गणकास्तु अङ्कशास्त्रोक्तस्त्रिभुजक्षेत्रादिः भुजकोट्योः संयुज्यमानो रेखाविशेष इत्याहु: (लीला०) । ६. मौहूर्तिकास्तु श्रवणनक्षत्रमित्याहुः । ७. संगीतशास्त्रज्ञा गायकास्तु षड्गरागाद्यारम्भकावयवशब्दविशेषः श्रुतिः इत्याहुः । तत्रोक्तम- प्रथमश्रवणाच्छब्दः श्रूयते ह्रस्वमात्रकः । सा श्रुतिः सम्परिज्ञेया नियमो दृश्यते यया चतुश्चतुश्चैव षड्जमध्यमपञ्चमाः । द्वेद्वे निषादगान्धारौ त्रिस्त्रिस्त्वर्षमधैवतौ ॥ इति । श्रेयः, श्रेयस् लौकिकानन्दः प्रेयो भवति, परमानन्दः श्रेयो भवति । यथा - सत्वं प्रियान् प्रियरूपा vश्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः । नैता ¨सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः (क० उ० १ । २ । ३) । श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः । श्रेयो हि धीरोऽभिप्रेयसो वृणीते प्रेयोमन्दो योगक्षेमाद् वृणीते (तत्रैव ४) । श्रोत्रम्, श्रोत्र (इन्द्रियम्) । (क) शब्दोपलब्धिसाधनमिन्द्रियम् (त० भा० पृ० २६) (न्या० भ० पृ० १४) । तच्च विशिष्य दृष्टोपगृहीतकर्णशष्कुल्यवच्छिन्नो नभो देशः (वै० उ० ८।२।६) (त० भा० प्रमे० पृ० २६) (त० सं०) । अत्रावच्छिन्नत्वं च संयोगविशेषः (प० मा०) । अत्रेदं बोध्यम् । श्रोत्रं शब्दवत् शब्दग्राहकत्वात् । यदिन्द्रियं रूपादिषु पञ्चसु मध्ये यं गुणं गृह्णाति तदिन्द्रियं तद्गुणवत् । यथा गन्धग्राहकं घ्राणं गन्धवदिति व्याप्तिरत्र द्रष्टव्या (प्र० प्र०) (त० भा० प्रमे० पृ० २६) । अथवा श्रोत्रस्य शब्दवत्त्वं च बहिरिन्द्रियाणां ग्राह्यजातीयविशेषगुणवत्त्वमिति नियमात्सिद्ध्यति (वै० उ० ८ । २ । ६ ) । शब्दश्च नभो वृत्तिरेव न च वायोरेव कारणगुणपूर्वकशब्दवत्त्वमङ्गीकार्यमिति वाच्यम् । शब्दस्या यावद्रव्यभावित्त्वेन वायुविशेषगुणत्वाभावात् (मु० १ आकाशनि० पृ० ८८) । इति । सांख्या वेदान्तिनश्च सात्विकांशं सूक्ष्मांशं श्रोत्रमित्याहुः । तन्मते शब्दस्य पञ्चभूतगुणतया शब्दाधारवायुना झटिति कर्णदेशे यथावेगं धावमानेन कर्णं प्राप्नुवता तेन शब्दोपलम्भः इति । तन्मते श्रवणेन्द्रियस्य प्राप्यकारित्वमित्युक्तिरप्येतत्परा इति बोध्यम् (वाच०) । काव्यज्ञास्तु श्रोत्रेन्द्रियाधारो गोलकं कर्णः श्रोत्रमित्याहुः । श्वभ्रः, श्वभ्रः भयशून्यम् । यथा - अथ यदूर्ध्वमपराह्णाप्रागस्तमयान्स उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं दृष्ट्वा कक्ष॰श्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो ह्येतस्य साम्नः (छा० उ० २।९।७) । अत्र यथा - अथ यदूर्ध्वमपराह्णात् प्रागस्तमयात् स उपद्रवस्तदस्यारण्याः पशवोऽन्वायत्ताः । तस्मात्ते पुरुषं दृष्ट्वा भीताः कक्षमरण्यं श्वभ्रं भयशून्यमित्युपद्रवन्त्युपगच्छन्ति दृष्टोपद्रावणादुपद्रवभाजिनो ह्येतस्य साम्नः (तत्रैव शा० भा० ) । श्लोकः, श्लोक मन्त्रः । यथा - तस्यैव दृढीकरणाय मन्त्र उदाह्रियते श्लोकशब्दवाच्यः । तत् तस्मिन्नेवार्थे एष श्लोको मन्त्रो भवति ( बृ० आ० उप० ४/४/६, ७ शा० भा० ) । लोके अनुष्टुबादिछन्दोबद्धं पद्यं श्लोकः । षडायतनम्, षडायतन बौद्धमते यद्यपि चेतनः कश्चन नाभिमन्यते । तथापि अविद्यादीनां परस्परकरणत्वात् संसारस्थितिर्जायते । यथा - यद्यपि भोक्ता प्रशासिता वा कश्चिच्चेतनः संहन्ता स्थिरो नाभ्युपगम्यते । तथाप्यविद्यादीनामितरेतरकरणत्वादुपपद्यते लोकयात्रा । तस्यां चोपपद्यमानायां न किञ्चिद् परमपेक्षितव्यमस्ति । ते चाविद्यादयोऽविद्या संस्कारो विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं भवो जातिर्निर्जरा मरणं शोकः परिदेवना दुःखं दुर्मनस्तेत्येवं जातीयकाः सौगते समये क्वचित् संक्षिप्ता निर्दिष्टाः क्वचित् प्रपञ्चिताः (ब्र० सू० २/२/१९ शा० भा०) । अत्र भामती - नामरूपसमिश्रितानीन्द्रियाणि षडायतनम् । अत्र वेदान्तकल्पतरु:षट्पृथिव्यादिधातव आयतनानि यस्य कारणवृन्दस्य तत्तथा । अत्र कल्पतरुपरिमल:केचिदविद्यादिरूपं क्वचित् क्वचित् भेदेन वर्णयन्ति । क्षणिकार्थ दुःखशून्येषु स्थायिनित्यसुखवस्तुबुद्धिरविद्या । ततो रागद्वेषमोहास्ततो धर्माधर्मसंस्कारा इत्येत्सर्वं संस्कारवशाज्जीवस्य गर्भाशयद्रव्ये वृत्तिलाभो विज्ञानम्, विज्ञानसंसर्गाद् गर्भद्रव्यस्य कललपेश्याद्याकारेणाभिव्यक्तिर्नामरूपं तदभिव्यक्तिक्रमेण निर्वृतं षडिन्द्रियायतनं शरीरं षडायतनं तन्निर्वृतशरीरेन्द्रियस्य गर्भगतविषयेन्द्रियसंसर्गजं ज्ञानं स्पर्शः तन्निमित्ते सुखदुःखवेदना..... । षड्धातवश्चात्रैव भामत्याम्- पृथिव्यप्तेजोवाय्वाकाशर्तुरूपास्तथा पृथिव्यप्तेजोवाय्वाकाशविज्ञानरूपाश्च वर्णिताः । विशदज्ञानार्थमत्रत्या भामती द्रष्टव्या । षोडशकलम्, षोडशकल प्राची प्रतीच्यादिषोडशकलावद् ब्रह्म । तदेव चतुष्पाद् अष्टाशफमपि । यथा - ब्रह्म चतुष्पादष्टाशफं षोडशकलम् । तद्यथा प्राची प्रतीची दक्षिणोदीची चतस्रः कलाः, ब्रह्मणः प्रकाशवान्नाम प्रथमः पादः । तदर्धं शफः तथा पृथिव्यन्तरिक्षं द्यौः समुद्र इत्यपराश्चतस्रः कलाः, द्वितीयः पादोऽनन्तवान्नाम । तथाग्निःसूर्यश्चन्द्रमा विद्युदिति चतस्रः कलाः स ज्योतिष्मान्नाम तृतीयपादः । प्राणश्चक्षुःश्रोत्रं वागिति चतस्रः कलाः स चतुर्थ आयतनवान्नाम ब्रह्मणः पादः। तदेवं षोडशकलं षोडशावयवं ब्रह्मोपास्यमिति सिद्धम् (ब्र०सू०१ /१/५ भाम० ) । यथा च - क्वचिच्च षोडशकलं पुरुषं प्रस्तुत्येत्यस्य भाष्यस्य व्याख्यानं पशोः पादेषु पुरतः खुरौ पृष्टतश्च द्वौ पार्ष्णिस्थानीयावयवौ दृश्येते । तद्वत् परमात्मन्यपि चतुष्पात्त्वं षोडशकलात्वेन च पशुरूपकल्पनयोपासनम् । तत्रैव (वे० क० त० ) । यथा च - भिन्ना प्रतिविद्यं ब्रह्मण आकाश षोडशकलः = पुरुषः परमात्मा । यथा शाङ्करभाष्ये स ईक्षत लोकान्नु सृजा इति । स इमाँल्लोकानसृजत (ऐत० ११ १) इति । ईक्षापूर्विकामेव सृष्टिमाचष्टे । कचिच्च षोडशकलं पुरुषं प्रस्तुत्याह- स ईक्षाञ्चक्रे स प्राणमसृजत (प्र० उ० ६ । ३) इति । (ब्र० सू० 919/५ शा० भा०) । अत्र भामती - ब्रह्मचतुष्पादष्टाशफं षोडशकलम् । तद् यथा - प्राची प्रतीची दक्षिणोदीचीति चतस्रः कलाः ब्रह्मणः प्रकाशवान्नाम प्रथमः पादः । तदर्द्धं शफः । तथा- पृथिव्यन्तरिक्षं द्यौः समुद्र इत्यपराश्चतस्रः कलाः द्वितीयः पादोऽनन्तवान्नाम । तथाग्निः सूर्यश्चन्द्रमा विद्युदिति चतस्रः कलाः । स ज्योतिष्मान् नाम तृतीयः पादः । प्राणश्चक्षुः श्रोत्रं वागिति चतस्रः कलाः । स चतुर्थ आयतवान् नाम ब्रह्मणः पादः । तदेवं षोडशकलं षोडशावयवं ब्रह्मोपास्यमिति सिद्धम् । अत्र वेदान्तकल्पतरुः - प्रश्नोपनिषदि हि- इहैवान्तः शरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति प्रस्तुत्य स ईक्षाञ्चक्रे कस्मिन्वहमुक्कान्ते उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामि इति स प्राणमसृजत् प्राणा च श्रद्धां खं वायुर्ज्योतिरापः पृथिवीमिन्द्रियं मनोऽन्नमन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम चेति पठ्यते । छान्दोग्ये नु दिगाद्यवयवः षोडशकल उपास्यो न च..... कलाः षोडश भूतानि प्राणोऽक्षं नाम कर्म च । श्रद्धा लोकास्तपो मन्त्रा मनो वीर्यं शरीरकम् । यथा च बृहदारण्यकोपनिषदि - स एष संवत्सरः प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदश कलाः स रात्रिभिरेवा च पूर्यतेऽप च क्षीयते सोऽमावास्या Üरात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततःः प्रातर्जायते ( बृ० उ० १।५।१४) । यथा च षोडशकल: सोम्य पुरुषः (छा० उ० ६।७।१)। एतदतिरिक्ताश्चन्द्रकलाः षोडश भवन्ति । यथा - अमृता मानदा पूषा पुष्टिस्तुष्टी रतिधृतिः । शशिनी चन्द्रिका क्रान्तिश्ज्योत्स्ना श्रीः प्रीतिरङ्गदा । पूषणा चाथ पूर्णा स्युः कला चन्द्रस्य षोडशी (कोशे) । षोडश कलाः, षोडश कला कलाः षोडश भवन्ति, तासां च स्थानं पुरुषोऽस्ति । यथा षोडशकला: पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति - (प्र० उ० ६५ - ( ब्र० सू० ४।२।१५) । यथा च - तानि पुनः प्राणशब्दोदितानीन्द्रियाणि एकादश सूक्ष्माणि च भूतानि पञ्च (तत्रैव भाम० ) । यथा च - ननु गताः कलाः पञ्चदश प्रतिष्ठाः (मु० उ० ३।२।७) । प्राणमनसोरेकप्रकृतित्वं विवक्षितत्वं पञ्चदशत्वमुक्तम् (तत्रैव भाम०) । प्राणस्य हि पृथिव्युपादानं मनसश्च सैवान्नमयत्वश्रुतेरत एकप्रकृतिकत्वमित्यर्थः (तत्रैव वे० क० त० ) । यथा - ब्रह्म षोडशकला अस्येति षोडशकलम् । तद् प्राचीप्रतीचीदक्षिणोदीचीति चतस्रः कला अवयवा इव कलाः स प्रकाशवान्नाम प्रथमः पादः। एतदुपासनायां प्रकाशवान् मुख्यो भवतीति प्रकाशवान् पादः । अथापराः पृथिव्यन्तरिक्षं द्यौः समुद्रः इति चतस्रः कलाः एष द्वितीयः पादोऽनन्तवान्नाम । सोऽयमनन्तवत्वेन गुणेनोपास्यमानोऽनन्तत्वादुपासकस्यावहतीति अनन्तवान् पादः । अथाग्निः सूर्यश्चन्द्रमा विद्युदिति चतस्रः कलाः स ज्योतिष्मान्नाम पादस्तृतीयस्तदुपासनाज्ज्योतिष्मान् भवीतीति ज्योतिष्मान् पादः । अथ घ्राणश्चक्षुःश्रोत्रं वागिति चतस्रः कलाश्चतुर्थः पाद आयतवान् नाम । एते घ्राणादयो हि गन्धादिविषया मन आयतनमाश्रित्य भोगसाधनं भवन्तीत्यायतवान्नाम पादः । तदेवं चतुष्पाद् ब्रह्माष्टशफं षोडशकलमुन्मिषितं श्रुत्या (ब्र० सू० ३/२/३१ भाम०) । यथा च षोडशकलाः कलाः षोडश भूतानि प्राणोऽक्षं नाम कर्म च । श्रद्धा लोकास्तपो मन्त्रा मनो वीर्यं शरीरकम् (ब्र० सू० १/१/५ वे० क०) । यथा च - स एष संवत्सरः प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदश कला ध्रुवैवास्य षोडशी कला स रात्रिभिरेवा च पूर्यतेऽप च क्षीयते (बृ० उ० १/५/१४) । सचिवम्, सचिव सहकारिकारणम् । यथा -- "सचिवं सहकारि यस्य तत्तथा । तत्सचिवता ब्रह्मणस्तद्विषयता । तदाश्रयास्तु जीवा एवेति वक्ष्यते । न चाविद्यासचिवो ब्रह्मणोऽनीश्वरत्वमुपकरणस्य स्वातन्त्र्याविघातकत्वात् इत्याह - प्रभवतः (ब्र० सू० भाम० म० श्लो० वे० क० त० ) । सत्, सत् १. त्रिकालाबाध्यं ब्रह्म । २. ब्रह्म नाम । यथा - "ॐ तत्सदित्येष निर्देशो निर्दिश्यतेऽनेनेति निर्देशस्त्रिविधो नामनिर्देशो ब्रह्मणः स्मृतश्चिन्तितो वेदान्तेषु ब्रह्मविद्भिः" (गी० ९७ / २३ शा० भा० ) । यथा च "सदेव सोम्येदमग्र आसीत् इति छान्दोग्ये च एतेषां शब्दानां ब्रह्मनामत्वप्रसिद्धेः (तत्रैव नी० क०) । यथा च"ॐ तत्सदित्येवं रूपो ब्रह्मणः परमात्मनो निर्देशो निर्दिश्यते अनेनेति निर्देश: प्रतिपादकः शब्दः नामेति यावत् । त्रिविधस्तिस्रो विधा अवयवा यस्य स त्रिविधः स्मृतो वेदान्तविद्भिः । एकवचनात्त्र्यवयवमेकं नाम प्रणववत्" (तत्रैव म० सू० ) । यथा च – "ॐ तत्सदिति एष निर्देश: निर्दिश्यतेऽनेनेति निर्देशो ब्रह्मणस्त्रिविधो नामनिर्देशः ॐमिति ब्रह्म तत्त्वमसि सदेव सोम्येत्यादिवेदान्तेषु ब्रह्मविद्भिः स्मृतः चिन्तितः" (तत्रैव भाष्यो०) । यथा च - "ॐ तत्सदित्येवं त्रिविधो ब्रह्मणः परमात्मनो निर्देशो नामव्यपदेशः स्मृतः शिष्टै:" (तत्रैव श्रीधरी ) । यथा च - "सवस्तुनः अभावोऽसत्वं कदाचिदपि न विद्यते सुषुप्तादावपि अनुभूतयोः सुखाज्ञानयोः सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति उत्थाने परामर्शदर्शनात् । तदनुभवमन्तरेण तयोः परामर्शासम्भवात् । अतः सतोऽसत्त्वं नास्ति" (गी० २।१६ नी० क०) । यथा च "तथा सतः सत्स्वभावस्यात्मनोऽभावो विनाशो न विद्यते एवमुभयोरपि सदसतोरन्तो निर्णयो दृष्ट:" (तत्रैव श्रीधरी) । यथा च - "सदिति नित्यतामात्रमुक्तम्" (ब्र० सू० १ । १ । ४ वे० क० त०) । यथा च - "यत्परं यद् वेदान्तवाक्येषु श्रूयते किं सत्सदसद्यद्विद्यमानं सच्च यत्र नास्तीति बुद्धिस्ते उपधानभूते सदसती यस्याक्षरस्य यद्द्वारेण सदसदित्युपचर्यते । परमार्थतस्तु सदसतः परं तद्यदक्षरं वेदविदो वदन्ति तत्त्वमेव नान्यदित्यभिप्रायः (गी० ११।३७ शा० भा०) । यथा च - "किं च सत् विधिमुखेन प्रतीयमानमस्तीति, अथवा सत् व्यक्तं असत् उपदिश्यन्ते चतुष्पाद् ब्रह्म षोडशकलं ब्रह्म वामनीत्वादिलक्षणं ब्रह्म त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्रह्मेत्येवं जातीयकाः (ब० सू० ३।२।२ शा० भा० ) । सत्, सत् आत्मा । यथा – ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः पुरा (गी० १७ । २६) यथा च - सद्भावे साधुभावे च सदित्येतप्रयुज्यते ( तत्रैव २६) । यथा च अस्ति भाति प्रियम् इत्यादि (प० द०) । यथा च – "सद्यद्विद्यमानं विद्यत इति विधिमुखेन प्रतीयमानं व्यक्तं कार्यमिति यावत्" (तत्रैव भाष्यो०) । यथा च - "किं च सत् व्यक्तम् असत् अव्यक्तं च ताभ्यां परं मूलकारणं यदक्षरं ब्रह्म तच्च त्वमेव" (तत्रैव श्रीधरी) । यथा च – "तपाम्यहमादित्यो भूत्वा कैश्चिद्रश्मिभिस्तपाम्यहं वर्षं कैश्चिद् रश्मिभिरुत्सृज्य पुनर्निगृह्णामि कैश्चिद् रश्मिभिरष्टमासैः पुनरुत्सृजामि प्रावृष्यमृतं चैव देवानां मृत्युश्च मर्त्यानां सद् यस्य यत् सम्बन्धितया विद्यमानम्" (तत्रैव ९/१९ शा० भा० ) । यथा च - "सदसच्चाहमेव यस्य कारणस्य सम्बन्धितया यत् कार्यं नामरूपाभ्यां व्यज्यते तदत्र सच्छब्देनोपादीयते । कारणतासम्बन्धेन नामरूपाभ्यामनभिव्यक्तं कारणात्मना स्थितमसदित्युच्यते" (तत्रैव भाष्यो०) । ३. अमृतम् । यथा - "अमृतं सच्छास्त्रीयकर्मविज्ञाने अमरणहेतुत्वाद् अमृतम्" (बृ० उ० १।३।२८ शा० भा० ) । सत्कार्यम्, सत्कार्य सदेव कार्यरूपेण परिणमते । यथा - "दुग्धे सदेव घृतं मन्थनादिद्वारा घृतरूपेण परिणमते । अत एव जलाद् घृतं न जायते । यतो हि - जले न घृतमस्ति । एवमेव तिलात् तैलमित्यादि । इदमेव सत्कार्यं सांख्ययोगदर्शनाभिमतम् ।" सत्कार्यवादः, सत्कार्यवाद सत्कार्यसिद्धान्तः । कार्यस्य सत्त्वनिर्णायकः कथाविशेषः । अयं सांख्ययोगदर्शनाभिमतः । सत्ख्यातिः, सत्ख्याति चतुर्दशख्यातिष्वन्यतमा । इयं श्रीरामानुजीयवैष्णवैकदेशिनाम् । श्रीमद्भागवतस्य स्वीयटीकायां श्री बंशीधरस्वामिभिरेषा सूचिता । सदेव सौम्येदमग्र आसीदिति श्रुत्या सर्वं सत्स्वरूपम् । तेन ख्यातिरर्थात् विभ्रमोऽपि सतः एव । रज्जौ सर्पभ्रमः शुक्तौ रजतभ्रमः सख्यातिरेव । योगानामात्मसंरोधः इत्यादि श्रीमद्भागवतीयश्लोकस्य (११।१६।२७) टीकायां तेनोक्तम्- सर्वस्य सत्यत्वाङ्गीकारात् सर्वत्र सत्ख्यातिरेव । सत्ता, सत्ता १. सतो भाव । सा च त्रिविधा । पारमार्थिकी सत्ता, व्यावहारिकी सत्ता, प्रातिभासिकी सत्ता । प्रथमा ब्राह्मण, द्वितीया जगतः, तृतीया स्वप्नस्य । तत्र यस्य त्रिकालाबाध्यत्वं तस्य पारमार्थिकसत्ता । यथा परब्रह्मणः । भूते भविष्यति वर्तमाने च परब्रह्मणो बाधो न भवति । यत्र प्रतीतिकालेऽसतोऽपि वस्तुनः सत्यवद् भासनं तथोत्तरकाले च वाधो भवति तत्र प्रातिभासिकसत्ता । यथा शुक्तौ रजतं रज्जौ च सर्पः। यत्र च ब्रह्मण्यध्यस्तस्य जगतः सत्यत्वव्यवहारस्तत्र व्यावहारिकसत्ता । यथा जगतः सत्ता व्यावहारिकी । जाते च ब्रह्मसाक्षात्कारे दृश्यमानस्य जगतो बाधो जायते । यथा - अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागं स्याल्लोकवदिति परिहारोऽभिहितः । न त्वयं परमार्थतोऽस्ति (ब्र० सू० २।१।१४ शा० भा०) । यथा च - सर्वव्यवहाराणामेव प्रागू ब्रह्मात्मताविज्ञानात् सत्यत्वोपपत्तेः स्वप्नव्यवहारस्येव प्राक् प्रबोधात् (तत्रैव ) । यथा - प्रातिभासिकरजते ज्ञातैकसदेकं रजतत्वम् । लौकिकपरमार्थरजते चाज्ञातसदपरं रजतत्वम् । तदुभयानुगतं चारोपितानारोपितसाधारणं रजतत्वं रजतशब्दावलम्बनम् । एवमाकाशादावारोपितैका सत्यता । चिदात्मनि चानारोपिताऽपरा । तदुभयसाधारणी चान्या व्यावहारिकी सत्ता । सत्यशब्दावलम्बनमिति भावः (अ० सि० सत्तात्रैविध्योपपत्तौ ) । २. सत्ता एवं ब्रह्म । यथा - ब्रह्मणोऽपि तर्हि सत्तालक्षणः स्वभाव आकाशादिषु अनुवर्तमानो दृश्यते (ब्र० सू० २।१।६ शा० भा०) । १. (सामान्यम्) द्रव्यगुणकर्मसमवेता (सर्व० २२० औलू०) इयं च वैशेषिकमते परसत्ता परसामान्यं वा इत्युच्यते द्रव्यगुणकर्मवृत्तिश्चेति बोध्यम् (भा० प०) । तत्र प्रमाणं भावोऽनुवृत्तेरेव हेतुत्वात्सामान्यमेव (वै० १ ।२।४)। इति । इयं सत्ता द्रव्यं सत् गुणः सन् इत्याद्यानुगतप्रतीत्यैव सिद्ध्यति । अत्र सूत्रम् सदिति द्रव्यगुणकर्मसु या सत्ता (वै० १ ।२।७) इति । तथा चानुमानं सत्ता न द्रव्याद्यात्मिका विलक्षणबुद्धिवेद्यत्वात् (वै० उ० ७।२।२७) (वै० वि० ७।२।२७) (वै० १।२।८-१७) । इति । २. विद्यमानत्वम् । तच्च कालसम्बन्धः । यथा घटो भवति इत्यादौ भूधात्वर्थः । यथा वा भूतले घटसत्तादशायामित्यादौ सत्ताशब्दस्यार्थः । मायावादिमते सत्ता त्रिविधा पारमार्थिकी व्यावहारिकी प्रातीतिकी (प्रातिभासिकी) चेति । (वेदा० सा०) तत्र पारमार्थिकी ब्रह्मणः सत्ता । त्रिकालाबाध्यत्वात् । व्यावहारिकी च घटादीनां सत्ता । व्यवहारकाले अबाध्यत्वात् । सा तु तत्त्वज्ञाननाश्या । प्रातिभासिकी तु शुक्तौ रजतादेः अधिष्ठानज्ञानबाध्यत्वात् । प्रातिभासकालमात्रसत्त्वाच्च इति । सा चाधिष्ठानसाक्षात्कारनाश्यो । ब्रह्मसत्तयैव सर्वेषां सत्ताव्यवहारः । सदुत्पन्नत्वात् (वेदा० प० ) । इति । ३. आत्मधारणानुकूलव्यापारः सत्ता इति शाब्दिका वदन्ति । अत्रोक्तं भर्तृहरिणा आत्मानमात्मना विभ्रदस्तीति व्यपदिश्यते । अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मकः (वाक्य प० ) । इति । ४. अर्थक्रियाकारित्वम् । यथा यत्सत् तत्क्षणिकमित्याविति बौद्धा आहुः । ५. प्रामाणिकत्वात् इत्यन्य आहुः (न्या० को०) । सत्ताद्वैतम्, सत्ताद्वैत आचार्यमण्डनमिश्रमते भावपदार्थ एक एव । अयमेव भावपदार्थो ब्रह्म । सन् इति पदस्य प्रतीतिविषयीभूतं यत्तद् ब्रह्मैव नेह नानास्ति किञ्चन, एकमेवाद्वितीयमित्यादिश्रुत्या यस्य द्वितीयाभाव उपलक्ष्यते तत्सर्वं भावरूपस्य नाभावरूपस्य । अभावाः सहस्रशः सन्तु । अभावानां साहस्रेणापि न काचिद्धानिरस्मिन्मते । इदं सत्ताद्वैतं भावाद्वैतमप्युच्यते । यथा श्रीमधुसूदनसरस्वतीभिः स्वीयाद्वैतसिद्धौ परिच्छिन्नत्वहेतुविचारेऽयं भावाद्वैतपक्षः साधु स्पष्टीकृतः- अत एव घटादिकं सद्रूपं कल्पितम् । प्रत्येकं तदनुबिद्धत्वेन प्रतीयमानत्वात् । प्रत्येकं चन्द्रानुविद्धजलतरङ्गवत् इति ब्रह्मसिद्धिकारोक्तमपि साधु । यथा च द्विविधाः धर्माः भावरूपा अभावरूपाश्चेति । तत्राभावरूपा नाद्वैतं विघ्नन्ति (ब्रह्मसिद्धौ ब्रह्मकाण्डे) । भाव एव सत्पदार्थः सत्पदार्थः एव सत्ता सत्ता च सामान्यम् । सामान्यं जातिः । जातिरेव प्रातिपदिकार्थो धात्वर्थश्च । एतत्सर्वं स्फोटात्मकं शब्दतत्त्वमेव । तस्माद् शब्दाद्वैतमपीदमुच्यते । उक्तं च - तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते । सा नित्या सा महानात्मा तामाहुस्त्वतलादयः (वाक्यपदीये ३ जा० स० ४ का० ) । सत्ता त्रैविध्यम् = सत्ताशब्दो द्रष्टव्यः । अधिकं च मदीये शङ्करात् प्रागद्वैतवादग्रन्थे मण्डनमिश्राध्याये द्र० । सत्यम्, सत्य १. ब्रह्म । यथा - "सत्यशब्दस्य ब्रह्मणि असकृत् प्रयुक्तत्वात् (ब्र० सू० ३ ।३।३१ शा० भा०) यथा च - सत्यस्य सत्यं तत्परं ब्रह्म अतो युक्तमुक्तं नामधेयं ब्रह्मणः नामैव नामधेयम् (बृ० आ० उ० २ । ३ ।६ शा० भा० ) । यथा च "तस्मिन्नेव वाक्कायाभ्याम् अनुष्ठीयमाने तद्विषयावृत्तिः (तै० उ० ४।८ शा० भा०) २. (क) यथानुभूतं तथैव वाचा प्रकाशनम् । यथा- एतादृशस्य यथाश्रुतस्य चानुभवस्य परबुद्धिसंक्रान्तये तथैवोच्चार्यमाणा वाक्सत्यमुच्यते (गी० १०।४ शा० भा० ) । यथा च - "सत्यं प्रमाणेनाबुद्धस्यार्थस्य तथैव भाषणम् (तत्रैव म० सू०) । २. (ख) व्यावहारिकयथार्थता । यथा च "इह पुनर्व्यवहारविषयमापेक्षिकं सत्यं मृगतृष्णिकाद्यनृतापेक्षयोदकादि सत्यमुच्यते" (तै० उ० ब्र० व० २ शा० भा० ) । १ . प्रमितिविषयः । यथा घटपटादिसर्वं जगत् सत्यम् । यथा वा वेदान्तिमते भूतपञ्चकम् । अत्रार्थे व्युत्पत्तिः सन्ति पृथिव्यप्तेजांसि च त्यौ वाय्वाकाशौ च इति । तथा च श्रुतिः सच्च त्यच्च भूतपञ्चकं तं च सत्यमित्याचक्षते (बृ० उ० २/३/१-३सारः) (तैति० उ० २।६।१) इति । २. यथार्थकथनम् । यथा सत्यं ब्रूयात्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् (मनु० ४।१३८ ) । इत्यादौ सत्यशब्दस्यार्थः । तदुक्तं ब्रह्मपुराणे यथार्थकथनं यच्च सर्वलोकसुखप्रदम् । तत्सत्यमिति विज्ञेयमसत्यं तद्विपर्ययः । इति । ३. नान्दीमुखा श्राद्धीयो देवताविशेषः । अत्रोक्तम्- इष्टिश्राद्धे क्रतुर्दक्षः सत्यो नान्दीमुखे वसुः (श्राद्धत०) इति । ४. कृतयुगम् । अत्रेदमधिकं ज्ञेयं सन्धिसन्ध्यंशाभ्यां सहितं सत्ययुगमानं तु दैवमानेन ४८०० वर्षाः मनुष्यमानेन १७२८००० वर्षाः इति । ५. यथार्थज्ञानम् । ६. त्रिकालाबाध्यम् । यथा सत्यं ज्ञानमनन्तं ब्रह्म (तै० उ० २।१ ) । इत्यादौ परमात्मा सत्यः इति वेदान्तिन आहुः । ६. तपोलोकादूर्ध्वस्थो लोकविशेषः इति पौराणिका आहुः। अत्रोच्यते षड्गुणेन तपोलोकात्सत्यलोको विराजते । अपुनर्मारका यत्र ब्रह्मलोकाभिधः स्मृतः (विष्णु पु० अंश० २ अ० ७) । ७. सत्ये द्वे संवृतिसत्यं तथा परमार्थसत्यम् । यथा - द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोकसंवृतिसत्यं च सत्यं च परमार्थतः (म० का० २४।८) । सत्त्वम्, सत्त्व १ . ब्रह्म । यथा - स्वप्रकाशाद्वितीयचैतन्यरूपत्वमेव ब्रह्मणः सत्त्वम् ( अ० सि० ) । यथा च - प्रमाविषयत्वं ज्ञानानिर्वत्यत्वं वा सत्त्वम् (ब्र० सू० वे० कं० त० प० अध्यासे) । यथा च - "तत्त्वावेदकप्रमाणप्रमितत्त्वादात्मनः सत्त्वम् (ब्र० सू० अध्यासे वे० क० त० प०.) । यथा च - "सत्त्वात्तुच्छरूपासहम्" (सं० शा० १ । २६६) सु० बो०) । २. धैर्यम्, सत्त्वगुणः । यथा - " नित्यं सर्वदा सत्त्वं धैर्यं सत्त्वगुणो वा तदाश्रितो भूत्वा" (गी० २।४५ म० सू०) । ३. सत्तावत्त्वम् । तच्च त्रिविधम् । यथा यद्वा त्रिविधं सत्त्वं पारमार्थिकं, व्यावहारिकं प्रातिभासिकं च । पारमर्थिकं सत्त्वं ब्रह्मणः व्यावहारिकं सत्त्वमाकाशादेः प्रातिभासिकं सत्त्वं शुक्ति- रजतादेः । अन्यच्च सत्ताशब्दे द्रष्टव्यम् (वे० प०) ।४. गुणविशेषः सांख्ययोगशास्त्रे प्रसिद्धः प्रकाशनशीलः । यथा "यत्तु ज्ञानं मन्यसे स सत्त्वधर्मः, 'सत्त्वात् संजायते ज्ञानम्' (गी० १४/१७) इति स्मृतेः । ..... सत्त्वस्य हि निरतिशयोत्कर्षे सर्वज्ञत्वं प्रसिद्धम् ।.... त्रिगुणात्तु प्रधानस्य सर्वज्ञानकारणभूतं सत्वं प्रधानावस्थायामपि विद्यत इति (ब्र० सू० १/१/५ शा० भा०) । यथा च - "सत्त्वं हि प्रकाशशीलं निरतिशयोत्कर्षः सर्वज्ञताबीजम् । यथाहुःनिरतिशयं सर्वज्ञताबीजम् (तत्रैव भाम०) । यथा च - "यद्यपि रजस्तमसी अपि स्तः, तथापि पुरुषार्थप्रयुक्तगुणवैषम्यातिशयात्सत्त्वस्य निरतिशयोत्कर्षे सार्वज्ञ्यं कार्यमुत्पद्यते" (तत्रैव भाम० ) । यथा च - "यस्य प्रपञ्चनार्थोऽयमपि च प्रागुत्पत्तेरित्यादिग्रन्थः तस्मिन्न केवलस्याकार्यकारणस्येत्यादिपूर्वग्रन्थे पुरुषस्य सार्वज्ञानुपपत्तिप्रदर्शनपूर्वकं त्रिगुणत्वात्तु प्रधानस्येत्यादिना प्रधानस्य सर्वज्ञत्वाद्युपपादनमेकग्रन्थतया तु शब्दयोगेन दृष्टमितीहापि चकारस्त्वर्थो ग्राह्यः" (वे० क० त० प०) । यथा च - "ततो निरतिशयत्वं, सर्वविषयत्वमानयतीत्यर्थः । अपिभ्याम् एवकारार्थत्वेन व्याख्याताभ्याम्" (वे० क० त०प०) । ५. अन्तकरणम् । यथा- "सत्त्वशब्दो जीवः क्षेत्रज्ञशब्दः परमात्मेति यदुच्यते तन्न, सत्त्वक्षेत्रज्ञशब्दयोरन्तःकरणशारीरपरतया प्रसिद्धत्वात्" (ब्र० सू० १ ।२।१२ शा० भा०) । यथा च - "तदर्थं सुखादिविक्रियावति सत्त्वे भोक्तृत्त्वमध्यारोपयति । इदं हि कर्तृत्वं भोक्तृत्वमध्यारोपयति । इदं हि कर्तृत्वं भोक्तृत्वं च सत्त्वक्षेत्रज्ञयोरितरेतरस्वभावाविवेककृतं कल्प्यते । परमार्थस्तु नान्तरस्यापि सम्भवति, अचेतनत्वात् सत्त्वस्य, अविक्रियत्वात् क्षेत्रज्ञस्य । अविद्याप्रत्युपस्थापितस्वभावात्वाच्च सत्त्वस्य सुतरां न सम्भवति" (ब्र० सू० १ ।२।१२ शा० भा० ) । सत्ताशब्दवदस्यार्थोऽनुसन्धेयः । २. सांख्यास्तु प्रकाशादिसाधनं प्रकृत्यवयवः(प्रकृतेः सत्त्वगुणः) । पदार्थः । यथा सत्त्वात्सञ्जायते ज्ञानमित्यादौ सत्त्वशब्दस्यार्थ इत्याहुः । तदुक्तं सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः (सांख्यका० १३) इति । अत्र लघुत्वं प्रकाशकत्वं च सत्त्वस्य लक्षणम् (सांख्यचन्द्रि० १३) इति । ३. वैयाकरणाश्च द्रव्यम् । यथा - सत्त्वे निविशतेऽ पैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च स सत्त्वप्रकृतेर्गुणः (व्या० का०) । सत्त्वप्रधानानि नामानि (निरूक्त०) इत्यादौ सत्त्वशब्दस्यार्थ इत्याहुः । सत्त्वे निवशत इत्यस्यार्थश्च वोतो गुणवचनात् (पाणि० सू० ४।१०।