<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<p>ऋग्वेदः
[ अ. ८. अ. ४. व. १७</p>
<lg>
  <l>पु॒रूणि॒ हि त्वा॒ सव॑ना॒ जना॑नां॒ ब्रह्म॑णि॒ मन्द॑न् गृण॒तामृषी॒णाम् ।</l>
  <l>इ॒मामा॒घोष॒नव॑सा॒ सह॑तं ति॒रो विश्वा॒ अच॑तो याहा॒र्वाङ् ॥ १६ ॥</l>
</lg>
<p>पु॒रू॒णि॑। हि । त्वा॒ । सव॑ना । जना॑नाम् । ब्रह्म॑णि । मन्द॑न् । गृण॒ताम् । ऋषी॒णाम् ।
इ॒माम् । आ॒ऽघोष॑न् । अव॑सा । सऽहु॑तिम् । ति॒रः । विश्वा॑न् । अचे॑तः । या॒हि॒ । अ॒र्वाङ् ॥ १६ ॥
V
हे इन्द्र Vत्वा त्वां जनानां संबन्धीनि पुरूणि बहूनि सवना सवनानि ब्रह्माणि स्तोत्राणि
च मन्दन् स्तुवन्ति मोदयन्ति वा । गृणतां स्तुवताम्' ऋषीणाम् इमां सहूतिं स्तुतिं त्वम्
आघोषन् महती शोभना चेयं स्तुतिरिति वदन् अर्चतः स्तुवतोऽन्यान् विश्वान् सर्वानपि प्रतिरः
तिरस्कृत्य अवसा रक्षणेन सह अर्वाङ् अस्मदभिमुखं Vयाहि गच्छ' ॥</p>
<lg>
  <l>ए॒वा ते॑ व॒यमि॑न्द्र भुञ्जती॒ना॑ वि॒द्याम॑ सु॒मती॒नां नवा॑नाम् ।</l>
  <l>वि॒द्याम॒ वस्तो॒रव॑सा गुणन्तो॑ वि॒श्वामि॑त्रा उ॒त त॑ इन्द्र नूनम् ॥ १७ ॥</l>
</lg>
<p>ए॒व। तॆ। त्र॒यम् । इ॒न्द्र् । भु॒ञ्जतीनाम् । वि॒द्याम॑ । सु॒ऽम॒ती॒नाम् । नवा॑नाम् ।
वि॒द्याम॑ । वस्तो॑ । अत्र॑सा । गृ॒णन्त॑ः । वि॒श्वामि॑त्राः । उ॒त । ते॒ । इन्द्र॒ । नुनम् ॥ १७ ॥
।
हे Vइन्द्र Vते तवैव Vभुञ्जतीनां रक्षन्तीः प्रियाः Vवयं विश्वामित्रपुत्रा रेणवः विद्याम
लभेमहि । Vउत अपि च हे इन्द्र ते तव नवानां नूतनाः सुमतीनां सुमतीरनुग्रहबुद्धी: Vवस्तोः
अहनि अवसा रक्षणार्थं गृणन्तः नूनं त्वां स्तुवन्त एव विश्वामित्राः विश्वामित्रपुत्रा वयं
विद्याम लभेमहि ॥</p>
<lg>
  <l>शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन् भर॒ नृत॑म॒ वाज॑सातौ ।</l>
  <l>शृ॒ण्वन्तं॑मु॒ग्रमूतये॑ स॒मत्सु मन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥ १८ ॥</l>
</lg>
<p>शु॒नम् । हु॒वेम॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरै । नृऽत॑म॒म् । वाज॑ऽसा॒तौ ।
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑। स॒मत्ऽसु॑ । नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजत॑म् । धना॑नाम् ॥१८॥
।
अस्मिन्भरे संग्रामे Vशुनं वृद्धं मघवानं धनवन्तं शृण्वन्तम् अस्मदीयस्थाह्वानस्थ श्रोतारम्
Vउग्रम् उद्दूर्ण समस्सु संग्रामेषु वृत्राणि शत्रून् नन्तं मारयन्तं धनानां, शत्रुधनानां संजितं
सम्यगेत्र जेतारन् इन्द्रं वाजसातौ अनस्य लाभाय ऊतये रक्षणाय च हुवेम आह्वयेम ॥ ॥ १६ ॥
सहस्रशीर्पा ' इति षोडशचं पष्ठं सूक्तम् । नारयणो नामर्पिरन्त्या त्रिष्टुप् शिष्टा अनुष्टुभः ।
अव्यक्तमहदादिविलक्षणश्चेतनो यः पुरुषः 'पुरुषान परं किंचित् ' ( क. उ. ११ ) इत्यादिश्रुतिषु
