<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<pb n="2" />
<pb n="3" />
<pb n="4" />
<pb n="5" />
<pb n="6" />
<pb n="7" />
<pb n="8" />
<pb n="9" />
<pb n="10" />
<pb n="11" />
<pb n="12" />
<p>ॐ नमः परमात्मने ।
ऋग्भिः 'स्तुवन्ति यजुर्भिर्यजन्ति सामभिर्गायन्ति' इत्युक्तेर्यजनार्थकस्य यजुर्वेदस्य
पञ्चमोऽयमध्यायः 'रुद्राध्याय ' इत्युच्यते । चतुर्थेऽध्याये सर्वा इष्टकाचितय उक्ताः
। रुद्राध्यायसंज्ञकेऽस्मिन्पञ्चमेऽध्याये चित्यभौ होम उच्यते । अस्य च कर्मका-
ण्डे पाठात् कर्माङ्गत्वम् । तथा च श्रुतिः-
'रुद्रो वा एष यदभिः । स एतर्हि जातो या सर्वश्चितः ' स यथा
वत्सो जातः स्तनं प्रेप्सत्येवं वा एष एतर्हि भागधेयं प्रेप्सति ।
तस्मै यदाहुतिं न जुहुयादध्वर्युं च यजमानं च ध्यायेच्छतरु-
द्रीयं जुहोति भागधेयेनैवैनं शमयति । नार्तिमार्च्छत्यध्वर्युर्न यजमानः '
इति । स्मृतिरपि—</p>
<lg>
  <l>' चमकं नमकं चैव पौरुषं सूक्तमेव च ।</l>
  <l>नित्यं त्रयं प्रयुञ्जानो ब्रह्मलोके महीयते ' ॥</l>
</lg>
<p>इति । याज्ञवल्क्योऽपि—</p>
<lg>
  <l>' सुरापः स्वर्णहारी च रुद्रजापी जले स्थितः ।</l>
  <l>सहस्रशीर्षाजापी च मुच्यते सर्वकिल्बिषैः' ॥</l>
</lg>
<p>इत्यादिभिरस्य कर्माङ्गत्वं प्रसिद्धमेव भवति । जाबालोपनिषदि ज्ञानहेतुत्वमप्यस्यं
श्रूयते । तथा च ब्रह्मचारिभिः ' किं जप्येनामृतत्वमश्नुते!' इति पृष्टो याज्ञवल्क्य
आह 'शतरुद्रीयेण ' इति । ' एतानि ह वा अमृतस्य नामधेयानि भवन्ति
एतैर्ह वा अमृतो भवति' इति । कैवल्योपनिषदि — ' यः शतरुद्री यमधीते सोऽ-
मिपूतो भवति' इत्यादिभिः । स्मृतयोऽपि ।
' सततं रुद्रजाप्योऽसौ परां मुक्तिमवाप्स्यति' ॥
इत्यादयो बहुव्यः । एवं कर्माङ्गत्वज्ञानहेतुत्वाभ्यां विषयिभिर्मुमुक्षुभिश्वावश्य-
मादरणीयोऽयं रुद्राध्यायः । वर्तते चास्य सर्वत्र पठन-पाठनप्रचारो विशेषतया
दाक्षिणात्येषु । यद्यपि केवलं पाठमात्रेणाप्ययमिष्टफलदो भवत्येव तथापि —</p>
<lg>
  <l>' उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् ।</l>
  <l>उतो त्वस्मै तन्वं विससे जायेव पत्य उशती सुवासाः ' ॥</l>
</lg>
<p>इत्यादिषु वेदार्थाभिज्ञस्य प्रशंसोक्ते:-</p>
<lg>
  <l>'यद्गृहीतमविज्ञातं निगदेनैव शब्दयते ।</l>
  <l>अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ' ॥</l>
</lg>
<p>-
Digitized by
Google</p>
<pb n="13" />
<pb n="14" />
<pb n="15" />
<pb n="16" />
<pb n="17" />
<pb n="18" />
<pb n="19" />
<pb n="20" />
<p>॥ श्रीः ॥</p>
<lg>
  <l>॥ अथ रुद्राध्यायः ॥</l>
  <l>सायणाचार्य भट्टभास्कर भाष्यसहितः ।</l>
  <l>श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्रीगुरुभ्यो नमः ॥ श्रीमातापितृ-</l>
  <l>भ्यां नमः ॥ श्रीमद्भ्य एकादशरुद्रेभ्यो नमः ॥</l>
</lg>
<p>हरिः ॐ