४४) । इति सूत्रे तत्त्वबोधिन्यां स्त्रीप्रत्ययप्रकरणे द्रष्टव्यः । ४. योगशास्त्रज्ञास्तु चित्तम् । यथा सत्त्वे तप्यमाने तत्संक्रान्तः पुरुषोऽपि तप्यते (पात० भा०) । इत्यादौ सत्त्वशब्दस्यार्थ इत्याहुः ।५. प्राणाः इत्यौपनिषदा आहुः । ६. पिशाचादि इति मातृका आहुः । ७. आयुः इति भिषज आहुः । ८. व्यवसायः । ९. बलं चेति काव्यज्ञा आहुः । १०. स्वभावः । ११. आत्मा । १२. जगत्कारणे येयं सुखात्मकता तत्सत्त्वम् (सर्व० सं० पृ० ३२६ सा० ) । १३. अर्थक्रियाकारित्वं सत्त्वम् (सर्व० सं० पृ० ५० आई०) । १४. त्रिविधं सत्त्वं परमार्थसत्त्वं ब्रह्मणः । अर्थ क्रियासामर्थ्यं सत्त्वं मायोपाधिकमाकाशादेः । अविद्योपाधिकं सत्त्वं रजतादेः (सर्व० सं० पृ० ४४६ शां० ) । सनातनः, सनातन नित्यः अनुत्पन्नः आत्मा । यथा - "तस्मान्नित्यो नित्यत्वात्सर्वगतः सर्वगतत्वात् स्थाणुः स्थाणुरिव स्थिरः । इत्येतत् स्थिरत्वात् अचलोऽयमात्माऽतः सनातनश्चिरन्तनो न कारणात्कुतश्चिन्निष्पन्नोऽभिनन् इत्यर्थ:" (गी० २ । २४ शा० भा० ) । यथा च - "सनातनश्चिरन्तनस्त्वं पुरुषः परो मतोऽभिप्रेतो मे मम (गी० ११/१८ शा० भा०) । सनातनम्, सनातन १. नित्यम् । यथा - "सनातनं नित्यं बीजान्तरादनुत्पन्नम्" (गी० ७/१० नी० क०) । यथा च - "बीजान्तरापेक्षयानवस्थां वारयति । सनातनं चिरन्तनम्" (तत्रैव भाष्यो०) । सन्, सत् आत्मा । यथा - "सच्छन्दार्थोऽपि च पर्यालोच्यमानो न मुख्यादात्मनोऽन्यः सम्भवति, अतोऽन्यस्य वस्तुजातस्यारम्भणशब्दादिभ्योऽनृतत्त्वोपपत्तेः (ब्र० सू० ३।३।१७ शा० भा० ) । सप्तभङ्गीनयः, सप्तभङ्गीनय स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च स्यादवक्तव्यः स्यादस्ति चावक्तव्यः स्यान्नास्ति चावक्तव्यः स्यादस्ति च नास्ति चावक्तव्यः इति न्यायः (सर्व० सं० पृ० ८२ आई०) (न्या० को०) । सप्तभङ्गी न्यायः, सप्तभङ्गिन् न्याय जैनदर्शनाभिमतोऽयं न्यायः । यत्र सर्वमपि सम्भाव्यते स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति चेत्यादिरूपेण । यथा - "सर्वत्र चेमं सप्तभङ्गीनयं नाम न्यायमवतारयन्ति । स्यादस्ति, स्यान्नास्ति स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्चेति । एवमेवैकत्वनित्यत्वादिष्वपीमं सप्तभङ्गीनयं योजयन्ति ( ब्र० सू० २।२।३३ शा० भा०) यथा च - "राप्त एकान्तत्वभङ्गः कथं कथं कदा कदा च प्रसरन्त्यपेक्षायामनन्तवीर्यः प्रतिपादयामास - तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत् । स्यान्नास्तीति प्रयोगः स्यात्तन्निषेधे विवक्षिते । क्रमेणोभयवाञ्छायां प्रयोगः समुदायभृत् । युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः । आद्यावाच्यविवक्षायां पञ्चमोऽभङ्ग इष्यते । अन्त्यावाच्यविवक्षायां षष्ठो भङ्गसमुद्भवः । समुच्चयेन युक्तश्च सप्तमो भङ्ग उच्यत इति युगपदुक्तित्वयोर्विवक्षायां वाचः क्रमवृत्तित्वादुभयं युगपदवाच्यम् । आद्योऽस्तित्वभङ्गोऽन्त्येनासत्त्वेन सह युगपदवाच्यः अन्त्यश्चाद्येन भङ्गेन सह युगपदवाच्यः । समुच्चितरूपश्च भङ्ग एकैकेन सह युगपदवाच्य इत्यर्थः (तत्रैव वे० क० त० ) । सप्तान्नानि, सप्तान्नम् मर्त्यान्नमेकं देवान्ने द्वे पश्वन्नं चतुर्थकम् । अन्यत्त्रितयमात्मार्थमन्नानां विनियोजनम् ब्रह्मादिकं दर्शपूर्णमासौ क्षीरं तथा मनः । वाक् प्राणश्चेति सप्तत्वमन्नानामवगम्यताम् (१० ८० ४/१५-१६) । समम्, सम १. ब्रह्मेति बुद्धया सर्वत्र एकतुल्यं ज्ञानम् । यथा- उत्तमब्राह्मणे चाण्डालादौ वा समं ब्रह्मैव सद्रूपेण स्फुरणरूपेण च भासमानं द्रष्टुं शीलं येषां ते समदर्शिनः (गी० ५/१८ नी० क०) । २. ब्रह्म । यथा - निर्दोषं हि समं ब्रह्म (गी० ५/१९) । समः सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् (गी० १३।२७) समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् (गी० १३।२८) । समोऽहं सर्वभूतेषु (गी० ९/२९) । ३. सुखदुःखजयपराजयसिद्ध्यसिद्धिपापपुण्यसाध्वसाधुब्राह्मणश्वपाकश्वप्रभृतिषु सर्वत्र एकरूपेण समानरूपेण दर्शनम् । यथा - समदुःखसुखं धीरम् (गी० २/१५) । सुखदुःखे समे कृत्वा (गी० २।३८) । समः शत्रौ च मित्रे च (गी० २।१८) । समः सिद्धावसिद्धौ च (गी० ४।२२)। सिद्ध्यसिद्ध्योः समो भूत्वा (गी० २।४८) समो हि सर्वेषु भूतेषु (गी० २।२९) । समः शत्रौ च मित्रे च (गी० २।१८) । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते (गी० ६।९) । समता, समता सर्वत्र ब्रह्मेति बुद्ध्या सर्वेषु समानबुद्धिः रागद्वेषराहित्यम् । यथा "समता समचित्तता" (गी० १०/५ शा० भा० ) । यथा च - "समता चित्तस्य रागद्वेषादिरहितावस्था" (तत्रैव म० सू०) । समदुःखसुखः, समदुःखसुख द्वेषरागयोरभावाद् दुःखसुखसमानावस्थः पुमान् । यथा समदुःखसुखः समे दुःखसुखे द्वेषरागयोरप्रवर्त्तके यस्य स समदुःखसुखः (गी० १२/१३ शा० भा० ) । यथा च - "अत एव समदुःखसुखे यस्य" (तत्रैव नी० क०) । यथा च – "द्वेषरागयोरप्रवर्त्तकत्वेन समे दुःखसुखे यस्य सः (तत्रैव म० सू० ) । यथा च – "अत एव समे द्वेषरागयोरप्रवर्त्तकत्वे सुखदुःखे यस्य" (तत्रैव भाष्यो०) । यथा च - "कृपालुत्वादेबान्यैः सह समे दुःखसुखे यस्य सः" (तत्रैव श्रीधरी) । समन्वयः, समन्वय परस्परविरोधिनां वाक्यानां विषयाणां वा एकस्मिन्नर्थे पर्यवसानं तात्पर्यग्रहणं वा । यथा - "सम्यगन्वयः समन्वयस्तस्मात्" (ब्र० सू० १ ।१।४ भाम० ) । समप्राप्तम्, समप्राप्त ब्रह्मज्ञानान्तरं विषयविनिवृत्तिः । यथा- "यदा तु समप्राप्तिः अभिमुखो भवतीत्यर्थः । ततस्तन्न विचालयेत् विषयाभिमुखं न कुर्यात् इत्यर्थः" (मा० उ० गौ० का० प्र० ३ । ४४ शा० भा० ) । यथा च - "ततो निर्विशेषवस्तुप्राप्त्याऽऽभिमुख्यादनन्तरमित्यर्थः (तत्रैव शा० भा० आ० टी०) । समबुद्धिः, समबुद्धि सर्वं ब्रह्मेति ज्ञानेन इष्टानिष्टरागद्वेषहर्षविषादादिभ्यो रहिता सर्वत्रैकरूपा बुद्धिर्यस्य सः । यथा - "समबुद्धयः समा तुल्या बुद्धिर्येषामिटानिष्टप्राप्तौ ते समबुद्धयः" (गी० १२।४ शा० भा०) । यथा च - "समा चाञ्चल्यहीना बुद्धिर्येषां ते समबुद्धयः (तत्रैव नी० क०) । यथा च - "समा तुल्या हर्षविषादाम्यां रागद्वेषाभ्यां च रहिता मतिर्येषाम् । सम्यग्ज्ञानेन तत्कारणस्याज्ञानस्यापनीतत्वाद् विषयेषु दोषदर्शनाभ्यासेन स्पृहाया निरसनाच्च ते सर्वत्र समबुद्धयः" (तत्रैव म० सू०) । समवर्तत, समवर्तत सम् अवर्तत तदेव पूर्वमासीत् तदेव अजायत इत्युच्यते । यथा"हिरण्यगर्भः समवर्त्तताग्रे" समवर्ततेत्यजायतेत्यर्थः । तथा " स वै शरीरी प्रथमः स वै पुरुष उच्यते" । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत इति च " (ब्र० सू० शा० भा० १।२।२३ शा० भा०) । यथा च - "तस्माद्धिरण्यगर्भ एव भगवान् सर्वभूतान्तरः कार्यो निदिश्यत इति साम्प्रतम् (तत्रैव भाम० ) । समवायः, समवाय न्यायशास्त्राभिमतसप्तपदार्थेष्वन्यतमः नित्यः पदार्थः सम्बन्धविशेषः । यथा- नित्यसम्बन्धः समवायः । अयुतसिद्धवृत्तिः । ययोर्मध्ये एकमविनश्यदपराश्रितमेवावतिष्ठते तावयुतसिद्धौ । यथा अवयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति (त० सं० ) । ब्रह्मातिरिक्तं नित्यं किमपि नास्तीति - रीत्या अद्वैतिन एतन्न मन्यन्ते । यथा - यथैव ह्यणुभ्यामत्यन्तभिन्नं सद्व्यणुकं समवायलक्षणेन सम्बन्धेन ताभ्यां सम्बध्यत एवं समवायोऽपि समवायिभ्योऽत्यन्त-भिन्नः सन् समवायलक्षणेनान्येनैव सम्बन्धेन सम्बध्येत अत्यन्तभेदसाम्यात् । ततश्च तस्य तस्यान्योन्यः सम्बन्धः कल्पयितव्य इत्यनवस्थैव प्रसज्येत । ननु इह प्रत्ययग्राह्यः समवायो नित्यसम्बन्ध एव समवायिभिर्गृह्यते नासम्बन्धः सम्बन्धान्तरापेक्षो वा । ततश्च न तस्यान्यः सम्बन्धः कल्पयितव्यो येनानवस्था प्रसज्येतेति, नेत्युच्यते - संयोगोऽप्येवं सति संयोगिभिर्नित्यसम्बन्ध एवेति समवायसम्बन्धवन्नान्यं सम्बन्धमपेक्षेत । अथार्थान्तरत्वात् संयोगः सम्बन्धान्तरमपेक्षेत । समवायोऽपि तर्ह्यर्थान्तरत्वात् सम्बन्धान्तरमपेक्षेत । न च गुणत्वात् संयोगः सम्बन्धान्तरमपेक्षेत न समबायोऽगुणत्वदिति युज्यते वक्तुम् । अपेक्षाकारणस्य तुल्यत्वात् । गुणपरिभाषायाश्चातन्त्रत्वात् । तस्मादर्थान्तरं समवायमभ्युपगच्छतः प्रसज्येतैवानवस्था (ब्र० सू० २/२/१३ शा० भा० ) । यथा च - समवायासिद्ध्या (वे० प० १ प०) । १. (पदार्थः) इहेदमिति यतः कार्यकारणयोः स समवायः (वै० ७।२।२६)। तदर्थश्च कार्यकारणयोरवयवावयविनोर्यतः सम्बन्धात् इहेदमिति प्रत्ययः स समवायः (वै० वि० ७।२।२६) । अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्धः इह प्रत्ययहेतुः स समवायः (प्रशस्त० १ पृ० २५) । इति । स च अयुतसिद्धयोः सम्बन्धः (त० भा० १) । स च यथा अवयवावयविनोः गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्त्योः विशेषनित्यद्रव्ययोश्च सम्बन्धः (त० स०) (प०मा० पृ० ३८) । यथा - घटकपालयोः सम्बन्धः समवायः । एवमन्यत्राप्यूह्यम् । तदुक्तं घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः । तेषु जातेश्च सम्बन्धः समवायः प्रकीर्तितः (भा०प० श्लो० ११) (न्या० को०) । समवायिकारणम्, समवायिकारण त्रिविधकारणेष्वन्यतमम् । यथा- कारणं त्रिविधम्समवाय्यसमवायिनिमित्तभेदात् । यत्समवेतं कार्यमुत्पद्यते तत् समवायिकारणम् (त० सं० ) । यथा तन्तवः परस्य, मृद् घटस्य । इदमेव उपादानकारणम् । तत्र अद्वैतिन एवं मन्यन्ते । यथा- "उक्तपदार्थद्वयेन परवस्तु समवैतीति यत्तत्कणभुगिच्छतीत्यत आह तज्जनिशब्दवाच्यमितो नान्यज्जनिशब्दवाच्यमिच्छतीति योजना (सं० शा० ३/२०९ अ० टी०) । समष्टिः, समष्टि समूहगतः = वनमिति वृक्षसमूहः । एवमेव व्यष्टिः व्यक्तिगतः एकैको वृक्ष इति । यथा - "इदमज्ञानं समष्टिव्यष्ट्यभिप्रायेणैकमनेकमिति च व्यवह्रियते ( वे० सा० ) । समाधानम्, समाधान चित्तस्य एकाग्रता । यथा- चित्तैकाग्रं समाधानम् (वे० प० ८ प०) । यथा च - निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः समाधानम् (वे० सा० ) । समाधिः, समाधि १. अन्तःकरणं परमात्मा च । यथा - "समाधीयतेऽस्मिन्पुरुषोपभोगाय सर्वमिति समाधिरन्तःकरणं बुद्धिस्तस्मिन् समाधौ न भवतीत्यर्थः (गी० २।४४ शा० भा० ) । यथा च - "समाधौ समाध्यनुष्ठानकाले" (तत्रैव नी० क० ) । यथा च - "समाधीयतेऽस्मिन्सर्वमिति व्युत्पत्त्या समाधिरन्त करणं वा परमात्मा वेति नाप्रुसिद्धार्थकल्पनम् । अहं ब्रह्मेत्यवस्थानं समाधिस्तन्निमित्तं व्यवसायात्मिका बुद्धिर्नोपपद्यत इति व्याख्याने तु रूढ़िरेवादृता" (तत्रैव म० सू० ) । एवमेव गीतायाम् २ । ५३ श्रीधरीव्याख्यायां तथानन्दगिरिव्याख्यायां समाधिः परमेश्वर इति । २. परमात्मा "सकृज्ज्योतिरात्मचैतन्यस्वरूपेण समाधिः समाधिनिमित्तप्रज्ञावगम्यत्वात् । समाधीयते अस्मिन्निति वा समाधिः" (मा० उ० गौ० का० ३।३७ शा० भा० ) । यथा च - "अस्मिन्परस्मिन् नात्मनि समाधीयते निक्षिप्यते जीवस्तदुपाधिश्चेति समाधिः परमात्मा । समाधिनिमित्ततया प्रज्ञया तस्यावगमत्वाद् वा समाधित्वमवगन्तव्यम्" (तत्रैव ३ । ३७ आ० टी० ) । यथा च - "समाधीयते चित्तमस्मिन्निति समाधिरात्मा" (गी० २।५३ शा० भा० ) । यथा च - "समाधौ परमात्मनि" (तत्रैव म० सू० ) । ३. मनस एकाग्रता ध्येयाकाररूपता वा । यथा ध्यातृध्याने परित्यज्य क्रमाद् ध्येयैकगोचरम् । निवातदीपवच्चित्तं समाधिरभिधीयते (प० द० १-५५) । ४. मनसो निग्रहः । यथा - "निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः समाधानम् (वे० सा०) । यथा समाधिर्द्विविधः सविकल्पको निर्विकल्पकश्चेति । तत्र वृत्यन्तरनिरोधपूर्वकं चित्तस्य ज्ञेयात्मनावस्थानम् । स च द्विविधः सविकल्पकः, निर्विकल्पकश्चेति । इमौ एव सम्प्रज्ञातासम्प्रज्ञातसमाधिशब्देनापि साम्प्रदायिकैः उच्येते । यथा च - तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः (पा० यो० सू० ३ । ३) । ध्यानमेव ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति ध्येयस्वभावावेशात् तदा समाधिरित्युच्यते (तत्रैव व्यासभाष्ये) । वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः (पा० यो० सू० १ । १७) । विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः (तत्रैव १८ ) । सम्प्रज्ञातसमाधिः सालम्बनः । असम्प्रज्ञातसमाधिश्च निरालम्बनः । अयं निर्वीजः समाधिरित्यभीयते । १. समाधानम्, २. योगशास्त्रज्ञास्तु चित्तस्याभिमतविषयनिष्ठत्वम् (गौ० वृ० ४ । २ ।३६)। एकाग्रतया मनसः स्थापनरूपो ध्येयमात्रस्फुरणरूपः ध्यानविशेषः इत्याहुः । अत्र सूत्रम् तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः (पात० पा० ३ सू० ३) । इति । तच्चैव कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते (वाच०) । इति पुराणमपि । समाधिर्नाम भावना । सा च भाव्यस्य विषयान्तरपरि हारेण चेतसि पुनः पुनर्निर्देशनम् (सर्व० सं० पृ० ३५६ पात०) । समाधिः समतावस्था जीवात्मपरमात्मनोः। ब्रह्मण्येव स्थितिर्या सा समाधिः प्रत्यगात्मनः (सर्व० सं० पृ० ३४७ पात०) (न्या० को०) । समाधिविघ्नाः, समाधिविघ्न यथा - एवमस्याङ्गिनो निर्विकल्पकस्य लयविक्षेपकषायरसास्वादलक्षणाश्चत्वारां विघ्नाः सम्भवन्ति । लयस्तावदखण्डवस्त्वनवलम्बनेन चित्तवृत्तेर्निद्रा अखण्डवस्त्वनवलम्बनेन चित्तवृत्तेरन्यावलम्बनं विक्षेपः । लयविक्षेपाभावेऽपि चित्तवृत्तेः रागादिवासनया स्तब्धीभावादखण्डवस्त्वनवलम्बनं कषायः । अखण्डवस्त्वलम्बनेनापि चित्तवृत्तेःसविकल्पकानन्दास्वादनं रसास्वादः । समाध्यारम्भसमये सविकल्पकानन्दास्वादनं वा । अनेन विघ्नचतुष्टयेन विरहितं चित्तं निर्वातदीपवदचलं सदखण्डचैतन्यमात्रमवतिष्ठते यदा तदा निर्विकल्पकः समाधिरित्युच्यते । तदुक्तम्लये सम्बोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः । स कषायं विजानीयाच्छमप्राप्तं न चालयेत् । नास्वादयेद् रसं तत्र निःसङ्गः प्रज्ञया भवेत् । यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता (वे० सा०) । यथा च - भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते (गी० २।४४) । अत्र श्रीधरीटीकायाम्भोगैश्वर्ययोः प्रसक्तानामभिनिविष्टानाम् समाधिः चित्तैकाग्ग्रं परमेश्वरैकाश्रयाभिमुखत्वं तस्मिन् निश्चयात्मिका बुद्धिर्न विधीयते । यथा च व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः (पा० यो० सू० १ । ३०) । अन्तराया विघ्ना इत्यर्थः । समाधौ इमे विघ्नाः । समाधेः अङ्गानि, समाधि अङ्ग यथा – अस्याङ्गानि यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयः (वे० सा० ) । यथा च यमनियमासुनुप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि (पा० यो० सू० २।२९ ) । यथा च यत्रैकाग्रता तत्राविशेषात् ( ब्र० सू० ४/१/११) । अत्र शाङ्करभाष्ये एकाग्रताया इष्टायाः सर्वत्राविशेषात् । ननु विशेषमपि केचिदामनन्ति- समे शुचौ शर्करावह्निबालुका विवर्जिते शब्दजलाश्रयादिभिः । मनोऽनुकूले न तु चक्षुःपीडने गुहानिवाताश्रयणे प्रयोजयेत् :- श्वें० उ० २।१० - इति यथेति । उच्यते सत्यमस्त्येवं जातीयको नियमः । सति त्वेतस्मिंस्तद्गतेषु विशेषेष्वनियम इति सुहृद्भूत्वाऽचार्य आचष्टे । मनोऽनुकूले चैषा श्रुतिर्यत्रैकाग्रता तत्रैवेत्येतदेव दर्शयति । समापत्तिः, समापत्ति सम् = सम्यग् आपत्तिर्लयः । ब्रह्मसमापत्तिः, ब्रह्मणि लयः । यथा "आपत्तिर्लय: " ( ब्र० सू० ४।२४ दे० क० त० ) । समारम्भः, समारम्भ कर्म । यथा - "यस्य यथोक्तदर्शिन सर्वे यावन्तः समारम्भाः सर्वाणि कर्माणि समारभ्यन्त इति समारम्भाः (गी० ४।१९ शा० भा० ) । यथा च – "यस्य सर्वे समारम्भा इत्यादिभिः षड्भिः । यस्य विदुषः सर्वे समारभ्यन्त इति समारम्भाः कर्माणि (तत्रैव नी० क०) । यथा च - वैदिका लौकिका वा समारम्भाः समारभ्यन्त इति व्युत्पत्त्या कर्माणि ( तत्रैव म० सू० ) । समुच्चयः, समुच्चय संग्रहः, द्वयोर्बहूनां वा एकत्र योजनम् । यथा – येऽविद्यां विद्याया अन्याऽविद्या तां कर्मेत्यर्थः । कर्मणो विद्याविरोधित्वात् । तामविद्यामग्निहोत्रादिलक्षणामेव केवलामुपासते तत्पराः सन्तोऽनुतिष्ठन्तीत्यभिप्रायः । ततस्तस्मादन्धात्मकात् तमसो भूय इव बहुतरमेव ते तमः प्रविशन्ति । के कर्म हित्वा ये नु ये तु विद्यायामेव देवताज्ञान एव रता अभिरताः । तत्रावान्तरफलभेदं विद्याकर्मणोः समुच्चयं कारणमाह । अन्यथा फलवदफलवतोः सन्निहितयोरङ्गाङ्गितैव स्यादित्यर्थ: (ई० ९ शा० भा०) । समुदायः, समुदाय १. बहूनां सङ्घटनम् । २. बौद्धदर्शनस्य पारिभाषिकः शब्दः । सृष्टिक्रियाया भूतभौतिकलक्षण: समुदाय उच्यते । यथा - "अपि च चतुर्भिश्चित्तचैत्ता उत्पद्यन्ते, परमाणुभ्यश्च भूतभौतिकलक्षणः समुदाय उत्पद्यत इत्यभ्युपगम्य पुनरभावाद् भावोत्पत्तिं कल्पयद्भिरभ्युपगतमपडुवानैर्वैनाशिकैः सर्वो लोक आकुलीक्रियते" (ब्र० सू० २।२।२६ शा० भा०) । सम्पत्, सम्पत् सर्वं खल्विदं ब्रह्मेति ज्ञानम् । यथा - "न चेदं ब्रह्मात्मैकत्वविज्ञानं सम्पद्रूपम्' (ब्र० सू० १ ।१।४ शा० भा०) । यथा च – "न चेदं ब्रह्मात्मैकत्वविज्ञानमिति । कुतः सम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञान इति" (तत्रैव भाम०) । सम्पत्तिः, सम्पत्ति (क) कारणे कार्यस्य लयः, ब्रह्मणि जीवलयः सम्पत्तिरुच्यते । यथा"सता सौम्य तदा सम्पन्नो भवति इत्युक्तायाः सम्पत्तेः" "स्वमपीतो भवतीति लयार्थेन अपीतिना विवरणाद् वाङ्मनसि इत्यत्रापि सम्पत्तिर्लयः (ब्र० सू० ४ । २ । १ क० त० प०) । (ख) कैवल्यम्, जीवस्य ब्रह्मरूपताभावः । सम्पत्तिः कैवल्यम्, ब्रह्मैव सन् ब्रह्माप्येति (वृ० आ० ४।४।६) इतिं श्रुतेः (ब्र० सू० ४।४।१६ ) । सम्पत्स्ये, सम्पत्स्यते (सम् + पद्) सम्पत् लृटि उत्तमपुरुषैकवचने । विमोक्ष्य इत्यर्थः । यथा - तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये (छा० उ० ६।१४ । २) । शरीरपातावधिकरणात् क्षेमप्राप्तेः (ब्र० सू० ४/१/१५ शा० भा० ) । यथा च - तस्मादागमानुसारतोऽस्ति प्रारब्धविपाकानां कर्मणां प्रक्षयाय तदीयसमस्तफलोपभोगप्रतीक्षा सत्यपि तत्त्वसाक्षात्कारे (तत्रैव भाम० ) । सम्परायः, सम्पराय शास्त्रीयः श्रेष्ठपरलोकप्राप्तिसाधनविशेषः । यथा - न सम्परायः प्रतिभाति (क० उ० २।६) । सम्परे इयत इति सम्परायः परलोकस्तप्राप्तिप्रयोजनसाधनावेशेषः शास्त्रीयः सम्परायः (शा० भा० ) । सम्परिष्वक्तः, सम्परिष्वक्त देहान्तरप्राप्तौ जीवो भूतसूक्ष्मैः परिवेष्टितः (गच्छति) । यथा जीवो मुख्यप्राणसचिवः सेन्द्रियः समनस्कोऽविद्याकर्मपूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं प्रतिपद्यत इत्येतदवगन्तव्यम् । ......तदन्तरप्रतिपत्तौ देहान्तरप्रतिपत्तौ देहबीजैर्भूतसूक्ष्मैः सम्परिष्वक्तो रंहति गच्छतीत्यवगन्तव्यम् । कुतः प्रश्ननिरूपणाभ्याम् । ......एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति या पुरुषमतिप्रभवाः कल्पना व्यापिनां करणांनामात्मनश्च देहान्तरप्रतिपत्तौ कर्मवशाद् वृत्तिलाभस्तत्र भवति । इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थान उत्पद्यन्ते । मन एव वा केवलं भोगस्थानमभिप्रतिष्ठेत । जीव एवोत्लुत्य देहाद् देहान्तरं प्रतिपद्यते शुक इव वृक्षाद् वृक्षान्तरम् इत्येवमाद्याः सर्वा एवानादर्तव्या श्रुतिविरोधात् (ब्र० सू० ३/१/१ शा० भा० ) । अत्र विभिन्नदार्शनिकमतस्पष्टीकरणार्थं भामती द्रष्टव्या । सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ (ब्रह्म सू० ३।१।१ ) इत्यादिनोक्तो द्रष्टव्यः । (घ) मध्वाचार्यास्तु भूतबन्धः संसार इत्याहुः । (ङ) सांख्यास्तु सूक्ष्म (लिङ्ग)शरीरं पूर्वपूर्वस्थूलशरीरत्यागपूर्वकमभिनवस्थूलशरीरं यदुपादत्ते स संसार इत्याहुः । तदुक्तम् – संसरति निरुपभोगभावैरधिवासितं लिङ्गम् (सांख्यका० ४०)। इति । (च) आत्मानं देहेनैकीकृत्य स्वर्गनरकमार्गयोः सरति येन पुरुषः स संसारः । (सर्व० सं० पृ० ४०२ शा०) । समित्येकीकरणे । (छ) संसारो नामाज्ञानम् । २. विश्वम् । ३. सङ्गतिः (वाच०) । सम्प्रज्ञातसमाधिः, सम्प्रज्ञातसमाधि वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः । (पाः यो० १ । १७ एकाग्रचेतसि प्रमाणादिवृत्तीनां बाह्यविषयाणां निरोधः (सर्व० पात०) अयं सविकल्पसमाधिः इत्यप्युच्यते। सम्प्रदायः, सम्प्रदाय सम् सम्यक् प्रकारेण प्र प्रकृष्टतया दीयते गुरुद्वारा सविधि शिष्याय उपदिश्यते सरहस्यं विद्या समर्प्यते स सम्प्रदायः अस्य परम्परापि सम्प्रदायः । यथा । सम्प्रदायो महाबोधरूपो गुरुमुखे स्थितः (योगिनीहृदये पटले २ श्लो० २६) । सम्प्रदायार्थमाह - सम्प्रदाय इति । सम्यक् याथार्थ्येन कर्णे शिष्यस्य प्रदीयत इति सम्प्रदायः । सम्प्रदायपदेनोच्यमानः समीचीनो निर्दिष्टः (अमृतानन्दकृतदीपिकायाम्) । यथा च प्रकृष्टः सर्वातिशायी दायो गुरुपरमगुर्वादिवंशपरम्परायातोऽथवा धनमिव स्थितोऽतो गुरुमुख एव स्थितो गुरुदययैव लभ्यो यथा यादृशस्तथा ते कथयामि (तत्रैव भास्करायप्रणीतसेतुबन्धे) यथा च - अनवच्छिन्नपरम्परया आगतः सम्प्रदायः श्रीशङ्ककराचार्यः गीताभाष्ये आदौ । बृहदारण्यकोपनिषदि तथा तत्रत्यशाङ्करभाष्ये सम्प्रदायमहिमा पठ्यते । यथा च - "सम्प्रदायो गुरुशिष्यपरम्परया अध्ययनम् । एतदुक्तं भवति स्वयंभुवो वेदकर्तृत्वेऽपि न कालिदासादिवत् स्वतन्त्रत्वमपितु पूर्वसृष्ट्यनुसारेण (ब्र० सू० १ ।३।२८ भांम०) । सम्प्रसादः, सम्प्रसाद १. सुषुप्तस्थानम् । यथा - "तत इदमुच्यते - परमात्मैवेह भूमा भवितुमर्हति न प्राणः । कस्मात् ? सम्प्रसादादध्युपदेशात् । सम्प्रसाद इति सुषुप्तं स्थानमुच्यते; सम्यक् प्रसीदत्यस्मिन्निति निर्वचनात् । बृहदारण्यके च स्वप्नजागरितस्थानाभ्यां सह पाठात् तस्यां च सम्प्रसादावस्थायां प्राणो जागर्तीति प्राणोऽत्र सम्प्रसादोऽभि-प्रेयते" (ब्र० सू० १/३/८ शा० भा०) । यथा च - "अत्र हि सम्प्रसादशब्दः श्रुत्यन्तरे सुषुप्तावस्थायां दृष्टत्वात्तदवस्थावन्तं जीवं शक्नोत्युपस्थापयितुं नार्थान्तरम्" (तत्रैव शा० भा०) । २. जीवस्यावस्थाभेदः । यथा च - "सम्यक् प्रसीदत्यस्मिन् जीवो विषयेन्द्रियसंयोगजनितं कालुष्यं जहातीति सुषप्तिः सम्प्रसादो जीवस्यावस्थाभेदः न ब्रह्मणः" (तत्रैव भाम०) । यथा च - "एवमेवैष सम्प्रसादोऽस्माच्छरीरातु समुत्थाय परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इति" (ब्र० सू० ४।४।१ शा० भा० ) । ३. सुषुप्त्यवस्था । यथा - सम्प्रसादः सुषुप्त्यवस्था । सम्यक् प्रसीदत्यस्यां जीवस्वरूपमिति व्युत्पत्त्या (त० प्र० स्वप्रकाश प्र० न० प्र० टी० ) । सम्प्रसादस्थानम्, सम्प्रसादस्थान सुषुप्तिस्थानम् (त० प्र० स्वप्रकाशे न० प्र० टी०) । सम्पातः - १. (क) कर्माशयः । येन जीवो लोकाल्लोकान्तरं प्रयाति । यथा - "तस्मिन् यावत् सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्त्तते यथेतरम्" (छा० ५/१०/५)। ....सम्पातशब्देनात्र कर्माशय उच्यते- सम्पतन्त्यनेनास्माल्लोकादमुं लोकं फलोपभोगायेति (ब्र० सू० ३।१।८ शा० भा०) । १. (ख) कर्म । येन लोकाल्लोकान्तरं प्रैति । यथा – "सम्पतत्यनेनास्माल्लोकादमुं लोकमिति सम्पात: कर्म" (ब्र०सू० १ । १ । ४ वे० क० त० ) । यथा च - "सम्पतत्यस्मादमुं लोकं फलभोगायेति सम्पातः कर्म, तद्यावत्तावदुषित्वा आवर्तत इति" तत्रैव। सम्बन्धः, सम्बन्ध परैरेकस्य वस्तुनोऽपरेण सह सन्निवेशार्थः सम्बन्धः कल्प्यते । स च सम्बन्धो नित्योऽनित्यश्च । नित्यः समवायः । अनित्यः संयोगादिः । अयं चाद्वैतिमिः समालोच्यते । यथा – समवायाभ्युपगमाच्च साम्यादनवस्थितेः (ब्र० सू० २ । २ । १३)। अत्र शा० भा० ....समवायाभ्युपगमाच्च तदभाव इति प्रकृतेनाणुवादनिराकरणेन सम्बध्यते । द्वाभ्यां चाणुभ्यां द्वयणुकमुत्पद्यमानमत्यन्तभिन्नमणुभ्यामण्वोः समवैतीत्यभ्युपगम्यते भवता ।.....यथैव ह्यणुभ्यामत्यन्तभिन्नं सद् द्व्यणुकं समवायलक्षणेन सम्बन्धेन सम्बद्धयत एवं समवायोऽपि समवायिभ्योऽत्यन्तभिन्नः सन् समवायलक्षणेनान्येनैव सम्बन्धेन समवायिभिः सम्बद्ध्येत । अत्यन्तभेदसाम्यात् । ततश्च तस्य तस्यान्योन्यः सम्बन्धः कल्पयितव्य इत्यनवस्थैव प्रसज्येत । ननु इह प्रत्ययग्राह्यः समवायो नित्यसम्बन्ध एव समवायिभिर्गृह्यते नासम्बन्धः सम्बन्धान्तरापेक्षो वा । ततश्च न तस्यान्यः सम्बन्धः कल्पयितव्यो येनानवस्था प्रसज्येतेति । नेत्युच्यतेसंयोगोऽप्येवं सति संयोगिभिंर्नित्यसम्बन्ध एवेति समवायान्नान्यं सम्बन्धमपेक्षेत । अथार्थान्तरत्वात् संयोगः सम्बन्धान्तरमपेक्षेत । समवायोऽपि तदर्थान्तरत्वात् सम्बन्धान्तरमपेक्षेत । न गुणत्वात् संयोगः सम्बन्धान्तरमपेक्षते न समवायोऽगुणत्वादिति युज्यते वक्तुम् । अपेक्षाकारणस्य तुल्यत्वात् । सम्भूतिः, सम्भूति देवादीनामुपासनात्सांसारिकैश्वर्यादिप्राप्तिः । यथा - "सम्भवनं सम्भूतिः सा यस्य कार्यस्य सा सम्भूतिः ( ई० उ० १२ शा० भा०) । यथा च "सम्भवात् सम्भूतेः कार्यब्रह्मोपासनादणिमाद्यैश्वर्यलक्षणं व्याख्यातवन्त इत्यर्थः (तत्रैव १३) । सहोपलम्भः, सहोपलम्भ येषां ययो र्वा नियमेन सहैव ज्ञानम् । बौद्धैकदेशिमते बाह्यार्थाभावपक्षे ज्ञानपदार्थयोः सहोपलम्मनियमः । यथा - "अपि च सहोपलम्भनियमादभेदो विषयविज्ञानयोरापतति । न ह्यनयोरेकस्यानुपलम्भेऽन्यस्योपलम्भोऽस्ति " ( ब्र० सू० २।