प्रसिद्धः स देवतां । तथा चानुक्रान्तं - सहस्रशीर्षा पोळश नारायणः पौरुषमानुष्टुभं त्रिष्टुबन्तं तु '
इति । गतो विनियोगः ॥</p>
<lg>
  <l>स॒हस्र॑शीषो॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।</l>
  <l>स भूमि॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद्दशाङ्गुलम् ॥ १ ॥</l>
</lg>
<p>१, त१.२.३.६.७.८-भ- 'स्तुवतां' नास्ति । २. ग त४.५ - आगच्छ ।</p>
<pb n="2" />
<p>म. १०. अ. ७. सू. ९० ]
अष्टमोऽष्टकः
सहस्रंऽशीर्पा । पुरु॑षः । स॒हस्र॑ऽअ॒क्षः । स॒हस्र॑ऽपात् ।
सः । भूमि॑म् । वि॒श्वत॑ः । वृ॒त्वा । अति॑ । अ॒ति॑ष्ठ॒त् । दशऽअङ्गुलम् ॥ १ ॥
सर्वप्राणिसमष्टिरूपो ब्रह्माण्डदेहो विराडाख्यो यः पुरुष: ' सोऽयं सहस्रशीर्षा । सहस्रशब्द-
स्योपलक्षणस्वादनन्तैः शिरोभिर्युक्त इत्यर्थः । यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तदेहान्तःपा-
तित्वात्तदीयान्येवेति सहस्रशर्पित्वम् । एवं सहस्राक्षित्वं सहस्रपादत्वं च । सः पुरुषः भूमिं ब्रह्माण्ड-
गोलकरूपां विश्वतः सर्वतः Vवृत्वा परिवेष्टय दशाङ्गुलं दशाङ्गुलपरिमितं देशम् अत्यतिष्ठत्
अतिक्रम्य व्यवस्थितः । दशाङ्गुलमित्युपलक्षणम् । ब्रह्माण्डाद्वहिरपि सर्वतो व्याप्यावस्थित इत्यर्थः ॥</p>
<lg>
  <l>पुरु॑ष ए॒वेदं सर्वे॒ यद्भुतं यच्च॒ भव्य॑म् ।</l>
  <l>उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदने॑नाति॒रोह॑ति ॥ २ ॥</l>
</lg>
<p>पुरु॑षः । ए॒व । इ॒दम् । सर्व॑म् । यत् । भू॒तम् । यत् । च॒ । भव्य॑म् ।
उ॒त । अ॒भृत॒ऽत्वस्य॑ । ईशा॑नः । यत् । अन्नैन । अ॒ति॒ऽरोह॑ति ॥ २ ॥
।
V
यत् इदं वर्तमानं जगत् तत् सर्व पुरुष एव । यत् च भूतम् अतीतं जगत् ण्यश्च
भव्यं भविष्यज्जगत् तदपि पुरुष एव । यथास्मिन् कल्पे वर्तमानाः प्राणिः सर्वेऽपि विराट्-
पुरुषस्यावयवाः तथैवातीतागामिनोरपि कल्पयोर्दष्टव्यमित्यभिप्रायः । Vउत अपि च अमृतत्वस्य
देवत्वस्य अयम् ईशानः स्वामी । यत् यस्मात्कारणात् अन्नेन प्राणिनां भोग्येनानेन निमित्त
भूतेन' अतिरोहति स्वकीयां कारणावस्थामतिक्रम्य परिदृश्यमानां जगदवस्थां प्राप्नोति तस्मात्प्राणिनां
कर्मफलभोगाय जगदवस्थास्वीकारानेदं तस्य वस्तुस्वमित्यर्थः ॥</p>
<lg>
  <l>ए॒तावा॑नस्य महि॒मातो॒ ज्यायो॑श्च॒ पूरु॑षः ।</l>
  <l>पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ वि॒पाद॑स्या॒मृते॑ दि॒वि ॥ ३ ॥</l>
</lg>
<p>ए॒तावा॑न्। अस्य॒। म॒हि॒मा । अत॑ः । ज्याया॑न् । च॒ । पुरु॑षः ।</p>
<p>पादः
: । अ॒स्य॒ । वि॑िश्वा॑ । भू॒तानि॑ । त्र॒ऽपात् । अ॒स्य॒ । अ॒मृत॑म् । दि॒वि ॥ ३ ॥
अतीतानात वर्तमानरूपं जगद्यावदस्ति Vएतावान् सर्वोऽपि अस्य पुरुषस्य महिमा
