<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<p>संहितोपनिषत्                                                                       75</p>
<lg>
  <l>28. अथनामरूपनिर्वोढृत्वमुखं ब्रह्मणोलक्ष्म ।</l>
</lg>
<lg>
  <l>प्रार्थनमन्त्रोवंशोऽपुनरावृत्यै च कर्तव्यम् ॥</l>
  <l>29. छान्दोग्योपनिषद इत्यष्टाध्याय्याः प्रमेयसंग्रहणम् ।</l>
  <l>श्रीरामशास्त्रिकलितं भगवत्पादांघ्रिपंकजेन्यस्तम् ॥</l>
  <l>॥ संहितोपनिषत् ॥</l>
</lg>
<p>संहितोपनिषदाख्यं सप्तमं ब्राह्मणमधिकृत्यविचार्यते ।
पंचखण्डात्मकमिदंब्राह्मणम् । सायणद्विजराजभट्टाभ्यां व्या-
ख्यातम् । संहिता, विछेदमन्तरा प्रयुज्यमाना, अथवा,
उपनयनादारभ्याजीवनं अभ्यसनीया । साच ऋक्संहिता, साम-
संहितेति द्विविधा । तस्या रहस्यविचारोऽत्र क्रियत इत्यतः
संहितोपनिषदिति नामास्यग्रंथस्य ॥
॥ प्रथमेखण्डे ॥
आर्चिकगानसंहितयोर्दैवासुरार्षभेदेन त्रैविध्यम् । एका-
न्ततोमन्द्रस्वरेण कैश्चिदप्यश्रूयमाणतया गानं दैवं, परोक्षं
स्वर्गसाधनम् । सर्वैरपि श्रूयमाणतया बहिरास्थायगानमासुरं
प्रत्यक्षं, पश्वादिदृष्टमात्रफलकम् । गृहे ब्रह्मयज्ञादौपरोक्षतया
बहिर्यागादौ प्रत्यक्षतयाचगानं परोक्षप्रत्यक्षमार्षं, ब्रह्मवर्च-
सफलम् । पारलौकिकफलोद्देशेनैव प्रयुज्यमानंदैवं, अन्नपानादि-</p>
</body>
</text>
</TEI>