सायणाचार्यकृत उपोद्घातः</p>
<lg>
  <l>यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।</l>
  <l>निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥</l>
</lg>
<lg>
  <l>इष्टकाचितयः सर्वाश्चतुर्थे हि समापिताः ।</l>
  <l>रुद्राध्याये पञ्चमे तु चित्यग्नौ होम उच्यते ॥ २॥</l>
</lg>
<lg>
  <l>कर्मप्रकरणे पाठात्कर्माङ्गत्वमपीष्यते ।</l>
  <l>ज्ञानहेतुत्वमप्यस्य तथोपनिषदीरितम् ॥ ३ ॥</l>
</lg>
<lg>
  <l>किं जप्येनाऽमृतत्वं नो ब्रूहीत्युक्तो मुनिर्जगौ ।</l>
  <l>शतरुद्रीयकेणेति जाबाला आमनन्ति हि ॥ ४ ॥</l>
</lg>
<lg>
  <l>स्मृत्यागमपुराणेषु रुद्राध्यायप्रशंसनम् ।</l>
  <l>बह्वस्ति तद्विस्तरेण रुद्रकल्पेऽभिधास्यते ॥ ५॥</l>
</lg>
<lg>
  <l>इह कर्माङ्गता यादृग्वर्णिता ब्राह्मणेन ताम् ।</l>
  <l>बोद्धुं शब्दार्थमात्रस्य विवृतिः क्रियते स्फुटा ॥ ६॥</l>
</lg>
<p>कल्पः । शतरुद्रीयं जुहोति जर्तिलयवाग्वा वा गवीधुकयवाग्वा वा जर्ति-
लैर्गवीधुकसक्तुभिः कुशयवसर्पिषाऽजाक्षीरेण मृगीक्षीरेण वाऽर्कपर्णेनोदङ्
तिष्ठन्नुत्तरस्य पक्षस उत्तरापरस्यां <flag>स</flag>क्त्यां विकर्ण्यां स्वयमातृण्णायामनुपरि-
चारं वा । नमस्ते रुद्र मन्यव इत्येताननुवाकांस्त्रैधं विभज्यापि वा प्रथमादुप-</p>
<pb n="21" />
<pb n="22" />
<pb n="23" />
<pb n="24" />
<p>[ न० प्र० अ० ]
रुद्राध्यायः ।
भिधानो बुभुजे। एवं स्वामिमतविविधवेषविग्रहपरिग्रहेण क्रीडतो देवदेवस्य
लीलायितमिदं विश्वं वर्तते । अतो वैश्वरूप्येण स्तुत्वा नमस्करोति । यथोक्तम् ।
"चरितानि विचित्राणि गुह्णानि गहनानि च । ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयो
ऽसि शर" इति ॥
च
॥ तत्र प्रथमानुवाके प्रथमामृचमाह ॥</p>
<lg>
  <l>नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑।</l>
  <l>नम॑स्ते अस्तु॒ धन्व॑ने ब॒हुभ्या॑मु॒त ते॒ नमः॑ इति ॥१॥</l>
</lg>
<p>नमः॑ ते रु॒द्रो॑ म॒न्यवे॑ उ॒तो॒इति॑ ते॒ इष॑वे॒ नमः॑ः । नम॑ ते॒ अ॒स्तु धन्व॑ने बा॒हुभ्यामिति॑ ब॒हुभ्याम् उ॒त ते॒ नमः॑ ॥ १ ॥
सा० भा० हे रुद्र ते त्वदीयो यो मन्युः कोपः तस्मै नमोऽस्तु । स मन्युरस्म-
द्वैरिष्वेव प्रसरतु नत्वस्मासु । उतो अपि च ते तव इषवे नमः त्वदीयाय बा-
णाय नमोऽस्तु । तथा ते धन्वने त्वदीयाय धनुषे नमोऽस्तु । उत अपि च ते
बाहुभ्यां त्वदीयाभ्यां धनुर्बाणोपेताभ्यां हस्ताभ्यां नमोऽस्तु । एतत् सर्व
वैरिष्वेव प्रवर्तताम् न तु मयीत्यभिप्रायः ॥ १॥
म० मा० भा० ॐ नमस्ते रुद्र मन्यव इत्यस्य कश्यप ऋषिः । रुद्रो देवता । अनु-
हुप्छन्दः । प्रत्यक्षकृता एतदादयः पञ्च मन्त्राः ॥ ॐ स्वाहा स्वधा वषण्णम इति-
पञ्च ब्रह्मणो नामानि । वामनःकायैराराध्याधीनात्मत्वसम्पादनं ब्रह्मत्वापरना-
मधेयं नमः शब्दार्थः । हे रुद्र तव स्वभूताय मन्यवे क्रोधाय नमोऽस्तु । अस्तित्व
