ॐ नमः परमात्मने । ऋग्भिः 'स्तुवन्ति यजुर्भिर्यजन्ति सामभिर्गायन्ति' इत्युक्तेर्यजनार्थकस्य यजुर्वेदस्य पञ्चमोऽयमध्यायः 'रुद्राध्याय ' इत्युच्यते । चतुर्थेऽध्याये सर्वा इष्टकाचितय उक्ताः । रुद्राध्यायसंज्ञकेऽस्मिन्पञ्चमेऽध्याये चित्यभौ होम उच्यते । अस्य च कर्मकाण्डे पाठात् कर्माङ्गत्वम् । तथा च श्रुतिः 'रुद्रो वा एष यदभिः । स एतर्हि जातो या सर्वश्चितः ' स यथा वत्सो जातः स्तनं प्रेप्सत्येवं वा एष एतर्हि भागधेयं प्रेप्सति । तस्मै यदाहुतिं न जुहुयादध्वर्युं च यजमानं च ध्यायेच्छतरुद्रीयं जुहोति भागधेयेनैवैनं शमयति । नार्तिमार्च्छत्यध्वर्युर्न यजमानः ' इति । स्मृतिरपि— ' चमकं नमकं चैव पौरुषं सूक्तमेव च । नित्यं त्रयं प्रयुञ्जानो ब्रह्मलोके महीयते ' ॥ इति । याज्ञवल्क्योऽपि— ' सुरापः स्वर्णहारी च रुद्रजापी जले स्थितः । सहस्रशीर्षाजापी च मुच्यते सर्वकिल्बिषैः' ॥ इत्यादिभिरस्य कर्माङ्गत्वं प्रसिद्धमेव भवति । जाबालोपनिषदि ज्ञानहेतुत्वमप्यस्यं श्रूयते । तथा च ब्रह्मचारिभिः ' किं जप्येनामृतत्वमश्नुते!' इति पृष्टो याज्ञवल्क्य आह 'शतरुद्रीयेण ' इति । ' एतानि ह वा अमृतस्य नामधेयानि भवन्ति एतैर्ह वा अमृतो भवति' इति । कैवल्योपनिषदि — ' यः शतरुद्री यमधीते सोऽमिपूतो भवति' इत्यादिभिः । स्मृतयोऽपि । ' सततं रुद्रजाप्योऽसौ परां मुक्तिमवाप्स्यति' ॥ इत्यादयो बहुव्यः । एवं कर्माङ्गत्वज्ञानहेतुत्वाभ्यां विषयिभिर्मुमुक्षुभिश्वावश्यमादरणीयोऽयं रुद्राध्यायः । वर्तते चास्य सर्वत्र पठन-पाठनप्रचारो विशेषतया दाक्षिणात्येषु । यद्यपि केवलं पाठमात्रेणाप्ययमिष्टफलदो भवत्येव तथापि — ' उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वं विससे जायेव पत्य उशती सुवासाः ' ॥ इत्यादिषु वेदार्थाभिज्ञस्य प्रशंसोक्ते: 'यद्गृहीतमविज्ञातं निगदेनैव शब्दयते । अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ' ॥ Digitized by Google ॥ श्रीः ॥ ॥ अथ रुद्राध्यायः ॥ सायणाचार्य भट्टभास्कर भाष्यसहितः । श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्रीगुरुभ्यो नमः ॥ श्रीमातापितृ- भ्यां नमः ॥ श्रीमद्भ्य एकादशरुद्रेभ्यो नमः ॥ हरिः ॐ सायणाचार्यकृत उपोद्घातः यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥ इष्टकाचितयः सर्वाश्चतुर्थे हि समापिताः । रुद्राध्याये पञ्चमे तु चित्यग्नौ होम उच्यते ॥ २॥ कर्मप्रकरणे पाठात्कर्माङ्गत्वमपीष्यते । ज्ञानहेतुत्वमप्यस्य तथोपनिषदीरितम् ॥ ३ ॥ किं जप्येनाऽमृतत्वं नो ब्रूहीत्युक्तो मुनिर्जगौ । शतरुद्रीयकेणेति जाबाला आमनन्ति हि ॥ ४ ॥ स्मृत्यागमपुराणेषु रुद्राध्यायप्रशंसनम् । बह्वस्ति तद्विस्तरेण रुद्रकल्पेऽभिधास्यते ॥ ५॥ इह कर्माङ्गता यादृग्वर्णिता ब्राह्मणेन ताम् । बोद्धुं शब्दार्थमात्रस्य विवृतिः क्रियते स्फुटा ॥ ६॥ कल्पः । शतरुद्रीयं जुहोति जर्तिलयवाग्वा वा गवीधुकयवाग्वा वा जर्तिलैर्गवीधुकसक्तुभिः कुशयवसर्पिषाऽजाक्षीरेण मृगीक्षीरेण वाऽर्कपर्णेनोदङ् तिष्ठन्नुत्तरस्य पक्षस उत्तरापरस्यां क्त्यां विकर्ण्यां स्वयमातृण्णायामनुपरिचारं वा । नमस्ते रुद्र मन्यव इत्येताननुवाकांस्त्रैधं विभज्यापि वा प्रथमादुप[ न० प्र० अ० ] रुद्राध्यायः । भिधानो बुभुजे। एवं स्वामिमतविविधवेषविग्रहपरिग्रहेण क्रीडतो देवदेवस्य लीलायितमिदं विश्वं वर्तते । अतो वैश्वरूप्येण स्तुत्वा नमस्करोति । यथोक्तम् । "चरितानि विचित्राणि गुह्णानि गहनानि च । ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयो ऽसि शर" इति ॥ च ॥ तत्र प्रथमानुवाके प्रथमामृचमाह ॥ नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑। नम॑स्ते अस्तु॒ धन्व॑ने ब॒हुभ्या॑मु॒त ते॒ नमः॑ इति ॥१॥ नमः॑ ते रु॒द्रो॑ म॒न्यवे॑ उ॒तो॒इति॑ ते॒ इष॑वे॒ नमः॑ः । नम॑ ते॒ अ॒स्तु धन्व॑ने बा॒हुभ्यामिति॑ ब॒हुभ्याम् उ॒त ते॒ नमः॑ ॥ १ ॥ सा० भा० हे रुद्र ते त्वदीयो यो मन्युः कोपः तस्मै नमोऽस्तु । स मन्युरस्म- द्वैरिष्वेव प्रसरतु नत्वस्मासु । उतो अपि च ते तव इषवे नमः त्वदीयाय बा- णाय नमोऽस्तु । तथा ते धन्वने त्वदीयाय धनुषे नमोऽस्तु । उत अपि च ते बाहुभ्यां त्वदीयाभ्यां धनुर्बाणोपेताभ्यां हस्ताभ्यां नमोऽस्तु । एतत् सर्व वैरिष्वेव प्रवर्तताम् न तु मयीत्यभिप्रायः ॥ १॥ म० मा० भा० ॐ नमस्ते रुद्र मन्यव इत्यस्य कश्यप ऋषिः । रुद्रो देवता । अनुहुप्छन्दः । प्रत्यक्षकृता एतदादयः पञ्च मन्त्राः ॥ ॐ स्वाहा स्वधा वषण्णम इतिपञ्च ब्रह्मणो नामानि । वामनःकायैराराध्याधीनात्मत्वसम्पादनं ब्रह्मत्वापरनामधेयं नमः शब्दार्थः । हे रुद्र तव स्वभूताय मन्यवे क्रोधाय नमोऽस्तु । अस्तित्व तिवक्ष्यमाणमन्त्रादनुषज्यते । रोदयति सर्वमन्तकाले इति रुद्रः । रोदणिर्लुक्चेति रक्प्रत्ययः । पौराणिकादयस्तु बहुधा वदन्ति । रुतौ नादान्ते द्रवति द्रावयतीति वा रुद्र इति केचित् । पृषोदरादित्वाद्यथाभिमतप्रत्ययविकारार्थविशेषलाभः । रुत्या वेदरूपया धर्मादीनवलोकपति