स्वकीयसामर्थ्यविशेषः । न तु तस्य वास्तवस्वरूपम् । वास्तवस्तु पुरुष: अतः महिन्नोऽपि ज्यायान्
अतिशयेनाधिकः । एतच्चोभयं स्पष्टीक्रियते । अस्य पुरुषस्य विश्वा सर्वाणि भूतानि कालत्रयवर्तीनि
प्राणिजातानि पाद: चतुर्थोऽशः । अस्य पुरुषस्य अवशिष्टं त्रिपात् स्वरूपम् अमृतं विनाशरहितं
सत् दिवि द्योतनात्मके स्वप्रकाशस्वरूपे व्यवतिष्ठत इति शेषः । यद्यपि 'सत्यं शाममनन्तं ब्रह्म
(तै. आ. ८.१; तै. उ. २.१ ) इत्याम्नातस्य परब्रह्मण इयत्ताभावात् पादचतुष्टयं निरूपयितुमशक्यं
तथापि जगदिदं ब्रह्मस्वरूपापेक्षयाल्पमिति विवक्षितत्वात् पादत्वोपन्यासः ॥
></p>
<note>१. त१.२.३.६.७.८-भ- 'पुरुषः' नास्ति । २. त१.२.३-भ२.७.८ - प्राणिदेवाः । ३. त-भ-मु-</note>
<p>अनेन भोग्येन । ४. त१.२.३.६.७.८-भ-मु- निमित्तन । ५० गत - वस्तुतत्त्व मित्यर्थः । ६. त-भ- चतुर्थो-
शश्च । ७. गत४.५ मु- इयत्ताया अभावात्; त२.३.६.७.८ - भ४.८ - इयत्ता अभावात् ।</p>
<pb n="3" />
<p>ऋग्वेदः
[ अ. ८. अ. ४. ब. १८</p>
<lg>
  <l>त्रि॒पादूर्ध्व उद॒त्पुरु॑ष॒ः पादो॑ऽस्ये॒हाभ॑व॒त् पुन॑ः ।</l>
  <l>ततो॒ विष्व॒ङ् व्य॑क्रामत्साशनानश॒ने अ॒भि ॥ ४ ॥</l>
</lg>
<p>त्रि॒ऽपात् । ऊर्ध्वः । उत् । ए॒त् । पुरु॑षः । पाद॑ः । अ॒स्य॒ । इ॒ह । अभवत् । पुन॒रति॑ ।
तत॑ः । विष्व॑ङ् । वि । अ॒क्रम॒त् । स॒शना॒न॒श॒ने॒ इति॑ । अ॒भि ॥ ४ ॥</p>
<p>योऽयं त्रिपात् पुरुषः संसाररहितो' ब्रह्मस्वरूपः सोऽयम् ऊर्ध्वं Vउदैत् अस्मादज्ञान-
कार्यात्संसाराद्वहिर्भूतोऽत्रस्यैर्गुण दोपरस्पृष्ट उत्कर्पेण स्थितवान् । तस्य अस्य सोऽयं Vवादः लेशः
सोऽयम् Vइह मायायां पुनः अभवत् सृष्टिसंहाराभ्यां पुनःपुनरागच्छति । अस्य सर्वस्य जगतः
परमात्मलेशत्वं भगवताप्युक्तं -' विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ' ( भ.गी. १०. ४२ )
इति । Vततः मायायामागस्थानन्तरं विष्वङ् देवमनुष्यतिर्यगादिरूपेण विविधः सन् Vव्यक्रामत्
व्याप्तवान् । किं कृत्वा । साशनानशने अभिलक्ष्य । साशनं भोजनादिव्यवहारोपेतं चेतनं प्राणि-
जातम्' अनशनं तद्रहितमचेतनं गिरिनधादिकम् । तदुभयं यथा स्यात्तथा स्वयमेव विविधो
भूरवा व्याप्तवानित्यर्थः ॥</p>
<lg>
  <l>तस्मा॑द्वराळजायत वि॒राजो॒ अधि॒ पूरु॑षः ।</l>
  <l>स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥ ५ ॥</l>
</lg>
<p>तस्मा॑त् । वि॒ऽराट् । अ॒जाय । वि॒ऽराज॑ः । अधि॑ । पुरु॑षः ।
सः । जा॒तः । अति॑ । अ॒ष्यत । प॒श्चात् । भूमि॑म् । अथो॒ इति॑ । पुरः ॥ ५ ॥
।
विश्व व्यक्रामदिति यदुक्तं तदेवात्र प्रपञ्च्यते । तस्मात् आदिपुरुषात् विराट् ब्रह्माण्डदेहः
Vअजायत उत्पन्नः । विविधानि राजन्ते वस्तून्यत्रेति' विराट् । विराजोऽधि विराड्देहस्योपरि
तमेव देहमधिकरणं कृत्वा पुरुषः तदेहाभिमानी कश्चित् पुमान् अजायत । सोऽयं सर्ववेदान्तवेद्यः
