२३ छन्दसां मात्रागणयतिभेदाः मन्त्राः छन्दोबद्धाः भवन्ति। केवलं यजुर्वेदं परित्यज्य संहितात्रयं छन्दोमयं भवति। अतः छन्दसां ज्ञानं विना वेदमन्त्राः साधु उच्चारयितुं न शक्यन्ते । अतः षट्सु वेदाङ्गेषु छन्दसः अन्तर्भावः भवति। वेदपुरुषस्य पादत्वेन छन्दसः कल्पना क्रियते । तथाहि प्रोक्तम् - "छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते" इति। शौनकविरचिते ऋक्प्रातिशाख्ये अन्तिमभागे छन्दसां पर्याप्तं विवेचनं विद्यते। अस्य छन्दःशास्त्रस्य पिङ्गलच्छन्दःसूत्रनामा ग्रन्थः प्रथितः विद्यते। केनचित् पिङ्गलाचार्येण ग्रन्थः अयं विरचितः। अत्र वैदिकानि लौकिकानि च छन्दांसि विवेचितानि सन्ति। छन्दःशास्त्रम् अत्यन्तं प्राचीनम्। यास्काचार्यविरचिते निरुक्तग्रन्थे ब्राह्मणग्रन्थे च छन्दःशब्दस्य बहुधा निर्वचनं प्रदर्शितम्। ऐतरेयारण्यके आम्नातम् "मानवान् पापकर्मभ्यः छादयन्ति छन्दांसि इति छन्दः" इति। तैत्तिरीयसंहितायाम् आम्नातम्- "देवा छन्दोभिरात्मानं छादयित्वा उपायन् प्रजापतिरग्निं चिनुत" इति। व्याकरणाचार्यस्य महर्षेः पाणिनेः मते तु छन्द्-धातोः छन्दःशब्दस्य व्युत्पत्तिः । प्रकृतपाठे अस्मिन् किञ्चित् छन्दोसम्बन्धिचर्चा प्रस्तूयते । प्रस्तावना उद्देश्यानि इमं पाठं पठित्वा भवन्तः भवत्यः वा→ अमुं पाठं पठित्वा भवान् छन्दसः सामान्यपरिचयं ज्ञातुं शक्नुयात्। छन्दसां लक्षणानि ज्ञातुं प्रभवेत् । छन्दसां वैशिष्ट्यानि वक्तुं शक्नुयात्। छन्दसः भेदान् ज्ञातुं शक्नुयात्। पद्यस्य लक्षणं ज्ञातुं शक्नुयात् । वृत्तस्य लक्षणं प्रभेदान् च ज्ञातुं प्रभवेत्। छन्दःशास्त्रस्य पारिभाषिकशब्दान् (गणान्, यतिं, दण्डकं च) ज्ञातुं शक्नुयात् । → गुरुस्वरस्य लक्षणादिकं ज्ञातुं प्रभवेत्। छन्दसा श्लोकं रचयितुं योग्यो भवेत् । श्लोकं वीक्ष्य किं छन्दः अस्ति इति ज्ञातुं प्रभवेत्। संस्कृतसाहित्यम् ५५