२।२८ शा० भा० ) । यथा च - "अपि च सहोपलम्भनियमादिति यद्येन सह नियतसहोपलम्भनं तत्ततो न भिद्यते, यथैकस्माच्चन्द्रमसो द्वितीयश्चन्द्रमाः । नियतसहोपलम्भश्चार्थो ज्ञानेनेति व्यापकविरुद्धोपलब्धि: ( तत्रैव भाम० ) । सम्यक् चारित्र्यम्, सम्यक् चारित्र्य जैनदर्शनस्य पारिभाषिकः शब्दः । पुण्यहेतुः । यथा "संसरणकर्मोच्छितावुद्यतस्य श्रद्दाधानस्य ज्ञानवतः पापगमनकारणक्रियानिर्वृत्तिः (सर्व० सं० पृ० ६५ आर्ह०) (न्या० को०) । सम्यग्ज्ञानम्, सम्यग्ज्ञान (क) यथार्थज्ञानम् । यथा सत्यरजते इदं रजतमिति ज्ञानम् । (ख) अविसंवादकं ज्ञानम् । (ग) यतश्चार्थसिद्धिस्तदिति बौद्धा: आहुः (न्या० वि० टी० पृ० ३-६) । एतन्मते सम्यग्ज्ञानं द्विविधं- प्रत्यक्षं लैङ्गिकं चेति । (घ) येन स्वभावेन जीवादयः पदार्था व्यवस्थितास्तेन स्वभावेन मोहसंशयहितत्वेनावगमः इत्यार्हता आहुः । तन्मते सम्यग्ज्ञानं पञ्चविधं मतिः श्रुतमवधिः मनः पर्यायः केवलं च (सर्व० पृ० ६३ आर्ह०)। (ङ) सत्त्वपुरुषान्यथाख्यातिस्तथा द्रष्टुः स्वरूपेऽवस्थानम् (पा० यो० सू० ११३) । इति पातञ्जला वदन्ति । सम्यग्दर्शनम्, सम्यग्दर्शन जैनदर्शनस्य पारिभाषिकः शब्दः । विपरीताभिनिवेशरहितं शुद्धतत्त्वदर्शनम् । येन रूपेण जीवाद्यर्थो व्यवस्थितस्तेन रूपेणार्हता, प्रतिपादिते तत्त्वार्थे विपरीताभिनिवेशरहितत्वाद्यपरपर्यायं श्रद्धानम् (सर्व० सं० पृ० ६२ आई०) (न्या० को०) । सर्गशक्तिः, सर्गशक्ति पुरुषस्य (जीवस्य) कैवल्यार्थं प्रधानस्य सृष्ट्यर्थं प्रवृत्तिः । यथा च - "न च पुरुषस्य निर्मलस्य निष्कलस्यौत्सुक्यम् । दृक्शक्तिसर्गशक्तिवैयर्थ्यभयाच्चेत् प्रवृत्तिस्तर्हि सर्गशक्त्यनुच्छेदवदृक्शक्त्यनुच्छेदात् संसारानुच्छेदादनिर्मोक्ष प्रसङ्ग एव । तस्मात्प्रधानस्य पुरुषार्था प्रवृत्तिरित्येतदयुक्तम्" (ब्र० सू० २ ।२।६ शा० भा०) । यथा च - "दृक्शक्ति अनुच्छेदवदिति इदानीं भाष्यपाठो दृश्यते । निबन्धे तु सर्गशक्त्यनुच्छेदवदिति पाठं दृष्ट्वा व्याचष्टे- सर्गेति (वे० क० त० ) । सर्वकर्माणि, सर्वकर्मन् नित्यं नैमित्तिकं काम्यं प्रतिसिद्धं च कर्म । यथा च - "यस्तु परमार्थदर्शी सः । सर्वाणि कर्माणि सर्वकर्माणि संन्यस्य परित्यज्य नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं च सर्वकर्माणि तानि मनसा विवेकबुद्ध्या" (गी० ५/१३ शा० भा० ) । यथा च – "नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं चेति 'सर्वाणि कर्माणि मनसा' 'कर्मण्यकर्म यःपश्येत्' इत्यत्रोक्तेनात्रात्मस्वरूपसम्यग्दर्शनेन संन्यस्य परित्यज्य प्रारब्धकर्मवशादास्ते तिष्ठत्येव" (तत्रैव म० सू० ) । सर्वज्ञः, सर्वज्ञ सर्वज्ञं मुख्यं ब्रह्म एव न तु प्रधानम् अपरं वा । यथा च – "तथा सति यन्निमित्तमीक्षितृत्वं प्रधानस्य तदेव सर्वज्ञं मुख्यं ब्रह्म जगतः कारणमिति युक्तम् । यत्पुनरुक्तं ब्रह्मणोऽपि न मुख्यं सर्वज्ञत्वमुपपद्यते" ....अत्रोच्यते ( ब्र० सू० १/१/५ शा० भा०) । सर्वज्ञत्वम्, सर्वज्ञत्व (क) उक्तानुक्ताशेषार्थेषु समासविस्तरविभागविशेषतश्च तत्त्वव्याप्तसदोदितसिद्धिज्ञानं सर्वज्ञत्वम् (सर्व० सं० पृ० १६६ नकु०) । (ख) सर्वेषां व्यवसायाव्यवसायात्मकानां गुणपरिणामरूपाणां भावानां स्वामिवदाक्रमणं सर्वभावाधिष्ठातृत्वम् । तेषामेव शान्तोदिताव्यपदेश्यधर्मित्वेन स्थितानां विवेकज्ञानं सर्वज्ञत्वम् (सर्व० सं० पृ० ३८५-८६ पात०) (न्यायकोशः) । सर्वभूताधिवासः, सर्वभूताधिवास सर्वान्तर्यामी- व्यापकः । यथा च – "सर्वाणि भूतान्यधिवसन्ति अस्मिन्निति सर्वभूताधिवासः सर्वाश्रयः" (सं० शा० ३।५८३ अ० टी०) । सर्वमोक्षः, सर्वमोक्ष तुरीयः प्रलयः । यथा - "तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकः सर्वमोक्षः । स चैकजीववादे युगपदेव नानाजीववादे तु क्रमेण । सर्वम् एकीभवन्ति इत्यादिश्रुतेः । तत्राद्यास्त्रयोऽपि प्रलयाः कर्मोपरतिनिमित्ताः । तुरीयस्तु ज्ञानोदयनिमित्तो लयोऽज्ञानेन सहैवेति विशेषः (वे० प० ७ १०) । सर्वविक्रियारहितम्, सर्वविक्रियारहित कूटस्थनित्यं ब्रह्म । यथा- "इदं तु पारमार्थिकं, कूटस्थनित्यं, व्योमवत् सर्वव्यापि, सर्वविक्रियारहितं, नित्यतृप्तं, निरवयवं, स्वयं ज्योतिः स्वभावम्" (ब्र० सू० १ ।१।४ शा० भा०) । यथा च - "सर्वविक्रियारहितम् इति विकार्यकर्मताम्" (तत्रैव भाम०) । सर्ववेदसम्, सर्ववेदस सर्वस्वं धनम् । यथा - सर्ववेदस्य वाजश्रवसः सर्ववेदसं ददौ (क० उ० १।१ ) । सर्ववेदसं सर्वस्वं धनम् (शा० भा० ) । सर्वव्यापि, सर्वव्यापिन् नित्यं ब्रह्म । यथा - "इदंतु पारमार्थिकं कूटस्थनित्यं, व्योमवत्सर्वव्यापि, सर्वविक्रियारहितं, नित्यतृप्तं, निरवयवं, स्वयं ज्योतिः स्वभावम् (ब्र० सू० १ ।१।४ शा० भा०) । यथा च - "सर्वव्यापि इति प्राप्तकर्मताम् (तत्रैव भाम०) । यथा च "जीवभेदे वस्तुपरिच्छेदात् व्यापित्वभङ्ग इत्यर्थः" (सं० शा० ३।१८३ सु० टी०) । यथा च – "सर्वशक्तियुक्तपरादेवता (परं ब्रह्म) । यथा च - सर्वोपेता च तद्दर्शनात् (ब्र० सू० २।१।३०) । अत्र भामती - एकस्यापि ब्रह्मणो विचित्रशक्तियोगादुपपद्यते विचित्रो विकारप्रपञ्च इत्युक्तम् । तत्पुनः कथमवगम्यते विचित्रशक्तियुक्तं परं ब्रह्मेति । तदुच्यते- सर्वोपेता च तद्दर्शनात् । सर्वशक्तियुक्ता च परादेवतेत्यभ्युपगन्तव्यम् । तथा हि दर्शयति श्रुतिः सर्वशक्तियोगं परस्या देवतायाः- सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः (छा० ३ । १४।४) । यथा च - सर्वशक्तियोगः सम्भवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेव (ब्र० सू० २।१।३१ शा० भा० ) । सर्वारम्भपरित्यागी, सर्वारम्भपरित्यागिन् लौकिकपारलौकिकफल्योगहेतुकसकलकर्मोद्योगत्यागी । यथा - "सर्वारम्भपरित्यागी आरभ्यन्त इत्यारम्भा इत्रामुत्रफलभोगार्थानि कामहेतूनि कर्माणि सर्वारम्भास्तान्परित्यक्तुं शीलमस्येति सर्वारम्भपरित्यागी" (गी० १२/१६ शा० भा० ) । यथा च - "सर्वारम्भपरित्यागी सन्यासित्वादेव" (तत्रैव नी० क० ) । यथा च- "ऐहिकामुष्मिकफलानि सर्वाणि कर्माणि सर्वारम्भास्तान् परित्यक्तुं शीलं यस्य स सर्वारम्भपरित्यागी सन्यासी" (तत्रैव म० सू०) । यथा च - "अत एवैहिकामुष्मिकदुःखनिवृत्तितत्सुखप्राप्त्यर्थानि कर्माणि आरभ्यन्त इत्यारम्भास्तान् परित्यक्तुं शीलमस्य स सर्वारम्भपरित्यागी'' (तत्रैव भाष्यो०) । यथा च - "सर्वान्दृष्टादृष्टार्थानारम्भानुद्यमान् परित्यक्तुं शीलं यस्य स एवम्भूतः" (तत्रैव श्रीधरी) । सर्वास्तित्वादि, सर्वास्तित्वादि सर्वास्तित्वविज्ञानास्तित्वसर्वशून्यत्ववादाः= बौद्ध दर्शनस्येमे त्रयः सिद्धान्ताः । यथा – "तत्रैते त्रयो वादिनो भवन्ति केचित् सर्वास्तित्वादिनः केचिद् विज्ञानास्तित्ववादिनः अन्ये पुनः सर्वशून्यत्ववादिन इति" (ब्र० सू० २/२/१८ शा० भा० ) । यथा च - "वादिवैचित्र्यात् खलु केचित् सर्वास्तित्वमेव राद्धान्तं प्रतिपद्यन्ते । केचिज्ज्ञानमात्रास्तित्वम् । केचित्सर्वशून्यताम्... । हीनमध्यमोत्कृष्टधियो हि शिष्या भवन्ति । तत्र ये हीनमतयस्ते सर्वास्तित्ववादेन तदाशयानुरोधाच्छून्यतायामव-तार्यन्ते । ये तु मध्यमास्ते ज्ञानमात्रास्तित्वेन शून्यतायामवतार्यन्ते । ये तु प्रकृष्टमतय-स्तेभ्यः साक्षादेव शून्यतात्वं प्रतिपाद्यते (तत्रैव भाम० ) । सर्वेश्वरः, सर्वेश्वर भेदजातस्य सर्वस्येशिता । यथा - "एष हि स्वरूपावस्थः सर्वेश्वरः साधिदैविकस्य भेदजातस्य सर्वस्येशिता नैतज्जात्यन्तरभूतोऽन्येषामिव" (मा० उ० १।४ शा० भा०) । यथा च - सर्वशक्तियुक्ता च परा देवतेत्यभ्युपगन्तव्यम् । कुतः ? तद्दर्शनात् । तथा हि दर्शयति श्रुतिः । सर्वशक्तियोगं परस्या देवतायाः । सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः - छा० ३।१४।४-। सर्वकामः सत्यसङ्कल्प:- छा० ८।७।१ - । यः सर्वज्ञः सर्ववित्- मुण्ड० १।१।९-1 एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः - बृ० ३१८/९इत्येवं जातिकाः - ब्र० सू० २।१।३० शा० भा० । सवस्तु सोपलम्भम्, सवस्तु सोपलम्भ यथा - सता वस्तुना सह वर्तत इति सवस्तु । तथा चोपलब्धिरुपलम्भस्तेन सह वर्तत इति सोपलम्भञ्च शास्त्रादिव्यवहारास्पदं ग्राह्यग्राहकलक्षणं द्वयं लौकिकं लोकादनुपेतं लौकिकं जागरितमित्येतत् (मा० उ० गौ० का० ४।८७ शा० भा० ) । सवस्तूपलम्भः, सवस्तूपलम्भ सपरमार्थतोपलब्धिः । यथा - सता वस्तुना सह वर्तत इति सवस्तु । तथा चोपलब्धिरुपलम्भस्तेन सह वर्त्तत इति सोपलम्भं च..... वेदान्तेषु (मा० उ० गौ० का० ४।८७ शा० भा०) । सविकल्पकः, सविकल्पक ध्यातृध्येयसहिता तदाकाराकारिता अन्तःकरणवृत्तिः । यथा "सविकल्पको नाम ज्ञातृज्ञानादिविकल्पलयानपेक्षयाऽद्वितीयवस्तुनि तदाकाराकारितायाश्चित्तवृत्तेरवस्थानम् । तदा मृण्मयगजादिभानेऽपि मृद्भानवत् द्वैतभानेऽप्यद्वैतं वस्तु भासते । तदुक्तम्- दृशिस्वरूपं गगनोपमं परं सकृविभातं त्वजमेकमक्षरम् । अलेपकं सर्वगतं यदद्वयं तदेव चाहं सततं विमुक्तमोम् (वे० सा०) । यथा च तच्च प्रत्यक्षं द्विविधम् । सविकल्पकनिर्विकल्पकभेदात् । तत्र सविकल्पकं वैशिष्ट्यावगाहि ज्ञानम् । यथा- घटमहं जानामीत्यादिज्ञानम् । निर्विकल्पकं तु संसर्गानवगाहि ज्ञानम् । यथा सोऽयं देवदत्तः, तत्त्वमसीत्यादिवाक्यजन्यज्ञानम् (वे० प० १ प०) । योगशास्त्रे सम्प्रज्ञातसमाधिरपि एतादृश एव । यथा- वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः (पा० यो० १।८) । सम्प्रज्ञातसमाधिः सालम्बनो भवति । यथा च सप्रकारकं ज्ञानं सविकल्पकम् । यथा डित्थोऽयम् । ब्राह्मणोऽयम् । श्यामोऽयमिति (त० सं० १ ख०) । सविकल्पकम्, सविकल्पक प्रत्यक्षभेदः । यथा प्रत्यक्षंद्विविधम् सविकल्पकनिर्विकल्पक भेदात् (वे० प० १ प०) (प्रत्यक्षम्) । (क) विशिष्टग्रहणम् । (ख) वैशिष्ट्यावगाहि सप्रकारकं वा ज्ञानम् (न्या० म० पृ० ४) (त० स०) । यथा- डित्थोऽयम्, ब्राह्मणोऽयम् श्यामोऽयम्, पाचकोऽयमिति प्रत्यक्षज्ञानम् (त० सं०) अत्र वैशिष्ट्यावगाहि इत्यस्य नामजात्यादिविशेषणविशेष्यसम्बन्धावगाहि ज्ञानमित्यर्थः (त० दी० १ पृ० १८) (त० कौ०) । सप्रकारकमित्यस्य कस्मिंश्चिन्निष्ठप्रकारताशालिज्ञानमित्यर्थः (त० प्र० १ ) । सविकल्पकमित्यत्र विकल्पः प्रकारता । तथा च तल्लक्षणं प्रकारतानिरूपकज्ञानत्वम् इति । अयं भावः । विषयताया ज्ञाननिरूपितत्वाज्ज्ञानस्य च विषयतानिरूपकत्वेन प्रकारतानिरूपकज्ञानत्वं तल्लक्षणम् । एवं विशेष्यतानिरूपकज्ञानत्वं संसर्गतानिरूपकज्ञानत्वमित्यपि लक्षणानि सम्भवन्ति । निर्विकल्पके तु अतिरिक्ता तुरीया विषयता स्वीक्रियते । त्रिविधविषयतामध्य एकापि तत्र नास्ति (न्या० बो० १ पृ० ११) (वाक्य० १ पृ० १२) (नील० १, पृ० १८) । (ग) मायावादिवेदान्तिनस्तु ज्ञातृज्ञेयभेदादिसहितं ज्ञानं सविकल्पकमित्याहुः । (घ) योगशास्त्रज्ञास्तु सम्प्रज्ञाताख्यः समाधिविशेष इत्याहुः (न्या० को०) । सविज्ञानः, सविज्ञान जीवः । यथा - "विज्ञायते अनेनेति विज्ञानं पञ्चवृत्तिप्राणसहित इन्द्रियग्रामस्तेन सहावतिष्ठत इति सविज्ञान: (ब्र० सू० ४।२।४ भाम०) । यथा च "विज्ञानशब्दो भावकरणव्युत्पत्तिद्वयेन प्रारब्धकर्मप्रकाशकस्येन्द्रियग्रामस्य च तन्त्रन्यायेन वाचक इति तत्साहित्यं जीवस्य सविज्ञान इत्येवोच्यत इति भावः" (तत्रैव क० त० प० ) । यथा च "सविज्ञानशब्दः प्राप्तव्यकर्मफलप्रकाशवचन इत्युक्तमिह तु तमपरित्यज्य तत्सहितेन्द्रियसमुदायवचन इत्युक्तमिति न तद्विरोधः (तत्रैव वे० क० त० ) । सवितर्कः, सवितर्क समाधिमेदः । यथा - तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः (पा० यो० सू० १४२) । तद् यथा गौरिति शब्दो गौरित्यर्थः गौरिति ज्ञानमित्यविभागेन विभक्तानामपि ग्रहणं दृष्टम् । विभज्यमानाश्चान्ये शब्दधर्मा अन्येऽर्थधर्मा अन्ये विज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः । तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां समारूढ़ः स चेच्छब्दार्थज्ञानविकल्पानुबिद्ध उपावर्तते सा सङ्कीर्णा समापत्तिः सवितर्केत्युच्यते (तत्रैव व्यासभाष्यम्) । यथा च - यदा पृथिव्यादीनि स्थूलानि विषयत्वेनादाय पूर्वापरानुसन्धानेन शब्दार्थोल्लेख्यसम्भेदेन च भावना प्रवर्तते स समाधिः सवितर्कः (सर्व० सं० पात०) । अयं पातञ्जलसमाधिभेदः । अद्वैतिभिस्तु समाधिः परमेश्वर उच्यते । यथा - श्रुतिविप्रतिपन्ना ये यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यति (गी० २।५३) । अत्र श्रीधरी व्याख्यायाम्श्रुतिभिर्नानालौकिकवैदिकार्थश्रवणैर्विप्रतिपन्ना इतः पूर्वं विक्षिप्ता सती ते तत्र समाधौ बुद्धिर्यदा स्थास्यति समाधीयते चित्तमस्मिन्निति समाधिः परमेश्वरः.... । संक्षेपशारीकम्, संक्षेपशारीक संक्षेपेण जीवब्रह्मैक्यबोधकं शास्त्रम् । यथा – "शरीरे भवः शारीरो जीवस्तं ब्रह्मत्वेन काययति बोधयति इति शारीरकं शास्त्रं तस्यार्थः प्रयोजनं विषयश्च यद्ब्रह्मात्यैक्यं तत्साक्षात्कारः प्रधानमुद्देश्यं यस्य तत्तथा शास्त्रं हि विचारप्राधान्यादवगतिं गर्भीकृत्य प्रवृत्तमिदं त्ववगतिप्राधान्येनैवेति स्फुटं कार्यान्तरमिति भावः । एकदेशसम्बन्धमाह - संक्षेप इति । निर्गुणविद्यामात्रम् संक्षेपेण इत्यर्थः" ( सं शा० १० सु० टी०) । संघातः, संघातः पञ्चमहाभूतपरिणामः शरीरादिः । यथा- "संघातो देहेन्द्रियाणां संहतिः" (गी० १३।६ शा० भा० ) । यथा च - "संघातः पञ्चमहाभूतपरिणाम:" (तत्रैव म० सू० ) । सन्ध्यम्, सन्ध्य स्वप्नस्थानम् । यथा - "तत्र तावत्प्रतिपद्यते संध्ये तथ्यरूपा सृष्टिरिति । सन्ध्यमिति स्वप्नस्थानमाचष्टते; वेदे प्रयोगदर्शनात् 'संध्यं तृतीयं स्वप्नस्थानम्' (बृ० उ० ४।३।९) इति । द्वयोर्लोकस्थानयोः प्रबोधसम्प्रसादस्थानयोर्वा सन्धौ भवतीति सन्ध्यम् । तस्मिन् सन्ध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हति " ( ब्र० सू० ३।२।१ शा० भा०) । संन्यासः, संन्यासः १. सर्वैषणात्यागलक्षणं ब्रह्म । यथा - "सर्वसङ्गपरित्यागो न्यासः ......किमपेक्ष्य परः संन्यास इत्यत आह तानि वा...... एतदुक्तं भवति...... ब्रह्मपरतया सर्वेषणापरित्यागलक्षणो न्यासो ब्रह्मेति तथा चेदृशं न्यासलक्षणं ब्रह्मसंस्थभिक्षीरेवासाधारणं नेतरेषामाश्रमिणाम्" (ब्र० सू० ३ । ४ ।२० भाम० ) । यथा च "तथा च सर्वकर्मसंन्यासं वक्ष्यति" सर्वकर्माणि मनसा इत्यादिना । ननु मनसेऽति वचनान्न वाचिकानां कायिकानां च संन्यास इति चेत्, न, सर्वकर्माणीति विशेषितत्वात् । मानसानामेव सर्वकर्मणामिति चेत्, न, मनोव्यापारपूर्वकत्वाद् वाक्कायव्यापाराणां मनोव्यापाराभावे तदनुपपत्तेः । शास्त्रीयानां वाक्कायकर्मणां कारणानि मानसानि, वर्जयित्वान्यानि सर्वकर्माणि मनसा संन्यसेदिति चेत्, न, नैव कुर्वन्न कारयन्' इति विशेषणात् । सर्वकर्मसंन्यासोऽयं भगवतोक्तो मरिष्यतो न जीवत इति चेत्, न । नव द्वारे पुरे देह्यास्ते इति विशेषणानुपपत्तेः । न हि सर्वकर्मसंन्यासेन मृतस्य तद्देहे आसनं सम्भवति । अकुर्वतो अकार्यतश्च देहे संन्यस्येति सम्बन्धो न देहे आस्ते इति चेत्, न । सर्वत्रात्मनोऽविक्रियत्वावधारणात् । आसनक्रियायाश्चाधिकरणापेक्षत्वात्तदनपेक्षत्वाच्च संन्यासस्य । सम्पूर्वस्तु न्यासशब्दस्त्यागार्थो न निक्षेपार्थ:" (गी० ५/१३ शा० भा० ) । २. लोकैषणापुत्रैषणावित्तैषणादित्यागः । यथा - "सर्वैषणापरित्यागः संन्यासाख्यः (बृ० आ० उप० ४।४।७ शा० भा०) ।३. काम्यकर्मत्यागः । यथा – "काम्यानामश्वमेधादीनां कर्मणां न्यासं परित्यागं संन्यासं संन्यासशब्दार्थमनुष्ठेयत्वेन प्राप्तस्याननुष्ठानं कवयः पण्डिताः केचिद् विदुर्विजानन्ति (गी० १८/२ शा० भा०) । यथा च "तस्मादविरक्तकृतसंन्यासापेक्षया निष्कामकर्माचरणमेव श्रेय इत्याशयेन भगवता काम्यकर्मत्यागः संन्यासत्वेन नित्यादिकर्मणां फलानभिसन्धानं च त्यागत्वेन सूचयत इति । तस्मादश्रद्धया कृतः संन्यासोप्यसन्नेवेति संन्यासाद् ब्रह्मणः स्थानमिति स्मृतं स्वफलं दातुं न समर्थ इति युक्तमुक्तं भगवता अश्रद्धया कृतं सर्वं व्यर्थमिति" (तत्रैव नी० क० ) । यथा च - "काम्यानां फलकामनया चोदितानामन्तःकरणशुद्धावनुपयुक्तानां कर्मणामिष्टपशुसोमादीनां न्यासं संन्यासं विदुर्जानन्ति कवयः सूक्ष्मदर्शिनः" (तत्रैव म० सू०) । यथा च – "काम्यानां कर्मणां न्यासं परित्यागं संन्यासं कवयो विदुः" (तत्रैव श्रीधरी) । ४. ईश्वरसमर्पणतया कर्मफलत्यागः तथा- शोधितान्त:करणस्त्यक्तसर्वकर्मा पुरुषः यथा - "सोऽयं संन्यासयोगो नाम संन्यासश्चासौ मत्समर्पणतया कर्मद्योगश्चासौ इति तेन सन्यासयोगेन युक्त आत्मान्तःकरणं यस्य" (गी० ९/२८ शा० भा० ) । यथा च - "ततश्च संन्यासयोक्तयुक्तात्मा संन्यासः सर्वकर्मणां भगवति समर्पणं स एव योग इव चित्तशोधकत्वाद्योगस्तेन युक्तः शोधित आत्मान्तःकरणं यस्य स त्वं त्यक्तसर्वकर्मा वा" (तत्रैव म० सू०) । संन्यासयोगो नाम फलत्यागात् संन्यासश्चासौ कर्मत्वाद्योगश्च तेन युक्तः आत्मान्तःकरणं यस्य स त्वं संन्यासः स्वरूपतः सर्वकर्मत्याग स एव युज्यते ब्रह्मणानेनेति योगस्तेन युक्तः तस्मिन् युक्तः समाहितो वा आत्मान्तःकरणं यस्य स त्वम् (तत्रैव भाष्यो०)। ५. सम्यगूबुद्धिः सांख्यम् । यथा - "संन्यासः सांख्यमिति मयाभिप्रेत:" (गी० ५/६ शा० भा०) । संन्यासी, संन्यासिन् १ . कर्तव्यभोक्तव्यादिसङ्कल्परूपमनोवृतीनां तत्साधनानां च त्यागशीलः । गथाः–"हि यस्मात्तस्मात् सर्वसङ्कल्पसंन्यासी सर्वेषां संङ्कल्पादीनामिदं मया कर्त्तव्यमेतत्फलं भोक्तव्यमित्येवं रूपाणां मनोवृत्तिविशेषाणां तद्विषयाणां च कामानां तत्साधनानां च कर्मणां त्यागशीलः(गी० ६।४ म० सू० ) । २. कर्म कुर्वन्नपि ईश्वरार्पणबुद्ध्या फलत्यागी निष्कामकर्मयोगी । यथा च - "स निष्कामयोगी नित्यं संन्यासी बोधव्यः । यत्तु यदो योगात्तदोऽध्याहारः । सनित्यसंन्यासीत्येकं पदम् । नित्यैः कर्मभिः सह वर्तते सनित्यः स चासौ संन्यासी चेति तन्न" (गी० ५।२ भाष्यो० ) । संयवामः- परमात्मा । यथा - संयन्ति संगच्छमानानि वामान्यनेनेति संयद्वामः परमात्मा । ..... स एव पुण्यफलानि वामानि नयति लोकमिति वामनीः । स च भामतीः । भामानि भानानि नयति लोकमिति भामनी: (ब्र० सू० १ । २ । १३ भाम० ) । यथा च "जीवान्प्रति संगच्छमानानि यानि वामानि तानि येन हेतुना संगच्छते स संयवामः (तत्रैव वे० क० त० ) । यथा च – "सम्भक्ताविति धातोरौणादिकप्रत्ययान्ततया निष्पन्नो वामशब्दः सम्भजनीयवाची शोभनेषु पुण्यफलेषु वगादिभोगवस्तुषु पर्यवस्यतीति भावः (तत्रैव वे० क० त० प० ) । संयद् - सम्पत्स्यमानं वामम् सुपुण्यफलं सर्वकल्याणम् । सर्वकल्याणनिधानं ब्रह्म परमात्मा । यथा - "संयन्ति संगच्छमानानि वामान्यनेनेति संयद्वामः परमात्मा" (ब्र० सू० १ । २ । १३ भाम० ) । संयमः, संयम निरोधसमाधिर्योगो वा । यथा - "सर्वाणीन्द्रियकर्माणीन्द्रियाणां कर्माणीन्द्रियकर्माणि तथा प्राणकर्माणि प्राणो वायुराध्यात्मिकस्तत्कर्माण्याकुञ्चनप्रसारणादीनि तानि चापर आत्मसंयमयोगाग्नावात्मनि संयम आत्मसंयम स एव योगाग्निस्तस्मिन्नात्मसंयमयोगानौ जुह्वति प्रक्षिपन्ति" (गी० ४।२७ शा० भा०) । यथा च – "आत्मसंयमयोगाम्नौ आत्मविषयकः संयमो धारणाध्यानसंप्रज्ञातसमाधिरूपस्तत्परिपाके सति योगो निरोधसमाधिः" (तत्रैव म० सू० ) । संयमनम्, संयमन नरकः । यथा- ते तु संयमनं यमालयमवगाह्य स्वदुष्कृतानुरूपा यामीर्यातना अनुभूय पुनरेवेमं लोकं प्रत्यवरोहन्ति । एवं भूतौ तेषामारोहावरोहौ भवतः (ब्र० सू० ३।१।१३)। संयोगः, संयोग १. विषयविषयिणोर्भिन्नस्वभावयोरितरेतरधर्माध्यासरूपः । शुक्तौ रजतमिव । यथा- "उच्यते क्षेत्रक्षेत्रज्ञयोर्विषयविषयिणोर्भिन्नस्वभावयोरितरेतरधर्माध्यासलक्षणः संयोगः क्षेत्रक्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनो रज्जुशुक्तकादीनां तद्विवेकज्ञानाभावादध्यारोपितसर्परजतादिसंयोगवत्" (गी० १३ । २६ शा० भा०) । यथा च - "गुणसङ्गोऽत्र रूपाद्यासक्तिर्न किन्तु क्षेत्रक्षेत्रज्ञयोर्संयोगोऽन्योन्यस्मिन्नन्योन्यात्मकताध्यासलक्षणो बोध्यः" (तत्रैव नी० क०) । यथा च - "यावत् किमपि सत्त्वं वस्तु जायते स्थावरं जङ्गमं वः तत्सर्वं क्षेत्रक्षेत्रज्ञसंयोगादविद्यातत्कार्यात्मकं जडमनिर्वचनीयं सदसत्त्वं दृश्यजातं क्षेत्रं तद्विलक्षणं तद्भासकं स्वप्रकाशपरमार्थं सच्चैतन्यमसंयोगादासीनं निधर्मकमद्वितीयं क्षेत्रज्ञं तयोः संयोगो मायावशादितरेतराविवेकनिमित्तो मिथ्यातादात्याध्यासः सत्यानृतमिथुनीकरणात्मकः तस्मादेव सञ्जायते । तत्सर्वं कार्यजातमिति विधिना" (तत्रैव म० सू०) । यथा च - "रज्जुशुक्तिकादीनां तद्विवेकज्ञानाभावादध्यारोपितसर्परजतादिसंयोगवत् विषयविषयिणोर्भिन्नस्वभावयोः क्षेत्रक्षेत्रज्ञयोरितरेतरतद्धर्माध्यासलक्षणस्य संयोगस्य क्षेत्रक्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनस्य सम्भवात् । तथा च यथाशास्त्रं मुञ्जादिवेषीकां यथोक्तलक्षणात्क्षेत्रात् यथोक्तलक्षणं क्षेत्रज्ञं विभज्य निरस्तसर्वोपाधिमीश्वराभिन्नं यः पश्यति क्षेत्रं च मायानिर्मितहस्तिस्वप्नदृष्टवस्तुगन्धर्वनगरद्विचन्द्ररज्जूरगवदसदेव सदिवाभासत इत्येवं निश्चितविज्ञानी यस्तस्य सम्यग्दर्शनेन जन्महेतोः मिथ्याज्ञानस्यापगमान्मोक्ष उपपद्यते नत्वन्यस्येत्यतो युक्तमुक्तं य एवं वेत्यादि" (तत्रैव भाष्यो० ) । यथा च - "यावत् किञ्चित् वस्तुमात्रं सत्त्वमुत्पद्यते तत्सर्वं क्षेत्रक्षत्रज्ञयोर्योगात् अविवेककृतात् तादात्याध्यासाद् भवतीति जानीहि" (तत्रैव श्रीधरी) । २. नैयायिकाभिमतः संयोगश्चतुर्विंशतिगुणेष्वन्यतमः। यथा च - एतदुक्तं भवति - गुणश्च संयोगो द्रव्यं शरीरम् । ३. सम्बन्धविशेषः । संवरः, संवर लोकप्रवर्तककर्मनिरोधः । यथा - आस्रवनिरोधः । येनात्मनि प्रविशत्कर्म प्रतिषिध्यते स गुप्तिसमित्यादिः (सर्व० सं० पृ० ७८ आहं०) । यथा च "सप्त चैषां पदार्थाः सम्मता जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षा नाम । संक्षेपतस्तु द्वावेव पदार्थों जीवाजीवाख्यौ" (ब्र० सू० २ । २ । ३३शा० भा० ) । यथा च - "सप्त चैषां पदार्थाः सम्मता इति । तत्र संक्षेपमाह - संक्षेपतस्तु द्वावेव पदार्थाविति बोधात्मको जीवो जडवर्गस्त्वजीव इति" (तत्रैव भाम०) । संवर्ग:, संवर्ग १. वायुः, २. अध्यात्मदृष्ट्या प्राणाः । यथा- क्रियाविशेषाद्वा यथा वायुर्वावसंवर्गः । 'प्राणो वाव संवर्ग: ।' बाह्या खलु वायुदेवता वन्यादीन् संवृते । महाप्रलयसमये हि वायुर्वन्यादीन् संवृत्त्य संहृत्यात्मनि स्थापयति । यथाह द्रविडाचार्यः । संहरणाद्वा संवरणाद्वा सात्मीभावाद् वायुः संवर्गः। आध्यात्मं च प्राणः संवर्ग इति । स हि सर्वाणि वागादीनि संवृते । प्रयाणकाले हि स एव सर्वाणीन्द्रियाणि संगृह्योत्क्रामति इति । सेयं संवर्गदृष्टिर्वायौ प्राणे च दशाशागतं जगद् दर्शयति यथा । एवं जीवात्मनि बृंहणक्रियया ब्रह्मदृष्टिरमृतत्त्वाय फलाय कल्पत इति (ब्र० सू० १/१/४ भाम० ) । यथा च वायुर्वा व संवर्ग: - छा० उ० ४।३।१ - । इत्यत्राधिदैवतमग्न्यादीनां वायुः संवर्गोऽवधारितः । प्राणो वा व संवर्गः - छा० उ० ४।३।२ - । इत्याध्यात्मं वागादीनां प्राणः - ब्र० सू० ३।३।४३ शा० भा० - । अत्र भामत्याम् – वायुः खल्वग्न्यादीन् संवृणुते इत्यग्न्यादीन् अपेक्ष्यावच्छिन्नोऽग्न्यादयस्तु तेनैवावच्छिन्ना इति संवर्गगुणतया वायुरनवच्छिन्ना देवता । अत्र वे० क० तरौ संवृणुते संहरतीत्यर्थः । पुनश्च - तथा तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु - छा० उ० ३।३।४- इति भेदेन व्यपदिशति । तस्मात् पृथगेवोपगमनम् (ब्र० सू० ३।३ । ४३ शा० भा० ) । संवित्, संवित् १. चित् । सा च शब्दस्पर्शादिविषया । विषयभेदेन भेदकतेव प्रतीयते । वस्तुत एकरूपैव सा । यथा - "शब्दस्पर्शादयो वेद्य, वैचित्र्याज्जागरे पृथक् । ततो विभक्ता तत्संविदैकरूप्यान्न भिद्यते (प० द० १ । ३) । यथा च - न च संविदां विषयव्यभिचारादनाश्वासप्रसङ्गः (त० प्र० अख्या० प्र०) । संवित् = परा चितिरिति प्रत्यभिज्ञादर्शने । यथा च - "अत्रोच्यते- द्वयी संविद्वस्तुनो भूतशास्त्रिणः एका सा स्पष्टविषया तन्मात्रविषया परा । तन्मात्रविषया वापि द्वयी साथ निगद्यते । प्रतियोगिनि दृश्ये च घटादिप्रतियोगिन: (सर्व० सं० पृ० ४३० ज्ञां०) (न्या० को०) । यथा च "परागर्थप्रमेयेषु या फलत्वेन सम्मता । संवित्सैवेह मेयोऽर्थो वेदान्तोक्तिप्रमाणतः" (प० द० ८।