परमात्मा स्वयमेव स्वकीयया मायया विराड्देहं ब्रह्माण्डरूपं सृष्ट्वा तत्र जीवरूपेण प्रविश्य
ब्रह्माण्डाभिमानी देवतात्मा जीवोऽभवत् । एतच्चाथर्वणिका उत्तरतापनीये विस्पष्टमामनन्ति - ' स वा
एप भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते माययैव '
( नृ. ता. २. १. ९ ) इति । स जात: विराट् पुरुषः अस्यरिच्यत अतिरिक्तोऽभूत् । विराड़-
व्यतिरिक्तो देवतिर्थङ्मनुष्यादिरूपोऽभूत् । पश्चात् देवादिजीवभावादूर्ध्वं भूमि ससर्जेति शेषः ।
Vअथो भूमिसृष्टेरनन्तरं तेषां जीवानां पुरः ससर्ज । पूर्यन्ते सप्तभिर्धातुभिरिति पुरः शरीराणि ॥॥१७॥</p>
<lg>
  <l>यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।</l>
  <l>व॒स॒न्तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्धविः ॥ ६ ॥</l>
</lg>
<p>यत् । पुरु॑षेण । ह॒विषा॑ । दे॒वाः । य॒ज्ञम् । अत॑न्वत ।
वस॒न्तः । अ॒स्य॒ । आ॒सी॑त् । आज्य॑म् । ग्री॒ष्मः । इ॒ध्मः । शरत् । ह॒विः ॥ ६ ॥</p>
<note>१. ग-ज-भ४-मु-संसारस्पर्शरहितो । २. ग-त१.२.३.६.७. ८-भ- बहुलस्वरूपः । ३. ग-तस्य</note>
<p>योर्यं; त-भ४.७–तस्य सोयं । ४. त-भ- देवतिर्यगादिरूपेण । ५. त-मु-प्राणिजातं लक्ष्यते । ६. ग
त४.५-भ-विविधं । ७. ६ - भ८ - वसून्यत्रेति । ८. त-भ- स एव ।</p>
<pb n="4" />
<p>म. १०. अ. ७. सू. ९०]
अष्टमोऽष्टकः</p>
<p>यत् यदा पूर्वोतक्रमेणैव शरीरेपूत्पन्नेषु सत्सु देवा: उत्तरसृष्टिसिद्धयर्थं बाह्यद्रव्यस्थानु-
त्पन्नध्वेन हविरन्तरासंभवात् पुरुषस्वरूपमेव मनसा हविष्वेन संकल्प्य Vपुरुषेण पुरुषाख्येन हविषा
मानसं यज्ञम् अतन्वत अन्वतिष्ठन् तदानीम् अस्य यज्ञस्य Vवसन्तः वसन्तर्तुरेव आज्यम्
Vआसीत् अभूत् । तमेवाज्यत्वेन संकल्पितवन्त इत्यर्थः । एवं ग्रीप्स इध्मः आसीत् । तमेवेध्मध्वेन
संकल्पितवन्त इत्यर्थः । तथा Vशरद्वविः आसीत् । तामेव पुरोडाशादिहविष्वन संकल्पितवन्त
इत्यर्थः । पूर्व पुरुषस्य हवि: सामान्य रूपत्वेन संकल्पः । अनन्तरं वसन्तादीनामाज्यादिविशेष-
रूपत्वेन संकल्प इति द्रष्टव्यम् ॥</p>
<lg>
  <l>तं य॒ज्ञं बर्हिषि प्रौक्षन् पुरु॑षं जा॒तम॑ग्रतः ।</l>
  <l>तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ॥ ७॥</l>
</lg>
<p>तम् । य॒ज्ञम् । ब॒र्हिषि॑ । प्र । औक्षन् । पुरु॑षम् । जातम् । अग्रतः ।
तेन॑ । दे॒वाः । अ॒यजन्त॒ । स॒ध्याः । ऋष॑यः । च॒ । ये ॥ ७ ॥
V
यज्ञं यज्ञसाधनभूतं तं पुरुषं पशुत्वभावनया' यूपे बद्धं बर्हिषि मानसे यज्ञे प्रौक्षन्
प्रोक्षितवन्तः । कीदृशमियाह । अग्रत: सर्वसृष्टेः पूर्वं पुरुषं जातं पुरुषत्वेनोत्पन्नम् । एतच्च
प्रागेवोकं 'तस्माद्विराळजायत विराजो अधि पूरुषः इति । तेन पुरुपरूपेण पशुना देवा