प्रापयतीति वा रुद्र इत्यन्ये । रुत्या वाग्रूपया वाच्यं प्रापयतीति केचित् । रुत्या प्रणवरूपया स्वात्मानं प्रापपतीति इतरे । रुद्रो रौतीति सत्ये रोरूयमाणो द्रवति प्रविशति मर्त्यानिति रुद्र इत्यन्ये । यथा । "त्रिधा बद्धो वृषभो रोरवीति महोदेवो मर्त्या : आ विवेशे"ति । अन्ये ब्रुवते । रुक्तेजः लुबकारेकाररेफाश्चेति । भूम्नि नित्ययोगे वा र प्रत्ययः । वर्णव्यावृत्या रुद्रस्तेजस्वीति । यद्वा । रोधिका बन्धिका मोहिका वा शक्तिस्तद्वांस्तस्या द्रावपिता वा भक्तेभ्यो रुद्रः । रुदं संसारदुःखं द्रावयतीDigitized by Google सायणाचार्य-भट्टभास्कर-भाष्यसहितः । [ च० म० अ० ] ॥ अथ चमकमाण्यमारम्भः ॥ श्रीगणेशाय नमः । यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । नि- मेमे तमहं बन्दे विद्यातीर्थमहेश्वरम् । परिषेवनमुख्यास्तु संस्काराः षष्ठ ईरिताः । वसोर्धारादयः शिष्टाः प्रोच्यन्तेऽस्मिंस्तु सप्तमे । कल्पः। 'अग्नाविष्णू सजोषसे-' इति चतुर्ग्रहीतं हुत्वौदुम्बरीं स्रुचं व्यायाममात्रीं मृदा प्रदिग्धां पश्चादासेचनवत वृत्त- स्य पूरयित्वा 'वाजश्च मे प्रसवश्च-' मे इति सन्ततां वसोर्धारां जुहोत्यामश्रसमा- पनादिति । अत्र झेकादशभिरनुवाकैर्मन्त्रः समाप्यते ॥ १२६ ॥ चतुर्गृहीतहोममन्त्रपाठस्तु ॥ ॐ अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वा॒ गिरः । द्यु॒म्नैर्वाजि॑भि॒राग॑तम् इति ॥ १ ॥ जम् अग्नविष्णू इत्यग्ना॑ऽविष्णू सजोषसेतिं सऽजोष॑सा इ- माः व॒र्द्धन्तु॒ वा॒म् गिर॑ः । यु॒म्नैः वाजे॑भिः ए॒ति॑ ग॒त॒म् ॥ १ ॥ सा० भा० हे अनाविष्णू युवां सजोषसा समानप्रीती भवतम् । वां युवयोरिमा गिरः स्तुतिरूपा वाचः वर्धन्तु वृद्धिं प्राप्नुवन्तु । युवामपि चुन्नैः धनैः वाजेभि रनैश्च युक्तौ आगतमिहागच्छतम् ॥ १ ॥ अथैकादशानुवाकात्मको मन्त्र उच्यते । अनुवाकभेदस्त्वयज्ञसंयुक्ते कर्मणि पृथङ्मन्रत्वेनानुष्ठेयत्वादुपपद्यत इति ॥ तत्र प्रथमानुवाकपाठस्तु ॥ वाज॑श्च मे प्रस॒वश्च॑ मे प्रय॑तिश्च मे प्रसि॑ितिश्च मे धीतिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रावश्च॑ मे श्रुति॑श्च मे ज्योति॑श्च मे सु॒वः॑श्च मे प्राणश्च॑ मेऽपानश्च॑ मे व्या॒नश्च॒ मेऽसु॑श्च मे चित्तं च॑ म आधीतं च मे वाक् च॑ मे मन॑श्च मे चक्षु॑श्च मे॒ श्रोत्रं च मे॒ दक्ष॑श्च मे॒ बलं च म॒ जोज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आत्मा च॑ मे तनूश्च॑ मे शर्मं च Digitized by Google