११) । २. ज्ञानम् । यथा च - "तथा स्वप्नेऽत्र वेद्यं तु न स्थिरं जागरे स्थिरम् । तद्भेदोऽतस्तयोः संविदेकरूपा न भिद्यते" (प० द० १।४) । संवृत्तिः, संवृत्ति संवरणाद् आच्छादकत्वात् संवृत्तिः = अविद्या । बौद्धदर्शने बहुधा प्रयुज्यते । यथा – असत्प्रकाशनशक्तिरविद्या संवृतिरिति पर्यायाः (सर्व० सं० पृ० ४३९ शां०) (न्या० को०)। संशयः, संशय १. (क) एकस्मिन्धर्मिणि विरुद्धनानाकोटिकं ज्ञानम् (त० सं० ) । इदं तु बोध्यम् । संशयश्च प्रत्यक्षरूपः सन्निकर्षजन्यत्वादिति । अत एवोक्तम् परोक्षज्ञानमनाहार्यं निश्चयश्चेति सिद्धान्तादिति । संशयो न्यायस्याङ्गं भवति । यस्मान्नानुपलब्धेन निर्णीते न्यायः प्रवर्तते अपि तु संदिग्धे (न्या० वा० १ पृ० १४) । अत्र विशेषाः- दर्शनं कोटिद्वयस्मरणं धर्मिज्ञानं च संशयमात्रे हेतुः इति विज्ञेयम् (सि० च०) (त० प्र० ४ पृ० १३१) । संशयलक्षणं तु स्वीयैककोटिप्रकारतावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकीभूतापरकोटिप्रकारताशालिज्ञानत्वम् (दि० गु०) (न्या० को०) । संसारः, संसार नामरूपात्मकं कल्पितमिदं संसरणशीलं जगत् । यथा- "व्याकृताव्याकृतस्वभावो नामरूपकार्यात्मकः संसार: (बृ० आ० उ० ४।१।१ शा० भा०) । यथा च - "ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता । जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः" (प० द० ७।४) । यथा च पुनः ईक्षणादिप्रवेशान्ता इत्यादि (तत्रैव १३) । यथा च – "आनन्दमयविज्ञानमयावीश्वरजीवकौ । मायया कल्पितावेतौ ताभ्यां सर्व प्रकल्पितम् (प० द० ६ । २१२) । यथा च - "आनन्दादेव भूतानि जायन्ते तेन जीवनम् । तेषां लयश्च तत्रातो ब्रह्मानन्दो न संशयः (प० द० ११ /१३ ) । यथा च - "संसारः परमार्थोऽयं संलग्न: स्वात्मवस्तुनि इति भ्रान्तिरविद्या स्याद्विद्ययैषा निवर्तते (प० ८०६ । १० ) । संसार : - ( क ) जगत् । ब्रह्मणो विवर्तरूपः संसार: सच नाम रूपात्मकः । यथा जगति नामरूपांशद्वयव्यवहारस्तु अविद्यापरिणामात्मकनामरूपसम्बन्धात् ।तदुक्तम् – अस्ति नास्ति प्रियं रूपं नाम चेत्यंशपञ्च कम् । आद्यं त्रयं ब्रह्मरूपं जगद् रूपं ततो द्वयम् (वे० प० ७ १०) । (ख) दुःखादीना कार्यकारणाभावः । स चानादिः । पूर्वापरकालानियमात् । दुःखादयो मिथ्याज्ञानेपर्यवसाना अविच्छेदेन वर्तमानः संसारः (न्या० वा० १ पृ० २६) इति । मिथ्याज्ञानादयो दुःखान्ता अविच्छेदेन वर्तमानः संसारशब्दार्थ: (सर्व० पृ० २४६ अक्ष०) । अयं भावः । धाता यथा पूर्वमकल्पयदिति वेदे खण्डप्रलयस्य प्रसिद्धत्वेन संसारस्य प्रवाहानादित्वं प्रकल्पनीयम् (त० प्र० ४ पृ० १८) इति । वल्लभीया मायावादिनो वेदान्तिनश्च मिथ्याज्ञानेजन्यसंस्काररूपवासना देहारम्भकादृष्टविशेषो वा स्वादृष्टोपनिबद्धदेहपरिग्रहो वा संसार इत्याहुः । अत्र संसारगतिप्रकारस्तु ॐतदन्तरप्रतिपत्तौ रंहति.... (ब्र० सू० ३।१।१ ) (न्या० को०) । संसारी, संसारिन् अविद्ययोपगूढः कर्मानुसारजननमरणशीलः कर्तृत्वभोक्तृत्वाद्यभिमानी जीवः । (क) भवाद् भवान्तरप्राप्तिमन्तः संसारिणः (सर्व० सं० पृ० ७० आई०) । (ख) एष प्रमाता मायान्धः संसारी कर्मबन्धनः (सर्व० सं० पृ० १९९ प्रत्य०) (न्या० को०) । संसिद्धिः, संसिद्धि १. परमा गतिः मोक्षः । यथा - "महात्मनो यतयः संसिद्धिं मोक्षाख्यां परमां प्रकृष्टां गताः प्राप्ताः" (गी० ८।१५ शा० भा०) । यथा च - "अत" एव परमां संसिद्धिं मोक्षङ्गता:" (तत्रैव नी० क० ) । २. ज्ञानयोगः । यथा - "योगो ज्ञानयोगः स एव संसिद्धिः संसिद्धशब्दवाच्यमोक्षसाधनत्वादुपचारात् तामप्राप्य अनुत्पन्ने मोचकज्ञान इत्यर्थ:" (गी० ६।३७ भाष्यो०) । संस्कार:, संस्कार १ . यथा - संस्कारो नाम संस्कार्यस्य गुणाधानेन वा दोषापनयनेन वा (ब्र० सू० १/१/४ शा० भा०) । अत्र विशदज्ञानार्थं भामती द्रष्टव्या । २. प्राक्तनकर्मजन्यो वासनाविशेषरूपः । येन जननादिप्रवृत्तिः शुभाशुभकर्मादिषु प्रवृत्तिः । कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च (ब्र० सू० ३।१।८) । इति सूत्रशाङ्करभाष्ये अनुशयशब्दस्य व्याख्यायां केषांचन मतमुल्लिख्य अनुशयशब्दस्यार्थः संस्कारो वासना वेतिवद् निर्णीतम् । यथा - कः पुनरनुशयो नामेति - केचित्तावदाहुः स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम भाण्डानुसारिस्नेहवत् । यथा हि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते भाण्डानुसार्येव कश्चित् स्नेहशेषोऽवतिष्ठते । तथानुशयोऽपीति । ३. अविद्यालेशः । यथा - "भाष्ये संस्कारवशादिति संस्कारशब्दः परिशिष्टाविद्यालेशवाची" (ब्र० सू० ४/१/१५ वे० क० त०) । ४. गुणः (क) संस्कारत्वजातिमान् (त० दी०) (प्र०प०) (त० कौ०) संस्कारः अनित्यः (वाक्य० गु०पृ० २२) । स च त्रिविधः वेगः भावना स्थितिस्थापकश्चेति । (ख) सामान्यगुणात्मविशेषगुणोभयवृत्तिगुणत्वव्याप्यजातिमान् (सि० च० पृ० ३५) । तस्यायमर्थः। सामान्यगुणो वेगः स्थितिस्थापको वा । आत्मविशेषगुणस्तु भावना । एतदुभयवृत्तिः गुणत्वव्याप्या च या जातिः तद्वान् संस्कार इति । सा च जातिः संस्कारत्वात्मिका भवतीति विज्ञेयम् (त०दी०पृ० ३८) । संस्कारत्वं न जातिः इति व्यवस्थापने प्रायतन्त चषकादौ (वाच०) (न्यायकोश:) । ४. जातकर्मादिधर्मशास्त्रीयः संस्कारः । संस्कार्यः, संस्कार्य संस्कारयोग्यः । यागादौ ब्रीह्यादिः । तद्वद् आत्मनि अविद्यया कर्मणा वा यो मलस्तस्योपासनया विद्यया वापाकरणं तदर्ह आत्मा संस्कार्यः । यथा "संस्कार्यो ब्रीह्यादिस्तदुत्पाद्यादिरूपत्वं व्यापकं व्यावर्तमानमात्मयाथाल्यस्य कर्मशेषत्वमपि व्यावर्तयति" (ई० उ० सं० भा०) । यथा च - "नापि संस्कार्यो मोक्षः येन व्यापारमपेक्षते । संस्कारो हि नाम संस्कार्यस्य गुणाधानेन वा स्याद्दोषापनयनेन वा । .....स्वात्मधर्म एव संस्तिरीभूतो मोक्षः क्रियात्मनि संस्क्रियमाणेऽभिव्यज्यते, .... तच्चानिष्टम् । तस्मान्न स्वाश्रया क्रियात्मनः सम्भवति । अनाश्रयायास्तु क्रियाया अविषयान्न तयात्मा संस्क्रियते । .....सच देहेन संहत एव । तेनैव ह्यहं कर्त्ताहं प्रत्ययविषयेण प्रत्ययिना सर्वाः क्रिया निर्वर्त्यन्ते" (ब्र० सू० ११/४ शा० भा० ) । संस्कारस्कन्धः, संस्कारस्कन्ध बौद्धदर्शनाभिप्रेतेषु पञ्चसु स्कन्धेषु रूपविज्ञानवेदनासंज्ञासंस्कारेष्वन्यतमः । यथा - "संस्कारस्कन्धो रागादयः क्लेशाः उपक्लेशाश्च मदमानादयः धर्माधर्मौ चेति (ब्र०. सू० २।२।१८ भाम०) । विशदज्ञानार्थं स्कन्धशब्दो द्रष्टव्यः । संहारः, संहार प्रलयः । यथा इदानीं प्रलयो निरूप्यते । प्रलयो नाम त्रैलोक्यनाशः । स च चतुर्विधः नित्यः प्राकृतो नैमित्तिकः आत्यन्तिकश्चेति । तत्र नित्यः प्रलयः सुषुप्तिः । तस्याः सकलकार्यप्रलयरूपत्वात् । ... प्राकृतप्रलयस्तु कार्यब्रह्मविनाशनिमित्तकः सकलकार्यनाशः । ...……कार्यब्रह्मणो दिवसावसाननिमित्तकस्त्रैलोक्यमात्रप्रलयो नैमित्तिकप्रलयः । .....द्विप्रहरार्द्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः । तदा प्रकृतयः सप्त कल्प्यन्ते प्रलयाय हि । एष प्राकृतिको राजन् प्रलयो यत्र लीयते ॥ इति वचनं प्राकृतप्रलये मानम् । एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक् । शेतेऽनन्तासने नित्यमात्मसात्कृत्य चाखिलम् । इति वचनं नैमित्तिकप्रलये मानम् । तुरीयप्रलस्तु ब्रह्मसाक्षात्कारनिमित्तकः सर्वमोक्षः (वे० प० ६ प०) । १. (क) प्रलयः (हेम च०) । यथा चतुर्णां महाभूतानां सृष्टिसंहारविधिरुच्यते (प्रशस्त०) इत्यादौ संहारशब्दस्यार्थः । (ख) ध्वंसशब्दवदस्यार्थोऽनुसन्धेयः । २. संक्षेपः । ३. नरकविशेषः । ४. विसर्जनम् । ५. संहारभैरवकालिकाभैरवविशेषः इति । तान्त्रिका आहुः । ते चाष्टौ असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्त एव च । कपाली भीषणश्चैव संहारश्चाष्टभैरवाः (तन्त्रसा०) (वाच०) इति । (न्यायकोशः) । साकारत्वम्, साकारत्व १. धर्माश्रयत्वम् (मू० म० १ ) । यथा अयं घटः इति ज्ञानस्य घटत्वाश्रयत्वम् । स्वनिष्टप्रकारतानिरूपितप्रकारितासम्बन्धेन यत्किञ्चिद्धर्मविशिष्टत्वम् इत्यर्थः । २. माध्वाः पौराणिकाश्च मूर्तिविशिष्टत्वम् । यथा परमात्मनः साकारत्वम् इत्याहुः । अयं भावः मध्वमते परमात्मनो प्राकृतज्ञानानन्दादिगुणरूपशरीरस्वीकारेण साकारत्वं सङ्गच्छते । पौराणिकमते तु अपाञ्चभौतिकेच्छास्वीकृतलीलाविग्रहवत्त्वेन तस्य साकारत्वमुपपद्यत इति (न्या० को०) । साक्षात्, साक्षात् प्रत्यक्षम् । यथा- यत् साक्षादपरोक्षाद् ब्रह्म (बृ० उ० ३।४।१ ) । अपरोक्षादिति छान्दसः प्रयोगः । अपरोक्षमित्यर्थः (वे० प० ७ प०) ।....यथा च - १. प्रत्यक्षम् । यथा साक्षादृष्टो मया हरिः इत्यादौ । केचित्तु लौकिकप्रत्यक्षमित्याहुः । २. (क) मायावादिवेदान्तिनस्तु अव्यवहितम् (बृ० उ० ३ । ४।१ शा० भा०) । तच्च सद्रूपचैतन्यमित्याहुः। यथा - यत्साक्षादपरोक्षाद् ब्रह्म (बृ० उ० ३।४।१ ) इति श्रुतौ साक्षादित्यस्यार्थः । (ख) परम्परासम्बन्धराहित्यम् । यथा द्रव्यत्वसाक्षाद्व्याप्या जातिः पृथिवीत्वमित्यादौ साक्षात् शब्दार्थः । अत्र साक्षाद्व्याप्यत्वं च तद्व्याप्याव्याप्यत्वे सति तद्व्याप्यत्वं बोध्यम् । यथा च - साक्षान्माता साक्षाद् भगिनी इत्यादौ साक्षात् शब्दार्थः । ३. तुल्यम् । यथा साक्षाल्लक्ष्मीरियं बधूः इत्यादौ साक्षात् शब्दार्थः इति काव्यज्ञा आहुः (अमर० ३।३ । २४२) (न्यायकोश:) । साक्षात्कारः, साक्षात्कार (क) प्रत्यक्षात्मकं ज्ञानम् (न्या० म० १ पृ० ३) । यथा साक्षात्कारे सुखादीनां करणं मन उच्यते (भा०प० श्लो० ८६) इत्यादौ साक्षात्कारशब्दस्यार्थः । अत्र साक्षात्कारत्वं च साक्षात्करोमित्यनुगतप्रतीतिसाक्षिको जातिविशेषः (न्या० म० १) । (ख) लौकिकसन्निकर्षजन्यं प्रत्यक्षं साक्षात्कार इति केचिदाहुः (न्यायकोशः) । साक्षित्वम्, साक्षित्व मायोपहितं चैतन्यमीश्वरः । स च साक्षी, तस्मिन् साक्षित्वम् । यथा मायावच्छिन्नं चैतन्यं परमेश्वरः मायया विशेषणत्व ईश्वरत्वमुपाधित्वे साक्षित्वमिति ईश्वरत्वसाक्षित्वयोर्भेदः, न तु धर्मिणोरीश्वरतत्साक्षिणोः । स च परमेश्वर एकोऽपि स्वोपाधिभूतमायानिष्ठसत्वरजस्तमोगुणभेदेन ब्रह्मविष्णुमहेश्वरेत्यादिशब्दवाच्यतां लभते (वे० प० १ प० ) । साक्षी, साक्षिन् यथा - अन्तःकरणस्य जडतया विषयभासकत्वायोगेन विषयभासक चैतन्योपाधित्वम् । अयं च जीवसाक्षी प्रत्यात्मं नाना । एकत्वे मैत्रावगते चैत्रस्याप्यनुसन्धानप्रसङ्गः । ईश्वरसाक्षि तु मायोपहितं चैतन्यम् । तच्चैकं तदुपाधिभूतमायाया एकत्वात् । .....ततश्च तदुपहितं चैतन्यमिश्वरसाक्षि । मायावच्छिन्नं चैतन्यं परमेश्वरः । मायांया विशेषणत्वे ईश्वरत्वम् । उपाधित्वे साक्षित्वमिति ईश्वरत्वसाक्षित्वयोर्भेदः । न तु धर्मिणोरीश्वरतत्साक्षिणोः । स च परमेश्वर एकोऽपि स्वोपाधिभूतमायानिष्ठसत्त्वरजस्तमोगुणभेदेन ब्रह्मविष्णुमहेश्वरेत्यादिशब्दवाच्यतां लभते (वे० प० १ प०) । यथा च - "त्रिषु धामसु यद् भोग्यं भोक्ता भोगश्च यद् भवेत् । तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः" (प० द० ७ । २ । १५ ) । यथा च "जडत्वमात्रोपाधिरित्यर्थः" (सं० शा० ३ । १८३ सु० टी०) । यथा च - "बौद्धत्वे सति अकर्ता । यथा कलहे प्रवृत्ते कश्चनान्यः पुरुषः साक्षी । मायावादिवेदान्तिमते उपाध्युपहितं केवलं चैतन्यं साक्षि । यथा साक्षी चेताः केवलो निर्गुणश्च" (श्वे० उ० ६।११) । इत्यादौ जीवेश्वरौ साक्षिणाविति । तन्मते जीवसाक्षीश्वरसाक्षिद्वैविध्येन प्रत्यक्षज्ञानद्वैविध्यम् । तत्र जीवसाक्षि चान्तःकरणोपहितं चैतन्यम् । तच्च जीवभेदेन नाना । ईश्वरसाक्षि तु मायोपहितं चैतन्यम् । तच्चैकम् । तदुपाधिभूतमायाया एकत्वादिति । यथा च- अज्ञानोपहित आत्मा अज्ञानतादात्म्यापन्नस्वचिदाभासाविवेकादन्तर्यामी साक्षी जगत्कारणमीश्वर इति कथ्यते । बुद्धयुपहितश्च तत्तादात्म्यापन्नस्वचिदाभासाविवेकाज्जीवः कर्ता भोक्ता प्रमातेति च कथ्यत इति वार्त्तिककारपादाः (सि० वि० १) । माध्वमते तु स्वरूपेन्द्रियं साक्षि न तु मनः (न्यायकोशः) । साटोपः, साटोप प्रमाणान्तरप्रतीतियोग्यः । परमात्मा न प्रमाणान्तरगम्यः । अतो न साटोपः । यथा- यदि मानान्तरविषयः परमात्मा भवेत्तदा साटोपं ससम्भ्रममौपनिषदत्वविशेषणेन पुमांसं कथमाहेति योजना (सं० शा० ३।२९६ अ० टी०) । सात्त्विकी सम्पत्, सात्त्विकी सम्पत् दैव्यासुरीप्रभृतिसम्पत्तिष्वन्यतमा दयादाक्षिण्यादिरूपा । यथा - "व्यवस्थानं तन्निष्ठतैषा प्रधाना दैवी सात्त्विकी सम्पत्" (गी० १६।३ शा० भा० ) । यथा च - "महाभाग्यानामत्युक्तमा दैवी सम्पदुक्ता" (तत्रैव आ० गि०) । साधनचतुष्टयम्, साधनचतुष्टय ब्रह्मसाक्षात्कारे चत्वारि साधनानि । यथा - " उच्यतेनित्यानित्यवस्तुविवेकः, इहामुत्रभोगविरागः, शमदमादिसाधनसम्पत्, मुमुक्षत्वं च" (ब्र० सू० १/१/१ शा० भा० ) । यथा च - "नित्यानित्यवस्तुविवेकेहामुत्रार्थफलभोगविरागशमादिषट्कसम्पत्तिमुमुक्षुत्वानि (वे० सा० आदौ) । प्रत्येकं विवरणं तु तत्रैव वेदान्त सारे द्रष्टव्यम् ।" साधुः, साधु यथा च – "समस्ते साम्नि साधुदृष्टिविधिपरत्वान्न न पूर्वोपासननिन्दार्थत्वं साधुशब्दस्य । ननु पूर्वत्राविद्यमानं साधुत्वं समस्ते साम्न्यभिधीयते न । साधु सामेत्युपास्त इत्युपसंहारात् । साधुशब्दः शोभनवाची । कथमवगम्यत इत्याह । यत्खलु लोके साधु शोभनमनवद्यं प्रसिद्धं तत्सामेत्याचक्षते कुशलाः (छा० उ० २/१/१ शा० भा०) । यथा च - "यतोऽसाधुत्वप्राप्त्याशङ्का स इत्यभिप्रायः । शोभनाभिप्रायेण साधुनैनमुपागादिति एव तत्तत्राऽऽहुकिकाः बन्धनाद्यसाधुकार्यमपश्यन्तः । यत्र पुनर्विपर्यर्यो बन्धनाद्यसाधुकार्यं पश्यति । तत्रासाम्नैनमुपागादित्यैव तदाहुः । अथोताप्याहुः स संवेद्यं सामनोऽस्माकं वतेत्यनुकम्पयतः संवृत्तमित्याहुः । एतत्तैरुक्तं भवति यत्साधु भवति साधुवतेत्येव तदाहुः । विपर्यये जातेऽसामनो वतेत्येव । यदसाधु भवति असाधुवतेत्येव तदाहुः । तस्मात् सामसाधुशब्दयोरेकार्थत्वं सिद्धम्" (छा० उ० २ । १ । ३ शा० भा०) । यथा च - "साधु सामेति साधु गुणवत् सामेत्युपास्ते समस्तं साधु सामसाधुगुणवत् । विद्वांसस्तस्यैतत् फलमभ्यासो ह क्षिप्रं ह यदिति क्रिया विशेषार्थमेनमुपासकं शोभन: धर्मः श्रुतिस्मृत्यविरुद्ध आ च गच्छेत् आगच्छेच्च न केवलं गच्छेत् उप च नमेत् उपनमेत् च भोग्यत्वेनोपतिष्ठेत् इत्यर्थः (छा० उ० २।१।४ शा० भा०) । यथा च - "लोके साधु शोभनमनवद्यं प्रसिद्धं तत्सामेत्याचक्षते कुशलाः । यदसाधु विपरीतं तदसामेति (छा० उ० १/१/१ शा० भा० ) । सानन्दः, सानन्द १ . आनन्देन सहितः । आनन्दः = ब्रह्म । आनन्दो ब्रह्मणः स्वरूपम् । यथा आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति (तै० ३।६।१) । विज्ञानमानन्दं ब्रह्म (बृ० उ० ३।९।२८) । यथा च - ब्रह्मण्येवानन्दशब्दो दृष्टः एवमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्यभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यते (ब्र० सू० १1१।१२) । २. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः (पा० यो० सू० १।१७) । अत्र व्यासभाष्ये – आनन्दः ह्लादः । अत्र श्रीवाचस्पतिमिश्रतत्त्ववैशारद्याम् - आनन्द इति । इन्द्रिये स्थूल आलम्बने चित्तस्याभोग आह्लादः । प्रकाशशीलतया खलु सत्त्वप्रधानादहङ्कारादिन्द्रियाण्युत्पन्नानि सत्त्वं सुखमिति तान्यपि सुखानि इति तस्मिन्नाभोग आह्लाद इति । आनन्दो ब्रह्मणः परमात्मनोऽन्तरङ्गा शक्तिरिति वैष्णवाः । यथा च - समाधिः यदा रजस्तमोलेशानुविद्धं चित्तं भाव्यते तदा सुखप्रकाशमयस्य सत्त्वस्योद्रे-कात्सानन्दः (सर्व० सं० पृ० ३५७ पात०) । साभाव्यम्, साभाव्य सारूप्यं सादृश्यं समानभावः । यथा - समानो भावो रूपं येषां ते सभावास्तेषां भावः साभाव्यं सारूप्यं सादृश्यमिति यावत् (ब्र० सू० ३।१।२२ भाम० ) । साम, सामन् १. स्वरः । यथा- "का साम्नः प्रकृतत्वादुद्गीथस्यं । उद्गीथो ह्यत्रोपास्यत्वेन प्रकृतः । परोवरीयांसमुद्गीथमिति च वक्ष्यति । गतिराश्रयः परायणमित्येतत् । एवं पृष्टो दाल्भ्य उवाच स्वर इति । स्वरात्मकत्वात् साम्नः । यो यदात्मकः स तद्गतिस्तदाश्रयश्च भवतीति युक्तं मृदाश्रय इव घटादिः (छा० उ० ११८४ शा० भा० पृ० ५२) ।२. चन्द्रमाः । यथा - "नक्षत्राणामधिपतिश्चन्द्रमा अतः स साम । अथ यदादित्ये नीलं परः कृष्णं परोऽतिशयेन कार्यं तत्साम (छा० उ० १।६।४-५ शा० भा०) । ३. साधु । यथा - ॐ समस्तस्य खलु साम्ना उपासनं साधु । यत् खलु साधु तत् सामेत्याचक्षते । यदसाधु तदसाम (छा० उ० २।१।१ ) । ४. अग्निः । यथा - तदेतदेतस्यामृच्यध्यूढ साम । तस्मादृच्यध्यूढं साम गीयत । इयमेव साग्निरमस्तत्साम (छा० उ० १।६।१ ) । सामान्यम्, सामान्य समानभावः, सादृश्यमिति यावत् । न तु नित्योऽनेकानुगतो जातिविशेषः । इत्यद्वैतवेदान्तिनः । यथा - न चैवमेकत्र ज्ञाने परोक्षापरोक्षत्वयोरभ्युपगमे तयोर्जातित्वं न स्यादिति वाच्यमिष्टत्वात् । जातित्वोपाधित्वपरिभाषायाः सकलप्रमाणागोचरतया अप्रामाणिकत्वात् । घटोऽयमित्यादि प्रत्यक्षं हि घटत्वादिसद्भावे मानं न तु तस्य जातित्वेऽपि । जातित्वरूपसाध्याप्रसिद्धौ तत्साधकानुमानस्याप्यनवकाशात् । समवायासिद्ध्या ब्रह्मभिन्नं निखिलप्रपञ्चस्यानित्यतया च नित्यत्वसमवेतत्वघटितत्वघटितजातित्वस्य घटत्वादावसिद्धेश्च । एवमेवोपाधित्वमपि निरसनीयम् (वे० प० १ प० ) । यथा च - सामान्यस्य दुर्लक्षत्वाच्च तद्विशिष्टानि लक्षणानि सर्वाण्यपि निरस्तानि वेदितव्यानि । तथा हि किमिदं सामान्यम् । किमनुवृत्तप्रवृत्तिकारणम्, उतानुवृत्तप्रत्ययप्रमाणकम्, अथवानुवृत्तत्वम्, आहोस्विन्नित्यत्वे सत्यनुवृत्तत्वम्, अथवा नित्यमेकमनेकसमवेतम् । तत्र - अतिव्याप्त्या निराकुर्यादाद्यं पक्षचतुष्टयम् । अनेकत्वानिरुक्तेश्च पक्षमन्त्यं प्रतिक्षिपेत् (त० प्र० जातेर्लक्षणादिखण्डने १० ) । ....... अस्तु तर्हि मनस्त्वात्मत्वातिरिक्तनित्यमात्रसमवेतान्यत्वे सति समवेतं सत्तानाश्रयः सामान्यलक्षणमिति चेत्, न । यतः- जातेरद्याप्यसिद्धेश्च सत्तादेरप्यसिद्धितः । तदाश्रयतान्यत्वलक्षणेऽन्योन्यसंश्रयः (तत्रैव ११) । यथा च - १ . पदार्थ: (क) या समानां बुद्धि प्रसूते भिन्नेष्वधिकरणेषु यया बहूनीतरेतरतो न व्यावर्तन्ते योऽर्थो नैकत्र प्रत्ययानुवृत्तिनिमित्तं तत्सामान्यम् (वात्स्या० २।६।६८) (प्रशस्त० १ पृ० २) (त० भा०) । अत्र व्युत्पत्तिः समानानां भावो नागन्तुको नित्यो धर्मः सामान्यम् (प० मा०) इति । तच्च द्रव्यगुणकर्मवृत्ति नित्यं चेति बोध्यम् । (ख) नित्यत्वे सति स्वाश्रयान्योन्याभावसमानाधिकरणम् । (ग) नित्यत्वे सत्यनेकसमवेतम् । (घ) सामान्यं नित्यमेकं स्यादनेकसमवायि च (ता० र० श्लो० ५३) इति । (ङ) अनुगतो धर्मः । (च) सामान्यं तु प्रध्वंसप्रतियोगित्वरहितमनेकसमवेतम् (सर्व० सं० पृ० २१६ औ०) । सामान्यं द्विविधम्परमपरं चेति । अत्र सूत्रं सामान्यं विशेष इति बुद्ध्यपेक्षम् (वै० १ । २ ।३) इति । (न्या० को०) । बुद्धिरपेक्षा लक्षणं यस्य तत् । तथा च सामान्यं द्विविधं परमपरं च । तत्र परसामान्यं सत्ता । द्रव्यत्वादिकमपरसामान्यम् । तत्र सामान्यविशेषयोः परापरयोर्लक्षणं बुद्धिरेव। अनुवृत्तत्वबुद्धिः सामान्यस्य व्यावृत्तत्वबुद्धिर्विशेषस्य लक्षणम् । अनुवृत्तत्वमधिकदेशवृत्तित्वम् । व्यावृत्तत्वमल्यदेशवृत्तित्वम् (वै० वि० १/२/३ पृ० ५१-५२) । तथा च भाष्यम्- द्विविधं सामान्यं परमपरं च स्वविषय- सर्वगतमभेदात्मकमनेकवृत्ति एकद्विबहुष्वात्मस्वरूपानुवृत्तिप्रत्ययकारणम् । स्वरूपा-भेदेनाधारेषु प्रबन्धेन वर्तमानमनुवृत्तिबुद्धिकारणमित्यर्थः । कथम् ? प्रतिपिण्डं सामान्यापेक्षप्रबन्धशेनोत्पत्तावभ्यासप्रत्ययजनितात्संस्कारादतीतज्ञानप्रबन्धप्रत्ययावेक्षणाद्यतसमनुगतमस्ति तत्सामान्यमिति । (न्या० को०) सामान्यलक्षणा, सामान्यलक्षणा (प्रत्यासत्तिः) (अलौकिकसन्निकर्ष:) । अलौकिकप्रत्यक्षविशेषे कारणं सन्निकर्षविशषः स च । १ . (क) इन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतं सामान्यम् । यथा घटत्वधूमत्वादि । अत्रार्थे सामान्यं लक्षणं स्वरूपं यस्य इति व्युत्पत्त्या सामान्यमेव प्रत्यासत्तिः (दीधि० २ पृ० ८०) (मु० १ पृ० १२७) । अत्रेदं विज्ञेयम् । सामान्य ज्ञायमानमेव स्वाश्रयाणां सन्निकर्षः । ज्ञायमानघटत्वसन्निकर्षेण घटाः इत्याकारकं सकलघटानां प्रत्यक्षं जन्यते (त० कौ०) इति । तथा यत्रेन्द्रियसंयुक्तो धूमादिः तद्विशेष्यकं धूम इति ज्ञानं जातम् । तत्र ज्ञाने धूमत्वं प्रकारकः । तत्र धूमत्वेन सन्निकर्षेण धूमाः इत्येवं रूपं सकलधूमविषयकं ज्ञानं जायते (मु० १ पृ० १२७) (दीधि० २ पृ० ८१) इति । अयं सन्निकर्षश्च अतीतानागतानामिन्द्रियासन्निकृष्टानां सामान्याश्रयाणां सर्वेषां व्यक्तीनां लौकिकं प्रत्यक्षं जनयतीति बोध्यम् । सामान्यलक्षणायाः प्रत्यासत्त्याः सामान्यप्रकारकज्ञानजनकत्वनियमात् (दीधि० २) । मीमांसका मायावादिवेदान्तिनश्च सामान्यलक्षणं सन्निकर्षं नाङ्गीचक्रुः (म० प्र० ४ पृ०३९ ) । तन्न सहन्ते नैयायिकाः । यदि सामान्यलक्षणाप्रत्यासत्तिर्नास्ति तदा अनुकूलतर्कादिकं विना धूमादौ व्यभिचारसंशयो न स्यात् । प्रसिद्धधूमे बह्निसम्बन्धावगमात् कालान्तरीयदेशान्तरीयधूमस्य मानाभावेनाज्ञानात् । सामान्येन तु सकलधूमोपस्थितौ धूमान्तरे विशेषदर्शनेन संशयो युज्यते (चि० २ पृ० १८-१९) । अतः सामान्यलक्षणावश्यकी इति । (न्या० को०) साम्परायः, साम्पराय शास्त्रीयः परलोकप्राप्तिसाधनविशेषः । यथा – "सम्परे यत् इति सम्परायः, परलोकस्तप्राप्तिप्रयोजनः साधनविशेषः शास्त्रीयः साम्परायः (क० उ० १ । २ । ६ शा० भा०) । यथा च - "परे काले देहपतनादूर्ध्वं सम्यगीयते गम्यत इति सम्परायः । अथवा सम्यक् पर इत्युपलक्षणम् । परापरब्रह्मप्राप्तिकाले प्रारब्धविगमानन्तरमित्यर्थः, तत्प्राप्तिप्रयोजनं यस्य स तथा । साधनविशेषश्च ओंकारध्यानादिः शास्त्रीयप्रसिद्धः यः सः (तत्रैव गो० टी०) । यथा च सम्यगवश्यम्भावेन परा परस्ताद् ईयते गम्यत इति सम्परायः परलोकस्त्प्राप्त्यर्थः साधनविशेषः साम्परायः । साम्प्रदायिकम्, साम्प्रदायिक सम्प्रदायादागतं साम्प्रदायिकं मन्त्रविद्यादि । यथा- गुरुमुखाध्ययनादि (ब्र० सू० १ । १ । ४ वे० क० त०) । सम्प्रदायशब्दोऽपि द्रष्टव्यः । सायुज्यम्, सायुज्य सगुणोपासकानां मोक्षेष्वन्यतमः । यत्र परमात्मनः समानं देहेन्द्रियादिकं भवति । यथा - सयुग्भावं समानदेहेन्द्रियाभिमान्ययम् (बृ० उ० १।३।२२ ) । सालोक्यम्, सालोक्यम् वैष्णवमोक्षेष्वन्यतमः । यत्र परमात्मना सह समानलोकभावो भवति । यथा - समानलोकताम् (बृ० उ० १ । ३ । २२ ) । यथा च ते नो एतस्मै देवतायै सायुज्यं सलोकतां जयति बृ० उ० १।५।२३ - (ब्र० सू० ४।४।२१)। सांख्यः, सांख्य सम्यगूबुद्धिस्तथा शमदमादिभिर्ज्ञानेन च संयुक्तः संन्यासः । यथा"संख्या सम्यगात्मबुद्धिस्तां वहतीति ज्ञानान्तरङ्गसाधनतया सांख्यः संन्यासः" (गी० ५।४ म० सू०) । यथा च - "सांख्यं समित्येकभावे" इति यास्कः। एकीभावेनात्मानन्यत्वेन ख्यायते प्रकाश्यते वस्तुस्वरूपमनयेति संख्या स्थूलसूक्ष्मकारणप्रपञ्चस्य निर्विकल्पे प्रत्यगात्मनि प्रविलापेनोदिता चेतोवृत्तिस्तत्साधनभूतो यः सांख्यः संन्यासः स च दारादिबुद्ध्यन्तानां पदार्थानामात्मन्येकीभावेन न्यसनं त्यागः प्रविलापनम् (तत्रैव नी० क० ) । यथा च - "संख्या सम्यग् बुद्धिस्तां वहतीति ज्ञानान्तरङ्गसाधनतया सांख्यः संन्यासः । एवं सांख्यशब्दवाच्यः शमदमादिभिर्ज्ञानेन च संयुक्तः संन्यासोऽत्र विवक्षितः प्रस्तुतः (तत्रैव भाष्यो०) । यथा च - "ज्ञानपेक्षस्तु संन्यासः सांख्यमिति मयाभिप्रेतः" (गी० ५/६ शा० भा०) । २. आत्मज्ञाननिष्ठः । यथा - "यस्तु सांख्य आत्मज्ञाननिष्ठ आत्मरतिरात्मन्येव रतिः न विषयेषु यस्य स आत्मरतिरेव स्याद् भवेदात्मतृप्तश्चात्मनैव तृप्तो नान्नरसादिना स मानवो मनुष्यः संन्यस्यात्मन्येव च सन्तुष्ट:" (गी० ३।१७ शा० भा०) । ३. सम्यगात्मबुद्धिः ।" यथा - "सांख्यानाम् आत्मविषयकविवेकज्ञानवतां ब्रह्मचयदेिव कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां परमहंसपरिव्राजकानां ब्रह्मण्येवावस्थितानां निष्ठा प्रोक्ता" (गी० ३।३ शा० भा०) । यथा च "सांख्यशब्दार्थमाह- आत्मेति । तेषामेव कर्मनिष्ठत्वं व्यावर्तयति । ब्रह्मचर्येति । तेषां जपादिपारवश्येन श्रवणादिपराङ्मुखत्वं पराकरोति वेदान्तेति । उक्तविशेषणवतां मुख्यसंन्यासित्वेन फलावस्थत्वं दर्शयति । परमहंसेति । कर्म वर्णाश्रमविहितं धर्माख्यं तदेव युज्यते तेनाभ्युदयेनेति योगस्तेन निष्ठा कर्मिणां प्रोक्ता इत्यनुषङ्ग:" (गी० ३।