अयजन्त । मानसयागं निष्पादितवन्त इत्यर्थः । के ते देवा इत्यवाह । साध्या: सृष्टिसाधनयोग्याः
प्रजापतिप्रभृतयः तदनुकूला: Vऋपयः मन्त्रद्रष्टारः च ये सन्ति । ते सर्वेऽप्ययजन्तेत्यर्थः ॥</p>
<lg>
  <l>तस्मा॑य॒ज्ञात् स॑र्व॒हुत॒ः संभृ॑तं पृषदा॒ज्यम् ।</l>
  <l>प॒शून् ताँच॑क्रे वाय॒व्या॑नार॒ण्यान् ग्रा॒म्याश्च॒ ये ॥ ८ ॥</l>
</lg>
<p>तस्मा॑त् । य॒ज्ञात् । स॒र्व॒ऽहु॒वः॑ । सम॒ऽभृ॑तम् । पृ॒प॒त्ऽआ॒ज्यम् ।
प॒शून् । तान्। चक्रे । वाय॒त्र्या॑न् । आ॒र॒ण्यान् । प्रा॒म्याः । च॒ ।
ये ॥ ८ ॥
सर्वहुतः । सर्वात्मकः पुरुषः यस्मिन् यज्ञे हूयते सोऽयं सर्वहुत् । तादृशात् तस्मात्
पूर्वोक्तात् मानसात् यज्ञात् पृपदाज्यं दधिमिश्रमाज्यं संभृतं संपादितम् । दधि चाज्यं चेत्येव-
मादिभोग्यजातं सर्व संपादिनमित्यर्थः । तथा Vवायव्यान् वायुदेवताकाल्लोकप्रसिद्वान् आरण्यान्
पशून चक्रे उत्पादितवान् । आरण्या हरिणादयः । तथा ये vच 'ग्राम्या: गवाश्वादयः तानपि
चक्रे । पशूनामन्त्ररिक्षद्वारा वायुदेवस्यत्वं यजुर्ब्राह्मणे समाम्नायते – 'वायवः स्थेत्याह वायुर्वा
अन्तरिक्षस्याध्यक्षाः । अन्तरिक्षदेवत्याः खलु वै पशवः । वायव एवैनान्परिददाति ' (तं. ब्रा.</p>
<note>३. २. १. ३ ) इति ॥</note>
<lg>
  <l>तस्मा॑य॒ज्ञात् स॑र्व॒हुत॒ ऋच॒ः सामा॑नि जज्ञिरे ।</l>
  <l>छन्दांसि जज्ञिरे तस्मा॒द्यजुस्तस्मा॑दजायत ॥ ९ ॥</l>
</lg>
<p>तस्मा॑त् । य॒ज्ञात् । स॒र्व॒ऽहुत॑ः । ऋच॑ः । सामा॑नि । जज्ञिरे ।
छन्दा॑सि । जज्ञिरे । तस्मा॑त् । यजुः । तस्मा॑त् । अजायत ॥ ९ ॥</p>
<note>१. त१.२.३.४.५.६. ७-भ८- क्रमेण देवशरीरे । २. त-भ-तमेव । ३. तमु एवं । ४. ग-</note>
<p>'माज्या दिरूप विशेषत्वेन । ५. तपशुत्वभावाय; भ७ - पशुत्वभावनाय ।</p>
<pb n="5" />
<p>ऋग्वेदः
[ अ. ८. अ. ४. व. १९
सर्वहुतः तस्मात् पूर्वोक्तात् यज्ञात् ऋचः सामानि च जज्ञिरे उत्पन्नाः । तस्मात्
यज्ञात् छन्दांसि गायत्र्यादीनि जज्ञिरे । Vतस्मात् यज्ञात् यजुः अपि अजायत ॥</p>
<lg>
  <l>तस्मा॒दश्वा॑ अजायन्त॒ ये के च॑ज॒याद॑तः ।</l>
  <l>गावो॑ ह जज्ञिरे॒ तस्मा॒त् तस्मा॑ज्जा॒ता अ॑जा॒वय॑ः ॥ १० ॥</l>
</lg>
<p>तस्मा॑त् । अश्वा॑ । अ॒जा॒य॒न्त॒ । ये । के । च॒ । उ॒भ॒याद॑तः ।
गावः॑ । ह । जज्ञिरे । तस्मा॑त् । तस्मा॑त् । जा॒ताः । अ॒जा॒वय॑ः ॥ १० ॥
Vतस्मात् पूर्वोक्ताद्यज्ञात् अश्वा अजायन्त उत्पन्नाः । तथा ये Vके vच अश्वव्यतिरिक्ता
गर्दभा अश्वतराश्च उभयादतः ऊर्ध्वाधोभागयोरुभयोः दन्तयुक्ताः सन्ति तेऽप्यजायन्त । तथा
Vतस्मात् यज्ञात् Vगावः च जज्ञिरे । किंच तस्मात् यज्ञात् अजावयः च जाताः ॥ ॥ १८ ॥</p>
<lg>
  <l>यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् ।</l>
  <l>मुखं किम॑स्य॒ कौ बाहू का ऊरू पार्दा उच्येते ॥ ११ ॥</l>