तिवक्ष्यमाणमन्त्रादनुषज्यते । रोदयति सर्वमन्तकाले इति रुद्रः । रोदणिर्लुक्चेति
रक्प्रत्ययः । पौराणिकादयस्तु बहुधा वदन्ति । रुतौ नादान्ते द्रवति द्रावयतीति
वा रुद्र इति केचित् । पृषोदरादित्वाद्यथाभिमतप्रत्ययविकारार्थविशेषलाभः ।
रुत्या वेदरूपया धर्मादीनवलोकपति प्रापयतीति वा रुद्र इत्यन्ये । रुत्या
वाग्रूपया वाच्यं प्रापयतीति केचित् । रुत्या प्रणवरूपया स्वात्मानं प्रा-
पपतीति इतरे । रुद्रो रौतीति सत्ये रोरूयमाणो द्रवति प्रविशति मर्त्यानिति
रुद्र इत्यन्ये । यथा । "त्रिधा बद्धो वृषभो रोरवीति महोदेवो मर्त्या : आ
विवेशे"ति । अन्ये ब्रुवते । रुक्तेजः लुबकारेकाररेफाश्चेति । भूम्नि नित्ययोगे वा र
प्रत्ययः । वर्णव्यावृत्या रुद्रस्तेजस्वीति । यद्वा । रोधिका बन्धिका मोहिका वा
शक्तिस्तद्वांस्तस्या द्रावपिता वा भक्तेभ्यो रुद्रः । रुदं संसारदुःखं द्रावयती-
Digitized by
Google</p>
<pb n="25" />
<pb n="26" />
<pb n="27" />
<pb n="28" />
<pb n="29" />
<pb n="30" />
<pb n="31" />
<pb n="32" />
<pb n="33" />
<pb n="34" />
<pb n="35" />
<pb n="36" />
<pb n="37" />
<pb n="38" />
<pb n="39" />
<pb n="40" />
<pb n="41" />
<pb n="42" />
<pb n="43" />
<pb n="44" />
<pb n="45" />
<pb n="46" />
<pb n="47" />
<pb n="48" />
<pb n="49" />
<pb n="50" />
<pb n="51" />
<pb n="52" />
<pb n="53" />
<pb n="54" />
<pb n="55" />
<pb n="56" />
<pb n="57" />
<pb n="58" />
<pb n="59" />
<pb n="60" />
<pb n="61" />
<pb n="62" />
<pb n="63" />
<pb n="64" />
<pb n="65" />
<pb n="66" />
<pb n="67" />
<pb n="68" />
<pb n="69" />
<pb n="70" />
<pb n="71" />
<pb n="72" />
<pb n="73" />
<pb n="74" />
<pb n="75" />
<pb n="76" />
<pb n="77" />
<pb n="78" />
<pb n="79" />
<pb n="80" />
<pb n="81" />
<pb n="82" />
<pb n="83" />
<pb n="84" />
<pb n="85" />
<pb n="86" />
<pb n="87" />
<pb n="88" />
<pb n="89" />
<pb n="90" />
<pb n="91" />
<pb n="92" />
<pb n="93" />
<pb n="94" />
<pb n="95" />
<pb n="96" />
<pb n="97" />
<pb n="98" />
<pb n="99" />
<pb n="100" />
<pb n="101" />
<pb n="102" />
<pb n="103" />
<pb n="104" />
<pb n="105" />
<pb n="106" />
<pb n="107" />
<pb n="108" />
<pb n="109" />
<pb n="110" />
<pb n="111" />
<pb n="112" />
<pb n="113" />
<pb n="114" />
<pb n="115" />
<pb n="116" />
<pb n="117" />
<pb n="118" />
<pb n="119" />
<pb n="120" />
<pb n="121" />
<pb n="122" />
<pb n="123" />
<pb n="124" />
<pb n="125" />
<pb n="126" />
<pb n="127" />
<pb n="128" />
<pb n="129" />
<pb n="130" />
<pb n="131" />
<pb n="132" />
<pb n="133" />
<pb n="134" />
<pb n="135" />