३ शा० भा० आ० टी०) । यथा च - "एकं सांख्यं च योगं च यः पश्यति स पश्यति" इति । तामेव निष्ठां द्वैविध्येन दर्शयति सांख्येति । सांख्यं सम्यगात्मबुद्धिस्तां प्राप्तवतां ब्रह्मचर्यादेव कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां ज्ञानभूमिमारूढ़ानां शुद्धान्तःकरणानां सांख्यानां ज्ञानयोगेन ज्ञानमेव युज्यते ब्रह्मणानेनेति व्युत्पत्या योगस्तेन निष्ठा" (गी० ३।३ शा० भा० म० सू०) । यथा च ''सांख्यानां प्रकृतिपुरुषयोर्विविक्तत्वं जानतामात्मानात्मविवेकज्ञानवतां ज्ञानार्थं युज्यत इति ज्ञानयोगः ज्ञानोपायो वेदान्तश्रवणमनननिदिध्यासनात्मकस्तेन ज्ञानयोगेन ब्रह्मणि निष्ठां परिसमाप्ति सांख्याः प्राप्नुवन्तीत्यर्थः (गी० ३।३ शा० भा० नी० क०) । यथा च– "साख्यानां शुद्धान्तःकरणानां ज्ञानभूमिकामारूढ़ानां ज्ञानपरिपाका ज्ञानयोगेन ध्यानादिना निष्ठा ब्रह्मपरतोक्ता तानि सर्वाणि संयम्य युक्त आसीत् मत्परः इत्यादिना" (तत्रैव शा० भा० श्रीधरी) । यथा च - "सांख्यानात्मतत्त्वविदामनात्मवित्कर्तृककर्मयोगनिष्ठातो निष्क्रियात्मस्वरूपावस्थानलक्षणाया ज्ञानयोगनिष्ठाया पृथक्करणात् कृतकृत्यत्वेनात्मविदः प्रयोजनानन्तराभावात्" तस्य कार्यं न विद्यत इति कर्त्तव्यान्तराभाववचनाच्च न कर्मणामनारम्भात् 'संन्यासस्तु महाबाहो दुःखमाप्तुमयोगत" इत्यादि वचनाच्चात्मज्ञानाङ्गत्वेन कर्मयोगस्य विधानात्, योगारूढस्य तस्यैव शमः कारणमुच्यते इत्यनेन चोत्पन्नसम्यग्दर्शनस्य कर्मयोगाभाववचनात् (गी० ५/१ शा० भा०) । यथा च - "१ . सम्यग्दर्शनम् । यथा - एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु (गी० २।३९) इत्यादौ सांख्यशब्दस्यार्थः । तदुक्तम्शुद्धात्मतत्त्वविज्ञानं सांख्यमित्यभिधीयते (व्यासस्मृतिः) (गी० मध्वभा० अ० २ श्लो० ३९) इति । २. (क) सम्यग्दर्शनप्रतिपादकं शास्त्रम् । यथा- देवहूतीं प्रति भगवतोपदिष्टं सांख्यदर्शनम् (भक्तियोगः) (भाग० ३।२६-२७) । अत्रार्थे व्युत्पत्तिः, संख्यायत इति संख्या सम्यग्ज्ञानम् । तत्सम्बन्धि सांख्यम् (अण्) इति । एतत्सांख्यस्य प्रवर्तको देवहूतीपुत्रः श्रीभगवदवतारः कपिलः श्रीमद्भागवतादौ प्रसिद्धः । तदुक्तम्- कपिलस्तत्त्वसंख्याता भगवानात्ममायया । जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम् (भाग० ३।२५ (१) इति । अत्रोक्तम् पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये सांख्य तत्त्वग्रामविनिर्णयम् (भाग० १ ।३।१०) । (ख) सांख्ययोगोक्तो योगः । भगवदुक्तो योगस्तु - योग आध्यात्मिकः पुंसामतो निःश्रेयसाय मे । अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य वै ( भाग० ३।२५।१३) । इत्यादिना ग्रन्थेनोक्त इति विज्ञेयम् । एवं पतञ्जलिप्रणीतस्य योगशास्त्रस्यैकाध्यायात्मकपादचतुष्टयस्यापि सांख्यप्रवचनसंज्ञा ज्ञेया (सांख्य० प्र० भा० १ । १ प्रस्ता० पृ० ७) । (ग) नास्तिककपिलप्रणीतो दर्शनविशेषः । अत्रेदं बोध्यम् । नास्तिककपिलेन स्वयं पूर्वप्रणीतस्य सांख्यप्रवचनसंज्ञकस्य तत्त्वसमासाख्यस्य द्वाविंशति (२२) संख्याकस्य संक्षिप्तसूत्रस्य विस्तररूपेण षडध्यायात्मकः । अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः इत्यारभ्य यद्वा तद्वा तदुच्छित्तिः पुरुषार्थ इत्येतत्पर्यन्तः सूत्रोपनिबद्धो ग्रन्थो विरचितः इति । नास्तिककपिलप्रणीतसांख्यस्य पतञ्जलिप्रणीतयोगशास्त्रस्य चानुपादेयत्वमुक्तं भारते मोक्षधर्मेषु सांख्यं योगः पाशुपतं वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणा (गी० मध्वभा० २।३९) इति । सांख्यमतप्रवर्तकश्च आस्तिकनास्तिकभेदेन द्विविधः । तत्रास्तिकौ द्वौ देवहतीपुत्रः कपिल: सेश्वरसांख्ययोगशास्त्रप्रवर्तकः । श्रीवासुदेवावतार आस्तिक एव । ऋषिप्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत् (श्वे० ५/२) इति श्रुतेः । सिद्धानां कपिलो मुनिः इति स्मृतेश्च । स च राजयोगाख्यमेतदध्यायपादचतुष्टयात्मकमथ योगानुशासनमित्यारभ्य पुरुषशून्यानां गुणानाम् इत्यन्तम् । अनीश्वरसांख्यं नास्तिककपिलप्रोक्तम् (न्या० को०) । सांख्यम्, सांख्य १. वेदान्तः । यथा च - "सांख्ये ज्ञातव्याः पदार्थाः संख्यायन्ते यस्मिन्शास्त्रे तत्सांख्यं वेदान्तः (गी० १८/१३ शा० भा०) । यथा च "आत्मा त्वंपदार्थस्तत्पदार्थो ब्रह्म तयोरैक्यधीस्तदुपयोगिनश्च श्रवणादयः पदार्थास्ते सांख्यायन्ते व्युत्पाद्यन्ते (तत्रैव आ० मि०) । यथा च - "सम्यग् विविच्य ख्यायन्ते प्रकटीक्रियन्ते तत्त्वान्यात्मानात्मपदार्थरूपाणि यस्मिंस्तत्सांख्यं वेदान्तशास्त्रम्" (तत्रैव नी० क०) । यथा च – "जीवो ब्रह्म तयोरैक्यं तद्बोधोपयोगिनश्च श्रवणादयः पदार्थाः संख्यायन्ते व्युत्पाद्यन्ते अस्मिन्निति सांख्यं वेदान्तशास्त्रम् (तत्रैव म० सू०) । यथा च - त्वं पदार्थ आत्मा तत्पदार्थो ब्रह्म तयोरैक्यधीः तदुपयोगिनश्च शमदमादयो ज्ञातव्याः पदार्थाः संख्यायन्ते व्युत्पाद्यन्ते यस्मिन् वेदान्तशास्त्रे तत्सांख्यम् (तत्रैव भाष्यो०) । यथा च "सम्यक् ख्यायते ज्ञायते परमात्माऽनेनेति सांख्यम् । यद्वा संख्यायन्ते गण्यन्ते तत्त्वानि यस्मिन्निति सांख्यं तत्त्वज्ञानम् (तत्रैव श्रीधरी) । २. सांख्यशास्त्रम् - यत्र पदार्थानां चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिर्वा संख्यायन्ते । ३. ज्ञानम् । यथा - एषा त्वभिहिता सांख्ये (गी० २।३९) । सांख्ययोगः, सांख्ययोग सांख्यनामकयोगः । अर्थात् सत्वरजस्तमोभ्यो गुणेभ्यो भिन्न आत्मेति चिन्तनम् । यथा- "अन्ये सांख्येन योगेन सांख्यं नाम- इमे सत्वरजस्तमांसि गुणा मया दृष्ट्या अहं तेभ्योऽन्यस्तद्व्यापारसाक्षिभूतो नित्यो गुणविलक्षण आत्मेति चिन्तनमेष सांख्यो योगस्तेन पश्यन्त्यात्मानमात्मनेति वर्तते (गी० १३ । २४ शा० भा० ) । यथा च - "अन्ये त्वकृतकर्माण: सांख्येन योगेन विचारात्मकेन योगेन ध्यानद्वारा पश्यन्ति (तत्रैव नी० क० ) । यथा च "सांख्येन योगेन ध्यानोत्पत्तिद्वारा आत्मन्यात्मानमात्मना पश्यन्तीति पूर्ववत् (तत्रैव भाष्यो०) । यथा च - "अन्ये तु सांख्येन प्रकृतिपुरुषवैलक्षण्यालोचनेन, योगेनाष्टाङ्गेन अपरे च कर्मयोगेन पश्यन्तीति सर्वत्रानुषङ्गः (तत्रैव श्रीधरी) । सांवृतम्, सांवृत संवृणोतीति संवृत्तिः अज्ञानम्, तस्माज्जातं सांवृतम् । अज्ञानोद्भूतं प्रातिभासिकम् । यथा - "यथाहु:- ग्रहेऽनेकस्य चैकेन किंचिद्रूपं हि गृह्यते । सांवृतं प्रतिभासस्थं तदेकात्मन्यसम्भवात् ॥ १ ॥ नहि तद्दर्शनं भ्रान्तं नानावस्तुग्रहाद्यतः । सांवृतं ग्रहणं नान्यन्न च वस्तुग्रहो भ्रमः ॥ २ ॥ इति । तन्न; नैरन्तर्यावभासस्य भ्रान्तत्वात्" (ब्र० सू० २/२/२८ भाम०) । सिद्धान्तः, सिद्धान्त १.वादिप्रतिवादिभ्यां निर्णीतोऽर्थः । यथा - (क) "तन्त्राधिकरणाभ्युपगमसंस्थितिःसिद्धान्तः(गौ० १।१।२६) । समुदितार्थश्च तन्त्रार्थसंस्थितिस्तन्त्रसंस्थितिः। १ अधिकरणानुषक्तार्थसंस्थितिरधिकरणसंस्थितिः । अभ्युपगसंस्थितिरनवधारितार्थपरिग्रहः । तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः (वात्स्या० १ । १ ।२६) । अथवा तन्त्रं शास्त्रं तदेवाधिकरणं ज्ञापकतया यस्य तादृशस्य योभ्युपगमस्तस्य समीचीनतया असंशयरूपतया स्थितिः इति । अत्र अभ्युपगम्यमानोऽर्थः सिद्धान्तः इति भाष्यम् । अभ्युपगमव्यवस्था सिद्धान्तः । अभ्युपगमः इदमित्थं भूतं वा इति न्यायवार्तिकटीका (गौ० वृ० १/१ /२६) (न्या० वा० १ पृ० १७) । अत्रेयं व्युत्पत्तिः सिद्धस्य संस्थितिः सिद्धान्तः इति । संस्थितिरित्थं भावव्यवस्था धर्मनियमः (वात्स्या० १ । १ । २६ अवतर० पृ० ४७) । (ख) शास्त्रितार्थनिश्चयः (गौ० वृ० १ । १ । २६) । शास्त्रप्रतिपादितार्थनिश्चय इत्यर्थः । (ग) प्रामाणिकत्वेनाभ्युपगतोऽर्थः (त० दी० पृ० ४३) (त० भा० पृ० ४२) (सर्व० पृ० २३८ अक्ष०) । तथा चोक्तं तार्किकरक्षायामभ्युपेतः प्रमाणैः स्यादाभिमानिकसिद्धिभिः । सिद्धान्तः सर्वतन्त्रादिभेदात्स च चतुर्विधः (ता० २० श्लो० ५८) इति । (घ) तत्तच्छास्त्रसिद्धार्थ: (दि० १) । तत्र भेदात्तु खलु स चतुर्विधः सर्वतन्त्रसंस्थितिः प्रतितन्त्रसंस्थितिः अधिकरणसंस्थितिः अभ्युपगमसंस्थितिश्च इति (गौ० १।१।२७) (त० भा० पृ० ४२) । २. अबाधितार्थः (म० प्र० पृ० ३) (न्या० को०) । सिद्धार्थवाक्यप्रमाणम्, सिद्धार्थवाक्यप्रमाण सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिवाक्यानां ब्रह्मरूपसिद्धार्थावबोधकत्वं भवति । यथा- तदेवं विधिवाक्यानामपि सिद्धार्थबोधकत्वाद् विधिसंस्पर्शविधुराणां सत्यज्ञानादिवाक्यानामखण्डैकरसब्रह्मलक्षणसिद्धार्थावबोधकत्वं सुतरां सिद्ध्यतीति सिद्धम् (त० प्र० १ प० सि० बो०)। सिद्धिः, सिद्धि १ . निश्चयः । स च साध्यवत्तानिश्चयः (दी० घि०२) (ग० सप्र०) । पक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकविशिष्टसाध्यवैशिष्ट्यावगाहिनिश्चयः इत्यर्थः (नील० २) । यथा पर्वते धूमेन बहिसाधने पर्वतो बह्निमान् इति निश्चयः । इयं सिद्धिर्द्विविधाः पक्षतावच्छेदकसमानाधिकरण्यमात्रावगाहिनी पक्षतावच्छेदकव्यापकत्वावगाहिनी चेति । इयं सिद्धिरसत्यामनुमित्सायां कामिनीजिज्ञासाकार्यमात्रस्येव अनुमितेः पृथक् प्रतिबन्धिका भवति । अनुमित्साः सिषाधयिषा । अत्रानुभवमनुरूध्यप्रतिबध्यप्रतिबन्धकभावः कल्प्यतो पक्षतावच्छेदकावच्छेदेनानुमितिं प्रति पक्षतावच्छेदकावच्छेदेनैव सिद्धिर्विरोधिनी, न तु पक्षतावच्छेदकसामानाधिकरण्येनापि सिद्धिविरोधिनी । पक्षतावच्छेदकसामानाधिकरण्यमात्रेणानुमितिं प्रति तूभयविधापि सिद्धिर्विरोधिनी (मु० २ पक्ष०) (दीधि० २) इति । २. व्याप्तस्य पक्षधर्मताप्रतीतिः सिद्धिरुच्यते । यथा – असिद्धो हेत्वाभासः इत्यादौ सिद्धिशब्दस्यार्थः (ता० र० श्लो० ८४) । ३. सांख्यास्तु आध्यात्मिकादिदुःखत्रयविघातास्त्रयो मुख्यसिद्धय इत्याहुः । अत्र सूत्रम् – ऊहादिभिः सिद्धि: (सांख्य सू० ३।४४) इति । तदर्थश्च ऊहादिभेदैः सिद्धिरष्टधा भवतीति । इदं सूत्रं कारिकयापि व्याख्यातम् । यथा- ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृप्राप्तिः । दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोङ्कुशस्त्रिविधः ॥ (सांख्य० भा० ३।४४) इति (न्या० को०) । सिन्धुः, सिन्धु उदकम् । यथा - "सिन्धुशब्देनोदकमभिधीयते, स्यन्दनात् सिन्धुरुदकम् । तद् विकारस्तत्र भवो वा सैन्धवः बृ० उ० २।४।१२ शा० भा०) । सुखम्, सुख आनन्दः । स च निरतिशयः सातिशयश्च । निरतिशयः परमात्मव्यञ्जकः । यथा –"नमस्यामस्तद् ब्रह्मापरिमितसुखज्ञानममृतम्" (ब्र०सू०भामतीमङ्गलश्लोके) । सातिशयश्च - विषयानुषङ्गजनितान्तःकरणवृत्तिः । यथा- "तथा सुखमनुकूलं प्रसन्नं सत्त्वात्मकं ज्ञेयत्वात् क्षेत्रमेव" (गी० १३।६ शा० भा०)। "सुखं निरुपाधीच्छाविषयीभूता धर्मासाधारणिका चित्तवृत्तिः परमात्मसुखव्यञ्जिका" (तत्रैव म० सू०) । सुखं द्विविधम् - सुखदुःखाभावौ मुख्यं प्रयोजनम् । तदन्यतरसाधनं गौणं प्रयोजनम् । सुखं च द्विविधम् सातिशयं निरतिशयं चेति । तत्र सातिशयं सुखं विषयानुषङ्गजनितान्तःकरणवृत्तितारतम्यकृतानन्दलेशाविर्भावविशेषः (वे० प० ७ प्र०) । यथा च - सत्यज्ञानसुखात्मक: (अ० सि० मङ्गलश्लोके) । अत्र गौडब्रह्मानन्दयाम्तत्राह – सत्यज्ञानसुखात्मक इति । यथात्मन आनन्दत्वेनानन्दरूपं मोक्षं प्राप्त इव इत्युक्तमत एवानन्दावाप्तिबोधकश्रुतेरनावृत्तानन्दैक्यमर्थो नत्वानन्दसम्बन्धः । तथा प्रकाश-रूपत्वेन विष्णोः प्रकाशत इत्यस्यानावृतचिदभेदबोधकत्वम् । न तु प्रकाशसम्बन्धार्थ कत्वम् । तथा च दृश्यत्वाभावाद् न मिथ्यात्वापत्तिः। यथा च - "सुखादुःखासहम्" (सं० शा० १ । २६६ सु० टी०) । १. (गुण:) (क) धर्ममात्रासाधारणकारणगुण: (सि० च० गणनि० पृ० ३५) (त० कौ०) । सुखं तु जगतामेव काम्यं धर्मेण जन्यते । तथा च धर्मत्वेन सुखत्वेन कार्यकारणभावः (भा० प० गु० श्लो० १४६) । अयं च धर्मसुखयोः सामान्यकार्यकारणभावः प्राचां मतेनोक्तः । नवीनमते तु नित्यं विज्ञानमानन्दं ब्रह्म इति श्रुत्या भगवति नित्यसुखसिद्धौ धर्मस्य कार्यतावच्छेदकं जन्यसुखत्वं सुखत्वावन्तरजातिर्वा इति बोध्यम् (दि० गु० पृ० २२०) । सुखस्य लक्षणं तु सुख्यहमित्याद्यनुव्यवसायगम्यसुखत्वं जातिविशेषः (त० दी०) । यद्वा काम्यभावत्वम् । अथ वा इतरेच्छानधीनेच्छाविषयत्वे सति भावत्वम् (न्या० बो०) । दुःखाभावस्य काम्यत्वेऽपि स्वतः पुरुषार्थत्वेऽपि च तस्य भावत्वाभावान्नातिव्याप्तिः । (ख) इतरेच्छानधीनेच्छाविषयीभूतो गुणसुखेच्छा सुखत्वप्रकारकज्ञानेनैव जन्यते । नेष्टसाधनत्वज्ञानेनापि । तथा च उपायेच्छाया इष्टसाधनत्वविषयकज्ञानेनापि जन्यत्वेन तादृशज्ञानजन्योपायेच्छाविषयत्वेऽपि इतरेच्छानधीनेच्छाविषयत्वाभावेन नोपायेऽतिव्याप्तिः । अत एव सुखानन्तरमिष्टान्तरस्याभावात् सुखस्य स्वतः पुरुषार्थत्वमुपपद्यते (मु० गु० पृ० २२१) इति । अत्र मतभेदः । सुखं चात्मधर्मः इति नैयायिका आहुः । तच्च चित्तधर्मः इति सांख्या आहुः । अत्र सांख्यानां मायावादिनां चायमाशयः सुखं चित्तधर्मोप्यध्यस्ततया प्रतिबिम्बरूपेण वात्मनि वर्तत इति । अत्रेदं विज्ञेयम् । कणादमहर्षिश्च कण्ठतः सुखदुःखयोः इष्टानिष्टकारण:विशेषाद्विरोधाच्च मिथः सुखदुःखयोरर्थान्तरभावः (वै० १०।१ ।१ ) । इत्यनेन कारणभेदात् भिन्नपदार्थत्वमुक्तवान् । तथा चायमर्थः । दुःखाभिन्नं सुखं न भवति । तथा च - सुखं दुःखमिश्रितत्वेन दुःखाभिन्नमस्तीति प्रत्ययस्तु भ्रम एव इति । कार्यभेदेनापि सुखस्य दुःखाभेदमाहुः। अनुग्रहाभिष्वङ्गनयनप्रसादोऽपि सुखस्य कार्यमिति प्रशस्तपादाचार्यादयः (वै० उ० १०/१/१ पृ० ४१७) । अत्र भाष्यम् । अनुग्रहलक्षणं सुखम् । स्वर्गाद्यभिप्रेतविषयसानिध्ये सति इष्टोपलब्धीन्द्रियार्थसन्निकर्षाद्धर्माद्यपेक्षादात्ममनसोः संयोगाद्यद्यदनुग्रहाभिष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत्सुखम्, तदिदमतीतेषु विषयेषु स्रक्चन्दनादिषु स्मृतिजम् । अनागतेषु संकल्पजम् । सुपथः सुपथ परलोकमार्गः । अर्चिमार्गः । येन उत्तरायणे मृताः उत्तमलोकं ब्रजन्ति । यथा - "दक्षिणमार्गनिवृत्त्यर्थम्" ( ई० उ० १७ शा० भा० ) । सुपथा, सुपथा "सुपथा शोभनेन मार्गेण । सुपथेति विशेषणं दक्षिणमार्गनिवृत्त्यर्थम्" ( ई० उ० १८ शा० भा० ) । सुप्तः, सुप्त जाग्रत्स्वप्नसुषुप्त्यवस्थात्रयेऽन्यतमः । यत्र ज्ञानेन्द्रियकर्मेन्द्रियक्रियाविरामो जायते । यथा - इन्द्रियाजन्यविषयगोचरापरोक्षान्तः करणवृत्त्यवस्था स्वप्नावस्था । जाग्रदवस्थाव्यावृत्यर्थम् इन्द्रियाजन्येति । अविद्यावृत्तिमत्यां सुषुप्तौ अतिव्याप्तिवारणाय अन्तःकरणेति (वे० प० ७ प०) । यथा च - स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः (मा० उ० ४ म०) । सोऽयमात्मा चतुष्पात् (मा० उ० २ म०) । इत्यनुसारमात्मा जागरितादिभेदेन चतुष्पात् । स्वप्नस्थानो द्वितीयपात् । यथा च सुप्तोत्थितस्य सौषुप्ततमोबोधो भवेत्स्मृतिः । सा चावबुद्धविषयाऽवबुद्धं तत्तदा तमः । एवमवस्थाद्वये ज्ञानस्यैकत्वं प्रसाध्य सुषुप्तिकालीनस्यापि तस्य तेनैक्य प्रसाधनाय तत्र तावज्ज्ञानं साधयति सुप्तेति (प० द० १-५)। सुषुप्तः, सुषुप्त जाग्रत्स्वप्नसुषुप्त्यवस्थात्रयेऽन्यतमावस्था सुषुप्तिः, तामापन्नः सुषुप्तः । यत्र ज्ञानेन्द्रियैः कर्मेन्द्रियैः सह मनः पुरीतति नाड्यां विश्राम्यति । यथा - "अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हितानामनाड्यो द्वासप्ततिः सहस्राणि हृदयात् पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृत्य पुरीतति शेते स यथा कुमारो वा महाराजो वा महाब्राह्मणो वातिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते (बृ० उ०२।१।१ ) । अथ यदा सुषुप्तो भवति- स्वप्न्यया चरति, तदाप्ययं विशुद्ध एव । अथ पुनर्यदा हित्वा दर्शनवृत्तिं स्वप्नं यदा च यस्मिन् काले सुषुप्तः सुष्टु सुप्तः सम्प्रसादं स्वाभाव्यं गतो भवति सलिलमिवान्यसम्बन्धकालुष्यं हित्वा स्वाभाव्येन प्रसीदति । कदा सुषुप्तो भवति । यदा यस्मिन् काले न कस्यचन न किञ्चनेत्यर्थः वेद विजानाति (तत्रैव शा० भा०) । सुषुप्त्यनन्तरं जागरिते सति सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति बोधो जायते । जागरिते सति जीवः पुनरविद्यांशैराव्रियते । यथा च - स्वप्नावस्था परीक्षिता सुषुप्तावस्थेदानीं परीक्ष्यते । तत्रैताः सुषुप्तिविषयाः श्रुतयो भवन्ति । क्वचिच्छूयते तद् यत्रैतत् सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति (छा० उ० ८ । ६ । ३) । अन्यत्र तु नाडीरेवानुक्रम्य श्रूयते - ताभिः प्रत्यवसृत्य पुरीतति शेते (बृ० उ० २।१।१९) इति । तथान्यत्र नाडीरेवानुक्रम्य तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवति (कौषी० ४।१९)। इति तथान्यन्त्र - य एषोऽन्तर्हदय आकाशस्तस्मिञ्शेते (बृ० उ० २।१।१७) इति । तथान्यत्र - सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति (छा० उ० ६।८।१) इति । प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्च न वेद नान्तरम् (बृ० उ० ४।३।२१) इति च । तत्र संशयः - किमेतानि नाड्यादीनि परस्परनिरपेक्षाणि भिन्नानि सुषुप्तिस्थानान्याहोस्वित् परस्परापेक्षयैकं सुषुप्तिस्थानमिति । किं तावत् प्राप्तम् । भिन्नानीति । कुतः एकार्थत्वात् । नह्येकार्थानां क्वचित्परस्परापेक्षत्वं दृश्यते ब्रीहियवादीनाम् । नाड्यादीनां त्वेकार्थतासुषुप्तौ दृश्यते- नाडीषु सृप्तो भवति (छा० उ० ८।६।३) । पुरीतति शेते (बृ० उ० २।१।१९) इति च तत्र तत्र सप्तमीनिर्देशस्य तुल्यत्वात् । ननु नैवं सति सप्तमीनिर्देशो दृश्यते - सता सोम्य तदा सम्पन्नो भवति (छा० उ० ६।८।१) । इति नैष दोषः । तत्रापि सप्तम्यर्थस्य गम्यमानत्वात् । वाक्यशेषो हि तत्रायतनैषी जीवः सदुपसर्पतीत्याह- अन्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते (छा० ६।८।२) इति । प्राणशब्देन तत्र प्रकृतस्य सत उपादानात् । आयतनं च सप्तम्यर्थः । सप्तमीनिर्देशोऽपि तत्र वाक्यशेषे दृश्यते - सति सम्पद्य विदुः सति सम्पद्यामहे इति (छा० उ० ६ । ९ ।२) । यथा च - एवं जाग्रत्स्वप्नभोगद्वयेन श्रान्तस्य जीवस्य तदुभयकारणकर्मक्षये ज्ञानशक्त्यवच्छिन्नस्य सवासनान्तःकरणस्य कारणात्मनाड वस्थाने सति विश्रामस्थानं सुषुप्त्यवस्था । न किञ्चिदवेदिषमिति कारणमात्रोपलम्भः सुषुप्तिः । तत्र जाग्रत्स्वप्नभोग्यपदार्थज्ञानाभावेऽपि साक्ष्याकारं सुखाकारमवस्थाऽज्ञानाकारं चाविद्याया वृत्तित्रयमभ्युपेयते । तदेवं सुषुप्त्यवस्थामस्त्यानन्दभोगः । तद्भोक्ता च सुषुप्त्यवस्थाभिमानी प्राज्ञ इत्युच्यते । प्रकर्षेण अज्ञत्वात् । तदानीं विशेषावच्छेदाभावेन प्रकृष्टज्ञत्वाद् वा । तदा चान्तःकरणस्य लयेऽपि तत्संस्कारावच्छेदान्न जीवाभावप्रसङ्गः । न वा सर्वज्ञत्वापत्तिः । ननु दुःखमहमस्वाप्समिति कस्यचित् कदाचित्परामर्शात् सुषुप्तौ दुःखानुभवोऽप्यस्तु ।न, तदानीं दुःखसामग्रीविरहेण तदभावात् । सुखस्य चात्मस्वरूपत्वेन नित्यत्वात् । शय्यादेरसमीचीनत्वेन च दुःखमित्युपचारादुःखमहमस्वाप्समिति प्रत्ययोपपत्तिः । अथवा अवस्थात्रपस्यापि त्रैविध्याङ्गीकारात् सुषुप्तावपि दुःखमुपपद्यते । तथा हि प्रमाज्ञानं जाग्रज्जगत् । शुक्तिरजतादिविभ्रमो जाग्रत्स्वप्नः । श्रमादिना स्तब्धीभावो जाग्रत्सुषुप्तिः । एवं स्वप्ने मन्त्रादिप्राप्तिः स्वप्नजाग्रत् स्वप्नेऽपि स्वप्नो मया दृष्ट इति बुद्धिः स्वप्नस्वप्नः । जाग्रद्दशायां कथयितुं न शक्यते स्वप्नावस्थायां च यत् किञ्चिदनुभूयते तत्स्वप्नसुषुप्तिः । एवं सुषुप्त्यवस्थायामपि सात्त्विकी या सुखाकारा वृत्तिः सा सुषुप्तिजाग्रत् । तदनन्तरं सुखमहमस्वाप्समिति परामर्शः । तत्रैव या राजसी वृत्तिः सा सुषुप्तिस्वप्नः । तदनन्तरमेव दुःखमहमस्वाप्समिति परामर्शोत्पत्तिः । तत्रैव - या तामसी वृत्तिः सा सुषुप्तिः । तदनन्तरं गाढं मूढोऽहमिति परामर्शः । यथा चैतत् तथा वासिष्ठवार्त्तिकामृतादौ स्पष्टम् (सि० बि० ८)। सुषुप्तस्थानः, सुषुप्तस्थान सुषुप्त्यवस्थापन्नो जीवः । यथा - यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः (मा० उ० ५ म० ) । अत्र शाङ्करभाष्यम् – जाग्रत्स्वप्नेतरसुषुप्तं स्थानं यस्य सः । सुषुप्ति अवस्थावान् व्यापारशून्य इत्यर्थः । पूर्वाभ्यां सुषुप्तं विभजते । यत्र यस्मिन्स्थाने काले वा सुप्तो न कञ्चन स्वप्नं पश्यति न कञ्चन कामं कामयते । न हि सुषुप्ते पूर्वयोरिवान्यथाग्रहणलक्षणं स्वप्नदर्शनं कामो वा कश्चन विद्यते । अत्र श्रीगौडपादकारिका - बहिष्प्रज्ञो विभुर्विश्वो ह्यन्त प्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः (विश्वादिव्यवस्था - १ ) । सुषुप्तिः, सुषुप्ति जाग्रत्स्वप्नसुषुप्त्यवस्थात्रयेऽन्यतमावस्था । यस्यां ज्ञानेन्द्रिय कर्मेन्द्रियैः सह मनोऽपि पुरीतति नाड्यां विश्राम्यति । अस्यामस्थायां किञ्चिदपि वैषयिकं ज्ञानं नावतिष्ठते । निर्विषयशुद्धानन्दघनोऽनुभूयते । जागरितानन्तरं देही अनुभवति सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति । जागरितानन्तरमविद्यातमः पुनः प्रसरति । यथा च - "अविद्यावृत्तिमत्यां सुषुप्तौ अतिव्याप्तिवारणायान्तःकरणेति । सुषुप्तिर्नामाविद्यागोचराविद्यावृत्त्यवस्था । जाग्रत्स्वाप्रयोरविद्याकारवृत्तेरन्तः करणवृत्तित्वान्न तत्रातिव्याप्तिः (वे० प० ७ प०) । यथा च - "अहङ्कारे सति सुषुप्ति'व्याधातात् तदभावे चाहमज्ञ इति विशेषाकारेणाज्ञानाभिव्यक्त्यभावात्सुषुप्तौ विद्यमानमप्यज्ञानमविद्यमानसमं विक्षेपाभावादिति तत्राज्ञानाभाववचनमप्युपपन्नमेवेत्यभिप्राय: (सं० शा० ३।१२३ अ० टी०) । यथा च - "सर्वोपरमत्त्वात् सुषुप्तिरत एव स्थूलसूक्ष्मप्रपञ्चलयस्थानमिति चोच्यते (वे० सा० ) । यथा च- (क) प्रदेशविशेषावच्छिन्नस्थितमनःसंयोगः (नील० गु० पृ० ३८ ) । स च प्रदेश: पुरीतदात्मकः । (ख) निद्रानाड्यवच्छिन्नात्ममनोयोगः (कृष्णम्) । (ग) पुरीतता मनसः संयोगः । यथा – पुरुषः सुप्तः स्वप्नया चरति । तौ ह सुप्तं पुरुषमाजग्मतुः (कौषीतः ४।१५-१९)। इत्यादौ स्वप्धात्वर्थः स्वापः । स एव सुषुप्तिः । सुषुप्तेरुत्पत्तिमाहुर्नव्याः । प्रथमं सुषुप्त्यनुकूलमनः क्रियया पुरीतद्व्यतिरिक्तात्मप्रदेशान्मनसो विभागः । ततस्तत्संयोगनाशः । ततः पुरीतदात्मकोत्तरदेशेन मनसः संयोग उत्पद्यते । सैव सुषुप्तिः (दि० १।३ पृ० ११५) इति । अत्रेदं बोध्यम् । सुषुप्तौ न किंचिदपि ज्ञानमुत्पद्यते । सुषुप्तिकाले पुरीतति त्वगिन्द्रियाभावेन तत्र स्थितमनसस्त्वक्संयोगासम्भवात् । यत्तु विदुषामसत्सु विषयानुस्मरणेच्छासङ्कल्पेष्वाविर्भवति तत् विद्याशमसन्तोषधर्मविशेषनिमित्तम् (प्रशस्त० २ पृ० ३२) इति । अनित्येच्छानधीनेच्छाविषयः (प्र० प्र०) । (ङ) सुखत्वसामान्यवत् । इदं च जीवेश्वरसुखसाधारणलक्षणमिति विज्ञेयम्'। (च) निरुपाध्यनुकूलवेद्यम् । अत्र अनुकूलमिच्छाविषयः उपाधिः प्रयोजकः इत्यर्थ: (प० च० पृ० ३०) । (छ) सर्वात्मनामनुकूलवेदनीयम् (त० भा०) (त० सं०) । अत्रानुकूलत्वं चेष्टत्वम् (सि० च०) । तथा च यदनुभवाय चित्तमनुकूलं भवति ततदित्यर्थः इति कश्चिदाह । तन्न । इच्छाविषयत्वेन ज्ञानविषय इति तु वयं ब्रूमः । पुरीतद्भिन्नदेशावच्छिन्नमनः संयोगस्य ( त्वद्मनःसंयोगस्य) । ज्ञानसामान्यं प्रतिकारणत्वात् (राम० १ पृ० ११४-११५) इति । पुरीतत् अत्र इत्याख्यो नाड़ीविशेषः इति ज्ञेयम् ( अमरः २ ।६।६६) । अत्र श्रुतिः । अथ यदा सुप्तो भवति तदा न कस्यचन (न कञ्चन) वेद । हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते । ताभिः प्रत्यवसृत्य पुरीतति शेते (शतपथ ब्रा० १४ बृ० उ० २।१।१९) । यत्रैतत्पुरुषः सुप्तः स्वप्नं (स्वप्नसृष्टं फलम्) । न कञ्चन पश्यति (कौषीत० उप० ३।३ ) । तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति (छान्दो ० उ० ८।६।३)। इत्यादि । मायावादिवेदान्तिनस्तु (छ) ज्ञानशून्यो जीवस्यावस्थाविशेष इत्याहुः । अत्र श्रुतिः- यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति। (तत् सषुप्तमिति) (बृ० उ० ४/३/१९) इति । (न्यायकोशः) । सुषुप्तिस्थानम्, सुषुप्तिस्थानम् यथा- अथ तु परमात्मैव नाडीपुरीतत्सृप्तिद्वारा सुषुप्तिस्थानम् । ततो विपरीतज्ञाननिवृतेरस्ति मात्रया परमात्मभाव उपयोगः (ब्र० सू० ३।२।७ भाम०) । उत्थितः सन् अविद्यालेशेन पुनः जीवभावमापद्यते । विशदज्ञानाय ब्र० सू० ३।२।