</lg>
<p>यत । पुरु॑पम् । वि । अद॑धुः । क॒ति॒धा । वि। अकल्पयन् ।
।
मुग्व॑म् । किम् । अस्य॒ । कौ । बाहू इति॑ । काँ। ऊरू इति॑ । पादौ । उ॒च्येते॒ इति॑ ॥ ११ ॥
।
प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुं ब्रह्मवादिनां प्रश्ना उच्यन्ते । प्रजापते: प्राणरूपा देवाः
Vयत् यदा पुरुष विराडूपं Vव्यदधुः संकल्पेनोत्पादितवन्तः तदानीं कतिधा कतिभिः प्रकारैः
Vव्यकल्पयन् विविधं कल्पितवन्तः । अस्य पुरुषस्य Vमुखं किम् आसीत् । को बाहू अभूताम्
Vका Vऊरू । कौ च पादावुच्येते । प्रथमं सामान्यरूपः प्रश्नः पश्चात् मुखं किमित्यादिना विशेष-
विषयाः प्रश्नाः ॥</p>
<lg>
  <l>ब्राह्मणो॑ऽस्य॒ मुर्खमासीहू रा॑ज॒न्य॑ः कृतः ।</l>
  <l>ऊ॒रू तद॑स्य॒ यद्वैश्य॑ प॒द्भ्यां॑ शू॒द्रो अ॑जाय ॥ १२ ॥</l>
</lg>
<p>ब्रह्म॒णः । अ॒स्य॒ । मुग्व॑म् । आ॒सीत् । ब॒हू इति॑ । राजन्य॑ः । कृ॒तः ।
ऊ॒रू इति॑ । तत् । अ॒स्य॒ । यत् । वैश्यः॑ः । प॒त्ऽभ्याम् । शुद्रः । अ॒यत ॥ १२ ॥
इदानीं पूर्वोक्तानां प्रश्नानामुत्तराणि दर्शयति । अस्य प्रजापतेः ब्राह्मणः ब्राह्मणत्वजातिविशिष्टः
पुरुषः मुखमासीत् मुखानुत्पन्न इत्यर्थः । योऽयं राजन्यः क्षत्रियध्वजातिमान् पुरुषः सः Vबाहू
vकृत: बाहुत्वेन निष्पादितः । बाहुभ्यामुत्पादित इत्यर्थः । तत् तदानीम् अस्य प्रजापतेः यत् यौ
Vऊरू तद्रूपः
Vवैश्य संपन्नः । ऊरुभ्यामुत्पन्न इत्यर्थः । तथास्य पद्धयां पादाभ्यां Vशूद्रः
जातिमान् पुरुषः अजायत । इयं च मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिर्यजुःसंहितायां सप्तमकाण्डे
मुखतस्त्रिवृतं निरमिमीत ' ( तै. सं. ७. १. १. ४ ) इत्यादौ विस्पष्टमानाता । अतः प्रश्नोत्तरे उभे
अपि तत्परतयैव योजनीये ॥
:
शूद्रश्व-
स</p>
<note>१. त१.२.६.७ – तस्मादप्यजायत । २. त–कालेनोत्पादितवंतः । ३. त- 'किम्... मुखं' नास्ति ।</note>
<note>४. त-मु–क्षत्रियत्वजातिविशिष्टः । ५. ग-भ२ - तत्परेणैव; त१.३.४.५.६.८ - तत्परेनैव; त७-मु-तत्परत्वे-</note>
<p>नैव ।</p>
<pb n="6" />
<p>अष्टमोऽष्टकः</p>
<lg>
  <l>च॒न्द्रमा॒ मन॑सो जा॒तश्चः सूर्यो अजायत ।</l>
  <l>मुख॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥ १३ ॥</l>
</lg>
<p>चन्द्रमा॑ः । मन॑सः । जातः । चक्षौः । सूर्यः । अजायत ।
मुखा॑त् । इन्द्र॑ः । च॒ । अ॒ग्निः । च । प्रा॒णात् । वा॒युः । अजायत ॥ १३ ॥
म. १०. अ. ७, सू ९० ]
यथा दध्याज्यादिद्रव्याणि गवादयः पशव ऋगादिवेदा ब्राह्मणादयो मनुष्याश्च तस्मादुरपन्ना
एवं चन्द्रादयो देवा अपि तस्मादेवोत्पन्ना इत्याह । प्रजापतेः मनसः सकाशात् चन्द्रमाः जातः ।
Vवक्षोः च चक्षुषः सूर्यः अपि अजायत । अस्य मुखादिन्द्रश्चाग्निश्च देवावुत्पन्नौ । अस्य प्राणा-