<pb n="136" />
<pb n="137" />
<pb n="138" />
<pb n="139" />
<pb n="140" />
<pb n="141" />
<pb n="142" />
<pb n="143" />
<pb n="144" />
<pb n="145" />
<p>सायणाचार्य-भट्टभास्कर-भाष्यसहितः । [ च० म० अ० ]
॥ अथ चमकमाण्यमारम्भः ॥
श्रीगणेशाय नमः । यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । नि-
मेमे तमहं बन्दे विद्यातीर्थमहेश्वरम् । परिषेवनमुख्यास्तु संस्काराः षष्ठ ईरिताः ।
वसोर्धारादयः शिष्टाः प्रोच्यन्तेऽस्मिंस्तु सप्तमे । कल्पः। 'अग्नाविष्णू सजोषसे-' इति
चतुर्ग्रहीतं हुत्वौदुम्बरीं स्रुचं व्यायाममात्रीं मृदा प्रदिग्धां पश्चादासेचनवत वृत्त-
स्य पूरयित्वा 'वाजश्च मे प्रसवश्च-' मे इति सन्ततां वसोर्धारां जुहोत्यामश्रसमा-
पनादिति । अत्र झेकादशभिरनुवाकैर्मन्त्रः समाप्यते ॥</p>
<p>॥ चतुर्गृहीतहोममन्त्रपाठस्तु ॥</p>
<lg>
  <l>ॐ अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वा॒ गिरः ।</l>
  <l>द्यु॒म्नैर्वाजि॑भि॒राग॑तम् इति ॥ १ ॥</l>
</lg>
<p>जम् अग्नविष्णू इत्यग्ना॑ऽविष्णू सजोषसेतिं सऽजोष॑सा इ-
माः व॒र्द्धन्तु॒ वा॒म् गिर॑ः । यु॒म्नैः वाजे॑भिः ए॒ति॑ ग॒त॒म् ॥ १ ॥
सा० भा० हे अनाविष्णू युवां सजोषसा समानप्रीती भवतम् । वां युवयोरिमा
गिरः स्तुतिरूपा वाचः वर्धन्तु वृद्धिं प्राप्नुवन्तु । युवामपि चुन्नैः धनैः वाजेभि
रनैश्च युक्तौ आगतमिहागच्छतम् ॥ १ ॥
अथैकादशानुवाकात्मको मन्त्र उच्यते । अनुवाकभेदस्त्वयज्ञसंयुक्ते कर्मणि
पृथङ्मन्रत्वेनानुष्ठेयत्वादुपपद्यत इति ॥
तत्र प्रथमानुवाकपाठस्तु ॥
वाज॑श्च मे प्रस॒वश्च॑ मे प्रय॑तिश्च मे प्रसि॑ितिश्च मे धीति-
श्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रावश्च॑ मे श्रुति॑श्च मे
ज्योति॑श्च मे सु॒वः॑श्च मे प्राणश्च॑ मेऽपानश्च॑ मे व्या॒नश्च॒ मेऽ-
सु॑श्च मे चित्तं च॑ म आधीतं च मे वाक् च॑ मे मन॑श्च मे
चक्षु॑श्च मे॒ श्रोत्रं च मे॒ दक्ष॑श्च मे॒ बलं च म॒ जोज॑श्च मे॒ स-
ह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आत्मा च॑ मे तनूश्च॑ मे शर्मं च
Digitized by
Google</p>
<pb n="146" />
<pb n="147" />
<pb n="148" />
<pb n="149" />
<pb n="150" />
<pb n="151" />
<pb n="152" />
<pb n="153" />
<pb n="154" />
<pb n="155" />
<pb n="156" />
<pb n="157" />
<pb n="158" />
<pb n="159" />
<pb n="160" />
<pb n="161" />
<pb n="162" />
<pb n="163" />
<pb n="164" />
<pb n="165" />
<pb n="166" />
<pb n="167" />
<pb n="168" />
<pb n="169" />
<pb n="170" />
<pb n="171" />
<pb n="172" />
<pb n="173" />
<pb n="174" />
<pb n="175" />
<pb n="176" />
<pb n="177" />
<pb n="178" />
<pb n="179" />
<pb n="180" />
<pb n="181" />
<pb n="182" />
<pb n="183" />
<pb n="184" />
<pb n="185" />
</body>
</text>
</TEI>