७। सुषुप्त्यवस्था, सुषुप्त्यवस्था एवं जाग्रत्स्वप्नभोगद्वयेन श्रान्तस्य जीवस्य तदुभयकारणकर्मक्षये ज्ञानशक्त्यवच्छिन्नस्य सवासनान्त करणस्य कारणात्मनाऽवस्थाने सति विश्रामस्थानं सुषुप्त्यवस्था । न किञ्चिदवेदिषमिति कारणमात्रोपलम्भः सुषुप्तिः । तत्र जाग्रत्स्वप्नभोग्यपदार्थज्ञानाभावेऽपि साक्ष्याकारं सुखाकारमवस्थाज्ञानाकारं चाविद्याया वृत्तित्रयमभ्युपेयते (सि० वि० ८) । सूक्ष्मम्, सूक्ष्मम् १. अत्यल्पः लघुः पदार्थः । यथा अणुपरिमाणयुतः परमाण्वादिः। यथा वा अध्यात्मपदार्थः सूक्ष्मशरीरम् । यथा वा केषाञ्चिद्वेदान्तिनां मते अपञ्चीकृतानि पृथिव्यादीनि पञ्चमहाभूतानि सूक्ष्माणि तन्निर्मितं शरीरं सूक्ष्मशरीरम् । तदुक्तम् पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनमिति । इदं च लोकान्तरगामि भोगोपभोगसमर्थं लिङ्गशरीरमित्युच्यते । सांख्यास्तु महदहङ्कारैकादशेन्द्रियपञ्चतन्मात्राणां समुदायः सूक्ष्मशरीरम् । शन्तघोरमूढैरिन्द्रियैरन्वितत्वात् विशेषः इति प्रतिपेदिरे (सांख्य० कौ० कारि० ४०) । अत्रोक्तम्- सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते (सांख्य० का० श्लो०- ३९) इति । सूक्ष्मशरीरम्, सूक्ष्मशरीर परलोकयात्रानिर्वाहकं सूक्ष्मशरीरं भवति । यत्र दशेन्द्रियाणि पञ्चप्रा॒णाः मनोबुद्धिश्च भवन्ति । सप्तदशाङ्गैर्युक्तमिदं सूक्ष्मशरीरम् । इदं लिङ्गशरीरमप्युच्यते । यथा - कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते स सप्तदशकेनापि राशिना युज्यते पुनः (ब्र० सू० २।३।४७) । यथा च - "पूर्वोक्तैरपञ्चीकृतैर्लिङ्गशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्यन्तं स्थायिमनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चकर्मेन्द्रियपञ्चकप्राणादिपञ्चकसंयुक्तं जायते । तदुक्तं - पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् (वे० प० ७ प०) । यथा च"बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया । शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते (प० द० १ । २३) । सूक्ष्मशरीरोत्पत्तिः, सूक्ष्मशरीरोत्पत्ति (लिङ्गशरीरोत्पत्तिः) । सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरीराणि च । अवयवास्तु ज्ञानेन्द्रियपञ्चकं, बुद्धिमनसी, कर्मेन्द्रियपञ्चकं, वायुपञ्चकञ्चेति । ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यानि । एतान्याकाशादीनां सात्विकांशेभ्यो व्यस्तेभ्यः पृथक्-पृथक् क्रमेणोत्पद्यन्ते । बुद्धिर्नाम निश्चयात्मिकान्त:करणवृत्तिः । मनो नाम संकल्पविकल्पात्मिकान्तःकरणवृत्तिः । अनयोरेव चित्ताहङ्कारयोरन्तर्भावः । एते पुनराकाशादिगतसात्विकांशेभ्यो मिलितेभ्य उत्पद्यन्ते । एतेषां प्रकाशात्मकत्वात्सात्त्विकांशकार्यत्वम् । इयं बुद्धिर्ज्ञानेन्द्रियैः सहितविज्ञानमयकोशो भवति ।अयं कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वाद्यभिमानत्वेनेहलोकपरलोकगामी व्यवहारिको जीव इत्युच्यते । मनस्तु ज्ञानेन्द्रियैः सहित सन्मनोमयकोशो भवति । कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थाख्यानि । एतानि पुनराकाशादीनां रजोऽंशेभ्यो व्यस्तेभ्यः पृथक्-पृथक् क्रमेणोत्पद्यन्ते (वे० सा० ) । यथा च - "एतत् कोशत्रयं मिलितं सत् सूक्ष्मशरीरमित्युच्यते । यथा च पूर्वोक्तैरपञ्चीकृर्लिङ्गशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्यन्तं स्थायि मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकप्राणादिपञ्चकसंयुक्तं जायते । तदुक्तम्- पञ्चप्राण-मनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् । तच्च द्विविधं परमपरं च । तत्र परं हिरण्यगर्भलिङ्गशरीरमपरमेस्मदादिलिङ्गशरीरम् । तत्र हिरण्यगर्भलिङ्गशरीरीरं महत्तत्वमस्मदादिलिङ्गशरीरमहङ्कार इत्याख्यायते (वे० प० ७ प०) । सूत्रात्मा, सूत्रात्मन् हिरण्यगर्भाख्यः प्रथमः पुरुषः । समष्ट्युपहितचैतन्यात्मकः सर्वजीवात्मकः सूत्ररूपेण सर्वेषां चालकः । यथा- "तस्मादव्याकृतात् व्याचिकीर्षितादन्नात्प्राणो हिरण्यगर्भो ब्रह्मणो ज्ञानक्रियाशक्त्यधिष्ठानं जगत्सूत्रात्मा साधारणो जायते (ब्र० सू० १।१।५ भाम०) । यथा च - "मणीनामिव सूत्रं जगतो विधारकः सूत्रात्मा" (वे० क० त० ) । यथा च - "एवं समष्ट्युपहितं चैतन्यं सदात्मा हिरण्यगर्भः प्राणश्चेत्युच्यते सर्वत्रानुस्यूतत्वाज्ज्ञानेच्छाक्रियाशक्तिमदुपहितत्वाच्च (वे० सा० ) । सृक्का, सृक्का १ . शब्दवती रत्नमयीमाला । २. अकुत्सिता गर्भमयी गतिः । यथा सृक्कां चेमामनेकरूपां गृहाण (क० उ० १ । १६) । सृक्कां शब्दवतीं रत्नमयीं मालाम् ...... यद्वा अकुत्सितां गतिं कर्ममयीम् (तत्रैव शा० भा० ) । सृष्टिः, सृष्टि एकोऽहं बहुस्याम्, तदैक्षत तदसृजत् इत्यादिश्रुत्यनुरोधात्परमात्मनो दृष्टिरेव सृष्टिः । अथवा सृष्टिरेव दृष्टिः । दृष्टिवादः सृष्टिवादः उभावपि स्तः । परमात्मनो लीलामात्रम् । प्राणिनां भोगार्थमदृष्टकर्मवशा परमात्मनि सिसृक्षालीला जायते । तथा अविद्यावशात् मूलातूलाविद्याभ्याम् आक्षेपविक्षेपशक्तिभ्यामाविद्यकं जगद्भाति । इयमेव सृष्टिरुच्यते । यथा - "जीवभ्रान्त्या पर ब्रह्म जगद्बीजमजूधुषत् । वाचस्पतिः परेशस्य लीलासूत्रमलूलुपत् । प्रतिबिम्बगताः पश्यन् ऋजुवक्रादिविक्रियाः । पुमान् क्रीडेद् यथा ब्रह्म तथा जीवस्थविक्रियाः ॥ एवं वाचस्पतेर्लीला लीलासूत्रीयसङ्गतिः । अस्वतन्त्रत्ववतः क्लिष्टा प्रतिबिम्बेशवादिनाम् (ब्र० सू० २।१।३३ वे० क० त० तथा वे० क० त० प० तथा २।३।४६ भाम० च ) । यथा च - अज्ञानोपहितं बिम्बचैतन्यमीश्वरः । अज्ञानप्रतिबिम्बितं चैतन्यं जीव इति वा अज्ञानानुपहितं शुद्धं चैतन्यमीश्वरः अज्ञानोपहितं च जीव इति वा मुख्यो वेदान्तसिद्धान्त एकजीववादाख्यः । इममेव च दृष्टिसृष्टिवादमाचक्षते । अस्मिंश्च पक्षे जीव एव स्वाज्ञानवाशाज् जगदुपादानं निमित्तं च । दृश्यं सर्वं प्रातीतिकम् । देहभेदाच्च जीवभेदभ्रान्तिः ( सि० बि० ) । यथा च - अथ केयं दृष्टिसृष्टि: - १. दृष्टिरेव सृष्टिरिति वा, २. दृष्टिव्यतिरिक्तसृष्ट्यभावो वा, ३. दृष्टिव्यतिरेकेण सृष्ट्याभावो वा, ४. दृष्टिसामग्रीजन्यत्वं वा, ५. दृष्टिसमानकालीनसृष्टिर्वा, ६. दृष्टिसमानसत्ताक सृष्टिर्वा, ७. सदसद्विलक्षणत्वं वा, ८. त्रिविधसत्त्ववहिर्भूतत्वे सति असद्विलक्षणत्वं वा, ९. अज्ञातसत्त्वाभावो वा, १०. ज्ञातैकसत्त्वं वा ।....इति चेत्, न, दोषप्रयुक्तत्वनिबन्धनस्य ज्ञातैकसत्त्वस्याज्ञातसत्त्वाभावस्य वा प्रतिपन्नोपाधिदृष्टिजन्यज्ञातैकसत्त्वस्य वा द्रष्ट्रन्तरावेद्यत्वे सति ज्ञातैकसत्त्वस्य वा विवक्षितत्वात् (अ० सि० १ प० दृष्टि०) यथा च - भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे । देवस्यैष स्वभावोऽयमात्मकामस्य का स्पृहा (मा० उ० का० १।९) । यथा च - स्वभावमेके कवयो वदन्ति कालं तथान्ये परिमुह्यमानः । देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् (श्वे० उ० ६।१) । एवमेव जागरितसृष्टिः स्वप्नसृष्टिः (संध्यसृष्टिः, सन्ध्यं स्वप्नः) (ब्र० सू० ३।२।१०२) । अद्वैतवेदान्तमुख्यसिद्धान्त एकजीववादे दृष्टिसृष्टिवादः अनेकजीववादे सृष्टिदृष्टिवादः । १. उत्पत्त्यनुकूलव्यापारविशेषः । यथा - ससर्ज भगवानादौ त्रीन् गुणान् प्रकृतेः परः । महत्तत्वं ततो विष्णुः सृष्टवान् ब्रह्मणस्तनुम् । महत्तत्त्वादहङ्कारं ससर्ज शिवविग्रहम् । दैवान् देहान् मनः खानि खं च स त्रिविधात्ततः ॥ आकांशादसृजद्वायुं वायोस्तेजो व्यजीजनत् । तेजसः सलिलं तस्मात् पृथिवीमसृजद्विभुः ॥ ततः कूटस्थम-सृजद्विधिं ब्रह्माण्डविग्रहम् । तस्मिंस्तु भगवान् भूयो भुवनानि चतुर्दश (मणिमञ्जरी स० १ श्लो० २-५) । इत्यादौ सृज् धात्वर्थः सृष्टिः । स च व्यापारो जगदुत्पत्तावीश्वरेच्छारूपः । घटाद्युत्पत्तौ तु कुलालादीनां कर्मादिः । अत्र तदैक्षत वहुस्यां प्रजायेय (छान्दो० उ० ६ ।२।३) । तत्सृष्ट्वा तदेवानुप्राविशत् (तैति० उ० २।६।९)। इत्यादिश्रुतयोऽनुसन्धेयाः । मनुराह - ततः स्वयंभूर्भगवान् व्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥ सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु बीजमवासृजत् ॥ (मनु० अ० १ श्लो० ६-८) । इत्यादि । पौराणिका नवविधं सर्गं जगुः - सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः । कालद्रव्यगुणैरस्य त्रिविधः प्रतिसंक्रमः ( भाग० ३।१०।१३-१४) । इत्यादि । मत्स्यपुराणे च मत्स्य उवाच तपश्चचार प्रथमममराणां पितामहः । आविर्भूतास्ततो वेदाः साङ्गोपाङ्गपदक्रमाः । पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् । नित्यं शब्दमयं पुण्यं शतकोटिप्रविस्तरम् । अनन्तरं च वक्रेभ्यो वेदास्तस्य विनिस्सृताः। मीमांसान्यायविद्याश्च प्रमाणाष्टक-संयुताः (न्यायकोशः) । सृष्टिक्रमः, सृष्टिक्रम तम प्रधानविक्षेपशक्तिमदज्ञानोपहितचैतन्यादाकाश: आकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी चोत्पद्यते । "तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः" इत्यादि श्रुतेः। तेषु जाड्याधिक्यदर्शनात्तम प्राधान्यं तत्कारणञ्च । तदानीं सत्त्वरजस्तमांसि कारणगुणक्रमेण तेष्वाकाशादिषूत्पद्यन्ते । एतान्येव सूक्ष्मभूतानि तन्मात्राण्यपञ्चीकृतानि चोच्यन्ते । एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते (वे० सा०) । यथा च - अथ जगतो जन्मक्रमो निरूप्यते । तत्र सर्गाधकाले परमेश्वरः सृज्यमानप्रपञ्चवैचित्र्यहेतुप्राणिकर्मसहकृतोऽपरिमिता निरूपितशक्तिविशेषविशिष्ट मायासहितः सन्नामरूपात्मकनिखिलप्रपञ्चं प्रथमं बुद्धावकलय्येदं करिष्यामीति सकङ्कल्पयति । तदैक्षत बहु स्यां प्रजायेय (छा० ६ । २ । ३ ) । इति सोऽकामयत वहु स्यां प्रजायेय (तै० २ । ६) इत्यादिश्रुतेः । तत आकाशादीनि पञ्चभूतानि अपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यानि उत्पद्यन्ते । ......इमानि भूतानि त्रिगुणमायाकार्याणि त्रिगुणानि । गुणाः सत्त्वरजस्तमांसि । एतैश्च सत्त्वगुणोपेतैः पञ्चभूतैर्व्यस्तैः पृथक् पृथक् क्रमेण श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि पञ्च ज्ञानेन्द्रियाणि जायन्ते । एतेभ्यः पुनराकाशादिगतसात्त्विकांशेभ्यो मिलितेभ्यो मनोबुद्ध्यहङ्कारचित्तानि जायन्ते । श्रोत्रादीनां पञ्चानां क्रमेण दिग्वातार्कवरुणाश्विनोऽधिष्ठातृदेवताः । मन आदीनां चतुर्णां क्रमेण चन्द्रचतुर्भुखशङ्कराच्युता अधिष्ठातृदेवताः । एतैरेव रजोगुणोपेतैः पञ्चभूतैर्व्यस्तैर्यथाक्रमं वाक्पाणिपादपायूपस्थाख्यानि कर्मेन्द्रियाणि जायन्ते । तेषां च क्रमेण वह्नीन्द्रोपेन्द्रमृत्यु प्रजापतयोधिष्ठातृदेवताः । रजोगुणोपेतैः पञ्चभूतैरेव मिलितैः पञ्च वायवः प्राणापान व्यानोदानसमानाख्या जायन्ते । ......तैरेव तमोगुणोपेतैरपञ्चीकृतभूतैः पञ्चीकृतानि जायन्ते । "तासां त्रिवृतं त्रिवृतमेकैकां करवाणि (छा० ६ ।३।३) । इति श्रुतेः पञ्चीकरणोपलक्षणार्थत्वात् (वे० प० ७ प०) । सृष्टिदृष्टिवादः, सृष्टिदृष्टिवादः (सृष्टदृष्टिवादः) । यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नामरूपमन्नं च जायते (मु० उ० १।१।९) । सोऽकामयत बहु स्यां प्रजायेय (तै० उ० २।६) । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति च (तै० ३।१ ) । इदं सर्वं यदयमात्मा सच्च त्यच्चाभवत् (तै० उ० २।६) । इत्यादिश्रुत्यनुरोधाज्जगतो निमित्तकारणमुपादानकारणं कर्ता च परमेश्वरी जगत् सृजते ततश्च तत्तद्विषयदृष्टिर्जायत इति सृष्टिवादः । यथा द्विविधेऽपि दृष्टिसृष्टिवादे मनः प्रत्ययमलभमानाः केचिदाचार्याः सृष्टिदृष्टिवादं रोचयन्ते । श्रुतिदर्शितेन क्रमेण परमेश्वरसृष्टम् अज्ञातसत्तायुक्तमेव विश्वं तत्तद्विषयप्रमाणावतरणे तस्य तस्य दृष्टिसिद्धिरिति । न चैवं प्रपञ्चस्य कत्पितत्वाभावे श्रुत्यादिप्रतिपन्नस्य सृष्टिलयादिमतः प्रत्यक्षादिप्रतिपन्नार्थक्रियाकारिणश्च तस्य सत्यत्वमेवाभ्युपगतं स्यादिति वाच्यम् । शुक्तिरजतादिवत् सम्प्रयोगसंस्कारदोषेण अधिष्ठानसंस्कारदोषरूपेण वा कारणत्रयेण अजन्यतया कल्पनासमसमयत्वाभावेऽपि ज्ञानैकनिवर्त्यत्वरूपस्य सदसविलक्षणत्वरूपस्य प्रतिपन्नोपाधिगतत्रैकालिकनिषेधप्रतियोगित्वरूपस्य वा मिथ्यात्वस्याभ्युपगमात् । सत्यत्वपक्षे प्रपञ्चे उक्तरूपमिथ्यात्वाभावेन ततो भेदात् (सि० ले० सं० २५०) । अनेकजीववादे सृष्टिदृष्टिवादः । अद्वैतवेदान्तस्य मुख्ये सिद्धान्ते एकजीववादे दृष्टिसृष्टिवादः । यथा- अज्ञानोपहितं विम्बचैतन्यमीश्वरः । अज्ञानप्रतिबिम्बितं चैतन्यं जीव इति वा, अज्ञानानुपहितं शुद्धं चैतन्यमीश्वरः अज्ञानोपहितं च जीव इति वा मुख्यो वेदान्तसिद्धान्त एकजीववादाख्यः । इममेव च दृष्टिसृष्टिवादमाचक्षते । अस्मिंश्च पक्षे जीव एव स्वाज्ञानवशाज्जगदुपादानं निमित्तं च दृश्यं च सर्वं प्रातीतिकम् । देहभेदाच्च जीवभेदभ्रान्तिः (सि० वि० १) । यथा च एकजीववादे पक्षे एकमुक्त्या सर्वमुक्तिप्रसङ्ग इति चेत्, न, एकत्ववादिनं प्रति सर्वत्वस्य निरूपयितुमशक्यत्वात् । तथापि वहवो॒ो अनुभवसिद्धा इति चेद् भवतु तर्हि स्वप्नवद् व्यवस्था (वे० सि० मु०) । सोऽयं देवदत्तः, तद् इदम् देवदत्त अत्र तत्कालैतत्कालविशिष्टयोस्तत्पदार्थदेवदत्तपदार्थयोः परस्परविरोधाद् भागलक्षणया जहदजहल्लक्षणया वा विरुद्धतत्कालैतत्कालविशिष्टांशं विहाय अविरुद्धं देवदत्तांशं लक्षयित्वा वाक्यार्थवोधः । यथा - तस्माद् यथा - सोऽयं देवदत्त इति वाक्यं तदर्थो वा तत्कालैतत्कालविशिष्टदेवदत्तलक्षणस्य वाक्यार्थस्यांशे विरोधाद् विरुद्धतत्कालैतत्कालविशिष्टत्वांशं परित्यज्य विरुद्धं देवदत्तांशमात्रं लक्षयति (वे० सा०) । एवमेव तत्त्वमसि इत्यत्रापि । यथा च - यत्र हि विशिष्टवाचकः शब्द: एकदेशं विहाय एकदेशे वर्तते तत्र जहदजहल्लक्षणा । यथा सोऽयं देवदत्त इति । अत्र हि पदद्वयवाच्ययोर्विशिष्टयोरैक्यानुपपत्त्या पदद्वयस्य विशेष्यमात्रपरत्वम् । यथा तत्त्वमसीत्यादौ (वे० प० ७ प०) । सोऽहम्, तद् अस्मद् अत्र तत्कालैतत्कालविशिष्टयोस्तत्पदार्थाहंपदार्थयोः परस्परविरोधाद् भागलक्षणया जहदजहल्लक्षणया वा विरुद्धतत्कालैतत्कालविशिष्टाशं विहाय अविरुद्धमहमंशं लक्षयित्वा वाक्यार्थबोध: सोऽयं देवदत्त इतिवत् । सोपाधिकम्, सोपाधिक ब्रह्म द्विविधम् - सोपाधिकं निरुपाधिकं च । अज्ञानोपाधिकं ब्रह्म ईश्वरः । उपाधिरहितं शुद्धं ब्रह्म निरुपाधिकम् । यथा - "परस्य सोपाधिकं निरुपाधिकं च चिद्रूपं ध्येयत्वेन ज्ञेयत्वेन चोक्तमित्यर्थः । सोपाधिमैश्वरं रूपमशेषजगदात्मकं विश्वरूपाख्यमधिकृत्याध्यायान्तरमवतारयन्नन्तरप्रश्नोपयोगित्वेन वृत्तं कीर्तयति तत्र चेति (गी० 9919 आ० गि०) । यथा च - "यथोक्तं वार्तिकसारे" सोपाधिर्निरुपाधिश्च द्विधा ब्रह्म समुच्यते । सोपाधिकः स्यात्सर्वात्मा निरुपाख्योऽनुपाधिकः । जक्षन्क्रीडन्रतिं प्राप्त इति सोपाधिकस्य तु । छान्दोग्ये सर्वकामाप्तिः सार्वास्यात्स्पष्टमीरिता । अहमन्नं तथान्नादः श्लोककार्यप्यहो अहमइति तत्त्वविदः सामगाने सर्वात्मता श्रुता। अत्रापि चक्रदृष्टान्तात्सोपाधिस्तत्त्वविच्छ्रुतः। अपूर्वानपराद्युक्त्या श्रोष्यते निरुपाधिकः । इति (गी० ५/२९ नी० क० ) । सौवः, सौव स्वीयोऽर्थः । यथा- "लक्षणया वृत्त्या स्वशक्यार्थं परित्यज्याच्यार्थप्रकाशनम् । यथा – स्वस्येदं सौवं स्ववाच्यमर्थं समुज्झति त्यजति जहदजहल्लक्षणया पदान्तरेण समानार्थं भवतीत्यर्थ:" (सं० शा० १।२१३ अ० टी०) । स्कन्धः, स्कन्ध १. बौद्धदर्शने पञ्चस्कन्धा भवन्ति - रूपविज्ञानवेदनासंज्ञासंस्काराः । यथा - रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्चस्कन्धाः (ब्र० सू० २/२/१८ शा० भा०) । अत्र भामत्याम् - रूप्यन्ते एभिरिति रूप्यन्त इति च व्युत्पत्त्या सविषयाणीन्द्रियाणि रूपस्कन्धः । यद्यपि रूप्यमाणा पृथिव्यादयो बाह्याः । तथापि कायस्थत्वाद्वा इन्द्रियसम्बन्धाद्वा भवन्त्याध्यात्मिकाः । विज्ञानस्कन्धोऽहमित्याकारो रूपादिविषय इन्द्रियादिजन्यो वा दण्डायमानः । वेदनास्कन्धो वा प्रियाप्रियानुभयविषयस्पर्शे सुखदुःखतद्रहितविशेषावस्था चित्तस्य जायते स वेदनास्कन्धः । संज्ञास्कन्धः सविकल्पप्रत्ययः संज्ञासंसर्गयोग्यप्रतिभासः । यथा- डित्थः कुण्डली गौरो ब्राह्मणो गच्छतीत्येवं जातीयकः । संस्कारस्कन्धो रागादयः क्लेशा: उपक्लेशाश्च मदमानादयः धर्माधर्मौ चेति । तदेतेषां समुदायः पञ्चस्कन्धी । अत्र वेदान्तकल्पतरौ अहमित्याकारमालयविज्ञानमिन्द्रियादिजन्यं रूपादिविषयं च ज्ञानमेतद् द्वयं दण्डायमानं प्रवाहापन्नं विज्ञानस्कन्ध इत्यर्थः । वेदनास्कन्ध इति भाष्योपादानं या प्रियेत्यादि तद्व्याख्यानम् । सविकल्पकप्रत्यय इत्यनेन विज्ञानस्कन्धो निर्विकल्पक इति भेदः स्कन्धयोर्ध्वनितः । यथा च - द्वयणुकादयः स्कन्धाः (सर्व० सं० आह०) (न्या० को०) । स्तुतिः, स्तुति गुणाभिधानद्वारा स्वरूपप्रकाशनम् । यथा - "स्तुतिश्च गुणाभिधानेन स्वरूपप्रकाशनम् । यथा विशालवक्षाः क्षत्रिययुवेति" (ब्र० सू० १/१/४ वे० क० त०) । १ . (क) गुणवत्तया ख्यापनम् (चि० १ पृ० १०२) । यथा निर्विघ्नसमाप्तिकामो देवतास्तुतिमाचरेदित्यादौ ग्रन्थे स्तुतिशब्दार्थ: (चि० १ पृ० १००) (वै० सा० द० पृ० १ )। उत्कर्षवत्तया ज्ञानानुकूलः शब्दः इत्यर्थः । तेन व्यापारान्तरे तादृशि नातिप्रसङ्गः । अत्र ज्ञानपदेन आरोपितज्ञानं गृह्यते तेन तादृशि स्वरूपाख्याने नातिव्याप्तिः । भगवस्तुत्यादिषु तप्रयोगो भाक्तः (मू० म० मङ्ग० १ पृ० १०३१०४) । (ख) सर्वोत्कृष्टगुणवत्ताप्रतिपादकशब्दः (म० वा० पृ० १०) । (ग) आरोप्यमाणगुणकथनमिति प्रामाणिका आहुः । (घ) ज्ञानविशेषोपधायकः शब्दः इति नव्या आहुः (भू० म० मङ्ग० १/१०४) । २. (क) विधेः फलवादलक्षणा या प्रशंसा सा स्तुतिः । सम्प्रत्यार्थं स्तूयमानं श्रद्धधीत इति । प्रवर्तिका च । फलश्रवणाप्रवर्तते (वात्स्या० २।१।६४) । (ख) साक्षाद्विध्यर्थस्य प्रशंसार्थकं वाक्यम्, यथासर्वजिता वै देवाः सर्वमजयन् इति विधेः सर्वव्याप्त्यै सर्वस्य जित्यै सर्वमेवैते नाप्नोति सर्वं जयति इत्येवमादिवाक्यं स्तुतिः (गौ० वृ० २ । १ । ६४) । यथा वा अहरहः संध्यामुपासीत इति विधेः- संध्यामुपासते ये तु सततं संशितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् ॥ इत्याद्यर्थवादवाक्यं स्तुतिः । (ग) विधेयस्तावकं वाक्यम् । यथा वायव्यश्वेतमालभेत भूतिकामः इति विधेः वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति (तैत्तिरीयसंहिता २।१।१ ) (म० प्र० ४ पृ० ६४) इति इदं वाक्यं हि वायूद्देश्यकः श्वेतपशुकरणको यागः प्रशस्तः इति प्राशस्त्यबोधनेन विध्यर्थं स्तौति । तथा च विध्युद्देशेनैकवाक्यत्वादर्थवादः प्रमाणम् (शाब० भा० १।२।७) । (घ) गुणकथनपरमिदं वाक्यम् (जै० न्या० अ० ९ पा० २ अधि० ३) । ३. स्तोत्रम् । तच्च गुणकर्मादिभिः प्रशंसनम् (न्यायकोशः) । स्थाणुः, स्थाणु निष्पन्नः शुष्कवृक्षः स्थाणुः तद्वत् स्थिरो निश्चलो निष्कम्पः आत्मा, शिवश्च । यथा – "सर्वगतत्वात्स्थाणुः, स्थाणुरिव स्थिरः" (गी० २।२४ शा० भा० ) । यथा च – "यतः स्थाणुः पूर्वरूपापरित्यागेन स्थिरभाव:" (तत्रैव नी० क० ) । स्थानम्, स्थान परमं स्थानं परमं पदं मोक्षः । जीवस्य मुख्यं स्थानं ब्रह्म तदेव मोक्षः । यथा- "यत्साख्यैर्ज्ञाननिष्ठैः संन्यासिभिः प्राप्यते स्थानं मोक्षाख्यं तद्योगैरपि....." (गी० ५/५ शा० भा०) । यथा च - "सर्वोऽपि द्वैतप्रपञ्चो न वस्तुभूतो मायाविलासत्वादात्मात्वविक्रियोऽद्वितीयो वस्तु सन्निति प्रयोजकज्ञानं परमार्थज्ञानं तत्पूर्वकसन्यासद्वारेण कर्मभिरपि तदेव स्थानं प्राप्तमित्येकफलत्वं संन्यासकर्मयोगयोरविरुद्धमित्याह - तैरपीति (तत्रैव आ० गि०) । यथा च – "सांख्यैः ज्ञाननिष्ठैः संन्यासिभिरैहिककर्मानुष्ठानशून्यत्वेऽपि प्राग्भवीयकर्मभिरेव संस्कृतान्त:करणैः श्रवणादिपूर्विकया ज्ञाननिष्ठया यप्रसिद्धं स्थानं तिष्ठत्येवास्मिन्न तु कदापि च्यवत इति व्युत्पत्त्या मोक्षाख्यं प्राप्यते आवरणाभावमात्रेण लभ्यत इव (तत्रैव० म० सू०) । यथा च - "सांख्यैः ज्ञाननिष्ठैः संन्यासिभिः विशुद्धान्तः करणैर्यन्मोक्षाख्यं स्थानं च्युतिवर्जितं प्राप्यते तत्त्वसाक्षात्कारमात्रेण लभ्यत इति...." (तत्रैव भाष्यो०)। यथा च - "सांख्यैर्ज्ञाननिष्ठैः सन्यासिभि र्यत् स्थानं मोक्षाख्यं प्रकर्षेण साक्षादवाप्यते" (तत्रैव श्रीधरी) । स्थितधीः, स्थितधी स्थिरप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीद् व्रजेन्नु किम् । (गी० २।५४) अत्र यस्य बुद्धिः सुस्थिरा भवति स स्थितधीः । अयमेव स्थितप्रज्ञ इत्युच्यते । योगविशेष इति । आत्मानात्मज्ञानवान् । यथा – "स्थितधीः स्थितप्रज्ञः अर्थाद् व्युत्थितः सन् किं प्रभाषेत कथं वदति" (नी० क०) । यथा च - "स्थितधीः स्थितप्रज्ञः" (तत्रैव म० सू० ) । स्थितप्रज्ञः, स्थितप्रज्ञ आत्मानात्मज्ञानवान्, आत्मारामः, मुनिः । यथा - "आत्मानं जिज्ञासमानो वैराग्यद्वारा सर्वेषणात्यागात्मकं संन्यासमासाद्य श्रवणाद्यावृत्त्या तज्ज्ञानं प्राप्य तस्मिन्नेवासक्त्या विषयवैमुख्येन तत्फलभूतां परितुष्टिं तत्रैव प्रतिलभमानः स्थितप्रज्ञव्यपदेशभागित्यर्थ:" (गी० २।५५ आ० गि०) । यथा च - "स्थितप्रज्ञः स्थिता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य स विद्वान् तदोच्यते (तत्रैव भाष्यो०) । यथा च - "आत्मारामः सन् यदा क्षुद्रविषयाभिलाषास्त्यजति तदा तेन लक्षणेन मुनिः स्थितप्रज्ञ उच्यत इत्यर्थः (तत्रैव श्रीधरी) । यथा च - "स्थितप्रज्ञस्य का भाषा" (गी० २।५४) इत्यादिना स्थितप्रज्ञलक्षणान्याचक्षाणा विदुषः सर्वप्रवृत्यसम्बन्धं दर्शयति । तस्मान्नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वम् । नासाववगतब्रह्मात्मभाव इत्यनवद्यम् (ब्र० सू० १/१/४ शाव भा०) । यथा च" स्थितप्रज्ञः साधको न तु साक्षात्कारवान् इति मण्डनमिश्रैरुक्तं दूषणमुद्धरति स्थितप्रज्ञश्चेति (ब्र० सू० ४।१।१५ वे० क० त० ) । यथा च - "स्थितप्रज्ञश्च न साधकः, तस्योत्तरोत्तरध्यानोत्कर्षेण पूर्वप्रत्ययानवस्थितत्वात् । निरतिशयस्तु स्थितप्रज्ञः, सच सिद्ध एव ( ब्र० सू० ४/१/१५ भाम० ) । स्थिर:, स्थिर योगस्यैकावस्था । यत्र शरीरस्य मूलाधारादारभ्य शिरोग्रीवामूर्धपर्यन्तः शरीरभागो निश्चलो भवेद् योगी च दृढ़प्रयत्लो भवेत् । यथा - "स्थिर: दृढ़प्रयत्नो भूत्वा" (गी० ६।१३ म० सू०) । यथा च - "काय इति देहमध्यभागो विवक्षितः । कायश्च शिरश्च ग्रीवा च कायशिरोग्रीवं मूलाधारादारभ्य मूर्धाग्रपर्यन्तं सममवक्रं निश्चलं धारयन् स्थिरः । दृढ़प्रयत्नो भूत्वा" (तत्रैव श्रीधरी) । स्थूलप्रपञ्चोत्पत्तिः, स्थूलप्रपञ्चोत्पत्ति स्थूलप्रपञ्चस्तावत् पृथिव्यप्तेजोवाय्वाकाशाः । एतेषामुत्पत्तिक्रमः । यथा - अथ जगतो जन्मक्रमो निरूप्यते - तत्र सर्गाधकाले परमेश्वरः सृज्यमानप्रपञ्चवैचित्र्यहेतुप्राणिकर्मसहकृतोऽपरिमितानिरूपितशक्तिविशेषविशिष्टमायासहितः सन्नामरूपात्मकनिखिलप्रपञ्चं प्रथमं बुद्धावाकलय्येदं करिष्यामीति सङ्कल्पयति । तदैक्षत बहुस्यां प्रजायेय (तै० उ० २।६) । इत्यादिश्रुतेः । तत आकाशादीनि अपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यानि उत्पद्यन्ते । इमानि भूतानि त्रिगुणमायाकार्यरूपाणि । गुणाश्च सत्त्वरजस्तमांसि । एतैश्च सत्त्वगुणोपेतैः पञ्चभूतैर्व्यस्तैः पृथक् पृथक् क्रमेण श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि पञ्चज्ञानेन्द्रियाणि जायन्ते । एतेभ्यः पुनराकाशादिगतसात्त्विकांशेभ्यो मिलितेभ्यो मनोबुद्ध्यहंकारचित्तानि जायन्ते । श्रोत्रादीनां क्रमेण दिग्वातार्कवरुणाश्विनोऽधिष्ठातृदेवताः । मनआदीनां चतुर्णां क्रमेण चन्द्रचतुर्मुखशङ्कराच्युता अधिष्ठातृदेवताः । एतैरेव रजोगुणोपेतैः पञ्चभूतैर्वह्नीन्द्रोपेन्द्रमृत्युप्रजापतयोऽधिष्ठातृदेवताः । रजोगुणोपेतैः पञ्चभूतैरेव मिलितैः पञ्चवायवः प्राणापानव्यानोदानसमानाख्या जायन्ते । एवंतमोगुणयुक्तेभ्यः पञ्चीकृतभूतेभ्यो भूम्यन्तरिक्षस्वर्महर्जनस्तपःसत्यात्मकस्योर्द्ध्वलोकसप्तकस्य अतलवितलसुतलतलातलरसातलमहातलपातालाख्याधोलोकसप्तकस्य ब्रह्माण्डस्य जरायुजाण्डजस्वेदजोद्भिजाख्यचतुर्विधस्थूलशरीराणामुत्पत्तिः (वे० प० ७ १० ) । यथा च - तमःप्रधानविक्षेपशक्तिमदज्ञानोपहितचैतन्यादाकाशः आकाशाद्वायुः वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी चोत्पद्यते । तस्माद् वा एतस्मादात्मनः आकाशः सम्भूतः इत्यादिश्रुतेः । .. स्थूलभूतानि तु पञ्चीकृतानि, पञ्चीकरणं तु पञ्चीकृतेभ्यो भूतेभ्यो भूर्भुवः .....