द्वायुरजायत ॥
नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒र्णो द्यौः सम॑वर्तत 1
प॒द्भ्या॑ भूमि॒दि॑श॒ श्रोत्र॒त्तथा॑ लो॒काँ अ॑कल्पयन् ॥ १४ ॥
नाभ्या॑ः । आ॒सी॒त् । अ॒न्तरि॑क्षम् । शी॒र्ष्णः । द्यौः । सम् । अत्रर्तत ।
प॒त्ऽभ्याम्। भूमि॑ । दिश॑ः । श्रोत्रा॑त् । तथा॑ । लो॒कान् । अकल्पयन् ॥ १४ ॥</p>
<p>यथा चन्द्रादीन् प्रजापतेर्भनःप्रभृतिभ्योऽकल्पयन् तथा अन्तरिक्षादीन् 'लोकान् प्रजापतेः
नाभ्यादिभ्यो देवाः' अकल्पयन् उत्पादितवन्तः । एतदेव दर्शयति । नाभ्याः प्रजापतेर्नाभेः
अन्तरिक्षमासीत् । शीर्णः शिरसः द्यौः समवर्तत उत्पन्ना। अस्य पद्भ्यां पादाभ्यां भूमिः
उत्पन्ना । अस्य श्रोत्रात् दिशः उत्पन्नाः ॥</p>
<lg>
  <l>स॒प्तास्या॑सन् परि॒धय॒स्त्रिः स॒प्त स॒मिध॑ः कृ॒ताः ।</l>
  <l>दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध॒न्॒ पुरु॑षं प॒शुम् ॥ १५ ॥</l>
</lg>
<p>स॒प्त । अ॒स्य॒ । आ॒स॒न्। प॒रंऽधय॑ः । त्रिः । स॒प्त । स॒म्ऽइध॑ः । कृ॒ताः ।
दे॒वाः । यत् । य॒ज्ञम् । त॒न्वा॒नाः । अब॑नन् । पुरु॑पम् । प॒शुम् ॥ १५ ॥
"
"
vअस्य सांकल्पिकयज्ञस्य गायत्र्यादीनि सप्त छन्दांसि परिधय: आसन् । ऐष्टिकस्याहव
नीयस्थ त्रयः परिधय तरवेदिकास्त्रय आदित्यश्च सप्तमः परिधिप्रतिनिधिरूपः । अत एवाम्नायते-
न पुरस्तात्परि दधान्यादित्यो ह्येवोद्यन् पुरस्ताद्रक्षांस्य पहन्ति ' ( तै. सं. २.६.६.३ ) इति । तत
एत आदिस्यसहिताः सप्त परिधयोऽत्र सप्त छन्दोरूपाः । तथा समिधः त्रिः सप्त त्रिगुणीकृतसप्त-
संख्याकाः एकविंशतिः कृताः । द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादिस्य एकविंशः '
(तै. सं. ५.१.१०.३) इति श्रुताः पदार्था एकविंशतिदारुयुक्ते ध्मत्वेन भाविताः । यत् यः पुरुषो
वैराजोऽस्ति तं पुरुषं देवाः प्रजापतिप्राणेन्द्रियरूपा: यज्ञं Vतन्वानाः मानसं यज्ञं तन्वानाः
कुर्वाणाः Vपशुम् 'अबध्नन् विराट्पुरुषमेव पशुस्वेन भावितवन्तः । एतदेवाभिप्रेत्य पूर्वत्र ' या पुरुषेण
हविया ' इत्युक्तम् ॥</p>
<note>१. त-भ२.४.६.८-प्रजापतेर्मनःप्रभृतयो; भ७ प्रजापतेर्मनसःप्रभृतयो । २. त१-२-६-नाभ्या</note>
<p>दयो देवा अवयवा; त३. ७ - नाभ्यदयोवयवा; त८-भ-नाभ्यादयो देवा । ३. त-सांकल्पिकस्य यशस्य ।</p>
<pb n="7" />
<p>ऋग्वेदः</p>
<lg>
  <l>य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्म॑णि प्रथ॒मान्या॑सन् ।</l>
  <l>ते ह॒ नाकं महि॒मानः सचन्त॒ यत्र॒ पूर्वे॑ स॒ध्याः सन्ति दे॒वाः ॥ १६ ॥</l>
</lg>
<p>यज्ञेन॑ य॒ज्ञम् । अयजन्त॒ । दे॒वाः । तानि॑ । धर्माणि । प्रथ॒मानि॑ । आसन् ।
ते । ह॒ । नाक॑म् । म॒हि॒मान॑ः । स॒च॒न्त॒ । यत्र॑ । पूर्वे॑ । स॒ध्याः । सन्ति । दे॒वाः ॥ १६ ॥</p>
<p>[ अ. ८. अ. ४. व. २०
