संहितोपनिषत् 75 28. अथनामरूपनिर्वोढृत्वमुखं ब्रह्मणोलक्ष्म । प्रार्थनमन्त्रोवंशोऽपुनरावृत्यै च कर्तव्यम् ॥ 29. छान्दोग्योपनिषद इत्यष्टाध्याय्याः प्रमेयसंग्रहणम् । श्रीरामशास्त्रिकलितं भगवत्पादांघ्रिपंकजेन्यस्तम् ॥ ॥ संहितोपनिषत् ॥ संहितोपनिषदाख्यं सप्तमं ब्राह्मणमधिकृत्यविचार्यते । पंचखण्डात्मकमिदंब्राह्मणम् । सायणद्विजराजभट्टाभ्यां व्या- ख्यातम् । संहिता, विछेदमन्तरा प्रयुज्यमाना, अथवा, उपनयनादारभ्याजीवनं अभ्यसनीया । साच ऋक्संहिता, साम- संहितेति द्विविधा । तस्या रहस्यविचारोऽत्र क्रियत इत्यतः संहितोपनिषदिति नामास्यग्रंथस्य ॥ ॥ प्रथमेखण्डे ॥ आर्चिकगानसंहितयोर्दैवासुरार्षभेदेन त्रैविध्यम् । एकान्ततोमन्द्रस्वरेण कैश्चिदप्यश्रूयमाणतया गानं दैवं, परोक्षं स्वर्गसाधनम् । सर्वैरपि श्रूयमाणतया बहिरास्थायगानमासुरं प्रत्यक्षं, पश्वादिदृष्टमात्रफलकम् । गृहे ब्रह्मयज्ञादौपरोक्षतया बहिर्यागादौ प्रत्यक्षतयाचगानं परोक्षप्रत्यक्षमार्षं, ब्रह्मवर्चसफलम् । पारलौकिकफलोद्देशेनैव प्रयुज्यमानंदैवं, अन्नपानादि