एवं पञ्चीकृतपञ्चभूतेभ्यः स्थूलप्रपञ्चोत्पत्तिः (वे० सा० ) । यथा च - "अत्रापि चतुर्विधसकलस्थूलशरीरमेकानेकबुद्धिविषयतया वनवज्जलाशयवद्वा समष्टिः, वृक्षवज्जलवद्वा व्यष्टिरपि भवति । एतत्समष्ट्युपहितं चैतन्यं वैश्वानरो विराडितिचोच्यते सर्वनराभिमानित्वाद् विविधं राजमानत्वाच्च (वे० सा०) । अतो विशदज्ञानार्थं सृष्टिशब्दो द्रष्टव्यः । स्थूलभुक्, स्थूलभुक् स्थूलं भुङ्क्त इति स्थूलभुक् वैश्वानरः । अवस्थाभेदेन आत्मनस्त्रीणि रूपाणि – वैश्वानरः जागरितस्थानः स्थूलभुक्, स्वप्नस्थानः प्रविविक्तभुक्, सुषुप्तिस्थानः आनन्दभुक् चेतोमुखः प्राज्ञः । यथा - जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः (मा० उ० ३ म०) । अत्र शाङ्करभाष्ये - स्थूलं भुङ्क्त इति स्थूलभुक् वैश्वानरः । यथा – "अथैकोनविंशतिमुखानि अस्य बुद्धीन्द्रियाणि कर्मेन्द्रियाणि च दश वायवश्च प्राणादयः पञ्च मनो बुद्धिरहङ्कारश्चित्तमिति मुखानीव मुखानि तान्युपलब्धिद्वाराणि इत्यर्थः । स एवंविशिष्टो वैश्वानरो यथोक्तैः द्वारैः शब्दादीन्स्थूलान् विषयान् भुङ्ग इति स्थूलभुक् । अत्रैते श्लोका भवन्ति - वहिष्प्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥ दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ विश्वो हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक्तथा प्राज्ञस्त्रिधा भोगं निबोधत । स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् । आनन्दश्च तथा प्राज्ञं त्रिधा तृप्ति निबोधत (मा० उ० का० १ १,२,३,४) । यथा च एवं स्थिते जागरणादिव्यवस्थोच्यते । इन्द्रियवृत्तिकालीनोऽर्थोपलम्भो जागरणम् । तत्र मूर्त्तं विराडाख्यं भोग्यं प्रत्यक्षादिप्रमाणषट्केन व्यवह्रियमाणत्वाद् व्यावहारिकं विश्वाख्येन जीवेनोपभुज्यते । स हि देहेन्द्रियादिषु प्रवेशाद् व्यापकत्वाद्वां विश्व इत्युच्यते । विश् प्रवेशने विष्लृ व्याप्तााविति- च स्मरणात् । अथ यद्यपि विश्वेन अमूर्त्तमव्याकृतं चानुमानादिनानुभूयते तथापि व्यावहारिकं सर्वं विश्वेनैव ज्ञायत इति नियमात् स्थूलशरीरोपाध्यभिमानित्वाच्च न तस्यावस्थान्तरव्यापकत्वम् (सि० बि० ८) । स्थूलशरीरम्, स्थूलशरीर पञ्चकर्मेन्द्रियैः पञ्चज्ञानेन्द्रियैः पञ्चप्राणैः मनोबुद्धिभ्यां पञ्चीकृतपृथिव्यप्तेजोवाय्वाकाशैर्युक्तं शरीरम् । भूम्याद्यतलादिचतुर्दशभुवनात्मकब्रह्माण्डे विवर्तमानं जरायुजाण्डजस्वेदजोद्भिजरूपं चतुर्विधम् । यथा - "एवं तमोगुणयुक्तेभ्यः पञ्चीकृतभूतेभ्यो भूम्यन्तरिक्षस्वर्महर्जनस्तपः सत्यात्मकस्योर्ध्वलोकसप्तकस्य अतलवितलसुतलतलातलरसातलमहातलपातालाख्याधोलोकसप्तकस्य ब्रह्माण्डस्य जरायुजाण्डजस्वेदजोद्भिज्जाख्यचतुर्विधस्थूलशरीराणामुत्पत्तिः" (वे०प० ७ प०) । अत्रापि चतुर्विधसकलस्थूलशरीरमेकानेकबुद्धिविषयतया वनवज्जलाशयवद्वा समष्टि-वृक्षवज्जलवद्वा व्यष्टिरपि भवति । एतत्समष्ट्युपहितं चैतन्यं वैश्वानरो विराडिति चोच्यते सर्वनराभिमानित्वाद् विविधं राजमानत्वाच्च । अस्यैषा समष्टिः स्थूलशरीरमन्नविकारत्वादन्नमयकोशः स्थूलभोगायतनत्वाच्च स्थूलशरीरं जाग्रदिति च व्यपदिश्यते । एतद्व्यष्ट्युपहितं चैतन्यं विश्व इत्युच्यते सूक्ष्मशरीराभिमानमपरित्यज्य स्थूलशरीरादिप्रविष्टत्वात् । अस्याप्येषा व्यष्टिः स्थूलशरीरमन्नविकारत्वादेव हेतोरन्नमयकोशो जाग्रदिति चोच्यते (वे० सा० ) । यथा च - " स्यात्पञ्चीकृतभूतोत्थो देहः स्थूलोऽन्नसंज्ञक: 1 लिङ्गे तु राजसैः प्राणैः प्राणः कर्मेन्द्रियैः सह" (प० द० १-३४)। स्पर्शः, स्पर्श रूपरसादिर्विषयः । यतो हि रूपरसशब्दादयः इन्द्रियैः स्पृश्यन्ते" । यथा च – "इन्द्रियैः स्पृशन्त इति स्पर्शाः शब्दादयः" (गी०२।१४ म० सू०) । यथा च - "ब्रह्मणि स्थितः स्पृशन्त इति स्पर्शाः शब्दादयो विषयाः तेष्वसक्तः प्रीतिवर्जितः आत्मान्तःकरणं यस्य स आत्मनिष्ठः त्वंपदलक्ष्यं यत्सुखं तद् विन्दते लभते"। (तत्रैव) स्फोट:, स्फोट स्फुटति अर्थोऽभिव्यज्यतेऽस्मादिति स्फोटः शब्दः । अयं च स्फोटोऽष्टविधः । अयमेव ब्रह्मेति शब्दाद्वैतवादिनः । वर्णा एव शब्द इति शाङ्करातिनः । यथा - "तस्मात् स्फोट एव शब्दः । स चैकैकवर्णप्रत्ययाहितसंस्कारबीजेऽन्त्यवर्णप्रत्ययजनितपरिपाके प्रत्ययिन्येकप्रत्ययविषयतया झटिति प्रत्यवभासते..... । तस्य च प्रत्युच्चारणे प्रत्यभिज्ञायमानत्वान्नित्यत्वम्, भेदप्रत्ययस्य वर्णविषयत्वात् । तस्मान्नित्याच्छब्दात् स्फोटरूपादभिधायकात् क्रियाकारकफललक्षणं जगदभिधेयभूतं प्रभवतीति । वर्णा एव तु शब्द इति भगवानुपवर्षः" (ब्र० सू०२।३।२८ शा० भा० ) । (भगवानुपवर्ष इति कथनेनात्रैव भगवत्पादस्य समादर: ) यथा च वर्णातिरिक्तो वर्णाभिव्यङ्गयोर्थप्रत्यायको नित्यः शब्दः (सर्व० सं० पृ० ३०० पाणि०) (तर्क० प्र० ख० पृ० १२६) । अत्र व्युत्पत्तिः स्फुट्यते व्यज्यते वर्णैः इति स्फोटः इति स्फुटत्यर्थोस्मादिति स्फोटः इति च यौगिकशब्दाभिधेयत्वं शब्दब्रह्मण: सूचयति (वै०भू० सा०. पृ० २१२) । स्फोटत्वं च स्फुटत्यभिव्यक्तीभवत्यर्थोऽस्मात् अनेन वा इति व्युत्पत्त्या अर्थप्रकाशकत्वम् । प्रकाशश्च ज्ञानम् । तथा च अर्थनिष्ठविषयताप्रयोजकशक्तिमत्त्वं पर्यवस्यति । वर्णस्यैव तत्त्वाभ्युपगमे वर्णस्फोटः पदादीनां तत्त्वाभ्युपगमे तु पदादिस्फोट इति व्यवहारः (वै० भू० सा० द० पृ० २१२) । स्फोटस्यावश्यकत्त्वमाह - पदानां वर्णसमूहरूपाणामाशुविनाशितयैकक्षणावस्थायित्वादप्रत्यक्षत्वं तावन्निरूढम् । तथा च पदाप्रत्यक्षे पदार्थस्मृतेः क्षिप्तमभागमक्रमवर्णं बौद्धमन्त्यवर्णप्रत्ययोपस्थापितं प्रतीयत इति । स्फोटश्च पूर्वपूर्ववर्णानुभवसहितचरमवर्णानुभवव्यङ्ग्यः । अत्र स्फोटस्याभिव्यक्तौ प्राकृतो ध्वनिः कारणम् । चिरचिरतरस्थितौ तु प्राकृतध्वनिजातवैकृतध्वनिः कारणमिति विवेको ज्ञेयः (वै० सि० ल० म० १ ) । स च शाब्दिकमत प्रसिद्धः । अत्र महाभाष्यम् - अथ गौरित्यत्र कः शब्दः ? येनोच्चारितेन सास्नालाङ्गूलककुखुरविषाणानां सम्प्रत्ययो भवति स शब्द उच्यत इति । तथा च भागवते (१२।६।४०)। स्फोटश्रवणस्यात्मलिङ्गत्वमुक्तम् - शृणोति य इमं स्फोटं सुप्ते श्रोत्रे च शून्यदृक् । येन वाग्व्यज्यते यस्य व्यक्तिराकाश आत्मनः ॥ (वै० सि० ल० मञ्जूषायाम्) इति । (न्या० को०) । शाब्दबोधहेतोः असम्भवः स्यात् । अतः स्फोटः कश्चनाङ्गीकर्तव्यः यतोऽर्थप्रत्ययः इति । अथ वा वर्णानां प्रत्युच्चारणमन्यथाप्रतीयमानतया अनित्यत्वेन आशुविनाशिनां च तेषां मेलनासम्भवेन तत्समुदायस्यापि सम्बन्धित्वाभावेन प्रत्येकं वर्णेषु वृत्तौ व्यभिचारेण च पूर्वपूर्ववर्णानुभवजन्यसंस्कारबीजवदन्त्यवर्णजनितपरिपाकशालिनि हृदये झटिति समुदीयमानस्य स्फोटरूपस्यैव नित्यतया तत्रैव नित्यसम्बन्धस्य योग्यतया वृत्तिमत्त्वमु चितमिति । तथा च योगसूत्रभाष्यकृद्व्यास आह- तदेतेषामर्थसङ्केतेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य एको बुद्धिनिर्भासस्तत्पदं वाचकं वाच्यस्य सङ्केत्यते तदेकं पदमेकबुद्धिविषयः अष्टौ स्फोष्मपक्षे । (अधिक तु० वै० सि० ल० म०स्फो० नि० प्रकरणं द्र०) । स्मार्तः, स्मार्त स्मृतिप्रोक्तो यज्ञयागादिः । यथा - "स्मार्तश्च देवयज्ञादि:" (गी० १६।१ शा० भा०) । यथा च - "स्मार्तो देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञ इति चतुर्विधः" (तत्रैव म० सू०) । यथा च - "यज्ञश्च श्रौतोऽग्निहोत्रादिः देवयज्ञः । स्मार्तश्च पितृयज्ञो भूतयज्ञो मनुष्ययज्ञश्चेति त्रिविधः" (तत्रैव भाष्यो०.) । स्मृतिः, स्मृति १. अनुमानतम् । यथा प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यत्यर्थः (ब्र० सू० ३।२।२४ शा० भा० ) । अत्र प्रत्यक्षं श्रुतिः अनुमानं स्मृति: २. अन्तःकरणस्य वृत्तिविशेषः । यथा - वृत्तिरूपज्ञानस्य मनोधर्मत्वे च कामः सङ्कल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिरधृतिर्धीभरित्येतत् सर्वं मन एव (बृ० उ० १ ।५।३) । इति श्रुतिर्मानम् । धीशब्देन वृत्तिरूपज्ञानाभिधानात् । अत एव कामादेरपि मनोधर्मत्वम् (वे० प० १ प०) । इत्यद्वैतवेदान्तिनः । २. बुद्धिः यथासंस्कारमात्रजन्यं ज्ञानम् (त० सं० ) । प्रत्यक्षबुद्धिनिरोधे तदनुसन्धानविषयः स्मृतिः (न्या० बा०) । इति वार्तिके उक्तम् । यथा मातुः स्मरति इत्यादौ स्मृधात्वर्थः । संस्कारमात्रजन्यमित्यस्य चक्षुराद्यजन्यत्वे सति संस्कारजन्यमित्यर्थः । मात्रपदोपादानेन प्रत्यभिज्ञायां नातिव्याप्तिः । प्रत्यभिज्ञायाश्चक्षुर्जन्यत्वात् (नील० १ पृ० १४) । इति । अत्र प्राञ्चो नैयायिकाः स्मृतिलक्षणे न मात्रपदमावश्यकम् । न च सोऽयं देवदत्तः इति प्रत्यभिज्ञायामतिव्याप्तिः इति वाच्यम् । तत्र संस्कारजनिता स्मृतिरेव हेतुः । न तु संस्कारोऽपि इत्यतिव्याप्तिविरहात् इत्याहुः (त० कौ० १ पृ० ६) । मध्वाचार्यानुयायिनस्तु स्मृतिः मनोजन्या न तु संस्कार- जन्या । संस्कारस्तु मनसस्तदर्थसन्निकर्षरूप एव । यथा योगीन्द्रियाणां योगजो धर्म इत्याहुः (प्र० प० पृ० ९ ) । स्मृतिश्च वैशेषिकनये बुद्ध्यन्तर्गतविद्याप्रभेदः (प्रशस्त० पृ० २५) । लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोः संयोगविशेषात् पट्वाभ्यासादरप्रत्ययजनिताच्च संस्कारात् दृष्टश्रुतानुभूतेष्वर्थेषु विशेषानुस्मरणेच्छाद्वेषहेतुः तदतीतविषया स्मृतिः (प्रशस्त० २ पृ० ३२) इति । अत्र पाठान्तरं विशेषानुव्यवसायेच्छानु-स्मरणद्वेषहेतुः (प्रशस्त० २ पृ० ४९-५०) इति । अत्र सूत्रम्- आत्ममनसोः संयोग-विशेषात् (प्रणिधानादिसन्निधानादसमवायिकारणात्) । संस्काराच्च स्मृतिः (वै०९।२६) । इति । अत्र स्मृतौ संयोगविशेषो समवायिकारणम् । संस्कारो निमित्त कारणम् । आत्मा समवायिकारणमिति विज्ञेयम् (वै० उ० ९ । १ ।६) (न्या० को०) । स्वतःप्रामाण्यम्, स्वतःप्रामाण्य अत्र प्रमाणशब्दः प्रमापरः, तेन प्रमाणानां प्रमाणां प्रामाण्यं प्रमात्वमित्यर्थः । प्रमीयते यत् तदिति भावार्थे ल्युट् । तेन प्रमाणं प्रमा इत्यर्थः । प्रमा च यथार्थानुभवः । स च तद्वति तत्प्रकारकज्ञानरूपः । अत्रेदं प्रमात्वं यथार्थानुभवत्वं स्वत उत्पद्यते ज्ञायते च अथवा परत उत्पद्यते ज्ञायते च । एवमेव अप्रमात्वमपि स्वत उत्पद्यते ज्ञायते च अथवा परत उत्पद्यते ज्ञायते च । इदमेव कथ्यते स्वतः प्रामाण्यं परतो वा प्रमाण्यम्, स्वतः अप्रामाण्यं परतो वा अप्रामाण्यम् । अत्र दार्शनिकानां मतभेदोऽस्ति । सांख्ययोगविदः प्रमाणत्वम् अप्रमाणत्वं चोभयं स्वत उत्पद्यते ज्ञायते चेति मन्यन्ते । नैयायिकवैशेषिकाः प्रामाण्यं परतः अप्रामाण्यं च स्वतः । अद्वैतवेदान्तिनः पूर्वमीमांसकाश्च प्रामाण्यं स्वत उत्पद्यते ज्ञायते च तथा अप्रामाण्यं परत उत्पद्यते ज्ञायते च । बौद्धानां मते प्रामाण्यं परतः अप्रामाण्यं च स्वतः । तार्किकरक्षाग्रन्थे समासत इदमित्थमुक्तम् – प्रमाणत्वाप्रमाणत्वे स्वतः सांख्याः समाश्रिताः । नैयायिकास्ते परतः सौगताश्चरमं स्वतः। प्रथमं परतः प्राहुः प्रामाण्यं वेदवादिनः । प्रमाणत्वं स्वतः प्राहुः परतश्चाप्रमाणताम् । यथा चोक्तमद्वैतवेदान्तिमतम् - एवमुक्तानां प्रमाणानां प्रामाण्यं स्वत एवोत्पद्यते ज्ञायते च । तथा हि स्मृत्यनुकूलसाधारणं संवादिप्रवृत्त्यनुकूलं तवति तत्प्रकारकज्ञानत्वं प्रामाण्यम् । तच्च ज्ञानसामान्यसामग्रीप्रयोज्यं न त्वधिकं गुणमपेक्षते प्रमामात्रेऽनुगतगुणाभावात् । नापि प्रत्यक्षप्रमायां भूयोऽवयवेन्द्रियसन्निकर्षः । रूपादिप्रत्यक्षे आत्मप्रत्यक्षे च तदभावात् । सत्यपि तस्मिन् पीतः शङ्खः इति प्रत्ययस्य भ्रमत्वाच्च । अत एव न सल्लिङ्गपरामर्शादिकमप्यनुमित्यादिप्रमायां गुणः असल्लिङ्गपरामर्शादिस्थलेऽपि विषयाबाधेन अनुमित्यादेः प्रमात्वात् । न चैवमप्रमापि प्रमा स्यात् ज्ञानसामान्यसामग्ग्रा अविशेषादिति वाच्यम् । दोषाभावस्यापि हेतुत्वाङ्गीकारात् । न चैवं परतस्त्वमिति वाच्यम् । आगन्तुकभावकारणापेक्षायामेव परतस्त्वात् । ज्ञायते च प्रामाण्यं स्वतः । स्वतो ग्राह्यत्वं च दोषाभावे सति यावत्स्वाश्रयग्राहकसामग्रीग्राह्यत्वम् । स्वाश्रयो वृत्तिज्ञानं तद्ग्राहकं साक्षिज्ञानं तेनापि वृत्तिज्ञाने गृह्यमाणे तद्गतं प्रामाण्यं गृह्यते । न चैवं त्रामाण्यसंशयानुपपत्तिः । तत्र संशयानुरोधेन दोषस्यापि सत्त्वेन दोषाभावघटितस्वाश्रयग्राहकाभावेन तत्र प्रामाण्यस्यैवाग्रहात् । यद् वा यावत् स्वाश्रयग्राह्यत्वयोग्यत्वं स्वतस्त्वम् । संशयस्थले प्रामाण्यस्योक्तयोग्यतासत्त्वेऽपि दोषवशेनाग्रहात् न संशयानुपपत्तिः । अप्रामाण्यं तु न ज्ञानसामान्यसामग्रीप्रयोज्यम् । प्रमायामप्यप्रामापत्तेः । किन्तु दोषप्रयोज्यम् । नाप्यप्रामाण्यं यावत्स्वाश्रयग्राहकग्राह्यम् । अप्रामाण्यघटकतदभाववत्त्वादेर्वृत्तिज्ञानानुपनीतत्वेन साक्षिणा ग्रहीतुमशक्यत्वात् । किन्तु विसंवादि प्रवृत्त्यादिलिङ्गकानुमित्यादिविषय इति परत एवाप्रामाण्यमुत्पद्यते ज्ञायते चेति (वे० प० ६ प०) ।' इतोधिकज्ञानार्थं तत्त्वप्रदीपिकाग्रन्थो द्रष्टव्यः । .....नैयायिकादीनां मते प्रामाण्यं परतः उत्पद्यते ज्ञायते च । यथोक्तम्ज्ञानानां तवति तत्प्रकारकत्वं स्वतो ग्राह्यं परतो वेति विचार्यते । तत्र विप्रतिपत्तिः । ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ञानग्राहकसामग्रीग्राह्यं न वा । अत्र विधिकोटिः स्वतस्त्वम् । निषेधकोटिः परतस्त्वम् । ननु स्वत एव प्रामाण्यं गृह्यते घटमहं जानामि इत्यनुव्यवसायेन घटघटत्वयोरिव तत्सम्बन्धस्यापि विषयीकरणात् व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वात् । पुरोवर्तिनि प्रकारतासम्बन्धस्यैव प्रमात्वपदार्थत्वादिति चेन्न । स्वतः प्रामाण्यग्रहें जलज्ञानं प्रमा न वा इत्यनभ्यासदशायां प्रमात्वसंशयो न स्यात् । अनुव्यवसायेन प्रामाण्यस्य निश्चितत्वात् । तस्मात् ग्राह्यत्वाभावात् परतो ग्राह्यत्वम् । तथाहि प्रथमं जलज्ञानान्तरं प्रवृत्तौ सत्यां जललाभे सति पूर्वोक्तं ज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वाद् यन्नैवं तन्नैवं यथा अप्रमा इति व्यतिरेकिणा प्रमात्वं निश्चीयते (त० स० दी० प्रा० वा० ) । यथा च "विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्तहेत्वजन्यत्वं प्रमाया: स्वतस्त्वम्" (सर्व० सं० पृ० २८३ जैमि०) । स्वतेजः, स्वतेज आत्मज्योतिः । यथा - "स्वतेजसा चैतन्यज्योतिषा इदं विश्वं विश्वरूपं तपन्तं प्रकाशयन्तम्" (गी० ११/१९ नी० क०) । स्वतो ग्राह्यत्वम्, स्वतस् ग्राह्यत्व प्रामाण्यं स्वतो ग्राह्यं परतो वेति पक्षद्वयम् । अत्र भावल्युडन्तः प्रमाणशब्दः प्रमावाची । तेन प्रामाण्यमर्थात् प्रमात्वं स्वतोग्राह्यमथवा परतो वेति । प्रमात्वं च ज्ञानानां तवति तत्प्रकारकत्वम् । एवम्भूतस्य प्रमात्वस्य ग्राह्यता अग्राह्यता च स्वतो जायते परतो वा जायत इति विचारः प्रामाण्यवादः । अत्र प्रमात्वं स्वतो ग्राह्यम् अप्रामाण्यं परत इति अद्वैतवेदान्तिनः । एतद् विपरीताः केचन नैयायिकादयः । एतदर्थं स्वतः प्रामाण्यम् इति शब्दो द्रष्टव्यः । स्वधर्मः, स्वधर्म स्वः आत्मा तस्य धर्मः आध्यात्यावगतिरूपः । यथा- "परेषामिन्द्रियाणां धर्मात् प्रावृत्तिकात् स्वनुष्ठितात् सुगमत्वेनानुष्ठातुं शक्यादपि स्वधर्म आत्मधर्म आध्यात्म्यावगतिरूपः विगुणः प्राकृतगुणवियुक्तः मुक्तिहेतुत्वात् प्रशस्यतरः" (गी०३।३५ भाष्यो०) । यथा च "सर्वथा मुक्तसङ्गस्य स्वधर्मचारिणो नास्ति कश्चित्पुण्यपापात्मको बन्धः । स्वधर्मो हि हृदयादनपायी स्वरसनिगूढ एव न तेन कश्चिदपि रिक्तो जन्तुर्जायत इत्यत्याज्य:" (तत्रैव अभिनवगुप्त टी०) । स्वपीतः, स्वपीत सु +अपि +इतः प्राप्तः स्वपीतः प्राप्तब्रह्मावस्थः ।तथा स्वम् आत्मानम् अपि इतः प्राप्तो भवति । सता ब्रह्मणा सम्पन्नः प्राप्तो भवतीति यावत् । यथा "यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपित्याचक्षत एवं ह्यपीतो भवति" (छा० ६।८।१ ) । " इति एषा श्रुतिः स्वपितीत्येतत्पुरुषस्य लोकप्रसिद्धं नाम निर्व्यक्ति" (ब्र० सू० १ ।१।९ शा० भा० ) । स्वप्नः, स्वप्न जागरितादिषु अवस्थासु एका अवस्था । यत्र इन्द्रियाणि शेरते । अन्तःकरणस्य तत्तद् विषयाकारावृत्तिर्भवति । यथा - "इन्द्रियाजन्यविषयगोचरापरोक्षान्तंःकरणवृत्त्यवस्था स्वप्नावस्था जाग्रदवस्थाव्यावृत्यर्थमिन्द्रियाजन्येति अविधावृत्तिमत्यां सुषुप्तौ अतिव्याप्तिवारणाय अन्तःकरणेति" (वे० प० ७ १०) । यथा च "प्रदेशविशेषावस्थितमनः संयोग:" (नील० गु० पृ० ३८) । मेध्यामनः संयोगो वा । यथा न कञ्चन स्वप्नं पश्यति (बृ० उ० ४ । ३ । १९ ) । इत्यादौ स्वप्नशब्दार्थः । यथा वा स्वप्नज्ञानं मानसविपर्ययः इत्यादौ ग्रन्थे स्वप्नशब्दार्थः । अत्र प्रदेशविशेषस्तु पुरी तद्वहिर्देशयोः सन्धिः । निरिन्द्रियात्मप्रदेशो वा चिन्त्यः (न्या० को०) । स्वप्नज्ञानम्, स्वप्नज्ञान (बुद्धिप्रभेदः अविद्या) । (क) जाग्रदवस्थायां बाह्यवस्त्वनुभवजन्यमयथार्थं स्मरणम् । तच्च निराकारमेव (त० भा० प्रमेय० नि० पृ० ४० ) । स्वप्ने च सर्वमेव ज्ञानं स्मरणमयथार्थम् । दोषवशेन तदितिस्थाने इदमित्युदयात् । सर्वं ज्ञानं निराकारमेव न तु ज्ञानं तत्तद्विषयाकारकम् । साकारज्ञानवादनिराकरणात् (त० भा० प्रमेय० नि० पृ० ४०) । तथा स्वप्न:- (वै०९।२।७) इति सूत्रे चेत्थमुक्तम्स्मृतौ यथा संस्कारः कारणं तथा स्वप्रसंज्ञकमानसज्ञानेडपि इत्याह तथा इति । तथा आत्ममनः संयोगविशेषात् पूर्वानुभवजनितसंस्काराच्च स्वप्नो मानसं ज्ञानं भवतीति । अत्र संयोगे विशेषो मेध्यामनःसंयोगात्मकदोषविशिष्टत्वम् । अत एव तदानीं भ्रम एव भवति । पूर्वानुभवश्चैहिको जन्मान्तरीयो वा (वै० वि० ९।२।७ पृ० ४०९) । अत्रेदं बोध्यम् । स्वप्नज्ञानं पुरी- तद्बहिर्देशयोः सन्धौ मनसि स्थिते अदृष्टविशेषेण चिन्ताविशेषेण धातुदोषेण वा जन्यते । तच्च मानसविपर्ययेऽन्तर्भवति (सि० च० पृ० ३४) (त० दी० गु० पृ० ३८) । इत्यन्यत्रोक्तम् । तत्र स्वप्नज्ञाने असमवायिकारणं स्वप्नः । धात्वदृष्टादिकं निमित्तकारणम् । आत्मा समवायिकारणमिति ज्ञेयम् । स्वप्नस्य स्मृतिरूपत्वमुक्तं प्रशस्तदेवाचार्यैः अतीतज्ञानप्रत्यवेक्षणात्स्मृतिरेव इति । उक्तं च वृत्तिकारैः अनुभूतवस्तुस्फुरणार्थतया न स्मरणादर्थान्तरं स्वप्नज्ञानम् (वै० उ० ९/२/८ पृ० ४११) इति । तेन यत्तु नीलकण्ठ्यां स्मृतिरूपत्वं स्वप्नज्ञानस्य खण्डितं तद्भाष्यादितात्पर्यानाकलनादेव इति मम भाति । (ख) निद्रा दुष्टान्तःकरणजं ज्ञानम् । (ग) मानसविपर्यय: (त० दी० गु० पृ० ३८) (सि० च०) । (घ) मिथ्याप्रत्ययप्रवाहः (न्या० ली० गु० पृ० ३१) । (ङ) सिद्धाभिभूतज्ञानम् (न्या० ली० गु० पृ० ५९) । (च) उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्येन्द्रियद्वारेण यदनुभवनं मानसं तत् स्वाप्नज्ञानमित्यमुत्पद्यते । यदा बुद्धिपूर्वादात्मनः शरीरारब्धव्यापरादहनि खिन्नानां प्राणिनां निशि विश्रान्त्यर्थमाहारपरिणामार्थं वा अदृष्टकारितप्रयत्नापेक्षात्मान्तःकरणसम्बन्धजन्यक्रियाप्रबन्धादतीतमन्तर्हृदये निरिन्द्रियात्मप्रदेशे निश्चलं मनस्तिष्ठति तदा प्रलीनमनस्क इत्याख्यायते । प्रलीने च तस्मिन्नुपरतेन्द्रियग्रामो भवति । तस्यामवस्थायां प्रबन्धेन प्राणापानसन्तानप्रवृत्तावात्मनः संयोगविशेषात्स्वापाख्यात् संस्काराच्चेन्द्रियद्वारेणेवासत्स्वपि विषयेषु प्रत्यक्षाकारं ज्ञानमुत्पद्यते (प्रशस्त० गु० पृ० २५) । अत्र च मानसं ज्ञानं ज्ञानलक्षणरूपालौकिकसन्निकर्षाद्भवति स्मरणं च संस्कारादिति विशेष: (वै० वि० ९/२/७)। स्वप्नस्थानः, स्वप्नस्थान विषयनिरपेक्षवासनाजन्यज्ञानवान् । स्वप्नः स्थानमस्य तैजसस्य स्वप्नस्थानः। जाग्रत्प्रज्ञाऽनेकसाधना बहिर्विषयेवावभासमाना मनः स्पन्दनमात्रा सती तथाभूतं संस्कारं मनस्याधत्ते । तन्मनस्तथा संस्कृतं विचित्रित इव पटो बाह्यसाधनानपेक्षाविद्याकामकर्मभिः प्रेर्यमाणं जाग्रवद् अवभासते (मा० उ० प्र० १।४।२ शा० भा० ) । स्वप्नान्तिकम्, स्वप्नान्तिक (बुद्धिप्रभेदः अविद्या ) । १. तत्कालोत्पन्नानुभवजनितसंस्कारजन्यं ज्ञानम् । तदर्थस्तु स्वप्नान्तिकं स्वप्नस्यान्ते भवम् । स्वप्नानुभवजसंस्कारजम् इति यावत् । इदं ज्ञानं स्वप्नावस्था जातानुभवजनितसंस्कारेण जायते । किं तु स्मृत्यात्मकं न मानसमिति विशेष: (वै० वि० ९।२।८) । तथा च स्वप्नान्तिकस्वप्नज्ञानयोरेतावान् विशेषः । स्वप्नज्ञानं पूर्वानुभवजनितात्संस्कारादुत्पद्यते । स्वप्नान्तिकं तु तत्कालोत्पन्नानुभवजनितसंस्कारादेव । तदुक्तं प्रशस्तदेवाचार्यैः अतीतज्ञानप्रत्यवेक्षणात् स्मृतिरेव (वै० उ०९।२।८) इति । अत्र सूत्रम् - स्वप्नान्तिकं यथात्ममनःसंयोगविशेषसंस्कारोद्भवजन्यम्, तथा स्वप्नान्तिकाख्यं ज्ञानमपि (वै० वि० ९/२१८) इति । ( न्या० को०) स्वप्रकाशः, स्वप्रकाश यथा- अथ कोऽयं स्वप्रकाशशब्दार्थः । किम् १. स्वश्चासौ प्रकाशश्च स्वप्रकाशः। २. स्वस्य स्वयमेव प्रकाश इति वा । ३. सजातीयप्रकाशाप्रकाश्यं वा । ४. स्वसत्तायां प्रकाशव्यतिरेकविरहितत्वं वा ।५. स्वव्यवहारहेतुप्रकाशत्वं वा । ६. ज्ञानाविषयत्वं वा । ७. ज्ञानाविषयत्वे सत्यपरोक्षत्वं वा । ८. व्यवहारविषयत्वे सति ज्ञानाविषयत्वं वा । ९. स्वप्रतिबद्धव्यवहारे सजातीयपरानपेक्षत्वं वा । १०. अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं वा । ११. तद्योग्यत्वं वा । नाद्यः वेद्यस्यापि ज्ञानस्य स्वप्रकाशाभ्युपगमात् । तदेव न स्वप्रकाशलक्षणं पश्यामः । नापि प्रमाणम् ।......अत्रोच्यते - अपरोक्षव्यवहृतेर्योग्यस्याधीपदस्य नः । सम्भवे स्वप्रकाशस्य लक्षणासम्भवः कुतः ॥ १ । न तावत् स्वयंप्रकाशे लक्षणासम्भवः । अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यतायास्तल्लक्षणत्वात् । अक्षमा भवतः केयं साधकत्वप्रकल्पने। किं न पश्यसि संसारं तत्रैवाज्ञानकल्पितम् ॥२। ...प्रमाणमपि अनुभूतिः स्वयंप्रकाशा अनुभूतित्वाद् यन्नैवं तन्नैवं यथा घट इत्यनुमानम् । तस्माद् विगलितसकलकलङ्कमनुभूतेः स्वप्रकाशत्वानुमानमिति सिद्धम् (त० प्र० स्वप्र० नि०) । स च जीवः स्वयंप्रकाशः । स्वप्नावस्थामधिकृत्य अत्रायं पुरुषः स्वयं ज्योतिः (बृ० उ० ४।३।८) इति श्रुतेः । अनुभवरूपश्च प्रज्ञानघन: ( मा० उ० ५) इत्यादि श्रुतेः । अनुभवामि इति व्यवहारस्तु वृत्तिप्रतिबिम्बितचैतन्यमादायोपपद्यते (वे० प० ७ प० ) । स्वप्रकाशत्वम्, स्वप्रकाशत्व यथा- एतेनात्मनोऽपि स्वप्रकाशत्वं व्याख्यातम् । तथाहि चिद्रूपत्वादकर्मत्वात् स्वयंज्योतिरिति श्रुतेः । आत्मनः स्वप्रकाशत्वं को निवारयितुं क्षमः ॥ ३ । आत्मा संविद्रूपः संवित्कर्मतामन्तरेणापरोक्षत्वात् संवेदनवदिति प्राभाकारं प्रत्यनुमानात् । घटतज्ज्ञानयोः सम्बन्धः आत्मनिष्ठः ज्ञाननिष्ठत्वात् पदविषयत्ववदिति नैयायिकादीन् प्रत्यनुमानाद् आत्मनश्चिद्रूपत्वसिद्धिः ।......अथायं पुरुषः स्वयं ज्योतिः इति श्रुतेश्चात्मा स्वप्रकाशः । .....तच्चात्मरूपम् अविद्यापरिकल्पितप्रपञ्चावभासकत्वाद् अविद्यातमोनिवर्तकत्वाच्च ज्योतिः शब्दाभिधेयम् । यथा भावरूपशार्वरादितमोनिवर्तनेन जगदवभासकमादित्यादिज्योतिरिति सिद्धम् (त० प्र० आ० स्व०) । यथा च - "ननु परिणममानाविद्याधिष्ठानत्वे नोपादानत्वं वाच्यम् अधिष्ठानं तु नावेद्यस्य, तद्वेदनार्थं प्रमाणापेक्षायामन्योन्याश्रयात् । न च स्वप्रकाशतदपेक्षमेवाधिष्ठांनत्वमिति वाच्यम्, स्वप्रकाशताया वक्तुमशक्यत्वात् । तथा हि किमिदं स्वप्रकाशत्वं वृत्त्यव्याप्यत्वं वा, फलाव्याप्यत्वं वा, अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं वा तद्योग्यत्वं वा, तद्योग्यत्वात्यन्ताभावानाधिकरणत्वं वा । (इत्यादि । ततः परम्)। ......इति चेत्, न पञ्चमपक्षस्यैव क्षोदसहत्वात् (अ० सि० ब्र० स्वप्न० ल०) । स्वभावः, स्वभाव स्वस्य = आत्मनो भावः सत्ता आध्यात्ममिति । यथा "स्वभावोऽध्यात्ममुच्यते आत्मानं देहमधिकृत्य प्रत्यगात्मतया प्रवृत्तं परमार्थंब्रह्मावसानं वस्तुस्वभावोऽध्यात्ममुच्यतेऽध्यात्मशब्देनाभिधीयते" (गी० ८।३ शा० भा० ) । यथा च – "स्वकीयो भावः स्वभावः श्रोत्रादिकरणग्राम: स चात्मनि देहेऽ हङ्कारप्रत्ययवेद्यो वर्तत इत्यमुं प्रतिभासं व्यावर्त्य स्वभावपदं गृह्णाति स्वभाव इति । एवं विग्रहपरिग्रहे स्वभावोऽध्यात्ममुच्यत इत्यस्यायमर्थो निष्पन्नो भवतीत्यनुवादपूर्वकं कथयति । स्वभाव इति तस्यैव परस्येत्यादिनोक्तं न विस्मर्त्तव्यमिति विशिनष्टि परमार्थेति" (तत्रैव भाष्यो०) । स्वयंज्योतिः, स्वयंज्योतिस् स्वप्रकाशः स्वसंवेद्यः । यथा - स्वयंज्योतिष्ट्वं नाम चैतन्यात्मस्वभावता (बृ० उ० ४ । ३ । २२ शा० भा० ) । विशदार्थज्ञानाय स्वप्रकाशशब्दो द्रष्टव्यः । स्वयम्भूः, स्वयम्भू यः सर्वं स्वयमेव भवति स ईश्वरः । यथा - "स्वयंभूः स्वयमेव भवतीति येषामुपरि भवति यश्वोपरि भवति स सर्वः स्वयमेव भवतीति स्वयम्भूः । स नित्यमुक्त ईश्वरो याथातथ्यतः व्यभजदित्यर्थ:" ( ई० उ० ८ शा० भा० ) । स्वरः, स्वर उद्गीथः सविता च । यथा - "उद्गीथाख्यमक्षरमोमित्येतदेष हि यस्मात् स्वरन्नुच्चारयन्ननेकार्थत्वाद् धातूनाम् । अथवा स्वरन् गच्छन्निति । अतोऽसावुद्गीथः सविता" (छा० उ० १ । ५ । १ शा० भा० ) । स्वरूपम्, स्वरूप स्वस्य आत्मनः रूपम् = ब्रह्मभावः । यथा - स्वस्वरूपावगतिर्मोक्षः । यथा च - १. स्वात्मकः पदार्थः । यथा घटस्वरूपं द्रव्यमित्यादौ स्वरूपशब्दस्यार्थः । काव्यज्ञास्तु २. स्वभावविशेषः (अमर० १ नाट्य० ३८) । ३. पण्डितः । ४. सुन्दरश्च इत्याहुः (अमरः २ ।