पूर्वं प्रपञ्जेनोकमर्थं संक्षिप्यात्र दर्शयति । देवाः प्रजापतिप्राणरूपाः यज्ञेन यथोक्तेन मानसेन
संकल्पेन यज्ञं यथोक्तयज्ञस्वरूपं प्रजापतिम् अयजन्त पूजितवन्तः । तस्मात्पूजनात तानि
प्रसिद्वामि धर्माणि जगदूपविकाराणां धारकाणि प्रथमानि मुख्यानि आसन् । एतावता सृष्टिप्रति-
पादकसूक्तभागार्थः संगृहीतः । अथोपासनतत्फलानुवादकभागार्थः संगृह्यते । यत्र यस्मिन् विराट्
प्राप्तिरूपे नाके पूर्व साध्या: पुरातना विराडुपास्तिसाधकाः 'देवाः सन्ति तिष्ठन्ति तत् नाकं
विराप्राप्तिरूपं स्वर्ग ते महिमानः तदुपासका महात्मानः सचन्त समवयन्ति प्राप्नुवन्ति ॥
॥ १९ ॥
अष्टमेऽनुवाके नव सूक्तानि । 'सं जागृवद्भिः' इति पञ्चदशचं प्रथमं मूकं वीतहव्यपुत्रस्या-
रु॒णनाम्न आर्षमग्निदेवत्यम् । अन्त्या त्रिष्टुप् शिष्टा जगत्यः । तथा चानुक्रान्तं – 'सं जागृवद्भिः
पञ्चोनाणो वैतहव्य आग्नेयम्' इति । प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दसीदं सूक्तम् । सूत्रितं च---
'मं जागृवद्भिश्चित्र इच्छिशोर्वसुं न चित्रमहसमिति जागतम्' ( आश्व. श्री. ४. १३ ) इति ॥</p>
<lg>
  <l>सं जा॑ग॒वद्ध॒र्जर॑माण इध्यते॒ दमे॒ दम॑ना इ॒षय॑नि॒ळस्प॒दे ।</l>
  <l>विश्व॑स्य॒ होता॑ ह॒विषो॒ वरे॑ण्यो वि॒भुवि॒भावा॑ स॒पख सखीय॒ते ॥ १ ॥</l>
</lg>
<p>सम्। जा॒ग॒वत॒ऽभिः॑ि। जर॑माणः । इ॒ध्य॒ते॒ । दमे॑ । दमू॑नाः । इ॒पय॑न् । इ॒ळः । प॒दे ।
विश्व॑स्य । होता॑। ह॒विष॑ः । वरे॑ण्यः । वि॒ऽभुः । वि॒भाऽवा॑ । सु॒ऽसखा॑ । स॒ग्नि॒ऽय॒ते ॥ १ ॥
हे अने जागृवद्भिः जागरणशीलै: स्नोतृभिः 'जरमाणः स्तूयमानः दमूना: दममना दानमना
दान्तमना वा इळः इळाया: 'पदे स्थाने उत्तरवेद्याम् Vइपयन् अन्नमिच्छन् विश्वस्य सर्वस्य हविषः
होता Vवरेण्यः वरणीयः विभुः व्याप्तः विभावा दीप्तिमान् सुपखा शोभनसखा भवान् सखी-
यते सखित्वमिच्छते यजमानाय सम् इध्यते सम्यग्दीप्यते ॥</p>
<lg>
  <l>स द॑श॑त॒श्रीरति॑थिर्गृहेगृ॑ह॒ वने॑वने शश्रिये तक॒वीरि॑व ।</l>
  <l>जने॑जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षैति वि॒श्यो॒ विशँविशम् ॥ २ ॥</l>
</lg>
<p>सः । दुर्शत॒ऽश्रीः । अति॑थिः । गृहेऽर्गृहे । वने॑ऽवने । शि॒श्रिये । त॒क्क॒वीःऽइ॑व ।
जन॑म्ऽ जनम् ।
।
।
ज॒न्य॑ः । न । अति॑। मन्यते । विश॑ । आ । क्षेति॒ । विश्यः । विशेम्ऽविशम् ॥ २ ॥
Vदर्शतश्री: दर्शनीयविभूतिः अतिथिः अतिथिभूतः सः अग्निः गृहेगृहे यजमानानां गृहेषु
Vवनेवने सर्वेषु बनेषु च शिश्रिये श्रयति । किंच Vजन्य: जनहितः सोऽग्निः Vजनंजनं सर्व जनं</p>
<note>१. त मुख्यानि भूतानि । २. गत३.४.५.६ मु-' अतिथिः ' नास्ति । ३० गत४ - वृक्षेषु; त१.</note>
<p>२-३.५.६.८-भ२.४.८ - वृद्धेषु । ४ गत भ२.४.५.८ - जातं ।</p>
</body>
</text>
</TEI>