३।१३१) (न्या० को०)। स्वरूपलक्षणम्, स्वरूपलक्षण लक्षणं द्विविधम् स्वरूपलक्षणं तटस्थलक्षणं च । यथास्वरूपलक्षणं तटस्थलक्षणं चेति । तत्र स्वरूपमेव लक्षणं स्वरूपलक्षणम्, यथा सत्यादिकं ब्रह्मस्वरूपलक्षणम् (वे० प० ७ प०) । यथा च - बहु स्यां प्रजायेय (तै० उ० २।६) । इति चात्मविशेषेण वहुभवनानुशंसनेन सृज्यमानानां विकाराणां स्रष्टुरभेदमभाषत । तथा इदं सर्वमसृजत यदिदं किञ्च (तै० उ० २।६) । इति समस्तजगत्सृष्टिनिर्देशेन प्राक्सृष्टेरद्वितीयं स्रष्टारमाचष्टे । तदत्र यल्लक्षणं ब्रह्म कारणत्वेन विज्ञातं तल्लक्षणमेवान्यत्रापि विज्ञायते - सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्, तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत (छा० उ० ६।२।१, ३) इति । तथा आत्मा वा इदमेक एवाग्र आसीन्नान्यत् किञ्चन मिषत् । स ईक्षत लोकान्नु सृजा इति (ऐ० उ० १।१।१, २) । इति एवंजातीयकस्य कारणस्वरूपनिरूपणपरस्य वाक्यजातस्य प्रतिवेदान्तमविगीतार्थत्वात् (ब्र० सू० १/४/१४ शा० भा०) । यथा च - "अतः प्रकृष्टप्रकाशवत्स-कलेतरव्यावृत्तलक्ष्यबोधनसमर्थं स्वरूपलक्षणमेवेह तटस्थलक्षणद्वारा सूत्रकृता निर्दिधारयिषितं, न तु तटस्थलक्षणमेव" (ब्र० सू० १/१/२ क० त० प०) । यथा च - "सत्यज्ञानं सत्यज्ञानादिना च स्वरूपलक्षणेन विशेषतो विनिश्चितं नमस्कारच्छलेन" (तै० उ० मंगलाच० २ शा० भा०. आ० टी०) । स्वर्गः, स्वर्ग १. मोक्षः । यथा - "तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित उर्ध्वं विमुक्ताः" (बृ० उ० ४।४।८) । ब्रह्मविद्याफलं मोक्षं स्वर्गं लोकं स्वर्गलोकशब्दस्त्रिविष्टपवाच्यपि सन्निह प्रकरणान्मोक्षाभिधायकः (तत्रैव शा० भा० ) । २. वैराजः । यथा - मोदते स्वर्गलोके वैराजे विरांडात्मस्वरूपप्रतिपत्या" (का० उ० १।१८ शा० भा०)। स्वर्गः, स्वर्ग १ (क) सुखविशेष: (मु० ग०) । यथा यागात्स्वर्गो भवतीत्यादौ स्वर्गशब्दस्यार्थः । यथा वा यज्ञैरिष्ट्रा स्वर्गतिं प्रार्थयन्त इत्यादौ स्वर्शब्दस्यार्थः । इदं च इच्छामात्रसाधनसाध्यं सुखमिति वदन्ति । अत्राम्नायते यत्र दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् (श्रुतिः) इति । अत्र दुःखसमानकालीने सुखे नातिव्याप्तिः । (ख) अधर्मानारब्धदेहावच्छेद्यसुखम् ( ५० च०) । २. पौराणिकास्तु देवानामावासस्थानं लोकविशेषः । तदुक्तं महाभारते उपरिष्टाच्च स्वर्लोको योऽयं स्वरिति संज्ञितः । उर्ध्वगः सत्पथः शश्वद्देवमात्रचरो मुने । नातप्ततपसः पुंसो न महायज्ञयाजिनः । नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गलाः (न्यायकोशः) । स्वातन्त्र्यम्, स्वातन्त्र्य ब्रह्मणोऽनेकासु शक्तिष्वेका नित्या शक्तिः स्वतन्त्रता । यथा सर्वोपेता च तदर्शनात् (ब्र० सू २।१।३०) । अत्र शा० भा० - सर्वशक्तियुता परा देवतेत्यभ्युफ्गन्तव्यम् । यया जगद् विवर्तते यया च प्रभुर्जगत् सृजत्यवति संहरति च । यथा - ईश्वरस्य षडङ्गानि पुराणोक्तानि - सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अचिन्त्यशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्येति । अव्ययानि वायुपुराणे पठ्यन्ते-ज्ञानं विरागमैश्वर्यं तपः सत्यं क्षमा धृतिः । स्रष्टृत्वमात्मसम्बोधो ह्यधिष्ठातृत्वमेव च । अव्ययानि दशैतानि नित्यं तिष्ठन्ति शङ्करे । इति (ब्र० सू० भामतीमङ्गलाच० व० क० त०) । त्रिकदर्शने (प्रत्यभिज्ञादर्शने) परमभट्टारकः शिवः स्वतन्त्रशक्त्यैव बिम्बं विना स्वभित्तौ जगत् प्रतिबिम्बयति जगप्रतिभासयति । यथा- स्वेच्छया स्वभित्तौ विश्वमुन्मीलयति (प्रत्यभिज्ञाहृदये सू० २) । यथा, च.- स्वातन्त्र्यमहिमैवायं देवस्य यंदसौ पुनः । स्वं रूपं परिशुद्धं सत् स्पृशत्यणुतामयः (तन्त्रालोके जि० ८/१०/१६३ ) । तत्र इच्छाज्ञानक्रियाभिः तिसृभिः शक्तिभिः समन्वितः परमेश्वरः स्वातन्त्र्यमयोऽस्ति । यथा प्रत्यभिज्ञाहृदयेचितिः स्वतन्त्रा विश्वसिद्धिहेतुः । स्वेच्छया स्वभित्तौ विश्वमुन्मीलयति । यथा चअविद्या अनिर्वाच्या वैचित्र्यं चाधत्त इति व्याहतम् । परमेश्वरी शक्तिरेव इयमिति हृदयावर्जकः क्रमः । तस्माद् अनपह्नवनीयः प्रकाशविमर्शात्मा संवित्स्वभावः परमशिव: भगवान् स्वातन्त्र्यादेव प्रकाशते इत्ययं स्वातन्त्र्यवादः प्रोन्मीलितः (प्रत्यभिज्ञाविवृतिविमर्शिन्याम्) । स्वाध्यायः, स्वाध्याय नियतस्वशाखीयवेदशास्त्रादीनां प्रतिदिनमध्ययनम् । इदं नित्यकर्म । यथा – "स्वाध्याय ऋग्वेदाद्यध्ययनमदृष्टार्थम्" (गी० १६/१ शा० भा०) । यथा च – "ब्रह्मयज्ञस्य स्वाध्यायेन पृथक्करणात्" (आ० गि०) । यथा च - "स्वाध्यायो वेदाध्ययनम्" (तत्रैव नी० क० ) । यथा च - "ब्रह्मयज्ञस्य स्वाध्यायपदेन पृथगुक्तेः । ......स्वाध्यायो ब्रह्मयज्ञः अदृष्टार्थमृग्वेदाद्यध्ययनरूपो यज्ञशब्देन पञ्चविधमहायज्ञोक्तिसम्भवेऽप्यसाधारण्येन ब्रह्मचारिधर्मत्वकथनार्थं पृथगुक्तिः (तत्रैव म० सू० ) । यथा च – "स्वाध्यायोऽदृष्टार्थे ऋग्वेदाद्यध्ययनं तदध्यापनं च ब्रह्मयज्ञः (तत्रैव भाष्यो०) । यथा च - "स्वाध्यायो ब्रह्मयज्ञादिर्जपयज्ञः" (तत्रैव श्रीधरी)। स्वापः, स्वाप सुषुप्तिः । एवं जाग्रत्स्वप्नभोगद्वयेन श्रान्तस्य जीवस्य तदुभयकारणकर्मक्षये ज्ञानशक्त्यवच्छिन्नस्य सवासनान्तःकरणस्य कारणात्मनावस्थाने सति विश्रामस्थानं सुषुप्त्यवस्था । न किञ्चिदवेदिषम् इति कारणमात्रोपालम्भः सुषुप्तिः । तत्र जाग्रत्स्वप्नभोग्यपदार्थज्ञानाभावेऽपि साक्ष्याकारं सुखाकारमवस्थाऽज्ञानाकारं चाविद्याया वृत्तित्रयमभ्युपेयते (सि० वि० ९) । सुषुप्तिः पुनः जाग्रत्स्वप्नसुषुप्तिभेदेन त्रिविधा । यथा – अथवा अवस्थात्रयस्यापि त्रैविध्याङ्गीकारात् सुषुप्तावपि दुःखमुत्पद्यते । तथाहि – प्रमाज्ञानं जाग्रज्जाग्रत् । शुक्तिरजतादिविभ्रमो जाग्रत्स्वप्नः । श्रमादिना स्तब्धीभावो जाग्रत्सुषुप्तिः । एवं स्वप्ने मन्त्रादिप्राप्तिः स्वप्नजाग्रत् । स्वप्नेऽपि स्वप्नो मया दृष्ट इति बुद्धिः स्वप्नस्वप्नः । जाग्रद्दशायां कथयितुं न शक्यते स्वप्नावस्थायां च यत् किंचिदनुभूयते तत्स्वप्नसुषुप्तिः । एवं सुषुप्त्यवस्थायामपि सात्विकी या सुखाकारावृत्तिः सुषुप्तिजाग्रत् । यदनन्तरं सुखमहमस्वाप्सम् इति सा सुषुप्तिस्वप्नः। एषा राजसीवृत्तिः । तदनन्तरं दुःखमहमस्वम्सम् । एषा तामसी वृत्तिः । सा सुषुप्तिसुषुप्तिः। यथा च स्वाप्ययात् ब्र० सू० १ । १ ।९ इति सूत्रे शाङ्करभाष्ये- यत्रैतत् पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेवं स्वपीतीत्याचक्षते एवं ह्यपीतो भवति – छा० उ० ६।८।१ - इति एषा श्रुतिः स्वपितीत्येतत्पुरुषस्य लोकप्रसिद्धं नाम निर्वक्ति । स्वशब्देनेहात्मोच्यते । यः प्रकृतः सच्छब्दार्थवाच्यस्तमपीतो भवत्यपि गतो भवतीत्यर्थः । अपिपूर्वस्येतेर्लयार्थत्वं प्रसिद्धम् । प्रभवाप्ययावित्युत्पत्तिप्रलययोः प्रयोगदर्शनात् । मन प्रचारोपाधिविशेषसम्बन्धादिन्द्रयान् गृह्णस्तदविशेषापन्नो जीवो जागर्ति । तवासनाविशिष्टः स्वप्नान् पश्यन् मनः शब्दवाच्यो भवति । स उपाधिद्वयोपरमे सुषुप्तावस्थायामुपाधिकृतविशेषाभावात् स्वात्मनि प्राचीन इवेति - स्वं ह्यपीतो भवति इत्युच्यते । विशदज्ञानार्थं सुषुप्तिशब्दो द्रष्टव्यः । स्वाप्नपदार्थप्रातिभासिकसृष्टिः, स्वाप्नपदार्थप्रातिभासिकसृष्टि यथा- ननु स्वप्नस्थले पूर्वानुभूतरथादेः स्मरणमात्रेणैव व्यवहारोपपत्तौ न रथादिसृष्टिकल्पनं गौरवादिति, चेत्, न । रथादेः स्मरणमात्राभ्युपगमे रथं पश्यामि स्वप्ने रथमद्राक्षमित्याद्यनुभवविरोधापत्तेः, 'अथ रथान् रथयोगान् पथःसृजते' (बृ० उ० ४।३।१०) इति रथादिसृष्टिप्रतिपादकश्रुतिविरोधापत्तेश्च। तस्माच्छुक्तिरूप्यवत् स्वप्नोलब्धरथादयोऽपि प्रातिभासिकाः यावत् प्रतिभासमवतिष्ठन्ते । नंनु स्वप्ने रथाद्यधिष्ठानतयोपलभ्यमान- देशविशेषस्यापि तदाऽसन्निकृष्टतयाऽनिर्वचनीयप्रातिभासिकदेशोऽभ्युपगन्तव्यः, तथा च रथाद्यध्यासः · कुत्रेति चेत्, न । चैतन्यस्य स्वयंप्रकाशस्य रथाद्यधिष्ठानत्वाप्रतीयमानं रथाद्यस्तीत्येव प्रतीयत इति सद्रूपेण प्रकाशमानं चैतन्यमेवाधिष्ठानम् । देशविशेषोऽपि चिदध्यस्तः प्रातिभासिकः । रथादाविन्द्रियग्राह्यत्वमपि प्रातिभासिकम्, तदा सर्वेन्द्रियाणामुपरमात् । 'अहं गजः' इत्यादिप्रतीत्यापादनन्तु पूर्ववन्निस्सनीयम् । स्वप्नगजादयः साक्षान्मायापरिणामा इति केचित् ।अन्तःकरणद्वारा तत्परिणामा इत्यन्ये । ननु गजादेःशुद्धचैतन्याध्यस्तत्वे इदानीमधिष्ठानसाक्षात्काराभावेन जागरणेऽपि स्वप्नोपलब्धगजादयोऽनुवर्तेरन् । उच्यते । कार्यविनाशो हि द्विविधः- कश्चिदुपादानेन सह, कश्चिद्विद्यमान एवोपादाने । आद्यो बाधः। द्वितीयस्तु निवृत्तिः । आद्यस्य कारणमधिष्ठानतत्त्वसाक्षात्कारः तेन विनोपादानभूताया अविद्याया अनिवृत्तेः । द्वितीये विरोधिवृत्त्युत्पत्तिर्दोषनिवृत्तिश्च । तदिह ब्रह्मसाक्षात्काराभावात् स्वप्नप्रपञ्चोमाबाधि । मुसलप्रहारेण घटादिरिव विरोधिप्रत्ययान्तरोदयेन स्वप्नजनकीभूतनिद्रादिदोषनाशेन वा गजादिनिवृत्तौ को विरोधः । एवं च शुक्तिरूप्यस्य शुक्त्यवच्छिन्नचैतन्यनिष्ठतूलाविद्याकार्यत्वपक्षे शुक्तिरिति ज्ञानेन तदज्ञानेन सह रजतस्य बाधः । मूलाविद्याकार्यत्वपक्षे तु मूलाविद्याया ब्रह्मतत्त्वसाक्षात्कारमात्रनिवर्त्यतया शुक्तित्वज्ञानेनाऽनिर्वर्त्यतया रजतस्य तत्र शुक्तिज्ञानान्निवृत्तिमात्रं, मुसलप्रहारेण घटस्येव । ननु शुक्तौ रजतस्य प्रतिभाससमये प्रातिभासिकत्त्वाभ्युपगमे नेदं रजतमिति त्रैकालिकनिषेधज्ञानं न स्यात्, किन्त्विदानीमिदं न रजतमिति इदानीं घटः श्यामो नेतिवदिति चेत्, न । न हि तत्र रजतत्वावच्छिनप्रतियोगिताको निषेधधीविषयः । किन्तु लौकिकपारमार्थिकत्वावच्छिन्नप्रातिमासिकरजतप्रतियोगिताकः व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावाभ्युपगमात् (वे० प० १ प०) । यथा च इदमामनन्ति – स यत्र प्रस्वपिति (बृ० उ० ४।३।९) । इत्युपक्रम्य न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजते ( बृ० उ० ४।३।१०) इत्यादि । तत्र संशयः - किं प्रवोध इव स्वप्नेऽपि पारमार्थिकी सृष्टिराहोस्वित् मायामयीति ।तत्र तावप्रतिपद्यते सन्ध्ये तथ्यरूपा सृष्टिरिति । सन्ध्यमिति स्वप्नस्थानमाचष्टे वेदे प्रयोगदर्शनात् । ...... नैतदस्ति यदुक्तं सन्ध्ये सृष्टिः पारमार्थिकीति । मायैव सन्ध्ये सृष्टिर्न तु परमार्थगन्धोऽप्यस्ति । कुतः । कार्येनानभि-व्यक्तस्वरूपत्वात् । न हि कार्येन परमार्थवस्तुधर्मेणाभिव्यक्तस्वरूपः स्वप्नः । किं पुनरत्र कार्यमभिप्रेतं देशकालनिमित्तसम्पत्तिरबाधश्च । न हि परमार्थवस्तु-विषयाणि देशकालनिमितान्यबाधश्च स्वप्ने सम्भाव्यन्ते । न तावत् स्वप्ने रथादीना-मुचितो देशः सम्भवति । न हि संवृते देहदेशे रथादयोऽवकाशं लभेरन् ।.....तदनन्यत्वमारम्भणशब्दादिभ्यः (ब्र० सू० २।१।१४)। इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम् । प्राक्तु ब्रह्मात्मत्वदर्शनाद् वियदादिप्रपञ्चो व्यवस्थितरूपो भवति सन्ध्याश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यत इति । अतो वैशेषिकमिदं सन्ध्यस्य मायामात्रत्वमुदितम् (ब्र० सू० ३/२/१, ३, ४ शा० भा० ) । स्वाप्ययः, स्वाप्यय स्वस्य आत्मनंः अपि अयः लयः । ब्रह्मणा सम्पन्नावस्था सुषुप्तिरिति । यथा - स्वाप्यय: सुषुप्तम् । स्वमपीतो भवति तस्मादेनं स्वपीतीत्याचक्षते - छा० ६।८।१ - इति श्रुतेः । (ब्र० सू० ४।४।१६ शा० भा० ) । स्वाभाविकम्, स्वाभाविक आरोपरहितम् । यथा - ज्ञानस्य सज्ञेयत्वं सज्ञातृत्वं च न स्वाभाविकम् । तथा हि - सज्ञेयत्वं तावत् ज्ञेयजन्यत्वं वा ज्ञेयव्याप्यत्वं वा । नाद्यः 'परोक्षज्ञाने ईश्वरज्ञाने चाभावात् । न वा द्वितीयः । यदाज्ञानं तदा अर्थ इति कालिकव्याप्तौ पूर्ववत् व्यभिचारात् । दैशिकव्याप्तिस्तु दूरनिरस्तैव (अ० सि० जडत्वहेतु०)। यथा च स्वाभाविकम्अनारोपितम् (तत्रैव गौ० ब्र०) । स्वेदजम्, स्वेदज चतुर्विधाः प्राणिनः = जरायुजाण्डजस्वेदजोद्भिज्जाः । तत्र स्वेदजः श्रमाद्युत्पन्नशरीरोदकाज्जातः । यथा - "अपि च चतुर्विधे भूतग्रामे जरायुजाण्डस्वेदभजःस्वेदजोद्भिज्जयोरन्तरेणैव ग्राम्यधर्ममुत्पत्तिदर्शनादाहुतिसंख्यानादरो भवति । एवमन्यत्रापि भविष्यति" (ब्र० सू० ३ । १ । २० शा० भा०) । यथा च - "आण्डजं जीवजमुद्भिज्जनम्" – छा० ६।३।१ - इत्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोपसंग्रहः कृतः प्रत्येतव्यः, उभयोरपि स्वेदजोद्भिज्जयोर्भूम्युदकोद्भेदप्रभवत्वस्य तुल्यत्वात् । स्थावरोद्भेदात्तु विलक्षणो जङ्गमोद्भेद इत्यन्यत्र स्वेदजोद्भिज्जयोर्भेदवाद इत्यविरोधः" (ब्र० सू० ३/१/२१ शा० भा० ) । यथा च - स्वेदजानि स्वेदाज्जातानि यूकामशकादीनि (वे० प० ७ १०) । हरिः, हरि १ . इन्द्रियम् । यथा हरयो हरणादिन्द्रियाणि (बृ० आ० उ० २/५/१९ शा० भा०) । २. विष्णु: ३. इन्द्रः । ४. सिंहः । ५. सूर्य इत्यादयोऽनेकेऽर्थाः । हर्षः, हर्ष स्वेष्टार्थलाभे उत्साहः । यथा- हर्षामर्षभयोद्वेगैः हर्षश्चामर्षश्च भयं चोद्वेगश्च तैर्हर्षामर्षभयोवेगैर्मुक्तः । हर्षः प्रियलाभेऽन्तःकरणस्योल्लासो रोमाञ्चनाश्रुपातादि।लेङ्गः (गी० १२/१५ शा० भा० ) । यथा च - किं च हर्षः स्वस्य प्रियलाभे रोमाञ्चनाश्रुपातादिहेतुरानन्दाभिव्यञ्जकश्चित्तवृत्तिविशेषः (तत्रैव म० सू०) । यथा च - 'प्रियलाभेऽन्तःकरणस्योत्कर्षो रोमाञ्चनाश्रुपातादिलिङ्गो हर्षः' (तत्रैव भाष्यो०) । यथा च - तत्र हर्षः स्वेष्टार्थलाभे उत्साहः (तत्रैव श्रीधरी) । यथा च अत एव हर्ष इष्टलाभे सति मनस उत्फुल्लता (तत्रैव नी० क० ) । हंसः, हंस सूर्यः । यथा - हन्ति गच्छतीति हंसः (का० उ० ५।२ शा० भा०) । यथा च – असौ वादित्यो हंसः शुचिषत् इति ब्राह्मणेनादित्यो मन्त्रार्थतया व्याख्यातः (तत्रैव आ० गि०) । हंसः पक्षिविशेषे, संन्यासिभेदे च । हार्दविद्या, हार्दविद्या हृदयविद्या, दहरविद्या । उपनित्सु प्राणविद्याभूमविद्याप्रभृतय अनेका विद्याः सन्ति । यत्र ब्रह्मविचारो वर्तते तास्वन्यतमेयम् । यथा - अस्ति हार्दविद्या – अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म - छा० उ० ८1१19 इत्युपक्रम्य विहिता । तत्प्रक्रियायाम्- 'अथ या एता हृदयस्य नाड्यः' - छा० उ० ८।६।१ – । इत्युपक्रम्य ..... 'तस्माच्छताधिकया नाड्या निष्कामन् रश्म्यनुसारी निष्क्राति' (ब्र० सू० ४।२।१८ शा० भा०) । यथा च - 'शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ख्या उत्क्रमणे भवन्ति' (छा० उ० ८।६।६) । हिरण्यमयम्, हिरण्यमय सुवर्णवज्ज्योतिर्मयम् (ब्रह्म) यथा- 'हिरण्मयमिव हिरण्यम ज्योतिर्मयमित्येतत्' (ई० उ० १५ शा० भा०)। हिरण्यगर्भः, हिरण्यगर्भ १ . जीवसमष्ट्यभिमानी । २. सूत्रात्मा । ३. प्राणाश्च । यथा एतत्समष्ट्युपहितं चैतन्यं सूत्रात्मा हिरण्यगर्भः प्राणश्चेत्युच्यते सर्वत्रानुस्यूतत्वाज्ज्ञानेच्छक्रियाशक्तिमदुपहितत्वाच्च (वे० सा०) । यथा च - समष्टिसूक्ष्मशरीराभिमानी हिरण्यगर्भः (ब्र० सू० ४ । ३ । ३ शा० भा०) । यथा च - एकत्वं नानात्वं च हिरण्यगर्भस्य तथा सर्वजीवानाम् । तत्त्वमसि (छा० उ० ६/८/१६) इति श्रुतेः । हिरण्यगर्भस्तु उपाधिशुद्ध्यतिशयापेक्षय़ा प्रायशः पर एवेति श्रुतिस्मृतिवादाः प्रवृत्ताः । जीवानां तु उपाधिगताशुद्धिबाहुल्यात् संसारित्वमेव प्रायशोऽभिलप्यते । व्यावृत्तकृत्स्नोपाधिभेदापेक्षया तु सर्वः परत्वेनाभिधीयते श्रुतिस्मृतिवादैः (बृ० आ० उ० १।४।६ शा० भा० ) । यथा च - प्राज्ञस्तत्राभिमानेन तैजसत्वं प्रपद्यते । हिरण्यगर्भतामीशस्तयोर्व्यष्टिसमष्टिता (प० द० १.२४) । ईश: विशुद्धसत्त्वप्रधानमायोपाधिः परमेश्वरस्तत्र शरीरे अहमित्यभिमानेन हिरण्यगर्भतां हिरण्यगर्भसंज्ञकत्वं प्रपद्यत इत्यनुषङ्गः (तत्रैव रा० कृ० टी०) । यथा च - तस्मादव्याकृताद् व्याचिकिर्षितादन्नात् प्राणो हिरण्यगर्भः (ब्र० सू० १/१/५ भाम० ) । यथा च - जीवानां हि सर्वेषां करणपरिवृतानां सर्वकरणात्मनि हिरण्यगर्भे ब्रह्मलोकनिवासिनि संघातोपपत्तेर्भवति ब्रह्मलोके जीवघन: ( ब्र० सू० १।३।१३ शा० भा० ) । यथा च स हि सर्वकरणात्मनः सूत्रात्मनो हिरण्यगर्भस्य भगवतो निवासभूमितया करणप्रवृत्तानां जीवानां संघात इति भवति जीवघनः (तत्रैव भाम०) । यथा च - हे सत्यकाम परं निर्विशेषमपरं हिरण्यगर्भाख्यं च यद् ब्रह्म तदेतदेव (तत्रैव वे० क० त० ) । ४. वैश्वानरः । यथा - तैरण्डस्तत्र भुवनं भोग्यभोगाश्रयोद्भवः । हिरण्यगर्भः स्थूलेऽस्मिन् देहे वैश्वानरो भवेत् ( प० द० २।२८) ।५. प्रथमो जीवः । यथा च - हिरण्यगर्भादिद्वारा हन्ताहमिमास्तिस्रो देवताः अनेन जीवात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि - छा० उ० ६।३।२श्रुतेः । हिरण्यगर्भो नाम मूर्त्तित्रयादन्यः प्रथमो जीवः । स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ हिरण्यगर्भः समवर्तताग्रे भूतस्य (यजुः १३/४ ऋ० वे० १०/१२०/१) (वे० प० ७ प०) । हृदयम्, हृदय अन्तःकरणस्य स्थानम् । यथा - तत्र बुद्धेरन्तःकरणस्य हृदयं स्थानम् । तत्रस्थबुद्धितन्त्राणि चेतराणि बाह्यानि करणानि (बृ० आ० उ० २/१/१ शा० भा० ) । हृषीकेशः, हृषीकेश हृषीकाणामिन्द्रियाणामीशः इन्द्रियनियामकः यथा - केशिनिषूदन केशिनामा कश्चिदसुरस्तं निषूदितवान् वासुदेवस्तेन तन्नाम्ना सम्बोध्यतेऽर्जनेन (गी० १८/१ शा० भा०) । हे हृषिकेश हे केशिनिषूदनेति (तत्रैव नी० क०) महाबाहो केशिनिषूदनेति बाह्योपद्रवनिवारणरूपयोग्यता फलोपधाने प्रदर्शिते (तत्रैव म० सू०) । यथा च - सर्वेन्द्रियनियन्तुरन्तर्यामिणः सर्वस्य मदभिप्रायानुसारेणैतत् कथनं सुकरमिति द्योतयन्नाह - हृषीकेशेति । स्वजनसुखार्थं केश्यादिदुष्टनिषूदनस्य तव स्वभक्तस्य ममाप्यज्ञाननिषूदनं युक्तमेवेति सूचयन् सम्बोधयति केशिनिषूदनेति (तत्रैवं भाष्यो०) । यथा च भो हृषिकेश सर्वेन्द्रियनियामक हे केशिनिषूदन केशिनाम्नो हि महतो हयाकृतेर्दैत्यस्य युद्धे मुखं व्यादाय भक्षयितुमागच्छतो व्यात्ते मुखे वामबाहुं प्रवेश्य तत्क्षणमेव विवृद्धेन तेनैव बाहुना कर्कटिकाफलवत् तं विदार्य निषूदितवान् । अत एव हे महाबाहो इति सम्बोधनम् (तत्रैव श्रीधरी) । हेतुः, हेतु करणविशेषः । हेतौ (२।३।२३) । इतिपाणिनीये सूत्रे यथा - द्रव्यादिसाधारणं निर्व्यापारसाधरणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च । यथा च – 'साधकतमं करणम्' (पाणिनिसू० १।४।४२) । १ . ज्ञापकः । यथा पर्वते धूमेन वह्निसाधने पर्वतो वह्निमान् धूमादित्यादौ धूमः । अयमेव लिङ्गशब्देन अनुमानशब्देनापि च व्यवह्रियतं इति बोध्यम् । अत्र सूत्रम्- हेतुरपदेशो लिङ्गं प्रमाणं करणमित्यनर्थान्तरम् (वै० सू० ९।२।४) । अत्र ज्ञापकं ज्ञानविषयत्वरूपं प्रयोजकत्वमेव हेतुत्वं ज्ञानज्ञाप्यत्वरूपं हेतुमत्त्वं वा तृतीयार्थ: (ग० व्यु० का० ३ पृ० ८७) । केचित्तु परामर्शीयप्रकारत्वं हेतुत्वमित्यङ्गीचक्रुः । स चायं हेतुर्द्विविधः सद्धेतुः असद्धेतुश्चेति । तत्राद्यः पर्वतादिपक्षकवन्यादि साध्यकस्थले धूमादिः । द्वितीयो हेत्वाभासः दुष्टहेतुः । अत्रेदं विज्ञेयम् । पक्षसत्त्वसपक्षसत्त्वविपक्षासत्त्वाबाधितविषयत्वासप्रतिपक्षत्वैतत्पञ्चरूपोपन्न एव हेतुः सद्धेतुर्भवति । क्वचिच्चतूरूपोपन्नोऽपि हेतुः सद्धेतुर्भवति । यथा इदं वाच्यं ज्ञेयत्वात् इत्यादौ ज्ञेयत्वं सद्धेतुः । क्वचित् त्रिरूपोपन्नोऽपि हेतुः सद्धेतुर्भवति । यथा प्रमेयमभिधेयत्वात् इत्यादावभिधेयत्वं सद्धेतुर्भवति (ल० व० २ पृ० २७) इति । (न्यायकोशः) । हेत्वाभासः, हेत्वाभास १. हेतोर्दोषः । (क) यस्य हि ज्ञानमनुमितिप्रतिबन्धकं सः (वि० २ बाध० पृ० ११६) । यत्र हेतोः हेतौ वा आभास इति व्युत्पत्त्या हेत्वाभासपदस्य हेतुदोष इत्यर्थः । हेत्वाभासत्त्वं च अनुमितिकरणीभूताभावप्रतियोगि- (अनुमिति प्रतिबन्धकम्) यथार्थज्ञानविषयत्वम् । अनुमितिप्रतिबन्धकीभूतयथार्थज्ञानविषयत्वम् इति समुदितार्थ: (त० दी० २) । यद्विषयकत्वेन (लिङ्ग) ज्ञानस्य अनुमितिविरोधित्वं तत्त्वमिति वा । अत्रेदमधिकं विज्ञेयम् । गदाधर्यां द्वितीयहेत्वाभासलक्षणे ह्रदो वह्नि मान् धूमात् इत्यादौ प्रमेयत्वविशिष्टबाधस्य (प्रमेयत्वविशिष्टवन्यभाववद्धदस्य) दोषानङ्गीकारादलक्ष्यतया तत्रातिव्याप्तिवारणाय लक्ष्यघटकयत्पदार्थे विशिष्टान्वराः घटितत्वविशेषणम् । तत्रैव · वन्यभाववज्जलादिमद्वृत्तिजलवध्रदादावतिव्याप्तिवारणाय यत्पदार्थे विशिष्टद्वयाघटितत्वविशेषणं च दत्तम् । तत्रैव जातित्वेन हृदत्वावगाहिजातिमान् वन्यभाववान् इत्यप्रतिबन्धकज्ञानमादायासम्भववारणाय लक्षणघटकज्ञानपदार्थे अव्यापकविषयिताशून्यत्वविशेषणमपि दत्तं गदाधरभट्टाचार्यै रिति इदं च बोध्यम् । वेदान्तिनस्त्वाहुः - हेत्वाभासः (हेतुदोषः) । उपपत्तिदोषः इत्युच्यते । उपपत्तिदोषो द्विविधः । १. विरोधः । २. असङ्गतिश्चेति । तत्र आद्यः जातिनिग्रह- स्थानहेत्वाभासेभ्य: सगृहीतः ( प्र० च० ) । स च विरोधस्त्रिविधःप्रतिज्ञाविरोधः, हेतुविरोधः दृष्टान्तविरोधश्च । तत्र प्रतिज्ञाविरोधो द्विविधःप्रमाणविरोधः स्ववचनविरोधश्च । तत्र प्रमाणविरोधोऽपि द्विविधः - प्रबलप्रमाणविरोधः समबल प्रमाणविरोधश्च । तत्र प्रबलप्रमाणविरोधस्योदाहरणं प्रपञ्चो मिथ्या दृश्यत्वात् । यद् दृश्यं तन् मिथ्या यथा शुक्तिरजतमिति । अत्र सन् घटः इत्यादिप्रत्यक्षेण विमतं सत्यम्अर्थक्रियाकारित्वात् सम्प्रत्तिपन्नवत् इत्याद्यनुमानेन विश्वं सत्यमित्यागमेन च जगतः सत्यत्वावधारणात् प्रबलप्रमाणविरोधो द्रष्टव्यः (प्र० च० पृ० २९ ) । अयं हेतुर्नैयायिकैः बाधित इत्युच्यते । समबलप्रमाणविरोधस्योदाहरणं तु विमतं मिथ्या दृश्यत्वात् शुक्तिरजतवत् विमतं सत्यं प्रामाणिकत्वात् आत्मवदिति । अत्रानुमानद्वये व्याप्तिपक्षधर्मतयोः साम्यात् समबलप्रमाणविरोधो ज्ञातव्यः (प्र० च० पृ० २८) । अयं च हेतुर्नैयायिकैः सप्रतिपक्षित इत्युच्यते । स्ववचनविरोधोऽपि द्विधाअपसिद्धान्तः जातिश्चेति (न्यायकोश:) । हलादः, हलाद १. आनन्दं ब्रह्म च.... ब्रह्मणः स्वरूपलक्षणञ्च । यथाविज्ञानमानन्दं ब्रह्म (बृ० उ० ३।९।२८) । 'आनन्दो ब्रह्मेति व्याजानात्' (तै० उ० ३।६) । आनन्दश्च निरतिशयं सुखम् । यथा - सुखं च द्विविधम् - सातिशयं निरतिशयं चेति । तत्र सातिशयं ! सुखं विषयानुषङ्गजनितान्तःकरणवृत्तितारतम्यकृतानन्दलेशाविर्भावविशेषः । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति (बृ० उ० ४ । ३ । २) । निरतिशयं सुखं च ब्रह्मैव (वे० प० ८ १० ) । इत्यद्वैतवेदान्तिनः । वल्लभवेदान्तिमते ब्रह्मणस्तिस्रः शक्तयः स्वरूपशक्तिः, तटस्थशक्तिः मायाशक्तिश्च । स्वरूपशक्तिस्त्रिधाभिव्यज्यते - सन्धिनी संवित् ह्लादिनी चेति । विष्णुपुराणे उक्तम्हलादिनी सन्धिनी संवित् त्वय्येका सर्वसंश्रये । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते (६।७।६२) । २. आनन्दविशेषः । यथा - यथा प्रह्लादनाच्चन्द्रः (रघु० ४।१२) । इत्यादौ ह्लादनशब्दार्थः । आलङ्कारिकास्तु चमत्कृतिः । यथा- चन्द्र इव मुखं लोकान् ह्लादयति इत्यादौ ह्ह्लादधात्वर्थश्चमत्कृतिः इत्याहुरिति ( न्या० को०)। ३. इन्द्रिये स्थूल आलम्बने चित्तस्य आभोग आनन्दः (पा० यो० सू० १/१७ तत्त्ववैशारद्याम्.....)। विश्वव्यापी विश्वशक्तिः पिनाकी विश्वेशानो विश्वकृद् विश्वमूर्त्तिः । विश्वज्ञाता विश्वसंहारकारी विश्वाराध्यो राधयत्वीहितं नः ॥ (न्या० वा० तात्पर्यटीकायामादौ श्रीवाचस्पतिमिश्रस्य) वह्नीषुखनेत्रमिते श्रीमद्वैक्रमवत्सरे । काश्यां वसन्तपञ्चम्यां ग्रन्थोऽयं पूर्णतामगात् ॥ १॥ सिवानमण्डलस्यान्त भटीविषयवासिनः। श्रीमुरलीधरस्येयं कृतिः स्याद् विदुषां मुदे ॥२॥ प्रसू रामरतिदेव्याः सूर्यनाथस्य शर्मणः । जनकस्याशिषा भूयात्कोशोऽयं सुभगोदयः ॥ ३ ॥ शाङ्कराद्वैतवेदान्तशब्दकोशनिरूपणात् । यदवाप्तं महत्पुण्यं तस्मिन् शिवाशिवेऽर्पये ॥४॥ ॥ इति शम् ॥ ---सुतम् मे गोपाय रत्ना ऑफसेट्स लिमिटेड, कमच्छा, वाराणसी फोन: 392820